१५

अथ पञ्चदशः पटलः ।

वन्दे सिन्दूरसन्दोहसुन्दरारुणरोचिषम् ।
स्तम्बेरमाननं देवमिन्द्रादिसुरवन्दितम् ॥ १५-१ ॥

महदहङ्कृतिखानिलकानलक्षितिगुणोदयशक्तिविजृम्भितम् ।
जगदिदं गणसञ्ज्ञितमस्य यद् गणपतिः पतिरेष शिवः स्वयम् ॥ १५-२ ॥

विकुरुते निखिलं खलुशक्तितः पुरुष एष शिवः स चिकीर्षया ।
तदवनं च ससंहृतिमिच्छया वितनुते तनुभेदविलक्षणः ॥ १५-३ ॥

हरिविरिञ्चमहेशमुखाः सुरा जगति विघ्नगणैरपि निघ्निताः ।
गणपतेर्यजनं खलु तन्वते यदत एव विभुर्हि विनायकः ॥ १५-४ ॥

स खलु प्रपञ्चमखिलं व्यसृजत् पुरतोऽवनाय किल तस्य विभुः ।
अथ भूतये च जगतामतनुस्तनुमास्थितो गजमुखीमभवत् ॥ १५-५ ॥

समुपोढविश्वनिखिलाध्वगणां गुणधातुबीजरवषट्कयुताम् ।
परमाङ्गषट्कविहिताङ्गविधिं वरमूर्तियुङ्मिथुनषट्कमयीम् ॥ १५-६ ॥

जगदेकभूतिजननीमजरां कमलाम्बुजाक्षगिरिजागिरिशैः ।
रतिमन्मथावनिवराहयुतैः परितो गिरा च चतुरास्यवृताम् ॥ १५-७ ॥

स्मरति वा समनुं सविधानकं प्रतिदिनं तमिमं गणनायकम् ।
अपचितिं प्रविधाय जपेच्च यः स खलु सर्वसमीहितभाजनम् ॥ १५-८ ॥

प्रणववाग्भवयोरितरत् पुरस्तदनु मागिरिजास्मरबीजयुक् ।
अवनिबीजगतं भुजमध्यमं शशिकलाढ्यसवामविलोचनम् ॥ १५-९ ॥

तदनु दण्डयुतो भुजमध्यमो गणपतेः खलु बीजवरो ह्ययम् ।
षडिति बीजवराणि समुद्धरेदखिलसिद्धिकराणि यथाक्रमम् ॥ १५-१० ॥

उदकमक्षियुतं कथितं ततः पवनसारथिरूढविलोचनम् ।
सनयनावथ खड्गिभुजङ्गकाविति पुरोर्णचतुष्टयमुद्धरेत् ॥ १५-११ ॥

हिणाश च हषः हष डट् सर्वलोकहृदयं मे वशं कुरु ठठ ॥

श्रुतिवेदवेदगुणभोगिरसैर्गणितैः स्ववर्णनिकरैस्तु मनोः ।
पृथगुक्तबीजसहितैस्तु भवेदथ सर्ववित्प्रमुखजातियुतैः ॥ १५-१२ ॥

सर्वज्ञाय नित्यतृप्ताय अनादिबोधाय स्वतन्त्राय अलुप्तशक्तये अनन्तशक्तये एवं क्रमेण स्वार्णैरायोज्य षडङ्गानि भवन्तीति यावत् ।

करशुद्धिमस्त्रमनुना तनुतां निदधात्वथाङ्गुलिषु चाङ्गमनून् ।
तलमध्यके तदनु चास्त्रमनुं लिपिवर्णमूलपदवच्च तनौ ॥ १५-१३ ॥

तत्राङ्गुष्ठादिकनिष्ठान्तं हृदयादिनेत्रान्तानङ्गमन्त्रान् विन्यस्यास्त्रमन्त्रं च हस्ततले तदनु लिपेरवर्गाक्षरादिकानि षड्बीजानि त्रिष्कृत्वो मुखे विन्यस्य कचटतपयादीनि षड्वर्गाणि मूलमन्त्रस्य विकारादीनि षट् पदानि भुजद्वयपादद्वयपार्श्वद्वयेषु पृष्ठनाभिहृदयेषु च विन्यस्यात्मानं मातृकाम्बुजगतं सशक्तिकं गणपतिं ध्यायेदिति यावत् ।

हृदयादिकेष्वथ षडङ्गमनून् निजशस्त्रतोऽपि च दिशां कलनम् ।
पुनरस्त्रतो ज्वलितवप्रविधिं परितस्तु तर्जनिकया रचयेत् ॥ १५-१४ ॥

अपि वामदेवमृषिमस्य तथा प्रवदन्ति केचन तथा गणकम् ।
तदनन्तरापि च निवृत् कथितो भगवान् प्रपञ्चगणपोऽधिपतिः ॥ १५-१५ ॥

गुरुमुखाप्तमनुं तदनुज्ञया गिरिनदीतटदेवगृहादिके ।
क्वचिदभीष्टमनोहरलक्षणं त्वभिनव प्रविधाय मठं ततः ॥ १५-१६ ॥

समुचिताहृतपूजनसाधनो विहितनैत्यककर्म न हापयन् ।
जपतु लक्षमतन्द्रितधीर्मनुं व्रतिजनोदितशस्तमिताशनः ॥ १५-१७ ॥

