अथ षोडश पटलः ।
तारश्रीशक्तिकामक्षितिगणपतयो बीजभूताः षडादौ
चण्डान्तो नान्तडान्तावषडिरथ मरुद्योनिगोऽम्भश्च रक्तम् ।
तोयं वह्निस्तदा त्रिस्तदनु च कथितः सर्वशब्दो जनं मे
मन्त्रो वैनायकोऽयं वशमिति च पदादानयाग्निप्रियान्तः ॥ १६-१ ॥
प्राग्वद् बीजैस्तारकाद्यैस्तु षड्भिर्वैघ्नं बीजं तत् तु दीर्घस्वराढ्यम् ।
युक्तं स्वामिर्जातिभिः षड् यथावदङ्गानि स्युस्तानि चास्त्रान्तमार्गात् ॥ १६-२ ॥
ऋषिस्तथोक्तो गणकः ककुप् स्याच्छन्दस्तु गायत्रमितीह केचित् ।
तद्दैवतं चापि महागणेशः सिद्धिश्चतुर्वर्गफलावसाना ॥ १६-३ ॥
भवाभावभावप्रसङ्ख्यं जपेत् तत्समर्थो न चेद् भावभावाभसङ्ख्यम् ।
दशांशं च हुत्वा घृतं चाष्टमक्ष्यैर्भवेत् सिद्धमन्त्रो गणेशप्रभावः ॥ १६-४ ॥
हैमं नानावृक्षषण्डाभिरामं शैलं मध्ये गौलरत्नाकरस्य ।
ध्यायेत् तस्मिन् हेमवप्रावृतान्तं दिव्योद्यानं चन्द्रकान्तस्थलान्तम् ॥ १६-५ ॥
स्थलेऽत्राथ मध्ये षडश्रे तु पीठे गजास्यं सरोजे पुरोक्ते निविष्टम् ।
जपाभं महान्तं सतुन्दं गणेशं विचित्रैः सरत्नैश्च हारैरुपेतम् ॥ १६-६ ॥
बीजपूरकगदास्मरहेतीरङ्कुशारिजलजान्यपि पाशम् ।
उत्पलं च कलमानिकरं वो यो रदं दशभुजो दधदव्यात् ॥ १६-७ ॥
सव्यमङ्कमधिरोपितशक्त्या श्वेतपद्मकरया स्ववगूढम् ।
गौरहारमणिहेमविचित्रैर्भूषणैरलमलङ्कृतगात्र्या ॥ १६-८ ॥
रक्तगन्धकुसुमाम्बरमाल्यैर्भूषितं सह तया गणनाथम् ।
पुष्करेण कलशं च दधानं साधकोपरि किरद्वसुवर्षम् ॥ १६-९ ॥
आमोदोऽथ प्रमोदश्च सुमुखो दुर्मुखस्तथा ।
विघ्नश्च विघ्नकर्ता च शङ्खपद्मनिधी ततः ॥ १६-१० ॥
शक्राग्नीशानवरुणरक्षोवाय्वश्रगास्तु षट् ।
गणेशाः शङ्खपद्माख्यौ निधी याम्योत्तरस्थितौ ॥ १६-११ ॥
श्वेतौ च रक्तावसितौ च वेद्यावामोदपूर्वाः क्रमशस्तु विघ्नाः ।
टङ्काक्षमालोर्ध्वकरद्वयाः स्युरर्वाक्कराभ्यां धृतदन्तभक्ष्याः ॥ १६-१२ ॥
शङ्खाब्जसञ्ज्ञौ सितरक्तवर्णौ निधी च तल्लक्षितहस्तयुग्मौ ।
ध्येयौ वमन्तौ विपुलं धनौघं परस्परं सम्मुखयक्षवेषौ ॥ १६-१३ ॥
तीव्रा च ज्वालिनी चैव मोहिनी सोगदा तथा ।
कामिनी चेति तेजिष्ठा षडामोदादिशक्तयः ॥ १६-१४ ॥
अङ्गैश्च विघ्नैर्निधियुग्मयुक्तैर्लक्ष्यादिभिश्चाप्यथ मातृभिश्च ।
शक्रादिभिश्चावरणानि चैवं पञ्चैव पूज्यानि यथाक्रमेण ॥ १६-१५ ॥
पद्माम्बुजाक्षौ पुरतस्तु बिल्वे याम्यां वटाधो गिरिजावृषाङ्कौ ।
पश्चात् तु बोधौ रतिपुष्पबाणौ सौम्ये प्रियङ्गौ च महीवराहौ ॥ १६-१६ ॥
पद्मद्वयारिसितशङ्खकरौ पुरोक्तौ पाशाङ्कुशत्रिशिखटङ्ककरावुमेशौ ।
युग्मोत्पलस्मरधनुःकुसुमेषुहस्तावन्यौ च शालिशुक्रचक्रगदा दधानौ ॥ १६-१७ ॥
दाम्पत्यं ते प्रार्थयमानाश्चिरसौख्यं विघ्नाधीशं साञ्जलिबन्धाः प्रयजन्ते ।
बाह्ये चैषां सायुधवाहा हरिदीशा ध्येयाः सर्वे दिव्यविभूषाम्बरगन्धाः ॥ १६-१८ ॥
