०९

अथ नवमः पटलः

अथोच्यते नैत्यकमत्र कर्म सामान्यतः सिद्धिकरं मनूनाम् ।
समस्तवर्णाश्रमलिङ्गभाजामावश्यकं यत् करणीयमेकम् ॥ ९-१ ॥

प्रभावतीष्वेव हि तारकासु कौलं तु सूर्योदयदर्शनात् प्राक् ।
वदन्ति सन्ध्यां मुनयः प्रभातां तस्यां विनिद्रः शयनं च जह्यात् ॥ ९-२ ॥

अत्र पितामहः: -

नक्षत्रज्योतिरारभ्य आ सूर्योदयदर्शनात् ।
प्रातःसन्ध्येति तां प्राहुर्मुनयो वेदपारगाः ॥ इति ।

स्मरन् हृदम्भोरुहकोटरस्थं शैवं परं ज्योतिरथात्मसञ्ज्ञम् ।
व्रजेत् समुत्थाय दिशं विशुद्धामम्भः प्रभूतं सुलभं च यस्याम् ॥ ९-३ ॥

अत्र स्मृतिः: -

निवीतं दक्षिणे कर्णे समासज्याम्बरेण तु ।
अवकुण्ठ्य शिरो मौनी मलोत्सर्गमथाचरेत् ॥ इति ।

विदूरतो मार्गजलाशयादेश्छन्ने तृणैर्भूमितले निवीती ।
उदङ्मुखो याम्यमुखोऽह्नि रात्रौ त्यक्त्वा मलं चाथ गृहीतशिश्नः ॥ ९-४ ॥

जलान्तिकं प्राप्य मृदं विशुद्धामादय चाष्टाङ्गुलखातलब्धाम् ।
निधाय तां दक्षिणतो धृताभिरद्भिस्तु शौचं विधिवत् प्रकुर्यात् ॥ ९-५ ॥

एकैव लिङ्गे करयोस्तु तिस्रस्तथा गुदे पञ्च मृदः प्रयोज्याः ।
वामे करे सप्त दशैव पाण्योः कनिष्ठकल्पं खलु शौचमेतत् ॥ ९-६ ॥

द्वे चापि लिङ्गे करयोश्चतस्रो गुदे दश स्युर्दश वामपाणौ ।
हस्तद्वये द्वादश चेति मृत्स्नाः शौचेष्वयं मध्यविधिः प्रदिष्टः ॥ ९-७ ॥

तिस्रोऽथ लिङ्गे करयोश्च पञ्च त्रिपञ्चसङ्ख्यास्तु गुदे मृदः स्युः ।
वामे करे द्वादश तत्प्रसङ्ख्याः पाण्योरयं शौचविधिर्हि मुख्यः ॥ ९-८ ॥

उत्थाय वासः परिधाय सम्यगाजानुसन्धेश्चरणौ करौ च ।
प्रक्षाल्य मृत्स्नासलिलैर्विशुद्धैर्वक्त्रं च गण्डूषजलैर्विशोध्य ॥ ९-९ ॥

प्लक्षाम्रजम्बूककुभाश्वकर्णमालूरकाशोकलवङ्कजाद्यम् ।
वैकङकतोदुम्बरचम्पकं वा शस्तं बुभुक्षोः खलु दन्तकाष्ठम् ॥ ९-१० ॥

स्वैरङ्गुलैर्द्वादशभिर्मितं तत्कनिष्ठिकानाहसमं सवल्कम् ।
पूर्वामुखोऽद्यादुपविश्य मौनी प्रदक्षिणं वामरदादधः प्राक् ॥ ९-११ ॥

मोक्षार्थिनां कण्टकिनस्तु शस्तास्तद्वच्छिरीषार्जुननक्तमालः ।
शस्तो ह्यपामार्ग इतीह तेषामष्टाङ्गुलं दन्तविशोधनं तत् ॥ ९-१२ ॥

सनिम्बधात्रीधवशेलुशिग्रुवानीरकैरण्डतृणैः कुशैर्वा ।
स्थितः प्रजल्पन् शयितोऽथवाद्यात् तैलावसिक्तोऽपि न दन्तकाष्ठम् ॥ ९-१३ ॥

नोपोषितः पारणपूर्वकालं न जन्मभे पर्वणि नासिताहे ।
नाप्यष्टमीश्राद्धदिनेषु दन्तान् प्रधावयेदङ्गुलिभिर्नखैर्वा ॥ ९-१४ ॥

अपिच सार्धत्रिशतिकायामत्र कालोत्तरे -

प्रतिपत्पर्वषष्ठीषु नवम्यामपि वा गुह! ।
दन्तानां काष्ठसंयोगे महान् दोषोऽभिधीयते ॥ इत् ।

तद्वत् तु जिह्वामपि मार्जयित्वा तद्दन्तकाष्ठादि विसृज्य दूरे ।
गण्डूषकद्वादशकेन पश्चादाचम्य तु स्नानमुपक्रमेत् ॥ ९-१५ ॥

सरित्सु गङ्गादिषु मुख्यमुख्यं तीर्थेषु चान्यासु नदीषु मुख्यम् ।
सरस्तटाकादिषु मध्यमं स्यात् स्नानं तु कूपेषु गृहेषु नीचम् ॥ ९-१६ ॥

स्नायात् तु कूपादिषु शुद्धपात्रैः स्नातैर्द्विजैरेव समाहृताद्भिः ।
स्नायात् तु नोष्णाम्भसि कर्मयोग्यं नैतद् यतो रोगिषु सम्मतं तत् ॥ ९-१७ ॥

भुवमष्टाङ्गुलां खात्वा त्यक्त्वाधो मृदमस्नतः ।
खातां मृदं समादाय तत् खातं परिपूर्य च ॥ ९-१८ ॥

शिरसा पयसस्तीरे धौते संस्थाप्य तां पुनः ।
शिखया शोधयित्वा तु वर्मणा विभजेत् त्रिधा ॥ ९-१९ ॥

लिप्त्वैकभागमा नाभेः प्रक्षाल्याचम्य वाग्यतः ।
द्वितीयेनास्नयुक्तेन दीप्तेनाङ्गानि लेपयेत् ॥ ९-२० ॥

