१२

अथ द्वादशः पटलः ।

उत्सवेषु विविधेष्वपि दीक्षास्थापनादिषु पवित्रविधौ च ।
मङ्गलाङ्कुरविरोपणपूर्वं मङ्गलं भवति कर्म कृतं तत् ॥ १२-१ ॥

शस्तयागदिवसात् तु पुरस्तात् सप्तमेऽहनि शुभे नवमे वा ।
पञ्चमेऽपि सुदिने सुमुहूर्ते मङ्गलाङ्कुरविधिं विदधीत ॥ १२-२ ॥

पात्रमत्र विहितं त्रिविधं तत् पालिका च घटिका च शरावम् ।
विष्णुपद्मभवशङ्करदैवं तत्त्रयं पृथगनुक्रमशः स्यात् ॥ १२-३ ॥

अङ्गुलैः कृतिमितैः स्फुटमुच्चा पालिकावदनविस्तरतोऽपि ।
उत्तमा च यरयाङ्गुलसङ्ख्ये मध्यमाधमविधौ कथिते वै ॥ १२-४ ॥

पादविस्तृतिरथोर्ध्वमिता स्यात् तत्त्रिभागमितकण्ठबिलं च ।
दण्डवद् भवति शिष्टमशेषं कण्ठतुल्यं परिणाहमनोज्ञम् ॥ १२-५ ॥

व्याससोच्छ्रयसमा घटिकाख्या तालमात्रमिह पञ्चमुखी स्यात् ।
दिक्षु तन्मुखचतुष्टयमेकं मध्यमं तु समवर्तितभागम् ॥ १२-६ ॥

तालविस्तृतमुखं तु शरावं तत्समोच्छ्रयमतोऽर्धमिताङ्घ्रि ।
दण्डकस्य चतुरङ्गुलनाहं कण्ठमस्य बिलवर्ज्यमुदग्रम् ॥ १२-७ ॥

सम्भवे कनकरूप्यकताम्रैर्मार्तिकान्यभिनवान्यथ वा स्युः ।
क्षालितानि सलिलेन निजास्त्रात् सूत्रवेष्टितगलानि निदध्यात् ॥ १२-८ ॥

शुद्धमृत्सिकतगोमयचूर्णैः पूरितानि कुशकूर्चयुतानि ।
मङ्गलाङ्कुरगृहे सविताने पात्रकाणि निदधातु मनोज्ञे ॥ १२-९ ॥

गोमयाद्भिरुपलिप्य तु भूमिं स्वाङ्गमूलमनुयुक्तजलास्त्रात् ।
प्रोक्ष्य पिष्टपरिरूषितसूत्रैरुक्तलक्ष्मविहिते चतुरश्रे ॥ १२-१० ॥

विघ्ननाथमभिपूज्य पुरस्तात् पुण्यकाहमपि वेदविशिष्टैः ।
वाचयेदधिकमेकमशीते स्यात् पदं तु विहितं चतुरश्रे ॥ १२-११ ॥

मध्यतो नवपदैरथं शुक्लं कर्णिकाष्टदलकेसरशोभि ।
आलिखेत् सरसिजं तु रजोभिः शालिभिः सुविहितोच्छ्रितमध्यम् ॥ १२-१२ ॥

तत्र सूत्रविनिवेष्टितकुम्भं धूपितं तु विनिधाय कुशेषु ।
द्वादशान्तगलितामृततोयैः पूरयेत् सकुशकूर्चहिरण्यम् ॥ १२-१३ ॥

पिप्पलाम्रनवपल्लवगन्धैर्माल्यदामकुसुमाक्षतवस्त्रैः ।
शालितण्डुलफलाढ्यविधानं वस्त्रयुग्मकुसुमैरभिरामम् ॥ १२-१४ ॥

मातृकाम्बुजगतं तु कलाभिः षोडशस्वरयुताभिरुपेतम् ।
तं विभाव्य शिशिरांशुमुदंशुं तारकेशमुडुचक्रसमेतम् ॥ १२-१५ ॥

पूजयेत् तदुपचारविशेषैः पायसं चरुघृतं विनिवेद्य ।
शोभितेषु रजसाथ पदेषु स्थापयेत् तु पृथगङ्कुरपात्रम् ॥ १२-१६ ॥

आदित्ये समरीचे च विवस्वति यमे तथा ।
जलाधिपे च मित्रे च सोमे च पृथिवीधरे ॥ १२-१७ ॥

एषां पदेषु घटिकाः स्थापयेदष्ट वै क्रमात् ।
अग्नौ पूषणि चित्राख्ये दौवारे रोगनागयोः ॥ १२-१८ ॥

अदितावपि चैशाने शरावाण्यष्ट विन्यसेत् ।
एषां मध्यपदेष्वष्टौ दिग्विदिक्क्रमयोगतः ॥ १२-१९ ॥

स्थानानि पालिकानां तु कथितान्यष्ट विन्यसेत् ।
पदान्यादौ विलिख्यैषु शुक्लचूर्णेन पूरयेत् ॥ १२-२० ॥

पृथक् शाल्याढकं क्षिप्त्वा दर्भविष्टरके पृथक् ।
संस्थाप्य घटिकादीनि तेषु बीजानि वापयेत् ॥ १२-२१ ॥

माषमुद्गकुलस्थानि निष्पावतिलशालयः ।
सर्षपो मार्गगोधूमश्यामाकव्रीहयो यवाः ॥ १२-२२ ॥

प्रियङ्गवस्तथाढक्यो वैणवश्चेत्यनुक्रमात् ।
त्रिपञ्चवर्गबीजानि कथितान्युत्तमाङ्कुरे ॥ १२-२३ ॥

