०३

अथ तृतीयः पटलः

अथ सकलमनूनां मातृकां जन्मभूमि-
स्तदधिकृतविशेषा वर्गवर्गादियुक्त्या ।
पृथगिह परिपाट्या लिख्यते च स्वराणा-
मुदयविहृतिवर्णैश्चाप्तिराश्यात्मलिङ्गैः ॥ ३-१ ॥

अविदितमनुवर्णप्रक्रियाकार्यरूपः
कथमिह फललिप्सुस्तज्जपादौ प्रवृत्तः ।
गणविषयविभागानौषधानामजानन्
कुभिषगिव चिकित्सालौलुपो बालिशोऽसौ ॥ ३-२ ॥

अविदितगजशिक्षश्चासृणिर्वाधिरोहे-
दविरलमदधाराः संस्रवन्तं गजेन्द्रम् ।
अगणितपरिशुद्धिर्मन्त्रतत्त्वानभिज्ञः
स पतति खलु मूर्खो देशिकः साधको वा ॥ ३-३ ॥

इति लिपिमनुचक्रव्याक्रियार्थस्त्वतोऽस्मिन्
प्रकटितबहुमन्त्रो देशिकैर्वेदितव्यः ।
अकचटतपयाख्याः सप्त शाख्यश्च वर्ग-
स्त्विह रविशशिवर्णः स्यादवर्गः स्वरात्मा ॥ ३-४ ॥

पुरुषयुवतिभेदा रौद्रसौम्याः स्वरास्ते
नहि पृथगुदयाः स्युहस्वदीर्घाः क्रमेण ।
उदयति रविवर्णे ह्रस्वके दक्षिणस्थे
शशिनि च खलु दीर्घे वामनासापुटेऽर्णे ॥ ३-५ ॥

नसि पुटयुगलेऽस्मिन्नूर्ध्वमग्निस्तु तिर्यङ्
मरुदुदकमघस्तान्मध्यकुण्ड्यं धरित्री ।
सुषिरमिह हि यत् स्वं पञ्च भूतानि चैवं
सवितरि च शशाङ्के ते स्वरास्तूदयन्ते ॥ ३-६ ॥

उभयमपि च विद्याद् यत्र निश्वासवायुः
प्रसरति समकाये स्वस्थदेहेन्द्रियस्य ।
वदतु च परिपृष्टः कार्यसिद्धिं च हानिं
स्वरमुदितमवेक्ष्य स्वस्य वान्यस्य युक्त्या ॥ ३-७ ॥

कपिलवकुशरामाः कामनिम्ने निशाज्ञः
पशुरणियमगावः किं वनं सङ्ख्यनाड्यः ।
क्रमपठितयुगार्णा राशयो द्वादश स्यु-
र्दिनरजनिविभागस्तैस्तु षड्भिश्च षड्भिः ॥ ३-८ ॥

अजवृषमिथुनाख्याः कर्किहर्यक्षकन्याः
समतुलमलिचापे नक्रकुम्भाह्वमत्स्याः ।
चरनचरयुगास्ते राशयस्त्रिक्रमाः स्युः
सह खलु लिपिवर्णैः श्वासवेद्योदयाद्याः ॥ ३-९ ॥

उदयति चरराशिर्दक्षिणघ्राणसूर्ये
मरुति हि शशिसञ्ज्ञे वामके स्थास्नुराशिः ।
उभयपुटनिसृष्टं चोदयेद् युग्मराशिः
सकलभुवनकालज्ञापकः श्वासचारः ॥ ३-१० ॥

उभयमरुति जीवः सौम्यवायौ जले वा
शशिदहनधरण्यो मारुतो धातुशंसी ।
उभयधरणिसूर्ये चाप्सु मूलं शशाङ्के
पयसि च फलसिद्धिः सूर्यभूम्यप्सु न स्यात् ॥ ३-११ ॥

