अथ त्रयोदशः पटलः
अथो यागगेहं चतुर्द्वारकोणं चतुस्तोरणाङ्कं वितानध्वजाढ्यम् ।
सगोगोमयाद्भिर्विलिप्तं समन्तात् स्रगालम्बितं तत्सुगन्धं च धूपैः ॥ १३-१ ॥
प्रदीपाङ्कुराढ्यैस्तथा पूर्णकुम्भैरलङ्कृत्य कुण्डं च कृत्वेन्द्रभागे ।
यथालक्षणाढ्यं चतुष्कोणमस्मिन् निधायाग्निमग्नेर्मुखं चात्र हुत्वा ॥ १३-२ ॥
ततो दक्षिणस्यां यजेद् विघ्नराजं समभ्यर्च्य गन्धैश्च भक्ष्यैश्च भोज्यैः ।
गृहे मध्यतस्तत् स्थलं शोधयित्वा चतुष्कोणमस्मिन् विधायोक्तसूत्रैः ॥ १३-३ ॥
पुनर्द्व्यष्टधा तद् विभज्यात्र च स्युः पदानां शते द्वे च पञ्चाशता षट् ।
लिखेन्मध्यतोऽब्जं पदैर्द्व्यष्टसङ्ख्यैर्बहिर्वर्तुलानां त्रयं दर्भसङ्ख्यैः ॥ १३-४ ॥
अशीत्या पदानां भवेद् राशिचक्रं प्रियायज्ञसङ्ख्यैः पदैरत्र शिष्टैः ।
लिखेद् द्वारशोभाः प्रशोभाः सकोणाः पदैः षट्चतुर्भिश्च वेदर्तुसङ्ख्यैः ॥ १३-५ ॥
लिखेद् वर्तुलं तत्तु वीथ्योस्तु मध्ये भवेत् सूत्रकाणां चतुष्कं दिशासु ।
अरा द्वादशैवं तु ते राशयः स्युः समा मातुलुङ्गैस्तु चेन्दीवराभाः ॥ १३-६ ॥
बहिर्वीथिकायां तु कल्पद्रुमाः स्युर्लताजालपत्रैः फलैः पक्षिभिश्च ।
यथास्थानशोभं तु पद्मोत्पलाद्यैः समं कोरकैश्चाथ पुष्पैश्च गुच्छैः ॥ १३-७ ॥
चतुर्धा तु पद्मस्थलं भ्रामयित्वा समं कर्णिकार्थं च तत्केसराणाम् ।
तथा सन्धयः स्युर्दलाग्राणि चैवं समान्यष्टपत्राण्यथो वर्तयेत ॥ १३-८ ॥
सितं शालिपिष्टं तु चूर्णं सुपीतं हरिद्रोद्भवं चाथ रक्तं कुसुम्भम् ।
भवेच्छ्यामवर्णैः पलाशैस्तु तादृक् सुनीलं विदग्धैस्तथा व्रीहिभिः स्यात् ॥ १३-९ ॥
भवेत् कर्णिका तस्य पीताथ सूक्ष्मा तथा केसराश्चादितः स्थूलमध्याः ।
पिशङ्गास्तदग्रे तु पीतास्तदन्ते सिताः स्युर्दलेष्वेषु ते युग्मशः स्युः ॥ १३-१० ॥
सिताः सर्वरेखास्त्वनामासमानाश्छदान्यच्छचूर्णैश्च रक्तानि च स्युः ।
दलानां तु सन्धिर्भवेच्छ्यामवर्णस्त्रिवृत्तानि शुक्लारुणानीलभाञ्जि ॥ १३-११ ॥
तथा श्यामला वारुणा राशयः स्युः सुपीताश्च वीथ्यां तु तत्सन्धयः स्युः ।
यथाशोभवर्णं तु कल्पद्रुमाः स्युर्विचित्राश्च चक्षुर्मनोज्ञा विधेयाः ॥ १३-१२ ॥
लिखेद् द्वारदेशांश्च शुक्लांस्तु शोभाः कुसुम्भारुणाः स्युश्च पीतोपशोभाः ।
सुनीलेषु शङ्खास्तु कोणेषु शुक्लान् लिखेत् स्वस्तिकान् वा यथेष्टं मनोज्ञान् ॥ १३-१३ ॥
