अथ चतुर्दशः पटलः ।
अथाग्नेयास्तु कथ्यन्ते कल्पाः सङ्कल्पितार्थदाः ।
वैदिकः प्रथमः कल्पः शैवो वैष्णव एव च ॥ १४-१ ॥
काम्यश्चेति चतुर्धाग्नेः कल्पाः स्युस्तन्त्रचोदिताः ।
नित्यं नैमित्तिकं काम्यं साध्यं यत् कर्म वैदिकैः ॥ १४-२ ॥
द्विजैस्तु वैदिकैर्मन्त्रैस्तत् सिध्येद् वैदिकाग्निना ।
शैवागमोदितं कर्मं शैवैर्मन्त्रैरथापि यत् ॥ १४-३ ॥
कृतं पाशुपताद्यैश्च शैवोऽग्निस्तत् प्रसाधयेत् ।
वैष्णवं कर्म तन्मन्त्रैः साधयेद् वैष्णवाग्निना ॥ १४-४ ॥
पुरुषार्थचतुष्कं यत् काम्यकर्माणि यानि षट् ।
तानि संसाधयेदग्निर्मन्त्रैर्वैदिकतान्त्रिकैः ॥ १४-५ ॥
द्वात्रिंशद्भेदभिन्नोऽग्निर्द्वात्रिंशत्कर्मभेदितः ।
इत्थमाथर्वणविदां ख्यातमङ्गिरसां मतम् ॥ १४-६ ॥
लौकिकः पावकोऽग्निः स्यान्मरुत्तो गर्भधारणे ।
पवमानः पुंसवने सीमन्ते मङ्गलाह्वयः ॥ १४-७ ॥
तुङ्गे तु शोभनो नाम प्रबलो जातकर्मणि ।
पार्थिवो नामकरणे भद्रो निष्क्रमणे मतः ॥ १४-८ ॥
शुचिरन्नाशने प्रोक्तः सभ्यश्चौले समीरितः ।
जातवेदा ह्युपनये सम्भवः स्याद् व्रतत्रये ॥ १४-९ ॥
गोदाने नामतः सूर्यः सौम्यो व्रतसमर्पणे ।
आवसथ्यो विवाहे स्यादन्वाहार्ये महेश्वरः ॥ १४-१० ॥
विष्णुराहवनीये तु ब्रह्मा स्याद् गार्हपत्यके ।
प्रायश्चित्ते वीतिहोत्रः पूर्णाहुत्यां मृडाह्वयः ॥ १४-११ ॥
क्रव्यादः शवदाहे तु समुद्रे वडवामुखः ।
वर्धनो वनदाहे तु क्षये संवर्तको मतः ॥ १४-१२ ॥
वरदः शान्तिके प्रोक्तः पौष्टिके बलवर्धनः ।
उत्सादोच्चाटयोर्धूम्रः कृष्णो विद्वेषणे मतः ॥ १४-१३ ॥
वश्ये तु कामदो नाम मारणे शोषणाह्वयः ।
पिङ्गलः स्तम्भने नाम्ना जठरे जाठरो मतः ॥ १४-१४ ॥
द्वात्रिंशदग्निभेदाधिकारः
शुचौ देशे तु कुण्डे वा स्थण्डिले वा यथोदिते ।
गोमयालेपिते हेमरूप्यताम्रमयादिना ॥ १४-१५ ॥
शकलेनोद्धृतां भूमिं प्रोक्षयित्वाथ वालुकाः ।
प्राक्षिप्यारत्निमात्रं तु चतुरश्रं विधाय तु ॥ १४-१६ ॥
उल्लिखेत् त्रिरथो रेखाः प्राचीनास्त्रिरुदङ्मुखाः ।
न शर्करातृणः काष्ठैर्न लोष्टेन नखेन वा ॥ १४-१७ ॥
नाङ्गारेणापि वा तूष्णीं तत्र ब्रह्माधिदैवतम् ।
ब्रह्मजज्ञानमन्त्रेण प्राचीनं मध्यतो लिखेत् ॥ १४-१८ ॥
नाकेसुपर्णात् प्राचीनं दक्षिणे तूत्तरे पुनः ।
आप्यायस्वेति पूर्वाग्रं यो रुद्रेत्युदगायतम् ॥ १४-१९ ॥
इदं विष्णुस्तथा पश्चादिन्द्रं वो विश्वतस्परि ।
इति प्राच्यामुदीचीनभवोक्ष्य शकलं त्यजेत् ॥ १४-२० ॥
स्पृष्ट्वाम्भः पात्रगं वह्निं व्याहृतीभिर्निरूप्य तु ।
मध्ये प्रणवतः क्षिप्त्वा समाच्छाद्य सदिन्धनैः ॥ १४-२१ ॥
ज्वालयित्वा तु तारेण सदर्भारचिताञ्जलिः ।
जुष्टो दमूना इत्यादि पठन् परिसमूह्य तु ॥ १४-२२ ॥
परिषिच्याम्भसा दर्भैः परिस्तीर्य यथोदितैः ।
देवस्य त्वेति वै प्राच्यां व्याहृतीभिस्तु दक्षिणे ॥ १४-२३ ॥
उद्वयं तमसः पश्चादग्न आयाहि चोत्तरे ।
दक्षिणानुत्तरान् कुर्यादुत्तरानधरानपि ॥ १४-२४ ॥
उत्तरेणाग्निमास्तीर्य दर्भान् पात्राणि सादयेत् ।
द्वन्द्वशस्त्वाज्यपात्रं च स्रुवं च प्रोक्षणीः स्रुचम् ॥ १४-२५ ॥
प्रणीतापात्रमिध्मं च चरुस्थालीं च मेक्षणम् ।
बर्हिषः सह कूर्चैरप्यन्यद्धोमोपयोगि यत् ॥ १४-२६ ॥
ब्रीहिनिर्वापपक्षे तु मुसलोलूखले तथा ।
शूर्पं कृष्णाजिनं चापि स्यात् सर्वं तदधोमुखम् ॥ १४-२७ ॥
तिर्यक् पवित्रं प्रोक्षण्यामादायापूर्य चाम्भसा ।
अङ्गुष्ठानामिकाभ्यां तत् पाणिभ्यां परिगृह्य तु ॥ १४-२८ ॥
विच्छिद्य तिः समुत्पूय पात्राण्यद्भिरवोक्ष्य तु ।
उत्तानयित्वा त्रिः प्रोक्ष्य विस्रस्येध्मादिकं पुनः ॥ १४-२९ ॥
प्रादेशसम्मितैर्दर्भैरविच्छिन्नाग्रकैरपि ।
ब्रह्मासनं दक्षिणतः प्रणीतासनमुत्तरे ॥ १४-३० ॥
आज्यस्थाल्यासनं पश्चात् सङ्कल्प्य ब्राह्मणं शुचिम् ।
ब्रह्मार्थमुपवेश्यास्मिन् कूर्चं वा ब्राह्मणो न चेत् ॥ १४-३१ ॥
तारव्याहृतिभिर्ब्रह्मन्नादिनावाह्य चार्चयेत् ।
प्रोक्षणीवत् प्रणीतार्थं पात्रमापूर्य चाम्भसा ॥ १४-३२ ॥
दर्भस्थं दर्भसञ्छन्नमुद्धत्य घ्राणसम्मितम् ।
ब्रह्मणा समनुज्ञातः स्थापयेत् तत्तदासने ॥ १४-३३ ॥
वरुणोऽसीत्यथाराध्य व्रीहीन् वा तण्डुलानपि ।
स्रुचा स्थाल्याथवा तृष्णीमन्तर्धायाथ याज्यया ॥ १४-३४ ॥
अमुष्या इति निर्दिश्य देवतायै तु निर्वपेत् ।
ब्रीहीश्चेदवहन्त्येष प्रोक्ष्य त्रिः क्षालयेच्च तान् ॥ १४-३५ ॥
पात्रेषु पातयेत् पश्चादस्मिन्नग्नौ चरुं पुनः ।
श्रपयित्वा यथोद्दिष्टमभिधार्यावतार्य तु ॥ १४-३६ ॥
उत्तरेणाग्निमासाद्य स्थाल्यामाज्यं विनिक्षिपेत् ।
निरूह्योत्तरतोऽङ्गारानधिश्रित्याज्यमासने ॥ १४-३७ ॥
दर्भाभ्यां तदभिद्योत्य चरुं चाम्भः स्पृशेत् पुनः ।
त्रिरभिद्योत्य चाज्येऽथ दर्भाग्रे तु विनिक्षिपेत् ॥ १४-३८ ॥
