वागीश्वरं तं गिरिशं गिरं तां गौरीं गणेशं च मतङ्गजास्यम् ।
दूर्गां च दुर्गार्तिहरां विरिञ्चं लक्ष्मीं च लक्ष्मीशमपि प्रपद्ये ॥ १-१ ॥
गुरूनलं गौरवतो गरीयसः समाहितः सर्वसमान् महीयसः ।
महामहिम्ना मिहिरानिवोदितांस्तमोमहामोहहरान् नतोऽस्म्यहम् ॥ १-२ ॥
विस्तृतानि विशिष्टानि तन्त्राणि विविधान्यहम् ।
यावत्सामर्थ्यमालोच्य करिष्ये तन्त्रपद्धतिम् ॥ १-३ ॥
अनन्यतन्त्रसापेक्षस्वार्थसन्दोहसङ्गतिम् ।
ऋद्धैर्विधानमन्त्रार्थैर्वेद्यां श्रुतिमिवापराम् ॥ १-४ ॥
प्रसन्नां नातिकुटिलां नातिसङ्क्षेपविस्तराम् ।
चित्रां बहुगुणां विष्णोः शय्यां भोगवतीमिव ॥ १-५ ॥
विविधच्छन्दसं नानावृत्तालङ्कारवर्णकाम् ।
सेव्यां कामिजनस्येष्टां ललितां प्रमदामिव ॥ १-६ ॥
विषग्रहामयादीनां प्रशमोपायदर्शिनीम् ।
मन्त्रबिम्बौषधिध्यानैर्विद्यां सञ्जीविनीमिव ॥ १-७ ॥
असुहृन्निग्रहोच्चाटविद्वेषस्तम्भमोहनैः ।
उत्सादमारणोपायैर्दण्डनीतिमिवापराम् ॥ १-८ ॥
पूतनानरकारिष्टदमनादौ विचक्षणाम् ।
सत्यभामासमाश्लिष्टां यथा मूर्तिं मुरद्विषः ॥ १-९ ॥
मनुभिर्बहुभिर्युक्तां दैवतैश्चापि तत्समम् ।
कृतत्रेतादिकल्पैश्च शरदं ब्रह्मणो यथा ॥ १-१० ॥
निजसङ्केतमार्गज्ञैरधिगम्यां पृथग्विधैः ।
यन्त्रैर्दूरीकृतानर्थां दुर्गभूमिमिवापराम् ॥ १-११ ॥
निर्गतद्वापरां धर्मतनयस्वर्गयोगतः ।
कलिप्रसङ्गकटुकां कालस्येह गतिर्यथा ॥ १-१२ ॥
पादैश्चतुर्भिर्नात्यर्थं भिन्नार्थप्रसवैर्युताम् ।
चतुर्युगक्रमायत्तां वैधसीमिव कल्पनाम् ॥ १-१३ ॥
एकामपि पृथग्लक्ष्यपूर्वार्धापरलक्षणाम् ।
मूर्तिं विनायकस्येव गजवक्त्रां नराकृतिम् ॥ १-१४ ॥
महेन्द्रजालविज्ञानप्रपञ्चजननीं यथा ।
तद्विदां प्रत्ययावेद्यां मुक्तिदां शक्तिमैश्वरीम् ॥ १-१५ ॥
मोक्षप्रसाधनीं तत्तत्क्रमावेद्यां त्रयीमिव ॥ १-१६ ॥
सप्रयोगा हि मनवः साङ्गदैवपुरस्क्रियाः ।
सच्छन्दोमुनिदिग्बन्धाः सध्यानाः सप्रयोजनाः ॥ १-१७ ॥
सविधानाश्च लक्ष्यन्ते मन्त्रास्ते स्युश्चतुर्विधाः ।
बीजानि बीजमन्त्राश्च मन्त्रा मालाख्यमन्त्रकाः ॥ १-१८ ॥
नानाक्षराणां संयोगाद् बीजं स्याद्वैकमक्षरम् ।
बीजमन्त्रा दशार्णाधो मन्त्राः स्युर्विंशतेरधः ॥ १-१९ ॥
विंशत्यर्णाधिका ये तु मालामन्त्रा भवन्ति ते ।
प्रायेण बाल्ये बीजानि सिद्धिं यच्छन्ति भूयसीम् ॥ १-२० ॥
