०८

अथाष्टमः पटलः

अथ मन्त्रात्मभूतानां देवतानां यथोचिता ।
पूजा सिद्धिकरी ज्ञेया दृष्टादृष्टफलप्रदा ॥ ८-१ ॥

तया स्युर्देवतास्तुष्टाः पुरुषार्थफलप्रदाः ।
पूजा सा त्रिविधा ज्ञेया श्रेष्ठमध्याधमक्रमात् ॥ ८-२ ॥

पूजोत्तमा भवति षोडशधोपचारैर्या मध्यमा प्रभवतीह दशोपचारा ।
पञ्चोपचारविधिना त्वधमा सपर्येत्यासां यथा विभवमर्चनमाश्रयीत ॥ ८-३ ॥

कल्पतन्त्रगुरुप्रोक्ता यस्य मन्त्रस्य यादृशी ।
पूजा श्रेष्ठादिभेदेन तयाराध्यैष साधयेत् ॥ ८-४ ॥

आसनावाहनार्घ्यादि पाद्यमाचमनीयकम् ।
साङ्गोपाङ्ग तथा स्नानं वासनाभरणानि च ॥ ८-५ ॥

गन्धः पुष्पं तथा धूपो दीपश्चरुनिवेदनम् ।
अग्निकार्यं नमस्कारो जपपूजासमर्पणम् ॥ ८-६ ॥

इति षोडशधोद्दिष्टा ह्युपचाराः समासतः ।
अर्घ्यं पाद्यं तथाचामः स्नानं गन्धश्च पुष्पकम् ॥ ८-७ ॥

धूपदीपनिवेद्यानि नमस्कारश्च ते दश ।
मध्यमायां तु पूजायामुपचाराः प्रकीर्तिताः ॥ ८-८ ॥

गन्धः पूष्पं धूपदीपौ निवेद्यं पञ्चैवं स्युस्तूपचाराः कनिष्ठे ।
अप्येतेषां लक्षणानां प्रभेदाः संलिख्यन्ते साधकानां हिताय ॥ ८-९ ॥

शक्त्यादिस्वाङ्गशक्त्यन्तं पीठाब्जं वाब्जमेव वा ।
यत् तन्मत्रविधानोक्तमासनं तत् प्रचक्षते ॥ ८-१० ॥

आधारो वेत्यासनं देवतायाः स्वासीनास्मिन् पूज्यते देवतेष्टा ।
धातोरासेत्यस्य चैवोपवेशः सिद्धं तस्मादासनं प्राक् प्रशस्तम् ॥ ८-११ ॥

व्योमाम्बुजादथो बिन्दोर्हृदयाद्वार्कमण्डलात् ।
यत् तत्त्वमानयीताअस्मिन् तदावाहनसञ्ज्ञितम् ॥ ८-१२ ॥

स्वत एवाभिपूर्णस्य तत्त्वस्येहार्चनादिषु ।
सादरं सम्मुखीभावस्तदावाहनमिष्यते ॥ ८-१३ ॥

पुष्पैरञ्जलिमापूर्य हृदयादिस्थितं विभुम् ।
सौषुन्नमार्गेणादाय बिन्दोरभ्युदितं स्मरन् ॥ ८-१४ ॥

तावदुच्चारयेन्मन्त्रं यावन्निष्कलगोचरम् ।
तस्मादादाय विस्रब्धः स्थिरधीः पुरतः स्थिते ॥ ८-१५ ॥

बिम्बे वा स्थण्डिले वापि न्यसेदावाहनं तु तत् ।
आवाहनाङ्गभूतानि स्थापनं सन्निधापनम् ॥ ८-१६ ॥

सन्न्निरोधामृतीकाराववकुण्ठनमेव च ।
साकारस्येष्टदेवस्य पूजार्थं कल्पितासने ॥ ८-१७ ॥

उपवेशनमुद्दिष्टं स्थापनं नाम भक्तितः ।
आकर्मकाण्डपर्यन्तं सन्निध्यः दैवतस्य तु ॥ ८-१८ ॥