इति पूर्वसेवनविधौ चरिते मनुरेष सिद्धिमधिकां तनुते ।
प्रतिवासरं यजनहोमजपैर्भजतां भवन्त्यभिमतान्यचिरात् ॥ १५-१८ ॥

अथ लिख्यतेऽस्य तु विधानवरं स्मरणेन सिध्यति च यस्य मनुः ।
प्रविलिख्य चित्रतरचित्रपटं विभवे यजेत् सति न चेन्मनसा ॥ १५-१९ ॥

अथ चिन्तयेदुदधिमिक्षुरसं लहरीतरङ्गशतरम्यतरम् ।
तिमिनक्रशङ्खकुलमीनगणैः सतिमिङ्गिलाकुलजलोल्लसितम् ॥ १५-२० ॥

पुलिनं च मध्यभुवि तस्य महन्मणिपर्वतं च शिखरोपचितम् ।
परितस्तमालवनतालशतैः सरलैश्च सालघनसारनगैः ॥ १५-२१ ॥

सकदम्बनिम्बनिकुरुम्बयुतैरपि नालिकेरकरकेलिशतैः ।
वरकुण्डहालिनिचुलाम्रवणैः कदलीवनैश्च रमणीयतटम् ॥ १५-२२ ॥

नवपूगपूगगतनागलताकुलसल्लकीलवलिकामरिचैः ।
सलवङ्कबिल्ववकुलैश्च मिलन्मदचञ्चलीककुलनादकलम् ॥ १५-२३ ॥

सहकारकोरकरसास्वदनोन्मदकोकिलस्वनसनाथमरम् ।
चमरैरपि स्रमरकैश्चरितं सुरकिन्नरासुरवराध्युषितम् ॥ १५-२४ ॥

नवपल्लवाकुलगुलुच्छमिलत्कलिकोन्मिषत्कुसुमभारततीः ।
व्रततीभिरत्र दधतीभिरलं समलङ्कृतं खगकुलाकुलितम् ॥ १५-२५ ॥

कुवलयैः कमलैः समलङ्कृतं समरसं सरसामपि सारसैः ।
क्वचन कैरवकैर्विकचोत्पलैः कुरवकैः कलहंसकुलैरपि ॥ १५-२६ ॥

तटपरिस्रुतनिर्झरशीकरोत्करभरैर्गजदानमनोहरैः ।
चलितचन्दनचम्पककेतकीपरिमलैरनिलैरपि सेवितम् ॥ १५-२७ ॥

सकलशीतकरोदयचन्द्रिकाविशदतारकजालकमेकतः ।
गगनमुद्यदुदंशुमदंशुना विलसितं क्वचिदम्बुवहैरपि ॥ १५-२८ ॥

समधुमाधवशुक्रशुचिश्रिते नभसि युक्तनभस्यमिषोर्जयोः ।
सहसि सङ्गि सहस्यसमं तपः कुसुमसम्पदलम्भि तपस्यता ॥ १५-२९ ॥

ऋतुगणेन समानगुणोदयं सततसम्भृतकौसुमसम्पदा ।
समधिकं समलङ्कृतकाननं कनकचारुतटं प्रविचिन्तयेत् ॥ १५-३० ॥

तन्मध्यहेमशिखरे मणिहेमभूमौ वप्राणि सप्तं कनकोज्ज्वलभित्तिकानि ।
ध्येयानि तत्र च विमानशतानुकीर्णाः कक्ष्याश्च सप्त पृथमुच्छ्रितगोपुरान्ताः ॥ १५-३१ ॥

तासां तु मध्यविनिविष्टमनन्तरत्नच्छायावृतं कनकमण्डपमुच्चशृङ्गम् ।
दिव्यं शशाङ्कमणिकुट्टिमभूषितं स्याद् ध्येयं विशालचतुरश्रमतीव रम्यम् ॥ १५-३२ ॥

मुक्तास्रगञ्चितवितानसनाथमध्यं हैमैर्मणिप्रवरवज्रविकारचित्रैः ।
कुम्भैर्विराजितमथास्य चतुर्दिशासु द्वाराणि चित्रमकराकृतितोरणानि ॥ १५-३३ ॥

नानाविधैर्मधुरसैः परिलम्बमानैः पक्वैः फलैश्च कुसुमैर्वरमाल्यदामैः ।
शाल्यग्रकैः कनकपल्लवमोदकैश्च व्यालम्बितैस्तु परिमण्डितमण्डपान्तम् ॥ १५-३४ ॥

समन्ततः साङ्कुरपालिकाभिर्मणिप्रदीपैश्च हिरण्यदीपैः ।
सधूपपुष्पाक्षतगन्धपात्रैः सचामरस्वस्तिकशङ्खपद्मैः ॥ १५-३५ ॥

विराजितं दर्पणपूर्णकुम्भैः सलाजकुम्भैरपि तत्र तत्र ।
समाहितैर्वामनकुब्जकाद्यैर्गणैः समन्तात् समलङ्कृतं तत् ॥ १५-३६ ॥

अथार्घ्यतोयोक्षितगन्धपुष्पस्वात्माम्बुयागालयमण्डपः सन् ।
भुवस्तलानामपि चाप्यधस्तादाधारशक्तिं तु यजेत् पुरस्तात् ॥ १५-३७ ॥

ततस्त्वनन्तं पृथिवीधरं तं पृथ्वीं च सम्पूज्य तु योगपीठम् ।
यजेदनन्तात्मकमस्य पादान् धर्मादिकानुक्ततनून् यथावत् ॥ १५-३८ ॥

