समाधिपादः यस्त्यक्त्वा रूपमाद्यं प्रभवति जगतोऽनेकधाऽनुग्रहाय प्रक्षीणक्लेशराशिर्विषमविषधरोऽनेकवक्त्रः सुभोगी। सर्वज्ञानप्रसूतिर्भुजगपरिकरः प्रीतये यस्य नित्यं देवोऽहीशः स वोऽव्यात्सितविमलतनुर्योगदो योगयुक्तः ॥ १ ॥ अथ योगानुशासनम् ॥ १ ॥ अथेत्ययमधिकारार्थः। विवरणम् विवरणम्

यस्मिन्न स्तः कर्मविपाकौ यत आस्तां क्लेशा यस्मै नालमलङ्ध्या निखिलानाम् । नावच्छिन्नः कालदृशा य: कलयन्त्या लोकेशस्तं कैटभशत्रुं प्रणमामि ॥ १ ॥

यः सर्ववित् सर्वेविभूतिशक्तिः विहीनदोषोपहितक्रियाफल: । विश्वोद्भवान्तस्थितिहेतुरीशो नमोऽस्तु तस्मै गुरवे गुरोरपि ॥ २ ॥

अथेत्यादिपातञ्जलयोगशास्त्र[सूत्रभाष्य]विवरणमारभ्यते । तत्रानाख्यातसम्बन्धप्रयेाजनं न पुरुषप्रवृत्तिनिवृत्तिभ्यां पर्याप्नोतीति, सूत्रकाराभिप्रेते पुरुषप्रवृत्तिनिमित्तभूते सम्बन्धप्रयोजने पूर्वं प्रकटीक्रियेते ॥

तत्र प्रयोजनं तावत् - चिकित्साशास्त्रे तच्चतुर्व्यूहत्वप्रदर्शनद्वारेण व्याख्यातम् । तद्यथा-चिकित्साशास्रं चतुर्व्यूहं, रोगः, रोगहेतुः, आरोग्यं, भैषज्यम् इति । विधिप्रतिषेधनियमद्वारेण [च तत्] चतुर्व्यूहाविषयव्याख्यानपरम् । एवमिहापि “परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिन:“ इत्यारभ्य चतुर्व्यूहत्वं शास्त्रस्य प्रदर्शितम् । तद्यथा-दुःखप्रचुरः संसारो हेयः । तस्याविद्यानिमित्ते द्रष्टृसंयोगो हेतुः । विवेकख्यातिरविप्लवा हानोपायः । विवेकख्यातौ च सत्यामविद्यानिवृत्तिः, तन्निवृत्तावात्यन्तिको द्रष्टृदृश्यसंयोगोपरमो हानम्, तदेव कैवल्यमिति । आरोग्यस्थानीयकैवल्यप्रयुक्तत्वादस्य तदेव कैवल्यं प्रयोजनम् ॥

ननु च हेयतद्धेतू न प्रस्तोतव्ये, निष्प्रयोजनत्वात् । हानप्रयुक्तं हि शास्त्रं, तदुपायभूता विवेकख्यातिरेव वक्तव्या । न हि कण्टकविद्धचरणतलस्य तदपनयनं मुक्त्वा दुःखतद्धेतू चोद्येते । नैतदेवं-हेयतत्कारणापेक्षत्वाद्धानोपायस्य । यावदिदमनेनोपायेन हातव्यं संसारचक्रम् अस्य चाविद्यानिमित्तो द्रष्टृदृश्यसंयोगो हेतु: इति नाख्यायते, तावन्नाविद्याप्रतिपक्षभूता विवेकख्यातिराख्यातुं शक्यते । हेयतद्धेतुमतो हानोपायार्थिनो रोगिणो भैषज्यार्थित्वदर्शनात् । न हि रोगं रोगहेतुं चानपेक्ष्य चिकित्साशास्रमुपदिश्यते ॥

सम्बन्धोऽपि-विवेकख्यातेर्हानमेव फलं साध्यं हानस्यापि विवेकख्यातिरेव साधनमिति साध्यसाधनयोरितरेतरनियम एव, नान्यसम्बन्धः । तद्यथा-भैषज्यस्यारोग्यमेव फलम् आरोग्यस्यापि भैषज्यमेव साधनमिति इतरेतरनियमः, स च शास्त्रादिति । तस्मात् ससम्बन्धप्रयोजनं योगानुशासनम् ।

ननु च यदि हानं प्रयोजनं तदुपायश्च विवेकख्यातिरिति, तत्र वक्तव्यम् ‘अथ विवेकख्यात्यनुशासनम्‘ इति । किमर्थम् ‘अथ योगानुशासनम्‘ इति सूत्रितम् ?

तदुपायत्वाद्योगस्य । उपाय एव वक्तव्यः स्यात् । उपेयोपप्रदर्शने हि उपेयमुपायं प्रति साकाङ्क्षमेवेत्युपायः साङ्गकलापः पुनरपि वक्तव्यः स्यात् । तस्मिंश्चाभिहिते सर्वमभिहितमिति ।

कथं तदुपायत्वम् ? यत आह सूत्रकारः– ‘योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः‘ इति । ‘निर्विचारवैशारद्येऽध्यात्मप्रसादः‘ ‘ऋतम्भरा तत्र प्रज्ञा‘ इति च । तथा भाष्यकारोऽप्याह–‘यस्त्वेकाग्रे चेतसि स भूतमर्थे प्रद्योतयति‘ इति । भूतार्थावगतिश्च विवेकख्यातिः । तस्माद्युक्तं तदुपाययोगानुशासनमेवादौ सूत्रितमिति ॥

ननु च योगाङ्गानुष्ठानाद्विवेकख्यातिः, तत्र वक्तव्यं ‘अथ योगाङ्गानुशासनम् इति-न-फलेनोपक्रमात् । योगाङ्गानुष्ठानस्य हि फलं योग इति तदुपक्रमो युक्तः ॥

यद्येवं हानेनोपक्रम्येत-न-तस्योपेयत्वात्-उपेयमेव हि तत् । योगः पुनः स्वाङ्गानामुपेयश्च, उपायश्च विवेकख्यातेरणिमादिप्राप्तेश्चेत्यभ्यर्हिततरः । फलतदुपायरूपत्वात् (फलपयनिमित्तत्वात्) ॥

उत्तरसूत्रार्थवाच्च । न हि ‘अथ योगाङ्गानुशासनम् । ’ इत्युक्त ‘योगश्चित्तवृत्तिनिरोधः’ इति युक्तं वक्तुम् । तदा हि ‘यमनिययम’दिसूत्रमेव पठितव्यं स्यात् ॥

अथ तदेव पठितव्यमिति चेत्-न-योगोपे(पा)यया हानोपायभूताया विवेकख्याते:, फलस्य च हानस्य, सम्बन्ध[प्र]दर्शनार्थत्वात् ‘योगश्चित्तवृतिनिरोधः‘ इत्यस्य ॥

(स)कथं पुनरेतत्सम्बन्धप्रदर्शनार्थम् ? यावता निर्बीजसमाधिलक्षणाभिधानमेतत् । सत्यमेवं, तथापि हानतदुपायसम्बन्धमवद्योतयदेव सूत्रं निर्बीजसमाधिलक्षणतामापद्यते ॥

न हि निरोधलक्षणात् समाधेरर्थान्तरं हानम् । किं त्वेतावता विशेष:, निरोधलक्षणसमाधै (धेर्ने) पुनः प्रवृतिः, हाने त्वात्यन्तितिकी निवृत्तिरिति । समाध्यवस्थायां तु हानाविशेष एव । तथा चाह-‘‘तदा द्रष्टुः स्वरूपेऽवस्थानम्‘‘ [इति] ॥ ‘‘स्वरूपप्रतिष्ठा च चितिशक्तिः कैवल्यम्‘‘ इति स्वरूपप्रतिष्ठत्वं(ष्ठं) हि कैवल्यमाह । ततश्च निर्बीजसमाधिना कैवल्यमेव शास्त्रार्थप्रत्ययद्रढिम्ने साक्षाक्रियते ।

तस्माद्यदुच्यते कैश्चित् सबीजसमाधिः कैवल्यसाधनमिति-तन्न ! किं तर्हि? ख्यातिरेव साधनमविद्यानिवृतिद्वारेण । अविद्यानिमित्तो हि बन्धः । तस्माद्यद्यपि योगानुशासनं सूत्रितम्, तथापि ख्यात्यर्थवाद्योगस्य तद्द्वारेण ख्यातिहानसम्बन्धमपि दर्शयतीति, सुष्ठूच्यते उत्तरसूत्रसम्बन्धार्थं च योगानुशासनमिति सूत्रयितव्यमिति ॥

यद्यपि फलार्थिनां तत्फलसाधनं प्रत्युत्पन्नाकाङ्क्षाणां साधनोपदेशोऽप्यास्ति । तथापि न तत्प्रयोजनम् , सर्वस्य फलेोद्देशेन प्रवृत्तेस्तदेव प्रयोजनमिति ॥

योगानुशासनमिति । यथा-शिष्योऽनुशिष्यते विशिष्टप्रवृत्तिनिवृत्तिनियमद्वारेण, तथा विशिष्टसाध्यसाधनतदङ्गनियममात्रसादृश्यादन्तेवास्यनुशासनवद्योगानुशासनमित्युच्यते । अनुशिष्टिरनुशासनं, योगेऽनुशिष्यतेऽनेनास्मिन्निति वा योगानुशासनं शास्त्रम् ॥

अथेत्ययमधिकारार्थः । अधिकार आरम्भः प्रस्तावः, अर्थोऽभिधेयोऽस्य ; शिष्टस्मृतिप्रामाण्यात् । ननु चानन्तर्यार्थस्याथशब्दस्य स्मरन्ति शिष्टाः । तथा चाह-“वृत्तादनन्तरस्य प्रक्रियार्थे दृष्टः” इति । न-सर्वत्रारम्भार्थत्वात् । आनन्तर्यस्य च गम्यमानत्वात् । यथा पुत्र इत्युक्ते पिता गम्यते, न च पुत्रशब्दस्यार्थः पिता, तथेहाप्यारम्भ एवाभिधीयते, आनन्तर्यं तु प्रतीयते ॥

अत एव च ‘वृत्तादनन्तरस्य प्रक्रियार्थो दृष्टः‘ इत्युच्यते । यदि चानन्तर्यार्थोऽभविष्यत्तदा ‘वृत्तादानन्तर्येऽर्थे प्रक्रियायाः‘ इत्यवदिष्यत् । अनन्तरस्येति चानन्तरभाविन एवाभिधानम् ।

अपि चैवं हि स्मृतिः-‘‘किञ्चिदव्यं विभक्त्यर्थप्रधानं किञ्चित्क्रियाप्रधानम् । उचैनीचैरित्यादि विभक्त्यर्थप्रधानम्, हिरुक् पृथगिल्यादि क्रियाप्रधानम्’ [इति] । न चैतद्व्यतिरेकेणाव्ययानामर्थों विद्यते । तत्राथशब्दस्यानन्तर्यार्थत्वे सति विभक्त्य(क्ति)श्रवणमयुक्तम्, सत्त्वप्रधानत्वात् । आरम्भक्रियार्थत्वे तु न विभक्त्यर्थ)श्रवणमयुक्तम्, असत्त्वप्रधानत्वादिति ॥

तस्मादथशब्दः प्रस्तावार्थे एवेति युक्तमथेल्यधिकारार्थे इति । स्वरूपावद्योतनार्थ इतिशब्दः । यथा गौरित्याहेति । प्रसिद्धोऽप्यथशब्दार्थोऽधिक्रियमाणविषये शिष्यबुद्धिसमाधानार्थ कीर्त्यते । सिद्धे ह्ययं न्यायः श्रुतौ ‘व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्व’ इति ॥ योगानुशासनं शास्त्रमधिकृतं वेदितव्यम्। योगः समाधिः। स च सार्वभौमश्चित्तस्य धर्मः। क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तभूमयः। तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते। विवरणम् विवरणम्

कः पुनर्योगो यस्यानुशासनं प्रस्तुतमिति-अह–योगः समाधिरिति ॥ समाधिग्रहणात् ‘युजियोगे’ इति निवर्त्य, ‘युज समाधौ’ इत्ययं गृहीतः । योगः समाधानम् । ननु च ‘योगः समाधिः‘ इत्येवमन्तेन व्याख्याते सूत्रे ‘स च सार्वभौमः‘ इत्यादिभाष्यमसम्बन्धं दृश्यते । नैष दोषः । इह समाधिरित्युक्ते, समाधीयमानापेक्षत्वात्, समाधीयमानानां च बहुत्वात्, किमात्मा समाधीयते ? था किं वा शरीरम्, आहोस्विदिन्द्रियाणि, इति बहु(विदां)धा विप्रतिपते:, स्वविशेषणाकाङ्क्षत्वाच्च समाधे:, कस्यायम्? किंविशेषणकः? इत्यनुषक्ते प्रश्ने, इदमाह-स च सार्वभौमश्चित्तस्य धर्म इति । चित्तस्य धर्मो नात्मादीनाम् । तच्च चित्तं स्वयमेव समाधीयते [समाधात्र]न्तरनिरपेक्षत्वात् ॥

काः पुनर्भूमय इत्यत आह-क्षिप्त मूढमित्यादयो भूमय इति । क्षिप्तमिति कर्मकर्तरि निष्ठा । यथा भिन्नः कुसूलः स्वयमेवेति । क्षिप्तमनिष्टविषयासञ्जनेन स्तिमितम् । मूढं निर्विवेकम् । विक्षिप्तं नानाक्षिप्तम् । कर्मकर्तर्येव । विवेकाक्षमं च विक्षिप्तत्वादेव । एकाग्रं तुल्यप्रत्ययप्रवाहम् । निरुद्धमिति प्रत्ययशून्यं चित्तम् ॥

ननु च भूमिषु धर्मेषु विवक्षितेषु, किमर्थं क्षिप्तमित्यादिना धर्म्युच्यते ? नैष दोषः, धर्मिणा धर्म एवोपदिश्यते । धर्माणां धर्मिविषयत्वात् । यथा गोत्वे किं लिङ्गमिति पृष्टे, विषाणी ककुद्मान् प्रान्तवालाधिरिति धर्मिणा धर्म एवोपदिश्यते । तस्मात् क्षेपादयश्चित्तस्य भूमयो धर्म इत्यर्थः ॥

ननु च भूमीनां चित्तधर्मत्वे समाधेश्च, कथं भूमिभिः समाधिराधारत्वेन विशेष्यत सार्वभौम इति ? सामान्यभूतत्वात् समाधेः । भूमीनां च विशेषत्वात् । यथा क्षिप्तं तिष्ठति, मूढं तिष्ठति, विक्षिसमकाग्रं चेति, क्षिप्तादिभूमिषु स्थितिरनुवर्तते सामान्यम् । स्थितिश्च समाधिः । तस्मात् सामान्यरूपं सर्वासु भूमिषु प्राधान्येन वर्तत इति । ‘सर्वभूमिपृथिवी’ इत्यैश्वर्यार्थीयोऽण्प्रत्ययः । अनुशतिकादित्वादुभयपदवृद्धिः ॥

अन्ये पुनर्बाह्माध्यामिकान् संयमविषयान् भूमय इत्याचक्षते । तेषां ‘विक्षिप्ते चेतसि‘ इति सामानाधिकरण्यानुपपत्तिः । स्ववचनविरोधश्च कथम् ? क्षिप्यतेऽस्मिन्निति क्षिप्तम् , मुह्यतेऽस्मिन्निति मूढं, यदा चैवं न तदा संयमविषयता । तत्र क्षेपाद्यसम्भवात् । एकाग्रावस्थायां हि संयमो भवति ॥

किं चान्यत्-क्षिपेश्च ध्रौव्याद्यर्थाभावादधिकरणे निष्ठाप्रत्ययाभावः । किं च-निरुद्धे चेतसि संयमस्यापि तत्राभावात् वृत्तिशून्यत्वात् संयमविषयाभावः । न हि निरोधे विषयविशेषे चित्तं निरुध्यते । तदा हि विषयित्वान्निवर्तते । परिगणनानुपपत्तिश्च । न हि क्षिप्तादयः पञ्चैव संयमस्य विषयाः । तेषामानन्त्यात् ॥

ननु चान्यथा योगं केचिदिच्छन्ति । तथा चाहुः–‘‘इन्द्रियमनोऽर्थसन्निकर्षात् सुखदु:खे, तदनारम्भ आत्मस्थे मनसि, सशरीरस्य सुखदु:खाभाव: प्राणमनेविनिग्रहापेक्षः संयोगो [योग] इति‘‘ । तदिति प्रकृतापेक्षम् । योऽसौ सुखदुःखयोरात्मेन्द्रियमनोऽर्थसन्निकर्षो हेतुः, तस्यानारम्भः तदनुत्पत्तिः । स कथं भवति ? आत्मस्थे मनसि, नेन्द्रियस्थे । सशरीरस्य अविशीर्णशरीरस्य । तदा कारणाभावात् कार्याभाव इति, सन्निकर्षाभावे सुखदुःखयोरप्यभावः, तस्यामवस्थायां योऽसौ विभोरात्मनो मनसा संयोगः स प्राणमनोविनिग्रहापेक्षः संयोगविशेषो योग इति ।

अत्रोच्यते-आत्मस्थे मनसीत्ययुक्तम्, सर्वदा अत्मस्थत्वान्मनसः । इन्द्रियादिसन्निष्कर्षानारम्भापेक्षया आत्मस्थे इति चेत्, तदनारम्भ इत्येव सिद्धत्वादात्मस्थे मनसीत्यनर्थकं स्यात् ॥

किं चान्यत्-मुक्तस्यापि मनस आत्मस्थत्वादिन्द्रियसन्निकर्षाभावाच्च योगः प्राप्नोति । तस्यापि हि सर्वगतत्वात् मनसश्च नित्यत्वात् सर्वदात्मस्थत्वमेव ॥

किं च-आत्मनः प्रदेशाभावादात्मस्थ इत्ययुक्तम् । न चाप्युपचरितात्मप्रदेशसंयोगः परमार्थस्य योगस्य हेतुः स्यात् । उपचरितस्य मिथ्यात्वात् ॥

किं चान्यत्-मनोऽर्थसन्निकर्षाभाव इत्येव सिद्धेः(द्धं)इन्द्रियग्रहणमनर्थकं स्यात् । अथेन्द्रियैर्विना मनोऽर्थसन्निकर्षाभावात्तदनारभ्भ इति प्राप्त्यभावे प्रतिषेधो न युक्त इति चेत् । नैतदेवम्, विनेन्द्रियैर्मनोऽर्थसन्निकर्षो नास्तीत्यर्थात्सन्निकर्षप्रतिषेधं कुर्वता विषयप्राप्तिरिन्द्रियद्वारा प्रतिपादिता स्यात् ।

किं चान्यत्-सर्वप्राणभाजामिन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखप्रतिलम्भस्य प्रसिद्धत्वादात्मनः सम्बन्धस्य च नित्यत्वात् सुखदुःखाभावो योग इत्येव सिद्धेः, तत्र [सूत्र] शेषोऽनर्थकः स्यात् ॥

अथापि स्यादिन्द्रियमनोऽर्थसन्निकर्षग्रहणादृते सुखदुःखाभाव इत्येतावति सति मुक्तस्यापि सुखदुःखाभावाद्योगित्वप्रसङ्ग इति तन्निवृत्त्यर्थं सूत्रशेषग्रहणमिति । तच्च न, मुक्तस्य सुखदुःखप्राप्त्यभावात्, प्राप्तिपूर्वप्रतिषेधस्य न्याय्यत्वात्, यस्य सुखदुःखप्राप्तिः, तद्विषयः सुखदुःखाभाव एव योग इति सूत्रशेषप्रत्याख्यानं युज्यते ॥

किं चान्यत् – उपात्तेऽपि सशरीरग्रहणे मुक्ताद्विनिवृत्तिर्न शक्यते कर्तुम्, निष्प्रयोजनत्वात् । सुखदुःखाभावश्चेद्योगः, विद्यमानमपि शरीरं कार्याकरणादनर्थकं स्यात् । कार्यानपेक्षायां हि मुक्तामुक्तयोरविशेष एव ॥

किं चान्यत् – प्राणमनोविनिग्रहापेक्ष इत्यपि न घटते । विधारकस्य प्रयत्नस्यात्मसमवेतत्वादविद्यमानेऽपि मनसः क्रियावत्त्वे इन्द्रियेणासञ्ज्य मनः प्राण [मनो]निग्रहौ न कर्तुं पर्याप्यते । इन्द्रियसंयोगे च मनसः, तदनारम्भ इत्ययुक्तम् । मनसश्च प्राणनिग्रहे व्यापृ(वृ)तत्वादनारम्भानुपपत्तिः ॥

न चासति इन्द्रियवायुसन्निकर्षे प्राणनिग्रहः । न चानिगृहीते प्राणे योगः, आत्मस्थविधारकप्रयत्नद्वारा मनोगतक्रियासम्बन्धहेतुत्वात् प्राणनिग्रहस्य । अथापि स्याद्योगः समाधिरिति । तच्च न, निष्क्रियत्वादात्मनो नित्यसमाधानमेव । स्थितिश्च समाधिरित्युच्यते । तस्माद्युक्तमभिधीयते - ‘स च सार्वभौमश्चित्तस्य धर्मः‘ इति ॥

यद्येवं समाधिश्चेद्योगः, स च सार्वभौमश्चित्तधर्मः, स च सर्वजनानामयत्नसिद्धः, क्षिप्ताद्यनुगतत्वात् । तथा च सति, यथैव श्वासप्रश्वासादीनां प्रयत्नादृते सिद्धत्वात्तत्करणम(ल्लक्षणम)नर्थकम्, एवं योगानुशासनमप्यनर्थकं प्राप्तमित्यत आह – [तत्र] विक्षिप्ते (अनविक्षिप्ते) चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते इति ॥ क्षिप्ताद्यनुगतस्य योगपक्षेऽनभिप्रेतत्वात् । न हि क्षेपाद्यनुगतः समाधिर्भूतार्थावद्योतनादिक्षमः, क्षेपादिप्रधानत्वात् । विक्षेपनिषेधेनैव हि प्रधानमल्लनिबर्हणन्यायेन क्षप्तमूढयोरपि निषेधः कृतः । प्रधानता च विक्षेपसमाधेरधिकारयोग्यत्वात् । विक्षेपस्थं हि चित्तमपक्षपातादिष्टं विषयमुपनेतुं शक्यते । न हि विषयासञ्जनादिना क्षिप्तमिष्टविषयवियोगादिना वा मूढमन्यथापनेतुं पार्यते ॥

योगपक्ष इति ॥ समाधित्वे सत्यपि कार्याकरणात पक्ष इत्युच्यते । यथा गच्छतः प्रतिपदं विद्यमानापि स्थितिः स्थितिकार्याकरणान्न स्थितिरित्युच्यते । विक्षेपोपसर्जनीभूतत्वं विक्षेपस्थैकसमाधिव्यक्त्यभिप्रायेण । सार्वभौम इति तु प्राधान्यं, सामान्येन सर्वभूमिषु वृत्तः ॥ यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति क्षिणोति च क्लेशान्कर्मबन्धनानि श्लथयति निरोधमभिमुखं करोति स सम्प्रज्ञातो योग इत्याख्यायते। स च वितर्कानुगतो विचारानुगत आनन्दानुगतोऽस्मितानुगत इत्युपरिष्टान्निवेदयिष्यामः। सर्ववृत्तिनिरोधे त्वसम्प्रज्ञातः समाधिः ॥ १ ॥ विवरणम् विवरणम्

यद्युपसर्जनीभावः समाधिपक्षावृत्तौ कारणम् , इहाप्येकाग्रे एकाग्रतोपसर्जनत्वं स्यात् । ततश्च योगपक्षावृत्तिरिति चेदत आह-यस्त्वेकाग्र इति । नैकाग्रतायां भूम्युपसर्जनत्वम् । कुतः ? क्लेशकर्माप्रबलत्वात् । क्लेशकर्माप्रबलत्वे न हि विक्षेपादीनामुदयः ।

एकाग्रताभूमौ समाधिर्यः स भूतमर्थं यथात्मानं प्रद्योतयति अवगमयति । अयोग्यथैज्ञानमयथाभूतत्वगन्धितमेवेति भूतग्रहणम् । क्षिणोति, क्षपयति, पञ्चपर्वणोऽविद्यादीन् क्लेशान् । कर्मबन्धनानि, कर्माण्येव बन्धनानि, धर्माधर्मविमिश्रकर्मजातानि जन्मादिनिबन्धनानि, श्लथयति, शिथिलीकरोति, निरोधमामुखीकरोति, अभिमुखीकरोति । स सम्प्रज्ञात इत्याख्यायते आचार्ये: ॥

स च वितर्कानुगतो विचारानुगत इत्यादिभाष्यम् । सम्प्रज्ञातस्य प्राथम्याल्लक्षणाभिधाने प्राप्ते, अभ्यर्हितत्वादसम्प्रज्ञातस्यैव लक्षणं युक्तमिह वक्तुमिति सम्प्रज्ञातमुपरिष्टात् प्रवेदयिष्याम इत्युच्यते ।

इतश्चासम्प्रज्ञातस्य लक्षणमिहैव वक्तव्यं, सम्प्रज्ञातनिरपेक्षोऽप्यसम्प्रज्ञातः पर(प्रकृष्ट)वैराग्यविरामप्रत्ययाभ्यासाभ्यां सिध्यतीत्येतत्प्रदर्शनार्थम् । इह सम्प्रज्ञातलक्षणाभिधाने तदुत्तरकाले चासम्प्रज्ञातलक्षणाभिधाने सम्प्रज्ञातापेक्षयैव असम्प्रज्ञातसमाधावधिकार इत्याशङ्का स्यात्, तस्मादुपरिष्टात् प्रवेदयिष्याम इत्याह ॥ १ ॥ तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते- योगश्चित्तवृत्तिनिरोधः ॥ २ ॥ सर्वशब्दाग्रहणात्सम्प्रज्ञातोऽपि योग इत्याख्यायते। चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात्त्रिगुणम्। विवरणम् विवरणम्

सर्ववृत्तिनिरोधे त्वसम्प्रज्ञात इति । तुशब्दोऽवधारणार्थः । तस्य एवंविधस्य समाधेरसम्प्रज्ञातस्यैव केवलस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते प्रवृत्तं ‘योगश्चित्तवृत्तिनिरोध:‘ इ[ती]ति वक्तव्यम् ॥

ननु च तस्य लक्षणमभिधातुमेतत् सूत्रं प्रवृत्तं, तथा च सति ‘योगस्य चित्तवृत्तिनिरेोधः‘ इति वक्तव्यं, सामानाधिकरण्यं न युक्तम् । न हि लक्ष्यमेव लक्षणं स्यात् । चित्तवृत्तिनिरोधलक्षण इति वा वक्तव्यम् । नैष दोषः । लक्ष्ये । लक्षणाध्यासात् । यथाऽयं पिण्डो देवदत्त इति लक्ष्ये लक्षणमध्यस्यते (प्रत्यस्यते) ॥

ननु च सर्ववृत्तिनिरोधे त्वसम्प्रज्ञातः, तस्य चेदं लक्षणं, ततश्च ‘योगः सर्वचित्तवृत्तिनिरेधिः‘ इति वक्तव्यम् । न चोक्तम् । अतोऽतिव्यापि लक्षणम् । सर्वशब्दाग्रहणे तावत्कारणमुच्यते-यदि सर्वग्रहणं क्रियते, तदैकदेशनिरोधनिमित्तस्य सम्प्रज्ञातस्य योगत्वं निवर्तितं स्यात् । तन्माभूदिति सर्वशब्दाग्रहणम् ॥

अस्तु तर्हि सम्प्रज्ञातासम्प्रज्ञातयोः सामान्यलक्षणं, विशेषानुपादानात् । नैष दोषः । योगे प्रकृते पुनर्योगग्रहणात् । विशेषाविवक्षायां हि योगग्रहणं नार्थवत् स्यात् ॥

ननु चानुशासने न्यग्भूतत्वाद्योगस्य इह योगग्रहणे असति चित्तवृत्तिनिरोध इत्युक्तेऽनुशासनार्थता भवेत् सूत्रस्य-नैवं-योगानुशासनस्य प्रस्तुतत्वात् । येागानुशासनं हि प्रारब्धं, नायोगानुशासनं, तल्लक्षणाभिधाने ह्यतिप्रसङ्गः, . पदार्थासङ्गतिश्च । न हि चित्तवृतिनिरोधो योगानुशासनमिति पदार्थः सङ्गच्छते ॥

एवमपि योगग्रहणात् कुतोऽसम्प्रज्ञातस्यैव लक्षणं, न पुनः सम्प्रज्ञातस्य लक्षणं स्यात्, योगग्रहणस्याविशिष्टत्वादिति ?

उच्यते–अव्यभिचारात् । व्यभिचरति न तत्तस्य लक्षणं, निरोधस्त्वसम्प्रज्ञातेऽपि वर्तत इति सम्प्रज्ञातं व्यभिचरति । न हि विषाणित्वं गोर्लिङ्गं, महिष्यादिभिर्व्यभिचारात् ॥

ननु चासम्प्रज्ञातमपि व्यभिचरति, सम्प्रज्ञातस्यापि हेयवृत्तिनिरोधत्वात् । सत्यमेवं, किं तु न निरोधादन्येन लक्षयितुमसम्प्रज्ञातः शक्यते । निरोध एव तु तस्य लक्षणम्, अन्यस्याभावात् । सम्प्रज्ञातस्य त्वसाधारणवितर्कादिलक्षणलक्ष्यत्वात् । यथा स्पर्शलक्षणमित्युक्ते वायुरेवासाधारण्याल्लक्ष्यते स्पर्शवत्वेन, अथ च विद्यत एव स्पर्शवत्वं तेजः:प्रभृतिष्वपि ॥

एवं च सति योगग्रहणमनुवादमात्रम् । अत एव च सर्वग्रहणं न कृतं सूत्रे । निरोधग्रहणेनैवासम्प्रज्ञातलक्षणत्वे सिद्धे यदि सर्वग्रहणं क्रियेत, तत्सम्प्रज्ञातस्य योगतां निवारयेत् । तस्मादसम्प्रज्ञातस्यैवेदं लक्षणम् । तथा चोपसंहरति भाष्यकारः-’न तत्र किञ्चित् सम्प्रज्ञायते इत्यसम्प्रज्ञातः, स योगश्चितवृत्तिनिरोध’ इति ।

चित्ततद्वृत्तितन्निरोधव्याचिख्यासया चित्तं हीत्यादि भाष्यम् । किमात्मकं पुनस्तचित्तं, यस्य वृत्तिनिरोधो योग इत्यत आह-चित्तं हि प्रख्याप्रवृत्तिास्थितिशीलत्वात् त्रिगुणमिति । तत्र चित्तं त्रिगुणमिति व्याख्यायते, प्रख्याप्रवृत्तिस्थितिशीलवादिति हेतुः । प्रख्या प्रख्यानं प्रकाशनं, स हि । सत्त्वगुणस्य धर्मः । प्रवृत्तिः प्रवर्तनं व्यापारः, स हि रजोधर्मः । स्थितिः स्थानं वरणं प्रतिबन्ध इति, स च तमोधर्मः । एवंशीलाः हि सत्त्वादयो गुणाः, चित्तं च प्रख्यादिशीलं, तस्मात् त्रयाणां गुणानां परिणामश्चित्तं भवितुमर्हति । प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति। तदेव तमसाऽनुविद्धमधर्माज्ञानावैराग्यानैश्वयोपगं भवति। तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति। विवरणम् विवरणम्

तस्य च प्रख्यादिहेतोरसिद्धिमाशङ्क्याह-प्रख्यास्वरूपं हि चित्तसत्वमिति । हिशब्दः प्रसिद्धावद्योतनार्थः । प्रसिद्धं हि लोके शास्रे च सर्ववभासकत्वं चित्तस्य । चित्तमेव सत्वं चित्तसत्वं सत्त्वप्रधानगुणपरिणामत्वात् ॥

अथवा अन्यसंसर्गवियोगाभ्यामनेकवृत्ति ख्यातिमात्रं च चित्तं स्पष्टं दर्शयितुं शक्य्त इति ब्रवीति-प्रख्यास्वरूपं हि चित्तसत्त्वमिति ॥

इदानीं वृत्तयो व्याख्यायन्ते । तासां चानेकत्वं रजस्तमसोरुद्भवाभिभवनिमित्ते विरुद्धत्वं चेत्याह-रजस्तमोभ्यां संसृष्टं समप्रधानाभ्यां यदा संसृष्टं तदानीं ऐश्वर्यविषयप्रियं भवति ॥ प्रीतिः रागः, ऐश्वर्यविषयरागयुक्ता वृत्तयो भवन्तीत्यर्थः ।

तत्तमसानुविद्धं ॥ तदेव प्रख्यास्वरूपं चित्तं यदा गुणभूतरजस्केनोद्भूतेन तमसानुविद्धं, तदानीमधर्मदिचतुष्टयविषया वृत्तयः क्लिष्टा जायन्ते ॥

तदेव प्रक्षीणमोहावरणमिति ॥ न्यग्भूततमस्कं तमःक्षयादेव जलधरापगमादिव (परि)रविबिम्ब सर्वतः प्रद्योतमानं रजोमात्रया रजोलेशेन अनुविद्धं यदा तदा धर्माद्युपगतं । धर्मादिचतुष्टयविषया वृत्तयोऽक्लिष्टा भवन्ति ॥ तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति। तत्परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः। चितिशक्तिरपरिणामिन्यप्रतिसङ्क्रमा दर्शितविषया शुद्धा चानन्ता च सत्त्वगुणात्मिका चेयमतोविपरीता विवेकख्यातिरिति। अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि। तदवस्थं संस्कारोपगं भवति। स निर्बीजः समाधिः। न तत्र किञ्चित्सम्प्रज्ञायत इत्यसम्प्रज्ञातः। द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥ २ ॥ विवरणम् विवरणम्

यदा तदेव रजो[लेश]मलोपेतं स्वरूपप्रतिष्ठं केवलेन स्वेन प्रख्यारूपेणावस्थितं, तदा सत्त्वपुरुषान्यताख्यातिमात्रं भवति । सत्त्वं चित्तं पुरुषो भोक्ता तयोरन्यता विविक्तता तत्ख्यातिः तदवगमः, तन्मात्रग्रहणं क्लेशाद्यभावप्रदर्शनार्थम् । धर्ममेघध्यानोपगं भवति धर्ममेघो नाम समाधिः ॥

तदेव प्रसङ्ख्यानबलाद्रजस्तमसी तिरस्कृत्य केवलेन ख्यात्यात्मना पुरुषस्वरूपमात्रदर्शनेन अवस्थानं ध्यानं प्रसङ्ख्यानमित्याचक्षते, ध्यायिनो योगिनः ॥

एवं वृत्तिस्वरूपे व्याख्याते तन्निरोधप्रदर्शनार्थमाह–चित्तशक्तिरित्यादि ॥ चितिरेव शक्तिः चितिशक्तिः । यथा पच्यादयः शक्तयः शक्तिमदपेक्षाप्रापणीयजन्मानो न स्वयंशक्तयः । चितिः पुनः स्वयमेव शक्तिः, नार्थान्तरमपेक्षते । तेन निल्यावस्थितत्वम् । चितिशब्दस्य चिन्मात्राभिधायिनः शक्तिशब्देन सामानाधिकरण्यं अविकृतरूपाया एव चितेर्विषयित्वप्रदर्शनार्थम् ॥

यस्मादेवमतोऽपरिणामिनी । व्यवस्थिते धर्मिणि धर्मान्तरतिरोभावेन धर्मान्तरप्रादुर्भावः परिणामः । न परिणमितुं शीलमस्या इत्यपरिणामिनी । अत एव अप्रतिसङ्क्रमा, परिणामिन एव चित्तादेर्विषयादौ प्रतिसङ्क्रमदर्शनात् ॥

अत एव दर्शितविषया दर्शितोऽन्तःकरणेन विषयोऽस्या इति । तेनैव शुद्धा । अत एव अनन्ता देशतः कालतश्च । पूर्वपूर्वमुत्तरस्योत्तरस्य हेतुत्वेन द्रष्टव्यम् । वैधर्म्यदृष्टान्तः चित्तमिन्द्रियाणि च । सत्त्वगुणात्मिका सत्त्वमेव गुणः सत्त्वगुणः तस्येवात्मा स्वरूपमवभासो यस्याः सेयं सत्त्वगुणात्मिका अवभासस्वरूपेत्यर्थ: । वृत्यविशिष्टवृत्तित्वाद्वा सत्वगुणात्मिकेप्युच्यते ॥

यदि वा ख्यात्या सम्बध्यते ख्यातिः सत्त्वगुणात्मिकेति । अत: चितिशक्तेरुक्तलक्षणाया विपरीता विलक्षणा विवेकख्याति: परिणामादिमती ॥

यस्मात् पुरुषादुत्कृष्टात् परिणामादिगुणविरहितान्निकृष्टा परिणामादिगुणयुक्ता, अतः स्वरूपदोषदर्शनात् तस्यां विरक्तं अपरक्तं तामपि ख्यातिं आत्मनो निरुणद्धि ॥

तदवस्थं निरोधावस्थं, संस्कारोपगं, संस्कारमात्रावशेषम् । निरुद्धासु वृत्तिषु वृत्तिजनिताः संस्कारा एवावशिष्यन्ते । एतस्यां निरोधभूमौ यः समाधिः स निबजः । निर्गतं बीजमत्र क्लेशादिबीजं सर्वमुत्सन्नमस्मिन्निति । तस्मादसम्प्रज्ञातसमाधिलक्षणार्थमेव सूत्रमित्युपसंहरति–स योगश्चित्तवृत्तिनिरोध इति ॥ २ ॥ तदवस्थे चेतसि विषयाभावाद्बुद्धिबोधात्मा पुरुषः किंस्वभाव इति – तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥ स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये। व्युत्थानचित्ते तु सति तथाऽपि भवन्ती न तथा ॥ ३ ॥ विवरणम् विवरणम्

योगश्चित्तवृत्तिनिरोध इत्युक्तं, तत्र बोद्धृत्वेनैव पुरुषसद्भावाधिगमः, विषयभूतवृत्तिनिरोधे च विषयिणोऽपि बोद्धुः पुरुषस्य निरोधं कश्चिदाशङ्केतापि, तथा च सति तत्कैवल्यप्राप्त्युपायस्यापि विवेकख्यातेरनर्थकत्वं मन्वीत योगानुशासनस्यापि तदर्थस्य निष्फलत्वं प्रतिपद्येत, तस्मात्पुरुषस्य वृत्तिनिरोधादनिरोधं दर्शयितुकामः ख्यातेश्चापि फलं साक्षाद्दर्शयन्नाह–तदवस्थे चेतसीत्यादि ॥

तदवस्थे-निरोधावस्थे । स्वविषयाभावात्-स्वविषयश्चित्तवृतिस्तदभा(वे)वात् । बुद्धिबोधात्मा बुद्धिं वृत्तिरूपेण परिणतां बुध्यत इति बुद्धेबौद्धा पुरुषः । तद्बोधनमेव हि पुरुषस्य स्वं रूपं, नान्यो बोद्धा, नान्यद्बोधनम् । बोद्धुश्च बोधनादन्यत्वे सति विक्रियात्मकता स्यात् । ततश्च दर्शितविषयत्वं च न स्यात् । तथा च करणान्तरापेक्षित्वं पुरुषस्य प्रसज्येत । तस्माद्बोधने बोद्धृत्वं चोपचरितं तद्वृत्तसारूप्येण । तथा च वक्ष्यति-‘द्रष्टा दृशिभात्रः’ इति । तस्मादाह बुद्धिबोधनमेवात्मा स्वरूपं यस्य स बुद्धिबोधात्मा पुरुषः किंस्वभावः किं नश्वरस्वभावः, सद्भावे वा किंस्वभावः, कथं वा सद्भाव इति ? ॥ तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ यदा निरुद्धा वृत्तयः, स्वरूपप्रतिष्ठा तदानीं चितिशक्तिः ॥ स्वरूपप्रतिष्ठेत्यर्थः । यथा कैवल्ये ॥ तदा सद्भावं तु ‘न तत्स्वाभासं दृश्यत्वात्’ इत्येवमादिना वक्ष्यति । तत्र सिद्धे सद्भावे तत आकृष्य प्राप्ताशङ्कानिवृत्त्यर्थमुच्यत-स्वरूपप्रतिष्ठति ॥

सिद्धवद्व्याख्यातं सूत्रम् । तत्रेदं प्रसक्तमितरत्र न स्वरूपप्रतिष्ठेति । अन्यथा हि तदेति विशेषणानथैक्यं स्यात् । न चेदन्यत्र स्वरूपप्रतिष्ठा तत्रावस्थान्तरयोगात् परिणामित्वादिदोषः प्राप्नोतीति तत्परिहीर्षयाह–व्युत्थानचित्ते तु सति तथापि भवन्तीति । [अनेन] अन्यत्रापि स्वरूपप्रतिष्ठत्वं दर्शयति ॥

न तथेत्यनेन तदेति विशेषणस्यार्थवत्त्वं ख्यापयति ॥ ३ ॥ कथं तर्हि, दर्शितविषयत्वात् – वृत्तिसारुप्यमितरत्र ॥ ४ ॥ व्युत्थाने याश्चित्तवृत्तयस्तदविशिष्टवृत्तिः पुरुषः। तथा च सूत्रम् – “एकमेव दर्शनं ख्यातिरेव दर्शनम्” इति। चित्तमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः। तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः सम्बन्धो हेतुः ॥ ४ ॥ विवरणम् विवरणम्

इतरस्तु तथापि भवन्तीत्यनेन चेत्स्वरूपप्रतिष्ठत्वमुच्यते, न तथेति च स्वरूपप्रतिष्ठत्वनिषेधश्चेदेकस्य वस्तुनस्तथाभावश्चातथाभावश्व विरुध्यत इति वीक्षापन्नः पृच्छति–कथं तर्हि इति ॥ इतर आह–वृत्तिसारूप्यमितरत्रेति ॥ कस्मात् पुनर्वृत्तिसारूप्यम् ? दर्शितविषयत्वात् ॥ उभयत्र स्वरूपप्रतिष्ठत्वाविशेषेऽपि वृत्तिसारूप्यासारूप्यकृती विशेष इति, न तथाभावातथाभावविरोधः ॥

ननु च वृत्तिसारूप्ययोगे सति अवस्थान्तरयोगात् परिणामित्वादिदोषः प्राप्नोत्येव । न । दर्शितविषयत्वेन परिहृतत्वात् । चित्तवृत्त्यध्यारोपितं हि तत्, न स्वतः, स्फटिकाद्युपधानोपरागवत् । व्युत्थान इति ॥ निरोधादन्यत्र याश्चित्तस्य क्लिष्टादयो वृत्तयः ताभिरविशिष्टा सदृशी वृत्तिः स्वरूपमस्य, चित्तवृत्तिव्यतिरेकेण स्वरूपव्यतिरेकेण च पुरुषस्य वृत्यभावात् सदा ज्ञातविषयत्वे परिणामानुपपत्तेश्च ।

तथा च पूर्वाचार्यसूत्रम् एकमेव दर्शनं-बुद्धिपुरुषयोः । किं तदित्याह–ख्यातिरेव दर्शनम् । बुद्धिवृत्तिरेव दर्शनम् । ख्यायते पुरुषेणेति च ख्यातिः ख्यायतेऽनया च बुद्धिपुरुषयोः स्वरूपमिति ख्यातिः । सैवार्थाकारोऽनया (कारतया) गृह्यत इति करणं, स्वेन च ख्यातिरूपेण गृह्यत इति कर्म च भवति । तथा दृश्यत इति दर्शनं, दृश्यतेऽनेनेति च, [ज्ञायत इति ज्ञानं,] ज्ञायतेऽनेनेति च सर्वमेवमादि द्रष्टव्यम् ॥

यत्तु ख्यातिकर्तृत्वे चित्तस्य तदेव ज्ञायते जानाति चेति (ज्ञानादितिचेति) ज्ञानान्तरकल्पनावैयर्थ्यप्रसङ्ग इति, तस्य ‘न तत्स्वाभासं दृश्यत्वात्’ इत्यत्रैव परिहरं वक्ष्यामः ।

ननु च यदि चित्तपरिविजृम्भितमेवेदं सर्वं पुरुषश्चेदुदास्ते कथमसौ भोक्तेति ? न-कारकवैचित्र्यात् । कानिचिद्व्याप्रियमाणानि कारकाणि, कानिचिद्यापारादृते सन्निधिमात्रेण कर्तृत्वं प्रतिपद्यन्ते ॥

यथा पचतीत्यधिश्रयणादिषु व्याप्रियमाणः पुरुषः कर्तेत्युच्यते । स्थाली सम्भवधारणाभ्यामव्याप्रियमागैव पचतीत्युच्यते । तथा स्थालीमध्यगतमाकाशमवकाशे ददाति, न तस्य व्यापारं प्रतीमः । ।

यथा च राजा दर्शनमात्रेणैव कर्ता । सर्वणि च कारकाणि स्वेषु व्यापारेषु कर्तॄणि । न चादित्यः प्रकाशयन् करणान्तरमपेक्षते, व्याप्रियते वा । न हि प्रकाशनमविद्यमानमुत्पादयति गमनादिवत् । प्रकाशात्मतैव हि तस्य सद्भावः, तथापि सन्निधिमात्रण घटादीनां प्रकाशरूपेण अभिव्यक्तेः प्रकाशयतीत्युच्यते, एवमिहापि दृशिमात्रेण पुरुषेण दृश्यानां चित्तवृत्तीनां चिदात्मना व्याप्यमानत्वातू, द्रष्टा पुरुष इतीममर्थं दर्शयति-चित्तमयस्कान्तमणिकल्पमिति ॥

यस्याप्यात्ममनस्संयोगात् ज्ञानमुत्पद्यते, तस्यापि ज्ञानेन ज्ञेयं व्याप्नुवन्नात्मा ज्ञातेत्युच्यते, न व्याप्रियमाणः । ज्ञानम(स्या)पि गुणत्वे सति निष्क्रियत्वादात्मन एवार्थं दर्शयति । नापि क्रियानभ्युपगमात् जानातीत्यादि नोपपद्यते । ज्ञानेन हि ज्ञेयं व्याप्नुवन् जानातीत्युच्यते ॥

किं चान्यत्–आत्ममनस्संयोगादपूर्वज्ञानोत्पत्तौ सत्यामात्मनस्तज्ज्ञानं, न मनसः । आत्मैव जानाति, न मन इति को हेतुर्भवेत् ? अथापि स्यात् आत्मनः समवायिकारणत्वादिति । नैतदेवं, असिद्धत्वात् । यथैव ज्ञानमात्मन इति साध्यं, एवमात्मन एव समवायिकारणत्वं न मनस इति साध्यम्, अनात्मस्वरूपत्वे सत्युभयसंयेगजत्वाभ्युपगमात् ॥

अथापि स्यात्-ज्ञानाहितसंस्कारस्यात्म[नः]स्मृत्येककर्तृत्वेन प्रतिसन्धानदर्शनादिति-न-तस्यापि साध्यत्वात् । तत्रापि ज्ञानसंस्कारस्मृतिप्रतिसन्धानादीन्यात्मन एव, न मनस इति साधनीयानि । फलेन समानाश्रयवादिच्छादीनामिति चेत्-न-तत्रपि तुल्यत्वात् । संयोगजत्वे सत्यात्मनः फलेच्छादीनि, न मनस इति दुःसाधमेव ॥

किं चास्य ज्ञानस्यापि ज्ञेयत्वाभ्युपगमादनवस्थाप्रसङ्गः । न हि ज्ञानमन्येन करणभूतेन ज्ञानेन विज्ञातुं शक्यं, तदप्यन्येन तदप्यन्येनेल्यनिष्टप्रसङ्गात् ॥

अथानवस्थाप्रसङ्गपरिहाराय दूरमपि गत्वा किञ्चिज्ज्ञानमाद्यं वा ज्ञानान्तरेण न गृह्यते स्वयमात्मनैव गृह्यत इति, तथा ज्ञानवदर्थस्यापि स्वयं ग्रहणप्रसङ्गः ॥

अथ दीपवत् स्वयमवभासते चावभासयति च अवभासात्मकत्वात्, अर्थस्यानवभासात्मकत्वाददोष इति चेत्-तथापि प्रकाशस्वरूपेष्वर्थेषु विज्ञानेनाग्रहणप्रसङ्गः ।

अथ ज्ञानस्यात्मसमवेतत्वाभासनरूपाभ्यां स्वयं ग्रहणं, बहिःप्रकाशात्मकानां तु ज्ञानविपरीतधर्मत्वाददोष इति चेत्-तच्च न-यदि चात्मसमवेतत्वं प्रकाशात्मकत्वं च ज्ञानस्य स्वयङ्ग्रहणे हेतुः स्यात् सर्वे सर्वज्ञाः प्राप्नुवन्ति ॥

अथ ग्राह्याकारत्वमपि कारणं चेत्—तच्च न ; अन्यस्य ज्ञानस्यान्याकारतया करणत्वे यथा, तथा ज्ञानस्यपि ग्राह्यस्यान्याकरणान्यदेव ज्ञाने करणं स्यात्, तथा चानवस्था दुष्परिहरैव ॥

किं चान्यत्—न हि कश्चित् स्वयङ्ग्राह्यग्राहकत्वप्रसाधनाय दृष्टान्तो विद्यते, प्रदीपस्यापि चक्षुरादिग्राह्यत्वात् । न चाप्यंशद्वयमस्ति ज्ञानस्य, निरवयवत्वात् । सत्यपि चांशद्वये तयोः प्रकाशात्मकत्वान्नान्योन्यग्राह्यग्राहकभावः प्रदीपयोरिव द्वयोः ॥

किं चान्यत्-ज्ञानस्य ग्राह्यग्राहकत्वाभ्युपगमे सत्यात्मसद्भावोऽपि दुस्सम्पाद एव । तस्मादर्थाकारज्ञानस्मृतिप्रतिसन्धानप्रयत्नेच्छादीनामनात्मधर्मत्वं ग्राह्यत्वात् रूपादीनामिव । परार्थत्वाच्च सङ्घाताश्रयत्वं रूपादिनिदर्शनेनैव । तथा आश्रयवत्त्वादनित्यत्वाच्च प्रयत्नपूर्वकत्वाच्चेत्येवमादिभ्योऽनात्मधर्मत्वसिद्धिः ॥

अयस्कान्तमणिकल्पम् ॥ अयस्कान्तमणिरिव । यथा अयस्कान्तमणिरयसः स्वात्मव्याप्तिं प्रत्युपकरोति सन्निधिमात्रेण, तथा चित्तमपि चित्स्वरूपस्यात्मनः स्वात्मव्याप्तिं प्रत्युपकरोति दृश्यत्वेन ॥

नर्तकीव दर्शितविषयत्वादन्तःकरणेनेत्युक्तम्-तत्र दर्शयितृत्वं चित्तस्य, द्रष्टृत्वं च पुरुषस्य किङ्कृतम् ? स्वस्वामित्वकृतम् । कथं पुनः स्वस्वामित्वम् ? वस्तुस्वभावत्वात् । कथमिति चेदुक्तं-चित्तमयस्कान्तमणिकल्पमिति ॥ अथ चित्तवृत्तीनां बोधे को हेतुः पुरुषस्येति ? उच्यते - यस्मादेवं सन्निधिमात्रोपकारि चित्तं दृश्यत्वेन, तस्माच्चित्तवृत्तीनां बोधे पुरुषस्य अयं हेतुः भवति, योऽसौ अनादिसम्बन्धः ॥ ४ ॥ ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य – वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५ ॥ क्लेशहेतुकाः कर्माशयप्रचये क्षेत्रीभूताः क्लिष्टाः। ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः। क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः। क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति। अक्लिष्टच्छिद्रेषु क्लिष्टा इति। तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते। संस्कारैश्च वृत्तय इति। एवं वृत्तिसंस्कारचक्रमनिशमावर्तते। तदेवम्भूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति। ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः ॥ ५ ॥ विवरणम् विवरणम्

ताः पुनर्निरोद्धव्याः बहुत्वेऽपि सति चित्तस्य याभिर्वृत्तिभिः व्युत्थाने सारूप्यमुक्तं पुरुषस्य । कस्मात् पुनः निरोद्धव्या इत्याह-यतो वृत्तयः क्लिष्टाक्लिष्टाः ॥

ननु च बहुत्वे सति न शक्या निरोद्घुमित्यत आह-पञ्चतय्य इति । यद्यपि क्लिष्टाक्लिष्टा वृत्तयोऽनन्ताः, तथापि पञ्चतय्यः पञ्चविधाः, पञ्चकुला एव । ततश्च पञ्चप्रकारवृत्तिप्रतिपक्षभूताभ्यासवैराग्यप्रयोगादेव निरोधोपपत्तेः, प्रत्यवयवनिरोधसाधनाप्रयोजकत्वाद्वृत्तीनां, तद्बहुत्वे न निरोधाशक्यत्वप्रसङ्गः । क्लेशहेतुकाः-क्लेशनिमित्ताः । अविद्यादिपञ्चक्लेशप्रयुक्तं हि चित्तं वृत्तिभिरात्मानं पुनः पुनरावेदयति । कर्माशयप्रचये कर्माणि कुशलाकुशलविमिश्राणि तान्येवाऽऽफलप्रदानाच्छेरत इति कर्माशयशब्दवाच्यानि, तेषां प्रचय इतरेतरगुणप्रधानभावेन संहननं, तस्मिन् कर्माशयप्रचये निमित्ते, अविद्यादिक्षेत्रीभूताः क्लिष्टाश्रयां इत्यर्थः । सतीषु हि तासु कर्माशयो विपाकाभिमुखीभवति ॥

ख्यातिविषयाः-ख्यात्यास्पदाः । गुणानां सत्त्वादीनाम् अधिकारः संस्कारप्रवृत्तिः तद्विरोधिन्यः । ख्यातिविषयत्वादेव ता अक्लिष्टाः, अपवर्गहेतुत्वात् ॥

अथ क्लिष्टपङ्किमध्य(मानु)जन्मानोऽक्लिष्टा वृत्तयः किं क्लिष्टा एव क्षीरकुम्भप्रक्षिप्ताम्बुबिन्दुवत् ? एवमक्लिष्टप्रवाहपतिता अपि क्लिष्टाः किमक्लिष्टा एव ? किं चातः ; यदि क्लिष्टप्रवाहगता अक्लिष्टाः क्लिष्टाः स्युः, तदा वृत्तिसंस्कारानुविधायिनी स्मृतिः, तदनुरूप एव व्यवहारः । स चापि न सिध्यति स्वरूपव्यभिचारे । तस्मादाह-क्लिष्टच्छिद्रेष्वप्यक्लिष्टाः अक्लिष्टा एव भवन्ति । अक्लिछिद्रेषु अपि क्लिष्टाः क्लिष्टा एव । यस्मादेवं तस्मात् तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते ॥

यद्यपि लेशादयोऽपि संस्कारमारभन्ते, तथापि वृतिद्वारैव तेषामपि संस्कार इति वृत्तिभिरेवेत्येवकारार्थः । तथा संस्करैरपि वृत्तयः स्वानुरूपं क्रियन्त इत्येवं-वृत्तिसंस्कारचक्रमनिशमनवरतमावर्तते । तदेवम्भूतं चित्तं - एवं हेतुहेतुमद्वृत्तिसंस्कारधर्मकम् । अवसिताधिकारं-निवृत्ताविद्याहेतुप्रवृत्तिकं हेतुमात्रावस्थत्वात् । आत्मकल्पेन-पुरुषकल्पेन ख्यातिमात्रेणैव कञ्चित्कालमवतिष्ठते-प्रारब्धसंस्कारशेषानुवृत्त्या । प्रलयं वा गच्छति - संस्कारावसानादिति ॥ ५ ॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतय ॥ ६ ॥ तत्र प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥ इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम्। फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः। प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः। विवरणम् विवरणम्

काः पुनस्ताः क्लिष्टाक्लिष्टाः पञ्चप्रकारा वृत्तय इत्याह – प्रमाणविपर्ययविकल्पनिद्रास्मृतय इति ॥

एतावत्य एव वृत्तयः । तत्र-प्रत्यक्षानुमानागमाः प्रमाणानि ॥ प्रमाणाख्या वृत्तिस्त्रिधैव भिद्यते । तत्र प्रमाणाख्यायाश्चित्तवृत्तेः प्रथमो भेदः प्रत्यक्षम् । अतस्तल्लक्षणमेवाभिधीयते । तत्पूर्वकत्वात् भेदद्वयस्य ॥ इन्द्रियप्रनाडिकया ॥ इन्द्रियमिति श्रोत्रादिपञ्चकं न कर्मेन्द्रियं, तस्य चित्तवृत्त्यहेतुत्वात् । क्रियार्थं हि तत् । तस्मादिन्द्रियशब्दस्य सामान्यार्थत्वेऽपि चित्तवृत्तेरुपव्याचिख्यासितत्वाच्छ्रोत्रादिविषयतैव । वृत्त्यर्थत्वाच्च श्रोत्रादीनाम् । इन्द्रियमेव प्रनाडिका द्वारं शब्दाद्याकारवृत्तिरूपेण परिणाममानस्य चित्तस्य । अतस्तत् तेनेन्द्रियद्वारेण सामान्यविशेषात्मकबाह्यवस्त्वाकारतया परिणममानमुपरज्यते । तस्य तदुपरागाद्धेतोः चित्तस्य या मुद्राप्रतिमुद्रावत् वृत्तिः सामान्यविशेषात्मकवस्तूपरागेऽपि विशेषावधारणप्रधाना सैव प्रत्यक्षं प्रमाणम् ॥

अथ स्वविषयसामान्यविशेषावभासनसामर्थ्ये श्रोत्रादीनां चित्तस्य च किङ्कृतं विशेषावधारणप्राधान्यमिति ?

उच्यते-विशेषप्रतिबन्धत्वात् हानोपादानादीनां विशेषावधारणप्रधाननतेति (तेत्याह) । न सामान्यं नावधार्यते, गुणभूतं तु गृह्यत एव । यथा नीलं रूपमिति नीलावधारणप्राधान्ये सत्यपि रूपमेव नीलमिति गुणभूतमवधारयति । तथा दु:खशब्दः सुखशब्दो मूढः शब्द इति । तथा च विशेषावधारणप्रधाना वृत्तिरिति ह्युपपद्यते ॥

किं च-संशयविपर्ययनिमित्तत्वाच्च सामान्योपलब्धे: । सामान्ये ह्युपलब्धे बुभुत्सितविशेषस्य संशयो जायते, समुपलब्धसामान्यान्यस्मृतेर्वा विपर्ययः, समधिगतविशेषस्य तु संशयविपर्ययौ न स्थितिमुपाश्नुवाते, इति विशेषावधारणप्रधानतेच्यते ॥

यत्रापि सामान्यमेवावादिधारयिषितं गैरिति वा अश्व इति वा, तत्राप्यन्यतरपरित्यागेनान्यतरावधारणेति विशेषावधारणप्रधानतैव । सर्वमेव हि वस्तु वस्त्वन्तरापेक्षया सामान्यं विशेषश्च ॥

यस्य पुनः सामान्यमवस्त्वध्यारोपितमेवोषराम्बुवत्, नेन्द्रियविषयामिति, तस्य प्रतिनियतसामान्याध्यारोपणानुपपत्तिः । न ह्यनुपलब्धपूर्वमुख्ये सम्भवत्यध्यारोपणा, स्मृत्यसम्भवात् । न कदाचिददृष्टमुख्योदकस्य सलिलाध्यारोपणमूषरेषु विद्यते । अथास्मरन्प्यध्यारोपयेत् रूपस्वलक्षणे शब्दत्वाद्याप्यध्यस्येत् । अथेन्द्रियान्तरविषयवाद्रूपस्वलक्षणे शव्दत्वाद्यध्यासो विरुद्ध इति चेत्-न - अवस्तुत्वे सत्यविशेषात् । विशेषाभ्युपगमे च वस्तुत्वप्रसङ्गः । शब्दस्वलक्षणादिव रूपस्वलक्षणस्य ॥

किं चान्यत्-देशकालान्यविशिष्टप्रत्यक्षा [न] भ्युपगमे समस्तलोकव्यवहारविलेपः स्यात् । न हीदमहममुष्मिन्नवकाशे काले चास्मिन्नाद्राक्षमेतस्मान्निमित्तादेवंविशेषणमिति च स्मृत्युपपत्तिः । न च प्रत्यक्षादृष्टेषु विशेष्यवद्विशेषणेषु स्मृति: सम्भवति । न च कल्पनापोढेन व्यवहारगोचरातीतेन व्यवहरमाणो दृश्यते । तस्माल्लोकप्रसिद्धप्रत्यक्षानुसरणमेव न्याय्यम् ॥

ननु च योगिनां निर्विकल्पसमाधिजं दर्शनं, तस्यानेवंलक्षणत्वात्, तथा सुखरागादिविज्ञानस्य चानिन्द्रियप्रनाडी*पूर्वत्वात् प्रमाणान्तरत्वमभ्युपेतव्यं, प्रत्यक्षत्वं वा वक्तव्यम् । उच्यते । प्रत्यक्षस्य (न प्रमाणस्य) पुरुषप्रत्ययापेक्षत्वेन परिहृतत्वात् । न ह्यप्रत्यया वृत्तिः प्रत्यक्षम् । चैतन्योदयहेतोरेव सप्रत्ययायाः प्रत्यक्षत्वम् । तथा चाह-‘फलं तदविशिष्टः पौरुषेयश्चित्तवृत्तिबोध’ इति ॥ एवं च सति सुखरागादिज्ञानस्य क्लिष्टाक्लिष्टरूपस्य तदविशिष्टपुरुषप्रत्ययफलावसानत्वात् प्रत्यक्षता सिद्धैव ॥

*अत्रेदमवधेयम्—

आदर्शकशे २० “प्रनाडी” इत्येतदुपरि २५ ‘नपेक्ष्य सम्बन्धः सम्बन्धतामियात् । यदसौ प्रसिद्धवच्चोच्यते य’ इति इत्युपक्रम्य ३४ ‘स्मृत्यवसाना हि सा, यतः प्रमा इत्यन्तग्रन्थं दशाभिः पुटैर्विलिख्य, तदुपरि २० ‘‘पूर्वत्वात् प्रमाणान्तरत्वमभ्युपेतव्यं, प्रत्यक्षत्वं वा वक्तव्यम्” इत्युपक्रम्य २५ ‘‘तस्मात् प्रमाणफलानभिज्ञानाम् अभिमानमात्रमेव केवलं पण्डितम्मन्यानामित्युपेक्षणीयमिति” इत्यन्तं षड्भिः पुटैर्विलिख्य, ततः २५ ‘‘अनुमानमथोच्यते” इत्यादि २५ ‘‘कः सम्बन्धः, कयोर्वा, न हि सम्बन्धिनाव” इत्यन्तं विलिख्य पङ्क्तिचतुष्टयेन, ततः ३४ ‘‘र्णेन प्रबाध्यते, अभूतार्थादिविषयत्वात्” इत्यादिवाक्यं लिखितं दृश्यते । कोशान्तरञ्च न लभ्यते । यथामातृकं मुद्रणे च वाक्यानामनन्वयः-न हि २० ‘‘प्रनाडी” इत्यनेन २५ ‘‘नपेक्ष्य सम्बन्धः सम्बन्धतामियात् ?” इत्यन्वेति । न च २५ ‘‘कः सम्बन्धः कयोर्वा, न हि सम्बन्धिनाव?? इत्यनेन ३४ ‘‘र्णेन प्रबाध्यते” इति चान्वेति । एवं प्रत्यक्षप्रमाणानरूपणमुपक्रम्य तदपरिसमाप्यैव मध्येऽनुमानागमप्रमाणयोर्निरूपणं, ततो विपर्ययनिरूपणं, पुनः प्रत्यक्षप्रमाणनिरूपणशेषः, ततः अनुमाननिरूपणोपक्रमः, ततो विपर्ययनिरूपणशेषश्च इति क्रमः आदर्शकोशे दृश्यते । न चायं क्रमः शोभते ॥ ‘‘अनिन्द्रियप्रनाडी पूर्वत्वात् प्रमाणान्तरत्वमभ्युपेतव्यम्” इति; दशपुटव्यवाहितवाक्यद्वयस्य मिथो योजने, ‘‘न हि सम्बन्धिनावनपेक्ष्य सम्बन्धः सम्बन्धतामियात्” इति, षोडशपुष्टव्यवहितवाक्यद्वयस्य मिथो योजने, ‘‘स्मर्यमाणातद्वस्तुप्रतिष्ठत्वान्न प्रमाणं, स्मृत्यवसाना हि सा, यतः प्रमाणेन प्रबाध्यते । अभूतार्थादाविषयत्वात्” इति च षट्पुटव्यवहितवाक्यद्वयस्य मिथे योजने चान्वेति । यथाक्रमं प्रमाणत्रयनिरूपणं, ततो विपर्ययानरूपणमिति च सूत्रानुसारी भाष्यानुसारी च क्रमोऽनुसृतो भवति, इति पर्यालोच्य महता प्रयासेन मातृकाग्रन्थवाक्यानां सन्निवेशविपर्यासः कृतः । तत्र सूक्ष्मेक्षिकया गुणदोषौ परिशीलनीयौ । “प्रनाडी” इत्यादेरधः अङ्किताः (२०-२५-३४) इति पुटसङ्खयाः मुद्रितैतत्कोशानुसारिण्यः ॥

इन्द्रियप्रनाडिकाग्रहणं लौकिकप्रत्यक्षोद्भवानुवाद एव । अन्यथा हीन्द्रियनिरपेक्षस्य योगीश्वरयोर्ज्ञानस्याप्रत्यक्षता स्यात् । अस्ति हि क्लेशादिप्रतिबन्धाभावे सर्वार्थन चित्तसत्त्वेन सर्वविषयेण युगपत्सूक्ष्मव्यवहितादिग्रहणम् । तथा चाह-तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम्’ इति । तस्मान्नावधार्यते इन्द्रियप्रनाडिकयैवेति ॥

बाह्यवस्तूपरागादिति विपर्ययनिवृत्यर्थम् । विशेषावधारणप्रधानत्वेन संशयनिवृत्तिरिति ।

तत्र केषाञ्चित् फलं तदेव प्रमाणम् । अपरेषां तु प्रमाणादन्यत्(त्र) प्रमाणव्यक्त्यन्तरम् (रे) । यथा घटविज्ञानस्य प्रमाणस्य हानोपादानेपेक्षाबुद्धयः फलमिति । गुणदेोषतदुभय(वदभव)शून्यत्वविषयत्वादुपादानादिबुद्धीनां प्रमाणभूतघट- विज्ञानादत्यन्तभेदः । ततश्चान्यविषयस्य प्रमाणस्य अन्य(प्रमेयस्य)विषयप्रमाण(णे)व्यक्त्यन्तरं (रे)फलमिति ॥

न हि खदिरच्छेदनस्य खदिरोपादानं तत्परित्यागो वा फले भवितुं युक्तम् । वि(अपि)योगसम्बन्धफलत्वात् त्यागोपादानयोः । न च फलस्य फलं सम्भवति । द्वैधीभावफलव्यवहितत्वाच ॥

किं च-फलस्य चेत् फलं क्रियानपेक्षाप्रसङ्गः । फलार्थं हि क्रियापेक्ष्यते । तच्चेत्फलं विनापि क्रियया फलादपि सिध्यति, (अतोह्य) ततो न ह्यनेकायासापेक्षितनिष्पत्तिक्रियामनुतिष्ठेत् । साधनान्वेषणानुपपत्तिश्च । क्रियाया अभावात् ॥

नापि क्रियैव फलं, क्रियानुपरमप्रसङ्गात् । फलावसाना हि (पि) क्रिया । क्रियायाश्च फलत्वे फलानभिलाषित्वप्रसङ्गः । तस्या दुःखत्वात् ॥

तस्मान्न प्रमाणस्वरूपमेव फलम्, नापि तद्व्यतिरिक्तप्रमाणान्तरमित्याह - फलं तदविशिष्ट इत्यादि । तदविशिष्टः तया प्रमाणाख्यया वृत्त्या अविशिष्ट: तुल्यः तदाकारत्वेन, पौरुषेयः पुरुषस्यायं बोध इति । पुरुषस्य हि वृत्त्याकारता । तस्मान्नाक्रियाजं द्रव्यस्वरूपमात्रं फलम् । किं तर्हि ? द्रव्यस्यैवावस्थान्तरविशेषः (ष)क्रियाजः(ज)क्रियापर्यवसानकालः क्रियोपरमोपपत्तेः फलम् । फलनिष्पत्तावेव हि क्रियोपरम उपपद्यते । एवम्भूतस्य मुख्यफलत्वे प्रधानक्रियाव्यवहित(विप्रकृष्टायाः)क्रियाया द्रव्यं द्रव्यस्य वा क्रिया फलमित्यन्योन्यप्रत्युपस्थापकत्वेन प्रधानफलाभिमुखीकरणात् फलत्वोपचारो न विरोत्स्यते ॥

ननु च भवतोऽप्युपचरितमेव फलम् वृत्त्यविशिष्टतायाः फलत्वेनाभ्युपगमात् , पुरुषस्य च शुद्धत्वात्, तदाकारताया अनृतत्वम् । न हि स्फटिकमणेरलतकोपधानाकारता सत्या ॥

बाढम्-तथापि त्वेतदेव फलं मुख्यम्, दृष्टत्वात् । मुख्यफलान्तरादर्शनात् । सर्वस्यैव क्रियाकारकजातस्यैतत्फलार्थत्वात् । एतदवसानं हि तत्सर्वम् । तथा च प्रदर्शितम् ॥

ननु च मिथ्याभूतस्यैव मुख्यफलत्वं वृत्त्याकारस्य, तथा च तदभिलाषानुपपतिः । बाढम्-मिथ्याभूत एव वृत्यनुगतो भोगः । तथा चाह- “सत्वपुरुषयोरत्यन्तासेकीर्णयोः प्रत्ययाविशेषो भोगः” इति ॥ भाष्यमपि – “तयोः स्वरूपोपलम्भे सति कुतो भोग” इति ॥ अत एव च सम्यग्दर्शनादात्यन्तिकी निवृत्तिरुपपद्यते ॥

येषाममिथ्या फलं, तेषां वैराग्यकारणाभावात् सम्यग्दर्शनान्वेषणानुपपत्तेर्मोक्षाभावः । न च क्रियापरिनिष्पाद्यो मोक्षः, अनित्यत्वप्रसङ्गात् ॥

अथ बुद्धिबोद्धृत्वं पुरुषस्य सत्त्वं चासिद्धमिति चेत् अह-प्रतिसंवेदी बुद्धेः पुरुष इत्युपरिष्टात् प्रवेदयिष्याम इति ॥

ये चापीन्द्रियार्थसन्निकर्षस्य प्रत्यक्षत्वमभ्युपयन्ति, न तेषामपि सम्यगभ्युपेतं, सन्निकर्षस्य क्रियाफलत्वात् । सन्निकर्षश्च संयोगः । स च क्रियाजस्तैरिष्यते । यतो यदुपजायते तत्तस्य प्रमाणम् । तच्च तस्य फलं यदुपजायते ॥

फलमपि सन्निकर्षे ज्ञानं प्रति प्रमाणमिति चेत्-तच्च न-ज्ञापकप्रमाणप्रस्तावे कारकप्रमाणोपन्यासस्यायुक्तत्वात् । सन्निकर्षे हि ज्ञानस्योत्पादको न तस्य ज्ञापकः । प्रमेयाधिगमाय हि प्रत्यक्षादीन्युपन्यस्तानि, न ज्ञानोत्पत्तिकारणम् । तत्प्रक्रियायाम(यान्य)प्रकृतं प्रक्रियत ॥

अथापि स्यात्-ज्ञानस्यापि प्रमेयत्वात्तच्चाप्युत्पद्यमानं प्रमीयत इति, तदुत्पत्तिकारणस्य सन्निकर्षस्य ज्ञापकत्वमेवेति-तच्च न-ज्ञानं ज्ञानेनैव ज्ञायेत, तेषां तथाभ्युपगमात् । न च सन्निकर्षो ज्ञानम् । ज्ञानोत्पादकत्वेनाभ्युपगमात् ॥

अथ ज्ञानस्य ज्ञाने सन्निकर्षो निमित्तत्वात् प्रमाणमिति चेददृष्टेश्वरेच्छाविषयनिमेषोन्मेषादीनामपि निमित्तत्वात् प्रमाणत्वे कः प्रद्वेषः ? न च ज्ञानस्य ज्ञेयत्वे आत्मनश्च स्वभावचिद्रूपत्वानभ्युपगम शक्या अनवस्था परिहर्तुम् ॥

अथ आत्मसमवेतमात्रतयैव ज्ञानस्य ज्ञेयता, न ज्ञानान्तरमपेक्ष्यते येनातिप्रसज्येतेति चेत्-अस्याप्यन्यत् प्रत्यक्षलक्षणं वाच्यम् अनिन्द्रियसन्निकर्षादिलक्षणत्वादात्मनि ज्ञानसमवायत्वस्य । सन्निकर्षस्य च ज्ञानोत्पत्तिफलत्वात्तदुत्पत्तिव्यवधाने सति तस्य ज्ञानेन नानन्तर्यम् ॥

तस्मात्तदानन्तर्येणापि न सन्निकर्षफलत्वं ज्ञानस्य । तथा हानादिबुद्धीनामपि रूपादिज्ञानफलत्वानुपपत्तिरुक्ता ॥

व्यभिचाराच्च । यथैकस्मिन्नङ्गनादिपिण्डविषये ज्ञाने समाने बहूनामुत्पने कस्यचिदुपादानबुद्धिः, अन्यस्य हेयबुद्धिः, कस्यचिदुभयाभावः, तत्र हानोपादानबुद्धिव्यभिचरति । अन्यतरनैकमेव ज्ञानं तदेवीभयं व्यभिचरल्युपे । क्षकस्य । यच्च यद्यभिचरति न तत्तस्य फलम् ॥

किं च-हानेपादानाभावमात्रत्वादभाव एवोपेक्षा । न चाभावः प्रमाणस्य वस्तुनः फलं भवितुमर्हति । रागद्वेषाभ्यां चोपादानपरित्यागबुद्धी । तदभावात् कारणाभावे कार्याभाव इति प्रमाणविज्ञाने सत्यपि हानोपादानबुद्ध्यभाव एवोपेक्षेति व्यभिचारान्न हानादिबुद्धिफलत्वम् ।

किं च-रागद्वेषतदभावनामभ्युपादानादिबुद्धिफलत्वे प्रमाणत्वप्रसङ्गः । पौरुषेयचित्तवृत्तिबोधफलत्वे तु न किञ्चिद्विरुध्यत इति ॥

ननु च चित्तवृत्तेः सेवेद्यत्वमसिद्धम् । न हि करणमेव कर्म भवति । न हि दात्रमेव लूयते । नैष दोषः । क्रियाकारकयोर्भिन्नधर्मत्वात् । क्रियानिर्वृत्तिं प्रति सम्भूय कारकाणि व्याप्रियन्ते परस्परं विषयविषयिभावेन । क्रिया तु सत्तामात्रेणैव फलहेतुरिति करणत्वमस्यामुपचर्यते, न कारकवत् । कुर्वद्धि कारयेदिति क्रियाधिकारकं स्यान्न भूतं भव्यायोपदिश्येत ॥

किं च-अनवस्थाप्रसङ्गश्च । क्रिया चेत् । करणं स्यात् , तन्निर्वर्त्यया चान्यया क्रियया भवितव्यम् । न ह्यन्यां क्रियामन्तरेण तस्याः कारणत्वं घटते । यापि चान्या सापि कारणं स्यादन्यस्याः क्रियायाः । साप्यन्यस्या इत्यनवस्था । ततश्च क्रियासन्तानानुपरमात् फलानभिनिर्वृत्तिः । तत्रान्त्या चेत् । क्रियान्तरेण विना फलहेतुर्भवेत्, प्रथमस्य तथात्वे कः प्रद्वेषः ? चित्तवृत्तेस्त्वभिव्यञ्जकत्वात् संवेद्यतेत्यदोषः ।

दृश्यते चाभिव्यञ्जकानां स्वरूपसंवेद्यतयैव करणत्वं प्रदीपादीनाम् । तथा चित्तवृत्तेरपि । चक्षुरादिष्वभिव्यञ्जकत्वेऽपि अग्रहणाद्व्यभिचार इति चेत्, समान (चेतनसमान) जातीयसङ्करात् कथम् ॥

येषां तावद्भौतिकानीन्द्रियाणि, तेषां चक्षुषस्तैजसत्वात् बाह्येनालोकेन तुल्यजातीयेन व्यतिभेदात् गृह्यमाणस्यैवाविवेकः । यथा प्रदीपानां बहूनां प्रभाव्यतिभेदात् कस्य का प्रभेति न विविच्यते । तथा श्रोत्रादिष्वपि ॥

येषामप्यभौतिकानि, तेषामप्यभिव्यञ्जकत्वेन समानजातीयता वृत्तेरभिव्यञ्जकत्वादग्रहणमिति । तन्न-प्राप्तचैतन्योपग्रहतयाऽविभाव्यत्वादव्यवहितत्वाच्च । सर्वगतत्वेऽप्यात्मनः सूक्ष्मत्वेन स्वच्छतरत्वेन च चितेनाव्यवधानाच्च ग्रहणं चित्तवृत्तेस्तस्माच्चित्तवृत्तिप्रमाणेनैव तदाकारतया पौरुषेयोऽपि बोधः सेवेद्यमान एव फलमिति सिद्धम् ॥

येषां पुन: प्रत्यक्षेणासंवेद्या चित्तवृत्तिस्तेषां फलग्रहणप्रमाणाभाव: ! फले च गृहीते ज्ञानासिद्धत्वस्यार्थापत्तिः । न च फलं गृह्यते प्रमाणव्यापारानभ्युपगमात् । तदभ्युपगमे चानवस्थाप्रसङ्गः ! यत्फलावग्रहणाय प्रमाणमभ्युपगम्यते तस्याप्यन्यत् फलं तत्प्रमाणस्याप्यन्यदिति न क्वचिदवतिष्ठेत ॥

अथ न प्रमाणव्यापारस्तस्य तदा प्रमाणाभावात् फलस्यासत्त्वं प्रसक्तम् । यत्र हि सदुपलम्भकानि प्रमाणानि न व्यापारं गच्छन्ति, तन्नास्तीत्यभ्युपगच्छामः ( तेषाम्) ॥

अथ अगृह्यमाणमपि तदेव ज्ञानं प्रमाणं फलस्यापीति चेत्-न- अभिव्यञ्जकधर्मव्यतिक्रमात् । न ह्यभिव्यञ्जकं गृह्यमाणमभिव्यञ्जयद्दृष्टम् । न ह्युल्का गिरिशिखरेऽपि निजं धर्ममतिक्रामति ॥

अथाभिव्यञ्जयदेव फलं प्रत्यपि प्रमाणमिति चेत्-सिद्धं तर्हीप्सितमस्माकम् । रागादीनां वृत्तिविशेषणत्वेन ग्रहणोपपत्तेः । रक्तोऽहं द्विष्टोऽहमिति यद्यहम्प्रत्ययविशेषणं, तदपि वृत्तिभावाभावित्वेनैव ग्रहणाद्वृत्तिविशषणानां रागादीनां ग्रहणमुपपद्यते । अ(तेना)न्यथा रूपादिवन्मानान्तरापेक्षत्वप्रसङ्गात् । ततश्चानवस्थेति । तस्मात्प्रमाणफलानभिज्ञानामभिमानमात्रमेव केवलं पण्डितम्मन्याना मित्युपेक्षणीयमिति ॥ अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम्। यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवत्, विन्ध्यश्चाप्राप्तिरगतिः। आप्तेन दृष्टोऽनुमितो वाऽर्थपरत्रस्वबोधसङ्क्रान्तये शब्देनोपदिश्यते, शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः। यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते। मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ॥ ७ ॥ विवरणम् विवरणम्

अनुमानमथोच्यते-अनुमेयस्य तुल्यजातीयेष्वनुवृत्त इति । अनुमेयस्य [जिज्ञासित]धर्मविशिष्टस्य । तद्धर्मवत्तया तुल्यजातीयेष्वनुवृत्तः सद्भावमात्रेण, [भिन्नजातीयेभ्यः] तद्विरुद्धधर्मकेभ्यो व्यावृत्तः-तेष्वसन् इत्यर्थः । सम्बन्ध इति । कः सम्बन्धः ? कयोर्वा ? न हि सम्बन्धिनावनपेक्ष्य सम्बन्धः सम्बन्धतामियात्, यदसौ प्रसिद्धवच्चोच्यते ‘य’ इति ॥ ननु च अनुमानस्य प्रकृतत्वात्, लिङ्गलिङ्गिनोः सम्बन्धः प्रसिद्ध एव-न-अगमकत्वात् । न केवलः सम्बन्धो गमकः । उच्यते लिङ्गस्यैव सम्बन्धो व्यावृत्त्यनुवृत्त्योः । कः पुनरसौ ? लिङ्गमेव । न हि लिङ्गादन्यदनुवृत्तं व्यावृत्तं च । तच्च गमकम् । ननु लिङ्गमपि नैव गमकं लिङ्गिसम्बन्धानपेक्षं, यदि चानपेक्षितलिङ्कलिङ्गिसम्बन्धं गमकं, यत्किञ्चिद्गमकं स्यात्, तस्मात् लिङ्गलिङ्गिसम्बन्धो वक्तव्यः ॥

न-उक्तत्वात् ॥ ‘अनुमेयस्य तुल्यजातीयेष्वनुवृत्तः’ इत्यादिनैवोक्तत्वात् । न ह्यनुमेयेनासम्बद्धं लिङ्गिना तत्सदृशजातीयेष्वनुवर्तते, भिन्नजातीयेभ्यो वा निवर्तते । तस्मात् य इति च प्रसिद्धमेव सम्बन्धमनुवदति ॥

तद्विषया-एवमन्वयव्यतिरेकविशिष्टसम्बन्धसम्बन्धिविषया वृत्तिः सामान्यावधारणप्रधाना-लिङ्गिसामान्यावधारणप्रधाना, अनुमानम् ॥

यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवदिति ॥ यद्यपि लक्षणाभिधानमात्रेण तदभिव्यक्तिः, तथाप्युदाहरणप्रत्युदाहरणप्रदर्शनादतितरामित्युदाहरणप्रतिपादनम् । तत्र गतिमच्चन्द्रतारकमिति चन्द्रतारकस्य गतिमत्त्वमनुमेयम् । तत्समानजातीयेष्वनुवृत्ता देशान्तरप्राप्तिर्गतिमत्सु चैत्रादिषु, भिन्नजातीयेभ्यश्चागतेभ्यो विन्ध्यादिभ्यो व्यावृत्तेति अव्यभिचरन्ती । नित्यं गतिमता सम्बन्धात् ।

तस्मादित्थञ्जातीयकमविनाभावेन सम्बद्धं सम्बन्ध्यन्तरं गमयति । यथा वध्यघातक(कृदि)कार्यकारणादि ॥

भवतु तावदविरुद्धानां नित्यसम्बन्धाद्देशान्तरप्रातप्त्यादीनां गम्यगमकता, वध्यघातकोदीनां तु सम्बन्धाभावे कथमित्युच्यते गम्यगमकभावः (भावेन) ?

