अथ दशमः पटलः
प्रणम्य शम्भुं शशिखण्डशेखरं भवं भवच्छेदकरं समासतः ।
सभूतशुद्धिक्रममात्मशोधनं निगद्यते योगजपादिसिद्धये ॥ १०-१०-१ ॥
स्नातो यथावत् समुपास्य सन्ध्यां यागालयं प्राप्य कृताङ्घ्रिशौचः ।
आचम्य चान्तर्विधिवत् प्रविष्टः शस्तासने वाग्यमवान् निविष्टः ॥ १०-१०-२ ॥
आमस्तकाङ्घ्रिद्वयमात्मदेहे ध्यायन् सुसूक्ष्मं सुषिरं तदन्तः ।
बाह्ये तु विन्यस्य तु शक्तिमच्छां व्योमत्विषं तामथ देहमध्ये ॥ १०-१०-३ ॥
हुङ्कारबीजं रुचिमद् विचिन्त्य प्राणान् नियम्याथ निवेश्य चित्तम् ।
तद्रेचकान्तोऽत्र फडन्तमस्त्राद् ग्रन्थिप्रभेदं क्रमशो विदध्यात् ॥ १०-४ ॥
ये ग्रन्थयः पञ्च तमोमलिष्ठा हृत्कण्ठतालुस्थितयः प्रसिद्धाः ।
भ्रूमध्यतो मूर्धनि चेति तेषां भेदात् तु नाडीसरणिः प्रसिध्येत् ॥ १०-५ ॥
वायुं निवर्त्यात्मनि पूरकान्तं चैतन्यसान्तात्मकजीवरूपम् ।
तं बिन्दुभूतं च निरामयं स्वे हृत्पङ्कजे कुम्भकतो विभाव्यम् ॥ १०-६ ॥
तत्रोर्ध्ववायोः प्रसरेण जीवं सौषुम्नमार्गान्निहितं स्वमूर्ध्नि ।
उद्धातमात्रेण तु बीजवृत्त्या तं द्वादशान्तस्थशिवं नयेत् ॥ १०-७ ॥
कादङ्गुलद्वादशके त्वसौम्यं शुक्लं सहस्रच्छदपुण्डरीकम् ।
व्योमामृतव्याप्तमधोमुखं तन्मध्यं शिवाध्यासितमभ्युपेयम् ॥ १०-८ ॥
लीनः शिवेऽङ्गैरभिरक्षितात्मा साधोमुखं देहतरुं विभाव्य ।
तत्त्वानि षट्त्रिंशदथो विलोमान्नीत्वा लयं स्वेष्विह कारणेषु ॥ १०-९ ॥
भूम्यम्बुतेजोमरुदम्बरैः स्याद् गन्धो रसश्चाप्यथ रूपमुक्तम् ।
स्पर्शाख्यशब्दौ कथितावुपस्थं पाय्वङ्घ्रिपाण्योऽपि च वाक् च नासा ॥ १०-१० ॥
जिह्वाक्षिचर्मश्रवणैर्मनः स्यात् साहङ्कृतिर्बुद्धिरपि प्रधानम् ।
पुमांश्च रागो नियतिस्त्वशुद्धा विद्या कला कालयुता च माया ॥ १०-११ ॥
संशुद्धविद्या च तथेश्वराख्यः सादाह्वयः शक्तिरथो शिवः स्यात् ।
षट्त्रिंशदित्थं प्रतिलोमतः स्युस्तत्त्वानि तत्तत्परकारणानि ॥ १०-१२ ॥
पञ्चाथ भूतानि परस्परान्तः शोध्यानि खादीनि विलोममार्गात् ।
ईशानपूर्वैः समधिष्ठितैस्तैरक्षैश्च बिम्बार्णकलाधिदैवैः ॥ १०-१३ ॥
भूमण्डलं यच्चतुरश्रपीतं वज्राङ्कितं गन्धगुणं ससद्यम् ।
घ्राणेन्द्रियं तत्कलया निवृत्त्या युक्तं च दैवेन चतुर्मुखेन ॥ १०-१४ ॥
ह्लाम्बीजतः पूरककुम्भकाभ्यां व्याप्तं तदा पादतलं शिरस्तः ।
शोध्यं तदुद्धातकपञ्चकात् स्याद् वायौ प्रविष्टं परिभावयेच्च ॥ १०-१५ ॥
अब्बिम्बमर्धेन्दुसिताब्जचिह्नं शुक्लं रसाढ्यं रसनेन्द्रियं च ।
वामास्थितं विष्णुसमन्वितं स्याद् युक्तं प्रतिष्ठाकलया विशोध्यम् ॥ १०-१६ ॥
ह्री।बीजमुद्धातचतुष्टयान्तं तच्चाणिभूतं प्रविशन्त्यपश्चात् ।
