अथैकादशः पटलः ।
अथोच्यते सिद्धिकरी मनूनां दीक्षा यथा सा च चतुष्प्रकारा ।
तथाहि मन्त्री प्रथमाथ शैवी शाक्तेयिकाख्या त्वथ वैष्णवी च ॥ ११-१ ॥
ददाति यस्मादिह दिव्यभावं मायामले कर्म च सङ्क्षिणोति ।
फलं चतुर्वर्गमयं च यस्यास्तस्मात् तु दीक्षेत्यभिधानमस्याः ॥ ११-२ ॥
सामान्यभूता खलु मान्त्रिकी स्याद् दीक्षा स्मृता मन्त्रगणेषु तद्वत् ।
वर्णेषु चापि द्विजपूर्वकेषु स्याच्छैवशाक्तेष्वपि वैष्णवेषु ॥ ११-३ ॥
कौबेरदिग्भागगते दिनेशे पुण्यर्क्षयोगे सुतिथौ सुलग्ने ।
पक्षे तु पूर्वे विदधीत दीक्षामाचार्यशिष्याभ्युदयप्रदे च ॥ ११-४ ॥
दीक्षासु देवालयमण्डपानां वेश्मादिकृत्येऽपि च विघ्नशान्तौ ।
वास्त्वीशपूजां प्रथमं विदध्यात् संवर्तयेत् सर्वसमीहितानाम् ॥ ११-५ ॥
वास्त्वीशनामा ह्यसुरोऽतिकायो देवैः पुरा दत्तवरोऽतिपूज्यः ।
शेते स्म भूम्यां प्रविसार्य पादौ हस्तौ तथाधोवदनः सदैवः ॥ ११-६ ॥
तद्देहसंस्थाः खलु देवतास्ता द्वात्रिंशदन्ये प्रकृतिप्रसङ्ख्याः ।
पूज्याश्चतुःषष्टिपदेषु विप्रैरेकोत्तराशीतिपदे नृपाद्यैः ॥ ११-७ ॥
उद्दिष्टदेशे नवगोमयाम्भःसेकोपलिप्ते चतुरश्रमादौ ।
कृत्वाष्टधा तद् विभजेदथैवमुक्तं चतुष्षष्टिपदं तु तत् स्यात् ॥ ११-८ ॥
तस्मिन् विभक्ते नवधा तु सूत्राण्यास्फाल्य सम्मिश्रितपिष्टचूर्णम् ।
एकोत्तराशीतिपदं तदुक्तं देवालयानामपि भूमिपानाम् ॥ ११-९ ॥
कृत्वा चतुष्षष्टिपदं तु तस्मिन् कोणेषु सूत्रेऽपि निवेश्य तत्र ।
मध्ये पदानां हि चतुष्टये स्याद् ब्रह्मादिपूज्यस्तदनन्तरश्च ॥ ११-१० ॥
पूर्वादिदिक्कोष्ठयुगेषु तद्वच्चार्यो विवस्वानथ मित्रनामा ।
महीधराख्यश्च तदन्तराले कोणार्धयुग्मेषु वदामि देवान् ॥ ११-११ ॥
सावित्रः सविता च वह्निदिशि तत् स्यातां पदार्धे गता-
विन्द्रश्चेन्द्रजयश्च राक्षसदिशि (ख्या?स्या)तामथो मारुते ।
रुद्रो रुद्रजयस्तथेशदिशि चाप्यापापवत्साह्वयौ
बाह्ये कोणचतुष्टयेऽपि च पुनर्वक्ष्यामि देवाष्टकम् ॥ ११-१२ ॥
शर्वस्कन्दो यमाह्नश्च जम्भकः पिलिपिञ्जकः ।
चरकी च विदारी च पूतना पापराक्षसी ॥ ११-१३ ॥
अथ प्रान्तचतुष्पङ्क्तिद्वात्रिंशत्कोष्ठदेवताः ।