सशिष्यो गुरुः प्रागुपोष्यैकरात्रं कृतस्नाननित्यक्रियः क्षालिताङ्घ्रिः ।
समाचम्य शुक्लोत्तरासङ्गवासाः कृतद्वारपूजाविधिः प्रेरितास्त्रः ॥ १३-१४ ॥
पदा पार्ष्णिघातत्रयं चात्र दत्त्वा पदा देहलीं चास्पृशन् दक्षिणेन ।
प्रविश्योत्तरां त्वन्तराश्रित्य शाखां ततो वास्तुनाथं विधिं चार्चयित्वा ॥ १३-१५ ॥
विधायास्त्रवप्रं तु रक्षां समन्ताद् यथोक्तासने तूपविष्टोऽथ मौनी ।
चरेद् भूतशुद्धिं मरुत्संयमोत्थां गजास्यं तु याम्ये गुरुं चैश इष्ट्वा ॥ १३-१६ ॥
ततो मन्त्रनद्धस्वदेहः शिवात्मा हृदम्भोरुहस्थं शिवं ज्योतिरेकम् ।
मनःसाधितैस्तूपचारैस्तथेष्ट्वा यजेन्नाभिकुण्डेऽनलं मानसेन ॥ १३-१७ ॥
समापूर्य चार्घ्यं समूलाङ्गमिष्ट्वा शिरः स्वं समुक्षेच्च कूर्चार्घ्यतोयैः ।
तथा तैरथोक्ष्यार्चनद्रव्यजातं तथा यागभूमिं च तैः प्रोक्षयित्वा ॥ १३-१८ ॥
ततः स्थानशुद्धिं तु तालत्रयास्त्रात् प्लुतान्तं पठन् निष्कलान्तं च मन्त्रम् ।
समुच्चार्य स्वाब्जादथेन्दोः स्रुताद्भिः समाप्लाव्य बेरं तथास्त्राम्बु शोध्यम् ॥ १३-१९ ॥
न्यसेद् वर्धनीं चोत्तरेणाम्बुपूर्णां तथा गन्धपुष्पाक्षतं दक्षिणस्याम् ।
तदर्घ्याम्बुबिन्दुं सगन्धं च पुष्पं क्षिपेन्मूलमन्त्रं जपेद् द्रव्यचक्रे ॥ १३-२० ॥
यथाशक्ति दीपानपि ज्वालयित्वा मनोज्ञान् विशुद्धान् यथोक्तप्रकारान् ।
सुगन्धाक्षताद्यैर्यथोक्तैः पृथग् वा यजेद् वक्ष्यमाणक्रमान्मण्डलं तत् ॥ १३-२१ ॥
तथाधारशक्तिं न्यसेल्लोकधात्रीं मृणालाङ्कुराभां भुवोऽधो यजेत् ताम् ।
ततोऽनन्तमुर्वीमनन्तासनाख्यं चतुष्कोणपीठं तु तद्योगसञ्ज्ञम् ॥ १३-२२ ॥
वृषाकाररक्तं तु धर्माख्यमग्नौ यजेद् ज्ञानसिंहं तु कृष्णाक्षपादे ।
सुपीतं विरागं तथैश्वर्यमच्छं यजेन्मारुतैशस्थभूतद्विपाभौ ॥ १३-२३ ॥
रजः कन्दमुक्तं तमस्तत्र नालं भवेत् सात्त्विकाख्यं सुशुक्लं सरोजम् ।
ततः सूर्यसोमाग्निबिम्बानि वेधोहरीशात्मयुक्तच्छदादीनि विद्यात् ॥ १३-२४ ॥
तथैवात्मविद्या शिवाख्यानि तत्त्वान्यथो मातृकाब्जं यजेत् तद् यथावत् ।
समभ्यर्च्य कुम्भं तु हैमादिकं तं सुधौतं त्रिसूत्र्या समं वेष्टयित्वा ॥ १३-२५ ॥
अवाग् धूपगर्भं न्यसेत् कर्णिकायां सधान्यं सदर्भं सबोधिच्छदायाम् ।
निधायाधरास्यां कलासङ्ख्यगर्भैर्निदध्यात् तु कूर्चं ततः कुम्भपृष्ठे ॥ १३-२६ ॥