रजस्तमस्सत्त्वमयानि कुन्दं नालाम्बुजे च प्रविचिन्त्य पद्मे ।
क्रमेण सूर्याग्निनिशाकराणां तत्पत्रतत्केसरकर्णिकाः स्युः ॥ १५-३९ ॥

तन्मातृकाब्जं लिपिवर्णजुष्टं पूर्वोक्तभङ्ग्या परिभाव्य तस्मिन् ।
दिक्पत्रकोणच्छदनक्रमात् स्युः पूज्याः सपीठाष्टकमातृरुद्राः ॥ १५-४० ॥

प्राच्यां श्रीकामरूपो यमदिशि च तथा कोल्लपूर्वो गिरिः स्यात्
सोपाराख्यं प्रतीच्यां धनददिशि तथा चोड्डियाणं तु पीठम् ।
आग्नेय्यां चापि तद्वन्मलयगिरिरथ श्रीकुलान्तं निर्-ऋत्यां
जालन्ध्रं वायुभागे त्रिणयनहरिति स्यात् तथा देविकोट्टम् ॥ १५-४१ ॥

ब्राह्म्याद्याश्चण्डिकान्ताः पृथगिह कथिता मातरस्तेषु पूर्वं
दीर्घैर्युक्ताः स्वरैस्ताः शशधरशकलैर्ह्रस्वबिन्दुस्वरैस्ते ।

युक्ताः स्युश्चासिताङ्गो रुरुरथ कथितश्चण्डकः क्रोधनाख्य-
श्चोन्मत्तोऽन्यः कपाली तदनु निगदितो भीषणः संहृतिश्च ॥ १५-४२ ॥

तारश्रीयुतपीठनामसहितः पीठेतिशब्दः स्वरो
दीर्घः स्यादथ मातृनामसहितं तत्तच्चतुर्थ्यां तु हृत् ।
ह्रस्वा बिन्दुयुताः स्वराश्च कथिता नाम्ना सिताङ्गादय-
श्चाप्यष्टावथ भैरवाय च नमस्तत्पादुकेभ्यस्तथा ॥ १५-४३ ॥

ब्रह्माण्याद्यास्तु देव्यः स्वसुरसमवपूर्वर्णवाहायुधाद्याः
कृष्णा रक्ताच्छपीतास्त्वरुणशुकनिभाः स्वर्णताम्रप्रभास्ते ।
भूषाढ्या भैरवाः स्युः स्मितमुखकमलाः स्वाक्षमालाकपाला
श्चन्द्रोत्तंसास्त्रिनेत्रास्त्वरुणनिवसनालेपमाल्या विचिन्त्याः ॥ १५-४४ ॥

आमोदोऽथ प्रमोदस्तदनु च सुमुखो दुर्मुखोऽन्यस्तु विघ्न-
स्तद्वद् वैनायकाख्यः षडिति गजमुखा दिव्यभूषाम्बराढ्याः ।
सिद्धिः कान्तिः समृद्धिस्त्वथ मदनवती क्लिन्नया क्लेदनी चे-
त्याभिर्वामाङ्कगाभिः स्मररसललिताः शक्तिभिस्तेऽर्चनीयाः ॥ १५-४५ ॥

दक्षिणोत्तरपार्श्वयोः शङ्खपद्मनिधी वसुमत्या वसुधारया च शक्त्या श्लिष्टदेहौ वसुवर्षिणौ सुपूज्यौ ।

षडेते गणेशाः प्रियालिङ्गिताः स्युः सुरेशाम्बुपाग्नीशरक्षोनिलानाम् ।
दलेष्वर्चनीया निधी शङ्खपद्मौ प्रवर्षद्धनौ याम्यसौम्यच्छदस्थौ ॥ १५-४६ ॥

तदन्तर्वृतावङ्गमन्त्रा गजास्या हृदाद्यास्तु कोणच्छदेष्वर्चनीयाः ।
दिशास्वस्नमेषां पुरो नेत्रमिष्ट्वा स्वनाम्ना नमोन्तं च पञ्चोपचारैः ॥ १५-४७ ॥

अथ विभाव्य निशाकरमण्डलं गगनपाण्डरपङ्कजमध्यगम् ।
शशिकलांशुसहस्रपरिस्रवत्सितसुधामयशीकरवर्षि यत् ॥ १५-४८ ॥

सुषिरमस्य च मध्यगतं तनुं तरलदीपशिखानुकृतिं त्विषा ।
शिवमयं रुचिमत् प्रविचिन्तयेत् परिलसत्परबिन्दुरवोदयम् ॥ १५-४९ ॥

आनीयास्मादिन्दुसुधाशीकरशीतं सूक्ष्मं ज्योतिर्मूर्धनि सौषुम्नसरण्या ।
विन्यस्याब्जे मन्त्रतनुं तत्र गणेशं तेजोराशिं तप्तहिरण्यद्रवभासम् ॥ १५-५० ॥

पुष्पापूर्णं स्वाञ्जलिमायोज्य तु तस्मिन् दिव्यं ज्योतिः पङ्कजमध्ये विनिवेश्य ।
ध्यायेद् देवं सुन्दरदेहं कनकादिप्रख्यं भासा भानुसहस्रोदयतुल्यम् ॥ १५-५१ ॥