तत्रापि नित्यसम्बन्धाददोषः । न ह्यन्यत्रापि प्राप्तिलक्षणः सम्बन्धोऽभिप्रेयते । सामान्यतो दृष्टा(नु)भावप्रसङ्गात् । न हि चन्द्रतारकादिषु देशान्तरप्राप्ते: प्राप्तिलक्षणसम्बन्धः प्रत्यक्षेण गृह्यते । अगृह्यमाणश्चेद्गमकः सर्वं सर्वस्य गमकं स्यात् । न हि किञ्चित्केनचिदसम्बद्धम्, आकाशादीनां सर्वत्र भावात् ॥

तस्माद्गम्यगमकबुद्ध्युत्पत्तिहेतुरेव सम्बन्धोऽनुमानविषये । तथा च वध्यघातकयोरपि अन्यतर(रा)भावदर्शनेऽन्यतराभावो गम्यत इत्यनुमानमेव । यस्याप्युचिते देशे अभावदर्शनादन्यत्र भावो गम्यते । यथा घातकदर्शनेन वध्याभावोऽनुमीयते । चैत्रस्य जीवतो गृहे , अभाव(गृह्यभाव)दर्शने बहिर्भावश्वति ।

ननु चाभावार्थापत्ती एते, नानुमाने, (न) लक्षणासङ्गतेः, गवादिवत् ॥ न-यथोक्तलक्षणोपपत्तेः- वध्यघातकयोर्विरोधलक्षणः सम्बन्धः । यत्र यत्र घातकभावस्तत्र तत्र वध्याभाव एवेत्यविनाभावः । न हि वध्यस्याभावं घातक(क)भावो व्यभिचरति । वध्यस्य वा भावे घातक(क)भावम्, अग्निभावमिव धूमभावः ॥

कथं पुनरवगम्यते घातकभावदर्शनादेव तद्गोचरे वध्यस्याभावबुद्धिरिति ? न पुनः सदुपलम्भकप्रमाणानां घातक इव वध्ये व्यापाराभावादिति ॥

उच्यते-घातकभावे व्यापृ(प्यावृ)तप्रमाणस्येव वध्याभावबुध्युत्पति:, धूमभावे व्यापृ(वृ)तप्रमाणस्येवाग्निभावबुद्ध्युत्पत्ति:, तथा घातकविशेषव्यापृ(वृ)तप्रमाणस्य वध्यविशेषाभावबुद्ध्युत्पत्तिः, धूमविशेषव्यापृ(वृ)तप्रमाणस्येवाग्निविशेषबुद्धिरिति । अभावप्रमाणवादिनस्तु सर्वत्र प्रमाणाभावस्याविशिष्टत्वाद्विरोधिविशेष दर्शनानुविधानं विरोध्यन्तराभावदर्शनस्यानुपपन्नं, लिङ्गविशेषानुविधानमिव लिङ्गिविशेषदर्शनस्य । न हि सदुपलम्भकप्रमाणव्यापाराभावस्य कश्चिद्विशेषः, येन विशेषबुद्धिस्तद्विशेषमनुविधीयते ॥

अथ जिज्ञासिते विशेषे सदुपलम्भकप्रमाणाभावादिति चेत्-तन्न-असतः स्मृतीच्छादिसहभावापेक्षानुपपत्ते: । न ह्यसत् सहायापेक्षया कार्यं निर्वर्तयद्दृष्टं शशविषाणादि । दृष्टमिहेति चेत्-न-विप्रतिपत्तिस्थानत्वे दृष्टान्ताभावात् । तुल्यमिति चेत्-न-घटादेः सतोऽपेक्षादर्शनात् ॥

न चापि निर्व्यापारस्यावस्तुत्वादभावस्य प्रमाणभावो युक्तः । न हि निरस्तव्यापारकं किञ्चित् कार्यारम्भकं दृश्यते लोके । तस्माद्व्यापाररूपप्रमाणजनिता प्रमेयाभावबुद्धिः, प्रमेयविषयत्वात् घटादिबुद्धिवत् । तथा च वस्तुत्वात् प्रवृत्तिनिवृत्तिहेतुत्वात् । विपक्षः शशविषाणादिः । तथा अभाव[प्रमा]प्रमाणा(ण)भावजनिता न भवति, यथाऽभिहितहेतुदृष्टान्तदर्शनात् । (नेन) ॥

घातकदर्शनं वध्याभावबुद्धेर्लिङ्गं तद्भावभावित्वादग्न्यादिबुद्धिनिमित्तधूमादिबुद्धिवत् संशयनिवर्तकत्वाच्च । वध्याभावबुद्धिर्वा लिङ्गजनिता निश्चयरूपत्वादग्निबुद्धिबदिति ॥

इह घटो नास्तीति किल नानुमानं लिङ्गलिङ्गिसम्बन्धाग्रहणात् । न हि यथाऽग्न्यादिबुद्धेर्धूमादिलिङ्गान्वेषणं तथेह नास्ति घट इत्यत्र लिङ्गान्वेषणमस्ति । प्रोगव लिङ्गान्वेषणात् बुध्युत्पत्तेः ॥

नैष दोषः । इहप्रत्ययाकारस्यैव लिङ्गत्वात् । न हि प्रथममेव लिङ्गबुध्युपजनने सति लिङ्गान्वेषणं भवति । इहेत्याकारोपरञ्जिता बुद्धिर्लिङ्गम् । उमुपरञ्जकव्यतिरिक्तघटाद्यभावबुद्धेर्घातकबुद्धिवदेव । विरोधलक्षण एव चात्रापि सम्बन्धः ॥

यत्र पुनरविरुद्धान्युपरञ्जकानि तत्रास्तित्वबुद्धेः । एतेनैवार्थापत्तेरनुमानत्वं व्याख्यातमविनाभावेन सम्बन्धेन । तत्रापि जीवतो हि देवदत्तस्य गृहाभावे बहिर्भावः, यदा गृहे भावः न तदा बहिर्भाव इत्यन्यतरेणानुमानम् । साक्षात् दृश्यमानबहिर्भावाभ्यन्तराभावत्वं दृष्टान्तः । वृत्त्युपरञ्जकानुपरञ्जकत्वेन ह्यभावग्रहणस्याभिहितो हेतुः ॥

अग्न्यादावपि दहनादिशक्तिग्रहणमनुमानमेव । कार्यनिर्वर्त्तकयोरविनाभावसम्बन्धस्यात्मनि दृष्टत्वाद्भुज्यादौ । दृश्यते हि प्रत्यगात्मानि शक्तोऽहमिदं कार्यं कर्तुमशक्तोऽहमित्यात्मवदात्मविशेषणस्य शक्तेर्ग्रहणम् । शक्तिनिर्वर्त्यमेव दहनादिकार्यमपील्यनुमानसिद्धिः ।

ननु चाभावस्य प्रत्यक्षतामुपगायति केचित् । यथा किलादर्शकेन प्रदीपादिना सति गृह्यमाणे वस्तुनि न तदवयविनि यदुपलभ्यते तन्नास्तीत्येवं सत: प्रकाशकं प्रमाणमसदपि प्रकाशयति । तथा चोदाहरन्ति-अनङ्कितं वास आनयेत्युक्तः प्रविश्य भाण्डागारम् अङ्कितानङ्कितवासस्सन्निधावङ्कितवासोग्रहणेनैव प्रत्यक्षेणाङ्गाभावविशिष्टं वास उपलभ्यानयति । तस्मात् प्रत्यक्ष एवाभावो लक्षणान्तरानुपपत्तेरिति ॥

तन्न-बुद्ध्याकारेणार्थावधारणानृतत्वप्रसङ्गात् । यदाकारा हि बुद्धिस्तस्य प्रत्यक्षावध्रियमाणात्मताभ्युपगम्यते । यथा नीलं वस्तु पीतमित्यत्रापि विशेषणविशेष्यसम्बन्धप्रत्ययो मिथ्यां प्राप्नोति । तद्यथेह घटो नास्तीति इहप्रदेशस्य घटाभावेनासति सम्बन्धे सम्बन्धप्रत्ययः ; न हि घटाभावस्येहप्रदेशस्य चा [प्राप्त]प्राप्तिलक्षणः समवायाभिधानो वा सम्बन्धस्तैरभ्युपेयते । यथेह देवदत्त इति । तस्मादभाव(वे)प्रत्ययव(या)न्नीलं वस्त्विति विशेषणविशेष्यसम्बन्धप्रत्ययोऽपि सम्बन्धप्रत्ययत्वान्मिथ्या प्रसज्येत ॥

यथा चासत्यपीहदेशघटाभावसम्बन्धे सबन्धप्रतीतिस्तथैवानीलेऽपि वस्तुन्यसत्येव नीलत्वसम्बन्धे नीलत्वसम्बन्धप्रत्ययः प्राप्नोति, तथा सम्बन्धिष्वपि । अथास्त्येव सम्बन्धः, द्विष्ठता विरुध्येत सम्बन्धस्य । अभावस्यावस्तुत्वाभ्युपगमात् ।

अथाप्येकशतं षष्ठ्यर्था इति यावत् षष्ठ्यर्थः सम्बन्ध इष्येत, तदा द्विविध एव सम्बन्धः समवायाख्यः संयोगाख्यश्चेति न युज्यते ॥

अथै(तथ)कशतस्यपि षष्ठ्यर्थनामुभयान्त:पातित्वमुच्येत-न-अभावेऽन्यतरस्याप्यसम्भवात् ।

किञ्च(न्त्व)न्यत् । इह नभसि कुसुमं नास्तीति सम्बन्धिनो नभसोऽप्यप्रत्यक्षत्वात् गगनकुसुमाभावस्याप्रत्यक्षत्वं प्राप्नोति । अथाप्रत्यक्षत्वमेवेति चेदापतितं गगनकुसुमाभाववदप्रत्यक्षत्वमिह भूप्रदेशे घटाभावस्यापि । विशेषो वक्तव्यः ॥

अथ व्योम्नोऽप्रत्यक्षत्वादिति-तन्न-पुष्पस्य पततो नभस्यस्तित्वदर्शनाद्व्योमाप्रत्यक्षत्वमहेतुः । यथैव निपतत्कुसुमसद्भावे व्योमाप्रत्यक्षत्वमहेतुस्तथा सद्भावविरुद्धग्रहणेऽप्यहेतुः स्यात् । अथाकाशाप्रत्यक्षत्वादेवेति चेत्, असम्बन्धमपि यत्किञ्चिद्व्यवहिताप्रत्यक्षत्वादि सोऽपि हेतुः स्यात् । अथ नभःकुसुमाभावः प्रत्यक्ष इति चेत्-इन्द्रियार्थसन्निकर्षानर्थक्यं सर्वत्र प्रसज्येत । तथा च सत्यसन्निकृष्टोपलब्धेः सर्वेषां सर्वज्ञत्वं प्रसक्तम् ॥

अथानुमेयं तत्रेति चेत्-नभ:कुसुमाभाववदिह घटाभावस्याविशेषादानुमानिकत्व(कीय)मेव सिद्धम् । एवं च सत्यभावप्रमाणवादिनोऽपि व्यवहितविप्रकृष्टोदकादावनलाद्यभावस्यानुमेयत्वादिह घटभावोऽपि तत्सामान्यादनुमानग्राह्य एवेति निश्चेतुं युक्तम् ॥

विन्ध्यश्चाप्राप्तरगतिरिति च प्रयोगान्तरम् । अगतिर्विन्ध्य इति प्रतिज्ञानम् । अप्राप्तेरिति हेतुः । चैत्रवदिति काकलोचनवदुभयत्र सम्बध्यते । गतिमच्चन्द्रतारकमित्यनेन साधर्ध्येण, विन्ध्यश्चाप्राप्तेरित्यनेन वैधर्म्येण सम्बन्धः । एवं च सत्यन्वयव्यतिरेका(क)दर्शनकृतो न दोषः ॥

अथवैतस्मिन्प्रयोगे व्यतिरेकविपर्ययदर्शनेन दोषाभाव इत्युपन्यस्तम् । लक्षणस्य च लक्ष्यविशेषेणोह्यत्वाददोषः ॥

आप्तः परानुजिघृक्षाप्रयुक्तो दोषरहितो दृष्टानुमितार्थ: । तेन दृष्टो वा अनुमितो वार्थः परत्र श्रोतृविशेषे स्वबोधसङ्क्रान्तये स्वाधिगमसङ्क्रमणाय शब्देन शब्द इति वाक्यं ततो विशिष्टार्थप्रतिपत्तेः । तस्मात्तदुपदिष्टाद्वाक्यात् । {तदर्थविषया] वाक्यार्थविषया या चित्तवृत्तिः सा अनुमानवदेव सामान्यावधारणप्रधाना ॥

इत्थमाप्त्यादिधर्मग्रहणपूर्विका श्रोतुरागमः, न वक्तुः । दृष्टानुमितार्थो हि वक्ता, तस्य लैङ्गिकमैन्द्रियकं वा तज्ज्ञानम् । श्रोतुरेव तु श्रवणपूर्वकं निश्चितं विज्ञानं लैङ्गिकैन्द्रियकव्यतिरिक्तम् । स आगमः [न] प्रत्यक्षमिन्द्रिया[विषय]- विषयत्वात् यथाभिहितलिङ्गलिङ्गसम्बन्धनिरपेक्षत्वाच्च नानुमानम् । न हि स्वर्गापूर्वदेवतादिशब्द(ब्देऽ)र्थान्वितं ज्ञानमासादितलिङ्गालिङ्गिसम्बन्धपुरस्सरमुपजायते । फलं तु सर्वत्र पौरुषेयो वृत्तिबेध एव ॥

यस्य आगमस्य वक्ता आगमाख्यवृत्त्युत्पत्तिनिमिते शब्दोच्चारणात् आगमस्य प्रयेागोपन्यासेन प्रतिपादितं फलं तु पूर्ववदेव । यदप्येक एव प्रयेागस्त(था)दापि साध्यसाधनाभवमात्रस्य विवक्षितत्वान्न विपरीतव्यतिरेकदर्शनादित्युच्यते ॥

अश्रद्धेयार्थवक्त्रभिहितत्वेनागम एव विशेष्यते । कथमसावश्रद्धेयार्थो वक्तेत्यत आह-न दृष्टोऽनुमितो वार्थः तेन वक्त्रा । शिष्टलोकप्रसिद्धान्यथाप्रतिपादनात् बुद्धार्हतादिः । न हि रागादिदोषानुपहतान्त:करण: प्रसिद्धमन्यथा निर्वर्णयति । स आगमः प्लवते आभासीभवति ॥

यद्यपि प्रत्यक्षानुमानविषयाभासदर्शनं स्वशब्देन न कृतं, तथाप्यागमाभासोपप्रदर्शनेनैव पूर्वत्रापि यथाभिहितलक्षणविपरीतत्वेन प्रत्यक्षानुमानाभासादि द्रष्टव्यमर्थादुक्तम् ॥

मूलवक्तरि तु आद्यवक्तरीश्वरे तन्निमित्ते य आगमः स विप्लवनिमित्ताभावान्निर्विप्लवः स्यात् । यथार्थ(य)वक्तृवत् ॥

उपमानं (मानं) शब्दपूर्वकम् । तदागमान्तःपतित्वान्न प्रमाणान्तरम् । यथा गौरिव गवय इति वनेचराभिहितादेव वाक्यादवधृतसादृश्यस्य पुनर्वने गवयदर्शनेऽपि पूर्वश्रुतवाक्योपस्थापितसादृश्यस्मरणमात्रमेव नाधिकम् । सादृश्यं तु वाक्यादेव पूर्वप्रतिपन्नम् ॥

नापि सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तित एव मानं, तस्या अपि तद्वाक्यादेवावगतत्वात् । न हि गौरित्येतावतानवगतगवयनामकस्य वनगतगवयदर्शिनोऽपि गवयोऽयमिति सञ्ज्ञासञ्ज्ञिसम्बन्धावबोधो भवति ॥

तस्माद्गौरिव गवय इति गवयशब्दोऽपि तद्वाक्येऽपेक्षितव्यः । तथा च सति पूर्वश्रुतादेव वाक्यात् सर्वं प्रतीतम् । अथापि स्यादयं(दस्य)गवय इति न पूर्वबुद्धविषयमिति-तदपि तत्रभवतामपि परिचोदनपरिहारमवपश्यतामपि पीडितकैवले[कौले]यकवृत्तिकोणेऽवस्थानमिव लक्ष्यते ॥

तथा हि-देशकालसन्निकर्षविप्रकर्षदिभेदनानेकोपमानभेद: प्रसज्येत । तथास्त्विति चेत्-तत्पूर्वधियैवातत्वमन्तर्निहितसमस्तविशेषमेव हि वा नेयौ पूर्वमुपपादितम् । नहि गौरियुक्त देशकालादिविशेषाभावे न गोशब्दादर्थप्रतिपति: ॥

किं चान्यत्-न हि सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तिरुपमानं, येन ह्युपमीयते तदुपमानं, सादृश्यज्ञानं हि तत् । न हि नामिनामसम्बन्धप्रतिपत्त्या किञ्चिदुपमीयते उत्तरकालत्वात् । अवधृतसादृश्यस्य हि पश्वाद(स्य)यं गवय इत्येवं सोऽपि निपतति ॥

एवं तर्हि स्यादशब्दपूर्वकं प्रमाणान्तरं, यथा गवयदर्शनादेतत्सदृशो गौरिति ग्रामीणस्य बुद्धिः-तदपि न-प्रमेयाभावात् । सति हि प्रमेये सदुपलम्भकत्वाभिमतस्य प्रमाणस्य व्यापारः, न हि गोगवययोर्व्यावृत्तमनुवृत्तं च वस्तुतः सादृश्यं नामैकमस्ति ॥

ननु च सादृश्यबुद्धिरस्येव, नासौ निरालम्बना भवितुमहति । सत्यमेवं तत्रैव विचारणा-किमसौ वनयूथादिप्रत्ययवत् ? अथ घटादिबुद्धिवदिति । किं चातः ? यदि वनप्रत्ययवद्भवेत्तदा यथैव विशिष्टसन्निवेशानुगता महीरुहा एवात्मव्यतिरेकेणाविद्यमानवनप्रत्ययहेतवस्तथैव गोगवयावयवा एव द्वयदर्शनस्मृत्यपेक्षया स्वात्मव्यतिरेकेणासतः सादृश्यस्य प्रतीतौ कारणमिति प्राप्तमवस्तुत्वम् ॥

अथ पुनर्घटादिप्रत्ययवद्वस्तुत्वं प्रमाणत्वं च, तदा स्यादिति ॥

तत्र कीदृशं वस्त्विति विचार्यते - किं गोगवययोरनुवृत्तमेकं सादृश्यं गोत्वगवयत्वाभ्यामन्यत् ? ते एव वान्योन्यविशिष्टे, यदि वा ताभ्यां भिन्ने गोगवयाधारे द्वे सादृश्ये परस्परानपेक्षे, सापेक्षे वा ?

किं व्यक्तिरेव साऽन्यतरजातिविशिष्टा वा, किं जातिः, सा चान्यतरव्यक्तिविशिष्टा, व्यक्तिद्वयविशिष्टा वा, सम्बन्धो वैतेषां यथाविकल्पयोगमित्येकैकान्योन्यविशिष्टविशेषणत्वादिना भूयांसोऽन्येऽपि विकल्पा उद्भावयितव्याः । तत्र यद्येकं सादृश्यमुभयगतं, तदा नोपमेयत्वमेकत्वात्, यथा गौरिव गैरिति ।

अथ तेनान्यतरव्यक्तिरुपमीयेत-नैतदपि-स्वात्मगतत्वात् गौरिव गोत्वेन । अथ तद्वत्या व्यक्त्या व्यक्त्यन्तरमुपमीयेत-नैतदपि-न हि गोत्वं खण्डमुण्डोपमेयत्वकारणम् । अथ धर्मान्तरापेक्षया सादृश्यं तद्बुद्धेः कारणमिति, नष्टं तर्हि सादृश्यं, स एवास्तु धर्मः तद्बुद्धेः किं ते सादृश्यहतकेन कल्पितेन ॥

किं च-स चाप्यपेक्ष्यमाणो धर्मः किमेकः सादृश्यवदुभयत्र, अथ भिन्न इत्येवमादिविकल्पाः स्युरित्यसम्भवः पूर्ववदेव । अथ भिन्नं सादृश्यमुच्येत-तच्च न-भेदादेव, न हि भवति गौरिवाश्व इति । यथैवैकैकत्वादघटमानता तथा बहुभिरपेक्ष्यमाणैः । एतेन जातिव्यक्तिसम्बन्धादयः पूर्वविकल्पिताः प्रत्युक्ताः ॥

अथ बुद्ध्युत्पत्यन्यथानुपपत्या सादृश्यकल्पना, सत्येवं वनविवरपूर्वदक्षिणोत्तरादिबुद्धियोगान्यथानुभवात् [न्यथानुपपत्या]वस्तुत्वं किं न कल्प्यते । स्यादेषा तव बुद्धिर्वृक्षादय एव तत्र तद्बुद्धिजन्महेतव इति । यद्येवं मिथ्याप्रत्ययो गवयेन सदृशी गौरिति वनबुद्धिवत् । अथ ये व्यावृत्ताः क इहोपमार्थ: गौरिवाश्व इति । अथोभयेऽपि तेऽवयवा व्यावृत्तानुवृत्तात्मानस्तदुद्धिहेतवः, तथापि वनप्रत्ययवदेव प्राप्तम् ॥

तस्मात् परीक्ष्यमाणं नातिविमर्दनक्षममिति त एवावयवा उभयत्रेोपलभ्यमाना भूयांसः सादृश्यबुद्धेः कारणं वनबुद्धेरिव पादपाः [इति] नोपमानं नाम प्रमाणान्तरमिति सिद्धम् ॥

नापि प्रमेयद्वित्वात् प्रमाणद्वित्वकल्पनम् । कुतः ? प्रमाणवशादर्थप्रतीतेः । न ह्यर्थवशात् प्रमाणकल्पना । यदि चार्थवशात् प्रमाणकल्पना स्यात्, अधुना तन्न शक्यम्, जनानामसर्वज्ञत्वात् । चैत्यवन्दनात् स्वर्गो भवतीत्यत्र चैत्यवन्दनस्य स्वर्गहेतुत्वबुद्धेः प्रत्यक्षानुमानाविषयत्वान्मिथ्यात्वं स्यात् । तदर्थं वा प्रमाणान्तरकल्पनम् ॥

अथ सा बुद्धिरनुमानफलमिति चेत्-प्रमाणादन्यत्र फलप्रसङ्गः, एवं श(क)रणत्रयादिवाक्यार्थविषयबुद्धिरपीति ॥

नापि चात्र प्रमाणलक्षणनिरूपणतात्पर्यं, प्रसिद्धप्रमाणादिवृत्तिनिरोधाभ्युपायाभिप्रदर्शनपरत्वात् । अत एव न सूत्रकारः सूत्रयाञ्चकार । भाष्यकारेण तु किञ्चिप्रसिद्धानुवादमात्रमवलम्बितमिति तदनुसरणेन किमपि जल्पितमिति ॥ ६ - ७ ॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥ स कस्मान्न प्रमाणम्? यतः प्रमाणेन बाध्यते। भूतार्थविषयत्वात्प्रमाणस्य। तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम्। तद्यथा – द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति। विवरणम् विवरणम्

प्रमाणाख्यां वृत्तिं व्याख्याय विपर्ययाभिधानां वृत्तिमिदानीमुपव्याचिख्यासमान आह-विपर्ययो मिथ्याज्ञानमिति ॥

ननु निरोधस्य प्रकृतत्वात्तस्य च हानत्वाद्धानस्य च हेयापेक्षत्वाद्धेयस्य चाविद्यामूलत्वादविद्या च विपर्यय इति स एव प्राधान्येन निरोद्धव्यः । तत्प्रभवत्वाद्धेयस्य । कारणनिरोधे हि कार्यमर्थादेव निरुद्धं स्यात् । तस्माद्विपर्ययः प्राधान्यात् प्रमाणात पूर्वं व्याख्यातव्यः ॥

सत्यमेवमस्येव प्राथम्यं विपर्ययस्य निरोधनीयतया, तथापि गुणदोषज्ञानापेक्षत्वान्निरोधं प्रति पुरुषप्रवृत्तेः । प्रमाणमेव हि गुणदोषज्ञानम् । न ह्यप्रमाणेन विपर्ययस्य दुष्टत्वं गम्यते, निरोधतत्फलसाधनानि वा ज्ञायन्ते । तस्मात् प्रमाणवृत्तेरेव प्राथम्यं युक्तम् । ज्ञायेते च गुणदोषौ प्रमाणेनेति तदनन्तरं विपर्ययाभिधानम् । वृत्यन्तरापेक्षया तु विपर्ययस्य प्राथम्यम् । तन्मूलस्वाच्च वृत्त्यन्तराणां तन्निरोधपूर्वमेवान्यनिरोधोपपत्तेः ॥

विपर्ययो मिथ्याज्ञानमिति पर्यायकथनम् । अतद्रूपप्रतिष्ठमिति लक्षणेोक्तिः ! तस्य रूपं तद्रूपं न तद्रूपमतद्रूपं, यदाभासं विज्ञानं तस्य विज्ञानस्य च सा प्रतिष्ठा आलम्बनम् । अगृहीतविशेषस्य सामान्यमात्र– बुद्धिरुपलब्धपूर्वान्यवस्तुस्मृत्युपसंहिता निश्चयाकरणोपसंहिता निश्चयाकारेणीपजायमाना विपर्ययः ॥

संशयो ह्युभयोरिदं सामान्यमित्येवं गृहीतसामान्यस्य विशेषमेव बुभुत्समानस्य जायत इति स्मृतावेवान्तर्भवति । यथा स्थाणुः किं वा पुरुष इति गृहीतपूर्वस्यैव विशेषस्य स्मरतः संशये । जायते, न तथा विपर्ययः । अन्यतरस्मरणमात्रेणैवावसितत्वात् । तद्यथा—स्थाणौ पुरस्तादवस्थिते परिणाहारोहणादिसामान्यमात्रोपलम्भेन समुपजातपुरुषस्मरणस्य पुरुष एवायमिति निश्चिता बुद्धिरुत्पद्यते ॥

सा यद्यपीन्द्रियमार्गेणोपलभ्यमानवस्तुसामान्यप्रधाना, तथापि स्मर्यमाणातद्वस्तुप्रतिष्ठत्वान्न प्रमाणम् ! स्मृत्यवसाना हि सा, यतः प्रमाणेन प्रबाध्यते अ(आ) भूतार्थ(र्थादि)विषयत्वात् ! (इत्यतः प्रतिष्ठत्वादित्येतत्) अभूतो हि स्मर्यमाणोऽर्थस्तदा ! यद्येवं स्मृतिरेव प्राप्नोति-न-विशिष्टत्वात् । उपलभ्यमानं वस्तु निमितीकृत्यान्यत्र स्मृतिर्जायते यथानुभूतवस्तुविषया । न विपर्ययस्तथा । सन्निहितसामान्यमात्रे देशकालादिविशेषानुगते वस्तुनि स्मरणपर्यवसानत्वे सत्यप्ययमिति विशेषरूपेण विपर्ययप्रत्ययो जायते । तस्मादेवं न प्रमाणधर्मों नापि स्मृतिधर्म इति वृत्यन्तरत्वम् ॥

तत्राप्रमाणस्य प्रमाणेन बाधसन्दर्शनार्थमुदाहरणं दर्शयनि-तद्यथा द्विचन्द्रदर्शनमिति । यथा काचकामलाद्युपहतदर्शनस्याभूतार्थविषयत्वाद्धि द्विचन्द्रदर्शनस्य सद्विषयेण भूतार्थविषयेण एकचन्द्रदर्शनेन द्वितीयचन्द्राभावोपपत्तिज्ञानस्मृत्यनुगृहीतेन बाधनम् ॥

ननु च द्विचन्द्रमिति द्विपूली पञ्चपूलीतिवत् द्विगुणसमासत्वात् “द्विगुरेकवचनम्’ इति प्रतिलब्धे तद्भावात् ‘अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः’ इति द्विगोरकारान्तात् (इति) द्विचन्द्रशब्दादीकारः प्राप्नोति-नैष दोषः-पात्रादिप्रतिषेधात् । तत्र चादिशब्दस्य प्रकारवचनत्वात् । प्रकारस्य च शिष्टप्रयोगानुसारित्वात् समाधिपादः प्रथमः । सेयं पञ्चपर्वा भवत्यविद्या, अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति। एत एव स्वसञ्ज्ञाभिस्तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति। एते चित्तमलप्रसङ्गेनाभिधास्यन्ते ॥ ८ ॥ विवरणम् विवरणम्

द्विचन्द्रोऽपि पात्रादिषु द्रष्टव्यः । द्वौ चन्द्रौ यस्मिन् दर्शन इति बहुव्रीहिः । एकचन्द्रशब्दस्य अद्विगुत्वादेव चोधाभावः । सा च पञ्चपर्वा अविद्याः सा विपर्ययवृत्तिरविद्या पञ्च पर्वाणि अस्या इति ॥

कानि पुनस्तानीत्याह-अविद्यास्मितेत्यादि । एत एव अविद्यादयः क्लेशाः स्वसञ्ज्ञाभिः स्वभिः शास्त्रान्तरप्रसिद्धाभिस्तमआदिसञ्ज्ञाभिः विशिष्टाः चित्तमलप्रसङ्गेनाभिधायिष्यन्ते द्वितीयपादे ॥ ८ ॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥ स न प्रमाणोपारोही। न विपर्ययोपारोही च। वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते। तद्यथा – चैतन्यं पुरुषस्य स्वरूपमिति। यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते। विवरणम् विवरणम्

इदानीं विकल्पं दर्शयति-शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ शब्दस्य ज्ञानं शब्दज्ञानम, वाच्यवाचकनियमेन साध्वसाधुशब्दज्ञानं, तदनुपतितुं शीलमस्येति शब्दज्ञानानुपाती । वस्तुशून्य इति ॥ यथावाच्यार्थशून्यः, यस्य शब्दस्य ज्ञानमनुपतति तस्य शब्दस्य यथाभूताभिधेयेन शून्य इति यावत् । यथाभूतार्थव्यतिरेकेण हि विकल्पनं विकल्पः ॥

तस्य हि शब्दज्ञानानुपातित्वादागमान्तःपातित्वं प्राप्तम्, अत आह — स न प्रमाणोपारोहीति ॥ न प्रमाणान्तःपातिीं वस्तुशून्यत्वात् । न ह्यागमस्य शब्दज्ञानानुपातित्वेऽपि वस्तुशून्यता । यतः शब्दार्थविषया वृत्तिरागमः, विकल्पस्तु वस्तुशून्यत्वान्न प्रमाणम् ॥

किञ्च-वक्तृश्रोत्रोश्च तुल्यो विकल्पः । द्वयोरपि शब्दादुच्चरिताद्विकल्प्यैव हि बुद्धिर्जायते । न तथा आगमे ॥ श्रोतुरेव ह्यागम: । वक्ता तु दृष्टानुमितार्थः ॥

किञ्च-निर्वितर्कसमापन्नस्य विकल्पो विवर्तते नागमः । तस्मान्नप्रमाणोपारोही ॥

यद्येवं वस्तुशून्यत्वाद्विपर्ययान्त:पातित्वं प्राप्तम्, अत आह-न विपर्ययोपारोहीति ॥ कुतः ? शब्दज्ञानानुपातित्वात् । न हि वस्तुशून्यत्वेऽपि विपर्ययः शब्दज्ञानमपेक्षते । यतः ‘‘विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्’ इत्युक्तम् । प्रमाणपरिच्छेद्यप्रत्ययं प्रत्यतिगुणभूतत्वाच्च विकल्पस्य । न हि यथा सर्वेषां विपर्ययो विरोधाद्वाध्यते, तथा विकल्पः । प्रमाणप्रत्ययगुणभावादेव ॥

तस्माद्वस्तुशून्यत्वग्रहणेन शब्दज्ञानानुपातित्वग्रहणेन च परस्परसम्बन्धेन प्रमाणविपर्ययाभ्यां प्रमाणविपर्ययगन्धमात्रानुलिप्तमपि भिन्नं विकल्पाख्यं वृत्यन्तरं दर्शितम् । तद्वद्गन्धानुलेपनादेव तदानन्तर्येण विकल्पस्यारम्भः । नापि स्मृतित्वम् । स्मृते: केवलानुभूतास्पदत्वात् ॥

अथ न त्वीदृशी चित्तवृत्तिः प्रसिद्धा । न हि स्वभावं किञ्चिद्वृत्तिनिमित्तमिति चेदाह-वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्य[मात्र]निबन्धनो व्यवहारो दृश्यते इति । मात्रग्रहण शब्दज्ञानव्यतिरिक्तकारणाभावख्यापनार्थम् । क्व दृश्यत इति चेदाह-तद्यथा चैतन्यं पुरुषस्य स्वरूपमिति । चितिशक्तिरपरिणामिनीत्युक्तत्वाच्चैतन्यमेव पुरुषः, तदेव च स्वरूपमिति व्यतिरेकाभावाद्व्यतिरेकोपनिबन्धनो व्यपदेशो न स्यात्-‘पुरुषस्य चैतन्यम्’ इति । तथा चेममेवार्थमुपाश्रित्य शब्दविदा वार्तिककारेणोत्तम्-‘सिद्धं तु व्यपदेशिवद्भावात्’ इति । तथैवेहापि यथा सति व्यतिरेके चैत्रस्य गौरिति तद्वदेव चैतन्यं पुरुषस्येति । न हि यथा गोरन्यश्चैत्रो व्यपदेशहेतुः, तथा चितेरर्थान्तरं पुरुषोऽस्ति, येन व्यपदिश्येत । भवति च व्यपदेशे वृत्तिः। यया चैत्रस्य गौरिति। तथा प्रतिषिद्धवस्तुधर्मो निष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति, गतिनिवृत्तौ धात्वर्थमात्रं गम्यते। तथाऽनुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमात्रमवगम्यते न पुरुषान्वयी धर्मः। तस्माद्विकल्पितः स धर्मस्तेन चास्ति व्यवहार इति ॥ ९ ॥ विवरणम् विवरणम्

नापि चितिः पुरुषादर्थान्तरं व्यपदिश्येत । तथाऽपि व्यतिरेकसम्बन्धविषये भवति ‘‘चैतन्यं पुरुषस्य स्वरूपम्” इति व्यपदेशे वृत्तिः ॥

प्रतिषिद्धवस्तुधर्मेति । वस्तुनो धर्मो वस्तुधर्मः । प्रतिषिद्धो वस्तुधर्मोऽस्येति प्रतिषिद्धवस्तुधर्मा । ‘‘धर्मादनिच् केवलात्” इति वचनात् समासान्तश्चिन्त्यसमाधिः । वस्तुशब्देन सत्त्वादिगुणा उच्यन्ते, तेषां धर्माः प्रतिषिद्धा अस्येति ॥

न हि प्रतिषिद्धाः सत्त्वादिधर्माः प्रतिषिद्धत्वादेवास्य पुरुषस्य सम्बन्धिनो भवन्ति । येन ते पुरुषेण अस्येति व्यपदिश्येरन् । तदभावमात्रमेव तु तत्रार्थः । तथापि यथा चित्रा गावोऽस्येति व्यपदेशे बुद्धिः तथा प्रतिषिद्धा वस्तुधर्मा अस्येति व्यपदेशे बुद्धिः ॥

निर्गता क्रिया अस्मादित्यत्रापि निर्गतिरपायः । अपायश्च सम्बन्धपूर्वः । यथा चैत्रानिर्गता क्रिया । न चैव पुरुषे क्रियाया असम्भवान्निर्गति: पुरुषात् सभ्भवति । तथाऽपि ‘निष्क्रियः पुरुष’ इति व्यपदेशे भवति वृत्तिः ॥

तथाऽनुत्पत्तिधर्मा पुरुष इति । न विद्यते उत्पत्तिधर्मोऽस्येति पूर्ववदेव । अत्र स्वयमेवार्थमाचष्टे भाष्यकारः—उत्पत्तिधर्मस्याभाव(ज्ञान)मात्रमव(मत्र) गम्यते । यथा निर्गुणो निरञ्जनो निष्कल इत्येवमादीन्यप्युदाहरणानि । आत्मविषयानेकोदाहरणप्रदर्शनमात्मतत्त्वनिर्धारणार्थत्वात् ॥

तिष्ठति बाण इति लोकप्रसिद्धोदाहरणप्रतिपादनमप्रसिद्धयाशङ्कानिवृत्त्यर्थम् । तिष्ठतीति गतिनिवृत्तिर्गत्यभावः । न चाभावस्य कालत्रययोगो भवति । नापि बाणस्य क्रियानिरपेक्षस्य द्रव्यस्य । नीपि चाभावेन गतिनिवृत्या बाणस्य वस्तुनः सम्बन्धः । तिष्ठति बाणः [स्थास्यति स्थितः] इत्येवं त्रीण्युदाहरणानि ॥

गतिनिवृत्तौ धात्वर्थ इति ॥ ननु गतिनिवृत्तिरेव धात्वर्थः, तत्र कथं गतिनिवृत्तावित्याधारः ? अत एवोदाहरणान्तरमेतत् । असति व्यतिरेके आधाराधेयभावस्याभावात् । अस्ति च गतिनिवृत्तौ धात्वर्थ इति व्यपदेशे शब्दसामर्थ्यसमुत्थापिता बुद्धिराधाराधेय[भाव]सम्बन्धावलम्बिनी । तस्मादित्थञ्जातीयं विकल्प विषयमनेकमुदाहरणं द्रष्टव्यम् ॥ ९ ॥ अभावप्रययालम्बना वृत्तिर्निद्रा ॥ १० ॥ सा च सम्प्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः। कथं, सुखमहमस्वाप्सम्। प्रसन्नं मे मनः प्रज्ञां मे विशारदी करोति। दुःखमहमस्वाप्सं स्त्यानं मे मनो भ्रमत्यनवस्थितम्। गाढं मूढोऽहमस्वाप्सम्। गुरूणि मे गात्राणि। क्लान्तं मे चित्तम्। अलसं मुषितमिव तिष्ठतीति। स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे तदाश्रिताः स्मृतयश्च तद्विषया न स्युः। तस्मात्प्रत्ययविशेषो निद्रा। सा च समाधावितरप्रत्ययवन्निरोद्धव्येति ॥ १० ॥ विवरणम् विवरणम्

निद्राख्यां वृत्तिमिदानीमाचष्टे-अभावप्रत्ययालम्बना वृतिर्निद्रा । जाग्रद्विषयत्वात् प्रागुक्तस्य वृत्तित्रयस्य_ तदुपमर्देन च निद्रासमुद्भव इति, तदनन्तरं निद्राख्या वृत्तिर्व्याख्यायते ॥

अभाव इति जाग्रद्विषयाभावः, न त्वत्यन्ताभाव एव । तत्र प्रत्ययानुपपत्तेः । अभावे प्रत्ययः अभावप्रत्ययः । स एव आलम्बनं यस्याः सा वृत्तिरभावप्रत्ययालम्बना । सा निद्रा सुषुप्तावस्था ॥

ननु च स्वप्नावस्थाऽपि निद्रैव–नैष दोषः-“स्वप्ननिद्राज्ञानालम्बनं वा “इति सूत्रकारेण भेदेनोपदिष्टत्वादिह सुषुप्तावस्थैव निद्राऽभिप्रेता ॥

किञ्च-अभावप्रत्ययालम्बनत्वाच्च सुषुक्तमेव । न हि स्वप्नस्याभावप्रत्ययालम्बनता, स्मृतित्वात् । स्मृतेश्वानुभूतविषयत्वात् । तथा भाष्यकारः’’स्वप्ने भावितस्मर्तव्या ‘ इति स्मृतित्वं दर्शयति ॥

किञ्च-स्वप्नस्य चित्तवृत्तिता स्वसंवेद्येति नाशङ्कैवोपपद्यते । तथा च चित्तवृत्तितामाशङ्क्याह-सा तु[च सं]प्रबोधे प्रत्यवमर्शादित्यादि । तस्मात् प्रत्ययविशेषो निद्रा । न हासति प्रत्ययविशेषे परामर्श युक्तः ! अस्ति चायं प्रबुद्धस्य प्रत्यवमर्शः ‘सुखमहमस्वाप्सम्’ इत्यादिः । प्रत्यवमर्शो नाम किमप्यन्वभूर्वामिित प्रत्ययालोचना । नानुभवाभावे सा भवेत् । नपि तद्विषयाः स्मृतयो युक्ताः । निद्राया अप्रत्ययत्वे-प्रज्ञां विशारदीकरोति मनः, मनसः कर्तृत्वं, स्त्यानं स्तिमितम् अकर्मण्यम्, गुरुगुरूणीति ‘प्रकारे ‘गुणवचनस्य इति द्विर्वचर्ने गुरुप्रकाराणि, अलसं मुषितमिव मल्लेनापहृतमिव, एतानि प्रत्ययानुभवकार्यणि न स्युः । काश्चन स्मृतयः कानिचित् कार्याणि केचन प्रत्यवमशः । तदेतत्त्रयमपि भाष्यकारोपन्यस्तॆ प्रत्ययविशेषत्व एवोपपद्यते ॥

किञ्च—गर्भगृहादिषु चादृष्टबाह्मनिमित्तानामसति विशेष चिरमई सुप्तवान् क्षिप्रमिति च परामर्शोऽन्यथा न युज्यते ॥

ननु च नात्र स्मृतयः, स्मृतीनाम् अन्वभवमित्येवंविशिष्टत्वात् । न हि सुषुप्तादुत्थितो विशेषं स्मरति–अत्रोच्यते–बालस्येह जन्मन्यननुभूतस्तन्यसम्बन्धस्य जन्मानन्तरमेव तस्याभिलाषो दृश्यते । न च। स] स्वाभाविकः । अबालानां स्मृतिपूर्वप्रवृत्तिदर्शनात् । तथेहापि । तस्मात् प्रत्ययपूर्वकः सुषुप्तविषयः प्रत्यवमर्शः, प्रत्यवमर्शत्वात् जाग्रदुपलब्धविषयप्रत्यवमर्शवत् । तथा सुषुप्तोत्थितस्य गात्रगौरवादि कार्यँ दुःखाद्यनुभवपूर्वँ , गात्रादिविषयगौरवादिकार्यत्वात् प्रसिद्धदुःखानुभवकार्यगात्रगौरववदिति प्रत्ययविशेषो निद्रेति सिद्धम् ॥ १० ॥ अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ ११ ॥ किं प्रत्ययस्य चित्तं स्मरति आहोस्विद्विषयस्येति। ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तज्जातीयकं संस्कारमारभते। स संस्कारः स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति। विवरणम् विवरणम्

स्मृतिमिदानीं व्याचष्टे–अनुभूताविषयासम्प्रमोषः स्मृतिः । स्मृतेः प्रमाणादिसर्ववृत्तिकार्यत्वादन्ते निवेशः । अनुभूतश्चासौ विषयश्च अनुभूतविषयः । योऽसावनुभूतः स एव विषयः, न पुनर्यो विषयः स एवानुभूत इति । तथा च स्मृतेरशब्दादित्वात् स्मृतिविषयायाः स्मृतेरस्मृतित्वं प्राप्नोतीति । इष्यते च स्मृतिविषयाऽपि स्मृतिः स्वसंवेद्यत्वात् । अनुभूतविषयस्यासम्प्रमेषोऽनपहरणमतिरोभावः । पारोक्ष्येऽपि सादृश्यादिनिमित्तापेक्षयाऽनुभूतस्य विषयस्य दृश्यमानवदवभासः स्मृतिः ॥

तत्र प्रत्ययस्मरणयोर्विषयाकारावभासाविशेषात्, किङ्कृतस्तयोर्भेद इति तद्विवेकं प्रदर्शयितुकाम आह–किं प्रत्ययस्य चित्तं स्मरतीत्यादि ॥ यद्यप्यनुभूताननुभूयमानविषयत्वेन विवेकः, तथापि सादृश्यनिमित्तां भ्रान्तिं तयोः कार्यकारणत्वप्रदर्शनाय निवर्तयति । एतदेव च वैनाशिकानां बहिरर्थानुपपत्तेर्बुद्धिकारणम् । किं प्रत्ययस्य स्मरतीति कर्मण्युभयत्र षष्ठी । चित्तं स्मरतीति पुरुषकर्तृत्वं निवारयति स्मृतिप्रत्यययोरेककर्तृत्वप्रदर्शनार्थम् । न हि पुरुषस्य प्रत्ययकर्तृत्वं स्मृतिकर्तृत्वं । दृश्यत्वात् प्रत्ययानाम् । दृश्यानां च स्वात्मातिरिक्तदृश्यत्वं घटादिवदिति वक्ष्यामः । ।

किञ्चातः ? यदि विषयस्य स्मरति, प्रत्ययस्यापि विषयविषयत्वादनर्थान्तरं स्मृतिः प्रत्ययात् । अथ प्रत्ययस्य स्मरति, तदा त्विदमयुक्तम् अनुभूतविषयासम्प्रमोष इति । तदा ह्यनुभवासम्प्रमोष इति स्यात्तत्राह - ग्राह्योपरक्तः ग्राह्यो विषय आलम्बनम् , तेनोपरक्तः लाक्षाद्युपरक्तस्फटिकवत् । ग्राह्यग्रहणो भयाकारनिर्भासः ग्राह्यस्य च घटादेः पृथुबुद्ध्नाद्याकारेण स्वेन चावभासरूपेणोपजायमानत्वादुभयनिर्भासः ॥

स च प्रत्यय उत्पद्य विनिवर्तमानः स्वाश्रये प्रत्ययिनि संस्कारमादधाति । स च संस्कारः कारणानुविधायित्वादुभया(पात)कार एव । स्वव्यञ्जकाञ्जन इति । संस्काराधायिनः प्रत्ययस्य हेतुभूतं यत् कर्म दत्तफलं तत्तुल्यजातीयं यत्कर्मान्तरं फलप्रदानायाभिमुखीभवति तत् स्वव्यञ्जकम् । तथा च वक्ष्यति-‘ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम्’ इति । तत्कर्मप्रत्युपनीतं वा सादृश्यप्रणिधानादि । स्वेन व्यञ्जकेनाभिव्यज्यत इति स्वव्यञ्जकाञ्जनः । ग्राह्यग्रहणात्मिकां स्मृतिं जनयति । अन्यथा तद्वयञ्जकस्य कर्मणो विपाकानुपपत्तिः ॥ तत्र ग्रहणाकारपूर्वा बुद्धिः। ग्राह्याकारपूर्वा स्मृतिः। सा च द्वयी – भावितस्मर्तव्या चाभावितस्मर्तव्या च। स्वप्ने भावितस्मर्तव्या। जाग्रत्समये त्वभावितस्मर्तव्येति। सर्वाः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात्प्रभवन्ति। सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः। सुखदुःखमोहाश्च क्लेशेषु व्याख्येयाः। सुखानुशयी रागः। दुःखानुशयी द्वेषः। मोहः पुनरविद्येति। एताः सर्वा वृत्तयो निरोद्धव्याः। आसां निरोधे सम्प्रज्ञातो वा समाधिर्भवत्यसम्प्रज्ञातो वेति ॥ ११ ॥ विवरणम् विवरणम्

तत्र ग्रहणाकारपूर्वा बुद्धिः । ग्रहणम् [स्वी]करणं[स्वी]करणमेव पूर्वं प्रथममुत्पद्यमानस्य प्रत्ययस्य । न हि विषयविशेषमपेक्षते पूर्वमिष्टानिष्टग्रहणात् , निर्भग्नवटप्रदीपविनिर्गतप्रभाजालवत् ॥

ग्रह्याकारपूर्वा स्मृतिः अनुभूतापेक्षत्वात् । यदि च ग्रहणपूर्विका स्मृतिः प्रत्ययवदभविष्यत्, अनुभूतं नापैक्षिष्यत । अपेक्षते तु । तस्माद्ग्राह्यो विषयः पूर्वोऽस्या न ग्रहणम् । तथापि तूभयात्मिकैव । स्मृतिसंस्कारयोरेकरूपत्वात् । नाप्यन्यतरप्रत्ययाख्यानेन सम्भवति । तथा चानुभूतविषयासम्प्रमोष इत्युपपद्यते । स्मृतिप्रत्यययोरपि[समान]विषयत्वात्, ग्रहणत्वस्य च सर्वत्र सम्भवात् । तस्मात् पक्षद्वयेऽप्यभिहितदोषो न दृश्यत इति ॥

सा च द्वयी । कथम्? भावितस्मर्तव्या भावितं परिनिष्पन्नं असकृद्भावितत्वात् । यथा द्रव्यान्तेरणासकृद्भावितं तैलादि । असकृद्भावितत्वादेव प्रणिधानादिप्रयत्नान्तरं नापेक्षते । भावितं स्मर्तव्यं प्रणिधानादियत्नान्तर[न]पेक्षया यस्याः सा स्वप्ने भावितस्मर्तव्या । जा[गृ]ग्रत्समये त्वपेक्षते प्रणिधानादिश्यत्नान्तरामिति तद्विपरीता ॥

सर्वाश्च प्रमाणादिवृत्तिपञ्चतयानुभवादुद्भवति । सर्वाश्चैताः सुखाद्या(स्सत्वाद्या)त्मिकाः । तदात्मकश्च संसारः । सुखदुःखमोहाश्च क्लेशेषु व्याख्याताः सूत्रकारेण । ‘सर्वं दुःखं विवेकिन:’ इति हि वक्ष्यति । तद्धानं चेह विवक्षितम् ।

तस्मात् सुखदुःखमोहात्मकत्वात् निरोद्धव्या वृत्तय:। किञ्च - आसां निरोघे सम्प्रज्ञातो वा समाधिर्भवत्यसम्प्रज्ञातो वा ॥ ११ ॥ अथाऽऽसां निरोधे क उपाय इति – अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥ चित्तनदी नामोभयतोवाहिनी वहति कल्याणाय वहति पापाय च। या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा। संसारप्राग्भाराऽविवेकविषयनिम्ना पापवहा। तत्र वैराग्येण विषयस्रोतः खिलीक्रियते। विवेकदर्शनाभ्यासेन विवेकस्रोत उद्धाट्यत इत्युभयाधीनश्चित्तवृत्तिनिरोधः ॥ १२ ॥ विवरणम् विवरणम्

अथ आसां निरोधे क उपाय इति ॥

उपायं प्रवेदयति-अभ्यासवैराग्याभ्यां तन्निरोध इति ॥ अभ्यासवैराग्ये वक्ष्यमाणलक्षणे । ताभ्यां यथोक्तलक्षणानां [वृत्तीनां] निरोधः विरोधनात् । निरोध उपशमः । अभ्यासवैराग्ययोर्विषयविवेकप्रदर्शनार्थमेतद्भाष्यम् -चित्तनदीत्यादि । चित्तेन नद्येव संसारिणः सततं विषये परिणीयन्ते । संसारप्राग्भारा संसारावसाना समुद्रावसानेव । खिलीक्रियते प्रतिबध्यत इति । उद्धाट्यते प्रवर्त्यते । उद्धाट: क्रियत इत्युद्धाट्यते । अन्यथा मित्वात् घटादयो मितः इति (हतु) ‘‘मितां हृस्वः’’ इति स्यात् । एवं उभयाधीनः उभयतन्त्र इत्यर्थः ॥ १२ ॥ तत्र स्थितौ यत्नाऽभ्यासः ॥ १३ ॥ चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः। तदर्थः प्रयत्नो वीर्यमुत्साहः। तत्सम्पिपादयिषया तत्साधनानुष्ठानमभ्यासः ॥ १३ ॥ विवरणम् विवरणम्

तत्राभ्यासत्वरूपं प्रतिपादयिष्यन्नाह–तत्र स्थितौ यत्नोऽभ्यासः । तत्र तस्मिन्निरोधे । सा च निमित्तसप्तमी । निरोधनिमित्ता चित्तस्य या स्थितिः यत्नस्य फलभूता तस्या निमित्तो[क्त भूतो]यो यत्त्रः सोऽभ्यासः । तथा चाह- अवृत्तिकस्य प्रशान्तपङ्कjकर(ङ्ग)ञ्जस्येवाभ्भसः प्रशान्तवाहिता प्रसन्नरूपत य परिणामो “निरुद्धवृत्तिकस्य चित्तस्य । यत्नो वीर्यमभ्युत्साह इति पर्यायाः । स्थितिसम्पिपादयिषया यमनियमादियोगसाधनानुष्ठानमभ्यासं इति ॥ १३ ॥ स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥ दीर्घकालासेवितो निरन्तरासेवितः सत्कारासेवितः। तपसा ब्रह्मचर्येण विद्यया श्रद्धया च सम्पादितः सत्कारवान्दृढभूमिर्भवति। व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः ॥ १४ ॥ विवरणम् विवरणम्

स तु कथं स्थिरीभवतीत्यत आह–दीर्घकालनैरन्तर्यसेवितः दीर्घकाल त्ववर्जितो वा [नैरन्तर्यवर्जितो वा न] दृढभूमिर्भवत्यभ्यासः । तस्मादुभयोरपि (विशेष्य)विशेषणत्वमेव । संस्कारासेवित इति त्वभ्यास एव विशेष्यते । दृढभूमिरित्यस्य व्याख्यानं व्युत्थानसंस्कारेणेति । व्युत्थानजेन संस्कारेण द्रागिति सहसा नाभिभूयते ॥ १४ ॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् ॥ १५ ॥ स्त्रियोऽन्नपानमैश्वर्यमिति दृष्टविषये वितृष्णस्य स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तावानुश्रविकविषये वितृष्णस्य दिव्यादिव्यविषयसम्प्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसङ्ख्यानबलादनाभोगात्मिका हेयोपादेयशून्या वशीकारसञ्ज्ञा वैराग्यम् ॥ १५ ॥ विवरणम् विवरणम्

वैराग्यप्रतिपादनार्थमाह-दृष्टानुश्रविकावषयवितृष्णस्य वशीकारसञ्ज्ञावैराग्यम् । विषयशब्दः प्रत्येकमभिसम्बध्यते वितृष्णस्य इति च, दृष्टविषयवितृष्णस्य आनुश्रविकविषयवितृष्णस्य चेति ।

दृष्टश्चासौ विषयश्च तस्मिन् ॥ कः पुनरसैौ ? स्त्रियोऽन्नं पानमैश्चर्यमिति व्यक्क्त्यपेक्षया । शब्दादीनामानन्त्येऽपि रागप्रबलत्वमेतेष्वतितरामिति स्त्र्यादग्रहणं प्राधान्यात् । अत्र हि प्रबलतरो रागः । स प्रयत्नतरेण निषेद्धब्यः । एवम् आनुश्रविकविषयः । आनुश्रविको नाम आगमिक इह । स च स्वर्गादिप्राप्त्यानुभवनीयः प्रकृतिलयगतभोग्यो वैदेह्मप्राप्तौ उपभोग्यश्च ॥

ननु च वैतृष्ण्यमेव वैराग्यम् , तथा ‘रागस्तृष्णा गर्द्धः’ इति हि वक्ष्यति । न - अवस्थाविशेषस्य विवक्षितत्वात् । तथा च यतमानसञ्ज्ञा, व्यतिक्रान्तसञ्ज्ञा, एकेन्द्रियसञ्ज्ञा, वशीकारसञ्ज्ञेति चतसृणामासां सामान्यसञ्ज्ञा । वैराग्यमिति । एवं सति दृष्टानुश्रविकविषयवितृष्णस्येत्येतदुक्तं भवति- अधिगतपूर्वावस्थात्रयस्य चतुर्थी या अवस्था सा त्विह वैराग्यम्मिति विवक्षितम् । तस्मादिह वैतृष्ण्यादन्यवैराग्यमाभिप्रेतम् । तथा च दर्शयति–विषयदोषदर्शिनः दोषदर्शनस्य विषयनिवृत्तिहेतुत्वात् । तद्गुणदर्शनं हि रागकारणम् । प्रसङ्ख्यानबलात्-तद्दोषदर्शनाभ्यासबलात् । अनाभोगात्मिका विषयाव्यतिकरामिका । दिव्यादिव्ययोः सम्प्रयोगेऽपि हेयोपादेयशून्या रञ्जनावमुक्तस्येव स्फटिकस्य विषयरागविमुक्तस्य चित्तस्यावस्थानम् । वशीकारसञ्ज्ञा-वशीकर्तुं शक्यन्तेऽस्यामवस्थायां सर्वे गौणा: पदार्था: वशीकर्तव्यत्वेन सञ्ज्ञायन्ते, वशीकृतनि च तस्यामवस्थायामिन्द्रियाणि सञ्ज्ञायन्ते, वशीकरणं वा सञ्ज्ञायतेऽस्यामिति ॥ १५ ॥ तत्परं पुरुषख्यातेर्गुणवेतृष्ण्यम् ॥ १६ ॥ दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात्तच्छुद्धिप्रविवेकाप्यायितबुद्धिर्गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति। तद्वयं वैराग्यम्। तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम्। यस्योदये सति योगी प्रत्युदितख्यातिरेवं मन्यते – प्राप्तं प्रापणीयं, क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसङ्क्रमः, यस्याविच्छेदाज्जनित्वा म्रियते मृत्वा च जायत इति। ज्ञानस्यैव परा काष्ठा वैराग्यम्। एतस्यैव हि नान्तरीयकं कैवल्यमिति ॥ १६ ॥ विवरणम् विवरणम्

तच्च द्विविधम् - परं चापरं च विषयनिमित्तभेदेन । अपरं व्याख्यातम् । अधुना परमुच्यते–तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् । तदिति वैराग्यं परामृश्यते ।

परमिति पूर्वोक्तवैराग्यादुत्तरकालभावीति । यदि वा –तस्य विषयनिमित्ताभ्यामुत्कृष्टीनिमित्तविषयत्वात् , कैवल्यस्य वा प्रत्यासन्नतरत्वात् परमुत्कृष्टम् ।

किं निमित्तमस्येत्याह—पुरुषख्यातेर्निमित्तात् । किंविषयमित्याह— गुणवैतृष्ण्यमिति । गुणेषु सत्त्वादिषुवैतृष्ण्यम् । दृष्टानुश्रविकविषयदोषदर्शीति । पूर्ववैराग्यनिमित्तविषयपरामर्शनमस्य विषयनिमित्तभेदविवेकार्थम् । पुरुषदर्शनाभ्यासात् निमित्तात् । तच्छुद्धिप्रविवेकाप्यायितबुद्धिः । तदिति पुरुषदर्शनं परामृश्यते । तस्य शुद्धिः तच्छुद्धिः निर्णिक्तक्लेशादिमलत्वम् । अथवा तस्य पुरुषस्य शुद्धिस्तच्छुद्धिः । तच्छुद्धेस्तदालम्बनदर्शनं प्रविविच्यते । तत्प्रविवेकेनाप्यायिता बुद्धिरस्य योगिनः ॥

गुणेभ्य इति विषयप्रतिपादनम् । पूर्वस्तु दृष्टानुश्रविकविषयभ्यो(ऽपि) विरक्तः । एष तत्कारणेभ्यो गुणेभ्य एव । व्यक्ताव्यक्तधर्मकेभ्यः महदादिसंस्थिता व्यक्तधर्मकाः । प्रधानावस्थिता अव्यक्तधर्मकाः । तेभ्यो विरक्त इति । तत् द्वयं वैराग्यं पूर्वमिदं च । तत्न यदुत्तरं पुरुषदर्शननिमित्तं गुणविषयं तज्ज्ञानप्रसादः मात्रम् । पुरुषदर्शनस्यैव परः प्रविवेक इति यावत् ॥

पुरुषदर्शी हि हेयोपादेयशून्यचित्तो भवति । तदाह—’‘प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेधर्मर्मघेः समाधिः’ इति ॥

यस्योदये यस्य वैराग्यस्योदये । प्रत्युदितख्यातिः प्रत्युत्पन्नदर्शनः । एवं मन्यते प्राप्तं प्रापणीयम् इत्यादि । एतस्य हि नान्तरीयकं केवल्यं ततः परं साधनानपेक्षत्वात् ! वैराग्यस्य ज्ञानप्रसादमात्रत्वे ज्ञानवैराग्ययोरनन्यत्वात् तद्विपरीतयोश्च रागाज्ञानयोरनर्थान्तरत्वमेव सिद्धम् । एवं सति रागोऽप्यविद्याया एवावस्थान्तरमिति पञ्चपर्वा अविद्येत्युपपन्नं भवति ॥

ननु चैवं बुद्धेरष्टगुणत्वं बाध्येत । षड्गुणत्वं हि ध्यानावस्थाभेदाभ्युपगमात् । ज्ञानत्वेऽपि वैराग्यस्य प्रसन्नतरत्वाभ्युपगमः । रागोऽप्यज्ञानस्यावस्थान्तरविशेषः ।

ननु चैवं सति ज्ञानाज्ञानयोरनेकावस्थाभेदादष्टगुणत्वं पुनरपि न प्राप्नोति । नैष दोषः । फलवत्त्वप्रत्यनीक-त्वनियमात् । ज्ञानावस्थाचतुष्टयस्य फलवत्त्वेन भेदनियमः । तथा अज्ञानावस्थाचतुष्टय प्रत्यनीकत्वेनाधर्मदिचतुष्टयनियम इत्यष्टगुणत्वसिद्धिः । धर्मादिप्रतिद्वन्द्विन एव हि गुणत्वेन नियम्यते, नाज्ञानभेदाः सर्व एव ॥ १६ ॥ अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथमुच्यते सम्प्रज्ञातः समाधिरिति – वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः ॥ १७ ॥ वितर्कश्चित्तस्याऽऽलम्बने स्थूल आभोगः आनन्दो ह्लादः। सूक्ष्मो विचारः। एकात्मिका संविदस्मिता। तत्र प्रथमश्चतुष्टयानुगतः समाधिः सवितर्कः। द्वितीयो वितर्कविकलः सविचारः। तृतीयो विचारविकलः सानन्दः। चतुर्थस्तद्विकलोऽस्मितामात्र इति। सर्व एते सालम्बनाः समाधयः ॥ १७ ॥ विवरणम् विवरणम्

उक्तं पुरस्तात् ‘सम्प्रज्ञातः समाधिर्वितर्काद्यनुगत इत्युपरिष्टात् प्रवेदयिष्यामः’ इति । सोऽवसरप्राप्त इदानीं लक्ष्येत । उपायद्वयेन निरुद्धवृत्तेः वैराग्यद्वयं परापरत्वेन व्याख्यातम् । अभ्यासस्यापि द्वित्वं सामर्थ्यादवसीयते । कथम् ? विशिष्टमसम्प्रज्ञातसमाधेरभ्यासं सूत्रेणैव वक्ष्यति–’’विरामप्रत्ययाभ्यासपूर्वः’’ इति । तेन सालम्बनविषयः पूर्वाभ्यास इति निश्चीयते । वक्ष्यति च -‘तत्प्रतिषेधार्थम् एकतत्वाभ्यासः’ इति ॥

भाष्यकारोऽप्यवादीत् - ‘वैराग्येण विषयस्रोत: खिलीक्रियते । विवेकदर्शनाभ्यासेन कल्याणस्रोत उद्धाट्यते? इति । नावोचत वृत्तिस्वरूपतिरस्कारमेव सम्प्रज्ञातसमाधेः । वृत्तिनिरोधप्रभवत्वमनिष्टविषयप्रवृत्युपरमोत्तर-कालभावित्वापेक्षया, वृत्तिविषयविशेषानुगत एव हि सः ॥

तथा च द्वितीयसूत्रे सम्प्रज्ञातस्य निरोधो न लक्षणमिति व्याख्यातम् । अतः पूर्वोक्ताभ्यासवैराग्योपायद्वयेन निरुद्धवृत्तेश्चित्तस्य कथमुच्यते-कथं लक्षणमुच्यत इति यावत् । वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः । अनुगमशब्दः प्रत्येकं सम्बन्धनीयः । वितर्कानुगमाद्विचारानुगमादानन्दानुगमादस्मितारूपानुगमादिति । रूपशब्दो मात्रार्थो वितर्कादिपूर्वधर्मत्रयवार्जतखख्यापनार्थः ॥

वितर्कश्चित्तस्यालम्बने स्थूल आभोगः । स्यूल(पि)मिश्रीभावः प्रथममालम्बनाकारेण परिणममानस्य चित्तस्य य आलम्बनव्यतिकरः स वितर्कः ॥ सूक्ष्मो विचारः आभोगः सूक्ष्म इति सम्बन्धः । आनन्दो ह्लादः विचारः सूक्ष्मतर आभोगस्तृतीयः । सानन्दता विशेषः । ‘एकरूपात्मिका संविदस्मिता स्वस्यां प्रकृतावस्मितायां समापन्नस्य अस्मिता प्रत्ययमात्रता एकरूपात्मकत्वम् । तथा चोदाहरिष्यति- तमणुमात्मानमन्ववैत्यास्मीत्येतावत्सञ्जानीत इति ॥

ननु चास्मिता क्लेशेषु पठिष्यति ‘दृग्दर्शनशक्त्योरेकात्मतेवास्मिता’ इति । तत्कथमिवास्मितारूपेण क्लेशेन समाधिरनुगम्यत इति । सत्यमेवं– प्रकृष्टस्वकारणाकारावभासकत्वादन्यविषयविनिवृत्तात्मकत्वाञ्चास्मिताया: समाधिरूपत्वेऽप्यदोषः ॥

यदि वा अस्मितारूपस्यालम्बनस्याविद्यात्वेऽपि न योगिप्रत्ययस्याविद्यात्वम् । न हि खलु परचित्तविविदिषायां परस्याविद्यात्वम् । न हि खलु परचित्तप्रत्ययं गृह्णन् परकीयाविद्याप्रत्ययरूपालम्बनदोषेण स्वयमविद्यावान् भवति ॥

अथासम्प्रज्ञातः समाधिः किमुपायः ? किंस्वभावो वा ? इति यः पुनः क्लेशः स विपर्येयविशिष्ट एव । यथा—अहं गच्छामि कृशोऽहमिति । योगिचित्तस्य तन्न्यग्भूते रजस्तमसी इति न तथा ॥

तत्र पूर्वः पूर्वः स्वकीयोत्तरोत्तरधर्मानुगतः । परः परस्तु पूर्वपूर्वधर्मविकलः । यस्माच्चैतद्धर्मचतुष्टयानुगत एवायं सम्प्रज्ञातः समाधिस्तस्मादेतल्लक्षण इति लक्षणार्थं सूत्रम् । लोकेऽपि यो यदसाधारणधर्मानुयातः स तल्लक्षणः, यथा सास्नादिलक्षणो गौरिति ॥

अस्मितामात्रग्रहणान्निरालम्बनतामेषां समाधीनां मा कश्चिदाशङ्किष्टत्याह- सर्व एते सालम्बना इति । यः पुनर्मन्यते निर्विकल्पत्वमस्मितेति–तदसत् । अस्मिताशब्दस्याहङ्कारे प्रसिद्धत्वात् । तथा चाह–अस्मिभावोऽस्मिता ॥ १७ ॥ अथासम्प्रज्ञातः समाधिः किमुपायः किंस्वभावो वेति – विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥ सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः। तस्य परं वैराग्यमुपायः। सालम्बनो ह्यभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनी क्रियते। स चार्थशून्यः। तदभ्यासपूर्वकं हि चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः सभाधिरसम्प्रज्ञातः ॥ १८ ॥ विवरणम् विवरणम्

अथ असम्प्रज्ञातः ‘योगश्चित्तवृत्तिनिरोध’ इत्युपपादितलक्षणः किमुपायः किंसाधनः केनोपायेनोपेत्य इत्यर्थः । किंस्वभावः किंस्वरूपः किमवस्थ इति स्वभावविशिष्टसाधनसम्बन्धप्रदर्शनार्थमाह-विरामप्रत्ययाभ्यास पूर्वः संस्कारशेषोऽन्यः ॥

विरामप्रत्ययाभ्यासपूर्व इत्येतावता साधनसम्बन्धमाचष्टे । संस्कारशेष इति तु स्वभावव्याख्यानम् । अन्य इति अनन्तरोक्तलक्षणात् सम्प्रज्ञातादवन्योऽयं निर्बीजः असम्प्रज्ञातः ॥

अन्य इत्युभाभ्यां सम्बध्यते –विरामप्रत्ययाभ्यासपूर्वेश्व संस्कारशेषश्च । कोऽसावुभयविशिष्ट इत्याह-अन्य इति ॥

विरमणं विरामः । विरामश्वासौ प्रत्ययश्च विरामप्रत्यय: । विरामरूपत्वात् स एव प्रत्ययो विराम इत्युच्यते । सर्वविषयेभ्यो विनिवर्तमानस्य विनिवर्तनकाले प्रागप्रत्ययापत्तेः प्रत्ययरूपत्वम् । एतद्यथा-पावकस्य ज्वलतः प्रक्षीयमाणेन्धनस्य शनैश्शनैरुपशाम्यतः प्रागङ्गारतापत्तेर्ज्वलात्मकता ॥

तस्माद्विरामरूपः प्रत्ययो विरामप्रत्ययः तस्य अभ्यासः पूर्वो मुखं यस्य सः विरामप्रत्ययाभ्यासपूर्वः । संस्कार एव शेषो यस्य स संस्कारशेषः । प्रत्ययोपरमे तु प्रत्ययसंस्कार एवावशिष्यते । विषयप्रत्ययेभ्य उपरतं चित्तं संस्कारशेषमेवेत्यर्थः । तस्य परं वैराग्यमुपायः तस्य समाधेः परमुत्तरम् ॥

ननु च परं वैराग्यं चेति वक्तव्यम्, अभ्यासवैराग्याभ्यां वृत्तिनिरोधस्याभिप्रेतत्वात् । नैष दोषः । विरामप्रत्ययाभ्यासस्य सूत्रोपात्तत्वादनाशङ्कयस्तदभ्यासः । वैराग्यं पुनरनुपात्तत्वादाशङ्कयेत । तस्मात्तदेव प्रापयता न चा [चः] पठितः ॥

यद्येवं कस्मान्न सूत्र एव वैराग्यग्रहणं कृतम् ? पूर्वत्र पठितत्वात् । तत्र किमर्थं पठितमिति चेत्–वैराग्यप्रसङ्गात् । पूर्ववैराग्यविशेष एवोत्तरं वैराग्यमिति प्रसङ्गादुत्तरम्[दुक्तम्] । पूर्वस्य च वैराग्यस्य सम्प्रज्ञातविषये(ऽपि)विनियोगादवशिष्टत्य परस्य साधनत्वादन्यविषयत्वाच्च निर्बीजेनैव सम्बन्ध इति न सूत्रे वैराग्यग्रहणं कृतम् । सामर्थ्यप्राप्तं तु भाष्यकारो दर्शेयति ॥

“अभ्यासवैराग्याभ्यां तन्निरोध’ इति हि प्रतिपादितम् । सालम्बनेो ह्याभ्यासो विरुद्धत्वान्निरालम्बनस्य समाधेः साधनत्वाय न कल्पत इति निर्वस्तुकोऽपि विरामप्रत्ययो निरालम्बनसमाध्यनुरूपत्वादालम्बनीक्रियते । तस्मात्तदभ्यासवैराग्योपायपूर्वकं चित्तं निरालम्बनमभाप्राप्तमिव भवति स एष निर्बीजः संस्कारशेषस्वभावः समाधिरसम्प्रज्ञात इति ॥ १८ ॥ स खल्वयं द्विविधः - उपायप्रत्ययो भवप्रत्ययश्च। तत्रोपायप्रत्ययो योगिनां भवति – भवप्रययो विदेहप्रकृतिलयानाम् ॥ १९ ॥ विदेहानां देवानां भवप्रत्ययः। ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्ति। तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति ॥ १९ ॥ विवरणम् विवरणम्

स खल्वयं द्विविधः । सः निर्बीजः समाधिः उपायप्रत्ययो भवप्रत्ययश्च । उपायेन प्रतीयते प्राप्यत इत्युपायप्रत्ययो योगिनां भवति । यद्यपि विदेहा अपि योगिन एव । तथापि यमादियोगसाधनानुष्ठायिनोऽभिप्रेताः । तेषां श्रद्धावीर्याद्युपायलभ्यः समाधिः ॥

विदेहप्रकृतिलयानां तु जन्मनैव लभ्यः । तेहि तनुतरप्रतिबन्धावशेषाः । स तु प्रतिबन्धावशेषस्तेषां सकृदासादितपुनर्जन्मनां समाधिव्याघाताय न पर्याप्नोति । स तु जन्मप्रतिलम्भमात्रनिमित्तम् । (त्वात्)ज्ञानवैराग्याद्यनुष्ठानकार्यत्वाद्विदेहप्रकृतिलयत्वस्य तदनुष्ठानस्तुत्यर्थं सूत्रम् । इदृशं हि तदनुष्ठानमाहात्म्यम् । यदुत सामर्थ्यादिवैकल्यादभीप्सितफलानवातावपि महनीयतरं विदेहप्रकृतिलयत्वं प्राप्यते ।

विदेहा नाम देवाः पुर्यष्टकशरीरोपबन्धाः । ते स्वसंस्कारमात्रोपभोगेन वैराग्याभ्यासाहितः संस्कारशेषस्तन्मात्रोपभोगेन चित्तेन कैवल्यमिहानुभवन्त इति । सत्त्वगुणविनिर्मोङ्कात्तथाजातीयकं स्वसंस्कारपरिपाकं क्षपयन्ति ॥

प्रकृतिलयाः–साधिकारे अपर्यवसिता[धि]करे । यावद्धि न कृता गुणपुरुषान्तरख्यातिः, तावदपरिसमाप्ताधिकारमेव चित्तं तस्मिन् प्रकृतिलयापन्ने कैवल्यमिवानुभवन्तीति । पूर्ववत् । यावन्न पुनरावर्ततेऽधिकारवशात् विद्याकर्तव्यतावशात् तावदनुभवन्ति कैवल्यमिव ॥ १९ ॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥ उपायप्रत्ययो योगिनां भवति। श्रद्धा चेतसः सम्प्रसादः। सा हि जननीव कल्याणी योगिनं पाति। तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यमुपजायते। समुपजातवीर्यस्य स्मृतिरुपतिष्ठते। स्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते। समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते। येन यथार्थं वस्तु जानाति। तदभ्यासात्तत्तद्विषयाच्च वैराग्यादसम्प्रज्ञातः समाधिर्भवति ॥ २० ॥ विवरणम् विवरणम्

येषामुपायप्रत्ययो योगिनां, तेषां श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वकः समाधिः, श्रद्धा नामापवर्गप्राप्तौ तत्साधनश्रवणे च कौतकफलसम्पर्क इव सलिलस्य चेतसः [सम्प्रसादः] सम्प्रसत्तिः । सा हि जननीव कल्याणी योगिनं पाति रक्षत्यशुभेभ्यः । तस्य हि विवेकार्थिनः सम्यग्दर्शनार्थिनो वीर्यम् उत्साह उपजायते योगसाधनानुष्ठानं प्रति । सञ्जातवीर्यस्यागमज्ञानादिविषया दृढ़तरा स्मृतिरुपतिष्ठते । विवेकार्थिन इति सर्वत्रानुषज्यते ॥

दृढस्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते । समाहितचित्तस्य प्रज्ञाया बुद्धेः विविक्तता सर्वार्थप्रकाशनसामथ्र्यम् । त(था)त् विशिनष्टि - येन यथाभूतम् आत्मादि वस्तु जानाति इति ॥

तदभ्यासात् एतदुक्तं भवति – आर्मदर्शनविरामप्रत्ययाभ्यासादिति । तद्विषयाच्च वैराग्या(ख्याद्विषया)त् परस्माद्वैराग्यादिति । असम्प्रज्ञातः समाधिः इति ॥ २० ॥ ते खलु नव योगिनो मृदुमध्याधिमात्रोपाया भवन्ति। तद्यथा - मृदूपायो मध्योपायोऽधिमात्रोपाय इति। तत्र मृदूपायस्त्रिविधः – मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेग इति। तथा मध्योपायस्तथाऽधिमात्रोपाय इति। तत्राधिमात्रोपायानां – तीव्रसंवेगानामासन्नः ॥ २१ ॥ समाधिलाभः समाधिफलं च भवतीति ॥ २१ ॥ विवरणम् विवरणम्

तेऽपि श्रद्धादिमाधिना नव(नुप)योगिनो भवन्ति । तद्दर्शयति-तद्यथा मृदूपायो मध्योपायोऽधिमात्रोपाय इति । तेषामेकैकस्त्रिधा भिद्यते-तत्र मृदूपाय इति । साधनानुष्ठानं प्रति मन्दोपक्रमो मध्योपक्रमः ती(व्रसंवेगो)व्रोपक्रम इति । एवमितरत्रापीति । नात्र तिरोभूतम्(त्) ॥

॥ तत्राधिमात्रोपायानां तीव्रसंवेगानामासन्नः समाधिलाभः समाधिफलं च ॥ २१ ॥ मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥ मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति। ततोऽपि विशेषः। तद्विशेषादपि मृदुतीव्रसंवेगस्याऽऽसन्नः, ततो मध्यतीव्रसंवेगस्याऽऽसन्नतरः, तस्मादधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्यासन्नतमः समाधिलाभः समाधिफलं चेति ॥ २२ ॥ विवरणम् विवरणम्

तेषामपि मृदुमध्यतीव्रोपक्रमतया विशिष्यमाणत्वात्ततोऽपि विशेषः साधनानुष्ठानसंस्कारस्य । तद्विशेषादप्युत्तमस्य समाधिलाभः प्रत्यासीदतितराम् ॥ एतदस्य सूत्रस्य प्रयोजनम्-योगसाधनानुष्ठानं प्रति योगिनः कथमुपबृंहितोत्साहा भवेयुरिति । यथा लोके द्रुततरं सीमान्तं परि[प्रति]धावतामेतत्फले भवतीति तद्वत् । अथवा-मन्दमन्देतरोपक्रमाणामपि योगिनामभिमतफलावाप्तिप्रकाशनादनवसन्न- चेतसः प्रवर्तेरन्निति । इतरथा तीव्रतरायासजनितभीतयेऽवसीदेयुरिति ॥ २२ ॥ किमेतस्मादेवाऽऽसन्नतमः समाधिर्भवति। अथास्य लाभे भवत्यन्योऽपि कश्चिदुपायो न वेति – ईश्वरप्रणिधानाद्वा ॥ २३ ॥ प्रणिधानाद्भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णात्यभिध्यानमात्रेण। तदभिध्यानमात्रादपि योगिन आसन्नतमः समाधिलाभः समाधिफलं च भवतीति ॥ २३ ॥ विवरणम् विवरणम्

किमेतस्मादेवासन्नतरो भवति ? अथ (तस्य) अस्य लाभे भवत्य न्योऽपि कश्चिदुपायो न वेति । उपायान्तरमस्तीत्याह-ईश्वरप्रणिधानाद्वा । ईश्वरशब्दार्थमुत्तरत्र व्याख्यास्यति । प्रणिधानमिह व्याचष्टे-भक्तिविशेषादावर्जित इति । अनुग्रहं प्रत्यभिमुखीभावमापादितः तं भक्त्यातिशययोगिनं योगिनम् अभिध्यानमात्रेण परमेश्वरत्वादेव निरायासतया सत्यसङ्कल्पत्वात् अनुगृह्वाति । तदनुग्रहादपि प्रत्यासन्नतरः समाधिलाभः फलं च इति ॥ २३ ॥ अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति – क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥ अविद्यादय क्लेशाः। कुशलाकुशलानि कर्माणि। तत्फलं विपाकः। तदनुगुणा वासना आशयाः। ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते, स हि तत्फलस्य भोक्तेति। यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते। यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः। विवरणम् विवरणम्

अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वर इति साङ्ख्यशास्रे प्रसिद्ध्यभावादीश्वरसद्भावे चोपपत्तिमवश्यमनवगतेश्वरविशेषो वा पृच्छति । तत्र तावत् प्रतिजानीते-क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥

क्लेशा इति । अविद्यादयः क्लेशयन्तीति क्लेशाः । तत्पूर्वानुष्ठितानि कुशलाकुशलानि कर्माणि । कुशलानि चाकुशलानि [च कुशलाकुशलानि] चेत्येकशेषः । कुशलाकुशलानीति कुशलाकुशलविमिश्राणीति यावत् । तत्फलं विपाकः जात्यायुर्भोगलक्षणः । त एव क्लेशादय आ निर्वाणाच्छेरत इति क्लेशकर्मविपाका आशया: । यदि वा क्लेशादीनां राशयः क्लेशकर्मविपाकाशया: ॥

ते मनसि वर्तमाना मनोवृतिप्रभवत्वात् पुरुषे व्यपदिश्यन्ते । कस्मात् ? स हि तत्फलस्य भोक्तेति । यथा राजनि जयपराजयौ योधेषु वर्तमानावपदिश्येते तत्फलं राजसम्बन्धि इति ।

या ह्मनेन भोगेनापरासृष्ट इति उच्यते । न कालविवक्षा, उपलक्षणार्थत्वं-न परामृश्यते, नापि परामृक्ष्यते, नापि परामृष्ट इति । क्लेशकर्मविपाकाशयासम्बन्धी(न्धयेगी)त्यर्थः ॥ कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः। ते हि त्रीणि बन्धनानि च्छित्त्वा कैवल्यं प्राप्ता ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी। यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवमीश्वरस्य। यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः सम्भाव्यते नैवमीश्वरस्य। स तु सदैव मुक्तः सदैवेश्वर इति। विवरणम् विवरणम्

सूत्रार्थविशुद्धिं कुर्वन्नाह-कैवल्यं प्राप्तस्तर्हीति । क्लेशाद्यपरामर्शस्य कादाचित्कतयाऽपि सम्भवात् । सन्ति बहवः केवलिनः किं तदी[तेऽपी]श्वरा इति ? । परामर्शस्यापि सम्भवान्न त एकान्तेन क्लेशादिभिरपरामृष्टाः । परामर्शापरामर्शी हि स्तः तेषाम् । ईश्वरत्वपरामृष्ट एव । न ह्यनवधृतः शब्दार्थो लक्षणत्वेनोपादेय: अपरामृष्ट इति । तस्माद्य एकान्तेनापरामृष्टः एवापरामृष्ट इत्युच्यते ॥

ते हि त्रीणि बन्धनानि प्राकृतवैकृतदाक्षिणानि सम्यग्दर्शनेन हित्वा कैवल्यं प्राप्ताः । ईश्चरस्य तु तत्सम्बन्धः क्लेशादिसम्बन्धो न भूतो यथा मुक्तस्य भावी बन्ध कोटिर्मुक्तत्वोपपत्तेरेव ज्ञायते । बन्धपूर्वका हि मुक्तिः । नापि भावी । यथा प्रकृतिलीनस्य । तस्य ह्यनारब्धसंसारस्य उत्तरा बन्धकोटिः सम्भाव्यते । प्रवृत्तसंसारस्य चाप्रकृतिलीनचित्तस्य सा(समा)धिकारत्वात् पूर्वोत्तरबन्धकोटी सम्भवतः । तदिदं सर्वमत्रापरामृष्ट इति कालाविवक्षाप्रदर्शनार्थम् । स तु सदैव मुक्तः सदैवेश्चरः ॥ योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विन्निर्निमित्त इति। तस्य शास्त्रं निमित्तम्। शास्त्रं पुनः किन्निमित्तं, प्रकृष्टसत्त्वनिमित्तम्। विवरणम् विवरणम्

तत्र पुरुषविशेष ईश्वर इत्युक्तत्वात्, ईश्वरस्य पुरुषस्यानैश्चर्यधर्मत्वात्, चित्तस्य चैश्चर्यधर्मत्वात्, निरातिशयैश्वर्यस्य च प्रकृष्टचित्तसम्बन्धापेक्षत्वात् प्राप्तमेवोत्तरार्थमनुवदति-योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्ष इति । नित्यनिरतिशयसर्वज्ञानैश्वर्यशक्तिसम्पत्तिरुत्कर्षः ॥

तत्र प्रतिज्ञाविशुद्धयर्थं प्रश्नपूर्वमुपक्रमते–स किं सनिमित्त अहोस्विन्निर्निमित्त इति । निमित्तशब्दः कारणपर्यायः । स किं सकारण आहेत्त्विन्निष्कारण इति । किञ्चातः ? यदि तावत् सकारणस्तदा सदैवेश्वर इत्ययुक्तम्, अनित्यत्वात् । अथ निष्कारणः, तथा चोत्कर्षस्य कार्यत्वादसत्त्वप्रसङ्गः । न हि निष्कारणं कार्यै दृश्यते लोके ॥

अत्रोच्यते-न निष्कारणः शास्त्रनिमित्तत्वात् । शास्रं ज्ञानम् । शास्त्रस्य हेतुत्वात् । यतः सर्वविषयं ज्ञानं नित्यं द्रव्यस्वभावसाध्यसाधनव्यवहितविप्रकृष्टास्पदम् ॥

यद्येवं ज्ञानस्यान्यतोऽधिगमपूर्वत्वात्प्रागनुत्कर्षः प्राप्त इत्यत आह- शास्त्रं पुनः किन्न्निमित्तमिति । यदि स्वाभाविकं ज्ञानं, मत्तोन्मत्तज्ञानवदनुत्कर्षहेतुत्वम् । अथ पुनः सनिमित्तकं, निमित्तात् प्रागनुत्कर्ष इति मन्यते ॥

न तावन्निर्निमित्तम् । यतः प्रकृष्टसत्त्वनिमित्तं प्रकृष्टसत्त्वाश्रयमिति यावत् । अत एव स्वभावज्ञानदोषाभावः ॥

किञ्च - स्वाभाविकज्ञानत्वेऽपि न मत्तादिज्ञानवदपकर्षहेतुत्वम् । नित्यमुक्तक्लेशादिसत्त्वाश्रयत्वात् । तत्र यथैव ज्ञानसंस्कारस्मृतिप्रबन्धानामन्योन्यनिमित्तनैमित्तिकभावेन बीजाङ्कुरवदनादिसम्बन्धः, तथैव शास्त्रप्रकर्षयोरीश्वरचेतसि नित्यप्रवृत्तप्रबन्धरूपेण प्रवर्तमानयोरनाद्यन्तः सम्बन्धः । तत्रोत्कर्षो ज्ञानस्य कार्येमेव । ज्ञानमपि तस्य कारणमेव ॥

