स्थानेश्वरानुभवाः

from: sthAneshvaraH provenance: first hand account

स्वप्नद्वारा-गुरु-मेलनम्

१६ वर्षीयो यदा, नास्तिक-दशायां पशु-पति-नाथ-मन्दिरे वेदान्त-गुरु-मेलनं तान्त्रिक-प्रेरित-प्राय-स्वप्न-द्वारा जातम्।

खप्तड-गुरुः

यत् किञ्चिच् छास्त्र-गतं स्थानेश्वरः पृच्छति स्म जटिलम् अपि, ४० वर्षेभ्यः पूर्वम् अधीतम् अपि,
अयं वनवासी स्मृत्वा परिहर्तुं शक्नोति स्म।
यदा तु तत्परीक्षायै प्रष्टुं यतते, तदा “न नाशय मत्कालम्” इति प्रत्याख्याति स्म - स्थानेश्वरचित्तम् इव पठन्।

मस्त-रामः

मस्त-राम-विषये कथयामि -

प्रतिदिवसं प्रारम्भे गुरून्, पृच्छामि स्म,
मुक्तोऽसि न वा, न चेत् किमर्थं पाठयसि यन्न जानासि।

तस्य उत्तरं भवति स्म,

यदि मुक्त-पुरुष-दर्शनमिच्छसि, गच्छ मस्तरामं प्रति।

बहुकष्टेन सप्त-दश-वर्षीयो ऽहम् अगमम्, हृषीकेशे तद्-दर्शनार्थम्।
शताधिकं प्रश्ना आसन्, मनसि।
यदा स गङ्गातटे नग्नप्रायो मीलितः,
घण्टाधिकम् अहं तत्र मूर्तिवत् स्थितः;
लक्ष्मण-झूला +इति सेतु-सन्तरण-समय एव
स्व-काय-नामादि-विकल्पोदयो जातः।
स च समाधि-स्थः किमपि नावोचत्।

मामपि समाधि-दशाया प्रथम-संज्ञानम् अदात्।
किं सम्भवति सिद्ध-पुरुष-कृत्यम् इति नाहम् अलं वक्तुम्।