प्रागादिक्रमशो ज्ञेयाश्चतुर्धैव चतुर्दिशम् ॥ ११-१४ ॥
प्राअच्यामीशानपर्जन्यजयन्तेन्द्रार्कसत्यकाः ।
भृशान्तरिक्षावित्यष्टौ देवताः स्युः प्रतिक्षणः ॥ ११-१५ ॥
अग्निः पूषाध वितथो यमश्च गृहरक्षकः ।
गन्धर्वभृङ्गराजौ च मृगाख्योऽपि च दक्षिणे ॥ ११-१६ ॥
निर्-ऋतिर्दौवारिकश्च सुग्रीववरुणावपि ।
पुष्पदन्तासुरौ शोषः पापयक्ष्मा च पश्चिमे ॥ ११-१७ ॥
मारुतो नागमुख्यौ च भल्लाटश्च निशाकरः ।
अर्गलश्च दितिस्तद्वददितिश्चोत्तरस्थिताः ॥ ११-१८ ॥
ईशानस्य शिरो निवेशितमभूद् वास्तोष्पतेर्मारुते
वह्नौ चापि करद्वयं पदयुगं नक्तञ्चरे स्थापितम् ।
पर्जन्यो नयने दितिश्च वदने स्यादापवत्सो गले
कर्णौ चाप्यदितिस्तथार्गलयुतावंसौ जयन्ताश्रितौ ॥ ११-१९ ॥
शक्रश्चाथ निशाकरश्च भुजयोः पृष्ठे तु रुद्रः स्थितः
सावित्रः सविता च रोगसहिताः होषश्च पाण्योः स्थिताः ।
नाभौ स्याच्चतुराननोऽस्य कुचयोर्भूभृत् तथैवार्यमा
मित्रश्चापि विवस्वता तदुदरे गुह्येन्द्रकश्चापरः ॥ ११-२० ॥
ईशानपूजा तु घृताक्षताद्भिः पर्जन्यकस्योत्पलगन्धतोयैः ।
पीता जयन्तस्य भवेत् पताका रक्तान्नदीपैश्च यजेन्महेन्द्रम् ॥ ११-२१ ॥
सूर्यस्य पीतान्नवितानकाभ्यां सत्यस्य साज्येन तथौदनेन ।
गोधूमकान्नेन भृशस्य पूजा कार्यान्तरिक्षस्य तु माषमांसैः ॥ ११-२२ ॥
अग्निं स्रुचाभ्यर्च्य तथैव लाजैः पूषाणमिष्ट्वा वितथं च हेम्ना ।
मध्वोदनाभ्यां गृहरक्षकं च मांसौदनाभ्यां यममर्चयेच्च ॥ ११-२३ ॥
गन्धर्वमिष्ट्वा कुसुमैः सगन्धैः स्यात् पक्षिजिह्वा त्वथ भृङ्गराजे ।
पूजा मृगस्यापि तिलैर्यवैः स्या पित्र्यं निर्-ऋत्यै कृसरं यथावत् ॥ ११-२४ ॥
दौवारिकं शोभनदन्तकाष्ठैः सुग्रीवमिष्ट्वा तु यवैः सधूपैः ।
स्तम्बैः कुशानामपि पुष्पदन्तं तद्वज्जलेशं सितपुण्डरीकैः ॥ ११-२५ ॥
मध्वक्षताभ्यामसुराय पूजा शोषाय चान्नं घृतमिश्रितं स्यात् ।
नीवारकान्नं त्वथ पापयक्ष्मण्याज्येन वायोरपि मण्डकानि ॥ ११-२६ ॥
नागप्रसूनैरपि नागपूजां कुर्यात् तु मुख्याय तु मोदकैश्च ।
भल्लाटसञ्ज्ञस्य समुद्गमन्नं सोमाय राज्ञे मधुपायसाज्यम् ॥ ११-२७ ॥
शाल्यक्षतैरर्गलमर्चयित्वा संरक्तशाल्यन्नघृतैर्दितिं च ।