द्वादशाबाहुः शेखरितेन्दुस्त्रिदृगिभवरमुखरुचिरतरवपुः
शङ्खरथाङ्गे चाङ्कुशपाशौ मनसिजधनुरपि सरसिजविशिस्वान् ।
कल्पकशालिक्रामुकशूले भयहरवरकरमपि दधदवतात्
पद्मनिविष्टः शक्तिसखो वो गणपतिरिभकरधृतमणिचषकः ॥ १५-५२ ॥

क्षमाङ्घ्रिपद्मं खतनुं रसोदरं रवीन्दुवह्नित्रिदृशं मरुद्ध्वनिम् ।
प्रधानबुद्ध्यक्षशिरोविचेष्टितं समस्तलोकास्पदविश्वविग्रहम् ॥ १५-५३ ॥

पिशङ्गकौशेयनिभाम्बराम्बरं प्रलम्बतुन्दाश्रितविश्वविष्टपम् ।
विचित्रहारोल्लसितोरुवक्षसं भुजङ्गमाधीशकृतोपवीतकम् ॥ १५-५४ ॥

सुजाटजूटार्पितहेममौलिनं कलामयं ज्ञानशशाङ्कशेखरम् ।
प्रपञ्चविद्यामयचारुविग्रहं समस्तशोभैकगुणास्पदं विभुम् ॥ १५-५५ ॥

सहेमनिष्काङ्गदकण्ठभूषणं विचित्रनानावलयाङ्गुलीयकम् ।
विनीलरत्नोदरबद्धमण्डितं पिशङ्गरत्नोज्ज्वलहेमनूपुरम् ॥ १५-५६ ॥

सुखोपविष्टं सरसीरुहोदरे पदाम्बुजं दक्षिणमर्थवर्षिणि ।
सलीलमाधाय पुरो हिरण्मये सरोजवक्त्रे कलशे विचिन्तयेत् ॥ १५-५७ ॥

सव्यमङ्कमुपाश्रितां सकलेश्वरीं त्रिगुणात्मिका-
मव्ययां निजशक्तिमक्षरमातरं जगतामपि ।
भव्यरूपमनोहरामुरुपारिजातमुपाश्रितां
दिव्यकल्पकवल्लरीमिव कामदां प्रविचिन्तयेत् ॥ १५-५८ ॥

बन्धुजीवदलत्विषा रजसा निजाङ्गरुचारुणां
कुन्दकुड्मलकोमलस्मितचन्द्रिकाधवलप्रभाम् ।
चञ्चलीकविनीलवेल्लितकेशपाशभरासिता-
मङ्गनां प्रथमामजां प्रकृतिं वदन्त्यपि यां विदः ॥ १५-५९ ॥

अङ्घ्रिपङ्कजयुग्मदीधितिनिर्जितस्थलपङ्कजां
जङ्घयोर्युगकान्तिभिर्जितकेकिनीगलमङ्गलाम् ।
अङ्गवत् कदलीप्रकाण्डमनोरमोरुयुगश्रियं
सुन्दरीं रशनास्पदेन च सुन्दरेण सुमध्यमाम् ॥ १५-६० ॥

विभ्रतीं तनुनोदरेण तु रोमराजिमणीयसीं
कज्जलोल्ललितां यथैव वलित्रयं च मनोहरम् ।
रुक्मकुम्भयुगस्तनीं नवपारिजातलताभुजां
तुङ्गरत्नविभूषणेन गलेन चाप्यतिमङ्गलाम् ॥ १५-६१ ॥

शारदेन्दुमुखीं तरङ्गचलन्नवोत्पललोचनां
चारुकर्णयुगावसङ्गिचलत्प्रभामणिकुण्डलाम् ।
चारुनासिकया च रम्यकपोलयुग्मललाटिकां
मारचापनतभ्रुवं मधुपावलीरुचिरालकाम् ॥ १५-६२ ॥

स्यन्दमानसमस्तकान्तिरसप्रकर्षगुणास्पदां
चन्द्रिकामिव शारदीममलप्रभामनपायिनीम् ।
इन्द्रचन्द्रमुखैर्मुनीन्द्रवरासुरैरपि वन्दिता
मिन्दिरागिरिजारतिक्षितिवाग्वधूमयविग्रहाम् ॥ १५-६३ ॥

आश्लिष्यैनं दक्षदोष्णा तदीयं लक्ष्मप्रेम्णा पाणिना संस्पृशन्तीम् ।
देवं चैनां पुष्पचापाङ्कदोष्णा स्वालिङ्ग्याधः संस्पृशन्तं तु नीव्याम् ॥ १५-६४ ॥

एवंरूपां मूलशक्तिं च तद्वत् प्रोक्ताकारं देवमप्युक्तवेषम् ।
ध्यात्वा सम्यक् पूजयेच्चोपचारैः शुद्धिं कृत्वा वक्ष्यमाणक्रमेण ॥ १५-६५ ॥

अस्त्रेण धौतं तु पुरोऽर्घ्यपात्रं चापूर्य तोयाक्षतगन्धपुष्पैः ।
सिद्धार्थदूर्वाफलदुग्धकूर्चैः साङ्गं तु मूलं विनिधाय तस्मिन् ॥ १५-६६ ॥

तद्द्वादशान्तामृतपूरपूर्णं हंसेन चैतन्ययुतं विभाव्य ।
धेनुं प्रदर्श्याथ सधूपपुष्पैरिष्ट्वा तु कूर्चेन तदर्घ्यतोयैः ॥ १५-६७ ॥