कुजमुभयगवह्नौ सूर्यवह्नौ मृतिः स्यात्
सवितृवियति नष्टं स्यान्मृतं वाल्पमायुः ।
वदतु मरुति चन्द्रे दीर्घमायुस्तदद्भिः
सुखमपि शशिभूमौ चाल्पसिद्धिस्तु तत्स्वे ॥ ३-१२ ॥

उभयधरणिरिष्टं साधयेद् दीर्घकाला-
दुभयमरुति किञ्चित्कालपाके स सिद्ध्येत् ।
उभयगगनवह्न्योर्नैव सिद्धिर्न हानि-
र्मरुदुभयजलस्थः क्षिप्रमल्पेष्टदः स्यात् ॥ ३-१३ ॥

शशिजलधरणिस्थे शान्तिकं पौष्टिकं वा
शशिमरुदनवाभ्यां(?) वश्यमाकर्षणं च ।
दिनकरभुवि कुर्यात् स्तम्भनं त्वर्कतोये
रुजमिनमरुता स्वे भ्रामणोच्चाटनाभ्याम् ॥ ३-१४ ॥

दिनकरवियति स्यान्मोहनं चार्कवह्नौ
द्रुततरमरिवर्गान् मारयेत् सादयेच्च ।
इति जपहुतविद्याः साधयन् वै यथावत्
स्वरमुदितमपेक्ष्य त्वारभेताशु सिद्ध्यै ॥ ३-१५ ॥

स्वरोदयाधिकारः ।

कचटतपसमाख्याः पञ्चवर्गास्तु धात्री-
मरुदनलखतोयैः संयुतास्तत्र वेद्याः ।
अनिलदहनपृथ्व्यो वारि चाप्यत्र याद्या-
स्त्रिगुणगगनवर्णाः शादयोऽन्त्यस्तु रागः ॥ ३-१६ ॥

कनकरुगमलस्रग्वस्त्रगन्धोऽष्तबाहु-
स्त्रिशिखवरगदाधृत्क् कूर्मवाहोऽष्टनेत्रः ।
शशधरचतुरास्यो वृत्तपीठे कपर्दी
कुवलयसमगन्धो मन्दराभो ह्यकारः ॥ ३-१७ ॥

धवलरुचिरथाब्जे सूपविष्टा द्विबाहु-
र्गजवरमधिरूढा साङ्कुशा पाशहस्ता ।
तुहिनविमलहारैर्भूषिता षष्टिदीर्घा
त्रिदशविततिराख्या योजनानां पुरन्ध्री ॥ ३-१८ ॥

कुलिशधृगतिपीतं कूर्मवाहं कुबिम्बे
द्विभुजमलसगन्धं योजनद्वन्द्वदीर्घम् ।
स्मरतु विविधमायं विस्तृतं दैर्घ्यतोऽर्धं
रिपुदुरितगदघ्नं स्तम्भनं सूक्ष्मसञ्ज्ञम् ॥ ३-१९ ॥

कनकफलकरा स्त्री पञ्चगब्यूतिवृता
सितरुचिरमृतार्द्रा हारिहाराभिरामा ।
द्विगुणधरणिबिम्बे हंसगा योजनानां
दशपरिणतमूर्तिः पुष्टिदा स्यात् त्रिमूर्तिः ॥ ३-२० ॥

द्विशतरचितदैर्घ्यं विस्तृतं योजनानां
शतमतिकटुगन्धं काकवाहं द्विहस्तम् ।
अनलभवनसंस्थं ताम्रवर्णं सशूलं
सगदमखिलरक्षां(?)स्यादयुग्मं तु षण्डम् ॥ ३-२१ ॥

द्विभुजमरुणमग्नेर्मण्डलस्थोष्ट्रवाहं
दशशतविततं तद्द्वन्द्वदीर्घं त्रियुग्मम् ।
भुजगभुजगवर्गैर्भूषितं दुष्टगन्धं
स्मरतु विषविघाते षण्डकं शक्तिपाशम् ॥ ३-२२ ॥

