०६

अथ षष्ठः पटलः

अत्राग्निकुण्डानि च मण्डलानि प्रत्येकशस्तान्यथ तेषु तेषु ।
तन्त्रेषु यानि प्रथितानि सम्यक् सङ्क्षिप्य वक्ष्यामि यथाप्रधानम् ॥ ६-१ ॥

वेदाश्रकं शान्तिकपौष्टिकादौ वृत्तं च योनिप्रतिमं हि वश्ये ।
आकृष्टयेऽश्वत्थदलं तु कुण्डं स्तम्भेऽष्टकोणं भमणे षडश्रम् ॥ ६-२ ॥

वज्राङ्ककोणत्रिषडश्रकुण्डे स्यातां द्विषन्मारणचाटनादौ ।
सर्वाणि कुण्डानि हरित्सु कुर्याल्लिङ्गप्रतिष्ठासु च देवतानाम् ॥ ६-३ ॥

प्रसादे मण्डपे वापि गृहे वा यत्र कर्म तत् ।
क्रियते तत्र संशुद्धे स्थले गव्योपलेपिते ॥ ६-४ ॥

मध्येऽत्र सूत्रं वरुणेन्द्रदीर्घं निवेश्य चास्फाल्य तु तस्य मध्ये ।
बिन्दुं विधायापरपूर्वयोस्तदथाङ्कयेत् सूत्रवशात् समानम् ॥ ६-५ ॥

पुनस्ते सूत्रखण्डे तु समं भित्त्वाङ्कयेदपि ।
बिन्दोस्तु पूर्वापरमध्यमाङ्कैर्मितेन सूत्रेण तदाहितेन ।
बिन्दोः सयाम्योत्तरदिक्समाङ्कभ्रमैः समालिख्य तु मत्स्ययुग्मम् ॥ ६-६ ॥

तयोर्निधाय सूत्रं स्याद् दक्षिणेनोदगायतम् ॥ ६-७ ॥

इत्थं ब्रह्माह्वयं सूत्रमुदक्सूत्रं च साधयेत् ।
क्षेत्रार्धमानेन तु बिन्दुसंस्थश्चतुर्दिशं सूत्रवशाद् यथेष्टम् ।
अङ्कान् विधायाथ तदङ्कयुग्मात् सूत्रद्वयात् स्युः खलु कोणमत्स्याः ॥ ६-८ ॥

तेषु मत्स्येषु परितो दिक्षु सूत्रैर्निपातितैः ॥ ६-९ ॥

चतुरश्रं भवेत् क्षेत्रं चतुष्कोष्ठं समं शुभम् ।
सर्वमण्डलकुण्डादेः सामान्योत्पत्तिकारणम् ॥ ६-१० ॥

चतुरश्रसाधनम् ।

कुण्डं प्रशस्तं चतुरश्रमादावश्वत्थपत्रं च तथार्धचन्द्रम् ।
तद्वत् त्रिकोणं त्वपि वर्तुलं स्यात् षट्कोणकं पद्ममथाष्टकोणम् ॥ ६-११ ॥

रत्निमात्रं शातार्धे स्याच्छतहोमे त्वरत्निकम् ।
सहस्रे हस्तमानं स्याद्युते च द्विहस्तकम् ॥ ६-१२ ॥

लक्षे चतुष्करं कुण्डं दशलक्षे तु षटकरम् ।
कोटिहोमेऽष्टहस्तं स्याद् यथा भोजेन्द्रपद्धतौ ॥ ६-१३ ॥

सर्वाणि कुण्डानि यथोक्तमानादायामविस्तारसमानि तानि ।
स्वातं तु विस्तारसमं विधेयं तिस्रः क्रमाच्चोपरि मेखलाः स्युः ॥ ६-१४ ॥

समं स्यात् सर्वतः खातं खातोपरि चतुर्दिशम् ।
एकाङ्गुलं परित्यज्य कुर्यात् तिस्रोऽथ मेखलाः ॥ ६-१५ ॥

स्त्निप्रमाणे खलु मेखला स्यादाद्याङ्गुलाभ्यामपराङ्गुलेन ।
अर्धाङ्गुलाद्या त्वथवा त्वरत्नौ त्रिद्व्येकमात्राङ्गुलकैर्विधेया ॥ ६-१६ ॥

अत्र भोजराजः –

कुण्डहस्तप्रमाणस्याद्या द्व्यङ्गुला द्वितीयाङ्गुलेनार्धाङ्गुलेन च
तृतीया अरत्निप्रमाणस्य त्र्यङ्गुलद्व्यङ्गुलाङ्गुलमाना इति ।

हस्तकुण्डे मेखलाः स्युश्चतुस्त्रिद्व्यङ्गुलाः क्रमात् ।
षट्चतुस्त्र्यङ्गुलैः कुर्याद् द्विहस्तेऽपि यथाक्रमम् ॥ ६-१७ ॥

चतुष्करे त्वष्टकषट्चतुष्कैः षड्ढस्तके चापि दशाष्टषड्भिः ।
स्युरङ्गुलैरष्टकरेऽपि कुण्डे ताः षोडशद्वादशकाष्टसङ्ख्यैः ॥ ६-१८ ॥

सर्वाः सर्वेषु कुण्डेषु विस्तारोच्छ्रयतः समाः ।
परितः स्वसमायामा निम्नोन्नतविवर्जिताः ॥ ६-१९ ॥

अत्र भोजराजः –

क्रमेण सर्वकुण्डेषु तिस्रो मेखलाः कुण्डानुरूपेण विधातव्याः इति ।

कुण्डस्य पश्चिमे योनिं कुर्याद् दक्षिणतोऽपि वा ।
मध्यतो मेखलानां तु सर्वासामुपरि स्थिताः ॥ ६-२० ॥

सूर्याङ्गुलायामवती तु योनिरामूलतोऽग्राद् वसुवेददस्रैः ।
विस्तारतः स्यात् क्रमशोऽङ्गुलोच्चा द्राङ्निर्गताग्रापि च रत्निकुण्डे ॥ ६-२१ ॥