अन्येषां व्याख्यानम्-निमित्तशब्दः प्रमाणवाची । तस्य शास्त्रं निमित्तं प्रमाणम् , तेन हि तदुत्कर्षः प्रमीयते । शास्त्रं पुनः किम्प्रमाणकम् ? ईश्वरनिर्मलसत्त्वप्रमाणम् । विशुद्धसत्त्वप्रणीतत्वाद्धि शास्त्रस्य प्रामाण्यम् ? यथा मन्वादीनाम् । तथा च श्रुतिः-‘यकिञ्चिन्मनुरभ्यवदत्तद्भेषजम्’ इति । यथा च लोके गुरुणाऽभिहितमिति ॥ एतयोः शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिः सम्बन्धः। एतस्मादेतद्भवति सदैवेश्वरः सदैव मुक्त इति। तच्च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम्। न तावदैश्वर्यान्तरेण तदतिशयते। यदेवातिशयि स्यात्तदेव तत्स्यात्। तस्माद्यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वर इति। न च तत्समानमैश्वर्यमस्ति। कस्मात्, द्वयोस्तुल्ययोरेकस्मिन्युगपत्कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्वित्येकस्य सिद्धावितरस्य प्राकाम्यविघातादूनत्वं प्रसक्तम्। द्वयोश्च तुल्ययोर्युगपत्कामितार्थप्राप्तिर्नास्ति। अर्थस्य विरुद्धत्वात्। तस्माद्यस्य साम्यातिशयैर्विनिर्मुक्तमैश्वर्यं स एवेश्वरः। स च पुरुषविशेष इति ॥ २४ ॥ विवरणम् विवरणम्

एतयोः शास्रोत्कर्षयोः प्रमाणप्रमेयतया निराद्यन्तः सम्बन्धः ॥

ननु च नैवेश्वरसत्व[अ]वर्तमानेन शाखेण तदुत्कर्षः प्रमीयते । नैष दोषः । तत्प्रभवत्वात्तत्र वर्तमानम् । वर्त(मान)त एव तत्प्रभवमपि शास्रं तस्मिन् सर्वज्ञत्वादेव । लोकेऽपि यतो यत्प्रभवति वर्तते तत्तस्मिन्, यथा तन्त्वादिषु पटादि । तत्प्रभवत्वमनुमानागमाभ्यामवगम्यते । शास्त्रप्रमाणकः उत्कर्षः, ईश्वरभ्रमाणकं शास्त्रमिति भिन्नाश्रयत्वाच्छास्रोत्कर्षयोर्नेतरेतराश्रयत्वम् ॥

ननु च शास्त्रादीश्वरप्रामाण्यं, तत्प्रामाण्याच्च शास्त्रप्रामाण्यमिति स्यादन्योन्याश्रयत्वम्-उच्यते-ईश्वरप्रामाण्यस्यानुमानेन सिद्धत्वाददोषः ॥

एतस्मादेतद्भवति । कस्मात् ? ईश्वरप्रकृष्टसत्त्वाश्रययोर्निरतिशयज्ञानोत्कर्षयोः कार्यकारणरूपे प्रबन्धनित्यतया नित्यत्वादेतद्भवति-स तु सदैव मुक्तः सदैवेश्वर इति । (इत्यत्राह) तच्च तस्यैश्चर्यं साम्यातिशयविमुक्तमिति वक्ष्यमाणप्रमाणफलम् । एतत्सूत्रपिण्डार्थो वा ॥

अतिशयविमुक्ततां व्याचष्टे -न तावदैश्वर्यान्तरेण तदतिशय्यते । कुतः? यदेवैश्वर्यान्तरं तदतिशयानं मन्यसे तदेव तत् ऐश्वर्यं मयाऽभिहितम् । यत्रैवैश्वर्यन्तरातिशायि भवत्यैश्वर्यं स एवेश्वर इति यावत् । न च तत्समानमैश्वर्यमस्ति । समानधर्मप्रकर्षासम्भवात् ॥

न ह्येकस्मिन् राज्ये द्वयोः सम्भवो राज्ञोः । एकस्य वा द्वे राज्ये । तथा प्रतिपादयति-तद्द्वयोस्तुत्यत्वं प्रसक्तम् । न ह्येकस्यान्यतरत्र प्राकाम्यमबाधित्वा अन्यतरस्मिन् प्रवृत्तिरुपपद्यते । द्वयोश्च युगपदेकार्थयोरेकस्य प्राकाम्येण प्रवृत्तिरेव नास्ति । प्रकामिते वस्तुनि समानप्रकर्षस्यार्थस्य विरुद्धत्वात् ॥ येन च समानप्रकर्षता तस्य तेनैव स बाध्यते । (ते च) तव न वाचा बाधनमितरस्य रूपातिशया आवृत्त्यतिशयाश्च विरुध्यन्ते । सामान्यानि त्वतिशयैः सह वर्तन्त इति वक्ष्यामः ॥

तस्माद्यस्य साम्यातिशयविप्रोषितमैश्वर्यं स ईश्वर इति प्रधानपुरुषव्यतिरिक्तः पुरुषविशेष ईश्वरः सिद्धः ॥ २४ ॥ किं च – तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥ यदिदमतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सर्वज्ञबीजमेतद्विवर्धमानं यत्र निरतिशयं स सर्वज्ञः। अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात्परिमाणवदिति। यत्र काष्ठाप्राप्तिर्ज्ञानस्य सु सर्वज्ञः। स च पुरुषविशेष इति। विवरणम् विवरणम्

यथाप्रतिज्ञातस्येश्वरस्य सिद्धौ प्रमाणमुपन्यस्यते-तत्र निरतिशयं सर्वज्ञबीजम् । तत्र तस्मिन् यथाप्रतिज्ञातलक्षण ईश्वरे निरतिशयं भवितुमर्हति । किं तदिति ? यदिदम् अव्यभिचारि प्रत्यक्षानुमानज्ञानम् अतीतविषयम् अनागतविषयं (वर्तमानकाल)प्रत्युत्पन्न[विषय]मतीतादिसमुच्चयविषयम् अतीन्द्रियविषयं च । अतीन्द्रिययोरतीतानागतयोः सम्भवादतीन्द्रिय[ग्रहण]मित्युच्यते ॥

तच्चातीन्द्रियग्रहणं त्रिविधम्-सूक्ष्मविषयं व्यवहितविषयं विप्रकृष्टविषयञ्च । अल्पं बह्निति । यथाप्रसिद्धमेतद्विवर्धमानं सातिशयत्वेन सर्वज्ञबीजं यथा । धूमविज्ञानमग्निविज्ञानस्य । कथम् ? यत्र प्रकर्षकाष्ठां प्रतिपद्यते । ज्ञानस्य ज्ञात्राश्रयत्वात् यत्रेति ज्ञातोच्यते-यस्मिन् ज्ञातरीति । स सवैज्ञः सिद्धः ॥

तथा शक्तिरपि सातिशयत्वेन विवर्धमाना यत्र काष्ठां प्राप्नोति, स सर्वशक्तिः । तेन जगन्निर्माणस्थापनोपसंहादिकर्तृत्वसिद्धिः । तथैश्वर्यस्यापि वर्धमानस्य यत्र काष्ठाप्राप्तिः, स परमेश्वरः । ततश्च अशक्त्यादिविपर्ययदोषाभावसिद्धिः ॥

अथापि स्यात्-अज्ञानस्यापि विवर्धमानस्य स्वभावसिद्धस्य काष्ठाप्राप्तस्य तस्मिन्नीश्वरे सिद्धिरिति-न-ज्ञानाविरोधात् । न हि ज्ञानाज्ञानयोर्विरुद्धयोरेकस्मिन्नभिसंयोगोऽस्ति । न हि ज्ञाने प्रकर्षवति तत्राज्ञानं सम्भवति ॥

यत्र हि ज्योतिर्विवर्धते तत्र तमोऽपकृष्यत एव । विपर्ययोऽपीति चेत्- तच्च न-सति ज्योतिषि तमसोऽनुपलम्भात् । विद्यमानं हि तमो ज्योतिषा तिरस्क्रियते, न कदाचिद्विद्यमानं ज्योतिस्तमसाऽभिभूयते ।

यदपि जलधरोपरोधात् प्रावृषि रवेरदर्शनम्, तदपि दृष्टिव्यवधानमात्रम् । न पुनः प्रकाश एव तिरोधीयते तमोवत् । तस्मान्न, यत्र ज्ञानविवृद्धिस्तत्राज्ञानस्य भावः सवितरीव तमसः । नित्यात्यन्ततिरोहितरजस्तमेोगुणसत्त्वोपादानात् ॥

किञ्च- नाज्ञानस्यावस्तुविषयत्वाद्विवृद्धिः सम्भवति । ज्ञानस्य ज्ञेयवस्तुविषयत्वादभिवृद्धयुपपत्तिः । अज्ञानस्य हि वस्तुविषयत्वे ज्ञानत्वप्राप्तिः ॥

यश्चापि स्थावरादिष्वज्ञानप्रकर्ष इति, नासौ प्रकर्षः । अत्यन्तज्ञानाभावापेक्षया हि स उच्यते । अज्ञानस्य प्रकर्षे हि सत्यज्ञानसहस्रस्य न ज्ञानेनैकेन बाधः स्यात् । तथा[दा]हि प्रत्यज्ञानं ज्ञानेनोत्पन्नेनानेकेन बाधनं स्यात् । तस्मान्नाज्ञानस्य प्रकर्षः स्वरूपेण ॥

यस्य हि सातिशयत्वं तस्य काष्ठाप्रप्तिर्दृश्यते । यथा फलादिपरिमाणानामाकाशपर्यन्तता । तथा सर्वज्ञबीजमपि परां काष्ठां प्रातुमर्हति ॥

समस्तं व्यस्तं च सर्वं वस्तुजातमेकस्य प्रत्यक्षं, ज्ञेयत्वात्, घटादिवत् ॥

ज्ञानाविषयत्वेन पुरुषार्थत्वात्, घटादिवदेव ॥

उत्पत्तिमती च पृथिवी, सावयवत्वात्, घटादिवत् ॥

प्राणिकर्मतत्साधनफलविभागविदेक(गधैक)निष्पादितं जगत्, तदुपभोग्यस्थानादिरचना-विशेषवत्वात प्रासादादिवत् ॥

अनेकप्राण्युपभोगविज्ञानवदेकनिर्वर्तिता पृथिवी, अनेकप्राणवदुपभोग्यत्वात् व्रीहियवादिवत् ॥

अनेकप्रयोजनार्थिना एकेन निर्मिता पृथिवी, गृहादिवदेव ॥

सर्वप्राण्याश्रयो गिरिनदीसमुदायः तन्निवासिपरिभोगयोग्यविज्ञानवदेककुशलोत्पादितः, प्रकृतहेतुनिदर्शनाभ्यामेव ॥

अनेकप्राणभाक्प्रकाशादिसामर्थ्यज्ञानवता एकेन निर्वर्तितः सविता, प्रकाशात्मकत्वात् प्रदीपादिवत् ॥

नियतकालमादित्योदयास्तमयादिसञ्चरणम् एतत्प्रयोजनज्ञानवदेकप्रयुक्तं, प्रतिनियतकालत्वात्, कृष्यादिवत् ॥

बुद्धिमदेकेश्वरप्रयुक्ता सूर्यग्रहचन्द्रनक्षत्रादिप्रवृत्तिः, प्रवृत्तेर्दुःखात्मकत्वे सति नियतसमयत्वात्, धर्मज्ञशिष्यभृत्यादिप्रवृत्तिवत् ॥

चन्द्रमसो वृद्धिक्षयौ तिथ्यादिकालज्ञानवतैकेन प्रयुक्तौ, कालपरिच्छेदकत्वात्, घटिका[हरा]दिवत् । कालपरिच्छेदज्ञानवतैकेन निर्वर्तितश्चन्द्रमा:, वृद्धिक्षययुक्तत्वात्, घटिकादिवदेव ॥

बुद्धिमदेकस्वामिकं जगत्, अन्योन्यविरुद्धसंहतानेकप्राणिनायकाधिष्ठितबहुमण्डलत्वात्, इत्थञ्जातीयकैकराज्यवत् ॥

सर्वमेतत्साधनसाध्यव्यापारावस्थं प्रत्यक्षं कस्यचिदेकस्य, अवान्तरविरोधानुग्रहवत्तयैकप्रयोजनत्वात्, साङ्ग्रामवस्तुवत् ॥

संहतत्वात्, कुलालादिवस्तुवत् । सैव प्रतिज्ञा ॥

युगपच्च सर्वं प्रत्यक्षमेक(त)स्य, अनेकत्वे (त्व)सक्ष्यन्योन्यसम्बन्धात्, प्रसिद्धसम्बन्धानेकार्थवत् ॥

अग्निहोत्रादिसाधनसाधनीये कस्यचित्प्रत्यक्षे, साध्यसाधनरूपत्वात् , भुजितृप्तिवत् ॥

सर्वाः शक्तयः कस्यचित् प्रत्यक्षाः, वस्तुत्वात्, घटादिवत् ॥

अ[वा]न्तरप्रतिबन्धाभावे सर्वं वस्तुजातं नैरन्तर्येण कस्यचित् प्रत्यक्षं, शब्दादिमत्त्वेन सम्बन्धात्, द्राघीयसीमिव शष्कुलीं भक्षयतः शब्दादयः ॥

स्वतन्त्रतया केनचिदेकेन सर्वं प्रत्यक्षत उपलभ्यते, ज्ञेयत्वेनाभिमतत्वात्, नाट्यवस्तुवत् ॥

अप्रतिबन्धेन कस्यचित् प्रत्यक्षोपलभ्यं सर्वम्, अनेक(सत्वे)त्वे सत्यन्योन्यसम्बन्धात्, नाट्यसम्बन्धिनर्तकादिवत् ॥

संसाररहितः सर्वज्ञः, अज्ञानाभावात्, मुक्तात्मवत् । क्लेशादिरहित ईश्वरः, अप्रतिबन्धज्ञानत्वात्, सिद्धयोगिवत् ॥

एतेन क्लेशादिप्रतिबन्धाज्ञानरहितत्वेन चक्षुरादीन्द्रियग्रामनिरपेक्षसर्वविषयज्ञानत्वं सिद्धम् । सर्वार्थग्रहणसमर्थस्य परमेश्वरचित्तस्य सर्वव्यापिनो युगपत्सर्वविषययोगित्वात् । एवं सति समस्तवस्तुग्रहणाभावे कारणाभा(वानु)वोपपतिः ॥

नापि मूर्तिमत्प्रतिबन्धोऽप्याकाशवदेव सर्वविषययोगिनोऽपि चित्तस्य । विषयानवस्थानादाविर्भावतिरोभावस्मृतिसङ्कल्पानवस्थितत्वोपपत्तिः । विषयाकारतया वृत्तिलाभादर्कप्रभावत् ॥

न हि क्लेशाद्यावरणावच्छन्नं चित्तसत्वम्, तस्याधर्मादियोगात् । सर्वगतस्य सर्वार्थस्यापि सत्वस्याधर्मादिप्रतिबन्धकनिरुद्धस्वकीयप्रवृत्तिमार्गत्वादिन्द्रियादिद्वारापेक्षित्वमुपपद्यते । यथा अपवरकाद्यावरणावृतः प्रदीपस्तदावरणगतच्छिद्रद्वारेण बहिः प्रकाशयति । स एव तु प्रदीपः प्रभिन्नापवरकावरणः सन्ननपेक्ष्य तत्तच्छिद्रमार्गं समन्ततः प्रकाशयति ॥

तथैवेश्वरसत्वं क्लेशाद्यावरणयोगाभावादसति विषयविशेषानिरोधिकारणे युगपदशेषार्थग्रहणम् । ततश्च स्वातिलङ्घनानतिलङ्घनादिदोषाभावः ॥

सर्वस्य विषयत्वात् सर्वमेकेश्वरं जगत्, परिपालकापेक्षस्थानाद्यनेकवस्तुविशेषत्वात्, प्रसिद्धेवम्भूतैकराज्यवत् ॥

तथा, नियतस्थितिहेत्वनेकोपकरणवत्त्वात्, अन्योन्याभिभवनीयप्रभूततरदुर्गयुक्तानेकदेशत्वात्, अभङ्गुरव्यवस्थशरीरभेदवत्वाच्च, प्रतीतैवंविधैकराज्यवत् ॥

अनेककर्तृभोक्तृक्रियासाधनफलसम्बन्धविशेषज्ञानवदुपदिष्टानि वर्णाश्रमाद्यनुष्ठानानि, फलार्थिभिः प्रत्यवायभीरुभिस्तैश्चानुष्ठीयमानत्वात्, भैषज्यरसायनाद्यनुष्ठानवत् ।

तथा तदुपदेशाः, परार्थत्वात्, उपदेत्वात्, विद्वच्छ्रद्धेयत्वात्, उपदेशादृते मनुष्यानवगम्यार्थत्वाच्च, भैषज्याद्युपदेशवत् ॥

शरीरेन्द्रियाणि सर्वतत्प्रयोजनविदेकनिमित्तकारणाभिनिर्वर्तितानि, नियतक्रियास्थितिहेतुसाधनवत्वात्, प्रासादगृहदारुयन्त्रादिवत् ॥

अत्राभिधीयते-स्वाभाविकी तावन्न भवति पृथिव्यादिरचना । दृष्टान्तो नैव तत्साधनस्य विद्यते । कण्टकादीनां च तैक्ष्ण्यं न स्वाभाविकमभ्युपेयते ॥

अग्न्यादीनामिवौष्ण्यादि स्वभावो वस्तुधर्मत्वाद्धेतोः पृथिव्यादिरचनेति चेत्-प्रासादादिरचनाया वस्तुधर्मत्वात् स्यादानैकान्तिकत्वम् ॥

अथ स्वाभाविकत्वादिति चेत्-असिद्धत्वम्, जगद्रचनाया धर्माधर्मफलोपभेगार्थप्रयुक्तत्वाभ्युपगमात् । कर्तृधर्माधर्मस्तित्वमुपरिष्टात् साधयिष्यते ॥

तस्मात् पृथिव्यादिरचना स्वाभाविकी न भवति, प्राण्युपभेगार्थत्वात् , प्रासादादिरचनावत् । चन्द्रादिप्रवृतिर्न स्वाभाविकी, प्रवृतित्वात्, अस्मदादिप्रवृत्तिवत् ॥

अस्मदादिप्रवृतिरपि स्वाभाविकीति चेत्-न-अग्न्युष्णत्ववानित्यत्वप्रसङ्गात् । न ह्यग्न्युष्णत्वं स्वाभाविकं सन्नियतं निमित्तमात्मलाभाय काङ्क्षति धर्मिसत्ताव्यतिरेकेण । क्रियाफलरचनादीनां तु विशिष्टनिमित्ताकाङ्क्षणमात्मप्रतिलम्भायति न स्वाभाविकत्वम् ॥

नियतनिमित्ताकाङ्क्षणमपि प्रासादादिरचनानां स्वभाव इति वेत्— अस्तु तथाविधस्वभावत्वम् । तथाऽपि पृथिव्यादिरचनाया नियतनिमित्ताकाङ्क्षणस्वभावत्वं प्रासादादिवदेव । ततश्व नाम्नि विप्रतिपतिर्न दोषाय, कारकान्तरापेक्षत्वादिति प्रतिज्ञा प्रतिरूपकारिणी च ॥

भवद्भिरुक्तनि [अनुमानानि] लोकानुमागमविरोधात् [अप्रमाणानि] । अनुमानविरोधं तावत् सातिशयत्वादिभ्यो ब्रूमः ॥

आगमविरोधं च “यः सर्वज्ञः सर्ववित्” “एको वशी” इत्येवमादिभ्यः समाचक्ष्महे ॥

समस्तलेोकविरोधं चापि । सर्व एवानारीगेोपालं संव्यवहरमाणाः सततं शिवनारायणादिनाम्ना प्रणिहितचेतसः प्रतिषेधत्स्वपि सम्भिन्नबुद्धिषु अकर्णीकृततत्प्रतिषेधविषयपल्लवाः परमेश्वरं प्रणतमूर्धानः कुसुमाञ्जलिप्रभृतिभिरर्चयन्ति । फलं चापि तत एव प्रार्थयन्ते ॥

अथ चेद्ब्रूयात् - सर्वज्ञाभावप्रतिपादिभिरस्मदनुमानैरितरप्रतिज्ञानां विरोध इति - अत्रोच्यते –

नैतान्यनुमानानि । कथम् ? प्रथमं तावत् प्रतिज्ञैव दुष्टा । यदि तावदीश्वरशब्दार्थः सर्वज्ञो न भवतीति युष्मदभिप्रेत ईश्वर उच्येत, तथा च सिद्धसाध्यता स्यात् ॥

अथास्मदभिप्रेतः, तथापि युष्माकमसिद्धविशेष्यता भवेत् ॥

अथेश्वरत्वस्यासर्वज्ञत्वमुच्यते, तथापि सिद्धं साध्यते ॥

तथैवाभ्युपगमविरोधोऽपि । कथम् ? ऐश्वर्यसर्वज्ञबीजत्वयोर्विवर्धमानत्वात् काष्ठाप्राप्ति: परिमाणवदेवाभ्युपगमनीया । तथा काष्ठाप्राप्तैश्वर्यसर्वज्ञत्ववाचिनावपीश्वरसर्वज्ञशब्दावेषितव्यौ । काष्ठाप्रप्तिश्च निरवधिकत्वम् । यथा परिमाणादीनामात्माकाशाद्यनन्तपरिमाणान्तत्वम् । तथा चानुमानाभ्युपगमस्ववचनविरोधाः स्युः ॥

किञ्चान्यत्-काष्ठाप्रातेश्वरत्वस्य च शब्दार्थस्य परित्यागे शब्दार्थवादः प्राप्नोति । न हि शब्दः परित्यक्ताभिधेयैकदेश उच्चरितः ॥

अथ परिमाणादेरपि निरवधिकनिष्ठत्वं नेष्यते-सिद्धान्तविरोधः । आत्माकाशादीनां हि सर्वगतत्वाभावे, मध्यमपरिमाणत्वानित्यत्वादिदोषप्रसङ्गश्च । अथाप्यात्मनः सर्वत्र कार्यदर्शनात् सर्वगतत्वम्, तत्रापि शकुन्याद्यात्मनां मनुष्यगोचराकाशादिगतत्वं सामान्यतो दृष्टादेवानुमानात् स्यात् । तथा चेहापि सामान्यतो दृष्टानुमानत्वं केन वार्यते ॥

अथानुमानविरोधान्नावधार्यत इति चेत्-आत्मादीनामपि प्रमेयत्ववस्तुत्वादिभ्यः पृथिव्यादिवदित्यनुमानविरोधोद्भावना शक्यते [कर्तुम्] वक्तुम् । न च तावताऽत्रानुमानविरोधित्वम्, अनुमानाभावप्रसङ्गात् ॥

तथा अनुमानाभाव इष्यत इति चेत्—प्रत्यक्षेऽप्यनाश्वासः स्यात् । अथ निश्चीयमानबुद्ध्युत्पत्तेः प्रत्यक्षप्रमाणत्वम्, अनुमानस्यापि तर्हि निश्चितबुद्धिसमुद्भवादस्तु प्रामाण्यम् । अथ दृष्टसम्बन्धधूमादिविषयमेवानुमानमिति चेत्-तत्राप्यनुमानाभाव एव - अनग्निः धूमवान् प्रेदशः, प्रत्यक्षानुपलभ्यमानाग्निसम्बन्धे सति प्रदेशत्वात्, अग्निशून्योपलभ्यमानप्रदेशवदिति ॥

अथ प्रमाणान्तरसंवादाददृष्टसम्बन्धविषयेऽनुमानस्यानुमानत्वमुच्यते, प्रत्यक्षमपि प्रमाणान्तरसंवादात् प्रमाणं भवेत्, प्रमाणत्वात्, अनुमानवदेव । अप्रमाणं स्यात् । प्रमाणान्तरसंवादाभावात्, सामान्यतो दृष्टादिवदिति । तस्मान्न सामान्यतो दृष्टस्य प्रमाणत्वं निश्चितबुद्धित्वाद्बाधितुं शक्यम् ॥

किं च – सामान्यतो दृष्टस्य मानत्वमनभ्युपगच्छतः स्वशरीरमरणसम्बन्धलक्षणस्यानुपलब्धपूर्वत्वात् सर्पादिभ्यो भयानुपपत्तिः । व्याधिप्रतीकाराय चिकित्सादिप्रयोगो न घटेत । मरणशङ्काकारणाभावात् । तथा जन्मनोप्युपलम्भाभावादात्मशरीरस्याजत्वं चिन्त्येत । हानोपादाननियोगाभावश्च स्यात् ॥

तस्मात् सामान्यतो दृष्टपरिमाणत्वादिसातिशयत्वसामान्यादीश्वरज्ञाननिरवधिकत्वसिद्धिः ॥

किं चान्यत्-ईश्वरसर्वज्ञत्वस्य प्रतिषिद्ध्यमानत्वात् सत्त्वाभ्युपगमः, अ(नुप)पदार्थस्य प्रतिषेधासम्भवात् । न हि केवलो नेति (न) प्रयुज्यते । ईश्वरः सर्वज्ञो न भवतीत्युच्यते । तत्र क्वचित् सर्वज्ञत्वमभ्युपगतं भवति ॥

तद्यथा-शशस्य विषाणं नास्ति, वन्ध्यायाः सुतो नास्ति, कुसुममाकाशस्य नास्तीति क्वचिद्विद्यमानानमेव विषाणसुतकुसुमादीनां शशादिसम्बन्वेन प्रतिषेधः, तद्वदिहापि स्यात् ॥

किं च-ईश्वरः सर्वज्ञो न भवतीति, ईश्वरशब्दार्थसर्वज्ञत्वसम्बन्धप्रतिषेधादिना ईश्वरादन्यस्य सर्वज्ञत्वाभ्युपगमः । सम्बन्धिनावनभ्युपगम्य सम्बन्धप्रतिषेधो हि न शक्यः कर्तुम् ॥

स एष युक्तः सम्बन्धः प्रतिषिध्यते, अयुक्तश्चाभ्युपगम्यते । तत्परिश्रममात्रम् । ईश्वरसर्वज्ञयोः प्रसिद्धपदार्थयोरप्रतिषेधात् । न ह्यनन्तपरिमाणमाकाशं न भवतीत्याकाशस्य प्रसिद्धमनन्तपरिमाणत्वं प्रतिषिध्याप्रसिद्धानन्तपरिमाणत्वेषु घटादिषु तत् व्यवस्थापयितुं युक्तम् ॥

अथ सन्बन्धिनावेवेश्वरसर्वज्ञत्वे प्रतिषिध्येते, स्ववचनविरोधिनी प्रतिज्ञा स्यात् । ईश्वरसर्वज्ञत्वयोरीश्वरसर्वज्ञशब्दार्थत्वाभ्युपगमात् । न भवत्यग्निरग्निशब्दार्थो न भवतीति ॥

अथाप्रसिद्धपदार्थावीश्वरसर्वज्ञशब्दौ, तथाऽपि तदर्थप्रतिषेधानुपपत्तिः । अप्रसिद्धस्यार्थस्य प्राप्त्यभावात् । न हि किञ्चिदप्रसिद्धमेतच्छिखरे मेषकुटुम्बिनीं प्रतिषेद्धुमर्हति । किं च शब्दोपादानानर्थक्यं च । अप्रसिद्धपदार्थत्वात् ॥

अथ प्रसिद्धार्थयोरीश्वरसर्वज्ञशब्दयोर्निरवधिकेश्वरसर्वज्ञत्वाभ्यामप्रसिद्धाभ्यां गगनस्येव कुसुमैः सम्बन्धः कैश्चित् कल्पितः, स प्रतिषिध्येत-तथाऽप्यभ्युपेतार्थप्रतिषेधात् स्ववचनविरोधिन्येव प्रतिज्ञा स्यात् । सातिशयनिरतिशयानेकेश्वरसर्वज्ञव्यक्तिमत्सामान्ययोरीश्वरसर्वज्ञशब्दार्थवेनाभ्युपगमात् ॥

प्रसिद्धं हि लोके ईश्वरसर्वज्ञशब्दयोरुत्कर्षोपकर्षयुक्तानेकव्यक्तिविषयबुद्ध्युत्पादकत्वम् । न हि ग्रामाधिपतिरीश्वर इति द्वित्रिग्रामविषयाधिपतय उत्तरोत्तरेश्वरा न भवन्ति । यो वा कुटुम्बाधिपतिरीश्वरो न भवति सर्वैश्चासावर्थवानीश्वरशब्दः ॥

तथा वैयाकरणः सर्वज्ञ इत्युक्ते नाधिकविज्ञानयुक्तो न भवति । निरवधिकौ सावधिकौ वेश्वरसर्वज्ञावीश्वरसर्वज्ञशब्दयोरर्थावभ्युपगम्येयाताम् । अतस्तत्प्रतिषेधादभ्युपगमविरोधिनी प्रतिज्ञा स्यात्, आत्माकाशादीनां महत्त्वस्य महच्छब्दार्थत्वप्रतिषेधवत् ॥

अथेश्वरसर्वज्ञौ निरवधिकौ न स्त:, अनुपलभ्यमानत्वात्, अनीश्वरद्वितीयशिरोवदित्युच्येत, तथाऽपि शब्दार्थाभ्युपगमादभ्युपगमाविरोधिनी प्रतिज्ञा ॥

सातिशयत्वादिभिरैश्वर्यसर्वज्ञत्वबीजादिलिङ्गैर्निरवधिकेश्वरसर्वज्ञत्वयोरुपलभ्यमानत्वनिरवधिकपरिमाणत्ववदित्यसिद्धिरनुपलब्धेः ॥

अथ अविशेष्यैवेश्वरशब्दार्थः सर्वैज्ञो न भवतीत्युच्येत वस्तुत्वादिहेतुभिरस्मदादिवदिति, तदा सर्वप्रमाणविरोधिनी प्रतिज्ञा स्यात् । प्रसिद्धेश्वरशब्दार्थस्य प्राकृतसर्वज्ञत्वस्य सर्वप्रमाणसिद्धत्वात् । यथा ईश्वरशब्दार्थः [सर्वज्ञो न भवति] प्रमेयत्वादिभिर्हेतुभिर्घटादिवदित्युक्ते यत् ब्रूयात्तदेवाहं वक्ष्यामि ॥

इह सर्वज्ञशून्यं जगत् । काली वा दिश आकाशं वा प्राणिमद्देशो वा प्राणिनो वा सर्वे सर्वज्ञशून्याः । प्रमाणानि वा सर्वाणि सर्वज्ञाविषयाणि । प्रमातारो वा सर्वज्ञस्याप्रतिपत्तार:, इत्येवञ्जातीयासु प्रतिज्ञासु निरवधिकेश्वरे सर्वज्ञे वा प्रतिषिध्यमाने, प्रसिद्धेश्वरसर्वज्ञशब्दार्थाभ्युपगमविरोधाः प्रतिज्ञादोषा वचनीयाः ॥

ननु च वन्ध्यासुतो नास्तीति, तच्छून्यं जगत् कालो वेति, प्रतिज्ञायमाने यथोक्तप्रतिज्ञादोषप्राप्तिर्भवेत् - नैष दोषः- वन्ध्यासुतसत्तालक्षणस्य प्रतिषेद्धव्यस्य वाक्यार्थस्येश्वरसर्वज्ञशब्दार्थवदप्रसिद्धत्वात् केवलशब्दप्रापितसन्निधानबुद्धिमात्रप्रतिपन्ने पदार्थ [पदार्थ प्रतिषेध] व्यापारोऽस्तीति वन्ध्यासुतस्तित्वस्य (वा नास्तित्वस्य) नाभ्युपगमोऽस्ति । ततो नाभ्युपगतप्रतिषेधदोषः ॥

ननु चेश्वरः सर्वज्ञो न भवतीत्यत्रापि बुद्धिमात्रं प्राप्यमाणं प्रतिषिध्यते, न कचिदपि प्राप्नुवद्वस्तु (न) प्रतिषेद्धुं शक्यते प्रतिहस्तिनेव हस्ती । यदि च नञा वस्तु निराकरिष्यते, नञ्मात्रेणैश्वरवादिपक्षत्वमपि[पक्षोऽपि]निराकरिष्यते, (अतः) तस्मादिहापि बुद्धिमात्रप्रतिषेध इति नाभ्युपगतप्रतिषेधः प्रतिज्ञादोषः ॥

सत्यमेवम् । किं त्वस्ति विशेषः । प्रमाणसिद्धवस्तुविषया बुद्धिर्वस्त्वन्तरे कालविशेषे वा प्रतिषिध्यते वस्तुसामान्यात् प्राप्नुवती यथा घटो नास्तीति । क्वचिद्विनाप्यर्थेन बुद्धिरेव शब्दप्रत्युपनीतसन्निधाना कल्पितवस्त्वन्तरा प्रतिषिध्यते । यथा वन्ध्यासुती नास्तीति ॥

यत्र तु प्रमाणान्तरसिद्धसद्वस्तुप्रतिषेधस्तत्रापि[स्ति]अभ्युपगतार्थप्रतिषेधदोषः । यथा ईश्वरशब्दार्थः सर्वज्ञो न भवतीति । ईश्वरसर्वज्ञशब्दयोरभिवर्धमानेश्वरसर्वज्ञव्यक्त्यनुगतसामान्यवचनत्वेन लिङ्गेन निरवधिकेश्वरसर्वज्ञसत्तावद्योतित्वं सिद्धमेव । महद्बहुसर्वानन्तपरिमाणादिशब्दवत् ॥

यथैवैते महदादिशब्दाः प्रसिद्धसातिशयमहदाद्यनुगतसामान्यार्थाभिधायिनः सन्तो निरवधिकमहद्वहुसर्वानन्तपरिमाणव्यक्तीनामस्तित्वावद्योतनलिङ्गा भवन्ति । महदादिसामान्यानां सातिशयव्यक्त्यनुगतानां निरवधिकमहदादिव्यक्तिव्यापन(रव्याक्षीण)शक्तित्वात् । न हि सन्तं व्याप्यमर्थं तद्वद्ध्यापकः सन्नर्थो न व्याप्नोतीति । निरवधिकात्तु परो व्याप्यो नास्तीति व्यापकस्य सामान्यस्य क्षयः व्याप्यविषयत्वेनैव प्रसिद्धत्वात्तत्र । तस्मात् प्रमाणसिद्धत्वादीश्वरसर्वज्ञशब्दाथयोरभावं साधयतोऽभ्युपगतार्थप्रतिषेध एवेति दुष्टा प्रतिज्ञा ॥

न चेश्वरसर्वज्ञशब्दयोरतदर्थवमन्यार्थत्वं वा कर्त विक्तुं शक्यते । तथा शतिज्ञानैश्वयणां प्रतिपुरुर्ष समुचितानां सातिशयानां निरवधिक तत्र्व अतः[नानुन्मत्तःjप्रतिषेद्धुमुत्सहेतेत्यनुमानविरोधित्वं प्रतिज्ञायाः ॥

किं चान्यत्- परि[पर]कल्पितस्येश्वरस्य प्रतिषेधं कुर्वन्तः प्रत्यक्षपरचित्तानिष्टाः प्राप्नुवन्ति । परवाक्यादिति चेन्न - सातिशयत्वादिसर्वज्ञसाधकलिङ्गप्रतिपादकवदविशिष्टत्वात् परवाक्यस्य । तादृशवाक्यार्थप्रतिषेधे चाभ्युपगतप्रतिषेधः, पूर्ववदेवानुमानविरोधश्च ॥

किं च - प्रमेयत्वादिहेतूनामपि असिद्धत्वम् । कुतः ? अस्माभिर्निरतिशयज्ञानैश्वर्यविशिष्टत्वस्याभ्युपगतत्वात् । अथ स्वयमपि तादृशमभ्युपगच्छेत्तदा । सर्वज्ञसिद्धिः, अभ्युपगतत्वात् ॥

किं चान्यत्-अभ्युपगततादृक्प्रतिषेधे, यथा घटो घटो न भवति, वस्तुत्वात्, पटवादिति, एवमिहापि स्यात् ॥

किं च-निरवधिकस्यानभ्युपगमे, प्रमेयवादीनाम् [अ]पक्षधर्मत्वमाश्रयासिद्धत्वं च । तदभ्युपगमे हि किं साध्यं भवेत् ? यो हि तृप्तवन्तं ब्रूयात् माऽत्रात्सीरिति, किं तेन कृतं स्यात् ॥

अथापि स्यात्–निरवधिकमीश्वरमभिसन्धाय तस्य सर्वज्ञत्वं निषेधामीति । नैदतपि युक्तम् -सर्वज्ञत्वस्यपि निरवधिकत्वात् ॥

अपि च सातिशयैश्वर्यसर्वज्ञत्वयोरुत्कर्षानुत्कर्षविषयत्वेन व्यभिचारान्नेश्वरसर्वज्ञशब्दमुख्याभिधेयत्वम् । यथा महदादयः शब्दा व्यभिचरितमहत्त्वादिषु घटादिष्वमुख्याः, नाकाशादिषु, तथैवात्रापि निरतिशयमैश्वर्यं सर्वज्ञत्वं चाव्यभिचारीति स एव मुख्यः शब्दार्थः । न च मुख्यनिराकरणं साधिमानमृच्छति ॥

किं च-यथा भवता अनुमानागमप्रसिद्धेश्वरस्य प्रमेयत्वादिधर्मविकल्पतया सर्वज्ञत्वं निराक्रियते, तथैव प्रमेयत्वादिभिरचेतनत्वमपि घटादिवदेव प्राप्नुयात् । अविरोधात् । यथा प्रमेयत्वं[अ]सर्वज्ञत्वेन व्याप्तमेवमचेतनत्वादिभिरपि ॥

प्रत्यक्षविरोध इति चेत्-इहापि अनुमानागमविरोधं किं कटाक्षेणापि नेक्षसे ॥

नापि च प्रमेयत्वादिधर्मसामान्येन सपक्षे विपक्षे वा किञ्चित् । क्वचिदध्यारोपयितुं शक्यम् । वस्तुविषये सर्वत्र प्रमेयत्वादीनामास्तित्वात् । न मतिमोहनार्थः प्रमेयत्वाद्युपन्यासः ॥ अथ आत्मत्वादिति चेत्, मुक्तात्मवदज्ञत्वप्रसङ्गः स्याद्भवदीश्वराणाम् । प्रत्यक्षादिविरोध इति चेत्-अत्राप्यनुमानादिविरोधः पूर्ववदेव ॥

भूतभविष्यत्कालयोरपि ईश्वरस्यानुपलब्धार इतीदानीन्तनेश्वराणामुपैलब्धृभिरनैकान्तिके प्राणित्वादित्यादि । किं च अतीतानागतकालयोरपि सातिशयत्वादिलिङ्गैरुपलब्धवन्त उपलप्स्यमानाश्च प्राणिनः प्रमाणकुशलाः, प्रमाणकुशलत्वात्, अस्मदादिवत् । अथ अशरीरत्वादसर्वज्ञः, मुक्ताकाशादिवत् इति चेत्-न-सशरीरत्वात् । व्यक्ताव्यक्तं हि सर्वमशरीरं सशरीरत्वादनित्येश्वरत्वं धर्माद्यपेक्षत्वादित्युक्तत्वादिति चेत् – न – शरीरत्वात् । सशरीराशरीरत्वविरोध इति चेत् – न – मुक्तमुच्यमानैकात्मनोऽशरीरत्वसशरीरत्वदर्शनात् । तत्र भिन्नकालत्वादविरोध इति चेत्-न- अत्रापि भिन्नकालाभ्युपगमात् ॥

किं च-युगपदीश्वरत्वादेव द्वयसम्भवः । सकरणता अकरणताऽपि ईश्वरत्वादेव युक्ता । तथा च श्रुतयः- “अशरीरं शरीरेषु” इति । तथा “यः सर्वेषु भूतेषु तिष्ठन्” इति । तथा “यः सर्वज्ञः सर्ववित्” इत्यादयः ॥

श्रुतीनां विप्रतिषेधार्थवादीश्वराप्रत्यायकत्वम् इति चेत्-न-अनन्यशेषत्वात् । न हि कर्मशेषत्वे श्रुतिलिङ्गादीनामन्यतमदपि प्रमाणमस्ति ॥

स्वाध्यायविधिपरिग्रहाद्दर्शपूर्णमासादिशेष इति चेत्-न-ज्येतिष्टोमादिवद्विध्यन्तरस्य भावात् । यथैव ज्योतिष्टोमादीनां (प्रथमप्रं,पृथक्प्रकरणादिकारणादन्योन्यशेषशेषिभावो नास्ति । तथैव ‘मन्तव्यो निदिध्यासितव्यः’ इत्यादिविषयत्वान्नाग्निहोत्रादिशेषत्वं युक्तम् ॥

फलाभाव इति चेत्-न-“सर्वांश्च लेकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति’ इत्यादिफलमुद्दिश्य विधानात् ॥

अथैवमप्युपासनाविधिशेषत्वात् स्तुतिरेवेति चेत्-नात्यन्तमसता स्तुतिरस्ति । न हि “वायुर्वै क्षेपिष्ठा देवता” इति वायोरक्षेपिष्ठत्वम् । क्वचिदसताऽपि स्तुत्यदिसम्भव इति चेत्-न-अनुमानसिद्धस्येहोपदानात् ॥

अथ सर्वकार्यकरणयोगादीश्वरस्य सर्वप्राणिसुखदुःखादिसम्बन्ध इति चेत्-न-निमित्तभेदात् । धर्मादिनिमित्तः संसारिणां शरीरादिसम्बन्धः । धर्मादिनिमि(क्तानां)त्तो दुःखादियोगः । नेश्वरस्य धर्मादयः । निरतिशयैश्वर्यादिहेतुत्वाच्छरीरादिकार्यकरणसम्बन्धस्य । यथा ग्रहतदाविष्टयोः ॥

अथ चक्षुरादिकरणत्वादस्मदादिवत् सर्वानुपलब्धरिति चेत्-न- सर्वविषयग्रहणसमर्थानां प्रतिबन्धकरणाभावात् । सर्वगतानां हि करणानां [अ]धर्मादिसंवरणेन स्वविषयसङ्कोचः क्रियते । यस्य पुनरावरणं प्रतिबन्धक[मं]- धर्मादि न विद्यते, तस्य तदभावादशेषस्वविषयग्रहणानि करणानीति न दुष्यति ॥

अथ वा सर्वप्राणिकरणैः [ईश्वरः] पृथगात्मनः करणाभावेऽप्यावेशग्रह इव सर्वमनुभवति । न च प्राणिशून्यो विषयः कश्चिद्विद्यते, ‘यः पृथिव्यां तिष्ठन्’ ‘योऽप्सु तिष्ठन्’ इत्येवमादिश्रुतेरन्तर्यामिनान्न ईश्वरस्य सर्वेष्ववस्थितत्वश्रवणात् ॥

अपि वा प्रकृष्टमेव स(र्व)त्त्वं निल्यानतिशायितशक्तिज्ञानेश्वरत्वधर्मकम्, सर्वगतत्वादाकाशवत् सर्वयोगि, सर्वार्थत्वात्सर्वविषयप्रकाशकम्, धर्माधमीदिविप्रयोगादप्रतिबन्धशक्तिकं च इति अकायानिन्द्रियत्वपक्षेऽपीश्वरसर्वज्ञत्वसिद्धिः ॥

चक्षुराद्यपेक्षमेव चित्तस्य रूपादिप्रतिलम्भसामर्थ्यमिति चेत् – न - ऐश्वर्यधर्माद्यभावाभ्यां परिहृतत्वात् ॥

अपि च चक्षुर्ग्राह्यस्यापि चक्षुषा अग्रहणं लोके दृश्यते । चक्षुर्ग्राह्यं सत् सर्वं तमः सन्निमीलितलोचनैरपि स्वस्थान्तःकरणैरुपलभ्यते । तदेव चान्धतमसं विष्फारितनयनैरप्यन्यगतचित्तैर्नैव गृह्यते । यथा गृह्यमाण एवाकाशे प्रकाशः ॥

अथापि प्रकाशाभावमात्रमेव तमे न वस्विति ब्रयात् - तच्च न - अभावस्य वस्तुतिरोधानसामर्थ्याभावात् ॥

अथ ग्रहणनिमित्तस्य प्रकाशस्याभावादेव घटाद्यग्रहणं, न वस्तुतिरोधायकं तम इति ब्रुवीत-न-चक्षुषः प्रकाशकत्वात् प्रकाशसाहायकापेक्षानुपपत्तिः । असति भिन्नजातीये वस्तुनि वस्तूनां तिरोधातृणि तत्र या च यावती च । मात्रा प्रकाशकत्वाच्चक्षुषा प्रकाश्येत । न हि प्रदीपः प्रदीपान्तरद्वैतीयकापेक्षः प्रकाशयति ॥

किं चान्यत्-चक्षुषः प्रकाशान्तरसहायत्वापेक्षतायां च निशायामपि ताराधिपतिप्रकाशद्वितीयेन चक्षुषा दिवस इव रूपादिग्रहणप्रसङ्गस्तिरोधानस्यासति निमित्ते ॥

किं चान्यत्-अभावश्चेत्तमः, चन्द्रमासु निशायां भा(भव)न्तीषु तमसा मन्देन न प्रवर्तितव्यम् । सर्वात्मनैव हि तेन विनशनीयम् । भासां भावात् । भासां तु वस्तुत्वान्मन्दत्वपाटवादिविशेषो घटते, न(भावस्य)अभावस्य निर्विशेषत्वात् ॥

किं च-सहायाभावाच्चक्षुष उपलब्धसामर्थ्याभावादग्रहणमित्येतदपि व्यभिचरति । यथा सत्यपि विद्युल्लताप्रकाशे तीव्रतरे विद्युल्लतविलासे च किं तद्दृष्टिर्नोपलभते । न हि विद्युतः सहायके दृष्टचकितत्वेनाग्रहणं विरोधाभावाद्युत्तम् ॥

किञ्च - चिकित्साशास्त्रे छाया मधुरशीतलेत्युच्यते । न ह्यवस्तुनो मधुरशीतलत्वम् । तथा चाक्षिपति पथ्यत्वम् । नाभावस्य पथ्यापथ्यत्वं ब्रूयुः ॥

प्रदीपाच्छायोपलब्धेश्च । अभावश्चेत्तमः, प्रदीपप्रभामण्डले प्रदीपाच्छाया कथं भवेत् । वस्तुत्वेऽपि विरोधादयुक्तमिति चेत्-न-विषसर्पयोरिव सम्भवात् । यथा प्राणवियोगकरमपि विषं पन्नगप्राणवियोगाय न पर्याप्नोति, तथा प्रदीपतच्छाययोरपि ॥

तस्माद्वस्तु तमः, प्रकर्षापकर्षवत्त्वात् , प्रभावत् । विरोधिद्रव्यापनेयत्वाच्च, घटवत् । उपलब्धृव्यवधानकरत्वाच्च, भित्तिवदिति ॥

इतश्वेन्द्रियनिरपेक्षमप्यन्तःकरणमिन्द्रियविषयग्रहणाय समर्थम् । पिहितकर्णविवरस्य घोषोपलम्भात् । न च पिहितकर्णसम्पुटस्य श्रोत्रान्तरमनुमातुं शक्यम् । बधिरस्यापि पिहितश्रोत्रपुटस्य तदग्रहणात् ॥

किञ्च-प्रतिज्ञाज्ञानेनापि रूपादिग्रहणमिन्द्रयनिरपेक्षं दृश्यते ॥

किञ्चान्यत्-स्मृतेश्चानुपपत्तिः स्यात् इन्द्रियनिरपेक्षस्य चित्तस्य सातिशयग्रहणसामर्थर्येऽपि । स्पष्टाश्च स्मृतयः स्वाप्ना रूपादिविषयाः ॥

यदि चक्षुराद्यन्तःकरणाभ्यां समन्विताभ्यां रूपग्रहणं पूर्वमपि निर्वर्तिष्यते, स्वप्नादावपि समुचिताभ्यामेव पर्यग्रहीष्यत । न चैवमस्ति । सुखादिग्रहणे स्वातन्त्र्यं चित्तस्य सर्वप्रसिद्धम् ॥

तस्मादालोकस्थानीयानीन्द्रियाणि चित्तस्य, विषयग्रहणे स्वतन्त्रस्यैव स्वतः । तदुक्तम् “इन्द्रियप्रनाडिकया’ इति । तथा श्रुतिरपि-‘मनसा° ह्येव पश्यति मनसा शृणोति’ इति ॥

अथोच्येत - इन्द्रियाणामालेकापेक्षावत् अन्तःकरणमपीन्द्रियसाहायकापेक्षमेव ग्राहकमिति –तन्न - व्यभिचारात् । रात्रिञ्चराणां विभिन्नव्यालोकद्वैतीयकेन दिवस इव रूपग्रहणम् । सत्यपि प्रकाशे न रूपस्य ग्रहणमुलूकादिभिर्दिने ॥

किञ्च-साधनापेक्षस्य विज्ञानसाधनादृतेऽपि तुलादौ । दर्शनमात्रेणैव सुवर्णादिपरिमाणज्ञानं दृश्यते ॥

अथ चेद्ब्रूयादानर्थक्यं चक्षुरादीनामिति-स वक्तव्यः-तुलादिवदेवान्यत्रार्थवत्त्वमिन्द्रियाणामिति । यथैव तुलादिविषयवैमत्यप्रकर्षात् पुरुषस्य विनापि तुलादिसाधनेन दर्शनमात्रादेव कनकदिवस्तुपरिच्छेदकौशलं, तथैवान्तःकरणस्यानपेक्षितचक्षुरादिसाहायकस्यापि वैमत्यप्रकर्षाद्रूपादिग्रहणसामर्थ्यं न विहन्यते ॥

नापि ह्यनेकनिर्वर्तनीयं क्रियाजातमेकेन नाभिनिर्वर्त्यते । दृश्यन्ते च बहुभिरुत्तोत्यमानं शिलादिकमद्वितीया हस्तिपुरुषादयः केचिदुत्तोलयन्तः ॥

तथैवेन्द्रियसहायेनान्येषामन्त:करणेन गृह्युमाणा रूपादयः परमेश्वरचित्तसत्वेनानाकलित(वकर्णित)चक्षुरादिपरिस्पन्देन केवलेनैव गृह्यन्ते । काष्ठागतत्वाद्वेमत्यशक्यैश्वर्यप्रकर्षस्य ॥

संसारिणां ततो निकृष्टत्वादविद्यादिमलेनैश्वर्यशक्तिज्ञानादीनामिन्द्रियसहकारित्वापेक्षित्वमन्त: करणस्य । शिलादिसमुत्तोलन इव हीनबलानाम् ॥

ये(षां) पुनः संसारिण एव सन्त ईश्वरीभवन्ति बुद्धर्षभादयः, तेषां निरतिशयशक्तिज्ञानैश्वर्यनुपपत्तिः । कालपरिच्छेद्यत्वात् । अभ्युपगच्छन्ति च तद्दर्शनश्लाघिनः कालपरिच्छेदनीयके तेषाम् ॥

नास्मदीश्वरस्य कालपरिच्छेद्यता । तत्कालैस्तदाद्यकालैश्व बुद्धादिभिरपरिज्ञातैश्वर्यादिसातिशयत्वादिलिङ्गैरनुमेय एवासौ । नामुष्मिन् काल उत्पन्न उत्पद्यत उत्पत्स्यमान इति त्रिधा कैश्चिदनुमीयते । निरतिशयत्वविरोधी हि तथा[दा]स्यात् ॥

तस्मात् बुद्धादीनां सिद्ध्यपेक्षत्वात्, पूर्वबुद्धानां कालाधिक्यप्राप्तेरुत्तरकालबुद्धस्यापि न निरतिशक्त्यैश्वर्यज्ञानत्वं विरुद्धम् । अथ तुत्यशक्तिज्ञानैश्वर्याणामेव तेषां समानराज्यराजानामिवासमानकालत्वमिति ब्रूयात्, तथापि बुद्धान्तरकालस्य व्याप्त्यभिलाषविघातान्निरतिशयैश्वर्याद्यभावः ॥

अभिलषति हि कश्चित् बुद्धान्तरं वशीकर्तुम् , तद्विषयं च व्याप्तुम् । अनियतत्वादिच्छायाः । बुद्धान्तरावशीकरणे च सर्ववशित्वं ही(नी)येत ॥

अथ चेदुच्येत, बुद्धान्तरस्याननुग्राह्यत्वाद्रागाद्यभावाच्च तद्विषयव्याप्तावनभिलाष इति-अत्रोच्यते-यथैव प्राप्तबुद्धत्वस्य कञ्चित्कालमवस्थानमभिलाषपूर्वकम्, तथा बुद्धान्तरकालावस्थानाभिलाषेणावश्यं भवितव्यम् ॥

अनुग्राह्यप्राण्यन्तरभावाच्च कालान्तरावस्थानाभिलाषेण युक्त भवितुम् । न च भविष्यता बुद्धेन सर्वे प्राणभृतोऽनुग्रहीष्यन्ते ॥

बुद्धत्वस्य च दुःखाद्यात्मकत्वेऽपि प्राण्यनुग्रहार्थत्वाद्बुद्धस्थितेः कालान्तरावस्थानेच्छया भवितव्यमेव । सिद्धेश्च प्रागविद्यादिपरामशत्, बुद्धस्वरूपस्य च दुःखशून्याद्यात्मकत्वस्य तैरभ्युपेतत्वात्, बुद्धर्षभाद्यन्यतीर्थकरणात्[करात्]निरतिशयशक्तिज्ञानैश्चर्यानुपपत्तिः ॥

कालानवच्छेदातु नैते दोषा अस्मदीश्वरे क्रमन्ते । शक्तिज्ञानैश्वर्याणां तु निरवधिकत्वानुमानात् सातिशयत्वानवस्थितत्वादिदोषः नात्माकाशादीनामिवातिशङ्कनीयः ॥ सामान्यमात्रोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थमिति। तस्य सञ्ज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या। तस्याऽऽत्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम्। ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामीति। तथा चोक्तम् – आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद्भगवान्परमर्षिरासुरये जिज्ञासमानाय तत्रं प्रोवाचेति ॥ २५ ॥ विवरणम् विवरणम्

तथा च दर्शयति - सामान्यमात्रोपसंहारे कृतोपक्षयमनुमानम् इति । निरतिशयशक्तिज्ञानैश्वर्ययुक्तपुरुषविशेषसत्त्वसामान्यमात्रोपसंहारे कृतोपक्षयं कृत उपक्षयो यस्यानुमानस्य तत्कृतोपक्षयं सातिशयत्वादिति । तदुक्तमनुमाने-यत्र प्राप्तिस्तत्र गतिमात्रमिति । तस्मान्नेश्वरसञ्ज्ञागुणादिविशेषाणां सतामपि प्रतिपादने समर्थम् । सामान्यमात्रोपसंहारपरत्वात् ॥

तदेतदुक्तं भवति । यदैवं सतामपि गुणानां सामान्यप्रतिपादनकृतक्षयत्वान्न प्रतिपादकमनुमानम्, किमङ्ग पुनरन्यन्तासम्भाव्यमानसन्निधीनामनुमेयधर्मविरुद्धानामशक्त्यज्ञानधर्माधर्मानैश्वर्यादीनां [न]तत्प्रत्यायकमिति ॥

अत एव च विरुद्धप्रतिसाधनानुपपत्तिः । सर्वज्ञास्तित्वानुमानवत् प्रथमं तदभावप्रतिपादकानुमानाप्रवृत्तेः । न ह्यनुमानस्य परोक्त्युदीक्षाधर्मत्वमस्ति । न हि धूमदर्शनेनाग्न्यनुमाने वक्त्रन्तरोक्तिरुदीक्ष्यते ॥

न च स्वयमेव सर्वज्ञास्तित्वं नास्तित्वं वा बुद्धि(प्रति)पूर्वमाशङ्कयते । घटादिवत् सर्वज्ञसद्भावस्य स्वयमनभ्युपगमात् । न ह्यनिर्धारितशशिस्वरूपः शशे विषाणमस्ति नास्तीति कश्चिदाशङ्कते ॥

परवाक्यात् प्रतिपद्याशङ्कत इति चेत्-परेणापि कथमप्रसिद्धेश्वरसद्भावनाशङ्कितमिति वक्तव्यम् । अथ परस्य भ्रान्तिरिति चेत्-न सामान्यानुपलम्भे भ्रान्तिकारणमस्ति । न हि शुक्तिकायां पिकभ्रमः कस्यचिदुपजायते । तस्मादाह-सञ्ज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या इति । वेदेतिहासपुराणयोगधर्मशास्त्राद्यागमतः पर्यन्वेष्या ॥

तस्यात्मानुग्रहाभावेऽपि तस्यात्मार्थमवाप्तव्याभावात् भूतानां चाविद्यापङ्कनिमग्नानां संसारसागरोत्तरणोपायप्लवोपदेश्यन्तरस्याभावात् तदनुग्रहः प्रयोजनम् । ज्ञानधर्मोपदेशेन येऽनन्यशरणास्तस्मिन् सर्वात्मना निवेदितात्मानस्तान् कल्पप्रलयमहाप्रलयेषु ईश्वरानुगृहीतागमज्ञानविशेषेष्वाचार्येषु प्रलीनेषु पुन:पुनर्जातकारुण्यामृतः सन् उद्धरिष्यामीति प्रवर्तत इति वाक्यशेषः ॥

तथा चोक्तमादिविद्वानिति-आदौ विद्वान् आदिविद्वान् रजस्तमोभ्यामनभिभूतज्ञान इत्यर्थः । ज्ञानधर्मदि वा तत आदीयते इत्यादिः, आदिश्चासौ विद्वांश्च अदिविद्वान् निर्माणचित्तं सङ्कल्पमात्रनिर्मितं योगिचित्तम् आवेशग्रहवदुपदेशनार्थम् अधिष्ठाय भगवान् परमर्षिः परमदर्शन इत्यर्थः । परमत्वं चागमतः । दर्शनार्थस्य वा गत्यर्थस्य वा धातोः ऋषेर्ग्रहणम् । परमर्षिरीश्वर एव कपिलनारायणादिसञ्ज्ञ: आसुरये प्रोवाचेति ॥

तस्मात् प्रधानपुरुषव्यतिरिक्तः सर्व्वप्राणिभावकर्मफलपरिस्फुरणज्ञानात्तदनुग्रहकारणम् ईश्वरः सिद्धः । स प्रकृष्टसत्त्वधनोपादानं ईश्वरः कथं कर्ता ? कथं चानुगृह्णाति ? इत्येवमादि न चोदयितव्यम् । आगमतः पर्यन्वेष्या इत्युक्तत्वात् । अनुमानस्य च तद्विषयस्यानुपपत्तिः विशेषसम्बन्धाग्रहणादिति ॥ २५ ॥ स एषः – पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥ पूर्वे हि गुरवः कालेनावच्छिद्यन्ते। यत्रावच्छेदार्थेन कालो नोपावर्तते स एष पूर्वेषामपि गुरुः। यथाऽस्य सर्गस्याऽऽदौ प्रकर्षगत्या सिद्धस्तथाऽतिक्रान्तसर्गादिष्वपि प्रत्येतव्यः ॥ २६ ॥ विवरणम् विवरणम्

सः यथोत्तरूपः परमेश्वरः पूर्वेषामपि गुरूणाम् अभ्युदयनिःश्रेयससर्वसाधनसाध्यसम्बन्धोपदेशिनां गुरुः तेषामपि ज्ञानोपदेशस्य कर्तेत्यर्थः । तदुद्भवत्वात् सर्वज्ञानानाम् । यथा ज्वलनलवणजलधिसमुद्भवा विष्फुलिङ्गलवणकणाः ॥

तस्य चादिविद्वत्तामवोचम कालेनानवच्छेदादिति । अतीतानागतप्रत्युपादीयमानत्वविशिष्टेन कालेनान्ये गुरवोऽवछिद्यन्ते । स त्वीश्वरः सर्वदा मुक्तेश्वरत्वेन तैरप्यस्माभिरिवानुमेयः ॥

कस्मात् पुनस्तस्य वस्तुत्वे गुरुत्वसामान्ये च सति नावच्छेदकः काल इति चेदाह -यत्रावच्छेदार्थः काले नोपावर्तत इति । यस्मिन्नीश्वरे विषये अवच्छेदार्थः प्रस्थादिवत् परिच्छेदकरः नोपावर्तते न परिच्छेदकत्वेनेश्वरं विषयीकरोति सर्वपरिणामवस्त्ववच्छेदकरोऽपि सन् ॥

ननु चेश्वरप्रकृष्टसत्त्वस्य प्रधानकार्यत्वात्, प्रधानकार्यस्य च कालावच्छेद्यत्वात्, कस्मात्तत्सत्त्वं नावच्छिद्यते पुरुषस्वरूपं हि सर्वेषामेव कालानवच्छेद्य(मिति नाशङ्कनीय)मपरिणामित्वात् पुरुषस्य ॥

अथ मन्येथाः-तन्त्रान्तरप्रसिद्धेश्वरवत् सत्त्वनिरपेक्ष ईश्वर इति तदयुक्तम्-प्रकृष्टसत्त्वापादानाभ्युपगमात् ॥

अथापि मन्वीथाः–ईश्वरसत्त्वात् प्रवृत्तमेव कार्यमवच्छिनत्ति काले नेश्वरसत्त्वमिति-तदप्ययुक्तम्-व्यक्तस्य परिच्छेद्यत्वात् । व्यक्तं चेश्वरसत्त्वम् ॥

अथाप्यभिसन्दधीथाः-प्रधानावस्थमेवेश्वरसत्त्वमिति–तदनुपपन्नम्– ज्ञानानुपपतेः ॥

अथापि प्रतिपद्येथाः-सत्कार्याभ्युपगमाद्बीजफलवल्लरीकुसुमादिवज्ज्ञानादीनां प्रधानावस्था यत्सत्त्वमेवेति-तच्च न साधु-व्यवहारयोग्यत्वात् । सर्वेषां च तथा सत्यनवच्छेद्यत्वं ज्ञानादिसत्तामात्रसम्बन्धविशेषात् प्राप्नुयात् ॥

अथापि ब्रुवीथाः-व्यक्तत्वे सत्यपि कार्याणां कस्यचित् परिच्छेद्यत्वं कालीनं कस्यचिन्नेति-तच्च न-न्यायविरोधात् ॥

अथापि प्रत्यवतिष्ठेथाः, ईश्वरसत्वस्य कालापरिच्छेद्यत्वमागमसिद्धमिति - तच्च न- अवद्योतकत्वादगमस्य ॥

अथाप्याचक्षीथाः-विद्यमानस्यैव कालापरिच्छेद्यत्वस्याज्ञातस्यावद्योतक अगम इति-तच्चापि न -निरोधादिसमनुष्ठाननिमित्तत्वात् काला(ज)वच्छेद्ये वैमल्यादनवच्छेद्यो वैमल्यादनवच्छेद्यश्चेति विरुद्धं स्यात् ॥

अत्रोच्यते-ईश्वरसत्ववैमत्यप्रकर्षापेक्षत्वात् कालानवच्छेद्यत्वस्यादोषः ॥

यथा अन्येषां गुरूणां योगधर्मादिसमनुष्ठाननिमित्तत्वात् कालानवच्छेद्यो वैमत्यप्रकर्षः, तथा न भगवतः । कथम्? सर्वदाऽत्यन्ततिरोभूतरजस्तमस्त्वादनपेक्षितधर्मादिनिमित्ते सकलार्थावद्योतकरं कालानवच्छेद्यं सत्त्वस्वरूपवद्भगवत्सत्त्वे ज्ञानम् ॥

तथा तत्कार्यमप्युत्कर्ष: कालेन नावच्छिद्यते । यथा चाग्नेरुष्णप्रकाशावग्नौ कालानवच्छेद्यौ, तथा भगवत्सत्वस्य वैमत्यज्ञानप्रकर्षास्तत्सत्त्वे कालानवच्छेद्यतामुपयान्तीत्येतदपेक्षयाभिहितं यत्नावच्छेदार्थ: कालो नोपावर्तत इति । न त्वकार्यापेक्षया ह्युच्यते ॥

गुरुत्वं हि नावधिमत् । तदेवाह-यथाऽस्य सर्गस्यादौ ज्ञानवैमल्पप्रकर्षगत्या सिद्धः सर्गादिजन्मनामनुमेयतया सिद्धः आगमतश्चाज्ञायि, तथाऽतिक्रान्तसर्गादिष्वपि तत्कालजन्मनां ततः प्राक्तनानामपि सिद्धः । तथा भविष्यकालेऽप्यनुमानागमाभ्यामवगम्यते ॥

अस्य च सूत्रस्येदं प्रयोजनम् - यथा दृष्टा गुरवो ज्ञानधर्माद्युपदेशित्वादनन्यशरणैरनवरतमुपास्यन्ते, तथा भगवानयमपि सर्वगुरूणामपि गुरुत्वात्ततोऽपि विशेषेण नारायणादिनामा(दीनाम)नन्यचेतोभिः स्वहृदयेनानिशं धारयितव्य इति ॥

यथा दृष्टगुरव उपासनेनाभिमुखीकृतास्तदुपासनपराननुगृह्णन्ति, तथाऽयं परमगुरुरप्याभिध्यानमात्रेणानुग्रहं करोति । तथा च श्रुतिः-

“यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।

तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ” इति ।

स्मृतिरपि -

“मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।

निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ “ इति ॥ २६ ॥ तस्य वाचकः प्रणवः ॥ २७ ॥ वाच्य ईश्वरः प्रणवस्य। किमस्य सङ्केतकृतं वाच्यवाचकत्वमथ प्रदीपप्रकाशवदवस्थितमिति। विवरणम् विवरणम्

ईश्वरप्रणिधानादित्युक्तं, स कथं प्रणिधातव्यः ? किं च तत्प्रणिधानसाधनम् ? येन प्रणिधाता प्रणिधत्त इति तत्प्रणिधानसाधनप्रतिपादनार्थमाह - तस्य वाचकः प्रणव इति । तस्य ईश्वरस्य यथोक्तलक्षणस्य वाचकः अभिधायकः प्रणवः सास्नादिमत इव गोशब्दः ॥

प्रकर्षेण नूयते स्तूयते अनेनेति प्रणवः । यदि वा, प्रणौति स्तौतीश्वरमिति प्रणव ओङ्कारः । प्रणिधीयते चानेन भगवान् प्रणिधातृभिरिति, प्रणमन्ति वा । अनेनेति, प्रणिधते वा तेन भगवन्तं चेतसीति, धाञो वकारोपजनं कृत्वा । शब्देन हि परोक्षाणामर्थानां मनसि प्रणिधानं मेरुरिन्द्र इति यथा ॥

तस्य चोङ्कारस्य वाच्यः ईश्वरः । अन्वर्थं खल्वपि निर्वचनम् । अवतेः रक्षणाद्यर्थान्मनिष्टिलोपश्चेति । प्रणिधातॄन् संसारादवतीति, गमयति वा । संसारिणं निर्वाणमिति, निरतिशयं वा प्रीणयति, समाध्याद्यनुग्रहेणावगमयति वा परमार्थमित्येवमाद्यर्थानुगतम् सर्वथा तु नेदिष्ठं प्रियं नाम भगवतः ॥

तेन हि मनसि सततं प्रणिधायमानः प्रसीदति । तथा चानेकशः श्रुतयः-‘ओं खं ब्रह्म’ ‘ओमिति ब्रह्म’ इत्यादयः । स्मृतयश्च ‘ओं तत्सत्’ इति । ‘ओं विश्वं विष्णुः’ इत्यादयः । ओंशब्दस्य कृदन्तं यन्मान्तमित्यव्ययत्वाद्विभक्तिनिवृत्तिः ।

किमस्य सङ्केतकृतं वाच्यवाचकत्वं? अथ प्रदीपप्रकाशवदवस्थितमिति । किं चातः ? । यदि तेन भगवता अन्यैर्वा संव्यवहारार्थमस्य नाभेदमस्त्विति सङ्केतितम्, ततोऽस्य प्रागोंशब्दावाच्यत्वादोंशब्देन वा प्रणिधातारः प्राण्यधिषत, अन्येन वा नामान्तरेणाधीतवन्तस्तथेदानीमप्यस्तु, किमोङ्कारावशेषवचनेन । अथापि प्रदीपप्रकाशवदवस्थितं, तथाऽपि प्रथमश्रवणेऽपीश्वर उपलभ्येत यथा प्रकाशेन सविता ॥

किं च-सङ्केतोऽप्यनर्थकः स्थितसम्बन्धत्वात् । अथापूर्वं सङ्केत्येत, पूर्वोक्तदोषप्रसङ्ग इति मन्यते ॥ स्थितोऽस्य वाच्यस्य वाचकेन सह सम्बन्धः। सङ्केतस्त्वीश्वरस्य स्थितमेवार्थमभिनयति। यथाऽवस्थितः पितापुत्रयोः सम्बन्धः सङ्केतेनावद्योत्यते, अयमस्य पिता, अयमस्य पुत्र इति। सर्गान्तरेष्वपि वाच्यवाचकशक्त्यपेक्षस्तथैव सङ्केतः क्रियते। सम्प्रतिपत्तिनित्यतया नित्यः शब्दार्थसम्बन्ध इत्यागमिनः प्रतिजानते ॥ २७ ॥ विवरणम् विवरणम्

अत्रोच्यते-स्थितोऽस्य वाच्यस्य वाचकेन सम्बन्धो यदि नित्यः शब्दो यदि वा अनित्यः, सङ्केतस्तु तमेव स्थितं सम्बन्धमवज्वलयति ॥

ननु चोक्तं-स्थितश्चेत् प्रथमश्रवणेऽपि तं प्रतीयुरिति । उच्यते-न हि प्रत्याय्यप्रत्यायकसम्बन्धः शब्दार्थयोः स्थितोऽपि सन्निन्द्रियेण गृह्यते । यथेन्द्रियार्थयोः । अप्रत्यक्षे हि वाच्यवाचकशक्ती ॥

ततश्च येनोच्यते शब्दादर्थोऽनुमेय इति-तदसत् । सम्बन्धाग्रहणात् । परप्रयेगव्यङ्ग्यत्वाच्च सम्बन्धस्य । न ह्यनुमानं परप्रयोगमपेक्षते ॥

अथ ब्रूयादनुमितात् सम्बन्धादर्थानुमानमिति । स वक्तव्यः कथमनुमितः शब्दार्थसम्बन्धः? इति ॥

स चेत् ब्रूयात्-कार्यदर्शनादर्थं हि प्रतीत्य पश्चादनुमिनोति तत्सम्बन्धम् । यथा चक्षुषा रूपमुपलभ्य चक्षुस्सम्बन्धमिति । स प्रतिवक्तव्यः-सिद्धं तर्हि विनाऽनुमानेन शब्दादेव प्रतिपत्तिरिति ॥

यो हि ग्राष्ट्रपाकेनैव कृतार्थ: किं तस्य किलोशिपाकेन । अथासकृत् प्रयोगदर्शनाद्गृह्यते सम्बन्धः, यथाऽग्निधूमयोरिति चेत्- न तु ब्रूमः न हि सहस्रेष्वपि प्रयोगेषु प्रत्यक्षेण शव्दार्थयोः सम्बन्धो गृह्यते यथाऽग्निधूमयोरादावपि सम्बन्धो गृह्यते । वाक्येऽप्ययमेव ॥ तस्मादवस्थितमेव वाच्यस्येश्वरस्य वाचकेन प्रणवेन सम्बन्धमवद्योतयति सङ्केतो यथा स्थितं पितापुत्रसम्बन्धम् । सङ्केतोपायापेक्षत्वात् प्रथमश्रुतान्नार्थः प्रतीयते । यथा चक्षुष आलोकाभावे ॥

ननु च शब्दानित्यत्वपक्षे कथमनित्ये सम्बन्धिनि नित्यः सम्बन्ध इति । न ह्यनित्ययो रज्जुघटयोः संवन्धो नित्यः स्यात् । उच्यते-यथा प्रमाणप्रमेययोरिन्द्रियविषययोश्च क्रियाकारकाणां सम्बन्धः स्थित एवानित्येष्वपि सम्बन्धिषु, तद्वदत्रापि स्थित एवाव्यभिचारेण सम्बन्धः सर्गादिष्वपि वाच्यवाचकशक्त्यपेक्षः सङ्केतः । ।

यथैव रूपचक्षुषोर्ग्राह्यग्राहकशक्त्यपेक्षयैव सर्गादौ सर्गस्तथेहापि वाच्यवाचकशक्त्यपेक्षयैव सङ्केतः क्रियते ॥

सम्प्रतिपत्तिनित्यतया वृद्धपरम्परयैव गम्यगमकभावेन शब्दार्थयोः सम्प्रतिपतिर्नित्या नान्यथेति आगमिनी वेदवादिन: प्रतिजानते । सम्प्रतिपत्तिश्च शब्दार्थसम्बन्धस्य हेतुस्तदेषाम् ॥

तदेतदुक्तं भवति-यद्यागमिपक्षः स्यादथान्यपक्षः, सर्वथा स्थित एव सम्बन्धः पितापुत्रयोरिव सङ्केतेनाभिव्यज्यत इति ॥

वाच्यवाचकयोरस्थितसम्बन्धत्वे तु प्रणवरूपेणाभिमुखीभवतीश्वर इति नावकल्पते । न हि पाच्यपाचकसम्बन्धे न च स्थिते पाचकाग्न्युपादानं पाकार्थं कल्पते । स्थिते तु वाच्यवाचकसम्बन्धे भगवदाराधनसाधनस्य प्रणवस्योपादानमवकल्पत इति तत्प्रतिपादनार्थं सर्वं भाष्यम् ॥ २७ ॥ विज्ञातवाच्यवाचकत्वस्य योगिनः – तज्जपस्तदर्थभावनम् ॥ २८ ॥ प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम्। तदस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतश्चित्तमेकाग्रं सम्पद्यते। तथा चोक्तम् – स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत्। स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते ॥ इति ॥ २८ ॥ विवरणम् विवरणम्

एवमवगतवाच्यवाचकसम्बन्धस्य योगिनः परमेश्वरप्रसादनं कथं क्रियत इति तदर्थमाह-तज्जपस्तदर्थभावनम् तस्येश्वरवाचकस्य प्रणवस्यार्धचतुर्मात्रस्य त्रिमात्रस्य वा जपः मनसोपांशु वा आवर्तनं जपः, तदर्थस्य चेश्वरस्य प्रणवेन वाचकेन समर्पितस्य बुद्धौ समारोपितस्य भावनमभिध्यानं तदर्थभावनम् । कर्तव्यमिति वाक्यशेषः ॥

तदेवमुभयं कुर्वतो योगिनः चित्तमेकाग्रं सम्पद्यते । एकाग्रसम्पत्तिं च तदाराधनफलं दर्शयति-तथा चोक्तम्-स्वाध्यायाद्योगमा(तिष्ठेत्)सीत स्वाध्यायात् प्रणवजपादीश्वरं प्रत्यवनतचित्तः सन् योगमासीत । तदर्थमीश्वरं ध्यायेत् । (रस्ययत्)तदर्थध्यानाच्चाप्रचलितमनाः स्वाध्यायं प्रणवमामनेत् मनसाऽभिजपेत् । मानसोऽभिजपः प्रशस्यते ध्यानस्यासन्नतरत्वात् । मा विषयप्रवणचित्तो भूदिति । एवं स्वाध्याययोगसम्पत्या तद्विरोधिना प्रत्ययान्तरेणानभिघातः स्वाध्याययोगसम्पत्तिः । तया च प्रणवजपपरमेश्वरध्यानसम्पत्या पर आत्मा परमेष्ठी प्रकाशते योगिन इति ॥ २८ ॥ किं चास्य भवति – ततः प्रत्यक्त्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥ ये तावदन्तराया व्याधिप्रभृतयस्ते तावदीश्वरप्रणिधानान्न भवन्ति। स्वरूपदर्शनमप्यस्य भवति। यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः केवलोऽनुपसर्गस्तथाऽयमपि बुद्धे प्रतिसंवेदी यः पुरुषस्तमधिगच्छति ॥ २९ ॥ विवरणम् विवरणम्

किश्चास्य भवति ? पूर्वसूत्रे चित्तमेकाग्रं सम्पद्यत इत्युक्तमेकं फलम् , तदेपक्षया किञ्चेति चकारः । किञ्चान्यदप्यस्ति फलम् ? आहोस्विच्चित्तैकाग्रत्वमेवेति, तत्राह-ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च । ततः तस्मादीश्वरप्रणिधानात् प्रत्यक्चेतनाधिगमः प्रत्यक् स्वबुद्धिं चेतयत इति प्रत्यक्चेतन आत्मा, तस्य अधिगमो यथावत्स्वरूपसंवेदनम् ॥

ननु चाधिगत एव प्रत्यात्मं पुरुषोऽहं सुखी दुःखी चाहमिति । एवं प्रसिद्धं, ततः किं विशेषेणोच्यते इति । सत्यमेवम्-किं त्वविशिष्टोऽसो प्रत्ययश्चित्तस्य वृत्या । किञ्च-सुखी दुःखी चाहमिति सुखिदुःखिसामानाधिकरण्यादिहाहम्प्रत्ययस्य चित्तवृत्तिविषयत्वादविद्याप्रत्यय एव प्रसिद्धिः ॥

कथं तर्ह्यस्याधिगम इत्याह-यथैवेश्वरः पुरुषः शुद्धः क्लेशादिमलवर्जितस्तत एव प्रसन्नः स्वच्छस्तत एव केवलो निस्त्रिगुणस्तत एव निरुपसर्गस्तापत्रयवर्जितः प्रकृष्टसत्त्वप्रतिसंवेदी च तथाऽयमपि मदीयः पुरुषः शुद्धः प्रसन्नः केवलो निरुपसर्गो बुद्धेः प्रतिसंवेदीत्यवगच्छति ॥

यथा तथेति च दृष्टान्तदार्ष्टान्तिकनिर्देशादीश्वरक्षेत्रज्ञयोर्भेद उक्तो भवति । बद्धमुक्तोपपत्तेश्च । प्रधानस्य पाराथ्योपपत्तेः । क्षेत्रज्ञानां चात एव परस्परभेदः ॥

किञ्चास्य भवति ? ये तावदन्तराया व्याधिप्रभृतयो वक्ष्यमाणास्तेऽपि चास्येश्वरप्रणिधानान्न भवन्ति ॥ २९ ॥ अथ केऽन्तराया ये चित्तस्य विक्षेपाः। के पुनस्ते कियन्तो वेति – व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चितविक्षेपास्तेऽन्तरायाः ॥ ३० ॥ नवान्तरायाश्चित्तस्य विक्षेपाः। सहैते चित्तवृत्तिभिर्भवन्ति। एतेषामभावे न भवन्ति पूर्वोक्ताश्चित्तवृत्तयः। व्याधिर्धातुरसकरणवैषम्यम्। स्त्यानमकर्मण्यता चित्तस्य। संशय उभयकोटिस्पृग्विज्ञानं स्यादिदमेवं नैवं स्यादिति। प्रमादः समाधिसाधनानामभावनम्। आलस्यं कायस्य चित्तस्य च गुरुत्वादप्रवृत्तिः। अविरतिश्चित्तस्य विषयसम्प्रयोगात्मा गर्धः। भ्रान्तिदर्शनं विपर्यज्ञानम्। अलब्धभूमिकत्वं समाधिभूमेरलाभः। अनवस्थितत्वं यल्लब्धायां भूमौ चित्तस्याप्रतिष्ठा। समाधिप्रतिलम्भे हि सति तदवस्थितं स्यादिति। एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इत्यभिधीयन्ते ॥ ३० ॥ विवरणम् विवरणम्

तत्र के तेऽन्तरायाः ? कियन्तो वेत्याह-व्याधिस्त्यानेत्यादि । सङ्ख्यया तावन्नवान्तरायाः । स्वरूपेण च व्याध्यादयः । व्याधिर्धातुरसकरणवैषम्यम् । धातवो वातपित्तश्लेष्माणस्तेषां विषमभावो वैषम्यं, तच्च वातपित्तश्लेष्मभूयिष्ठद्रव्योपयोगादिभ्यो जायते । स्वयोन्यागमे हि धातूनां वृद्धिमाचक्षते ॥

रस उपयुक्ताहारस्य परिणामविशेषः । स च सप्तधा, रसकार्यवाद्रस इत्युच्यते रसलोहितमेदोमांसास्थिमज्जाशुक्लाख्यः । तस्य वैषम्यं वृद्धिक्षयौ । करणवैषम्यमन्धबधिरत्वादि ॥

स्त्यानमकर्मण्यता चित्तस्य स्तिमितम् । संशयः स्थाणुर्वा पुरुषो वेति विरुद्धोभयकोटिस्पृकू प्रत्यय: ॥

प्रमादः समाधिसाधनानामभावनमशीलनम् । आलस्यं कायस्य चित्तस्य च गुरुत्वादप्रवर्तनम् । अविरतिश्चित्तस्य विषयसम्प्रयोगस्वभावो विषयसम्प्रयोगनिमित्तो वा गर्द्धः अभिकाङ्का तृष्णा ॥

भ्रान्तिदर्शनं विपर्ययज्ञानं योगसाधनेषु तन्मार्गे वा विपरीतवृत्तिः । अलब्धभूमिकत्वं समाधिभूमेरलाभ: । भूमयो वितर्कादयश्चित्तस्य धर्मविशेषा उक्ता वक्ष्यमाणाश्च । अनवस्थितायामपि समाधिभूमौ ततः कथमपि प्रचलितस्य चित्तस्य पुनस्तत्रावस्थितत्वमेव स्यात्तदलाभस्त्वनवस्थितत्वमुच्यते ॥

तदेते नवान्तरायाः । अन्तरं विवरं विच्छेदं कुर्वन्त अयान्तीत्यन्तरायाः विक्षेपाः, प्रतिपक्षाः योगप्राप्तेरुपसर्गाः । एते च सह चित्तवृत्तिभिर्भवन्ति । चित्तं विक्षिपन्ति विषयेष्विति चित्तविक्षेपाः । क्षिप्रं ते [क्षिपन्ति] सहैते वृत्तिभिः पञ्चतयीभिरन्योन्यप्रयोज्यप्रयोजकभावेन भवन्ति । अथैषामभावे व्याधिप्रभृतीनामभावे सहायबलाभावान्न भवन्ति पूर्वोक्ताः प्रमाणादयश्चित्तवृत्तयः । तद्भावभावित्वातुत्यप्रत्यनीका वृत्तिविक्षेपा इत्युक्तं भवति ॥ ३० ॥ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥ दुःखमाध्यात्मिकमाधिभौतिकमाधिदैविकं च। येनाभिहताः प्राणिनस्तदपघाताय प्रयतन्ते तद्दुःखम्। दौर्मनस्यमिच्छाविघाताच्चेतसः क्षोभः। यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम्। प्राणो यद्बाह्यं वायुमाचामति स श्वासः। यत्कौष्ठ्यं वायुं निःसारयति स प्रश्वासः। एते विक्षेपसहभुवो विक्षिप्तचित्तस्यैते भवन्ति। समाहितचित्तस्यैवे न भवन्ति ॥ ३१ ॥ विवरणम् विवरणम्

दुःखं येनाभिहताः प्राणिनस्तदपघाताय प्रयतन्ते चेष्टन्ते । तच्च त्रिविधम् । आध्यात्मिकम्, अधि आत्मनीत्यध्यात्मम्, तत्र भवमाध्यात्मिकम् । तच्च शारीरं मानसं च । शारीरं धातुवैषम्यादिनिमित्तम् । मानसमिष्टविघातादिहेतुकम् । आधिभौतिकम् अधि भूतेष्वित्यधिभूतम् , तत्र भवमाधिभौतिकम् । तच्च पशुमृगाद्युपनिपतितम् । अधिदैविकमिति अधि देवेष्वित्याधिदेवम्, तत्र भवमाधिदैविकम् । ‘अध्यात्मादिभ्यष्ठक्’ इत्युपसङ्ख्यानात् ठक् । अनुशतिकादित्वादुभयपदवृद्धिः । तच्चापि वातवर्षादिनिमित्तम् । तदेकमेव सन्निमित्तभेदेन रजोरूपं भिद्यते ॥

दौर्मनस्यमिच्छाविघाताच्चेतसः क्षोभः आकुलीभावः सञ्चलनम् । यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम् । (न् तच्च प्राणायामाद्यथाभ्यासप्रभवश्चासार्वापि तथा समुद्भवः) यद्बाह्यं वायुमाचामति बाह्यवायोराकर्षणबाहुलक[व्यम्] निष्क्रमणमन्दता च श्वासः । तद्विपरीतव्यापारः प्रश्वासः - यत्कौष्ठ्यं वायुं निस्सारयति । एते विक्षेपसहभुव: विक्षेपै: सहैते विक्षिप्तचित्तस्यैव भवन्तीति विक्षेपसहभुवः । समाहितचित्तस्यैते न भवन्तीति यावत् । यावद्यावच्चेतः समाधीयते तावत्तावन्न भवन्तीति । ताभ्यामेवाभ्यासवैराग्याभ्यामुपशमयितव्याः । नान्यं प्रतिपक्षमपेक्षन्ते ॥

