१८

अथाष्टादशः पटलः ।

अथोदितविशेषतस्त्रिपुरहंसवागीश्वरी
सबिन्दुगगनं भृगुः पृथगुपोढबालाक्षरैः ।
इयं भुवनमोहिनी भवति विश्ववाग्भूतये
मुनिस्तु कमलासनस्तदनु चोष्णिगुक्ता च वाक् ॥ १८-१ ॥

मुखे नयननासयोरधरवक्त्रवृत्ते च के
श्रवस्यपरके मुखे च हृदयेऽपि नाभौ क्रमात् ।
न्यसेदखिलविग्रहे शिरसि चेति बिन्दुस्वरान्

ॐ हं सः कं खं गं घं ङं हृदयाय नमः । ॐ हं सः चं छं जं झं ञ शिरसे ठठ । ॐ हं सः टं ठं डं ढं णं शिखायै वषट् । ॐ हं सः तं थं दं धं नं कवचाय हुम् । ॐ हं सः पं फं बं भं मम् अस्त्राय फट् ।

इहाङ्गरचनोदिता भवति बद्धदिग् यादिभिः ॥ १८-२ ॥

निजाङ्गमनुमूलतः स्नपितविग्रहेष्टासनः
पयोनिधिपुरक्षितौ स्मरत दिव्यसिद्धाश्रमम् ।
शशाङ्कमणिमण्डपे रजततारसिंहासने
महाम्बुरुहमुल्लसत्त्रिगुणमेरुसत्कर्णिकम् ॥ १८-३ ॥

मेरुरूपायै कर्णिकायै नमः ।

नमोऽन्तमथ केसरान् कुलगिरीन्द्रतत्त्वात् यजेत्
कुलपर्वतात्मकेभ्यः केसरेभ्यो नमो नमः ।
तथैव जगतीच्छदैः प्रथितवर्षशैलात्मकान् ।
वर्षपर्वतात्मकेभ्यो दलेभ्यो नमो नमः ।
बहिर्धरणिमण्डलं जलनिधींश्च सप्तार्चयेत्
तथैव दिशि चण्डिकां गणपतिं गुरुं क्षेत्रपम् ॥ १८-४ ॥

निजाङ्गवृतिरादितस्तु पुरतोऽथ रुद्रोऽम्बुजे
तथोपरि चतुर्मुखः कमलगस्त्वधो वासुकिः ।
दिवाकरनिशाकारावुपरि दीपकृत्यौ पुरः
सरोजजलजाह्वयौ निधिवरौ धनस्राविणौ ॥ १८-५ ॥

शशाङ्कमणिपाण्डरां वरददक्षिणाक्षस्रजं
प्रसव्यधृतवल्लकीं विधृतपुस्तकां त्रीक्षणाम् ।
जटामकुटचन्द्रिणीममलहारमाल्यादिकां
पराममृतविग्रहां नमत हंसवागीश्वरीम् ॥ १८-६ ॥

तदम्बुरुहकर्णिकासुखनिविष्टदिव्याकृतिं
विचिन्त्य निजमूर्धनि स्फुटसरोजचन्द्रामृतैः ।
प्रसिञ्चदमलप्रभामथ तदर्घ्यतोयोक्षितैः
सुगन्धिकुसुमादिकैर्यजतु चोपचारैर्धिया ॥ १८-७ ॥

ऐरावताय नमः । पुण्डरीकाय नमः । कुमुदाय नमः । अञ्जनाय नमः । वामनाय नमः । पुष्पदन्ताय नमः । सार्वभौमाय नमः । सुप्रतीकाय नमः ।

यजेदिति दिशागजान् शतमखादिदिक्षु स्थितान्

धराय नमः । ध्रुवाय नमः । सोमाय नमः । आपाय नमः । अनिलाय नमः । अनलाय नमः । प्रत्यूषाय नमः । प्रभासाय नमः । इत्यष्ट वसून् ।
अजैकपादे नमः । अहिर्बुध्नये नमः । विरूपाक्षाय नमः । रैवताय नमः । त्र्यम्बकाय नमः । पिनाकिने नमः । भवनाय नमः । ईश्वराय नमः । कपालिने नमः । स्थावणे नमः । भवाय नमः । इत्येकादश रुद्रान् ।
धात्रे नमः । अर्यम्णे नमः । मित्राय नमः । वरुणाय नमः । अंशाय नमः । भगाय नमः । इन्द्राय नमः । विवस्वते नमः । पूष्णे नमः । पर्जन्याय नमः । त्वष्ट्रे नमः । विष्णवे नमः । इति द्वादशादित्यान् ।
क्रतवे नमः । दक्षाय नमः । सुधाय नमः । स्तव्याय नमः । कालाय नमः । कामाय नमः । धुनये नमः । कुरुमते नमः । मधुमते नमः । रोचनामाय नमः । इति दश विश्वेदेवान् ।