कुलिशधरमुदग्रं हंसवाहं सपाशं
द्विलपनमतिपीतं पार्थिवाब्जे सुगन्धम् ।
शतविततिलुयुग्मं त्रिंशदायामि षण्डं
स्मरतु रिपुगणघ्नं स्तम्भनं स्वर्णचूडम् ॥ ३-२३ ॥

रथचरणफलास्यं षण्डकं शङ्खपद्म-
स्फुरितभुजचतुष्कं चन्द्रकीकण्ठनीलम् ।
सुमुखममलहारं पद्मगन्धं कपर्दि
स्मरतु निखिलवश्यं झण्डिनं चक्रवाके ॥ ३-२४ ॥

द्विभुजगरुडवाहां भूषितां वह्निबिम्बे
त्रिशिखकुलिशहस्तां शुक्लवर्णां सुगन्धाम् ।
स्मरतु विमलहारां भौतिकीं वा प्रसूत्यै
प्रविततशतकोटिं योषितं तां तथोच्चाम् ॥ ३-२५ ॥

अखिलभुवनमध्यव्यापकं पीतवर्णं
दशशतभुजयुग्मं द्योतमानं त्रिणेत्रम् ।
द्विगुणदहनबिम्बे गोवृषे भूषिताङ्गं
पुरुषयुवतिदेहं मुक्तिदं ध्येहि सद्यम् ॥ ३-२६ ॥

सितकुसुमसुगन्धिः शुक्लवासाः सुवर्ण-
द्युतिरपि कुसुमाभो वज्रपाशौ च बिभ्रत् ।
धरणिकमलबिम्बे योजनानां सहस्रं
तततनुरिह चिन्त्यः पौष्टिकेऽनुग्रहेशः ॥ ३-२७ ॥

घुसृणरुचिरनेकैर्भूषणैश्चित्रिताङ्गो
युगलयुगलजाड्याः स्वेष्टदः पद्महस्तः ।
सरसिजमधितिष्ठन् श्रीकरोऽक्रूरवर्णः
सकलदुरितमुक्त्यै चिन्तनीयोऽवतान्नः ॥ ३-२८ ॥

दहनपुरगतस्तत्षण्डकं युग्महस्तं
करगतमपि कृष्णैर्वस्त्रगन्धैस्त्रिणेत्रम् ।
त्रिशिखकुलिशहस्तं क्षुद्रविद्वेषदक्षं
दशशतपरिमाणं चिन्तयेच्च स्वरान्त्यम् ॥ ३-२९ ॥

स्वरमूर्त्यधिकारः ।

कुलिशमुसलहस्तो भूमिबिम्बेऽजगन्धः
कनकरुगिभसंस्थो ब्रह्मशक्राधिदेवः ।
द्विभुजपुरुषवेषो वश्यकृत् कः कपर्दी
दशशतपरिवृत्तः पातु नास्तद्द्विरुच्चः ॥ ३-३० ॥

शतमखमणिनीलः सर्पयज्ञोपवीतो
धवलवदनरौद्रः पातु वः पिङ्गपादः ।
ज्वलनकमलमेषे पावनः स्तम्भनः स्वो
दशशतपरिमाणस्तोमरी शक्तिपाणिः ॥ ३-३१ ॥

फणिनि विकचपद्मे रक्तवर्णे निविष्टः
शतविततिरनुग्रः पुष्टिदस्तावदुच्चः ।
गणपतिधनदेशो हंसवाहः सुगन्धो-
ऽवतु भुजधृतपाशः साङ्कुशो वो गकारः ॥ ३-३२ ॥

दशशतपरिवृत्तं तद्विमानोच्चषण्डं
कुलिशवरगदाढ्यं ध्येयमुष्ट्राधिरूढम् ।
द्विभुजमसितयाम्यद्वेषणोच्चाटकृत्यैः
स्मरतु च घमुदग्रं यन्मुखोलूखलस्थम् ॥ ३-३३ ॥

त्रिशिखमुसलटङ्कैः शक्तिदण्डाहिहस्तं
यमपतिमतिकृष्णं षड्भुजः काकवाहम् ।
स्मरतु भुजगरूढं कोटिदीर्घार्धवृत्तं
श्वयथुचरणगात्रं द्वेषणेष्वेकरुद्रम् ॥ ३-३४ ॥