सह पर्यग्निकृत्वाग्नौ दर्भाङ्गारान् विनिक्षिपेत् ।
मध्यग्रन्थिपवित्रेण त्रिरुत्पूयाज्यबिन्दुभिः ॥ १४-३९ ॥
अग्नौ प्रहृत्य प्रक्षाल्य विस्रस्य क्षालितं क्षिपेत् ।
अग्नावथ चतुर्दर्भान् स्रुक्स्रुवौ चोच्छ्रिताननौ ॥ १४-४० ॥
गृहीत्वाग्नौ विनिष्टप्य त्रिस्तैः सम्मार्जयेत् पुनः ।
आवेष्ट्य चाङ्गुलीस्तैस्तु पृथक् स्रुक्स्रुवयोः पुनः ॥ १४-४१ ॥
अग्रं दर्भाग्रतो मध्यं मध्यतो मूलमादितः ।
परिमृज्यानले दर्भान् क्षिपेत् प्रक्षाल्य तौ पुनः ॥ १४-४२ ॥
दर्भासने दक्षिणतो निधायाधोमुखौ यजेत् ।
आधाय परिधिं स्थूलं पश्चिमेऽथ कृशं पुनः ॥ १४-४३ ॥
दीर्घे दक्षिणतो न्यस्य ह्रस्वं सूक्ष्मं तथोत्तरे ।
तथोर्ध्वसमिधौ न्यस्य दक्षिणोत्तरपूर्वयोः ॥ १४-४४ ॥
रक्षसामपहत्यै स्यादिति सञ्चिन्त्य वै द्विजः ।
अदितेत्यादिना याम्ये प्राचीनं परिषिच्य तु ॥ १४-४५ ॥
पश्चिमेऽनुमतेऽप्येवमुदीचीनमथोत्तरे ।
सरस्वतेत्यादिनाथ समन्ताद् देवपूर्वकम् ॥ १४-४६ ॥
सवितः प्रसवेत्युक्त्वा परिषिच्य विचक्षणः ।
ध्यायेदथानलं देवं शक्तिस्वस्तिकपाणिनम् ॥ १४-४७ ॥
त्रिणेत्रं कुङ्कमाभासं दिव्याभरणवाससम् ।
प्रसन्नवदनं चारुजटामकुटधारिणम् ॥ १४-४८ ॥
हेममालापरिक्षिप्तं वरदाभयसंयुतम् ।
काली कराली च मनोजवा चैव सुलोहिता ॥ १४-४९ ॥
सुधूम्राविष्फुलिङ्गिन्यौ जिह्वा विश्वरुचिस्ततः ।
दिक्सप्तकस्थिता ह्येताः क्रमात् पूर्वादितः पुनः ॥ १४-५० ॥
ऐशान्यां वसुधाराख्या ह्युपजिह्वा हविर्भुजः ।
काल्यां शुद्रस्य कृत्यानि कराल्यामाभिचारकम् ॥ १४-५१ ॥
भूतग्रहादिरोगाणां शान्तिं कुर्यान्मनोजवा ।
सुलोहितायामपि च शान्तिं कुर्याद् विचक्षणः ॥ १४-५२ ॥
अम्भोवृष्ट्यादि धूम्रायां द्वेषोच्चाटे स्फुलिङ्गिनी ।
सर्वार्थसाधनी देवी जिह्वा विश्वरुचिर्मता ॥ १४-५३ ॥
जुहोतु वसुधारायां श्रीकामः पौष्टिकाय वा ।
एवं तु सप्त जिह्वाः स्युर्वसुधारा तथाष्टमी ॥ १४-५४ ॥
जिह्वाभेदमविज्ञाय होमः स्यान्निष्फलो यतः ।
ज्ञात्वा हविर्भुजो जिह्वाः स्यात् फलाप्तिर्हुतादिह ॥ १४-५५ ॥
ततः सिद्त्वा घृतेनेष्मं स्वाहेत् जुहुयात् समम् ।
स्रुवेणाज्यमुपादाय परिध्योः सन्धिमुत्तरम् ॥ १४-५६ ॥
स्पृष्ट्वा चापातयेद् वह्नावृजुधारां प्रजापतेः ।
तथा दक्षिणसन्धिं तु स्पृष्ट्वेन्द्रायेति मन्त्रतः ॥ १४-५७ ॥
अथाज्यभागौ जुहुयाद् याम्योदक्पूर्वभागयोः ।
अग्नये चैव सोमाय स्यातामस्याक्षिणी तु ते ॥ १४-५८ ॥
यथोपदेशं तु समं पूर्वेणाग्नेर्मुखे ततः ।
युक्तो वहान्दिनाज्येन चतस्रस्त्वादिना तथा ॥ १४-५९ ॥
आनो भद्राद् विरूपाक्षाद् विरूपाक्षादिना पुनः ।
यातिरश्चीनिपूर्वेण संराधन्यादिना पुनः ॥ १४-६० ॥
प्रसाधन्या व्याहृतिभिर्हुत्वेत्यग्निमुखं भवेत् ।
चरुं तमभिघार्याथ पूर्वार्धाच्चापरार्धतः ॥ १४-६१ ॥
अवदानद्वयं कृत्वा त्वभिधार्य स्रुचं न्यसेत् ।
अथाभिधार्य जुहुयाद् यथाम्नायं पृथक् पृथक् ॥ १४-६२ ॥
अथाग्नये स्विष्टकृतेत्युत्तरार्धात् सकृच्चरोः ।
अवदानं जुहोत्यग्नावभिधार्य स्रुचैव तु ॥ १४-६३ ॥
पूर्वोत्तरार्धे तद्धुत्वा हविरुत्क्षिप्य मेक्षणम् ।
संस्रावेणाभिहुत्वाथ दर्व्यामानीय तज्जलम् ॥ १४-६४ ॥
अन्तःपरिधि साध्यांस्तानाम्नातांस्तु पितॄन् स्रुचा ।
निनीयान्तःपरिधि वै निर्णिज्याग्नौ प्रताप्य तु ॥ १४-६५ ॥
पूरयित्वाद्भिरेनां तु बहिःपरिधि सेचयेत् ।
प्रहृत्य समिधं तां च या पूर्वं परिशेषिता ॥ १४-६६ ॥
तथैव चेध्मसन्नाहं प्रहरेदुक्षितं ततः ।
जयादिं जुहुयात् पश्चात् चित्तञ्चादित्रयोदश ॥ १४-६७ ॥
मन्त्रास्ततोऽग्निर्भूतानां मादयोऽष्टादश क्रमात् ।
क्वचित् समावत्वन्तं तु जुहुयादविशेषिते ॥ १४-६८ ॥
विशेषितेषु कृत्येषु जुहोत्यधिपतिः समाः ।
अवत्वस्मिनदाद् ब्रह्मन्नस्मिन्क्षत्रेत्युदीर्य तु ॥ १४-६९ ॥
अस्यामान्ते तु शिष्यस्याम्पुरोधायाम्पदं ततः ।
अस्मिन्कर्मन्वदस्यान्ते देवहूत्यां (च) ठद्वयम् ॥ १४-७० ॥
समासीकृत्य जुहुयात् क्रमादष्टादशाहुतीः ।
ऋताषाडादिभिर्मन्त्रैर्हुत्वा द्वादशभिस्ततः ॥ १४-७१ ॥
तथामात्याहुतीर्गुत्वा यद्देवा देवहेडनम् ।
इत्यादिभिस्त्वमग्नेन्तं जुहुयान्मन्त्रविंशतिम् ॥ १४-७२ ॥
प्रजापते न त्वदाज्यादिध्मं प्रव्रश्चनं क्षिपेत् ।
मनोज्योतिरयाश्चाग्नेर्यदस्मिन् कर्मणीति च ॥ १४-७३ ॥
स्वस्ति नस्त्वादिकेनाथ यन्म आत्मन इत्यपि ।
पुनरन्यादिना हुत्वा व्याहृतीभिस्तथा पुनः ॥ १४-७४ ॥
आभिर्गीर्भिरनाज्ञातं तद्वत् पुरुषसम्मितः ।
प्रत् पाकत्रा यदस्यति हुत्वा स्विष्टकृतं ततः ॥ १४-७५ ॥
सम्मृज्य परिधीन् दर्भान् प्रस्तरेभ्योऽवलुम्पतु ।
अग्रमध्यममूलानि त्वाज्यस्थाल्यां निमज्ज्य तु ॥ १४-७६ ॥
अग्रादारभ्य चोर्ध्वाग्रमामूलमथ दाहयेत् ।
नधूनयेन्न बाह्येऽग्नेः प्रक्षिपेद् विकिरेत् वा ॥ १४-७७ ॥
