स्रोतः - विजयो भाष्योपाह्वः
एषा घटना गतशतके कदाचित् घटिता इति मन्ये।
काकीनाड समीपे पिठापुरम् संस्थानस्य राजा आसीत् यस्य बहुकालानन्तरं कुमारो जातः ।
पुण्याहवाचनार्थम् व्यवस्थां कृतवान् ।
नामकरणदिने प्रातः शिशुः मृतः । केवलं राज्ञी एव जानाति स्म ।
वेदपण्डितान् रिक्तहस्तान् न प्रेषयितुं सा कस्मै अपि घटनां न सूचितवती ।
एकैकशः वेदपण्डिताः शिशुं प्रति आगत्य दीर्घायुषः आशीर्वदन्तः । महद् आश्चर्यं शिशुः चलितुं आरब्धवान् ।
मम गुरुतः+++(=मुक्कूरु-सिद्धात्)+++ श्रुतवान् अहम्॥