आधारशक्त्यादिसरोरुहान्तमिष्ट्वा पुरोवन्निजनामधेयैः ।
देवः सपञ्चावरणो यथावत् पूज्योऽङ्गमूलैः प्रथमोपचारैः ॥ १६-१९ ॥
भित्तौ पटे वा कनकादिबेरे सम्यक् प्रतिष्ठाप्य महागणेशम् ।
सम्पूजयेत् प्राप्य तु मन्त्रदीक्षां प्राग्वाभिषिक्तस्तु गणेशकुम्भैः ॥ १६-२० ॥
जपेच्चतुर्लक्षमथाष्टभक्ष्यैर्हुत्वा दशांशं त्वथवा स्वशक्त्या ।
स्मृत्वा गणेशं मनसापि चेष्ट्वा सिध्येत् तु मन्त्रोऽस्य समीहितं च ॥ १६-२१ ॥
आखुर्हैमः पर्वतकूटप्रतिमः प्रागीशोपान्ते क्षेत्रपतिः स्याद् गणचण्डः ।
पूज्यः प्राग्वद् भक्ष्यहुताद्यैः सकलार्थाः सिध्यन्त्यस्याचार्यपदाब्जाहितभक्तेः ॥ १६-२२ ॥
नित्यं यथाशक्ति जपेच्च मन्त्रं सन्तर्पयेच्चाम्बरचन्द्रतोयैः ।
भक्ष्याद्यभीष्टं प्रथमाश्रमिभ्यो दद्याद् द्विजेभ्योऽपि च सिद्धिकामः ॥ १६-२३ ॥
चतुर्दिग्दलाग्रे न्यसेच्चापि कुम्भान् प्रधानं च कुम्भं सरोजस्य मध्ये ।
सदुग्धैश्च वृक्षैश्चतुर्भिः पुरोक्तैस्तथा चौषधीभिर्लिपेदम्बुभिश्च ॥ १६-२४ ॥
सरत्नैश्च गन्धैः सुपुष्पैश्च हेम्ना सुपूर्णान् घटांस्तान् सवस्त्रान् पुरोवत् ।
निवेश्याथ देवं गणेशं तु मध्ये तथैन्द्रादिकुम्भेषु युग्मानि चेष्ट्वा ॥ १६-२५ ॥
विभूष्याथ वस्त्रैश्च गन्धैस्तथेष्ट्वा समूलैस्तदङ्गैः सजीवान् विदध्यात् ।
जपित्वा तु शक्त्या च हुत्वाभिषिञ्चेत् प्रसिध्येद्धि मन्त्रः स्वभीष्टं च विन्देत् ॥ १६-२६ ॥
अन्नेनान्नसमृद्धये तु मधुना स्वर्णाप्तये गोरसै-
र्गोसिद्ध्यै तिलतण्डुलैस्तु जुहुयालक्ष्म्यै घृतेनापि वा ।
दध्ना शर्करया जुहोतु यशसे वाश्वारिकौसुम्भकै-
र्वस्त्रार्थं कमलैर्नृपं तु कुमुदैर्देवीं च तन्मन्त्रिणम् ॥ १६-२७ ॥
आश्वत्थैर्वटजैरुदुम्बरसमित्प्लक्षैस्तु वर्णान् वशे
कुर्यान्मोदकपिष्टकैस्तु युवतीर्द्रव्याष्टकैर्वाञ्छितम् ।
संसिध्येल्लवणैश्च वेतसभवैर्वृष्टिर्भवेत् तर्पणा-
न्मन्त्रेणाथ चतुर्गुणेन सकलान् कामान् जपैर्वा हुतैः ॥ १६-२८ ॥
इच्छेच्चेद् द्विरदवने जलोपकण्ठे कृत्वादौ समचतुरश्रहोमशालाम् ।
तत्रेष्ट्वा द्विरदमुखं तु मध्यवेद्यामैशान्यां दिशि जुहुयाच्छुभेऽग्निकुण्डे ॥ १६-२९ ॥
समृद्धिमार्गेण जुहोतु वह्नौ तस्मिन् समावाह्य महागणेशम् ।
ततस्तु बीजैरपि चाङ्गमन्त्रैर्हुत्वा पुरस्तादपि मूलतोऽत्र ॥ १६-३० ॥
वर्गत्रयेणापि विभज्य मन्त्रं नवप्रकारं तु घृतेन हुत्वा ।
समस्तमन्त्रेण तदर्णसङ्ख्यं हुत्वाष्टभक्ष्यैर्मधुरत्रयाक्तैः ॥ १६-३१ ॥
भवोद्भवाभावनसङ्ख्यमेतच्छतांशतो ब्राह्मणभोजनं च ।
शक्त्याथ तान् वस्त्रहिरण्यगोभिरिष्ट्वा वटान्तर्द्विरदाः पतन्ति ॥ १६-३२ ॥
तल्लब्धमातङ्गदशांशतोऽस्मै स्याद् दक्षिणा मन्त्रिवराय देया ।
ततः सहाङ्गैः परिचारकाणां बलिं च दत्त्वा सहदेवमग्निम् ॥ १६-३३ ॥
हृदम्बुजे स्वे गगनाम्बुजे वा नियोजयेच्चेति गजग्रहः स्यात् ।