अरत्न्यादिषु कुण्डेषु द्व्यङ्गुलं द्व्यङ्गुलं पृथक् ।
क्रमादायामविस्तारवृद्ध्या योनिर्विधीयते ॥ ६-२२ ॥

अत्र भोजराजः –

एवं प्रथमकुण्डस्य । शेषाणां द्व्यङ्गुलवृद्ध्या योनिर्विधातव्ये ति ।

मञ्जर्यां च हस्तमात्रकुण्डस्य –

तालायता जलपतेर्दिशि संस्थिता स्या-
दश्वत्थपत्रसदृशी क्रमशोऽथ निम्ना ।
नाभिर्दशङ्गुलषडङ्गुलतः क्रमेण
विस्तारतश्च चतुरङ्गुलगोलकाग्राः ॥ इति च ।

चतुरश्रं तु वा वृत्तं कुण्डं नित्ये च शान्तिके ।
सार्वकामिकमित्यन्ये चतुरश्रं च वर्तुलम् ॥ ६-२३ ॥

श्रुत्येकांशं तु सीम्नो बहिरपि पुरतोऽथाङ्कयित्वाम्बुनाथे
तन्मानात् सूत्रमन्तर्निहितमुभयतः कोष्ठयोर्भ्रामयित्वा ।
मध्याद्यन्यस्य कर्णान्तिकमपि परतः कोणयोः पूर्वचिह्ने
सूत्रे त्वास्फाल्य योनिप्रतिममपि भवेत् कुण्डमश्वत्थपत्रम् ॥ ६-२४ ॥

चतुरश्रं युगांशांशं कृत्वान्त्यं चोत्तरे त्यजेत् ।
भागं त्वनेन प्राक्प्रत्यग्बहिरङ्कौ निधाय तु ॥ ६-२५ ॥

तद्वद् दक्षिणतो मध्यस्थितसूत्रभ्रमाद् द्वयोः ।
अर्धचन्द्रसमाकारं कुण्डं भवति शोभनम् ॥ ६-२६ ॥

वेदाश्रे चतुरंशके भुजमिते प्रागंशमाप्याद् बहिः
क्षिप्त्वा मध्यमवारुणाङ्कनिहिते सूत्रे द्विधा भ्रामिते ।
स्यातां द्वौ शफरौ तयोश्च पुरतश्चाङ्केऽथ सूत्रत्रयं
क्षिप्त्वा तत्समखाततो भवति तत् कुण्डं त्रिकोणाह्वयम् ॥ ६-२७ ॥

षष्ठांशं पूर्वनिहितं गृहीत्वा नैरृतस्थितम् ।
वायव्यान्ते च सूत्रे द्वे क्षिप्त्वा वा स्यात् त्रिकोणकम् ॥ ६-२८ ॥

मध्यबिन्दुस्थितं सूत्रं प्राग्भुजाद् द्व्यङ्गुलं बहिः ।
परिभ्रम्य भवेत् कुण्डं वर्तुलं तत् सुशोभनम् ॥ ६-२९ ॥

बाह्यस्थं षष्ठमंशं शतमखवरुणाशाश्रितं वेदकोणे
मध्ये संस्थाप्य सूत्रं सममिह तु तयोर्भ्रामयित्वा तु बाह्ये ।
चत्वारस्तत्र मत्स्यास्तदनु धनददिग्दक्षिणस्थे च सूत्रे
तत्रस्थेष्वेषु चिह्नेष्वथ समपतितैः स्यात् षडश्रं हि कुण्डम् ॥ ६-३० ॥

वृत्तकुण्डेऽब्जपत्राणि कुर्यात् तन्मेखलोपरि ।
कुण्डार्धमायतान्यष्टौ मध्ये तत्कर्णिका भवेत् ॥ ६-३१ ॥

पद्मोक्तलक्षणेनैवं कृत्वा स्यात् पद्मसंस्थितिः ।

आदित्याङ्गांशमन्तर्बहिरिह परितो दिक्षु सम्भ्राम्य ताभ्यां
द्वाभ्यां मत्स्यौ भवेतां दिशि दिशि पतितैस्तेषु सूत्रैर्यथावत् ।
कुण्डं स्यादष्टकोणं सुरुचिरमथवाप्यर्धदिक्सूत्रकोणा-
च्छिष्टाप्यैन्द्राच्छरांशात् कृतशफरयुगाज्जातमीनाष्टकैर्वा ॥ ६-३२ ॥

क्षेत्रे त्रिपञ्चाङ्गुलमात्रवृत्तं त्रिभिस्त्रिभिश्चाङ्गुलकैर्विभज्य ।
रेखांशकान् पञ्चदशात्र कुर्यात् कोणान्तराणि त्रिभिरंशकैः स्युः ॥ ६-३३ ॥

स्थित्वा तु बिन्दावथ पञ्चधास्मिन् सूत्राणि सूर्याङ्गुलमायतानि ।
दत्त्वाश्रिमध्येन समं विभक्तैः सूत्रैर्हि कोणद्वयसन्धयः स्युः ॥ ६-३४ ॥

बिन्दोस्तु कोणान्तगसूत्रमानात् सम्भ्राम्य तत्क्षेत्रचतुर्थभागात् ।
बिन्दुस्थसूत्रभ्रमणं विधाय स्युः सन्धयः पञ्च तथात्र सूत्रैः ॥ ६-३५ ॥

पञ्चकोणकुण्डाधिकारः ।

चतुरश्रं तु संसाध्य द्व्यष्टधा विभजेत् पुनः ।
षट्पञ्चाशच्च कोष्ठानां द्विशतं चात्र वै भवेत् ॥ ६-३६ ॥

षण्णां षड्भिस्तु कोष्ठैर्लिखतु सरसिजं मध्यदेशेऽस्य बाह्ये
पङ्क्त्या पीठं च पीठाद् बहिरपि परितः पङ्क्तियुग्मेन वीथीम् ।
तद्बाह्ये पङ्क्तियुग्मे दिशि विदिशि तथा द्वारकण्ठोपकण्ठाद्
गण्डांश्चैवोपगण्डान् रजनिचरमरुद्वह्निशर्वेषु कोणान् ॥ ६-३७ ॥

