०२

अथ द्वितीयः पटलः

श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः ।
अश्वीशो भारभूतिश्च तिथीशः स्थाणुको हरः ॥ २- १ ॥

झण्टीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ।
अक्रूरश्च महासेनः षोडशैते स्वरेश्वराः ॥ २-२ ॥

अथ क्रोधेशचण्डेशपञ्चान्तकशिवोत्तमाः ।
एकरुद्रश्च कूर्मैकनेत्रौ च चतुराननः ॥ २-३ ॥

अजेशशर्मसोमेशास्त्रयो लाङ्गलिदारुकौ ।
अर्धनारीश्वरश्चोमाकान्तश्चाषडिडिण्डिनौ ॥ २-४ ॥

अत्रिमीनौ च मेषश्च लोहितोऽथ शिखी तथा ।
छगलण्डो द्विरण्डश्च महाकालोऽथ पालिना ॥ २-५ ॥

भुजङ्गश्च पिनाकी च खड्गीशो बक एव च ।
ततः श्वेतो भृगुश्चैव तथैव लकुलीश्वरः ॥ २-६ ॥

अन्त्यः संवर्तकाख्यः स्याद् रुद्राः पञ्चाशदीरिताः ।

रुद्राधिकारः ।

पूर्णोदरी च विरजा तृतीया शाल्मली भवेत् ॥ २-७ ॥

लोला च वर्तुलाक्षी च दीर्घघोणा ततो भवेत् ।
सुदीर्घमुखिगोमुख्यौ दीर्घजिह्वा ततो भवेत् ॥ २-८ ॥

कुण्डोदरी चोर्ध्वकेशी तथैव विकृतानना ।
ततो ज्वालामुखी चोल्कामुखी श्रीमुख्यथो भवेत् ॥ २-९ ॥

विद्यामुखी च कथिताः षोडश स्वरशक्तयः ।
महाकालीसरस्वत्यौ सर्वसिद्धाद्यगौर्यथा ॥ २-१० ॥

ततस्त्रैलोक्यविद्या स्याद् मन्त्रशक्त्यात्मशक्तिके ।
भूतमाता भवेत् पश्चात् ख्याता लम्बोदरी ततः ॥ २-११ ॥

द्राविणी नगरा चैव खेचरी चापि मञ्जरी ।
रूपिणी वीरिणी चैव कोटरी पूतना तथा ॥ २-१२ ॥

भद्रकाली गोमिनी च शङ्खिनी गर्जिनी ततः ।
कालरात्रीकपर्दिन्यौ परतः कर्षणी मता ॥ २-१३ ॥

महाज्ञाना जया चैव सुमुखा रेवती ततः ।
माधवी वारुणी चैव वायवी प्ररतो भवेत् ॥ २-१४ ॥

रक्षोवधारिणी चान्या ततस्तु सहजा भवेत् ।
लक्ष्मीर्माया च पञ्चाशदेता वै रुद्रशक्तयः ॥ २-१५ ॥

रुद्रशक्तयः ।

केशवः प्रथमा मूर्तिस्ततो नारायणाह्वयः ।
माधवस्त्वथ गोविन्दो विष्णुश्च मधुसूदनः ॥ २-१६ ॥

त्रिविक्रमो वामनश्च श्रीधराख्यो हृषिकराट् ।
पद्मनाभो दामोदरो वासुदेवस्ततो भवेत् ॥ २-१७ ॥

सङ्कर्षणश्च प्रद्युम्नोऽनिरुद्धश्च स्वराधिपाः ।
ततश्चक्री गदी शार्ङ्गी खड्गी शङ्खी हली तथा ॥ २-१८ ॥

मुसली शूलिना पाशी तथा स्यादङ्कुशी ततः ।
मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः ॥ २-१९ ॥

कृष्णः सत्त्वः सात्त्वतश्च शौरिः सूरो जनार्दनः ।
भूधरो विश्वमूर्तिश्च वैकुण्ठपुरुषोत्तमौ ॥ २-२० ॥

बली बलानुजो बालो वृषघ्नश्च वृषस्तथा ।
हंसो वराहो विज्ञेया नृसिंहश्चेति विष्णवः ॥ २-२१ ॥