द्विजश्चेदुद्धृतासीति मन्त्रेण प्रार्थयेद् भुवम् ।
इतरो वक्ष्यमाणेन * * * * * * * * ॥ ९-२१ ॥

धारणं पोषणं त्वत्तो भूतानां देवि! सर्वदा! ॥
तेन सत्येन मां पापं पापान्मोचय धारिणि! ॥ इत् ।

प्राणानायम्य सलिले निमज्ज्यास्नमनुस्मरन् ॥ ९-२२ ॥

कालानलप्रतीकाशमथोपतटमम्भसि ।
उपविष्टो ह्यनुदिते सूर्ये सन्ध्यां भजेद् द्विजः ॥ ९-२३ ॥

ब्राह्मीं पूर्वं ततोऽस्त्राख्यां मन्त्रसन्ध्यां तथेतरः ।
उपास्योर्ध्वं जलं क्षिप्त्वा विधिस्नानं समाचरेत् ॥ ९-२४ ॥

स्वमन्त्रसन्नद्धतनुः स्मृत्वात्मानं हृदम्बुजे ।
तृतीयं पूर्वमृद्भागमादायानाभि वारिणि ॥ ९-२५ ॥

स्थित्वा वामकरे कृत्वा त्रिधा तां विभजेत् पुनः ।
दक्षिणं भागमस्त्रेण प्राक् स्वमूलेन तूत्तरम् ॥ ९-२६ ॥

अङ्गमन्त्रेणाभिमन्त्र्य गृहीत्वास्त्रेण दक्षिणम् ।
हुम्फडन्तेन रक्षायै दशदिक्षु क्षिपेत् सुधीः ॥ ९-२७ ॥

मूलाभ्यस्तेन पूर्वेण जले दक्षिणपाणिना ।
निक्षिप्य भ्रामयेद् वारि शिवतीर्थमनुस्मरन् ॥ ९-२८ ॥

अङ्गाभ्यस्तार्कदीप्तेन शिष्टभागेन विग्रहम् ।
सर्वमालिप्य तत्तीर्थं स्वनाम्नावाह्य पूजयेत् ॥ ९-२९ ॥

गन्धपुष्पैर्यथालाभं मनसा वा समाहितः ।
मुख्यनद्यब्धितीर्थेषु नान्यतीर्थानि कीर्तयेत् ॥ ९-३० ॥

कीर्तनान्निष्फलं तत् स्यात् क्रुध्येच्चातो न कीर्तयेत् ।
केवलाम्भस्सु गङ्गादितीर्थानां कीर्तनं स्मृतम् ॥ ९-३१ ॥

तत्तत्फलप्रदं तस्मात् तत्र तीर्थानि कीर्तयेत् ।
ततः प्राणान् समायम्य त्रिर्निमज्ज्य समाहितः ॥ ९-३२ ॥

निमग्न एव साङ्गं स्वं मूलं शक्त्या जपेद्धृदा ।

अपिच द्विजश्चेत् -

हिरण्यशृङ्गं वरुणं प्रपद्य इत्यथादितः सूक्तमुदीरयन् हृदा ।
निमग्न एवाम्भसि शक्तितोऽखिलान् हरत्यघौघानघमर्षणे स्थितः ॥ ९-३३ ॥

यथा जलौघे लवणस्य सञ्चयः प्रयाति सद्यो विलयं महानपि ।
तथा महानप्यघमर्षणेऽंहसां चयोऽपि नाशं व्रजतीति निश्चयः ॥ ९-३४ ॥

ततः स्थितो वारिणि वामदक्षिणौ करौ शशाङ्कार्कशिवद्वयात्मकौ ।
विभाव्य मूलेन च कुम्भमुद्रया शिरस्यथाङ्गैरपि वाभिषेचयेत् ॥ ९-३५ ॥

द्विजस्तु सूक्तैः पवमानपूरुषश्रियां यथाशक्त्यभिषिच्य तज्जलात् ।
तटं गतः स्वे परिधाय वाससी विशुद्धशुक्ले क्षतिदोषवर्जिते ॥ ९-३६ ॥

स्नातो नाङ्गानि निर्मृज्यात् पाणिना वार्द्रवाससा ॥ ९-३७ ॥

तथा नेक्षेत पाषण्डिपातकिश्वान्त्यजाशुचीन् ।
चितिं च चितिकाष्ठं च यूपं चण्डालमेव च ॥ ९-३८ ॥

स्पृष्ट्वा देवलकं चापि सचेलो जलमाविशेत् ।
नैमित्तिकेषु कृत्येषु ग्रहणेन्दुक्षयादिषु ॥ ९-३९ ॥

अयनद्वयतीर्थादौ सचेलः स्नातुमर्हति ।
सन्ध्यासु वमने शुक्लविण्मूत्रोच्छिष्टकुष्ठिनाम् ॥ ९-४० ॥

सम्पर्के वपने चाब्धेः स्पर्शने चाप्यपर्वणि ।
वृषलप्रतिलोमानां मार्जारस्पर्शनेऽपि च ॥ ९-४१ ॥

श्मश्रुकर्मणि चोत्तीर्य नदीं वारुणमाचरेत् ।
दानादौ स्नानजप्यादौ तर्पणे हवनेऽपि वा ॥ ९-४२ ॥

सर्वत्र सपवित्रः स्यादन्यथा स्यात् तदासुरम् ।
यद्वा मुक्तशिखो नग्नः प्रलपन् वावकुण्ठितः ॥ ९-४३ ॥

करोति कृत्यं दैवाद्यं सर्वं विद्यात् तदासुरम् ।
पादप्रक्षालने मृत् स्यात् सकृत् पाण्योश्च सर्वदा ॥ ९-४४ ॥

स्नानादिसर्वकृत्यादौ भोजनादौ च संविशेत् ।
मूत्रादिशौचस्यान्ते च हस्तपादौ प्रधावयेत् ॥ ९-४५ ॥

अथाचमनकल्पोऽत्र सामान्यस्मृतिचोदितः ।
कथ्यते वैदिकी सन्ध्या तथास्त्राख्या च तान्त्रिकी ॥ ९-४६ ॥