वर्गद्वयं मध्यमे स्यादधमे बीजपञ्चकम् ।
बीजानि क्षालयित्वाद्भिः क्षीरेण तदनन्तरम् ॥ १२-२४ ॥

वस्त्रखण्डे दृढं बद्ध्वा दिनमात्रं जले स्थितम् ।
उद्धृत्य यामद्वितये समतीते तु वापयेत् ॥ १२-२५ ॥

बीजानां दैवतं सोमः स रात्रौ कान्तिमान् यतः ।
तस्माद् बुभुक्षुर्बीजानि निशायामेव वापयेत् ॥ १२-२६ ॥

अभिमन्त्र्य हृदा पूर्वं मन्त्रेणानेन वापयेत् ।
ॐ त्र्यम्बकाय शर्वाय शङ्कराय शिवाय च ॥ १२-२७ ॥

सर्वलोकप्रधानाय शाश्वताय नमो नमः ।
अनेनैव तु मन्त्रेण सिञ्चेद् हारिद्रवारिणा ॥ १२-२८ ॥

पञ्चोपचारैरभ्यर्च्य चाच्छाद्य वसनैः सितैः ।
सप्तरात्रं बलिं दद्याद् वक्ष्यमाणक्रमेण तु ॥ १२-२९ ॥

ब्रह्मभूतेन्द्रगन्धर्वयक्षरक्षः पिशाचकाः ।
गणा बलिभुजः सप्त क्रमात् तन्नामलक्षिताः ॥ १२-३० ॥

सान्नपुष्पकुशं ब्रह्मरात्रे तु प्रथमे बलिः ।
अन्नं दधि निशाचूर्णं लाजाः सक्तुतिलास्तथा ॥ १२-३१ ॥

भूतक्रूरमिति ख्यातं भूतरात्रे प्रदापयेत् ।
इन्द्रवल्लीरसोन्मिश्रमन्नं सक्तुपयोदधि ॥ १२-३२ ॥

इन्द्ररात्रे तृतीये तु बलिं दद्यात् तु देशिकः ।
वैणवान्नं पयोयुक्तं गान्धर्वे स्याच्चतुर्थके ॥ १२-३३ ॥

पञ्चमे यक्षरात्राख्ये पुष्पान्नाज्याम्बुभिर्बलिः ।
रक्तान्नं सतुषं मृत्स्नायुक्तं षष्ठे तु राक्षसे ॥ १२-३४ ॥

सप्तमे त्वथ पैशाचे माषान्नं कृसरं मधु ।
हारिद्रचूर्णं तैलाढ्यं सामिषं तु प्रदापयेत् ॥ १२-३५ ॥

अन्यथा केचिदाचार्याः प्राहुर्वै गुणसप्तकम् ।
तच्चात्र कथ्यते भूताः पितरोऽपि च गुह्यकाः ॥ १२-३६ ॥

नागा ब्रह्मा शिवो विष्णुर्देवताः सर्वरात्रिषु ।
प्रणवादिनमोन्तैः स्वैर्नामभिर्दापयेद् बलिम् ॥ १२-३७ ॥

प्रथमे भूतरात्रे तु भूतक्रूरेण दापयेत् ।
तिलैस्तण्डुलमिश्रैस्तु पितृरात्रे द्वितीयके ॥ १२-३८ ॥

तृतीये नालिकेराम्भः शाल्यन्नैर्यक्षरात्रके ।
सक्षीरपिष्टसक्त्वद्भिर्नागरात्रे चतुर्थके ॥ १२-३९ ॥

सपद्माक्षान्नमाज्यं च ब्रह्मरात्रे तु पञ्चमे ।
सापूपान्नेन साज्येन षष्ठे शैवे तु दापयेत् ॥ १२-४० ॥

शुद्धौदनेन साज्येन सप्तमे वैष्णवे बलिः ।
यदा नव स्युर्दिवसाः पायसं कृसरं क्रमात् ॥ १२-४१ ॥

उद्दिष्टदैवतगणमुद्दिष्टबलिनार्चयेत् ।
न कश्चिदङ्कुराण्यन्यो निरीक्षेत कदाचन ॥ १२-४२ ॥

आचार्य एव प्रविशेत् तच्छिष्यो वा तदाज्ञया ।
प्ररूढैरङ्कुरैः कर्तुर्निर्दिशेत् तु शुभाशुभम् ॥ १२-४३ ॥

श्यामैः कृष्णैरङ्कुरैरर्थहानिं तिर्यग्रूढैर्व्याधिमालोहितैश्च ।
कुब्जैर्दुःखं च प्ररूढैर्मृतिं च ब्रूयाद् भग्नैः स्थानदेशेष्टहानिम् ॥ १२-४४ ॥

शुक्लैः पीतैः सम्प्ररूढैश्च पूर्णैः शीघ्रोत्पन्नैश्चारुभिर्व्यायतैश्च ।
लक्ष्मीं पुष्टिं चेष्टसिद्धिं समग्रां कर्ता विन्देताङ्कुरैर्मङ्गलं च ॥ १२-४५ ॥

आचार्यस्तत्राङ्कुरेष्वप्रशस्तेष्वालक्ष्यास्मिंश्छान्तिकं कर्मं कुर्यात् ।
मूलेनाङ्गैर्ब्रह्मभिश्चाथ हुत्वा व्याहृत्यन्तं स्यात् तिलैराज्यमिश्रैः ॥ १२-४६ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे अङ्कुरार्पणविधिर्नाम द्वादशः पटलः ॥