वसून् सुरपतौ यमे त्रिनयनान् जले भास्करान् ।
शशाङ्कदिशि विश्वकान् यजतु चाथ लोकाधिपां-
स्तदस्त्रमयदेवताः प्रणवनामहृत्पूर्वकम् ॥ १८-८ ॥

गन्धादिभिर्यजेदिति यावत् ।

त्रतोचितमिताशनो धवलगन्धमाल्याम्बरः
पुरश्चरणकं जपेत् तरणिलक्षमक्षस्रजा ।
पलाशकुसुमैः सितैः सरसिजैश्च जात्युत्पलैः
सुगन्धिनवसर्पिषा च जुहुयात् तु लक्षं पृथक् ॥ १८-९ ॥

ततः सकलसिद्धिभाग् भवति सिद्धवागीश्वरः
स साधकवरः स्फुटं त्रिभुवनैकसम्पत्पदम् ।
जपेत् प्रतिदिनं तथा घृतपयोहुतं शक्तितो
निजैक्यमभिचिन्त्य तां विजयते ह वादे परान् ॥ १८-१० ॥

प्रतप्तकनकप्रभां त्रिनयनां सपाशाङ्कुशां
सखड्गकुलिशाम्बुजां त्रिशिखवर्यहस्तां शिवाम् ।
धृताभयवरप्रदां स्मरतु राज्यलक्ष्म्याप्तये
स्मरेद् भुवनमोहिनीं भगवतीं जपापाटलाम् ॥ १८-११ ॥

निजैक्यमरुणत्विषं करयगक्वणद्वल्लकीं
सपाशमथ चाङ्कुशं कलशमक्षमालां करैः
विचित्रमणिभूषणां तु दधतीं गिरं चिन्तये-
ज्जपादिषु वशीकरं तदिदभिष्टमाकर्षयेत् ॥ १८-१२ ॥

श्रियं कमलबिल्वकैर्मधुरदुग्धसेकैस्तथा
नृपं च वशयेज्जनं कमलबन्धुजीवैर्हुतैः ।
स्त्रियं लवणतण्डुलैर्द्विजवरांश्च कुन्दोत्पलै-
र्विशोऽपि सगुलैस्तिलैर्मधुतिलैस्तु शूद्रादिकान् ॥ १८-१३ ॥

हुतैर्विषविभीतकैररिविनाशविद्वेषणं
समिद्भिरथ तद्दलैररिविकायसंस्तम्भनम् ।
भवेत् सविषराजिकैर्विषसमिद्धुतैर्मारणं
प्रचाटयतु राजिकैश्चरणपांसुयुक्तैर्द्विषः ॥ १८-१४ ॥

गलूचिशकलैः समै सुरभिदुग्धदूर्वाङ्कुरै-
र्हुतैस्तु सकलामयांस्तिलयुतैस्तु मृत्युं जयेत् ।
यदिष्टमिह मानसं तदखिलं जपध्यानतः
प्रसिध्यति निजैक्यतो यजतु हंसवागीश्वरीम् ॥ १८-१५ ॥

किमत्र बहुवर्णितैस्त्रिपुरया तु यत् साध्यते
यदिष्टमनयाप्यलं निखिलमश्नुते विद्यया ।
अतस्तु विनियोगतः खलु समानयुक्तं फलं
ननु त्रिभुवननोदरे न तदिहास्त्यसाध्यं द्वयोः ॥ १८-१६ ॥

हंसवागीश्वरीविधानम् ।

जलात्रिसलिलात्रयस्तदनु चापि वाग्वादिनी-
त्युदीर्य ठयुगान्वितो मनुरयं दशार्णो गिरः ।
ऋषिस्तु धिषणो भवेदपि परे तु कण्वं विदु-
र्विराजमपि देवतां विदुरथास्य वागीश्वरीम् ॥ १८-१७ ॥

