१७

अथ सप्तदशः पटलः ।

वाग्भवं तदनु मन्मथबीजं सर्गवान् भृगुरनुग्रहयुक्तः ।
त्रैपुरो मनुरयं किल बालः कामधेनुरिव कामधुगुक्तः ॥ १७-१ ॥

विद्यावाग्भवकामराजकलिता ह्येषा सवागीश्वरी
त्रेताग्नित्रिजगत्त्रिमूर्तिसवनैर्वेदैर्गुणैः कारणैः ।
यद्वान्यत् त्रिविधं भवेत् त्रिपुरया वर्णत्रयाविष्कृतं
तज्ज्ञेयं त्रिपुरेतिनामविषया शक्तिः पराख्यायते ॥ १७-२ ॥

श्रीर्ब्रह्मा मुनिरस्य चोष्णिगुदिता छन्दः स्वयं देवता
वागीशीत्यपरे शिवं च कथयन्त्यन्ये तथा भैरवम् ।
पूर्णेन्दुद्युति वाग्भवाख्यमपरं यद् बन्धुजीवारुणं
प्रोत्फुल्लारुणकर्णिकाररुचिरं बीजं तृतीयं विदुः ॥ १७-३ ॥

तारं व्योम तथा भृगुश्च सकलो मन्त्रस्त्रिवर्णो ह्ययं
शेषाख्यस्त्रिपुरामनोस्तु रचयेदङ्गान्यनेन क्रमात् ।
स्वाभिर्जातिभिरन्वितान्यथ पुनः पाण्योः शरीरे न्यसेत्
कृत्वास्त्रान् करशुद्धिमङ्गुलिषु तद्वर्णानि चाङ्गानि च ॥ १७-४ ॥

ॐ हसौं कनिष्ठाङ्गुलये नमः । ॐ हसौम् अनामिकायै नमः । ॐ हसौं मध्यमायै नमः । ॐ हसौं तर्जन्यै नमः । ॐ हसौं ज्येष्ठाङ्गुलये नमः ।

विन्यस्याङ्गुलिषु क्रमेण करयोरेवं त्रिपर्वक्रमात्

ॐ हसौम् ऊर्ध्ववक्त्राय नमः । ॐ हसौं पूर्ववक्त्राय नमः । ॐ हसौं दक्षिणवक्त्राय नमः । ॐ हसौम् उत्तरवक्त्राय नमः । ॐ हसौं पश्चिमवक्त्राय नमः ।

इत्थं चाङ्गुलिभिर्मुखेष्वभिसृतैर्ज्येष्ठादिभिर्विन्यसेत् ।
मूलार्णान्वितशेषतश्चरणयोर्जान्वोरुपस्थे तथा
नाभौ हृद्गलतालुविन्दुषु पृथङ् मूर्धन्यपीत्थं न्यसेत् ॥ १७-५ ॥

विलोमतश्च-

कामरूपी कोल्लगिरिः सोपारोड्याणके तथा ।
मलयाद्रिः कुलान्तं च जालन्ध्रं देविकोट्टकम् ॥ १७-६ ॥

इत्यष्ट योगपीठानि ।

ब्राह्म्याद्याश्चण्डिकान्ताः पृथगिह कथिता मातरस्तत्र पूर्वं
दीर्घैर्युक्ताः स्वरैस्ताः शशधरशकलैर्ह्रस्वबिन्दुस्वरैस्ते ।
युक्ताः स्युश्चासिताङ्गो रुरुरथ कथितश्चण्डकः क्रोधनाह्व-
श्चोन्मत्तः स्यात् कपाली तदनु निगदितो भीषणः संहृतिश्च ॥ १७-७ ॥

शेषश्रीयुतपीठनाम च ततः पीठेति शब्दः स्वरो
दीर्घः स्यादथ मातृनामसहितं तत्तच्चतुर्थ्या तु हृत् ।
ह्रस्वा बिन्दुयुताः स्वराः स्युरसिताश्चान्ये तदाद्यक्षरै-
र्बिन्द्वन्तैरथ भैरवाह्वयमथ स्यात् पादुकेभ्यो नमः ॥ १७-८ ॥

पृथगेवं न्यसेन्नाभिहृत्कण्ठास्येष्वथो नसि ।
ललाटे मूर्धनि तथा द्वादशान्तेऽप्यनुक्रमात् ॥ १७-९ ॥