महागणपतिविधानम् ।
पञ्चान्तकं बिन्दुयुतं च साक्षाद् बीजं गणेशस्य वदन्त्यथान्ये ॥ १६-३४ ॥
औकारबिन्द्वन्तमुदीरयन्ति तुल्यस्तयोः स्याद् विधिरेषणीयः ।
गणराजाय ठठ । एकदंष्ट्राय हुं फट् । अचलकर्णिने नमो नमः । गजवक्त्राय नमो नमः । महोदराय दण्डहस्ताय हुं फट् । विनायकाय वौषट् ।
स्वजातिभाञ्जीत्युदितानि षड् यान्यङ्गानि नेत्रान्तमनुक्रमेण ॥ १६-३५ ॥
गणेश्वराय ठठ । धूम्रमुखाय ठठ । धूर्जटाय ठठ । विघ्नरूपाय ठठ । इत्यष्टदिग्बन्धविधिः प्रदिष्टः
विघ्नहन्त्रे ठठ । लम्बोदराय ठठ ।
सोर्ध्वाधराशाकलनं विदध्यात् ।
ऋषिस्तु नाम्ना गणको विराट् तच्छन्दस्तु देवोऽस्य विनायकाख्यः ॥ १६-३६ ॥
व्रत्याशनोऽमुं जपतु त्रिलक्षं पुरस्क्रियार्थं स दशांशहोमम् ।
चतुर्भुजः खर्वतनुर्गजास्यो लम्बोदरो नागकृतोपवीतः ॥ १६-३७ ॥
दधत् सपाशाङ्कुशदन्तभक्ष्यैः पात्रीं तदालम्बितपुष्कराग्रः ।
रक्ताम्बरालेपनमाल्यरत्नैर्विभूषितः कुङ्कुमपिञ्जराभः ॥ १६-३८ ॥
ध्येयो ह्यधः कल्पतरोः फलार्थैरापूर्यमाणः कनकाब्जपीठे ।
ऐशे गुरुं क्षेत्रपतिं च पूर्वमिष्ट्वा तथाधारमयीं च शक्तिम् ॥ १६-३९ ॥
शेषं च पृथ्वीं तदनन्तपीठं धर्मादिभिः प्रोक्तगुणाब्जबिम्बैः ।
तच्चन्द्रमध्यस्थिततारमध्ये त्वानीय खाब्जामृतधारयेन्दौ ॥ १६-४० ॥
विनायकं स्वैर्वृतमङ्गमन्त्रैर्गजाननैर्दिग्दलगैर्हृदाद्यैः ।
कोणेषु हेतिं पुरतोऽस्य नेत्रं दिग्बन्धविघ्नांस्तु गणेश्वरान् षट् ॥ १६-४१ ॥
शङ्खाख्यपद्माख्यनिधी च दिक्स्थान् कोणेषु चैवं क्रमशोऽर्चयीत ।
इन्द्रादिलोकाधिपतीन् सवाहानिष्ट्वा स्वकाष्ठासु तदायुधानि ॥ १६-४२ ॥
यजेच्चतुर्थावरणे त्वथैशे गुरूनपि स्वान् गणचण्डकं च ।
आवाहनाद्यैस्तु यथोपचारैरिष्ट्वा यथाशक्ति जपेच्च मन्त्रम् ॥ १६-४३ ॥
भक्ष्यादिकं च प्रथमाश्रमिभ्यो दत्त्वा यथेष्टं लभतेऽर्थजातम् ।
राजानं मधुपिशितैस्तिलैरमात्यान् विप्रेन्द्रान् सितकुमुमैर्विशो गुलेन ।
शूद्राद्यान् सलवणतण्डुलैश्च हुत्वा कन्यां वा वशयति मातुलुङ्गपुष्पैः ॥ १६-४४ ॥
अष्टद्रव्यैर्वा गुलशक्तूनपि हुत्वा सर्वानिष्टानाशु लभेरन् पुरुषार्थान् ।
अब्जैर्वित्तं निम्बदलैर्द्वेषणकृत्यं तेनालब्धं रोचनगन्धादि च वश्यम् ॥ १६-४५ ॥
ध्यात्वा साध्यं स्वाङ्कुशसन्नामितगात्रं चाक्रम्यैनं तज्जपतोऽसौ वशमेति ।
तद्वद् योषा विह्वलिताङ्गी वशमीयात् स्वैक्यं ध्यायन् संयति वादे विजयी स्यात् ॥ १६-४६ ॥
अश्वत्थान्तः सप्तदिनं स्थापितराजीं पूर्णे चन्द्रेऽनेन गृहे यस्य निखन्यात् ।
उच्चाटः स्याच्छत्रुविषाहिप्रभृतीनां भूतक्षुद्रान् हन्ति तदैक्यं गतजापः ॥ १६-४७ ॥
न्यग्रोधाधो मण्डलकेऽग्निं सविधानं संस्थाप्याग्नेर्दक्षिण आवाह्य च यक्षीम् ।
मूलेनाङ्गैश्चाथ नमोन्तैरुपचारैरिष्ट्वा मुद्रां हस्तिकराभामपि बद्ध्वा ॥ १६-४८ ॥