एकीकृत्य शनैः प्रास्येत् पृथक्कृततृणं तथा ।
शम्याश्चेन्न परित्याज्याः परिधिं मध्यमं क्षिपेत् ॥ १४-७८ ॥
इतरौ युगपत् प्रास्येद्धुत्वोर्ध्वसमिधावपि ।
संस्रावमपि हुत्वाग्नौ परिषेकं विसृज्य तु ॥ १४-७९ ॥
प्रणीताम्भः प्रतिदिशं तूष्णीं संसेचयेत् तथा ।
प्राच्यां दिश्यादिभिर्मन्त्रैः सेचयेद् वा यथाक्रमम् ॥ १४-८० ॥
भूमौ शिष्टाः परासिञ्चेद् ब्रह्मणे गां च दक्षिणाम् ।
सत्यां दद्यान्नचेद् विप्रान् भोजयेद् वापि शक्तितः ॥ १४-८१ ॥
प्राश्नीयाद्धुतशेषं वोदरमायुरिति स्पृशेत् ।
आचम्य यत् इन्द्रादिमुत्तरां च जपेत् ततः ॥ १४-८२ ॥
शेषं दद्याच्छ्रोत्रियायेत्याह बोधायनो विभुः ।
वैदिकाग्निकल्पाधिकारः ।
अथ शैवोऽग्निकल्पोअत्र कथ्यते प्रोक्तलक्षणम् ॥ १४-८३ ॥
कुण्डं वा स्थण्डिलं वापि समाक्रामन् प्रदक्षिणम् ।
शिवमन्त्रं जपन् होमद्रव्याण्यालोकथन् दृशा ॥ १४-८४ ॥
गत्वा कुण्डान्तिकं कुण्डयोनिं वीक्ष्योत्तरामुखः ।
आसीत हौं शिवायेति प्रणवादिनमोन्तकम् ॥ १४-८५ ॥
जपन् निरीक्ष्य तत् कुण्डं खात्वास्त्रेण तु देशिकः ।
शिवाङ्गान्यत्र दृश्यन्ते वक्ष्यमाणक्रियाप्तये ॥ १४-८६ ॥
ॐ हां शिवाय नमो हृदयाय नमः ।
ॐ हीं शिवाय नमः शिरसे स्वाहा ।
ॐ हूं शिवाय नमः शिखायै वषट् ।
ॐ हैं शिवाय नमः कवचाय हुम् ।
ॐ हौं शिवाय नमो नेत्रत्रयाय वौषट् ।
ॐ हः शिवाय नमः अस्त्राय फट् ।
अस्त्रेण खातमुद्धृत्य हृदयेनाभिपूर्य तु ।
तेनैव तु समीकृत्य चाभ्युक्ष्य कवचेन तु ॥ १४-८७ ॥
शराणुना कोट्टयित्वा सम्मार्ज्यालिप्य तेन तु ।
ॐ हौं शान्त्यतीतायै नमः ।
ॐ हैं शान्त्यै नमः ।
ॐ हूं विद्यायै नमः ।
ॐ हीं प्रतिष्ठायै नमः ।
ॐ हां निवृत्त्यै नमः ।
इति मध्येन्द्रयाम्याप्यकौबेर्यासु यजेत् कलाः ॥ १४-८८ ॥
ॐ हां कलामयाय कुण्डाय नमः ।
साकल्येन कलात्मानं कुण्डं ध्यात्वाभिपूज्य तु ।
त्रिसूत्र्यावेष्ट्य तत् कुण्डं ततोऽस्त्रेण कुशेन तु ॥ १४-८९ ॥
आत्मविद्याशिवैस्तत्त्वैः प्राचीनं त्रिः समुल्लिखेत् ।
उदीचीनं सकृन्मध्ये समिदग्रेण मूलतः ॥ १४-९० ॥
ब्रह्मा विष्णुश्च रुद्रश्च शिवस्त्वासां तु दैवतम् ।
त्रिभिर्दर्भैरथास्त्रेण वज्रीकृत्य पुनर्हृदा ॥ १४-९१ ॥
पूर्वोत्तराग्रदर्भाभ्यां कुण्डे कृत्वा चतुष्पथम् ।
इत्यष्टादशसंस्कारैः शुद्धे कुण्डे कुशैः पुनः ॥ १४-९२ ॥
पटं कुण्डस्य सङ्कल्प्य
ॐ हां वागीश्वरीवागीश्वरासनायः नम ।
इति दर्भासनं न्यसेत् ।
ॐ हां वागीश्वरीमावाहयामि ।
श्यामामलङ्कृतां देवी सर्वाभरणभूषिताम् ॥ १४-९३ ॥
ध्यात्वावाह्य त्वनेनैनामृतुस्नातां समर्चयेत् ।
ततो वागीश्वरं त्वनेनैनामृतुस्नातां रागिणम् ॥ १४-९४ ॥
सम्पूज्याग्निं यथोद्दिष्टज्वालाधूमेन्धनैर्विना ।
शरावादिस्थमानीय क्रव्यादांशं त्यजेत् ततः ॥ १४-९५ ॥
मूलेनावोक्ष्य चास्त्रेण प्रेक्ष्यास्त्रेणाथ वर्मणा ।
अवकुण्ठ्याभिरक्ष्यास्त्राज्ज्योतिराकारवत् स्मरन् ॥ १४-९६ ॥
ॐ हों रौं हाम्
इत्यादाय ललाटाक्षान्नेत्राग्निं तेन योजयेत् ।
पतत्पतङ्गसङ्काशं नाभिकुण्डोत्थितानलम् ॥ १४-९७ ॥
रेचकात् पिङ्गलामार्गान्निस्सार्याग्नौ नियोजयेत् ।
भौतिकं दैवतं चेत्थं जाठरं चानलत्रयम् ॥ १४-९८ ॥
एकीकृत्य षडङ्गेन
ॐ रां हृदयाय नमः । ॐ रीं शिरसे स्वाहा ।
ॐ रूं शिखायै वषट् । ॐ रं नेत्रत्रयाय नमः ।
ॐ रः अस्त्राय फट् ।
तारं हौं शक्तये वषट् ।
इति धेन्वामृतीकृत्य कवचेनावकुण्ठ्य तु ॥ १४-९९ ॥
संरक्ष्यास्त्राद्धृदाभ्यर्च्य तमुद्यम्य करद्वयात् ।
स्थित्वा जानुद्वयेनाथ कुण्डस्योपरि देशिकः ॥ १४-१०० ॥
क्षोभार्थे त्रिः परिभ्राम्य देवी देवौ निरम्बरौ ।
ध्यात्वेशानशिरस्कौ तौ
ॐ हां शिवबीजाय नमः ।
शिवबीजमिति स्मरन् ॥ १४-१०१ ॥
आत्माभिमुखमग्निं तं देव्या गर्भपथा क्षिपेत् ।
विकीर्णमेकीकृत्यास्त्रान्नाभौ तत्सम्पुटं नयेत् ॥ १४-१०२ ॥
ॐ हां वागीश्वर्यै नमः ।
परिधाप्येति वस्त्रे तु शौचाचमनकेऽपि च ।
क्वचेनेन्धनैश्छन्नं धवित्राज्ज्वालयेदमुम् ॥ १४-१०३ ॥
ॐ हां हां गर्भाग्नये नमः ।
इत्यभ्यर्च्याथ संशुद्धं कुशकङ्कणकं करे ।
दक्षिणे तु निबध्नीयाद् वागीश्वर्यास्तु कौतुकम् ॥ १४-१०४ ॥
ॐ सद्योजाताय नमः ।
इति सद्यं समावाह्य स्वाहान्तं हृदयेन तु ।
पञ्चाहुतीस्तिलैर्हुत्वा गर्भाधानं समापयेत् ॥ १४-१०५ ॥
ॐ हीं वामदेवाय नमः ।
तमावाह्येति शिरसा हुत्वा पुंसवनं भवेत् ।
ॐ हुम् अघोराय नमः ।
ॐ हां पुर्यष्टकदेहाय नमः ।
जलबिन्दुं कुशास्त्रेण देहप्राणकृते क्षिपेत् ।
शिखयार्घ्यादिति यावत् ।
सद्यादिभिस्तिलैर्हुत्वा वक्त्राङ्गानि च कल्पयेत् ॥ १४-१०७ ॥
वक्त्रनिष्कृतिनिष्पत्त्यै पुनः पञ्चाहुतीस्तथा ।
हुत्वा प्रसूतां वागीशीं शिशुमग्निं च संस्मरेत् ॥ १४-१०८ ॥
ॐ हें तत्पुरुषाय नमः ।
