अथ चतुर्थः पटलः
मन्त्रास्त्रेधा स्त्रीपुमांसश्च षण्डाः
स्वाहान्ताः स्युर्योषितो ये नमोन्ताः ।
ते षण्डाख्याः शिष्टमन्त्राः पुमांसः
प्रोक्तं मन्त्रव्यापृतौ गौतमेन ॥ ४-१ ॥
पुम्भिः कुर्याच्चाटवश्ये विषघ्नं
स्त्रीभिर्मोहं चान्त्ययोत्सादनाद्यम् ।
शेषं सर्वं कर्मजातं तु षण्डैर्
मन्त्रैः कुर्यादाशु तत्तत्फलाप्त्यै ॥ ४-२ ॥
ताराकाशावन्त्यवाय्वग्निवर्णा
ह्याग्नेयाः स्युः सौम्यमन्त्रास्त्वतोऽन्ये ।
आग्नेयोऽपि स्यात् ससौम्यो नमोन्तः
सौम्योऽपि स्यादग्निमन्त्रः फडन्तः ॥ ४-३ ॥
स्यादाग्नेयैः क्रूरकार्यप्रसिद्धिः
सौम्यैः सौम्यं कर्म कुर्याद् यथावत् ।
सौम्याग्नेयास्तूभयैर्लक्षणैः स्युः
कुर्यात् सर्वं कर्म तैः क्रूरसौम्यम् ॥ ४-४ ॥
स्वापोद्बोधौ तद्वदभ्यासकालं
विद्यादेषां त्वासनं चारभेदात् ।
सौम्यानां स्यात् सौमयतोऽभ्यासकालस्
त्वाग्नेयानां सौरतोऽभ्यास उक्तः ॥ ४-५ ॥
सौम्यः स्वापः सूर्यचारेऽथ सौम्ये
त्वाग्नेयानां स्वाप उक्तोऽथ बोधः ।
द्विष्ठश्चारस्तुल्य एवोभयोः स्यात्
सुप्तोऽभ्यासे बुद्धमात्रोऽपि नेष्टः ॥ ४-६ ॥
जापं कुर्यादुक्तकाले मनूनामुद्बन्धान् वा जप्यहोमक्रियादौ ।
आरभ्यैतान् पूर्वमभ्यासकाले मध्ये स्वापः कर्मणां नैव दुष्येत् ॥ ४-७ ॥
मन्त्रलिङ्गाधिकारः ।
षडङ्गो यो मन्त्रः स भवति सनेत्रो ह्यनयनो
मनुः पञ्चाङ्गः स्यात् खलु यदुभयोरङ्गमनवः ।
पृथक् ते स्युर्नो चेत् क्वचिदपि च मूले नवदश-
स्वरैः कुर्याद् दीर्घैरनृणयुगलैरङ्गरचनाम् ॥ ४-८ ॥
स्वैरर्चिर्भिर्यद्वदेवाप्रधृष्यः
सूर्यो वाग्निस्तेजसाग्र्यः समर्थः ।
तद्वत् साङ्गैर्मन्त्रमूर्तिस्तदात्मा
तद्युक्ताङ्गैः स्यात् समर्थोऽप्रधृष्यः ॥ ४-९ ॥
हृद् बुद्धिगम्यं हृअदयस्थ आत्मा
स्याच्चेतनावान् हृदयेन मन्त्रः ।
यद् बुद्धिपूर्वं क्रियते नमोऽस्मै
मुख्यं हृदङ्गं तत एव वेद्यम् ॥ ४-१० ॥
शिरस्तु मूर्तस्य मनोः प्रधानमङ्गं हि सर्वेशगुणार्थतुङ्गम् ।
स्वतो हि तस्माद् विषयापहारे स्वाहेति युक्तं शिरसोऽङ्गमुक्तम् ॥ ४-११ ॥
शिखा तु कर्माङ्गतया मनूनां
यतो वषड्व्युष्टिकरं तदङ्गम् ।
अधृष्यतेजाः शिखया यदग्निर्-
वषट्शिखायां विनियुज्यतेऽतः ॥ ४-१२ ॥
कचग्रहार्थग्रहणात् तु धातोः