विष्णुमूर्त्यधिकारः

कीर्त्तिः कान्तिस्तुष्टिपुष्टी धृतिः शान्तिः क्रिया (तथा?दया ) ।
मेधा च हर्षिणी श्रद्धा लज्जा लक्ष्मीः सरस्वती ॥ २-२२ ॥

प्रीतिरत्यौ स्वराणां तु शक्तयः स्युरिमाः क्रमात् ।
जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी ॥ २-२३ ॥

विजया विरजा विश्वा विमदा नन्दना स्मृतिः ।
ऋद्धिः समृद्धिः सिद्धिश्च बुद्धिर्भक्तिर्मतिः क्षमा ॥ २-२४ ॥

रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा ।
परा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा ॥ २-२५ ॥

अमोघा चेति पञ्चाशद्वर्णोक्ता विष्णुशक्तयः ।

विष्णुशक्त्यधिकारः

ओषध्योऽप्यथ चन्दनद्वयलघूकर्पूरकौशीरंरु-
ग्ध्रीबेराणि तकोलजातिसहिता मांसीमुरं चोरकम् ।
ग्रन्थी भास्करवर्तिनी च कथिता ह्यश्वत्थबिल्वौ गुहा -
रक्तश्चापि लवङ्गकुम्भिसहिता वन्दिन्यथोदुम्बरः ॥ २-२६ ॥

कार्ष्मर्यम्बुदशङ्खपुष्पिशिखिनीप्लक्षाग्निमन्थास्तथा
सिंहीदर्भकुशापराजितयुतः स्याद् रोहिणो डुण्डुकः ।
ख्याता स्याद् बृहती च पाटलतरं चैत्रातुलस्यावपा-
मार्गः शक्रलतामधुव्रतहरिक्रान्तामुसल्योऽपि च ॥ २-२७ ॥

स्याद् भीता हरितालिका हरिवधूस्तद्वत् सहा श्रीलता
भद्रा चेति यथाक्रमेण तु लिपेरोषध्य उक्तास्त्विमाः ।
याभिः स्याद् गुलिकाकषायभसितैरालेपनस्नापना-
ल्लक्ष्मीर्वाग्विभवोऽपमृत्युविजयो रक्षाकरं पावनम् ॥ २-२८ ॥

लिप्योषध्यधिकारः ।

अमृता मानदा पूषा तुष्टिपुष्ट्यौ रतिर्धृतिः ॥ २-२९ ॥

शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गना ।
पूर्णा पूर्णामृता चेति कलाः स्युः स्वरसम्भवाः ॥ २-३० ॥

तपनी तापनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।
सुषुम्ना भोगदा विश्वा बोधनी धारणी क्षमा ॥ २-३१ ॥

कादिद्वादशवर्णानां ठान्तानां क्रमशः कलाः ।
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विष्फुलिङ्गिनी ॥ २-३२ ॥

सुश्रीः सुरूपा कपिला हव्यकव्यवहे तथा ।
याद्यर्णयुक्ताः कथिता दशैतास्तु कलाः क्रमात् ॥ २-३३ ॥

अष्टत्रिंशत्कलाधिकारः ।

पञ्चभेदस्य तारस्य पञ्चाशदभवन् कलाः ।
सृष्टिश्चर्द्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्धृतिः स्थिरा ॥ २-३४ ॥

स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः ।
ऋग्वेदब्रह्मसृष्ट्यर्थाः प्रपञ्चे कथितं यथा ॥ २-३५ ॥

जरा च पालिनी शान्तिरैश्वरी रतिकामिके ।
वरदाह्लादिनी प्रीतिर्दीर्घा चोकारजाः कलाः ॥ २-३६ ॥

यजुर्विष्णुसमायुक्ता जगतः स्थितिहेतवः ।
तीक्ष्णा रौद्रा भया निद्रा तन्द्री क्षुत् क्रोधनी क्रिया ॥ २-३७ ॥