आवाह्य पुरुषं त्वेवं वर्मणाहुतिपञ्चकम् ।
हुत्वास्त्रेणार्घ्यतोयेन बहिरन्तरवोक्ष्य तु ॥ १४-१०९ ॥
दर्भकङ्कणकं त्यक्त्वा सूतकस्य निवृत्तये ।
स्नातां विभूषितां देवीं देवं चास्त्राम्बुसेकतः ॥ १४-११० ॥
वस्त्रभूषणगन्धाद्यैरलङ्कृत्याथ तौ धिया ।
ततः शूलापनोदाय जुहोत्यस्त्रात् पलाशजाः ॥ १४-१११ ॥
वितस्तिमात्राः पञ्चाग्रसमिधो घृतसेचिताः ।
उत्तरेण तु दर्भेषु पात्रद्रव्याणि सादयेत् ॥ १४-११२ ॥
परिस्तरणमप्यत्र कृत्वा वेण्या कुशैरपि ।
दर्भासनानि विन्यस्य प्रोक्षण्यै ब्रह्मणे तथा ॥ १४-११३ ॥
प्रणीतानां च परिधीन् विन्यस्य परिषेचयेत् ।
तिरः पवित्रेणापूर्य प्रोक्षणीं सलिलेन तु ॥ १४-११४ ॥
निवृत्त्यादिकलाभिस्तु परिषिच्य यथाक्रमम् ।
दर्भेण शिवगायत्र्या तथा परिसमुह्य तु ॥ १४-११५ ॥
ॐ हां ब्रह्मणे यज्ञध्यक्षाय नमः ।
इति ब्रह्माणमावाह्य द्विजं वा कूर्चमर्चयेत् ।
पवित्रेण प्रणीतार्थमापूर्याद्भिर्जलेश्वरम् ॥ १४-११६ ॥
विभाव्यानासमुद्धृत्य तस्याभ्यर्च्य स्वविष्टरे ।
ॐ हां विष्णवे यज्ञारिसूदनाय नमः ।
इति कूर्चाहितं विष्णुं प्रणीतायां प्रपूजयेत् ॥ १४-११७ ॥
ततः परिधिदर्भस्थान् ब्रह्माणं शङ्करं हरिम् ।
अनन्तं च चतुर्दिक्षु तारं हान्नामतोऽर्चयेत् ॥ १४-११८ ॥
लोकेशानपि रक्षार्थं स्वदिक्ष्वाराध्य तु क्रमात् ।
तदस्त्राणि च तद्दिक्षु शिवाज्ञां श्रावयेत् ततः ॥ १४-११९ ॥
भो भो ब्रह्मेन्द्रविष्ण्वाद्या देवाः सास्त्राः शिवाज्ञया ।
स्वस्यां स्वस्यां दिशि स्थित्वा रक्षध्वं वह्निबासकम् ॥ १४-१२० ॥
स्रुक्स्रुवावपि चादाय निरीक्ष्य सुकुशौ हृदा ।
प्रताप्यास्त्रेण सङ्क्षाल्य शिरसोर्ध्वमुखौ हृदा ॥ १४-१२१ ॥
प्रताप्य क्षालयित्वाथ मूलमध्याग्रतः कुशैः ।
ॐ हाम् आत्मतत्त्वाधिपतये ब्रह्मणे नमः ।
ॐ हीं विद्यातत्त्वाधिपतये विष्णवे नमः ।
ॐ हुं शिवतत्त्वाधिपतये रुद्राय नमः ।
इति क्रमेण स्म्मृज्य सङ्क्षाल्याभ्यर्च्य तत्त्रयम् ॥ १४-१२२ ॥
ॐ हौं शक्तये नमः ।
इति स्रुचं समाराध्य
ॐ हां शिवाय नमः ।
स्रुवं चानेन पूजयेत् ।
त्रिसूत्र्यावेष्टितग्रीवो नो चेद् दर्भेण दक्षिणे ॥ १४-१२३ ॥
कुशासने तौ संस्थाप्य ततो गव्यं नवं शुभम् ।
आज्यं निरीक्षणाद्युक्तचतुस्संस्कारसंस्कृतम् ॥ १४-१२४ ॥
ब्राह्मीं स्वमूर्तिं सञ्चिन्त्य कुण्डोर्ध्वानलकोणके ।
प्रताप्यानेन जुहुयात्
ॐ हां ब्रह्मणे स्वाहा ।
पुनरैशे प्रप्ताप्य तु ॥ १४-१२५ ॥
जुहुयाद् विष्णवे चेति विष्णुमूर्तिः स्वयं ततः ।
इति हुत्वा कुशाग्रेण घृतबिन्दुं प्रताप्य च ॥ १४-१२६ ॥
ततो रुद्रतनुर्वह्निं त्रिः परिभ्राम्य तद् घृतम् ।
ॐ हां रुद्राय ठठ ।
हुत्वानेन कुशाग्रेण योन्यां दर्भेषु विन्यसेत् ॥ १४-१२७ ॥
कुशद्वयाग्रं प्रज्वाल्य घृते प्रक्षिप्य तं हृदा ।
पुनरग्नौ क्षिपेद् दर्भं पवित्रीकरणं तु तत् ॥ १४-१२८ ॥
कवचेन घृतं वीक्ष्य शिष्टं दर्भोल्मुकं क्षिपेत् ।
अग्नौ तद्रञ्जनं हस्तौ प्रक्षाल्यादाय वै कुशम् ॥ १४-१२९ ॥
प्रज्वाल्यज्ये समावर्त्य क्षिप्त्वाभिद्योतनं भवेत् ।
स्वदक्षिणोत्तरौ हस्तौ पक्षौ शुक्लेतरौ स्मरन् ॥ १४-१३० ॥
स्वाङ्गुष्ठानामिकाभ्यां तु प्रोत्तानाभ्यां पवित्रकम् ।
प्राचीनमाज्ये प्रक्षिप्य दक्षिणोत्तरभागयोः ॥ १४-१३१ ॥
आज्ये पूर्वापरौ पक्षौ सोमाप्यापचयान् स्मरन् (?) ।
पिङ्गलां भावयेच्चेडां सुषुम्नां मध्यतस्तथा ॥ १४-१३२ ॥
ॐ हाम् अग्नये ठठ ।
अनेन दक्षिणाज्यांशात् स्रुवेणाक्षिणि दक्षिणे ।
हुत्वा चामन्त्र्य भगेन
ॐ हां सोमाय ठठ ।
वह्नेर्वामविलोचने ॥ १४-१३३ ॥
ॐ हाम् अग्नीषोमाभ्यां ठठ ।
इति मध्वाज्यभागेन हुत्वा लालाटनेत्रके ।
ॐ हाम् अग्नये स्विष्टकृते ठठ ।
इत्याज्यभागत्रितयाद्धुत्वाग्नेर्मुखकल्पना ॥ १४-१३४ ॥
क्रमोऽयं पूर्वपक्षे स्याद् विशेषोऽस्त्यसिते यथा ।
ॐ हाम् अग्नये ठठ । ॐ हां सूर्याय ठठ । ॐ हाम् अग्नीषोमाभ्यां ठठ । ॐ ॐ हाम् अग्नये स्विष्टकृते ठठ ।
एवं नेत्रत्रयं चाग्नेः स्याद् वक्त्रोद्धाटनं तथा ॥ १४-१३५ ॥
आज्ये नाडित्रयाधानं पक्षयोरपि कल्पना ।
अथाङ्गैरभिमन्त्र्याज्यम्
ॐ हौं शक्तये वौषट् ।
अनेनाप्यभिमन्त्र्य तु ॥ १४-१३६ ॥
अमृतीकृत्य तद्धेनुमुद्रया वर्मणा पुनः ।
अवकुण्ठ्यास्त्रतो रक्षेदित्युक्ताज्यस्य संस्कृतिः ॥ १४-१३७ ॥
संस्कृताज्यस्य यद् बिन्दुं क्षिपेदन्यघृतादिषु ।
संस्कृतान्येव तानि स्युर्हृदयेनाभिमन्त्रणात् ॥ १४-१३८ ॥
अथ सद्यादिपञ्चास्यं प्रतिवक्त्रं त्रिलोचनम् ।
शिवाग्निं संस्मरेत् सौम्यं सप्तजिह्वान्विताननम् ॥ १४-१३९ ॥
अत्र पौष्करे -
चतुर्मुखेषु चतस्रो जिह्वास्तिस्रो मध्यमे । ताश्च दीक्षाप्रतिष्ठादिषु सात्त्विक्यः क्षुद्रेषु तामस्यः काम्येषु राजस्यः । (इति ।) ताः पूर्वमेवोक्ताः ।
अभयं स्वस्तिकं शक्तिं वरदं दधतं भुजैः ।