अविच्छेदेन पूजायां सन्निरोधः स कथ्यते ।
अविभिन्नस्वभावानां यदभिन्नं प्रयोजनम् ॥ ८-१९ ॥

अङ्गानामङ्गिना सार्धममृतीकरणं हि तत् ।
आनन्दायतनं तत्त्वं सच्चिदानन्दविग्रहम् ॥ ८-२० ॥

तदेतन्मूर्तगं ध्येयं यत् तत् स्यादवकुण्ठनम् ।
अवकुण्ठनवत् तेजो रुचिराङ्गप्रवर्धनम् ॥ ८-२१ ॥

लावण्यामृतपूराढ्यं यत्तदुक्तं प्ररोचनम् ।
पूजां प्रयुज्यमानां तु गृहीत्वानुग्रहादिकम् ॥ ८-२२ ॥

कर्तुं सामर्थ्यमस्यास्ति यत् तत् स्यात् सन्निधापनम् ।

आसनावहानाधिकारः

अर्घ्यं नामार्हणं प्रोक्तं तदर्हायागताय यत् ॥ ८-२३ ॥

कल्पितं दीयते तत् तद्विधानादर्चनादिषु ।
तच्चास्य त्रिविधं ज्ञेयं शैवं शाक्तं च वैष्णवम् ॥ ८-२४ ॥

शैवमर्घ्यं षडङ्गं चाप्यष्टाङ्गं च द्विधा भवेत् ।
गन्धपुष्पाक्षतकुशा दूवार्ग्रं च तथोदकम् ॥ ८-२५ ॥

भोजेन्द्रब्रह्मशम्भूक्तं षडङ्गार्घ्यमुदाहृदम् ।
कुशाक्षततिला दूर्वा गन्धः पुष्पं यवास्तथा ॥ ८-२६ ॥

क्षीरं चाष्टाङ्गमर्घ्याम्भः शैवं स्याद् विजयोदितम् ।
गन्धपुष्पाक्षतयवाः कुशदूर्वाग्रसर्षपाः ॥ ८-२७ ॥

आपश्चेत्यष्टभिर्द्रव्यैः शाक्तमर्घ्यमुदीरितम् ।
सिद्धार्थाक्षतदर्भाग्रगन्धपुष्पयवाः फलम् ॥ ८-२८ ॥

तिलाश्चेत्यष्टभिर्युक्तमम्भोऽर्घ्यं वैष्णवं स्मृतम् ।
हैरण्यं राजतं ताम्रमलाभे वाथ दारवम् ॥ ८-२९ ॥

पात्रं त्रिकुडुवैः पूर्णमर्घ्ये शङ्खस्तु वा भवेत् ।
आपूर्यार्घ्यं तु मूलाङ्गैरभिमन्त्र्यामृतीकृतम् ॥ ८-३० ॥

ध्यात्वा तु सकलोपाधिविग्रहं सम्मुखं विभुम् ।
परमामृतनिःष्यन्दधवलीकृतदिङ्मुखम् ॥ ८-३१ ॥

समुत्क्षिप्य विशेषार्घ्यभाजनं वामपाणिना ।
पश्चान्निवेदयेदर्घ्यं दक्षिणेन करेण तु ॥ ८-३२ ॥

अर्घ्यविधिः ।

पाद्यं तु सर्वसामान्यं दूर्वाश्यामाकपङ्कजैः ।
लक्ष्म्याम्भसा समापूर्य पाद्यं दद्यात् तु पादयोः ॥ ८-३३ ॥

सजातीफलतक्कोललवङ्कं शीतलं जलम् ।
प्रपञ्चादिषु यत् प्रोक्तं सामान्याचमनीयकम् ॥ ८-३४ ॥

दधिमध्वाज्यदुग्धाम्भांस्येकीकृत्य विधाय तु ।
सहेमं कांस्यपात्रेण कूर्चाभ्यां परिगृह्य च ॥ ८-३५ ॥

मधुपर्कं तु तद् दद्यात् सामान्यं तच्च मन्त्रतः ।

न नित्ययजनेष्विष्टं मधुपर्कनिवेदनम् ।
नैमित्तिकेषु तच्छस्तं प्रतिष्ठास्नापनाअदिषु ॥