उत्कारिका च मृत्युश्च मकारप्रभवाः कलाः ।
सरुद्रसामवेदास्ताः ख्याताः संहृतये कलाः ॥ २-३८ ॥

पीता श्वेतारुणा गौरी बैन्दवाः सूर्यदेवताः ।
चतस्रं साथर्ववेदाः सेश्वराः सर्वकामदाः ॥ २-३९ ॥

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
इन्धिका दीपिका चैव रेचिका मोचिका ततः ॥ २-४० ॥

सूक्ष्मासूक्षामृताज्ञाना मृता चाप्यायनी ततः ।
व्यापिनी व्योमरूपा च ननन्ता चापि नादजाः ॥ २-४१ ॥

कलाः षोडश सङ्ख्याता भुक्तिमुक्तिप्रदायिकाः ।
सदाशिवात्मिकास्त्वेताः सामान्येन व्यवस्थिताः ॥ २-४२ ॥

इति प्रणवकलाधिकारः ।

केशान्ते मुखवृत्तेऽक्ष्णोः श्रोत्रयोर्घ्राणयोरपि ।
गण्डयोरोष्ठयोर्दन्तपङ्क्त्योर्मूर्धास्ययोः स्वरान् ॥ २-४३ ॥

कवर्गं दक्षिणे हस्ते चवर्गमितरे भुजे ।
टतवर्गौ तथा पद्भ्यां पफौ पार्श्वद्वये न्यसेत् ॥ २-४४ ॥

पृष्ठे नाभौ च हृदये न्यसेद् बभमसञ्ज्ञितान् ।
त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लासुपङ्कजे ॥ २-४५ ॥

हृत्स्थे तत्पत्रगान् यादीनष्टार्णानात्मनि न्यसेत् ।
क्षकारं कर्णिकायां तु सर्वशः संस्मरन् न्यसेत् ॥ २-४६ ॥

लिपिन्यासस्थानाधिकारः ।

स्थानान्युक्तान्यकारादिवर्णानां क्रमशोऽधुना ।
लिपेर्न्यासविशेषास्तु लिख्यन्ते साङ्गदैवतम् ॥ २-४७ ॥

लिप्यर्णैरेव बिन्द्वन्तैर्न्यासः शुद्धलिपेः स्मृतः ।

सञ्जीवनि! ऊर्ध्वकेशिनि! ज्वलितशिखिशिखे! त्रैलोक्यरूपिणि! सहस्रपरिवर्तिनि! ॐ ह्रीं सौं नेत्रत्रयाय वौषट् मारुतवारुणि!

काद्यैः षड्वर्गकैर्युक्तान्यादावङ्गानि षड् लिपेः ॥ २-४८ ॥

प्रायः सर्वाङ्गमन्त्राणाः हृदयं स्यान्नमोन्तकम् ।
शिरः स्वाहान्तमुद्दिष्टं वषडन्तं शिखा भवेत् ॥ २-४९ ॥

अन्ते हुं कवचस्य स्यात् फडन्तं चास्त्रमिष्यते ।
वौषडन्तं तथा नेत्रं नेत्रान्तं त्वेवमीरितम् ॥ २-५० ॥

अस्त्रान्ताङ्गविधिः क्वापि तत्रास्त्रान्तं तु विन्यसेत् ।
षडङ्गस्यैव मन्त्रस्य कथ्यते नेत्रकल्पना ॥ २-५१ ॥

पञ्चाङ्गस्य मनोस्तस्य नेत्रमन्त्रो न विद्यते ।
प्रागङ्गमन्त्रमुच्चार्य ततोऽङ्गं सचतुर्थिकम् ॥ २-५२ ॥

नमःस्वाहादिकं पश्चाद् योजयेदङ्गमुद्रया ।
प्रसारिताङ्गुलिर्हस्ततलं तु हृदये न्यसेत् ॥ २-५३ ॥

कुञ्चिताग्राङ्गुलिर्मुक्ताङ्गुष्ठं शिरसि तत् पुनः ।
बद्धमुष्टिनिसृष्टेन त्वङ्गुष्ठाग्रेण वै शिखाम् ॥ २-५४ ॥