शुक्लमाल्याम्बरालेपं दिव्याभरणभूषितम् ॥ १४-१४० ॥
इष्ट्वार्घ्यं गन्धपुष्पाद्यैरुपचारैर्यथाविधि ।
ॐ हां सद्योजातमूर्तये ठठ । ॐ हां वामदेवगुह्याय ठठ । ॐ हाम् अघोरहृदयाय ठठ । ॐ हां तत्पुषवक्त्राय ठठ । ॐ हाम् ईशानमूर्धाय ठठ ।
एवं वक्त्राभिधारः स्याद्धुत्वा तत्तन्मुखे पृथक् ॥ १४-१४१ ॥
ॐ हां सद्योजातमूर्तये वामदेवगुह्याय ठठ । ॐ हां वामदेवगुह्यायाघोरहृदयाय ठठ । ॐ हाम् अघोराय हृदयाय तत्पुरुषवक्त्राय ठठ । ॐ हां तत्पुरुषवक्त्रायेशानमूर्धाय ठठ ।
इति वक्त्राणि सन्धाय जुहुयाद् द्वन्द्वशो घृतम् ।
ॐ हौं हें हुं हिं हम् ईशानतत्पुरुषाघोरवामदेवसद्योजातेभ्यः ठठ ।
इत्यग्निकोणाद् वाय्वन्तं वायोर्नक्तञ्चरान्तकम् ॥ १४-१४२ ॥
राक्षसादीशकोणान्तं स्रुवेणाज्यैकधारय ॥
हुत्वा नित्येषु मुख्यत्वात् सद्यस्य वदनस्य तु ॥ १४-१४३ ॥
कुण्डप्रमाणं तद्वक्त्रं ध्यात्वान्येषां तु सद्यके ।
अनुप्रवेशाद् वक्त्राणां वक्त्रैकीकरणं स्मरेत् ॥ १४-१४४ ॥
तथाचोक्तं संहितायां नित्यकर्मणि सद्यके ।
मुख्यमूर्ध्वं स्मृतं वक्त्रं गुणत्वमितरस्य तु ॥ १४-१४५ ॥ इति ।
अपि च-
नैमित्तिके च काम्ये च यस्य वक्त्रस्य मुख्यता ।
यत्र यत्र समुद्दिष्टं तस्यैकीकरणं परैः ॥ १४-१४६ ॥
तथा मुमुक्षोर्दीक्षाया मुख्यं ह्यूर्ध्वमुखं स्मृतम् ।
दृष्टसिद्ध्याप्तये पूर्वं दक्षिणं क्षुद्रकर्मसु ॥ १४-१४७ ॥
उत्तरं वामदेवाख्यं शान्तिके पौष्टिकेष्टदम् ।
नित्यकर्मसु सद्याख्यं संहितायामितीरितम् ॥ १४-१४८ ॥
एतत्पर्यन्तमुद्दिष्टं जातकर्मसमापनम् ।
ॐ हाम् ईशानाय नमः ।
इतीशानं समावाह्य तिलास्त्राहुतिपञ्चकम् ॥ १४-१४९ ॥
हुत्वा नामास्य कुर्वीत
ॐ हां शिवाग्निगुताशस्त्वम् ।
इयुक्त्वाराध्य चानलम् ।
ॐ हां वागीश्वरीवागीश्वराभ्यां ठठ ।
अनेनोद्वास्य पितरौ ।
ॐ हौं शिवाय वौषट् ।
पूर्णे हुत्वा त्वनेन तु ॥ १४-१५० ॥
अनाहितशिवे वह्नौ पञ्चसंस्कारसंस्कृते ।
पात्याश्चरुपुरोडाशा धूपाद्यर्थं च रक्षिते ॥ १४-१५१ ॥
यथोक्तं संहितायां -
पात्याश्चरुपुरोडाशाः पञ्चसंस्कारसंस्कृते ।
अनावाहितदैवेऽग्नौ होमस्त्वावाहिते भवेत् ॥ इति ।
अथैकादशसंस्कारानुपनिष्क्रामणादिकान् ।
मूलेन वौषडन्ते कुत्यात् त्रिस्त्रिर्घृताद्धुतात् ॥ १४-१५२ ॥
तद्यथा - उपनिष्क्रामणान्नप्राशनचौलोपनयनोपाकर्मव्रतसङ्ग्रहणव्रतोत्-
सर्जनगोदानसमावर्तनविवाहाग्न्याधानानीति यावत् ।
स्रुच्याज्यपूर्णायां चाथ विन्यस्याधोमुखं स्रुवम् ।
स्रुगग्रे पुष्पमाधाय पाणिभ्यां शङ्खमुद्रया ॥ १४-१५३ ॥
श्लिष्टदण्डौ तौ गृहीत्वा समपादतथा स्थितः ।
स्रुगग्रे दत्तदृष्टिः सन् मूलेन हृदयादिना ॥ १४-१५४ ॥
बौषडन्तेनाज्यधारां यवमात्रामखण्डिताम् ।
मन्त्रान्ते पातयेदग्नावित्थं पूर्णाहुतिर्भवेत् ॥ १४-१५५ ॥
अनन्तरं भोः शिवाग्रे! त्वदीये हृदयाम्बुजे ।
यागेऽस्मिन् शिवमावाह्य स्वनुज्ञाता यजामहे ॥ १४-१५६ ॥
इति लब्धाभ्यनुज्ञोऽथ स्वासनाङ्गस्वमूर्तिभिः ।
वह्नौ शिवं समावाह्य शिवसन्धानमाचरेत् ॥ १४-१५७ ॥
बह्निस्थशिवनासाग्रनिष्ठ्यूताच्छिन्नतेजसा ।
लिङ्गस्थशिवनासाग्रनिर्गतज्योतिषा सह ॥ १४-१५८ ॥
सन्धानं पिङ्गलानाड्या त्वायागान्तं विभावयेत् ।
अभ्यर्च्याज्यादिभिः प्रोक्तैर्हविर्भिस्तर्पयेछिवम् ॥ १४-१५९ ॥
विध्युक्तानलजिह्वायां हूयमानं तु यद्धविः ।
अग्नेः सौषुम्नमार्गेण शिवमूर्ध्नि सुषुम्नया ॥ १४-१६० ॥
सन्धायामृतधाराभिर्गवीरूपाभिरीश्वरम् ।
तर्पयेत् यथा स स्यात् प्रसन्नः स्वेष्टदः शिवः ॥ १४-१६१ ॥
नाडीसन्धानाधिकारः ।
अथाज्यं च तिलाश्चान्नं साज्यं नित्ये हुतं स्मृतम् ।
वैशेषिकेषु कृत्येषु द्रव्यैरुक्तैर्जुहोतु च ॥ १४-१६२ ॥
शिवाद् दशांशमूर्तीनामङ्गानां हविषा हुतम् ।
पर्वसु द्विगुणं नित्याद्धोमतुल्योऽस्तु वा जपः ॥ १४-१६३ ॥
ॐ हौं शिवाय स्वाहेति स्ववदानत्रयं चरोः ।
अभिघार्य स्रुचा हुत्वा मूर्त्यङ्गानां सकृत् सकृत् ॥ १४-१६४ ॥
आचामं प्रोक्षणीतोयैर्दत्त्वार्घ्यं चास्त्रमन्त्रतः ।
गन्धैः पुष्पैर्धूपदीपैस्ताम्बूलेनापि तं यजेत् ॥ १४-१६५ ॥
कृत्वाग्निं भस्म चालभ्य नाडीसन्धिं विसृज्य तु ।
बीजादिभिर्व्याहृतीभिर्मूर्त्याङ्गैश्च सकृत् सकृत् ॥ १४-१६६ ॥
हुत्वाज्यमुद्धृत्यास्त्रेण मूर्त्याङ्गानि यथास्थिति ।
शिवे नियोज्य वह्निस्थं शिवं चाग्नेर्हृदम्बुजे ॥ १४-१६७ ॥
सन्निरुध्याथवा रक्षेत् प्रत्यहं विसृजेत् तु वा ।
ॐ हौं हैं हूं हीं हां शिवमूर्तये नमः ।
इत्यग्नेः शिवमूर्तिं तां सङ्गृह्य कुसुमाञ्जलौ ॥ १४-१६८ ॥
ॐ हौं, ॐ हों, ॐ हें, ॐ हुं, ॐ हिं शिवाय नमः ।
अनेन लिङ्गस्थशिवे योजयेद् वा हृदम्बुजे ।
प्रागेव नाडीसन्धानं सति लिङ्गे तु तच्छिवे ॥ १४-१६९ ॥
अलिङे स्वहृदम्भोजे शिवात् तन्नासिकाग्रतः ।