सितरुचिररिशङ्खौ चाम्बुजं मातुलुङ्गं
दधदरुणसुगन्धस्रग्विभूषः कपर्दी ।
जगति निखिलभूत्यै पातु वो गुह्यकेशो
धरणिकमलसंस्थः कोटिमानस्तु कूर्मः ॥ ३-३५ ॥

मकरकमलरूढः सूर्यकान्तिः स वोऽव्या-
दरिजलजगदाब्जान्यादधद् दिव्यगन्धः ।
धवलवसनगन्धः स्रग्धरः कोटिमानो
विमलमणिविभूषो वश्यदस्त्वेकनेत्रः ॥ ३-३६ ॥

सितकमलशशाङ्कोदुद्गताविन्दुवर्णौ
सफलकुलिशपाशौ सौधकुम्भौ दधानौ ।
दशशतपरिमाणौ वोऽवतां शान्तवर्णौ
पलितमृतिगदघ्नौ क्ष्वेलशान्तिप्रधानौ ॥ ३-३७ ॥

असितमशुभषण्डं दुर्मतिं काकवाहं
यमपुरुषमनेकैरायसैर्भूषिताङ्गम् ।
त्रिशिखपरशुहस्तं द्वेषकृत्येषु विद्याद्
दशशतपरिमाणं शर्मसञ्ज्ञं तु वर्णम् ॥ ३-३८ ॥

जलधिसमनिनादः सद्गदो वज्रपाणि-
र्भुजगभुजगनद्धो युग्मबाहुः सुतीव्रः ।
प्रथमरिपुरुजानां ध्वंसनः क्रौञ्चवाहः
कपिलरुचिरुदारो वः स सोमेश्वरोऽव्यात् ॥ ३-३९ ॥

अमलशशिनिकाशः शङ्खगोक्षीरगौरो
विमलमणिविचित्रैर्भूषितो हारजालैः ।
धरणिपवनपद्मे पद्महस्तो गजोऽव्यात्
सकलविषहरो वो लाङ्गली लक्षमानः ॥ ३-४० ॥

तुरगकुवलयस्थः पक्वरम्भाद्युतिर्वः
कनकमणिविचित्रस्तुर्यवक्त्रोऽष्टबाहुः ।
दशशतपरिमाणः पद्मपाशाङ्कुशाब्जा-
न्यभयवरदशूलैरादधद् दारुकोऽव्यात् ॥ ३-४१ ॥

अनलपुरगमेषे वह्निदेवः स वोऽव्यात्
कुलिशवरभुसृण्ठीभिण्डिपालेषुपाशान् ।
परशुमपि रथाङ्गं कार्मुकं चादधानो
दशपरिणतिरुच्चैरर्धनारीश्वरार्णः ॥ ३-४२ ॥

त्रिशिखपरशुहस्तं व्याघ्रवाहं सुधूम्रं
त्रिमुखमहितरोगान् ध्वंसयन्तं कुबिम्बे ।
अरिकुलिशभुसृण्ठीपाशदण्डध्वजाढ्यं
स्मरतु दशशतोच्चं चाप्युमाकान्तवर्णम् ॥ ३-४३ ॥

द्विपवरमधिरूढं शङ्खटङ्काब्जपाशान्
दधदलसमगन्धो वः सहस्रप्रमाणः ।
शतमखवरुणेशो वश्यदो भूषिताङ्गः
कटकमकुटनिष्कैराषढीपाटलोऽव्यात् ॥ ३-४४ ॥

वृषगतशितिवर्णस्तुर्यवक्त्रोऽष्टबाहु-
र्मरुदनलपतिर्वः कोटिमानस्त्रिशूली ।
मुसलपरशुशक्तीस्तोमरं भिण्डिपालं
दधदवतु च दण्डं प्रासमप्येष दिण्डी ॥ ३-४५ ॥

