०५

अथ पञ्चमः पटलः

अथ मन्त्रजपार्चनाहुताद्यैर्विविविधानामपि कर्मणां तु युक्त्या ।
पृथगत्र हिताय साधकानां कथयिष्ये निखिलेन साधनाद्यम् ॥ ५-१ ॥

कथिताः खलु तत्त्वसागरादौ विधयः पल्लवयोगरोधनाद्याः ।
हरितश्च सदेशकालयुक्त्या विविधद्रव्यदिनासनादिकुण्डैः ॥ ५-२ ॥

अपि पल्लवयोगरोधनानि ग्रथनं सम्पुटकं विदर्भणं च ।
इति कर्मसु योजनं हि षोढा मनुवर्णैः सह साधकार्णयुक्त्या ॥ ५-३ ॥

मनुरन्तनिविष्टसाधकाख्यः कथितः पल्लवमादितस्तु योगः ।
उभयत्र मनोस्तु नामरौधौ ग्रथनेऽर्णान्तरितं द्वयोः क्रमेण ॥ ५-४ ॥

उभयत्र तु साधकस्य मन्त्रो विनिविष्टो यदि सम्पुटं तदाहुः ।
मनुवर्णयुगेन साधकार्णं यदि चैकं क्रमशो विदर्भणं स्यात् ॥ ५-५ ॥

ग्रहभूतपिशाचनिग्रहादौ विषसंहारविनाशमारणेषु ।
अरिचाटनसादनेषु तेषामपि विद्वेषविधौ च पल्लवं स्यात् ॥ ५-६ ॥

परमोहनकर्मणां तु रोधः परसंस्तम्भनकेषु योगमाहुः ।
जनशीलनकेषु सम्पुटं स्याद् वशकृच्छान्तिकपुष्टिदो विदर्भः ॥ ५-७ ॥

पल्लवाद्यधिकारः

वृषशान्तिकपौष्टिकेषु पूर्वा त्वनलाशा खलु चाटने ज्वरे च ।
ननु मारणमोहयोर्यमाशा कथिता द्वेषणकेषु राक्षसाशा ॥ ५-८ ॥

जलदिग् जलवृष्टिदाहशान्त्यां भ्रमणस्तम्भनयोश्च मारुताशा ।
शिववाग्यजनेषु वश्यकृत्ये धनदाशा कथितेशदिग् विमुक्त्यै ॥ ५-९ ॥

शिवदक्षिणमूर्तिपश्चिमाशा मुखशर्वालयगोष्ठपुण्यनद्यः ।
परदेवहुताशविप्रगेहैर्वनशैलाः खलु शान्तिकेषु देशाः ॥ ५-१० ॥

वटपिप्पलबिल्वमूलदेशाः प्रथमोक्ताः शुभपौष्टिकेषु शस्ताः ।
अपि कर्षणवश्यकर्मणोस्ते खलु शस्ताः स्वगृहादिकं च रम्यम् ॥ ५-११ ॥

परिशोध्य भुवं तु शल्यहीनां गतलोष्टात्ममषीतुषादिदोषाम् ।
सिकतासममृत्स्नयाभिपूर्णां मुकुराभामुदगिन्द्रदिक्प्लवान्ताम् ॥ ५-१२ ॥

अभिपूजितवास्तुपधिदैवां सुरभेः सूतकरोगवर्जितायाः ।
गगनात्तनवेन गोमयेनाप्युपलिप्याम्बरगालितैश्च तोयैः ॥ ५-१३ ॥

प्रकृतानुगुणं तु तत्र कुर्यात् परिशुद्धेष्टकदारुबल्बजाद्यैः ।
अपि यज्ञियसाधनैर्यथेष्टं मठशालादिकमिष्टदण्डमानम् ॥ ५-१४ ॥

परमाणुरजः कचश्च लिक्षाः सहयूकाश्च यवाः क्रमाष्टसङ्ख्याः ।
यवकोटरकोष्ठकं तु तिर्यक् खलु मानाङ्गुलमिष्यते स्म तन्त्रे ॥ ५-१५ ॥
प्रवदन्ति वितस्तिका द्विषट्कैरिति मानाङ्गुलकैर्वितस्तियुग्मम् ।
कथयन्ति हि किष्कुसञ्ज्ञहस्तं निपुणा हस्तचतुष्टयं च दण्डम् ॥ ५-१६ ॥

धनुरित्यपि दण्ड एव तेषां धनुषामष्टकमुच्यते हि रज्जुः ।
मुरतारसुराङुलैः प्रजेशं सधनुर्मुष्टि धनुर्गृहे च विद्यात् ॥ ५-१७ ॥