पीठपादुकन्यासः ।

गुह्ये च हृदये तद्वल्ललाटे बिन्दुसञ्ज्ञिते ।
त्रिषु स्थानेषु शेषाद्यं मूलार्णान् विन्यसेत् पृथक् ॥ १७-१० ॥

मूलमन्त्रन्यासः ।

न्यासः पुरस्तात् करयोस्ततः स्याद् वक्त्रेष्वथो पीठकपादुकानाम् ।
पदादिमूर्धान्तविलोमतः स्यान्मूलेन चाङ्गैरिति षट्प्रकारः ॥ १७-११ ॥

प्रविश्य दीक्षां गुरुणाभिषेचितस्तदिष्टकृत् तेन विशेषशिक्षितः ।
अनुज्ञया तस्य विधाय नैत्यकं कृतात्मशुद्धिर्मनुनद्धविग्रहः ॥ १७-१२ ॥

सितांशुकालेपनमाल्यभूषणो गणेशमभ्यर्च्य गुरुं च भक्तितः ।
उपोपविश्योचित आसने शुभे समाहृतेज्याविधिसाधनादिकः ॥ १७-१३ ॥

ब्रह्माण्डोदररत्नसौधजलधेर्मध्ये कदम्बोज्ज्वलं
चोद्यानं मणिमण्डपं च विलसन्माणिक्यशोणद्युति ।
दिव्यं द्वारचतुष्टयस्थवटुकैस्तावद्भिरेवारुणैः
सर्वज्ञैररुणाम्बरादिविलसद्वेषैर्युतं चिन्तयेत् ॥ १७-१४ ॥

कुलपूर्वतस्तु वटुकस्तथैवाकुलपूर्वकः ।
समयाख्यस्तृतीयः स्याच्चतुर्थः साधकाह्वयः ॥ १७-१५ ॥

चतुर्द्वारेष्विमे पूज्यास्तद्वत् क्षेत्रगणेश्वरौ ।
स्वलङ्कृतौ तौ नित्यं तावुदग्दक्षिणतः स्थितौ ॥ १७-१६ ॥

तन्मध्यकार्तस्वरसिंहपीठे शक्तिं प्रवालाङ्कुरभङ्गशोणाम् ।
तामष्टधावेष्ट्य गुणैरनन्तो ध्येयस्तदित्थं सितमम्बुजं च ॥ १७-१७ ॥

धर्मादयः स्युश्चतुरोऽस्य पादाः सिंहाननाः सत्त्वतमोरजांसि ।
कन्दं च नालं कमलं क्रमेण ध्येयं त्रितत्त्वं त्रिजगत्त्रिमूर्तिः ॥ १७-१८ ॥

पुर्यष्टकोर्ध्वच्छदमम्बुजं तदधश्छदाकारचतुर्युगं च ।
परिस्फुरत्केसरजालकीर्णां तत्कर्णिकां चोपरि मूलशक्तिम् ॥ १७-१९ ॥

ध्येयं तथा वाग्भवमात्रबीजं बन्धूकरक्तं रुचिरं त्रिकोणम् ।
हिरण्यगर्भं च हरिं च रुद्रं तथेश्वरं चैव सदाशिवं च ॥ १७-२० ॥

ततस्तु तन्मध्यसुखोपविष्टां देवीं जपायावकरक्तकान्तिम् ।
निबद्धपद्मासनसौम्यमूर्तिं नेत्रत्रयालङ्कृतवक्त्रपद्माम् ॥ १७-२१ ॥

जटाकिरीटाहितशीतरोचिषं पिशङ्गरक्ताभरणाम्बरस्रजम् ।
धृताक्षमालां वरदां च दक्षिणे सपुस्तकाभीतिकरां च वामतः ॥ १७-२२ ॥

समग्रताराधिपमण्डलाननां प्रतप्तजाम्बूनदरत्नकुण्डलाम् ।
गलप्रभारञ्जितनिष्कभूषणां सुजातवृत्तोन्नतपीवरस्तनीम् ॥ १७-२३ ॥

विचित्रहारोल्लसितस्तनांशुकां तथाङ्गुलीयैः कटकैश्च भूषिताम् ।
पिशङ्गकौशेयरुचारुणत्विषं हिरण्यकाञ्चीं दधतीं तदास्पदे ॥ १७-२४ ॥