इति पौष्करे ।

पुनराचमनीये च शस्तमम्भः सुगन्धि च ॥ ८-३६ ॥

नमः स्वधा तथा स्वाहा वषड्जातियुजा हृदा ।
अर्घ्यादिकचतुष्कं तु दद्यादेवं यथाक्रमम् ॥ ८-३७ ॥

अर्घ्यस्य त्रीणि पात्राणि पाद्यस्यापि त्रयं भवेत् ।
षडाचमनपात्राणि तथैकं मधुपर्कके ॥ ८-३८ ॥

अर्घ्यमादौ तथा स्नाने पूजान्ते च प्रदीयते ।
आदौ स्नाने विभूषान्ते पाद्यं कालेषु वै त्रिषु ॥ ८-३९ ॥

पाद्यान्ते मधुपर्कान्ते स्नानाद्यन्ताम्बरादिषु ।
निवेद्यान्ते च षट्स्वेषु दद्यादाचमनीयकम् ॥ ८-४० ॥

धूपे दीपे च नैवेद्ये ताम्बूलं वा फलादिकम् ।
निवेद्याचमनं दत्त्वा कर्तव्यं कर्म चोत्तरम् ॥ ८-४१ ॥

प्रथमाचमनीयान्ते मधुपर्कं प्रदाय तु ।
सकृदाचमनं दत्त्वा ततो गन्धादिनार्चयेत् ॥ ८-४२ ॥

पाद्याचमनमधुपर्काधिकारः ।

अपनीय तु निर्माल्यं गन्धपुष्पादिनार्चयेत् ।
मूर्ध्नि दूर्वाक्षतान् दत्त्वा ततः स्नानं समारभेत् ॥ ८-४३ ॥

नि(र्मत्स?मज्ज)नं तु देवस्य प्रथमं कारयेत् ततः ।
सुगन्धतैलेनाभ्यज्य तथा तैलापनुत्तये ॥ ८-४४ ॥

यवगोधूममाषादिचूर्णैरुद्वर्तयेदपि ।
ईषदुष्णाम्बुशीताद्भिः सेकाल्लेपापनोदनम् ॥ ८-४५ ॥

समूलाङ्गमनोर्न्यासः पुष्पधूपसमर्पणम् ।
फलापूपादिनैवेद्यं गीतवाद्यादिमङ्गलम् ॥ ८-४६ ॥

पञ्चगव्यामृतस्नानं पुनर्लेपापनोदनम् ।
गन्धामलकहारिद्रकुङ्कुमोद्वर्तनानि च ॥ ८-४७ ॥

मूलाङ्गवैदिकैर्मन्त्रैः सुगन्धाम्भोभिषेचनम् ।
यथोपपत्तिकलशैरभिषेकश्च सम्भवेत् ॥ ८-४८ ॥

माङ्गल्यपिष्टदीपाद्यैर्नीराजनविधिस्तथा ।
विशुद्धवाससा बिम्बस्थिततोयापमार्जनम् ॥ ८-४९ ॥

हेमपुष्पादिना शश्वदशून्यं मस्तकं यथा ।
इत्थं हि विंशत्यङ्गं तु स्नानं सामान्यमीरितम् ॥ ८-५० ॥

एतेषां यदलभ्यं स्यान्मनसा तत् प्रकल्पयेत् ।

स्नानाधिकारः

ततो वासांसि शुद्धानि सूक्ष्माण्यभिनवानि तु ॥ ८-५१ ॥

दुकूलपट्टकार्पासदेवाङ्गादीनि यानि ह ।
अन्यत्रानुपयुक्तानि विकेशान्यहतानि च ॥ ८-५२ ॥

भक्त्या यथोपपन्नानि शस्तान्यत्र प्रदापयेत् ।
भूषणानि च हैमानि नानारत्नोज्ज्वलानि तु ॥ ८-५३ ॥

पादाद्याकेशयोग्यानि यथाविभवसारतः ।
अलाभे मनसा वापि तं तु सम्यग् विभूषयेत् ॥ ८-५४ ॥

