General acknowledgement

Several are sayings that denounce blithe reliance on “holy” texts.

योगवासिष्ठम् -

अपि पौरुषम् आदेयं
शास्त्रं चेद्युक्ति-बोधकम्।
अन्यत् त्व् आर्षम् अपि त्याज्यं
भाव्यं न्यायैकसेविना॥

इति योगवासिष्ठम् 2.18.2 श्रुत्युपेक्षौचित्यं कदाचिद्बोधयन्ती।

युक्तियुक्तमुपादेयं
वचनं बालकादपि ।
अन्यत् तृणवत्त्याज्यं
अप्युक्तं पद्मजन्मना॥

योऽम्भस् तातस्य कूपोऽयम्
इति कौपं पिबेत् कटु ।
त्यक्त्वा गाङ्गं पुरःस्थं तं
कोऽनुशासति रागिणम् ॥२,१८.४ ॥

युक्तियुक्तं वचो ग्राह्यं
बालादपि शुकादपि।
युक्तिहीनं वचस्त्याज्यं
वृद्धादपि शुकादपि॥

पञ्चतन्त्रे मित्रभेदे -

“अश्वः शस्त्रं शास्त्रं वीणा
वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्ता
भवन्त्ययोग्याश्च योग्याश्च ।।”

यस्य नास्ति स्वयं प्रज्ञा
शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य
दर्पणः किं करिष्यति ॥

यस्य नास्ति विवेकस्तु
केवलं यो बहुश्रुतः।
न स जानाति शास्त्रार्थान्
दर्वी पाकरसानिव॥