अङ्गुल्यग्रे दैवमङ्गुष्ठमूले ब्राह्मं तीर्थं पर्वसन्धिष्वथार्षम् ।
प्राजापत्यं स्यात् कनिष्ठामथोऽथ पित्र्यं तर्जामूलदेशे द्विजानाम् ॥ ९-४७ ॥

हस्ते तूक्तं दक्षिणे तत्तले स्यादाग्नेयाख्यं तीर्थमन्यत्र सौम्यम् ।
दैवाद्यं यत् कर्म कुर्यात् स्वतीर्थादाचामेत् तु ब्रह्मतीर्थेन तोयैः ॥ ९-४८ ॥

ज्येष्ठाग्रेऽग्निस्तर्जनीमूर्ध्नि वायुर्मध्याग्रेऽर्कोऽनामिकाग्रे सुरेन्द्रः ।
प्रजापत्या स्यात् कनिष्ठेति देवैरङ्गुल्यः स्युर्दर्क्षिणे विप्रपाणौ ॥ ९-४९ ॥

प्राग्वक्त्रो वोदङ्मुखः सोपवीतो बद्ध्वा चूडां जानुमध्यस्थवाहुः ।
तोयोत्क्षेपी सूपविष्टोऽथ मौनी स्यादाप्रह्वस्त्वेकधीराचमिष्यन् ॥ ९-५० ॥

अदुष्टरसगन्धाद्यैरकीटाफेनबुद्बुदैः ।
अनुष्णैरम्बुभिः शुद्धैराचामेदभिवीक्षितैः ॥ ९-५१ ॥

हृत्कण्ठास्यगताः पुनन्ति विधिनैवापो द्विजातीन् क्रमात्
त्रिः पीता वृषलस्त्रियावपि तथा कुण्डानुलोमादिकान् ।
आचम्य त्रिरपस्त्रिवेदपुरुषान् प्रीणाति निर्मार्ष्टि यद्
द्विः साथर्वषडङ्गयज्ञपुरुषाः प्रीताः स्युरप्यग्नयः ॥ ९-५२ ॥

प्रीणात्यर्कमनामिकानयनयोः स्पर्शात् तथाङ्गुष्ठयुक्
साङ्गुष्ठा त्वथ तर्जनीसममिता घ्राणद्वये मारुतान् ।
अङ्गुष्ठेन कनिष्ठिकाश्रवणयोराशाश्च नाभेर्वसू-
नात्मानं तु हृदोऽंसयोर्दिवमृषीन् मूर्ध्नः समस्ताङ्गुलैः ॥ ९-५३ ॥

आचम्येत्थं द्विर्विशुध्येत सर्वेषूच्छिष्टेषु क्षालने पादयोश्च ।
कक्ष्यामोक्षे वा शिखाबन्धमोक्षे निष्ठीव्याथो जृम्भिकायां क्षुते च ॥ ९-५४ ॥

आत्मविद्याशिवैस्तत्त्वैरीश्वरायनमोन्तकैः ।
अपः पिबेत् त्रिरभ्यस्तास्तच्छैवाचमनं स्मृतम् ॥ ९-५५ ॥

ओष्ठावस्त्रेण संसृज्य खानि सर्वात्मना स्पृशेत् ।
एवं सन्ध्याप्रसङ्गेन वारुणस्नानमीरितम् ॥ ९-५६ ॥

वारुणस्नानाचमनाधिकारः ।

आग्नेयादीनि चान्यानि कुर्यात् स्नानानि सम्भवे ॥ ९-५७ ॥

आग्नेयं भस्मना स्नानं निखिलाघनिबहर्णम् ।
स्वतेजः सम्भवेनैव येन स्नातः स्वयं शिवः ॥ ९-५८ ॥

स्नानं प्राग् वारुणं कृत्वा पश्चादाग्नेयमाचरेत् ।
आपद्यपि तथा शक्तौ देहस्याग्नेयमेव वा ॥ ९-५९ ॥

सन्ध्यात्रये च जप्यादौ चर्या पूर्वावसानयोः ।
भुक्त्वा सुप्त्वाम्बु पीत्वा वा कृत्वाप्यावश्यकादिकम् ॥ ९-६० ॥

स्त्रियं वाप्यनुलोमादीन् स्पृष्ट्वा वा मूषिकाशुचीन् ।
आचरेत् स्नानमाग्नेयं यथैवाथर्वचोदितम् ॥ ९-६१ ॥

देवाग्निगुरु(विद्या? वृद्धा)नां समीपेऽन्त्यजदर्शने ।
अशुद्धभूमौ मार्गे वा स्थितो नोद्धूलयेद् बुधः ॥ ९-६२ ॥

कल्पानुकल्पोपकल्पभेदात् तद्वदकल्पकम् ।
चतुर्धा भस्म शैवोक्तं पूर्वं पूर्वं गुणाधिकम् ॥ ९-६३ ॥

अरोगायाः सवत्साया भूमावपतितं तु गोः ।
गोमयं पद्मपालाशपत्राद्यन्यतमेन तु ॥ ९-६४ ॥

गृहीत्वा तु विशुद्धात्मा गायत्र्या तु द्विजोऽपरः ।
साङ्गमूलेन शैवाग्नौ कल्पं तद्भस्म कीर्तितम् ॥ ९-६५ ॥

आरण्यगोमयं दूरे ग्रामादेः पूतमाहरेत् ।
प्राग्वच्छिवाग्निना दग्धं यत्तत् स्यादनुकल्पकम् ॥ ९-६६ ॥

अग्निदग्धेष्वरण्येषु गृहीत्वा भस्म तत् पुनः ।
गोमूत्राबद्धपिण्डं तु विशोध्याथ शिवानले ॥ ९-६७ ॥

दग्धं भस्मोपकल्पं स्यादकल्पकमथोच्यते ।
विशिष्टविप्रगोवाटजातं वा देवतालयात् ॥ ९-६८ ॥

गृहीत्वा साधितं प्राग्वत् तद् भस्म स्यादकल्पकम् ।
चतुर्विधं च तद् भस्म जातिसङ्करवर्जितम् ॥ ९-६९ ॥