दर्पणं निर्मलं चात्र स्थापयेत् पुरतः प्रभोः ॥

वस्त्रभूषणविधिः ।

गन्धश्च त्रिविधो ज्ञेयः शैवः शाक्तश्च वैष्णवः ॥ ८-५५ ॥

चन्दनं कुङ्कुमं कुष्ठं दलोशीरं तथागरु ।
कर्पूरं हिरिबेरं च शैवं गन्धं प्रचक्षते ॥ ८-५६ ॥

चन्दनागरुकर्पूरमांसीकुङ्कुमरोचनाः ।
कच्चोरवानराभ्यां च शाक्तो गन्ध उदाहृताः ॥ ८-५७ ॥

चन्दनोशीरतोयाह्वैर्मांसीकुष्ठं मुरागरू ।
कुङ्कुमं चेति वै गन्धमष्टाङ्गं वैष्णवं विदुः ॥ ८-५८ ॥

पुष्पाणि चैव कथ्यन्ते प्राग्वच्छैवादिभेदतः ।
तान्याग्नेयानि सौम्यानि सौम्याग्नेयानि च त्रिधा ॥ ८-५९ ॥

सात्त्विकानीह शुक्लानि राजसान्यरुणानि तु ।
कृष्णानि तामसानि स्युः पीतं राजससात्त्विकम् ॥ ८-६० ॥

श्यामं तमोरजोमिश्रं पत्रेष्वप्येवमेव हि ।
सात्त्विकाद्यैस्तु कुसुमैः फलं स्यात् सात्त्विकादिकम् ॥ ८-६१ ॥

श्वेतार्कं करवीरकं च कमलं दुर्धूरकार *?धे
राजार्कं च सिताम्बुजं च तुलसीसाशोकसच्चम्पकैः ।
कल्हारं बकपाटले वकुलकं द्वे मल्लिके मालती-
पालाशस्थलपद्मदर्भदम(ने? नै) र्मार्गच्छदं दूर्वया ॥ ८-६२ ॥

तद्वद् ग्रन्थिशमीबृहन्मरुवकैः पुन्नागनागासनै-
र्नन्द्यावर्ततमालकुब्जविजयामन्दारकाश्मीरकैः ।
शस्तान्युत्पलकर्णिकारकुसुमैः कादम्बबैल्वान्यथो
नीलं चोत्पलमित्यमूनि कुसुमान्युक्तानि शैवान्यलम् ॥ ८-६३ ॥

शस्ते द्वे तुलसी सिताम्बुजमथो रक्ताब्जपालाशके
जातीकुब्जकमाधवीदमनकैः पुन्नागनागासनैः ।
नन्द्यावर्तशमीस्थलाब्जविजयासन्मल्लिकाचम्पकै-
र्बिल्वं चोत्पलकेतकाद्यभिनवं कुन्दं तथा पाटलम् ॥ ८-६४ ॥

लक्ष्मीदेविसहाः सभृङ्गमुसलीभीतेन्द्रवल्ल्यस्तथा
भद्रा श्रीपतिलङ्घिता च दशमी दूर्वाथ जम्बूच्छदम् ।
कल्हारं करवीरमेकदलकं पद्मं कुशाः कैरवं
रक्तं चेति विलोमतोऽधिकफलं पुष्पं भवेद् वैष्णवम् ॥ ८-६५ ॥

अम्भोजोत्पलबन्धुजीवविजयाः पुन्नागनागान्यथो
जातीकुन्दकरण्डचम्पकजपायूथीरमापाटलैः ।
बिल्वाशोकहयारिकुब्जदमनैर्मन्दारदूर्वादलै-
र्नन्द्याह्वाप्यपराजितेति कुसुमान्युक्तानि शाक्ताम्यलम् ॥ ८-६६ ॥

निर्गन्धानि तथोग्रगन्धकटुकान्यस्पृश्यदुष्टानि चा-
प्यन्यायोपहृतानि वा नखकृमीचिह्नानि तुन्नानि वा ।
ऊर्णासूत्रशिरोरुहाद्युपगतैर्म्लायत्पुराणानि वा
कालातीतविलङ्घितानि च तथा पुष्पाण्यथो वर्जयेत् ॥ ८-६७ ॥

