१ समाधिपादः
अथ योगानुशासनम् ॥ १।१ ॥
योगश् चित्तवृत्तिनिरोधः ॥ १।२ ॥
तदा द्रष्टुः स्वरूपे ऽवस्थानम् ॥ १।३ ॥
वृत्तिसारूप्यम् इतरत्र ॥ १।४ ॥
वृत्तयः
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ १।५ ॥
प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतयः ॥ १।६ ॥
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ १।७ ॥
विपर्ययो मिथ्याज्ञानम् अतद्-रूप-प्रतिष्ठम् ॥ १।८ ॥
शब्द-ज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ १।९ ॥
अभाव-प्रत्ययालम्बना वृत्तिर् निद्रा ॥ १।१० ॥
अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ १।११ ॥
अभ्यासः
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १।१२ ॥
तत्र स्थितौ यत्नो ऽभ्यासः ॥ १।१३ ॥
स तु दीर्घकाल-नैरन्तर्य-सत्-कारासेवितो दृढ-भूमिः ॥ १।१४ ॥
दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-सञ्ज्ञा वैराग्यम् ॥ १।१५ ॥
तत्-परं पुरुष-ख्यातेर् गुण-वैतृष्ण्यम् ॥ १।१६ ॥
वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः ॥ १।१७ ॥
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो ऽन्यः ॥ १।१८ ॥
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १।१९ ॥
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ १।२० ॥
तीव्रसंवेगानाम् आसन्नः ॥ १।२१ ॥
मृदुमध्याधिमात्रत्वात् ततो ऽपि विशेषः ॥ १।२२ ॥
ईश्वरप्रणिधानाद् वा ॥ १।२३ ॥
क्लेश-कर्म-विपाकाशयैर् अपरामृष्टः पुरुष-विशेष ईश्वरः ॥ १।२४ ॥
तत्र निरतिशयं सर्वज्ञबीजम् ॥ १।२५ ॥
पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् ॥ १।२६ ॥
तस्य वाचकः प्रणवः ॥ १।२७ ॥
तज्जपस् तदर्थभावनम् ॥ १।२८ ॥
ततः प्रत्यक्चेतनाधिगमो ऽप्य् अन्तरायाभावश् च ॥ १।२९ ॥
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास् ते ऽन्तरायाः ॥ १।३० ॥
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ १।३१ ॥
तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः ॥ १।३२ ॥
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश् चित्तप्रसादनम् ॥ १।३३ ॥
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ १।३४ ॥
विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धनी ॥ १।३५ ॥
विशोका वा ज्योतिष्मती ॥ १।३६ ॥
वीतरागविषयं वा चित्तम् ॥ १।३७ ॥
स्वप्ननिद्राज्ञानालम्बनं वा ॥ १।३८ ॥
यथाभिमतध्यानाद् वा ॥ १।३९ ॥
परमाणुपरममहत्त्वान्तो ऽस्य वशीकारः ॥ १।४० ॥
क्षीणवृत्तेर् अभिजातस्येव मणेर् ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ १।४१ ॥
तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ १।४२ ॥
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ १।४३ ॥
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ १।४४ ॥
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ १।४५ ॥
ता एव सबीजः समाधिः ॥ १।४६ ॥
निर्विचारवैशारद्ये ऽध्यात्मप्रसादः ॥ १।४७ ॥
ऋतम्भरा तत्र प्रज्ञा ॥ १।४८ ॥
श्रुतानुमानप्रज्ञाभ्याम् अन्यविषया विशेषार्थत्वात् ॥ १।४९ ॥
तज्जः संस्कारो ऽन्यसंस्कारप्रतिबन्धी ॥ १।५० ॥
तस्यापि निरोधे सर्वनिरोधान् निर्बीजः समाधिः ॥ १।५१ ॥
२ साधनपादः
तपःस्वाध्यायेश्वर-प्रणिधानानि क्रिया-योगः ॥ २।१ ॥
समाधि-भावनार्थः क्लेश-तनू-करणार्थश् च ॥ २।२ ॥
अ-विद्या–ऽस्मिता-राग-द्वेषाभिनिवेशाः पञ्च क्लेशाः ॥ २।३ ॥
अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ २।४ ॥
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर् अविद्या ॥ २।५ ॥
दृग्दर्शनशक्त्योर् एकात्मतेवास्मिता ॥ २।६ ॥
सुखानुशयी रागः ॥ २।७ ॥
दुःखानुशयी द्वेषः ॥ २।८ ॥
स्वरसवाही विदुषो ऽपि तथा रूढो ऽभिनिवेशः ॥ २।९ ॥
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ २।१० ॥
ध्यानहेयास् तद्वृत्तयः ॥ २।११ ॥
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ २।१२ ॥
सति मूले तद्विपाको जात्यायुर्भोगाः ॥ २।१३ ॥
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ २।१४ ॥
परिणामतापसंस्कारदुःखैर् गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः ॥ २।१५ ॥
हेयं दुःखम् अनागतम् ॥ २।१६ ॥
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ २।१७ ॥