माषान्नभक्ष्यैरदितिं यथावद् द्वात्रिंशदित्थं क्रमशोऽर्चयित्वा ॥ ११-२८ ॥
आपस्तु दुग्धेन तथापवत्सः पूज्यस्तु दध्ना घृतलड्डुकैश्च ।
सावित्रमिष्ट्वाथ कुशार्गलान्नैस्तथा सवित्रे यजनं विदध्यात् ॥ ११-२९ ॥
हारिद्रमन्नं सघृतं तथेन्द्रे शुद्धान्नमेवेन्द्रजयाय शस्तम् ।
रुद्राय मांसं विहितं तु पक्वं मांसं तथा रुद्रजये त्वपक्वम् ॥ ११-३० ॥
अ(त्रा)भिपूज्याः समरीचकाद्यास्ते लड्डुकालोहितशुक्लभक्तैः ।
तथैव भाषैः सघृतैर्यथावत् स्वे स्वे पदे स्युश्चतुरः क्रमेण ॥ ११-३१ ॥
ब्रह्माणमाज्याक्षतपञ्चगव्यैः पुष्पैः सगन्धैश्चरुणा तिलैश्च ।
सम्पूज्य तु प्राग् घृतपायसेन शर्वाह्वयं स्कन्दमथो यजेत् ॥ ११-३२ ॥
याम्येऽर्यम्णे समांसाज्यं ततः पीतस्रगामिषे ।
जम्भकाय तु वारुण्यां पिलिपिञ्जाय चोत्तरे ॥ ११-३३ ॥
सान्द्रलोहितपुष्पान्नैर्बलिमित्थं प्रदापयेत् ।
मांसौदनघृतापूपैरैशान्यां चरकीबलिः ॥ ११-३४ ॥
बाह्ये पित्तेन मांसेन विदार्यै बह्निदिग्बलिः ।
पूतनायास्तु राक्षस्यां दधिरक्तौदनैर्दिशि ॥ ११-३५ ॥
क्षीरपित्तास्थिरक्तान्नैर्वायव्यां पापराक्षसीम् ।
यजेत् सर्वान् स्वनाम्नैव नमोन्तं सोपचारकम् ॥ ११-३६ ॥
बाह्ये त्वष्टविधेभ्योऽथ भूतेभ्यो बलिमाहरेत् ।
प्रत्येकमुक्तद्रव्याणामलाभे कुसुमाक्षतैः ॥ ११-३७ ॥
सुगन्दधूपदीपैश्च शुद्धान्नेन स्मृतो बलिः ।
स्वैर्नामभिस्तु प्रणवादियुक्तैर्नमोन्तकैरर्चनमेषु कृत्वा ।
पञ्चोपचारैर्निशि शुक्लवासा विशुद्धभावस्तु बलिं विदध्यात् ॥ ११-३८ ॥
इत्थं वास्तुशरीरस्था देवताः सम्यगर्चिताः ।
तत्तत्कर्मसु संसिद्धिं प्रयच्छन्ति च शान्तिकम् ॥ ११-३९ ॥
एकाशीतिपदेषु पूर्ववदमुं विन्यस्य वास्तोष्पतिं
मध्ये तस्य तु वेधसं नवपदेष्वभ्यर्च्य तद्बाह्यतः ।
कोणेष्वत्र पदद्वयेष्वघ्निगताः सावित्रपूर्वाः सुरा-
स्तन्मध्ये समरीचपूर्वकसुराश्चत्वार उक्ताः क्रमात् ॥ ११-४० ॥
पूर्वाद्यासु दिशासु बाह्यवृतिगा एकैककोष्ठस्थिता
द्वात्रिंशत् पृथगीशपूर्वकसुराः पूज्याः पुरोवत् क्रमात् ।
बाह्येऽन्याः पदवर्जितास्तु चरकी चैशे विदार्यानले
कोणे रक्षसि पूतनाथ पवनस्याशागता राक्षसी ॥ ११-४१ ॥