निरूप्याथ तस्मिन् स्फुरच्छक्तिमाद्यां प्रपञ्चप्रसूतिं च तत्त्वैरशेषैः ।
तमुत्तानयित्वा घटं तत्र कूर्चं तदाधाय शक्तिं जपेन् तारगर्भाम् ॥ १३-२७ ॥
विलोमेन तूक्तैस्ततो मातृकार्णैः स्वपद्मेन्दुबिम्बामृतासारमिश्रैः ।
समं तीर्थतोयैः समापूर्य पूर्वं सवर्णौषधीनां जलेनापि गन्धैः ॥ १३-२८ ॥
अलाभे त्वथासां तु सर्वौषधीनां चतुःक्षीरवृक्षत्वचामम्बुभिर्वा ।
क्षिपेदष्टगन्धान् सुपिष्टान् यथावत् सुगन्धीनि तद्वत् सुपुष्पाणि चैवम् ॥ १३-२९ ॥
शुभं पद्मरागं प्रवालं च वज्रं हरिद्रत्नमुक्तास्तथा पुष्यरागम् ।
विडूरोद्भवं चेन्द्रनीलं विशुद्धं क्षिपेच्चन्द्रकान्तं च कुम्भाधिराजे ॥ १३-३० ॥
नवैर्माल्यपुष्पैरलङ्कृत्य चौतैस्तथाश्वत्थबिल्वैर्दलैः पानसैश्च ।
विशुद्धैर्नवैश्चोन्मुखैः शक्रवल्ल्यां निबध्य स्मरेत् तं तरुं पारिजातम् ॥ १३-३१ ॥
सुपूर्णं तु पात्रं सितैस्तण्डुलैस्तत्सताम्बूलपूगं निधायास्य वक्त्रे ।
सुसूक्ष्माब्मराभ्यां सिताभ्यां नवाभ्यामलङ्कृत्य माल्यैश्च गन्धाक्षताभ्याम् ॥ १३-३२ ॥
समावाह्य शक्तिं प्रपञ्चप्रसूतिं विशुद्धां च विद्यां चितिं सूक्ष्मरूपाम् ।
पृथङ् मातृकार्णैस्तु तारान्तरस्थैः शतार्धं कलाश्चापि तारप्रसूताः ॥ १३-३३ ॥
कलास्त्रिंशदष्टौ च पूर्वोदिता याः क्रमात् सन्नियुज्यात् तु शक्तौ घटेऽस्मिन् ।
तथेच्छाक्रियाख्ये पुनर्ज्ञानशक्तिं स्वतन्त्रप्रबोधावभिव्यञ्जयेच्च ॥ १३-३४ ॥
तथा शक्तिशान्तौ च हंसाख्यजीवं नियुञ्जीत तस्मिन् निजाङ्गैश्च मूलम् ।
प्रतिष्ठां च जीवस्य मन्त्रेण कृत्वा समस्तेन्द्रियाणां स्मरेत् सन्निधानम् ॥ १३-३५ ॥
ऋचः पञ्च याश्च द्विजस्तारकोक्ता नियुञ्जीत हंसः शुचीत्यादिरेका ।
प्रतद्विष्णुरन्या त्वनुष्टुप् तथा तत्पदाद्या च विष्णोर्नुकं चेति पूर्वा ॥ १३-३६ ॥
तथैवाङ्गमन्त्रैश्च मूलेन युक्त्या नियुञ्जीत तस्मिंस्तु साकारभावम् ।
यथोक्तोपचारैः समभ्यर्च्य सम्यक् स्मरेच्छक्तिमिष्टप्रदां चारुरूपाम् ।
जपापाटलाभां तु दृष्टार्थसिद्ध्यै सपाशाङ्कुशां चेष्टदाभीतिहस्ताम् ।
विचित्राम्बरस्रक्पिशङ्गानुलेपां लसच्चञ्चलीकप्रभाकेशपाशाम् ॥ १३-३८ ॥
स्फुटद्रत्नभूषाकिरीटप्रभाभिः पृथक् छत्रचापश्रियं बिभ्रतीं खे ।
प्रपञ्चप्रसूतिं प्रपञ्चात्मिकां तां विचिन्त्यार्चयित्वा हृदम्भोरुहे स्यात् ॥ १३-३९ ॥
