ग्रन्थादि-प्रचारौचित्यम्

सर्व-विध-ग्रन्था ध्वनि-सञ्चिकाश् चल-चित्राणि च
वैदिकास् तान्त्रिकाश् च
रहस्यास् सदस्याश् च
विद्यन्ते ऽन्तर्जाले नाना-रूपैः।
पुस्तकरूपेणापि प्रकाशितचराः, तालपत्त्ररूपैर् अपि म्लेच्छादिभ्योऽपि सुलभाः
तत्रेतोऽपि सुग्राह्यरीत्या पुष्कलतरं
ग्रन्थादीनाम् प्रकाशनादेर् औचित्ये कश्चन विचारः।

तत्र बिभ्यति केचिद् एभ्यः कारणेभ्यः -

  • ब्रह्मद्विषो ऽनेन स्वकुकर्मसु पुष्टिं लभन्ते।
  • प्राचीनानाम् “योग्याय प्रार्थयत एव देयं ज्ञानम्” इति प्राचाम् आदेशस्य विरोधो भवति।
  • गुरु-मुखाध्ययनम् उत्तमम् अनेन वार्यते

एषु भय-स्थानेषु सत्याङ्कुरम् अस्त्य् एव।
तथापि कालानुरोधेन तद्-अतिक्रमणं मय् उचितम् भाति। यथा -

  • किम् ब्रह्म-द्विषां दस्यूनाम् ब्रह्म-द्वेषः कु-कर्माणि रोध्यन्ते रोधयिष्यन्ते वा ग्रन्थ-प्रकाशनादेर् विरामेण? किं श्वो वा परश्वो वा ऽस्मान् आराधयितुम् आरभिष्यन्ते? न। ते स्व-स्वोन्मादेषु सहस्राधिक-वर्षेभ्यः स्थिर-धियः। (पुरा ऽपि सत्य् अपि बहु-विरोधे, किं न जाता नास्तिका वेद-विरोधिनश् च जैन-बौद्ध-सिक्खादयः?)
    • किम् ब्रह्म-द्विषाम् अस्मद्-ग्रन्थ-प्रकाशनानुवर्तनाभावे वर्तते किञ्चन दारिद्र्यम् लेखानाम्? न। स्व-कु-कर्मसु प्रयत्न-शीला हि ते।
    • एवम् मक्षक-विवारयिषया मुद्गरेण नासा-प्रहार इवैषा वार्ता।
  • किं सताम् सत्कार्याणां च पोषणम् प्रेरणं वा भवतितराम् सद्ग्रन्थ-प्रचारेण? आम्।
    • अन्यथा कु-चिन्तनेष्व् एवान्तर्जालादौ सुलभेषु, तेषाम् अपि सताम् भ्रंशो निश्चितः। सर्वत्र दृश्यन्ते हि सदाचार-सच्चिन्तन-सत्सम्प्रदायान्वयादेर् विनाशाः, दुष्ट-क्षुद्रासाम्प्रदायिकानां च विप्लवाः
    • “सर्वत्र सर्वे ऽधिकारिण” इति नास्मत्-पक्षः। अ-पात्र-प्राप्ति-जन्य-दुष्-प्रभावस्यापेक्षया सत्-पात्र-पूर्ति-सुकृतम् पर्वतायते ऽस्मिन् युगय् इत्य् एव। तयोर् अज-गजान्तर-व्यत्यासो वर्तते।
  • सज्जनेषु गुरु-मुखाध्ययनस्य प्रेरकाणि हि पुस्तकावलोकन-जालोपन्यास-श्रवणादीनि भवन्तितराम् इति स्वानुभवः (मन्त्रोपदेशादौ विशिष्य)। यथा-कथञ्चित् ग्रन्थ-गत-ज्ञानस्य +अनुष्ठाने साक्षात्-कारो ऽन्यत्र कुत्र भवेत्? कुत्र च भगवद्-अनुभवादेर् जीवान्तरे जागरणस्य साफल्य-सम्भावना स्पष्टतरा? आचार्य एव, न ग्रन्थय् इति सर्वविदितम्। आचार्याधीनम् अनुवर्तताम् अधिकारि-विवेकः
    • कु-मतेष्व् अपि सम्प्रदाय-विरोधिषु, स प्रभावो व्यक्तः (यद्य् अपि तेषाम् अपि ग्रन्था विद्यन्ते ऽन्तर्जालादौ सुलभाः)।

प्राचीना अपि तत्-प्राचीन-विधेर् अतिलङ्घनेन, कालानुरोधेन स्व-मत-रक्षा-प्रचाराभ्यां ग्रन्थान् अलिखन् (श्रीवैष्णव-रहस्यग्रन्थेष्व् अपि रामानुजोत्तर-कालीनेषु तथेति श्रूयते), क्वचिन् मन्त्रार्थान् प्राकाशयन् (रामानुजर्यो यथा ऽष्टाक्षर्य्-अर्थम् - कैश्चिद् अङ्गीकृतायाः कथाया अनुसारेण)।

पुनः प्राप्तावकाशा मुद्रणयन्त्रैः कागद-रूपेण भूरिशः प्रतीः सम्पाद्य प्रासारयन्, अनुवादांश् च म्लेच्छ-भाषास्व् अपि प्राकटयन्
यथा श्रीगोपालाचार्यः (पश्चान् मैसूर्-आण्डवन्न्) इति विख्यातस् स्वकृते देशिक-प्रबन्धानुवादय् एवं लिखति हस्तिगिरिमाहात्म्ये -

ರಹಸ್ಯಾರ್ಥಗಳು ಸದಸ್ಯವಾಗುತ್ತಿರುವ ಈ ಸದವಕಾಶವನ್ನು ರಸಿಕಶಿರೋಮಣಿಗಳು ಉಪಯೋಗಿಸಿಕೊಳ್ಳುವರೆಂದು ನಂಬಲಾಗಿದೆ.

ಶುಭಕೃತ್ - ಪುಷ್ಯ
1962
ವಿದ್ವಾನ್ ಹ. ಗೋಪಾಲಾಚಾರ್ಯ
ಮೈಸೂರು

कति न नष्टा ग्रन्था ग्रन्थ-भागाश् च प्रत्य्-अलाभात्? कति न सम्प्रदाया जीर्णा शीर्णा नष्टाश् च ज्ञान-लोपेन? प्रचारेणैव ग्रन्थ-रक्षा सम्प्रदाय-रक्षा च स्थिरतरा।