असितमथ यमेशं षड्भुजं वस्त्रिवक्त्रं
भुजगवलयहारं शूलटङ्कासिदण्डान् ।
कुलिशमपि भुसृण्ठिं षण्डमव्याद् दधद् य-
न्महिषगतकरोटौ कोटिमानोऽत्रिसञ्ज्ञम्(?) ॥ ३-४६ ॥

मृगवरमधिरूढो यः स सर्पोपवीतो
निरृतिपतिरुदग्रः खड्गपाशो भुसृण्ढीम् ।
दधदतिकपिशोऽव्यान्मुद्गरी बोऽब्जपीठे
प्रतिभयरिपुभेदी यश्चतुर्लक्षमानः ॥ ३-४७ ॥
द्विभुजमसितवर्णं व्याघ्रचर्मोत्तरीयं
डमरुकमपि शूलं बिभ्रदारक्तनेत्रम् ।
चिरमवतु पिशङ्गैरम्बराद्यैर्युतं वो
दशशततति नाख्यं काकवाहं च षण्डम् ॥ ३-४८ ॥

गरुडमधिगतोऽब्जे सर्पयज्ञोपवीती
दशवदनसिताङ्गो विंशतिं यो भुजानाम् ।
दधदपि मणिचित्रः पातु कोटिप्रमाणो
विविधविषहरोऽसौ ब्राह्मणो लोहितार्णः ॥ ३-४९ ॥

परशुरथपदाढ्यः सिंहपद्माधिरूढः
प्रविततदशकोटिर्युग्मबाहुर्द्विजन्मा ।
हरतु भवदरिष्टं मौक्तिकब्रह्मसूत्र-
स्तडिदनलपिशङ्गो यः शिखी रक्षणेष्टः ॥ ३-५० ॥

कुवलयविनिविष्टो हंसवाह षडास्यो
धनपतिपतिरब्जं शङ्खमप्यादधानः ।
धवलवसनगन्धो बन्धुजीवारुणो वः
प्रविततदशकोटिः श्रीकरोऽव्याद् बकारः ॥ ३-५१ ॥

त्रिमुखनयनरौद्रं पिङ्गकेशं तरक्षो-
रुपरिदहनबिम्बे धूम्रवर्णं त्रिहस्तम् ।
रथचरणगदाढ्यं षण्डकं शूलि वोऽव्यात्
प्रविततदशलक्षं यद्द्विरण्डेशसञ्ज्ञम् ॥ ३-५२ ॥

उदितमिहिरकान्तिः कल्पवह्निप्रकाशो
जटिलशिरसि चन्द्रं मुण्डमालां च बिभ्रत् ।
त्रिशिखपरशुनागांश्चानलं भूतये वो
विषमयवपुरब्जे स्यान्महाकालवर्णः ॥ ३-५३ ॥

मृगगतिरतिध्रूम्रो वायुबिम्बे स पायाद्
ध्वमुसलगदाग्नीनादधद् वायवीयः ।
सकलभुवनमानश्चाटनः क्षुद्रकृत्ये -
ष्वरुणवसनगन्धैर्भूषितो वो यकारः ॥ ३-५४ ॥

ज्वलदनलनिकाशो बह्निबिम्बेऽम्बुजस्थः
सकलभुवनमानो मेषवाहः प्रसन्नः ।
अभयवरदशक्तिस्वस्तिकानादधानः
सितवसनसुगन्धिः पातु युष्मान् भुजङ्गः ॥ ३-५५ ॥

कमलगतकरीन्द्रे योषिदापीतवर्णा
कलमकनकवल्लीवज्रपाशान् दधाना ।
दिशतु धरणिबिम्बे भूषिता सर्वपीता
धरणिविततिरिष्टं धारिणी स्तम्भिनी वः ॥ ३-५६ ॥

अमृतकिरणगौरी नक्रपङ्केरुहो वो
धवलकमलपाशौ बिभ्रती वारिबिम्बे ।
विविधविषरुजार्तिं ध्वंसयन्ती विभूत्यै
भुवनविततिरस्तु क्षीरपीयूषमूर्तिः ॥ ३-५७ ॥

