अथ सप्तमः पटलः
वक्ष्ये स्रुक्स्रुवयोश्च लक्षणमथो स्रुग्घस्तमात्रायता
पालाशी खदिरोद्भवापि च तथा स्याच्छामिली शोभना ।
वेदाश्रं तु मुखं स्वराङ्गुलमितं श्रेष्ठं रसैर्वा शरै-
र्मध्यं चाप्यधमं च निम्नमिह तन्मध्ये त्रिभागास्तृतम् ॥ ७-१ ॥
विस्तारेण समं हि खातमपि तद् वृत्तं बहिर्मेखला -
स्रिस्रः स्युः कमलं तथैव परितस्तासां तु बाह्ये भवेत् ।
कण्ठो गोलकविस्तृताङ्गुलमितो दैर्घ्येण तस्योर्ध्वतः
स्यादग्रं चतुरङ्गुलायतमथो विस्तारतस्तत्समम् ॥ ७-२ ॥
कण्ठस्याप्यथ मध्यवर्ति सुषिरं तद् वै त्रिकोणायतं
निर्गच्छेद्धि यथायतं तदवटं यावत् कनिष्ठा विशेत् ।
तत्पृष्ठं कमलाङ्कितं खलु मुखं सर्वं गजोष्ठोपमं
शिष्टं वर्तुलदण्डमस्य तु भवेदग्रं सरोजाङ्कितम् ॥ ७-३ ॥
दण्डाग्रं परिणाहतः सरसिजस्याधो यथर्त्वङ्गुलं
स्थूलोऽसौ क्रमशः प्रकोष्ठमिव तन्मूलं च वस्वङ्गुलम् ।
तत्र स्याद् वृषभोऽथवा सरसिजं श्लक्ष्णाकृतिः सर्वतो
निर्दोषः शुभदेशजान् क्षितिरुहाञ्छित्वा स्रुचं कारयेत् ॥ ७-४ ॥
स्रुग्जातिस्तु भवेत् स्रुवं सुविहितं तालद्वयायामकं
कुर्याद् वर्तुलमङ्गुलेन वदनं तस्यावटेऽर्धाङ्गुले ।
भित्तिर्मध्यगता स्मृता यवमिता तद्गर्तयोः श्लक्ष्णयोः
कर्षाज्यस्थिति गोष्पदाकृति च तत्पृष्ठे यवाभ्यां स्फिजौ ॥ ७-५ ॥
स्फिङ्मध्येन यवप्रमाणविहिता रेखा च वक्त्रादधः
कण्ठः पङ्कजलक्षणस्तु तदधो दण्डः सुवृत्तः समः ।
दण्डाग्रं परिणाहतोऽङ्गुलमितं मूलं ततोऽध्यर्धतः
स्याद् गोपुच्छनिभं गलात् प्रभृति तत् स्थूलं हि मूलं यथा ॥ ७-६ ॥
बाहुमात्रियोऽरत्निमात्रियो वा स्रुच इत्यन्ये ।
स्रुक्स्रुवाधिकारः ।
भित्त्वा शोभनशाखिकां यदि भवेच्छम्युद्गताश्वत्थजा
नो चेत् केवलपिप्पलात् तदरणिर्भान्वङ्गुलैरायता ।
नाहोऽस्यास्तु षडङ्गुलेन तु शिरो मूलेऽङ्घ्रिरग्रे स्मृतो
योनिर्मध्यगताङ्गुलैः श्रुतिमितैर्मन्थानयोग्या भवेत् ॥ ७-७ ॥
अश्वत्थेन तथोत्तरारणिरपि स्यात् षड्भिरेवाङ्गुलैः
कुर्याद् भ्रामकमस्य खादिरमृजं नेत्रं च रज्जुं दृढाम् ।
तत्राग्निं जनयेत् तथेन्धनमपि त्वग्वर्जितं सारवद्
भिन्नं शस्ततरूद्भवं धमनमप्यग्नेर्धवित्रादिना ॥ ७-८ ॥
अरण्यादिविधिः ।
वक्राः शीर्णदलाः कृशाः कृमिहता भिन्नास्त्वशस्त्राहृता
ह्रस्वाः स्थूलगतत्वचोऽप्युपहता दीर्घाग्निदग्धादयः ।