सन्धानमाचरेत् तद्वदूह्योद्वासनकल्पना ॥ १४-१७० ॥
नैमित्तिकेषु कृत्येषु द्विजातिश्चेज्जयादिभिः ।
अमात्यनिष्कृतीश्चैव हुत्वा स्विष्टकृतं तथा ॥ १४-१७१ ॥
ॐ हाम् अग्नये ठठ । ॐ हां सोमाय ठठ । ॐ हाम् अग्नीषोमाभ्यां ठठ । ॐ हाम् अग्नये स्विष्टकृते ठठ ।
मन्त्रैरेभिश्च जुहुयादेभिरेवाद्विजातिषु ।
आग्नये वा पुरो वाग्नेः कृत्वा मण्डलकद्वयम् ॥ १४-१७२ ॥
बलिं क्षिपेन्नमोन्तैः स्वैस्तारहृत्पूर्वनामभिः ।
चरुशेषेण गन्धाद्यैर्दिग्विदिक्क्रमयोगतः ॥ १४-१७३ ॥
रुद्रमातृगणानां च यक्षग्रहसुरद्विषाम् ।
रक्षसामपि नागानां प्रागीशानादिकं क्रमात् ॥ १४-१७४ ॥
नक्षत्राणां च तन्मध्ये चैतेषां मध्यतः पुनः ।
राशिभ्यं पुनरीशान्ते वह्नौ विश्वेभ्य इत्यपि ॥ १४-१७५ ॥
नैरृत्यां क्षेत्रपाया दुर्गायै वायुगोचरे ।
एवमन्तर्बलिं क्षिप्त्वा द्वितीये मण्डले पुनः ॥ १४-१७६ ॥
इन्द्रादिभो यथापूर्वं दशदिक्षु बलिं क्षिपेत् ।
विसृज्यैतान् पुनर्बाह्ये मण्डलादेवलिं क्षिपेत् ॥ १४-१७७ ॥
सर्वतो विकिरन् दिक्षु
वायसादिभ्यः समयभेदिभ्यः ठठ ।
बलिमन्त्रानथो हरेत् ।
पुनः प्राङ्कणभागान्ते मण्डले तु बलिं क्षिपेत् ॥ १४-१७८ ॥
ये रुद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ।
सौमयाश्चैव तु ये केचित् सौम्यस्थाननिवासिनः ॥ १४-१७९ ॥
मातरो रौद्ररूपाश्च गणानामधिपाश्च ये ।
सर्वे सुप्रीतमनसः प्रतिहृह्णन्त्विमं बलिम् ॥ १४-१८० ॥
सिद्धिं यच्छन्तु मे क्षिप्रं भयेभ्यः पान्तु मां सदा ।
सर्वेभ्यो भूतेभ्यो नम इति बलिं क्षिप्त्वा पुनश्च
योगिन्यो भीषणा रौद्रा वेताला ब्रह्मराक्षसाः ॥ १४-१८१ ॥
आगत्य प्रतिगृह्णन्तु शिवेच्छानुविधायिनः ।
मया दत्तं बलिं क्षिप्रं भयेभ्यः पान्तु मां सदा ॥ १४-१८२ ॥
ॐ हां हः हुं फट् । अनेन च बलिं क्षिपेत् ।
दत्त्वा बलिं ततः पादौ प्रक्षाल्याचम्य वाग्यतः ।
नमस्कृत्य महादेवं कर्म कुर्याद् यथोत्तरम् ॥ १४-१८३ ॥
शैवाग्निकल्पाधिकारः ।
अथ वैष्णवकल्पोऽग्निः कथ्यते तन्त्रचोदितः ।
स्नातो धौताङ्घ्रिराचान्तः प्राणानायम्य वाग्यतः ॥ १४-१८४ ॥
रेखास्तिस्रोऽथ पूर्वाग्रास्तिस्रश्चोदङ्मुखा लिखेत् ।
द्वादशाक्षरविद्यां तु जपित्वा तु यथाक्रमम् ॥ १४-१८५ ॥
निरस्य शकलं धौतपाणिः सम्प्रोक्ष्य विद्यया ।
करदेहाङ्गविन्यासान् कृत्वा तारमनुस्मरन् ॥ १४-१८६ ॥
तत्रावाह्य परां शक्तिं लक्ष्मीमृतुमतीं स्मरन् ।
स्नातामलङ्कृतां विष्णुं तथैवावाह्य तौ यजेत् ॥ १४-१८७ ॥
आरणेयाग्न्यन्यतमं शरावादिस्थितानलम् ।
अनीतं तारतोऽवोक्ष्य विष्णोर्बीजमनुस्मरन् ॥ १४-१८८ ॥
देव्या योनौ विनिक्षिप्य गर्भं ध्यात्वेन्धनैरमुम् ।
उद्दीप्यविद्यया प्राग्वदद्भिः परिसमूह्य तम् ॥ १४-१८९ ॥
दर्भेषु पात्राण्यासाद्य परिस्तीर्य यथाक्रमम् ।
प्रोक्षणीमद्भिरापूर्य द्वादशाक्षरविद्यया ॥ १४-१९० ॥
तस्यामावाह्य तु हरिं तज्जलैः प्रोक्ष्य तान्यथ ।
उत्तानयित्वा पात्राणि विस्रस्येध्मं च वेधसम् ॥ १४-१९१ ॥
दक्षिणे प्राग्वदावाह्य सम्पूज्योत्तरतः पुनः ।
प्रणीताः पूरयित्वाद्भिः प्राग्वद् विन्यस्य तत्र तु ॥ १४-१९२ ॥
साङ्गं विष्णुं समावाह्य सम्पूयाज्यं निरूप्य तु ।
श्रपयित्वोत्तरेऽङ्गारे त्रिरभिद्योत्य तं कुशैः ॥ १४-१९३ ॥
त्रिरुत्पूय निधायाग्रे सदर्भौ स्रुक्स्रुवौ पुनः ।
प्रताप्य क्षालयेत् तारात् परिमृज्याग्रमग्रतः ॥ १४-१९४ ॥
मध्यं मध्येन मूलं तु मूलेनाग्नौ क्षिपेत् कुशान् ।
परिधीनूर्ध्वसमिधौ प्राग्वद् विन्यस्य विद्यया ॥ १४-१९५ ॥
परिषिच्येध्ममादाय घृतेनावोक्ष्य तारतः ।
सकृद्धुत्वा तथाअघारौ हुत्वा तु द्वादशाक्षरात् ॥ १४-१९६ ॥
गर्भाधानादिकर्माणि तिलैः प्रत्याहुतित्रयम् ।
हुत्वा प्रणवतस्तस्य पितरौ तौ विसृज्य तु ॥ १४-१९७ ॥
हेमपीठाम्बुजे वह्नेर्मूर्तिं ध्यायेच्च वैष्णवीम् ।
पञ्चवक्त्रं चतुर्बाहुं हेमवर्णं त्रिलोचनम् ॥ १४-१९८ ॥
तस्य पृथ्वी भवेत् पादौ द्यौः शिरस्त्वसवोऽनिलः ।
चक्षूंषि सूर्यः खं क्रोडं जिह्वाः सप्त जगन्ति ताः ॥ १४-१९९ ॥
हृदये गार्हपत्यः स्यान्मुखेष्वाहवनीयकः ।
अन्वाहार्यो भवेत् कुक्षौ वेदा वक्त्राण्यनुक्रमात् ॥ १४-२०० ॥
ऋङ्मयं प्राङ्मुखं हेमवर्णं दैविकसाधनम् ।
भिन्नाञ्जननिभं याम्यं याजुषं क्षुद्रकर्मकृत् ॥ १४-२०१ ॥
पश्चिमं तूदयार्काभमाथर्वं शान्तिके मतम् ।
उत्तरं साम चन्द्राभं काम्यकर्मप्रसाधनम् ॥ १४-२०२ ॥
सर्ववेदमयं ह्यूर्ध्वं स्फटिकाभं विमुक्तिदम् ।
एवं ध्यात्वाभिपूज्यैनं तदीये हृदयाम्बुजे ॥ १४-२०३ ॥
वासुदेवं चतुर्बाहुं शङ्खचक्रगदाधरम् ।
यथोक्तरूपमावाह्य सम्पूज्योक्तैर्जुहोति च ॥ १४-२०४ ॥
जयादिभिर्द्विजातिश्चेद्धुत्वा स्विष्टकृतं तथा ।
समापयेच्च तत् कर्म दत्त्वा तद्ब्रह्मदक्षिणाम् ॥ १४-२०५ ॥