अभ्यस्यादौ वह्निसहस्रं त्वथ तैलं हुत्वाङ्कोलं पश्यति यक्षीं स हि मासात् ।
इष्टं यत्तत् प्राप्यते वा रमतेऽसौ त्रिःस्नायी चेन्न क्व च शस्त्रस्पृगसौ स्यात् ॥ १६-४९ ॥
वैनायकैकाक्षरविधानम् ।
कुम्भोऽथाग्नियुतो भुजादिरषडी कर्णान्विताण्डाय हुं
वर्णाश्चेति विनायकस्य गदितः षड्वर्णकोऽयं मनुः ।
शुक्रं स्याद् ऋषिरप्यनुष्टुबुदिता छन्दस्तु तद्दैवतं
देवः सिद्धविनायकोऽङ्गरचना दीर्घस्वरार्णैर्भवेत् ॥ १६-५० ॥
बीजं तस्य तु षष्ठमक्षरमथो शक्तिश्च नादात्मिका
ज्येष्ठाद्यङ्गुलिषु न्यसेत् तु करयोरर्णांस्तुले चान्तिमम् ।
अङ्गानां च कनिष्ठिकाद्य उदितो न्यासस्तले चास्त्रकं
मूर्घाक्षिश्रवणास्यहृच्चरणयोर्वर्णान् यथाङ्गानि च ॥ १६-५१ ॥
पाशाङ्कुशोभयकरोऽथ वरात्तदन्तो लम्बोदरो गजमुखोऽरुणमाल्यगन्धः ।
रक्ताम्बराङ्गदकिरीटविचित्रहारो ध्यातः श्रियेऽस्तु भवतां भगवान् गणेशः ॥ १६-५२ ॥
हैमोदयाद्रिशिखरे नवपुष्करिण्यां रत्नोज्ज्वलत्कनकमण्डपरत्नपीठे ।
श्वेताम्बुजे सुखनिविष्टमिहेष्टसिद्ध्यै सन्तर्पयेदुषसि सिद्धगणेशमेनम् ॥ १६-५३ ॥
शक्त्यादिधर्ममुखपीठगुणाब्जमध्ये व्योमाम्बुजादुपगतोऽथ यथोपचारम् ।
अङ्गावृतेस्तु परतोऽष्टगणेशयुक्तो लोकेशदिग्गजयुगावरणोऽभिपूज्यः ॥ १६-५४ ॥
विघ्नस्तु पूर्वादिविनायकाख्यो वीरश्च शूरो वरदाह्वयोऽन्यः ।
क्षिप्रप्रसादो गजवक्त्रसञ्ज्ञो महागणेशस्त इमेऽष्टविघ्नाः ॥ १६-५५ ॥
ऐरावतश्चाप्यथ पुण्डरीकः पूर्वादिदिक्स्थाः कुमुदाञ्जनौ च ।
ये दिग्गजा वामनपुष्पदन्तौ स्युः सार्वभौमोऽपि च सुप्रतीकः ॥ १६-५६ ॥
ते दानवारीन्द्रचतुर्विषाणाः सर्वे क्षरन्तोऽपि च दानवारि ।
ये पुष्कलं रत्नधनं किरन्तः स्वैः पुष्करैर्भासितपुष्करान्ताः ॥ १६-५७ ॥
चित्रादिमूर्तौ हृदयाम्बुजे वा तमित्थमिष्ट्वा सगणं गणेशम् ।
व्रत्याशनः षष्टिसहस्रसङ्ख्यं जपेद् दशांशं जुहुयादथाज्यम् ॥ १६-५८ ॥
सिध्येत् ततो मन्त्रवरोऽस्य नित्यं जपादिनार्थान् लभते समग्रान् ।
अन्नेन चान्नं सघृतेन हुत्वा विन्देत् कुमारीं मधुलाजहोमात् ॥ १६-५९ ॥
अष्टद्रव्यैरप्यपूपैः फलैर्वा हुत्वा कामान् स्वादुसिक्तैः स विन्देत् ।
क्षीराज्याभ्यां सिक्तदूर्वाभिरायुः कन्यां लाजैर्वेतसैर्वृष्टिमिष्टाम् ॥ १६-६० ॥
सापामार्गैर्ब्रह्मवृक्षैर्जयः स्याद् धान्यैर्धान्यं चोत्पलाद्यैस्तु वासः ।
क्षेत्रं विन्देत् तत्पलालैर्गुलाक्तैश्छिन्ना खण्डैः सर्ववश्यं तु हुत्वा ॥ १६-६१ ॥
परेतभूमावभिलिख्य तत्तनुं परस्य तन्नाम्नि नियोजयेदसून् ।
विभीतकैर्लोहिततन्तुवेष्टितैः सराजितैलैर्हवनेन मारयेत् ॥ १६-६२ ॥
स्मृतो निजैक्येन गणेश्वरोऽसितः करालकालाम्बुदविग्रहध्वनिः ।
प्रतोलयित्वा निजपुष्करादरिं प्रचाटयेदौर्वहुताशने क्षिपन् ॥ १६-६३ ॥
समुद्रगासिन्धुजलैस्तदम्भसि स्थितोऽभिषिक्तोऽञ्जलिना ग्रहामयान् ।