अभ्यासवैराग्ये मुक्त्वा न हि परमेश्वरप्रणिधायिन्यः[भ्यः]प्रभावो भवतीति गम्यते । ‘अन्तरायाभावश्च’ इत्युक्या प्राक्तनादपीश्वरप्रणिधानादन्तराया निरुध्यन्ते ॥ ३१ ॥ अथैते विक्षेपाः समाधिप्रतिपक्षास्ताभ्यामेवाभ्यासवैराग्याभ्यां निरोद्धव्याः। तत्राभ्यासस्य विषयमुपसंहरन्निदमाह – तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥ विक्षेपप्रतिषेधार्थमेकतत्त्वावलम्बनं चित्तमभ्यसेत्। यस्य तु प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वमेव चित्तमेकाग्रं नास्त्येव विक्षिप्तम्। यदि पुनरिदं सर्वतः प्रत्याहृत्यैकस्मिन्नर्थे समाधीयते तदा भवत्येकाग्रमित्यतो न प्रत्यर्थनियतम्। विवरणम् विवरणम्

अभ्यासवैराग्याभ्यां तन्निरोध इत्युक्तम् । तत्र वैराग्यविषयः प्रतिपादितः । इदानीमभ्यासस्य विषयमुपसंहरन्नाह-तत्प्रतिषेधार्थमेकतत्त्वाभ्यास इति । तेषां विक्षेपाणां प्रतिषेधाय तत्प्रतिषेधार्थम् । एकं तत्त्वमेकतत्त्वम् । तच्चैकं तत्त्वं वस्तुत्वान्नाभ्यसितुं शक्यम् । न ह्यात्मादिवस्तूनां शीलनं वक्तुं शक्यते । स्वमाहाभाग्यावस्थितानि हि तानि न चित्तमात्राणि । वस्तूनां तु चित्ततन्त्रतां प्रतिषेधयिष्यति- ‘न चैकचित्ततन्त्रं वस्तु’ इत्यादिना । तस्मादेतदाशङ्कमानो भाष्यकार आह-एकतत्त्वालम्बनं चित्तमभ्यसेदिति । सूत्रेऽप्येकतत्त्वाभ्यास इति समासादयमर्थ उपात्त एव ॥

ननु नैकं चित्तमवस्थितमस्ति, यस्यैकतत्त्वावलम्बनः प्रत्यय आपद्येत । प्रत्यया एव चित्तम्, ते च प्रत्यर्थं नियताः क्षणप्रणाशिनश्च । प्रत्यात्मसंवेद्यं च प्रत्ययानामनवस्थितत्वम् । नापि प्रत्ययव्यतिरेकेणावस्थितं प्रत्ययि चित्तं नामोपलभ्यते । योऽप्यहमेवाहमिति प्रत्ययः सोऽपि समानसन्ततिपतितत्त्वात्सादृश्यनिबन्धनः । यथा स एव प्रदीपः त एव केशा इति ॥

तदप्याह-प्रत्यहं[प्रति]प्रत्ययं प्रत्ययो भिन्नः, प्रत्ययेभ्योऽत्यन्तपरस्परभिन्नेभ्योऽनन्यत्वात् । एकैकप्रत्ययस्वरूपसद्वर्तमानाहम्प्रत्ययविषयः प्रत्ययी भूतभविष्यत्कालाहम्प्रत्ययविषयात् प्रत्ययिनो भिन्नः, भिन्नप्रत्ययविषयत्वात् , घटात् (घ) पट इव । यदि वा-भिन्नकालत्वात्, विनष्टभविष्यद्घटाभ्यां वर्तमानो घटः [इव] । अहम्प्रत्यया वा सर्वे भिन्नालम्बनाः, प्रत्ययत्वात्, घटपटदिविषयप्रत्ययवदिति ॥

अत्राभिधीयते-स्वशास्त्रविरोधोऽपि स्यादेवं ब्रुवत इत्याह-क्षणिकं च । यस्य चित्तं तस्य सर्वमेव चित्तम् एकाग्रम् विक्षेपाभावादेव नास्त्येव विक्षिप्तमिति सर्वचितैकाग्रत्वाद्विक्षेपप्राप्यभावाद्विक्षेपप्रतिषेधाय शास्रोपदेशोऽनर्थकः स्यात् । अस्ति च चित्तपरिकर्मार्थं मैत्र्याद्युपदेशः । स च विरुध्येत इत्थन्धर्म चित्तमभ्युपगच्छतः ॥

ननु च तवापि वृत्तिवृत्तिमतोरभेदादनुपपन्नो विक्षेप इति तत्प्रतिषेधोपदेशानर्थक्यम्–नैष दोषः-वृत्तवृत्तिमत्वाभ्युपगमात् ॥

यदि वृत्तय एव परस्परभिन्नाः स्वतन्त्रा वृत्तिमतोऽत्यन्तभिन्ना जायेरन् प्रत्यर्थनियताश्च, तत एष दोषः स्यात् । न चैवमभ्युपेयते ॥

कथं तर्हि ? वृत्तिमद्रूपेणैकमनेकार्थं च तद्वृत्तीनां विषयभेदादवस्थितं च सदसतोर्विपर्ययानभ्युपगमादित्येवमात्मपक्षे समञ्जसतां दर्शयति - यदि पुनरिदं चित्तं वृत्तिभेदेनानेकधा (म्मिलावयवद्धि) प्रसृतं साङ्ख्ययोगवादिन इव तवापि सर्वतः सर्वैभ्यः विषयेभ्यः प्रत्याहृत्य प्रत्यानीयैकस्मिन्नात्माद्यर्थे समाधीयेत स्थाप्येत तदा भवत्येकाग्रं पुरुषप्रयासभाव्यत्वार्हमित्यर्थः ॥

ततो युक्तस्तत्परिकर्मणे शास्त्रोपदेशः । (अतो न प्रत्यक्षम्) अतोऽस्मात् कारणात् तत्परिकर्मविषयशास्त्रोपदेशात् साङ्ख्ययोगवादिवत् क्षणिकवादिनोऽपि एकमनेकार्थमवस्थितं च चित्तं न प्रत्यर्थनियतं (वा) पश्चादभ्युपगमनीयम् । अन्यथा शास्रविरोधः स्यात् । योऽपि सदृशप्रत्ययप्रवाहेन चित्तमेकाग्रं मन्यते तस्यैकाग्रता यदि प्रवाहचित्तस्य धर्मस्तदैकं नास्ति प्रवाहचित्तं क्षणिकत्वात्। अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः, स सर्वः सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्वादेकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः। तस्मादेकमनेकार्थमवस्थितं चित्तमिति। विवरणम् विवरणम्

योऽपि सदृशप्रत्ययप्रवाहं चित्तमेकाग्रं मन्यते सदृशः समानः प्रत्ययप्रवाहो यस्यैकस्यां सन्ततौ तच्चित्तमेकाग्रम् । तद्विपरीतम् असमानप्रत्ययप्रवाहं विक्षिप्तम् । तथा चैकाग्रता विक्षेपप्रतिषेधेनोपपद्यते, तदर्थोपदेशश्चेति कुतः शास्त्रविरोध इति ॥

इतर अह-न-प्रवाहचित्तस्यैकस्य धर्मिणोऽनभ्युपगमात् । न हि प्रवाहचित्तं नामैकमतीतवर्तमानभविष्यत्प्रत्ययानां धर्मिणमभ्युपगच्छति । यदि ह्यभ्युपगच्छेत् परित्यक्तः स्वपक्षः । कस्मात् ? प्रवाहचित्तस्याक्षणिकत्वात्तदेवैकं नास्ति, यस्यैकाग्रता धर्मः । प्रत्ययानेव ह्यन्योन्यसंहतान् पिपीलिकापङ्क्तिकल्पानसावभ्युपगच्छति ॥

अथैवं मन्यते, यद्ययेकं नास्ति तथापि सर्वेषामेव प्रत्ययानां सदृशप्रवाहाणामेकाग्रता धर्मः प्रदीपार्चिषामिव प्रकाश इति-तत्राह-नायुगपत्कालोत्पत्तिविनाशानां समाहारः सम्भवति । दृष्टान्तस्य च साध्यविकलत्वात् । न हि बह्वीनामर्चिषामेकः प्रकाशः । प्रत्यर्चिषमस्य भेदात् । न चापि प्रकाशस्यार्चिषां चैको धर्मो ना[मा]स्ति ॥

अथापि मन्यते प्रवाहांशस्यैव प्रत्ययस्य कस्यचिदेकाग्रता धर्मः, यथैकस्यां पिपीलिकासन्ततावेकापि पिपीलिका लोहितेति-तच्च न-पूर्वदोषानुषक्तेः । सर्वः प्रत्ययः प्रवाहांशः सदृशवाही विसदृशवाही वा पूर्ववत् प्रत्यर्थनियतत्वादेकाग्र एवेति विक्षिप्तचित्तानवलृप्तिः । तस्मादेकमनेकार्थमवस्थितं च चित्तमभ्युपगन्तव्यम् । यदि शास्रेण चित्तपरिकर्मोपदेक्ष्यते ॥ यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जायेरन्नथ कथमन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत्। अन्यप्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत्। कथञ्चित्समाधीयमानमप्येतद्गोमयपायसीयन्यायमाक्षिपति। विवरणम् विवरणम्

किं च- यदि चित्तेनैकेनानन्विताः करणेन स्वभावभिन्नाः प्रत्यया जायेरंस्तदा ब्रूहि कथमन्यप्रत्ययदृष्टस्यान्यः प्रत्ययः स्मर्ता भवेद्देवदत्तदृष्टस्येव यज्ञदत्तः । अन्यप्रत्ययोपचितस्य वा कर्माशयस्यान्यः प्रत्यय उपभोक्ता ॥

न हि भविष्यत्पुत्रः पित्रा रचितकर्माशयफलं स्वर्गदि प्रत्युपभुञ्जीत । अथ ब्रूयात् -विशिष्टभविष्यत्पुत्रविज्ञानार्थं विनश्यत्प्रवृत्तिविज्ञानमालयविज्ञानसंस्कार कञ्चनाधत्ते इति – नैतदेवम् -आलयप्रवृत्तिविज्ञानयोरत्यन्तभेदादवस्तुत्वाच्च ॥

यद्यालयविज्ञानान्न तत्प्रवृत्तिविज्ञानं, तदा तदेव तदिति नाममात्रभेदः, तथा च संस्काराधानयुक्तत्वात् स्मृत्यनुपक्लृप्तिः । अथाप्यन्यत्-एवमप्यन्यत्प्रवृत्तविज्ञानमालयविज्ञाने संस्कारे नादधीत, भिन्नत्वात् । यथा सन्तत्यन्तरालयविज्ञाने ॥

किञ्च—यद्यपि संस्कारमाधत्ताम्, तथापि प्रवृत्तिविज्ञानापादितसंस्कारमालयविज्ञानं देशकालान्तराक्षमम् । तस्यापि क्षणिकत्वाभ्युपगमाद्विनश्यच्च तावत्येव नोत्तरविज्ञानोपकाराय पर्याप्नोति । देशकालान्तरव्यवहितं चेदुपकुर्वीत, तदा भिन्नसन्तानान्तरजन्मनाप्युपकर्तव्यम् ॥

अथ कालान्तरावस्थायि, तदा क्षणिकत्वहानिः । क्षणान्तरं चेदवतिष्ठेत, दीर्घकालावस्थायित्वे कस्य स्यादक्षमा ॥

अथापि प्रवृत्तिविज्ञानसंस्कारविशिष्टस्यान्तरालभाविन आत्मसदृशस्य भविष्यत आलयविज्ञानस्य संस्कारमाधाय पूर्वमालयविज्ञानं विनङ्क्ष्यतीति

तच्च न-संस्कारान्तराभावात् । अस्ति चेदनवस्थाप्रसङ्गः । अथ नास्त्याधार:, तत्र किं प्रवृत्तिविज्ञानस्यालयविज्ञानकल्पनया संस्कराधानाय । यथा आलयविज्ञानमुत्पित्सिष्यमाणस्य तत्कालमसतः आलयविज्ञानस्य संस्कारमाधत्ते, तथा प्रवृत्तिविज्ञानमपि उत्पित्सिष्यमाणस्य तत्कालमसतः प्रवृत्तिविज्ञानस्यैव संस्कारमाधत्तामनपेक्ष्यालयविज्ञानम् ॥

न च विनश्यत् अन्यस्य भाविनस्तत्कालमविद्यमानस्य संस्कारमाधत्ते इत्यस्य दृष्टान्तो दृश्यते । नापि भाविन्येव संस्कारं कुर्वीत । पूर्वण भविष्यत्संस्क्रियते, भविष्यति चेति विरुद्धम् । तत्कालं चेदसद्भविष्यत्सङ्क्रियते, किं तुल्यातुत्यसन्ततिकल्पनेन ? असम्बन्धाविशेषात् सर्वं सर्वेण संस्क्रियेत ॥

नापि भविष्यद्विनश्यतोर्युगपदुत्पत्तिविनाशावक्षणिकत्वप्रसङ्गात् । अथ तुलान्तयोरिव नत्युन्नती युगपत्पूर्वविनाशोत्तरसमुत्पती स्याताम् (न) वस्तुनेरिति चेत्-न-अभ्युपगमविरोधात् । न हि वैनाशिकेनोत्पत्तिविनाशक्रियाव्यतिरेकेण कारकमन्यदिष्यते । अभ्युपगमे च सिद्धान्ताविरोधः ॥

किञ्च-अन्यत्वे च क्रियाकारकयोर्यावत्क्रियोत्पत्ति करकेणावस्थातव्यं, ततश्च क्षणिकत्वहानिः । अ[न]वस्थाने च क्रियार्थं ततः[तस्य]उपादानमनर्थकम् ॥

किं चान्यत्-क्रियाया एव कारकत्वे कारकस्यापि क्रियात्वे क्रियाकारकशब्दौ पर्यायौ स्याताम् । ततश्चाङ्कुरो जायते, देवदत्तो जायत इत्यङ्कुरदेवदत्तयोः पर्यायत्वं स्यात् । तयोर्जनिक्रियामात्रत्वात् ॥

अथ अन्यजनिक्रया देवदत्तविशिष्टा अन्या चाङ्कुरविशिष्टेति चेत् - अभ्युपेतं तर्हि विशेषणं कारकं, न हि स्वरूपेण किञ्चिद्विशिष्टं स्यात् ॥

अथोच्येत, स्वरूपेणैवोत्पत्तिक्रिया उत्पत्तिक्रियान्तराद्विशिष्टा यथा स्वलक्षणानि रूपादीनि इति -तच्च न-भावाभावयेरेकत्वप्रसङ्गात् । इहाङ्कुरो जायते नश्यत्यङ्कुर इति च य एव जायते स एव नश्यति तत्राङ्कुरजननमङ्कुरविनाशनमिति जननं विनाश इत्युक्तं भवति । अङ्कुरो हि क्रियैव कारकमिति वोच्येत । (चितः) ॥

अथापि स्यात्-अन्यै(न्यस्यै)वाङ्कुरजननक्रियाया अङ्कुरविनाशक्रियेति–तथाऽप्यङ्कुरजननस्य नित्यत्वप्रसङ्गः । विनाशस्यान्यत्वादेव ॥

अथापि नाशजननवद्वस्तु शबलमिति, तथाऽप्यभावस्य शबलत्वं प्रसज्येत । कथम् ? क्रियाव्यतिरिक्तस्य कारकस्याभावेऽपि नाश एव जननविनाशवान् जननमेव जननविनाशवदिति । न ह्यभावस्य शबलत्वादिविशेषो निर्विशेषत्वाद्भावाभावयोश्चाविरोधात् प्रत्यक्षानुमानानुपपत्तिः ॥

यदप्युच्यते-तुलान्तयोर्नामोन्नामाविति-तत्र युक्ता तुलान्तयोरेककालयोर्विद्यमानत्वादन्यतरस्य वस्त्वन्तरगौरवनिमित्ता आनतिरन्यतरस्य चेन्नतिः । इह पुनर्भवद्भविष्यत्कालयोर्विज्ञानयोर्नाशोत्पत्ती तुलानामहेतुवत्तृतीयस्य निमित्तान्तरस्याभावादेककालं नोपपद्यते । विनश्यदेव विज्ञानमात्मसदृशं जनयतीति न शक्यं वक्तुम् । न हि देवदत्तो म्रियमाण एवात्मसमानं पुत्रं जनयति विनाशेनाक्षणत्वात् ॥

अथ मृत्पिण्डो यथा घटमुत्पादयन् विनश्यति, तद्वदिति चेत्-तच्च न-मृदवयवानामेव घटाकरेण परिणतत्वात् । एकैव हि मृत्पिण्डघटादिबहुधर्मयोगिनी । यश्चापि बीजेषु द्रव्यान्तरवासितेषु वासकद्रव्यानुविधायित्वं वास्यद्रव्यस्येति - तदप्यकारणम् वास्यवासकयोरवस्थितत्वात् । अवस्थितान्येव हि बीजेष्वङ्कुरादीनि वास्यन्ते बीजवासनेन । तदन्यत्वात् वासकद्रव्यस्याप्यवयवाननुप्रविष्टाः सूक्ष्मा विद्यन्त एव । तस्माद्विद्यमानान्येवाङ्कुरादीनि बीजवासनया वास्यन्त इति युक्तम् । असतां शविषाणादीनामुत्पत्त्यभावात् । असतां चेदुत्पत्तिः स्याद्वास्यवासकयोर्विनष्टत्वादविद्यमानत्वाविशेषे बासकद्रव्याननुविधायि नोत्पद्येत । अन्यद्वा हस्तादि ॥

यदि वा, अत्यन्तासदेव शशविषाणाद्युत्पद्येत । अतो विशिष्टं हि त्रयाणामसत्वं वासिते बीजे । तस्मादवस्थितं कारकं भूतभविष्यत्कालानेकवृत्तियोगि चाभ्युपगन्तव्यम् । अन्यथा प्रत्ययमात्रं क्षणिकं चित्तमिति समर्थ्यमानस्य समाधीयमानमपि (समर्थ्यमानमपि) गोमयपायसीयन्यायमाक्षिपति ॥

यथैव बहुभिरपि गोविकारत्वादिहेतुभिः समीहमाने कृताटोपेनापि गोमयं पायसीकर्तुं न शक्यम्, तथा क्षणिकेन चित्तेन स्मरणादि समर्थयितुम् ॥ किं च स्वात्मानुभवापह्नवश्चित्तस्यान्यत्वे प्राप्नोति। कथं, यदहमद्राक्षं तत्स्पृशामि यच्चास्प्राक्षं तत्पश्यामीत्यहमिति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्यभेदेनोपस्थितः। एकप्रत्ययविषयोऽयमभेदात्माऽहमिति प्रत्ययः कथमत्यन्तभिन्नेषु चित्तेषु वर्तमानः सामान्यमेकं प्रत्ययिनमाश्रयेत्। स्वानुभवग्राह्यश्चायमभेदात्माऽहमिति प्रत्ययः। न च प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते। प्रमाणान्तरं च प्रत्यक्षबलेनैव व्यवहारं लभते। तस्मादेकमनेकार्थमवस्थितं च चित्तम् ॥ ३२ ॥ विवरणम् विवरणम्

किञ्च-स्वात्मानुभवापह्नवः चित्तस्यान्यत्वे प्रत्ययमात्रत्वे ’नान्यदृष्टमनुस्मरतीति स्वात्मनानुभूतमपह्नुवीन ॥

किं त्वमद्राक्षीरित्युक्तो दृष्टवानपि नाहमद्राक्षमिति बुवीत । अन्येन हि तत्पक्षे तत् दृष्टं दृश्यते । तदपह्नवे चानुभूतस्य प्रतिपत्तिः कथम् ? ‘यदहमद्राक्षं तत् अहमेव स्पृशामि’ ‘यदहमस्प्राक्षं तत् अहमेव स्मरामि’ इति । सैषा प्रत्ययस्मरणयोरेककर्तृत्वे सति घटनामुपढौकते प्रतिपत्तिः । अन्यथा मत्सदृशे । यदद्राक्षीत्तत्सदृशोऽहं तं स्पृशामीति स्मरामीति च स्यात् । सर्वस्य पुरुषस्याहमिति प्रत्ययः स्मृतिप्रत्यययोरेकस्मिन् कर्तरि वर्तमानः प्रत्ययभेदे पश्यामि स्पृशामि स्मरामीत्यादिप्रत्ययभेदे सति तेषां च प्रत्ययानामेकस्मिन् कर्तरि प्रत्ययिन्यभिन्ने चोपस्थितः प्रत्यक्षश्च ॥

नन्वेकप्रत्ययविषय एवान्यः स्मृतेरेकत्वेऽपि कर्तुरहं प्रत्येमि स्मराम्यहमिति च न भवितव्यं, प्रत्येता स्मर्तेति शब्दभेदाद्भेद एव । तत्राह-न-प्रत्यक्षत्वात् । तदेव दर्शयति–स्वानुभवग्राह्यश्चायमभेदात्मा अहमिति प्रत्ययः ॥

अथ प्रत्येता स्मर्तेति शब्दभेदात् प्रत्ययभेदाच्चाहम्प्रत्ययस्य भिन्नविषयत्वमनुमायिष्यत इति चेदत अह–न हि प्रत्यक्षस्य माहात्म्यं प्रामाण्यं चक्षुषो रूप इवानुमानादभिभूयते बाध्यते ॥

किं च- -प्रत्यक्षं प्रमाणमयमहम्प्रत्ययो न तत् स्मृतिप्रत्ययानामेकस्मिन् कर्तरि सामान्येन वर्तमानः । स चेत् प्रत्यक्षप्रमाणभूतोऽनुमानेनाभिभूयेत, तदानीमनुमानस्यापि प्रमाणत्वं हीयेत । तन्मूलत्वादनुमानस्य । तदेतदाह- प्रमाणान्तरं च प्रत्यक्षबलेनैव प्रामाण्यव्यवहारं लभत इति । तेन प्रत्यक्षविरोधेन अनुमानविरोधेन च प्रतिवादि(पादित)प्रमाणप्रतिज्ञादोषो व्याख्यत: ॥

अतीतानागतप्रत्ययसंस्काराधारादनन्यः इदानीन्तनप्रत्ययसंस्काराधारः, एकसन्तानसम्बन्धित्वे सति बोधात्मकत्वात्, आत्मस्वरूपाद्यथा ॥

भूतभविष्यत्प्रत्ययसंस्काराश्रयः वर्तमानप्रत्ययसंस्काराश्रयादनन्यः, एकसन्तानसम्बन्धे सति बोधात्मकत्वात्, आत्मन इव स्वरूपात् ॥

वर्तमानाहम्प्रत्ययी भूतभविष्यत्प्रत्ययिभ्यामभिन्नः, एकसन्तानयोगे सति प्रत्ययित्वात्, यथा स्वरूपात् ॥

भूतभविष्यत्प्रत्ययिभ्यामनन्यो वर्तमानः प्रत्ययः, एकसन्तानसम्बन्धे सति बोधात्मकत्वात्, आत्मरागस्वरूपादिभ्य इव ॥

भूतभविष्यत्प्रत्ययिभ्यो नान्यो वर्तमानः प्रत्ययी, एकसन्तानसम्बन्धित्वे सति बोधात्मकत्वात् , आत्मनो यथा स्वरूपात् ॥

भिन्नसन्ततिषु परस्परस्मृतिप्रतिसन्धानाद्यनुपलम्भादेकसन्तानेषु च स्मृत्यादिदर्शनादेव सिद्धमेककर्तृत्वम् । तथा सर्वप्रमाणेभ्यो गरीयसा प्रत्यक्षेण प्रमाणेन । तत्र न किञ्चिदनुमानेन साध्यम् । न हि कश्चित् करतललाञ्छनदिदृक्षया दर्पणमादत्ते । तथाऽपि वैनाशिकोपरचितानुमानापशदमसहमानाः केचित् प्रत्यनुमानानि पेशलानि दर्शयन्ति । तथा चाह–तस्मादेकमनेकार्थमवस्थितं च चित्तम् । यस्येदं शास्त्रेण परिकर्म निर्दिश्यत इति-शास्रोपदेशसम्बन्धित्वं चित्तस्यावस्थितत्वे हेतुमुपदिशति । न हि विशीर्यमाणस्य घटस्य प्रक्षालनपरिवर्तनादिसंस्कारः क्रियते ॥ ३२ ॥ यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निर्दिश्यते तत्कथम् – मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चितप्रसादनम् ॥ ३३ ॥ तत्र सर्वप्राणिषु सुखसम्भोगापन्नेषु मैत्रीं भावयेत्। दुःखितेषु करुणाम्। पुण्यात्मकेषु मुदिताम्। अपुण्यशीलेषूपेक्षाम्। एवमस्य भावयतः शुक्लो धर्म उपजायते। ततश्च चित्तं प्रसीदति। प्रसन्नमेकाग्रं स्थितिपदं लभते ॥ ३३ ॥ विवरणम् विवरणम्

कथं चित्तपरिकर्म निर्दिश्यते ? तथैकतत्वाभ्यास इति चोक्तम् , किं च तदेकं तत्त्वम्? यद्विषयेऽभ्यास इति । तत आह—

मैत्रीकरुणामुदितोपेक्षाणां सुखःदुखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनमिति । मैत्री मित्रविषया भावना । तादृशी सुखतेषु सुखमनुमोदयन्तीमसूयादिवर्जिताम् । तथा दुःखितेषु करुणां कृपाम् अनुजानती दुःखम् । पुण्यात्मकेषु मुदितां पुण्यशीलतामनुजानतीम् । अपुण्यशीलेषु चोपेक्षाम् अपुण्यशीलव्यापारेषूदासीनतां च भावयेदित्यनुषज्यते ॥

सर्वत्रैवमस्य भावयतः, शुक्ल इति विशुद्धः प्राण्युपघातादिवर्जनाच्छुक्लो धर्मः । ततः स धर्म इव जातश्चित्तं प्रसादयति । तेन प्रसन्नं चित्तमेकाग्रं स्थितिपदं लभते । एकाग्रतया समाधीयत इत्यर्थः तदुक्तम्- ‘प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते’ इति ॥

तत्रोपेक्षाया अक्रियारूपत्वाद्धमीहेतुत्वे सति किमर्थमिहोपादानम् ? उच्यते-उपेक्षानुपादाने चापुण्यशीलेष्वपि चित्तं व्यापारं यायात् । ततश्च तद्व्यापारोपधानकालुष्यान्मैत्र्यादिभावनाया न योग्यं भवति । अपुण्यशीलनिमित्तनैमित्तिकाकारव्यापारादधर्मों वा मा सञ्जनिष्टेति चित्तस्थितिरेवोपेक्षेति तस्या उपादानम् । चित्तस्थितिश्चेह समीहिता ॥

तस्मादित्थं समाहितचित्तस्य मैत्रीकरुणाद्येकतत्त्वालम्बनं चित्तं शीलयतः प्रागभिहिता अन्तराया न जनिष्यन्ते ॥ ३३ ॥ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥ कौष्ठ्यस्य वायोर्नासिकापुटाभ्यां प्रयत्नविशेषाद्वमनं प्रच्छर्दनं, विधारणं प्राणायामस्ताभ्यां वा मनसः स्थितिं सम्पादयेत् ॥ ३४ ॥ विवरणम् विवरणम्

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य । वाशब्दो मैत्र्यादिभावनोपायान्तरविकल्पार्थः । मैत्र्यादिभावनाद्युपायानामन्यतमेन येन केनचित् चित्तस्थितिः सम्पादनीयेति प्रकरणार्थः । अनेकोपायप्रदर्शनं कस्यचित् क्वचित् सुकरताभिप्रायेण । प्रच्छर्दनविधारणाभ्यां व्यस्ताभ्यां समस्ताभ्यां वा । प्रच्छर्दनम् कौष्ठ्यस्य वायोरातमितोरुद्वमनं नासिकाभ्याम्, न मुखेन । विधारणं प्राणायाम आतमितोरेव । यद्यपि प्रच्छर्दनेनापि प्राणः आयम्यते, तथापि बहिर्वृत्तिर्न निरुध्यत इति विधारणं प्राणायाम इति विशेष्यते ॥ ३४ ॥ विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ ३५ ॥ नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित्सा गन्धप्रवृत्तिः। जिह्वाग्रे रससंवित्। तालुनि रूपसंवित्। जिह्वामध्ये स्पर्शसंवित्। जिह्वामूले शब्दसंविदित्येता वृत्तय उत्पन्नाश्चित्तं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधिप्रज्ञायां च द्वारी भवन्तीति। एतेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्यादिषु प्रवृत्तिरुत्पन्ना विषयवत्येव वेदितव्या। यद्यपि हि तत्तच्छास्त्रानुमानाचार्योपदेशैरवगतमर्थतत्त्वं सद्भूतमेव भवति, एतेषां यथाभूतार्थप्रतिपादनसामर्थ्यात् तथाऽपि यावदेकदेशोऽपि कश्चिन्न स्वकरणसंवेद्यो भवति तावत्सर्वं परोक्षमिवापवर्गादिषु सूक्ष्मेष्वर्थेषु न दृढां बुद्धिमुत्पादयति। तस्माच्छास्त्रानुमानाचार्योपदेशोपोद्बलनार्थमेवावश्यं कश्चिदर्थविशेषः प्रत्यक्षीकर्तव्यः। तत्र तदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयमपि आऽपवर्गाच्छ्रद्धीयते। एतदर्थमेवेदं चित्तपरिकर्म निर्दिश्यते। अनियतासु वृत्तिषु तद्विषयायां वशीकारसञ्ज्ञायामुपजातायां समर्थं स्यात्तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति। तथा च सति श्रद्धावीर्यस्मृतिसमाधयोऽस्याप्रतिबन्धेन भविष्यन्तीति ॥ ३५ ॥ विवरणम् विवरणम्

विषयवती वा प्रवृत्तिरुत्पन्ना स्थितिनिबन्धिनी । चितस्येति वाक्यशेषः । विषया गन्धादयो यस्या योगप्रवृत्तेर्गन्धादिसंवेदनलक्षणाया आलम्बनीभूताः, स विषयवतीत्युच्युते ॥

प्रवृत्तिर्नाम योगिनो योगमभ्यस्यतः अभिमुखीभावं प्रतिपद्यमानस्य योगस्य यः प्रथमोऽभिमुखीभावः प्रत्ययकरणो योगानुष्ठानं प्रत्युत्साहजननो निर्मथ्यमानस्याग्नेरिव धूमसमुद्भवः, सा प्रवृत्तिः । सा च तादृशी प्रवृत्तिरुत्पन्ना प्रत्ययकरणात् प्रहर्षयन्ती योगिनश्चित्तं स्थितौ निबध्नाति ॥

नासिकाग्रे चित्तं धारयतो गन्धसंवित् प्रह्वादनकरसुरभिगन्धसंवेदनं निरन्तरतया सम्मतसंयोगमिवाचक्षाणा जायते । सा गन्धप्रवृत्तिः । तथा । जिह्वादिषु । धारयत इति सम्बध्यते । ता एताः प्रवृत्तयः स्थितौ चित्तं निबध्नन्ति । संशयं विधमन्ति समाधिप्रज्ञायाश्च द्वारीभवन्ति ॥

एतेन रश्मिचन्द्रादित्यग्रहप्रदीपादिषु चित्तं धारयतो हृदयपुण्डरीके वा धारयतो वैषम्याद्रश्मिचन्द्राद्याकारा प्रवृत्तिरुत्पन्ना विषयवतीत्येव वेदितव्या ॥

यद्यपि शास्त्रानुमानाचार्येभ्योऽवगतमर्थतत्त्वं तथाभूतमेव अव्यभिचारिस्वरूपमेव । तेषामन्यथाभूताप्रतिपादकत्वात् । तथाऽपि यावदेकदेशोऽपि स्वकरणसंवेद्यो न भवति प्रत्यक्षो न भवति शास्त्राद्युपदिष्टस्यार्थस्यैकदेशोऽपि, तावत् सर्वं परोक्षमिवापवर्गादिषु सूक्ष्मेष्वर्थेषु न दृढां बुद्धिमुत्पादयति । तस्माच्छास्त्रानुमानाचार्योपोद्वलनार्थमवश्यं कश्चिद्विशेष: प्रत्यक्षीकर्तव्यः ॥

तत्र शास्त्राद्युपदिष्टार्थकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयमपि आ अपवर्गाच्छ्रद्धीयते । एतदर्थमेवेदं चित्तपरिकर्म यदेतत् ‘मैत्रीकरुणा’ इत्यादिना ‘परमाणुपरममहत्त्वान्तोऽस्य वशीकारः’ इत्येवमन्तेन प्रकरणेन यमनियमासनविशिष्टस्य चित्तपरिकर्मोपदिश्यते ॥

तदेतदुक्तं भवति-एतत्प्रकरणोपदिष्टानामुपायानामन्यतमानुष्ठानात् प्रत्यक्षीकृतैकदेशतया विधूत(पिध्मात)संशयं तु आ अपवर्गात् दृढावस्थितश्रद्धानादि प्रशान्तबहिर्वृत्ति उपस्थितवशीकारसञ्ज्ञावैराग्यं तस्य तस्य तृतीयपादोपदिष्टपरिणामत्रयादेरर्थस्य प्रत्यक्षीकरणाय समर्थं स्यात् ज्ञानविभूत्यादिप्राप्यर्थमिति । ततश्चैवमर्थं चित्तपरिकर्मोपदिश्यत इति प्रकरणार्थः । तथा च भाष्यकारः प्रदर्शितवान्- ‘एतदर्थमेवेदं चित्तपरिकर्म’ इत्येवमादिना ॥ ३५ ॥ विशोका वा ज्योतिष्मती ॥ ३६ ॥ प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनीत्यनुवर्तते। हृदयपुण्डरीके धारयतो या बुद्धिसंवित् बुद्धिसत्त्वं हि भास्वरमाकाशकल्पं, तत्र स्थितिवैशारद्यात्प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विकल्पते। तथाऽस्मितायां समापन्नं चित्तं निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति। यत्रेदमुक्तम् – “तमणुमात्रमात्मानमनुविद्यास्मीत्येवं तावत्सम्प्रजानीते” इति। एषा द्वयी विशोका विषयवती, अस्मितामात्रा च प्रवृत्तिर्ज्योतिष्मतीत्युच्यते। यया योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३६ ॥ विवरणम् विवरणम्

विशोका वा ज्योतिष्मती प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनीति प्रकृतमभिसम्बध्यते । ज्योतिर्यस्यां विद्यते प्रवृत्तौ सा ज्योतिष्मती । सा च शोकं व्यपगमयतीति विशोका नाम ॥

सा च कथमुपजायत इत्याह-हृदयपुण्डरीके धारयतो बुद्धिसंविद्भवति स्वरूपसंवेदनम् । बुद्धिसत्वं हि किंरूपमित्याह-बुद्धिसत्वं हि प्रभास्वरं प्रभासनशीलमाकाशकल्पं व्यापि । यत्र यस्मिन् बुद्धिसत्त्वे ॥

स्थितिवैषम्यादिति । बुद्धिसत्त्वात्मतासाम्यानापत्तरिति । हृदयपुण्डरीक एव धारयत: प्रवृत्तिज्योतिष्मती सूर्येन्दुमणिप्रभारूपाकारेण विकल्पते । तथा चास्मितायाम् अहङ्कारे समापन्नं स्यात् बुद्धिसत्वं स्वरूपेण साम्यापत्तेर्निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति ॥

यत्रेदमुक्तं यत्रास्मितासमापत्तौ । तं एतं प्रकृतमस्मितात्मानमहङ्कारम् अणु सूक्ष्मम् आत्मानमनुविद्य प्राप्य अस्मीत्वेवन्तावत्सञ्जानीत इति । यादृशमालम्बनस्वरूपं तावन्मात्रं सञ्जानीते । अहङ्कारस्वरूपेणैव तदानुरूप्यादवच्छिद्यते, स्फटिकमणिरिवोपधानरूपेण । एवं द्वयी विशोका प्रवृत्तिर्विषयवती चास्मितामात्रा च । तत्र गन्धसंविदादिरास्मितामात्रान्ता सर्वा विशोकैव । ज्येतिष्मती पुनर्गन्धसंविदादिप्रवृत्तिपञ्चतयादन्यत्र । विषयवती त्वस्मितामात्रात् प्रागेवेत्येवं विषयविभागः । यया विशोकया ज्योतिष्मत्या योगिनश्चित्तं स्थितिपदं लभते ॥ ३६ ॥ वीतरागविषयं वा चित्तम् ॥ ३७ ॥ वीतरागचित्तालम्बनोपरक्तं वा योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३७ ॥ विवरणम् विवरणम्

वीतरागविषयं वा चित्तं वीतो रागो यस्मात प्रत्ययात् स वीतरागः रागशून्य इत्यर्थः । स एष विषय आलम्बनं यस्य चित्तस्य तद्वीतरागविषयम् । वीतरागश्च प्रत्ययः प्रसिद्धो लोके । रागिणोऽपि हि पुरुषस्य रागकारणेऽपि विषये, यः स्त्रीषु मात्रादिषु । स एव प्रत्ययः [तमेव प्रत्ययं] वीतरागः [गं] अलम्बनत्वे नाभ्यस्येत् ; न तु तस्य यो विषयः आलम्बनम् । विषयाणां खलत्वात् । तत् वीतरागप्रलयालम्बनोपरक्तं चित्तं तद्वदेव वीतरागं प्रसन्नतरं स्थितिपदं लभते । रागादिखलीकृतं हि कृतखलीनमिव तुरङ्गमाननं प्रचलति ॥ ३७ ॥ स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥ स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३८ ॥ विवरणम् विवरणम्

स्वप्ननिद्राज्ञानालम्बनं वा । स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा चित्तं तदाकारमेव भवति । एवंस्वभावं हि चित्तं यदालम्बते तदाकारं भवति । स्वप्ने च शब्दादिविषयशून्यं ज्ञानम् । ज्ञानस्यापि स्वभावोऽवभासकता । तत्रापि ज्ञानस्वरूपमेवालम्बते । न तु स्मर्यमाणविषयस्वरूपम् । स्मर्यमाणेनापि विषयेण खलीकारो दृश्यते । निद्राज्ञानं तु विशेषाग्रहणात्मकमभावप्रत्ययालम्बनं शान्तमनन्तमनुभूयमानाचलनधर्मकम् । ततश्च तदालम्बनं सच्चित्तं स्थितिपदं लभत इति युक्तम् ॥ ३८ ॥ यथाभिमतध्यानाद्वा ॥ ३९ ॥ यदेवाभिमतं तदेव ध्यायेत्। तत्र लब्धस्थितिकमन्यत्रापि स्थितिपदं लभत इति ॥ ३९ ॥ विवरणम् विवरणम्

यथाभिमतध्यानाद्वा । यदेवाभिमतमिति चित्तस्थित्यपेक्षया । चित्तस्थितेः प्रकृतत्वात् । न तु सुखाद्यपेक्षया । प्रतिषिद्धत्वाच्च- “न त्वेव विषयान् प्राप्य धारयेत कथञ्चन” इति । तत्र लब्धस्थितिकं कर्मण्यं सत् अन्यत्र शास्त्रीयेषु अपि स्थितिपदं लभते ॥ ३९ ॥ परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥ सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति। स्थूले निविशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य। एवं तामुभयीं कोटिमनुधावतो योऽस्याप्रतीघातः स परो वशीकारः। तद्वशीकारात्परिपूर्णं योगिनश्चित्तं न पुनरभ्यासकृतं परिकर्मापेक्षत इति ॥ ४० ॥ विवरणम् विवरणम्

परमाणुपरममहत्त्वान्तोऽस्य वशीकारः । अन्तशब्दः प्रत्येकं सम्बध्यते । सूक्ष्मे निविशमानस्य परिमाणे निविशमानस्य योगिना सङ्क्षिप्यमाणस्य । अभ्यासकाले स्वल्पमल्पतरं च क्रमेणालेचयत्परमाण्वन्तं सङ्क्षिप्यते । स च परमाणुश्चित्तस्य सङ्क्षेपकोटिः । तेन तदन्तं स्थितिपदम् ॥

इत्थमुभयकोटिमनुधावतश्चित्तस्य सङ्क्षेपं विस्तारं चानुभवतो यः तद्विरोधिना प्रत्ययान्तरेण अप्रतिघातः स परो वशीकारः । पूर्वेऽपि परे एव । तथाऽप्यस्यायं विशेषः । तद्वशीकारात् परिपूर्णम् अनवखण्डितं लब्धस्थितिकं न पुनरभ्यासकृतं परिकर्मापेक्षत इति । पूर्वं तु कियदपि परिकमन्तरमपेक्षन्ते ॥

तत्र सङ्क्षिप्ता विशाला विकरणी चेति त्रयी धारणा । तत्रेभयकोटिस्पर्शिनी विकरणी । परममहत्वान्तस्पृग्विशाला । परमाण्वन्तस्पृकू सङ्क्षिप्ता । सा च त्रय्यपाह सूत्रोपात्ता ॥ ४० ॥ अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा समापत्तिरिति, तदुच्यते – क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१ ॥ क्षीणवृत्तेरिति प्रत्यस्तमितप्रत्ययस्येत्यर्थः। अभिजातस्येव मणेरिति दृष्टान्तोपादानम्। यथा स्फटिक उपाश्रयभेदात्तत्तद्रूपोपरक्त उपाश्रयरूपाकारेण निर्भासते तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते। भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपाभासं भवति। तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं भवति। तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति। विवरणम् विवरणम्

अथ लब्धस्थितिकस्य चेतसः अथ उक्तानामन्यतमेनोपायेन लब्धस्थितिकस्य किंस्वरूपा । किंविषया वा समापत्तिरिति तन्निदिदर्शयिषयेदं सूत्रं प्रववृते-क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥

ननु च समापत्तेर्विषयं वक्ष्यति तृतीयपादे ‘परार्थात् स्वार्थसंयमात् पुरुषज्ञानम्’ इत्यादिना । समापत्तिस्वरूपं च संयमस्वरूपं तत्कार्यनिर्वर्तनेनैव सेत्स्यति । ततश्चानर्थकमिदं सूत्रम्-नैष दोषः-पूर्वोक्तोपायवशीकारणार्थवत्वप्रदर्शनार्थत्वात् । एवं ह्येष चित्तवशीकारोऽर्थवान्, येन ग्रहीत्राद्यर्थसमापन्नं चित्तं तदाभासं भवतीति ॥

किञ्च-‘वितकद्यनुगमात् सम्प्रज्ञातः’ इत्युक्तम् वितर्कादिस्वरूपं चेह दर्शयितव्यम् । अनुक्तायां समापत्तौ वितर्कादिस्वरूपं न शक्यं दर्शयितुं समापत्तिधर्मा(दि)वितर्कादय इति । क्षीणवृत्तेरिति प्रत्यस्तमितबाह्यप्रमाणादिप्रत्ययस्येत्यर्थः ॥

ननु सर्व एव प्रत्ययाः प्रत्यस्तमिताः । सर्वप्रत्यस्तमये हि अवसिताधिकारं न स्थूलसूक्ष्मादिकमालम्बते ॥

अभिजातस्येव मणेरिति दृष्टान्तोपादानम् । यथा स्फटिक उपाश्रयभेदात्तत्तद्रूपोपरक्त उपाश्रयाकरेण निर्भासते । तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते ॥

तथा भूतसूक्ष्मोपरक्तं तन्मात्रोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपावभासम् अवभासते ॥

[तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपामासं भवति । तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति ॥ तथा ग्रहणेष्वपीन्द्रियेष्वपि द्रष्टव्यम्। ग्रहणालम्बनोपरक्तं ग्रहणसमापन्नं ग्रहणस्वरूपाकारेण निर्भासते। तथा ग्रहीतृपुरुषालम्बनोपरक्तं ग्रहीतृपुरुषसमापन्नं ग्रहीतृपुरुषस्वरूपाकारेण निर्भासते। तथा मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुषसमापन्नं मुक्तपुरुषस्वरूपाकारेण निर्भासत इति। तदेवमभिजातमणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिरित्युच्यते ॥ ४१ ॥ विवरणम् विवरणम्

तथा ग्रहणेष्वपीन्द्रियेष्वपि द्रष्टव्यम् । ग्रहणालम्बनोपरक्तं ग्रहणसमापन्नं ग्रहणस्वरूपाकारेण निर्भासते ॥ युज्यते । सम्बन्धविशेषाच्च यथा स्वपुरुषो ग्रहीतृस्वरूपश्च मुक्तश्च चित्तवृत्तिविशेषसम्बन्धात् गृह्यते तद्वत् । न तु सर्वात्मनैव महदहङ्कारयोरपि ग्रहणं महत्त्वात् ॥

तयोरपि [तावपि] यदि सर्वात्मना गृह्येयाताम् , चित्तसत्त्वमात्रात्मानौ जायेयाताम् , तथा च सति तद्विषयग्रहणमेव न स्यात् । प्रधानपुरुषयोस्तु तत्सम्बन्धस्य चात्यन्तमव्यक्तस्वरूपत्वान्न स्वरूपग्रहणम् । ननु चेश्वरस्यासर्वज्ञता, [यतः] प्रधानपुरुषतत्सम्बन्धा न प्रत्यक्षा इति । उच्यते-प्रधानपुरुषसंवन्धेभ्योऽन्यत्सर्वं प्रत्यक्षमित्यत्र तावत् अविप्रतिपत्तिः, निरवधिकप्रत्यक्षज्ञानाभ्युपगमात् । (यत्र त्वनुमानागोचरः) [यत्तु अस्माकमगोचरः तत्] स एवेश्वरो ज्ञातुमर्हति । ज्ञेयं चेदस्ति तत्सर्वमसौ यथा वा तथा वा जानातीति निश्चयः । अज्ञातृकस्य ज्ञेयत्वानुपपत्तेः ॥

किञ्च-यदि प्रकृतिपुरुषौ स्वरूपेण ज्ञेयत्वमा(ना)पद्येयातां तदा बुद्धिवद्भोग्यताप्रसङ्गः । ततश्च परार्थोऽपि स्यात् परश्चान्यः कल्प्यः स्यात् ॥

ननु पुरुषाणामन्योन्यभोग्यतेति न परो भोक्ता कल्प्यः-नैतदेवम्समत्वात् पुरुषाणां विषयविषयित्वानुपपत्तेः । न हि प्रदीपावन्योन्यमुपकुरुतः । किञ्च - भोग्यत्वे सुखदिरूपताप्रसङ्गश्च पुरुषस्य । तथा च सति प्रधानस्य निर्हेतुकत्वप्रसङ्गश्चेत्येवमादयो भूयांसो दोषाः ॥

ननु च ‘परार्थात् स्वार्तसंयमात् पुरुषज्ञानम्’ इति पुरुषप्रत्यक्षतां वक्ष्यति-सत्यं युक्तमुक्तम् । अत एवोच्यते पुरुषो न स्वरूपेण विषयीभवतीति । येनैवं तत्रोक्तम् “न च पुरुषप्रत्ययेन बुद्धिसत्वात्मना पुरुषो दृश्यते । पुरुष एव तं प्रत्ययं स्वालम्बनं पश्यतीति । तथा ह्युक्तम् ‘विज्ञातारमरे केन विजानयात्” इतीति ॥

ननु पुरुषालम्बनोपरक्त चित्तं पुरुषस्य विषयः । तथा च सति प्रत्यक्ष एव पुरुषः । यथा घटालम्बनोपरक्ते प्रत्यये पुरुषेणोपलभ्यमाने घटः प्रत्यक्ष उच्यते-नैष दोषः-घटवत्पुरुषस्य चित्तेनाव्याप्यत्वात् । घटादिस्तु बाह्यश्चित्तेन व्याप्यते, न पुरुषः, आनन्त्यात् ॥

परिच्छिन्नं हि चित्तं विषयीकुर्वन्न पुरुषं विषयिणमनन्तं व्याप्तुमुत्सहते । यदि पुरुषं व्याप्नोति प्रधानमपि व्याप्नुयात् ॥

तस्माद्यथा दर्पणे मुखं छायारूपेण गृह्यते, तथा पुरुषच्छायाकारेण परिणतः प्रत्ययो गृह्यते पुरुषेण । तथा च व्यासः ‘यथाऽऽदर्शतलप्रख्ये पश्यत्यात्मानमात्मनि’ ॥ इति ।

न तु मुक्तान्यपुरुषाकारेण परिणतौ द्वारमस्ति । यदि तदाकरेण परिणमेत, मुक्तस्यापि तत्स्वमेवेति दृश्यं स्यात् । न हि चित्तस्य परिणामादन्यत्वं नामस्ति । स्वाकोरण हि परिणतं पुरुषे न तु चित्तं न पश्यति । स्वपुरुषे स्वत्वात्सति सम्बन्धे परिणतिद्वारमस्ति ॥

कथं तर्हि स्वपुरुषादन्यस्य स्वत्वासम्बन्धिनो ग्रहणम्-उच्यते-यथा परदर्पणद्वारेण परमुखदर्शनं, तथा दर्पणस्थानीयपरसत्वाकारपरिणतं स्वसत्वं पुरुषः पश्यन् परमपि पुरुषं जानाति ॥

तस्यायमात्मा ममायमित्यन्यत्वन्त्वनुमानादेव प्रतिपद्यते स्वकीयादन्यदीयसत्वगतविशेषलिङ्गेन । सत्वानां च त्रिगुणत्वादवश्यं विशेषाः सन्ति । पुरुषाणां तु निर्विशेषत्वात्स्वरूपेण भेदी दुरवबोध एव ॥

तस्मादेवमभिजातमणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु तत्स्थतदञ्जनता । तेषु ग्रहीत्रादिषु तिष्ठतीति तत्स्थं तत्स्थताविशिष्टा या ग्रहीत्राद्यञ्जनता, तदेवाह-तेषु स्थितस्य तदाकारापत्तिः समापतिरित्युच्यते ॥

सम्यगापत्तिः समापत्तिः सा च तादृशी प्रत्यस्तमितबहिर्वृत्तेरेव भवति । यद्यपि व्युत्थितचित्तस्यापि समापत्तिरस्ति । तथाऽपि सा न समीचीनतरा, रजस्तमोभ्यां चित्तसत्वस्यात्यन्ताभिभूतत्वादिति ॥ ४१ ॥ तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ ४२ ॥ तद्यथा गौरितिशब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टम्। विभज्यमानाश्चान्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये विज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः। तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा सङ्कीर्णा समापत्तिः सवितर्केत्युच्यते । यदा पुनः शब्दसङ्केतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरूपाकारमात्रतयैवावच्छिद्यते। सा च निर्वितर्का समापत्तिः। तत्परं प्रत्यक्षम्। तच्च श्रुतानुमानयोर्बीजम्। ततः श्रुतानुमाने प्रभवतः। न च श्रुतानुमानज्ञानसहभूतं तद्दर्शनम्। तस्मादसङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति ॥ ४२ ॥ विवरणम् विवरणम्

सैषा समापत्तिश्चतुष्टयी । तत्र प्रथमां समापत्तिं व्याचष्टे - शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः । शब्दश्चार्थश्च ज्ञानं च शब्दार्थज्ञानानि तेषां विकल्पाः शब्दार्थज्ञानविकल्पाः । ध्यातव्यालम्बनविषयैर्विकल्पैः सङ्कीर्णा विमिश्रा इतरेतरप्रत्ययानुविद्धा सा सङ्कीर्णसमापतिः ॥

ननु च शब्दार्थप्रत्यया इतरेतरव्यावृत्तस्वरूपाः, योगी चैकं वस्तु ध्येयत्वेनालम्बते शब्दमर्थं प्रत्ययं वा, तत्र कः शब्दार्थज्ञानविकल्पसङ्करः ? ॥

एवमेवैतत् । तथाऽपि अयमेव संव्यवहारो लोके, यदुताविभागेन ग्रहणम् । तद्यथा गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागेन लोके ग्रहणं दृष्टम् । एवं हि लोकः त्रयमपि गौरित्येव व्यपदिशति । तथाऽन्यतरग्रहणेऽवशिष्टयोरपि स्मृतिः ॥

ननु च तथाभूतमेतद्वस्तु-नैवं-शब्दार्थसङ्केतग्रहणोत्तरकालभावित्वात् । ननु सङ्केतादपि प्राक् सामान्यशब्दं यं कञ्चिदध्यवस्यत्येव-न-विविक्तानामपि ग्रहणदर्शनात् । विविच्यमानाश्चान्ये शब्दधर्मा गकारादिवर्णोदात्तस्वरितद्रुतमध्य- विलम्बितश्रोत्रग्रहणादयः । ते नार्थज्ञानयोः । तथान्येऽर्थधर्माः सास्नालाङ्गूलककुदखुरविषाणदर्शनस्पर्शनादयः । तथा (च)अन्ये प्रत्ययधर्माः पुरुषग्राह्यात्मकत्वावभासात्मकत्वसंस्काराधायित्वादयः, न ते शब्दार्थयोः । न [तेन]परमार्थतोऽन्योन्यधर्मसङ्करगन्धोऽप्यस्ति । तेन विविक्तः पन्थास्तेषाम् ॥

तत्र यत्र क्वचन समापन्नस्य यो ह्येवार्थः समाधिप्रज्ञामुपारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्धः शब्दार्थसद्धेतकृतो य इतरेतरस्मृत्यनुव्याधस्तद्विशिष्टथेदर्थ उपावर्तते सा सङ्कीर्णा समापत्तिः सवितर्केत्युच्यते ॥

अनेकजन्मान्तरशब्दार्थसद्धेतुज्ञानसंस्कारविशिष्टत्वाद्योगिनोऽपि प्रथमतरासमापतिर्लोकप्रत्ययाविशिष्टा । एष तु विशेषो यत् लब्धस्थितिपदत्वाद्योगिचित्तस्य समानप्रत्ययप्रवाहतेति ॥ ४२ ॥ निर्वितर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते – स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३ ॥ या शब्दसङ्केतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्यस्वरूपोपरक्ता प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति सा तदा निर्वितर्का समापत्तिः। विवरणम् विवरणम्

इदानीं निर्वितर्का समापत्तिरुच्यते । यदा पुनः शब्दसङ्केतस्मृतिपरिशुद्धौ । शब्दसङ्केतोऽस्यायं वाचकः अयमस्य वाच्य इति समयप्रतिपत्तिः । तज्जनितस्मृतिः शब्दसङ्केतस्मृतिः । तस्याः परिशुद्धिर्मिथ्यात्वाद्विनिवृत्तिः । सा रजस्तमसोर्न्यग्भावात् ॥

श्रुतज्ञानं आगमिकम् , अनुमानज्ञानं लैङ्गिकं, ते च सामान्यविषय एवानुमानागमज्ञाने, तयोर्विकल्पो हि विशेषाध्यारोपः तेनाध्यासेन शून्यायां योगिनः समाधिप्रज्ञायां व्यावृतलैङ्गिकसाङ्केतिकज्ञानाध्यासायां स्वरूपमात्रेण मात्रग्रहणं दिग्देशकालानुभावादिभ्योऽपि व्यावृत्त इत्येवमर्थं, स्वैरेव धर्मैर्महीयमानः तत्स्वरूपमात्रतयैव तस्यार्थस्य स्वरूपमात्रतयैव योगिनः प्रज्ञा अवच्छिद्यते । न तस्मादर्थाद्बहिर्देशकालादि किञ्चिदालोचयतीत्यर्थः ।

स्वमपि ग्रहणात्मकं रूपं तत्प्रज्ञा नालोचयति, निर्मलतरत्वात् । ग्राह्यमात्रैव सा विभाव्यते । सा च तादृशी निर्वितर्का समापतिः । निर्गतो वितर्कोऽस्याः निर्वितर्कः वितर्कोऽध्यारोपः । सोऽस्यां नास्ति ॥

तत् एतत् परं उत्कृष्टं शुद्धं प्रत्यक्षं अपरं प्रत्यक्षं सर्वसाधारणं पुरस्ताद्वृत्तिमध्ये पठितमिदं योगिन एवेति । तच्छ्रुतानुमानयोर्बीजम् । यद्यपि पूर्वोक्तमपि श्रुतानुमानयोर्बीजमेव, तथाऽपि तत्कार्ये श्रुतानुमानेन व्यभिचरतोऽपि, न पुनर्निर्वतर्कसमाधिजप्रत्यक्षप्रभवे व्यभिचरत इत्यत आह-ततः श्रुतानुमाने प्रभवत इति ॥

न च (ननु) श्रुतानुमानज्ञानसहभूतं तद्दर्शनम्, श्रुतानुमानज्ञानाभ्यामसमानविषयमित्येतत् । विशेषविषयं हि तद्दर्शनं, सामान्यविषये श्रुतानुमानज्ञाने । तस्मादसङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कजं दर्शनमिति (तन्निर्वितर्कायाः तदिति तस्मादिति) समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते- स्मृतिपरिशुद्धौ स्वरूपशून्यवार्थमात्रनिर्भासान्निर्वितर्का ॥

शब्दसङ्केतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ शब्दसङ्केतविकल्पः श्रुतज्ञानविकल्पः अनुमानज्ञानविकल्पश्च, स एव स्मृतिः । स्मरणेन ह्यन्यस्यान्यधर्मोऽध्यारोप्यते । न हि वस्तु स्वरूपेण वस्त्वन्तरेऽध्यारोपयितुं शक्यम् ।

ननु च कथं श्रुतानुमिते प्रत्यक्षेऽध्यारोप्यते । ननु च प्रसिद्धोऽध्यारोपः, तथा चेदं मया श्रुतमिदं मयाऽनुमितमिदमिति च पश्यति ॥

ननु तदेव तत् दृश्यमानमपि यदनुमितं श्रुतं च-न-सामान्यविशेषभेदात् । सामान्यं श्रुतमनुमितं च । विशेषस्तु प्रत्यक्षस्य विषयः । तस्मिंश्च तत्सामान्याध्यासः प्रसिद्ध एव ॥

ग्राह्योपरक्ता योगिनः प्रज्ञा स्वं प्रज्ञारूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वभावा ग्राह्यस्वरूपापन्नेव भवति । इवशब्देन ग्रहणात्मकतां न जहातीति । न हि स्फटिक उपाध्याश्रयतायां स्वां स्वच्छरूपतां हास्यति । किञ्च-ग्रहणव्यतिरिक्तं च ग्राह्यं वस्त्वन्तरमस्तीति चोक्तं भवति ॥

सा निर्वितर्का समापतिः । तथा च व्याख्यातम् – तस्या एकबुद्ध्युपक्रमो ह्यर्थात्माऽणुप्रचयविशेषात्मा गवादिर्घटादिर्वा लोकः। विवरणम् विवरणम्

तथा च व्याख्यातम् । तस्या ह्येकबुद्ध्युपक्रमोऽर्थात्मा । उपक्रम्यते एकया बुद्धया यः स एकबुद्ध्युपक्रमः एकबुद्विपरिच्छेद्य इति । अर्थात्मा बोध्यात्मेत्येतत् ॥

गवादिर्घटादिर्वा विषयः न तु बोध एव गवाद्याकारो विषयः । अणुप्रचयविशेषात्मा अणूनां तन्मात्रावयवानां प्रचयविशेष आत्मा यस्य स गवादिधटादिर्वा आलम्बनं बुद्धेः स च विषयः संस्थानविशेषः तथा संस्थितानि हि तानि भूतसूक्ष्माणि ॥ स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्म आत्मभूतः फलेन व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रादर्भवति। धर्मान्तरस्य कपालादेरुदये च तिरो भवति। स एष धैर्मोऽवयवीत्युच्यते। योऽसावेकश्च महांश्चाणीयांश्च स्पर्शवांश्च क्रियाधर्मकश्चानित्यश्च तेनावयविना व्यवहाराः क्रियन्ते। विवरणम् विवरणम्

एतदुक्तं भवाति-भूतसूक्ष्माणां साधारणो धर्म इति आत्मभूतो न व्यतिरिक्तः । यथा सर्पस्य आभोगकुण्डलनादि ॥

येषां पुनरत्यन्तव्यतिरिक्तमन्यदेव कारणात् कार्यं, तेषां कारणतन्त्रत्वं कार्यस्य न प्राप्नोति । अंशुतन्त्रो हि तन्तुः तन्तुतन्त्रश्व पट: । न चात्यन्तान्यत्वेऽन्यतन्त्रत्वं दृष्टमन्यस्य । यथा मृत्पिण्डतन्त्रता न पटस्य, तन्तूनां वा ॥

किञ्च-तद्विनाशानुविनाशित्वं च न शक्यं, न हि कपालविनाशमनुविनश्यति पट: ॥

अथोच्येत, सम्बन्धः कारणमिति । पटस्य हि तन्तवस्तन्तूनाञ्चांशव इति सम्बन्धस्तत्र हेतुः कारणं तत्तन्त्रत्वतदनुविनाशयोरिति ॥

अत्रोच्यत-चैत्रक्षेत्रादिसम्बन्धेऽपि प्रसङ्गः स्यात् । चैत्रस्यापि क्षेत्रादितन्त्रता तदनुविनाशित्वं च सम्बन्धविशेषात् प्रसज्येत ॥

अथापि स्यात्-समवायलक्षणः सम्बन्धः कारणमिति – न - तस्यापि सम्बन्धत्वाविशेषादहेतुत्वं, यथान्यसम्बन्धः सम्बन्धिनोरन्यतरतन्त्रत्वाद्यहेतुः एवं समवायलक्षणस्यापि सम्बन्धवादन्यतरतन्त्रवादावहेतुत्वम् ॥

अपि च-न द्रव्यव्यतिरेकेण कर्मसामान्यविशेषसमवायाः सन्ति । द्रव्यतन्त्रत्वाद्युपपत्तेरेव । तत्रापि सम्बन्धस्याप्यहेतुत्वमेव ॥

किञ्चान्यत्-सम्बन्धस्य च सम्बन्धिनोरेवान्यतरतन्त्रत्वादिहेतुत्वे समवायस्यापि समवायान्तरं तस्याप्यन्य इत्यनवस्था प्रसज्येत । यथा गुणादीनां समवायलक्षणात् सम्बन्धात् द्रव्यतन्त्रत्वं, तथा समवायस्यापि द्रव्यव्यतिरिक्तत्वे द्रव्यतन्त्रत्वार्थं समवायान्तरं कल्प्येत, तस्याप्यन्यत्तस्याप्यन्यदित्यनवस्था स्यात् ॥

प्रागुत्पत्तेरभावात् कार्यस्य कारणेन सम्बन्धानुपपत्तिः, अविशिष्टं चासत्वं शशविषाणस्य घटस्य च । तत्र घटेनैव कारणस्य सम्बन्धो न शशविषाण्मादिभिरिति हेतुर्वदितव्यः ॥

प्राक् असन्नोत्पद्येत शशविषाणवत् । यस्तु तन्तुभ्योऽन्यः स तन्तुभ्यो नोत्पद्यते, तन्तुभ्योऽन्यत्वात् । यथा तन्तुभ्यो घटः ॥

इतर आह-प्राक् सन्नपि नोत्पद्येत, सत्वात्, विद्यमानघटवदिति । यो यस्मादनन्यः सोऽपि तस्मान्नोत्पद्यते, विद्यमानत्वात्, स्वरूपवदिति ॥

अपर आह-यदि सन्नोत्पद्यत इति सत उत्त्पत्यभाव उच्येत, सिद्धसाध्यता स्यात् । अथाभिव्यक्त्यभावः, तदा दृष्टान्ताभावः ॥

यदप्युच्यते यो यस्मादनन्य इति, तत्रापि सिद्धसाध्यता दृष्टान्ताभावश्च । स्वरूपादेव ह्यभिव्यज्यते, नासत्यभिव्यङ्ग्यस्वरूपेऽभिव्यक्तिरभिव्यञ्जकसहस्रेणापि शक्यते कर्तुम् ॥

किञ्चान्यत्-सर्वव्यवहारलोपश्च । कथं ? यदा देवदत्तस्य गैरश्वो वा प्रातर्विद्यमानकर्णलाङ्गूल: पुनरटवीं गतः केनचिल्लूनकर्णो लूनलाङ्गूले वा स्यात्, तदा पूर्वावयवविभागाद्विनष्टः, अन्यस्तु नवः प्रलूनकर्णलाङ्गूलोऽस्वामिकः सञ्जात इति येन केनचिदुपादीयेत, तथा चावयवविभागः सर्वत्र सम्भवतीति स्वस्वामिसम्बन्धादिनियमाभावादशेषव्यवहारलोपः स्यात् ॥

अथ ब्रूयात्-पूर्वोपार्जितावयवैरेवावयवी नवः प्रलूनकर्णलाङ्गूल आरब्ध इति-नैवम्-न हि मातापित्रादिव्यतिरेकेणेदानीन्तनलूनकर्णलाङ्गूलावयव्यन्तरप्रत्यारम्भिणो दृश्यन्ते ॥

किञ्च-यस्य च क्षेत्रे लूनकर्णलाङ्ग्लो जातस्तस्यैवासौ स्यात्, न पूर्वावयविकस्य, तत्क्षेत्रजाततृणपलाशादिवत् ॥

यथा चान्यक्षेत्रगतानि बीजानि सलिलौघेनान्यक्षेत्रमुपनीतानि चेतक्तद्बीजनिष्पन्नसस्यं क्षेत्रवानेव गृह्णाति, न तु पूर्वबीजवान् (तः) । न चास्यासौ प्रतिबध्नाति विद्वानपि मदीयबीजपरिनिष्पन्नं सस्यमहमुपादीयेति ॥

तथा लूनकर्णलाङ्गूलमपि क्षेत्रवानेव गृह्णीत । न तत्र प्रतिबन्ध(रूप) नीयम्मदीयावयवैरारब्धोऽयमवयवीति ॥

येषामप्येकस्मिन्गृहीते तस्मिन्नश्वे लूनकर्णलाङ्गूलके जाते स्वक्षेत्रे च दृष्टे स एवाश्वदाता अन्योयं (वितिसन्योयं) महत्तमादश्वान्मया दत्तो महत्तम इति हरेत । हरतामिति चेत्सर्वव्यवहारलोपप्रसङ्गः शास्त्रकेोपश्च । तस्माद[नन्योऽ]वयवेभ्यः कारणेभ्य एकोऽवयवी कार्यमिति सिद्धम् ॥

यदप्युच्यत-शब्दप्रत्ययधर्मादिभेदादन्य इति, तदप्ययुक्तम् । दृश्यते हि शब्दादिभेदेऽप्यनन्यत्वम् । यथा हस्तः करः पाणिरिति शब्दभेद एकस्य, पितृत्वं पुत्रत्वं च, प्रत्ययभेद एकस्यैव बद्धः पुनर्मुक्तः स्थितो गतश्चेति कालभेदात् । दाहकत्वं पाचकत्वमित्यादयो धर्मभेदा इति । दिग्देशादिभेदास्त्वसिद्धा एव । तस्मादाह-आत्मभूता इति ॥

स च स्वफलेन व्यक्तेनानुमितः । फलेन उदकाहरणधारणसम्भवनादिना । यस्य हि फलं कार्यं व्यक्तमुपलभ्यते सोऽस्तीति निश्चयः । अनुमित इति विप्रतिपन्नापेक्षया, साधारणशब्देन शक्तिरूपेण वोच्यते । स तु प्रत्यक्ष एव अव्यक्तेन दण्डसूत्रकुलालादिकारकव्यापाराभिव्यक्तेन फलेन कार्येण घटाख्येन प्रागपि मृदाद्यवस्थायामास्तित्वेन अनुमितः स एव दण्डादिकारकैः स्वव्यञ्जकैराभिव्यज्यमानः प्रादुर्भवति धर्मान्तरोदये च तिरोभवति स एष भूतसूक्ष्माणां धर्मोऽवयवीत्युच्यते ॥

एतदुक्तं भवति–अणूनामप्रत्यक्षत्वान्नाविर्भावतिरोभावो युक्तौ । (तत) स्तश्च तो । तस्माद्य आविर्भवति, धर्मान्तरोदये विरोधात्तिरोभवति च, आविर्भवे च यो व्यञ्जकाद्यपेक्षते सोऽवयवीत्युच्यते । यश्चैवन्धर्मः सोऽणुभ्योऽन्य इति ॥

किञ्च-अमी अप्यन्ये हेतवोऽवयविसद्भावे-योऽसावेकश्च महां श्चाणीयांश्च क्रियाधर्मकश्चानित्यश्च । प्रत्येकमेते हेतवः ॥

अपि च-एको घट इति घटशब्दवाच्यस्यैकत्वेन सामानाधिकरण्यात् । अस्ति चेदं सामानाधिकरण्यं योऽसावेक इति । न हि बहूनामणूनामेकत्वेन सामानाधिकरण्यमुपकल्पते ॥

तथा महत्वेन । न चाणूनां अमहतां महत्वेन सामानाधिकरण्यं युज्यते । तथाऽणीयस्त्वेन । न ह्यणूनामण्वन्तरापेक्षया अणीयस्त्वं घटते । सर्व एव हि तेऽणीयांसः । नापि चाणूनामणुत्वं गृह्यतेऽणुभ्यः । अणुत्वे वस्त्वन्तरस्याणीयस्त्वमुपपत्स्यते ॥

किञ्च-क्रियाधर्मकश्च । क्रिया धर्मो यस्य स क्रियाधर्मकः । फलवद्वयापारनिर्वृत्तिकरत्वदित्युक्तं भवति । न ह्यणूनां फलवद्व्यापारनिर्मुक्तिकरत्वं युक्तम् । अशक्यप्रयोज्यत्वादस्मदादिभिः । किञ्च-अनित्यत्वात् । न ह्यणूनामानित्यत्वं गृह्यते ॥

किञ्च-दृश्यत्वात् । न ह्यणवो दृश्यन्ते । तथा स्पृश्यत्वाच्च हानाच्चोपादानाच्च धारणाच्चेत्येवमादयः । तेनावयविना व्यवहाराः क्रियन्ते नाणुभिरिति ॥ यस्य पुनरवस्तुकः स प्रचयविशेषः सूक्ष्मं च कारणमनुपलभ्यमविकल्पस्य तस्यावयव्यभावादतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्तं मिथ्याज्ञानमिति। विवरणम् विवरणम्

यस्य पुनः इत्थं प्रमाणसुप्रसिद्धसत्ताकोऽपि अवस्तु[कः] अवयवी, स प्रचयविशेषः सूक्ष्मं च कारणमनुपलभ्यं अण्वादि, तस्यावयव्यभावादतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव विषयज्ञानं प्राप्तं मिथ्याज्ञानम् ॥

ततः सर्वमेव ज्ञानं शब्दाद्याकारेण सुखाद्याकारेण तद्ज्ञानाकारेण चोपजायते । शब्दादयश्च ज्ञानाकारकरावयवित्वाभिमता नाभ्युपगम्यन्त । सुखादयोऽपि विषयत्वादवयविपक्षा एव । तथा तज्ज्ञानमेव ज्ञानाकारकरत्वात्स्वरूपमपि मिथ्येति प्राप्तं सर्वमेव मिथ्याज्ञानम् ॥

ततश्च प्रत्यक्षानुमानयोरप्याभासत्वमेव तेनाभ्युपेतं तयोरपि शब्दादिविषयत्वात् ।

यदपि सर्वज्ञज्ञानमनित्यदुःखशून्यानात्मकत्वादिविषयं तस्यापि विषयाभावात्तदपि मिथ्याज्ञानं प्राप्तमिति, स्वतन्त्रस्य तीर्थकरस्य चाप्रामाण्यं, तत्र तीर्थकरसहधर्माभावश्चाभ्युपगतो भवति । शब्दादिवत्प्रमाणविषयत्वाविशेषात् ॥ तदा च सम्यग्ज्ञानमपि किं स्याद्विषयाभावात्। यद्यदुपलभ्यते तत्तदवयवित्वेनाऽऽम्नातम्। तस्मादस्त्यवयवी यो महत्त्वादिव्यवहारापन्नः समापत्तेर्निर्वितर्काया विषयी भवति ॥ ४३ ॥ विवरणम् विवरणम्

तदेतत्प्रतिपादयति-सम्यग्ज्ञानमपि किं स्याद्विषयाभावात् । यद्यदुपलभ्यते तत्तदवयवित्वेनाघ्रातमिति, ज्ञानस्य स्वाकारसमर्पकवाविशेषात् । तच्च स्वाकारसमर्पकं किञ्चन नाभ्युपेयत इति सर्वस्यात्मीयस्य ज्ञानस्य तेन मिथ्यात्वमापादितम् ।

तथा च सम्यग्ज्ञानमपि किं स्यात्, यदपेक्षया मिथ्याज्ञानमभिसन्धीयते ॥

यदा चावयविनं सर्वप्रमाणसम्यक्सर्वज्ञानसिद्धमपह्नुते तदा न सम्यग्ज्ञानस्य विषयः सम्पादयितुं पार्यते ॥

यदा च न पारयति, तदा कथमभिसन्दधीत सर्वं मिथ्येति । सम्यग्ज्ञानमपेक्ष्य मिथ्याज्ञानं मिथ्याभावमासीदति आपेक्षिकत्वात्सम्यङ्मिथ्याज्ञानयोः ॥

यश्चापि मन्यते-निर्विषयं ज्ञानं सम्यगिति, तस्यापि स्वरूपाग्रहणात् तदस्तित्वानुपपत्तिः । गृह्यते चेद्विषयत्वादवयविमिथ्यात्वं, तन्मिथ्यात्वाच्च तज्ज्ञानमिथ्यात्वं, तथा तज्ज्ञानमपीति सर्वमिथ्यात्वमुक्तं पूर्वमेव ॥

अपि च-निर्विषयज्ञानसम्यक्त्वे सर्वज्ञानस्य विषयानभ्युपगमान्निर्विषयत्वमिति, सम्यक्त्वमेव प्राप्नुयात् । तथापि तु सर्वज्ञानसम्यक्त्वान्मिथ्याज्ञानं किंस्यादिति वक्तव्यम् ॥

अथापि ब्रूयात्-यत्सविषयमिवाभाति तन्मिथ्याज्ञानं, यदत्यन्तनिर्विषयं तत्सम्यगिति । तथाऽपि तस्यास्तत्वे प्रमाणाभाव इत्युक्त एव दोषः । तस्मादवयवी सम्यग्ज्ञानस्य विषयोऽवश्याभ्युपगन्तव्यः इत्याह-तस्मादस्त्यवयवी यो महत्वाद्व्यवहारापन्नः समापतेर्निर्वितर्कया विषयीभवतीति ॥ ४३ ॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥ तत्र भूतसूक्ष्मकेष्वभिव्यक्तधर्मकेषु देशकालनिमित्तानुभवावच्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते। तत्राप्येकबुद्धिनिर्ग्राह्यमेवोदितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते। विवरणम् विवरणम्

एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता । तत्र भूतसूक्ष्मेष्वभिव्यक्तधर्मकेषु तन्मात्रेष्वेव देशकालनिमित्तानुभवावच्छिन्नेषु देशावच्छिन्नेषु कालावच्छिन्नेषु निमित्तावच्छिन्नेष्वनुभवावच्छिन्नेष्विति प्रत्येयकमवच्छिन्नशब्दः । सर्वं हि वस्तु देशादिभिरवच्छिद्यमानं विषयिणा ज्ञात्रा सम्बध्यमानं व्यवहाराय कल्पते । तेष्वेवम्भूतेष्वेवम्भूतैव देशादिविकल्पाभिसंहितैव या समापत्तिः सा सविचारेत्युच्यते । ततश्च सविचारायाः सवितर्काविशेषत्वं सिद्धम् ॥

कथम् ? इहाप्यध्यासविशेषात् । अयन्तु विशेषः शब्दसङ्केतार्थज्ञानदेशादिसर्वाध्यासाः सवितर्कायाम् ॥

इह पुनस्तन्मात्रसूक्ष्मधर्मेषु शब्दसङ्केतस्याप्रसिद्धत्वाद्विशिष्टनामसङ्केतज्ञानानध्यासः देशाद्यध्यासश्च सूक्ष्मविषयत्वञ्चेति सवितर्काविशेषत्वसिद्धिः ॥

तत्राप्येकबुद्धिनिग्राह्यमेवोदितधर्मविशिष्टं उक्तदेशादिधर्मविशिष्टमुद्भूतधर्मविशिष्टं वा भूतसूक्ष्ममालम्बनीभूतं न तु निर्विषयं ज्ञानमेव समाधिप्रज्ञायामुपतिष्ठते ॥ या पुनः सर्वथा सर्वतः शान्तोदिताव्यपदेश्यधर्मानवच्छिन्नेषु सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारेत्युच्यते। एवं स्वरूपं हि तद्भूतसूक्ष्ममेतेनैव स्वरूपेणाऽऽलम्बनीभूतमेव समाधिप्रज्ञास्वरूपमुपरञ्जयति। विवरणम् विवरणम्

यदा पुनः सर्वथा सर्वप्रकारेण सर्वतः सर्वत्र शान्ताश्चोदिताश्चाब्यपदेश्याश्च ये धर्मास्ते शान्तोदिताव्यपदेश्यधर्माः तैः अनवच्छिन्नेषु । शान्त इति यो व्यापारं कृत्वोपरतो धर्मः । उदित इति यो व्यापारमारूढ़: । अव्यपदेश्य इति न शान्तो नाप्युदितः नाप्युद्भावयद्दृश्यमाननिमित्तः । तद्यथा- सुवर्णस्यादृष्टानेकाश्रुताकारोपजनशक्तयस्ता अव्यपदेश्या धर्माः । तैरनवच्छिन्नेषु भूतसूक्ष्मेषु सर्वधर्मानुपातिषु सर्वन्धर्माननुपतन्ति तानि सूक्ष्माणि सर्वविशेषारम्भकत्वात् । सर्वात्मकेषु सर्वेभ्यो विषयेभ्योऽनन्यत्वात्तन्मात्राणाम् । तत्र या समापत्तिः सा निर्विचारेति । निर्वितर्काया यल्लक्षणं तत्सर्वमिह निविचारायां द्रष्टव्यम् ॥

तद्दर्शयति–एवंस्वरूपं हि तद्भूतसूक्ष्ममनेनैव स्वरूपेण देशकालनिमित्तानुभवादिविशेषविरहितेन सर्वात्मकेन सर्वधर्मानुपातिना आलम्बनीभूतमेव समाधिप्रज्ञामुपरञ्जयति ॥ प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारेत्युच्यते। तत्र महद्वस्तुविषया सवितर्का निर्वितर्का च, सूक्ष्मवस्तुविषया सविचारा निर्विचारा च। एवमुभयोरेतयैव निर्वितर्कया विकल्पहानिर्व्याख्यातेति ॥ ४४ ॥ विवरणम् विवरणम्

प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारा । तस्मन्निर्वितर्काविशेषा निर्विचारा । तत्स्वयमेव दर्शयति-महद्वस्तुविषया । महतः वस्तु महद्वास्त्विति समासः राहुशिर इति यथा । तद्विषयो यस्याः सा महद्वस्तुविषया सवितर्का निर्वितर्का च सूक्ष्मवस्तुविषया सविचारा निर्विचारा चेति ॥

एतयैव सवितर्कनिर्वितर्काख्यया द्वय्या समापत्या सविचारा निर्विचारा च समापत्तिर्द्वयी व्याख्याता । उभयोरिति सवितर्कनिर्वितर्कयोर्मध्ये एतयैव निर्वितर्कया वितर्कहानिर्व्याख्याता निर्विचारा व्याख्यातेति । सविचारा चार्थात्सवितर्कया व्याख्याता लक्षणस्येभयत्र समानत्वात् ॥ उक्तश्च विशेषः ॥ ४४ ॥ सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥ पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः। आप्यस्य रसतन्मात्रम्। तैजसस्य रूपतन्मात्रम्। वायवीयस्य स्पर्शतन्मात्रम्। आकाशस्य शब्दतन्मात्रमिति। तेषामहङ्कारः। अस्यापि लिङ्गमात्रं सूक्ष्मो विषयः। लिङ्गमात्रस्याप्यलिङ्गं सूक्ष्मो विषयः। न चालिङ्गात्परं सूक्ष्ममस्ति। नन्वस्ति पुरुषः सूक्ष्म इति। सत्यम्। यथा लिङ्गात्परमलिङ्गस्य सौक्ष्म्यं न चैवं पुरुषस्य। किन्तु, लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति। अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥ विवरणम् विवरणम्

सविचारा निर्विचारा च समापत्तिः सूक्ष्मविषयेत्युक्तम् । तत्प्रसङ्गेनेदं चिन्त्यते-कि(मसमानं)मवसानं सूक्ष्मविषयत्वमिति ॥ सूक्ष्मविषयत्वञ्चालिङ्गपर्यवसानम् । पार्थिवस्याणोर्गन्धमात्रस्वरूपमात्रतेति पृथिवीसमीक्षया सूक्ष्मो विषयः ॥

गन्धमात्रस्वरूपमात्रस्यापि लिङ्गमात्रं महत्तत्वं सूक्ष्मो विषयः । ततो लिङ्गमात्रान्महते निर्वृत्तानि सहाहङ्कारेण तन्मात्राणि लयं गच्छन्तीति लिङ्गं, लयाद्वा प्रधानाल्लिङ्गात्प्रत्यागच्छन्तीति लिङ्गं, तद्विपरीतमलिङ्गं प्रधानं न लयं गच्छति, नाप्यन्यतः कुतश्चित् लयादागच्छति । लिङ्गमात्रस्यालिङ्गं सूक्ष्मो विषयः ॥

न चालिङ्गात्परं सूक्ष्ममस्ति । सूक्ष्मं नाम स्थूलकार्यापेक्षया कारणं, तच्चालिङ्गावसानम् । न चालिङ्गात् प्रधाना(ल्लिङ्गा)दन्यत्सूक्ष्मं कारणमस्ति ॥

ननु पुरुष इति । ननु तत्र पुरुषस्यानाशङ्कैव, कार्यकारणसूक्ष्मतया प्रक्रमात्-नैष दोषः-पुरुषस्यापि कैश्चित्कारणत्वस्याभ्युपगमात् । तदाशङ्कयैव ह्येतदुच्यते ननु पुरुष इति । सत्यमलिङ्गात्मक[त्व]मलिङ्गस्य सौक्ष्म्यम् । कुतः? यतः कारणमलिङ्गं लिङ्गस्य । यद्यस्यान्वयिकारणं तत्तदपेक्षया सूक्ष्ममिति प्रकृतम् । ननु पुरुषोऽप्यलिङ्गात्मक एव । बाढं, न तु लिङ्गापेक्षया पुरुषः सूक्ष्मः । कुतः ? यतस्तु लिङ्गस्यान्वयिकारणं पुरुषो न भवति सत्यप्यलिङ्गात्मकत्वे । कार्यस्य चैतन्येनानन्वितत्वात् ॥

किञ्च-पुरुषस्यापि भोग्यत्वप्रसङ्गः । तथा च पारार्थ्यं सुखदुःखमोहात्मकत्वं च, निर्हेतुकत्वं च प्रधानस्य (पुरुषस्य) । तच्च सर्वप्रमाण(प्राण) विप्रकुपितमित्यत आह–हेतुस्तु भवतीति । प्रधानप्रवृत्तौ भोक्तृत्वेन निमित्तं भवतीत्यर्थः । अतः प्रधानस्य सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥ ता एव सबीजः समाधिः ॥ ४६ ॥ ताश्चतस्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिरपि सबीजः। तत्र स्थूलेऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मेऽर्थे सविचारो निर्विचार इति चतुर्धोपसङ्ख्यातः समाधिरिति ॥ ४६ ॥ विवरणम् विवरणम्

ता एव सबीजः समाधिः । चतस्रः समापत्तयो बहिर्वस्तुविषया इति बहिर्वस्तुविषयत्वं हेतुः सबीजत्वे । समाधिरपि सबीजः सम्प्रज्ञातो ‘वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः’ इत्युपव्याख्यातः । स्थूलेऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मेऽर्थे सविचारो निर्विचार इति चोपव्याख्यातः वितर्कादिलक्षणसूत्रेण ॥ ४६ ॥ निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥ अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम्। यदा निर्विचारस्य समाधेर्वैशारद्यमिदं जायते तदा योगिनो भवत्यध्यात्मप्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः। तथा चोक्तम् – प्रज्ञाप्रसादमारुह्य अशोच्यः शोचतो जनान्। भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति ॥ ४७ ॥ विवरणम् विवरणम्

निर्विचारवैशारद्येऽध्यात्मप्रसादः । अशुद्ध्यावरणमलापेतस्य अशुद्धिरेवावरणं तदेव मलं क्लेशादिकं तस्मादपेतस्य प्रकाशात्मनो बुद्धिसत्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम् । यदा निर्विचारस्य समाधेर्वैशारद्यमिदं जायते, तदा योगिनो भवत्यध्यात्मप्रसादः आत्मादिज्ञानविवेकः । अस्यैव व्याख्यानं भूतार्थविषयः क्रमानुरोधी परिपाटिकया यावत्क्लेशक्षयमनुरुद्धयत इति क्रमानुरोधी स्फुटं विविक्ततरं शुद्धतरात्मक: प्रज्ञालोकः प्रज्ञैवालोकः तया हि यथावस्तु जानाति ॥