शर्वस्कन्दादिचत्वारः पदवर्जं बहिः स्थिताः ।
प्राग्याम्यवारुणाशासु कौबेर्यां च क्रमाद् यजेत् ॥ ११-४२ ॥
अनयोर्मार्गयोरेकमाश्रित्यावाह्य वास्तुपम् ।
तदङ्गपदगाश्चापि देवताः क्रमशोऽर्चयेत् ॥ ११-४३ ॥
वास्तुविन्यासपूजाधिकारः
एवं समाराध्य तु वास्तुदेवान् द्विजातयश्चेदथ वास्तुहोमम् ।
कुर्युर्यथा वास्तुपतिः प्रशाम्येद् यथैव बोधायनदृष्टमार्गात् ॥ ११-४४ ॥
नवं गृहाद्यं प्रविविक्षुरग्रे तत् साध्वलङ्कृत्य तु तोरणाद्यैः ।
प्रकल्प्य कर्तुः शयनप्रदेशं तारेण संशोध्य गणेशमिष्ट्वा ॥ ११-४५ ॥
तद्वास्तुमध्यं च विधाय तस्मात् पूर्वोत्तरस्यां दिशि गोमयेन ।
गोचर्ममात्रं चतुरश्रबिम्बं त्वालिप्य चोल्लेखनकादि कृत्वा ॥ ११-४६ ॥
तस्मिन् स्वगृह्योक्तविधानतोऽग्निमाधाय तत्राग्निमुखं विधाय ।
गोक्षीरसिद्धं चरुमाज्यसिक्तं मन्त्रैर्यथावत् क्रमशो जुहोति ॥ ११-४७ ॥
वास्तोष्पते प्रतिजानीह्यस्मानित्यादिमुक्त्वा तु पुरोनुवाक्याम् ।
वास्तोष्पते शं मया संसदा तेत्याद्यां तु याज्यां जुहुयादुदीर्य ॥ ११-४८ ॥
वास्तोष्पते ध्रुवा स्थूणां सत्त्वमित्यादिमन्त्रतः ।
गृह्यं भयं यदित्याद्यमक्षिस्पन्देति चादिना ॥ ११-४९ ॥
दुःस्वप्ने पापस्वप्ने च यत् स्वप्नाशन-आदिना ।
वास्तोष्पते प्रतरणो न एधीत्यादिनापि च ॥ ११-५० ॥
अमीवहा वास्तोष्पतेत्यादिना च जुहोति वै ।
एभिस्तु वैदिकैर्मन्त्रैर्हुत्वाज्येन स्रुवेण तु ॥ ११-५१ ॥
ततः स्विष्टकृतं कुर्यादाधेनुवरदानतः ।
अथाग्नेः पुरतो दर्भानास्तीर्य हुतशेषितम् ॥ ११-५२ ॥
नमो रुद्राय वास्तोष्पत इत्यादिना निक्षिपेत् ।
अनेनैव तु मन्त्रेण स्थालीं सङ्क्षाल्य तज्जलम् ॥ ११-५३ ॥
पात्रे प्रक्षिप्य कस्मिंश्चिच्छेषाज्यं शेषमम्बु च ।
एकीकृत्य तु मन्त्रेण शाखयोदुम्बरस्य वा ॥ ११-५४ ॥
पालाशशाखया वाथ दर्भमुष्ट्याथवा पुनः ।
प्रासादभवनादौ तत् सर्वत्र त्रिः प्रदक्षिणम् ॥ ११-५५ ॥
पर्युक्षन्नथ पर्येति ततः सम्पूज्य वै द्विजान् ।
त्वं विप्रस्त्वं क्विरिति मन्त्रेणानेन भोजयेत् ॥ ११-५६ ॥
आशिषो वाचयित्या तु शिवं वास्त्विति वाचयेत् ।
वास्तुहोमाधिकारः ।
प्रसादं भवनं प्रपादिकमथो यद्वापि यागालयं