शिरः स्वमभ्युक्ष्य तथाश्रयं च द्रव्याणि चाम्भः कुसुमादिकानि ।
तद्बिन्दुसंयोगनिरीक्षणाभ्यां विशोध्य पाद्याचनमीयके च ॥ १५-६८ ॥

सत्पुष्पदूर्वाङ्कुरशेखरः सन् गन्धेन कृत्वा तिलकं ललाटे ।
पूर्वोत्तरस्यां दिशि भक्तिनम्रः पञ्चोपचारेण गुरून् यजेत् ॥ १५-६९ ॥

ॐ गुरुभ्यो नमः । ॐ परमगुरुभ्यो नमः । ॐ परमेष्ठिगुरुभ्यो नमः । ॐ पूर्वाचार्यगुरुभ्यो नमः । ॐ महापूज्यपूर्वंसिद्धेभ्यो नमः ।

ते रक्तमाल्याम्बरगन्धभूषाः स्वलङ्कृताः पङ्कजविष्टरस्थाः ।
सर्वे च सालम्बनयोगनिष्ठाः प्राप्ताखिलैश्वर्यगुणाष्टकार्थाः ॥ १५-७० ॥

अथोपचर्यापटलोक्तमार्गादावाहनस्थापनसन्निधानैः ।
निरोधनं चाप्यवकुण्ठनान्तं षड्भिस्तदङ्गैः क्रमशो विदध्यात् ॥ १५-७१ ॥

अर्घ्यं च पद्याचमने हृदास्मै देयाश्च गन्धाक्षतपुष्पधूपाः ।
स्नानं षडङ्गैरपि मूलयुक्तैर्मन्त्रैश्च सूत्रैरपि वैदिकैः स्यात् ॥ १५-७२ ॥

वस्त्राणि माल्यानि च भूषणाद्यं गन्धाक्षते चाप्यथ धूपदीपौ ।
हृदैव दद्यान्मुकुरं च नेत्रान्मूलेन नैवेद्यमपि प्रदेयम् ॥ १५-७३ ॥

तच्चोत्तमादुत्तमपूर्वमार्गाच्चतुर्विधान्नाज्यफलोपदंशैः ।
युक्तं दधिक्षौद्रसितोपलाज्यैः सलड्डुकैर्मोदकमण्डकाद्यैः ॥ १५-७४ ॥

शीतं जलं साम्बु च नारिकेलं सक्तूंश्च लाजान् मधुरान् गुलाक्तान् ।
पाण्योर्जलं चाचमनं च दत्त्वा ताम्बूलमष्टाङ्गयुतं निवेद्य ॥ १५-७५ ॥

फवोडषां विद्महे वक्रतुण्डाय धीमहि तन्नो गणपतिः प्रचोदयात् ।

गायत्रीयं विघ्नराजस्य योज्या नैवेद्यादौ जप्यहोमादिके च ।
स्तुत्वा स्तोत्रैर्दण्डवच्चापि नत्वा कक्ष्यांसंस्थाः पर्षदश्चात्र पूज्याः ॥ १५-७६ ॥

पद्मो महापद्मनिधिश्च पूर्वे द्वारेऽथ याम्ये मकरश्च कूर्मः ।
पश्चान्मुकुन्दो निधिरप्यनन्तः पूज्यस्ततो नीलनिधिश्च शङ्खः ॥ १५-७७ ॥

अन्तर्हारे बाह्यतो मण्डपस्य प्राच्यां याम्ये पश्चिमे चोत्तरे च ।
स्वर्णाकाराः कल्पवृक्षास्तु पूज्याश्चत्वारस्ते रत्नचैत्यैर्निबद्धाः ॥ १५-७८ ॥

ते च विल्वाश्वत्थवटोदुम्बराकाराः कल्पवृक्षा इति यावत् ।

बिल्वस्याधः पद्मगतौ श्रीकमलाक्षौ सर्वो गौरी दक्षिणतः पिप्पलमूले ।
न्यग्रोधाधः कामरती पश्चिमतस्तां सौम्ये क्रोडो भूश्च तथोदुम्बरमूले ॥ १५-७९ ॥

पद्मौ शङ्खं चक्रमथो टङ्कवरैणौ ध्येयाः पाशं चाङ्कुशपुष्पेषुधनूंषि ।
विभ्राणास्ते तूत्पलपूगोत्थगदारीन् शाल्यग्राली कल्पलतेव क्रमशोऽमी ॥ १५-८० ॥

श्रीमुकुन्दादयोऽष्टौ द्वन्द्वशः क्रमेणोर्ध्वकराभ्यां पद्मादीन्यायुधानि बिभ्राणाश्चाधःकराभ्यां बद्धाञ्जलिपुटा ललितवेषाभरणाद्यलङ्कृता मिथो दाम्पत्यप्रीतिमविच्छिन्नां चिराय प्रार्थयन्तो गणेशाभिमुखं पद्मेषु स्थिता ध्येयाः स्युरिति यावत् ।

दाम्पत्यानां मध्यविदिक्ष्वप्सरसोऽन्तर्गन्धर्वा(द्या)श्चाप्यथ विद्याधरसिद्धाः ।
वह्न्याशाद्यं वादितगीतं सहनृत्तं तन्वानास्ते स्वेष्टफलाप्त्यै खलु चिन्त्याः ॥ १५-८१ ॥

तेषां बाह्ये वेदचतुर्गोपुरसंस्थो ब्राह्म्या युक्तः कुण्डिकजप्यावलिपाणिः ।
पद्मासीनः पुस्तककुम्भौ च दधत्या शुक्लाकल्पः पङ्कजभूः स्यादभिचिन्त्यः ॥ १५-८२ ॥