सङ्गृह्य देहं कवचं मनूनाम् ।
तेजस्तु हुं सर्वमरिष्टजातं
निवारयेत् तत्कवचाय युक्तम् ॥ ४-१३ ॥
नेत्रेण सर्वं परिपश्यतीह
मन्त्रः स्फुटं यं दृशि दर्शनाय ।
वौषड् भवेदङ्गमतस्तु नेत्रं
नेत्रे तु सिद्ध्यै दृशि वौषडुक्तम् ॥ ४-१४ ॥
असूनदः पालयतीत्यतोऽस्त्रं
धातोरसुक्षेपणवाचकार्थात् ।
अनिष्टमाक्षिप्य तु पाति मन्त्रं
त्रैङ्पालनेऽस्त्रायफडित्यतोऽस्त्रम् ॥ ४-१५ ॥
पूर्वं गुरुर्योऽस्य मनोर्विधानं
विज्ञाय संसाधितवानृषिः स्यात् ।
इच्छाप्रधानार्थकथां तु योगाच्-
छन्दो भवेद् वर्णगतं यथावत् ॥ ४-१६ ॥
ददात्यभीष्टानवतीह दुःखाद्
या देवता दैवतभावदानात् ।
सा देवताख्या मनुवाच्यवस्तु-
स्वरूपिणी यत् कथितं प्रपञ्चे ॥ ४-१७ ॥
मन्त्रात्मिकायास्त्वथ देवताया
मूर्तिर्हि सर्वो मनुवर्णपूगः ।
शक्तिस्तु तत्पूर्तिकरी चितिः स्याद्
बीजाख्यमस्यैव तु जीवभूतम् ॥ ४-१८ ॥
तच्छन्दो मुनिरहितं जपेद् यदासौ
तुच्छं वै दिशति फलं तु बीजशक्त्योः ।
अज्ञानाद् व्रजति मनुर्जडत्वमङ्गैर्-
अन्यस्तैरसुरगणा हरन्ति जप्यम् ॥ ४-१९ ॥
शुद्धो विष्णुर्येन केन स्वरेण स्पृष्टो वह्निर्होमसंवर्तको वा ।
ठोपोवोमा (?) सोऽपि वामाक्षयुक्तो बीजं खड्गी सामरेशोऽपि मन्त्रे ॥ ४-२० ॥
सानन्तो वा वामपार्श्वं भुजादिर्वामाक्षाढ्यो वाथ मेषोधिसूक्ष्मौ ।
सामान्याः स्युः सर्वमन्त्रेषु बीजान्येतान्येवं यत्र नोक्तं तु बीजम् ॥ ४-२१ ॥
एकाक्षरस्य तु मनोर्न परं तु देवबीजं वदन्ति यदतः परतः पुरोक्तम् ।
शक्तिश्च नादसमबिन्दुरनिश्चिता चेद् बीजादजः परतरः खलु शक्तिरुक्ता ॥ ४-२२ ॥
राशेस्तथा साधकसाध्यनाम्नोर्नक्षत्रयोः सर्वमिहानुकूलम् ।
यो मन्त्र उक्तेन सिध्येत् सिध्येन्न मन्त्रोऽपि चिरेण वान्यः ॥ ४-२३ ॥
नामर्क्षराश्यादिकमानुकूल्यं मन्त्रेषु सप्तस्वनपेक्ष्यमेषु ।
हंसाष्टपञ्चाक्षरवह्नितारैः सावित्रिसञ्जीवनगोपकेषु ॥ ४-२४ ॥
लिप्यर्णानां संविभागेन योक्ता
नक्षत्राणां विंशतिः सप्तयुक्ता ।
तत्सङ्ख्याः स्युर्देवताश्चापि वृक्षास्-
तान् न छिन्द्याद् यत् स्वमन्त्रर्क्षवृक्षम् ॥ ४-२५ ॥
स्वायुर्वृद्ध्यै वर्धयेत् तं तु रक्षेद्
वन्देदेनं सिद्धये मन्त्रवृक्षम् ।
मन्त्रर्क्षेशां देवतां चार्चयेत् तां