ॐ हां वद ऋग्वेद हृदयाय नमः । ॐ हीं वद यजुर्वेद शिरसे स्वाहा । ॐ हूं वाक् सामवेद शिखायै वषट् । ॐ हैं वादिनि अथर्ववेद कवचाय हुम् । ॐ हौं षडङ्ग नेत्रत्रयाय वौषट् । ॐ हः इतिहासपुराणशास्त्र स्वाहा अस्त्राय फट् ।

षडङ्गमनवस्त्वमी गुरुवरेण सन्दीक्षितः
स्वकर्मकरणे रतो धवलगन्धमाल्याम्बरः ।
व्रतोचितमिताशनः कथितशस्तदेशासनः
पुरश्चरणसिद्धये जपतु पङ्क्तिलक्षं मनुम् ॥ १८-१८ ॥

मनोः प्रथममक्षरं हृदि निविष्टतारं न्यसेत्
कनासिकमुखानि दृग्गलकुचोरुजान्वङ्घ्रयः ।
तथोदरमुदीरितं नवममेषु शिष्टाक्षरं
न्यसेद्धृदयपङ्कजे पुनरपि न्यसेत् तारकम् ॥ १८-१९ ॥

शिरोनयनकर्णयोर्युगलके च नासापुटे
मुखे च हृदये क्रमाच्चरणयोर्दशार्णान् न्यसेत् ।
क्रमोऽयमपरो भवेद् रुचिरमेकमार्गं द्वयो-
स्ततोऽङ्गमनुभिर्न्यसेद् विहितहेतिदिग्बन्धनः ॥ १८-२० ॥

ॐ रक्ष मां दक्षिणामूर्तेः! वीरभद्र! नमोऽस्तु ते ।
त्वत्पादसेवान् रक्षत्वं सदास्मान् भक्तवत्सल! ॥ १८-२१ ॥

अनेन शयनासने गमनयोस्तथावश्यके
पुरो जपतु साधकः स्वतनुमन्त्ररक्षाकृते ।
द्युमध्यजलतर्पणादुषसि च भ्रमं नाशये-
न्मनोर्जपकृतः स चेच्छुचिरिहोत्तरः साधकः ॥ १८-२२ ॥

अथार्चनविधौ स्मरेद् धनददिङ्मुखः स्फाटिकं
पयोजलधिमध्यतः कमलषण्डगं मण्डपम् ।
हिरण्यहरिपीठगं विकसितं सितं मातृका-
सरोजमधिकर्णिकं स्फुटविकीर्णसत्केसरम् ॥ १८-२३ ॥

निजाङ्गकलितार्घ्यतो गगनपद्मचन्द्रामृतैः
स्वमस्तकमथाश्रयं यजनवस्तुजातं क्रमात् ।
निरीक्ष्य समवोक्ष्य तद् यमजलार्थनाथेन्द्रगा-
स्त्वचा मृगरिपोर्बृसीरुपरि पद्मसंस्थान् यजेत् ॥ १८-२४ ॥

क्रमेण चतुरस्त्विमान् प्रकृतवक्ष्यमाणाकृतीन्
सदक्षिणशिवं गुरुं तदनु कृत्तिवस्त्रं गणम् ।
शरच्छशधरद्युतिं त्रिनयनं जटामौलिकं
शशाङ्ककृतशेखरं कलितयोगपट्टासनम् ॥ १८-२५ ॥

अधो वटतरोर्वृतं मुनिभरेण टङ्कान्वितं
सबोधजपमालिकं नमत दक्षिणामूर्तिकम् ।
गुरुं परमकं गुरुं च परमेष्ठिसञ्ज्ञं गुरुं
स्वपूज्यगुरुमन्त्रतो गुरुमनन्तपूज्याह्वयम् ॥ १८-२६ ॥

समाधिनिरतानिमान् नमत शुक्लगन्धाम्बरान्
गणाष्टकविभावितान् सकलवेद्यपारङ्गतान् ।
कराहितकपालकत्रिशिखमिष्टमुद्रान्वितं
त्रिणेत्रमहिभूषणं गजतरक्षुचर्माम्बरम् ॥ १८-२७ ॥

