sAraH, essence

शाब्द-बोधः

सो ऽन्यत्र व्याख्यातः ।

हेतु-प्राधान्यादि-विज्ञानम्

Observation + inference may augment the overall validity of texts in some cases (see “holy books”) or refute literal or non-contextual understanding of specific portions.

व्यवहार-काण्ड-गतं बृहस्पति-वचनम् बहुत्रोल्लिखितं धर्म-शास्त्रे -

केवलं शास्त्रम् आश्रित्य
न कर्तव्यो विनिर्णयः ।
युक्ति-हीने विचारे तु
धर्म-हानिः प्रजायते

(“Conclusions should not be drawn merely on the basis of the literal meanings of Śāstraśabdas. If the matter is not tempered by logic it may harm dharma).

एवं हेतुं विज्ञाय शास्त्रादेशा अवगन्तव्याः।

If all statements of Dharmaśāstras are applicable for all times, then the southern India (Dakṣiṇāpatha) would have to be considered Mleccha-deśa, which is unfit/unsuitable for yajñas. - सत्य-शर्मा

युगदोषः

शोभनम् उक्तम् माधवेन -

द्विविधा ह्य् अधर्मप्रवृत्तिः -
युगप्रयुक्ता, प्रमादालस्यादि-प्रयुक्ता च ।

तत्र युग-प्रयुक्तायाः प्रवृत्तेर् अपरिहार्यत्वान्
न तन्-निवृत्तये पराशरस्योद्यमः ।
या तु प्रमादालस्यादि-प्रयुक्ता प्रवृत्तिः
तत्र सावकाशं धर्म-शास्त्रम् ।+++(5)+++

Exaggeration

  • Taking punishments and rewards described by shAstra-s literally can be quite risible.

“व्याघ्रादि-व्यपदेशेन
यथा बालो निवर्त्यते ।
असत्योऽपि तथा कश्चित्
प्रत्यवायो विधीयते॥ "

इति भर्तृहरिः। प्रत्यवायः = पापम् / अनिष्टम् / दुःखम्॥

विस्तारः (द्रष्टुं नोद्यम्)

तत्र तावद् अर्थवादोपस्थापितफलविषये एवेयमुक्तिरिति प्रत्येमि। यतो, न दतो गमयेदित्यादिवाक्यम् उदाहरणत्वेनोपस्थापितं क्वचिदग्रे तत्रैव। किञ्च प्रागयं श्लोकः पठितस् स्तूयते सा स्तुतिस्तस्येत्यादि। अतः प्रकरणादर्थवादवाक्यविषयकत्वमेवोचितं प्रतिभाति।

भास्करकण्ठः

Source: TW

अलम् उच्छृङ्खल-जन-नियमनार्थं कल्पित-शृङ्खला-रूप-वैदिक-विधि-निषेध-चोदना-त्रोटनेन [त्रोरनेन - च्।] ।+++(5)+++

महाजनास् तु स्वयम् एव स्वभावेन नियमिताः सन्तः
एतत् परमार्थं ज्ञास्यन्त एव । यद् उक्तम् :-

विषय-प्रतिषेधाश् च
स्वभावो विदितात्मनाम् । नियामकास् तु मूर्खाणां
चौराणाम् इव शृङ्खलाः ॥+++(5)+++

इति ।

प्रकीर्ण-तन्त्राणि

द्रष्टव्यम् - TW