वर्ज्याः स्युः समिधः शुचिस्थलभुवः शेषाः समं छेदिता
मध्यानामिअकयोस्तु नाहसदृशाः शस्ताः कनिष्ठाधमाः ॥ ७-९ ॥
तालायतास्तु समिधः खलु शान्तिकादौ
सप्ताङ्गुला भ्रमणचाटनकेषु शस्ताः ।
विद्वेषसाधनविधौ चतुरङ्गुलास्ता
वक्राः षडङ्गुलमिता अपि मारणेषु ॥ ७-१० ॥
आकृष्टिवश्यविषयेषु शराङ्गुलाः स्युः
प्रादेशमात्रसमिधोऽप्यविशेषकृत्ये ।
क्षुद्रेषु पृष्ठमनले जुहुयात् तथाग्रं
चाग्नौ जुहोति हि शुभेषु यथोपदेशम् ॥ ७-११ ॥
इध्मोऽष्टादशभिः समिद्भिरुदितः प्रादेशमात्रोऽथवा
रत्न्यायाममितः क्वचित् परिधयो हस्तायताः स्युस्रयः ।
दीर्घो दक्षिणतस्तु पश्चिमशयः स्थूलस्तनुर्ह्रस्वकः
सौम्ये कौशिकजाश्च पालककुशाः श्रेष्ठा हि दर्भाः क्रमात् ॥ ७-१२ ॥
व्यग्रा हस्तनखाहृताः कृमिहताः कर्मान्तरायोजिताः
याम्या व्याघ्रविलङ्घनाद्युपहता धूम्रोर्ध्वशुष्कादयः ।
वर्ज्याः श्यामलकोमलाः प्रतिनवालूनार्द्रशुष्कास्तथा
दर्भाः स्युर्यदिहाग्निकार्यपटले वेण्यादिकं चोदितम् ॥ ७-१३ ॥
तत्र त्रिंशद्दर्भदलकृता वेणिः । अष्ट्यत्यष्टिधृत्यतिधृतिसङ्ख्या वा दर्भाः परिस्तरणे स्युः । तत्त्वसङ्ख्यादर्भैर्बद्धं कूर्चं ज्ञानखड्गः । दर्भद्वयेन सामान्यम् । दर्भपञ्चकेन विशेषकूर्चमिति संहिताटीकायाम् ।
पञ्चभिः पञ्चभिर्दर्भैः प्रणीताप्रोक्षणीविधौ ।
कूर्चद्वयं भवेत् सप्तदशभिर्ब्रह्मकूर्चकम् ॥ ७-१४ ॥
द्वादशाङ्गुलकं दण्डं ब्रह्मग्रन्थ्येकमङ्गुलम् ।
तदग्रं त्र्यङ्गुलायामं कूर्चानां तु प्रकल्पयेत् ॥ ७-१५ ॥
मध्येन ग्रथितं तु दर्भयुगलं प्रादेशमात्रं भवेत्
संस्कारे तु पवित्रकं स्मृतमथ द्वन्द्वं च विद्योतने ।
स्रुक्सम्मार्जनके त्वतुष्टयमिह स्याद् वै कुशानां घृते
दर्भाग्रद्वयमङ्गुलायतमथात्रार्काङ्गुलं प्रस्तरे ॥ ७-१६ ॥
तालायताभ्यां दर्भाभ्यां ग्रथितं चतुरङ्गुलम् ।
पवित्रं स्याद् द्विजातीनां त्रिभिः क्षुद्रेषु हस्तयोः ॥ ७-१७ ॥
ब्रह्मग्रन्थिर्द्विजातीनां स्मृतो हस्तपवित्रके ।
केवलश्चानुलोमानां दूर्वैव स्त्रीचतुर्थयोः ॥ ७-१८ ॥
दशोत्तरशतं त्वेवं दर्भाः स्युः प्रस्तारं विना ।
इति बौधायनमतम् ।
इध्मवर्हिषां विधिः ।
भूमिः स्थण्डिलसञ्ज्ञिता सपदि या गोगोमयालेपिता
गोकर्णाष्टकमात्रकं षडथ वा गोचर्ममात्रं स्मृतम् ।
नद्यादेः सिकताः शुभास्तु धवलाः प्रस्थैर्मिताः पञ्चभिः