परेतकमलासनं सुभटमुण्डमालाधरं
सुरासुरनुतं विभुं नमत भैरवं भूतये ।
जपारुणरुचिं विभुं गजमुखं प्रलम्बोदरं
सपाशमपि चाङ्कुशं दधतमात्मदन्तं फलम् ॥ १८-२८ ॥

शशाङ्ककृतशेखरं त्रिनयनं लसद्भूषणं
नतोऽस्मि गणनायकं गगनमूर्तिमिष्टप्रदम् ।
समाहितमनास्त्विमान् दुरितदुःखविघ्नापहान्
प्रणम्य कमलोदरे भगवतीं समावाहयेत् ॥ १८-२९ ॥

मृगाङ्कमणिचन्द्रिकाकुमुदषण्डकुन्दद्युतिं
शशाङ्कशकलोल्लसज्जटिलमौलिकां त्रीक्षणाम् ।
सिताम्बरविलेपनाममलहारहारिस्रजं
धृताभयविलेखिनीं वरदपुस्तकां भारतीम् ॥ १८-३० ॥

तथाङ्गमनुभिः क्रमाद् यजतु चोपचारैरिमां
विशुद्धगुलपायसं सघृतमस्तु नैवेद्यकम् ।
पटेऽथ फलकेऽथवा समभिलिख्य चित्रे जये-
न्न चेद् रुचिरपुस्तके लिखितपङ्कजे पूजयेत् ॥ १८-३१ ॥

खपङ्कजगतां तु वा सवितृबिम्बमध्येऽथवा
जलेऽपि निजवाञ्छया विभवसारसाम्यं यजेत् ।
निजाङ्गवृतिरादितस्तदनु शक्तिभिर्मातृभि-
स्तदाह्वयनमोन्तकं यजतु वक्ष्यमाणक्रमात् ॥ १८-३२ ॥

ॐ योगायै नमः । ॐ सत्यायै नमः । ॐ विमलायै नमः । ॐ बुद्धये नमः । ॐ स्मृतये नमः । ॐ मेधायै नमः । ॐ श्रद्धायै नमः ।

सपुस्तकजपस्रजो विमलहारमाल्योज्ज्वलाः
शशाङ्करुचिरप्रभाः प्रतिदलाग्रगाः शक्तयः ।

कृताञ्जलिकरद्वया जटिलमौलिचन्द्राङ्किताः
पुराभिहितमूर्तयः स्वसुरलक्षणा मातरः ॥ १८-३३ ॥

तृतीयवृतिगान् यजेत् कथितदक्षिणेशादिकां-
श्चतुर्थवृतिगान् बहिः शतमखादिलोकाधिपान् ।
तदस्त्रमयदेवतास्त्वथ यथावदन्त्यावृतौ
सुगन्धिकुसुमादिभिः समभिपूज्य मन्त्रं जपेत् ॥ १८-३४ ॥

जपं च यजनादिकं चुलुकवारिहस्तोऽर्पयेत्
गुह्यातिगुह्यगुप्तात्ममूर्तिस्त्वं परमेश्वरि! ।
गृहाणात्मकृतां पूजां जपाद्यं च फलाप्तये ॥ १८-३५ ॥

अनेन पदपद्मयोः सकलशक्तिमन्त्रार्चने ।
क्षमापयस्तु दैवतैर्यजनबिम्बतः खाम्बुजे
निरञ्जने! लयं गच्छ ठठ ।
नियोजयतु तां चितिं हृदयपद्मकोशेऽथवा ॥ १८-३६ ॥

स्पृशन् प्रतिदिनं मुखं निजकरेण तां चिन्तयेत्
त्रिसन्ध्यमपि तं जपन् भवति गद्यपद्यादिकृत् ।
सवामकरमन्त्रवान् कलितमुष्ट्यवष्टम्भनात्
परस्य वदने क्षिपन् सपदि तद्गिरः स्तम्भयेत् ॥ १८-३७ ॥

क्षणाच्छ्रुतधरो भवेच्छशधरद्युतिं षड्भुजां
वराभयजपावलीकमलकुम्भपुस्तान्विताम् ।
सितां त्रिनयनां सितैर्वसनमाल्यभूषादिभिः
स्मरन् भवति सर्वविल्ललितवेषतुङ्गस्तनीम् ॥ १८-३८ ॥

