पञ्च-म-कारप्रयोगः
विस्तारः (द्रष्टुं नोद्यम्)
मद्यं मांसं तथा मत्स्यः
मुद्रा मैथुनमेव च।
पञ्चतत्त्वमिदं देवि
निर्वाणमुक्तिहेतवे।
मकारपञ्चकं देवि
देवानामपि दुर्लभम्
गुप्तसाधनतन्त्रम्॥
पूर्वपक्षः
तन्त्रशास्त्रेषु सर्वत्र पञ्च-म-कार-प्रयोगो दृश्यते;
किम् इति पञ्च-मकार-प्रयोगो ऽपूर्वतोत्पाद-प्रयोजकः,
किम् इति विध्य्-अङ्गत्वेन प्रयोग-विधिर् इति?
यतस् तन्त्रेषु पञ्च-म-कार-प्राशस्त्यं
क्वचित् तु तद्-उपयोग-राहित्ये कर्म-निष्फलत्वं, विरुद्ध-फलवत्त्वम् अपि दृश्यते,
म-कार-विधानस्य सार्वत्रिकत्वेनापरिहार्यत्वम् अस्त्य् एव।
विस्तारः (द्रष्टुं नोद्यम्)
जयरथो ऽपि विधिर् इति वदति -
पिबेद् इति–विधिः ।
अत एव अपानात् प्रत्यवायोपि स्यात् ।
Also read Maheshvarananda, Maharthamanjari. There are tons of references for drink etc. in Vijnanabhairava, jagdhipanakrtollasa, the surge of bliss by drinking and eating. And focus on that joy.
सिद्धान्तः
तत्रायं सिद्धान्तः।
सर्व-तन्त्र-स्व-तन्त्राणां विधि-निषेध-वाक्य-प्रयोज्यकत्व-विरहान् नात्र विधिः।
शास्त्रम् अपि विधि-प्रेर्यत्वावच्छिन्नानाम् एव प्रति विधिना प्रयुङ्क्ते।
प्रत्यवायशङ्का
अत्र प्रति-प्रश्नो भवति-
“न गुरुं हन्याद्” इत्य् अस्य
हननाप्रयुक्तानाम् एव कृते पातकम्
इति तु नास्ति।
योऽपि निषेध-वाक्य-द्वारा ऽनिषिद्धः,
सोऽपि निरतिं+++(=दुर्गतिं??)+++ गच्छत्य् एव गुरु-वध-जन्य-प्रत्यवाय-बलाद्।
तथैव पञ्च-मकाराप्रयुञ्जानस् तान्त्रिको
निरतिं+++(=??)+++ गच्छेद् विधि-वाक्योल्लङ्घनात्।
अत्रेदम् अवधेयं भवति।
असार्वत्रिकता
तन्त्रेषु पञ्च-म-कार-प्रयोगः सार्वत्रिको नास्ति।
सर्वत्र शैवागमेषु मकार-विधानं नास्त्येव।
भैरवागमेष्व् अपि मत्स्येन्द्र-नाथ-विरचित-शात्रेषु
पञ्च-म-कारस्य साङ्केतिकोऽर्थो दृश्यते।
तत्र कौलानाम् एव प्रधान-भुते कुलार्णव-तन्त्रे
पञ्च-म-कारस्यान्तर्याग-व्याख्यानं दृश्यते।
स्वातन्त्र्यवादः
तत्र तत्र शास्त्र-कृद्भिर् अमृतानन्द-शिवानन्द-महेश्वरानन्द-प्रभृतिभिः
स्वातन्त्र्य-वादम् अवलम्ब्यैव
म-कारादीनां व्याख्यानं वैकल्पिकत्वेन निर्णीतम् अस्ति।
भवतु नाम।
विस्तारः (द्रष्टुं नोद्यम्)
May be I am deferring to all of them in my understanding of Svacchanda Shastra or Svātantrya. I have shamefully embraced the Acharya title [not self-appointed though, given by Guru Shamkara Chetana], for a reason. Acharya Abhinavagupta gave meaning to some mad tantric practices, wove philosophy around such things.
My simple logic is, as long as one is guided by vidhi, how can one be svacchanda?
