Scope

“प्रत्यक्षं चानुमानं च
शास्त्रं च विविधाऽऽगमम् ।
त्रयं सुविदितं कार्यं
धर्मशुद्धिम् अभीप्सता ॥ "

शास्त्र-व्याप्तिः

शास्त्रैकगम्ये विषये
युक्तिः शास्त्र-वचनं न प्रतिषेद्धुम् अर्हति।

न हि वचन-विरोधे न्यायः प्रभवति॥

“देव-गुह्येषु चान्येषु
हेतुर् देवि निर्-अर्थकः ।
बधिरान्धवद् एवात्र
वर्तितव्यं हितैषिणा”
( भारतम् आनुशाासनिक-पर्व २२८-६०)

किन्तु, न्यायस्य वचनाशयावगताव् उपकारकता वर्तते। तद् अन्यत्रोक्तम्

प्रत्यक्षानुमान-व्याप्तिः

प्रमाणान्तरगम्ये तु शास्त्रप्राधान्यं न वर्ततय् इत्य् अतस्
तत्र विरोधः शक्यः। यथा - भूगोल-विषयः शास्त्रैकगम्यविषयो नास्ति -
अतः, शास्त्रं दुर्बलं प्रमाणान्तरविरुद्धम् प्रधानार्थे त्याज्यम्।

Direct observation (extensible to experimental science) and inference is a valuable source of knowledge in some cases (even mokSha according to some), but not in others.

Literal understanding of sayings in the veda-s and shAstra-s, contradicting direct observation (and science), is considered naive and wrong.

प्रत्यक्षेणानुमित्या वा
यस् तूपायो न बुध्यते।
तं विदन्ति तु वेदेन
तस्माद् वेदस्य वेदता ॥

is oft quoted.

रामानुज-वेङ्कटनाथाद्य्-उक्तयो [ऽन्यत्र](/rAmAnujIyam/tattvam/venkaTa-nAtha-shAkhA /vishvAsaH/pramANAni) ।

शङ्करोक्तयो ऽन्यत्र

व्यासादि-सार्वज्ञ्यम्

भगवद्-अवतारस्य भूगोलम् अन्यथा वर्णयतो व्यासमुनेर् अज्ञानापादनं कथं युक्तम्?

इति चेत्
मीमांसाद्य् अस्मद्-आविष्कारो न - तैर् एव शास्त्र-कृद्भिः खल्व् अनुगृहीतम्।

न च स व्यासः पूर्णावतारः। (तेन ब्रह्मवित् सः, न प्रकृतिवित्।)
एवं मध्वस्य वायोः पूर्णावतारत्वम् अपि चिन्त्यम्।

अन्यथा सत्य् अपि (माध्वादय एवं मन्येरन्),
“शास्त्रे मीमांसया ब्रह्मादि वेदनीयम्”
इति तद्-अभिप्रायस् तत्-प्रणीत-सूत्रैर् एव व्यक्तः।
स मोहशास्त्राण्य् अपि प्रवर्तयामास खलु - तामसिक-पुराणादीनि।
तेन

तद्-वचनस्यैकदेशं यथातथं गृहीत्वा
मीमांसाद्य् उपेक्षतां स्खालित्यं
तद्-अनभिप्रेतम्

इत्य् अपि न वक्तुं शक्यम्।

Ancient applications

  • appayya vs bhaTTatiri argument about heliocentricism KV.
  • Example: Ayurveda in moving from mantra-vyapaashraya to yukti-vyapaashraya ridiculed “people who seek proof for medicines in mantras”. (vAgbhaTa 40-86 and 40-88 , BVP-discussion.)
  • In jyotiSha for eg. they emphasized imp of observation and correction.
    • Ancient mathematical approximations for planetary positions prove inadequate when we directly observe these positions.