त्रेधा चोदितपुष्पजातिषु न चेदुक्तानि वर्ज्यानि तान्य-
न्योन्यप्रतिषेधदर्शनमपि स्याद् यत्र चोक्तं विना ।
अन्यस्मै परिकल्पितानि च तथा वर्ज्यानि तद् युक्तितो
यद्यस्यात्र विशेषतस्तु विहितं तद्दैवतं तोषयेत् ॥ ८-७८ ॥

सूर्याग्न्योस्त्रिविधैस्तथैव कुसुमैरिष्टं हि विघ्नेशितुः
शाक्तान्यप्यथ शाम्भवानि च तथा स्कन्दार्यचण्डादिषु ।
शाक्तान्येव मनोजवाग्गिरिसुतादुर्गाष्टमातृप्रिया-
ण्यम्भोजासनदेवराजकमलाः पूज्यास्तथा वैष्णवैः ॥ ८-६९ ॥

नन्द्यावर्तैरर्धरात्रे च काल्ये प्राग् रात्रेः स्यान्मालतीमल्लिकाभिः ।
अह्व्येवाब्जैरुत्पलैः सर्वदा वा हैमैः प्रातः केसरैरर्धरात्रे ॥ ८-७० ॥

आ वैवर्ण्यात् केसराणां सरोजं बैल्वं पत्रं दामनं च त्रिरात्रम् ।
पूजायोग्यं कार्णिकारं तु पक्षं न स्याज्जीर्णं मासषट्कं बकाख्यम् ॥ ८-७१ ॥

पुष्पाधिकारः

धूपद्रव्येषु सर्वेषु श्रेष्ठः कृष्णागरुर्भवेत् ।
कर्पूरमधिकश्रेष्ठमगरूपहितं तथा ॥ ८-७२ ॥

गुग्गुलुश्च तथोशीरचन्दने मध्यमे स्मृते ।
श्रीवाससर्जावधमौ तद्वल्लाक्षा धृतं मधु ॥ ८-७३ ॥

सर्वैरेतैः सितोपेतैर्धूप उक्तो दशाङ्गिकः ।
निर्धूमस्फुरदङ्गारे निर्ज्वाले च निरिन्धने ॥ ८-७४ ॥

धूपं दद्यादधः किञ्चिद् घण्टां वामेन वादयेत् ।
विशुद्धसितसूत्रेण स्युर्वर्त्त्यो वाथ तूलजाः ॥ ८-७५ ॥

दीपार्थं गोघृतं मुख्यं मध्यान्त्ये तैलमाहिषे ।
सकर्पूरदशो दीपः फलं दद्याच्छताधिकम् ॥ ८-७६ ॥

दीपः केवलकर्पूरः सहस्रगुण उच्यते ।
प्रभूतस्नेहसम्पूर्णैर्दशभिर्वा नवाष्टकैः ॥ ८-७७ ॥

दीपैः प्रतिनवैराराद् भ्राम्यमारात्रिकं भवेत् ।
न दग्धशेषवर्त्या तु पुनर्दीपं प्रवर्तयेत् ॥ ८-७८ ॥

नोच्छिष्टाशुचितैलाद्यैर्नान्यतैलघृतादिना ।

धूपदीपविधिः ।

व्रीहेः पञ्चशतं तलं द्विगुणितं ते द्वे प्रकुञ्चं स्मृतं
ते द्वेऽथ प्रसरं तथैव कुडुबं प्रस्थार्धकं तद्द्वयम् ।
प्रस्थं पात्रमथाढकं शिवमथो द्रोणं च खारिः क्रमात्
खारीणां त्रितयं हि भार उदितो मानं यथाशास्त्रतः ॥ ८-७९ ॥

नित्यं नैमित्तिकं चेति नैवेद्यं द्विविधं मतम् ।
तच्चोत्तमोत्तमाद्यं तु नवभेदेन वक्ष्यते ॥ ८-८० ॥