तत्र गोपुराणां मध्ये कोणेष्वाग्नेयादिषु सनकादयो दक्षादयो बालखिल्याः सप्तर्षयश्च यथाधिकारं ध्यायन्तः सुखासीनाः स्मर्तव्याः ।

तृतीयहारे त्वथ लोकपालान् यजेत् स्वदिक्स्थान् सगणान् सवाहान् ।
याम्ये पितॄनम्बुपतौ च नागान् सौम्ये धनेशं सह यक्षबृन्दैः ॥ १५-८३ ॥

चतुर्थकक्ष्यानिलयांस्तु दैत्यान् सदानवांस्तान् ससुतान् सदारान् ।
यजेद् ऋषीनप्यथ पञ्चमी या वृतिस्तु तस्यां मरुतश्च सर्वान् ॥ १५-८४ ॥

षष्ठ्यां वृतावुत्तरतो गुरुं च क्षेत्रेशमभ्यर्च्य नवग्रहांश्च ।
मध्ये रविं दिक्षु शशिज्ञधिष्ण्यैः शुक्रं कुजाद्याननलादिकेषु ॥ १५-८५ ॥

तस्यां ग्रहान् स्कन्दमुखांश्च भूयो भूतानि मातॄश्च यजेद् यथावत् ।
दिव्याधिवर्षाम्बुधिवासिनो ये सकिन्नरास्तेऽन्त्यवृतौ विचिन्त्याः ॥ १५-८६ ॥

एवं बहिः सप्त यथोक्तकक्ष्यावासास्तु ये दम्पतिकल्पवृक्षाः ।
देवादयः प्रोक्तगणा यथावत् पूज्या गणेशार्चनतत्परास्ते ॥ १५-८७ ॥

पञ्चोपचारैस्तु यथोपपत्त्या स्वैर्नामभिः पूजनमुक्तमेषाम् ।
वह्नावपीत्थं सगणं गणेशं सन्तर्पयेदाज्यनिवेद्यशेषैः ॥ १५-८८ ॥

मुद्रास्तु शङ्खारिमुखाः प्रदर्श्या बाहुं मुखे हस्तिकरोपमानम् ।
विन्यस्य सङ्कुञ्चितमध्यमाग्रमङ्गुष्ठयुक्तं गणराजमुद्राः ॥ १५-८९ ॥

ततो यथाशक्ति जपेच्च नित्यं जपं च पूजां चुलुकोदकेन ।
निवेदयेदङ्घ्रिसरोरुहेऽस्य क्रमेण मन्त्रैरिह वक्ष्यमाणैः ॥ १५-९० ॥

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवति मे येन त्वत्प्रसादात् त्वयि स्थिता ॥ १५-९१ ॥

यत्किञ्चित् कुर्महे देव! सदा सुकृतदुष्कृतम् ।
तन्मे शिवपदस्थस्य भुङ्क्ष्व क्षपय शङ्कर ! ॥ १५-९२ ॥

शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ।
शिवो जयति सर्वत्र यः शिवः सोऽहमेव तु ॥ १५-९३ ॥

येयं पूजा कृता देव ! जपहोमान्विता मया ।
प्रसीद प्रतिगृह्णीष्व सिद्धिमिष्टां प्रयच्छ मे ॥ १५-९४ ॥

ततः समाधाय हिरण्यरेतसं यथोक्तसंस्कारविशेषसंस्कृतम् ।
द्विजस्तु हुत्वाग्निमुखं च तन्मुखे गणेशमावाह्य जुहोतु सिद्धये ॥ १५-९५ ॥

धवलकुसुमगन्धः पौर्णमास्यादि हुत्वा घृतगुलमधुयुक्तं पुण्डरीकायुतानि ।
घृतमधुपयसा वा श्रीफलैरर्धलक्षं धनपतिरिव लक्ष्मीमक्षयां विन्दतेऽसौ ॥ १५-९६ ॥

शुक्लां तु प्रतिपदमादितस्त्रिरात्रं वोपोष्य त्रिमधुरपङ्कजैश्चतुर्थ्याम् ।
हुत्वाग्नावयुतमथाधिकं च लक्षं लक्ष्मीं वा निधिमपि पश्यतीति सत्यम् ॥ १५-९७ ॥

नन्द्यावर्तैर्वा भगर्क्षे सहस्रैः पञ्चम्यां वा पुण्डरीकाक्षपुष्पैः ।
द्वादश्यां वा शुक्लपर्वण्यथैवं हुत्वा श्वेतैः पङ्कजैः स्याद् धनेशः ॥ १५-९८ ॥

नित्यं प्राह्णे वोर्ध्वबाहुर्जपित्वा यावल्लक्षं सूर्यदृष्टिर्धनी स्यात् ।
उत्पाट्याथोदुम्बरं वाप्यशेषं हुत्वा लक्ष्मीं विन्दते मण्डलेन ॥ १५-९९ ॥

एकच्छायापत्यगोक्षीरसिद्धं स्पृष्ट्वाभ्यस्तं तच्चरुं प्राशयेद् वा ।
पारावारङ्गामिनीसिन्धुतोये भानुं पश्यन् वा जपन् स्याद्धनेशः ॥ १५-१०० ॥