तथा चोक्तम् “प्रज्ञाप्रासादमारुह्य अशोच्यः शोचतो जनान् । भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति ॥ ” इति ॥ ४७ ॥ ऋतम्भरा तत्र प्रज्ञा ॥ ४८ ॥ तस्मिन्समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतम्भरेति सञ्ज्ञा भवति। अन्वर्था च सा, सत्यमेव बिभर्ति न च तत्र विपर्यासज्ञानगन्धोऽप्यस्तीति। तथा चोक्तम् – आगमेनानुमानेन ध्यानाभ्यासरसेन च। त्रिधा प्रकल्पयन्प्रज्ञा लभत योगमुत्तमम् ॥ इति ॥ ४८ ॥ विवरणम् विवरणम्

ऋतम्भरा तत्र प्रज्ञा । तस्मिन् प्रज्ञालोकेऽध्यात्मप्रसादे समाहितस्य या प्रज्ञा जायते विवेकजन्मा, तस्या विवेकजन्मनः ऋतम्भरेति सञ्ज्ञा भवति । अन्वर्थैव सा सत्यमेव बिभर्ति न तत्र विपर्यासज्ञानगन्धोऽप्यस्ति । प्रक्षीणसकलविपर्यासकल्मषस्य हि जायते । जायमाना च विषयकळङ्गमपनुदति ॥

तथा चोक्तम् -

‘आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥ ’ इति ।

योगाङ्गप्रज्ञां त्रिधा विभजते । तत्रैको भागः शास्राचार्योपदिष्टार्थानुसारी । द्वितीयस्तस्यैव युक्त्याऽनुमानेन विचार्यागमार्थविरोधिनिराकरणपूर्वकं तत्सम्यगुपपादनपरः । तृतीयस्तु सदागमानुमानसम्यगुपपक्षार्थीलम्बनस्य प्रत्ययस्यानुशीलनं रसोपयेगी । तदित्थं त्रिधा प्रकल्पयन्योगी योगं लभते ॥ ४८ ॥ सा पुनः – श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥ श्रुतमागमविज्ञानं तत्सामान्यविषयम्। न ह्यागमेन शक्यो विशेषोऽभिधातुं, कस्मात्, न हि विशेषेण कृतसङ्केतः शब्द इति। तथाऽनुमानं सामान्यविषयमेव। यत्र प्राप्तिस्तत्र गतिर्यत्राप्राप्तिस्तत्र न भवति गतिरित्युक्तम्। अनुमानेन च सामान्येनोपसंहारः। तस्माच्छ्रुतानुमानविषयो न विशेषः कश्चिदस्तीति। विवरणम् विवरणम्

सा पुनः ऋतम्भरा प्रज्ञा सामान्यपुरुषप्रत्ययविषयादन्यविषयेत्याह– श्रुतानुमानप्रज्ञाभ्यामन्यविषया । विशेषः विशेषाणामानन्यान्न सङ्केतयितु शक्यते । सामान्येन हि कृतसङ्केतः शब्दः । ततश्चागृहीतविशेषसङ्केतो न विशेषमभिधातुं ज्ञापयितुं वा शन्केति ॥

तथानुमानं सामान्यविषयमेव । तदप्युक्तमेव ‘सामान्यावधारणप्रधाना वृत्तिः’ इति । तथेोदाहरणेन च प्रतिपादितम् *यत्र प्राप्तिस्तत्र गतिः । यत्राप्राप्तिस्तत्र न भवति गतिः’ इति । अनुमानेन सामान्योपसंहारः । सा मान्यमात्रमनुमानेनोपसंह्रियते । तस्माच्छुतानुमानविज्ञानविषयो न विशेषः कश्चिदस्ति ॥ न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणमस्ति। न चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति समाधिप्रज्ञानिर्ग्राह्य एव स विशेषो भवति भूतसृऽक्ष्मगतो वा पुरुषगतो वा। तस्माच्छ्रतानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वादिति ॥ ४९ ॥ विवरणम् विवरणम्

यद्येवं न लोकप्रत्यक्षेणापरेण भूतसूक्ष्मगतः पुरुषगतो वा विशेष: प्रज्ञायेत । नान्यच्च प्रमाणत्रयव्यतिरिक्तं प्रमाणमस्ति, येन तद्विशेषं सञ्जानीमहे इति चेदाइ–न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणम् । न चास्य विशेषस्याप्रमाणिकस्याभावोऽस्तीति । प्रमाणावगम्यमानरूपो हि भावोऽस्ति राजवीथीमधिरोहति । तस्मात् समाधिप्रज्ञानिग्रह्म एव विशेषो भवति भूतसूक्ष्मगतः पुरुषगतो वा ॥

ननु च ते सूक्ष्मगता विशेषाः प्रत्यक्षेणावगम्यन्ते इति किमीश्वराज्ञापितम् ? वस्तुत्वादवगम्यन्त इति चेत्—आगमानुमानाभ्यां सन्तीत्यवगम्यन्त एव । न च नियामक किञ्चिदस्ति प्रत्यक्षेणैव निर्ग्रह्या इति । न हि विशेषा हस्ततलगता अपि सर्वे गृह्यन्ते-न-अन्यवस्तुगतविशेषाणां प्रत्यक्षग्राह्यत्वस्यानुमेयत्वात् ॥

कथम् ? एवं मन्यते-भूतसूक्ष्मादिगता विशेषाः प्रत्यक्षग्राह्याः कस्य चित्, कार्यवस्तुविशेषत्वात्, गृह्यमाणस्वपाणिगताविशेषवदिति । तस्माच्छ्रुतानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा, विशेषार्थत्वादिति । विशेषार्था हि सा ॥ ४९ ॥ समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवो जायते – तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥ समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते। व्युत्थानसंस्काराभिभवात्तत्प्रभवाः प्रत्यया न भवन्ति। प्रत्ययनिरोधे समाधिरुपतिष्ठते। ततः समाधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो जायते। ततश्च प्रज्ञा, ततश्च संस्कारा इति। कथमसौ संस्कारातिशयश्चित्तं साधिकारं न करिष्यतीति। न ते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतुत्वाच्चित्तमधिकारविशिष्टं कुर्वन्ति। चित्तं हि ते स्वकार्यादवसादयन्ति। ख्यातिपर्यवसानं हि चित्तचेष्टितमिति ॥ ५० ॥ विवरणम् विवरणम्

समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो जायते । प्रज्ञा हि संस्काराराम्भणीति सिद्धम् । प्रज्ञाभिनवत्वात्तत्संस्कारः प्रत्यग्रतरो जायते इति विशेषः । प्रज्ञानवत्वं तु तस्या (सामान्य) अन्यविषयत्वात् । तज्जस्संस्कारोऽन्यसंस्कारप्रतिबन्धी ऋतम्भरप्रज्ञाप्रभवसंस्कारो व्युत्थानसंस्काराशयं अन्यं बाधते विशिष्टयथार्थविषयप्रभवत्वात्प्रतिबध्नाति । आमोक्षाच्छेत इति संस्काराशयः ॥

व्युत्थानसंस्काराभिभवात् व्युत्थानसंस्काराशयस्य समाधिप्रज्ञासंस्कारेणाभिभवात् तत्प्रभवाः व्युत्थानसंस्कारप्रभवाः प्रत्यया न भवन्ति । प्रत्ययनिरोधे व्युत्थानप्रत्ययनिरोधे समाधिः सम्प्रज्ञात इव उपतिष्ठते । ततः समधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्कारा इति, एवं नवः संस्काराशयो वर्धते । ततश्च प्रज्ञा ततश्च संस्कारा इति ॥

अत्राह-समाधिप्रज्ञाभवः संस्काराशयश्चित्तस्याधिकारप्रवृत्तिहेतुः, प्रत्ययप्रभवत्वात्, व्युत्थानप्रभवसंस्काराशयवदिति, तथा चित्तसंस्कारत्वाच्चेति । तदेतद्दर्शयति-कथमसौ संस्काराशयः चित्तं साधिकारं संस्कारोपेतं न करिष्यतीति ? ॥

नैष दोषः-तद्विरोधित्वात् । कथं ? ते संस्काराः क्लेशक्षयहेतुत्वाच्चित्तमधिकारविशिष्टं न कुर्वन्ति । व्युत्थानप्रत्ययप्रभवानां हि संस्काराणामविद्यादिक्लेशहेतुत्वचित्तसंस्काराभिमुखभावकारणता । तद्विरोधिप्रत्ययप्रभवत्वात्तु न समाधिजप्रत्ययजन्मनां संस्काराणामधिकाराभिमुख्यनिमित्तता ॥

किञ्च-चित्तञ्च ते स्वकार्यात् संस्काराभिमुखवृत्तिभ्येऽवसादयन्ति विरमयन्ति । ख्यातिपयर्वसानं हि चित्तविचेष्टितम् । पुरुषख्यातिश्च जाता संस्कारश्व भवतीति विरुद्धम् ॥

यो हि विगततृष्णासमुदायो, नासौ पानीयं पिपासति । एतावदेव चित्तेन पुरुषस्य करणीयम् । न हि कश्वित् कृतं करणीयं चिकीर्षति ॥ ५० ॥ किं चास्य भवति – तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ ५१ ॥ स न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृतानामपि संस्काराणां प्रतिबन्धी भवति। कस्मात्, निरोधजः संस्कारः समाधिजान्संस्कारान्बाधत इति। विवरणम् विवरणम्

किञ्च—तस्यापि निरोधे सर्वनिरोधान्निर्बीजस्समाधिरिति । इतिशब्दः परिसमाप्त्यर्थः । तस्यापि समाधिप्रज्ञाप्रभवस्य संस्कारस्याभिनवस्य निरोधे अपिशब्दात्संस्कारकारणस्य समाधिप्रज्ञाया अपि निरोधे, सर्वनिरोधो भवति । उक्तमेवोपायद्वयं परवैराग्यविरामप्रत्ययाभ्यासाख्यं तन्निरोधस्य ॥

किं पुनस्तत्सर्वं ? यन्निरोत्स्यते । व्युत्थानसमाधिप्रज्ञातत्संस्काराः । तस्मात् सर्वनिरोधान्निर्बीजः समाधिः ॥

स न केवलं ऋतम्भरप्रज्ञाजनितसंस्कारः समाधिप्रज्ञानिरोधी, यथैव तां समाधिप्रज्ञामृतम्भरां निरुणद्धि, तथैवात्मना सहात्मसजातीयानां स्वकारणप्रज्ञाकृतानां संस्काराणामपि प्रतिबन्धी निरोधाद्भवति ॥

कस्मात् ? निरोधजः संस्कारः यस्मात्समाधिप्रज्ञायास्तज्जन्मनश्च संस्कारस्य निरोधे, निरोधकः समाधिप्रज्ञाजानितसंस्कारादन्यो जायते, स चापि यतः समाधिप्रज्ञां तज्जनितसंस्कारांश्चातिरस्कृत्य न जन्म प्रतिपद्यते, तस्मात्स निरोधजः संस्कारः समाधिजान्संस्कारान्बाधत इति ॥ निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्तित्वमनुमेयम्। व्युत्थाननिरोध-समाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैश्चित्तं स्वस्यां प्रकृताववस्थितायां प्रविलीयते। तस्मात्ते संस्काराश्चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति। विवरणम् विवरणम्

कथं पुनरसौ निरोधजः संस्कारोऽस्तीति गम्यते ? विद्यमानेऽपि स बाधको भवतीति ? आह-निरोधस्थितिकालक्रमानुभवेनेति । निरोधस्य स्थितिस्तस्याः कालः स च कालः क्रमेणानुभूयते, यतः प्रत्यभ्यासमभिवर्धते, तस्मात्तेन निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतं निरोधावस्थचित्तकृतं संस्कारास्तित्वमनुमेयम् ॥

व्युत्थाननिरोधसमाधिप्रभवैः व्युत्थानसमाधिप्रभवैः निरोधसमाधिप्रभवैश्च सह कैवल्यभागीयैः संस्करैश्चित्तं अवसिताधिकारत्वात् स्वस्यां प्रकृतौ स्वकारणेऽस्मितायामहङ्कारे प्रविलीयते प्रत्यस्तमेति । तस्मात्ते ख्यातिनिरोधजन्मानः संस्कारा यस्मात् चित्तस्याधिकाराविरोधिनः न स्थितिहेतवो भवन्तीति ॥ यस्मादवसिताधिकारं सह कैवल्यभागीयैः संस्कारैश्चित्तं निवर्तते, तस्मिन्निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठोऽतः शुद्धः केवलो मुक्त इत्युच्यत इति ॥ ५१ ॥ विवरणम् विवरणम्

यस्मादवसिताधिकारं सह केवल्यभागीयैः संस्करैश्चित्तं यं पुरुषं प्रति चरितप्रयोजनं तस्मात् निवर्तते । तस्मिन्विनिवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठः केवलो मुक्त इत्युच्यते, चित्तवृत्तिनिवृत्तिरेव मुक्तिः इति ॥ ५१ ॥ साधनपादः उद्दिष्टः समाहितचित्तस्य योगः। कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादित्येतदारभ्यते – तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १ ॥ नातपस्विनो योगः सिध्यति। अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर्नान्तरेण तपः सम्भेदमापद्यत इति तपस उपादानम्। तच्च चित्तप्रसादनमबाधमानमनेनाऽऽसेव्यमिति मन्यते। स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा। ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं तत्फलसन्न्यासो वा ॥ १ ॥ विवरणम् विवरणम्

अथेदानीं द्वितीयः साधनपाद आरभ्यते । कैवल्यस्य साधनं सम्यग्दर्शनम् । योगसाधनानि च योगद्वारेण सम्यग्दर्शनसाधनान्येव । तानि च प्राधान्येनास्मिन्पादे प्रतिपाद्यन्त इति साधनपाद इत्युच्यते ॥

तथा, योगसाधनानुष्ठानप्रवृत्तस्यानुषङ्गिकविभूतेः प्राधान्येन प्रतिपादनाद्विभूतिपाद इत्युच्यते तृतीयः ॥

तथा, सकलयोगैश्वर्यविभूतिभ्यो विरक्तस्य सर्वोपसंहारद्वारेण कैवल्यस्य प्राधान्येन प्रदर्शनात् कैवल्पाद इत्युच्यते चतुर्थः ॥

तथा, समाधिः प्राधान्येनादावुपाख्यात इति प्रथमः समाधिपाद इत्युच्यते ॥

तदेतदाह-उद्दिष्टः समाहितचित्तस्य योग इति-कर्मण्यचित्तस्येत्यर्थः । मैत्रीकरुणादिभावनाद्युपा(ख्या)यलब्धस्थितिपदस्य योगिनः परवैराग्यविरामप्रत्ययसाधनो निर्बीजः समाधिरुद्दिष्टः । कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादिति । विक्षिप्तचित्तोऽपि कथं नाम समाधियोग्यो भवेदित्यत इदमारभ्यते ।

तप आदिसाधनमनुक्रम्यते-तपस्स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ।

ननु च तपस्स्वाध्यायेश्वरप्रणिधानानि नियमेषु वदिष्यमाणानि किमर्थमिहोच्यन्ते ॥

ननु चैतदेव प्रयोजनं–यदुक्तं व्युत्थितचित्तोऽपि योगयुक्तः स्यादिति ॥

नै तदस्ति-यत्र नियमाः पठ्यन्ते तत्रैवेदं प्रयोजनं सिध्यति ।

अथ क्लेशतनूकरणार्थमिति चेन्न-तस्यापि तत्रैवाभिधानात् । यथा “ योगाङ्गानुष्ठानादशुद्धिक्षये” इति । अशुद्धिश्च क्लेशादि: । समाधिभावनार्थञ्च योगाङ्गानुष्ठानमाम्नायिष्यत एव । यथा “ समाधिसिद्धिरीश्वरप्रणिधानात्” इति । तस्मादिह तप आदिसमाम्नानमनर्थकम् ॥

न-योगाङ्गानुष्ठानस्य सम्यग्दर्शनोपायस्य सम्यग्दर्शनपूर्वत्वप्रतिपादनार्थत्वात् । सर्वाणि च योगाङ्गानि सम्यग्दर्शनोपायत्वात्सम्यग्दर्शनप्राक्कालानि । तेषां च नियमैकदेश इह पठित: सर्वोपायप्राक्कालत्वे निदर्शनाय । यद्यप्युपायत्वादेव प्राकालत्वमर्थात्सिद्धम् , तथाऽपि स्पष्टत्वमेवं सति स्यादिति ॥

ननु चैवमपि प्राक् सम्यग्दर्शनादनन्तरं पठितव्यम्-उच्यते-न-सम्यग्दर्शनस्यैव साक्षात्क्लेशदिप्रतिपक्षत्वात् । अविद्या हि समस्तानर्थमूलम् । सा च साक्षात्प्रत्यनीकभूतसम्यग्दर्शनेन निवर्त्यते । तप आदेस्तदनन्तरं पाठे सत्यविद्यासम्यग्दर्शनयोर्व्यवधानं भवेत् । ततोऽभिशङ्केत-किं अविद्यायास्तपआदिः साक्षात्प्रतिपक्षः ? किं वा सम्यग्दर्शनमेवेति ॥

किञ्च—विषयश्च प्रथमं दर्शनीयः सम्यग्दर्शनशास्रस्य । स च क्लेशकर्मविपाकाशयाभिभूतः पुरुषः । यथा रोगार्तः चिकित्साशाखस्य विषयः । तपआदेस्तदनन्तरं समाम्नाने विषयविषयिणौ व्यवधीयेयातां, ततश्चायं विषयोऽयञ्च विषयीति न विविच्येत ॥

पादादौ च पाठे सम्यग्दर्शनोपायत्वं च प्रतिपादितं भवति, प्रथमपादसम्बन्धश्च व्याख्यातः स्यात्-समाहितचित्तस्य योग उद्दिष्टः, व्युत्थितचित्तोऽपि तपआदिसाधनः कथं योगयुक्तः स्यादिति ॥

किञ्च-समाधिभावनक्लेशतनूकरणार्थत्वञ्च तपआदीनां दर्शयितव्यम् ॥

ननु परस्तादेवैतद्वक्ष्यति- “समाधिसिद्धिरीश्चरप्रणिधानात् " “कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः” इत्येवम् । प्रत्येकसाधनानां सिद्धिं च वक्ष्यति ॥

नैतदस्ति-सिद्धानामिह तत्र साधनस्तुत्यर्थमनुवादात् । अत्र हि तादर्थ्यमुच्यते । तथा चाह- “समाधिभावनार्थः क्लेशतनूकरणार्थश्च” इति । तत्र ह्यनूद्यन्ते साधनस्तुतये । सम्प्रति सूत्राक्षराणि व्याख्यायन्ते-तपश्च स्वाध्यायश्चेश्वरप्रणिधानञ्च तपस्स्वाध्यायेश्वरप्रणिधानानि । तान्यव क्रियारूपो योग: क्रियायोगः । तपआदिक्रिया च योगार्थवाद्योग इत्युच्यते । चितत्धर्मो हि समाधिर्योगः । तदर्थश्चायं क्रियायोगः । तस्मादनेन क्रियायोगेन योगीति ॥

तप इति कृच्छ्रचान्द्रायणादि, शीतोष्णादिद्वन्द्वसहत्वम् । स्वाध्यायः-प्रणवस्य मोक्षशास्त्राणां चोपनिषत्प्रभृतीनां पवित्राणां जपः । ईश्वरप्रणिधानं-क्रियाणां परमगुरावीश्वरे समर्पणम् । तासां वा फलसन्यास: परमेश्वरे सन्न्यसनम् ॥

कथं पुनश्चित्तसमाधानं प्रति विप्रकृष्टस्य कायक्लेशदिरूपस्य तपसो योगत्वम् ? स्वाध्यायेश्वरप्रणिधानयोस्तु युक्तमन्तरङ्गत्वाद्योगत्वमिति, तदर्थमाह - नातपस्विनो योगः सिध्यतीति ॥

शरीरादिपोषणाभिरतचित्तस्य कायेन्द्रियमनःखेदपरिहारपरायणस्यात्यन्तशरीराद्यात्मत्वदर्शिनः सुकुमारतरम्मन्यस्य न योगः सिध्यतीति तपस उपादानम् ॥

किञ्च-अनादिवासनाचित्रा-विषयग्रहणवासनाभिरनदिकालभिरुपरचितविचित्रभावा । तथा प्रत्युपस्थितविषयजाला-वर्तमानकाला विषया एव जाले, तेन च वर्तमानविषयाख्येन जालेन आनायेन झषानिव चित अशुद्धिः पाशयति या सा प्रत्युपस्थितविषयजाला सती यस्मात् नान्तरेण तपः तपसा विना सम्भेदं विनाशम् आपद्यते, असम्भिन्नाशुद्धेश्चित्तस्य कुतः समाधिः इति तत्सम्भेदनाय च तपस उपादानम् । तच्च तपः चित्तप्रसादनं समाध्यन्तरङ्गं अबाधमानमनेनासेव्यमिति योगा मन्यन्ते । चित्तप्रसादार्थत्वात्तपसस्तमेव चेद्वाधेत तादर्थ्यमेव हीयेत ॥ १ ॥ स हि क्रियायोगः – समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २ ॥ स ह्यासेव्यमानः समाधिं भावयति क्लेशांश्च प्रतनू करोति। प्रतनूकृतान्क्लेशान्प्रसङ्ख्यानाग्निना दग्धबीजकल्पानप्रसवधर्मिणः करिष्यतीति। तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति ॥ २ ॥ विवरणम् विवरणम्

स हि क्रियायोगः किमर्थ इति तस्य पारार्थ्यप्रतिपादनार्थमाह-समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥

कथं पुनरुभयाथैत्वमित्याह-स हि आसेव्यमानः समाधिं भावयति । इतरयोगाङ्गसहितः समाधिं भावयति क्लेशांश्च तनूकरोति । वक्ष्यति च “योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्याते:” इति । तदेतदाह-तनूकृतान्क्लेशान्प्रसङ्ख्यानेन क्लेशतनूकरणात् सञ्जातसम्यग्दर्शनशीलनेन, दग्धबीजकल्पान् बीजानीव दग्धप्रसवशक्तीन् , अत एव अप्रसवधर्मिणः अविद्यमानः प्रसवो येषां ते अप्रसवाः, अप्रसवाश्च ते धर्मिणश्चेत्यप्रसवधर्मिणः, (सर्वबीजादिषु वा द्रष्टव्यम्) तानप्रसवधर्मिणः करिष्यति प्रसवशक्तिरहितान् करिष्यति ॥

तेषां तनूकरणानुजन्मा पुनः क्लेशैरपरामृष्टा सत्वपुरुषान्यतामात्रख्यातिः समासाधिकारा प्रज्ञा प्रतिप्रसवाय [कल्पिष्यते] संसाराभिमुखतायै पुनर्न कल्पिष्यत ॥

यद्यपि शास्त्राचार्योपदेशेन योगाङ्गानुष्ठानादृतेऽपि सत्वपुरुषान्यतामात्रख्यातिरुपजायते, तथाऽपि न क्लेशाधर्मादीनतीवातिरस्कृत्य सा जायेतेति पुनः पुनः क्लेशादिभिः परामृश्यत इत्येतद्दर्शयति पुनः क्लेशैरपरामृष्टेत्यनेन ॥ २ ॥ अथ के क्लेशाः कियन्तो वेति – अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ ३ ॥ क्लेशा इति पञ्च विपर्यया इत्यर्थः। ते स्पन्दमाना गुणाधिकारं द्रढयन्ति, परिणाममवस्थापयन्ति, कार्यकारणस्रोत उन्नमयन्ति, परस्परानुग्रहतन्त्री भूत्वा कर्मविपाकं चाभिनिर्हरन्तीति ॥ ३ ॥ विवरणम् विवरणम्

के ते क्लेशाः स्वरूपेण, कियन्तो वा सङ्ख्यया इति सङ्ख्यास्वरूपप्रतिपादनार्थं सूत्रं प्रणीयते-अविद्यास्मितारागद्वेषा भिनिवेशाः क्लेशाः एषामेकैकस्य लक्षणं सूत्रैरेव व्याख्यायिष्यत इति [न] व्याख्येयत्वे यत्नः क्रियते, व्याख्येयं वेतावदेव ॥

यथा प्रमाणविपर्ययविकल्पादयः परस्परभिन्नाः, न तथा क्लेशाना विपर्ययाद्वेदः । किन्तर्हि? विपर्यंयस्यैवैते भेदा इति । कस्मातू? विपर्ययभावभावित्वादित्येतदाह-पञ्च विपर्यंया इत्यर्थः ॥

ननु च यथा वृत्तिभेदव्याख्याने प्रमाणवृत्ते: “ प्रत्यक्षानुमानागमाः प्रमाणानि” इति त्रिधा भेदस्तत्रैव व्याख्यातः, तथा कस्मात्तत्रैवास्य विपर्ययस्यापि भेदः पञ्चधा नोपव्याख्यातः ? चित्तवृत्तिरेव च विपर्यय इत्युक्तम् । तथा चोदाहतं, “सद्विषयेणैकचन्द्रदर्शनेन द्विचन्द्रदर्शनं बाध्यते” इति ॥

नैष दोषः–क्लेशानामवृत्तित्वात् । न हि क्लेशाः प्रत्ययमात्राः, प्रत्ययमात्रा हि वृत्तयः । क्लेशास्तु चित्तस्य मलं, यथा चक्षुषस्तिमिरम् । क्लेशमलवियोगे चित्तस्य विपर्ययप्रत्ययाभावात् ॥

यदि हि प्रत्यय एव विपर्ययः, तदा यथा क्लेशनिरोधेऽपि योगिनः स्मृतिप्रमाणप्रत्ययो भवन्ति, तथा विपर्ययोऽपि भवेत् । न तु विपर्ययः क्षीणक्लेशानाम् । तस्माच्चाक्षुष इव अयथार्थग्रहणनिमित्तं प्रत्ययस्य मलं विपर्यय इत्युच्यते ॥

तत्पुनः प्रत्ययव्यतिरेकेण प्रतिपत्तुमाख्यातुं चाशक्यमित प्रत्ययेनैवाख्यायते ‘विपर्ययो वृत्तिः’ इति । तथा च वृत्तयः क्लिष्टाक्लिष्टश्चेति क्लेशेन विशेषिताः । न च वृत्तिभिरेव वृत्तीनां विशेषणं युक्तम् । तथा ‘क्लेशहेतुका’ इति च व्याख्यातम् । न च वृत्तय एव वृत्तिहेतुका इति युक्तम् ॥

तस्माच्चावृत्तित्वाद्वृतिभेदत्वेन न तत्र क्लेशा व्याख्याताः । तथा चोक्तम्-‘‘चित्तमलप्रसङ्गेनभिधायिष्यन्ते’’ इति क्लेशानां न वृत्तित्वं, मलत्वमेवेत्यभिप्रायेण । अभेदोपचारेण तु प्रत्ययेन सामानाधिकरण्यं, यथा धूमो मलैरग्निं गर्भादशान्तवृत्तास्तथा ज्ञानमेतेनेति, (?) तथैवात्रापि ॥

प्रत्ययविपरीतत्वमाह-ते स्पन्दमाना इत्यादिना । स्पन्दमानाः प्रत्ययद्वारेणोद्भासमानाः, न हि स्वतस्तेषाञ्चलनमस्ति, वस्त्रादिरागवत् । गुणाधिकारं दृढयन्ति गुणानामधिकारं प्रवृत्तिं (सं)कर्तव्यत्वं स्थिरीकुर्वान्ति । न हि तेषु परिस्पन्दमानेषु कर्तव्यताशून्यं चित्तं भवति ॥

परीणाममवस्थापयान्ति पुनः पुनः परिणमयन्तीति यावत् । कार्यकरणस्रोत उन्नमयन्ति शरीरस्य करणादीनां चक्षुरादीनां प्रवृत्तिस्रोत उच्छ्रा(व)ययन्ति । कथमित्याह-परस्परानुग्रहतन्त्रीभूत्वा अविद्यादय इतरेतरनिमित्तनैमित्तिकभावेनेति ॥

किञ्च – कर्मविपाकांश्चाभिनिर्वर्तयन्ति । कर्म त्रिविधं, तद्विपाकांश्च जात्यायुर्भोगानिति ॥ ३ ॥ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४ ॥ अत्राविद्या क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां चतुर्विधविकल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम्। तत्र का प्रसुप्तिः। चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः। तस्य प्रबोध आलम्बने सम्मुखीभावः। प्रसङ्ख्यानवतो दग्धक्लेशबीजस्य सम्मुखीभूतेऽप्यालम्बने नासौ पुनरस्ति, दग्धबीजस्य कुतः प्ररोह इति। अतः क्षीणक्लेशः कुशलश्चरमदेह इत्युच्यते। तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति। सतां क्लेशानां तदा बीजसामर्थ्यं दग्धमिति विषयस्य सम्मुखीभावेऽपि सति न भवत्येषां प्रबोध इत्युक्ता प्रसुप्तिर्दग्धबीजानामप्ररोहश्च। विवरणम् विवरणम्

अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् । कथमस्मितादयो विपर्यया इति, तत्प्रदर्श्यते सूत्रेणैव । अविद्या क्षेत्रं प्रसवभूमिः आत्मलाभक्षेत्रं यथा पृथिवी तृणलतागुल्मवीरुधां स्वात्मनोऽनतिरिक्तानां, एवमविद्यातो विपर्ययादव्यतिरिक्तानां अस्मितादीनां चतुर्णमेकैकशः प्रसुप्ततनुविच्छिन्नोदारतया चतुर्विकल्पानां प्रसवभूमिरविद्या ॥

विपर्ययप्रत्यया हि तामाश्रित्यात्मानं प्रतिलभन्ते । तस्मादविद्यैवास्मितादिचतुष्टयरूपेण विपरिणमते ॥

तत्र का प्रसुप्तिरिति । अस्मितादीनां प्रसुतिर्नाम धर्मे उच्यते, नाविद्यायाः । कारणत्वात् । सर्वास्मितादिविकल्पेष्वनुगमात्सर्वदा प्रबुद्धैव सा, न प्रसुप्ता । प्रस्वपने व्यवहाराभावात् । अस्मितादीनामन्यतमस्य प्रसुप्तावन्यतमस्यावस्थानमवश्यमेव । अन्यथा क्लेशान्तरस्योद्भव एव न स्यात् । तस्मादस्मितादीनामेव चतुर्णां प्रसुप्तादिचतुर्विकल्पत्वम् ॥

चेतसि शक्तिमात्रप्रतिष्ठानमित्यस्य व्याख्यानं करोति-बीजभावोपगम इति । यथा बीजं सदेवानङ्कुरीभवदपि भूमिगतं तिष्ठति, तथा चेतस्यस्मितादयः शक्तिरूपेणानभिव्यक्तस्वरूपाङ्कुरा व्यवतिष्ठन्ते ॥

तस्य प्रबोध इति-तस्य क्लेशस्यास्मितादेः प्रबोध उद्भवः आलम्बने विषये सम्मुखीभावः स्वव्यञ्जकाञ्जनस्य ॥

तत्रैतत् स्यात्, सर्वदैव क्लेशस्य बीजभावोपगमः प्रबोधश्च नियमेन स्यादिति । तत आह-प्रसङ्ख्यानवतः सम्यग्दर्शनाभ्यासवतः अदग्धक्लेशबीजस्य योगिनः सम्मुखीभूतेऽप्यालम्बने नासौ बीजभावोपगमः । दग्धस्य दग्धत्वादेव कुतः पुनः प्रबोधः उद्भवः । विद्यमानस्य हि बीजस्य क्षितिजलादिसंयोगनिमित्तप्राप्तावङ्कुरीभावो न दग्धबीजशक्तेः, तथा क्लेशस्यापि ॥

यद्येवम् , एषा पञ्चमी कस्मादवस्था नोक्ता दग्धप्रसुप्ततनुविच्छिन्नो दाराणामिति-न-असाधारणत्वात् । न हि सर्वदेहिनां साधारणी पञ्चमी क्लेशावस्था । योगिन एव हि सा, ततो नाम्नायते ॥

कथं वा असाधारणीति? तत आह-तत्रैव सा सम्यग्दर्शनाभ्यासवत्येव दग्धा नान्यत्र । क्षीणक्लेशः कुशलश्चरमदेह इति सम्यग्दर्शन उच्यते योगी । तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशावस्था । सतां क्लेशानां तदानीं दग्धं बीजसामर्थ्यम् । यथा विद्यमानानां यवादिबीजानां भर्जितानां बीजसामर्थ्यं दग्धम् । विषयस्य सम्मुखीभावेऽपि न भवत्येषां प्रबोधः, सम्यग्दर्शिनः संस्कारशेषावस्थत्वादिषोरिव लक्ष्यविमुक्तस्य ॥ तनुत्वमुच्यते – प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति। तथा विच्छिद्य विच्छिद्य तेन तेनाऽऽत्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः। कथं, रागकाले क्रोधस्यादर्शनात्। न हि रागकाले क्रोधः समुदाचरति। रागश्च क्वचिदृश्यमानो न विषयान्तरे नास्ति। नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्तः किन्तु तत्र रागो लब्धवृत्तिरन्यत्र तु भविष्यद्वृत्तिरिति। स हि तदा प्रसुप्ततनुविच्छिन्नो भवति। विवरणम् विवरणम्

उक्ता प्रसुप्तिः । किञ्च दग्धबीजानां च क्लेशानामप्रबोधो योगिन उक्त इति । तनुत्वं इदानीं उच्यते-प्रतिपक्षभावनोपहताः प्रतिपक्षस्य शरीराद्यवद्यदर्शनादेः भावनयोपहताः अबलीकृता मन्दप्रभावाः क्लेशास्तनव उच्यन्ते ॥

तथा विच्छिद्य विच्छिद्यार्थान्तरोपजनकालान्तरालेषु स्वात्मानमप्रदर्शयन्तः तेन तेनात्मना येन रूपेण पूर्वमुपलब्धास्तेनैवात्मना समुदाचरन्ति पुनरुद्भवन्तीति विच्छिन्नाः ॥

यदि वा विच्छिद्य विच्छिद्य विच्छेदकाले ते व्यक्तेनात्मना स्वरूपेण पूर्वोत्तरकालवत् न समुदाचरन्ति ॥

तत्रोदाहरणमू-कथं ? रागकाले क्रोधस्यादर्शनात् । न हि रागकाले क्रोधः समुदाचरति । कुत: रूपातिशयानां वृत्यतिशयानां च विरोधात् । स हि रागोदयात्तिरोभूतोऽन्येनाव्यक्तेनात्मना वर्तत इति विच्छिन्नः ॥

तथा रागश्च क्वचिद्दृश्यमानो न विषयान्तरे नास्ति । कुतः? विषयविरोधादत्र । पूर्वत्र रागेण विरोधादसमुदाचरणं क्रोधस्य । अत्र तु विषयाणामन्योन्यविरोधात् । न हि विषय एकस्मिन्नुपजनयति रागं विषयान्तरमपि तस्यैव रागस्योत्पादकम् ॥

तद्यथा-नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु विरक्तः । किन्तु तत्र रागो लब्धवृत्तिः यस्यां रक्तः । अन्यत्र भविष्यद्वृत्तिः अन्यासु स्त्रीषु स हि भविष्यद्रागव्यक्तिविशेषः तदा प्रसुप्तस्तनुर्वेति ॥

ननु च ‘रागश्च कचित् दृश्यमान’ इत्यादि भाष्यं किमर्थं? ननु रागस्वभावाख्यानं, इत्थं विषयभेदाल्लब्धभविष्यद्वृत्तिस्वभावो राग इति-सत्यम् तथाऽपि प्रक्रान्तानुपयोगः । प्रक्रान्त हि विच्छेदव्याख्यानं । न चैतद्विच्छेदव्याख्यानम् । नापि वक्ष्यमाणोदारव्याख्यानेन सम्बन्धः । तस्य निराकाङ्कत्वात् ॥

एवं तर्हि पूर्वशेष एवायम् । कथम् ? एवं मन्यते, प्रसुप्ततनूदारत्वव्यतिरेकेण विच्छित्तिर्नाम धर्म एव नास्ति । कथम् ? यावन्न लब्धवृत्तिस्तावत्प्रसुप्त इत्युक्तम् । प्रतिपक्षभावनोपहतो मन्दप्रवृत्तिस्तनुरित्युच्यते ॥

यश्चापि लब्धवृत्तिः स उदार इत्याख्यायते । विच्छिन्नो नाम स भवति, यः क्वचिदुपलब्धः पुनरुपलभ्यते । यथा सरस्वतीस्रोतः । न हि रागोदये क्रोधः क्वचिदपि दृश्यते । तस्मान्न विच्छित्तिर्नाम धर्मोऽस्ति । अदर्शनात् ॥

अत्रोच्यते-यद्यदर्शनाद्विच्छेदो नास्ति, तदा रागस्य क्वचिद्दृश्यमानस्यान्यत्रादर्शनादभावोऽस्तु । नन्वस्त्वेवाभावः, अन्यत्रादर्शनात् । न हि । कस्मात् ? क्वचित् दृश्यमानस्वादेव । न हि विषयान्तराभिमुखो न भवतीति धर्मिण्यपि चेतसि नास्ति । न हि चक्षुः कदाचिद्गजाभिमुखं न भवतीति घटाभिमुखप्रवृत्तं सन्नास्ति । घटाभिमुखदर्शनादेव । तदेतदाह-कचित् दृश्यमानो न विषयान्तरे नास्तीत्यादि ॥

तथा क्रोधोऽपि रागेणोद्भूतेनाभिभूतत्वाद्विच्छिन्नदर्शनो भविष्यति, सरस्वतीस्रोतोवदेव । स हि रागो विषयान्तरे प्रसुप्तः तनुर्वा । तदाभिमुख्येनादृश्यमानविशेषत्वात् ॥

कः पुनः प्रसुप्तिविच्छेदयोर्विशेषः ? यावतोभयत्रादर्शनमविशिष्टम् । उच्यते-प्रवृत्तदर्शनप्रबन्धस्यान्तराविरोधिनाऽनुबद्धत्वाददर्शनं विच्छित्तिरदग्धस्य ॥

प्रसुप्तिः पुनर्निमित्तेषु सत्स्वप्यदग्धबीजस्यैवासत्यपि विरोधिनाऽभिभवे न्यग्भूततया बीजरूपेणावस्थानम् ॥

ननु चैवं सति “स(न)हि तदा प्रसुप्तस्तनुर्वे”ति विरुद्धं, प्रवृत्तेरदर्शनप्रबन्धो हि विषयान्तरेण दृश्यते-न-विषयान्तराभिमुख्यस्य विवक्षितत्वात् । विषयान्तराभिमुख्यं नाम यो रागस्य धर्मः स हि तदा प्रसुप्तः तनुर्वा । न रागः सर्वेदा आमनैव प्रसुप्तस्तनुर्वा । क्वचित् दृश्यमानत्वादेव । क्रोधः प्रसुप्तस्तनुर्वा आत्मनैव रागकाले सर्वविषयेषु न दृश्यते ॥

अथवा विछिन्नोदाहरणान्तरप्रतिपादनार्थमेव ‘रागश्च क्वचि’दित्यादि भाष्यम् । कथं ? द्विप्रकारो विच्छेदः प्रदर्शयिष्य(ति)ते । एकस्तावत्प्रवृत्तदर्शनप्रबन्धस्य विरोधिनाऽभिभवात्सर्वत्रादर्शनम् । यथा दर्शितं ‘रागकाले क्रोधस्यादर्शना’दिति ॥

तथाऽयमन्यो विषयविशेषे दृश्यमानस्यैव विषयान्तरे प्रातिनिमित्तस्यादर्शनम् । यथा चैत्रस्य एकस्यां स्त्रियां रक्तस्य अन्यासु सतीष्वपि रागस्यादर्शनं तत्र लब्धवृत्तिरिति क्वचिद्विषये दृश्यमानस्यैव यत्र भविष्यद्वृत्तिविषये यददर्शनं, स चापि विच्छेद इति ॥

कस्मात्पुनरन्यत्र न दृश्यत इत्याह-स हि तदा प्रसुप्तस्तनुर्वा । न हि प्रसुप्तिस्तानवं वा विवक्ष्यते । यथा तथा वा भवतु । तत्रादर्शनं विच्छेदत्वेन विवक्षितम् ॥ विषये यो लब्धवृत्तिः स उदारः। सर्व एवैते क्लेशविषयत्वं नातिक्रामन्ति। कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारो वा क्लेश इति, उच्यते – सत्यमेवैतत्, किन्तु विशिष्टानामेवैतेषां विच्छिन्नादित्वम्। यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति। सर्व एवामी क्लेशा अविद्याभेदाः। कस्मात्, सर्वेष्वविद्यैवाभिप्लवते। यदविद्यया वस्त्वाकार्यते तदेवानुशेरते क्लेशा विपर्यासप्रत्ययकाल उपलभ्यन्ते क्षीयमाणां चाविद्यामनु क्षीयन्त इति ॥ ४ ॥ विवरणम् विवरणम्

विषये यो लब्धवृत्तिः स उदारः । ननु च प्रसुप्ततनुविच्छिन्नानां कार्यासमर्थानां न क्लेशता । न हि प्रसुप्तस्तनुविच्छिन्ने वा प्रसुप्तिविच्छित्तितन्नियमावस्थायां कार्यं कर्तुं क्षमते । न ह्यजातश्शत्रुरुपघातायालम् । विच्छिन्ने वा प्रदेशे स्रोतसि स्नातुं शक्यम् । तस्मादविद्या क्षेत्रमुत्तरेषामित्येतावदेवास्तु । किन्तैरकार्यक्षमैः प्रसुप्ततनुविच्छिनैरुपदिष्टै: । एतदाशङ्क्याह-सर्वे चैते क्लेशविषयत्वन्नातिक्रामन्तीति । न हि शत्रुः प्रसुप्तो जनिष्यमाणो वा नापकरिष्यति ॥

कस्तर्हि विच्छिन्नः प्रसुतस्तनुरुदारो वा क्लेशः । न युक्तमेवं भेदेन वचनम् । एकमेवोदाहरणमस्तु । न चोदारावस्थाया अन्यत्र कार्यं करिष्यति ॥

सत्यमेवमेतत् । तथाऽपि परिहार उच्यते, किं तु विशिष्टानामेवैतेषां अपरित्यक्तक्लेशत्वधर्मकाणमिव विच्छिन्नादित्वम् । विच्छिन्नाद्यवस्थायामपि नापागमदपकर्तृत्वशक्तिरित्यदोषः ॥

तत्काले कार्याक्षमत्वमिति चेत्-न-प्रतिपक्षविधानार्थवाद्वचनस्य । न हि शत्रोरदृश्यमानस्य प्रसुप्तस्य जनिष्यमाणस्य वा न प्रतिविधातव्यम् ॥

श्रूयते चेन्द्रः प्रतिपक्षभयेन सप्तधा दितेर्गर्भमभिनदिति । तत्र कारणं स्वयमेव प्रकटयति-यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जकाञ्जनेन विषयादिना अभिव्यक्त इति ॥

यस्मात्ते पुनरभिव्यक्ताः पुनश्च तिरोहिताः पुनरप्यभिव्यञ्जिष्यन्ते च, तस्मात्प्रसुप्ताद्यवस्था अपि प्रतिपक्षविधानाय वक्तव्या एव, ह्रेशत्वानतिक्रान्तत्वात् ॥

इदानीमुपसंहरति-सर्व एवामी क्लेशा अविद्याभेदाः । कस्मात्? यस्मात् सर्वेषु अस्मितादिषु अविद्यैवाभिप्लवते प्रतरति, उद्भूता दृश्यते ॥

किञ्च-यदविद्यया वस्त्वाकार्यते प्रकल्प्यते तदनुशेरते तद्विषया उपजायन्ते क्लेशाः रागादयः । यथा स्त्र्यादिपिण्डे हेयेऽपि भोग्योऽयमित्यविद्यया परिकल्प्यात्माभिमानं कृत्वा रज्यते । धर्मज्ञाने विपरीतं परिकल्प्य द्वेष्टि ॥

कथं पुनस्तदेवानुशेरते इति-यस्मात् विपर्यासप्रत्ययकाल एवोपलभ्यन्ते । इतश्चाविद्याभेदा:, यस्मात्क्षीयमाणामविद्यामनु क्षीयन्त इति । अविद्याप्रणाशानुप्रणाशिनो हि क्लेशा । अस्मितादयः । न ह्यसत्यामविद्यायां कश्चिदपि क्लेशः सम्भवति ॥ ४ ॥ तत्राविद्यास्वरूपमुच्यते – अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५ ॥ अनित्ये कार्ये नित्यख्यातिः। तद्यथा - ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकस इति। तथाऽशुचौ परमबीभत्से काये – स्थानाद्बीजादुपष्टम्भान्निःस्यन्दान्निधनादपि। कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ॥ इति अशुचौ शुचिख्यातिर्दृश्यते। नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेवचन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेति कस्य केनाभिसम्बन्धः। भवति चैवमशुचौ शुचिविपर्यासप्रत्यय इति। एतेनापुण्ये पुण्यप्रत्ययस्तथैवानर्थे चार्थप्रत्ययो व्याख्यातः। विवरणम् विवरणम्

तत्राविद्यास्वरूपमुच्यते । किं पुनरविद्यास्वरूपाख्याने प्रयोजनं ? तत्स्वयमेव भाष्यकृदाख्यास्यते ‘अविद्या मूलमस्य क्लेशसन्तानस्य’ इत्यादिना । अज्ञाते च क्लेशसन्तानमूलस्वरूपे तन्मूलोन्मूलनं न शक्यं कर्तुमिति तत्स्वरूपमाख्यायते ॥

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या । कथम्? अनित्ये कार्ये नित्यख्यातिः नित्यमिति विपर्ययबुद्धिः यथा ध्रुवा पृथिवी, धुवा सचन्द्रतारका द्यौ:, अमृता दिवॅौकस इति ॥

ननु चैतस्मान्मन्त्रात्पृथिव्यादीनां ध्रुवत्वं प्रतीयते । तत्र कथमेषां कार्यत्वमुच्यते ? आपेक्षिकत्वाददोषः । मनुष्याद्यपेक्षया पृथिव्यादयो ध्रुवाः । कार्यत्वमनित्यत्वं च सर्वप्रमाणसिद्धं श्रुतिषु वचनात् ‘द्यौरासीन्न पृथिवी नान्तरिक्ष’मित्यादिषु सिद्धम् ॥

तथा अशुचौ परमबीभत्से परमोद्वेगकरेऽत्यन्तघृणास्पदे कारात्मसद्मनीवाशुचौ काये । कथम(पि)स्य बीभत्सकत्वमित्याह-स्थानादशुचिः गर्भाशयस्थानत्वादशुचिः । बीजादशुचिः-शुक्लशोणितबीजो हि कायः । उपष्टम्भात्-वातपित्तश्लेष्मोपष्टम्भात् । तेषां चाशुचित्वं प्रसिद्धम् । निष्यन्दात्-प्रस्वेदमूत्रपुरीषादिमलाजस्रनिष्यन्दात् । निधनादपि– मरणात् । मृतसम्बन्धिनां दशाहाद्याशौचस्मरणम् ॥

ननु च स्वभावतो यद्यशुचिः कायस्तस्य शौचविधानमनर्थकं प्राप्नोतीत्यत आह-कायमाधेयशौचत्वादिति । शास्रत आधातव्यमेव शैौचमस्मिन्न स्वतोऽस्तीति यावत् ॥

यद्वा, करणनि बुद्धिसत्वादीनि सत्वात्मकतया शुचीन्याधेयान्यस्मिन्निति, तच्छ्रुचित्वादस्यापि शौचम् । बुद्धिसत्वाद्याधेयविप्रयोगे चात्यन्ताशुचित्वदर्शनात् ॥

तस्मात्पण्डिता ह्यशुचिं विदुः । पण्डितग्रहणं विपर्यस्तधियां शुचित्वग्रहणख्यापनार्थम् ॥ अशुचौ शुचिख्यातिर्दृश्यते विपरीतचेतसाम् ॥

नवेव शशाङ्कलेखा कमनीयेयं कन्या अमृतावयवनिर्मितेव चन्द्र भित्वेव निस्सृता ज्ञायते नीलोत्पलपत्राक्षी भावगर्भाभ्यां लोचनाभ्यां जीवलोकं समाश्वासयन्तीति कस्य केनाभिसम्बन्धो भवतीति । क्व शरीरादियाथात्म्यं, क्व भवत्येवमशुचौ (क्वचिद्वि)शुचिविपर्यास इति ॥

एतेनापुण्ये पुण्यप्रत्ययः, यथा संसारमोचकानां, तथैवानर्थे चार्थप्रत्ययो व्याख्यातः, यथा तस्कराणाम् ॥ तथा दुःखे सुखख्यातिं वक्ष्यति - परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः इति। तत्रसुखख्यातिरविद्या। तथाऽनात्मन्यात्मख्यातिर्बाह्योपकरणेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनस्यनात्मन्यात्मख्यातिरिति। तथैतदत्रोक्तम् - व्यक्तमव्यक्तं वा सत्त्वमात्मत्वेनाभिप्रतीत्य तस्य सम्पदमनु नन्दत्यात्मसम्पदं मन्वानस्तस्य व्यापदमनु शोचत्यात्मव्यापदं मन्वानः स सर्वोऽप्रतिबुद्धः इति। एषा चतुष्पदा भवत्यविद्या मूलमस्य क्लेशसन्तानस्य कर्माशयस्य च सविपाकस्येति। विवरणम् विवरणम्

तथा दुःखे सुखख्यातिं वक्ष्यति । ‘परिणाम तापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः’ इति । तत्र सर्वस्मिन् संसारे दुःखे सुखख्यातिरविद्या ॥

तथा अनात्मन्यात्मख्यातिबोध्योपकरणेषु चेतनाचेतनेषु गवादिघटादिषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनस्यनात्मन्यात्मख्यातिरेति ॥

अत्रोच्यते-कस्य पुनर्मनस्यनात्मन्यात्मख्यातिरिति ? ननु मनस एव ख्यातिः, किं चोद्यते-यावता अविद्या विपर्ययश्चित्तवृत्तिरिति ह्युक्तम् । चित्तमेव प्राप्तचैतन्योपग्रहणरूपत्वादात्मानं चेतनमभिमन्यते ‘अहं द्रष्टृ श्रोतृ वा अहमिदं ममे’ति चाविशेषेण ।

तथैतदत्र एतस्मिन्नर्थे उक्तं व्यक्तमव्यक्तं वा प्रधानादिकं शरीरेन्द्रियादि विषयविशेषपर्यन्तं किञ्चित् व्यक्तं आनुभविकं, किञ्चिदानुमानिकमागमिकं अव्यक्तं वा सत्वमात्मत्वेनाभिप्रतीतः प्रतिपन्नः तस्य सम्पदमनु नन्दति तस्य व्यक्ताव्यत्तात्मकस्यात्मत्वेनावगतस्य सम्पदं समृद्धिं विभूतिमनु नन्दति अनु हृष्यति, आत्मसम्पदं मन्वानः ‘सम्पन्नेऽहमनया सम्पदा, ममैषा सम्पदि”ति मन्यमानः । तस्य व्यापदं तस्य क्षयं अनु शोचति ‘ममैषा व्यापदहमेव व्यापन्न’ इति । स सर्व एवाभिमानी अप्रतिबुद्धः अज्ञ इति ॥

एषा चतुष्पदी भवत्यविद्या । ननु चापुण्ये पुण्यख्यातिः पुण्ये अपुण्यख्यातिः इत्याभ्यां षट्पदीत्वम्-न-चतुर्ष्वेव पदेषु यथासम्भवमन्तर्भावात् । अविद्या मूलं प्रभवबीजम् अस्य क्लेशसन्तानस्य अभिनिवेशान्तक्लेशानामनवरतप्रवर्तनस्य । किं च-कर्माशयस्य च त्रिविधस्य जात्यायुर्भोगलक्षणविपाकत्रयसहितस्य सकलस्य संसारस्येत्यर्थः ॥ तस्याश्चामित्रागोष्पदवद्वस्तुसतत्त्वं विज्ञेयम्। यथा नामित्रो मित्राभावो न मित्रमात्रं किं तु तद्विरुद्धः सपत्नः। यथा वाऽगोष्पदं न गोष्पदाभावो न गोष्पदमात्रं किन्तु देश एव ताभ्यामन्यद्वस्त्वन्तरम्, एवमविद्या न प्रमाणं न प्रमाणाभावः किन्तु विद्याविपरीतं ज्ञानान्तरमविद्येति ॥ ५ ॥ विवरणम् विवरणम्

तस्याश्च अविद्यायाः अमित्रागोष्पदवद्वस्तुसतत्वं वस्त्वन्तरत्वं विज्ञेयम् । किमर्थमिदमुच्यते ! यावता विपरीतख्यातिरिति वस्तुसतत्वमुक्तमेव ॥

अयमभिप्रायः-अविद्या इति नञ्समासोऽयं तत्पुरुषः, स चोत्तरपदार्थप्रधानो वा स्यात् , यथा राजपुरुष इति । यद्वा, पूर्वपदार्थप्रधानः, अर्धपिप्पलीति ॥

तत्र यदि पूर्वपदार्थप्रधानस्तदानीं विद्यायाः प्रमाणस्याभाव (वादि) इति, यत्रैव विद्याप्रसङ्गो वृत्तिसामान्यात्तत्रैव (स्मृत्य)वृत्त्यन्तरादौ प्रतीतिरिति, अनिर्धारितविशेषतत्वोऽर्थः प्रज्ञायेत । या तु विपरीताख्यातिः पूर्वोक्ता अविद्येति सा पारिभाषिकी स्यात् ॥

ततः को दोषः स्यात् ? अविद्याशब्दश्रवणे सन्देहः स्यात् । किं प्रसिद्ध एव शब्दार्थ: परिभाषित: शाखसंव्यवहारार्थं, यथा लोके येष्वर्थषु प्रसिद्धानि पदानि तानि सति सम्भवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यं इति । अथाशब्दार्थ एव, यथा ‘इको गुणवृद्धी’ इति । ततश्चानिश्चिते पदार्थे नाविद्याशब्देन व्यवहार: क्रियेत ॥

अथोत्तरपदार्थप्राधान्यं समानाधिकरणत्वान्नीलोत्पलवत्, तत्रापि नीलोत्पलशब्दार्थयोरविरोधाद्विशेष्यविशेषणभावेन सम्बन्धो युक्तः ॥

इह नञा निवृत्तिरुच्यते । विद्याशब्देनापि विद्या । तत्र यद्युत्तरपदस्यार्थं प्रधानं प्रति गुणभूतो नञ् तस्यैवोत्तरपदार्थस्याभावं कुर्यात्, तदा तद्गुणत्वमेव हीयेत । नापीतरस्य प्राधान्यम् ॥

यो हि कञ्चिन्निर्वर्तयितुं अनुप्रस्थितो निर्वर्त्यमेव व्यापादयेत्, न तस्य निर्वर्त्यं प्रति गुणत्वम् । नापि निर्वर्त्यस्य प्रधानता, तद्वत् । तस्मात् प्रधानवशवर्तिना गुणेन भवितव्यमिति विद्यायामन्यस्याभाव एवेति केवलो नञ् नित्यानुवादीति विद्यामात्रं प्रतीयेत ॥

तदेतदेवं कृत्वोच्यते । ‘तस्याश्चामित्रागोष्पदवद्वस्तुसतत्वं विज्ञेयम्’ इति । यथा अमित्रो न मित्राभावः यथा पूर्वपदार्थेप्राधान्ये अर्धपिप्पलीति । न मित्रमात्रम् । यथोक्तं उत्तरपदार्थप्राधान्ये प्रधानवशवर्तिना गुणेन भवितव्यं, न प्रधानविनाशेनेति । तथा चोक्तम्–“अब्राह्मणमानयेत्युक्ते ब्राह्मणमात्रस्यानयनं प्राप्नोती’ति नञ्वार्तिके । उत्तरपदार्थप्राधान्यपक्षे नञो नित्यानुवादत्वात् । एवममित्र इति । एवमविद्यादि ॥

यथा वा अगोष्पदं न गोष्पदाभावो न गोष्पदमात्रं, किन्तु देश एव ताभ्यां गोष्पदाभावगोष्पदमात्राभ्याम् अन्यद्वस्त्वन्तरम् । [कथमेवम्?] ध्यवसायस्वरूपया: एकात्मतेव एकश्वासावात्मा च तस्य भाव एकात्मता । इवशब्देनात्यन्तविविक्ततामाचष्टे । एकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते ॥

ततश्चागोष्पदमिति गोष्पदप्रसक्तोऽर्थः , गोष्पदमात्रं, गोष्पदविरुद्धश्चेति त्रयोऽर्थाः प्रतिभान्ति । तत्र यदि गोष्पदमात्रं भवेत्तदा नञः प्रयोगोऽनर्थक एव । अन्याभावानुवादी चेद्गोष्पदे नञ् स्यादेवमप्यनर्थक एव ।

अथ गोष्पदप्रसङ्गयुक्तेऽर्थे, तथापि नञमुख्येऽर्थे प्रवृत्तस्स्यात् , गोभिरत्यन्तासेवितत्वस्यानुक्तत्वात् । यतः सेवितत्त्वे भविष्यत्यपि त्रिष्वपि कालेषु शब्दप्रयोगो युक्तस्स्यात् । मुख्यश्चार्थो नाम स भवति, यत्र गोभिः सेवितं न भूतं न वर्तते नापि भविष्यति । तस्मात्, सति सम्भवे नञर्थः स एव युक्त इति न सेवितप्रसङ्गो नापि सेवितमात्र इष्यते । गोसेवितविरुद्ध एव देशोऽगोष्पदशब्देनाभिधीयते ।

कथं पुनर्नीलोत्पलवद्विशेष्यविशेषणभावः एकस्य, भावाभावयोर्विरोधात् । तदभावप्रतिपादनमात्रेण संव्यवहारानुपपत्तेः यस्मिन् वस्तुनि तदभाव उच्यते तदेव वस्त्वन्तरं प्रतीयते । तदुक्तम् - “गोष्पदं सेवितासेवितप्रमाणेषु इति” ।

अत्रासेवितग्रहणे पुनः क्रियमाणे च बहुव्रीहिरयं विज्ञायते, अविद्यमानसेवितासेवित इति । (तस्मात्) अविद्या न प्रमाणं न च प्रमाणाभावः । किन्तु विपरीतं ज्ञानान्तरमिति ॥ ५ ॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६ ॥ पुरुषो दृक्शक्तिर्बुद्धिर्दर्शनशक्तिरित्येतयोरेकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते। भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तासङ्कीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्पते। स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति कुतो भोग इति। तथा चोक्तम् – ‘बुद्धितः परं पुरुषमाकारशीलविद्यादिभिर्विभक्तमपश्यन्कुर्यात्तत्राऽऽत्मबुद्धिं मोहेन’ इति ॥ ६ ॥ विवरणम् विवरणम्

अधुनास्मिताख्यं विपर्ययमाचष्टे - दृक् दर्शनम् उपलब्धिः पुरुषः स एव शक्तिः । दृश्यतेऽनेनेति दर्शनम् । सैव शक्तिः अन्तःकरणाध्यवसायरूपा । तयोः दृग्दर्शनशक्त्योः उपलब्ध्यध्यवसयस्वरूपयोः एकात्मतेव एकश्चासावात्मा च तस्य भाव एकात्मता । इवशब्देनात्यन्तविविक्ततामाचष्टे । एकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते ॥

यस्मिन्नहम्प्रत्यये चित्तपुरुषयोर्विवेको नोपलभ्यते सोऽयमहम्प्रत्ययोऽस्मिताख्यः क्लेश उच्यते ।

पूर्वत्र तु पुरुषोपकरणेऽन्तःकरणेऽनात्मन्यात्मख्यतिरिति विपरीतदर्शनमेवाविद्येत्युक्तम । इह तु पुनर्बुद्धिपुरुषयोरविशेषदर्शनमेकस्वरूपापत्तिरिव दर्शनमस्मितेति विशेषः ॥

तदेतदुक्तं भवति - भोक्तृभोग्यशक्त्योरत्यन्ताविविक्तयोः अत्यन्तासङ्कीर्णयोः अविभागप्राप्ताविव सत्यां भोगः कल्पते । भोगहेतुरस्मिताभिधानक्लेश इत्यर्थः । सति ह्यहम्प्रत्यये सुखितोऽहं दु:खितोऽहमति सुखदु:खादिसम्बन्धो भवति । तस्मादेतदेवमिति ॥

स्वरूपप्रतिलम्भे तु तयोः विवेके नाहं ममेति स्वरूपोपलब्धौ सत्यां बुद्धिपुरुषयोः कैवल्यमेव अविमिश्रतैव भवति । कुतो भोग इति । कारणे ह्यविशेषाहम्प्रत्ययात्मनि सति कार्यं भोगः, तस्मिन्नसति कारणे न भोग इति ॥

न हि मनसि चेतनावत्वमनध्यारोप्य सुखित्वं दुःखित्वं वा शक्यं प्रत्येतुम् । अहम्प्रत्ययविषयो हि सुखदुःखप्रल्ययाधिकरणम् । ‘अहं सुखी दुःखी चाहम्’ इति सामानाधिकरण्यात् । तस्मादस्मिताख्योऽहङ्कारो भोगहेतुः ॥

तथा चोक्तं-बुद्धितः परं पुरुषं बुद्धितः सकाशात् विभक्तं विलक्षणमन्यम् । कैर्गुणैर्विभाग इत्याह-आकारशीलविद्याभिः आकारेण वृतिसारूम्येण, शीलेन बुद्धिप्रतिसंवेदितथा । विद्यया चैतन्यस्वरूपतया । अथवा आकारेण शुद्धानन्तस्वरूपत्वेन, शीलेन अपरिणामित्वादप्रतिसङ्क्रमत्वेन, विद्यया चितिशक्तिस्वरूपतया । तदेतैर्धर्मर्बुद्धितो विभागः ॥

तथा बुद्धेरपि आकारेण सुखदुःखमोहात्मकत्वेन, शीलेन प्रख्याप्रवृत्तिस्थित्यात्मना, विद्यया सर्वार्थीध्यवसायात्मकत्वेन पुरुषात् विभागः । इत्थमन्योन्यमाकारशीलविद्याभिर्विभक्तं पुरुषं अपश्यन् कुर्यात्तत्र तस्यां बुद्धौ आत्मबुद्धिम् आत्मप्रत्ययं मोहेन लोक इति । विद्याशीलाकारैरत्यन्तविभक्तयोर्बुद्धिपुरुषयेोरविभाग इव तद्दर्शनमित्यनेनांशेनोदाहरणम् ॥

यत्तु विभक्तमपश्यन् कुर्यात्तत्रात्मबुद्धिम् इति । सा पूर्वोक्तैवाविद्या । यद्वा अस्मिताया अविद्याभेदत्वात् सर्वमुदाहरणमिति । अपश्यन् कुर्यादिति पुरुषस्वरूपादर्शनमविद्यायाः, अस्मितायाश्च हेतुः कारणं चित्तस्य द्रष्टृदृश्योपरक्तता । पुरुषस्य त्वदर्शनं द्रष्टृत्वादेव ॥ ६ ॥ सुखानुशयी रागः ॥ ७ ॥ सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धस्तृष्णा लोभः स राग इति ॥ ७ ॥ विवरणम् विवरणम्

सुखानुजन्मा सुखानुशयी रागः । अनु जन्म, अनु उत्पत्तिर्यस्य सः । सुखानुशयी तथा दुःखानुशयीति अन्येषां पाठः । सुखानुशयी रागः दुःखानुशयी द्वेष इति ते व्याचक्षते, सुखमनुभवितुं शीलमस्य स सुखानुशयी, तथा दुःखानुशयीति । उभयधाऽप्यनुजन्मतैव । तदेव ताच्छील्यम् । तथा च वक्ष्यति-‘धर्मात्सुखं सुखाद्रग:’ इति ॥

कथं सुखानुशयित्वमिति तदाह - सुखाभिज्ञस्य सुखे आभिज्ञानमाभिज्ञा यस्य स सुखाभिज्ञः सुखं य उपलब्धवांस्तस्य, सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखं पूर्वानुभूतमनुस्मरन् सुखे ह्लादे तत्साधने वा अगरुचन्दनादावनुरज्यते । तत्र योऽसौ गर्धः स उच्यते तृष्णा लोभो राग इति ॥ ७ ॥ दुःखानुशयी द्वेषः ॥ ८ ॥ दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिघो मन्युर्जिघांसा क्रोधः स द्वेषः ॥ ८ ॥ विवरणम् विवरणम्

दुःखानुजन्मा दुःखानुशयी द्वेषः । दुःखमुक्तम् ‘येनाभिहताः प्राणिनस्तदपघाताय प्रयतन्ते’ इति । दुःखाभिज्ञस्येति पूर्ववद्व्याख्यानम् । दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा सतस्करार्दौ यो मन्युरुज्जिहासा उद्धातुमिच्छा क्रोधः स द्वेषः । रागेण तुल्यं व्याख्यानं सर्वम् ॥ ८ ॥ स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥ ९ ॥ सर्वस्य प्राणिन इयमात्माशीर्नित्या भवति मा न भूवं भूयासमिति। न चाननुभूतमरणधर्मकस्यैषा भवत्यात्माशीः। एतया च पूर्वजन्मानुभवः प्रतीयते। स चायमभिनिवेशः क्लेशः स्वरसवाही कृमेरपि जातमात्रस्य प्रत्यक्षानुमानागमैरसम्भावितो मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूऽतं मरणदुःखमनुमापयति। विवरणम् विवरणम्

स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः स्वरसेन स्वभावेन चित्तस्यविद्यामात्रण वोढुं प्रवर्तिर्नु शीलमस्य । वहतेरकर्मकस्यापि दर्शनात् यथा नदी वहतीति । अथवा स्वरसं स्वभावं वोढुं शीलमस्य स्वरसवाही विदुषोऽपि सम्यग्दर्शनस्यापि । अपिशब्दादविदुष एव युक्तो मरणत्रास आत्मोच्छेदमानिन इत्यभिप्रायः । सम्यग्दर्शनस्यात्मानुच्छेदमानिनोऽयुक्त इति । तथा विमूढतरबुद्धिष्वात्मोच्छेददर्शिष्वयमभिप्रायो मरणत्रासो रूढोऽभिनिविष्टः स्थिरो यथा तथैव विदुषेऽप्यात्मानुच्छेददर्शित्वादयुक्तोऽपि रूढः ॥

कस्मात् पुनरयं मरणत्रासः स्वरसेनैव रूढ इति ? यतः सर्वस्य प्राणिनः इयमात्माशीर्नित्या भवति, यदसौ मरणं मान्वभूवम् उच्छेदं मा प्रापम् । इयमाशीर्वा, भूयासं गुणैः शुभात्मभिः सम्पत्सीयेति न तैर्वियोगो भूयादिति । मूढेषु भोगसम्पदामात्मनश्चानुच्छेदः प्रार्थनीयः ॥

किमेतयाऽऽशिषा अवगम्यत इत्याह-न चाननुभूतमरणधर्मकस्य भवत्येषा आात्माशीरिति । एतया च आत्माशिषा पूर्वजन्मानुभवः प्रतीयते । तदेतदुक्तं भवति-न ह्यननुभूते सुखे भवति प्रार्थना, नाप्यननुभूते दुःखे तत्परिहारवाञ्छा भवतीति । येनापि प्रत्यक्षानुमानाभ्यामननुभूतं मरणदुःखं तस्याप्यनयात्माशिषा पूर्वो मरणानुभवः प्रतीयते, सोऽपि नान्तरेण जन्मेति जन्मानुभवः । तया पूर्वः पूर्वो जन्ममरणानुभवोऽनादिरिति मतः । स चायमभिनिवेशः लेशः कृमेरपि जातमात्रस्येति ॥

मरणानुभवकारणमाचष्टे-प्रत्यक्षानुमानागमैरसम्भावितो मरणात्रास उच्छेददृष्टद्यात्मक आत्मभोगोच्छेदप्रतिपत्तिहेतुः पूर्वजन्मानुभूतं मरणदु:खमनुमापयति । यथा चायमत्यन्तमूढेषु दृश्यते क्लेशस्तथा विदुषोऽपि विज्ञातपूर्वापरान्तस्य रूढः। कस्मात्। समाना हि तयोः कुशलाकुशलयोर्मरणदुःखानुभवादियं वासनेति ॥ ९ ॥ विवरणम् विवरणम्

यथा चायमत्यन्तमूढेषु दृश्यते कृमिप्रभृतिषु क्लेशस्तथा विदुषोऽपि विज्ञातपूर्वापरान्तिकस्यापि पूर्वान्तिकं बन्धः अपरान्तिकं मुक्तिः । ज्ञातजन्ममरणान्तिकस्य वा रूढः । कस्मात् पुनर्मूढस्येव विदुषो रूढ इति, तत आह-समाना हि कुशलाकुशलयोर्विद्वदविदुषोर्मरणानुभवादियं वासना मरणभयवासना ॥ ९ ॥ ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ १० ॥ ते पञ्च क्लेशा दग्धबीजकल्पा योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति ॥ १० ॥ विवरणम् विवरणम्

‘क्लेशमूलः कर्माशयः’, ‘सति मूले तद्विपाकः’ इति वक्ष्यते । तस्मात्ते क्लेशा हातव्याः । हानार्थश्च ते प्रदर्शइताः । तदवहानौ चोपायं वक्ष्यति – ‘ध्यानहेयास्तद्वृत्तयः? इति । तत्र न ज्ञायते किंविषयो ध्यानप्रयोगः, किं दग्धबीजकर्मक्लेशविषयः ? किं सर्वविषयः ? इति । तद्विषयविभजनार्थमिदं सूत्रमारभ्यते– ते प्रतिप्रसवहेयाः सूक्ष्मा इति ॥

ते पञ्च क्लेशाः दग्धबीजकल्पाः योगिनश्वरिताधिकारे चेतासि प्रलीने सह तेनास्तं गच्छन्ति । एतदुक्तं भवति–सम्यग्दर्शनाभ्यासानलदग्धबीजसामर्थ्यानां क्लेशानां कृताशेषपुरुषप्रयोजनस्य चेतसः प्रतिप्रसवेनैव प्रलयेनैव प्रलयोत्पत्तेर्न ध्यानसाधनापेक्षा । न हि दग्धं दाहमपेक्षते, पिष्टं वा पेषणमिति । चेतस्तु साधितपुरुषार्थत्वात् स्थितिप्रयोजनाभावाच्च स्वयमेव निवर्तते ॥ १० ॥ स्थितानां तु बीजभावोपगतानाम् – ध्यानहेयास्तद्वृत्तयः ॥ ११ ॥ क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तत्कृताः सत्यः प्रसङ्ख्यानेन ध्यानेन हातव्या यावत्सूक्ष्मीकृता यावद्दग्धबीजकल्पा इति। यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते पश्चात्सूक्ष्मो यत्नेनोपायेन चापनीयते तथा स्वल्पप्रतिपक्षाः स्थूला वृत्तयः क्लेशानां, सूक्ष्मास्तु महाप्रतिपक्षा इति ॥ ११ ॥ विवरणम् विवरणम्

कीदृशानां पुनर्ध्यानादिसाधनापेक्षेत्यत उच्यते-स्थितानां तु बीजभावोपगतानामिति ॥

ध्यानहेयास्तद्वृत्तयः । क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तपस्स्वाध्यायेश्वरप्रणिधानाख्येन स्थूलप्रतिपक्षेण तनूकृताः पूर्वम् । तत इदानीं तनूकरणाद्बीजशक्त्यवस्थाः प्रसङ्ख्यानेन सम्यग्दर्शनशीलनतो नैपुणविशेषेण ध्यानेन महता बलीयसा प्रतिपक्षेण हातव्याः, ततोऽपि यावत्सूक्ष्मीकृताः । किमुक्तम् भवति ! यावद्दग्धबीजकल्पाः यावनिर्बाजीकृता इति ॥

तत् किमिवेति ? यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते, पश्चात्सूक्ष्मो मलः खेनेहनादिनिमित्तो यत्नेन चोपायेन क्षारादिविशिष्टोपायेन अपनीयते, तथा स्वल्पप्रतिपक्षाः तपस्स्वाध्यायेश्वरप्राणिधानयमानयमादियोगाङ्गानुष्ठानादिप्रतिपक्षाः स्थूला वृत्तयः क्लेशानाम् । सूक्ष्मास्तु महाप्रतिपक्षा इति । तपस्स्वाध्यायाद्यनुष्ठानप्रतिलब्धदीप्तिप्रकर्षाविप्लवसम्यग्दर्शनमहाप्रतिपक्षा: सूक्ष्मा बीजशक्त्यपेक्षा इति ॥ ११ ॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥ तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधप्रभवः। स दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च। तत्र तीव्रसंवेगेन मन्त्रतपःसमाधिभिर्निर्वर्तित ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति। तथा तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनरपकारः स चापि पापकर्माशयः सद्य एव परिपच्यते। यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः। तथा नहुषोऽपि देवानामिन्द्रः स्वकं परिणामं हित्वा तिर्यक्त्वेन परिणत इति। तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः। क्षीणक्लेशानामपि नास्त्यदृष्टजन्मवेदनीयः कर्माशय इति ॥ १२ ॥ विवरणम् विवरणम्

किमर्थं पुनः क्लेशहानाय प्रयतत इत्याह–यतः क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ क्लेशा अविद्यादयो मूलं जन्मकारणं यस्य कर्माशयस्य स क्लेशमूल: कर्माशय इति । आकर्मफलप्रदानादन्तःकरणे शेत इति कर्माशयः शुक्लकृष्णात्मकः । दृष्टं चादृष्टं च दृष्टादृष्टे जन्मनी तयोर्वेदनीयमनुभवनीयं फलं यस्य स दृष्टादृष्टजन्मवेदनीयः कर्माशयः । यो दृष्टादृष्टकर्मानुभवितव्यम्फलः कर्माशयः स क्लेशमूल इति सूत्रार्थः ।

यस्य पुण्यापुण्यरूपस्य कर्माशयस्य यस्मिन् जन्मनि निष्पत्तिस्तस्य तस्मिन्नेव जन्मनि वेदनीयं फलं स दृष्टजन्मवेदनीयः । यस्य तु जन्मान्तरे वेदनीयं फलं सोऽदृष्टजन्मवेदनीयः कर्माशय इति ॥

भाष्यमिदानीं व्याख्यायते-तत्र पुण्यापुण्यकर्माशयो लोभक्रोधमोहप्रभव इति, क्लेशमूलत्वं तस्याचष्टे । पुण्यकर्माशयो लोभप्रभवो यथा-स्वर्गे वा अत्र वा शुभं फलमनुभविष्यामीति स्वर्गकामपुत्रकामयागादिः । क्रोधप्रभवो यथाविश्वामित्रस्याम्बायाश्च । मोहप्रभवो यथा-द्रौपद्याः कुम्भकर्णस्य च ॥

अपुण्यकर्माशयोऽपि लोभप्रभवो यथा—चर्मणि द्वीपिनं हन्ति कुञ्जरं हन्ति दन्तयोः । कर्णस्य चास्रज्ञानलोभादनृतवचने ॥ क्रोधप्रभवो यथा-ब्रह्महत्या । भारते(भावे)ऽप्यश्वत्थाम्नश्च । मोहप्रभवो यथा-संसारमोचकादीनां नहुषस्य च ।

अस्मिताविद्ययोर्लोभक्रोधमोहैः प्रत्येकं सम्बन्धः । कथम् ? अहमधिक्षिप्तोऽस्मीति क्रुध्यति । अहं सुखमनुभविष्यामीति लुभ्यति । अहं मुह्यामीति मुह्मति ॥

अविद्याऽपि सर्वत्रैव विपरीतदर्शनलक्षणा सम्बध्यते । नह्यसात्यामविद्यायामस्मितादीनां सम्भवोऽस्ति । रागस्तु लोभ एव । द्वेषस्तु क्रोधः । अभिनिवेशे विमोह एवान्तर्भवति ॥

यत्तु मोहः पुनरविद्येति, तदविवेकसामान्यादुक्तम् । लोभक्रोधमोहास्तु परस्परनिरपेक्षा धर्माधर्मोत्पतिद्वारम् । तथा च वक्ष्यति–लोभक्रोधमोहपूर्विका इति ॥

स दृष्टजन्मवेदनीयश्च स लोभक्रोधमोहप्रभवः कर्माशयो दृष्टजन्मवेदनीयश्च अदृष्टजन्मवेदनीयश्च ।

कथं पुनः कर्मणां स्वरूपनिमित्ततुल्यत्वे कस्यचिद्दृष्टजन्मवेदनयित्वं कस्यचिददृष्टजन्मवेदनीयत्वञ्चेत्याह—यथा तीव्रसंयोगेन तीव्रोद्यमेन मन्त्रतपस्समाधिभिर्यथाप्रसिद्धरूपैस्तीव्रसंवेगानुष्ठितैर्निर्वर्तितः, ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा । ईश्वर उक्तः, देवता अदित्यादयः, महर्षयो भृग्वादयः, महानुभावा धर्मज्ञाननिरतमतयः, एत एव वा (तदेषां वा) । तीव्रतराराधनपरिनिष्पन्नः सद्यः परिपच्यते स तस्मिन्नेव जन्मनि । यथा नन्दीश्वरकुमारस्य ॥

तथा तीव्रक्लेशेन लोभादिप्रकर्षेण भीतव्याधितकृपणेषु विस्रम्भोपगतेषु महानुभावेषु वा तपस्विषु ज्ञानधर्मेनिरतमतिषु तपस्विषु पुनः पुनः आभीक्ष्ण्येन कृतोऽपकार:, स चापि पापकर्माशयः सद्य एव परिपच्यते फलति । यथा नहुषस्य ॥

लोकेऽपि क्षेत्रबीजसंस्कारविशेषेण वृक्षादिफलसन्निकर्षः प्रसिद्धः वृक्षायुर्वेदप्रसिद्ध्या । तथा क्रियासु फलसन्निकर्षविप्रकर्षदर्शनं गमिपच्यादिषु तीव्रमन्दानुष्ठानविशेषतः ।

तत्र पुण्यकर्माशयस्योदाहरणमाह—यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं स्वकं हित्वा महेश्वराराधनपरिनिष्पन्नेन तीव्रतरक्लेशानुष्ठानेन जन्मना देवतात्वेन परिणतः ॥

तथा नहुषोऽपुण्यकर्माशयस्योदाहरणम् । स देवानामिन्द्रः । स स्वकं परिणामं हित्वा तीव्रतरमोहानुष्ठानजेन कर्माशयेन तिर्यक्त्वेन परिणत इति ॥

क्रोधादीनां तु यथासङ्ख्यं दृष्टादृष्टजन्मवेदनीयत्वेनोदाहरणानि व्याख्यातानि पूर्वमेव । एतेन च मन्दमन्दतरलोभादिक्केशानुष्ठानजन्मानौ पुण्यपापकर्माशयावदृष्टजन्मवेदनीयौ व्याख्यातौ लोकवदेव । तत्रापि तावदुच्यते ॥

तत्र नारकाणां नास्ति-यैर्नरकप्राप्त्यर्थमेव कर्मानुष्ठितं ब्रह्महत्यागुरुदारगमनादिलक्षणं, तेषां नारकाणां नारकत्वस्याशुभावित्वमाश्रित्य तेषां नारकाणां नास्ति दृष्टजन्मवेदनीयफलः कर्माशयः [येन फलं] आारभ्यते ॥

कथं पुनर्नारकाणां कर्मारम्भस्तिर्यगादीनां देवतानां च ? मनुष्याणां हि कर्माधिकारः । एषा च कर्मभूमिर्न नरकादिरित्युच्यते—न-नहुषार्दनां कर्मदर्शनात् । श्रूयते च शतक्रतोरपि वृत्रादिवधेन ब्रह्महत्याप्राप्तिर्योगाद्यनुष्ठानश्रवणं च ॥

यन्मनुष्याणां कर्माधिकार: इयं च कर्मभूमिरिति, तत्क्षिप्रफलसिद्ध्यपेक्षम् । तदुक्तम- ‘क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा” इति । व्यासेन कीटोपाख्यान(श्रव)स्मरणाच तिरश्वामिपि कर्मोपपत्तिः ॥

किञ्च-देहेन्द्रियादिमतः क्रियोपपत्तेः । क्रियाणां च कायवाङ्मनःप्रभवानां फलारम्भकत्वं, क्लेशपूर्वकवात् ॥

क्षीणक्लेशानामपि सम्यग्दर्शिनामपि नास्त्यदृष्टजन्मवेदनीयः कर्माशयः क्लेशाभावादेव । न हि वीतरागे जातो दृश्यते । क्लेशानां कमीरम्भ इव कर्मफलारम्भेऽपि हेतुत्वात् । क्षीणक्लेशस्यापि ज्ञानप्राप्तेः प्रागारब्धो दृष्टजन्मवेदनीयः सम्भवति कर्माशयः प्रवृत्तफलत्वान्मुक्तशरवदिति ॥ १२ ॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३ ॥ सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूलः। यथा तुषावनद्धाः शालितण्डुला अदग्धबीजभावाः प्ररोहसमर्था भवन्ति नापनीततुषा दग्धबीजभावा वा, तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति नापनीतक्लेशो न प्रसङ्ख्यानदग्धक्लेशबीजभावो वेति। स च विपाकस्त्रिविधो जातिरायुर्भोग इति। विवरणम् विवरणम्

किश्व-सति मूले तद्विपाको जात्यायुभोङ्गाः । मूलं हि कर्मणां क्लेशः । अस्मिन् सति मूले क्लेशेषु सत्स्वित्यर्थः । तस्य लोभक्रोधप्रभवस्य पुण्यापुण्यकर्माशयस्य विपाकः फलनिष्पत्तिः तद्विपाकः । किं पुनस्तत्फलमित्याह– जात्यायुभोङ्गाः ॥

भाष्यं “सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूल” इति, मूलस्य व्याख्यानम् । तत्र सत्सु क्लेशेषु कर्मशयो विपाकारम्भीत्यिस्य दृष्टान्तमाह-यथा तुषावनद्धाः शालितण्डुला अदग्धबीजभावाः ॥

तुषावनद्धा अपि कदाचिद्दग्धबीजभावा न प्ररोहसमर्था भवन्ति । अदग्धबीजभावा अपि व्यपनीततुषा न प्ररोहायालं भवन्ति । उभयथा च दार्ष्टान्तिकप्रतिपादनार्थं दृष्ठान्तविकल्प: ॥

कथम् ? तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति क्लेशोपबन्धः तुषावनद्धशालितण्डुलवत् । नापनीतक्लेशो [न प्रसङ्ख्यान] दग्धक्लेशबीजभावो वेति । अपनीततुषशालितण्डुलवदपनीतक्लेशो न विपाकप्ररोही ॥

योगाङ्गानुष्ठानक्लेशक्षयपूर्वसम्यग्दर्शनानां योगिनाम[न]पनीतक्लेशोऽप्य [न] पनीततुषदग्धबीजशक्तिशालिवद्योगाङ्गानुष्ठानप्रणालिकेवलसम्यग्दर्शनानलदग्धबीजसामर्थ्यो न विपाकप्ररोही भवति ॥

तथा च व्यासः साङ्ख्यानां योगिनां च पृथङ्मोक्षं दर्शयति ॥

“बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ।

ज्ञानदग्धैस्तथा लेशैनात्मा सम्पद्यते पुनः ॥ ” इति ॥

तथा “योगैश्वर्यमतिक्रान्तो योगी मुच्येत” इत्यादि । वक्ष्यति चात्रापि प्राप्ताप्राप्तैश्वर्ययोगयोः कैवल्यम् ॥

कतिप्रकारोऽसौ विपाक इत्याह-स च विपाकस्त्रिविधः जातिरायुर्भोग इति ॥ तत्रेदं विचार्यते – किमेकं कर्मैकस्य जन्मनः कारणमथैकं कर्मानेकं जन्माऽऽक्षिपतीति। द्वितीया विचारणा – किमनेकं कर्मानेकं जन्म निर्वर्तयति अथानेकं कर्मैकं जन्म निर्वर्तयतीति। न तावदेकं कर्मैकस्य जन्मनः कारणम्। कस्मात्, अनादिकालप्रचितस्यासङ्ख्येयस्यावशिष्टस्य कर्मणः साम्प्रतिकस्य च फलक्रमानियमादनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति। न चैकं कर्मानेकस्य जन्मनः कारणम्। कस्मात्, अनेकेषु कर्मसु एकैकमेव कर्मानेकस्य जन्मनः कारणमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः, स चाप्यनिष्ट इति। न चानेकं कर्मानेकस्य जन्मनः कारणम्। कस्मात्, तदनेकं जन्म युगपन्न सम्भवतीति क्रमेणैव वाच्यम्। तथा च पूर्वदोषानुषङ्गः। विवरणम् विवरणम्

तत्रेदं विचार्यते । किं पुनर्विचारफलम् ? उच्यते-एकैकेन प्राणिना विरुद्धफलानि भूयिष्ठान्येकस्मिन्नेव जन्मनि कर्मणि क्रियन्ते । तद्यथा –

शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।

वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥ “

स्वर्गार्थानि च तावदनुतिष्ठति । नरकप्रापीणि च कर्माणि । तत्रैकस्य ब्रह्महत्यादिकर्मणोऽनेकजन्मकारकत्वं श्रूयते श्वसूकरखरोट्राणामित्यादस्मृतेः ॥