वपुः स्वमस्पृशन्नूर्ध्वमुत्क्षिप्य तु करद्वयम् ।
आकुञ्चिताङ्गुलोत्तानतलं दक्षिणवामयोः ॥ २-५५ ॥

पार्श्वयोरानयेद् रक्षामानाभेः कवचं तु तत् ।
तावेवाकण्ठमुत्क्षिप्य करौ सङ्कुचिताङ्गुली ॥ २-५६ ॥

ज्येष्ठाग्रक्रान्ततर्जाग्राच्छोटिकोत्सर्जनात् पृथक् ।
अस्त्रं स्यान्नेत्रमुद्रा तु दक्षिणान्मुष्टिबन्धनात् ॥ २-५७ ॥

उत्सृष्टानामिकामध्यातर्जाभिः सहसाग्रतः ।
नेत्रत्रयस्पर्शनेन भवेन्नेत्रद्वयं यदि ॥ २-५८ ॥

तत्र तर्जनिकामध्यायोगान्नेत्रद्वयं स्पृशेत् ।
शुक्लं पीतं ज्वलज्ज्योतिर्विद्युद्वर्णम् हुताशभम् ॥ २-५९ ॥

रक्तं चाप्यङ्गषट्कं च सामान्येन पृथक् क्रमात् ।

अङ्काधिकारः ।

मुद्रार्थस्फटिकाक्षसूत्रकलशांश्चाबिभ्रती पुस्तकं
हस्तैर्दक्षिणपूर्वकैस्त्रिणयना शुक्लस्रगालेपना ।
कुन्दाभाक्षरविग्रहा शशिकलां मौलौ प्रसन्नानना
धत्ते या लिपिदेवताम्बुजगता मुक्ताभरालङ्कृता ॥ २-६० ॥

पञ्चाशद्वर्णमूर्तिं तामेवं ध्यात्वा स्वविग्रहे ॥ २-६१ ॥

स्थानेषु क्रमशो न्यस्य पूर्वोक्तेषु जपेल्लिपिम् ।
पञ्चाशत्सङ्ख्यया नित्यं यावल्लक्षं प्रपूर्यते ॥ २-६२ ॥

तिलैस्त्रिमधुराक्तैस्तु हुत्वा शक्त्यनुरूपतः ।
वाग्विशुद्धिमसौ विन्देत् कविता चास्य जायते ॥ २-६३ ॥

ग्रन्थ तत्त्वार्थविद् विद्वान् प्राज्ञो नीरोगविग्रहः ।
संसाध्यैवं लिपि देवीं सिद्धसर्वमनुर्भवेत् ॥ २-६४ ॥

शुद्धलिपिः ।

सरुद्रांस्तु जपेद् वर्णान् प्राग्वद् विन्यस्य तु क्रमात् ।
न्यासः श्रीकण्ठपूर्वोऽसौ क्षुद्ररोगादिशान्तिदः ॥ २-६५ ॥

मं मम् अम् अम् आम् आं क व च इं र क्ष

हृल्लेखाव्योमसौपूर्वममून्यङ्गानि षट् क्रमात् ।

श्रीकण्ठादि ।

लिप्यर्णानि सबिन्दूनि रुद्रशक्तिविभक्तिहृत् ॥ २-६६ ॥

युक्तानि विन्यसेदेष श्रीकण्ठादिः सशक्तिकः ।
अङ्गानि प्राक्तनान्येव तुल्यान्यस्यापि कल्पयेत् ॥ २-६७ ॥

न्यासयोरनयोश्छन्दो विराडित्यभिधीयते ।
श्रीब्रह्मा मुनिरुद्दिष्टो वाग्देवी दैवतं भवेत् ॥ २-६८ ॥

द्वितीयस्यार्धनारीशो न्यासस्येत्यपि केचन ।

साक्षस्रक्वलशोर्ध्वबाहुयुगलां चाधः समुद्राभयं
हस्तं दक्षिणमन्यतः सवरदे यस्याः करे पुस्तकम् ।
ध्यायेत् तां शशिखण्डमण्डितजटां देवीं त्रिनेत्रां सितां
श्रीकण्ठाद्यधिदेवतां च धवलैराकल्पकैर्भूषिताम् ॥ २-६९ ॥