बीजमन्त्रास्तु कौमारे मन्त्रा यौवनसिद्धिदाः ।
वार्द्धकेऽपि च सिध्यन्ति मालामन्त्राः सदैव हि ॥ १-२१ ॥
श्रद्धाभक्तिसमभ्यासात् सर्वे सिध्यन्ति सर्वदा ।
मननत्राणधर्मित्वं वाचके दैवतस्य तु ॥ १-२२ ॥
यत्र तन्मन्त्रसञ्ज्ञं स्यान्न तद् बीजेषु वा भवेत् ।
अत्र रत्नत्रये –
मननात् सर्वभूतानां त्राणात् संसारसागरात् ।
मन्त्ररूपा हि तच्छक्तिर्मननत्राणधर्मिणी ॥ इति ॥
वाच्यवाचकयोरैक्यमधिगम्य गुरावपि ॥ १-२३ ॥
तद् दैवतसमां भक्तिं विदधीतात्मसिद्धये ।
लिपिर्वै सर्वमन्त्राणां शब्दानां चैव मातृका ॥ १-२४ ॥
सा तु शक्तेः समुत्पन्ना शक्तिबीजात्मिका मता ।
निर्विकल्पात्मकं ब्र(ह्म) यन्नित्यानन्दविग्रहम् ॥ १-२५ ॥
शिवं तदचलं विश्वस्वभावं भासकं परम् ।
सुसूक्ष्मं चिर्द्धनं व्यापि सर्वगं तदणोरणु ॥ १-२६ ॥
महतोऽपि महच्छुद्धमिच्छाज्ञानक्रियोदयम् ।
आदिसर्गमुखे ज्ञानचिकीर्षायत्नधारणात् ॥ १-२७ ॥
स्वशक्तिव्यक्तिमाधत्ते प्रदीपः स्वप्रभामिव ।
सत्त्वं रजस्तमश्चैतच्छुक्लरक्तासितप्रभम् ॥ १-२८ ॥
शक्तिर्भवत्यजा ह्येका विश्वोद्भवविधायिनी ।
सा शक्तिर्बिन्दुतामेति बिन्दुः सोऽपि त्रिधा भवेत् ॥ १-२९ ॥
बिन्दुर्नादो रवश्चेति स रवोऽव्यक्तमिष्यते ।
अव्यक्तादुदितं तत्त्वं महान्नाम त्रिभेदकम् ॥ १-३० ॥
महतश्चाप्यहङ्कारस्त्रेधा स च निगद्यते ।
वैकारिकस्तैजसश्च भूतादिरिति चापरः ॥ १-३१ ॥
तस्माच्छाक्तादहङ्काराद्धकारो घोषवानभूत् ।
अत्र श्रीकालोत्तरे –
नादाख्यं यत् परं बीजं सर्वभूतेष्ववस्थितम् ।
मुक्तिदं परमं दिव्यं सर्वसिद्धिप्रदायकम् ॥
सान्तं सर्वगतं शून्यं मात्राद्वादशभिः स्थितम् ।
ह्रस्वा ब्रह्म समाख्याता दीर्घा ह्यङ्गानि षण्मुख ॥ इति ॥
रत्नत्रयेऽपि –
स तु शब्दश्चतुर्धा वाग्वैखर्यादिविभेदतः ।
जायते बिन्दुसङ्क्षोभादनन्तस्यार्थसिद्धये ॥ इति ।
शक्तिर्नादो महामाया व्योमेति च चतुर्विधम् ॥ १-३२ ॥
बिन्दोरेवास्य तु पुनश्चतस्रो वृत्तयः स्मृताः ।
वैखरी मध्यमा चैव पश्यन्ती चापि सूक्ष्मया ॥ १-३३ ॥
व्युत्क्रमेण भवन्त्येताः कुण्डलिन्यादितः क्रमात् ।
सूक्ष्मा कुण्डलिनीमध्ये ज्योतिर्मात्रात्यणीयसी ॥ १-३४ ॥
अश्रोत्रविषया तस्मादुद्गच्छन्त्यूर्ध्वगामिनी ।
स्वयं प्रकाशा पश्यन्ती सुषुम्नामाश्रिता भवेत् ॥ १-३५ ॥