ऋजुमध्यमपर्वमध्यमायास्त्विह मात्राङ्गुलमिष्यते तदान्यत् ।
भवनादिषु पूर्वमङ्गुलं स्यात् खलुं मात्राङ्गुलमेव साधनेषु ॥ ५-१८ ॥

गृहविस्तृतिदैर्घ्यदण्डपूगं त्रिगुणं तद्वसुभक्तशिष्टदण्डाः ।
क्रमशो ध्वजधूमकेसरिश्ववृषभाः स्युः स्वरहस्तिवायसाख्याः ॥ ५-१९ ॥

ध्वजसिंहवृषेभलक्षणाः प्राग्यमनीरेशधनेशदिक्षु शालाः ।
अपि मध्यगृहे समे च वृत्ते सममेतच्छुभदण्डमेव कुर्यात् ॥ ५-२० ॥

अपि चाटनमारणादिकानामशुभानामिह कर्मणां प्रयोगे ।
ननु वायसगर्दभश्वधूमैरधिदण्डं भवनदिकां विधेयम् ॥ ५-२१ ॥

विषवृक्षपरेतभूमिकाष्ठैरशुभैः कण्टकिभिश्च तत्र शालाः ।
यमवह्निनिशाटदिक्प्लवा भूर्निखिलक्षुद्रविधौ विशेषरौद्राः ॥ ५-२२ ॥

विपिनानि चिता स्वयम्भुवैकं शिवलिङ्गं भवनं करालिकायाः ।
महिषासुरमर्दिनीनिवासोऽप्यभिचारेषु निरालयाश्च शस्ताः ॥ ५-२३ ॥

अचलाश्च विविक्तनिर्जला ये मुसलस्त्रीशिशुशब्दवर्जिताः स्युः ।
अशुभेषु शुभेषु चापि देशाः परिहीणान्त्यजरासभाश्वशूर्पाः ॥ ५-२४ ॥

कृकवाकुविलालजुष्टदेशे जपहोमादि कृतं फलाय न स्यात् ।
विधवा विकलाश्च पापिनो वाप्यृतुमत्यश्च निहन्ति कर्म सर्वम् ॥ ५-२५ ॥

शुभकर्मसु कन्यकाश्च सत्यः शुभलक्ष्मप्रबराङ्गनाश्च विप्राः ।
ध्वनयोऽपि गवाश्वकुञ्जराणां फलदाः स्युः सह शङ्खवाद्यगीतैः ॥ ५-२६ ॥

अभिचारविधौ तु कन्यकाद्या विधवाद्याश्च गवाश्ववेदघोषाः ।
अपहन्युरिमे प्रयोगशक्तिं सुतरां माङ्गलिकानि तत्प्रदेशे ॥ ५-२७ ॥

विजनेषु विशेषतोऽभिगुप्तेऽनतिदूराद् विविधाप्तरक्षिवर्गैः ।
विपिनादिपुरोक्तलक्षणेऽन्यैर्यददृष्टे विदधातु मारणाद्यम् ॥ ५-२८ ॥

ह्रदिनीनदसह्यविन्ध्यशैलास्त्वपि रत्नाकरगा विशिष्टनद्यः ।
उदधेः सलिलं च हन्युरेते यदि मध्ये स्युरलं प्रयोगशक्तिम् ॥ ५-२९ ॥

प्रकृतार्थविशेषकर्मणामप्यभिरूपे सुविचारितप्रदेशे ।
यदसौ विदधाति बीजमुप्तं ननु देशानुगुणं फलाय रोहेत् ॥ ५-३० ॥

देशाधिकारः ।

विदधीत वशीकरं वसन्त परविद्वेषणकं निदाघकाले ।
वर्षास्वरिचाटनप्रयोगं शिशिरे मारणकर्म चेत् करोतु ॥ ५-३१ ॥

शरदेव हि शान्तिके प्रशस्ता खलु हेमन्तकृतानि पौष्टिकानि ।
ननु शान्तिकपौष्टिके हिमे वा मधुमासेऽपि तथा परे वदन्ति ॥ ५-३२ ॥

उदयात् परतो रवेस्तु यामाविह हेमन्तवसन्तकौ क्रमोक्तौ ।
प्रहरावधि पश्चिमौ निदाघाह्वयमासावुदितौ दिनावसानात् ॥ ५-३३ ॥