अपरिग्रहमन्येषां कर्मस्पर्शाद्यदूषितम् ।
श्लक्ष्णं पूतमरोगं च पात्रस्थं भसितं सितम् ॥ ९-७० ॥

आग्नेयस्नानयोग्यं स्याद् यथोक्तं ब्रह्मशम्भुना ।
तद्भस्म शिवमन्त्रेण शक्त्याभ्यस्तं सुरक्षितम् ॥ ९-७१ ॥

आदाय हस्तेनाधाराद् दक्षिणेनाभिमन्त्र्य तु ।
विशोध्य धारणाभिस्तु भूतशुद्धिविधानतः ॥ ९-७२ ॥

षडङ्गेनाभिमन्त्र्यादौ कृत्वा वामकरे पुनः ।
कृत्वास्त्रेण मलस्नानं मस्तकप्रभृति क्रमात् ॥ ९-७३ ॥

ततस्त्वीशानपुरुषाघोरवामैः ससद्यकैः ।
क्रमान्मूर्धास्यहृद्गुह्यजङ्घान्ताशेषविग्रहम् ॥ ९-७४ ॥

उद्धूलयेद् द्विजोऽन्ये तु ललाटांसहृदादिषु ।
धारयेयुस्त्रिपुण्ड्राणि तथैव ब्राह्मणादयः ॥ ९-७५ ॥

त्रियायुषं धारयेयुर्वेदप्रामाण्यदर्शनात् ।

त्रियायुषं जमदग्नेः कश्यपस्यागस्त्यस्य त्रियायुषमृषीणां त्र्यायुषं यद् देवानां त्रियायुषं तन्मेऽस्तु त्रियायुषं शिवो नामासी" ति स्रुतेः ॥

आग्नेयस्नानाधिकारः ।

अनभ्रे प्रतपत्यर्के वृष्टिं दृष्ट्वोर्ध्वबाहुना ॥ ९-७६ ॥

माहेन्द्रस्नानमीशानात् कार्यं सप्तपदावधि ।
गवां खुरपुटोत्खातरेणुभिः पवनोपगैः ॥ ९-७७ ॥

गोमध्यगस्तत्पुरुषं गोसूक्तं वा जपन् द्विजः ।
अन्यस्तु गोस्तुतिं गोभ्यो नमो वेत्यभ्युदीरयन् ॥ ९-७८ ॥

वायव्यमाचरेत् स्नानमखिलाघनिबर्हणम् ।
स्नानानामिह सर्वेषां मूलं श्रेष्ठं च वारुणम् ॥ ९-७९ ॥

तस्मात् प्राग् वारुणं कृत्वा ततः स्नानान्तरं व्रजेत् ।
आपोहिष्ठादिभिर्मन्त्रैर्मन्त्रस्नानं हि वैदिकम् ॥ ९-८० ॥

सम्प्रोक्षणविधानेन स्वाङ्गमूलैस्तु तान्त्रिकम् ।
इत्थमुत्थानकावश्यशौचदन्तविशोधनैः ॥ ९-८१ ॥

स्नानेन च विशुद्धस्य सन्ध्योपासनमिष्यते ।
द्विजः प्राग् वैदिकीं सन्ध्यामुपासीताथ तान्त्रिकीम् ॥ ९-८२ ॥

क्षत्रवैश्यावपि तथैवान्ये केवलतान्त्रिकीम् ।
उपासीरन्नतः पूर्वं वैदिकी लिख्यतेऽधुना ॥ ९-८३ ॥

पितामहादिस्मृत्युक्ता तान्त्रिकी चागमोदिता ।
स्नातसूक्तप्रकारेण क्षालिताङ्घ्रिकरद्वयः ॥ ९-८४ ॥

स्वाचान्तः सपवित्रस्तन्मन्त्रवत् प्रोक्षयेद् द्विजः ।
मन्त्राणां तदृषिच्छन्दोदेवताविनियोगवत् ॥ ९-८५ ॥

अनुष्ठानं फलाय स्यादन्यथा चेत् तदासुरम् ।
दधिक्राविण्ण इत्यादेर्वामदेवो ह्यृषिः स्मृतः ॥ ९-८६ ॥

छन्दोऽनुष्टुप् तथैवापो विश्वेदेवाश्च दैवतम् ।
अनया प्रोक्षयित्वाथ मन्त्रिताम्भः पिबेद् द्विजः ॥ ९-८७ ॥

सूर्यश्चेत्यादिमन्त्रस्यच्छन्दो गायत्रमेव हि ।
सविता देवतागस्त्यो ह्यृषिरग्निर्भवेदपि ॥ ९-८८ ॥

तेन पीत्वाप आचम्य प्रोक्षयेदाप्यदैवतैः ।
दधिक्राविण्ण- आद्येनाप्यापोहिष्ठादिभिस्तथा ॥ ९-८९ ॥

आपोहिष्ठादिकानां तु सिन्धुद्वीप ऋषिः स्मृतः ।
आपो वै देवता छन्दो गायत्रं प्रोक्षणे विधिः ॥ ९-९० ॥

ततोऽञ्जलिं समापूर्य तोयैः प्राग्वदनः स्थितः ।
ध्यायेज्ज्योतिः परं ब्रह्म सर्वलोकहृदि स्थितम् ॥ ९-९१ ॥

आदित्यमण्डलान्तस्थं विद्याद् देहात्मकं पुरम् ।
तारव्याहृतिसावित्र्या क्षिपेदूर्ध्वं यथाश्रुति ॥ ९-९२ ॥

ता आपो घ्नन्ति रक्षांसि वज्रीभूताः क्षणेन तु ।
ततः प्रदक्षिणीकृत्य समाचम्य तु तां जपेत् ॥ ९-९३ ॥

शुद्धायां भुवि वाग्यतस्त्वभिमुखः सूर्यं कुशेसु स्थितो
गायत्रीं दशतारकां सशिरसं सव्याहृतिं त्रिः पठन् ।
प्राणायामपरो भवेज्जपविधेरादौ यथाशक्तित-
स्तेन स्यात् परिशुद्धकल्मषतनुर्योग्यश्च जप्यादिषु ॥ ९-९४ ॥