नालिक्रेरपनसैक्षवरम्भासक्तुलाजपृथुकैर्मधुराक्तैः ।
मोदकैश्च सहितैस्तु समांशैर्होम एष खलु कल्पकवृक्षः ॥ १५-१०१ ॥

हुत्वाच्छिद्रानूर्णनाभेस्तु तन्तून् वस्त्रार्थं वा शुक्लरक्तादिपुष्पैः ।
तत्तद्वर्णान्याप्नुयात् कैरवैर्वा वासांस्यब्जैः शोभनैः शोभनानि ॥ १५-१०२ ॥

क्षीराज्याभ्यां सिक्तदूर्वासहस्रं हुत्वा नित्यं स्यादरोगश्चिरायुः ।
पुष्पैः पुष्टिः स्यात् तिलैराज्यमिश्रैः पीत्वाभ्यस्तं वारि रोगान् निहन्यात् ॥ १५-१०३ ॥

चतुरङ्गुलमात्रमिताः सुहुताः प्रहरन्त्यमृतालतिकासमिधः ।
दधिमध्वभियुक्तघृतस्नपितास्त्वपमृत्युभयं ग्रहदोषमपि ॥ १५-१०४ ॥

सघृतं ससितं परमान्नहुतं सघृतं तु पयः सह कृष्णतिलैः ।
असिताहनि पिप्पलमूलजपोऽप्यभिमृश्य हरेदपमृत्युभियम् ॥ १५-१०५ ॥

कलशं तु रवेरुदयेऽब्जगतं परिजप्य दिवा निशि जागरणात् ।
उदये तु रेवेरभिषिच्य जयेद् दुरितान्यभिचाररुजोऽपि हरेत् ॥ १५-१०६ ॥

उदये परिपूर्य तथा कलशं घृतहोमदशांशकशेषयुतम् ।
दिनमध्यगते तपने स्नपनात् सुभगस्तु समृद्धिसुतान् लभते ॥ १५-१०७ ॥

सलिलान्नफलादि चरेदमुना परिजप्य तु रोगहरं वचसाम् ।
विभवं वितनोति च दत्तमिदं प्रियकूर्चमथो जनरञ्जनकम् ॥ १५-१०८ ॥

ब्राह्मे काले पर्वणि क्षीणचन्द्रे पाद्मे पत्रे कापिलं गोमयं खे ।
लब्ध्वाभ्यस्तं चायुतं तन्निखातं द्वारे रेक्षेद् रोगचोराग्न्यहिभ्यः ॥ १५-१०९ ॥

तद्वद् वह्नौ गोमयाद् भस्म सिद्धं सापस्मारान् क्षुद्रभूतग्रहादीन् ।
हन्याद् रक्षां चावहेच्छ्रीकरं तन्मन्त्रालब्धं चन्दनाद्यं च वश्यम् ॥ १५-११० ॥

तिस्रो रात्रीः प्रागुपोष्योपरागे ब्रह्मीसर्पिस्ताम्रपात्रे वचायाः ।
चूर्णोन्मिश्रं हंसवागीश्वरीयुङ्मन्त्रेणाप्तं वाग्विलासं विधत्ते ॥ १५-१११ ॥

वृष्टिर्भवेद् वेतसजाभिरिष्टा त्रिपत्रजाभिश्च सुताः समिद्भिः ।
हुत्वा कणैर्वारयतीह वृष्टिं तथार्कपुष्पैर्मधुरैर्जयं च ॥ १५-११२ ॥

अन्नेन चान्नं मधुरैस्तु विन्देत् पलाशकौदुम्बरबोधिजाभिः ।
प्लक्षोद्भवाभिर्हवनात् समिद्भिः क्रमेण वर्णान् वशयेद् द्विजादीन् ॥ १५-११३ ॥

वैल्वैः फलैः सरसिजैश्च नृपा वशे स्युः श्वेतोत्पलैर्जनपदा लवणाज्यलाजैः ।
कन्याः सलोणमधुना हवनात् स्त्रियोऽन्यान् ग्रामान् निशाह्वतिलतण्डुलशर्कराभिः ॥ १५-११४ ॥

राज्ञां तु शत्रुविजयाय विशिष्टदेशे कृत्वा तु मण्डवरं चतुरश्रशालम् ।
दिग्द्वारतोरणयुतं समलङ्कृतं तत् सञ्छाद्य सूक्ष्मवसनैः फलपुष्पमाल्यैः ॥ १५-११५ ॥

तत् स्वस्तिकाम्बुजगतं गणनाथमिष्ट्वा कुण्डे जुहोतु मधुरत्रितयेन लक्षम् ।
भक्ष्यैश्च मोदकफलैरपि तद्दशांशं क्षीरौदनैक्षवघृतैस्त्रिसहस्रसङ्ख्यम् ॥ १५-११६ ॥

मृष्टान्नहेमवसनं प्रथमाश्रमिभ्यो दत्त्वा गवाश्वकनकानि तथैव होतुः ।
सन्तर्प्य च द्विजवरांस्त्रिदशानपीष्ट्वा यास्यन् स हि भवेद् विजयी नरेन्द्रः ॥ १५-११७ ॥

तेनाभ्यस्ताः शर्कराः सर्पदस्यून् व्याघ्रादीन् वा वारणान् वारयेयुः ।
अग्निं हस्ते धारयेज्जम्भकादीन् रक्षोयक्षान् भूतवर्गांश्च हन्यात् ॥ १५-११८ ॥