मिहिरास्तमयात् तु विंशतिः स्याद् घटिकाः शारदकालसञ्ज्ञितोऽसौ ।
परतो घटिकास्तु शैशिरः स्यादुदयात् प्रागिति तत्त्वसागरोक्तम् ॥ ५-३४ ॥

कालाधिकारः ।

सिततण्डुलभक्तपञ्चगव्यैस्तिलपुष्पाक्षतशुक्लगन्धयोगैः ।
ननु नित्यविधौ पलाशदूर्वायवशालिप्रमुखाश्च धान्यवर्गाः ॥ ५-३५ ॥

अथ शान्तिककर्मणां विशिष्टे हवनादौ च यथोदितं समिद्भिः ।
विदधीत शमीवटाम्रनित्याखदिरोदुम्बरमार्गबोधिबिल्वैः ॥ ५-३६ ॥

दधिमाक्षिकदुग्धपायसाज्यैश्चरवो बिल्वतिलाश्च शालिभेदाः ।
फलमोदकशर्करोक्तपुष्पैः समिधः स्युर्विविधाश्च पौष्टिकेष्टाः ॥ ५-३७ ॥

लवणस्तिलसर्षपौ यथोक्ताः समिधः पुष्पफलानि पुत्तलीकाः ।
मधुराणि सजन्मवृक्षहेमैः स्युरमी चन्दनरोचने च वश्ये ॥ ५-३८ ॥

मधुपेन्द्रलते सहा च भीता हरिपत्नी हरिलङ्घितासुभद्राः ।
मुसली गिरिकर्णिमोहनीकाः सुरताल्युत्पलमादलाब्जदूर्वाः ॥ ५-३९ ॥

गजदानशिले सितार्कमूलं कनकं क्षीरनगाः स्वदेहजानि ।
उदितानि हि वश्यकर्षणार्थं जतुभूर्जादि च तत्र तन्त्रगीतम् ॥ ५-४० ॥

तुषसर्षपकाककाकवैरिच्छददण्डीविषनिम्बमातुलुङ्गैः ।
महिषाश्च जलेऽप्यलक्तसारं ननु विद्वेषणकर्मवस्तु गीतम् ॥ ५-४१ ॥

फणिसूरणचित्रलोणपिण्डैः कनकाम्भोगृहधूम्रकोषणैर्यत् ।
परिपिष्टमिदं विषं वदन्ति द्विषतां द्वेषणमारणक्रियेष्टम् ॥ ५-४२ ॥

पिचुमन्दतरुस्थकाकनीडं वसनाङ्गारमृदः श्मशानलब्धाः ।
नगदारुकमर्कटीकदण्डीनृकचास्थ्यादि च वस्तु चाटने स्यात् ॥ ५-४३ ॥

भ्रमणे च पिशाचवृक्षनिम्बावसिस्तोन्मत्तकलाङ्गलीशणैश्च ।
रुजिचित्रकदण्डिशाल्मलाद्यैर्विषभल्लातविभीतकैश्च कुर्यात् ॥ ५-४४ ॥

विषवृक्षविषाजसर्पिषोऽहीन् नृकपालास्थि फलानि चैत्यकाष्ठैः ।
वसनान्यसितानि सर्षपाअद्यं नखकेशाङ्घ्रिरजांसि साध्यजानि ॥ ५-४५ ॥

द्विकशात्नवकाकरक्तपीतैः कुसुमैर्लोहितपुष्परक्तगन्धैः ।
अपि जन्मनगादिपुत्तलीभिः कटुकोष्णैरपि मारणं विधेयम् ॥ ५-४६ ॥

बुससर्षपपीतगन्धपुष्पैः कटुकोष्णाम्बुनिशाजमाहिषाणि ।
कुपटच्चरकोकिलाक्षचक्रीमृदिति स्तम्भनकृत्यसाधनानि ॥ ५-४७ ॥

द्रव्याधिकारः ।

तपनाहिनगात्मभाश्विनीनां तिथयोऽंशा दिवसाः शुभग्रहाणाम् ।
हरदस्रहरीन्द्रसूर्यपूषादितिदैवानि च भानि शान्तिकेस्युः ॥ ५-४८ ॥

तिथयो महिषारिविघ्नयाम्याः शशिजीवांशदिनोदयादिकं च ।
गुरुविष्णुशशाङ्कभैर्भगर्क्षं कथितं पौष्टिकसिद्धिदं यथावत् ॥ ५-४९ ॥

नवमी हरिमातृदिग्गुहानां तिथयः शुक्रकुजार्कवासराश्च ।
रवितिष्ययुताश्च सिद्धयोगाः कथिताः संवननेषु कर्षणे च ॥ ५-५० ॥