यथोक्तसुभुजाष्टकामथ निजैक्यवागीश्वरीं
चतुर्वदनपङ्कजां निजमुखे च तां चिन्तयन् ।
स्ववक्त्रमभिमन्त्रयन् विजयते ह वादे परां-
स्तदुक्तमनधीतवानपि च शास्त्रवेदान् वदेत् ॥ १८-३९ ॥

सितैः कुसुमपङ्कजैर्मधुरदुग्धसिक्तैर्हुता-
लभेत् कवितां तथा श्रियमपीह षण्मासतः ।

स मन्त्रतनुरादृतो दिनमुखे सहस्रं जपन्
भवेत् स खलु वत्सरात् सकलशास्त्रपारङ्गतः ॥ १८-४० ॥

दशोत्तरशतं जलं समभिमन्त्र्य काल्यं पिबे-
ज्जले हृदयमात्रके जपतु वा त्रिसाहस्रकम् ।
सहस्रमथवा जपेदुषसि मन्त्रसन्नाहितो
हुतैरपि च वत्सराद् भवति बिल्वकैः काव्यकृत् ॥ १८-४१ ॥

पलाशकुसुमैर्हुतैः प्रतिनवैः समिद्भिस्तु वा
लभेत कवितां तथा श्रियमपीह मालूरकैः ।
पिबेत् कमलजाह्वयाघृतमनेन वा मन्त्रितं
गृहे सितवचान्वितं सपदि यच्छ्रुतं धारयेत् ॥ १८-४२ ॥

किमत्र बहुभाषितैर्हि मनसोऽस्य यद् वाञ्छितं
तदस्ति नहि दुर्लभं त्रिभुवनोदरे विद्यया ।
जगद्विपदपाकृतिस्थितविभूतिकृत्येप्सया
भजत्यपि ह यां स्वयं कमलभूः कथं वर्ण्यते ॥ १८-४३ ॥

पलण्डुमपि गृञ्जनं तुषजलं रसोनं तथा
कलञ्जबृहदालुपज्जपहणिं तथाम्लातकम्
न भक्षयतु सिद्धये निशि तथैव ताम्बूलकं
दिवा न भजतु स्त्रियं भजति चेत् स वागीश्वरीम् ॥ १८-४४ ॥

दशाक्षरीवागीश्वरीविधानम् ।

पुरः प्रणवशक्तियुग् भवति सैव पङ्क्त्यक्षरा
जगद् वशयतीह या प्रथितसिद्धवागीश्वरी ।
पुरश्चरणकं जपेत् तरणिसङ्ख्यलक्षं पुनः
सगुग्गुलुपयोम्बुजैरपि सपादलक्षं हुतम् ॥ १८-४५ ॥

निजार्णयुगलैः पृथक् कथितमङ्गषट्कं क्रमाद्
विधानविनियोजनं सममिहापि पूर्वोदितैः ।
नमो भगवतीत्यथो पदयुगं च वाग्देवि ठ-
द्वयान्मनुरयं पुरः कथितकृत्यसिद्धिर्मतः ॥ १८-४६ ॥

प्रज्ञां मेधां श्रुतिं शक्तिं स्मृतिं वागीश्वरीं मतिम् ।
स्वस्ति चेति वदन्त्यन्ये शक्तिर्वागीश्वरीमनोः ॥ १८-४७ ॥

कदम्बगोलकाकृतिं हृदम्बुजे सरस्वतीं
पतङ्गबिम्बदीधितिं विचिन्तयेद् विमुक्तये ।
सपद्मबिन्दुमध्यगां शरच्छशाङ्करोचिषं
स्रवत्सुधारसप्लवां भवच्छिदं विभावयेत् ॥ १८-४८ ॥

गगनकमलपूर्णचन्द्रे सुधाप्रसरगलितवारिधाराः स्मरन् ।
उषसि च गिरमेष सन्तर्पयन् भवति विभवमेत्य वागीश्वरः ॥ १८-४९ ॥

इत्थं प्रोक्तं वागैश्वर्यान्मन्त्रेज्याद्यं सामान्यार्थम् ।
विज्ञायेष्टं वागैश्वर्यं विन्देल्लोके सामान्यार्थम् ॥ १८-५० ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे वागीश्वरीपटलोऽष्टादशः ॥ १८ ॥