कण्ठोपकण्ठात् कपोलोपकपोलात् शोभोपशोभा इति केचिदाहुः ।

पद्मक्षेत्रस्थदिक्सूत्रे संस्थाप्यान्यद् विमृज्य तु ।
बहिर्द्वादशकं भागं त्यक्त्वान्यत् परिवर्तयेत् ॥ ६-३८ ॥

क्षेत्रं चतुर्धा विभजेत् तु वृत्तं सूत्रं परिभ्राम्य समं क्रमेण ।
तत्कर्णिकाकेसरपत्रसन्धिच्छदावसानानि भवन्ति तानि ॥ ६-३९ ॥

पूर्वं द्वादशकांशं यत् त्यक्तं तद् भ्रमयेद् बहिः ।
पञ्चमं तद् भवेत् क्षेत्रं व्योमाख्यं तद् दलाग्रकम् ॥ ६-४० ॥

प्रसार्य कोणसूत्रे द्वे कोणदिङ्मध्यमेन तु ।
चत्वारि सूत्राण्यास्फाल्य सूत्रषोडशकं भवेत् ॥ ६-४१ ॥

दलान्तसिद्ध्यै दलसन्धिमध्ये निधाय सूत्रं तु दलान्तमानम् ।
दलान्तरालद्वयसम्भ्रमोत्थैः शशाङ्कखण्डैस्तु दलं प्रसिध्येत् ॥ ६-४२ ॥

पद्मषोडशसूत्राणां मध्यं सूत्रैर्विभज्य तु ।
द्वात्रिंशत् खण्डसूत्राणि स्युर्दलाग्रवृतौ समम् ॥ ६-४३ ॥

दलाग्रसूत्रोदयपार्श्वसूत्रयोरङ्ग्रस्थितं सूत्रमथास्य मूलतः ।
दलाग्रसूत्रान्तमुपानयेल्लिखन्नेवं दलाग्रं तु भवेन्मनोहरम् ॥ ६-४४ ॥

स्याच्छालिपिष्टं सितचूर्णमिष्टं हारिद्रमीषत्सितयुक्सुपीतम् ।
कौसुम्भसिन्दूरकधातुरक्तं दग्धैर्यवाद्यैरपि नीलचूर्णम् ॥ ६-४५ ॥

शम्यब्जबिल्वादिदलैर्यज्ञियैः श्यामलं स्मृतम् ।
तत्तद्वर्णैस्तु वा धान्यैः पूरयेन्मण्डलानि वै ॥ ६-४६ ॥

शक्तस्तु वाञ्छेद् यदि सिद्धिमग्र्यां तद्वर्णरत्नैर्हिह मण्डलानि ।
आपूरयेन्मौक्तिकपुष्यरागैर्माणिक्यनीलैर्हरितैश्च रत्नैः ॥ ६-४७ ॥

एवंविधेषु चूर्णेषु सिद्धिकामो मुक्ताविद्रुमादिकैस्तदेवं कुर्याद् इति भोजराजः ।

रेखास्तु सर्वाः सर्वत्र शुक्लाः स्युर्मध्यमामिताः ।
द्विहस्तेऽङ्गुष्टमात्रा वा हस्ते चानामिकासमाः ।
द्विहस्तेऽङ्गुष्ठमात्राः स्युर्हस्ते मध्यमया मिताः ॥

इत्यन्ये ।

मध्ये सुपीता खलु कर्णिका स्यात् तस्यां तु बीजानि नवासितानि ।
द्वे द्वे पृथक् केसरके दलानां मध्येषु लेख्ये कुटिलाग्रमीषत् ॥ ६-४८ ॥

मूले तनून्यापीतानि मध्ये स्थूलारुणान्यपि ।
अन्ते द्राक् तनुपीतानि तदन्तेऽल्पसितानि वै ॥ ६-४९ ॥

मूलमध्याग्रेषु पीतरक्तशुक्लं केसरजालमि ति भोजराजः ।

शुक्लानि तान्यष्टदलानि कुर्यात् समानि तुङ्गाग्रमनोरमाणि ।
भुक्त्यै तथा प्राञ्जलिकानि मुक्त्यै स्मरादियागेषु शिताग्रवन्ति ॥ ६-५० ॥

अत्राजिते–

दलाग्राण्यपि सर्वाणि रक्तवर्णानि कारयेदि ति ।

गौरीसरस्वत्यादीनां दलान्यश्वत्थपत्रवत् ।
विद्येशानां ग्रहाणां च गोकर्णाग्राणि कारयेत् ॥ ६-५१ ॥

दिक्पालकानामधराग्रकाणि स्युश्चापि नन्द्यादिगणेश्वराणाम् ।
विघ्नेशपद्मोद्भवविष्णुसूर्यस्कन्दादिकानां च यथा शिवस्य ॥ ६-५२ ॥

श्लक्ष्णश्यामेन रजसा दलसन्धीस्तु पूरयेत् ।
पीठान्तरालकोणानि संरक्तान्येव कारयेत् ॥ ६-५३ ॥

पीठं तु शुक्लारुणपीतकृष्णैः पादैस्तथा नीलककीलशोभम् ।
गात्रैश्चतुर्भिस्तु विचित्रवर्णैः कुर्याद् यथेष्टं त्वथवापि वर्णैः ॥ ६-५४ ॥

अत्र तत्त्वसागरे –

पीठं कोष्ठद्वयं दिक्षु लोप्यं, तथा कोणे त्रीणि त्रीणि विलोपयेद् इति ।

वीथीं लतावितानाद्यैः पत्रकैश्चोपशोभयेत् ।
तद्बाह्ये दिक्षु शुक्लेन चतुर्द्वाराणि पूरयेत् ॥ ६-५५ ॥