सिन्दूरहेमोभयभागवर्णं त्वर्धाम्बिकं साङ्कुशपाशहस्तम् ।
साक्षावलिं स्वेष्टदपाणिमीशं श्रीकण्ठपूर्वं स्मरतु स्वसिद्ध्यै ॥ २-७० ॥

सशक्तिश्रीकण्ठन्यासः ।

तारं सशक्तिलिप्यर्णैरजपा सोऽहमेव च ॥ २-७१ ॥

प्रपञ्चयागन्यासोऽयं न्यासजप्यादिनेष्टदः ।
लकुली बिन्दुमान् सर्गी भृगुश्चाप्यजपामनुः ॥ २-७२ ॥

ऋषिर्ब्रह्मास्य गायत्री छन्दः स्याद् देवतापि च ।
परमात्मा परं ज्योतिर्ध्येयः स्वहृदयाम्बुजे ॥ २-७३ ॥

सशक्तिठद्वयं हृत् स्याच्छिरः सोऽहमिहोच्यते ।
अजपा तु शिखा ज्ञेया वर्मैव कवचं स्मृतम् ॥ २-७४ ॥

तार एव तु नेत्राणि हरीशार्णाविहास्त्रकम् ।
कर्णस्तु हरिबीजं स्याद् विषमीशाक्षरं विदुः ॥ २-७५ ॥

ध्येया स्यादभयाक्षसूत्रंशुकधृग् या पुस्तकं बिभ्रती
देवी पाण्डुरपुण्डरीकपटलस्वच्छेन्दुकुन्दद्युतिः ।
हृद्याङ्गी मणिकुण्डला त्रिनयना कोटीरभारोज्ज्वला
सार्धेन्दुः सितमाल्यगन्धवसना ब्राह्मी प्रपञ्चेश्वरी ॥ २-७६ ॥

प्रपञ्चयागन्यासः ।

शक्त्याद्यैर्वा लिपेर्वर्णैः शक्तिः श्रीपूर्वकैस्तु वा ।
शक्तिः श्रीमन्मथाद्यैर्वा मोमानङ्गादिकैस्तु वा ॥ २-७७ ॥

न्यासाः समृद्धिकास्त्वृद्ध्यै मुनिरेषां प्रजापतिः ।
छन्दस्तु दैवी गायत्री मोमानङ्गास्तु देवताः ॥ २-७८ ॥

स्वादिबीजैर्यथालिङ्गं षडङ्गानि भवन्ति हि ।
उमादिदेवताः स्मृत्वा न्यासे ध्येया सरस्वती ॥ २-७९ ॥

मन्दारदामकलितेन्दुजटाकिरीटा
सिन्दूररोचिरभिरामवपुस्त्रिनेत्रा ।
कुन्दावदातवसनाङ्कुशपाशविद्या-
सन्दोहपङ्कजकरावतु भारती वः ॥ २-८० ॥

समृद्धिन्यासः

कलासनस्थो लकुली वामाक्षार्धशशाङ्कवान् ।
लिप्यर्णोभयगो न्यस्तः क्षोभणीन्यास ईरितः ॥ २-८१ ॥

कामारूढस्तु लङ्कुली प्राग्वद् दीर्घस्वरैर्युतः ।
यथालिङ्गं षडङ्गानि छन्दो गायत्रमेव हि ॥ २-८२ ॥

वामदेवो मुनिः कामो दैवतं चाक्षरेश्वरी ।
सिन्दूरारुणसुन्दराङ्गरुचिरा रक्ताम्बरालेपना
मन्दारावृतकुन्तला स्मितमुखी गण्डोल्लसत्कुण्डला ।
ध्येया स्याद् दधती करैः सरसिजं पाशाङ्कुशे पुस्तकं
बिम्बोष्ठी मणिभूषणा भगवती सङ्क्षोभणी भूतये ॥ २-८३ ॥

