स्रोतः - विक्रमः (२०२४) - “असकृत् श्रुतमिदं वृत्तान्तम् उपन्यासावसरे स्वामितः”।
१९७० दशकस्य उत्तरार्धे कदाचित्
श्रीमुक्कुर्-स्वामी विजयवाडा-समीपे उपन्यासं कुर्वन् आसीत्।
तत्र कश्चन जनः
तं मिलित्वा अवदत् -
“मम समस्यां व्याख्यातुं न शक्नोमि।
कृपया मम गृहं आगच्छतु;
तदा भवान् अवगमिष्यति।”
इति।
स्वामी तस्य गृहं गतवान्।
तत्र एकायां प्रकोष्ठे नीतः।
तत्र एका तरुणी बालिका
शृङ्खलाभिः बद्धा आसीत्।
वस्त्राणि विक्षिप्य नग्ना स्थिता।
यः व्यक्तिः स्वामीं आमन्त्रितवान्
सः तस्याः पिता ।
स आह -
“एषा ब्रह्मरक्षसा ग्रस्ता।
कृपया मम साहाय्यं कुर्वन्तु,
मम तनयां रक्षतु।”
इति॥
“नृसिंह-यज्ञं कृत्वा
भगवन्तं प्रार्थयामः”
इति श्रीस्वामी अवदत्।
उपन्यास-समाप्तेः अनन्तरं
श्री-स्वामी यज्ञम् आरब्धवान्।
यज्ञस्य समाप्तौ बालिका ब्रह्मरक्षसः अपूर्णतया मुक्ता जाता। तस्याः क्रियाकलापः व्यवहारः च
प्रायः सामान्यः जातः।
“द्वितीयं यज्ञं कुर्मः;
भवतः तनयां प्रभुः पूर्णतया अनुगृह्णाति”
इति श्रीस्वामी अवदत्।
द्वितीययज्ञस्य समये ब्रह्मरक्षो
बालिकायाः माध्यमेन स्वामिनं भर्त्सयितवत् ।
पूर्णाहुति-समये बालिका शृङ्खलां विदार्य
बहिर् अधावत्।
ब्रह्मरक्षस् तस्याः अन्तः स्थातुं नाशक्नोत् ।
अन्तिमेषु क्षणेषु स्वामिनं मारयितुम् प्रायतत ।
अतः बालिका उत्थाय
अतीव-सुदृढ-देहिनं स्वामिनं उत्थाप्य
(चतुर्-गज-विस्तृते चतुर्-गज-गहने वर्तुलाकारे ) होम-कुण्डे क्षिप्तवती ।
भगवत्-कृपया श्रीस्वामी अग्नौ न पतितः,
अपितु परतीरं प्राप्तवान्।
एतेन अन्तिमया क्रियया ब्रह्मरक्षो निर्गतम् ।
बालिका सामान्या जाता ।
सा विवाहं कृत्वा
सम्प्रति अमेरिकादेशे निवसति ।