दिक्सूत्रकाणामुभयत्र कोष्ठे द्वारार्थमभ्यन्तरपङ्क्तिसंस्थे ।
तद्बाह्यपङ्क्तौ द्वितयद्वयं तत् षट्कोष्ठमित्थं विमृशेद् दिशासु ॥ ६-५६ ॥

कोष्ठत्रयं त्रयं चान्तर्द्वाराणां पार्श्वयोर्द्वयोः ।
ऐक्येन शोभासिद्ध्यर्थमेकैकं विमृजेद् बहिः ॥ ६-५७ ॥

एवं पृथक्कोष्ठचतुष्कवन्तः कण्ठोपकण्ठाः प्रभवन्ति चाष्टौ ।
तत्पार्श्वतस्तद्विपरीतवक्त्रास्तद्वत् कपोलोपकपोलकाः स्युः ॥ ६-५८ ॥

ततः कोणेषु शिष्टानि षट्कोष्ठानि पृथक् पृथक् ।
विमुक्त्यै कोणसिद्ध्यर्थं वृषभानेषु वा लिखेत् ॥ ६-५९ ॥

नीलेनाच्छाद्य कोणांस्ताञ्छाखान् शुक्लेन वा लिखेत् ॥ ६-६० ॥

कण्ठोपकण्ठान् रक्तेन कपोलोपकपोलकान् ।
पीतेनाच्छादयेदभौ(?) यथा भूमिर्न दृश्यते ॥ ६-६१ ॥

बहिर्गुणाद् वै परितः क्रमोक्ताल्लिखेत् ततः सत्त्वरजस्तमांसि ।
रजोभिरङ्गुष्ठमितांस्तु शुक्लारुणासितान् मध्ययवान्तरांस्तान् ॥ ६-६२ ॥

भद्रकाधिकारः ।

चतुरश्रेऽष्टधा भक्ते चतुःषष्टिपदे कृते ।
मध्ये कोष्ठचतुष्केण पद्मं पीठं च संलिखेत् ॥ ६-६३ ॥

तद्बाह्यपङ्क्त्या खलु वीथिका स्यात् तद्बाह्यपङ्क्तिद्वयदिक्चतुष्के ।
द्वाराणि कोष्ठैः खलु वेदसङ्ख्यैः सम्मृज्य शुक्लानि समानि कुर्यात् ॥ ६-६४ ॥

द्वाराणां पार्श्वयोर्बाह्यपङ्क्तावेकैककोष्ठकम् ।
द्वारेणायोज्य विमृजेत् स्यातां कण्ठोपकण्ठकौ ॥ ६-६५ ॥

संस्थाप्य कोणेष्वथ कोष्ठमेकं शिष्टैः पृथक् कोष्ठकपञ्चकैः स्युः ।
एकीकृतैर्वेदकपोलकास्ते तावन्त एवोपकपोलकाश्च ॥ ६-६६ ॥

अत्राजिते –

कपालं तु भवेत् तेषु पदं पूर्वापरायतम् ।
दक्षिणोत्तरगं चापि भवेदुपकपोलकम् ॥ इति ।

प्रागुक्तमार्गेण तु कर्णिकाद्यं चापूर्य वीथिं च यथोक्तवर्णैः ।
द्वाराणि शुक्लेन कपोलकास्ते रक्तास्तथा पतिरुचोऽध च स्युः ॥ ६-६७ ॥

अत्राजिते बृहत्कालोत्तरे च –

कपोलोपकपोलास्तु वह्निकोणादिषु क्रमात् ।
रक्तं पीतं तथा श्यामं श्वेतं च परिकल्पयेत् ॥ इति

वह्न्यादिकोणकोष्ठानि पीतश्यामासितारुणैः ।
पूरयेद् वाथ सर्वाणि कृष्णेन परिपूरयेत् ॥ ६-६८ ॥

बाह्ये तु शुक्लारुणकृष्णवर्णैः प्राग्वत् समालिख्य गुणत्रयं तत् ।
स्यात् सर्वतोभद्रमिदं तु कोणे षट्कोष्ठकैकीकरणेन भद्रम् ॥ ६-६९ ॥

मण्डलेष्वपि सर्वेषु शुक्लान्यब्जदलानि तु ।
द्वाराणि चाथ वीथी स्याल्लताद्यैरविशेषिते ॥ ६-७० ॥

सर्वतोभद्राधिकारः ।

द्वात्रिंशदंशे चतुरश्रकेऽस्मिन् सहस्रकं सङ्कृतिसङ्ख्यकं च ।
कोष्ठानि तन्मध्यगतत्त्वसङ्ख्यैः कोष्ठैः सरोजं तु लिखेत् पुरोवत् ॥ ६-७१ ॥

तद्वाह्यपङ्क्त्या पीठं स्यात् तद्बाह्ये सप्तपङ्क्तिभिः ।
लिङ्गाष्टकं तु विलिखेद् दिक्सूत्रोभयपार्श्वयोः ॥ ६-७२ ॥

ऋतुवेदाक्षिवेदर्तुकोष्ठैः स्यात् तिर्यगायतैः ।
पीठं सकण्ठं ब्रह्मादिजलपादान्तक शुभम् ॥ ६-७३ ॥

पीठोपरिष्टात् खलु मध्यपङ्क्त्योर्युग्मस्थतत्कोष्ठचतुष्टयेन ।
लिङ्गं भवेत् तद्गतमध्यसूत्रान्मध्यान्तसंवर्तितमस्तकं वा ॥ ६-७४ ॥

अन्तर्मुखानि लिङ्गानि बुभुक्षूणां समालिखेत् ।
विपरीतं मुमुक्षूणामन्तःपीठानि कारयेत् ॥ ६-७५ ॥

तत्कण्ठपीठोभयपार्श्वसंस्थे भद्रे चतुष्कोष्ठवशाद् भवेताम् ।
लिङ्गान्तरालेष्वपि पञ्चविंशैः कोष्ठैस्तु कोणेषु लता विधेयाः ॥ ६-७६ ॥

गोमूत्रिकावत् संस्पृष्टा रेखास्तत्कोष्ठगा यथा ।
तथान्यरेखालोपेन लताः स्युर्विदिगायताः ॥ ६-७७ ॥