धवलकमलहस्ता पुण्डरीकोपविष्टा
विमलवसनगन्धैर्भूषिता हेमवर्णा ।
दशशतपरिमाणा हारिधम्मिल्लभारा
प्रदिशतु बकवर्णास्याकृतिर्वो विभूतिम् ॥ ३-५८ ॥

शतमखमणिनीलः कूर्मवाहो द्विबाहुः
कपिशवसनगन्धो वज्रपाशौ च बिभ्रत् ।
दशशतपरिमाणः क्षोभणो वोऽस्तु लक्ष्म्यै
प्रहसितवदनेन्दुः श्वेतसञ्ज्ञः प्रमत्तः ॥ ३-५९ ॥

शशधररुचिगौरो वज्रपद्माब्जपाशान्
निधिकलशकरण्डे चक्रमप्यादधानः ।
सरसिजगतहंसे भूषितः कोटिमानो
धनदपतिरभीष्तं यो भृगुर्वस्तनोतु ॥ ३-६० ॥

धवलवसनगन्धस्रग् जटी चन्द्रमौलि-
र्हर इव लकुलीशो भूरिगौरस्त्रिणेत्रः ।
हरिणपरशुशूलैश्चान्वितो विश्वमानः
शिवगिरितनयेन प्राणस्वात्मावताद्वः ॥ ३-६१ ॥

सुरपतिभवनाब्जे शङ्खवज्रारिपाशान्
सृणिमुसलभुसृण्ठीखड्गघण्टाकपालम् ।
दधदवतु गजस्थः क्षेत्रपालेन्द्रदेवो
भुवनविततपीतस्त्रीक्षणोऽन्त्यो द्विदंष्ट्रः ॥ ३-६२ ॥

धवलरुचिरवर्णा ब्राह्मणास्तेऽथ रक्ताः
क्षितिभुज इह पीता ये विशो येऽपि कृष्णाः ।
वृषलकुलसजाता ह्यक्षराश्च स्वलिङ्गैः
पुरुषयुवतिषण्डास्ते प्रतिश्लोकवेद्याः ॥ ३-६३ ॥

प्रत्यक्षरमूर्त्यधिकारः

गुरव इह हि दीर्घा बिन्दुसर्गाभियुक्ता-
स्तदुपरि विनिविष्टो युक्तवर्णोऽपि यस्य ।
स च गुरुरिति वेद्यः शेषितोऽस्माल्लघुः स्या-
ल्लघुरयुगलमात्रः स्याद् गुरुश्च द्विमात्रः ॥ ३-६४ ॥

मयरसतजभाख्या नस्तथाष्टौ गणास्ते
पृथगिह खलु हल्भिस्ते त्रिभिः स्युस्त्रिभिश्च ।
सकलगुरुमसञ्ज्ञो यो गणः सोऽवनिः स्यात्
प्रथमलघुयसञ्ज्ञः स्याद् गणस्तोयमूर्तिः ॥ ३-६५ ॥

रगणमिति लमध्यं वह्निदैवं तु विद्यात्
सगणमपि च वायुं सोऽन्तगुर्वक्षराढ्यः ।
तगणमपि खमाहुस्तस्य चान्ते लघुस्या-
ज्जगणमपि च मध्ये स्याद् गुरुः सूर्यदैवम् ॥ ३-६६ ॥

प्रथमगुरुभसञ्ज्ञः स्याद् गणः सोमदेवः
सकललघुगणो द्यौर्नाभिधेयोऽष्टमः स्यात् ।
इति गुरुलघुभिन्नैरष्टभिर्व्याप्तविश्वै-
र्लिपिपरिपठितार्णैः स्याद् गणैः शब्दसूतिः ॥ ३-६७ ॥

अनलसलिलवर्णा ये गणाः शत्रवस्ते
पवनदहनखार्णा मित्रमन्योन्यमुक्ताः ।
सलिलधरणिसञ्ज्ञास्तेऽपि मित्रं मिथः स्युः
सलिलपवनखाख्या ये गणास्तेऽत्र मध्याः ॥ ३-६८ ॥