वह्नेस्त्रिकोणारुणमण्डलं स्याद् विद्यातलं स्वस्तिकलाञ्छनं च ॥ १०-१७ ॥
दृगिन्द्रियं रूपगुणं सरुद्रं ह्रूम्बीजतोऽघोरयुतं विशोध्यम् ।
त्र्युद्धाततस्तत्सलिले प्रविष्टं विचिन्तयेद् व्याप्तसमस्तदेहम् ॥ १०-१८ ॥
षड्बिन्दुचिह्नं त्वथ वायुबिम्बं कृष्णं षडश्रं पुरुषास्थितं तत् ।
त्वक्स्पर्शशान्त्यन्वितमीश्वरेण ह्यैंयुक्तमुद्धातयुगात् कुभूतम् ॥ १०-१९ ॥
वृत्तं स्वबिम्बं स्फटिकावदातं सश्रोत्रशब्दं च सबिन्दुशक्ति ।
ईशानसादेशयुतं त्वतीतं चोद्धातशोध्यं खलु हुम्फडन्तात् ॥ १०-२० ॥
तद्द्वादशान्तःस्थितमूलमन्त्राच्चन्द्रामृतासारजलैः समस्तम् ।
आप्लाव्य निर्वर्तितभूतशुद्धिः सम्पाद्य तत्त्वानि यथाक्रमेण ॥ १०-२१ ॥
शिवेच्छयोत्पादितशुद्धदेहो हृद्यासनं तु प्रणवेन दत्त्वा ।
तद्व्यापिनीं न्यस्य शिवां तु शक्तिं स्वबीजजीवं निहितं शिवाख्ये ॥ १०-२२ ॥
तद्द्वादशान्तादथ पूरकेण त्वानीय नाड्या हृदयाब्जमध्ये ।
संस्थाप्य मूलामृतवारिपूरैराप्लाव्य पूजादिकमारभेत् ॥ १०-२३ ॥
भूतशुद्ध्यधिकारः
अत्रोच्यतेऽन्या स्फुटमात्मशुद्धिर्या शोषणादिक्रमशोध्यदेहा ।
निश्शेषदोषक्षयशुद्धिदानाद् रोगान् जरां मृत्युमपि क्षिणोति ॥ १०-२४ ॥
प्राग्वत् स्वदेहे सुषिरं तु चिन्त्य तद्व्यापिनीं चान्तरबाह्यशक्तिम् ।
हुङ्कारमध्यस्थितचित्तजीवः प्राणान् नियम्याहृतपूरकेण ॥ १०-२५ ॥ १०-
ग्रन्थीन् विदार्याहृतरेचकान्तं चास्त्रेण वायुं विनिवर्त्य पूरात् ।
चैतन्यमाहृत्य ससान्तजीवं हृत्सम्पुटं ज्योतिरनामयाख्यम् ॥ १०-२६ ॥
तत्कुम्भकोद्धातवशात् तदूर्ध्वं त्वाकृष्य सौषुम्नपथा स्वकान्तम् ।
तद्द्वादशान्तस्थशिवे नियुज्य तत्त्वानि नीत्वा विलयं विलोमात् ॥ १०-२७ ॥
वर्णान् विलोमात् क्षहसक्रमोक्तं नीत्वा लयं शब्दततिं च शक्तौ ।
शून्यं तु देहं मलपापमात्रं विचिन्त्य कृष्णं त्वथ नाभिचक्रे ॥ १०-२८ ॥
बिम्बे तु वायोरतिधूम्रवर्णं यङ्कारमुद्भाव्य तु चण्डवायुम् ।
ध्यायेदधःशाखमथोर्ध्वमूलं संसारवृक्षात्मकमात्मदेहम् ॥ १०-२९ ॥
अत्र ब्रह्मशम्भुः -
देहात्माधोमुखस्तत्र ध्यातव्यो भवपादपः इति ।
तं शोषयेन्नाभिविनिर्गतेन ध्यात्वानिलेनाघमले च शोष्ये ।
उद्धातकैः पञ्चभिरस्य शोषं वायोर्निरोधेन विधाय पश्चात् ॥ १०-३० ॥
हृत्पङ्कजेऽन्त्यं विषवह्निवायुं सानुग्रहार्धेन्दुयुतं सनादम् ।
बीजं तु चिन्तामणिसञ्ज्ञमेतद् बिम्बे हुताशस्य तु वह्निरूपम् ॥ १०-३१ ॥
विन्यस्य षट्कोणलसत्त्रिशूलज्वालासहस्रप्रसरैरघौघम् ।
सम्यग् दहन्तं तु कलेबराख्यं तद्भस्मसाद्भूतमपीह चिन्त्यम् ॥ १०-३२ ॥