अश्र्यन्तरेषु वल्लीनां पत्राण्यप्यथवा लिखेत् ।
वल्ल्यादौ सक्तमूलानि कुटिलाग्रादिकान्यपि ॥ ६-७८ ॥

तद्बाह्ये पङ्क्तियुग्मेन वीथीं प्राग्वत् तु मार्जयेत् ।

वीथीं तथा कल्पलताविशेषैराभूष्य तद्बाह्यवृतित्रयेऽपि ।
कोष्ठानि वेदर्तुवसुप्रसङ्ख्यं द्वारार्थमन्तः प्रभृतीह लुम्पेत् ॥ ६-७९ ॥

शोभोपशोभेऽपि स्यातां द्विचतुष्षड्विलोपतः ।
त्रिःसप्तकोष्ठानि पृथक् कोणे कोणे तु मार्जयेत् ॥ ६-८० ॥

पद्मादिकं भद्रकवत् तु सर्वमाभूषयेत् पञ्चविधैस्तु चूर्णैः ।
लिङ्गाष्टकं पञ्चमुखोक्तवर्णैरिच्छानुरूपं परिपूरयेद् वा ॥ ६-८१ ॥

इतीदं पार्वतीकान्तमुक्तं प्रासादमण्डलम् ।
अष्टलिङ्गलतापद्मवीथीप्राकारमण्डितम् ॥ ६-८२ ॥

पार्वतीकान्तप्रासादाधिकारः ।

चतुरश्रं चतुर्हस्तं क्षेत्रं विंशतिभागिकम् ।
स्याच्चतुःशतकोष्ठं तन्मध्येऽब्जं तत्त्वकोष्ठकैः ॥ ६-८३ ॥

पङ्क्त्यैकया पीठमथैकया स्याद् बीथी ततः पङ्क्तिचतुष्टयेन ।
तद्द्वारलिङ्गैः परितो लताः स्युस्तद्बाह्यपङ्क्त्यापि च बाह्यवीथी ॥ ६-८४ ॥

कुर्याद् भद्रकवत् पद्मपीठबीथीर्यथाविधि ।
प्रतिपङ्क्तिद्विकोष्ठाष्टकोष्ठैर्द्वाराणि दिक्ष्वपि ॥ ६-८५ ॥

वीथ्यन्तरा द्वारनिबद्धकोष्ठत्रयेण भूपीठमथैककोष्ठम् ।
स्यात् कण्ठपीठं त्वथ तोयपट्टं कोष्ठैस्त्रिभिर्लिङ्गमथैककोष्ठम् ॥ ६-८६ ॥

अधश्चोर्ध्वं च तत्कोष्ठात् पीठकोष्ठचतुष्टये ।
कोष्ठान्तः कोणगं सूत्रं कोष्ठसूत्रार्धमानतः ॥ ६-८७ ॥

भ्रमयित्वा त्यजेद् बाह्ये खण्डिताश्रिचतुष्टयम् ।
पीठमेवं भवेद् रम्यं द्वादशाश्रैरलङ्कृतम् ॥ ६-८८ ॥

प्राग्वत् समापूर्य तु वर्णचूर्णैः पद्मादिवीथ्यन्तमशेषबिम्बम् ।
ख्यातं लतालिङ्गसमुद्भवाख्यं तन्मण्डलं शङ्करवल्लभं यत् ॥ ६-८९ ॥

लतालिङ्गोद्भवाधिकारः ।

क्षेत्रे षोडशधाभक्तचतुरश्रे चतुर्दिशम् ।
पार्वतीकान्तवत् कोष्ठैः कुर्याल्लिङ्गचतुष्टयम् ॥ ६-९० ॥

मध्ये विशिष्टैरपि वेदकोष्ठैर्लिङ्गान्तरालेष्वपि तत्प्रसङ्ख्यैः ।
चतुर्दलाब्जं खयमेव तैः स्याल्लिङ्गेषु संवर्तितमस्तकेषु ॥ ६-९१ ॥

भद्राष्टकं स्यात् कण्ठेषु लताः कोणेषु पूर्ववत् ।
लिखित्वा मण्डलं तत् स्यात् पञ्चब्रह्माभिधानकम् ॥ ६-९२ ॥

मध्येऽम्बुजे वर्तुलकर्णिका स्यात् पीता च रक्ता तनुकेसराली ।
ईशस्तु मध्ये पुरुषादयोऽपि खवर्णदिग्लिङ्गगता भवन्ति ॥ ६-९३ ॥

अस्यैव तु लतास्थानेष्वालिख्य स्वस्तिकानि तु ।
कोणार्धपङ्क्त्योर्वीथी स्याद् गौरीतिलकमण्डले ॥ ६-९४ ॥

नाभेः समीपे प्रथमं तु कोष्ठं वक्रायतं द्वेऽथ पुनर्विलुम्पेत् ।
तद्दक्षिणावर्तचतुष्पथाङ्कं स्यात् स्वस्तिकं चान्तरवीथियुक्तम् ॥ ६-९५ ॥

श्यामपीतासितारक्तैर्मार्गानाभूषयेत् क्रमात् ।
खण्डवीथीस्तु शुक्लेन लिङ्गादन्येन भद्रके ॥ ६-९६ ॥

पञ्चब्रह्ममण्डलगौरीतिलकाधिकारः ।

क्षेत्रे तथाष्टादशधा विभक्ते कोष्ठानि चास्मिन् त्रिशतं च वेदैः ।
विंशत्यपि स्यात् खलु तत्त्वसङ्ख्यैर्मध्ये सरोजं विलिखेत् पुरोवत् ॥ ६-९७ ॥

अष्टाशास्वपि षट्त्रिंशत्कोष्ठैः स्युः स्वस्तिकान्यपि ।
एकं त्रीणि ततः पञ्च कोष्ठलोपक्रमः स्मृतः ॥ ६-९८ ॥