सैव हृत्पङ्कजं प्राप्य मध्यमा नादरूपिणी ।
अन्तःसञ्जल्पमात्रा स्यादविभक्तोर्ध्वगामिनी ॥ १-३६ ॥
सैवोरःकण्ठतालुस्था शिरोघ्राणद्विजोपगा ।
जिह्वामूलोष्ठनिष्ट्यूता कृतवर्णपरिग्रहा ॥ १-३७ ॥
शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी ।
हकारः सविकारोऽथ रेफेण समयुज्यत ॥ १-३८ ॥
ईकारमभजत् तस्माद् बिन्दुनादविभूषितः ।
शक्तिबीजं हि तद्योगात् प्रपञ्चोत्पत्तिकारणम् ॥ १-३९ ॥
हरत्वाच्च हरित्वाच्च पुम्प्रकृत्योस्तु युक्तयोः ।
श्लिष्टोच्चारितयोः शाब्दं रूपं तद्बीजमीरितम् ॥ १-४० ॥
हकारस्तु भवेत् प्राणो रेफो वह्निरुदाहृतः ।
ईकारस्तु भवेन्माया बिन्दुरीश्वर उच्यते ॥ १-४१ ॥
नादः सदाशिवो ज्ञेयो नादान्तस्तु शिवः स्वयम् ।
हकारो व्यक्तिमापन्नो हार्दघोषविवक्षितः ॥ १-४२ ॥
अकारतां गतस्तस्य भेदो ह्यक्षरसङ्गतिः ।
ऊकारान्तान्यकारादीन्यक्षराणि षडस्य तु ॥ १-४३ ॥
विकृतिः स्याद् विशेषेण रेफस्य तु ऋ ॠ ऌ ॡ ।
ईकारभेदतस्त्वासन्नेकाराद्यक्षराणि षट् ॥ १-४४ ॥
इत्थं षोडशधोत्पन्नाः स्वराख्याः शक्तिबीजतः ।
शक्त्यङ्गत्वात् कलास्ते स्युरमृतांशुकलात्मकाः ॥ १-४५ ॥
ह्रस्वाः स्वरा बिन्दुयुताः पुमांसोऽग्न्यर्करूपिणः ।
दीर्घस्वरा विसर्गान्ताः स्त्रीलिङ्गाः सोमरूपिणः ॥ १-४६ ॥
ॠऋऌॡचतुष्कं तु सौम्याग्नेयं नपुंसकम् ।
स्वराणामुदयाद्यं तु पुरस्तादिह लिख्यते ॥ १-४७ ॥
इति स्वराधिकारः ।
हकारः शब्दगुणवानकारमसृजत् पुरः ।
व्योम्नः स्पर्शगुणो वायुः स्पर्शाख्याः कादयोऽभवन् ॥ १-४८ ॥
पञ्चपञ्चाक्षरास्ते स्युः पञ्चवर्गास्त्विनात्मकाः ।
याद्यक्षरचतुष्कं तु वाय्वग्निक्ष्माम्भसां तनुः ॥ १-४९ ॥
स्पर्शो रूपं तथा गन्धो रसाख्यस्तद्गुणाः क्रमात् ।
शेषास्तु व्यापकाः शाद्याः साग्नीषोमाः स्वरस्पृशः ॥ १-५० ॥
इत्थं पञ्चाशदुत्पन्ना वर्णाः शक्तिप्रभेदतः ।
कादयः पञ्चविंशार्णा यादयः शादयस्तथा ॥ १-५१ ॥
स्थानप्रयत्नभेदेन जायन्ते खल्वकारतः ।
अकारादिस्वरैर्युक्तहलां योगान्मिथोऽपि च ॥ १-५२ ॥
शब्दप्रपञ्चः सर्वोऽपि विचित्रं जायते स्फुटम् ।
हलामधिकारः ।
सैव शक्तिर्द्विधा भूता तारो वाग्भवमित्यपि ॥ १-५३ ॥
अकारश्चाप्युकारोऽथ मकारो बिन्दुनादवान् ।
ताराख्यः प्रणवो ह्येष शब्दब्रह्मात्मको मतः ॥ १-५४ ॥
अ-ईमबिन्दुनादाढ्यं वाग्भवं बीजमीरितम् ।