प्रणवस्य मुनिर्ब्रह्मा छन्दो गायत्रमेव च ।
ध्यानकाले परं ब्रह्म होमकाले हुताशनः ॥ ९-९५ ॥

जपकाले त्रयी देवो विश्वेऽन्यत्र तु दैवतम् ।
विनियोगस्तु वेदादौ वाचामुद्घात एव च ॥ ९-९६ ॥

गायत्र्युष्णिगनुष्टुभश्च बृहतीं पङ्क्तिं सत्रिष्टुब्जग-
त्याख्या व्याहृतिसप्तकस्य तु पुनश्छन्दांसि तासामृषीन् ।
अत्रिं चैव भृगुं च कुत्समपरं प्राहुर्वसिष्ठं तत-
स्तद्वद् गौतमकाश्यपावपि पुनस्तत्राङ्गिराः सप्तमः ॥ ९-९७ ॥

अग्निर्वायुः सूर्यवागीश्वराभ्यां यादोनाथो वासवश्चाथ विश्वे ।
सप्त ख्याता देवता व्याहृतीनां स्थानान्याहुः सप्त भूरादिलोकान् ॥ ९-९८ ॥

विश्वामित्रस्त्वृषिर्देवः सविता भगवान् स्वयम् ।
छन्दस्तथैव गायत्रं सावित्र्यास्तत्त्रयं स्मरेत् ॥ ९-९९ ॥

सेयं चतुर्विंशतिवर्णवेद्या त्रिपाज्जपेऽष्टार्णविभागतः स्यात् ।
होमे च पूजाविषये चतुष्पात् स्ववर्णषट्कप्रविभक्तपादा ॥ ९-१०० ॥

ओमापोज्योतिरित्यादेर्गायत्रीशिरसो मुनिः ।
ब्रह्मानुष्टुब् भवेच्छन्दः परमात्माधिदैवतम् ॥ ९-१०१ ॥

प्रजापतिस्तथा दैवं शिरसोऽन्तस्य वा भवेत् ।

आयात्वादेर्वामदेवो मुनिः स्याच्छन्दोऽनुष्टुब् दैवतं सैव देवी ।
गायत्रीत्थं सम्यगावाह्य विद्वान् मन्त्रेणातो दर्भपाणिर्जपेत् ताम् ॥ ९-१०२ ॥

षट्कुक्षिं त्रिपदां च पञ्चशिरसं शुक्लां सरोजेक्षणां
वह्न्युद्द्योतशिखां च वेदजननीं भूपादपीठामपि ।
शक्रप्रेतपनीरपार्थदहरित्स्वोर्ध्वाधराशोदरां
क्रोडीभूतजगत्त्रयामभिमुखां पौराणनाभिं स्मरेत् ॥ ९-१०३ ॥

शीक्षा कल्पो ज्योतिषं शब्दशास्त्रं मूर्धानोऽस्याः स्युर्निरुक्तं च पञ्च ।
वायुः प्राणो विष्णुरात्मा ललाटं ब्रह्मा रुद्रस्तच्छिखा वाक् च जिह्वा ॥ ९-१०४ ॥

छन्दसां तु विचितिस्तनयुग्मां धर्मशास्त्रहृदयां घनकेशीम् ।
न्यायविस्तरमुजामनलास्यां चन्द्रसूर्यनयनामुडुहाराम् ॥ ९-१०५ ॥

मीमांसा (चा)थर्ववेदश्च चेष्टा वेदान्तः स्यान्मानसं योगसाङ्ख्ये ।
श्रोत्रे घ्राणं चापि मन्त्रास्तु यज्ञाः सर्वे चास्याः स्वाङ्गकान्तिप्रकर्षः ॥ ९-१०६ ॥

एवंरूपां सर्वदा सर्वसिद्ध्यै ध्यात्वा देवीं साधयेत् तां जपाद्यैः ।
सन्ध्याभेदाद् ध्येयभेदां विशषात् संलिख्यन्ते जप्यसंसिद्धिहेतोः ॥ ९-१०७ ॥

हंसारूढां सिताब्जे त्वरुणमणिलसद्भूषणां साष्टनेत्रां
वेदास्यामक्षमालां स्रुचमथ कलशं दण्डमप्यादधानाम् ।
ध्यायेद् दोर्भिश्चतुर्भिस्त्रिभुवनजननीं पूर्वसन्ध्याभिवन्द्यां
सावित्रीमृक्सवित्रीमभिनववयसं मण्डले चण्डरश्मेः ॥ ९-१०८ ॥

तार्क्ष्यारूढाम्बुजाक्षी शतमखमणिभा शङ्खचक्रे दधाना ।
दोर्भिर्युक्ता चतुर्भिः स्थितिरिह जगतां या यजूंष्युद्गिरन्ती ।
व्यालोलानेकहारद्युतिरुचिरुचिरा वैष्णवी मध्यमेऽह्नः
सावित्री ध्येयरूपा विलसति सवितुर्मण्डले पीतवस्रा ॥ ९-१०९ ॥

पञ्चास्यां पिङ्गविद्युत्ततिरुचिरजटामण्डलां चन्द्रमौलिं
रङ्गद्भूषाभुजङ्गस्फुटमणिकिरणव्यक्तभस्माङ्गरागाम् ।
ध्यायेत् खट्वाङ्गशूले भयहरवरदे व्याघ्रचर्माम्बराढ्यां
सावित्रीं सत्रिनेत्रां परिणतवयसं सामसूतिं दधानाम् ॥ ९-११० ॥

ऋषभवाहनामपरसन्ध्यायां ध्यायेदिति यावत्

इत्थं सन्ध्यात्रये त्रेधा सावित्री ध्येयविग्रहा ॥ ९-१११ ॥

अथास्याः प्रतिवर्णं तु दैवतानि भवन्ति हि ।
अग्निः प्रजापतिः सोम ईशानः सूर्य एव च ॥ ९-११२ ॥

वृहस्पतिस्तथैवेन्द्रो भगश्चैवार्यमा तथा ।
साविता च ततस्त्वष्टा पूषाथेन्द्रानलौ मरुत् ॥ ९-११३ ॥