पुरुषयुवतिषण्डाः स्नेहिनः षण्डमध्याः
पुरुषपुर्षयोषिद्योषितोऽन्योन्यदुष्टाः ।
सुहृदि सुहृदमर्णं वा गणं मध्यमं वा
घटयतु स तु मन्त्रो वाचको देवतायाः ॥ ३-६९ ॥

मनुरपि विधिनैकः साधितो येन देवः
स भवति सगणानां सिद्धिभाक् तन्मनूनाम् ।
किमु बहुविधमन्त्रान् वेत्ति यः साधयेद् वा
स भवति शिवतुल्यस्तत्फलानां निधानम् ॥ ३-७० ॥

प्रियफलकटिरम्या श्रीप्रिया रात्रिरन्या
खगकुलकटकस्त्रीपात्रगर्भार्णसञ्ज्ञा ।
अभिहितलिपिवर्णानश्विनाद्येषु भेषु
स्वरपरिणतियुग्मं पौष्णभे स्यान्नियोज्यम् ॥ ३-७१ ॥

लकारश्च ।

कुरुवृषदधिसङ्ख्याः शोभनास्तारकाः स्यु-
र्भयमृतिगददुःखं गोमिथोऽसङ्ख्यभैः स्यात् ।
कृतमिह खलु यत् स्यान्नाम मातापितृभ्यां
जननभमपि यत् स्यात् तद्द्वयस्यानुकूलम् ॥ ३-७२ ॥

फलगुरुरुरुशाणाः शर्मशर्वास्त्वजाद्या
निगदितलिपिवर्णा राशयः शादयः स्त्र्याम् ।
जननभनिजनाम्नस्त्वादिवर्णाभियोगा-
दभिमतमनुभेनाप्यादिवर्णेन शोध्यम् ॥ ३-७३ ॥

शुद्धायामवनौ सगोमयजलैरालिप्य तत्रालिखे-
च्चक्रं षोडशकोष्ठकं तु परितः पङ्क्त्यैकया राशयः ।
विघ्नक्षेत्रपवास्तुवेशविधयः कोष्ठेषु मध्ये स्थितां-
स्तानिष्ट्वा लिपिवर्णराशिघटनां मन्त्रात्मनाम्नोर्नयेत् ॥ ३-७४ ॥

एको वाप्यथ पञ्चमोऽपि नवमो राशेः स्वकाद् बान्धवो
राशिः स्याद् दशमद्वितीयसहितः षष्ठो भवेत् सेवकः ।
रुद्राग्निस्वरसङ्ख्यया यदि मतस्तन्त्रेष्वयं पोषकः
स्याद् यो द्वादशमोऽष्टमः श्रुतिमितो मन्त्रः स्मृतो घातकः ॥ ३-७५ ॥

यो बन्धुर्भवति मनुः स रक्षतीमं
सर्वार्थानपि वितनोति सेवकाख्यः ।
पुष्टिश्रीविभवयशांसि पोषकात्मा
प्राणार्थानपि च निहन्ति घातकाख्यः ॥ ३-७६ ॥

ईशाद्यं तु चतुश्चतुष्पदलिपौ स्वाख्यादिवर्णे पदे
ये सिद्धाः खलु ते द्वितीयपदगाः साध्याः सुसिद्धाः परे ।
वर्णा येऽप्यरयश्चतुर्थपदगास्ते मृत्युदुःखप्रदाः
शिष्टास्ते त्वचिराच्चिराज्जपहुतैः सिध्यन्ति पाठादपि ॥ ३-७७ ॥

प्राक् साध्याख्यां साधकाख्यां च पश्चाद्
धृत्वाष्टाभिस्तत्र शेषादृणं स्यात् ।
स्वाख्यावर्णैर्वर्धितैः साध्यवर्णैर्-
हृत्वाष्टाभिस्तद्विलोमादृणं वा ॥ ३-७८ ॥