दहेत् पाशुपतास्त्रेण इति पराख्यपौष्करयोरुक्तत्वात् पाशुपतास्त्रेण वा तद् दहेत् ।
प्रोत्सार्य चण्डानिलवायुबीजात् तद् भस्म सर्वं तु दिशो विकीर्य ।
शून्यं खतुल्यं परिभाव्य देहं शुद्धं तु तत् केवलपुण्यशेषम् ॥ १०-३३ ॥
अत्र ब्रह्मशम्भुः -
कुम्भकेनाग्निना शुष्कं निर्दग्ध च विचिन्तयेत् ।
रेचकेनाथ वायव्याद् भस्मीभूतं दिशो दश ॥
प्रलीनमन्त्यया शुद्धं निर्मलं व्योम भावयेत् ॥ १०-इति
कलेबरं दहेद् धीमन् भस्मकूटव्यवस्थितम् ॥
इति श्रीकालोत्तरे -
व्योमाम्बुजान्तस्थशिवस्य शक्तेरिच्छाक्रियाज्ञानवशात् सिसृक्षोः ।
शक्तेर्यथावल्लिपिवर्णपूगैस्तत्त्वानि चोत्पाद्य तु तैः शरीरम् ॥ १०-३४ ॥
सृष्ट्वा तदण्डात्मकविश्वलोकं सम्भाव्य शुद्धं गतपाशबन्धम् ।
प्राग्द्वादशान्ताहितबीजजीवं त्वाकृष्य तत्पूरकवायुमिश्रम् ॥ १०-३५ ॥
तद्ब्रह्मरन्ध्रेण निवेश्य मार्गाद्धृदब्जमध्ये शिवमात्मरूपम् ।
व्योमाब्जमध्येन्दुकलास्वराढ्यं द्व्यष्टच्छदाधारसुधाकलाभिः ॥ १०-३६ ॥
सौषुम्नमार्गेण पृथग् यथावदापूरयेद् व्युत्क्रमतः स्वराणाम् ।
सामृता मानसी तुष्टिपुष्टी तथा प्रीतिरुक्ता रतिः श्रीश्च शान्तिः स्वधा ।
कान्त्यथ ज्योत्स्नया हैमवत्या प्रभा पूरणी वामया स्यादमा षोडशी ॥ १०-३७ ॥
दक्षिणाङ्गुष्ठतो गुल्फजानू कटिश्चोदरं पाणिसन्धिर्भुजो दक्षिणः ।
मूर्ध्नि चार्धं क्रमाद् वामभागेऽपि च स्थानमुक्त कलास्तद्विलोमान्न्यसेत् ॥
अः अमायै नमः । अं वामायै नमः । औं पूरण्यै नमः ।
इत्यङ्गुष्ठादिमूर्धान्तं षोडशकला विन्यस्य तदमृतैः क्रमादापूरयेदित्युपदेशः ।
तोयमर्धेन्दुमत्पूर्णचन्द्रप्रभं स्वाम्बुजे भावयेत् तत्कलार्तस्वरम् ।
शङ्खकुन्देन्दुगोक्षीरगौरामृतैर्ब्रह्मनीडापथापूर्य देहं स्वकम् ॥ १०-३९ ॥
अत्र ब्रह्मशम्भुः -
तत्सुधाधवलापूरसिक्तं कृत्वा निरन्तरम् । इति ।
श्रीकालोत्तरे च -
चन्द्रबिम्बं स्मरेत् तत्र श्वेतपद्मोपरि स्थितम् ।
स्रवन्तममृतं दिव्यं शरीरोत्पत्तिकारणम् ॥ १०- इति ।
द्व्यष्टवर्षाकृतिं शुद्धविद्यातनुं तत् सुधापूरणप्लाव्यमानाकृतिम् ।
पुण्यपूगार्जितं शुद्धमित्थं धिया यः स्मरेदेकदाप्येष योगी भवेत् ॥ १०-४० ॥
इत्थमभ्यासतः शुद्धसत्त्वः स्वयं शक्तिपातं लभेतेश्वरानुग्रहात् ।
जप्यपूजादिभिश्चेष्टसिद्धिं तदा सुप्रसन्ना मुखान्निस्सरेद् भारती ॥ १०-४१ ॥
नहि सलिलविशेषैः केवलं क्षालनाद्यैः प्रभवति परिशुद्धं यन्मलिष्ठं शरीरम् ।
द्विविधमितिह सद्भिः सान्तरङ्गात्मशुद्धिः सविधिकमुपदिष्टां तां भजे नित्यशोऽपि ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे
भूतशुद्ध्यादिपटलो दशमः ॥