समावाह्य शिष्।येष्टमन्त्रानुकूलां स्मरन् देवतां चेष्टरूपादिवर्णाम् ।
विदिक्ष्वङ्गमन्त्रैश्चतुर्भिस्तदस्रं न्यसेद् दिक्षु नेत्रं तु मध्येऽर्चयीत ॥ १३-४० ॥
तदब्जच्छदाग्रस्थशक्तिस्तदुक्ता यजेल्लोकपालांश्च दिक्ष्वस्त्रदेवान् ।
क्रमात् पिङ्गपीता सिता धूम्रशुक्ला मधुच्छायपाण्डुच्छवी शुक्लरक्तौ ॥ १३-४१ ॥
सरोजप्रभश्चेति लोकाधिपाः स्युर्दशेन्द्रादयश्चाब्जभूशेषयुक्ताः ।
सुपीतं च वज्रं तु शक्तिः सुरक्ता सिताभस्तु दण्डः खड्गवर्णस्तु खड्गः ॥ १३-४२ ॥
तडित्कल्प उक्तश्च पाशाङ्कुशः स्यात् सिताभा गदाप्यग्निकल्पं त्रिशूलम् ।
दिनेशाभमब्जं तु चक्रं च तद्वत् क्रमादित्थमुक्तं यथास्त्राग्निवर्णैः ॥ १३-४३ ॥
गणं वीरभद्रं तथा सप्तमातॄर्भजेद् दक्षिणस्यां पिशङ्गं गजास्यम् ।
सुनीलं तु भद्रं तथा सप्त मातॄः स्वदेवोपमास्ताः सवाहायुधाद्यैः ॥ १३-४४ ॥
कुबेरात् तु पूर्वप्रदेशे तु चण्डं तथा क्षेत्रपालं स्ववाहं च पूर्वे ।
सतारस्वनाम्ना नमोन्तं यथावत् क्रमेणोपपत्त्योपचारैरिमेऽर्च्याः ॥ १३-४५ ॥
ततो मण्डलाग्रे न्यसेत् पालिकाद्याः प्ररूढाङ्कुराढ्या यजेद् दिक्षु चैताः ।
नवं गव्यमाज्यं चरु चाथ कृष्णांस्तिलाञ् शालिसक्तूंश्च सिद्धार्थयुक्तान् ॥ १३-४६ ॥
सतारान् लिपेश्चाक्षराञ्छक्तिहंसौ ठयुग्मान्तमुक्त्वा तु तत्तज्जुहोति ।
स्वमन्त्रेण चाङ्गैरभीष्टेन हुत्वा महाव्याहृतीश्चेद् द्विजो व्याहृतीश्च ॥ १३-४७ ॥
चतुष्कर्मबन्धप्रहाणाय मन्त्रं पठन् वक्ष्यमाणं तिलाज्यं जुहोति ।
बकोक्तिः सवामाक्षिरग्निः सझण्टीणकारस्तृतीयायुतः प्राणशब्दः ॥ १३-४८ ॥
जाटटा स्वप्नेण लुप्तेण मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु ठ ठ ॥
अनेनाष्टयुक्तं शतं तत्र हुत्वा बलिं चोत्तरेणाथ पूर्णाहुतिं च ।
तिथीनामुडूनां च राशिग्रहाणां स्वनाम्ना नमोन्तं बलिं तत्र दत्त्वा ॥ १३-४९ ॥
ततस्तत्र शिष्यं विधिस्नानशुद्धं समाचान्तमस्मिन् निवेश्याथ पीठे ।
शिरस्यस्य दूर्वाश्च कूर्चाक्षताद्यं निधायैनमिष्ट्वा सुगन्धैश्च पुष्पैः ॥ १३-५० ॥
पशोरस्य बन्धच्युतिं चेष्टसिद्धिं प्रसीदेति नत्वाथ तद्देवतायाः ।
अवाप्याभ्यनुज्ञां तु बिम्बस्थदेवान् समायोज्य कुम्भे स्वयं देशिकस्तम् ॥ १३-५१ ॥
कराभ्यां तु बिभ्रत् तमुद्धृत्य तिष्ठन् कुशाग्रेषु शिष्यं निषिञ्चेत् तदद्भिः ।