तण्डुलाः शालिजाः शस्ताः कलमा राजशालिजाः ।
नीवारजास्त्वथो मध्या व्रीहिजा वैणवास्तथा ॥ ८-८१ ॥

प्रियङ्गुयवगोधूमश्यामाकास्त्वधमाः क्रमात् ।
तण्डुलेभ्योऽष्टमांशाः स्युरुपदंशास्तथा दधि ॥ ८-८२ ॥

द्वात्रिंशदंशमाज्यं स्याच्छर्करामधुनी तथा ।
तत्र नित्यविधेरष्टद्रोणशालिजतण्डुलैः ॥ ८-८३ ॥

सार्धरात्रं चतुष्कालं पूजायां विनिवेदयेत् ।
पायसं कृसरं गौलमन्नं तच्च चतुर्विधम् ॥ ८-८४ ॥

यथोचितोपदंशाज्यदध्यपूपरसोत्तरम् ।
सगीतनृत्तवादित्रं सभूतबलिमङ्गलम् ॥ ८-८५ ॥

तत्र पञ्चशतं दीपास्त्वेवं स्यादुत्तमोत्तमम् ।
षड्भिर्द्रोणैश्चतुष्कालमभ्यर्च्य विनिवेदयेत् ॥ ८-८६ ॥

सहोमं द्विशतं दीपाः स्युर्गीतबलिनर्तनैः ।
कुर्यात् पूर्वानुसारेण तत् स्यादुत्तममध्यमम् ॥ ८-८७ ॥

पञ्चद्रोणैश्चतुष्कालं निवेद्यं पूजनं तथा ।
अष्टोत्तरशतं दीपैर्गीतवाद्यबलिक्रियाः ॥ ८-८८ ॥

अग्निकार्यं च कुर्वीत स्यादेवं तूत्तमाधमम् ।
सचतुर्द्रोणनैवेद्यं चतुष्कालोचितार्चनम् ॥ ८-८९ ॥

गीताद्यं बलिहोमौ च प्रदीपाः स्युश्च सप्ततिः ।
मध्यमोत्तममेवं स्यान्मध्यमध्येमथोच्यते ॥ ८-९० ॥

भारार्धतण्डुलैः प्राग्वन्नैवेद्यं चार्चनादिकम् ।
मध्याह्न एव होमः स्याद् द्विकालं नर्तनादिकम् ॥ ८-९१ ॥

चत्वारिंशत् प्रदीपाः स्युर्मध्यमध्ये बलिस्तथा ।
खारितण्डुलनैवेद्यं चतुष्कालार्चना बलिः ॥ ८-९२ ॥

होमो द्वादश दीपाः स्युर्गीताद्यं मध्यमाधमम् ।

सायम्प्रातस्त्वाढकाभ्यां शिवं तन्मध्याह्ने स्यादह्नि वेदप्रदीपाः ।
रात्रावष्टौ स्युस्त्रिकालं च पूजा पञ्चातोद्यैः स्यात् कनिष्ठोत्तमाख्ये ॥ ८-९३ ॥

प्रातः पात्रं सायमप्यत्र पात्रं स्यान्मध्याह्ने त्वाढकं चाह्नि दीपौ ।
तत्वारो वै रात्रिदीपास्त्रिकालं पूजेत्युक्तं मध्यमं यत् कनिष्ठे ॥ ८-९४ ॥

सायम्प्रातः प्रतिप्रस्थद्वयनैवेद्यमर्चनम् ॥ ८-९५ ॥

दीपोऽह्नि निशि दीपावित्युक्तं स्यादधमाधमम् ।

नित्यनैवेद्यप्रकरणम् ।

अष्टद्रोणं समारभ्य यावद् द्वादशभारकम् ॥ ८-९६ ॥

नैमित्तिकं स्यानैवेद्यं नवधात्रापि पूर्ववत् ।
उत्तमोत्तमपूर्वं तु पूजां चैवं समूहयेत् ॥ ८-९७ ॥