ईश्वरो मित्रावरुणौ स्कन्दो विश्वेऽथ चक्रभृत् ।
वसवो मरुतोऽर्थेशश्चाश्विनौ चा पितामहः ॥ ९-११४ ॥

तत्काराद्यक्षराणां तु देवताः क्रमशो मताः ।

पुरैव सामान्यतयात्र तारकः प्रकाशितो व्याहृतिसप्तकक्रमात् ।
यथार्थसङ्गो विधिवन्निरुच्यते सभूर्भुवःस्वर्महसां जनस्तपः ॥ ९-११५ ॥

तदेव सत्यं सवितुर्हि मण्डले स्थितं तु तेजः खलु भूर्हि सत्तया ।
भुवश्च तत्कारणकार्यसत्तया सुवो जगत्स्वीरितमात्मवत्तया ॥ ९-११६ ॥

महः प्रकाशात्मतया महत्तया जनस्तथा सर्वजनान्तरात्मता ।
तमोहरं यत् तपतीत्यतस्तपः परं हि तत् सत्यमनन्तमुच्यते ॥ ९-११७ ॥

प्रणवेनाथ सम्बन्धो व्याहृतीनामिहोच्यते ॥ ९-११८ ॥

भुः स्यादकारस्तु भुवो ह्युकारः स्वः स्यान्मकारोऽपि महोऽथ बिन्दुः ।
नादो जनः स्यात् तप एव शक्तिर्नादान्तसञ्ज्ञं पदमत्र सत्यम् ॥ ९-११९ ॥

अथार्थप्रतिपत्त्यर्थं सावित्र्यास्तन्निरुच्यते ।
तदिति स्याद् द्वितीयैकवचनं ब्रह्मवाचकम् ॥ ९-१२० ॥

सूर्यमण्डलगं तेजस्तद् ब्रह्म परमं हि यत् ।
षष्ठ्यन्तः सवितुःशब्दो धातोः प्रसववाचकात् ॥ ९-१२१ ॥

वृष्टेश्च प्राणिजातानां साक्षात् प्रसवितुर्विभोः ।
वरेण्यं वरणीयत्वाच्चतुर्वर्गफलार्थिभिः ॥ ९-१२२ ॥

प्रथमाष्टाक्षरस्यास्य व्याप्या भूर्व्याहृतिः स्मृता ।
भक्तिगम्यं भवेद् भर्गः पापभञ्जनतोऽपि वा ॥ ९-१२३ ॥

देवस्येति च षष्ठ्यन्तं वृष्ट्यादेर्दातुरीशितुः ।
दीव्यमानस्य वा दीप्त्या स्वप्रकाशतयाथवा ॥ ९-१२४ ॥

तद् धीमहि ध्यैचिन्तायाङ्घातोः सिद्धं हि यत् पदम् ।
तेजः सूर्यात्मकं ज्ञेयं चिन्तयामः शिवात्मकम् ॥ ९-१२५ ॥

द्वितीयाष्टाक्षरस्यास्य व्याप्या स्याद् व्याहृतिर्भुवः ।
धियो बुद्धीर्मनोरस्य च्छान्दसत्वमुदीरितम् ॥ ९-१२६ ॥

कृतश्च लिङ्गव्यत्यासः सूत्रात् सुप्तिङ्गुपग्रहात् ।
य इत्यत्र तु यत् तेजो नः षष्ठी युष्मदस्मदोः ॥ ९-१२७ ॥

तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् ।
तृतीयाष्टाक्षरस्यापि व्याहृतिः स्वरिति स्मृता ॥ ९-१२८ ॥

इत्थं जगत्प्रसवितुर्वरणीयमर्थं पापप्रभञ्जनकरं यदभीष्टदस्य ।
तेजस्तदेकममलं प्रविचिन्तयामः प्रज्ञां प्रयच्छतु स नो भगवान् महेशः ॥ ९-१२९ ॥

इत्युक्तोऽर्थोऽत्र सावित्र्यास्तच्छिरः कथ्यतेऽधुना ।
आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते ॥ ९-१३० ॥

तत्तेजो ह्यमृतं ब्रह्म सूर्य आत्मेति चोदना ।
एवं ज्ञात्वार्थतस्त्वेतान् न्यस्येद् देहे यथाक्रमम् ॥ ९-१३१ ॥

शिरोभ्रूमध्यनयनवक्त्रकण्ठेष्वथो हृदि ।
नाभौ च गुह्यजान्वङ्घ्रिद्वये चास्याः पदैर्न्यसेत् ॥ ९-१३२ ॥

ब्रह्मा विष्णुश्च रुद्रश्चापीश्वरोऽपि सदाशिवः ।
एते सर्वात्मने जातियुक्ताङ्गमनवः क्रमात् ॥ ९-१३३ ॥

इत्थं विन्यस्य गायत्रीमृष्यादीनभिवन्द्य च ।
जपेदायम्य तु प्राणाननन्तफलभाग् भवेत् ॥ ९-१३४ ॥

प्रणवान्तरितं सप्तव्याहृतिप्रणवं पुनः ।
सावित्रीं शिरसा युक्तां जपेच्छतगुणं फलम् ॥ ९-१३५ ॥

अष्टोत्तरसहस्रं तु जपेदेवमनन्यधीः ।
तदशक्तौ शतं वापि दशमात्रमथापि वा ॥ ९-१३६ ॥

पूर्वः पूर्वोऽत्र मुख्यः स्याज्जपशक्तिं न हापयेत् ।
अथोद्वासनमन्त्रस्य तूत्तमेशिखरेत्यृचः ॥ ९-१३७ ॥

सावित्री देवतानुष्टुब् वामदेव ऋषिर्मतः ।
मित्रस्येत्याद्युपस्थानमन्त्राणां कौशिकस्त्त्वृषिः ॥ ९-१३८ ॥

मित्रस्तु देवता छन्दो गायत्रं चाप्यनुष्टुभात् ।
प्रदक्षिणं परिक्रम्य दिशोऽथ सदिगीश्वराः ॥ ९-१३९ ॥