क्षोभणीन्यासः ।

पाशश्रीशक्तिमदनैर्लिप्यर्णमदना रमा ॥ २-८४ ॥

लक्ष्म्यङ्कुशकलाहृद्भिर्युक्तो न्यासस्तु मालिनी ।
अनन्तो बिन्दुमान् पाशः श्रीबिन्द्वन्ताः स्वयं मनुः ॥ २-८५ ॥

ब्रह्मा समांसवामाक्षदण्डो बीजं तु मान्मथम् ।
शक्तिः ख्याता तु कः साग्निदन्तबिन्दुस्तथाङ्कुशम् ॥ २-८६ ॥

कलास्त्वक्षरजा ग्राह्याः पञ्चाशत् प्रणवोदिताः ।
वीप्सितानि स्वबीजानि सर्गी संवर्तकश्च षट् ॥ २-८७ ॥

अङ्गान्यमूनि मालिन्याश्छन्दश्चोष्णिगृषिर्गुहः ।
देवतास्य जगन्माता देवी त्रिपुरभैरवी ॥ २-८८ ॥

न्यासश्चानेन होमश्च मधुरैः सर्वसिद्धिदः ।
जपध्यानादिना सद्यः सर्वानाकर्षयेदपि ॥ २-८९ ॥

बन्धूकारुणविग्रहां त्रिनयनां रक्ताम्बरालेपनां
चञ्चत्काञ्चनकुण्डलां सवरदां पाशाङ्कुशे बिभ्रतीम् ।
नीहारामलहारकुङ्कुमरसैराताम्रकम्रस्तनीं
ध्यायेत् तां तु कपर्दचन्द्रशकलां सव्याभयां मालिनीम् ॥ २-९० ॥

मालिनीन्यासः ।

पाशाङ्कुशाभ्यां पुटितैर्लिप्यर्णैः कर्षणी भवेत् ।
न्यासस्तु कादिषड्वर्गैः पाशाङ्कुशपुटैर्यथा ॥ २-९१ ॥

षडङ्गानि भवन्त्यस्यच्छन्दोऽनुष्टुप् प्रजापतिः ।
ऋषिर्वाग्वादिनी दैवं न्यासाद्यैः सर्वसिद्धिदः ॥ २-९२ ॥

ध्येया स्याद् रोचनाम्भोद्रुतकनकवपुर्वल्लकीपुस्तकाभ्यां
या सा पाशङ्कुशाढ्या मणिगणरुचिरैर्भूषणैर्भूषिताङ्गी ।
कोटीराबद्धमौलौ धृतशशिशकला रक्तगन्धाम्बराद्या
स्वैक्यं वाग्वादिनीयं त्रिभिरपि नयनैर्भ्रूविलासस्मितास्या ॥ २-९३ ॥

वाग्वादिनीन्यासः ।

लिप्यर्णानि सबिन्दूनि केशवाद्याश्च विष्णवः ।
तच्छक्तयश्च क्रमशो न्यस्तव्या स्युर्नमोन्तकम् ॥ २-९४ ॥

केशवाद्यैर्भवेन्न्यासो विष्णुमन्त्रेषु सिद्धिदः ।
अष्टाक्षरतनुर्विष्णुर्देवता तमपि स्मरन् ॥ २-९५ ॥

न्यसेच्छन्दस्तु गायत्री नारदोऽस्य मुनिर्भवेत् ।

देवी कुन्देन्दुगौरी स्फुरदमृतकलाहारिहाराभिरामा
ध्येया मालेयहृद्यं वपुरपि दधती लेखनीं चाक्षसूत्रम् ।
सौधं कुम्भं च विद्यानिधिमपि जलजं जाटजूटाहितेन्दु
र्या सा क्षौमाम्बराढ्या त्रिभुवननमिता षट्भुजा सत्रिणेत्रा ॥ २-९६ ॥

केशवादिन्यासः ।

एवम्प्रकारा गदिता लिपेर्न्यासास्तु सिद्धिदाः ॥ २-९७ ॥

एषामेकतरं न्यासमाश्रयेदेव साधकः ।
न्यस्तलिप्यर्णदेहस्तु जपहोमार्चनादिकम् ॥ २-९८ ॥