ये वर्गोत्थास्तान् ग्रहांश्च स्ववारे ॥ ४-२६ ॥
दस्रो यमोऽथ दहनः कथितः प्रजेशः
सोमः शिवादितिसुरेड्यभुजङ्गमाश्च ।
पित्रर्यमाख्यभगभास्करविश्वकर्म-
प्राणा महेन्द्रदहनावथ मित्रसञ्ज्ञाः ॥ ४-२७ ॥
इन्द्रस्तथापि निरृतिः सलिलं च विश्वे
चक्रायुधोऽथ वसवो वरुणोऽप्यजाङ्घ्रिः ।
ख्यातोऽहिपूर्वपदबुन्धिरथोऽत्र पूषा
ख्याता क्रमेण भगणस्य तु देवतामी (?) ॥ ४-२८ ॥
कारस्करामलकपूर्वमुदुम्बराख्या
जम्बूस्तथैव खदिराप्यथ कृष्णवंशौ ।
सास्वत्थनागतरुरोहिणकाः पलाशाः
प्लक्षस्ततस्त्वमितिपूर्वकबष्ठसञ्ज्ञः ॥ ४-२९ ॥
बिल्वार्जुनावपि विकङ्कतकेसराख्या
वृक्षास्तथा शबरसर्जकवञ्जुलाह्नाः ।
उक्ताः क्रमेण पनसार्कशमीकदम्बा
भानां तु चूततरुनिम्बमधूकसञ्ज्ञाः ॥ ४-३० ॥
एभ्यः सदेवताभ्यस्तु नक्षत्रेभ्यः समुद्गताः ।
तिथयः प्रतिपत्पूर्वाः पक्षयोः शुक्लकृष्णयोः ॥ ४-३१ ॥
सोमवृद्धिक्षयवशाद् द्विधा स्युस्तिथयस्तु ताः ।
तिथीनां क्रमशस्त्वासां देवताः प्रभवन्ति याः ॥ ४-३२ ॥
अग्निर्दस्रावम्बिकाविघ्ननागाः
स्कन्दः सूर्यो मातरश्चापि दुर्गा ।
आशा श्रीदश्चाथ वैकुण्ठधर्मौ
रुद्रश्चन्द्रश्चाथ पित्र्या कुहूः स्यात् ॥ ४-३३ ॥
सराशिताराल्लिप्यर्णतिथिभ्यः शक्तिजृम्भितात् ।
करणान्यभवन् सप्त बवादीनि तु पक्षयोः ॥ ४-३४ ॥
बवं च बालवं चैव कौलवं तैतिलं तथा ।
गरजं वणिजाख्यं च विष्टिश्चैव तु सप्तमी ॥ ४-३५ ॥
पशवः सप्त सिंहाद्या बवादीनां तु योनयः ।
सिंहव्याघ्रवराहाश्च स्वरेभच्छागकुक्कुराः ॥ ४-३६ ॥
देवताः सप्त शक्राजमित्रार्यमधराश्रियः ।
यमश्च करणानां स्युः पूज्यास्तत्करणेषु ते ॥ ४-३७ ॥
एवं हि मातृकावर्णविवृतिः सम्प्रकीर्तिता ।
गौतमीये यथा प्रोक्तं मन्त्रव्याकरणेषु च ॥ ४-३८ ॥
प्रपञ्चसारे च यथा यथोदग्गार्ग्यभाषितम् ।
मातृकावर्णविततिर्विश्वमेतदिति स्फुटम् ॥ ४-३९ ॥
विन्दोरग्रे रवोऽभूदथ रवजनिताः षोडशादौ स्वराः स्युः
काद्यर्णाः पञ्च वर्गास्त्वथ खलु यमुखा धातुभिः पञ्चभूतैः ।
तन्मात्राभिस्तथाक्षैः प्रकृतिरथ गुणैर्विश्वरूपा नसञ्ज्ञा
शक्तिर्वागीश्वरीयं ननु जगदखिलं यत् प्रपञ्चाभिधेयम् ॥ ४-४० ॥
इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्रसारे मन्त्रलिङ्गादिकं नाम चतुर्थः पटलः ॥