तत्र विरुद्धदेशकालनिमित्तविपाकानां कर्मणामेकजन्मारम्भे विरुद्धविपाकतादर्थ्यं हीयेत । ततश्च तादर्थ्यचोदनाः कर्मेणां बाध्येरन् ॥

अथ पर्योयेण जन्मारम्भित्वं, कर्मणामसङ्ख्येयत्वात् केनचिदेव फलमारब्धं नान्यैरिति, तत्र नियमानुपपत्तिः, केनारब्धः केन वा नेति । तथा । च कर्तॄणां कर्मफलं प्रत्य(प्य)विस्रम्भादुत्साहविभङ्गः स्यात् अभ्युदयानिश्रेयसप्रवृत्तिषु ॥

अथान्यतमेनारम्भे विनाश एवान्येषामिति, तथाऽपि स एव दोषः, किं विनष्ट किमारम्भकमित्यनियमात् ॥

अथाविनाश एव, तथाप्यवशिष्टस्यारम्भकालाभावो मोक्षाभावश्वेति । तस्मात्प्रवृत्तिनिवृत्तिशास्त्रार्थवत्वप्रतिपादनार्थमिदं विचार्यते ॥

किमेकं कर्म एकस्य जन्मनः कारणं स्वर्गादिप्राप्तिनिमित्तेषु बहुषु कर्मसु सत्सु । अथैकं कर्मानेकं जन्माक्षिपतीति प्रथम विचारणा । विरुद्धपक्षद्वयालम्बिनी हि विचारणा एकैव स्यात् ॥

द्वितीया विचारणा - किमनेकं कर्मानेकं जन्म निर्वर्तयति विरुद्धफलमविरुद्धफलं वा । अथानेकं कर्मैकं जन्म निर्वर्तयति विरुद्धफलमविरुद्धफलं वा ॥

किञ्चात: ? न तावदेकं कर्मैकस्य जन्मनः कारणम् । कस्मात्? बहुषु कर्मसु सत्स्वेकमेव कर्म जन्मैकं नारभत इति ॥

यद्येकस्यैव जन्मारम्भित्वं, तदा अनादिकालप्रचितस्य संसारानादित्वादेकैकेन पुरुषेणासङ्ख्येयमेकैकस्मिन् जन्मनि कर्म प्रचीयते विरुद्धफलमविरुद्धफलं च ॥

तत्र अवशिष्टस्य जन्मारम्भिकर्मव्यतिरिक्तस्य असङ्ख्येयस्य अनेकजन्भान्तरप्रचितस्य कर्मणः कर्मकलापस्य साम्प्रतस्य च वर्तमानजन्मप्रचितस्यानारब्धकार्यस्य फलक्रमानियमात् किं पूर्वजन्मेपचितकर्मराशिगतस्य कस्यचिदेव भविष्यज्जन्मारम्भित्वम्, आहोत्विदिदानीन्तनजन्मकर्मराशिगतस्य कस्यचिदिति फलक्रमो न नियम्येतेति अनाश्चासो लोकस्य ॥

किं पूर्वजन्मकर्मणा दुष्टेनादुष्टेन वा फलमारब्धव्यम् ? अथेदानान्तनकर्मणा दुष्टेनादुष्टेन वा? इत्यविस्रम्भात् न कश्चिदग्निहोत्रादि कुर्वीत । नापि मोक्षाय समीहेतेत्यनाश्चासः प्रसक्तः, स चाग्निष्टः ॥

इदानीं प्रथमविचारणायां द्वितीयं पक्षं निराकरोति-न चैकं कर्मानेकस्य जन्मनः कारणम् । कस्मात् ? एकैकस्मिंस्तावजन्मान अनेकं कर्मानुष्ठीयते, तत्रैकैकमेव चेत्कर्मानेकस्य जन्मविपाकस्य जन्मपरिणामस्य निमित्तं भवेत् , ततोऽवशिष्टस्य आरब्धकार्यादन्यस्य विपाककालाभावः प्रसक्तः, स चाप्यनिष्टः । फलक्रमानियमश्चेति पूर्वदोषोऽपि । नैवम्भूतमनिष्टमभ्युपगन्तव्यम् । यत्तु ब्रह्महत्यादिकर्मणामेकैकस्यानेकजन्मारम्भित्वं, तस्य शास्त्रगोचरत्वात् ब्रह्महत्यादिविषयत्वमेवाभ्युपगम्यते ॥

द्वितीयविचारणायामिदानीं प्रथमः पक्षो निराक्रियते – न चानेकं कर्मानेकस्य जन्मनः कारणम् । कस्मादेवं नाभ्युपगम्यते? तदुच्यते, तदेवानेकं जन्म युगपन्न सम्भवति एकस्यानीश्वरस्य । ततश्च क्रमेण वाच्यमाने किमेकमनेकं जन्मारभत इति । तथा च पूर्वदोषानुषङ्गः सर्वत्र प्रथमदोषानुषङ्गः फलक्रमानियमादनाश्वास इति ॥ तस्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त एकप्रघट्टकेन मरणं प्रसाध्य सम्मूर्छित एकमेव जन्म करोति। तच्च जन्म तेनैव कर्मणा लब्धायुष्कं भवति। तस्मिन्नायुषि तेनैव कर्मणा भोगः सम्पद्यत इति। असौ कर्माशयो जन्मायुर्भोगहेतुत्वात्त्रिविपाकोऽभिधीयत इति। अत एकभविकः कर्माशय उक्त इति। विवरणम् विवरणम्

तस्मात् एवं पक्षत्रयानुपपत्ताविदानी सिद्धान्तमुपसंहरति-—जन्मप्रायणान्तरे जन्ममरणयोरन्तरे मध्ये कृतः पुण्यपापकर्माशयः अविरुद्धजन्मदेशनिमित्त इति वाक्यशेषः । विरुद्धजन्मदेशनिमित्तः पुनः अदृष्टजन्मवेदनीयः अप्रतिनियतविपाकः । तस्य त्रिधा विनियोगं वक्ष्यति । तस्मादविरुद्धफलस्यैव पुण्यापुण्यकर्माशयस्यायं नियम उच्यते ॥

प्रचयविचित्रः तुल्यातुल्यानेककर्मप्रचितत्वात्प्रचयेन विचित्रः । प्रधानोपसर्जनभावेनावस्थितः किञ्चित्कर्म कस्यचित्कर्मणः प्रधानमपि कस्य चिदन्यस्योपसर्जनमुपसर्जनमपि प्रधानमित्येवमनेककर्मशबलिम्नाऽवस्थितः ॥

प्रायणाभिव्यक्तः यथा बीजक्षेत्रसंस्कारसंयोगोऽङ्कुरभावाभिव्यक्तिकारणं, तथा प्रायणमप्यविरुद्धानां कर्मणामभिव्यक्तिनिमित्तम् । एकप्रघदृकेन एकलोलीभावेन समुच्चितः एकीभूतः एकमेव जन्म करोति ॥

तच्च जन्म तेनैव प्रायणाभिव्यक्तात्मना कर्मणा लब्धायुष्कं भवति । तस्मिन्नायुषि तेनैव कर्मणा भोगः सम्पद्यते, येन जन्मायुषी कृते । यथा येन बीजेनाङ्कुरो निर्वृत्तस्तेनैव फलपुष्पादयोऽपि ॥

तेन च कर्मणा भोगायुर्निवृत्तिर्भवत्येयवेत्यवधार्यते । न पुनरन्यस्यायुर्भेगादिनिमितस्य पुत्रपशुकामादियागादेः पुत्रायुरादिप्रातेर्हेतुत्वं निराक्रियते । इतरथा हि सर्वश्रुतिस्मृतिविप्रकोपः स्यात् । तस्मात्तेनैव कर्मणेति जन्ममात्रमारभ्य कृतकार्यत्वाद्विनिवृत्त्याशङ्कनिषेधमात्रं क्रियते ॥

असौ कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रयो विपाका जन्मादयो यस्य स त्रिविपाकोऽभिधीयते । अयमैकभविकः कर्माशय उक्तः एक (एव) जन्मप्रयोजन एकभविकः ॥ दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी भोगहेतुत्वाद्द्विविपाकारम्भी वा आयुर्भोगहेतुत्वात् नन्दीश्वरवन्नद्वुषवद्वेति। क्लेशकर्मविपाकानुभवनिर्वर्तिताभिस्तु वासनाभिरनादिकालसम्मूर्छितमिदं चित्तं विचित्रीकृतमिव सर्वतो मत्स्यजालं ग्रन्थिभिरिवाऽऽततमित्येता अनेकभवपूर्विका वासनाः। यस्त्वयं कर्माशय एष एवैकभविक उक्त इति। ये संस्काराः स्मृतिहेतवस्ता वासनास्ताश्चानादिकालीना इति। विवरणम् विवरणम्

दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी यथा – पुत्राग्रामादिकामयागः । द्विविपाकारम्भी वा भोगायुर्हेतुत्वात् । यथा आयुरादिकामयागः । त्रिविपाकारम्भी वा नन्दीश्वरनहुषवत् ॥

ननु च नन्दीश्वरनहुषयोर्दृष्टजन्मवेदनीयत्वं त्रिविपाकास्म्भित्वं च विरुद्धम् । दृष्टं हि जन्म नन्दीश्वरस्य मनुष्यत्वम् । यत्पुनर्नन्दीश्वरस्य देवत्वं, नहुषस्य चाजगरत्वं तत् द्वयमप्यदृष्टं, न हि मनुष्यत्व एव देवत्वं संवेद्यं नन्दीश्वरस्य, नापि देवत्व एव नहुषस्याजगरस्वं सेवद्यमिति, कथं त्रिविपाकारम्भित्वं दृष्टजन्मवेदनीयत्वं चेति ॥

नैष दोषः । दृश्यमानजातिविशिष्टमेव शरीरं तयोर्जात्यन्तरत्वेन परिणतम् । न च यथाऽन्येषां दृष्टजातिविशिष्टशरीरोपमर्देन जात्यन्तरोपादाननिषेकादिनिमित्तापेक्षया जात्यन्तरप्राप्तिः, तथा नन्दीश्चरनहुषयोः । तस्मात् त्रिविपाकारम्भित्वं दृष्टजन्मवेदनीयत्वं चेत्युदाहृतम् ॥

तत्र त्रिविधः कर्मराशिर्दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च । दृष्टजन्मवेदनीयतविपाकनियतविपारः कदाचिद्भोगहेतुरित्येकविपाकः । कदाचिद्भोगायुर्हेतुत्वात् द्विविपाकः । कदाचित् जात्यायुर्भेगहेतुत्वात् त्रिविपाको नन्दीश्वरनहुषयोरिव ॥ ।

अदृष्टजन्मवेदनीयस्तु द्विविधो नियतविपाकश्चानियतविपाकश्च । नियतविपाकस्तु प्रदर्शितः तस्माज्जन्मप्रायणान्तरे कृत इत्यादिना । यस्त्वनियतविपाकः स त्रिविधो वक्ष्यते ॥

इदानीं तु कर्मविपाकजनितो वासनाराशिरपर आख्यायते – क्लेशकर्मविपाकानुभवनिर्वर्तिताभइः क्लेशानुभवश्च कर्मानुभवश्च विपाकानुभवश्च क्लेशकर्मविपाकानुभवाः, तैर्निर्वर्तिताभिः वासनाभिः संस्करैः अनादिकालसम्मूर्छितमिदं चित्तं चित्रीकृतमिव पटकुड्यादिवत् सर्वतो मत्स्यजालं ग्रन्थिभिरिवाततं व्याप्तम् ॥

अथैकैकस्मिन् जन्मानि अनेकभवपूर्वका वासनाः कर्मणि विपाके च तदङ्गीभावेन व्याप्रियन्ते । न हि वासनायाः कर्मविपाकानज्ञभावे सति जातमात्रस्य पृषदंशदारकस्य वृषबुवानं प्रति स्फुरितपरिकोपस्यावस्कन्दनं जाघटीति । न च सकृदनुभववासनामात्त्रतया तेन शक्यं भवितुम् ॥ यस्त्वसावेकभविकः कर्माशयः स नियतविपाकश्चानियतविपाकश्च। तत्र दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य। कस्मात्। यो ह्यदृष्टजन्मवेदनीयोऽनियतविपाकस्तस्य त्रयी गतिः – कृतस्याविपक्वस्य नाशः, प्रधानकर्मण्यावापगमनं वा, नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानमिति। विवरणम् विवरणम्

यस्त्वयं कर्माशयः यस्त्वयं जन्मप्रायणान्तरे कृतोऽविरुद्धजन्मदेशनिमित्तः प्रधानोपसर्जनीभावेन त्रिविपाकारम्भी एष एवैकभविक उक्तः । न दृष्टजन्मवेदनीयः, नाप्यनियतविपक्तिरदृष्टजन्मवेदनीयः, नापि च वासनाः ॥

तासां तावत् स्वरूपमाह – ये संस्काराः स्मृतिहेतवस्ता वासनास्ताश्चानादिकालीनाः, संसारस्य क्लेशरर्मविपाकानुभवरूपस्यानादित्वातू ॥

यस्त्वसावेकभविकः कर्माशयः पूर्वोत्तस्तस्यापवाद उच्यते एकदेशस्य । कथं ? स नियतविपाकश्चानियतविपाकश्च । कोऽसौ नियतविपाकः ? यः प्रायणाभिव्यक्तः कार्यमारभते । स एव चैकभविकः ॥

यस्तु विरुद्धजन्मदेशकालनिमित्तः सोऽदृष्टजन्मवेदनीयत्वसामान्ये सत्यप्यनियतविपाकः । कस्मात्? नियतविपाकेन विरोधात् । नचायमेकभविकः, विरोधादेव । यत्वस्यैकभविकत्वमुक्तं, यस्त्वसावेकभविक: कर्माशय इति, तददृष्टजन्मवेदनीयत्वसामान्येन ॥

ननु च यद्येवं जन्मप्रायणान्तरे कृतः पुण्यपापकर्माशयः प्रचयविचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्तः एकप्रघट्टेन सम्मूर्छित एकजन्म करोतीत्येवमादिर्नियमो विरुध्येत । कुतः ? प्रायणस्य सर्वपूर्वकर्माभिव्यञ्जकत्वात्, आशयाधारोपमर्देन चाशयान्तरोत्पत्तेः, मानुष्यकाशयाधारे पूर्वं दैवतैर्यग्योनाशयानां समवत्थानं, तदाधारोपमर्दनकाले च प्रायणे साधारणे सर्वकर्मभिव्यक्तिकारणे दैवतैर्यग्योनाशयानां कस्यचिदेवाभिव्यक्तिर्नेतरेषामिति नास्ति हेतुः । न हि स्वगेचरापन्नं व्यङ्ग्यमेकदेशपरित्यागेनाभिव्यनक्ति प्रदीपः ॥

अत्रेच्यते – नैतद्युक्तं, कर्मानर्थक्यप्रसङ्गात् । बहुप्रकाराणि हि कर्मणि परस्परविरुद्धानि क्रियन्ते । यो हि स्वर्गार्थ कर्म कृतवान् स एव पशुग्रामाद्यर्थं कर्मानुष्ठाय पुनर्बह्महत्यां वा स्थावरादिप्राप्त्यर्थं वा बलवकर्मानुतिष्ठेत् । तत्र नरकस्यावरादिप्राप्तस्य न हि पशुग्रामादिलाभसम्भवः । ततश्च तत्कर्मणामानर्थक्यं प्रसज्येत ॥

अथ तत्रापि ग्रामादिलाभसुखं भवतीति चेत् – न हि ग्रामकाम इत्युक्ते ग्रामसुखत्वमभिप्रेतम् । न हि ग्रामसुखं प्राप्तो ग्रामं प्राप्तवान् ॥

किञ्च – सर्वशास्त्रविप्रकोपश्च स्यात् । अदृष्टानां च स्वर्गनरकादीनां सुखदुःखमात्रप्रसङ्गः । ‘ततः शेषेण’ इति शेषसद्भावज्ञापनश्रुतिस्मृतयो बाध्येरन् । तस्मान्न सर्वं कर्म प्रायणेऽभिव्यज्यते । अत्यन्तविरुद्धानां कर्मणामानर्थक्यप्राप्तेः । कर्मशाखानर्थक्ये च मोक्षशास्त्रेऽप्यनाश्वासप्रसङ्गः ॥

अभिव्यञ्जकानामपि कस्यचिदभिव्यञ्जकत्वं कस्यचिन्नेति दृश्यते व्यभिचारः । यथा चक्षुषो रूपाभिव्यञ्जकत्वेऽपि चैत्रोळूकचक्षुषोरहोरात्रयोरितरेतरव्यभिचारः । आलोकस्य च समाने सर्वचक्षुस्सहकारित्वे, नोलूकचक्षुस्सहकारित्वम् । एकस्मिश्व स्त्र्यादिपिण्डे सुखदुःखमेहानां सर्वेषामभिव्यक्तिनिमित्तेऽपि कस्यचिदेवाभिव्यक्तिः ॥

तत्र कर्माद्यपेक्षया विरोधाददोष इति चेत् – इहापि विरोधादनभव्यक्तिः सर्वकर्मणाम् । न चापि बीजाधारे क्षेत्रे उपमर्द्यमाने जलादिनिमित्तसंयोगे सत्यपि तद्गतानां बीजानां विरुद्धजातीयानामङ्कुरादिकार्यारम्भित्वम् । एवं मानुष्यकालीनाशयाधारेऽप्युपमर्द्यमाने, न विरुद्धजातीयदेवतैर्यग्योनाशयानां सर्वेषां युगपद्वृत्तिलाभः ॥

न च प्रायणमेव कर्मणामभिव्यञ्जकम् । दृष्टजन्मवेदनीयानां भोगार्थानां दर्शनात् । येषां प्रायणमेवाभिव्यञ्जकं तेषां सर्वेषां भवत्वभिव्यक्तिरिति चेत् – न – विरोधाद्दैवतैर्यग्योनमानुष्यकाश्यानाम् ॥

प्रायणानां च भूतभविष्यत्कालविशेषेर्वि(षावि)शेषोपपत्तेर्न सर्वकर्माभिव्यञ्जकत्वम् । प्रायणविशेषश्रवणाच्च प्रायणभेदः यथा – ‘यं यं वापि स्मरन्भावं त्यजत्यन्ते कळेबरम्’ इति स्मरणविशेषभेदात् प्रायणभेदः । तस्मान्न सर्वकर्मभिव्यञ्जकत्वं प्रायणस्य । अन्यथा विशेषणानर्थक्यप्रसङ्गात् ॥

न च स्मरणादिविशेषणेन प्रकृतस्यान्यथात्वं नाशो वा स्यात् । तन्नाशन्यथात्वकरणे हि स्मरणस्य प्रकृतकर्मसहकारित्वं न स्यात् । स्वतन्त्रं हि स्मरणं स्यात् । तथा चानुष्ठितकर्मनैरर्थक्यं भवेत् ॥

किञ्च – कललाद्यवस्थासु मृतानां मोक्षप्रसङ्गः । कर्मारम्भात् । तासां फलत्रवत्कर्मत्वमपीति चेत् – न – करणाव्यूहात् । करणेषु हि व्यूहितेषु कर्मणां वृत्तिलाभः फलत्वं च । न तदा तद्व्यूह उपपद्यते ॥

स्वप्नवदिति चेन्न । तत्रापि कर्मानभ्युपगमात् । श्रुतिश्च ‘स यत्तत्र किञ्चित्पश्यत्यनन्वायतस्तेन भवति’ इति कर्मणा स्वप्नदर्शनजेनासम्बन्धं दर्शयति । न कश्चित्स्वप्नैरपराधवानस्ति । ब्रह्महत्यादिकरणदर्शनात् । अथ स्कन्नप्रायश्चित्तादिदर्शनान्नेति चेन्न, रेतस्स्कन्दननिमित्तत्वात्प्रायश्चित्तस्य ॥

तसमाद्यद्यपि स्वप्नाद्यवस्थायामिव कललाद्यवस्थासु फलमभ्युपगम्यते, तथाऽपि करणव्यापाराभावात् स्वप्ननावस्थावदेव फलमात्रं तत्, न कर्मकर्तृत्वमिति मोक्षप्रसङ्ग एव गर्भप्रसृतानामपतित इति ॥

तस्मान्न सर्वकर्माभिव्यञ्जकत्वं प्रायणानां, तेषां च विशेषोपपत्तेरित्यत इदमुच्यते–तत्रादृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो योऽसौ ‘जन्मप्रायणान्तरे कृत’ इत्येवमादिभाष्येण त्रिविपाकारम्भित्वनियम उक्तः, न तु अद्दष्टजन्मवेदनीयस्य अनियतविपाकस्य । कस्मात् ? यस्त्वदृष्टजन्मवेदनीयः अनियतविपाकस्तस्य त्रयी गतिः ॥

कथम् ? कृतस्याविपकस्य विनाशः नाशकालमप्राप्तस्यैव नाश: । यथा—प्रायाश्चित्तादिना प्रतिषिद्धस्य कृतस्य नाशः ॥

प्रधानकर्मण्यावापगमनं प्रधानकर्मणि नियतवेदनीये आचापापाते: प्रधानकर्मफलातिरस्करेण स्वयमपि मन्दमन्दं फलं मध्यमनुप्रविश्य प्रयच्छति । यथा – सकलेषु तण्डुलेषु विपच्यमानषु असकला अपि तण्डुलकणा उप्ता अल्पीयांसमर्थ साधयन्त्येव । नियतविपाकप्रधानकर्माभिभूतस्य वाऽप्यवस्थानं नियतविपाकं यत्प्रधानकर्म प्रारब्धफलं तेनाभिभूतस्य न्यक्कृतस्य विरुद्धदेशकालनिमित्तविपाकत्वादवस्थानमू । यथा-विजिगीषमाणयोरन्तरेण प्रवृत्तराज्येनाभिभूतस्येतरस्यावस्थानं देशकालनिमित्तापेक्षया ॥ तत्र कृतस्याविपक्वस्य नाशो यथा शुक्लकर्मोदयादिहैव नाशः कृष्णस्य। यत्रेदमुक्तम् –“द्वे द्वे ह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतोऽपहन्ति तदिच्छस्व कर्माणि सुकृतानि कर्तुमिहैव ते कर्म कवयो वेदयन्ते।” विवरणम् विवरणम्

तत्र कृतस्याविपकस्य नाशो यथा शुक्लमोन्दियादिहैव तपस्वाध्याययोगादिलक्षणस्य शुद्धस्योदयात् प्रायश्चित्तादिलक्षणस्य च, कृष्णस्य अशुद्धिरूपस्य हिंसादिलक्षणस्य प्रागेव वृत्तिलाभात् नाशः । इहैवेति त्वविवक्षितम् । जन्मान्तरेऽपि प्राग्वृत्तिलाभान्नाशेपपत्ते: । यथा कौनख्यादिनिमित्तपापविशेषणां कौनख्यादिचिहैरवगम्य प्रायश्वित्तेन नाशः क्रियते ॥

तदेतत्तन्त्रान्तरप्रसिद्धेनोदाहरणेन व्याचष्टे—यत्रेदमुक्तं द्वे द्वे ह वै कर्मणी शुक्लकृष्णे जन्मनि जन्मनि साधकस्य पुरुषस्याधिकृतस्य । एको राशिः स्वाध्यायादिपुण्येन कृतः पुण्यकृतः अपहन्तीतरमपुण्येन कृतं राशिम् । अथ वा पुण्यकृतः पुरुषस्य शुक्लकर्मराशिः कृष्णकर्मराशिमपहन्ति । तदिच्छस्व तस्मात् स्वच्छकर्मणि स्वकीयानि कर्माणि शुक्लानि सुकृतानि कर्तुम् । कुतः ? यतः इहैव अत्रैव तव शर्म सुखं शान्तिं कवयो वेदयन्ते कर्मविपाकविभागज्ञाः ज्ञापयन्ति ॥ प्रधानकर्मण्यावापगमनम्। यत्रेदमुक्तं – “स्यात्स्वल्पः सङ्करः सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षायालम्। कस्मात्, कुशलं हि मे वह्वन्यदस्ति यत्रायमावापं गतः स्वर्गेऽप्यपकर्षमल्पं करिष्यति” इति। विवरणम् विवरणम्

प्रधानकर्मण्यावापगमनमुदाहरणेन प्रदर्श्यते-स्वल्पसङ्करः अल्पीयानू, दोषावकरः । कुतः ? सपरिहारः परिहारसहितः । परिहारमपेक्षते, न तु परिहृतः । परिहारशक्त्युणयाविज्ञानसमानाश्रय इत्यर्थः । सप्रत्यवमर्शः सप्रत्यवेक्षणः । कथमकार्य मया क्रियते कदा नु निस्तरिष्याम्येतत् न पुनः करिष्यामीत्यापदि प्रवृत्तस्याकार्यं कुर्वतः प्राणस्थित्यादिनिमित्तम् ॥

कुशलस्य कर्मफलदोषपरिहारादिविभागावशारदस्य विदुषः । नायमपकर्षाय नायं स्वल्पः सङ्करः पुण्यफलात्प्रवृत्ताद्वहुतरादपक्रष्टुम्, अपकृष्य च स्वकार्ये नियोक्तुं पर्याप्तः । अथ वा, कुशलस्य कर्मण एव नायमपकर्षाय पर्याप्तः । कस्मात् ? कुशलं हि मे । साधक एवं मन्यते । शुभं यस्मान्मम बह्वन्यदस्ति यत्रायं यस्मिन् बहुनि शुभे अयं सङ्कर अवापगतः स्वर्गेऽप्यपकर्षमल्पं करिष्यतीति ॥

नियतविपाकप्रधानकर्मभिभूतस्य वाऽप्यवस्थानम् । कथमिति दुष्टाभिप्रायः प्रश्नः । कथं ? प्रवृत्तराज्येनपरस्याप्रवृत्तराज्यस्याभिभवे युक्तो निमित्तभेदेन राज्यप्रवृत्तेः । इह तु निमित्तमाभिव्यञ्जकं मरणं सर्वेषां कर्मणां तुल्यं तस्मिंस्तु निमित्ते सति सर्वेषां कर्मणां वृतिलाभो युक्त इति प्रधानकर्माभभवो न युक्त इतरस्येति मन्यते । ततश्वावापगमनमेवास्त्विति ॥

अत्रोच्यते – तत्रादृष्टजन्मवेदनीयस्यैव अविरुद्धदेशकालविपाकदिनिमित्तस्य नियतविपाकस्य पुण्यापुण्यरूपस्यानेकस्य कर्मणः समानं मरणमभिव्यक्तिकारणमुक्तम् । न तु दृष्टजन्मवेदनीयस्य पुत्रग्रामादिविषयस्य, अनियतविपाकस्य वा अदृष्टजन्मवेदनीयस्य यथाकृतव्याख्यानस्य ॥

यत्त्वदृष्टजन्मवेदनीयमनियतविपाकं तन्नश्येदावापं वा गच्छेदभिभूतं वा चिरमप्युपासीत उदासीत, यावत्समानमविरुद्धं तुल्यजातीयमभिव्यञ्जकं निमित्तं कर्म । समानजातीयं हि कर्म विपच्यमानमेतदभिमुखं करोति ॥

तद्विपाकस्यैव तस्यानियतविपाकस्य कर्मणो विपाकस्यैव । देशकालनिमित्तानवधारणात्कस्मिन्वा देशे कस्मिन्वा निमित्ते कस्मिन्काले वा तत्कर्म विपाकाभिमुखं भविष्यतीत्यनवधारणात् । इयं गतिश्चित्रा दुर्ज्ञाना च भवति । चित्रा नाशावापाभिभवादिवैचित्र्यात् । दुर्ज्ञाना देशकालनिमित्तानवधारणात् ॥ नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानम्। कथमिति, अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं मरणमभिव्यक्तिकारणमुक्तम् न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य। यत्त्वदृष्टजन्मवेदनीयं कर्मानियतविपाकं तन्नश्येदावापं वा गच्छेदभिभूतं वा चिरमप्युपासीत, यावत्समानं कर्माभिव्यञ्जकं निमित्तमस्य न विपाकाभिमुखं करोतीति। तद्विपाकस्यैव देशकालनिमित्तानवधारणादियं कर्मगतिश्चित्रा दुर्विज्ञाना चेति। न चोत्सर्गस्यापवादान्निवृत्तिरित्येकभविकः कर्माशयोऽनुज्ञायत इति ॥ १३ ॥ विवरणम् विवरणम्

ननु चादृष्टजन्मवेदनीयस्य प्रायणेऽभिव्यक्तस्य एकमेव जन्म करोतीत्येकजन्मारम्भित्वमुक्तम् - तदिदानीं नाशावापाभिभवावस्थानादिवचनाद्वाध्येतेति चेत – न – उपपादितेोत्तरत्वात् अदृष्टजन्मवेदनीयस्य नियतविपाकस्येवायं नियम इति । न तस्योत्सर्गस्य अस्मादनियमापवादान्निवृत्तिरिति । कथं [न] निवृत्तिः ? एकभविकः कर्माशयो दुज्ञान इत्येवं न निवृत्तिः । अनियतविपाकस्याप्येकजन्मारम्भित्वं न प्रतिषिद्धमित्यर्थ: ॥

अथवा, उत्सर्गस्यापवादान्निवृत्तिरिति मत्वा नैकभविकः कर्माशयो दुर्शन इत्यनेन नञ् सम्बध्यते । यस्मादुत्सर्गस्यैकदेशस्यापवादो निवर्तको न सवैस्य, तस्मान्नियतविपकि एकभविक कर्मीशयः सुज्ञान एव ॥

अपरः कल्पः–इह कर्मगतिर्ज्ञातव्येति प्रकृतं, तस्यायमपवाद एकभविकः कर्माशयो दुर्ज्ञान इति । तत्रेतिशब्दो हत्वर्थे । यस्माद्धेतोरौत्सर्गिकस्य कर्मगतिज्ञानस्य प्रकृतस्य एतस्मादपवादान्न निवृत्तिरिति, तस्माद्यथा ज्ञेया कर्मगतिस्तथा ज्ञातव्यैव । दुर्ज्ञाना इति दुःखेन ज्ञेयत्वमुच्यते क्लेशेन ॥ १३ ॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४ ॥ ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफला अपुण्यहेतुका दुःखफला इति। यथा चेदं दुःखं प्रतिकूलात्मकमेवं विषयमुखकालेऽपि दुःखमस्त्येव प्रतिकूलात्मकं योगिनः ॥ १४ ॥ विवरणम् विवरणम्

कर्मांशय उपव्याख्यातो दृष्टजन्मवेदनीयश्व अदृष्टजन्मवेदनीयश्च । तस्यापि त्रिविधा विपाका जात्यायुर्भोगाः ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् । ह्वाद: सुखं, परितापी दु:खं, ह्वादश्च परितापश्च ह्वादपरितापौ, तौ फलं येषां ते ह्लादपरितापफलाः । तथा पुण्यं च अपुण्यञ्च पुण्यापुण्ये, ते एव हेतू येषां ते पुण्यापुण्यहेतवः, तेषां भावः पुण्यापुण्यहेतुत्वं, तस्मात्पुण्यापुण्यहेतुत्वात् । ते जात्यायुर्मोर्गाः पुण्यहेतुका: सुखफलाः । अपुण्यहेतुका दुःखफलाः । यथेदं दुःखं प्रतिकूलात्मकमेवं विषयसुखकालेऽपि दु:खमस्येव प्रतिकूलात्मकं योगिनः ॥ १४ ॥ कथं, तदुपपाद्यते – परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ १५ ॥ सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः। तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः। तथा चोक्तम् – “नानुपहत्य भूतान्युपभोगः सम्भवतीति हिंसाकृतोऽप्यस्ति शारीरः कर्माशयः” इति। विषयसुखं चाविद्येत्युक्तम्। विवरणम् विवरणम्

कथं विषयसुखकाले योगिन: दु:खमस्ति ? तथा पूर्वत्र चोक्तं दु:खे सुखख्यार्ति वक्ष्यतीति । तदुपपाद्यते प्रतिपाद्यते । तत्र चैतन्न प्रतिपादितम् । दुःखस्य कर्मकार्यत्वात्, कर्मानन्तरं प्रतिपादनयुक्तमिति, बहुवक्तव्यत्वाच्च । परिणामतापसंस्कारदुःखैर्गुणवृतिविरोधाच्च दुःखमेव सर्व विवेकिनः ॥

परिणतिः परिणामः, तप्तिस्तापः, संस्कृतिः संस्कारः, तापश्च संस्कारश्च तापसंस्कारौ, परिणामश्व तापसंस्कारौ च परिणामतापसंस्कारा:, त एव दुःखा दुःखनिमित्तानि, एतैः परिणामतापसंस्कारदुःखेहेन्तुभिः सर्वमेव दुःखम् । किन्तत्सर्व ? क्लेश । दुःखकारणत्वादेव हेतो: । कर्माण ह्लादपरितापफलत्वात् । जात्यायुभौगाश्व क्लेशादीनामाश्रयनिमित्तविषयाश्व दुःखहेतुत्वादित्येतत्सर्वमेव दुःखम् ॥

किं सर्वस्यैव ? नेत्याह- विवेकिन इति । क्लेशादीनां विभागविवेकी यस्य विद्यते स विवेकी ; तस्य क्लेशकर्मविपाकाभिज्ञस्य परिणामतापसंस्कारगुणवृत्तिविरोधात्मक(धाञ्च)सर्वदुःखत्वोपपादक(प्रतिपादक)हेत्वभिदर्शिन इत्यर्थ: । नेतरस्यानित्थन्दर्शिनः ॥

तस्य तु ततिमात्रं दुःखम् । तदपि ‘अहं तप्य’ इत्यात्मत्वेन प्रतिपद्यमानः तत्रापि संशयानोऽसौ ममेदं दुःखमित्येतावन्मात्रमपि विविङ्क्ते । यदि ह्येतावदप्यन्तरं विविश्चीत, ततो दुःखसाधनमप्येतद्दुःख(साधन)मिति मन्वीत ॥

तथा च सर्वमिदं दुःखमिति तितिक्षेदिति सोऽपि विवेकी स्यात् । तस्माद्यद्यपि तापकाले दुःखमात्रं पश्यन्ति, तथाऽपि न तत्साधनादि सर्वं दु खमिति मन्यन्ते निर्विवेकिनः । यस्य पुनः परिणामदुःखहेतुदर्शर्नं तस्य विवेकिनः सर्वमेव दुःखम् ॥

तत्र तावत्परिणामदुःखतां व्याचष्टे–सर्वस्यायं रागानुविद्धः । सर्वस्येत्यनेन सर्वप्राणिप्रसिद्धत्वादव्यभिचारिप्रत्यक्षावगम्यत्वं दर्शयति । चेतनाचेतनाधीनः पुत्रपुशुहिरण्यादिसाधनायत्तः सुखानुभव इति । सुखानुभवकाले रागो मनोव्यापार: तद्विशिष्टो हि सुखमनुभवति । स सर्वो व्यापार: क्लेशोपसंहितत्वाद्धर्माधर्महेतुः । तत्पूर्वश्च कर्माशयः प्रारब्धफल उपभुज्यते, भोगकाले चापर उपचीयते । ततश्व क्लेशमूलः कर्माशयः सति मूले तद्विपाक इत्युपपन्नं भवति ॥

तथा, सुखवेलायां सुखप्रत्यनीकभूतानि दुःखसाधनानि उपलभमानो द्वेष्टि, तथा सुखोपभोगपरिपालनव्यग्रनरमानसो मुह्यति चेति द्वेषमोहपूर्वव्यापारजनितोऽप्यस्ति कर्माशयः । अथवा द्वेषमोहावेव व्यापाररूपाविति तत्कृत एव ॥

तथा, यश्वासौ सुखोपभोगः स नानुपहत्य नानुपहिँस्य भूतान्युपभोगः सभ्भवतीति । उपभोग एवोपघातहेतुत्वादुपहन्तृवेन विवक्षित इति, समानकर्तृकत्वम् । अन्योऽपि मदीयमेवोपभोक्ष्यत इति मन्यते, तत्रापि सर्वोपभोगसामर्थ्ययुक्तं धनमित तस्मिन्नुपादीयमाने ध्रुवं परपीडा स्यात् । किमुत पीडयित्वैव यदुपादीयते । ततश्व हिंसाकृतोऽप्यस्ति कर्माशय: शारीरः । तदुपादानव्यापारस्य शरीरनिर्वर्त्यत्वात् ॥

एवमेकस्मिन्नुपभोगकाले बहुधा कर्मशयो लोभक्रोधमोहनिमित्त उपचीयते । तथा च रागद्वेषमोहविशिष्टत्वादनेकमुखकर्माशयविशिष्ट: सुखानुभवः परिणममानः सन्ननुबन्धे दुःखीभवतीति परिणामदुःखतेत्युच्यते । विवेकिनस्वेवं पश्यतः सुखानुभवकालेऽपि दुःखमस्येव । तद्यथा – विषदिग्धतां ज्ञात्वा दध्योदनं भुञ्जानस्य ॥

इतश्व सर्व दुःखमेव, अविद्यात्वाद्विषयसुखस्य । अविवेकप्रत्ययात्मको हि विषयसुखानुभवः । तदेतदाह – विषयसुखं चाविद्येत्युक्तमिति । क्वोक्तम् ? इहैव पर्यायशब्देन “अत्यन्तविवि[भ]क्तयोरत्यन्तासङ्कीर्णयोरविवेकप्राप्ताविव सत्यां भोगः कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति कुतो भोग इति” इत्यनेन भाष्येण ॥

यद्वा, सूत्रकोरेणोक्तमुपरिष्टात् “प्रत्ययाविशेषो भोगः” इति । अविद्या च परिणममाना सर्वमनर्थं करेति । ततश्व दुःखबीजावाद्दुःखमेव विषयसुखम् । यथा व्याधिनिमित्तत्वात् स्वादुतरमपि भक्ष्यमाणम् ॥ या भोगेष्विन्द्रियाणां तृप्तेरुपशान्तिस्तत्सुखम्। या लौल्यादनुपशान्तिस्तद्दुःखम्। न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम्। कस्मात्, यतो भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति। तस्मादनुपायः सुखस्य भोगाभ्यास इति। स खल्वयं वृश्चिकविषभीत इवाऽऽशीविषेण दष्टो यः सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति। एषा परिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि योगिनमेव क्लिश्नाति। विवरणम् विवरणम्

विषयसुखं चाविद्येत्यस्यैवार्थस्य प्रकाशनार्थ तन्त्रसिद्धमुदाहरणं दर्शयति–या भोगोष्विन्द्रियाणां भुज्यन्त इति भोगाः शब्दादयः तेषु निमित्तेषु या तृप्तिः तत इन्द्रियाणाम् उपशान्तिः उपशमः किमनर्थायासहेतुकया वृत्त्येति निराकुलतयावस्थानं तत् सुखम् ॥

या तु लैल्यादीप्सया तृणात: सकाशlदनुपशान्तः अनुपरतिः तद्दुःखम् । तदुक्तम् -

“नास्ति तृष्णासमं दुःखं नास्त्यतृष्णासमं सुखम्” इति ॥

ननु चोपभोगेनैव वैतृष्ण्ये भवति उपभोगान्ते । उपभोगश्व सुखें भविष्यति । तत आह–न चेन्द्रियाणां भोगाभ्यासेन शक्यं वैतृष्ण्यं कर्तुम् । कस्मात् ? अत आह–यतो भोगाभ्यासमनु विवर्धन्ते इन्द्रियाणां रागाः । तथा चेतम् –

“ न जातु कामः कामानामुपभोगेन शाम्यति ।

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ ’ इति ॥

कौशलानि नैपुणानि च भोगाभ्यासेष्वन्द्रियाणामनु विवर्धन्ते । यद्यपि मन:कौशलपूर्वकमिन्द्रियाणां कौशलं, तथाऽपि दृश्यत एव भिक्षा[क्ष्वा]दीनामिन्द्रियस्यापि कौशलम् । तस्मादनुपायः सुखस्य भोगाभ्यास इति भोगाभ्यासान्निवृत्तिरेव सुखम् ॥

स खल्वयं वृश्चिकभीत इवाशीविषेण दष्टो यः सुखार्थी विषयानन्ववसितः अन्ववबद्धः अनुप्रवृत्तोऽनुव्यवसितो वा, यथा मन्दविषाद्वृश्चिकादुपजातभीति: पटुतरेणाशीविषेण प्रस्तो महत्तरं दु:खमभिप्रपद्यते,

तथाऽयमप्रदुःखाभासायाः परिणाममहासुखाया निवृत्तो दुःखबुद्ध्या भीतः सन्नपारे महति दुःखपङ्के मग्न इयेषा परिणामदु:खता सुखस्य प्रतिकूला सुखावस्थायामपि योगिनः । स हे योगी प्रवृत्तवेपथुनैव हृदयेन प्रतिनियतवेदनीयस्य कुर्मणो बलीयस्वादनुभुङ्क्ते सुखम् । तस्मात् सर्वं दुःखं विवेकिनः ॥ अथ का तापदुःखता, सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति तत्रास्ति द्वेषजः कर्माशयः। सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते ततः परमनुगृह्णात्युपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति। स कर्माशयो लोभान्मोहाच्च भवतीत्येषा तापदुःखतोच्यते। का पुनः संस्कारदुःखता, सुखानुभवात्सुखसंस्काराशयो दुःखानुभवादपि दुःखसंस्काराशय इति। एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दुःखे वा पुनः कर्माशयप्रचय इति। विवरणम् विवरणम्

अथ तापदुःखता व्याख्यायते – सुखेपभोगस्तु परिणममानः सन्ननुबन्धे विज्ञाते विषदिग्धस्वादुदध्योदनोपभोगवद्द्दुःखीभवति, स्वरूपतः पुनरविद्यारूपोऽनुकूलवेदनागन्धोऽपि । इह पुनः स्वरूपत एव दुःखता तापस्य प्रतिकूलात्मकत्वात् ॥

कथम् ? सर्वस्य द्वेषानुविद्धः द्वेषानुगतः चेतनाचेतनसाधनाधीनः शत्रुकण्टकादिसान्धनयन्त्तः तापानुभवः पूर्ववर्देवधर्मफलम्मनु भवति अपूर्वश्चोपचीयमानः तत्रास्ति द्वेषजः कर्माशयः ॥

तेन च दुःखेन परितप्यमानः सुखसाधनानि चन्दनादीनि प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते चेष्टते । तच्च परिपन्दनं परानुग्रहाय परपीडनाय वा भवति । ततः परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति । स च परानुग्रहपीडाकृतो धर्माधर्माख्यः कर्माशयो लोभान्मोहाच्च प्रभवतीत्येषा तावत् तापदुःखता द्रधीयसी विप्रसृता । एवं पश्यतो विवेकिनः सर्वमेवाश्रयविषयनिमित्तैर्दुःखभिति ॥

अधुना ह्लादपरितापानुभवजनितसंस्कारदुःखमुच्यते—काः पुनः संस्कारदु:खता? सुखानुभवात् सुखसंस्काराशय, दुखानुभवादपि । दुःखसंस्काराशयः । सुखदुःखयो रागन्द्वेषानुविद्धत्वातत्संस्काराशयावपि रागद्वेषानुविद्धौ । एवं कर्मणो विपाके जात्यायुर्भोगाख्येऽनुभूयमाने सुखदुःखे भवतः ॥

ततोऽपि सुखदु:खानुभवसंस्काराशय: यथा नैरन्तर्येण सुखदु:खानुभवस्तथैव तदनुभवसंस्कारावपि रागद्वेषानुविद्धौ निरन्तरतया भवतः । तौ च सैस्काराशयौ क्रियाया उपभोगस्य चाङ्गीभवतः । एवं संस्काराशयंस्य दुःखहेतुत्वम् । संस्कारहेतुकं संस्कारदु:खं, तथा च तत्संस्कारदुःखता । न ह्मस्मरन्नुपभोग्मय क्रियायै वा साधनमुपादत्ते । स्मृतेश्च संस्कारनिमित्तत्वमुपपादितम् ॥ एवमिदमनादि दुःखस्रोतो विप्रसृतं योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति। कस्मात्, अक्षिपात्रकल्पो हि विद्वानिति। यथोर्णातन्तुरक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति न चान्येषु गात्रावयवेषु, एवमेतानि दुःखान्यक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति नेतरं प्रतिपत्तारम्। इतरं तु स्वकर्मोपहृतं दुःखमुपात्तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानमनादिवासनाविचित्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिवाविद्यया हातव्य एवाहङ्कारममकारानुपातिनं जातं जातं बाह्याध्यात्मकोभयनिमित्तास्त्रिपर्वाणस्तापा अनुप्लवन्ते। तदेवमनादिना दुःखस्रोतसा व्युह्यमानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यत इति। विवरणम् विवरणम्

यद्यपि संस्कारस्य स्वरूपतो दुःखता नास्ति, तथापि संस्कारस्य द:खहेतुतां जानतो विवेकिन: सत्तामात्रेण दु:खत्वं, भक्षितमात्रविषवत् । इत्थमेतैः परिणामतापसंस्कारहेतुभिः सर्वेमेवं दुःखमित्यनादिदुःखस्रोतो योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति ॥

ननु चेतरस्यापि प्रतिकूलात्मकमेव, कस्मान्न तमुद्वेजयति । नात्यन्तक्लेशादिकालुष्याविवेककिणीकृतचेतस्त्वादितरमुद्रेजयति । न प्रतिकूलात्मकता प्रभाव्यते । यो हि दयितामुष्टिघातं मुद्गराभिघातदेशीयमपि मस्तकेन प्रतीच्छति । पुत्रस्य वा मूत्रपुरीषमुरसा धारयति । असावानन्दमहोदन्वत्तरङ्गायमाणः [णं] स्वात्मन्यपि न वातितराम् [स्वात्मानमपि न वेति तराम्] । न हि तस्य तत्प्रतिकूलात्मकम् । रागमेव हि तदितरस्य प्रतिपत्तृत्वादभिवर्धयति तराम् ॥

ननु च योगिनोऽपि तत्समानं निमित्तं, कस्मात्तमुद्वेजयतीति । उद्वेजत्येव तम् । कस्मात् ? अक्षिपात्रकल्पो हि सः । प्रसन्नत्वाद्विरक्तत्वादित्यर्थः । तस्मान्न समानं निमित्तं तस्य, यतोऽसौ विद्वानिति । न हि विदुषः क्लेशादिकालुष्याविवेककिणीकृतचेतस्त्वम् । न च तत्किर्णाकृतचेतस्वतिरस्कारादृते विद्वत्ता । तस्मादक्षिपात्रकल्पत्वाद्विद्वांसमेवोद्वैजयति, नेतरम् ॥

तत्र दृष्टान्ताभ्यां विद्वदविदुषोरन्तरमाचष्टे–यथोर्णातन्तुरतिमृदुस्पर्शीऽप्यक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति स्वच्छतरत्वदक्षिपात्रस्य, तथा योगिनं विविक्ततरप्रज्ञानमकलुषहृदयमुद्वेजयति दुःखम् । स एवोर्णातन्तुरन्येषु गात्रेषु क्षिप्तः खरतरसंस्पर्शेनापि न दुःखयति, तथा नेतरं प्रतिपत्तारं दुःखं पीडयति, क्लेशादिकिणीकृतचेतस्वात् कठिनतरेतरगात्रावयवकल्पो हि सः ॥

तदिदमाह–एवमेतानि दु:खानि अक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति नेतरं प्रतिपत्तारम् । इतरस्य तु प्रतिपत्तुरितरगात्रावयवस्वभावतां दर्शयन्नाह–इतरं त्विति । तापा अनुप्लवन्त इत्येवमन्तेन वाक्यसमप्तिः ॥

स्वकारणोपहृतं दुःखप्राप्तिनिमित्तैश्चेतनाचेतनादिभिरुपहृतमुपनीतं बुद्धिवृत्तिद्वोरण पुरुषस्य कर्मतामापादितं, दुःखमुपात्तं त्यजन्तं शरीरत्यागेन, अन्यत्र च त्यक्तं पुनरन्यं शरीरादिलक्षणमेव दु:खसमुदायमुपाददानमनादिवासनाचित्रया अविद्यया चित्तवृत्या सर्वतोऽनुविद्धमिव ॥

इतरं प्रतिपत्तारं किंविशिष्टम् ? हातव्याहङ्कारममकारानुपातिनम् । कार्यकरणेषु तद्धर्मषु च क्रियागुणफलेषु विपर्ययेण प्रतिपत्तिरहङ्कारः । ममकारस्तु तेषु बाह्येषु च चेतनाचेतनेषु ममेति प्रत्ययः । तौ च विपर्ययत्वात् समस्तक्लेशकर्म विपाकबीजत्वाच हातव्यौ । न हि तावन्तरेण रागादयः कर्मविपाका वा समुदाचरन्ति । तस्माद्धातव्यौ तौ तावनुपतितुं शीलमस्येति हातव्याहङ्गारममकारानुपाती, तमू ॥

जातं जातम् अन्यगात्रावयवकल्पं बाह्याध्यात्मिकोभयनिमित्ताः बाह्यं देवता भूतानि च, अध्यात्मिकं कार्यं कारणं च, बाह्याध्यात्मिकानि चोभयानि च निमित्तं येषां ते बाह्याध्यात्मिकोभयनिमित्ताः ॥

त्रिपर्वाणः बाह्यादिनिमित्तमेव त्रिपर्वत्वम् । भूतभविष्यद्वर्तमानत्वं वा त्रिपर्वत्वम् । वक्ष्यति च “हेयं दुःखमनागतम्’ इति । यद्वा, क्लेशकर्मविपाकात्मकत्वम् । यद्वा, परिणामतापसंस्कारदुःखत्वम् । अतस्ते त्रिपर्वाणस्तापा अनुप्लावन्ते अनुषज्यन्ति ॥

त(मे)देवं अविवेक प्रतिपत्तारम् अनादिदु:खस्रोतसोह्यमानमात्मानं च दुःखस्रोतसि मग्नं तथा भूतग्रामं च दृष्ट्वा योगी सर्वदु:खक्षयकरं सम्यग्दर्शन शरणं प्रपद्यत इति ॥

ननु च योगित्वादेव सम्यग्दर्शनं प्रतिपन्नः । उच्यते – योगाङ्गानुष्ठानादेव योगित्वम्, ऋतेऽपि सम्यग्दर्शनात् । तस्मात् सम्यग्दर्शनसाधनत्वं योगस्य दर्शयति । योगं योगफलं च सर्वमेव दुःखं पश्यन् सम्यग्दर्शनैकशरणं प्रतिपद्यते । तथा च वक्ष्यति – “तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्? इति ॥ गुणवृत्तिविरोधाच्च दुःरवमेव सर्वं विवेकिनः। प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्री भूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेवाऽऽरभन्ते। चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम्। रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते, सामान्यानि त्वतिशयैः सह प्रवर्तन्ते। एवमेते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः सर्वे सर्वरूपा भवन्तीति, गुणप्रधानभावकृतस्त्वेषां विशेष इति। तस्माद्दुःखमेव सर्वं विवेकिन इति। विवरणम् विवरणम्

इतश्व सर्वं दुःर्खं विवेकिनः । कुतश्व ? गुणवृत्तिविरोधाच्चापि । ननु च किमर्थं सूत्रे पृथग्विभक्तिक्रिया? यावता परिणामतापसंस्कारगुणवृत्तिविरोधैरियेव कर्तव्यम् । नैष दोषः सुखदुःखानुभवतद्वासनाः सर्वजनप्रसिद्धा इति परिणामतापसंस्कारदुःखैरिति निर्दिष्टाः । तत्कारणविभागज्ञानविशारदस्यैव विवेकप्रकर्षवतो गुणवृत्तिविरोधा विज्ञेया इति पृथक्करणम् । सर्वदुःखहेतुत्वसामान्यात्वेकसूत्रविन्यासः ॥

गुणाः सत्त्वादयः, तेषां वृत्तयो गुणवृत्तयः, तासां विरोधाद्गुणवृत्तिविरोधात् । ते च गुणा अन्तःकरणद्याकारसन्निविष्टाः । तेषां गुणप्रधानभावेनाभिन्नपरिणामत्वाच्च विरुद्धवृत्तित्वं भवति । अन्यतमवृत्तिरुद्भवन्त्याऽन्यतमवृत्त्याऽभिभूयते ॥

एवं त्रयाणामपि प्रतिक्षण(पक्ष)मन्येन्यवृत्तितिरस्कार इतरेतरवृत्त्युद्भावित्वं च । न सुखदुःखमोहात्मकानां गुणानामन्यतमवृत्तिलाभोऽन्यतमाननुसंहितः । तत एतत्सिद्धं भवति – यदा दुःखात्मिकं रज उद्भवति, तदा दुःखत्वादेव तद्वृत्तेर्न दुःखमिति वक्तव्यम् । सत्त्वतमसेारीप रजोऽनुगतिरस्त्येवेति तयेरपि दुःखत्वमेव । सत्वतमःप्रवृत्तिनिवृत्योरपि रजोव्यापारानुजवाद्दुःखत्वमेव सर्वस्येति ॥

एतदुपब्याचष्टे – प्रख्याप्रवृत्तिस्थितिशीलाभिर्वृत्तिभिर्गुणाः परस्परानुग्रहतन्त्राः परस्परविरुद्धा अपि परस्परोपकार्योपकारकभावेन तैलवर्त्यग्निवत् शान्तं सात्त्विकं घोरं राजसं मूढ़ं तामसं प्रत्ययं त्रिगुणमेवारभन्ते । इ(तरे)तरयोरङ्गभावेनानुगतत्वाद्यदा सात्त्विकः शान्तः प्रत्यय उद्भूतः सोऽनन्तरमेवोद्बुभूषता तमोऽनुसंहितेन घोरेण राजसेन प्रल्ययेन हन्यते ॥

यदा च राजसो घोरः प्रत्यय इतरगुणानुगत उद्भूतो भवति सोऽनन्तरमेवोद्बुभूषता तामसेन प्रत्ययेन मूढेन सत्त्वानुगतेन सात्त्विकेन वा तमोऽनुगतेन हन्यते । तथा तामसोऽपीतरप्रत्ययाम्यां पर्यायेण । तथा सात्त्विकेन इतरावित्यन्योन्योदयाभिभवप्रवृत्तया गुणाः ॥

कस्मात् ? यतः चलं गुणवृत्तं गुणस्वभावत्वं चित्ताकारेण गुणाः सन्निविष्टा इति क्षिप्रपरिणामं चित्तमुक्तम् । क्व ? तन्त्रे ॥

कस्मात् पुनर्गुणा विरुध्यन्त इति । अनेकातिशयानामेकत्रासम्भवात् । यथा अपवरके तमःप्रकाशयोरतिशयवतोः, एवमन्तःकरणाकारसन्निवेशिनां सुखदुःखमोहरूपाणां प्रकाशप्रवृत्तिनियमवृत्तीनां गुणानां रूपेण वा सुखादिना वृत्त्या वा ज्ञानादिलक्षणया युगपदतिशयो न सम्भवति ॥

सामान्यानां त्वविरोधादव्यक्तरूपाणामतिशयर्व्यक्तैः सह वृत्तिर्युक्ता । तेन ‘रूपातिशया वृत्त्यतिशयाश्च विरुध्यन्ते । सामान्यानि त्वतिशयैः सह वर्तन्ते’ इत्युच्यते । यदा सुखरूपातिशयस्तदा न दुःखरूपातिशयो मोहरूपातिशयो वा । ’ तथा इतरातिशये नेतरातिशयः । तथा, ज्ञानवृत्त्यतिशये न लोभप्रतत्यवृत्त्यतिशयः । तथा, अन्यतमवृत्त्यतिशये नान्यतमवृत्त्यतिशयः ॥

एवमेते गुणा इतरेतरोपाश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः । सुखेन रजस्तसउपाश्रयेणोपार्जितः सुखप्रत्ययः । रजसापि सत्त्वतमउपाश्रयेणोपार्जितो दुःखप्रत्ययः । तसमापि सत्त्वरजउपाश्रयेणोपार्जितो मोहप्रत्ययः । ततः सर्वे सर्वकार्या भवन्ति ॥

यद्येवमयं प्रत्ययः सात्त्विकः, तामसोऽयं, राजसश्चायमिति विशेषः क इत्याह – गुणप्रधानभावकृतस्त्वेषां विशेष इति । प्रधानोपसर्जनतया सञ्ज्ञालाभालाभौ । यथा पाञ्चभौतिक्तवेऽपि पार्थिवं तैजसमाप्यमिति ॥

यत एवं गुणवृत्तिविरोधः, तस्मात् सर्वमेव दुःखं विवेकिन इति । गुणवृत्तिविरोधादित्येतत्परवैराग्यार्थम् । कथं ? परिणामतापसंस्कारदुःखैरिति दृष्टानुश्रविक्रविषयावतृष्णस्यैव सर्वस्य दु:खप्रतिपादनार्थ पृथग्विभक्तिकं कृतम् । न हि तत्र दुःखत्वमपश्यतो वैराग्यमुपकल्प्पत इति ॥

एतत्तु गुणवृत्तिविरोधाचेति गुणानां परस्परविरोधिवृत्तित्वेन दुःखत्वप्रतिपादनात्तेभ्यो व्यक्ताव्यक्तधर्मकेभ्यः परं वैराग्यमुपकल्प्यत इत्येवमर्थम् । तथा चात्रापि प्रधानोपसर्जनभावेन सर्वे सर्वरूपा भवन्तीति व्यक्ताव्यक्तधर्मत्वं प्रतिपादितम् । एवं च कृत्वा सूत्रेऽपि गुणवृत्तिविरोधाच्चेति पृथक् पठितम् ॥ तदस्य महतो दुःखसमुदायस्य प्रभवबीजमविद्या। तस्याश्च सम्यग्दर्शनमभावहेतुः। यथा चिकित्साशास्त्रं चतुर्व्यूहम् – रोगो रोगहेतुरारोग्यं भैषज्यमिति, एवमिदमपि शास्त्रं चतुर्व्यूहमेव। तद्यथा – संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति। तत्र दुःखबहुलः संसारो हेयः। प्रधानपुरुषयोः संयोगो हेयहेतुः। संयोगस्याऽऽत्यन्तिकी निवृत्तिर्हानम्। हानोपायः सम्यग्दर्शनम्। विवरणम् विवरणम्

परिणामतापसंस्कारदुःखधर्मत्वात् तस्यैतस्य महतो गुणगौणलक्षणस्य दुःखसमुदायस्य प्रभवबीजमविद्या । तस्याश्व सम्यग्दर्शनमभावहेतुः प्रतिपक्षत्वात् । भूतार्थाश्रयत्वाद्विद्याया अभूतार्थाश्रयत्वाच्चाविद्याया विद्यैवाभावहेतुः । यथा सद्विषयेणैकचन्द्रदर्शनेनसिद्विषयस्यानेकचन्द्रदर्शनस्य बाधनम् ॥

सह दुःखनिदानन क्लेशकर्मविपाकलक्षणेन सर्व दुःखमित्युपपादितम् । अनेन दुःखेन यो दुःखी विवेकी स एतस्य सम्यग्दर्शनशास्त्रस्य विषयः अधिकृतो, नेतरो दु:खस्यैव प्रतिपत्तृत्वादित्येतद्दृष्टान्तेन प्रतिपिपादयेषनाह – यथा चिकित्साशास्रं चतुर्व्यूहम् – रोगो रोगहेतुरारोग्यं भैषज्यमिति । रोगरोगोहतुमांस्तन्निविवर्तयिषुर्भैषज्यस्य शास्त्रस्यारोग्यस्य प्रयोजनस्य विषयः ॥

एवमिदमपि शास्रं चतुर्यूहमेव । यथा—संसारः संसहेतुर्मीक्षो मोक्षहेतुः । तत्र दुःखबहुलः संसारो हेयः । प्रधानपुरुषसंयोगो हेयहेतुः । संयोगुस्यान्तितिकी निवृत्तिर्हानम् । हानोपायः सम्यग्दर्शनमित्येते चत्वारो व्यूहाः ॥

यथा चिकित्साशास्त्रं रोगे रोगहतौ चारोग्ये च तत्प्रयोजनके भैषजये च चतुष्टये स्वरूपप्रतिपादनाय व्यूहितं, तत एव च रोगादयोऽस्य चत्वारो व्यूहा इति चतुर्व्यूहं, तथा अस्य शास्त्रस्य । दुःखबहुलः संसारः [हेयः], अविद्याहेतुकश्च प्रधानपुरुषसंयोगो हेतुः, सनिमित्तस्य संसारस्य हानं सम्यग्दर्शनशास्त्रस्य प्रयोजनं, तथा सम्यग्दर्शर्न चेति चत्वार एते व्यूहा अस्यापि इति चतुर्व्यूहं शास्त्रम् । एषु वाऽर्थेषु चतुर्धा व्यूहोऽस्येति चतुव्र्यूहम् ॥ तत्र हातुः स्वरूपमुपादेयं वा हेयं वा न भवितुमर्हतीति हाने तस्योच्छेदवादप्रसङ्ग उपादाने च हेतुवादः। उभयप्रत्याख्याने शाश्वतवाद इत्येतत्सम्यग्दर्शनम् ॥ १५ ॥ विवरणम् विवरणम्

तत्र हातुः स्वरूपमिति । ननु ‘द्रष्टा दृशिमात्र’ इति हातृलक्षणसूत्र एतद्वदितव्यम् । नैष दोषः । शास्त्रारम्भप्रयोजनप्रतिपिपादयिषुणा क्लेशादिकः समस्तो दुःखावसानः संसारो निर्वर्णितः । संसारी च यः संसारदुःखेन निर्विण्णो विवेकी सोऽस्य शास्त्रस्य विषय उपपादितः । तस्य विवेकिनः शास्त्रमत: परमारभ्यते । एतच्च प्रथमसूत्रे प्रदर्शितम् । आभ्यमाणस्य शास्रस्य सम्यग्दर्शनमेव प्रयोजनम् । तच्च संसारदुःखनिर्वर्णनानन्तरमवसरप्राप्तं प्रतिपादयितव्यमित्येतदुच्यते – तत्र हातुः स्वरूपमिति ॥

हाता पुरुषः, तस्य स्वरूपमुपादेयं वा हेयं वा न भवति । कुत एतदेवम् ? हेयोपादेयव्यतिरेकेण वस्त्वदर्शनात् । यथा लोके सुखं तत्कारणं चोपादेयं, दुःखं तत्कारणं च हेयम् , एवमयमपि पुरुषो वस्तुत्वादन्यतरधर्मी भवितुमर्हतीत्यभिप्रायः । किमतो यद्येवम् ? अत एतद्भवति, हाने त्वस्योच्छेदवादप्रसङ्ग इति ॥

यद्यसौ हेयत्वधर्मा, तत एष हातव्यः । हाने त्वस्य किं स्यात् ? आात्मोच्छेदवादप्रसङ्गः स्यात् । अतः को दोषः स्यात् ? दोषं कैवल्यपादे प्रतिपादयिष्यामः ॥

किञ्चान्यत् – अस्य हात्रन्तरस्य(किञ्चान्यतरस्य)अभावाद्धानानुपपत्तित्वम् । स्वयमेवात्मन आत्मा हातेति चेत् – न – स्वात्मनि क्रियाविरोधाद्भेदाभावाच्च । हेयादात्मन आत्मा हाता चेदन्यस्तदाऽनवस्थासङ्गः । यो यो हाता । तस्यापि हेयत्वात् । न च युगपद्द्वयोर्हत्रोः सम्भवोऽस्ति । भिन्नकालभाविनोस्तु हेयहातृत्वानुपपत्तिः ॥

हातुश्च हेयत्वाभ्युपगमे तस्यानवस्थितत्वाद्धेयसम्बन्धानुपपत्तिः । हातुरनवस्थितत्वे च स्वयमेव हेयत्वप्रतिपत्तेर्हातुर्हानायोद्यमानर्थक्यप्रसङ्गः । हानफलानुपपातिश्व । न हि बद्धस्य स्वरूपनाश एव फलम् । मोक्षो हि तस्य फलम् । नापि म्रियमाणोऽपि ज्ञातक्षणान्तरमरणः स्वरूपविनाशमिच्छति । विनाशस्यार्थप्राप्तत्वादेवमनवस्थितश्वेद्धाता न स्वरूपहानमिच्छेत्, अर्थप्रासेर्हानस्य ॥

यथा च हातुर्नित्य वं तथा द्रष्टृसूत्रे कैवल्यपदे च व्याख्यास्यामहे । तस्मान्न हेयत्वधर्मं पुरुषः । संसारस्तु महदादिव्यक्तिः दुःखबलो हेयः । तत्तुल्यधर्मकः पुरुषो न भवतीत्यर्थः । तत्तुल्यधर्भकत्वे तस्योच्छेदवादप्रसङ्ग इति ॥

अस्तु तर्ह्यपादेयः, यथा सुखार्थं सुखकारणं द्रव्यम् । नैतदेवम् । कस्मात् ? उपादाने त्वस्य हेतुवादग्रसङ्गात् । यस्य द्रव्याद्युपादानफलेन सम्बन्धः स चेदुपादीयेत, तन्निर्हेतुमस्योपादनं स्यात् । अन्यस्योपादातुरभावात् । न हि पटः पटेनैवोपादीयते । अन्यस्य ह्यन्यदुपादेयम् । उपादात्रन्तरसम्भवे हि तदनवस्थाप्रसङ्गः, सोऽप्यन्येनेपादीयते सोऽपि चान्येनेति ॥

किं च – पारार्थ्र्यप्रसङ्गश्च । अन्यस्य हि हेतोरन्यदुपादीयते, सत्वादिलक्षणस्य प्रधानस्योपादाने पुरुषो हेतुरभ्युपेयते, यथा घटाय मृत्पिण्डोपादाने कुलालो हेतुः । स चेत्पुरुषः प्रधानोपादनहेतुः प्रधानवदुपादीयेत, तस्यपि सत्त्वादिधर्मत्वं स्यात्, उपादेयत्वान्मृत्पिण्डवत् । ततेोऽस्य प्रधानस्य निर्हेतुकं कार्यार्थमुपादानं प्राप्नोति ॥

अथेश्वरार्थमुपादेयः, पुरुषाणां वा परस्परार्थमिति चेत्, भोग्यत्वाचेतनत्वपरिणामित्वादिदोषसामग्री प्रसज्येत, तस्मान्नापि प्रधानधर्मकः पुरुष इत्युपादाने च हेतुवादप्रसङ्ग इत्युच्यते ॥

तदुक्तम् – हेतुस्त्वपुरुषो भवतीति । तस्य चोपादने अहेतु: प्रधानवृत्तिर्निर्हेतुकी स्यात् । न च स्वयं स्वार्थं शक्यं विज्ञातुम् । प्रकाशादिषु स्वार्थत्वादर्शनातू ॥

उभयप्रत्याख्याने हेयत्वोपादेयत्वप्रत्याख्याने । शाश्वतवादप्रसङ्गः आत्मनित्यत्ववादप्रसङ्गः । यद्यपि प्रधानस्योपादेयस्यापि शाश्वतत्वं, तथाऽपि विकारात्मना तदशाश्वतमेव । अनेकात्मकत्वमशुचित्वमविद्यात्वं परार्थत्वमित्येवमादयो दोषाः प्रधान । पुरुषाणामपि तथात्वे सत्यनिर्मोक्षप्रसङ्गः । बन्धमोक्षयोस्तद्धेत्वोश्च विद्याविद्ययोः स्वरूपाव्यतिरेकाद्बन्धमुक्तयोश्व निर्विशेषत्वप्रसङ्गात् । तस्माद्धेयोपादेयत्वप्रत्याख्यानेन शाश्वतवाद इत्येतदेव सम्यग्दर्शनम् ॥ १५ ॥ तदेतच्छास्त्रं चतुर्व्यूहमित्यभिधीयते – हेयं दुःखमनागतम् ॥ १६ ॥ दुःखमतीतमुपभोगेनातिवाहितं न हेयपक्षे वर्तते। वर्तमानं च स्वक्षणे भोगारुढमिति न तत्क्षणान्तरे हेयतामापद्यते। तस्माद्यदेवानागतं दुःखं तदेवाक्षिपात्रकल्पं योगिनं क्लिश्नाति नेतरं प्रतिपत्तारम्। तदेव हेयतामापद्यते ॥ १६ ॥ विवरणम् विवरणम्

यथा चिकित्स्यव्यतिरिक्तरोगादिचतुष्टयमन्तरेण चिकित्साशास्त्रमारोग्यप्रयोजनं चतुर्व्यूहं न सम्भवति, तथेदमपि हातृस्वरूपव्यतिरिक्तहेयादिचतुष्टयमन्तरेण सम्यग्दर्शनशास्त्रं हानफलं चतुर्व्यूहं न सम्भवतीति, हेयादिचतुष्टयप्रतिपादनेन तदेतच्छास्त्रं चतुर्व्यूहमभिधीयते ॥

कथम् ? हेयं दुःखमनागतम् । दुःखमतीतम् अतिक्रान्तं, वर्तमानाज्जन्मनोऽतिक्रान्तजन्मलक्षणं दुःखं, तदुपभोगेनातिवाहितम् अतिनीतं न हेयपक्षे वर्तते ! स्वयमेव हीनत्वात् ॥

वर्तमानं च यज्जन्मलक्षणं दुःखम् स्वक्षणोपभोगारूढम् स्वं वर्तमानं भोगविशिष्टं क्षणमध्वानमुपभुज्यमानात्मकत्वेनारूढ़ं तत् दुःखं न क्षणान्तरे हेयतामापद्यते । स्वयमेव भोगेन हीनं न हानाय क्षणान्तरमपेक्षते ॥

तस्माद्यदेवानागतं प्रायणानन्तरभाविजन्मदुःखलक्षणं दुःखं तदेवाक्षिपात्रकल्पं योगिनं क्लिश्नातीति तदेव हेयं सम्यग्दर्शनेन हानीयमुच्यते । भविष्यज्जन्माभावायैव यतितव्यम् । न वर्तमानदुःखनिरोधाय ॥

वर्तमानजन्मयियतिषायां हि सम्यग्दर्शनमशक्यविनियोगत्वादनर्थकं स्यात् । मुक्तबाणवत् प्रवृत्तफलत्वाद्वर्तमानदुःखस्य । भविष्यति पुनरप्रवृत्तत्वाद्बीजनिरोध उपकल्पत इति सम्यग्दर्शनार्थवत्वम् । स्वविषयो हि सम्यग्दर्शनस्य स इति ॥ १६ ॥ तस्माद्यदेव हेयमित्युच्यते तस्यैव कारणं प्रतिनिर्दिश्यते – द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥ द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः। दृश्या बुद्धिसत्त्वोपारूढाः सर्वे धर्माः। तदेतद्दृश्यमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारिदृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः, अनुभवकर्मविषयतामापन्नं यतः। अन्यस्वरूपेण प्रतिलब्धात्मकं स्वतन्त्रमपि परार्थत्वात्परतन्त्रम्। तयोर्दृग्दर्शनशक्त्योरनादिरर्थकतः संयोगो हेयहेतुर्दुःखस्य कारणमित्यर्थः। तथा चोक्तम् – तत्संयोगहेतुविवर्जनात्स्यादयमात्यन्तिको दुःखप्रतीकारः। कस्मात्, दुःखहेतोः परिहार्यस्य प्रतीकारदर्शनात्। विवरणम् विवरणम्

तदेतच्छास्त्रं चतुर्व्यूहमभिधीयत इत्युक्तम् । एकश्चतुर्षु व्यूहः प्रतिपादितः हेयं दु:खमनागतमिति । इदानीं द्वितीयो व्यूहः तस्य दुःखस्य कारणं, हेतुः प्रतिनिर्दिश्यते ॥

ननु निर्दिष्टमव दुःखकारणमिति, तथैवोपसंहृतमन्ते – तस्यैतस्य महतो दु:खसमुदायस्य प्रभवबीजमविद्येति । सत्यमेवम् । किन्तु दु:खस्वरूपमात्रं तत्कारणस्वरूपमात्रं च पूर्वं निर्दिष्टम् । न च तत्स्वरूपमात्रे, इति तत्कारणं निर्दिश्यते । द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥

द्रष्टा च दृश्यं च द्रष्टृदृश्ये । तयेर्द्रष्टृदृश्ययोरिति । द्रष्टृदृश्यसंयोग इति तु वक्तव्ये पृथग्विभक्तिग्रहणं तयोर्भिन्नजातीयत्वख्यापनार्थम् । भोक्तृभोग्ययोः स्वस्वामिनोः प्रधानपुरुषयोरिति वा सूत्रयितुं शक्यत एव । तथापि द्रष्टृदृश्यग्रहणमनेन द्रष्टृदृश्यत्वेनैव संयोगो नान्यथेत्येवमर्थम् ॥

द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषो वक्ष्यमाणलक्षणः । प्रतिसंवेदितुं शीलमस्य स प्रतिसंवेदी । कस्य ? बुद्धेरिति । दृश्या बुद्धिः अन्तःकरणं प्रत्ययरूपेण ॥

ननु च शब्ददयोऽपि विषया दृश्या एवेत्यत आह – सत्वोपारुढाः सवें धर्माः शब्दादयो बुद्धिसत्वमुपारूढा बुद्धिप्रत्ययाकारा एव दृश्या न स्वतः । स्वतश्च दृश्यत्वे ज्ञाताज्ञातविषयत्वं पुरुषस्य स्यात् । सदा ज्ञातविषयत्वं च पुरुषस्य न्यायेन स्थाप्यते । तस्माद्बुद्धयुपारूढा एव सर्वे धर्मा दृश्याः ॥

तदेतद्दृश्यमयस्कान्तमणिकल्पम् अयसोऽपि क्रियार्थेनैवोपकर्ताऽयस्कान्तमणिर्यथा, तथा पुरुषस्य पुरुषार्थेन द्विविधेन भोगापवर्गलक्षणेनोपकर्तृत्वादयस्कान्तमणिरिव स्वं दृशिरूपस्य चितित्वरूपमात्रस्य स्वामिनः ॥

कथं स्वमित्यत आह – कर्मविषयत्वमापन्नं कर्मैव विषयः कर्मविषयः, कर्मत्वापत्तिरेव । विषयो दृशिरूपस्य दृश्यतामापन्न इत्येतत् । कथम्भूतं सत्कर्मविषयतामापद्यत इति तद्विशेषणार्थमाह – अन्यस्वरूपेण प्रतिलब्धात्मकमिति ॥

अन्यस्वरूपेण स्वपरपुरुषरूपेण शब्दादिरूपेण च प्रतिलब्धात्मकं प्रतिलब्धविशेषरूपं प्रतिलब्धपुरुषशब्दादिविशेषस्वभावं पुरुषस्वरूपेण लब्धात्मकं सद्दृश्यत्वेन कर्मतामापन्नमपवर्गार्थेन स्वं भवति । शब्दाद्याकारेण लब्धात्मकं सद्दृश्यत्वेन कर्मतामापन्नं भोगार्थेन स्वं भवति ॥

ननु कथं स्वतन्त्रस्य स्वत्वम् । न हि किञ्चित् स्वतन्त्रं स्वयं व्याप्रियमाणमन्यदपेक्षते । यदपि स्वव्यापारानुनिष्पादिपुरुषार्थरूपं, तदपि स्वभावादेव । न पुरुषनियोगकारि । तस्मात् स्वतन्त्रस्य सतः स्वत्वं न युक्तमित्यत आह – स्वतन्त्रमपि पुरुषार्थद्वयकर्तृत्वेन परार्थत्वात्त् परतन्त्रम् । ततश्च स्वमेव ॥

तयोर्दृग्दर्शनशक्त्योरिति । द्रष्टृदृश्ययोरित्युपक्रमस्य दृग्दर्शनशक्त्योरित्युपसंहारः, बुद्धिपुरुषसंयोगस्य बुद्ध्युत्पत्त्यनन्तरभावित्वादादिमत्त्वमाशङ्क्य तदनादिमत्त्वप्रदर्शनार्थं क्रियते । दृग्दर्शनशक्त्योरनादिः संयोगः । धर्मिणां नित्यत्वात् नित्यसम्बन्धोपपत्तेस्तच्छक्त्योरपि द्रष्टृदृश्यत्वलक्षणोऽनादिः संयोगोऽर्थकृतः पुरुषार्थप्रयोजनवश इत्यर्थः ॥

तथा च सत्यनादित्वेऽपि प्रयोजननिवृत्तौ संयोगनिवृत्तिरुपपद्यते । धर्मिणां तु स्वरूपसंयोगः सत्तामात्रेण न प्रयोजनकृत इति नित्य एव । धर्ममात्राभिस्त्वनित्याभिरनित्यः संयोगः । स तु बुद्धिपुरुषसंयोगो हेयहेतुः दुःखस्य कारणम् इत्यर्थः ॥

तथा चोक्तं तन्त्रे – तत्संयोगहेतुविवर्जनात् तयोर्बुद्धिपुरुषयोः संयोगस्तस्य हेतुरविद्या तद्विवर्जनात् । कथं विवर्जनम् ? विद्यया सम्यग्दर्शनेन तत्प्रतिपक्षेण निवर्तनात् । तस्मात्तत्संयोगहेतुविवर्जनात् आत्यन्तिकोऽत्यन्ताय प्रभवति दुःखप्रतीकारः । कोऽसौ ? यत्सम्यग्दर्शित्वम् ॥ तद्यथा – पादतलस्य भेद्यता, कण्टकस्य भेत्तृत्वं, परिहारः कण्टकस्य पादाऽनधिष्ठानं पादत्राणव्यवहितेन वाऽधिष्ठानम्, एतत्त्रयं यो वेद लोके स तत्र प्रतीकारमारभमाणो भेदजं दुःखं नाऽऽप्नोति। कस्मात्, त्रित्वोपलब्धिसामर्थ्यादिति। अत्रापि तापकस्य रजसः सत्त्वमेव तप्यम्। कस्मात्, तपिक्रियायाः कर्मस्थत्वात्, सत्त्व क्रिया नापरिणामिनि निष्क्रिये क्षेत्रज्ञे, दर्शितविषयत्वात्। सत्त्वं तु तप्यमाने तदाकारानुरोधी पुरुषोऽप्यनुतप्यत इति ॥ १७ ॥ विवरणम् विवरणम्

कथमेतदिति, प्रसिद्धं दृष्टान्तमाह–तद्यथा–पादतलस्य भेद्यता सुकुमारतरत्वात् । कण्टकस्य भेतृत्वं कर्कशस्वभावत्वात् । तत्संयोगो विशिष्टो दुखहेतुरित्यर्थसिद्धम् । तत्र कण्टकव्यथादुःखस्य परिहारः कण्टके पदा पादेन अनधिष्ठानम् अनाक्रमणम् । अथाधिष्ठानकारर्ण चेदस्ति पादत्राणव्यवहितेन वा पदाधिष्ठानम् । एतद्द्वयं यो वेद भेद्यभेत्तृद्वर्ये परिहारद्वयं वा यो वेद लोके स तत्रान्यतरं परिहारमारभते । स तत्र प्रतीकारमारभमाणी भेदजं कण्टकभेदजनितं दुःखं नाप्नोति ॥

तथेहापि पुरुषः सत्त्वद्वारेण कण्टकस्थानीयं प्रधानम्, तयोर्विशेष्टः संयेगोऽविद्यानिमित्तो दुःखकारणम् , दुःखपरिहारोऽप्ययम् – गुणगौणेभ्यः प्रधानमात्रविशेषेभ्यो दृश्येभ्यो निरपेक्षता, सम्यग्दर्शनेन प्रयोजनाभावं बुद्ध्वा पुरुषस्याविक्रियस्वात् कण्टकाधिष्ठानवच्छरीरारम्भिणी वा कर्मणो नियतवदनीयत्वादवश्यं फलदायित्वं बुद्ध्वा अप्रार्थितोपनतानां शब्दादीनां सम्यग्दर्शनव्यवहितेन सत्वेन भोगः । एवं परिहारं सञ्जानानः कण्टकभेददुःखपरिहारमिव संसारदुःखं नामेति ॥

कस्मादेतदेवमिति - त्रित्वोपलब्धिसामर्थ्यात् । प्रधानपुरुषसंयोगत्रित्वोपलब्धिसामर्थ्यात् । एवं हि विज्ञानस्य सामर्थ्यं दृश्यते । पादतलकण्टकतत्संयोगेष्वज्ञानस्य च त्रित्वानुपलब्धेर्दुःखहेतुत्वं दृश्यत एव ।

एतमर्थं प्रतिचिख्यापयिष्यन्नाह । अत्रापि तापस्य रजसः । यद्यपि प्रधानं कण्टकस्थानीयं तापकं, तथापि रजसो दुःखात्मकत्वात् रजोद्वारेणैव प्रधानस्य तापकत्वमित्युच्यते़ - तापस्कय रजस इति । तस्य रजसः कर्मभूतं सत्त्वमेव तप्यम् । कस्मात्? छिदिक्रियावत्तपिक्रियायाः कर्मस्थत्त्वात् । कर्मणि हि तपिक्रिया वर्तते । न रजसस्तापकस्य विषयिणि पुरुषे । तप्तेश्च फलस्य पुरुषविषत्त्वात् ।

न हि परशुश्च्छेत्तरि स्वात्मनि वा वर्तते छिदिर्वा फलं, विषय एव छेद्ये काष्ठादौ । एवं पुरुषस्यैव तप्तिः कर्मणि सत्त्वे वर्तमना फलं, रजश्च काष्ठादाविव परशुः सत्त्व एव पुरुषस्य दृश्ये वर्तते ।

इतश्च पुरुषे तपिक्रिया न वर्तते । अपरिणामित्त्वात् द्रष्टुः । तपिरपि हि कर्मविक्रिया । यथा छेदनस्य फलं छेद्यस्य कर्मणो द्वैधीभावो विक्रिया, तद्वत् । नापरिणामिनि निष्क्रिये क्षेत्रज्ञे । अपरिणामित्त्वं च सदा ज्ञातविषत्वेन साधयिष्यति ।

यद्येवं पुरुषश्चेन्न तप्यते पुरुषार्थं प्रधानं प्रवर्तत इत्येतदनुपपन्नम् । वृत्तिसारूप्येणोक्तोत्तरत्त्वात् । तदेवेदमुच्यते - दर्शितविषत्त्वात् । अपरिणामिनोऽविक्रियत्त्वात् दर्शितविषयत्त्वम् । तस्मात् दृशिकर्मणि सत्त्वे तप्ये तदाकारानुरोधी तदाकारानुवर्ती । तदाकारानुरोधित्वं तद्दृशिसन्निधौ बौद्धस्य प्रत्ययस्य दृशिरूपावभासता । यथा लाक्षारससन्निधौ स्फटिकस्य लाक्षाकारावभासता, तथा पुरुषोऽपि तप्यत इत्युपचर्यते ॥ १७ ॥ दृश्यस्वरूपमुच्यते – प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ १८ ॥ प्रकाशशीलं सत्त्वम्। क्रियाशीलं रजः। स्थितिशीलं तम इति। एते गुणाः परस्परोपरक्तप्रविभागाःपरिणामिनः संयोगवियोगधर्माण इतरेतरोपाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वेऽप्यसम्भिन्नशक्तिप्रविभागास्तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः प्रधानवेलायाम् उपर्दशितसन्निधाना गुणत्वेऽपि च व्यापारमात्रेण प्रधानान्तर्णीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः सन्निधिमात्रोपकारिणोऽयस्कान्तमणिकल्पाः प्रत्ययमन्तरेणैकतमस्य वृत्तिमनु वर्तमानाः प्रधानशब्दवाच्या भवन्ति। एतद्दृश्यमित्युच्यते। विवरणम् विवरणम्

दृश्यस्वरूपमुच्यते । ननु च द्रष्टृदृश्ययोरित्युक्तं पूर्वसूत्रे । तत्र क्रमप्राप्तसन्निधानं दृष्ट्रस्वरूपमेव पूर्वं वक्तव्यम् । नैष दोषः । दृश्यस्वरूपावगमपूर्वकत्वाद्द्रष्टृस्वरूपावबेधस्य । दृश्यस्य हि स्वात्मव्यतिरिक्तद्रष्ट्रर्थवाद्व्यतिरिक्तद्रष्टृसद्भावसिद्धिः । अत एव प्राधान्यात् पूर्वसूत्रे द्रष्टुः पूर्वनिपातः कृतः । तल्लक्षणे त्वर्थक्रमो विवक्ष्यते ॥

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् । प्रकाशश्च क्रिया च स्थितिश्च प्रकाशक्रियास्थितयः । प्रकाशस्याभ्यर्हितत्वात् पूर्वनिपातः । बहुषु चानियमात् स्थितिक्रियाशब्दयोरनियम इति क्रियाशब्दस्य पूर्वनिपातः । ता एव शीलं यस्य तत्प्रकाशक्रियास्थितिशीलम् । प्रकाशनं प्रकाशः, स शीलं यस्य तत् प्रकाशशीलं सत्त्वम् । ननु च यदा प्रकाशनं क्रिया, कथं । तच्छीलं सत्त्वं स्यात १ रजो हि तच्छीलं, स्थितिशीलं वा तमः कथमिति ॥