सुषुम्नापथा तत्क्रमाच्छिष्यदेहे स्रवद्वारिधारासुधामिश्रमन्त्रैः ॥ १३-५२ ॥
स्फुरच्छक्तिदीप्त्याथ तद्देवतायाः प्रवेशो हृदब्जेऽथ तस्याभिचिन्त्यः ।
त्रिवाश्यालिमोक्षं तथास्त्रेण कुर्याच्छिवत्वं च नाड्या समापाद्य तस्मिन् ॥ १३-५३ ॥
समुत्थाय शिष्यस्तु शुक्लं विशुद्धं दधद् वस्त्रयुग्मं पुनः क्षालिताङ्घ्रिः ।
समाचम्य दत्त्वा तु सूर्याय चार्घ्यं नमस्कृत्य गत्वाथ तद्द्वारदेशम् ॥ १३-५४ ॥
कुशेषूपविष्टो निबद्धाञ्जलिः सन् गुरोराज्ञया तूत्तराशामुखः स्यात् । गुरुः प्राङ्मुखस्तूपविश्यार्घ्यतोयैः शिरः प्रोक्षयेच्चास्त्रतस्तस्य दर्भैः ॥ १३-५५ ॥
शिरस्यस्य भूत्या त्रिराराध्य देहं ततः शोषणाद्यैस्त्रिधा शोधयित्वा ।
पुनर्भूतशुद्धिं च शिष्यस्य देहे स्वयं चित्तवृत्त्या समापाअद्य पात्रे ॥ १३-५६ ॥
विशेषार्घ्यमिष्ट्वाथ तत्कूर्चतोयैः पुनः प्रोक्ष्य तस्मिन् न्यसेन्मातृकार्णान् ।
ततः साध्यमन्त्रं च तस्याङ्गमन्त्रान् न्यसेन्मूर्तिमत्तां समापाद्य तस्मिन् ॥ १३-५७ ॥
पुनश्चावकुण्ठ्याथ तं वर्मणाथो स्वमूलाङ्गयुक्तं नवं श्क्लवस्त्रम् ।
समादाय नेत्रेऽस्य वद्ध्वाथ बिम्बे पुरैवेष्टदेवे समभ्यर्च्य तस्मिन् ॥ १३-५८ ॥
ततः क्षेपयेत् तस्य पुष्पाञ्जलिं तं स यस्यां तु मूर्तौ पतेद् बाङ्गमन्त्रे ।
तदुक्तं हि नाम्नास्य मन्त्रं च तस्मै प्रदद्यात् त्रिवारं पठेत् सोऽपि मन्त्रम् ॥ १३-५९ ॥
ततस्तारपीठे तु दर्भासनस्थः समालोक्य शिष्यं तु मूलाङ्गजापी ।
स्वहस्तं शिरस्यस्य विन्यस्य मन्त्रं निधायाङ्गमूलैः स्पृशेत् सर्वमङ्गम् ॥ १३-६० ॥
ततो दर्भमूलं तु शिष्यस्य हस्ते प्रदायोपविष्टः पुराग्नेस्तदग्रम् ।
स्वजङ्घान्तरस्थं निपीड्यात्मनोऽस्मिन् क्रमाज्जीवनाड्योश्च सन्धिं विदध्यात् ॥ १३-६१ ॥
इडापिङ्गलाख्यस्वनाड्योः स्वनस्तः सुषुम्नापथा(चा?च्चा)पि मूर्ध्नः प्रसूतम् ।
त्रिधा युत्तु तेजस्तथा शिष्यदेहेऽप्यविच्छिन्नसन्धिं तु जीवं विभाव्यात् ॥ १३-६२ ॥
समानीय शिष्यात्मनोरेकभावं घृतेन त्रिवारं तु मूलेन हुत्वा ।
तथा शिष्यजीवं तथात्मप्रविष्टं पुनर्निर्गतं चास्य देहं प्रविष्टम् ॥ १३-६३ ॥
भवेदात्मजन्मैवमुद्भाव्य शिष्यः स्फुटं शक्तिपातात् स्वतुल्यः शिवः स्यात् ।
हरित्कीटकं यन्मृदावेष्ट्य नादं बिकुर्वन् षड्ङ्घ्रिः स्वजातिं करोति ॥ १३-६४ ॥