अभिवन्द्य ततः पञ्च सन्ध्याद्या देवताः क्रमात् ।
सहस्ररश्मिमुद्यन्तमुपतिष्ठेद् दिवाकरम् ॥ ९-१४० ॥

आत्मानं परमात्मानं ध्यात्वा पादाभिवादनम् ।
कृत्वाथ देवपूजां च होमजप्यं समाचरेत् ॥ ९-१४१ ॥

अथातो विनियोगाद्यं सावित्र्याः कथ्यतेऽधुना ।

प्रत्याहारः शस्तदेशे तु लक्षं तिष्ठन् युक्तात्मा सूर्यबिम्बं जपित्वा ।
पश्यन् गव्याक्तैस्तावदग्नौ तिलैः स्याद्धुत्वा भक्तश्चेन्मन्त्रसिद्धो महात्मा ॥ ९-१४२ ॥

अयुतं तु जले स्थितो जपित्वा ननु पापानि निहन्ति नाभिमात्रे ।
प्रयुतादुपपातकानि लक्षादखिलान्येव हि पातकानि हन्यात् ॥ ९-१४३ ॥

दशलक्षजपेन कण्ठमात्रे सुमहापातकिनोऽप्सु यान्ति शुद्धिम् ।
त्रिसहस्रजपादभोज्यदोषात् परिशुध्येदपि वाङ्मनःकृताघैः ॥ ९-१४४ ॥

अपहन्त्यपमृत्युरोगदुःखान्ययुतानां त्रितयं तिलाज्यहोमात् ।
मधुरत्रयसिक्तदौर्वलक्षत्रयहोमादपहन्ति कालमृत्युम् ॥ ९-१४५ ॥

पुत्रं शालिहुतेन बिल्वकमलैर्लक्ष्मीं पलाशैः पशू-
नन्नाद्यं सघृतान्नतस्तु कुमुदैर्वासांसि चैवोत्पलैः ।
वृष्टिं वेतसजैः सगोमयशिलामालेयगोरोचना-
कप्तं? लोकवशीकरं तु लिलकं स्पृष्टं सहस्रत्रयम् ॥ ९-१४६ ॥

पादपांसुकृतपुत्तलिहोमान्मारयेत् परमतीत्य तु विप्रम् ।
द्वेषयेच्च कलिवृक्षसमिद्भिश्चाटयेत् तदनले कलिपत्रैः ॥ ९-१४७ ॥

कुन्दपुष्पहवनेन कुमारीं विन्दतेऽथ करवीरहुतात् स्युः ।
सिद्धयः स खलु कोटिजपात् स्यात् खेचरः सुरमुनीन्द्रसमेतः ॥ ९-१४८ ॥

जुहुयात् पायसेनाज्यतिलदूर्वाङ्कुरैरपि ॥ ९-१४९ ॥

चतुः क्षीरसमिद्भिश्च प्रत्येकं त्रिसहस्रकम् ।
यत्तदुद्दिश्य तत् सर्वमचिरेणैव सिध्यति ॥ ९-१५० ॥

जुहुयात् पायसाज्याभ्यां तिलदूर्वाङ्कुरैरपि ।
प्रत्यक्षरसहस्रं तु दीर्घमायुरवामुयात् ॥ ९-१५१ ॥

मधुरत्रयसिक्तरक्तपद्मैरयुतं यो जुहुयाच्छ्रियं स विन्देत् ।
सघृतान्नहुतादथान्नवान् स्याद् विधिवद्वह्निमुखादिकं च कृत्वा ॥ ९-१५२ ॥

आधाय वह्निं विधिवत् सूर्यमावाह्य तन्मुखे ।
तमप्याराध्य विधिवत् सावित्रीं तद्धृतम्बुजे ॥ ९-१५३ ॥

समावाह्य तु मन्त्रेण ध्यायेत् सन्ध्योक्तलक्षणाम् ।
सपूज्य गन्धपुष्पाद्यैर्द्वादशान्तामृताप्लुताम् ॥ ९-१५४ ॥

स्वकृत्यं चापि सङ्कल्प्य जुह्वन् स लभते फलम् ।
अथ माध्यन्दिनं कर्म स्नानपूर्वं समाचरेत् ॥ ९-१५५ ॥

स्नानं प्राग्वद् विशेषोऽत्र वैदिकः कथ्यतेऽधुना ।
प्रातःस्नानमृतेऽन्यत्र स्नास्यन् दन्तान् न धावयेत् ॥ ९-१५६ ॥

हिरण्यशृङ्गमित्यादि पुनन्तु पुनरन्ततः ।
जपेन्निमज्ज्याथाचम्य गृहीत्वाञ्जलिना जलम् ॥ ९-१५७ ॥

सुमित्राद्येन सन्त्वन्तं जपित्वारिदिशं प्रति ।
दुर्मित्राद्येन द्विष्मोऽन्तं प्रक्षिप्याचम्य वाग्यतः ॥ ९-१५८ ॥

यदपाङ्क्रूरमित्यादि गच्छतादन्तमम्भसि ।
त्रिरावर्त्य करेणाथ निमज्ज्याम्भस्तटं गतः ॥ ९-१५९ ॥

उपविश्य तथाचम्य पाणिस्थाम्भोऽभिमन्त्र्य तु ।
आपः पुनन्त्वित्याद्येन स्वाहान्तं तत् पिबेत् पुनः ॥ ९-१६० ॥

आचामेदस्य चर्षिः स्याद् ब्रह्मणस्पतिसञ्ज्ञितः ।
देवताप्याप एव स्याच्छन्दोऽनुष्टुप् प्रकीर्तिता ॥ ९-१६१ ॥

आपोहिष्ठादितिसृभिः प्रोक्षयेद् दर्भपाणिना ।
हिरण्यवर्णाः शुचयः पवमानः सुवर्जनः ॥ ९-१६२ ॥

इत्यादिमन्त्रैः सम्प्रोक्ष्य ततोऽम्भोमग्नविग्रहः ।
ऋतं च सत्यं चेत्यादिखरित्यन्तमृचां त्रयम् ॥ ९-१६३ ॥