एतत् खलु स्वस्तिकमण्डलाब्जं क्षेत्रेऽथवा द्वादशभागितेऽस्मिन् ।
मध्येऽम्बुजं षोडशकोष्ठकैः स्यात् स्युः स्वस्तिकान्यष्टदिशासु तद्वत् ॥ ६-९९ ॥

स्वस्तिकान्यपि पद्मं च प्राग्वदापूर्य वर्णकैः ।
स्वस्त्यर्थं स्वस्तिकं शस्तं सर्वदेवाभिनन्दनम् ॥ ६-१०० ॥

स्वस्तिकाब्जद्वयाधिकारः ।

क्षेत्रे तथाष्टादशभागिकेऽस्मिन् तन्मध्यगः स्वस्तिकनाभिमादौ ।
सङ्कल्प्य लुम्पेत् तु चतुष्पथाभं समन्ततः कोष्ठकपञ्चकानि ॥ ६-१०१ ॥

कोष्ठमात्रायता रेखाः कुटिलाः स्वस्तिकाकृतौ ।
परस्परपयोधिन्यः स्थाप्याः स्युः शेषलोपतः ॥ ६-१०२ ॥

पञ्चाशदस्मिन् खलु सप्तकं च स्यात् स्वस्तिकानां सह चार्कभद्रैः ।
मध्ये द्विपञ्चाशदपि द्वयं च स्यात् सर्वतोभद्रचतुष्पथानाम् ॥ ६-१०३ ॥

कोणेषु चैककोष्ठानि शिष्टान्याभूषयेत् सितैः ।
नीलपीतारुणश्यामैर्भद्राण्यपि चतुष्पथान् ॥ ६-१०४ ॥

एतद्धि सर्वतोभद्रस्वस्तिकं नाम मण्डलम् ।
सर्वस्वस्तिकमित्येते प्राहुर्यच्छिवयोः प्रियम् ॥ ६-१०५ ॥

क्षेत्रेऽथवा षोडशधा विभक्ते मन्वर्कदृग्वस्वृतुभेदिते वा ।
प्राग्वद् विलोमात् खलु मण्डलानि स्युः सर्वतः स्वस्तिकभद्रवन्ति ॥ ६-१०६ ॥

स्वस्तिकसर्वतोभद्राणि ।

चतुरश्रे द्विहस्ते तु चक्राब्जं पीठवर्जितम् ।
स्यादेकनाभं तल्लक्ष्म भवेन्मानाङ्गुलक्रमात् ॥ ६-१०७ ॥

निधाय सूत्रं त्वथ मध्यबिन्दौ पद्मार्धमानेन नवाङ्गुलेन ।
त्रिभिश्च वस्वब्धिमितैर्भ्रमैस्तैः सरोरुहं नाभ्यरनेमयः स्युः ॥ ६-१०८ ॥

पद्मं पुरोवदालिख्य नाभिं पीतेन पूरयेत् ।
दलतुल्यारके चक्रे दलरेखाः प्रसार्य तु ॥ ६-१०९ ॥

लिखेत् ततस्तेष्वरकान् यथावद् दलाद् द्विसङ्ख्येष्वरकेषु तद्वत् ।
दलाग्रसूत्रैर्दलसन्धिसूत्रैः प्रसारितैस्तावदिहारकाः स्युः ॥ ६-११० ॥

विभज्यारभुवं त्रेधा द्वाभ्यामन्तरथाङ्कयेत् ।
मत्स्यवत् तेष्वथास्फाल्य सूत्राण्येषु लिखेदरान् ॥ ६-१११ ॥

इन्दीवराश्वत्थदलोपमा वा ते मातुलुङ्गाकृतयोऽथवा स्युः ।
अब्जच्छदाभाश्च यवोदरा वा मध्यैः कृशैर्वाथ पिपीलिकाभाः ॥ ६-११२ ॥

अरकास्त्वरुणाः श्यामास्ते स्युरेकान्तराः क्रमात् ।
अन्ते गोरोचनाभाः स्युः पीताः स्युररसन्धयः ॥ ६-११३ ॥

नेमिं त्रिधा सम्प्रविभज्य कुर्याच्छुक्लेन मध्ये त्वसितेन बाह्ये ।
पीतेन चान्तः परिपूर्य कोणान् कृष्णेन सस्वस्तिकचिह्नरम्यान् ॥ ६-११४ ॥

अरसन्ध्यन्तरालस्थो बहिर्नेमेः परिभ्रमेत् ।
अरसन्धेस्तु मध्यस्थो भ्रमयेदरमूलकम् ॥ ६-११५ ॥

मध्येऽरकाणां स्थित्वा तु भ्रमयेदरमध्यकम् ।
मातुलुङ्गफलाकारा एवं सिध्यन्त्यराः क्रमात् ॥ ६-११६ ॥

अराग्रसंस्थस्त्वरसन्धिमूलात् सूत्रं तथारोभयपार्श्वसंस्थम् ।
पृथक् समास्फाल्य तथारकाः स्युर्विस्तारितेन्दीवरपत्रकल्पाः ॥ ६-११७ ॥

अरमध्यस्थितोऽराग्रं किञ्चित् त्यक्त्वाब्जपत्रवत् ।
अरसन्धेर्भ्रमाच्चाग्रभ्रमादब्जदलारकाः ॥ ६-११८ ॥

शान्ताग्रमूलाः पृथवस्तु मध्ये कार्यास्तृतीयांशतयारसन्धेः ।
अन्तः प्रविष्टास्तु यवोदराख्याः सिध्यन्ति ते स्युः क्रमशः शिताग्राः ॥ ६-११९ ॥

त्रिधा विभज्यारक्षेत्रं द्वितीयप्रथमांशयोः ।
मध्ये स्थित्वा परिभ्रम्य तृतीयांशे दलाग्रवत् ॥ ६-१२० ॥

अर्धचन्द्राभरेखाभ्यां पत्राग्रं च समालिखेत् ।
इत्थमश्वत्थपत्राभास्तत्राराः सम्भवन्ति हि ॥ ६-१२१ ॥