ननु च स्वरूपमेव तत्प्रकाशनं स्थितिश्च । न । स्वरूपमात्रे शीलशब्दायोगात् । न हि मृदङ्गशीले मार्दङ्गिकः । मृदङ्गवादनशीलो हि स उच्यते । न हि व्यापारशून्ये क्वचिदपि शीलशब्दः · प्रयुज्यते ॥

ननु च स्थितिप्रकाशावपि सत्त्वतमसोः स्वरूपम् । तदेतेनैव गम्यते स्वरूपे शीलशब्दः प्रसङ्क्ष्यत इति । उच्यते – न स्वरूपे सर्वत्र शीलशब्दप्रयोगः । इहापि रजसि दुःखस्वरूपे क्रियाशीलमिति क्रियया सम्प्रयुज्य शीलशब्दव्यपदेशः । स्थितिप्रकाशावपि व्यापाररूपावभिप्रेतौ ॥

अथ मतं – क्रियापि रजसः स्वरूपमेवेति – न – प्रधानावस्थायां साम्याभ्युपगमात् गुणानाम् । यदि क्रिया रजसः स्वरूपमभविष्यत् प्रधानस्यापि क्रियावत्वं गुणसाम्यावस्थायामभुविष्यत् । कार्यावस्थायां हि क्रियावत्वमभ्युपगम्यते, न प्रधानवेलायाम् । तस्मान्न स्वरूपाभिप्रायेण शीलशब्दप्रयोगः ॥

तत्राक्रियाशीलयोरपि सत्त्वतमसोर्नित्यं क्रियाशीलेन रजसा संयोगाद्रजः क्रिययैव क्रियावत्त्वं स्थितिप्रकाशयोरपीति तत्क्रियोपचारेण प्रकाशशीलं सत्त्वं स्थितिशीलं तम इति व्यपदिश्यते । स्थितिप्रकाशयोरात्मलाभस्य रजःक्रियापूर्वत्वाच्चलतोरेवाभिव्यक्तेस्ताच्छील्यं सत्त्वतमसेरुच्यते ॥

तत्र प्रकाशशीलं यत्तत्सत्त्वम् । क्रियाशीलं प्रवृत्तिशीलं रजः । स्थितिशीलं वरणशीलं नियमशीलं तम इत्येते गुणाः परस्परोपरक्तप्रविभागाः परस्परेणोपरक्त: प्रविभागे भेदो येषां गुणानां ते परस्परोपरतप्रविभागाः ॥

यथा प्रकाशशीलमिति सत्त्वमुच्यतेऽत्रैव । रजःक्रियोपरञ्जनात् सर्वावभाससमर्थस्यापि सत्वस्य नियतप्रकाशत्वं तमउपरक्तत्वेन । तथा रजसोऽपि प्रवृत्त्यभिव्यक्तिः सत्त्वोपरागेण ! नियतप्रवृत्तित्वं तु तमउपरागेण ! तथा तमसेऽपि स्थिल्यभिव्यक्तिः सत्वोपरागेण ! स्थितिशीलत्वं रजउपरागेण । स्थितिस्तु स्वत एव । रजसेऽपि प्रवृत्तिः स्वतः । सत्त्वस्यापि प्रकाशः स्वत एव । इत्थमेवान्येष्वपि कार्येषु सत्वादीनामितरेतरोपरागो द्रष्टव्यः ॥

संयोगवियोगधर्माणः । संयोगश्व वियोगश्व संयोगवियोगौ, तौ धमैं येषां ते संयोगवियोगधर्माणः । कस्मिंश्चित् कार्यं अआरम्भभ्माणे गुणप्रधानभावेनान्योन्यं संयुज्यन्ते । तथैवारब्धकार्यविरोधिधर्मान्तरोदये परस्परं वियुज्यन्ते ॥

इतेरेतरोपाश्रेयणोपार्जितमूर्तयः-महदादिस्तम्बपर्यन्ता मूर्तय इतरेतरोपाश्रयेणोपार्जिता धर्मधर्मिलक्षणा यैस्ते इतरतरोपाश्रयेणोपार्जितमूर्तयः ॥

परस्परतो भिन्ना अपि-परमार्थतोऽन्योन्यतोऽन्योऽपि । असम्भिन्नशन्तिप्रविभागाः-अत्यन्तं व्यावृत्तकार्यारम्भाभिमुख्यसामथ्र्यप्रभेदाः ॥

एतदुक्तं भवति – एकस्मिन् कार्य आरब्धव्येऽत्यन्तव्यतिषक्तपरस्परशक्तयः कार्यारम्भकाले पृथक्त्वेनानुपलक्ष्यमाणशक्तिप्रविभागा इति ॥

तुल्यजातीयातुल्यजातीयशतिभेदानुपतिनः । सात्विकानां सत्त्वं तुल्यजातिः, राजसानां रजस्तुल्यजातिः, तामसानां तम इति च । परस्परापेक्षया तु भिन्नजातीयत्वम् । तुल्यजातीयातुल्यजातीयानां शक्तिप्रभेदमनुपतितुं शीलं येषां ते तुल्यजातीयातुल्यजातीयशक्तिप्रभेदानुपतिनः । न हि सात्त्विके वा राजसे तामसे वा प्रारब्धव्यस्य त्रयाणां शक्तिप्रभेदानुपातमन्तरेण कार्यारम्भः सम्भवति ॥

यद्येवं सर्वशक्तिप्रभेदानुपातित्वदेकैकस्य कार्यारम्भे तुल्यै प्राधान्यमित्यत आह – प्रधानवेलायामुपदर्शितसन्निधानाः सर्वे । एकैकस्मिन् प्राधान्येन स्वकार्यारम्भिणि तत्काल इतरयोरपि सन्निधानमुपसर्जनभावेनोपदर्शितमिति प्रधानवेलायामुपदर्शितसन्निधानाः । न हि सर्वेषां युगपत् प्राधान्यम् । समप्रधानत्वे हि प्रधानमेव भवेयुः, न कार्यरम्भित्वम् ॥

अथेच्यते – कथं पुनरेकस्मिन् प्राधान्येन कार्यारम्भिणीतरास्तित्वमवगम्यत इति । तदुच्यते – गुणत्वे चोपसर्जनभावे च व्यपारमात्रेण प्रधान उपलक्ष्यमाणेन व्यापारमात्रेण । प्रधानान्तर्नीतेन न हि प्रधानस्यान्तर्नातो व्यापारः इतरयोरुपसर्जनभावेनासान्निधाने सम्भविष्यतीति प्रधानव्यापरिणानुमितास्तित्वाः ॥

पुरुषार्थेतिकर्तव्यताप्रयुक्तसामर्थ्याः पुरुषार्थे भोगापवर्गौ तस्येतिकर्तव्यता यथा यथा अर्थनिष्पत्तिस्तथा तथा प्रयुक्तं कार्यारम्भं प्रति सामर्थ्यं येषां ते पुरुषार्थेतिकर्तव्यताप्रयुक्तसामर्थ्याः ॥

सन्निधिमात्रोपकारिणः विकारप्रत्ययरूपसन्निधिमात्रेण पुरुषस्येपकुर्वन्तीति सन्निधिमात्रेोपकारिणः । अयस्कान्तमणिकल्पाः ॥

प्रत्ययं वृत्तिं ज्ञानमन्तरेण एकतमस्य वृत्तिं स्थितिलक्षणां समतामनुवर्तमानाः । प्रधानशब्दवाच्या भवान्ति । नैव त्रिगुणीव्यतिरेकेणान्यत्प्रधानं नामास्ति । त एव गुणा: साम्यावस्थाः प्रधानैकशब्दाभिधानीयकं प्रतिपद्यन्ते । वैषम्यं भजन्ते विकारशब्दाभिधेया वृत्तिमन्ते भवन्ति ॥

एतद्दृश्यमित्युच्यते । तदेतद्भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते। तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति। तत्तु नाप्रयोजनमपि तु प्रयोजनमुररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तद्दृश्यं पुरुषस्येति। तत्रेष्टानिष्टगुणस्वरूपावधारणमविभागापन्नं भोगो भोक्तुः स्वरूपावधारणमपवर्ग इति। द्वयोरतिरिक्तमन्यद्दर्शनं नास्ति। तथा चोक्तम् – अयं तु खलु त्रिषु गुणेषु कर्तृष्वकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे तत्क्रियासाक्षिण्युपनीयमानान्सर्वभावानुपपन्नाननुपश्यन्नदर्शनमन्यच्छङ्कत इति। विवरणम् विवरणम्

तदेतद्दृश्यं भूतेन्द्रियात्मकं भूतात्मकमिन्द्रियात्मकं च । कथं तदात्मकत्वमित्याह – भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन सूक्ष्मेण तन्मात्ररूपेण स्थूलेन विशेषरूपेण । द्विविधो हि भूतभावस्तन्मात्ररूपो विशेषरूपश्च । विपरिणमते स्थूलसूक्ष्मभावमापद्यते । इन्द्रियभावेनेद्रियरूपेण श्रोत्रादिना सूक्ष्मस्थूलेन विपरिणमते । सूक्ष्मेणाहङ्काररूपेण स्थूलेन श्रोत्रादिरूपेण ॥

तत्तु दृश्यं नाप्रयोजनम् । सर्वत्रैव प्रवृत्तेः प्रयोजनदर्शनात् । अपि तु प्रयाजनमूरीकृत्य अङ्गीकृत्य प्रवर्तते । किं पुर्नदृश्यप्रवृतिप्रयोजनमित्याह – भागापवर्गार्थं हि दृश्यं पुरुषस्य अग्न्यादिप्रतिपत्तिवत् ॥

कौ पुनस्तै भोगापवर्गवित्याह – तत्रेष्टानिष्टगुणस्वरूपावधारणमविभागापन्नम् इष्टानाम् अगरुचन्दनस्पर्शनादिलक्षणानाम् अनिष्टानां प्रतिकूलात्मकानां कृपाणकण्टकादिस्पर्शनरूपणां गुणानां स्वरूपावधारणं स्वरूपावगमः स्वरूपाध्यवसानम् । तस्य विशेषणम् अविभागापन्नं पुरुषप्रत्यये ‘नायं पुरुष इदं सत्त्वम्’ इत्यविभागतां गतम् । प्राप्तचैतन्योपग्रहरूपवाद्बौद्धस्य प्रत्ययस्य । स इत्थम्भूतः पुरुषस्य भोग इत्याख्यायते ॥

तस्माद्भोगस्वरूपाद्बौद्धातू प्रत्ययाद्विविच्य तत्साक्षिणो दृशिरूपस्य स्वरूपावधारणं भोक्तृस्वरूपादवधार्यमाणादुत्तरकालमप्यपवृत्तस्य विशेषाभावादपवर्ग इत्युच्यते । सर्वदा स्वरूपप्रतिष्ठो हि (तदा) स इति । वृत्तिसारूप्यमितरत्र विशेष इति ॥

द्वयोर्भोगापवर्गयोरतिरिक्तमन्यत्तृतीयं दर्शनं नास्ति । यावदविद्या तावदिष्टानिष्टे स्त इति भोग एव । पुरुषस्य त्वहेयानुपादेयस्वरूपत्वात् तदवधारणे कुतो भोग इति भोगरूपस्याविद्यालक्षणस्य प्रत्ययस्य प्रतिपक्षः प्रत्ययः पुरुषावधारणम् । यस्मादेतदत एतद्दर्शनद्वयव्यतिरेकेण तृतीयं दर्शनान्तरं न कल्पयितुं शक्यते ॥

तथा चोक्तम् – अयं तु खल्वेवं सम्यग्दशी त्रिषु गुणेषूक्तलक्षणेषु कर्तुषु सर्वव्यापारनिर्वृत्तिकरेष्वकर्तरि च गुणधर्मविलक्षणे पुरुषे चतुर्थे तत्क्रियासाक्षिणि गुणक्रियासूपद्रष्टरि सन्धिक्रियासाक्षिभूतोपद्रष्टृवदुपानीयमानान् अन्तःकरणलक्षणैर्गुणैः प्राप्यमाणान् दर्शितविषयत्वात् सर्वभावान् उपपन्नान् गैणानेव बौद्धप्रत्ययाकरण परिनिष्पन्नान् पश्यन् उपलभमानो नाहं न ममेत्येवं न दर्शनमितेऽन्यत् सम्भवति सम्यग्दर्शनमिति न शङ्कते । नास्त्येवान्यत् सम्यग्दर्शनमिति मन्यते ॥ तावेतौ भोगापवर्गौ बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति। यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तत्फलस्य भोक्तेति, एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुषे व्यपदिश्येते, स हि तत्फलस्य भोक्तेति। बुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्धस्तदर्थावसायो मोक्ष इति। एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः। स हि तत्फलस्य भोक्तेति ॥ १८ ॥ विवरणम् विवरणम्

तावेतौ भोगापवर्गौ बुद्धिकृतौ बुद्विनिर्वर्तितौ बुद्धावेव वर्तमानौ । अन्यकृतस्याप्यन्यत्र वृत्तिर्दृष्टा यथा रजककृतो वस्त्रराग इति कथं पुरुषेऽपदिशयेते? इति तौ बुद्धावेव वर्तमानौ पुरुषेऽपदियेते इति कुत एतत् ? स हि तत्तत्फलस्य भोक्तेति सम्यङ्मिथ्याप्रत्यययोरुपलब्धेति ॥

दृष्टान्तेन व्याख्यातमर्थं निगमयति – यथा विजयः पराजयो वेति । बुद्वेरेवार्थापरिसमाप्तिर्बन्ध इति । यावत् समाप्तौ कर्तव्यौ भोगाऽपवर्गाविति बुद्धिर्मन्यते तावद्बन्धः । तदर्थावसायो मोक्षः । तस्या एव बुद्धेरर्थावसायः कर्तव्यसमाप्तिः । यदा आत्मविलक्षणं बन्धमोक्षासम्बन्धिनं पुरुषमीक्षते नास्य कर्तव्यमस्तीति, स कर्तव्यावसायो बुद्धेर्मोक्ष इति ॥

एतेन ग्रहणधारणविज्ञानोहापोहक्रियावचनयथान्यायावधारणाभिनिवेशाः पुरुषेऽव्यारोपितसद्भावा इति ज्ञेयाः । प्रत्ययत्वाविशेषात् बुद्धिधर्माः बुद्धावेव वर्तमानाः बुद्धिकृताः पुरुषेऽध्यारोपितसद्भावाः पुरुषो गृह्णाति पुरुषो धारयतीत्येवमेव पुरुषे अप्यारोप्यन्ते ॥

ग्रहणं शब्दादीनां श्रोत्रादिभिरुपादानम् । गृहीतानामविस्मरणं धारणम् । धारितस्य सामान्यविशेषावधारणं विज्ञानम् । विज्ञातस्यैव पुनस्तद्गतविशेषावबुभुत्सयोहनमूहः । ऊहितस्य विरुद्धानां धर्माणां व्युदसनमपोहः । विषयेषु प्रवृत्तिः क्रिया । वाक्यविषयो वृत्तिविशेषश्चि तस्य वचनम् । यो यो न्यायो यथान्यायं यस्य च वस्तुनो यथैवोपपत्तिस्तथैवावधारणं यथान्यायावधारणम् । तत्र पुनः पुनः सम्यक्प्रत्ययाविचलनाय यश्चित्तस्याभियोगः सोऽभिनिवेशः । त एते ग्रहणादयः पुरुषेऽध्यारोपितसद्भावाः । स हि तत्फलस्य भोक्तेति ग्रहणदिफलस्योपलब्धेति ॥ १८ ॥ दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते – विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९ ॥ तत्राऽऽकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः। तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि, एकादशं मनः सर्वार्थम्, इत्येतान्यस्मितालक्षणस्याविशेषस्य विशेषाः। गुणानामेष षोडशको विशेषपरिणामः। विवरणम् विवरणम्

दृश्यानां ‘गुणानां यथाव्याख्यातात्मनां स्वरूपभेदावधारणार्थं तत्त्वावरथाभेदावधारणार्थमिदं सूत्रमारभ्यते – विशेषाविशेषलिङ्गमात्रालिङ्गा गुणपर्वाणः । विशेषाश्चाविशेषाश्व लिङ्गमात्रं चालिङ्गश्च, न लिङ्गति, कुतश्चिन्नागच्छति प्रधानाख्योऽर्थ इति पचाद्यच् सर्वधातुभ्य इति यौगिकस्सनभिधेयलिङ्गे भजते । यो हि चिह्नपर्यायो लिङ्गशब्द: स नपुंसकलिङ्गः । स च करणसाधन इति । अथ वा लिङ्गं न विद्यते, लिङ्गमवगमनं परिच्छेदः प्रत्यक्षेण प्रधानाख्यस्यार्थस्यासावलिङ्गः इति बहुव्रीहिः ॥

ते च विशेषादयः पुरुषाभिप्रायं पालयन्ति भोगापवर्गप्रदानेन, पूरयन्ति वा विकारान् स्वानिति पिपर्तेः ‘अन्येभ्योऽपि दृश्यन्ते’ इति कर्तरि वनिप्रल्ययः ॥ तथा च सति यन्नान्तमकर्तरि तन्नपुँसकम् । यतु नान्तं कर्तरि तत्सर्वलिङ्गं भवति । यथा मेरुदृश्वा मेरुदृश्वनीति । ततश्च विशेषादयः पर्वणः । केषां ते सम्बन्धिन इति? गुणानां पर्वाणो गुणपर्वणः । केषाञ्चिदयमेव पाठो – विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणीति ॥

तत्राकाशवाय्वग्निजलभूमयो भूतानि । शब्दतन्मात्रारब्धमाकाशम् । स्पर्शतन्मात्रण शब्दस्पर्शलक्षणेनारब्धो वायु; । रूपतन्मात्रेण शब्दस्पर्शरूपलक्षणेनारब्धोऽग्निः ॥ रसतन्मात्रेण शब्दस्पर्शरूपरसचतुष्टयलक्षणेनाऽऽप आरब्धाः । गन्धतन्मात्रेण शब्दस्पर्शरूपरसगन्धपञ्चतयलक्षणेन भूमिरारब्धा ॥

ननु च नित्यमाकाशम् , प्रागुत्पत्तेर्विनाशकालं च विशेषाभावात् । यो य उत्पतिमांस्तस्य तस्य पृथिव्यादेः प्रागुत्पत्तेर्विनाशोत्तरकालं च विशेषो दृष्टः । तथा आकाशं यद्युत्पत्तिमत् स्यात् प्रागुत्पत्तेर्विनाशोत्तरकालं च भवेद्विशेषः । न च सोऽस्ति । तस्मादाकाशमनुत्पत्तिकम् ॥

अथावकाशदानाभावो विशेष इति चेन्न, मूर्तिमतोऽन्यस्याभावात्तुल्यं नित्यत्वेऽपि । अनित्यलक्षणाभावाच नित्यमाकाशम्, सर्वगतत्वादात्मादिवत् ॥

न – आगमाविरोधात् । “तस्माद्वा एतस्मादात्मन अकाशः सम्भूतः’ इत्यागमविरोधः । स्मृतिविरोधश्च । अवकाशं कुर्वते तदुपचार इति चेन्न, वाय्वादिष्वप्युपचारप्रङ्गात् । आकाशाद्वायुः सम्भूत इत्येकवाक्यत्वात् ॥

प्रागुत्पत्तेर्विशेषाभावादानित्यो न भवतीति च ब्रुवता विशेषाभावान्नित्यत्वमित्युक्तं भवति । विशेषभावाच्चानित्यत्वमित्युक्तं भवति । तथा च सत्यात्मदीनामपि बन्धमोक्षोपलब्ध्यनुपलब्ध्यादिविशेषाभावात् सतो वैशेषिकस्य अनित्यत्वप्रसङ्गः । तथा, परमाण्वादीनां चानित्यत्वं प्रसज्येत ॥

अथाप्युत्पत्तिमत एव प्रागूर्ध्वं च विशेषभावाभावै विवक्षिताविति चेत् – न – आकाशस्योत्पत्यभ्युपगमप्रसङ्गात् । अथाकाशोत्पतिवादिना विशेषो वक्तुं न शक्यत इति चेत् – न – पुरुषार्थसाधनासाधनत्वविशेषात् । सर्वगतत्वादिति चासिद्धो हेतुः ॥

अंसंर्वगतानि कालदिगाकाशमनांस्यनित्यानि च, स्वार्थीभावे परार्थत्वातू, घटादिवत् । उत्पतिमन्ति च, प्रधानपुरुषाभ्यामन्यत्वात्, घटादिवत् । एवमाकाशम् [उत्पतिमदनित्यं च] बाहेन्द्रियविषयगुणत्वात्, घटादिवत् । भूतत्वाच्च, पृथिवीवत् । अनित्यद्रव्यसंयोगोत्पाद्यगुणत्वात्, पृथिव्यादिवत् । चिकित्सानिवर्त्यप्रकोपकरत्वात्, वायुवत् । नभसश्च प्रकोपश्चिकित्सानिवर्तनीयश्चिकित्सकप्रसिद्धिमुपारूढः । एतेनानित्यसाधर्म्यं व्याख्यातम् ॥

एतानि च भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः । शान्तधोरमूढाद्यनेकविशेषवत्वाद्विशेषा: । शान्ताद्यभावाच्चाविशेषा: तन्मात्राणि ॥

तथा श्रोत्रत्वक्-चक्षुर्जिह्वाघ्राणनि, शब्दादिविषयबुद्धयर्थवाद्-बुद्धीन्द्रियाणि स्वविषयबुद्धिाभिरेवानुमितानि । वाक्पाणपादपायूपस्थानि कर्मेन्द्रियाणि वचनदिक्रियानिर्वर्तकानि तदनुमतान्येव । न वागादीनि कर्मन्द्रियाणि सिद्धानीति चेन्न, श्रुतिप्रसिद्धत्वात् । इन्द्रियाण प्रकृत्य ‘सर्वेषां वेदानां वागेकायनम्’ इत्यादिश्रुतेः ॥

स्मृतिषु च सर्वत्रैव विधिप्रतिषेधविषयप्रवृत्तिनिवृत्तिमत्वाच्च श्रोत्रादिवदिन्द्रियत्वम् । ‘न वाक्चपलो न पाणिपादचपलः’ इत्यादेर्विधिप्रतिषेधविषयप्रवृत्तिनिवृत्तिमत्वसिद्धः ॥

तथा, वागादीनीद्रियाण, कौशलयत्वात्, चक्षुरादिवत् । सर्वगोत्रषु चेन्द्रियशक्तिः करणवृत्त्याः सन्दर्शनादिष्यत एव । वाग्गुदप्रभृतीनां सर्पादीनां मूकषण्डानां च मुखमेवोपस्थेन्द्रियम् । एकादशं मनः सर्वार्थमतीतानागतवर्तमानविषयार्थं बुद्धीन्द्रियकर्मेन्द्रियविषयार्थं च ॥

एतान्येकादशेन्द्रियाण्यस्मितालक्षणस्य अस्मिभावोऽस्मिता अस्मीति प्रत्ययः, स च लक्षणं यस्य सोऽस्मितालक्षणोऽस्मिताप्रत्ययेन हि लक्ष्यते लिङ्ग्यते षष्ठमविशेषाख्यं तत्त्वमहङ्कारः । तस्याविशेषस्य विशेषा एतानि ॥

गुणानामविशेषाकारसंस्थितानां सत्त्वादीनामेष षोडशको विशेषपरिणामः सत्त्वबहुलमाकाशं, रजोबहुलो वायुः, सत्वरजोबहुलेोऽग्निः, [जलं च] । सत्त्वतमोबहुला पृथिवी, ग्राह्यत्वात् । तामसत्वेऽप्येषां गुणप्रधानकृतो विशेषः । करणानि प्रकाशत्वात् सत्त्वबहुलानि, मन:षष्ठानि तु बुद्धीद्रियाणि प्रकाशप्राधान्यात् सत्त्वबहुलानि । कर्मेन्द्रियाणि क्रियाप्राधान्याद्रजेबहुलानि ॥ षडविशेषाः। तद्यथा – शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति एकद्वित्रिचतुःपञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः, षष्ठश्चाविशेषोऽस्मितामात्र इति। एते सत्तामात्रस्याऽऽत्मनो महतः षडविशेषपरिणामाः। यत्तत्परमविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वं तस्मिन्नेते सत्तामात्रे महत्यात्मन्यवस्थाय विवृद्धिकाष्ठामनुभवन्ति। विवरणम् विवरणम्

षडविशेषाः । तद्यथा शब्दमात्रं स्पर्शमात्रमिति द्विलक्षणस्यापि प्रधानेन व्यपदेशः । तथा रूपमात्रमिति त्रिलक्षणस्यपि प्रधानेन व्यपदेशः । तथोत्तरयोरपि मात्रशब्दः शान्तघोरादिविशेषव्यावर्तनार्थः । एकद्वित्रिचतुःपञ्चलक्षणभेदाः शब्दतत्तैवैकलक्षणः शब्दतन्मात्रभेदः । शब्दस्पर्शलक्षणः स्पशतन्मात्रभेदः, इत्येवमेकैकाधिक्येनोत्तरत्रापि द्रष्टव्यम् । षष्ठश्चाविशेषोऽस्मितामात्रः । शब्दादितन्मात्रापेक्षया षष्ठ इन्द्रियाणामेकादशानामविशेषः ॥

एते सत्त्वमात्रस्यास्तित्वमात्रस्य लिङ्गमात्रस्य मूर्तिमात्रस्य, प्रधानस्यामूर्तस्य प्रथमा मूर्तिरियं यथा बीजस्याङ्कुरीभावः । आत्मनो वस्तुरूपस्य महतः सर्वविशेषाविशेषेभ्यो महत्त्वात् षडविशेषपरिणामाः षडविशेषा एव परिणामाः सत्त्वादीनां महद्रूपावस्थितानाममी अविशेषपरिणामाः ॥

यत्तत्परं सूक्ष्ममविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वम्, तस्मिन्नेते सत्तामात्रे महत्वान्महत्यवस्थाय कारणस्वरूपे महत्यवस्थाय विवृद्धिकाष्ठां पृथिव्यादिविशेषान्ततामनुभवन्ति ॥ प्रतिसंसृज्यमानाश्च तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय यत्तन्निःसत्तासत्तं निःसदसन्निरसदव्यक्तमलिङ्गं प्रधानं तत्प्रतियन्ति। एष तेषां लिङ्गमात्रः परिणामो निःसत्तासत्तं चालिङ्गपरिणाम इति। विवरणम् विवरणम्

प्रतिसंसृज्यमानाश्च प्रतिलीयमानाश्चाविशेषाः तस्मिन्नेव सत्तामात्रे लिङ्गमात्रे महत्यात्मन्यवस्थायाव्यक्तं प्रति यान्ति । किंविशिष्टम् ? निस्सत्तासत्तं विशेषाविशेषधर्मरहितम् । निस्सदसदिति अव्यक्तादीषद्विकृतमिति सत्, अविशेषेभ्यः सूक्ष्मतरमिति चासत्, सच्चासच्च सदसदिति महत्तत्त्वमुच्यते । तद्धर्मरहितमव्यक्तं निस्सदसदिति ॥

एष तेषां गुणानां सत्त्वादीनां लिङ्गमात्रः परिणामः यस्मिन्नवस्थाय विवृद्धिकाष्ठां प्रतिलयं च प्रतियान्त्यविशेषाः । निस्सत्तासक्तं चाव्यक्तं च यत् स तेषामेव गुणानामलिङ्गपरिणामः । परश्च न सूक्ष्मोऽवस्थान्तरपरिणामोऽस्ति गुणानाम् ॥ ‘सूक्ष्माविषयत्वं चालिङ्गपर्यवसानम्’ इति हि व्याख्यातम् ॥ अलिङ्गावस्थायां न पुरुषार्थो हेतुर्नालिङ्गावस्थायामादौ पुरुषार्थता कारणं भवतीति। न तस्याः पुरुषार्थता कारणं भवतीति। नासौ पुरुषार्थकृतेति नित्याऽऽख्यायते। त्रयाणां त्ववस्थाविशेषाणामादौ पुरुषार्थता कारणं भवति। स चार्थो हेतुर्निमित्तं कारणं भवतीत्यनित्याऽऽख्यायते। गुणास्तु सर्वधर्मानुपातिनो न प्रत्यस्तमयन्ते नोपजायन्ते। व्यक्तिभिरेवातीतानागतव्ययागमवतीभिर्गुणान्वयिनीभिरुपजननापायधर्मका इव प्रत्यवभासन्ते। यथा देवदत्तो दरिद्राति। कस्मात्। यतोऽस्य म्रियन्ते गाव इति, गवामेव मरणात्तस्य दरिद्राणं न स्वरूपहानादिति समः समाधिः। विवरणम् विवरणम्

अलिङ्गत्वादेवालिङ्गावस्थायां न पुरुषार्थो हेतुः । अलिङ्गावस्थानिमित्तं न पुरुषार्थो हेतुः । नालिङ्गावस्था पुरुषार्थप्रयुक्तेत्यर्थः । तदेतत् व्याचष्टे – नालिङ्गावस्थायामादौ पुरुषार्थता कारणम् । कस्मात् पुनस्तदवस्था पुरुषार्थप्रयुक्ता न भवतीति ? तत् आह – यस्मान्नास्यां पुरुषार्थता कारणं विद्यते । स्वयमपि नासौ पुरुषार्थता महदादिवदसंवेद्यत्वादीश्वराणामपि ॥

यतश्चैतदेवं तस्मान्नित्या व्याख्यायते । यो हि पुरुषार्थप्रयुक्त: सोऽनित्यो दृष्टो यथा पृथिव्यादिः । न चैषा प्रधानावस्था पुरुषार्थप्रयुक्तेति नित्या व्याख्यायते ॥

त्रयाणां त्ववस्थाविशेषाणां विशेषाविशेषलिङ्गमात्राणामादौ पुरुषार्थता महदाद्यवस्था पुरुषार्थप्रयुक्ता । स चार्थः स च पुरुषार्थे हेतुर्निर्मित्तं कारणमित्यनित्या व्याख्यायन्ते महदाद्यास्तिनोऽवस्थाः ॥

गुणास्तु सर्वधर्मानुपातिनः सर्वविकारानुपातिनः । यथा सर्पः प्रांशुत्वसर्पणकुण्डलत्वादिविशेषानुपाती, तथा विशेषादितत्वानुपतिनो गुणाः पिण्डप्रत्ययानुपातिनश्च न प्रलीयन्ते नोपजायन्ते । यथा सर्पः कुण्डलादित्वे प्रलीयमाने न प्रलीयते तदुपजने च नोपजायते तथैव गुणा अपि । यथा च घटपिठरादिषु प्रलीयमानेषु जायमानेषु च मृन्न प्रलीयते नापि जायते ॥

गुणा व्यक्तिभिरेव धर्मैरेवातीतानागतव्ययागमवतीभिख्रिलक्षणाभिर्गुणान्वयिनीभिर्गुणोपादानकारणभिरुपजनापायधर्मका इवोत्पत्तिप्रलयवन्त इव प्रत्यवभासन्ते न स्वरूपेण विनश्यन्ति जायन्ते वा ॥

एतस्यैवार्थस्य दृष्टान्तमाह – यथा देवदत्तो दरिद्राति । कस्मात् ? येनास्य म्रियन्ते गाव इति । गवमेव मरणात्तस्य दरिद्राणं न स्वरूपहानादिति समः समाधिः तुल्यश्चर्चो दृष्टान्तेन दार्ष्टान्तिकस्य देवदत्तदरिद्राणवदेव गुणानुगताभिव्र्यतिभिर्महदादिभिर्गुणविमर्दनवैचित्र्यकृताभिर्विवर्धमानभिर्गुणानामाढ्यता तत्प्रलये च तेषां दरिद्राणां, न स्वरूपेणापचय उपचयो वेति तुल्य: समाधिरिति ॥ लिङ्गमात्रमलिङ्गस्य प्रत्यासन्नं, तत्र तत्संसृष्टं विविच्यते क्रमानतिवृत्तेः। तथा षडविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते परिणामक्रमनियमात्। तथा तेष्वविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते। तथा चोक्तं पुरस्तात्। न विशेषेभ्यः परं तत्त्वान्तरमस्तीति विशेषाणां नास्ति तत्त्वान्तरपरिणामः। तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते ॥ १९ ॥ विवरणम् विवरणम्

सर्वस्य प्रधानकार्यत्वे सति विशेषा अविशेषा वा कस्मादनन्तरं नोपजायन्त इति तदाह – लिङ्गस्यालिङ्गं प्रत्यासन्नं यथा मूलं वृक्षस्य प्रत्यासन्नं बीजे संसृष्टं मूलमेव प्रथमतरं विविच्यते, न वृक्षस्योत्तरावस्था । एवं तन्न प्रधाने तत् लिङ्गं संसृष्टं संलीनं प्रथमं विविच्यते आविर्भवति नोत्तरे विशेषा विप्रकृष्टत्वादेव । तदेवाह – क्रमानतिपत्तेः क्रमानतिक्रमात् । न हि लोके कस्यचिदुत्पद्यमानस्य क्रमातिलङ्घनमस्ति ॥

तथा षडविशेषाः पूर्वोत्ता लिङ्गमात्रे प्रत्यासन्नत्वात् संसृष्टत्वाद्विविच्यन्ते । कस्मादित्याह – परिणामक्रमनियमात् । तथा तेष्वविशेषेषु भूतेन्द्रियाणि । तन्मात्रेषु भूतानि संसृष्टानि विविच्यन्ते । अस्मितामात्रे इन्द्रियाणि मनस्सहितानि ॥

तथा चोक्तं पुरस्तात् । न विशेषेभ्यः प्रागुक्तेभ्य आकाशादिभ्यः परं तत्त्वान्तरमस्ति । न विशेषाणामन्यस्तत्त्वान्तरपरिणाम इत्यर्थः । एतदेवाह – विशेषाणां नास्ति तत्त्वान्तरमिति । तत्त्वं हि नाम साधारणं सर्वप्राणधारिणामामहाप्रलयस्थायि । नैर्विलक्षणं पृथिव्यादिभ्य उत्पद्यमानमन्यदस्ति । धर्मलक्षणावस्थापरिणामास्तु भवन्त्येवेति । तेषां तु विशेषाणां धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते तृतीयपदे ॥ १९ ॥ व्याख्यातं दृश्यमथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते – द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २० ॥ दृशिमात्र इति दृक्शक्तिरेव विशेषणापरामृष्टेत्यर्थः। स पुरुषो बुद्धेः प्रतिसंवेदी। स बुद्धेर्न सरूपो नात्यन्तं विरूप इति। न तावत्सरूपः। कस्मात्। ज्ञाताज्ञातविषयत्वात्परिणामिनी हि बुद्धिः। तस्याश्च विषयो गवादिर्घटादिर्वा ज्ञातश्चाज्ञातश्चेति परिणामित्वं दर्शयति। सदाज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति। कस्मात्। नहि बुद्धिश्च नाम पुरुषविषयश्च स्यादगृहीता गृहीता चेति सिद्धं पुरुषस्य सदाज्ञातविषयत्वं ततश्चापरिणामित्वमिति। विवरणम् विवरणम्

व्याख्यातं दृश्यम् अवघृतं दृश्यम् । यदर्थं च दृश्यते तस्येदानीं द्रष्टुः स्वरूपावधारणार्थमिदभारभ्यते – द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः द्रष्टा दृश्यस्य यथाव्याख्यातरूपस्योपलब्धा पुरुषः । तस्येदं लक्षणं दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यश्चेति । पुरस्तादाख्यातम् – ‘तदा द्रष्टुः स्वरूपेऽवस्थानम्’ ‘वृत्तिसारूप्यमितरत्र’ इति च, तदेव द्वयमिह प्रतिपाद्यते ॥

यच्चोक्तं प्रतिसंवेदी बुद्धेः पुरुष इत्युपपादयिष्याम इति, तच्चात्रोपपाद्यते । दृशिर्दर्शनमुपलब्धिस्तावन्मात्रो दृशिमात्रः । यत एवं तस्माच्छुद्धः । शुद्धोऽपि सन्नसौ बौद्धस्य प्रत्ययस्यानुपश्यः, दृशिमात्रत्वादेव । तस्मात्तमनुपश्यन् तत्स्वरूपो भवति । दृशिसन्निधौ वृत्तेर्दृशिस्वरूपावभासता द्रष्टुर्वृत्तिसारूप्यम् ॥

दृशिमात्रस्यैवाविक्रियात्मकस्य सतोऽस्य बौद्धप्रत्ययानुदर्शनं यस्मातस्माच्च स्वरूपप्रतिष्ठता च सिद्धा । प्रत्ययानुपश्य इति । एतत्तु तदस्तित्वानुमानम् । कथम् ? घटादीनां दृश्यानां स्वरूपव्यतिरिक्तेनान्येन दृश्यत्वदर्शनात् , तत्प्रकाशकानां च आलेकादीनां व्यतिरिक्तदृश्यत्वात् , सर्वार्थावभासकानामपि प्रत्ययानां स्वरूपव्यतिरिक्तदृश्यत्वं दृश्यत्वादवगम्यते घटादितदालोकादिवदिति ॥

यस्माच्च बौद्धमेव प्रत्ययमनुपश्यति, तं च पश्यत्येव, न कदाचित् स्वविषयं प्रत्ययं न पश्यति, तस्माद्दृशिमात्रः । मात्रग्रहणं धर्मान्तरनिवर्तनार्थम् । एतेन द्रष्टुर्दृशिरित्येतन्निवर्तितमिच्छादिसमानाश्रयत्वं च निवर्तितं, दृशेरेव द्रष्टृत्वात् । तदेतदुच्यते – दृशिमात्र इति । दृक्छक्तिरेव दृग्दर्शनं तदेव शक्तिर्दृक्छक्तिः । नाप्यन्यो दृक्छक्तिमानस्ति । सैव शक्तिर्दृगिति । तत्र मात्रशब्दार्थं व्याचष्टे – विशेषेणापरामृष्टेत्यर्थः । विशेषेण केनचिदिच्छादिना गुणैर्गुणधर्मेश्वापरामृष्टः ॥

स पुरुषो बुद्धेः प्रतिसंवेदितुं शीलमस्येति प्रतिसंवेदी । बौद्धप्रलयोपलब्धिस्वभाव इत्यर्थः । पुरुषो बुद्धे: प्रतिसंवेदी दृशिमात्रः शुद्धश्रेति कथं गम्यत इत्याह – स बुद्धेर्न सरूपो नात्यन्तं विरूप इति । न समानलक्षणो नाप्यत्यन्तविधर्मेत्येतत् । असरूपतया दृशिमात्रत्र्व शुद्धत्वं चाह । नात्यन्तविरूप इति वृत्तिसारूप्यतामाह ॥

कथं पुनः न सरूपतेति ? उच्यते – न तावत् सरूपः । कस्मात् ? को हेतुः ? । बुद्धेस्तावत् स्वरूपं वैधर्म्यदर्शनार्थमाह—ज्ञाताज्ञातविषयत्वात् परिणामिनी बुद्धिरित । कः पुनरसौ बुद्धेर्विषयो यो ज्ञातश्चाज्ञातश्चेत्याह – तस्यास्तु विषयो गवादिर्घटादिश्च ज्ञातश्चाज्ञातश्च । येन बाह्याकारेण परिणता बुद्धिः स ज्ञातः । येनाकारेण न परिणता सोऽज्ञातः ॥

यदि न परिणमेतापरिणममाना चेद्विषयं विख्यापयेत् सदैव विषयित्वं बुद्धेः स्यात् । तस्मात् ज्ञाताज्ञातविषयता परिणामित्वं ख्यापयति । परिणामिनी बुद्धिः, ज्ञाताज्ञातविषयत्वात् । दीपचक्षुरादि(विषय)वत् ॥

तद्विलक्षणः पुरुषः सदा ज्ञातविषयः । सर्वदा हि ज्ञात एव पुरुषस्य स्वो विषयः । तस्मात् सदा ज्ञातविषयत्वं पुरुषस्यापरिणामित्वं परिदीपयति । सदा ज्ञातविषयत्वमसिद्धं पुरुषस्येत्याशङ्कयाह – कस्मात् ? को हेतुः ? न हीति हिशब्दः प्रसिद्धावद्योतनार्थः । बुद्धिश्च नाम बुद्धिरिति बौद्धप्रत्ययः, पुरुषस्य विषयः स्यादगृहीता गृहीता चेति । सर्वदा च गृहीत एव बौद्धः प्रत्ययः । तदव्यभिचारेणैव पुरुषस्य व्यतिरिक्तत्वसिद्धिः । तस्मात् पुरुषस्य सदा ज्ञातविषयत्वम् । ततश्चापरिणामित्वं सिद्धम् । अपरिणामी पुरुष इति प्रतिज्ञा । सदा ज्ञातविषयत्वादिति हेतुः । वैधर्म्यदृष्टान्तो बुद्धयादिः ॥

ननु च बुद्ध्या व्यवसितमर्थं पुरुषश्चेतयति, बुद्धेश्च सर्वो विषयो ज्ञातश्चाज्ञातश्च पुरुषस्यापि समानः । ज्ञाताज्ञातविषयत्वं बुद्ध्या व्यवसितार्थोपलम्भित्वात् । तस्मात् पुरुषस्यापि परिणामित्वं ज्ञाताज्ञातविषयत्वाद्बुद्धिवदेव ॥

नैष दोषः । बुद्धेरेव पुरुषविषयत्वात् । बुद्धिरेव हि बाह्यार्थाकारा पुरुषस्य विषयो नार्थः केवलः खरूपेण । तस्मान्न ज्ञाताज्ञातविषयः पुरुषः । बुद्धिस्तु सदैव ज्ञातैवेति न परिणामित्वं पुरुषस्य ॥ किं च परार्था बुद्धिः संहत्यकारित्वात्, स्वार्थः पुरुष इति। तथा सर्वार्थाध्यवसायकत्वात्त्रिगुणा बुद्धिस्त्रिगुणत्वादचेतनेति। गुणानां तूपद्रष्टा पुरुष इत्यतो न सरूपः। विवरणम् विवरणम्

ननु च बुद्धया व्यवसितमर्थं पुरुषश्चेतयतीति कश्चिदाह । तत् कथम् ? उच्यते – न – तैरप्यपरिणामित्वस्याभ्युपगमात् पुरुषस्य । बुद्धया व्यवसितमर्थमित्येतदुक्तं भवति – बुद्ध्याकारं चेतयति बुद्धिव्यवसायाकारापन्नमर्थं चेतयतीति । अन्यथा हि तेषां परिणामित्वपरार्थत्वसंहत्यकारिवादयो बुद्धिधर्माः सर्व एव प्रसजेयुः ॥

अथापरिणामित्वे दर्शनानुपपत्तिरिति चेत् – न – दर्शनसैयैव पुरुषस्वरूपत्वात् । यो हि पुरुषपरिणामित्वमभिमन्यते, स इदं प्रष्टव्यः – किं परिणामेन क्रियत इति ॥

स चेदभिदधीत – दर्शनमिति । स प्रत्यभिधानीयः – पुरुषस्य दर्शनमेव रूपम्, अतः परिणामानर्थक्यमिति ॥

स चेत् प्रतिब्रूयात् – न पुरुषस्योपलब्धिर्भोगः, कस्तर्हि ? विक्रियैव भोग इति - स पुनर्वक्तव्यः – तथापि विक्रियावत्त्वादनित्यत्त्वमुपनतं शरीरादिवदेव ॥

अथापि प्रतिभाषेत – स्वात्मनि विक्रिया नानित्यत्वकारणं स्यात् , किं त्ववस्थान्तरभाविविक्रिया हि कारणमनित्यत्वस्येति । स पुन: प्रतिभाषितव्यः – विक्रियावस्थाया एवावस्थान्तरत्वात् । पूर्वमविकृतस्य वस्तुनः पुनर्विक्रिया अवस्थान्तरम् ॥

किं च – विषयाभ्युपगमे च विक्रियैव, तावता नियमः पार्येते न कर्तुम् । न चापि स्वात्मनि विक्रियमाणानां वज्रवैदूर्यादीनामनित्यत्वं नास्ति । न च विक्रियाजनितस्यैव दर्शनस्य दृश्यविषयत्वं न नित्यस्य दर्शनस्येति नियमहेतुरस्ति । विक्रियैवोपलब्धिर्न विक्रियाजनितेति चेत् – न – शरीरादीनां विक्रियावतामुपलब्धिप्रसङ्गात् ॥

तस्माद्दृशिमात्र एवापरिणामी च, सदा ज्ञातविषयत्वात् पुरुष इति सिद्धम् । तस्य च नित्योपलब्धिस्वरूपत्वेऽपि दृश्यबौद्धप्रत्ययभावाभाविकृतोऽयं व्यपदेशः पश्यति दर्शयिष्यति ददर्शेति च । सवित्रादिप्रकाशनव्यपदेशवत् । यथा प्रकाशयति सविता प्रकाशयिष्यति प्राचीकशदिति च प्रकाश्यभावाभावकृतो व्यपदेशः । शुद्धत्वादयो हेतवो वैधर्म्येण बुद्धयादयो दृष्टान्ताः ॥

इतश्वासुरूपः । सर्वार्थाध्यवसायित्वाद्घोरशान्तादिसमस्तार्थावसायित्वात् त्रिगुणा बुद्धिः श्रोत्रादिवत् । गुणानां तूपद्रष्टेत्युपद्रष्टृत्वं हेतुः । अत्रिगुणः पुरुष इति प्रतिज्ञा । वैधर्म्येण बुद्धश्यादिरेव दृष्टान्तोऽत्रिगुणत्वाच्चासरूपः ॥ अस्तु तर्हि विरूप इति। नात्यन्तं विरूपः। कस्मात्, शुद्धोऽप्यसौ प्रत्ययानुपश्यो यतः। प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन्नतदात्माऽपि तदात्मक इव प्रत्यवभासते। तथा चोक्तम् - अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङ्क्रमा च परिणामिन्यर्थे प्रतिसङ्क्रान्तेव तद्वृत्तिमनुपतति, तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायते ॥ २० ॥ विवरणम् विवरणम्

अस्तु तर्हि विरूप एव । ततश्चात्यन्तविरूपत्वाद्भोगानुपपत्तिरिति । अत्रोच्यते – नात्यन्तं विरूपः । कस्मात् ? केोऽत्र हेतुः ? न हि शुद्धस्य बुद्धिस्वरूपविरूपस्याशुद्धबैौद्धप्रत्ययादत्यन्तावैरूप्यसिद्धये हेतुरित्यभिप्रायः ॥

न – बुद्धिप्रत्ययसाक्षित्वस्य सिद्धत्वात् । यतः शुद्धोऽप्यसौ बौद्धं प्रत्ययमनुपश्यति तच्च बौद्धप्रत्ययानुदर्शनं साधितम् । अनुपश्यतीति विषयाकारपरिणामे सति बौद्धं प्रत्ययं पश्यतीत्यर्थः । तमनुपश्यन्नपि न तदात्मा न त्रिगुणः । तदात्मक इव शान्तघोरमूढव्यवसायरूप इव प्रत्यवभासते । तस्मान्नात्यन्तविरूप: प्रवृत्तिसारूप्यात् । तत्र यदुक्तं बुद्धेः प्रतिसंवेदी पुरुष इत्युपपादयिष्यामः इति, तदुपपादितम् । तथा च तत्सारूप्यमादर्शितम् । तथोक्तं तन्त्रे – अपरिणामिनी भोक्तृशक्तिः –दृक्छक्तिर्यथाव्याख्यातरूपा अप्रतिसङ्क्रमा च परिणामिन्यर्थे बौद्धे प्रत्यये प्रतिसङ्क्रान्तेव प्रत्ययविषयत्वात् तद्वृत्तिमनुपतन्तीव अस्या बुद्धेर्वृत्तिमनुपतन्तीव द्रष्ट्रत्वादुपलभमाना । बौद्धः प्रत्ययो जायमान एव दृक्छक्तेः कर्मतामापद्यते । तमनुपतन्त्युपलभमाना भोक्तृशक्तिः तस्याश्च प्राप्तचैतन्योपग्रहरूपायाः प्राप्तं चैतन्योपग्रहरूपं पुरुषोपग्रहरूपै यया बुद्धिवृत्या आसादितं पावकोपग्रहरूपतप्तलोहपिण्डवद्दृग्शिकर्ममैत्वादेव अनुकारमात्रतया बुद्धिवृत्तिसारूप्यमात्रतया बुद्धिवृत्यविशिष्टा ज्ञवृत्तिरिति ज्ञ एवोपलब्धिरेव वृत्तिरित्याख्यायते ॥ २० ॥ तदर्थ एव दृश्यस्याऽऽत्मा ॥ २१ ॥ दृशिरूपस्य पुरुषस्य कर्मरूपतामापन्नं दृश्यमिति तदर्थ एव दृश्यस्याऽऽत्मा भवति। स्वरूपं भवतीत्यर्थः। स्वरूपं तु पररूपेण प्रतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति। स्वरूपहानादस्य नाशः प्राप्तो न तु विनश्यति ॥ २१ ॥ विवरणम् विवरणम्

तदर्थ एव दृश्यस्यात्मा तच्छब्देन द्रष्टा दृशिमात्रः शुद्धो यथाधिगतात्मा प्रत्याम्नायते । तदर्थः तस्मै तदर्थस्तत्प्रयोजनः दृशिकर्मत्वार्थ इत्यर्थः । भोगरूपेणापवर्गरूपेण च । कोऽसावित्याह – दृश्यस्यात्मा प्रधानस्यात्मा स्वरूपे स्वरूपलाभ इति ॥

ननु चतुर्व्यूहत्वं व्याचिख्यासितं किमर्थमेतदप्रकृतमुच्यते । नैष दोषः । आत्यन्तिकदुःखनिवृत्तिप्रयोजनस्य प्रकृतत्वात् । कथं दृश्यतादर्थ्यलाभावधारणेनात्यन्तिकी दुःखविरतिरुक्ता भवेदिति । उच्यते – यदि दृश्यस्वरूपप्रतिलैभस्तदर्थ एव, तदा अशेषतदर्थविरतौ पुनः कृतार्थत्वात् कार्याभावादात्यन्तिकदृश्यविरतिः स्यात् । तस्य पुनः प्रवृत्तौ प्रयोजनाभावात् । न हि कृतमेव पुनः करणीयकमुपाश्नुते । अथ तु स्वार्थोऽपि दृश्यस्यात्मलाभोऽभविष्यदतः स्वार्थस्य भावात् पुनः पुनः प्रावर्तिष्यत । ततश्च नात्यन्तिकी निवृत्तिः । तस्मात्तादर्थ्यमेवावधार्येते ॥

दृश्यात्मलाभस्य स्वार्थाभावश्च दृश्यस्य भोग्यत्वात् ओदनादिवत् सिद्धः, अचेतनत्वात्संहत्यकारिवाच्च । तदाह – दृशिरूपस्य पुरुषस्य कर्मविषयतामापन्नं दृश्यमिति । इतिशब्दो हेत्वर्थे । तदर्थ एव दृश्यस्यात्मा भवति स्वरूपं भवतीत्यर्थः । पुरुषार्थ एव प्रधानस्यात्मलाभो दृशिकर्मतापत्तेरोदनादिवत् ॥

सूत्रप्रयोजनमाचष्ट इदानीम् – ततश्च तादर्थ्यस्य नियतत्वात् कारणात् पुरुषरूपेण प्रतिलब्धात्मकं प्राप्तचैतन्योपग्रहरूपं सद्भोगापवगीर्थतायां कृतायां पुरुषेण न दृश्यते । भोगापवर्गव्यतिरेकेण कर्तव्याभावात् ॥ २१ ॥ कस्मात् – कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २२ ॥ कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि नाशं प्राप्तमप्यनष्टं तदन्यपुरुषसाधारणत्वात्। कुशलं पुरुषं प्रति नाशं प्राप्तमप्यकुशलान्पुरुषान्प्रति न कृतार्थमिति तेषां दृशेः कर्मविषयतामापन्नं लभत एव पररूपेणाऽऽत्मरूपमिति। अतश्च दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यात इति। तथा चोक्तम् –र्धमिणामनादिसंयोगाद्धर्ममात्राणामप्यनादिः संयोग इति ॥ २२ ॥ विवरणम् विवरणम्

सूत्रसम्बन्धं करोति – यं पुरुषं प्रति चरितार्थं दृश्यं, तं प्रति दृशिकर्मतां नापत्स्यत इति स्वरूपहानम्, अतश्च स्वरूपहानादस्य विनाशः प्राप्तः । न तु विनश्यति सर्वात्मना । कस्मात् ? को हेतुः ? प्रधानानां प्रतिपुरुषं बहुत्वात् कृतार्थँ प्रति नष्टमेवेति मन्यते ॥

कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् । कृतार्थं यं पुरुषं प्रति भोगापवर्गनिर्वर्तनेन कृतप्रयोजन तमेकं पुरुषं प्रति पुनः कार्यकरणरूपेणाप्रवर्तनाद्भावाभावयोरविशेषान्नष्टमपि । अस्य व्याख्यानं नाशप्राप्तमपीति । अनष्टं तदन्यपुरुषसाधारणत्वात् । यान् प्रत्यकृतार्थं तान् प्रत्यनष्टम् ॥

कथमनष्टमित्याह–कुशलपुरुषान् प्रति नाशप्राप्तं भोगापवर्गप्रदानेन कुशलपुरुषान्प्रति कृतप्रयोजनम् । अकुशलपुरुषान् प्रति अकृतार्थं भोगापवर्गयोः कर्तव्ययोरकृतत्वात्तेषामकुशलानां दृशेः त एव दृशिस्तस्याः कर्मतां दृश्यतामापन्नं लभत एव पुरुषरूपेण पुरुषनिर्भासतया आत्मरूपमिति । अतश्च साधारणत्वादेकमेव प्रधानं पृथिव्यादिवत् । कार्यकरणानां च भिन्नत्वात् पुरुषाणां नानात्वं सिद्धम् । सुखदुःखनानात्वाच्च पुरुषभेदसिद्धिः ॥

अतश्च दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यातः । तथा चोक्तं तन्त्रे – धर्मिणामनादिसंयोगात् गुणानां पुरुषाणां चानादिसंयोगाद्धर्ममात्राणां महदादिकार्यकरणान्तानामपि पुरुषैरनादिः संयोगो धर्मिभिर्धर्माणामभिह्रुत्वात् ॥ २२ ॥ संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते- स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥ पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः। तस्मात्संयोगादृश्यस्योपलब्धिर्या स भोगः। या तु द्रषुः स्वरूपोपलब्धिः सोऽपवर्गः। दर्शनकार्यावसानः संयोग इति दर्शनं वियोगस्य कारणमुक्तम्। दर्शनमदर्शनस्य प्रतिद्वन्द्वीत्यदर्शनं संयोगनिमित्तमुक्तम्। नात्र दर्शनं मोक्षकारणमदर्शनाभावादेव बन्धाभावः स मोक्ष इति। दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्यतो दर्शनं ज्ञानं कैवल्यकारणमुक्तम्। विवरणम् विवरणम्

दृश्यमवधृतम् । द्रष्टा चावधृतः । द्रष्टृदृश्ययोः संयोगो हेयहेतुरिति चोक्तम् । स च संयोगोऽवधारयितव्यः कीदृश इति । ततश्च संयोगस्वरूपावधारणार्थमिदं सूत्रं प्रववृते – स्वस्वामिशक्त्योः स्वरूपोपलब्धेर्हेतुः संयोगः । स्वस्वामिशक्त्योः बुद्धिपुरुषयोः स्वरूपोपलब्धेर्हेतुः कारणम् । यस्मिन् सति तयोः स्वरूपमुपलभ्यते वदनदर्पणयोरिव, स तयेः स्वरूपोपलब्धहेतुः । संयोगः दृश्यदृश्यत्वरूपकार्यानुमेय इत्यर्थः ॥

प्रमाणं चात्र स्वसंयोगपूर्विका बुद्धिपुरुषयोः स्वरूपोपलब्धिः, विषयविषयिस्वरूपोपलब्धित्वात् , ईक्षणदर्पणस्वरूपोपलब्धिवत् । या काचित् सुखदुःखोपलब्धिर्विवादगोचरापन्ना सा सुखदुःखहेतुसंयोगपूर्वेका, सुखदुःखेपलब्धित्वात्, चन्दनकण्टकसुखदुःखोपलब्धिवत् ॥

तदाह – पुरुषः स्वामी दृश्येन स्वेन स्वया बुद्ध्या दर्शनार्थं भोगापवर्गदर्शनार्थं संयुक्तः । दर्शनप्रयुक्त एव संयोग इत्यर्थः ॥

तस्मात् संयोगाद्दर्शनप्रयुक्ता दृश्यस्योपलब्धिः अविशिष्टा या स भोगः । या तु द्रष्टुः स्वरूपोपलब्धिर्विविक्ता सोऽपवर्गः । यस्माद्दर्शनकार्यद्वयप्रयुक्तः संयोगस्तस्माद्दर्शनकार्यावसानः संयोगः तेन पुरुषसंयोगवद्दर्शनं वियोगस्य कारणमित्युक्तम् । गुणपुरुषान्तरदर्शनं प्रधानपुरुषवियोगस्य कारणमित्युक्तं, कार्यस्य दर्शनेन पर्यवसितत्वात् ॥

संसारिसंसारहेतुयाथात्म्यदर्शर्नं दुःखदुःखिसंयोगहेतुनिवर्तकं, दुःखिदुःखहेतुयाथात्म्यविषयत्वात् , रोगिरोगहेतुयाथात्म्यदर्शनवत् ॥

अविद्या द्रष्टृदृश्ययोः संयोगकारणं, दुःखनिमित्तसंयेगहेतुत्वात्, रोगहेतुसंयोगनिमित्तमिथ्याज्ञानवत् । द्रष्टृदृश्यसंयोगो मिथ्याज्ञानपूर्वक:, दुःखहेतुत्वात् , रोगिरोगहतुसंयोगवत् । यस्माद्दुःखिदुःखहेतुयाथात्म्यविषयं दर्शनं, तस्मात्तदन्यथाविषयस्यादर्शनस्य प्रतिद्वन्द्वमित्यदर्शनं संयोगनिमित्तमित्युक्तं तस्य हेतुरविद्येति । दुःखनिमित्तत्वाच्च संयोगस्य ॥

यस्माददर्शनमेव निवर्तयति दर्शनं नान्यत्कार्यं करोति, तस्मान्नात्र दर्शनं मोक्षकारणम् अदर्शनाभावादेवार्थाददर्शनकार्यस्य दुःखहेतोर्बन्धस्याभावः, स मोक्षः । न पुनर्बन्धाभावव्यतिरेकेण भावयितव्यो मोक्षः । ततश्च मोक्षस्य नित्यत्वसिद्धिः ॥

दर्शनस्य भावे द्रष्टृदृश्यविषयस्य दर्शनस्य भावे तद्विषयस्यादर्शनस्य नाशः । दर्शनादर्शनयोरेकत्र विरोधात् तिमिररविकिरणजलयोरिव । अतो दर्शनं कैवल्यकारणमुक्तम् – ‘विवेकख्यातिरविप्लवा हानोपायः’ इति ॥ किं चेदमदर्शनं नाम, किं गुणानामधिकार आहोस्विद्दृशिरूपस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्यानुत्पादः। स्वस्मिन्दृश्ये विद्यमाने यो दर्शनाभावः। विवरणम् विवरणम्

किञ्चेदमदर्शनं नाम ? ननु चोक्तमविद्यैव । सा चामित्रागोष्पदवदिति विद्याविपर्ययेण व्याख्याता । सत्यमेवं, किन्तु शास्रगता विकल्पा दर्शयिष्यन्ते स्वाभिमतपक्षनिश्चिचीषया । परपरिकल्पितवस्तुखण्डिमानमापादयता हि निजाभिमतनिरूपितवस्तु द्रढिमानमतितरामानीयते ॥

किञ्चेदमिति सर्वैरेव विकल्पैर्वक्ष्यमाणैरभिसम्बन्धनीयम् । किं गुणानामधिकार इति, सामान्येन परिपृष्टस्य विशेषपर्यनुयोगः । अधिकृतिरधिकारः, गुणानां प्रवृत्तिः ॥

ननु गुणानामधिकारस्य कथमदर्शनाशङ्का ? उच्यते – अर्थद्वारेण भवत्येवादर्शनमधिकारः । यावद्धि गुणानां प्रवृत्तिस्तावद्बन्धः । बन्धकारणमविद्येति स्थितिस्थैर्यमानीयते । शब्दद्वारेणापि – दर्शनादन्यददर्शनं यदा, भवत्येव तदानीमाशङ्का । गुणधिकारो हि दर्शनादन्य एवेति ॥

आहोस्विद्दृशिस्वरूपस्य स्वामिनो दर्शितविषयस्य चित्तस्यानुत्पादः । इह तु पूर्वपदार्थप्रधानत्वमदर्शनस्य गृहीत्वा शङ्क्यते । चित्तस्यानुत्पादः प्रागुत्पत्तेर्दर्शनस्याभावः । किमुक्तं भवत्यनुत्पाद इत्यत आह – स्वस्मिन् दृश्ये चित्ते विद्यमाने यो दर्शनाभावः गुणपुरुषान्तरदर्शनानुत्पत्तिरदर्शनमिति ॥ किमर्थवत्ता गुणानाम्। अथाविद्या स्वचित्तेन सह निरुद्धा स्वचित्तस्योत्पत्तिबीजम्। किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः। यत्रेदमुक्तं प्रधानं स्थित्यैव वर्तमानं विकाराकरणादप्रधानं स्यात्। विवरणम् विवरणम्

किमर्थवता गुणानां भोगापवर्गाभ्यां या गुणानामर्थवता तददर्शनमिति । अत्र त्वर्थद्वारेणैवाशङ्का । प्रयोजनवतो हि प्रयोजनमवश्यकृत्यमिति ॥

कः पुनरेषु पक्षेषु दोषः ? उच्यते – यद्यधिकारो गुणानामदर्शनं विद्यानर्थक्यं प्राप्तम् । न ह्यास्मिन् पक्षे विद्या प्रत्यनीकभूता स्याददर्शनस्य । यस्माद्विद्याधिकारयोरविरोधः, अतश्चानिर्मोक्षः प्रसक्तः । पुनः पुनः प्रयोजनवत्तया प्रवृत्तिसम्भवात् ॥

गुणार्थवत्ता अदर्शनमिति पक्षेऽप्येष एव दोषः । तथा चित्तस्यानुत्पादपक्षेऽप्येष एव । अनुत्पादो हि दर्शनाभावः, तस्य चावस्तुत्वाद्विद्यया निवृतिरनुपपन्नेति । अभावे हि सति प्रत्यनीकविधानमनर्थकमेव ॥

अथाविद्या स्वचिन्तेन सह निरुद्धेति । अत्र ह्यविद्याया अदर्शनस्य च केनचिदंशेन भेदं मन्यमानो विकल्पयति । कथम् ? अनिरुद्धा ह्यविद्या दृश्यमानत्वाद्दर्शनमेव । या तु निरुद्धा चित्तेन सह प्रलीना स्वकारणे । स्वचित्तस्योत्पतिबीजमुत्पत्तिकारणं सा न दृश्यत इत्यदर्शनमित्यभिमानः । ततश्चानिरोधावस्थाया दर्शनत्वप्रसङ्ग इति दुष्ट एवायं पक्षः स्यात् । अथ तु निरोधानिरोधावस्थयोरप्यदशर्नमेव, तथा सत्यभिमतसिद्धिरिष्यदोष एव । किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः । किमेतददर्शनमिति न सम्बध्यते । कथं तर्हि सम्बन्धः? उच्यते – तत्राविद्या स्वचित्तसहनिरुद्धा चित्तस्योत्पत्तिबीजामित्युक्तं, तत इदमर्थात् सिद्धम् – चित्तं स्वकारणे निरुध्यते पुनश्चोत्पद्यत इति । ततश्चेदमपि सिद्धमर्थाच्चित्तस्य कारणमपि स्थित्या गत्या च वर्तत इति । ततश्चैतद्विस्पष्टीकरणार्थं पृच्छति ॥

स्थित्यर्थो गुणानां साम्यवस्थाहेतुः संस्कारः स्थितिसंस्कारः । तस्य क्षये स्थितिसंस्कारक्षये गतिर्महदाद्याकारेण प्रवृत्तिस्तदर्थः संस्कारो गतिसंस्कारः तस्याभिव्यक्तिरिति ॥

यदि स्थित्या गत्या च वर्तते, ततः को दोषः स्यात्तदुदाहरणेन दर्शयति – यत्रेदमुक्तं प्रधानं स्थित्यैव वर्तमानं विकाराकरणात् महदाद्याकारेणापरिणामादप्रधानं स्यात् । यतः प्रधत्ते विकारानिति प्रधानम् । तेन विकाराणाम् अप्रधातृत्वादप्रधानं स्यात् । तथा गत्यैव वर्तमानं विकारनित्यत्वादप्रधानं स्यात्। उभयथा चास्य वृत्तिः प्रधानव्यवहारं लभते नान्यथा। कारणान्तरेष्वपि कल्पितेष्वेव समानश्चर्चः। दर्शनशक्तिरेवादर्शनमित्येके, “प्रधानस्याऽऽत्मख्यापनार्था प्रवृत्तिः” इतिश्रुतेः। सर्वबोध्यबोधसमर्थः प्राक्प्रवृत्तेः पुरुषो न पश्यति सर्वकार्यकरणसमर्थं दृश्यं तदा न दृश्यत इति। उभयस्याप्यदर्शनं धर्म इत्येके। तत्रेदं दृश्यस्य स्वात्मभूतमपि पुरुषप्रत्ययापेक्षं दर्शनं दृश्यधर्मत्वेन भवति। तथा पुरुषस्यानात्मभूतमपि दृश्यप्रत्ययापेक्षं पुरुषधर्मत्वेनेवादर्शनमवभासते। दर्शनं ज्ञानमेवादर्शनमिति केचिदभिदधति। इत्येते शास्त्रगता विकल्पाः। तत्र विकल्पबहुत्वमेतत्सर्वपुरुषाणां गुणानां संयोगे साधारणविषयम् ॥ २३ ॥ विवरणम् विवरणम्

तथा गत्यैव वर्तमानं नित्यं विकाररूपेणेव वर्तमानं विकारनित्यत्वान्न विकारान् प्रधत इति कारणत्वहानेरप्रधानं स्यात् । उभयथा वृत्तिः गत्या स्थित्या च वर्तनं वृत्तिर्यस्य प्रधानस्य तदुभयथावृत्ति व्यवहारं प्रधानत्वव्यवहारं कारणत्वव्यवहारं लभते । नान्यथा प्रधानत्वं प्रधानस्य । कारणान्तरेष्वपि पुरुषेश्वरपरमाण्वादिषु परकल्पितेषु समानश्चर्चः तुल्यविषयः न्यायः । प्रकृत एवाधुना निरूप्यते । दर्शनशक्तिरेवादर्शनमित्येके । दर्शनस्य शक्तिरनभिव्यक्तावस्था बीज इवानभिव्यक्ताङ्कुरावस्था तदेतददर्शनमित्येके मन्यन्ते । कुतः ? प्रधानस्यात्मप्रख्यापनार्था प्रख्यापनं दर्शनमाख्यायमानरूपता तस्यै तददर्शनमिति श्रुतेः ॥

अस्मिन् पक्षे तदेवानाभिव्यक्तात्मकं शक्तिरूपमदर्शनं तदेव चाभिव्यक्तं दर्शनमिति स्वात्मनि विरोधानुपपत्तेर्दर्शनाददर्शनस्य निवृत्त्यनवक्लृप्तिः ॥

तथा दर्शनान्तरं – सर्वबोधसमर्थः बोधात्मकत्वात् प्राक् प्रवृतेः प्रधानप्रवृत्तेः प्राङ्न पश्यति दर्शनात्मकोऽपि सन् पुरुष इति । सर्वकार्यकरणक्रियासमर्थं दृश्यं प्रधानं न तदा प्राक्प्रवृत्तेः परमार्थमपि सत् दृश्यत इत्युभयस्य प्रधानपुरुषयोरदर्शनं धर्म इत्येके मन्यन्ते ॥

अत्राप्युभयोरपि प्रागवस्थैवादर्शनमुत्तरकालावस्था च दर्शनमिति पूर्वदोषः स्थित एव । दृश्यस्यात्मभूतमव्यतिरिक्तमपि पुरुषप्रत्ययापेक्षं पुरुषाकारेण पुरुषस्य न दृश्यते । पुरुषाकारविशिष्टतया वा पुरुषस्य दृश्यत इति पुरुषप्रत्ययापेक्षमदर्शनं पुरुषस्य धर्मत्वेन भवति । तदेतत्स्पष्टयति – पुरुषस्यानात्मभूतमपि दृश्यप्रत्ययापेक्षं दृश्यप्रत्ययोऽज्ञानं तदपेक्षं, कथं पुरुषाकारेणादर्शनात् सङ्करेण वा दर्शनादन्तःकरणप्रत्ययापेक्षं पुरुषानात्मभूतमपि पुरुषधर्मत्वेनैवादर्शनमाभासते । तथा च सति दृश्यधर्म एवायमित्यदोषः ॥

सर्वविकल्पपक्षख्यापनार्थ उपन्यासः । दर्शनं ज्ञानं, तदेव ज्ञानमदर्शनमिति केचिन्मन्यन्ते । समासस्योत्तरपदार्थप्राधान्यमूरीकृत्यार्य विकल्पः । एतस्य दोषोऽविद्यासूत्र एव व्याख्यातः ।

एते शास्त्रगता विकल्पाः दर्शनान्तरगता विकल्पाः । तत्र विकल्पबहुत्वमात्रमेतत् न बहुत्वमात्रेणार्थीसेद्धिरित्यभिप्रायः । यस्य तु बुद्धिपुरुषसंयोगहेतुत्वं तस्यादर्शने [नत्वं] युक्तं दशैनविरोधात् । तथा च व्याख्यातमिति नात्र पुनः प्रयत्यते ॥ २३ ॥ यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः – तस्य हेतुरविद्या ॥ २४ ॥ विपर्ययज्ञानवासनेत्यर्थः। विपर्ययज्ञानवासनावासिता च न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति साधिकारा पुनरावर्तते। सा तु पुरुषख्यातिपर्यवसानां कार्यनिष्ठां प्राप्नोति, चरिताधिकारा निवृत्तादर्शना बन्धकारणाभावान्न पुनरावर्तते। विवरणम् विवरणम्

सर्वपुरुषाणां गुणसंयेगाविशेषः । गुणैः संयोगः सर्वेषामविशिष्टः साधारणः, तथाप्यसाधारणविषयस्तु प्रत्यात्मं विशिष्टस्तु प्रत्यक्चेतनस्य बौद्धप्रत्ययानुदर्शिनः स्वबुद्धिसंयोगः । स चासाधारणः स्वबुद्धिसंयोगो येन भवति तदेवादर्शनम् । तस्य हेतुरविद्या । तस्य स्वस्वामिशाकस्वरूपोपलब्धिहेतोः – संयोगस्य हेतुः कारणम् अविद्या विपर्ययज्ञानवासनेत्यर्थः ॥

ननु च ‘विपर्ययो मिथ्याज्ञानमतदूपप्रतिष्ठम्’ इत्युक्तम् । तथा ‘अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या’ इत्युतम् । अत्र कथं विपर्यायैज्ञानवासनेत्युच्यते ! नैष दोषः-अविद्याकार्यत्वाद्वासनायाः सैवाविद्येत्युच्यते । प्रलीनेष्वपि करणेषु साम्यावस्थायमपि सत्यामविद्यावासना पुनः पुनः प्रवृत्तौ प्रधानस्य हेतुर्भवति । न पुनर्विपर्ययः प्राक् बुद्ध्युत्पत्तेरभावात्प्रवृत्तिकारणमिति, तद्वासनैव प्रधानपुरुषसंयोगस्य कारणमित्याख्यायते ॥

तदेवाह – विपर्ययज्ञानवासनावासिता न कार्यनिष्ठां कार्येसमाप्तिम् । कार्यनिष्ठामाह – पुरुषख्यातिमिति । तां बुद्धिर्न प्राप्नोति । पुरुषख्यातिपर्यवसाना हि बुद्धेः करणीयवत्ता । साधिकारा करणीयवती पुनः पुनरावर्तते विपर्ययज्ञानवासनावशात् ॥

सा तु बुद्धिः पुरुषख्यातिपर्यवसाना कार्यनिष्ठां प्राप्नोति । पुनरपि तदेव स्पष्टयति – चरिताधिकारा निवृत्तादर्शनबन्धना कर्माविपाकयोरदर्शनमूलत्वाददर्शनमेव बन्धनम् । अदर्शननिवृत्तौ च बन्धनिवृत्तेर्बन्धकारणाभावाद्बन्धकारणस्यादर्शनस्याभावान्न पुनरावर्तते ॥ अत्र कश्चित्पण्डकोपाख्यानेनोद्धाटयति - मुग्धया भार्ययाऽभिधीयते - पण्डकाऽऽर्यपुत्र, अपत्यवती मे भगिनी किमर्थं नाम नाहमिति, स तामाह - मृतस्तेऽहमपत्यमुत्पादयिष्यामीति। तथेदं विद्यमानं ज्ञानं चित्तनिवृत्तिं न करोति, विनष्टं करिष्यतीति का प्रत्याशा। तत्राऽऽचार्यदेशीयो वक्ति – ननु बुद्धिनिवृत्तिरेव मोक्षोऽदर्शनकारणाभावाद्बुद्धिनिवृत्तिः। विवरणम् विवरणम्

अत्र कश्चित्पण्डकोपाख्यानेनोद्धट्टयति । पण्डकः षण्डः । स किल मुग्धया भार्यया अभिधीयते । कथम् ? आर्यपुत्र, मे भगिन्यपत्यवती, किमर्थं नाहम् अपत्यवत्यस्मीति । तामह मृतस्तेऽहमपूत्यमुत्पादयिष्यामीति । तथदं विद्यमानं ज्ञानं चितनिवृत्तिं न करोति, नष्टं करिष्यतीति का प्रत्याशा ॥

अयमुद्घट्टयितुरभिप्रायः – अविद्या चेद्बुद्धिपुरुषसंयेगस्य कारणं, तस्याश्च विद्या निवृत्तिहेतुः, ततश्च विद्यमानायां विद्यायां तद्विरोधिन्यविद्या निवर्तते । न तु विद्योत्पत्त्यनन्तरमपि चित्तनिवृत्तिः । तत्र यथैव सत्यां विद्यायां न चित्तनिवृतः, तथा नष्टायामपि विद्यायां न निवर्त्स्यति तरामिदानी षण्डादिव मृतादपत्योपत्तिः । अत एव कारणादविद्याऽपि न संयोगकारणम् ॥

अत्राचार्यदेशीयः परिहारं वक्ति । आचार्यदेशीयग्रहणं पूर्वपक्षस्यासारत्वप्रख्यापनार्थम् । उद्धट्टनेनैव प्रत्युत्तरं वदामि इति ॥

ननु बुद्धिनिवृत्तिरेव मोक्षः । कथम् ? अदर्शनकारणाभावाद्बुद्धिनिवृत्तिः । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते। तत्र चित्तनिवृत्तिरेव मोक्षः, किमर्थमस्थान एवास्य मतिविभ्रः ॥ २४ ॥ विवरणम् विवरणम्

तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते, तन्निवृत्तिरेव मोक्षः । किमर्थमस्थाने विभ्रमः । प्रधानपुरुषसंयोगस्य दु:खहेतोरविद्या कारणमिति विस्तरेण प्रतिपादितम् । ततश्च दर्शनाददर्शननिवृत्युपपेत्तः पूर्वपक्षमसारं मन्यते ॥

ननु चोक्तं विद्यानन्तरमेव बुद्धिर्न निवर्तत इति । उच्यते । विद्यया तावदविद्या निवर्तत एव । नात्र विभ्रमः कार्यः । तस्यां तु निवृत्तायां बुद्विनिवृत्तिश्च भवत्येव । पुनर्बुद्धिसंयोगस्याविद्याव्यतिरेकेण कारणान्तराभावात् । ततश्च बुद्धिनिवृत्तिरेव मोक्षः ॥

यत्तु विद्यानन्तरमेव बुद्धिर्न निवर्तत इति, तदकारणम् । कस्मात् ? निमित्तनैमितिकयोरनेकप्रकारदर्शनात् । यथा तक्षादिनिमिताः प्रासादादयस्तक्षादिषूपरतेष्वपि न निमित्तविरत्या विरमन्ति । भग्नस्य च द्रुमस्य भङ्गानन्तरमेव विशेषादर्शनात् । तथा चित्तस्यपि विमुक्तसायकवदारब्धसंस्कारापरिक्षयात्, तत्संस्कारापेक्षया कञ्चित्कालं दर्शनेनैवावस्थानम् इति । तथा च श्रुतिः – “तस्य तावदेव चिरम्” इति ॥ २४ ॥ हेयं दुःखं हेयकारणं च संयोगाख्यं सनिमित्तमुक्तमतः परं हानं वक्तव्यम् – तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ २५ ॥ तस्यादर्शनस्याभावाद्बुद्धिपुरुषसंयोगाभाव आत्यन्तिको बन्धनोपरम इत्यर्थः। एतद्धानम्। तद्दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनरसंयोगो गुणैरित्यर्थः। दुःखकारणनिवृत्तौ दुःखोपरमो हानं, तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम् ॥ २५ ॥ विवरणम् विवरणम्

चत्वारो व्यूहाः प्रकृताः । तत्र हेयं दु:खं ‘हेयं दुःखमनागतम्’ इत्युक्तम् । रेगस्थानीय एक व्यूहो व्याख्यात इत्यर्थः । हेयकारणं च सनिमित्तं संयोगाख्यमुक्तम् । द्वितीयो व्यूहो रोगहेतुस्थानीयो हेयोहेतुस्त्वविद्यानिमित्तसाहितः प्रधानपुरुषसंयोग उपवर्णितः । उत्तपरिकीर्तनं च सोपपत्तिकोक्तेस्तद्वषयाकाङ्क्षानिवृत्त्यर्थम् ॥

अतः परं हानम् आरोग्यस्थानीयं मोक्षशास्त्रप्रयोजने वक्तव्यम् । वक्ष्यमाणसङ्कीर्तनं च श्रोतृबुद्धिसमाधानार्थम् । तदभावात् संयोगाभावो हानं तत् दृशेः कैवल्यम् ॥

तदिति पूर्वप्रकृताया अविद्यायाः प्रत्यवमर्शः । तस्यादर्शनस्य अविद्याया अभावात् बुद्धिपुरुषसंयोगस्य दुःखहेतो: अभावः आल्यन्तिको बन्धनोपरम इत्यर्थः । एतत् हानम् अरेराग्यस्थानीयम् । तत् दृशेः कैवल्यं तदेव हानं अत्यन्तिको बन्धनोपरमः दृशेः पुरुषस्य कैवल्यम् । अस्य व्याख्यानं पुरुषस्यामिश्रभावः पुनरसयोगो गुणैरित्यर्थः ॥

पदार्थं व्याख्याय वाक्यार्थमिदानीं दर्शयति – दुःखकारणनिवृतौ दुःखोपरमो हानम् । तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम् – “स्वरूपप्रतिष्ठा वा चितिशक्तिः” इति ॥

ननु च अनियतविपाकस्य कर्मणः सद्भावे कथं हानं स्यात् ? पुनरानेयतविपाककर्मणा शरीरस्यारम्भ इति । न—अभिहितप्रतिविधानत्वात् । सम्यग्दर्शनेन क्रेशबीजस्य दाहात कर्मणामनारम्भकत्वमुक्तं दग्धबीजभावापनीततुषशलितण्डुलनिदर्शनेन । तस्मात् न विदुषः कारणाभावाच्छरीरारम्भः ॥ २५ ॥ अथ हानस्य कः प्राप्त्युपाय इति – विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥ सत्त्वपुरुषान्यताप्रत्ययो विवेकख्यातिः। सा त्वनिवृत्तमिथ्याज्ञाना प्लवते। यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं सम्पद्यते तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसञ्ज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति। सा विवेकख्यातिरविप्लवा हानोपायः। ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश्चाप्रसव इत्येष मोक्षस्य मार्गो हानस्योपाय इति ॥ २६ ॥ विवरणम् विवरणम्

उक्तस्तृतीये व्यूहः – आरोग्यस्थानीयो हानं नाम । अधुना चतुर्थं व्यूहं भैषज्यस्थानीयमुपाचिख्यासन्नाह – हानस्य कः प्राप्त्युपायः? इति ॥

ननु च कथं हानस्य प्राप्युपाय इति ? यावता नैव हानमवस्तुत्वात् प्राप्यम् । बन्धनोपरम एव हि हानम् । नैष दोषः । यत्नसाध्यत्वादविद्यानिवृत्तेः यथा निगलभेदः । सम्यकूख्यातौ सत्यामविद्यानिवृत्तिरिति हानमवस्त्वपि प्राप्यमित्युपचर्येते ॥

विवेकख्यातिरविप्लवा हानोपायः । का पुनर्विवेकख्यातिरित्याह – सत्त्वपुरुषान्यताप्रत्ययः सत्त्वपुरुषयोः साधर्म्ययैवैधम्यैयाथात्म्यावबोध इत्यर्थः । सा तु विवेकख्यातिः अनिवृत्तमिथ्याज्ञाना विप्लुवत्ते न स्थिरीभवति, न कार्येक्षमेति ॥

तथा चोक्तम्–‘यथा हेमाविपक्वं न विराजते ।

तथाऽपक्वकषायस्य विज्ञानं न प्रकाशते ॥

तथा “कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः” । इति ॥

यदा तु मिथ्याज्ञानं दग्धबीजभावं दग्धबीजत्वादेव वन्ध्यप्रसवं कार्यारम्भाक्षमं सम्पद्यते, तदा विधूतक्लेशरजसः क्लेशा एव रजः विधूतं यस्य तद्विधूतकेशरजः तस्य सत्त्वस्य रागादिमलाकलङ्कितस्य पररयां वशीकारसञ्ज्ञायां वर्तमानस्य ज्ञानप्रसादमात्रे वर्तमानस्य । तदेवानुवदति – विवेकप्रत्ययप्रवाहः विवेकज्ञाननिरन्तरभावः निर्मलो भवति ॥

सा विवेकख्यातिः इत्थम्भूता सती अविप्लवा भवति । यदैवमविप्लवा विवकख्यातिः ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमो विरुद्धत्वात् । पुनश्चाप्रसवः मिथ्याज्ञानस्य दग्धबीजभावोपगमादेव । तथा चोक्तम् –

“बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ।

ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥ ” इति ।

सा च तादृशी विवेकख्यातिर्मोक्षस्य मार्गो हानस्योपाय इत्यर्थः ॥ २६ ॥ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥ तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः। सप्तधेति अशुद्ध्यावरणमलापगमाच्चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति। विवरणम् विवरणम्

उत्पक्षसम्यग्दर्शनस्य सम्यग्दर्शनोत्पत्तौ स्वानुभवप्रत्ययलिङ्गप्रकटीकरणार्थमाह – तस्य सप्तधा प्रान्तभूमिः प्रज्ञा । तस्येति प्रत्युदितख्यातेः प्रत्युत्पन्नसम्यग्दर्शनस्य प्रत्याम्नायः प्रत्यवमर्शः । सप्तधेति अशुद्ध्यावरणमलापगमात् । अशुद्धिरेवावरणं क्लेशाः कर्मणि च, तदेव मलं तस्यापगमात् चित्तस्य प्रत्ययान्तरानुत्पादे ममाहमिति च विरुद्धप्रत्ययान्तराणामनुत्पत्तौ । सप्तधेत्यस्य विवरणे सप्तप्रकारैव प्रज्ञा बुद्धिः विवेकिनो भवति ॥ तद्यथा – परिज्ञातं हेयं नास्य पुनः परिज्ञेयमस्ति। क्षीणा हेयहेतवो न पुनरेतेषां क्षेतव्यमस्ति। साक्षात्कृतं निरोधसमाधिना हानम्। भावितो विवेकख्यातिरूपो हानोपाय इति। एषा चतुष्टयी कार्या विमुक्तिः प्रज्ञायाः। चित्तविमुक्तिस्तु त्रयी चरिताधिकारा बुद्धिः। गुणा गिरिशिखरतटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति। न चैषां प्रविलीनानां पुनरस्त्युत्पादः प्रयोजनाभावादिति। एतस्यामवस्थायां गुणसम्बन्धातीतः स्वरूपमात्रज्योतिरमलः केवली पुरुष इति। एतां सप्तविधां प्रान्तभूभिप्रज्ञामनुपश्यन्पुरुषः कुशल इत्याख्यायते। प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वादिति ॥ २७ ॥ विवरणम् विवरणम्

तान् सप्त प्रकारान् क्रमणाचष्टे – यथा परिज्ञातं हेयं सर्वं दुःखं हेयं सर्वं दुःखं हेयं ज्ञातमुपपत्तिभिः । नास्य परिज्ञातव्यो दुःखप्रकारः ॥