तथा प्राकृतं शिष्यमाचार्यवर्यः क्रियादीक्षया मन्त्रमूर्तिं करोति ।
ततोऽष्टौ शतं चापि मूलेन हुत्वा दशांशेन चाङ्गैर्घृतेनैव पञ्च ॥ १३-६५ ॥
द्विजश्चेज्जयादिं जुहोतीह पूर्णां समूलाङ्गमन्त्रैः समस्तैर्जुहोतु ।
समित्क्षीरलाजैश्च सिद्धार्थगव्यैस्तिलैः सर्पिषाङ्गैश्च मूलेन हुत्वा ॥ १३-६६ ॥
द्विजः श्रौतमन्त्रैः स्वसूत्रोक्तमार्गाज्जुहोतीह सर्पिर्यथा निष्कृतिः स्यात् ।
प्रायश्चित्तं मूलतस्त्वद्विजानां हुत्वा चाष्टौ विंशतिं चापि मन्त्री ॥ १३-६७ ॥
जातिं तस्याथोद्धरेद् वक्ष्यमाणैर्मन्त्रैराज्यस्याहुतीनां त्रयेण ।
तारः शक्तिं मूलमन्त्रो निजायां
भवन्नस्यात्मनो योनिर्बीजाहारभावदेशशुद्धौ द्विजो भवतु मन्त्रदेहः ठ ठ ।
तस्मादूर्ध्वं व्याहृतीभिश्च हुत्वा ॥ १३-६८ ॥
भगवन्नस्यात्मा मन्त्रात्मको भवतु ठ ठ ।
हुत्वानेनाप्याहुतीस्तत्र तिस्रो भूयो हुत्वा व्याहृतीरत्र पश्चात् ।
अस्त्रेणैनं प्रोक्ष्य सन्ताड्य सद्यो रेचादन्तः सम्प्रविश्यास्य पाशान् ॥ १३-६९ ॥
विश्लेष्यास्माच्छेदयेदप्यथास्त्रान् मुद्रां बद्ध्वा त्वङ्कुशाख्यां पुनश्च ।
यच्चैतन्यं शिष्यदेहस्थमस्मादाकृष्येन्दौ द्वादशान्ते नियोज्य ॥ १३-७० ॥
इष्टेऽम्भोजे हृद्गते पूरके तु स्वात्मन्येतद् योजयेत् कुम्भकेन ।
समरसं तु नयेदथ रेचकान्मनुजभावमपास्य शिवात्मकम् ॥ १३-७१ ॥
स्मरतु हंसजपादभिपूज्य तत् पुनरुदस्य तु शिष्यहृदं नयेत् ।
नाडीमार्गाच्छिष्यहृत्पङ्कजे तच्चैतन्यं तु स्थापयित्वा स्वपद्मात् ॥ १३-७२ ॥
सूतैरिन्दोः सौधधाराम्बुपूरैराप्लाव्यैनं मन्त्रदेहं विभाव्य ।
अनामयं शिष्यमलुप्तशक्तिं विचिन्त्य विन्यस्य तु मातृकार्णान् ॥ १३-७३ ॥
तदिष्टमूलाङ्गनिविष्टदेहं विधाय तं बालतनुं तनूजम् ।
जातकर्मादिकं तस्य कुर्यात् ततो मूलतस्तत् क्रमात् स्यात् त्रिवारं पृथक् ।
साङ्गमूलं जपंश्चोपवीतेन तं योजयेत् तद्व्रतैश्चोदितैर्मूलतः ॥ १३-७४ ॥
मूलतस्तर्पयेत् पावकं शक्तितस्तत्र पूर्णां पुनश्चापि हुत्वा गुरुः ।
सामयाचारिकान् धर्मसेतूनमुं श्रावयेत् तान् यथा पालयेत् साधकः ॥ १३-७५ ॥ १३-
इत्थमाचार्यतो मन्त्रदीक्षामसौ सप्तजन्मांहसां शोधनीमिष्टदाम् ।
जप्यहोमार्चनामन्त्रसिद्धिप्रदां प्राप्य सद्यः सुधीः स्यात् कृतार्थश्चिरम् ॥ १३-७६ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रदीक्षापटलस्त्रयोदशः ॥