यथोचिताकारविशेषसुन्दरं मनोरमोर्वोरपि जङ्घयोर्युगम् ।
क्रमेण वृत्तं दधतीं पदाब्जयोर्विचित्ररत्नस्फुरिते च नू **? ॥ १७-२५ ॥

समस्तशोभाविभवैकसुन्दरीं विभावसौन्दर्यसुधारसात्मिकाम् ।
निजैक्यतस्त्रैपुरदेवतां शुभां विचिन्त्य भावाहितसाधनैर्यजेत् ॥ १७-२६ ॥

ततस्तु खाम्भोरुहचन्द्रमण्डले शिवात्मिकां निष्कलसूक्ष्मचेतनाम् ।
विचिन्तयेत् तारकसङ्क्रमत्विषं शतह्रदादामरुचिं तनीयसीम् ॥ १७-२७ ॥

ततः समादाय कृतां सुषुम्नया निजैक्यदेव्या हृदयाम्बुजं नयेत् ।
सचेतनां तां प्रविभाव्य तु क्षणं मनः स्थिरं तत्प्रवणं विधाय तु ॥ १७-२८ ॥

स्वपङ्कजेन्दोरमृतस्य धारया परिस्रवन्त्या सितदुग्धरोचिषा ।
सुषुम्नया ब्रह्मपथामृताम्बुभिर्निजैक्यदेवीमभिषिच्य हर्षयेत् ॥ १७-२९ ॥

यथोपचारैर्मनसाभिपूज्य तां सुधाभिराप्लाव्य पुनस्तु चिन्तयेत् ।
षडन्तराधारसमण्डलाम्बुजैः शरीरमूर्ध्वङ्गमया सुषुम्नया ॥ १७-३० ॥

मूलाधारे चापि पायावुपस्थे नाभौ हृद्ये तालुमूले च मूर्ध्नि ।
वेदर्त्वाशार्काष्टियुग्मच्छदानि तान्यब्जानि ह्यन्तरा ब्रह्मनाड्याः ॥ १७-३१ ॥

अथात्र मूले नवकोटियोजनं प्रविस्तृतं चान्द्रमसं तु मण्डलम् ।
तमीषदाकुञ्च्य निबध्य चिन्तयेत् तदुत्थमब्जं धवलं कलादलम् ॥ १७-३२ ॥

अधोमुखं वक्रतनौ तदम्बुजं भवेदृजोरुन्मुखमायतं स्मितम् ।
विभाव्य मध्येऽस्य तु काममन्दिरं कदम्बगोलाकृतिलिङ्गमिन्दुभम् ॥ १७-३३ ॥

तं कुण्डलिन्यथ बिसाङ्कुरतन्तुगौरा सुप्ता त्रिधा समभिवेष्ट्य तथा प्रबोधम् ।
याति प्रबुद्धमदनालयसम्भ्रमेण लिङ्गं तु वाग्भवमयं प्रथमं तदुक्तम् ॥ १७-३४ ॥

आग्नेयबिम्बमरुणं हृदयेऽत्र पद्मं बन्धूककान्ति दशपत्त्रमथास्य मध्ये ।
यत् पद्मरागरुचि मान्मथबीजलिङ्गं ध्यायेत् तु विश्वजनरञ्जनमोहनं तत् ॥ १७-३५ ॥

बिन्दुस्थानं ललाटे दिवसकरमयं मण्डलं पीतवर्णं
तत्राब्जं द्वादशारं दिनकररुचिरं पीतवर्णं तु लिङ्गम् ।
बीजं सारस्वतं तत् प्रभवति परमं वाङ्मयं यत्प्रभावा-
दित्थं प्रोक्तं पुराणां त्रयमिदमिह यत् त्रैपुराख्या हि विद्या ॥ १७-३६ ॥

सुषुम्नापथास्मात् तु बाणाख्यलिङ्गात् समारभ्य विद्युत्प्रभासूक्ष्मरोचिः ।
द्वितीयं तृतीयं च मध्येन लिङ्गं गता शक्तिरूर्ध्वं पुरं द्वादशान्तम् ॥ १७-३७ ॥