So my point is, when I find it unimaginably painful to eat another living being and disgusting to drink liquor that makes me have the loss of my consciousness, how can I enjoy, be in the state of bliss. The idea is not drink or eat. the idea is be in the blissful mode. And what can you do to someone who suffers from those?
so I have come to conclusion, that there is no injunction, as it comes to Agamic instruction in the state of Mahartha. So if one wants to eat meat, let him eat. if one drinks so be it. But I cannot stand the idea of shastric injunction . And I am rebellious. I am not following Mimamsa here.
विस्तारः (द्रष्टुं नोद्यम्)
About svacchanda, there are just random references you can glean from. Svacchandatantra, Maharthamanjari, Mahanayaprakasha, etc.
व्यक्तिगतकथा (द्रष्टुं नोद्यम्)
I myself was led to Kali temple, and for giving me life back, my parents had promised a goat. I was not even twelve but I had made a bond with that goat already in our trip to Kali temple. When we came back, we just had meat.
After the age 16, since the day of my Kali Diksa, I never touched meat or fish. My guruji Prem Chetan never touched those objects either.
भास्करराय-मतम्
तत्र सर्व-तन्त्र-स्व-तन्त्रा भास्कर-राय-वर्या
मीमांसक-दृष्ट्या म-कार-विवेचनं विदधाना
पञ्च-म-कारस्य सौत्रामण्यां सुरा-प्रयोगवत्
सोमयागेषु पश्व्-आलम्बन-वद् विधित्वेनैव स्वीकृतवन्तः।
किं भवान् तेषाम् अपि मतं नाङ्गी-करोति?
मतानाम् अङ्गीकारः शास्त्र-विधि-बद्ध-पशून् उपलक्ष्य।
विधिः काम-प्रयुक्तानां भवति।
कश्-चन षट्-कर्म-सिद्धि-कामो
म-कारं विधित्वेन गृह्णीयान् नाम।
ये खलु सर्वाम्नाय-साधनां भगवतः पशु-पतेर् आराधनार्थम् आचरन्ति,
नितरां कामना-वियुक्तास्, तेषां कथं भवेद् विधिः?
यदि मतं “निष्कामस्य न कर्मत्वं” -
सर्व-कर्म-प्रहाणस्यात्म-स्व-रूपत्वाद् इति,
न तेषाम् आलसानां शाक्य-मत-प्रक्षालित-धियाम् अत्र वार्त्ता सङ्गता।
+++(वाक्यम् इदं शाङ्कर-मत-खण्डन-परम्। यतस् ते आत्मनि ज्ञान-स्वरूपे क्रिया-विरहत्वं मन्वते।)+++
परन्तु भास्कर-राय-मतं यद् उपस्थापितं
तत्र किञ्चिद् अवधेयं भवति।
एतेन मीमांसक-मतम् अवलम्ब्य विधि-परत्वेन यद् व्याख्यातं,
तत् स्वतो गोरक्षनाथापर-पर्याय-महेश्वरानन्द-वाक्यं विरुद्ध्यते-
यत्र रुचिस् तत्र विधिः,
यत्र इमा+++(=??)+++ नास्ति तत्र च निषेधः।
इति +अस्माकं विवेकः
हृदय-परिस्पन्द-मात्र-शास्त्राणाम् इति,
लोकोल्लङ्घन-मात्र-विभवा योगिनी सर्वान्तिमे प्रार्थितत्वात्+++(=??)+++।
विस्तारः (द्रष्टुं नोद्यम्)
I need to present this better. The essence is, if lokollanghana is considered vidhi, there is regress. if drinking etc. is for breaking the norms, transgression, then transgression as injunction is just the same.