स्यात् काम्यमपि नैवेद्यं यावद् वा प्रार्थितं भवेत् ।
न कालनियमस्तत्र साङ्गं पूजा प्रशस्यते ॥ ८-९८ ॥

नैमित्तिककाम्यविधिः ।

क्षीरं त्रिभागं भागस्तु तण्डुलाः पायसस्य तु ।
क्षीराज्यतण्डुलतिलाः समाः स्युः कृसरान्नके ॥ ८-९९ ॥

भिन्नमुद्गैः शुभास्तण्डुलाः स्युः समास्तस्य चार्धं घृतं स्याद् घृतार्धं गुलम् ।
तण्डुलेभ्यस्तथा योपयः षड्गुणं स्याद् गुलान्नं तु तद् युक्तरम्भाफलम् ॥ ८-१०० ॥

धौतदन्ता द्विजाः स्नातशुक्लाम्बरा वज्रपूतैर्जलैर्मौनिनस्तण्डुलान् ।
क्षालयेयुस्तथा सप्तकृत्वोऽङ्गकैर्ज्वालयेयुस्तथाग्निं धवित्रादिना ॥ ८-१०१ ॥

ध्यात्वा चुल्लिं शक्तिमग्निं च रुद्रं वह्नेर्बीजात् तारकाद् वाभिपूज्य ।
तस्मिन्नग्नौ तद्धविः साधयेयुरोङ्काराज्यं चाभिधार्याहरेयुः ॥ ८-१०२ ॥

बृहत्यः कदल्यस्तथा कुण्डहाल्यः सकूश्माण्डमुक्तं भवेत् कर्करी च ।
तथा कारवेल्लं च चूतार्द्रकाख्ये बृहन्मुद्गमुद्गास्तथा नालिकेरम् ॥ ८-१०३ ॥

सशिम्बाश्च माषास्तथा चिद्भटाख्यः कुलस्थाश्च शस्ताः प्रकृष्टोपदंशाः ।
कदल्यादिपक्वैः सिताप्योषलोणैर्युतः स्याद् यवानीदधिक्वाथसूपः ॥ ८-१०४ ॥

तथा मोदकांश्चोपदंशांश्च कुर्याद् घृतव्योषलोणैर्यवानीष्टपिष्टैः ।
ततः पात्रवर्गं बहिः शोधयित्वा सशङ्खध्वजच्छत्रमुत्थापयेच्च ॥ ८-१०५ ॥

हिरण्याद्यमन्त्रं हृदा धौतमद्भिः कदल्यादिपत्राणि वात्राभिघार्य ।
हविस्तत्र दत्त्वा युतं चोपदंशैः कदल्यादिपक्वैः फलैर्मोदकैश्च ॥ ८-१०६ ॥

सिताक्षौद्रदुग्धेऽथ दध्ना तु गव्यं घृतं चारुगन्धं नवं रागभागम् ।
निवेद्यात् प्रदेयं तु पुष्पार्पितेऽस्मिंस्ततो धेनुमुद्रामृतैः प्लावयित्वा ॥ ८-१०७ ॥

सम्प्रोक्ष्य मूलमन्त्रेण दत्त्वाम्भोऽग्निप्रियान्तिकम् ।
सपुष्पदक्षिणकरो हविः स्पृष्ट्वा निवेदयेत् ॥ ८-१०८ ॥

ध्यायेत् तन्मनसा दिव्यमन्नाज्यं तृप्तिकारकम् ।
पानीयं च निवेद्यास्मै हृद्यं शीतं सुगन्धि च ॥ ८-१०९ ॥

बहिर्निर्गत्य तच्छेषमन्नं हुत्वानलेऽपि च ।
मूलाङ्गादिविधानेन तत्तन्मन्त्रेण साधकः ॥ ८-११० ॥

तत्र किञ्चिद् बलिं दत्त्वा वह्निं भक्त्या क्षमापयेत् ।
प्रदक्षिणनमस्कारस्तुतिभिः सम्प्रसादयेत् ॥ ८-१११ ॥