आकृष्याथो योषितं नर्तयेद्वा लोकं सर्वं क्षोभयेन्मन्त्रसिद्धः ।
तेनाभ्यस्तं कज्जलं चन्दनं वा प्रीतिं हृद्यामावहेल्लोचनानाम् ॥ १५-११९ ॥

यत् सिद्धार्थैर्मन्त्रितैः प्राक् सहस्रमश्वत्थान्तः स्थापितैः सप्तरात्रम् ।
पौनःपुन्यं तज्जपात् साधितैस्तैः शत्रून् सर्पांश्चाटयेत् तत्र खातैः ॥ १५-१२० ॥

द्वेषयेत् कलिसमिद्भिरथान्यान् वा तुषान्तरितनिम्बदलैश्च ।
चैत्यकानलविभीतसमिद्भिर्मारयेत् सपदि रक्तविषाभ्याम् ॥ १५-१२१ ॥

अतिरक्तकृष्णमभिचिन्त्य विभुं वनदर्भपुञ्जमभिमन्त्र्य समम् ।
पुरुषप्रमाणमथ शत्रुपथे विकिरेत् तु रोगमुपयान्त्यरयः ॥ १५-१२२ ॥

रसनागतं प्रदहदग्निनिभं प्रतिवादिनो गणपतिं स्मरतु ।
प्रजपन् मनुं शिततदङ्कुशतो लवनेन तं जयति रुद्धमुखम् ॥ १५-१२३ ॥

तृतीयामुपोष्याथ मन्त्री चतुर्थ्यां स्वशक्त्या तु हुत्वा तथाग्नौ फलाद्यैः ।
पयोन्नं घृताढ्यं निवेद्यास्य भक्त्या द्विजेन्द्रांस्तथेष्ट्वा स्वभीष्टं स विन्देत् ॥ १५-१२४ ॥

पयो वाथ शाकं समश्नंस्तु लक्षं जपेद् यः स सिद्धिं समग्रामुपेयात् ।
द्विजाग्र्यानभीष्टैर्वटूंश्चेष्टदानैरजस्रं स्वशक्त्या यजेच्चापि विन्देत् ॥ १५-१२५ ॥

अत्रोच्यते कुण्डवरस्य तु प्रागुक्तस्वरूपं गणनाथमिष्ट्वा ।
कुण्डेऽग्निमाधाय पयोघृताभ्यामर्कस्य पुष्पैरपि वालुकाभिः ॥ १५-१२६ ॥

क्षौद्रेण चान्नेन पृथक् क्रमेण हुत्वा तु लक्षाण्यथ कुण्डमध्ये ।
वेतालसञ्ज्ञां गुलिकां लभेत् तां धारयन् स्यादणिमादिसिद्धः ॥ १५-१२७ ॥

एवं हि खड्गाञ्जनपादुकाद्यं यद् तत् तदिष्टं लभते स्म मन्त्री ।
किं तन्न लभ्यं भुवनत्रयेऽस्मिन् नास्त्यस्य किं वा बहुनोदितेन ॥ १५-१२८ ॥

शालिपिष्टकदलीफलमाषक्षोदशर्करसनिस्तुषमुद्गैः ।
नालिकेरमधुजीरकलोणैर्व्योषचूर्णसहितं घृतसिद्धैः ॥ १५-१२९ ॥

मोदकैर्हृदयमोदकगन्धस्वादुभिः प्रतिदिनं निजशक्त्या ।
होम एष किल कल्पकवृक्षो वाञ्छितार्थफलदो हि नराणाम् ॥ १५-१३० ॥

शालितण्डुलसनिस्तुषमुद्गैः सार्धशर्करघृतैरपि सिद्धम् ।
नालिकेरकपिलापयसोर्यत् पायसं हुतमभीष्टदमुक्तम् ॥ १५-१३१ ॥

कदलीपनसाम्रगोस्तनीनां बदराणां मधुरत्रयोक्षितानाम् ।
अपिलड्डुकमण्डकादिकानां हवनं कृष्णतिलैश्च कामदं स्यात् ॥ १५-१३२ ॥

चतुर्थिकार्चनहुते विभवानुरूपं नित्यार्चनं च गगनाब्जसुधामयाद्भिः ।
सन्तर्पणं च सकलाभिमतानि पुंसां संसाधयन्ति निखिलान्यपि वाञ्छितानि ॥ १५-१३३ ॥

ध्यातः शशाङ्कधवलद्युतिरेष देवः स्वैक्येन हस्तचषकामृतवारिवर्षैः ।
सिञ्चन् विषाणि निखिलानि निहन्ति सद्यो जप्त्वा प्रपञ्चमयविग्रहविघ्नराजः ॥ १५-१३४ ॥

हृत्पङ्कजेऽभिनवपाण्डरपुण्डरीकस्वच्छाभिरामवपुरिन्दुसहस्रकान्तिः ।
अङ्गुष्ठमात्रतनुरूर्ध्वसुधाम्बुसिक्तो ध्यातश्च मृत्युमपि हन्ति विमुक्तिदः स्यात् ॥ १५-१३५ ॥

इतीह खलु कीर्तितो मनुरयं प्रपञ्चे यथा
तथा च ललितागमे मकुटवातुले तूदितः ।
प्रपञ्चगणनायकस्तु सविधानमन्त्रक्रिय-
स्त्रिवर्गविभवार्थिनां कलियुगेऽपि सिद्धिप्रदः ॥ १५-१३६ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे
प्रपञ्चगणपतिपटलः पञ्चदशः ॥ १५ ॥