सामान्येन तदाह होमविषये बोधायनः स्थण्डिले ॥ ७-१९ ॥
स्थाल्याज्यस्य भवेच्छरावसदृशी विस्तारतोऽष्टाङ्गुला
विस्तारार्धसमुच्छ्रयापि च भवेन्नालं च वेदाङ्गुलम् ।
विस्तारेण षडङ्गुलोच्छ्रितसमं पात्रं प्रणीताम्भसां
स्यादष्टाङ्गुलविस्तृतोच्छ्रयसमा नालान्विता प्रोक्षणी ॥ ७-२० ॥
अत्र पौष्करे –
सर्वत्र स्वर्णरजतताम्रमृन्मयानि पात्राणि उत्तममध्यमाधमफलानि भवन्ति इति ।
अष्टाभिः कुडुबैः प्रपूरितचरुः स्थाली स्मृता चाधमा
मध्यार्कैर्वसुयुग्मकैः परिमिता स्यादुत्तमा ताम्रजा ।
श्रेष्ठाद्यास्त्वधमास्त्रिसप्तकमिता दर्व्यङ्गुलानां भवेद्
दैर्घ्यात् सप्तशराङ्गुलैरिह शिरोवृत्तं तु पुच्छं द्वयात् ॥ ७-२१ ॥
शालीनां सिततण्डुलाः सकलमा नीवारजाः षाष्टिकाः
संशुद्धास्तुषशर्करादिरहिताः शुक्लार्जिताः स्युश्चरोः ।
श्रेष्ठं यत् स्वपशोर्नवं घृतमथ क्रीतं नवं मध्यमं
क्रीताज्यं यदनूतनं तदधमं गव्यं भवेद् गालितम् ॥ ७-२२ ॥
क्षौद्रं गन्धरसाद्यदूषितमपि क्रीतं पुनर्गालितं
ग्राह्यं क्रीतसितोपलाद्यभिनवं खण्डं गुलं चैक्षवम् ।
पूर्वं पूर्वमिह प्रशस्तमखिलं शुद्धं च शुक्लार्जितं
होमादेश्च तिलादिधान्यमखिलं संशोध्य तु क्षालितम् ॥ ७-२३ ॥
यच्चान्यत् फलमूलवस्तु सुरसं ग्राह्यं विशुद्धं नवं
तत्राङ्गुष्ठमिताहुतिस्तु कथिता ह्यन्नस्य शाल्यादिषु ।
स्यात् पञ्चाङ्गुलिभिर्धृतं द्रवरसेषूक्तं स्रुवापूरितं
लाजानां खलु मुष्टिरेव कुसुमेष्वेकैकमब्जादिषु ॥ ७-२४ ॥
वल्लीनां चतुरङ्गुलं कणतिले सक्तुष्वपि स्यान्मृगी
साङ्गुष्ठा खलु मध्यमाङ्गुलियुता नाम्ना मृगीसञ्ज्ञिता ।
गन्धानां चणकीमितं तु बदरीबीजोपमं गुग्गुलो-
र्भक्ष्याणां च महाफलादिषु भवेदक्षप्रमाणाहुतिः ॥ ७-२५ ॥
खर्जूरेङ्गुदगोस्तनीबदरिकाजम्बूफलानां तथा
पत्राणां पृथगेकमेकमुदिता पर्वैकमिक्षोरपि ।
नानाभक्ष्यविमिश्रहोमविषये पञ्चाङ्गुलीभिर्धृतं
दूर्वाग्रत्रितयं तथैव समिधामेकैकमेवाहुतिः ॥ ७-२६ ॥
आहुतिप्रमाणम् ।
स्याद् वर्धन्यपि पूर्णभारसलिला कुम्भश्च खार्यम्बुभृद्
द्रोणाम्भःपरिपूरितस्तु कलशः पूर्णं शिवात् कर्करी ।
पूर्णा स्याद् घटिकाढकेन कुडुबद्वन्द्वं शरावं भवे-
दापूर्णं कुडुबेन वा प्रसरतः शङ्खश्च दीपस्तथा ॥ ७-२७ ॥
पात्रमानम् ।
वक्ष्ये शुद्धिमपीह पात्रविषयां द्रव्यादिकानां तथा