नवमी शशिमातृवह्निदैवास्तिथयः शुक्रकुजार्कवासराद्यम् ।
यमवह्निहराहिदैवपूर्वाः खलु विद्वेषणकर्मसिद्धिदाः स्युः ॥ ५-५१ ॥

असिताहनि चासितप्रदोषोऽप्यसिताष्टम्यथ तच्चतुर्दशी च ।
हरवह्नियमाहिवायुतारास्त्वखिलोच्चाटनकर्मसिद्धिदाः स्युः ॥ ५-५२ ॥

असिताथ चतुर्दशी कुहूरप्यसिताष्टम्यसितार्कभौमवारैः ।
कुलिकस्थविरे यमाम्बुभे वा कुजमन्दाभ्युदयाश्च मारणे स्युः ॥ ५-५३ ॥

द्विषतोऽष्टमराशिनैधनर्क्षेष्वथ वैनाशिकमार्गसङ्ख्यमानि ।
कुजमन्ददिनोदयादियोगैरभिचर्यासु भवन्ति सिद्धिदानि ॥ ५-५४ ॥

कुजशुक्रबुधेन्दुसूर्यसौम्या भृगुजारौ गुरुमन्दसौरिजीवाः ।
क्रमशोऽश्वयुजादिभाङ्घ्रिपास्ते खलु मेषादिकराशिपाश्च ते स्युः ॥ ५-५५ ॥

कुजमास्करजीवमन्दशुक्राः बुधशुक्रार्कजसौम्यचन्द्रभौमाः ।
धिषणोऽप्यधिपास्त्वजादि सिंहाद्यपि चापादिषु राशिषु त्रिधैयम् ॥ ५-५६ ॥

गुरुमन्ददिनेऽथ जीवमन्दांशकनक्षत्रतदंशके सरिक्ते ।
स्थविराख्यमुदाहरन्ति शस्तं रिपुरोगार्णविनाशनप्रयोगे ॥ ५-५७ ॥

दिवसं प्रविभज्य चाष्टधान्त्यप्रथमौ मोक्ष्यति तद्दिनग्रहांशौ ।
प्रहरार्धभुजौ ग्रहाः षडन्ये क्रमशोऽसो गुलिकोऽत्र यः शनेः स्यात् ॥ ५-५८ ॥

जननर्क्षकतोऽंशकादशीतेरधिको यस्य तु योऽष्तमोऽंश उक्तः ।
स विनाशकसञ्ज्ञको विनाशी निजभात् सप्तमभं तु नैधनाख्यम् ॥ ५-५९ ॥

निजभाद्रवितोदधिग्रसङ्ख्याः शुभताराः शुभकर्मणां प्रशस्ताः ।
शुभकर्म करोतु रागधामा सधनैकादशसङ्ख्यया स्वराशेः ॥ ५-६० ॥

दिनाधिकारः ।

न च यानगतो न वाहनस्थो न च यन्त्रस्थलगो न वाशुचिः सन् ।
विषयेष्वभिषक्तमानसो वा जपहोमादिकृतं फलं लभेत् ॥ ५-६१ ॥

अतिनीचमपीह नोच्छ्रितं वा न च शुद्धेतरचर्मकम्बलाढ्यम् ।
अशुभाङ्घ्रिपजं च भिन्नदग्धं नृजलोच्छिष्टमलाक्तमासनं स्यात् ॥ ५-६२ ॥

कुशदर्भकृताः शुभाश्च बृस्यः फलकाः पुण्यरूद्भवा विशालाः ।
सकषायतरक्षुचर्म चैणं त्वपि शस्तानि सुलोहदन्तजानि ॥ ५-६३ ॥

सितशुद्धविधौतवाससा + समवास्तीर्णविशङ्कटासनानि ।
प्रभवन्ति हि सौम्यकर्मसिद्ध्यै विषवृक्षादिकृतान्यसौम्यकृत्ये ॥ ५-६४ ॥

उपविश्य तु विष्टरेऽथ जान्वोर्विवरेऽङ्गुष्ठनिपीडनं विधाय ।
ऋजुमध्यगलेक्षणाग्रकायो भवति स्वस्तिकमासनं निविष्टम् ॥ ५-६५ ॥

चरणाग्रयुगं त्वथोपरिष्टादधिरोप्योरुयुगस्य मूलदेशे ।
उपविश्य पुरेव पद्मसञ्ज्ञं कथितं तद्विपरीततस्तु भद्रम् ॥ ५-६६ ॥