अहं जीवभूतः क्रमेणेह लिङ्गत्रयोदीर्णशक्त्या स्वपद्मं समेतः ।
सहस्रच्छदं तत् कलामध्यपत्रं सुधासारविष्यन्दि सच्छिद्रमध्यम् ॥ १७-३८ ॥

पुनः सैव शक्तिः सुधाधारयास्मान्निवृत्ता सुषुम्नापथा ब्रह्मरन्ध्रम् ।
प्रविष्टा पुरोवत् त्रिलिङ्गानि चान्तः क्रमात् प्लावयन्तीह मूलाब्जमीयात् ॥ १७-३९ ॥

विभाव्येत्थमूर्ध्वादधश्चोर्ध्वयानं तथा शङ्खकुन्देन्दुगोक्षीरगौरैः ।
प्रपूर्णं शरीरं त्वथो रोमकूपात् स्रवच्चामृताम्भः समाप्लाव्यमाना ॥ १७-४० ॥

क्रमादष्टपीठस्थिता देवताश्चाङ्गसिद्धिर्वृतिस्था * * * * * * ।
गुरुं द्वारपालानथो लोकपालांस्तथा मण्डपं चाम्बुधिं चिन्तयीत ॥ १७-४१ ॥

विभाव्येति मन्त्रं सदाभ्यासयोगान्मनोवाञ्छितार्थांस्त्रिलोकेषु विन्देत् ।
विजित्येह मृत्युं गुणैश्वर्यवाचामधीशत्वमेयादलभ्यां च मुक्तिम् ॥ १७-४२ ॥

इत्थं निजैक्येन विभाव्य देवीमिष्ट्वा यथावन्मनसोपचारैः ।
बाह्ये पुरोवद् यजनाय सम्यग् लेख्यं तु चक्रं विधिनैव देव्याः ॥ १७-४३ ॥

काश्मीरगोरोचनचन्दनेन्दुस्पृक्कुष्ठरुक्पत्रकगोमयाद्भिः ।
चक्रं लिखेद्धाटकरूप्यताम्रैः कृते तलेऽरत्निमितेऽतिरम्ये ॥ १७-४४ ॥

सकर्णिकं साष्टदलं तु पद्मं मध्ये बहिर्द्वादशकं दलानाम् ।
तद्बाह्यतः षोडशपत्रमब्जं बाह्ये तथा रागदलानि च स्युः ॥ १७-४५ ॥

तद्बाह्यवृत्तं चतुरश्रमस्मिन् कोणास्तु पार्श्वे कलशोपमानाः ।
लेख्याः सपाशाङ्कुशशङ्खपद्मैश्चिह्नैरुपेतास्तु यथाक्रमेण ॥ १७-४६ ॥

मध्ये त्रिकोणाकृति वाग्भवं स्यात् तन्मध्यगे च स्मरशक्तिबीजे ।
लेख्येऽष्टदिक्पत्रगताः स्वराः स्युर्बाह्ये दलद्वादशकेषु कामम् ॥ १७-४७ ॥

शक्तीर्लिखेदन्वथ षोडशास्मिन् पत्रेष्वथ द्वदशकेषु कामम् ।
सान्तान् सकादीन् सह हंसबिन्दून् द्वात्रिंशदब्जच्छदनेषु मन्त्री ॥ १७-४८ ॥

बाह्येऽथ मालामिव शेषमन्त्रं वृत्ताद् बहिस्तच्चतुरश्रमन्तः ।
तद्वल्लिखेत् कोणचतुष्टयस्थे पाशाङ्कुशे रम्यतरे यथावत् ॥ १७-४९ ॥

एतद्धि चक्रं त्रिपुराभिधेयं संलिख्य तस्मिन् यजनं विदध्यात् ।
तच्चापि पीठे विनिधाय मन्त्री सम्पूजयेत् तैर्विहितोपचारैः ॥ १७-५० ॥

शस्तं निजैक्येन तथैव चक्रे चित्रेऽपि देव्या यजनं न भूमौ ।
मोहादसौ स्थण्डिलगां यजेच्चेद् भ्रश्येत् त्रिवर्गादपि मन्त्रसिद्धेः ॥ १७-५१ ॥