विश्ववाग्भूतिदं तत्तु वागीश्वर्यास्तनुर्भवेत् ॥ १-५५ ॥
प्रणवस्तु शिवः साक्षाद् वाग्भवं शक्तिरैश्वरी ।
शक्तिबीजं तथा तारो वाग्भवं च ततः परम् ॥ १-५६ ॥
अकारादीनि पञ्चाशदक्षराण्यनुपूर्वशः ।
तद्भेदजाश्च या वाचो देशभाजा विलक्षणाः ॥ १-५७ ॥
वेदाः साङ्गाः पुराणानि शास्त्राणि विविधानि च ।
आकाशादीनि भूतानि तन्मात्राणीन्द्रियाणि च ॥ १-५८ ॥
मनो बुद्धिरहङ्कारो रागः कालः कलास्तथा ।
बहुना किं प्रलापेन यः शब्दार्थात्मकोऽखिलः ॥ १-५९ ॥
प्रपञ्चः शक्तिजो ह्येष शक्तिस्तस्मात्तु मातृका ।
अस्यां तु मातृकाख्यायां लिपित्वं लिख्यते यतः ॥ १-६० ॥
अक्षरत्वं क्षराभावाद् वर्णत्वं वर्णसङ्ग्रहात् ।
अर्णत्वममृतात्मत्वादर्णोऽम्भः कथ्यते यतः ॥ १-६१ ॥
खानिलाग्न्यब्धरित्र्याख्या हयरेफा वलावपि ।
उपादानानि विश्वात्ममातृकायास्तु पञ्च वै ॥ १-६२ ॥
अवर्गोऽस्या मुखं साङ्गं कचवर्गौ भुजद्वयम् ।
टतवर्गौ तथा पादौ पार्श्वयुग्मं पफौ मतौ ॥ १-६३ ॥
पृष्ठं बकारो नाभिस्तु भकारो हृन्मकारतः ।
त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लानि यादयः ॥ १-६४ ॥
धातवः सप्त वर्णाः स्युर्हकारः प्राण इष्यते ।
स्फूर्तिः क्षकारः सक्रोधो विश्वलोकमयी तनुः ॥ १-६५ ॥
भूराद्याः सप्त ये लोकाः पातालानि च सप्त वै ।
ब्रह्मादिस्तम्बपर्यन्तं मातृकायां व्यवस्थितम् ॥ १-६६ ॥
सूर्याद्यास्तु ग्रहाः सप्त वर्गेभ्यः पृथगुद्गताः ।
अवर्गादुद्गतः सूर्यः कवर्गादपि भूसुतः ॥ १-६७ ॥
चवर्गाद् भार्गवो ज्ञस्तु टवर्गाद् ता(लि?दि)काद् गुरुः ।
पवर्गाच्च शनिश्चन्द्रो यवर्गादभवद् विभुः ॥ १-६८ ॥
नक्षत्राण्याश्विनादीनि मेषाद्या राशयस्तथा ।
मातृकाक्षरसम्भेदात् कथ्यन्ते परतोऽत्र वै ॥ १-६९ ॥
पञ्चाशदक्षरेभ्यस्तु पञ्चाशद् रुद्रमूर्तयः ।
समुद्गतास्तथा रुद्रशक्तयस्तत्प्रसङ्ख्यया ॥ १-७० ॥
विष्णुमूर्तिविशेषाश्च तावत्यो विष्णुशक्तयः ।
ओषध्यश्चापि पञ्चाशदष्टत्रिंशत् कलास्तथा ॥ १-७१ ॥
तारात् पञ्चप्रभेदात् तु पञ्चाशदभवन् कलाः ।
एवं हि मातृकोत्पत्तिरागमोक्ता प्रदर्शिता ॥ १-७२ ॥
प्रपञ्चसारकथिता यथावदिह सङ्ग्रहात् ।
अत्रोद्ध्रियन्ते बीजानि बीजमन्त्राः समन्त्रकाः ॥ १-७३ ॥
उद्धारव्यत्ययादि स्यान्मालामन्त्रेषु कल्पना ।
ततः परं यथापाठं विज्ञेया निपुणैः स्फुटम् ॥ १-७४ ॥