अभिमान-वारणम्
अत्रेदम् अवधेयम्।
राग-द्वेष-मोहानाम् एव बन्ध-कारणत्वम्।
“एते पाप-प्रयुक्तानाम् एव भवति” +इति न।
निष्पापानाम् अपि राग-द्वेषादि-दर्शनात्।
ये खलु पाप-प्रयुक्तास्,
ते तु साधना-शास्त्रेष्व् अनधिकृता एव,
तेषां दीक्षायां दान-क्षपण+++(=तपो)+++-धर्मिण्यां सर्वथा ऽनधिकृतत्वात्।
ये तु दीक्षिता पौंस्न-मल-विरहितास्
तान् उपलक्ष्य मकारादि-विधान-निर्देशः।
पञ्च-म-काराप्रयुञ्जानस्य
“ब्राह्मणोऽहम्, शुद्धोऽहम्, नम्बूदर्य्-अहम्” इत्य्-आदि
मिथ्या-ज्ञान-मोहितान् अभिलक्ष्य।
यः खलु स्वात्मानं मनुते -
“यतोऽहं, न मद्यं पिबामि, मद्य-पाद् अहं शुद्धो, धार्मिकश् चास्मी"ति मनुते,
स शीघ्रम् एव मद्यं पिबेत्,
यतस् तद्-अभिमानेन तस्य रागाद्य्-उदयः,
मद्य-पान-जन्य-पातकाद् अधिक-कष्टद एव।+++(4)+++
पाशुपतैश् चाष्ट-विध-पाश-प्रदर्शन-समये
घृणादीनां गणनाद्
यतो घृणादीनाम् अभावः स्यात्, तथा कार्यः साधकेन।
अनभिमाने ऽविधिः
परन्तु “यो ब्राह्मणाभिमानाद् विमुक्तस्,
सः सर्वदैव मद्यं पिबेद्” इति तु +आश्चर्यवहं मतम्।
यद्य् अभिमान-हननम् एव प्रमुखो ऽभिप्रायस्,
तत्राभिमतिर् नास्ति चेत्,
तत्-पानादि-विधानं पुनः मीमांसक-विधि-वाक्यवद् +++(काम्यकर्म??)+++विधानान्तर्गतम् एव स्यात्।
यदि लोकोल्लङ्घनम् एव प्रयोजनम् मैथुनादीनां,
तत्र किं तर्हि तान्त्रिको भवेद् ब्रह्मचारी?
प्रश्नोऽयं कुचोद्यः।
न कोऽपि “मैथुनिको ऽहम्” इत्य् अभिमनुते,
यथा कश्चन +“अहं ब्रह्मचारी"ति।
देवप्रीतिः
परन्तु देवान् उद्दिश्य द्रव्य-त्यागस्य तन्त्र-वेद-समानकत्वात्,
कथं देवतोद्दिष्ट-द्रव्येषु कर्तव्याकर्तव्य-विधि-निषेध-विरहः?
साधु पृष्टम्।
अत्र तन्त्र-शास्त्रेष्व् आत्मैव देवता प्रोक्ता, ललिता विश्व-विग्रहा।
यदि च ललिताया स्वात्म-संस्थाया पान एव रतिस्,
तत्र पिबतु नाम।
परन्तु यावद् इच्छा-रूपिण्या भगवत्या समष्ट्यावतार+++(=??)+++-रूपत्व-बोधो न भवति,
तावन् न कश्चन भवेत् साधकः।
तस्य च कृते
“भृशं मद्य-पानेन श्ववन् मार्गे-शायिनं भगवती कृपा-कटाक्ष-दायिनी,
सततं शुद्ध-मतिना ध्यान-परायणानां तु
मद्य-पान-विरहितत्वेन कृपानवसर”
इति तूपहासस्य विषयः।
विश्वास-टिप्पनी
यस्य देव-धर्मादि-निष्ठाया अग्रे ऽणूयते जात्याद्य्-अभिमानम्,
तस्मै न जात्याद्य्-अभिमान-घातक-मद्यादि-विधानम्।
विश्वास-टिप्पनी
आवयोर् विचारे भेदस् तु
“स्वातन्त्र्य”-तत्त्वे स्यात् …
प्राच्यानां विधि-निषेधा अस्मद्-हिताय प्रवर्तन्ते;
ते च सद्यस्क-देश-काल-वैपरीत्यं विज्ञायैव परिवर्तनीया
इति मे भाति।
कदाचिद् आर्यः स्थानेश्वरः -
“विधि-निषेधा उत्सर्गत एव तिरस्कार्याः,
सद्यस्क-देश-कालाद्य्-आनुकूल्ये सति तु ग्राह्या”
इति मन्येत।
तथापि नैतन् महद् अन्तरम् -
यतः परिवार-स्तरे हि शास्त्र-निष्ठा-मात्रा निश्चेतव्या स्यात्।