स्थित्वारसन्धेरथ मध्यमांशे तिर्यग्भ्रमाच्चोभयतोऽरकार्घात् ।
रेखाद्वयान्तः कृशमध्यकाः स्युः पिपीलिकाक्रोडसमाह्वयाराः ॥ ६-१२२ ॥

अरसन्ध्यन्तरा पुष्पैर्विचित्रैरभिभूष्य तु ।
बिम्बबाह्येऽथवा लिप्ते पुष्पालीभिर्विभूषयेत् ॥ ६-१२३ ॥

उक्तं तु चक्राम्बुजमेकनाभं प्रियं शिवार्याहरिभास्कराणाम् ।
अन्यानि च स्युर्नवनाभकान्तान्यूह्यानि चक्राम्बुजमण्डलानि ॥ ६-१२४ ॥

चक्राब्जाधिकारः ।

कर्णिकार्धप्रमाणेन प्राक्स्थसूत्रभ्रमक्रमात् ।
तद्रेखापार्श्वयोगेन मत्स्यद्वादशकं भवेत् ॥ ६-१२५ ॥

सूत्रेषु तेष्वापतितैर्यथावत् सन्धिस्थसूत्रैर्दिनकृच्छताब्जम् ।
अष्टच्छदाब्जस्य समप्रभेदात् स्यदम्बुजं षोडशपत्रशोभम् ॥ ६-१२६ ॥

केसरव्योमरेखान्तसूत्रात् तत्केसराग्रगात् ।
मत्स्यवल्लाञ्छयित्वा स्यात् पञ्चपत्रं तु पङ्कजम् ॥ ६-१२७ ॥

कर्णिकादलसन्धिभ्यां प्राग्वत् षट्पत्रसिद्धये ।
व्योमरेखाकर्णिकाभ्यां दलाग्रस्थं तु सप्तके ॥ ६-१२८ ॥

दलसन्धिकर्णिकाभ्यां दलसन्धौ न्यस्य मत्स्यचिह्नेन ।
नवदलकं स्यात् सूत्रैः पञ्चभिरास्फाल्य पङ्क्तिपत्रं स्यात् ॥ ६-१२९ ॥

केसराकाशयोर्मध्यं व्योम्नि विन्यस्य लाञ्छयेत् ।
एकादशच्छदं त्वेवं पद्मं स्यात् सूत्रपाततः ॥ ६-१३० ॥

पत्राग्रपत्रसन्धिभ्यां पत्राग्रे न्यस्य लाञ्छिते ।
आस्फाल्य तेषु सूत्राणि तत् स्यादभिकृतिच्छदम् ॥ ६-१३१ ॥

अतः परं चेद् दलवृद्धिमिच्छेद् दिशानयैवात्र यथाक्रमेण ।
तदूहतो मध्यवशेन सूत्रैर्लिखेत् सरोजानि यथाभिलाषम् ॥ ६-१३२ ॥

दलभेदलक्षणम् ।

अर्धचन्द्रादिकुण्डानां लक्ष्मणा सूत्रपाततः ।
अर्धचन्द्रादिबिम्बानि कुर्यात् कामानुसारतः ॥ ६-१३३ ॥

वेदाश्रिके दिग्विदिगन्तरे स्युर्द्व्यष्टसूत्रैः पतितैस्तु दीर्घैः ।
द्वात्रिंशदंशाः परितोऽथ तेषु क्षेत्राणि पञ्च भ्रमणाद् भवन्ति ॥ ६-१३४ ॥

अष्टाङ्गुलैः स्यात् कमलार्धमादौ त्रिभिस्तु पीठं त्रिभिरेव नाभिः ।
वीथीश्चतुर्भिस्तु षडङ्गुलैः स्युर्द्वाराणि शोभास्त्वपि चोपशोभाः ॥ ६-१३५ ॥

प्राग्वत् सरोजं त्विह वृत्तपीठं नाभिर्गुणैर्हंसशराब्जशङ्खैः ।
वीथिर्भवेद् वारचतुष्टयाढ्यं वर्णक्रमाद् भद्रकवद् विधेयम् ॥ ६-१३६ ॥

द्वारादिषु विशेषोऽत्र स्यात् तत्क्षेत्रं द्विधा भ्रमात् ।
अन्तर्वेदांशकैर्बाह्यैर्द्वाराणि स्युः षडंशकैः ॥ ६-१३७ ॥

प्राग्वच् शोभोपशोभे स्तां कोणलक्ष्मापि कथ्यते ।
अन्तर्मुखास्ते कलशास्तु कोणा वेदांशवक्त्रा द्वितयांशकण्ठाः ।
तत्कोणपार्श्वान्तविवर्तने स्युः पृथूदरावर्तितविष्टरान्ताः ॥ ६-१३८ ॥

मायाचक्राह्वयं त्वेवं शक्तीनां मण्डलं स्मृतम् ॥ ६-१३९ ॥

मायाचक्राधिकारः ।

वक्ष्येऽथ बिम्बं त्रिपुराभिधानं क्षेत्रं तु कुर्याच्चतुरश्रदीर्घम् ।
युक्त्या पुरोवच्च परैश्च सूत्रैः स्याद् द्वित्रिहस्तायतविस्तृतं तत् ॥ ६-१४० ॥

प्रागायतं त्रयस्त्रिंशत्सूत्राण्यत्र निपातयेत् ।
याम्योदगायतं सप्तचत्वारिंशच्च सङ्ख्यया ॥ ६-१४१ ॥

कोष्ठानि चास्मिन्नथवर्य(?)सङ्ख्यं
मध्येऽस्य कोष्ठैरपि तत्त्वसङ्ख्यैः ।
स्यात् पङ्कजं तत्परितस्तु पङ्क्तिं
त्यक्त्वास्य पूर्वापरतोऽम्बुजे स्ताम् ॥ ६-१४२ ॥

परितोऽब्जत्रयस्यात्र पङ्क्तिमेकां विलोपयेत् ।
चतुरश्राकृतिर्दीर्घा सा चान्तर्वीथिसञ्ज्ञिता ॥ ६-१४३ ॥