उत्सृज्याथ प्रणीताश्च तद्वत् परिधिविष्टरान् ।
बेरे वा स्वहृदब्जे वा प्रवाह्याग्निस्थमच्युतम् ॥ १४-२०६ ॥
अग्निं चापि यथापूर्वं साङ्गोपाङ्गं प्रवाहयेत् ।
वैष्णवाग्निकल्पाधिकारः
कल्पोऽथ मान्त्रिको वह्नेरशेषार्थप्रसाधकः ॥ १४-२०७ ॥
कथ्यते स्थण्डिलं वापि कुण्डं वा प्रोक्तलक्षणम् ।
गोमयालेपितं तारादुद्धृत्य शकलेन तु ॥ १४-२०८ ॥
समीकृत्योपलिप्याथ हैमादिशकलेन तु ।
मध्ययाम्योत्तरा रेखास्तिस्रः प्राचीनमुल्लिखेत् ॥ १४-२०९ ॥
मध्यापरैन्द्रगा रेखास्ततोदीचीनमुल्लिखेत् ।
अवोक्ष्य शकलं त्यक्त्वा सर्वत्र प्रणवं जपन् ॥ १४-२१० ॥
अरणेर्वा मणेर्वाग्निं श्रोत्रियागारतोऽपि वा ।
शरावादौ समानीतं निरीक्ष्याभ्युक्ष्य तारतः ॥ १४-२११ ॥
क्रव्यादांशं परित्यज्य प्राङ्मुखो वाग्यतः शुचिः ।
जाठरं चैन्दवं चाग्निं भौतिकेऽस्मिन् नियोज्य तु ॥ १४-२१२ ॥
स्नातामृतुमतीं शक्तिमीश्वरं च सिसृक्षया ।
सङ्गतावभिपूज्यैतौ शक्तिबीजेन साधकः ॥ १४-२१३ ॥
ईशबीजं विचिन्त्याग्निं शक्तेर्गर्भे विनिक्षिपेत् ।
इन्धनाभ्यां तमुत्थाप्य समाच्छाद्येन्धनैस्ततः ॥ १४-२१४ ॥
ॐ चित्पिङ्गल हन दह पच सर्वज्ञ आज्ञापयति ठठ ।
अनेन तु धवित्रेण ज्वालयित्वा हुताशनम् ।
ॐ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ॥ १४-२१५ ॥
सुवर्णवर्णमनलं समिद्धं सर्वतोमुखम् ।
उपस्थानमनेनाथ कुर्यात् पुष्पं च निक्षिपेत् ॥ १४-२१६ ॥
एकैकशस्तु प्रागादिदर्भैरास्तीर्य देशिकः ।
परिषिच्य जलैस्तूष्णीमभ्यर्च्याग्निं षडङ्गतः ॥ १४-२१७ ॥
जलबिन्दुं जीवभूतं क्षिप्त्वा प्रणवतोऽनले ।
गर्भाधानादिकर्माणि षडङ्गैः स्वैरनुक्रमात् ॥ १४-२१८ ॥
प्रत्याहुतित्रयं हुत्वा परिषिच्याथ तारतः ।
दर्भेषूत्तरतो वह्नेः पात्राण्यासाद्य पूर्ववत् ॥ १४-२१९ ॥
तोयसेकदयाधेयसङ्ख्यैर्दर्भैर्यथाक्रमम् ।
परिस्तीर्य यथापूर्वं प्रोक्षणीं वेधसं तथा ॥ १४-२२० ॥
प्रणीतां चाभिपूज्याग्निं परिषिच्यादितः क्रमात् ।
ध्यात्वा हेमासनाम्भोजधवलं केसरोज्ज्वलम् ॥ १४-२२१ ॥
तदष्टपत्राग्रगता मूर्तयोऽष्टौ हविर्भुजः ।
अग्निः स्यात् प्रथमा मूर्तिर्वैश्वानरहुताशनौ ॥ १४-२२२ ॥
जातवेदा हुतवहो हुतवर्मा ततः परम् ।
तथा देवमुखः सप्तजिह्वश्चेत्यष्टमूर्तयः ॥ १४-२२३ ॥
जातवेदाः सप्तजिह्वो हव्यवाहस्तथापरः ।
अश्वोदरस्तथैवाजस्ततो वैश्वानराह्वयः ॥ १४-२२४ ॥
तद्वत् कौमारतेजाश्च विश्वेदेवमुखस्तथा ।
अग्नयेपदपूर्वाः स्युर्मूर्तयोष्ऽटौ परे जगुः ॥ १४-२२५ ॥
शक्तिस्वस्तिकसाभयं सवरदं काश्मीररक्तद्युतिं
शुक्लालेपनमाल्यदामवसनं भास्वज्जटामण्डलम् ।
व्यालोलामलहाररत्नमकुटं तं हेममालोज्ज्वलं
ध्यायेत् सौम्यमभीष्टदं हुतवहं त्र्यक्षं प्रसन्नाननम् ॥ १४-२२६ ॥
हिरण्या गगना रक्ता कृष्णाख्या त्वथ सुप्रभा ।
बहुरूपातिरक्ता च सात्त्विक्यः सप्त कीर्तिताः ॥ १४-२२७ ॥
पद्मरागा सुवर्णी च भद्रलोहितलोहिते ।
श्वेता च धूमिनी चैव करालीति रजोन्विताः ॥ १४-२२८ ॥
विश्वमूर्तिस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा ।
विलोहिता कराली च काली चेति तमोन्विताः ॥ १४-२२९ ॥
धातुबीजैर्विलोमोक्तैर्वह्निवायू मभूषितैः ।
पूर्वादिदिक्षु जिह्वाः स्युर्वसुधारेशकोणगाः ॥ १४-२३० ॥
दैवेष्वपि च नित्येषु सात्त्विक्यः शान्तिकेष्वपि ।
शस्ताः काम्येषु राजस्यस्तामस्यः क्रूरकर्मसु ॥ १४-२३१ ॥
देवताः पितृगन्धर्वा यक्षनागाः पिशाचकाः ।
क्रमेण जिह्वाधीशाः स्युस्तथैव ब्रह्मराक्षसाः ॥ १४-२३२ ॥
सर्वदेवमयी ख्याता वसुधारोपजिह्विका ।
तस्यां काम्यानि शस्तानि शेषाः स्युर्वैदिकोदिताः ॥ १४-२३३ ॥
प्रणवादिनमोन्तं तु मूर्तीर्जिह्वास्तथार्चयेत् ।
सहस्रार्चिः स्वस्तिपूर्णाश्चोत्तिष्ठपुरुषस्ततः ॥ १४-२३४ ॥
धूमव्यापीसप्तजिह्वस्तथा षष्ठो धनुर्धरः ।
षडेवमङ्गमन्त्राः स्युर्वह्नेर्जातियुताः पृथक् ॥ १४-२३५ ॥
अङ्गानि मूर्तयश्चैव प्रसन्नाः स्युश्चतुर्भुजाः ।
शक्तिस्वस्तिकदोर्द्वन्द्वरुक्माभरणभूषणाः ॥ १४-२३६ ॥
तथेन्द्राद्यांश्च लोकेशानस्त्राणि च बहिर्यजेत् ।
स्वमूर्तिमपि चाग्नेयी न्यस्ताङ्गां परिभाव्य तु ॥ १४-२३७ ॥
इष्ट्वा गन्धादिभिर्वह्निमाज्यं संस्कृत्य पूर्ववत् ।
स्रुक्स्रुवावपि सम्मृज्य वैदिकाग्न्युक्तमार्गतः ॥ १४-२३८ ॥
प्राजापत्यादिभिर्मन्त्रैर्विअदिकाग्निमुखं ततः ।
हुत्वाङ्गमूर्तीर्जिह्वानामेकैकाज्याहितिक्रमात् ॥ १४-२३९ ॥
हुत्वा त्वनेन मन्त्रेण जुहोत्येकाहुतिं पुनः ।
तार व्याहृतयस्तिस्रो वैश्वानरपदं ततः ॥ १४-२४० ॥
सोऽपि भाव जातवेद इहावह सर्वकर्माणि साधय ठठ ।
व्याहृत्यादिमिमं मन्त्रं मूलमग्नेर्विदुर्बुधाः ।
ऋषिः स्यात् सविता छन्दो दैवीगायत्रसञ्ज्ञितम् ॥ १४-२४१ ॥
देवता जातवेदोऽग्निः समृद्ध्यादौ नियुज्यते ।