कृत्वा तक्षकरात् प्रगृह्य तु ततः सूत्रत्रयावेष्टितान् ।
कौश्या चापि च मालया तु परितः संवेष्ट्य धान्याक्षतैः
सर्वत्र प्रविकीर्य पूर्णकलशं दीपं च मध्ये न्यसेत् ॥ ११-५८ ॥
ततः कृणुष्वादिकमत्र सूक्तं त्वर्धर्चशोऽन्ते तु दहाशसाद्यम् ।
ऋचोऽर्धमायोज्य जपेदशेषं रक्षोघ्नमेवं तु जपादिषु स्यात् ॥ ११-५९ ॥
कृत्वा पुनः स्थण्डिलमग्निभागे तत्राग्निमाधाय यथाविधानम् ।
हुत्वा पुरैवाग्निमुखं जुहोतु रक्षोहणं वाजिनमुत्युभाभ्याम् ॥ ११-६० ॥
पुनः कृणुष्वादिभिरत्र मन्त्रैराज्येन हुत्वा तु यथाक्रमेण ।
तद्वद् विभिन्नैरथ पञ्चभिश्च वेदादिमन्त्रैर्जुहुयाच्चतुर्भिः ॥ ११-६१ ॥
इषे त्वेत्यादिना तद्वदग्निमीले तु चादिना ।
अग्न-आयाहिपूर्वेण शन्नोदेवीरथादिना ॥ ११-६२ ॥
ततस्तु पञ्चदुर्गाभिर्वेदोक्ताभिर्जुहोति च ।
जातवेदस इत्याद्या ऋग् दुर्गा प्रथमा भवेत् ॥ ११-६३ ॥
तामग्निवर्णामित्याद्या द्वितीया ऋगुदीरिता ।
अग्नेत्वम्पारयानव्यो-अस्मानाद्यं तृतीयकम् ॥ ११-६४ ॥
विश्वानिनोदुर्गहाद्यश्चतुर्थो मन्त्र ईरितः ।
पृतनाजितमित्यादिः पञ्चमो मन्त्र उच्यते ॥ ११-६५ ॥
एताभिः पञ्चदुर्गाभिराज्येन जुहुयात् पृथक् ।
ततो व्याहृतिभिस्तद्वदघोरास्त्रेण वै पुनः ॥ ११-६६ ॥
पश्चादपामार्गसमिद्घृताभ्यामन्नेन साज्येन शतं जुहोतु ।
अष्टोत्तरं स्विष्टकृतं च पश्चाच्छिष्टाज्यमादाय तथाम्बुशेषम् ॥ ११-६७ ॥
आदाय तद् भस्म च मिश्रयित्वा पात्रे त्वपामार्गरसेन युक्तम् ।
तेनाखिलं तद्भवनं प्रमार्ज्य सम्प्रोक्षयेत् तत्परितस्तु दर्भैः ॥ ११-६८ ॥
तमग्निमादाय तथेशकोणे संस्थाप्य पश्चात् तु चतुष्पथे वा ।
विसर्जयेदुक्तजलान्नपिण्डैर्दत्त्वा बलिं दिक्षु समाप्य चैवम् ॥ ११-६९ ॥
एवं तु रक्षोहणशान्तिरुक्ता रोगापमृत्युग्रहदोषहन्त्री ।
रक्षाकरी श्रीविजयायुषां स्याद् वृद्धिप्रदैषा विधिवत् प्रयुक्ता ॥ ११-७० ॥
दीक्षाप्रसङ्गादिति वास्तुपूजा बलिश्च होमोऽपि च तन्त्रसिद्धः ।
रक्षोघ्नशान्तिश्च यथावदुक्तो बौधायनाचार्यमतं विदित्वा ॥ ११-७१ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे वास्तुविद्यापटल एकादशः ॥