अधिरोप्य तु दक्षिणाङ्घ्रिमूरावथ सव्ये चरणे तु दक्षिणोरुम् ।
अधिरोप्य पुरेव सूपविष्टो यदि योगासनमिष्टदं तदाहुः ॥ ५-६७ ॥

वृषणे तु निगृह्य वामजङ्घापदगुल्फे त्वधिरूढसस्फिगूरुः ।
उपरिस्थितदक्षिणोरुजानुः खलु योगी स तु गोमुखासनस्थः ॥ ५-६८ ॥

विनिवेशितजिह्मदक्षिणाङ्घ्रिः फलकादावुपविश्य वामपादम् ।
अवनौ विनिधाय चोर्ध्वजङ्घं ननु तत् स्वस्तिकमर्धपूर्वमाहुः ॥ ५-६९ ॥

उपविश्य तथासने तु पादौ भुवि संस्थाप्य मिथो निबद्धजङ्घौ ।
समतोरणजानुरूढहस्तो यदि वीरासनयोगपट्टनद्धः ॥ ५-७० ॥

स्थित एव पदद्वयेन भूमौ फलकाद्यं च विना स चेन्निविष्टः ।
समतोरणवत् स्थितोरुजङ्घो भवतीहोत्पुटिकं च कुक्कुटं तत् ॥ ५-७१ ॥

मरुतां विजये तथेन्द्रियाणां भवमुक्तौ च सुधारणे समाधौ ।
कमलासनमिष्टमत्र भद्रं हितमुक्तं खलु नित्यपौष्टिकादौ ॥ ५-७२ ॥

कथितं खलु शान्तिकेषु कर्मस्वखिलं स्वस्तिकमेव चाभिषेके ।
अपि शान्तिकजप्यहोमपूजास्वथवा स्वस्तिकमर्धपूर्वमिष्टम् ॥ ५-७३ ॥

सकलीकरणे निजैक्यदेवेष्वभिजप्येषु समाधिहंसयोगे ।
परमार्थनिरूपणेषु चेष्टं खलु योगासनमग्रतो गुरुश्चेत् ॥ ५-७४ ॥

पृतनाविजये च तन्निरोधेष्वपि संस्तम्भनभूतनिग्रहादौ ।
अपि संवननेषु कर्षणे वा ननु वीरासनमुक्तमाशुसिद्ध्यै ॥ ५-७५ ॥

कथितं खलु कुक्कुटं रिपूणां रुचिविद्वेषणचाटनभ्रमेषु ।
अथ मारणकेषु पार्ष्णिसञ्ज्ञं विदितं वासनमर्धकुक्कुटं तत् ॥ ५-७६ ॥

विजये मरुतां स्वदोषशान्त्यै पृतनास्तम्भविधौ च गोमुखं वा ।
प्रमदाजनकर्षणेषु चाब्जं विजितं यद् विदितं गुरुपदिष्टम् ॥ ५-७७ ॥

विजयेन यथैवमासनानां फलमेकाग्रतया मनःप्रसादः ।
मन एव हि सर्वकारणं तत् स्ववशं चेद् विजितं हि किं न सर्वम् ॥ ५-७८ ॥

आप्यं मण्डलमुच्यतेऽत्र पुरतो यत् तत्र शान्त्यादिकं
भौमं वाखिलनित्यपौष्टिकविधौ शस्तं त्वथो मारुतम् ।
द्वेषोच्चाटनकेषु संवननकेऽप्याग्नेयमाकर्षणे
संस्तम्भे खलु भौममैन्द्रमथवा स्याच्छान्तिके पौष्टिके ॥ ५-७९ ॥

मारणं तु विदधीत वायुना वेष्टितानि कुलिशाङ्कमण्डले ।
वह्निसम्पुटषडश्रकेऽथवा शान्तिकान्यपि वशीकराण्यपि ॥ ५-८० ॥

आसनाद्यधिकारः ।

विज्ञायैतदशेषमेव बिधिना विद्याविशिष्टाद् गुरो-
स्तत्तत् कर्म समादधीत नियतं संसिद्धमन्त्रात्मवान् ।
यद् यत् स्वार्थपरार्थकारणतया कृत्यं भवेत् साधकः
कृत्वा तत् फलमश्नुते स्म भुवने सञ्जाततत्प्रत्ययः ॥ ५-८१ ॥

इति श्रीमदीशनशिवगुरुदेवपद्धतौ तन्त्रसारे साधनपटलः पञ्चमः ।