पूर्वं त्रिलिङ्गात्मकबीजयुक्त्या सद्वादशान्तामृतशक्तियोगाम् ।
विभाव्य गन्धाक्षतपुष्पतोयैः स्वमूर्धनि स्वैक्यतनुं यजेत् ताम् ॥ १७-५२ ॥

व्योमेन्दुपङ्केरुहतः पुरोवत् तेजश्चिदानन्दमयीं गिरं ताम् ।
आवाह्य चक्रोदरकर्णिकायां व्योमेन्दुसूतैरमृतैर्निषिञ्चेत् ॥ १७-५३ ॥

शेषाङ्गमूलैर्मनुभिः क्रमेण प्राग्वत् समाराध्य महोपचारैः ।
व्योमावृताम्भःपृषतैः पुरोवदाप्लाव्य तूक्तावरणानि चेष्ट्वा ॥ १७-५४ ॥

अङ्गैर्यजेदावरणं दलानां मध्ये यथावत् प्रथमं ततश्च ।
शक्तीर्द्वितीयेऽथ दलाग्रगास्ताः सल्लेखिनीपुस्तकहस्तयुग्माः ॥ १७-५५ ॥

योगा च सत्या विमला च मेधा श्रद्धा च बुद्धिश्च तथा समृद्धिः ।
ज्ञाना च पूर्वादिषु रक्तवर्णा दिव्याम्बराद्यैरपि भूषिताङ्ग्यः ॥ १७-५६ ॥

ततस्तृतीयावरणेऽष्टपीठे मातॄः क्रमाद् भैरवपादुकाश्च ।
ऐशे गुरून् पञ्च यजेच्चतुर्थे क्षेत्रं सविघ्नं वटुकांश्च दिक्षु ॥ १७-५७ ॥

लोकाधिपान् सायुधवाहनादींस्तान् पञ्चमे त्वावरणे यथावत् ।
सम्पूज्य तैस्तैरुपचारभावैः पुनश्च देवीं सुमनोभिरिष्ट्वा ॥ १७-५८ ॥

आत्मतत्त्वाधिपायै देव्यै नमः । विद्यातत्त्वाधिपायै देव्यै नमः । शिवतत्त्वाधिपायै देव्यै नमः ।

पृथगेभिः क्रमान्मन्त्रैर्दत्त्वा पुष्पाञ्जलित्रयम् ।
भावाष्टपुष्पैरपि तामर्चयेद् भावसाधनैः ॥ १७-५९ ॥

अहिंसा प्रथमं पुष्पं ततश्चेन्द्रियसंयमः ।
क्षमा भक्तिर्दया ध्यानमलोभो ज्ञानमष्टमम् ॥ १७-६० ॥

आत्मविद्याशिवैस्तत्त्वैः पृथग् प्राग्वन्नमोन्तकम् ।
जपाद्यन्ते जपं कुर्याज्जपरक्षाकरो विधिः ॥ १७-६१ ॥

स्फटिकाक्षावली शस्ता जप्येषु त्रैपुरेषु वै ।
जपं चाप्यमृताम्भोभिर्मनसास्यै समर्पयेत् ॥ १७-६२ ॥

ततः स्तवमिमं ध्येयमन्त्रसारमुदीरयेत् ।

शतह्रदाकदम्बवल्लसद्द्युतिं तनीयसीं
मृणालतन्तुकोमलां त्रिलिङ्गबिम्बनिर्गताम् ।
ससर्गबिन्दुनादकान् क्रमादतीत्य तत्पदाद्
द्रवत्सुधारसाप्लुतां सुनिष्कलां नुमो गिरम् ॥ १७-६३ ॥

सुधाम्बुधौ सितावनौ च चन्द्रकान्तमण्डपे
शाशाङ्कबिम्बपङ्कजे तु गौरवर्णबालिकाम् ।
सबोधमुद्रपुस्तकां सकुम्भजप्यमालिकां
सिताम्बरादिभूषितां सितावृतिं नुमो गिरम् ॥ १७-६४ ॥

हिमाश्रमेऽष्टमातृभिश्च मातृकाम्बुजासनां
शशिप्रभां वराभयां तथा धृताब्जपुस्तकाम् ।
सविघ्नराजषण्मुखां सदक्षिणेशदेशिकां
सभैरवां त्रिलोचनां कपर्दिनीं नुमो गिरम् ॥ १७-६५ ॥