यावद् गन्धविलेपनाद्यपगमस्तावज्जलैः क्षालयेत् ।
चूर्णैरप्यवघर्षयेत् पुनरपि प्रक्षाल्य चोष्णैर्जलैः
पात्राणां भवतीह शुद्धिरधुना शुद्धिर्विशिष्टोच्यते ॥ ७-२८ ॥
सौवर्णं सलिलेन शुध्यति यथा लेपापनोदो भवेत्
पात्रं शुल्बमयं तथाम्लसलिलैस्तारोद्भवं गोमयात् ।
कांस्यं भस्मजलैस्तथा मणिमयं सूर्यांशुभिर्वाम्भसा
मृत्पात्रं दहनेन चेदभिनवं तत्तक्षणाद् दारवम् ॥ ७-२९ ॥
दाहादायसशुद्धिरेवमुदिता लौहानि तत्कर्तृभिः
स्पर्शाद् वा तुरगाननाभिगमनाच्छुध्यन्त्यनत्याहतौ ।
शुद्धिश्चर्मसु रज्जुवस्त्रविषये चेत् क्षारवारिप्लवात्
स्याच्चालाबुकवैणवेऽम्बुपवनं गोपालकाघर्षणात् ॥ ७-३० ॥
शुद्धिः सोदकभाजनेष्वपि भवेत् पर्यग्नि कृत्वा तथा
धान्यानां फलदर्भमूलसमिधां सम्प्रोक्षणाधावनैः ।
कौशेयादिदुकूलपट्टवसनान्यालब्धरङ्गानि या-
न्यम्भःसेकविरागकाणि धवलैः शुध्यन्ति सिद्धार्थकैः ॥ ७-३१ ॥
त्याज्यं दारववैणवादिकमथो भाण्डं तथा मार्त्तिकं
श्लेष्मोच्छिष्टमलादिदुष्टमथवा निर्माल्यसन्दूषितम् ।
स्नेहानामपि शुद्धिरत्युपहतिर्नोचेदभिद्योतना-
च्छुध्येदम्बुजलाशयादिषु निशास्वग्नेः शिखादर्शनात् ॥ ७-३२ ॥
गोभिर्वाध्युषिता निखानिततलाकृष्टाथवा सूद्घृता
भूः शुध्येद् भवनादिकं च सलिलैः सद्गोमयालेपितम् ।
पुण्याहाद् द्विजभोजनैरपि तथा चोल्लेखनाद् वा स्थलं
शुध्येत् पातकीनाभिभाष्य वचसां शुद्धिर्द्विजाभाषणात् ॥ ७-३३ ॥
प्राणायामैः शुध्यति देहः समनस्कः
स्पृष्ट्वास्पृश्यानप्सु निमग्नः सहचेलः ।
जग्ध्वा यत्तद् वा क्षुतनिष्ठीवनजृम्भा-
स्वाचम्याद्भिश्चान्त्यजशूद्राद्यवलोके ॥ ७-३४ ॥
निः सार्याम्भः कूपजलादेर्महदर्णो-
वेगात् स्पृष्टं वांशुभिरंशोरिह शुध्येत् ।
सामान्याग्निः प्रोक्षणतोऽन्यत्र गतो वा
प्रायश्चित्ताद् चाग्निमुखाच्चाहितवह्निः ॥ ७-३५ ॥
गन्धादीनां मन्त्रजलैः प्रोक्षणतः स्याच्-
छुद्धिः क्षीरे चान्धसि वाज्यं त्वभिधार्य ।
दर्भोद्योताच्छुध्यति नातिप्रहतिश्चे-
च्छिष्टानामप्येवमिवोह्या परिशुद्धिः ॥ ७-३६ ॥
सामान्येयं सर्वगुणानामपि हेतुः
कर्मद्रव्यस्वात्मसु सुद्धिर्मनसो या ।
शुद्धिः सा साद्यस्य तु रागाद्यविदुष्टा
चेच्चत्वारोऽप्यस्य करस्थाः पुरुषार्थाः ॥ ७-३७ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे स्रुक्सुवादिलक्षणं नाम सप्तमः पटलः ।