प्रक्षाल्य चरणौ सम्यगाचान्तोऽन्तः प्रविश्य तु ।
सुतृप्तं दैवतं स्मृत्वा दद्यादाचमनीयकम् ॥ ८-११२ ॥

ततो लवङ्ककर्पूरतक्कोलक्रमुकान्वितम् ।
निवेदयेच्च ताम्बूलं गन्धपुष्पार्चितं ततः ॥ ८-११३ ॥

धूपयित्वा नमस्कृत्य जपेन्मूलं तु शक्तितः ॥

नैवेद्याधिकारः ।

अङ्गानि चैव परिवारगणांश्च सर्वान् पञ्चोपचारविधिना तु यथोपपत्त्या ।
सम्पूजयेदनुपपन्नमिहार्चनेयं तत्कल्पयेच्च मनसैव समहितात्मा ॥ ८-११४ ॥

अत्रोपचारभेदेन पूजाभेदांस्तथापरे ॥ ८-११५ ॥

वदन्ति तांश्च वक्ष्यामः किञ्चिद्भेदात् पुरोदितात् ।
दशोपचाराः कथिता निवेद्यान्ते तु पूजने ॥ ८-११६ ॥

होमान्तके तु कथिता ह्युपचारास्तु षोडश ।
बल्यन्ते चापि ते ख्याताः पञ्चविंशतिसङ्ख्यया ॥ ८-११७ ॥

नृत्तान्ते चापि षट्त्रिंशदुपचाराः प्रकीर्तिताः ।
उत्तमोत्तमपूजायामुत्तमे वा भवन्त्युत ॥ ८-११८ ॥

आसनावाहनार्घ्याणि पाद्यमाचमनीयकम् ।
साङ्गं स्नानं तथा वस्त्रमुपवीतं च भूषणम् ॥ ८-११९ ॥

अञ्जनं गन्धपुष्पे च धूपो दीपश्च दर्पणम् ।
नीराजनं च नैवेद्यमग्निकार्यं प्रदक्षिणम् ॥ ८-१२० ॥

नमस्कारः स्तुतिर्वाद्यगीते नित्यबलिस्तथा ।
पूजासमर्पणं चेति पञ्चविंशतिचोदिता ॥ ८-१२१ ॥

अथासनादयः पञ्च पञ्चगव्याभिषेचनम् ।
दुग्धेन दध्ना चाज्येन मधुनक्षुरसन च ॥ ८-१२२ ॥

अभिषेकस्तु तत्स्नानं चक्रवर्त्युपचारतः ।
वस्त्रोपवीताभरणान्यञ्जनं गन्धपुष्पके ॥ ८-१२३ ॥

धूपदीपौ च मुकुरं नीराजनविधिस्ततः ।
मुद्राणां दर्शनं तद्वन्नैवेद्यं पुस्तकार्चनम् ॥ ८-१२४ ॥

होमकर्म च ताम्बुलं पादुके चामरध्वजौ ।
छत्रं च नित्ययात्रा च बलिदानमतः परम् ॥ ८-१२५ ॥

प्रदक्षिणनमस्कारस्तोत्राण्यातोद्यमेव च ।
गीतं नृत्तं च पूजादेः समर्पणमतः परम् ॥ ८-१२६ ॥

षट्त्रिंशदुपचाराः स्युरेवमुक्ताः क्रमात् क्वचित् ।
व्यत्यस्तक्रमतो वा स्युस्तत्तत्तन्त्रोदितास्त्वमी ॥ ८-१२७ ॥

त्रिविधोपचाराधिकारः ।

बलियात्रोत्सवाः शस्ताः स्थिरलिङ्गादिपूजने ।
न चलस्थण्डिलविधौ मण्डलक्षणिकादिषु ॥ ८-१२८ ॥

इति निगदितमार्गास्तूपचाराः प्रदिष्टाः
पृथगिह परिपाट्या तन्त्रभेदेषु दृष्टाः ।
विविधमनुसुराणां ये च सामान्यकल्पाः
स्वभिमतफलसिद्धिः साधकानां यथा स्यात् ॥ ८-१२९ ॥

इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्रसारे उपचारपटलोऽष्टमः ॥