कुर्यान्मन्त्रात्मरक्षार्थं तथा तत्कर्मसिद्धये ।
न्यस्तां लिपिं ततो ध्यात्वा पूजयेन्मातृकाम्बुजे ॥ २-९९ ॥

सप्तवर्गान्त्ययुग्माष्टदिक्पत्रं सितपङ्कजम् ।
बिन्दौ मदग्निरुद्धान्त्यकर्णिकं स्वरकेसरम् ॥ २-१०० ॥

सप्तार्णवैः परिवृतं पृथ्वीबिम्बेन वेष्टितम् ।
मातृकावर्णपद्माख्यं विषमृत्युजरापहम् ॥ २-१०१ ॥

चिन्तितं तच्छिरस्येव मृत्युक्ष्वेलरुजो हरेत् ।
ध्यात्वा दुग्धाब्धिमध्यस्थं दिव्यस्फटिकमण्डपम् ॥ २-१०२ ॥

तत्र पीठाम्बुजे ह्यास्मिन् शक्तयोऽष्तौ दलाग्रतः ।
मेधा प्रज्ञा प्रभा विद्या धीर्धृतिस्मृतिबुद्धयः ॥ २-१०३ ॥

विद्येश्वरी च मध्यस्था शुक्ला शुक्लाम्बरादिकाः ।
कृताञ्जलीद्वयकरास्तथैवोर्ध्वकरद्वये ॥ २-१०४ ॥

दधत्यः पुस्तकं कुम्भं शान्ताः सुन्दरमूर्तयः ।
विदिक्ष्वङ्गानि दिक्ष्वस्त्रं दलेषु नयनं पुरः ॥ २-१०५ ॥

ततः स्वराश्च तत्सङ्ख्यकलाभिरमृतादिभिः ।
अमृता मानसी तुष्टिः पुष्टिप्रीतिरतिश्रियः ॥ २-१०६ ॥

शान्तिः सुधा तथा कान्तिर्ज्योत्स्ना हैमवती ततः ।
छाया च पूरणी वामाप्यमा चेन्दुकलास्त्विमाः ॥ २-१०७ ॥

अमृतासारवर्षिण्यो द्वन्द्वशो दलगाः स्मरेत् ।
ततो वर्गाक्षराणि स्युस्ततो ब्राह्म्यादिमातः ॥ २-१०८ ॥

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराह्यैन्द्री च चामुण्डी महालक्ष्मीश्च दिक्क्रमात् ॥ २-१०९ ॥

ततो दश दिगीशाः स्युरिन्द्रोऽग्निर्यम एव च ।
निरृतिर्वरुणो वायुर्धनदेशानकौ ततः ॥ २-११० ॥

प्रागादिदिक्षु तेऽष्टौ स्युरथेन्द्रेशानमध्यगः ।
ब्रह्मा स चोर्ध्वलोकेशोऽनन्तो वरुणरक्षसोः ॥ २-१११ ॥

अधोलोकेश्वरस्त्वेतान् षडावरणगान् यजेत् ।
मध्येऽब्जकर्णिकासंस्थां चेतनात्मतया लिपिम् ॥ २-११२ ॥

स्वन्यासोक्ताकृतिं ध्यायेदुपचारैर्यथोदितैः ।
आसनावाहनार्घाणि पाद्यं चाचमनीयकम् ॥ २-११३ ॥

साङ्गोपाङ्गं तथा स्नानं वसनाभरणानि च ।
गन्धपुष्पे तथा धूपो दीपश्चरुनिवेदनम् ॥ २-११४ ॥

अग्निकार्यं नमस्कारो राजपूजासमर्पणम् ।

षोडशोपचारः

एवं स्थण्डिलगामिष्ट्वा मनसा वा समर्चयेत् ॥ २-११५ ॥

ऋष्यादीनपि विघ्नेशं गुरुं चाप्युत्तरे यजेत् ।
ततोऽष्टपुष्पिकां कुर्यात् सा चाहिंसा क्षमा दया ॥ २-११६ ॥