तद्बाह्यपङ्क्त्या परितस्तु पीठं कोष्ठैस्तथा पञ्चभिरस्य कोणात् ।
कुर्याच्च पूर्वापरदक्षिणोदग्गात्राणि वस्वष्टचतुष्कवेदैः ॥ ६-१४४ ॥

कोणागात्रकमध्येषु पञ्च कोष्ठानि लोपयेत् ।
पीठमेकं त्रिपद्मानां स्याद् दीर्घचतुरश्रकम् ॥ ६-१४५ ॥

तद्वाह्ययाम्योत्तरपूर्वपश्चाल्लिङ्गानि षट्सप्तककोष्ठकैः स्युः ।
तिर्यग्रसैस्तद्दिशि सप्तपाङ्क्तैः कोष्ठैर्यथोक्तं चतुरश्रकेषु ॥ ६-१४६ ॥

लिङ्गानां पार्श्वयोर्द्वन्द्वे चतुरश्रे विलोपयेत् ।
पृथक्पृथग्वै षट्त्रिंशत्कोष्ठैस्तानि भवन्ति हि ॥ ६-१४७ ॥

तद्वत् कोणचतुष्केषु षट्त्रिंशत्सङ्ख्यकोष्ठकैः ।
दीर्घेषु चतुरश्रेषु नृत्यद्धंसान् समालिखेत् ॥ ६-१४८ ॥

रक्तानि पद्मच्छदनानि लक्ष्मीजयार्थसौभाग्यकराणि कुर्यात् ।
शुक्लानि विद्याकवितादिसिद्ध्यै शेषं पुरोवत् खलु कर्णिकाद्यम् ॥ ६-१४९ ॥

अन्तर्वीथीं तु पीतेन चतुरश्रेष्वथाष्टसु ।
शङ्खौ चक्रे च संलिख्य चत्वार्यब्जानि चालिखेत् ॥ ६-१५० ॥

वीथ्यां लता स्यात् परिशिष्टपङ्क्तित्रयेण दिग्द्वारचतुष्टयाद्यम् ।
लुम्पेत् षडष्टौ दश कोष्ठकानि द्वारद्वये दक्षिणतश्च सौम्ये ॥ ६-१५१ ॥

शोभोपशोभासिद्ध्यर्थं कोष्ठान्युत्तरयाम्ययोः ।
चतुःषडष्टौ प्रागाप्ये द्वे चतुःषट् च लोपयेत् ॥ ६-१५२ ॥

द्वारे प्राक्पश्चिमे स्यातां वेदर्तुवसुकोष्ठकैः ।
त्रिसप्तकोष्ठैः कोणाः स्युस्तत्पादाश्चर्तुकोष्ठकैः ॥ ६-१५३ ॥

त्रिपुरामण्डलाधिकारः ।

क्षेत्रे विंशतिधा द्विधा पुनरिदं निर्भिद्य वेदाश्रकं
कोष्ठानां खलु षट्शतं दशशतं चात्रास्ति तन्मध्यतः ।
षट्त्रिंशत्कचतुष्टयेन तु भवेल्लिङ्गं सपीठं महत्
तत्त्रिंशद्द्वयनागषोडशमितैः कोष्ठैस्तु पीठादिकम् ॥ ६-१५४ ॥

पङ्क्तिं तत्परितो विमृज्य तु बहिःपङ्क्त्या च पीठं भवेत्
तद्बाह्ये मुनिपङ्क्तितत्त्वगणनाकोष्ठैः पृथक् पूर्ववत् ।
पद्मानि क्रमशोऽष्टदिक्षु विलिखेल्लिङ्गे च तत्पार्श्वयोः
षड्भिर्विंशतिकोष्ठकैश्च परितः पङ्क्तिद्वयाद् वीथिकाः ॥ ६-१५५ ॥

ईशानादिब्रह्मवर्णानि चास्मिन् लिङ्गानि स्युः शिष्टलिङ्गानि पद्मात् ।
व्यस्तैर्वर्णैः शुक्लरक्ताच्छरक्तैः प्रागाद्यब्जे संलिखेदुक्तमार्गान् ॥ ६-१५६ ॥

संयुक्तान् क्रमशः प्रदक्षिणमथो वीथ्यां तु शङ्खाल्लिखे-
च्छुक्लाभान् यदि मण्डलं भवति तद्यच्छङ्खमालाह्वयम् ।
हंसाश्चेदिह हंसमालमृतुभिः स्यादष्टदिक्संस्थितै-
र्द्वाराणि त्रिशरांश्च कोष्ठविहिताः शोभाश्च पङ्क्तित्रये ॥ ६-१५७ ॥

कोणाः स्युः सप्तविंशत्या कोष्ठानां तत्त्रिपङ्क्तिषु ।
कृष्णेनाच्छाद्य तत्रापि स्वस्तिकाब्जादिकं लिखेत् ॥ ६-१५८ ॥

लिङ्गोदरशङ्खमालाद्यधिकारः ।

चक्राब्जादितराणि शक्तिशिवयोः पूजासु दीक्षादिके
शस्तान्यत्र पवित्रकादिषु तथा सस्वस्तिलिङ्गान्यपि ।
चक्राब्जान्यपि भद्रकाणि सवितुर्विष्णोश्च लक्ष्म्या विधेः
शक्तीनां त्रिपुराख्यशङ्खकलशा मायाम्बुजं चोदितम् ॥ ६-१५९ ॥

यथोदितस्तु शक्तिनां तथेन्द्रस्मरभोगिनाम् ।
विघ्नेशानलषड्वक्त्राः पूज्याः स्युः स्वस्तिकेष्विह ॥ ६-१६० ॥

सर्वे सर्वेषु वा पूज्यास्तत्तत्कर्मानुसारतः ।

इति कुण्डमण्डलविधिः प्रधानतः कथितः शिवादिसुरपूजनोचितः ।
बहुधा निरूप्य विविधान् शिवागमानिह साधकेन्द्रमानसां प्रियङ्करः ॥ ६-१६१ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे कुण्डमण्डलविधिः षष्ठः पटलः ।