हरेदसौ दुग्धनिशाज्यसैन्धवैर्वचां पिबेन्मन्त्रवदात्मजार्थिनी ॥ १६-६४ ॥
हृदम्बुजे शक्तिभिरावृतं तु ये सपत्रपुर्यष्टकमूर्तिमण्डले ।
गणेशमङ्गुष्ठमितं स्मरन्ति ते तरन्ति संसारसमुद्रमश्रमम् ॥ १६-६५ ॥
कलशे शरावकपिलाज्यदीपिके स्वभिपूजिते निशि जपेच्च कन्यकाम् ।
अधिवास्य तत्र खलु सावलोकनाद् वदति त्रिकालकलितार्थसन्ततिम् ॥ १६-६६ ॥
इत्थं मन्त्रो भार्गवेणोदितोऽयं वैघ्नः पूर्वं कामधुग् यो मुनीनाम् ।
योऽमुं सम्यक् साधयेत् साधकेन्द्रस्तस्यासाध्यं नास्ति किञ्चित् त्रिलोक्याम् ॥ १६-६७ ॥
सिद्धविनायकविधानम् ।
उद्धृत्य झण्टीक्रोडेशौ दन्तायेति पदं ततः ।
वस्तिपुच्छाशसङ्क्षोडषाश उच्छिष्टमात्मने ॥ १६-६८ ॥
ताराङ्कुशाभ्यां शक्तिश्च बिन्दुनादविभूषिता ।
ह्रूङ्कारं चास्त्रबीजं चाप्योष्ठयुक्तः शिवोत्तमः ॥ १६-६९ ॥
द्विरभ्यस्तश्च मन्त्रोऽयमष्टाविंशतिवर्णकः ।
उच्छिष्टविघ्नराजाख्यो जपाद्यैः सर्वसिद्धिदः ॥ १६-७० ॥
उच्छिष्टाय ठठ ।
अनेन जातियुक्तानि हृदाद्यङ्गानि षट् क्रमात् ।
विन्यस्य तु यथास्थानमुच्छिष्टः साधयेदिमम् ॥ १६-७१ ॥
ऋषिरुच्छिष्टयाजाख्यश्छन्दः स्यान्निचृदेव हि ।
उच्छिष्टशब्दपूर्वोऽस्य दैवं गणपतिः स्मृतः ॥ १६-७२ ॥
तुन्दी विघ्नः शुक्लवर्णो गजास्यः पाशी नग्नः साङ्कुशोऽङ्गुष्ठमात्रः ।
नानारत्नैर्भूषितः स त्रिणेत्रः पूज्यो नृत्यन् साभयेष्टप्रदोऽसौ ॥ १६-७३ ॥
यावत्कृष्णचतुर्दशि प्रतिदिनं प्रारभ्य कृष्णाष्टमी-
मुच्छिष्टोऽष्टशतं जपेच्च जुहुयात् सद्दन्तकाष्ठैर्नवैः ।
स्वाद्वक्तैर्मनुरेष सिध्यति ततो मन्त्रं ससाध्याह्वयं
संलिख्यात्र निधाय तं गणपतिं जप्येन चाकर्षयेत् ॥ १६-७४ ॥
कक्षे क्षिप्त्वा चाप्नुयादिष्टमेनं हेमोन्मत्तैर्विघ्नमिष्ट्वा शतैस्तम् ।
यस्याः पद्भ्यां पांसुसंस्थं च कृत्वा जप्याद् रात्रौ तूर्णमायाति चेष्टा ॥ १६-७५ ॥
स्नेहं मिथश्चेन्मिथुनस्य वाञ्छेद्धस्तस्थविघ्नः प्रजपेच्च पश्यन् ।
गन्धादिकं वा जपितं प्रदद्याद् वश्यं घृतं चन्दनहामभस्म ॥ १६-७६ ॥
अङ्गुष्ठमात्राः समिधोऽथ जुह्वत् सौवर्णमत्तस्य नरेन्द्रवश्ये ।
पुष्पैर्द्विजानां वणिजां फलैस्तैः शूद्रस्य पत्रैः सकलस्य सर्वम् ॥ १६-७७ ॥
हस्तीत्युक्त्वा साक्षिपार्श्वं च वान्तो दीर्घः कूर्चो मायया साक्षिमांसम् ।
सोष्ठश्चण्डौ वह्निजायान्वितोऽसौ स्यादौच्छिष्टो विघ्नमन्त्रः पुरोवत् ॥ १६-७८ ॥
हस्ति हृदयाय नमः । पिशाच शिरसे स्वाहा । लिखे शिखायै वषत् । स्वाहा कवचाय हुम् । सङ्घ अस्त्राय फट् ।
अमून्यङ्गानि किष्किन्धो मुनिश्छन्दोऽस्य वै विराट् ।
प्राग्वद् दैवं तथाष्टम्यां सिध्येद् रविसहस्रकैः ॥ १६-७९ ॥
उच्छिष्टात्मा स्वार्णलक्षं जपेद् यस्तस्यासाध्यं नास्ति लोकेऽर्थजातम् ।
बीजस्योक्तं यत्तु वैघ्नस्य कृत्यं तच्चोच्छिष्टोऽनेन कृत्वैष विन्देत् ॥ १६-८० ॥