निजैक्यतोऽरुणत्विषं प्रतप्तहेमकुण्डलां
विचित्रभूषणाम्बरां स्थितां सकल्पकाम्बुजे ।
सपाशमङ्कुशं करैर्वराभये च बिभ्रतीं
सशङ्खपद्मशेवधिं विभूतये नुमो गिरम् ॥ १७-६६ ॥

ललाटपद्मवाग्भवे सुरेन्द्रचापदीधितिं
शिरस्यथेन्दुमण्डले समन्मथां सितद्युतिम् ।
रविप्रभां हृदम्बुजे हि सौरबिम्बमध्यगां
पृथग् विभाव्य भुक्तये च मुक्तये नुमो गिरम् ॥ १७-६७ ॥

स्वकान्तियावकाम्बुभिर्विलोहिते च रोदसी
सपुष्पबाणकार्मुकां च साङ्कुशां तु पाशिनीम् ।
विलोहिताम्बरादिकां निजैक्यतो विभूषितां
स्मृतां जगद्विमोहिनीं विकर्षिणीं नुमो गिरम् ॥ १७-६८ ॥

समस्तवेदशास्त्रवाग्विभूतिजन्मभूर्यत-
स्ततश्च संस्कृतादिवाग्विलासदं हि वाग्भवम् ।
स्फुरत् स्मरस्य मन्दिरे स्मृतं हि तारकप्रभं
यदात्मकं प्रवृत्तये गिरां च तां नुमो गिरम् ॥ १७-६९ ॥

यतः प्रपञ्चसम्भवस्थितिक्षयप्रवर्तनं
त्रिविग्रहप्रभेदतस्त्रिमूर्तिका विभाव्यते ।
गुणत्रयीजगत्त्रयीत्रितत्त्वकालपूर्विकां
ततस्त्रिपूर्विका पुरा त्वमम्ब! तां नुमो गिरम् ॥ १७-७० ॥

किमङ्गपूजनाविधावजानताथवा मया
तदङ्गमन्त्रसाधनक्रियादिहीनमर्चिता ।
त्वदङ्घ्रियुग्मपद्मयोस्तु भक्तिचोदितेन तत्
त्वमम्ब! खेदिताधुनासि दुर्नयं क्षमस्व मे ॥ १७-७१ ॥

भक्तिहीनं क्रियाहीनं श्रद्धाहीनं यदर्चनम् ।
तदस्तु परिपूर्णं मे तव देवि! प्रसादतः ॥ १७-७२ ॥

इत्यात्मादित्रितत्त्वान्तमधिपायै नमोऽन्तकम् ।
देव्यै पूजाजपफलमर्पयेच्चुलुकाम्भसा ॥ १७-७३ ॥

अनामिके द्वे तर्जाभ्यां मिथः पाण्योर्निबध्य तु ।
उत्तानपाणितलयोर्मध्यमे सकनिष्ठिके ॥ १७-७४ ॥

पार्श्वाभ्यां सहिताग्रे स्तामृज्वायतमुपस्थिते ।
कृत्वाङ्गुष्ठाग्रयुग्मेन कनिष्टामूलयोः स्पृशेत् ॥ १७-७५ ॥

मुद्रेयं योनिसञ्ज्ञा स्याच्छाक्तेयी मन्त्रसिद्धिदा ।
तां बद्ध्वा दर्शयेद देव्यै सद्यःप्रीतिकरं भवेत् ॥ १७-७६ ॥

अथार्घ्यं तु हृदा दत्त्वा नमस्कृत्य प्रसाद्य च ।

निरञ्जने! लयं गच्छ ठठ ।

अनेन पुष्पाञ्जलिना देवीं सपरिवारकाम् ॥ १७-७७ ॥

आदायामृतनिःष्यन्दैः खाब्जमध्ये नियोजयेत् ।
अर्घ्यं हृदा विसृज्याथ भोजयेच्च कुमारिकाः ॥ १७-७८ ॥

वटूनपि यथाशक्ति पायसाज्यमधूत्तरम् ।
सूतकादिषु बाह्यार्चां जपं वा न समाचरेत् ॥ १७-७९ ॥

पवित्रारोपणादीनि कुर्याच्चैव विधानतः ।
विशेषात् पट्टसूत्रेण पवित्राण्यत्र कल्पयेत् ॥ १७-८० ॥