प्राणानायम्य मनसा जपेत् त्रिरघमर्षणम् ।
शक्तः स चेदिमाग्।स्तदापोवरुणपूर्वकैः ॥ ९-१६४ ॥

सुवानो-इन्दुरित्यन्तमन्त्रैः कृत्वाघमर्षणम् ।
उत्तीर्य वासो निष्पीड्याथाम्बरे शुचिनिर्मले ॥ ९-१६५ ॥

परिधायाथ सङ्क्षाल्य पादावाचम्य वाग्यतः ।
सन्तर्प्य पूर्वसन्ध्यावत् सावित्रीं शक्तितो जपेत् ॥ ९-१६६ ॥

तिष्ठंश्चेदीक्षमाणोऽर्कमासीनः प्राङ्मुखो जपेत् ।
ततः पुष्पाञ्जलिं दद्याद् भानवे केवलाम्बु वा ॥ ९-१६७ ॥

अथोर्ध्वबाहुरादित्यमुपतिष्ठेदिमां जपन् ।
उद्वयादिमुदुत्यादिं चित्रन्तच्चक्षुरादितः ॥ ९-१६८ ॥

हिरण्ययूपनामा स्यादृषिरासां प्रकीर्तितः ।
उदुत्यादिद्वयेच्छन्दस्त्रिष्टुप् स्याद् दैवतं रविः ॥ ९-१६९ ॥

गायत्री स्यात् तृतीयायाश्चतुर्थ्या जगती मता ।
उष्णिक् तच्चक्षुराद्यस्य मन्त्रस्य सविता विधिः ॥ ९-१७० ॥

ब्रह्मयज्ञं ततः कुर्यात् स्वाध्यायः स उदीरितः ।
ब्रह्मयज्ञोत्तरं कालं तर्पणस्याश्वलायनः ॥ ९-१७१ ॥

प्राहेतरेषां तु मतं तूपस्थानादनन्तरम् ।
साङ्गमूलादिभिर्मन्त्रैः स्वागमोक्तविधानतः ॥ ९-१७२ ॥

देवान् ऋषीन् पितॄंश्चान्यान् तर्पयेयुर्हि दीक्षिताः ।
स्नानकालेऽम्भसः क्षोभं न कुर्याच्चरणादिभिः ॥ ९-१७३ ॥

अन्तर्मलापनयनं वस्त्रनिर्णेजनादि वा ।
यदि कुर्यात् प्रमादेन प्रायश्चित्तमिहोच्यते ॥ ९-१७४ ॥

नमोऽग्नयेऽप्सुमते नमोद्ब्योन्तं जपेद् द्विजः ।
उअपतिष्ठेद् द्विजातिश्चेदितरोऽद्ब्यो नमो वदेत् ॥ ९-१७५ ॥

ततोऽनुज्ञां गृहीत्वाद्ब्यिस्तार्थानुद्वास्य दैवतैः ।
ऋषीन् पितॄनप्युद्वास्य ततो यागगृहं व्रजेत् ॥ ९-१७६ ॥

तत्रेष्टां देवतामिष्ट्वा स्वागमाचार्यदर्शनात् ।
तत्तन्मन्त्रं जपेद्धोमवैश्वदेवबलिक्रियाः ॥ ९-१७७ ॥

समाप्यातिथिपोष्यादीन् भोजयित्वा स्वशक्तितः ।
स्वयं भुञ्जीत पुत्राद्यैः सहितोऽन्नमकुत्सयन् ॥ ९-१७८ ॥

भुक्त्वान्नगन्धलेपाद्यमपनीय च शोधयेत् ।
दन्तानथ समाचम्य मुखवासं भजेदपि ॥ ९-१७९ ॥

ततो विद्याविनोदाद्यैर्दिनशेषं सुखं नयेत् ।
अथार्धास्तमिते भानौ सन्ध्यामासाद्य पश्चिमाम् ॥ ९-१८० ॥

उपासीत यथापूर्वं दन्तधावनवर्जितम् ।
स्नात्वाचम्याथ सम्प्रोक्ष्य पीत्वाम्भोऽग्निश्चमन्त्रतः ॥ ९-१८१ ॥

ऊर्ध्वं त्वापस्तथा क्षिप्त्वा गायत्रीं शक्तितो जपेत् ।
इमम्मेवरुणाद्याभिरुपस्थायाथ पूर्ववत् ॥ ९-१८२ ॥

गन्धाद्यैर्देवतामिष्ट्वा यथापूर्वं स्वशक्तितः ।
जपित्वाथ नमस्कृत्य वैश्वदेवबलिक्रियाः ॥ ९-१८३ ॥

समाप्यातिथिभूत्याद्यैः सह भुञ्जीत चेद् गृही ।
शयीत शयने शुद्धे स्वास्तीर्णे शुक्लवाससा ॥ ९-१८४ ॥

गोविप्रदेववह्नीनां नोपरिष्टान्न सङ्कटे ।
नानुवंशं शयीतासौ नोत्तरापरदिक्शिराः ॥ ९-१८५ ॥

न नग्नो नार्द्रपाण्यङ्घ्रिर्न तैलाक्तो न चाशुचिः ।
वितानदीपकलशैः शोभिते विभवे सति ॥ ९-१८६ ॥

मन्त्रसन्नद्धदेहस्तु रक्षागन्धाद्यलङ्कृतः ।
स्वपत्नीं साधुशीलाढ्यां स्वनुरक्तां स्वलङ्कृताम् ॥ ९-१८७ ॥

अपर्वस्वभिगच्छेत् तु गृही सन्तानकारणात् ।

सन्ध्योपास्तिप्रसङ्गादिति विधिविहितं नैत्यकं कर्मचक्रं
श्रौतस्मार्तेषु तन्त्रोदितमपि कथितं वर्णिनां यत् समासात् ।
दृष्टादृष्टेष्टसिद्धिप्रदमिह मुनिभिः सेवितं चेति सन्तः
स्वीकुर्वन्तु स्वकीयं धनमिव सुहृदः सत्पथे वर्तयन्तः ॥ ९-१८८ १।२ ॥

इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्रसारे नित्यकर्मविधिर्नाम नवमः पटलः ॥