एकारादेर्यन्मनोः कर्म गीतं तच्चानेन प्राप्नुयात् साधकेन्द्रः ॥ १६-८१ ॥
समन्त्रसाध्याह्वयपत्रभृत्कां तनुं मधूच्छिष्टमयीं निखन्यात् ।
उपर्यथास्याः खदिरानले यद्धुतेन साध्यं वशयेत् समस्तम् ॥ १६-८२ ॥
मन्त्रस्तु यन्नामविदर्भजापाद् वश्यस्तथा भूर्जविदर्भितं वा ।
तन्नाम धार्यं त्वथवा विसर्पिर्होमश्च वश्याय तु सप्तरात्रात् ॥ १६-८३ ॥
तज्जापतैलाञ्जनचन्दनाद्यं वश्यं हुतं चापि च हेमपुष्पैः ।
पाशाङ्कुशाढ्योऽत्यरुणस्तु नग्नो ध्येयो निजाङ्गैः सहितो गणेशः ॥ १६-८४ ॥
उच्छिष्टविघ्नेशाधिकारः ।
क्षिप्रप्रशब्दस्त्वथ सादनाय स्याद् विघ्नबीजादिमनुर्हृदन्तः ।
पङ्क्त्यक्षरो विघ्नपतेरभीष्टान् संसाधयेदेष हि कल्पवृक्षः ॥ १६-८५ ॥
ऋष्यादि चाङ्गादिकमप्यशेषमेकाक्षरप्रोक्तविधानतः स्यात् ।
सन्दीक्षया लक्षजपेन सिध्येद् दशांशहोमान्मधुरैस्तिलैश्च ॥ १६-८६ ॥
पाशाङ्कुशे कल्पलतां च दन्तं हस्तैः करेणापि च बीजपूरम् ।
बिभ्रद् गजास्यः समलङ्कृतो वः क्षिप्रप्रसादः शशिमौलिरव्यात् ॥ १६-८७ ॥
ध्येयोऽरुणस्तुन्दधृतत्रिलोकः श्वेताम्बराढ्योऽम्बुजविष्टरस्थः ।
हस्तस्थसङ्कल्पलताप्रसूतैर्वर्षन् धनैर्मूर्धनि साधकेन्द्रम् ॥ १६-८८ ॥
सिद्धाह्वयस्यावरणैश्चतुर्भिः पूज्यः स्वमूर्तौ हृदयाम्बुजे वा ।
द्रव्यैः पुरोक्तैर्घृतपायसाद्यैर्हुत्वा श्रियं पङ्कभवैश्च विन्देत् ॥ १६-८९ ॥
नित्यं यथाशक्ति घृतान्नहोमात् कुटुम्बिनां तद्गृहपोषणं स्यात् ।
सन्तर्पयेच्चामृतवारिपूरैर्यदिष्टमन्यच्च लभेत् सर्वम् ॥ १६-९० ॥
दध्याज्यसिक्तसितलोणकृतावदानैर्हुत्वा निशास्वभिमतं खलु तस्य सिध्येत् ।
संवादमिच्छति विरोधिषु वा चतुर्थ्यां तन्नालिकेरहवनाच्छियमश्नुतेऽसौ ॥ १६-९१ ॥
पञ्चान्तकोऽग्निसहितः सह वामनेत्रो दण्डी च शक्तिमनुसम्पुटगस्त्रिवर्णः ।
वैघ्नो मनुर्निगदितः स्वयमेव दीर्घैरङ्गानि जातिसहितानि यथा स्वरे स्युः ॥ १६-९२ ॥
छन्दो विराण्मुनिरथास्य तु भार्गवः स्यात् तद्दैवतं गणपतिः पुरतोऽर्णलक्षम् ।
अभ्यस्य चांशहवनेन च पञ्चभक्ष्यैः कन्या वटूंश्च खलु सिध्यति भोजयित्वा ॥ १६-९३ ॥
सन्दीक्षितो गुरुमुखात् समवाप्तमन्त्रः स्नानादिनित्यविधिना यजनं विदध्यात् ।
गौलाब्धिहेमभुवि कल्पककाननान्तर्ध्यात्वा हिरण्यमणिमण्डपसिंहपीठम् ॥ १६-९४ ॥
शक्त्यादिधर्ममुखपादगुणाब्जबिम्बैः कोणच्छदेषु हृदयादिमनून् पुरस्तात् ।
नेत्रं पुरोऽस्त्रमपि दिक्षु यजेत् तु शक्तीः
जया, विजया, अजिता, अपराजिता, नित्या, विलासिनी, शौण्डी, अनन्ता, सुमङ्गला ।
एताः क्रमेण तु दलाग्रगताश्च मध्ये ॥ १६-९५ ॥
गणं गणनाथं विघ्नेशं विनायकं भक्ष्यप्रियं पञ्चकरं लम्बहस्तं महोदरम् ।
एतांश्च पङ्कजबहिः क्रमशोऽष्टदिक्स्थान् विघ्नान् यजेद् गजमुखानरुणान् स्वनाम्ना ।
पाशाङ्कुशाम्रदिनोऽरुणमाल्यगन्धांस्तद्बाह्यतो दशदिशास्वपि लोकपालान् ॥ १६-९६ ॥