गङ्गावतारणं चापि कुर्यात् कङ्कणिकामपि ।
न शस्ता चण्डपूजात्र विधिर्होमस्य कथ्यते ॥ १७-८१ ॥

तिलाज्यशर्कराहोमः सर्ववश्यप्रदो भवेत् ।
बैल्वैः पत्रैः फलैः शुक्लैः पुष्पैः पत्रैरथ श्रिये ॥ १७-८२ ॥

जुहोति राजिकालोणैर्मधुना तुष्टिरुत्तमा ।
शुक्लां शुक्लैस्तु कुसुमैर्हुत्वा विद्यां लभेदसौ ॥ १७-८३ ॥

श्रीवश्याकृष्टिकृत्येषु रक्तां रक्तैस्तु साधनैः ।
दूर्वाग्रैर्लभते कन्यां साज्यान्नेनान्नमुत्तमम् ॥ १७-८४ ॥

शिरीषकुसुमैर्वेश्यां वशयेत् क्षौद्रमिश्रितैः ।
शुक्लादिपुष्पैर्होमेन शुक्लादिवसनागमः ॥ १७-८५ ॥

अपामार्गैस्तथाश्वत्थैर्न्यग्रोधोदुम्बरैरपि ।
विप्रादींश्चतुरो वर्णान् वशयेन्मधुरैः क्रमात् ॥ १७-८६ ॥

धुर्धूरकाष्ठैस्तद्धोमादुन्मत्ताः स्युररातयः ।
विद्वेषो निम्बकार्पासैर्मारयेत् सविषैर्विषैः ॥ १७-८७ ॥

काककाकारिपत्राभ्यां होमादुच्चाटयेत् परान् ।
क्षुद्रेषु कृष्णां ध्यायेत् तां कृष्णान्यावरणानि च ॥ १७-८८ ॥

मध्वाज्यक्षीरहोमेन समृद्धिर्मगती भवेत् ।
वटाधो गोमयालिप्ते दर्भानास्तीर्य साधकः ॥ १७-८९ ॥

पुष्पलाजाक्षतैः शुभ्रैः पूजयेद् ब्रह्मयक्षिणीम् ।
नित्यमष्टसहस्रं तु जपित्वा निशि तन्मनाः ॥ १७-९० ॥

मासेन यक्षिणीं पश्येदिष्टार्थांश्चापि विन्दते ।
तन्मन्त्रिताम्बु पीतं तु नित्यं मेधाकरं स्मृतम् ॥ १७-९१ ॥

अष्टोत्तरशतं स्पृष्टमम्भः पीत्वा दिवानिशम् ।
निरीक्ष्य बद्धमुद्रस्तु तद्वाचं स्तम्भयेदसौ ॥ १७-९२ ॥

अश्रुतान्येव शास्त्राणि दर्शनादेव धारयेत् ।
बहुना किं प्रलापेन वाग्विलासविभूतिदः ॥ १७-९३ ॥

न मन्त्रस्त्रैपुरादन्यः श्रीकरोऽपि विशेषतः ।
शेषमन्त्रविहीनस्तु मनुर्यः प्रथमोदितः ॥ १७-९४ ॥

बालाभिधानो जप्यः स्याद् बालैरेवैष नेतरैः ।
एतैरशेषशेषस्थैर्मूलार्णैस्तु विभागशः ॥ १७-९५ ॥

कूटस्थस्त्रैपुरो मन्त्रः सर्वसिद्धिप्रदो हि सः ।
स्वरादिभिः क्रमात् काद्यैः क्षान्तगैर्द्वितयक्रमात् ॥ १७-९६ ॥

अन्तःस्थितस्वरैस्तैश्च स्पर्शवामाक्षपल्लवैः ।
क्रमेण त्रैपुरा एव मन्त्रास्ते प्रभवन्ति हि ॥ १७-९७ ॥

सम्यगित्थमुदिता त्रिपुरेयं कामधेनुरिव कामदविद्या ।
यामुपास्य सुरगुह्यकसिद्धाः सिद्धिमृद्धिमपि चापुरभीष्टाम् ॥ १७-९८ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे त्रिपुरासङग्रहो नाम
सप्तदशः पटलः ॥ १७ ॥