साधकाह्वयवर्णानां सह मन्त्राक्षरैस्तु यत् ।
सिद्धाद्यैर्गणनां कृत्वा ज्ञेयो मन्त्रांशकस्त्वयम् ॥ ३-७९ ॥

पश्चिमात् प्राग्गतं लेख्यं पङ्क्त्योर्दक्षिणवामयोः ।
मन्त्रनाम्नोर्यथा वर्णान् पृथक् तद्व्यञ्जनस्वरैः ॥ ३-८० ॥

नाम्नोर्मन्त्रस्य वा वर्णा विषमाः स्युर्यदा तदा ।
तत्तदक्षरमालेख्य समं यावत् प्रपूरयेत् ॥ ३-८१ ॥

ततः सिद्धादिभिर्हृत्वा ज्ञेयं प्राग्वत् फलादिकम् ।

पङ्क्तौ लिखेत् साधकसाध्यनाम्नो वर्गान् स्वरव्यञ्जनभेदभिन्नान् ।
हृत्वा त्रिभिः शात्रवमित्रमध्यान् विद्याच्च शत्रुर्यदि तं प्रजंह्यात् ॥ ३-८२ ॥

संहितोच्चारणात् प्राप्तं शोधनेष्वक्षरं त्यजेत् ॥ ३-८३ ॥

अधिकं चाप्यनुस्वारं जिह्वामूलं विसर्गकम् ।
त्यक्त्वैवं सोधयेन्मन्त्रान् यथोक्तं तत्त्वसागरे ॥ ३-८४ ॥

यथैवाद्याक्षरे शुद्धिं तथा सर्वाङ्गशोधनम् ।
कृत्वा कियन्तः सिद्धाद्या मन्त्रेऽस्मिन्निति चाङ्कयेत् ॥ ३-८५ ॥

सिद्धार्णाश्चतुरो यस्मिन् मन्त्रोऽसौ सिद्धनामभाक् ।
सिद्धहीनस्तु साध्याख्यः सुसिद्धो रिपुवर्जितः ॥ ३-८६ ॥

सुसिद्धहीनः शत्रुः स्याच्चतुर्धैवं प्रकल्पयेत् ।
सुसिद्धमन्त्रः स्यादन्ते सिद्धये स हि कामधुक् ॥ ३-८७ ॥

अशत्रुरादिसिद्धो यः सुसिद्धार्णादिको मनुः ।
अरिवर्णविहीनश्च सर्वकामप्रदो ह्यसौ ॥ ३-८८ ॥

यस्याद्यन्तगतः साध्यः कृच्छ्रसाध्यः स वै मनुः ।
आदावन्तेऽथवाद्यन्ते यस्यारिर्न तमभ्यसेत् ॥ ३-८९ ॥

स्वभ्यस्तोऽपि हिनस्त्येवं जन्मान्तरशतैरपि ।
सुसिद्धो यस्य चाद्यन्ते सोऽस्य चिन्तामणिर्मनुः ॥ ३-९० ॥

एवं विशोधयेन्मन्त्रान् यथोक्तं तत्त्वसागरे ॥ ३-९० १।२ ॥

प्रत्यक्षरं तु कथितं खलु मातृकायां
रूपादिकं तदभियुक्तजपादिनार्थाः ।
सिध्यन्ति मन्त्रनिकुरुम्बविशिष्टवर्णै-
र्युक्तैस्तु यद् भवति तच्च समस्तमूह्यम् ॥ ३-९१ १।२ ॥

इत्थं विशोध्य बहुधा प्रथमाक्षरं तन्-
मन्त्रस्य शिष्टमपि वर्णगणं विचार्य ।
शुद्धाक्षरादिकमनुं तलिनेतरार्णं
दद्याद् गुरुस्तदधिकारिविशेषयुक्त्या ॥ ३-९२ १।२ ॥

इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्रसारे स्वरोदयमातृकाप्रत्यक्षररूपादिकथनं नाम तृतीयः पटलः ॥