ध्यायेदथाम्बरसरोजरसामृतार्द्रं व्योमात्मकं गणपतिं द्रुतहेमवर्णम् ।
पीताम्बरं स्वरुणभूषणमाल्यगन्धं लम्बोदरं त्रिणयनं शशिखण्डमौलिम् ॥ १६-९७ ॥
पाशाङ्कुशाम्ररदमोदकपञ्चहस्तं ह्रस्वाकृतिं विविधभूषणचित्रङ्गात्रम् ।
पुष्पाञ्जलौ तमभिचिन्त्य सहाङ्गमूलादावाहयेत् कथितपङ्कजकर्णिकायाम् ॥ १६-९८ ॥
साङ्गेन मूलमनुना प्रथमोपचारैराराध्य पायसगुलाज्यचरूनपूपान् ।
मूलानि चाप्यभिनवानि फलानि चेक्षून् लाजान् मधूनि विनिवेद्य तु लड्डुकादीन् ॥ १६-९९ ॥
नित्यं जपेद् गुणसहस्रमपि त्रिसन्ध्यं ध्यायेद् यजेच्च विभवानुगुणं गणेशम् ।
तस्य प्रयच्छति धनानि विशिष्टभोगानायुश्च दीर्घमगदं निखिलांश्च कामान् ॥ १६-१०० ॥
अथ विनियोगाः कथ्यन्ते ।
आधायाग्निं विधिवद्वेदकोणे कुण्डे तस्मिन् विधिनावाह्य देवम् ।
गौलान्नाज्यं जुहुयात् पायसं वा विन्देदिष्टं विभवं च द्विमासात् ॥ १६-१०१ ॥
आज्यापूपैर्गुलमिश्रैस्तु जुह्वद् वाष्टद्रव्यैर्धनमिष्टं च विन्देत् ।
विप्रं लाजैस्तिलमिश्रैः सखण्डैर्वश्यं कुर्यान्मधुना भूमिपालम् ॥ १६-१०२ ॥
गुलैरमात्यान् मधुतण्डुलेक्षुभिस्त्रियस्तु वश्यं पललैर्मधुप्लुतैः ।
फलैस्तु शूद्रान् सकलान् सशर्करैस्तिलैः सलाजैर्वशयेज्जुहोति चेत् ॥ १६-१०३ ॥
कन्याख्यया सम्पुटमन्त्रजापात् तां प्राप्नुयात् पिष्टतनुं गुलाक्ताम् ।
हृत्वा तु तच्छेषमदन्नपीष्टां सर्वत्र पूजा विदधीत शक्त्या ॥ १६-१०४ ॥
क्षेत्रेषु बीजं निवपन् पुरस्तात् तद्बीजभक्ष्यं विनिवेद्य तस्मै ।
तत्रायुतं तानि वपेज्जपित्वा स्याद् भूयसी तेन तु सस्यसम्पत् ॥ १६-१०५ ॥
निष्पन्ने सस्ये तस्मादग्रमंशमुद्धृत्य देवस्य महतीं पूजां विदध्यात् ।
क्षेत्रं विवादास्पदमप्यथान्यदात्मीयमिच्छेद् यदि तस्य मध्ये ।
अद्यान्मृदं स्वैक्यगणेशमूर्तिर्भौमाष्टवारेषु जपन् लभेत् ॥ १६-१०६ ॥
सूर्यग्रहे तु कपिलाज्यपलं वचायाः पादांशचूर्णमिलितं जपितं यथावत् ।
पीत्वोपवासपरमस्तु भवेदजीर्णं यावद् घृतं श्रुतधरः स भवेच्च वाग्मी ॥ १६-१०७ ॥
निष्कं तदर्धमपि पादमथो हरिद्रासिन्धूत्थपाण्डरवचाः पशुमूत्रपिष्टाः ।
स्पृष्ट्वा पिबेदृतुमती जपितास्तनूजं विन्देद् गणेशमभिपूज्य पुरः स्वशक्त्या ॥ १६-१०८ ॥
भौमे दिने सविभवं गणनाथमिष्ट्वा भक्ष्याज्यपायसचरूंश्च निवेद्य हुत्वा ।
कन्यावटुद्विजवरानपि भोजयित्वा जापेन मोचयति बन्धगतानशेषान् ॥ १६-१०९ ॥
समवाप्य शिलामुदक्प्रवृत्तां कलिकामङ्कुशवत्त्रिलक्षजापात् ।
निगलस्यकरे प्रदाय मुच्येत् कुजवारे सितसिन्धुवारजाताम् ॥ १६-११० ॥
अधिवास्य वटुं निशां कुमारीं स्नपितौ तौ समलङ्कृतौ प्रभाते ।
महतीं च विधाय विघ्नपूजां परमान्नाज्यहुतैश्च मोदकाद्यैः ॥ १६-१११ ॥
कलशं विनिधाय धान्यवेद्यां जलगन्धाक्षतपुष्पचूर्णमिष्ट्वा ।