महासमृद्धिदो ह्येष जप्यः स्यादयुतं परः ॥ १४-२४२ ॥
ब्रीहिं न्यग्रोधसमिधस्तिलराज्याज्यपायसैः ।
पूर्वादिदिक्षु हुत्वादौ क्रमात् प्रतिपदादिषु ॥ १४-२४३ ॥
साष्टोत्तरसहस्रं वा शतं वाज्यं जुहोतु च ।
एकादश्यां यथाशक्ति भोजयित्वा शुचीन् द्विजान् ॥ १४-२४४ ॥
रक्तां गां दक्षिणां दत्त्वा सिध्येत् सामृद्धिको मनुः ।
उक्तैर्द्रव्यैः प्रतिपदि पृथक् साष्टकं वा स्हस्रं
हुत्वा व्रीहिं जरदमथवा प्रत्यहं रुद्रसङ्ख्यम् ।
व्याघातीयैर्धृतविलुलितैर्वा त्रिपक्षं तथेध्मैः
पालाशैर्वा मधुरमिलितैः स्यात् समृद्धिस्तु पुष्पैः ॥ १४-२४५ ॥
साज्यं गव्यं पायसं वा जुहोतुनित्यं क्षीरं कापिलं गोघृतं वा ।
बन्दूकैर्वा क्षौद्रसिक्तैश्च पुष्पैर्लक्ष्मीकामो मासमष्टौ सहस्रम् ॥ १४-२४६ ॥
क्षीराहारः शोणगोक्षीरहोमी लक्ष्मीं विन्देताक्षयां मासमात्रात् ।
मेधाकामः पौर्णमासीषु लक्षं स्पृष्टं (?) ब्राह्मं वा घृतं प्राश्य विन्देत् ॥ १४-२४७ ॥
लक्षं हुत्वा साज्यदूर्वाङ्कुराणां मृत्युं जित्वा दीर्घमायुश्च विन्देत् ।
हुत्वा चैकामाहुतिं सन्निधत्ते मन्तेणादौ चाखिलेष्वध्वरेषु ॥ १४-२४८ ॥
आहवन्त्यादिना प्रातरग्नेस्तिथौ पायसं सर्पिषा साष्टसाहस्रकम् ।
यज्जुहोत्यक्षयामाहवत्येव तद्वस्रहेमान्नगास्त्वावहन्ती श्रियम् ॥ १४-२४९ ॥
अस्यात्यनुष्टुप्च्छन्दः स्यादृषिरुक्तस्तु काश्यपः ।
भद्राग्निर्देवता प्राग्वदङ्गान्यपि च साधनम् ॥ १४-२५० ॥
प्राजापत्यं पङ्क्तिसहस्रं तु जपित्वा साज्यं दध्ना चौदनहोमादपि लक्ष्मीः ।
आज्या(भ्य)क्तैः शालिहुताद् वा प्रतिपत्सु प्रोक्तैर्द्रव्यैर्व्याहृतिभिर्वा हवनं स्यात् ॥ १४-२५१ ॥
त्रिष्टुबस्य भवेच्छन्दो मरीचिर्भगवानृषिः ।
प्रजापतिर्दैवतं च साधनाङ्गानि पूर्ववत् ॥ १४-२५२ ॥
उद्धृत्योत्तिष्ठशब्दः पुरुषहरिपदे सार्धचन्द्राक्षिपार्श्वे
स्वान्तं मांसं च देहिद्वयमपि च ततो वामपादस्य मध्यम् ।
दीर्घोऽत्रिः पार्श्वमन्ते मरुदिति गदितो वह्निजायान्त एषो
वह्नेस्तारद्वयान्तो मनुरखिलजगत्काम्यकल्पद्रुमोऽसौ ॥ १४-२५३ ॥
अस्यच्छन्दस्तु गायत्री मुनिरप्यङ्गिरा भवेत् ।
भृगुरिति केचन ।
देवता स्वयमेवाग्निरश्वरूपी हिरण्यदः ॥ १४-२५४ ॥
नित्यं वा प्रतिपदि वा सकृत्तिकायां शाल्यन्नैर्घृतमिलितैर्जुहोतु लक्ष्म्यै ।
दध्यन्नं घृतमथवा शमीसमिद्भिर्हुत्वेष्टां खलु लभते महासमृद्धिम् ॥ १४-२५५ ॥
हुत्वाज्यं यत् स्वेष्टां लक्षार्धं तां विन्देत् । सरोजैर्हुतैः स्यात् सुलभ्यं पुराद्यम् । पैप्पलैरिध्मकैः कन्यकां प्राप्नुयात् । घृतवच्चरुणा विजयं लभते । ज्योतिष्कतैलेन राष्ट्राणि विन्देत् । जपेन जलानि रुजोऽपि हन्ति । यत् खलु सिध्यति तज्जप सम्पदि यदिह जगति जपतु भवति ।
हैरण्याश्वत्थकल्पद्रुमकुहरगृहान्निष्पतद्वाजिरूपं
रोम्णा कूपोद्गतार्चिष्कपिशितगगनं रन्ध्रदेशैर्धनौघम् ।
ध्यायन् वर्षन्तमग्निं प्रतिपदि जुहुयात् पायसैकाहुतिं स्या-
दर्धप्रस्थाज्यपूर्णाम्बरचषकगतां सोऽचिरादार्थनाथः ॥ १४-२५६ ॥
इति निगदितमग्नेरिष्टदं यद्विधानं
तदभिनियतकाले त्वाहुतीनां समानम् ।
अनुजपतु च मन्त्रं तत्फलाप्त्यै द्विजेन्द्रान्
रसवदिह समग्रं भोजयेन्नित्यशोऽन्ते ॥ १४-२५७ ॥
दशांशविप्रभोजनं तु मुख्यमाहुतिक्रमात्
तथैव पञ्चविंशदंशभोजनं तु मध्यमम् ।
शतांशमप्यथाधमं तु शक्तितस्तदूहयेत्
समाप्तिदानभोजनं च देवताभिपूजनम् ॥ १४-२५८ ॥
तथैव दक्षिणापि मानहेम चाहुतेः स्मृतं
स दैविके तु पौष्टिके वशीकरे च कर्मणि ।
विरञ्जने प्रचाटने निरोधने द्विमानकं
रुजि भ्रमे च सादने त्रिमानकं विनिर्दिशेत् ॥ १४-२५९ ॥
तथैव कृष्णलामितं हिरण्यमेव मारणे
तथाहि तत्त्वसागरे प्रपञ्चके च दर्शितम् ।
दहेद् विहीनदक्षिणाप्रयोगकारिणं नरं
त्वतो न हीनदक्षिणां प्रयोजयेच्च बुद्धिमान् ॥ १४-२६० ॥
इयं हि दक्षिणोत्तमा तु मध्यमाप्यतोऽर्धत-
स्तदर्धतोऽधमा भवेत् तु शक्तितः प्रकल्पिता ।
किमस्य दक्षिणोच्यते यदस्य कर्मणः फलं
प्रदर्श्यतेऽनुभूयते ततः प्रदेयमीप्सितम् ॥ १४-२६१ ॥
अथाभिचारकेषु वह्निकुण्डसाधानादिकं
समुत्सृजेदरेः पुरे तथाम्बुधौ सरित्सु वि ।
करोतु तत्र शान्तिकं सदानधर्मपूजनं
यथा स्वदेहदेशवंशरक्षणं कृतं भवेत् ॥ १४-२६२ ॥
तथैव शान्तिकादिकानि दक्षिणावसानिकं
सामाप्यं वैदिकाग्निकल्पदर्शितक्रमेण वा ।
निरुध्य दैवतं च वह्निमम्बरेन्दुपङ्कजे
नियोजयेत् चामृताम्बुशीकरप्रवर्षिणि ॥ १४-२६३ ॥
इतीह तत्त्वसागरादितन्त्रचोदितो विधि-
स्तथैव वैदिकप्रयोगवृत्तिगृह्यदर्शितः
शिवागमोदितश्च यो निरूप्य सम्प्रदर्शितः
प्रयोगतस्तु साधकैरलं निषेव्यतां सुखम् ॥ १४-२६४ १।२ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे अग्निकल्पविधिर्नाम चतुर्दशः पटलः ॥
इति सामान्यपादः प्रथमः समाप्तः ।
शुभं भूयात्