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ २।१८ ॥
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ २।१९ ॥
द्रष्टा दृशिमात्रः शुद्धो ऽपि प्रत्ययानुपश्यः ॥ २।२० ॥
तदर्थ एव दृश्यस्यात्मा ॥ २।२१ ॥
कृतार्थं प्रति नष्टम् अप्य् अनष्टं तदन्यसाधारणत्वात् ॥ २।२२ ॥
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २।२३ ॥
तस्य हेतुर् अविद्या ॥ २।२४ ॥
तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ २।२५ ॥
विवेकख्यातिर् अविप्लवा हानोपायः ॥ २।२६ ॥
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २।२७ ॥
योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिर् आ विवेकख्यातेः ॥ २।२८ ॥
यम-नियमासन-प्राणायाम-+++(इन्द्रिय-)+++प्रत्याहार-धारणा-ध्यान-समाधयो ऽष्टाव् अङ्गानि ॥ २।२९ ॥
अहिंसा-सत्यास्तेय-ब्रह्मचर्याऽपरिग्रहा यमाः ॥ २।३० ॥
जाति-देश-काल-समयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ २।३१ ॥
शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ २।३२ ॥
वितर्क-बाधने प्रतिपक्षभावनम् ॥ २।३३ ॥
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ २।३४ ॥
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ २।३५ ॥
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ २।३६ ॥
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ २।३७ ॥
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ २।३८ ॥
अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ २।३९ ॥
शौचात् स्वाङ्गजुगुप्सा परैर् असंसर्गः ॥ २।४० ॥
सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ २।४१ ॥
सन्तोषाद् अनुत्तमः सुखलाभः ॥ २।४२ ॥
कायेन्द्रियसिद्धिर् अशुद्धिक्षयात् तपसः ॥ २।४३ ॥
स्वाध्यायाद् इष्टदेवतासम्प्रयोगः ॥ २।४४ ॥
समाधिसिद्धिर् ईश्वरप्रणिधानात् ॥ २।४५ ॥
स्थिरसुखम् आसनम् ॥ २।४६ ॥
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ २।४७ ॥
ततो द्वन्द्वानभिघातः ॥ २।४८ ॥
तस्मिन् सति श्वासप्रश्वासयोर् गतिविच्छेदः प्राणायामः ॥ २।४९ ॥
बाह्याभ्यन्तरस्तम्भवृत्तिर् देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ २।५० ॥
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ २।५१ ॥
ततः क्षीयते प्रकाशावरणम् ॥ २।५२ ॥
धारणासु च योग्यता मनसः ॥ २।५३ ॥
स्वविषयासम्प्रयोगे चित्त-स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ २।५४ ॥
ततः परमा वश्यतेन्द्रियाणाम् ॥ २।५५ ॥
३ विभूतिपादः
देशबन्धश् चित्तस्य धारणा ॥ ३।१ ॥
तत्र प्रत्ययैकतानता ध्यानम् ॥ ३।२ ॥
तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः ॥ ३।३ ॥
त्रयम् एकत्र संयमः ॥ ३।४ ॥
तज्जयात् प्रज्ञालोकः ॥ ३।५ ॥
तस्य भूमिषु विनियोगः ॥ ३।६ ॥
त्रयम् अन्तरङ्गं पूर्वेभ्यः ॥ ३।७ ॥
तद् अपि बहिरङ्गं निर्बीजस्य ॥ ३।८ ॥
व्युत्थाननिरोधसंस्कारयोर् अभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ३।९ ॥
तस्य प्रशान्तवाहिता संस्कारात् ॥ ३।१० ॥
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ३।११ ॥
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ ३।१२ ॥
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ ३।१३ ॥
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ ३।१४ ॥
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ ३।१५ ॥
परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ ३।१६ ॥
शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् सङ्करस् तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥ ३।१७ ॥
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥ ३।१८ ॥
प्रत्ययस्य परचित्तज्ञानम् ॥ ३।१९ ॥
न च तत् सालम्बनं तस्याविषयीभूतत्वात् ॥ ३।२० ॥
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगे ऽन्तर्धानम् ॥ ३।२१ ॥
सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा ॥ ३।२२ ॥
मैत्र्यादिषु बलानि ॥ ३।२३ ॥
बलेषु हस्तिबलादीनि ॥ ३।२४ ॥
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ ३।२५ ॥
भुवनज्ञानं सूर्ये संयमात् ॥ ३।२६ ॥
चन्द्रे ताराव्यूहज्ञानम् ॥ ३।२७ ॥
ध्रुवे तद्गतिज्ञानम् ॥ ३।२८ ॥
नाभिचक्रे कायव्यूहज्ञानम् ॥ ३।२९ ॥