हुम्फट् वषट् नमो वौषडङ्गानि परिवारकाः ।
यथावदत्र लिख्यन्ते भगवच्छब्दसंयुताः ॥ १-७५ ॥
युक्ताक्षराणि च स्पष्टं स्वाहाकारे च ठद्वयम् ।
दण्डार्धेन्दुर्भवेद् बिन्दुः सर्गो बिन्दुद्वये मतः ॥ १-७६ ॥
मन्त्रास्तु मानवः ख्याताः वकारो ब्रह्मसञ्ज्ञितः ।
विषकालौ मकारः स्याद् धातवो यादयो मताः ॥ १-७७ ॥
त एव मरुदग्नीलाम्भांसि वान्ता भवन्ति हि ।
खः प्राणभुवनेशाख्यो हकारः शिवसञ्ज्ञितः ॥ १-७८ ॥
कचवर्गौ टतौ तद्वद् व्यत्यस्तौ हि परस्परम् ।
पफबाश्च भमक्षाश्च व्यत्ययं ते त्रयस्त्रयः ॥ १-७९ ॥
यशवर्गौ मिथस्तद्वद् वेद्यौ व्यत्यस्तवर्णकौ ।
स्वरेषु व्यत्ययो नेष्टस्तद्वद् युक्ताक्षरेष्वपि ॥ १-८० ॥
श्रीकण्ठाद्याश्च ये रुद्रा न्यासस्थानानि वा लिपेः ।
तत्तदक्षरविज्ञप्त्यै सङ्केताय भवन्ति हि ॥ १-८१ ॥
सङ्ख्यास्तृतगणो देवा भूतानि भुवनानि च ।
यथासङ्ख्यं तथा विद्यात् स्वराः सप्त दिशो दश ॥ १-८२ ॥
बाणास्तु पञ्च वै सप्त समुद्रा मुनयस्तथा ।
वेदाश्चत्वार एव स्युस्त्रयो रामाश्त्रयोऽग्नयः ॥ १-८३ ॥
नन्दास्तु नव चत्वारो युगा वेद्या रसाश्च षट् ।
उक्तात्युक्ता तथा मध्या प्रतिष्ठा सुप्रतिष्ठिता ॥ १-८४ ॥
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ।
तृष्टुप् च जगती तद्वत् ततोऽतिजगती मता ॥ १-८५ ॥
शक्वरी चातिशक्वर्या ह्यष्टिरत्यष्टिरेव च ।
धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः ॥ १-८६ ॥
विकृतिः सङ्कृतिश्चैव प्रोक्ताभिकृतिरुत्कृतिः ।
एतासां छन्दसां सङ्ख्या क्वचिदत्र विधीयते ॥ १-८७ ॥
तत्त्वसङ्ख्या भवेद् यत्र ग्राह्यं षट्त्रिंशदेव हि ।
तथा षट्त्रिंशदेव स्युः शैवे तत्त्वानि सङ्ख्यया ॥ १-८८ ॥
कटपायचतुर्वर्गा नञसन्धिस्वरैर्मृतैः ।
नवभिर्नवपञ्चाष्टवर्णैः सङ्ख्यात्र वा भवेत् ॥ १-८९ ॥
सङ्केताधिकारः ।
इत्ययं वस्तुनिर्देशो ग्रन्थेऽस्मिन् विदितो यथा ।
सुखावबोधो ह्यर्थानां भवत्येवेष्टसिद्धये ॥ १-९० ॥
शब्दब्रह्म यदेकमक्षरमजं चैतन्यमात्रं यतो
विश्वोत्पत्तिविनाशपालनविधौ नित्योत्थिता मूर्तयः ।
यस्मादक्षरविग्रहा भगवती जाता स्वयं मातृका
तच्छाक्तं प्रणवाख्यबीजमखिलं न्यग्रोधबीजं विदुः ॥ १-९१ ॥
इति श्रीमदीशानशिवगुरुदेवमिश्रविरचिते तन्त्रसारपद्धतौ वस्तुनिर्देशमातृकोपपत्तिनिर्णयो नाम प्रथमः पटलः ॥