घृतपूर्णनवं शरावमस्मिन् निदधीतार्चितदीपविघ्नराजम् ॥ १६-११२ ॥
स वटुश्च कुमारिकात्र पश्येत् खलु नष्टं च धनं त्रिकालबद्धम् ।
स्वयमत्र जपेत् स्पृशन् कुमारौ मुकुरेऽप्येष विधिः समो विधेयः ॥ १६-११३ ॥
यदि वृष्टिरभीप्सितात्र शक्त्या यजनं विघ्नपतेर्विधाय भक्त्या ।
घृतपायसमोदकैः फलाद्यैर्वरगन्धैरपि माल्यधूपदीपैः ॥ १६-११४ ॥
ध्वजतोरणमङ्गलाङ्कुराढ्यैर्जलकुम्भैश्च फलैर्वितानमुख्यैः ।
समलङ्कृतकुण्डवह्निवक्त्रे विभुमावाह्य जुहोतु सप्तरात्रम् ॥ १६-११५ ॥
कदलीफलशर्करादिपिष्टैर्घृतसिद्धैश्च तथौदनैरपूपैः ।
फलपायसशर्कराज्यदुग्धैरपि नित्यं त्रिशतं पृथग् जुहोतु ॥ १६-११६ ॥
महावृष्टिर्भविष्यति ।
अरिनैधनभादिभौमबारे विषदिग्धाक्षसमित्सहस्रकैर्वा ।
अपराह्णहुतात् तथैव निम्बैः खलु पक्षादरयः प्रयान्ति मृत्युम् ॥ १६-११७ ॥
अभिलिख्य तनुं परेतभूमावसुभिर्नाम च भूसुतापराह्णे ।
उदरेऽस्य तदेधसाग्निमिष्ट्वा जपतः शत्रुरुपैति मृत्युलोकम् ॥ १६-११८ ॥
विषवृक्षफलायुतैश्चिताग्नौ लिखिताख्यैस्तु हुतैः स याति मृत्युम् ।
रिपुवेश्मनि निम्बकीलवेधात् स्फुटमुच्चाटकरं कुजापराह्णे ॥ १६-११९ ॥
तत्पत्रैर्विद्वेषः ।
भौमे गणेश्वरतिथौ गणनाथमिष्ट्वा वैयाघ्रचर्मणि तथैव सुसन्निविष्टः ।
आपूर्य तत्र कलशं प्रजपेच्च हुत्वा तेनाभिषिच्य शमयेदभिचाररोगान् ॥ १६-१२० ॥
क्षीरैक्षवाज्यहवनाच्छमयेज्ज्वरार्तिं सापूपदुग्धहवनं गजवाजिशान्त्यै ।
शस्तं च तेन परिषिच्य जलेन तेषां सम्प्रोक्षणाद् भवति शान्तिरपीह वृद्धिः ॥ १६-१२१ ॥
इत्थं स भार्गवमुनिर्जगतां हितार्थं प्राह त्रिवर्णगणराजमनोर्विधानम् ।
कन्या वटूंश्च मधुरैः सह भोजयित्वा सर्वत्र चोदितफलं लभते स्म मन्त्री ॥ १६-१२२ ॥
कन्यां दुर्गां ध्यात्वा वटुं गणपतिं ध्यात्वा भोजयेत् ।
स्वैर्नामभिश्चाष्टगणेशमुख्यानुक्तान् पृथग् विघ्नविनायकादीन् ।
सन्तर्पयामीत्यमृतांशुतोयैः सन्तर्प्य नित्यं लभते यदिष्टम् ॥ १६-१२३ ॥
व्योमाम्बुजेन्दोः प्रसृतामृताद्भिः सन्तर्पयन् विघ्नपतीन् यथोक्तान् ।
ध्यात्वा स्वमन्त्रैस्तृषितान् दिनादौ संसाधयेद् वाञ्छितमर्थजातम् ॥ १६-१२४ ॥
काल्यं करीन्द्रं करिणीगणानां मध्यं गतं तूदयशैलशृङ्गात् ।
तद्धेमसोपानपथावतीर्नं संस्मृत्य सन्तर्प्य लभेत् कामान् ॥ १६-१२५ ॥
भक्षाद्यैर्विनिवेदनं गणपतेर्होमो जपस्तर्पणं
स्तोत्रैस्तस्य नुतिर्नमस्कृतिरपि स्याच्छक्तितो नित्यशः ।
चत्वारिंशदथो चतुष्टययुतं चातुर्थिकं चार्चनं
शस्तं तद्यजनं च यस्य स भवेद् विघ्नाधिराजप्रियः ॥ १६-१२६ ॥
इति गणपतिमन्त्रा मुख्यशो नैकभेदाः
पृथगिह कथिता ये तन्त्रभेदेषु दृष्टाः ।
निखिलमपि जपाद्यं यत्क्रियाजालमुक्तं
मनुरपि गणनाथः पूर्वपूर्वो गरीयान् ॥ १६-१२७ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे दशभुजादिगणपतिपटलः षोडशः ॥ १६ ॥