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३।३० ॥
कूर्मनाड्यां स्थैर्यम् ॥ ३।३१ ॥
मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३।३२ ॥
प्रातिभाद् वा सर्वम् ॥ ३।३३ ॥
हृदये चित्तसंवित् ॥ ३।३४ ॥
सत्त्वपुरुषयोर् अत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम् ॥ ३।३५ ॥
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३।३६ ॥
ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः ॥ ३।३७ ॥
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः ॥ ३।३८ ॥
उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च ॥ ३।३९ ॥
समानजयाज् ज्वलनम् ॥ ३।४० ॥
श्रोत्राकाशयोः सम्बन्धसंयमाद् दिव्यं श्रोत्रम् ॥ ३।४१ ॥
कायाकाशयोः सम्बन्धसंयमाल् लघुतूलसमापत्तेश् चाकाशगमनम् ॥ ३।४२ ॥
बहिर् अकल्पिता वृत्तिर् महाविदेहा ततः प्रकाशावरणक्षयः ॥ ३।४३ ॥
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः ॥ ३।४४ ॥
ततो ऽणिमादिप्रादुर्भावः कायसम्पत् तद्धर्मानभिघातश् च ॥ ३।४५ ॥
रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ ३।४६ ॥
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः ॥ ३।४७ ॥
ततो मनोजवित्वं विकरणभावः प्रधानजयश् च ॥ ३।४८ ॥
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ३।४९ ॥
तद्वैराग्याद् अपि दोषबीजक्षये कैवल्यम् ॥ ३।५० ॥
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात् ॥ ३।५१ ॥
क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम् ॥ ३।५२ ॥
जातिलक्षणदेशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः ॥ ३।५३ ॥
तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् ॥ ३।५४ ॥
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् इति ॥ ३।५५ ॥
४ कैवल्यपादः
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ ४।१ ॥
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ ४।२ ॥
निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस् तु ततः क्षेत्रिकवत् ॥ ४।३ ॥
निर्माणचित्तान्य् अस्मितामात्रात् ॥ ४।४ ॥
प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ॥ ४।५ ॥
तत्र ध्यानजम् अनाशयम् ॥ ४।६ ॥
कर्माशुक्लाकृष्णं योगिनस् त्रिविधम् इतरेषाम् ॥ ४।७ ॥
ततस् तद्विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् ॥ ४।८ ॥
जातिदेशकालव्यवहितानाम् अप्य् आनन्तर्यं स्मृतिसंस्कारयोर् एकरूपत्वात् ॥ ४।९ ॥
तासाम् अनादित्वं चाशिषो नित्यत्वात् ॥ ४।१० ॥
हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वाद् एषाम् अभावे तदभावः ॥ ४।११ ॥
अतीतानागतं स्वरूपतो ऽस्त्य् अध्वभेदाद् धर्माणाम् ॥ ४।१२ ॥
ते व्यक्तसूक्ष्मा गुणात्मानः ॥ ४।१३ ॥
परिणामैकत्वाद् वस्तुतत्त्वम् ॥ ४।१४ ॥
वस्तुसाम्ये चित्तभेदात् तयोर् विभक्तः पन्थाः ॥ ४।१५ ॥
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ ४।१६ ॥
तदुपरागापेक्षित्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ ४।१७ ॥
सदा ज्ञाताश् चित्तवृत्तयस् तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ ४।१८ ॥
न तत् स्वाभासं दृश्यत्वात् ॥ ४।१९ ॥
एकसमये चोभयानवधारणम् ॥ ४।२० ॥
चित्तान्तरदृश्ये बुद्धिबुद्धेर् अतिप्रसङ्गः स्मृतिसङ्करश् च ॥ ४।२१ ॥
चितेर् अप्रतिसङ्क्रमायास् तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ ४।२२ ॥
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ ४।२३ ॥
तद् असङ्ख्येयवासनाभिश् चित्रम् अपि परार्थं संहत्यकारित्वात् ॥ ४।२४ ॥
विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ ४।२५ ॥
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ ४।२६ ॥
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ ४।२७ ॥
हानम् एषां क्लेशवद् उक्तम् ॥ ४।२८ ॥
प्रसङ्ख्याने ऽप्य् अकुसीदस्य सर्वथा विवेकख्यातेर् धर्ममेघः समाधिः ॥ ४।२९ ॥
ततः क्लेशकर्मनिवृत्तिः ॥ ४।३० ॥
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम् ॥ ४।३१ ॥
ततः कृतार्थानां परिणामक्रमसमाप्तिर् गुणानाम् ॥ ४।३२ ॥
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ४।३३ ॥
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति ॥ ४।३४ ॥