तथेन्द्रियाणां नियमो ज्ञानं भावविशुद्धता ।
अक्रोधो ध्यानमित्यष्टौ भावपुष्पाण्यनुक्रमात् ॥ २-११७ ॥

आसनं चैव तन्मूर्त्तिर्देवता चाङ्गपञ्चकम् ।
इत्यष्टौ पूजयेन्मन्त्रैः स्यादेवं चाष्टपुष्पिका ॥ २-११८ ॥

सिद्धये साधकेन्द्राणां देवतानां प्रसादने ।
प्रचेतव्यानि मन्त्राणां स्फुरणाय विशेषतः ॥ २-११९ ॥

क्षमस्वेति ततो देवीं परिवारैश्च तैः सह ।
निरञ्जने लयं गच्छ शिरोन्तं मनुनामुना ॥ २-१२० ॥

द्वादशान्ताम्बुजस्थेन्दौ योजयेच्चेतनात्मिकाम् ।

लिपिपूजाविधिः ।

पूजाक्रमोदितं चक्रभूर्जहेमादिके लिखेत् ॥ २-१२१ ॥

तद्धारणेन सर्वार्थाः सिद्ध्यन्त्यस्याप्ययत्नतः ।
प्रातस्त्रिवारमनया जपित्वाम्भः पिबेत् सुधीः ॥ २-१२२ ॥

संवत्सराद् भवेत् प्रज्ञा कविता चास्य जायते ।
अष्टोत्तरसहस्रं तज्जपाद् ब्राह्मीरसं पिबेत् ॥ २-१२३ ॥

अहोरात्रमविच्छिन्नमथवाप्युपरागयोः ।
पलं श्वेतवचाचूर्णं कर्षं तुरगगन्धिनी ॥ २-१२४ ॥

कृष्णा हरिद्रा सिन्धूत्थं धात्री रुग् विश्वभेषजम् ।
प्रतिनिष्कं तु सञ्चूर्ण्य घृतप्रस्थे विनिक्षिपेत् ॥ २-१२५ ॥

ब्राह्मीरसचतुष्प्रस्थे पचेन्मृद्वग्निपाकवित् ।
ब्राह्मीघृतमिदं प्राज्ञमनयायुतमन्त्रितम् ॥ २-१२६ ॥

पिबेत् सूर्योपरागे तु सर्वज्ञत्वमवाप्नुयात् ।
दिनादौ वा लिहेन्नित्यं पञ्चाशदभिमन्त्रितम् ॥ २-१२७ ॥

संवत्सराद् भवेत् प्राज्ञः कविर्विद्वत्सुसम्मतः ।
मध्ये तु मातृकापद्मे लिप्योषध्यम्बुपूरितम् ॥ २-१२८ ॥

कलशं विधिवन्नित्यं जपेद् दशशतं ततः ।
तेनाभिषिक्तो मासेन वागायुःकान्तिकीर्त्तिभिः ॥ २-१२९ ॥

अरोगी युज्यते लक्ष्म्या बन्ध्या सूते सुतं शुभम् ।
आधारशक्तिबिन्दूत्थां प्रभां सौषुम्नमार्गगाम् ॥ २-१३० ॥

द्वादशान्तेन्दुगां ध्यात्वा तस्यां क्षाद्यक्षरं लिखेत् ।
बह्निसोमाभिसम्प्रोताद् रोगान्मुच्येत पातयन् ॥ २-१३१ ॥

लिपिमिति विदितार्थां विन्यसेदेकमार्गां
गुरुमुखसमवाप्तां तां जपेच्चापि लक्षम् ।
सितकुसुमतिलाज्यैस्तद्दशाशेन हुत्वा
वशयति जगदिष्टं प्राप्तवागीश्वरोऽसौ ॥ २-१३२ ॥

ग्रहरिपुविषरोगान् वोप्लवान् हन्ति चान्यान्
निजवपुषि परे वा न्यासतः स्वार्णसङ्ख्यम् ।
जगति निखिलमन्त्राः साधिताः स्युर्न नूनं
न हि लिपिरभिराद्धा साधयेत् सर्वकामान् ॥ २-१३३ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे श्रीकण्ठादिपटलो द्वितीयः ।