क्षीणा हेयहेतव इति बहुवचनप्रयोगात् क्लेशाः कर्माणि च अभिधीयन्ते । न पुनरेषां क्लेशकर्मणामल्पमपि सम्यग्दर्शनपावकादग्धबीजाभावात् क्षे(दुत्प्रेक्षि)तव्यमस्ति । एतेनापि प्रान्तभूमित्वमेवोक्तम् । इत्थं च प्रत्युपस्थितसमीचीनप्रत्ययस्य क्षीणक्लेशत्वात् न क्षेतव्यमस्ति । कृतकरणीयोऽहमिति च सम्यग्दर्शनपरिपाकलिङ्गप्रत्यय उपावर्तते । यथा रोगातुरस्य रोगहेतुक्षये नीरोगोऽहं न पुनर्भैषज्यमस्तीति प्रत्ययः । एवमेव [ष] द्वितीयः प्रज्ञाप्रकार उक्तः ॥

साक्षात्कृतं निरोधसमापत्तिर्हानम् । हानप्रत्यासन्नत्वात् हानतुल्यरूपत्वाच्च निरोधसमाधिरेव हानमित्याख्यायते । तच्च साक्षात्कृतम् अनुभवविषयतामानीतम् । तदिदं कैवल्ये पर्यवसितम् कैवल्यं कर्तव्यमिति च प्रज्ञायते । एषोऽपि प्रान्तभूमिप्रज्ञाप्रकारः तृतीय आख्यातः ॥

भावितः सम्यगभ्यस्ततरः विवेकख्यातिरूपो हानोपायः । सम्यग्दर्शनं यथावदुपस्थितमिति निश्चिता चेत्प्रज्ञा विवेकिनो जायते स एष चतुर्थः प्रज्ञाप्रकारः । इत्येषा चतुष्टयी कार्यविमुक्तिः कार्यात् कर्तव्यात् विमुक्तिर्यस्याः प्रज्ञायाः सा कार्यविमुक्तिः चतूरूपा प्रज्ञा पुरुषार्थेकर्तव्यतेत्यर्थः ॥

अथ वा – कार्यस्य विमुक्तिः निवृत्तिः कार्यविमुक्तिः । सा च चतुष्टयी कार्यविमुक्तिरिति समाप्तं वाक्यम् । प्रज्ञा इति परेण सम्बध्यते । कथम् ? प्रज्ञा (प्र) युक्तम्, विवेकख्यातियुक्तं चित्तं प्रज्ञाचित्तं तस्य विमुक्तिः प्रलयः प्रज्ञाचित्तविमुक्तिः । सा त्रयी । तथा च वक्ष्यति – “पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यम्” इति ॥

तत्र कार्यविमुक्तिश्चतुष्टयी । पुरूषाथैश्शून्यत्वं पूर्वमुक्तम् । इदानीं बुद्धिगुणान्निवृतिः । पुरुषार्थकर्तव्यानां पुरुषार्थशून्यानां प्रतिप्रसवः प्रज्ञाचित्तविमुक्तिस्त्रयी व्याख्यायते । यथा – चरिताधिकाराः निवृत्तकर्तव्याः बुद्धिगुणाः सत्त्वादयो बुद्ध्याकारवस्थिताः प्रळयाभिमुखाः । किमिव ? गिरिशिखरकूटच्युता इव ग्रावाणो निरवस्थानाः कर्तव्याभावात् स्वकारणे अहङ्कारे प्रलयाभिमुखाः सह तेन बुद्धिसंस्थानेन कायेण्ण, अथवा, स्वकारणेनाहङ्कारेण कुशलं पुरुषं प्रति स्वकारणमप्यव्यक्तभावं प्रतिपद्यत इति सह तेनास्तं गच्छन्ति इत्युच्यते । एषा प्रथमा प्रज्ञाचित्तविमुक्तिः ॥

न चैषां प्रतिप्रलीनानां पुरुषं प्रति पुनरस्त्युत्पादः प्रयोजनाभावात् । विमुक्तं हि चतुर्विधं कार्यम् । एषा द्वितीया प्रज्ञाचित्तविमुक्तिः ॥

एतस्यामवस्थायां चरितार्थगुणप्रलयावस्थायां गुणसम्बन्धातीतः गुणसम्बन्धो द्रष्टृदृश्यलक्षणः तमतीतः । स्वरूपमात्रज्योतिः दृशिस्वरूपमात्रमेवं ज्योतिः । पुरुषः केवली शुद्ध इति तृतीया प्रज्ञाचित्तविमुक्तिरिति ॥

एतां सप्तविधां प्रान्तभूमिं प्रान्ताः प्रगतावसानाः भूमयः अवस्थाः यस्यास्तां प्रान्तभूमिं प्रज्ञामनुपश्यन् सम्यग्दर्शनलिङ्गपरिपाकभूतामीक्षमाणः पुरुषः कुशल इत्याख्यायते । कुशल इति सङ्केतः । प्रतिप्रसवेऽपि प्रलयेऽपि चित्तस्य मुक्तः कुशल इत्येव भूतपूर्वगत्या कुशल इत्येव भवति । कुतः कौशलं तस्येत्याह – गुणातीतत्वात् इति । गुणानतीतो हि कुशलः ॥ २७ ॥ सिद्धा भवति विवेकख्यातिर्हानोपाय इति, न च सिद्धिरन्तरेण साधनमित्येतदारभ्यते – योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥ २८ ॥ योगाङ्गान्यष्टावभिधायिष्यमाणानि। तेषामनुष्ठानात्पञ्चपर्वणो विपर्ययस्याशुद्धिरूपस्य क्षयो नाशः। तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः। यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते। यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते। सा खल्वेषा विवृद्धिः प्रकर्षमनुभवत्या विवेकख्यातेः, आगुणपुरुषस्वरूपविज्ञानादित्यर्थः। योगाङ्गानुष्ठानमशुद्धेर्वियोगकारणम्। यथा परशुश्छेद्यस्य। विवेकख्यातेस्तु प्राप्तिकारणं यथा धर्मः सुखस्य नान्यथा कारणम्। कति चैतानि कारणानि शास्त्रे भवन्ति। नवैवेत्याह। विवरणम् विवरणम्

सिद्धा विवेकख्यातिः समधिगता विवेकख्यातिः सप्तविधप्रान्तभूमिप्रज्ञाफलावसाना हानस्योपाय इति । न च सिद्धिः अन्तरेण साधनम्, इत्यत इदं विवेकख्यातिसिद्धिसाधनार्थमारभ्यते – योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यतेः ॥

योगाङ्गानुष्ठानादेव विवेकख्यातिरिति नावदिधारयिषितम्, गुरूपासनधर्मप्रभृतिकेभ्योऽपि विवेकख्यातेः सिद्धिरिष्यत एव ! किं तर्हि ? साधनमात्रमन्तरेण न भवत्येवेत्यवधारयिष्यते । न पुनर्योगाङ्गानुष्ठानमेव साधनं, योगाङ्गानुष्ठानात्तु भवत्येव विवेकख्याति सिद्धिरिति । तथा चाचार्यैरुक्तम् – ‘योगस्तत्त्वज्ञानार्थः’ इति ॥

योगाङ्गान्यभिधायिष्यमाणानि तेषामनुष्ठानं योगाङ्गानुष्ठानम् तस्मात् । अशुद्धेः क्लेशाख्यायाः क्षयः, तत्क्षये दीप्तिः प्रकर्षः । कियदवसानेत्याह- आ विवेकख्यतेः भवतीत्युपस्कारः ॥

स्वयमेव भाष्यकारः स्पष्टतरं विवृणोति-योगाङ्गान्यष्टावभिधायिष्यमाणानि । तेषामनुष्ठानात् पश्वपर्वणो विपर्ययस्य अशुद्धिरूपस्य क्षयः नाशः, तत्क्षये सम्यग्दर्शनस्याभिव्यक्तिः’ दीप्तिः । कथमेतद्भवतीत्याह - यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते । तथा च मनुरभाषिष्ट –

“प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्बिषान् ।

प्रत्याहारेण संसर्गान् ध्यानेनानैश्वरान् गुणान् ॥ ” इति ।

यथा यथा चाशुद्धिः क्षीयते तथा तथा तत्क्षयक्रमानुरेधिनी दिवसकरस्येव शिशिरावसाने ज्ञानस्य दीप्तिर्विवर्धते । सा खल्वियं विवृद्धिः प्रकर्षमनुभवति । किमवसानम् ? तदाह- आ विवेकख्यातेः । तस्य व्याख्यानम् - आ गुणपुरुषस्वरूपविवेकज्ञानादित्यर्थः । सत्त्वपुरुषान्यताख्यातिपर्यवसानैव शुद्धिः ॥

योगाङ्गानुष्ठानमशुद्धेः क्षयकारणं विवेकख्यातेश्च प्राप्तिकारणमिति, द्विधैव कारणम्, धर्मपरशुद्वयस्थानीयमेकमुभयकारणं, नान्यथा भवतीति । तत्र कारणप्रसङ्गेन शास्त्रप्रसिद्धानि कारणानि व्याचष्टे – कति चैतानि कारणानि शास्त्रे भवन्ति ? नवैवेत्याह । तद्यथा – उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः। वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥ इति। तत्रोत्पत्तिकारणं मनो भवति विज्ञानस्य, स्थितिकारणं मनसः पुरुषार्थता, शरीरस्येवाऽऽहार इति। अभिव्यक्तिकारणं यथा रूपस्याऽऽलोकस्तथा रूपज्ञानं, विकारकारणं मनसो विषयान्तरम्। यथाऽग्निः पाकस्य। प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्य। प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः। विवरणम् विवरणम्

तद्यथा – तानि श्लोकेनैव कथयति उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः ।

वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥ इति ।

तत्प्रविवेकार्थमुदाहरणानि प्रस्ताविष्यन्ते । तत्रोत्पत्तिकारणं मनो भवति [विज्ञानस्य], मनसो हि वृत्तिः ज्ञानं, यथा जलमूर्भीणाम् ॥

स्थितिकारणं स्थितेः कारणम् मनसः पुरुषार्थता । भोगापवर्गार्थवेन हि मनसः स्थितिः । शरीरस्य यथा स्थितिकारणमाहारः ॥

अभिव्यक्तेः कारणं रूपस्यालोकः । तदा रूपज्ञानम् । न ह्यालोकेनानभिव्यक्ते रूपेऽवबोधः ॥

विकारस्य कारणं मनसो विषयान्तरम् । विषयान्तरसन्निधानेन हि मनो विक्रियामासीदति । यथा अग्निः पाकस्य । यः पाकाख्यो विकारस्तस्य पाकस्य विकाररूपस्याग्निः कारणं यथा ॥

प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्य । प्रत्ययस्य फलवतः प्रमाणस्य कारणमित्यर्थः । पूर्वत्र तु ‘भवति विज्ञानस्य’ इति ज्ञानस्योपादानकारणं विवक्षितम् ॥

प्राप्तिकारणं योगाङ्गानुष्ठाने विवेकख्यातेः धर्म इव सुखस्य । वियोगकारणं तदेवाशुद्धेः। अन्यत्वकारणं यथा सुवर्णस्य सुवर्णकारः। एवमेकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे द्वेषो दुःखत्वे रागः सुखत्वे तत्त्वज्ञानं माध्यस्थ्ये। धृतिकारणं शरीरमिन्द्रियाणाम्। तानि च तस्य। महाभूतानि शरीराणां, तानि च परस्परं सर्वेषां तैर्यग्यौनमानुषदैवतानि च परस्परार्थत्वादित्येवं नव कारणानि। तानि च यथासम्भवं पदार्थान्तरेष्वपि योज्यानि। योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति ॥ २८ ॥ विवरणम् विवरणम्

तदेवाशुद्धेर्वियोगकारणं परशुरिव छेद्यस्य ॥

अन्यत्वकारणं यथा सुवर्णकारः सुवर्णस्य । सुवर्णं हि भित्त्वा वर्धमानकमन्यं करोति । तथा वर्धमानकं भित्वा अन्यदाभरणान्तरं करोति । तथाऽन्यदिति ॥

एवमेकस्य ‘स्त्री’ इति प्रत्ययस्यापि अविद्या कारणं मूढत्वे । द्वेषस्तस्यैव स्त्रीप्रत्ययस्य दुःखत्वे कारणम् । तथा रागः सुखत्वे । तथा तस्यैव माध्यस्थ्ये हेयोपादेयशून्यतायां विवेकयुक्तं ज्ञानं कारणम् । एवमेकः स्त्रीप्रत्ययः सुवर्णवदनेकधा मूढत्वदुःखत्वसुखत्वमाध्यस्थ्यादिभेदैर्भिद्यते ॥

धृतेः कारणम् । धारणे धृतिः, तस्याः कारणं शरीरमिन्द्रियाणाम् । न हि शरीरमप्राप्येन्द्रियाणि धृतिं लभन्ते । तानि चेन्द्रियाणि तस्य शरीरस्य धृतिकारणं भवन्ति । इन्द्रियवृत्तिद्वारेण हि शरिरं ध्रियते ॥

तथा महाभूतान्याकाशादीनि शरीराणां धृतिकारणम् । महाभूतारब्धानि हि शरीराणि ब्रह्मादिस्तम्बावसानानि[तानि च] परस्परम् उपकार्योपकारकत्वद्वारेण धृतिकारणम् ॥

तथा सर्वेषां पदार्थानां तैर्यग्यौनमानुषदैवतानि धृतिकारणम् । कुतः? परस्परार्थत्वात् । तैर्यग्यौनं मानुषदैवतयोर्वाहनदोहनहविरादिभिरुपकुर्वत् धृतिकारणम् ॥

तथा मानुषं इज्यारक्षणादिभिर्दैवतैर्यग्यौनयोः धृतिकारणम् । तथा दैवमितरयोः शीतोष्णप्रवर्षणार्दना धृतिकारणम् ॥

एवं वर्णाश्रमाणामप्यन्योन्योपकारेण धृतिकारणत्वम् । परस्परोपाश्रयेण हि जगदखिलमपि ध्रियते । एवं नवैव कारणानि इति कारणान्तरं प्रतिषेधति । तानि च यथाऽर्थसम्भवं यो योऽर्थसम्भवः पदार्थान्तरेष्वप्यनुदाहृतेषु तथा येाज्यानि । योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभते । तथा च व्याख्यातम् ॥ २८ ॥ तत्र योगाङ्गान्यवधार्यन्ते – यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २९ ॥ यथाक्रममेषामनुष्ठानं स्वरूपं च वक्ष्यामः ॥ २९ ॥ विवरणम् विवरणम्

कानि पुनस्तानि योगाङ्गानि? येषामनुष्ठानं द्विधा कारणत्वं लभत इति । तत्र योगाङ्गान्यवधार्यन्ते – यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥

ननु च योगशास्त्रान्तरेष्वासनादीन्येव षडङ्गानि । तद्यथा - ‘षडङ्गो योग उच्यत’ इत्यादि ।

किञ्च – साक्षादासनादीन्येव समाधेरुपकुर्वन्ति, न यमनियमौ ॥

नैष दोषः । यमनियमवतोर्योगाधिकारोपपत्तेः । न हि यथाकामचारिणां योगाधिकारः । ‘नाविरतो दुश्चरितान्नाशनान्तः’ इति श्रुतेः । तथा – ‘येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम्’ इत्यादि चाथर्वणे । तथा गीतायाम् ‘ब्रह्मचारिव्रते स्थितः’ इति । तस्माद्यमनियमयोरप्यङ्गत्वम् ॥

यमनियमयोश्च यमस्य प्रथमोपादानं प्राधान्यख्यापनार्थम् । यमस्य हि प्राधान्यं सर्वत्र सिद्धम् । यमनियमयुक्तस्याधिकृतस्य योगिन आसनाद्यङ्गानां पूर्वपूर्वे स्थिरपदप्राप्तस्योत्तरोत्तरानुष्ठानं प्राप्तम् । न हि प्रथमं सोपानमनारुह्योत्तरमारोढुं शक्यम् ॥

यदन्यत्राच्यते –

“स्थानासनविधानानि योगस्य विधयोऽपि वा ।

व्याक्षेपजनाकाः सर्वे न ते योगस्य हेतवः ॥

सर्वदोषपरित्यागः समाधिश्चेति तद्द्वयम् ॥

निर्णय[यात्] योगहेतुः स्याद्भवति वान्यन्न वा [भवत्वन्यन्न वा भवेत्] ॥ ” इति ॥

तत्समाधिसर्वदोषपरित्यागयोः प्राधान्यात् तत्स्तुत्यर्थम्, नासनाद्यङ्गप्रतिषेधार्थम् । यथाक्रममेषां यमादीनामनुष्ठानं स्वरूपं च वक्ष्यामः- स्वरूपे हि अनवगते नानुष्ठातुं शक्यमिति ॥ २९ ॥ तत्र – अहिंसासत्यस्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३० ॥ तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोहः। उत्तरे च यमनियमास्तन्मूलास्तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते। तदवदातरूपकरणायेवोपादीयन्ते। तथा चोक्तम् – स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस्तामेवावदातरूपामहिंसां करोति। विवरणम् विवरणम्

तत्र तेषु यमादिषु प्रथमं यमा व्याख्यायन्ते- अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः । तत्राहिंसा सर्वथा सर्वात्मना सर्वप्रकारेण, सर्वभूतानामनभिद्रोहः सर्वभूतानां स्थावरजङ्गमानां अनभिद्रोहोऽपीडनम् ॥

यमनियमानामहिंसा प्रधानभूता कायवाङ्मनसैः सर्वात्मना करणीयेति दर्शयति – उत्तरे च यमाः सत्यादयः तन्मूलाः अहिंसाप्रयोजनाः अहिंसार्थाः तत्सिद्धिपरतयैव अहिंसासिद्धितत्परत्वेन प्रतिपाद्यन्ते । किमुकं भवतीत्याह - तदवदात[रूप]करणायोपादीयन्ते अहिंसाशुद्धिप्रतिपादानायोपादयन्ते ॥

तथा ह्युक्तम् – स खल्वयं ब्राह्मणो यथा यथा बहूनि व्रतानि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यः हिंसामूलेभ्यः हिंसाकारणेभ्यः निवर्तमानस्तामेवावदातरूपामहिंसां करोति इति ॥ सत्यं यथार्थे वाङ्मनसे। यथा दृष्टं यथाऽनुमितं तथा वाङ्मनश्चेति। परत्र स्वबोधसङ्क्रान्तये वागुक्ता, सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिवन्ध्या वा भवेदिति। एषा सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय। यदि चैवमप्यभिधीयमाना भूतोपघातपरैव स्यान्न सत्यं भवेत्पापमेव भवेत्तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात्। तस्मात्परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात्। विवरणम् विवरणम्

उक्तं च – सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ ” इति । स्तेयमशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणं, तत्प्रतिषेधः पुनरस्पृहारूपमस्तेयमिति। ब्रह्मचर्यं गुप्तेन्द्रियस्योपस्थस्य संयमः। विषयाणामर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणमपरिग्रह इत्येते यमाः ॥ ३० ॥ विवरणम् विवरणम्

स्तेयं अशास्रपूर्वं द्रव्याणां परतः स्वीकरणं स्पृहानिमित्तम् । यत् स्तेयं तत्प्रतिषेधस्तु न स्पृहालूनां सम्भवतीति तस्यैव स्तेयस्य प्रतिषेधस्तु । सः अस्पृहारूपमस्तेयमुच्यते ॥

ब्रह्मचर्यं गुप्तेन्द्रियस्य गुप्तान्येन्द्रियस्य पुरुषस्य अब्रह्मचर्यार्थवाङ्मनसादिवृत्तिशून्यस्य उपस्थेन्द्रियसंयम इति ॥

विषयाणामार्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणम् अनुपादानं अपरिग्रहः । न पुनरसामर्थ्येनास्वीकरणम् । इत्येते यमाः ॥ ३० ॥ ते तु – जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ ३१ ॥ तत्राहिंसा जात्यवच्छिन्ना मत्स्यवधकस्य मत्स्येष्वेव नान्यत्र हिंसा। सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति। सैव कालावच्छिन्ना न चतुर्दश्यां न पुण्येऽहनि हनिष्यामीति। सैव त्रिभिरुपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे नान्यथा हनिष्यामीति। यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति। एभिर्जाति देशकालसमयैरनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः। सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यन्ते ॥ ३१ ॥ विवरणम् विवरणम्

अन्यधर्माणां जातिदेशकालाद्यवच्छेदेनानुष्ठानादिहापि तथा प्रसङ्ग इति तत्प्रतिषेधायाह-एते त्विति । एते त्वहिंसादयो महाव्रतसञ्ज्ञाः सन्न्यासवतामनुष्ठानीयाः । कीदृशास्ते महाव्रतनामान इति-जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् । महच्च तत् व्रतं च महाव्रतम् । महत्त्वं च सार्वभौमत्वम् ॥

कथं पुनर्जात्याद्यनवच्छिन्नत्वमेषामिति अनवच्छेदप्रतिपादनाय व्यतिरेकेण अहिंसामुदाहरति-तत्र अहिंसा जात्यवच्छिन्ना मत्स्यबन्धकस्य मत्स्येष्वेव नान्यत्र मत्स्यजातेर्हिंसा । सा च मत्स्यजात्यवच्छिन्ना मत्स्यभूमेमनश्नुवाना वर्तत इति असार्वभौम्येव ॥

सैवाहिंसा देशावच्छिन्ना कथम्? न तीर्थे प्रयागादौ हनिष्यामीति । तीर्थेष्वहिंसा च तीर्थादन्यं देशं न व्यश्नुत इति असार्वभौमी ॥

सैव च कालावच्छिन्ना यथा – न चतुर्दश्यां न पुण्येऽहनीति । चतुर्दश्यादिकालादन्यं कालं न व्यश्नुत इति साप्यसार्वमैमी ॥

त्रिभिः अपि जातिदेशकालैः उपरतस्य तस्यैव मत्स्यबन्धकस्य समयावच्छिन्ना समयः कर्तव्यतानियमः, कथम् ? देवब्राह्मणार्थं हनिष्यामि नान्यथेति, श्राद्धादिसमयभूमिमनश्नुवाना वर्तत इति साऽपि न सार्वभौमी । यथा च क्षत्रियस्य युद्ध एव हिंसा नान्यत्रेति समयावच्छिन्नस्यैवोदाहरणम् ॥

ये पुनरेते यमाः जातिदेशकालसमयैरनवच्छिन्ना अहिंसादयः, ते सर्वथैव परिपालनीयाः सर्वभूमिषु जात्यादिषु सर्वविषयेषु सर्वप्राणिषु सर्वथैवाविदितव्यभिचाराः विना व्यभिचारेण, ते चेत्थं विशिष्टाः सार्वभौमा महाव्रतमित्युच्यन्ते ॥ ३१ ॥ शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२ ॥ तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यम्। आभ्यन्तरं चित्तमलानामाक्षालनम्। सन्तोषः सन्निहितसाधनादधिकस्यानुपादित्सा। तपो द्वन्द्वसहनम्। द्वन्द्वाश्च जिघत्सापिपासे शीतोष्णे स्थानासने काष्ठमौनाकारमौने च। व्रतानि चैषां यथायोगं कृच्छ्रचान्द्रायणसान्तपनादीनि। स्वाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा। ईश्वरप्रणिधानं तस्मिन्परमगुरौ सर्वकर्मार्पणम्। शय्यासनस्थोऽथ पथि व्रजन्वा स्वस्थः परिक्षीणवितर्कजालः। संसारबीजक्षयमीक्षमाणः स्यान्नित्ययुक्तोऽमृतभोगभागी ॥ यत्रेदमुक्तं ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्चेति ॥ ३२ ॥ विवरणम् विवरणम्

शौचसन्तोषतपस्स्वाध्यायेश्वरप्राणधानानि नियमाः । तत्र शौचं मृदादिजनितम् आदिशब्दादुदकं च । मेध्याभ्यवहरणानि च धृतपयआदीनि भक्षणानि । चशब्दात् मेध्यदर्शनश्रवणादीनि च । बाह्यमेतच्छौचम् ॥

आभ्यन्तरमधुनोच्यते - चित्तमलानां कामक्रोधादीनां तत्प्रतिपक्षभावनासलिलैः आक्षालनम् ॥

सन्तोषः सन्निाहतसाधनाश्वासात् सन्निहितादाश्वासीनमित्तात् अधिकसाधनानुपादित्सा सन्निहितमात्रादतृप्तौ सत्यामप्यलम्प्रत्ययः ॥

तपो द्वन्द्वसहनम् । द्वन्द्वश्च जिघत्सापिपासे । जिघत्सा अत्तुमिच्छा । पातुमिच्छा पिपासा । जिघत्सापिपासासहनं तपः । [स्वरूपेणैव [वा] ते जिघत्सापिपासे] अल्पीयः पानाशननिमित्ते तपः । शीतोष्णे अप्रतिक्रियमाणे अल्पप्रतिक्रिये वा तपः । स्थानासने ‘तिष्ठदहनि रात्रावासीत’ इति स्मृतिप्रस्थानम् । काष्ठमौनाकाष्ठमौने । काष्ठमौनं हस्तप्रयोगादिरहितम् । अकाष्ठमौनं हस्तादिप्रयोगयुक्तं सम्भाषणादिरहितम् ॥

व्रतानि चैषां योगिनां यथायोगं यथासम्भवम् । होमादिविरुद्धधर्मविरुद्धप्रतिषेधार्थं यथायोगमित्याह । कानि तानि? कृच्छ्रादीनि । कृच्छ्रं प्राजापत्यादि । त्र्यहं प्रातः त्र्यहं सायं त्र्यमद्यादयाचितम् । उपोषणं त्र्यहम्’ इति । चान्द्रायणं यवमध्यपिपीलिकामध्यादि । ‘एकैकं वर्धयेत् ग्रासम्’ इत्यादिस्मृतिः । सान्तपनम्—

‘गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।

एकरात्रोपवासश्च कृच्छ्रः सान्तपनः स्मृतः ॥

एतान्येव द्रव्याणि त्रिरभ्यस्तानि महासान्तपनम् । आदिग्रहणं पराकादि प्रत्युपादानार्थम् । स्वाध्यायो मोक्षशास्त्राध्ययनम् उपनिषदाद्यध्ययनं प्रणवजपो वा । प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्चेति ॥ ३२ ॥ एतेषां यमनियमानाम् – वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३ ॥ यदाऽस्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन्हनिष्याम्यहमपकारिणमनृतमपि वक्ष्यामि क्रयमप्यस्य स्वीकरिष्यामि दारेषु चास्य व्यवायी भविष्यामि परिग्रहेषु चास्य स्वामी भविष्यामीति। एवमुन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन बाध्यमानस्तत्प्रतिपक्षान्भावयेत्। घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणमुपागतः सर्वभूताभयप्रदानेन योगधर्मः। स खल्वहं त्यक्त्वा वितर्कान्पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति भावयेत्। विवरणम् विवरणम्

तत्र यमनियमानां विरुद्धास्तर्काः वितर्काः, तैः बाधने सति प्रतिपक्षान् भावयेत् अभिधास्यमानेन प्रकारेण । अप्रतिभाव्यमाना हि वितर्का योगिनं । हिंसादिषु प्रणिधापयेयुः ॥

यदा अस्य ब्राह्मणस्य वितर्का हिंसादयो जायेरन् । तत्राहिंसादिवितर्का ये वा हिंसादयस्ते वितर्काः कीदृशा इति ? तत्राहिंसाया वितर्कः हिंसा हनिष्याम्यपकारिणमिति । तथा सत्यस्य अनृतं वदिष्यामीति विरुद्धः प्रत्ययो वितर्कः । तथैवास्तेयस्य वितर्कः द्रव्यमस्य स्वीकरिष्यामीति । तथा ब्रह्मचर्यस्य वितर्कः दारेषु चास्य गर्मिष्यामीति । तथैवापरिग्रहस्य वितर्कः परिग्रहेषु चास्य स्वामी भविष्यामीति ॥

अस्येत्येतत् सर्वत्र हिंसादिषु अनुगमप्रतिपादनार्थम् । द्रव्यमस्य स्वीकरिष्यामीति परद्रव्यस्यात्मसम्बन्धकरणम् । परिग्रहेषु चास्य स्वामीति परसम्बन्धिष्वेव द्रव्येषु स्वयं स्वामीति । यथा कुमारनरपतिसचिवादीनाम् ॥

इत्थमुन्मार्गहारिणा वितर्कज्वरेण दीप्तेन बाध्यमानस्तत्प्रतिपक्षान् भावयेत् ॥

कथं भावयेदिति ? घोरेषु संसाराङ्गारेषु पच्यमानेन मया । शरणमभ्युपगतः सर्वभूताभयप्रदानेन योगधर्मः । स खल्वहं त्यक्त्वा वितर्कान् हिंसादीन् पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति । शुन इव वृत्तं यस्य सः श्ववृत्तः । श्ववद्वा वृत्तः श्ववृत्तः । तेन तुल्य इति भावयेत् । यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनराददान इति मादि सूत्रान्तरेष्वपि योज्यम् ॥ ३३ ॥ विवरणम् विवरणम्

यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनरादानं कुर्वन् इत्युपस्कारः । तेन पुरुषेण तुल्योऽहमिति । तथा कथमहं भवेयं, न युक्तमेतदिति भावयेत् ॥

इत्येवमादि सूत्रान्तरेऽपि नियमसूत्रेऽपि योज्यम् । शौचादीनां प्रत्येकं वितर्की द्रष्टव्याः शौचं न करिष्यामीत्यादयः । भाष्ये तु यमानमेव प्रदर्शनम्, तेषामवश्यकर्तव्यत्वात्, अकरणे च दोषगौरवात्, अत्यादरार्थम् ॥ ३३ ॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ ३४ ॥ तत्र हिंसा तावत् – कृता कारिताऽनुमोदितेति त्रिधा। एकैका पुनस्त्रिधा लोभेन मांसचर्मार्थेन क्रोधेनापकृतमनेनेति मोहेन धर्मो मे भविष्यतीति। लोभक्रोधमोहाः पुनस्त्रिविधा मृदुमध्याधिमात्रा इति। एवं सप्तविंशतिर्भेदा भवन्ति हिंसायाः। मृदुमध्याधिमात्राः पुनस्त्रिधा - मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरिति। तथा मृदुमध्यो मध्यमध्यस्तीव्रमध्य इति। तथा मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति। एवमेकाशीतिभेदा हिंसा भवति। सा पुनर्नियमविकल्पसमुच्चयभेदादसङ्ख्येया, प्राणभृद्भेदस्यापरिसङ्ख्येयत्वादिति। एवमनृतादिष्वपि योज्यम्। विवरणम् विवरणम्

वितर्काणां स्वरूपं भेदः प्रभवहेतुः फलं च सूत्रेणैव प्रदर्श्यते – वितर्का हिंसादय इति स्वरूपम् । कृतकारितानुमोदिता इति भेदः । लोभक्रोधमोहपूर्वका इति प्रभवहेतुः । मृदुमध्याधिमात्रा इति मन्दमध्योत्तमदोषत्वम् । दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् । फलं वा तेनैव व्याख्यायते ॥

तत्र हिंसैव एका उदाह्रियते सर्वेषां प्रदर्शनाय । सा कृता कारिता अनुमोदितेति त्रिविधा । कृता स्वव्यापारेण । कारिता प्रयोज्यव्यापारेण । अनुमोदिता परेषां व्यापारेण मनसा अनुज्ञाता ॥

एकैका पुनस्त्रिधा । कथम् ? लोभेन, मांसचर्मा(स्थि)र्थी मृगं हिनस्ति । क्रोधेन, अपकृतमनेनेति । मोहेन, धर्मो मे भविष्यतीति । एवमेते नव भेदाः । एकै(त्वेन)स्य पुनस्त्रिधा भेदः । कथम् ? लोभक्रोधमोहाः पुनास्त्रिधा - मृदुमध्याधिमात्रा इति । [एकैकं पुनः] त्रिधा भवति - मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरिति । तथा मृदुमध्यो मध्यमध्यस्तीव्रमध्य इति । तथा मृदुतीव्रो मध्यतीव्रस्तीव्रतीव्र इति । एवं एकाशीतिभेदा हिंसा भवति ॥

सा च पुनः एकाशीतिभेदाऽपि सती नियोगाविकल्पसमुचयभेदात् असङ्ख्येया । यथा नियोगभेदः कश्चिन्नियुक्तः सन्नन्यं नियुङ्के ; यथा राज्ञः । स चापि नियुक्तः परम्, स चापि परमिति । ते च सर्वे नियुक्ताः समुच्चयेन विकल्पेन वा हिंसन्ति । तथा मूलनियोक्तापि नियोज्यैः संहत्य विकल्पय च हिंसामनुतिष्ठतीति । वध्यघातकादिप्राणिभेदस्यासङ्ख्येयत्वादिति । एवमनृतादिष्वपि योज्यम् । कृतकारितानुमोदितादि योज्यम् ॥ ते खल्वमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्। दुःखमज्ञानं चानन्तं फलं येषामिति प्रतिपक्षभावनम्। तथा च हिंसकस्तावत्प्रथमं वध्यस्य वीर्यमाक्षिपति। ततश्च शस्त्रादिनिपातेन दुःखयति। ततो जीवितादपि मोचयति। ततो वीर्याक्षेपादस्य चेतनाचेतनमुपकरणं क्षीणवीर्यं भवति। दुःखोत्पादान्नरकतिर्यक्प्रेतादिषु दुःखमनुभवति, जीवितव्यपरोपणात्प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नपि दुःखविपाकस्य नियतविपाकवेदनीयत्वात्कथञ्चिदेवोच्छ्वसिति। यदि च कथञ्चित्पुण्यावापगता हिंसा भवेत्तत्र सुखप्राप्तौ भवेदल्पायुरिति। एवमनृतादिष्वपि योज्यं यथासम्भवम्। एवं वितर्काणां चामुमेवानुगतं विपाकमनिष्टं भावयन्न वितर्केषु मनः प्रणिदधीत ॥ ३४ ॥ विवरणम् विवरणम्

ते खल्वमी वितर्का दुःखाज्ञानानन्तफलाः । दुःखं चाज्ञानं च दुःखाज्ञाने, ते एवानन्तं फलं येषां ते दुःखाज्ञानानन्तफलाः । दुःखमेषामनन्तं फलम् । अज्ञानं चैषामनन्तं फलम् । तस्मादेतान् वितर्कान् मनसाऽपि नोपेक्षयेदिति प्रतिपक्षं भावयेत् ॥

तत्र हिंस्यस्य त्रिप्रकारा पीडा प्रतिपाद्यते तद्भेदद्वारेण फलभेदप्रदर्शनार्थम् । तथा च हिंसको वध्यस्य वीर्यमाक्षिपति । घातकरूपावलोकनभत्सैनादिना त्रस्तस्य वीर्यमाक्षिप्य शस्त्रादिनिपातनेन दुःखयति । ततो जीवितादपि मोचयति । प्राणेभ्यो वियोजयति ॥

तस्य वीर्याक्षेपादस्य हिंसितुः चेतनाचेतनं पशुक्षेत्रादिकं उपकरणं क्षीणवीर्यं भवति ॥

शस्त्रादिनिपातनदुःखोत्पादात् हिंसाविशेषात् नरकतिर्यक्प्रेतादिषु दुःखमनुभवति ॥

तथा जीवितव्यपरोपणात् प्रतिक्षणं च जीवितात्यये वर्तमानो जन्ममरणान्तरे वर्त्मनि प्रतिक्षणं मरणमिच्छन्नपि दुःखविपाकस्य नियतवेदनीयत्वात् अवश्यानुभवितव्यत्वात् कथञ्चिदेवोच्छ्वासिति ॥

यदि च कथञ्चित्पुण्यावगमात् प्रभूतपुण्यावापगता अल्पीयसी हिंसा भवेत्, तत्र पुण्यभूम्ना सुखप्राप्तः सन्नपि भवेदल्पायुः आवापगतहिंसादोषेण ॥

इत्थमनृतादिष्वपि यथासम्भवं हिंसायामुक्तं योज्यम् । एवं वितर्काणां हिंसादीनां छायामिवानुगतं विपाकमनिष्टं भावयेत्, न वितर्केषु मनः प्रणिदधीत ॥ ३४ ॥ प्रतिपक्षभावनाद्धेतोर्हेया वितर्का यदाऽस्य स्युरप्रसवधर्माणस्तदा तत्कृतमैश्वर्यं योगिनः सिद्धिसूचकं भवति। तद्यथा – अहिंसाप्रतिष्ठायां तत्सन्निधा वैरत्यागः ॥ ३५ ॥ सर्वप्राणिनां भवति ॥ ३५ ॥ विवरणम् विवरणम्

प्रतिपक्षभावनाहेया वितर्काः यदा च स्युरप्रसवधर्मिणः अप्रसवाश्च ते धर्मिणश्चेत्यप्रसवधर्मिणः । यदा योगिनो मनसि नोत्पद्यन्ते निकृतमूलाः सन्तः, तदा तत्कृतं यमनियमस्थैर्येकृतम् ऐश्वर्यं योगिनः सिद्धिसूचकम् अहिंसादिफलसिद्धिज्ञापकं जायत इति योगसिद्धिफलमवस्थितमेव । अन्यदपि योगाङ्गस्तुतये ऐश्वर्यमनुषङ्गजातमुच्यते । कथम् ? एकैकस्याप्यहिंसादीनां स्थिरत्वलिङ्गमीदृशं यज्ञादिधर्मफलैरप्यसमानं प्रत्यक्षत उपलभ्यते, किमङ्ग संहतानां योगसिद्धिकरत्वमिति । तदेतत्प्रतिदर्शयति – तद्यथा – अहिंसाप्रतिष्ठायाम् अहिंसास्थिरत्वे अवितर्कप्रादुर्भावे । तत्सन्निधौ वैरत्यागः । शाश्वतिकविद्वेषणामपि सर्पनकुलादीनां तस्य अहिंसकस्य सन्निधौ वैरत्यागो भवति ॥ ३५ ॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६ ॥ धार्मिको भूया इति भवति धार्मिकः, स्वर्गं प्राप्नुहीति स्वर्गं प्राप्नोति। अमोघाऽस्य वाग्भवति ॥ ३६ ॥ विवरणम् विवरणम्

सत्यप्रतिष्ठायां सत्यस्थैर्ये क्रियाफलाश्रयत्वं यज्ञादिक्रियाफलानामागमनं प्राप्तिर्भवति । सत्यवादिवाक्यादिति शेषः । कथम् ? अधार्मिकोऽपि धार्मिको भूया इत्युक्ते तद्वचनाद्धार्मिको भवति । यथा धर्मेऽस्य रमतां मन इति देवैरुक्तः कुण्डधाराराधी ब्राह्मणो धार्मिको बभूव । तथा स्वर्गं प्राप्नुहीत्युक्तः स्वर्गं प्राप्नोति । यथा विश्वामित्रेणोक्तः स्वर्गं प्राप्नुहीति त्रिशङ्कुः स्वर्गं प्राप । किं बहुना । अमोघाऽस्य वाक् भवति ॥ ३६ ॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७ ॥ सर्वदिक्स्थान्यस्योपतिष्ठन्ति रत्नानि ॥ ३७ ॥ विवरणम् विवरणम्

अस्तेयप्रतिष्ठायां अस्पृहायाम् । ततः किमस्य भवति ? रत्नोपस्थानं भवति सर्वदिक्स्थान्यस्योपतिष्ठन्ते रत्नानि आत्मानं दर्शयन्ति ॥ ३७ ॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८ ॥ यस्य लाभादप्रतिघान्गुणानुत्कर्षयति। सिद्धश्च विनेयेषु ज्ञानमाधातुं समर्थो भवतीति ॥ ३८ ॥ विवरणम् विवरणम्

ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः । ब्रह्मचर्यलाभादप्रतिघान् गुणानुत्कर्षयति । अप्रतिबन्धानात्मन उपपादयति । सर्वशुभार्थप्रवृत्तिष्वप्रतिबद्धवीर्यो भवति । न केनचित् प्रतिघातेन विवध्यत इत्यर्थः ॥

किञ्च – विनयेषु शिष्येषु योग्येषु वा साधुषु ज्ञानमाधातुं समर्थो भवति यथा भगवान् व्यासः सं(ज्ञये)जज्ञे ॥ ३८ ॥ अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ ३९ ॥ अस्य भवति। कोऽहमासं कथमहमासं किंस्विदिदं कथं स्विददं के वा भविष्यामः कथं वा भविष्याम इत्येवमस्य पूर्वान्तपरान्तमध्येष्वात्मभावजिज्ञासा स्वरूपेणोपावर्तते। एता यमस्थैर्ये सिद्धयः ॥ ३९ ॥ विवरणम् विवरणम्

अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः । जन्मनः कथम्भावबोधोऽस्य भवति ।

किंस्विदिदं (सम)मम जन्मनः किं सतत्त्वम्, कथं स्थिदिदं केन प्रकारेण स्वित्, किं भविष्यामः प्राणो [प्रायणो]त्तरकालं किं वा न भविष्यामः, भविष्यन्तो वा के भविष्यामः, कथं भविष्यामः, इत्येवम् अस्य पूर्वापरान्तमध्येषु भूतभविष्यद्वर्तमानेषु आत्मजिज्ञासा सम्यग्दर्शनस्य पूर्वरूपं स्वरूपेणोपावर्तते । बाह्यपरिग्रहासङ्गाभावात् स्वात्मविषयालोचनमयत्वेन प्रवर्तते । नान्येषां परिग्रहसन्तापवितानिततृषां यत्नेनापि जायते ॥ ३९ ॥ नियमेषु वक्ष्यामः – शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४० ॥ स्वाङ्गे जुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर्भवति। किं च परैरसंसर्गः कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृज्जलादिभिराक्षालयन्नपि कायशुद्धिमपश्यन्कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्येत ॥ ४० ॥ विवरणम् विवरणम्

यमेषु सिद्धय उक्ताः । इदानीं नियमेषु वक्ष्यामः – शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः । स्वाङ्गजुगुप्सया शौचमारभमाणः कायावद्यदर्शी शरीरगर्ह्यत्वदर्शी कायानभिष्वङ्गी यतिर्भवति । किञ्च – परैरसंसर्गो भवति । कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृज्जलादिभिराक्षालयन्नपि कायशुद्धिमपश्यन् कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्यत इति ॥ ४० ॥ किं च – सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ ४१ ॥ भवन्तीति वाक्यशेषः। शुचेः सत्त्वशुद्धिस्ततः सौमनस्यं तत ऐकाग्र्यं तत इन्द्रियजयस्ततश्चाऽऽत्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीत्येतच्छौचस्थैर्यादधिगम्यत इति ॥ ४१ ॥ विवरणम् विवरणम्

किं चान्यद्भवति । सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चास्य भवन्ति । पूर्वस्य पूर्वस्य स्थैर्यादुत्तरस्याविर्भावः । कथम् ? शुचेः सत्त्वशुद्धिः । ततः सौमनस्यम्, तत ऐकाग्र्यम्, ततश्चेन्द्रियजयः, ततश्चात्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीत्यतः शौचस्थैर्यादाधिगम्यत एतत् सर्वम् । ततश्चेयं शौचसिद्धिरेव ॥ ४१ ॥ सन्तोषादनुत्तमः सुखलाभः ॥ ४२ ॥ तथा चोक्तम् – यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ इति ॥ ४२ ॥ विवरणम् विवरणम्

सन्तोषादनुत्तमः सुखलाभः । सन्तोषवितर्कानुत्पत्तौ अनुत्तमः न विद्यतेऽस्मादन्य उत्तमः ।

तथा चोक्तम् – ‘‘यच्च कामसुखं लोके, यच्चैहिकम् । यच्च दिव्यं महत्सुखम् । देवादिसम्बन्धि । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्’’ ॥ ४२ ॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥ ४३ ॥ निर्वर्त्यमानमेव तपो हिनस्त्यशुद्ध्यावरणमलं तदावरणमलापगमात्कायसिद्धिरणिमाद्या। तथेन्द्रियसिद्धिर्दूराच्छ्रवणदर्शनाद्येति ॥ ४३ ॥ विवरणम् विवरणम्

कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः । निर्वर्त्यमानमेव तपो हिनस्त्यशुद्ध्यावरणम् किमङ्ग निर्वर्तितमित्यभि(मानः)प्रायः ॥

तदावरणमलापगमात् कायसिद्धिरणिमाद्या । मातापित्रादिसम्बन्धजं कायमलं बैजं गार्भं चाहारादिजं च सर्वं तपसा निघातयिष्यते । ततश्चाणिमादिकायसिद्धिः ॥

तथा विषयादिसम्पर्कजमिन्द्रियाणामधर्माद्यावरणं मलं तपस्स्नोतस्विनीस्रोतसा क्षाल्यते । तथा इन्द्रियसिद्धिर्दूराच्छ्रवणाद्या ॥ ४३ ॥ स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥ ४४ ॥ देवा ऋषयः सिद्धाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति,कार्ये चास्य वर्तन्त इति ॥ ४४ ॥ विवरणम् विवरणम्

स्वाध्यायादिष्टदेवतासम्प्रयोगः । देवाः ऋषयः सिद्धाश्च य इष्टास्ते स्वाध्यायशीलस्य दर्शनं गच्छन्ति कार्येषु चास्य उपदेशादिषु वर्तन्ते ॥ ४४ ॥ समाधिसिद्विरीश्वरप्रणिधानात् ॥ ४५ ॥ ईश्वरार्पितसर्वभावस्य समाधिसिद्धिर्यया सर्वमीप्सितमवितथं जानाति देशान्तरे देहान्तरे कालान्तरे च। ततोऽस्य प्रज्ञा यथाभूतं प्रजानातीति ॥ ४५ ॥ विवरणम् विवरणम्

समाधिसिद्धिरीश्वरप्रणिधानात् । ईश्वरार्पितसर्वभावस्य समाधिः सिध्यति । यया समाधिसिद्ध्या सर्वमीप्सितमवितथं जानाति । तथा देशान्तरे कालान्तरे चास्य प्रज्ञा यथाभूतं जानाति ॥ ४५ ॥ उक्ताः सह सिद्धिभिर्यमनियमाः। आसनादीनि वक्ष्यामः। तत्र – स्थिरसुखमासनम् ॥ ४६ ॥ तद्यथा पद्मासनं भद्रासनं स्वस्तिकं दण्डासनं सोपाश्रयं पर्यङ्कं क्रौञ्चनिषदनं हस्तिनिषदनमुष्ट्रनिषदनं समसंस्थानं स्थिरसुखं यथासुखं चेत्येवमादीनि ॥ ४६ ॥ विवरणम् विवरणम्

उक्ताः सह सिद्धिभिर्यमानयमाः । इदानीं आसनादीनि वक्ष्यामः - तत्र स्थिरसुखमासनम् । स्थिरं सुखं चासनम् । यस्मिन्नासने, स्थितस्य मनोगात्राणामुपजायते स्थिरत्वम्, दुःखं च येन न भवति तदभ्यस्येत् । तद्यथा – शास्त्रान्तरप्रसिद्धानि नामानि पद्मासनादीनि प्रदर्श्यन्ते ॥

तत्र शुचौ देवनिलयगिरिगुहानदीपुलिनादौ ज्वलनसलिलासमीपे जन्तुविवर्जिते निर(ङ्ग)श्मके शुचिः सम्यगाचम्य, परमेश्वरमखिलभुवनैकनाथं अभिवन्द्यांश्च योगेश्वरानात्मगुरूश्च प्रणिपत्य, चैलाजिनकुशोत्तरमदुःखकरं प्राङ्मुख उदङ्मुखो वा विष्टरमधिष्ठाय, अन्यतमदेषामासनं निर्बध्नीयात् ॥

तत्र पद्मासनं नाम – सव्यं पादमुपसंहृत्य दक्षिणोपरि निदधीत । तथैव दक्षिणं सव्यस्योपरिष्टात् । कट्युरोग्रीवं च विष्टभ्य, मृ(ग)तसुप्तवन्नासिकाग्रनिहितदृष्टिः, समुद्गकवदपिहितोष्ठसम्पुटः, दन्तैर्दन्ताग्रमपरामृशन् , मुष्टिमात्रान्तरविप्रकृष्टाचिबुकोरस्स्थलः, राजद्दन्तान्तरनिहितरसनाग्रः, हस्तौ पार्ष्ण्योरुपरि कच्छपकं ब्रह्माञ्जलिं वा कृत्वा, सकृदास्थापितेत्थंसंस्थान:, पुनः पुनः शरीरावयवशरीरविन्यासविशेषपरित्यक्तप्रयत्नः सन् येनासीत, तत् पद्मासनम् ॥

एतच्च सर्वमन्येषामासनानामपि तुल्यम् । कश्चिदेव विशेषः ॥

तथा दक्षिणं पादं सव्यस्योपरि कृत्वा, हस्तं च दक्षिणं सव्यहस्तस्योपरि निधाय, येनास्ते, तत् भद्रासनम् । अन्यत् समानम् ॥

तथा कुञ्चितान्यतरपादमवनिविन्यस्तापरजानुकं वीरासनम् । उच्यमान एव विशेषः सर्वत्र ॥

दक्षिणं पादाङ्गुष्ठं सव्येनोरुजङ्घेन परिगृह्यादृश्यं कृत्वा, तथा सव्यं पादाङ्गुष्ठं दक्षिणेनोरुजङ्घेनादृश्यं परिगृह्य, यथा च पार्षिणिभ्यां वृषणयोरपीडनं तथा येनास्ते, तत् स्वस्तिकमासनम् ॥

समगुल्फौ समाङ्गुष्ठौ प्रसारयन् समजानू पादौ दण्डवद्येनोपविशेत्, तत् दण्डासनम् ॥

(न)योगपट्टसं[स्थं]स्तम्भाद्याश्रयं वा सोपाश्रयम् ॥

आजानुप्रसारितबाहुशयनं पर्यङ्कासनम् ॥

क्रौञ्चनिषदनं हस्तिनिषदनं उष्ट्रनिषदनं च कौञ्चादिनिषदनसंस्थानसादृश्यादेव द्रष्टव्यम् ॥

भूमौ न्यस्तोरुजङ्घं समसंस्थितम् ॥

स्थितप्रस्रब्धिः । अन्येनापि प्रकारेण स्वयमुत्प्रेक्ष्य स्थितप्रस्रब्धिः । अनायासे येन भवति तदप्यासनं स्थितप्रस्रब्धिर्नाम ॥

यथासुखं च - येन रूपेणासीनस्य सुखं भवति तत् यथासुखम् । आदिशब्दादन्यदपि यथाचार्योपदिष्टमासनं द्रष्टव्यम् ॥ ४६ ॥ प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ ४७ ॥ भवतीति वाक्यशेषः। प्रयत्नोपरमात्सिध्यत्यासनं येन नाङ्गमेजयो भवति। अनन्ते वा समापन्नं चित्तमासनं निर्वर्तयतीति ॥ ४७ ॥ विवरणम् विवरणम्

तदासनजयाभ्युपाय इदानीमुपपाद्यत – प्रयत्नशैशिल्यानन्त्यसमापत्तिभ्याम् । भवतीति वाक्यशेषः । आसनं दृढनिष्पन्नं भवतीत्युपस्कारः । प्रयत्नोपरमादासनबन्धोत्तरकालं प्रयत्नाकरणाद्वा सिध्यति । येन नाङ्गमेजयो भवति । येन प्रयत्नोपरमेण । प्रयत्नेन ह्यङ्गं कम्पयति । येन अचलितासनो भवतीत्यर्थः । अनन्त्ये वा समापन्नम् । अनन्तं विश्वम् , अनन्तभाव अनन्त्यम् , तस्मिन् समापन्नं, व्याप्य विश्वभावं स्थितं चित्तमासनं निर्वर्तयति द्रढयति ॥ ४७ ॥ ततो द्वन्द्वानभिघातः ॥ ४८ ॥ शीतोष्णादिभिर्द्वन्द्वैरासनजयान्नाभिभूयते ॥ ४८ ॥ विवरणम् विवरणम्

ततो द्वन्द्वानभिघातः । ततः आसनस्थिरीभावात् । इदं दृष्टमानुषाङ्गिकम् । यत् शीतोष्णादिभिर्द्वन्द्वैर्नाभिभूयेत ॥ ४८ ॥ तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ ४९ ॥ सत्यासनजये बाह्यस्य वायोराचमनं श्वासः, कौष्ठ्यस्य वायोर्निःसारणं प्रश्वासः, तयोर्गतिविच्छेद उभयाभावः प्राणायामः ॥ ४९ ॥ विवरणम् विवरणम्

किञ्च – प्राणायामादियोग्यता च भवति । कथम् ? तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायमः । सत्यासने दृढे बाह्यस्य वायोराचमनं श्वासः । यथा सन्ततत्वादुदकं नालेनाकृष्यते, तथा सन्ततत्वात् नासिकापुटनालाभ्यामपानवायुसम्बन्धो बहिर्वायुराकृष्यते, तदाकर्षणं श्वासः । तथा कौष्ठ्यवायोर्निश्चारणम् । प्राणवृत्तिसम्बन्धी हि कौष्ठ्यो वायुः । तस्य बहिर्निस्सारणं प्रश्वासः । तयोर्गतिविच्छेदः । किमुक्तं भवत्यत आह - उभयाभावः प्राणायाम इति ॥ ४९ ॥ स तु – बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ ५० ॥ यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः। यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः। तृतीयः स्तम्भवृत्तिर्यत्रोभयाभावः सकृत्प्रयत्नाद्भवति। यथा तप्ते न्यस्तमुपले जलं सर्वतः सङ्कोचमापद्यते तथा द्वयोर्युगपद्गत्यभाव इति। त्रयोऽप्येते देशेन परिदृष्टा इयानस्य विषयो देश इति। कालेन परिदृष्टाः क्षणानामियत्तावधारणेनावच्छिन्ना इत्यर्थः। सङ्ख्याभिः परिदृष्टा एतावद्भिः श्वासप्रश्वासैः प्रथम उद्धातस्तद्वन्निगृहीतस्यैतावद्भिर्द्वितीय उद्धात एवं तृतीयः। एवं मृदुरेवं मध्य एवं तीव्र इति सङ्ख्यापरिदृष्टः। स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः ॥ ५० ॥ विवरणम् विवरणम्

स तु त्रिविधः बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः । स बाह्यवृत्तिरभ्यन्तरवृत्तिः स्तम्भवृत्तिश्च । यत्र श्वासपूर्वको गत्यभावः स बाह्यवृत्तिः । बाह्यस्य वायोरन्तः प्रवेशनं प्रति वृत्तिः यस्य स बाह्यवृत्तिः । तस्मात् स बाह्यः । बाह्यमन्ये पूरक इत्याचक्षते ॥

यत्र प्रश्वासपूर्वको गत्यभावः स आभ्यन्तरवृत्तिः । आभ्यन्तरस्य वायोर्बहिर्निस्सारणं प्रति वृत्तिर्यस्य स अभ्यन्तरवृत्तिः । तस्मात् स आभ्यन्तरः । तं रेचक इत्याचक्षते ॥

तृतीयस्तु स्तम्भवृत्तिः । तत्रोभयाभावः आचमननिश्चारणयोरभावः स तु सकृत्प्रयत्नात् प्रभवति । यथा तप्ते न्यस्तं उपले जलं सर्वतः सङ्कोचमापद्यते, तथा सकृत्प्रयत्नात् प्राणदिवृत्तयः सङ्कोचमुपयान्तीत्याह - द्वयोर्युगपत् गत्यभाव इति ॥

त्रयोऽप्यते देशेन परिदृष्ठाः इयानस्य देश इति । यथा बहिर्वृत्तेरन्तराचम्यमानस्य नासिकाग्रप्रभृत्यपादाङ्गुष्ठं देशव्याप्तिः । एवमन्तर्वृत्तेर्बहिर्निश्चार्यमाणस्य वायोः पादाङ्गुष्ठप्रभृत्यनासिकाग्रं देशव्याप्तिः । स्तम्भवृत्तेरामस्तकापादतलव्याप्तिः । अथवा बहिरपि वितस्त्यादिक्रमेण देशव्याप्तिरस्त्येव ॥

कालेन परिदृष्टाः, क्षणानामियत्तावधारणेन इयन्तः क्षणाः प्राणायामेनातिवाहिता इति ॥

तथा सङ्ख्याभिः परिदृष्टाः, एतावद्भिः श्वासप्रश्वासैः अतीतैः परिदृष्टः प्रथम उद्घातः । यथा निरोधक्षुभितानां वायूनां सकृत् मूर्धानमुद्धत्य निवृत्तिः प्रथम उद्धातः । स एव मृदुः ॥

पुनश्च सकृदुद्धतनिगृहीतस्य वायोः तावद्भिः प्रश्वासैरतीतैः परिदृष्टो द्वितीय उद्धातः प्राणायामो मध्यम इत्युच्यते ॥

तथा तृतीयः, एतावद्भिः श्वासप्रश्वासैः परिदृष्टः तृतीय उद्घातः । स एव च त्रिरुद्धातः तीव्र इति ॥

स खल्वयमेवं देशकालसङ्ख्यापरिदृष्टोऽभ्यस्तो दीर्घकालव्यापी भवति भूमिजयात् । तथा चर्षीणामनेकवर्षव्यापी श्रूयते । ततश्व दीर्घः ॥

तथा वायूनां दीर्घत्वमन्दत्वापत्तेः सूक्ष्मं च भवति ॥ ५० ॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१ ॥ देशकालसङ्ख्याभिर्बाह्यविषयपरिदृष्ट आक्षिप्तः। तथाऽऽभ्यन्तरविषयपरिदृष्ट आक्षिप्तः। उभयथा दीर्घसूक्ष्मः। तत्पूर्वको भूमिजयात्क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः। तृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः। चतुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात्क्रमेण भूमिजयादुभयाक्षेपपूर्वको गत्यभावश्चतुर्थः प्राणायाम इत्ययं विशेष इति ॥ ५१ ॥ विवरणम् विवरणम्

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः – बाह्यस्य विषयाः पादाङ्गुष्ठादयः । बाह्यो हि वायुराचम्यमानोऽन्तर्देशान् व्याप्नोति, आक्षिपति । आभ्यन्तरस्य विषया भूम्यादयः । स च बहिर्निश्चार्यमाणे भूम्यादीन् देशकालसङ्ख्यापरिदृष्टान् व्याप्नोति, आक्षिपति । स बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः प्राणायामः ॥

देशकालसङ्ख्याभिर्बाह्यवस्तुविषयः परिदृष्ट आक्षिप्तो व्याप्तः । तथा आभ्यन्तरविषयः परिदृष्टो देशकालसङ्ख्याभिः आक्षिप्तो व्याप्तः । उभयथा दीर्घसूक्ष्मः । बाह्याभ्यन्तरविषयाक्षेपेणोभयथा दीर्घसूक्ष्मत्वापन्नः ॥

किमुक्तं भवतीत्याह - तत्पूर्वकः उभयविषयाक्षेपपूर्वकः । भूमिजयात् उभयवृत्तिवायुभूमिजयक्रमेणोभयोः प्राणापानवृत्त्योर्बाह्याभ्यन्तरयोः गत्यभावश्चतुर्थेः ॥

तृतीयचतुर्थयोरुभयवृत्तिसामान्यादविशेषत्वमाशङ्क्याह – तृतीयस्तद्विषयानालोचितः सकृदारब्ध एव गत्यभावो देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः । चतुर्थस्तु श्वासप्रश्वासयोः आतमितोः विषयावधारणात् क्रमेण वा यद्वृत्तिभूमिजयक्रमेणोभयाक्षेपपूर्वको गत्यभावश्चतुर्थः प्राणायाम इत्ययं विशेषः तृतीयचतुर्थयोः ॥ ५१ ॥ ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥ प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म। यत्तदाचक्षते – महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वमावृत्य तदेवाकार्ये नियुङ्क्त इति। तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद्दुर्बलं भवति प्रतिक्षणं च क्षीयते। तथा चोक्तम् – “तपो न परं प्राणायामात्ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्य” इति ॥ ५२ ॥ विवरणम् विवरणम्

ततः क्षीयते प्रकाशावरणम् । प्रकाश आव्रियते येन तत् प्रकाशावरणं कर्म । प्राणायामानभ्यस्यतो योगिनो विवेकज्ञानमाव्रियते येन तत् विवेकज्ञानावरणीयं कर्म । यत्तु आचक्षते शास्त्रान्तरे ‘महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्वमावृत्य तदेवाकार्ये विनियुङ्क्ते” इति ॥

यदाव्रियते विपर्ययज्ञानमहेन्द्रजालेन तदेव सत्वमावरणकर्मणा सर्वाकार्ये विनियुज्यते । तत् प्राणायामाभ्यासादस्य प्रकाशावरणं कर्म संसारनिबन्धनं दुर्बलं भवति । न केवलं दुर्बलभाव एव, प्रतिक्षणं च क्षीयते ॥

तथा चोक्तम् – ‘न परं प्राणायामात्तपः’ इति । तस्मात् ततः प्राणायामात् रजस्तमःकार्याणां विशुद्धिर्मलानां, दीप्तिश्च ज्ञानस्येति ॥ ५२ ॥ किं च – धारणासु च योग्यता मनसः ॥ ५३ ॥ प्राणायामाभ्यासादेव। प्रच्छर्दनविधारणाभ्यां वा प्राणस्य इति वचनात् ॥ ५३ ॥ विवरणम् विवरणम्

किं च – भवत्यन्यदपि प्राणायामाभ्यासात् । धारणासु वक्ष्यमाणासु योग्यता मनसः प्राणायामादेव । ‘प्रच्छर्दनविधारणाभ्यां वा प्राणस्य’ इति वचनात् ताभ्यां हि मनसः स्थितिसम्पत्तिरुक्ता ॥ ५३ ॥ अथ कः प्रत्याहारः – स्वविषयासम्प्रयोगे चितस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४ ॥ स्वविषयसम्प्रयोगाभावे चित्तस्वरूपानुकार इवेति, चित्तनिरोधे चित्तवन्निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवदुपायान्तरमपेक्षन्ते। यथा मधुकरराजं मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनु निविशन्ते तथेन्द्रियाणि चित्तनिरोधे नीत्येष प्रत्याहारः ॥ ५४ ॥ विवरणम् विवरणम्

अथ कः प्रत्याहारः ? प्रत्याहारविशेषमभिधित्समानः प्रश्नेनोपक्रमते । स्वविषयादिन्द्रियाणां प्रत्याहरणमात्रं परेषां प्रत्याहारः । अत्र पुनर्विशेषवानुच्यते स्वविषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहार इति ॥

स्वैः स्वैश्शब्दादिभिर्विषयैः इन्द्रियाणां श्रोत्रादीनां संयोगाभावे विषयदोषदर्शनात् ध्यायिनां स्वविषयात् निवर्तितानां चित्तस्वरूपानुकारतेव । योगिनश्चित्तं यदाकारतां भजत तत् चित्तस्वरूपानुकारतेवेति ॥

एतदुक्तं भवति – चित्तनिरोधे चित्तवन्निरुद्धानि नोपायान्तरमपेक्षन्ते जयार्थम् । चित्तनिरोधादेव तानि निरुध्यन्ते । यथा मधुकरराजानम् श्रुत्यक्षरमेतत् । मधुकरराजामित्यर्थः । मक्षिका उत्पतन्तमनूत्पतन्ति, निविशमानमनु निविशन्ते । तथैवेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्येष प्रत्याहारः ॥ ५४ ॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ॥ शब्दादिष्वव्यसनमिन्द्रियजय इति केचित्। सक्तिर्व्यसनं व्यस्यत्येनं श्रेयस इति। अविरुद्धा प्रतिपत्तिर्न्याय्या। शब्दादिसम्प्रयोगः स्वेच्छयेत्यन्ये। रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित्। चित्तैकाग्र्यादप्रतिपत्तिरेवेति जैगीषव्यः। ततश्च परमा त्वियं वश्यता यच्चित्तनिरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत्प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिन इति ॥ ५५ ॥ विवरणम् विवरणम्

ततः प्रत्याहारस्थैर्यात् परमा वश्यतेन्द्रियाणां भवति । इतिशब्दः समाप्यर्थः । यासां च वश्यतानां मध्ये प्रत्याहारस्थैर्थात् परमा वश्यता जायते ता उच्यन्ते - शब्दादिष्विन्द्रियजयः अव्यसनं पुनः पुनरप्रवृत्तिरनासक्तिर्वेति केचिदाहुः । व्यसनमिति निर्ब्रवीति – सक्तिर्व्यसनम् । कथम् ? व्यस्यति क्षिपति एनं प्रतिपत्तारं श्रेयसः सकाशादिति व्यसनम् ॥

अविरुद्धा प्रतिपत्तिर्वा । विरुद्धानां वा शब्दादीनामप्रतिपत्तिर्वश्यतेति । तस्यैव व्याख्यानं – न्याय्यः शास्त्रानुज्ञातः शब्दादिषु संयोगः स्वेच्छया । तेष्वविरुद्धेषु यदीच्छति प्रवर्तते न वा इत्येवमन्ये मन्वते ॥

रागद्वेषाभावे सुखदुःखशून्यं हेयोपादेयत्ववर्जितं शब्दादिज्ञानं वश्यतेत्येके । मध्यमायां तु रागद्वेषसद्भावमात्रमपि न वार्यत इति विशेषः ॥

स्वाभिप्रेता आख्यायते – ऐकाग्र्यात् चित्तैकाग्रत्वानुविधानादिन्द्रियाणां अप्रतिपत्तिरेव शब्दादीनामिति जैगीषव्यो मन्यते ॥

परमा त्वियं सर्वासामुक्तानामियं परमा वश्यतेन्द्रियाणां, यत् यस्मिन् चित्तनिरुद्धानीन्द्रियाणि न इतरेन्द्रियजयवत् पूर्वोक्तास्विन्द्रियवश्यतासु उपायान्तरमपेक्षन्ते जयार्थं, अस्यां पुनर्न प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिनः ॥ ५५ ॥ विभूतिपादः उक्तानि पञ्च बहिरङ्गानि साधनानि। धारणावक्तव्या – देशबन्धश्चित्तस्य धारणा ॥ १ ॥ नाभिचक्रे हृदयपुण्डरीके मूर्ध्नि ज्योतिषि नासिकाग्रे जिह्वाग्र इत्येवमादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा ॥ १ ॥ विवरणम् विवरणम्

उक्तानि पञ्च बहिरङ्गानि साधनानि सम्प्रज्ञातस्य योगस्य । अधुना अन्तरङ्गं धारणाध्यानसमाधिसमाख्यं साधनत्रयं तस्यैवाभिधीयते । बहिरङ्गान्तरङ्गत्वभेदादेव हि बहिरङ्गसाधनव्याख्यानेनैव पादः परिसमापितः । संहत्यकारित्वाच्च साधनत्रयस्य पृथग्वचनम् । बहिरङ्गसाधनाभिधानानन्तरपर्युपस्थापितान्तरङ्गसाधनप्रतिपादनेन पादसम्बन्धो व्याख्यातः । अस्मिंश्च पादे विभूतयः प्राधान्येन प्रदर्श्यन्त इति च पृथक्(क्त्वादा)पादारम्भः । एतदेव हि समाख्यालाभे कारणमवादिष्म ॥

धारणा वक्तव्या । प्रत्याहारानन्तरं क्रमोपनीतसान्निधाना धारणा अभिधानीया । देशबन्धचित्तस्य धारणा । देशबन्धनं देशबन्धः । कस्य ? चित्तस्य ॥

स्वयमेव च सर्वं व्याचष्टे – नाभिचक्रे नाभिप्रदेशश्चक्रमिव । सर्वे (वायव)अवयवास्तत्र चक्रीभूता इति नाभिचक्रम् । हृदयं पुण्डरीकाकारम् । मूर्धज्योतिषि । मूर्धनाडीद्वारं प्रभास्वरत्वाज्योतिरित्याख्यायते । नासिकाग्रे जिह्वाग्रे इत्येवमादिषु देशेषु बाह्येषु च विषयेषु चन्द्रादित्यादिषु चित्तं बध्यते ॥

तस्य चित्तस्य इत्येवमदिष्वप्रचलितरूपेण या वृत्तिः साधारणेत्युच्यते । वृत्तिमात्रेणेति । तद्देशप्रत्ययमात्रेण विक्षेपशून्यतया वर्तत इति ॥ १ ॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ २ ॥ तस्मिन्देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृशः प्रवाहः प्रत्त्ययान्तरेणापरामृष्टो ध्यानम् ॥ २ ॥ विवरणम् विवरणम्

तत्र प्रत्ययैकतानता ध्यानम् । तस्मिन् देशे धारणावृत्तिविषये नाभिचक्रादौ । ध्येयालम्बनस्य ध्येयो देशादिः, तदालम्बनस्य । प्रत्ययस्य [एकतानता] सदृशप्रवाहः, तुल्यप्रत्ययानां प्रवाह एकाकारः प्रत्ययसन्तानः प्रत्ययान्तरेण विजातीयेन अपरामृष्टः अन्वकीर्णः । तत् ध्यानम् ॥

धारणा तु तस्मिन्नेव ध्येये तदवस्थस्यैव चित्तस्य तद्विषयविकल्पितैः प्रत्ययान्तरैः परामृष्टाऽपि । यथा सूर्ये धार्यमाणस्य तद्गतपरिमण्डलतीव्रतरदीधितित्वादिप्रत्ययेष्वपि धारणैव । वृत्तिमात्रेण तत्रैव वर्तमानत्वाच्चित्तस्य । ध्यानं पुनः न तु तथा । भिन्नजातीयप्रत्ययान्तरापरामृष्टैकप्रत्ययप्रवाह एव हि ध्यानम् ॥ २ ॥ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३ ॥ ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति ध्येयस्वभावावेशात्तदा समाधिरित्युच्यते ॥ ३ ॥ विवरणम् विवरणम्

तदेवाथैमात्रनिर्भासं स्वरूपशून्यमिव समाधिः । तदेव ध्यानं तुल्यप्रत्यय प्रवाहरूपं स्वामेकप्रत्ययसन्तानतामिव हित्वा ध्येयाकारनिर्भासं ध्येयाकारवदवभासते । प्रत्ययात्मकेन स्वेन ग्रहणात्मना स्वरूपेण शून्यमिव । यथा स्फटिकद्रव्यमुपधानावभासं स्वरूपशून्यमिव । यदा भवति ध्येयस्वभावावेशात् कारणात् चित्तस्य, तदा तदेव ध्यानं समाधिरित्युच्यते ॥

ननु च योगः समाधिरित्यङ्गी पूर्वमुक्तः । इहाङ्गो योगस्य समाधिरित्याख्यायते । कः पुनरत्राङ्गाङ्गिनोर्भेद इति ? उच्यते – योगः समाधिरिति चित्तस्थितिविशेषो विवक्षितः । इह तु प्रत्ययसन्तानस्यैव ध्येयस्वभावावेशात् ध्येयाकारत्वमङ्गमिति विशेषः ॥ ३ ॥ त्रयमेकत्र संयमः ॥ ४ ॥ तदेतद्धारणाध्यानसमाधित्रयमेकत्र संयम। एकविषयाणि त्रीणि साधनानि संयम इत्युच्यते। तदस्य त्रयस्य तान्त्रिकी परिभाषा संयम इति ॥ ४ ॥ विवरणम् विवरणम्

तदेतद्धारणाध्यानसमाधित्रयं यद्व्याख्यातं तत् एकत्र एकस्मिन् देशे परिनिष्पन्नं सत् संयम इत्युव्यते । तदाह –एकविषयाणि त्रीणि साधनानि संयम इत्युच्ते । तदस्य त्रयस्य इत्थङ्क्रमेणाभिनिष्पन्नस्य तान्त्रिकी तन्त्रप्रयोजना परिभाषा । जिज्ञासितार्थसाक्षादपादनाय यत्र यत्र संयमः श्रूयते जेतव्यजयाय वा, , तत्र तत्र त्रयमेतत् प्रवेदितव्यमित्येवमर्थमेतस्य त्रयेत्यास्मिन् शास्त्रे परिभाषेयं संयम इति ॥

वक्ष्यति च - ’परिणामत्रयसंयमादतीतानागतज्ञानम् ‘, ‘स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः’ इति च ॥ ४ ॥ तज्जयात्प्रज्ञालोकः ॥ ५ ॥ तस्य संयमस्य जयात्ससमाधिप्रज्ञाया भवत्यालोको यथा यथा संयमः स्थिरपदो भवति तथा तथा समाधिप्रज्ञा विशारदी भवति ॥ ५ ॥ विवरणम् विवरणम्

तज्जयात् प्रज्ञाऽऽलोकः । तस्य संयमस्य जयात् स्थिरत्वापादनात् अभीप्सितार्थाभिव्यञ्जनसमर्थः प्रदीपालोकदेशीयः समाधिप्रज्ञाया भवत्यालोकः ।

यथा यथा संयमः स्थिरपदो भवति, तथा तथा समाधिप्रज्ञा स्थिरपदी भवति । येन समाधिप्रज्ञाऽऽलेकेन व्यवहितविप्रकृष्टादिवस्तुनिर्भासनसमर्थेन योगिनः करतलकलितमिवाभिमतमर्थमवलोकयन्ति ॥ ५ ॥ तस्य भूमिषु विनियोगः ॥ ६ ॥ तस्य संयमस्य जितभूमेर्याऽनन्तरा भूमिस्तत्र विनियोगः। न ह्यजिताधरभूमिरनन्तरभूमिं विलङ्घ्यप्रान्तभूमिषु संयमं लभते। तदभावाच्च कुतस्तस्य प्रज्ञालोकः। ईश्वरप्रसादाज्जितोत्तरभूमिकस्य च नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः। कस्मात्, तदर्थस्यान्यत एवावगतत्वात्। भूमेरस्या इयमनन्तरा भूमिरित्यत्र योग एवोपाध्यायः। कथम्। एवं ह्युक्तम् – योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्तते। योऽप्रमत्तस्तु योगेन स योगे रमते चिरम् ॥ इति ॥ ६ ॥ विवरणम् विवरणम्

तस्य भूमिषु विनियोगः । तस्य संयमस्य भूमिषु बाह्याध्यात्मिकेषु ध्यानालम्बनभूतासु वक्ष्यमाणासु परिणामत्रयादिषु विनियोगः प्रयेगः कर्तव्यः । ।

तद्भूमिजयसाक्षात्प्रयोजनार्थिना तस्य संयमस्य, जितभूमेः जिताया भूमेः, यत्र भूमै योगिनः संयतायां संयमो लब्धः, तस्या जिताया भूमेः अनन्तरा या भूमिस्तत्र संयमस्य पूर्वभूमिजयानन्तरं विनियोगः करणीयः । ।

तद्यथा – पृथिव्यादीनां स्थूलस्वरूपसूक्षमान्वयार्थवत्त्वभूमिषु क्रमेण जेतव्यासु , स्थूलायां भूमौ संयमं कृत्वा, तजयानन्तरं स्वरूप एवानन्तरे संयमो विनियोजनीयः ’ । नानन्तरं स्वरूपं व्यतिलङ्घय सूक्ष्मादिभूमिषु संविदधीत ॥

कस्मादेवम् ? न ह्यजिताधरभूमिरनन्तरां भूमिं विलङ्घय प्रान्तभूमिषु उपरितनीषु भूमिषु संयमं लभते ॥

यदि चानन्तरां भूमिमजित्वा प्रान्तभूमिषु संयमं विनियुङ्क्षेत, तमेव संयमं न लभते । ततश्च तदलाभ एव दोषः । तदलाभाच्च संयमाभावाच्च कुतस्तत्र सेयमविषये प्रान्तभूमावित्यर्थः । प्रज्ञाऽऽलोकः । निमित्ताभावात् । न ह्यसति तैलवर्तिज्वलनाभिसन्निपाते प्रदीपालोकः ॥

जितोत्तरभूमिकस्य जितोत्तरात्मादिभूमिकस्य योगिनः नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः । कस्मात्? तदर्थस्य आत्मादेः उत्तरभूमेरपकृष्टपरचितज्ञानादिभूमिवैपरीत्येन अन्यथैवाधिगतत्वात् । परचित्तज्ञानादिभिः सङ्कीर्णं असमधिगतविवेकात्मकत्वात् । तत्र हि जितोत्तरभूमिसेयमस्य परकीयचितालम्बनत्वे सेकीर्णचित्ताकारता योगिचित्तस्यापि स्यादिति न युक्तः । तत्रात्मादेरथैस्यान्यथैव विविक्ततयाऽधिगतत्वात् ॥

अन्येषां व्याख्यानम् – अर्थस्य परचित्तज्ञानादेः । अन्यथैवाधिगतत्वात् आत्माद्युत्तरभूमिसमधिगमनेनैव अधरपरचित्तज्ञानादिभूमेरर्थस्य अधिगतत्वात् इति ॥

अस्मिन् पक्षे ‘अधरभूमिषु संयमोऽनर्थक’ इति वदितव्यमभविष्यत्, न *न युक्तः’ इति । ‘न युक्त’ इत्येतदसमीचीनमिव दृश्यते ॥

भूमेरस्या इयमनन्तरा भूमिः इयमनन्तरं जयनीयेति कथमवभोत्स्यत इत्याह – तत्र योग एवोपाध्याय । योगः पूर्वभूमौ संयमलाभः । तेनैवानन्तर्यमवगम्यते ।

कथम् ? एवं ह्युक्तम् – योगेन योगो ज्ञातव्यः । पूर्वसंयमलाभेन योगेन अनन्तरो योगविषयः प्रज्ञानीयः । स च योगः संयमः, योगात् एव पूर्वसंयमलाबादेव प्रवर्तते विविच्यते ॥

यथैव जनुषा अन्धकस्य सोपानपङ्क्ततिमारुरुक्षतः प्रथमसोपानप्रतिलब्धपदपदस्पर्शप्रत्ययेनानन्तरसोपानज्ञानमुपप्लोष्यते तथा योगो योगात् प्रवर्तते ॥

यत एवं तस्मात् स इत्थं जानन् अप्रमत्तस्तु योगी योगेन युक्तः सन् योगेषु योगैश्वर्यफलेषु रमते, चिरम् इति ॥ ६ ॥ त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ७ ॥ तदेतद्धारणाध्यानसमाधित्रयमन्तरङ्गं सम्प्रज्ञातस्य समाधेः पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्य इति ॥ ७ ॥ विवरणम् विवरणम्

त्रयमन्तरङ्गं पूर्वेभ्यः । धारणाध्यानसमाधित्रयम् अन्तरङ्गं पूर्वेभ्यः पञ्चभ्यः साधनेभ्यः यमादिभ्यः सम्प्रज्ञातस्य योगस्य । तत्रान्तरङ्गग्रहणं पूर्वसाधनासम्पत्तावप्यत्र त्रये आदरः करणीय इत्येवमर्थम् ॥

विनापि हि यमादिसाधनपञ्चतयसम्पादनेन जन्मान्तरविहितसंस्कारावेशवशादेव विदेहप्रकृतिलयानामिव धारणादित्रयसम्पत्या योग उपकल्प्यते । धारणादित्रयेण विना न योगः सम्भवति कस्यचित् । तब्द्यापारनैरन्तर्य संवादात्मकत्वाङ्द्धारणादित्रयस्य । योगस्य चित्तसम्पत्तिरूपत्वात् ॥

यदा तु ज्ञानवैराग्यसम्पतिः, तदा न किञ्चिदन्यद्धारणाद्यप्यपेक्ष्यते । तथा च मङ्किपिङ्गलाप्रभृतीनामनुश्रूयते वैराग्यादेव समस्तसिद्धिः । तथा चोक्तम् – ‘स्थानासनविधानानि ‘ इति पूर्वत्र श्लोकद्वयम् ॥ ७ ॥ तदपि बहिरङ्गं निर्बीजस्य ॥ ८ ॥ तदप्यन्तरङ्गं साधनत्रयं निर्बीजस्य योगस्य बहिरङ्गं भवति। कस्मात्, तदभावे भावादिति ॥ ८ ॥ विवरणम् विवरणम्

तदपि बहिरङ्गं निर्बीजस्य । तदपि एतत् अन्तरङ्गमपि सबीजस्य योगस्य, बहिरङ्गं भवति निर्बीजस्य योगस्य । कस्मात् ? तदभावे भावात् । तस्य सबीजान्तरङ्गसाधनत्रयस्याभावेऽपि पुरुषसत्त्वविशेषापेक्षया निर्बीजयोगस्य भावात् बहिरङ्गत्वम् ॥

केचिदतिसमीचीनदर्शना जन्मनैव संस्कारादपरक्ताः । तेषां परवैराग्यविरामप्रत्ययसंशीलनादिसमीक्षया निर्बीजः समाधिरुपजनिष्यत एव । न हि तेषां धारणादिसमीक्षणम् । तथा चोक्तम् – उक्तः समाहितचित्तस्य योगः । व्युत्थितचित्तोऽपि कथं योगयुक्तः स्यादित्यत इदमारभ्यते’ इति । तथा ‘भवप्रत्ययो विदेहप्रकृतिलयानाम् इति ॥ ८ ॥ अथ निरोधचित्तक्षणेषु चलं गुणवृत्तमिति कीदृशस्तदा चित्तपरिणामः – व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचितान्वयो निरोधपरिणामः ॥ ९ ॥ व्युत्थानसंस्काराश्चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्ययनिरोधे न निरुद्धा निरोधसंस्कारा अपि चित्तधर्मास्तयोरभिभवप्रादुर्भावौ व्युत्थानसंस्कारा हीयन्ते निरोधसंस्कारा आधीयन्ते। निरोधक्षणं चित्तमन्वेति तदेकस्य चित्तस्य प्रतिक्षणमिदं संस्कारान्यथात्वं निरोधपरिणामः। तदा संस्कारशेषं चित्तमिति निरोधसमाधौ व्याख्यातम् ॥ ९ ॥ विवरणम् विवरणम्

अथ निरोधचित्तक्षणेषु निरोधयुक्तं निरुध्यमानं चित्तं येषु’ क्षणेषु निरुध्यते ते निरोधचित्तक्षणाः तेषु निरोधकाले इत्यर्थः । क्षणेष्विति बहुवचनं अतीतानागतवर्तमानवृत्तित्वप्रदर्शनार्थम् ॥

निरोधस्य (त्रिक्षणं) क्षणे हि निरोधधर्ममन्वीयमानं चित्तं निरुध्यते । चलं गुणवृत्तं गौणं चित्तं गुणवृत्तं चलम् इति अवश्यम्भावी तस्य बाह्यवृत्तिभ्यो निरुध्यमानचित्तस्य परिणामः । न ह्यपरिणममानस्य चित्तस्य पुरुषवत् कौटस्थ्ये निरोध उपकल्पते । ततश्चाह – कीदृशस्तदा निरोधपरिणाम इति ॥

व्युथाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः । व्युथानं विविधमुथानं चलनं प्रत्ययाकारेण चित्तस्य । तदुपजनितः संस्कारश्चित्तस्य धर्मिणो धर्मः । न स प्रत्ययात्मकः ॥

तथा निरोधजन्मा संस्कारः अप्रल्ययात्मकः चित्तस्यैव धर्म । स च व्युत्थानसंस्कारोऽप्रत्ययात्मक इति स प्रत्ययनिरोधे न निरुध्यते । व्युत्थानप्रत्ययानिरोधे नाभिभूतः ॥

प्रत्ययनिरोधाच्च निरोधजः संस्कारः सञ्जायते । तयोः व्युत्थाननिरोधसंस्कारयोः धर्मिणि चित्ते वर्तमानयोः अभिभवप्रादुर्भावौ भवतः ॥

किं तावाविभावतिरोभावौ अनियमेन भवतः ? न । कथं तर्हि । व्युत्थानसंस्कारा हीयन्ते स्वकार्यक्षमत्वमुपाश्नुवते । निरोधसंस्कारा आधीयन्ते । तौ चाभिभवप्रादुर्भवौ निरोधक्षणं चित्तं धर्मित्वेन अन्वेति ? स तयोरभिभवप्रादुर्भावयोश्चित्तेनानुगमो निरोधपरिणामश्चितस्य ॥

तत् एतदभिहितं भवति – एकस्य चित्तस्य प्रतिक्षणमिदं संस्कारान्यथात्वं व्युथानसंस्काराभिभवेन निरोधसंस्कारप्रादुर्भावेन संस्कारान्यथात्वम् । व्युथानसंस्काराणामपि हीयमानतया सत्यपि सम्बन्धे प्रादुर्भवता निरोधेनैव बलवत्वात् निरोधपरिणाम इति समाख्यातम् ॥

(तदा) निरोध्यमानं बाह्येभ्यः प्रत्ययेभ्यः संस्कारशेषं चित्तमिति व्याख्यातम् विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः इति ॥

किमेतेन, आह – निरोधावसानत्वात् प्रत्ययाभावावसानतया परिणामस्य निरोधपरिणाम इति ॥

सम्प्रज्ञातावस्थायां सन्तोऽपि प्रत्यया न विवक्षिताः । किं तु प्रतिक्षणसंस्कारान्यथात्वमेव विवक्ष्यते । ‘यथा निरुद्धभूमिनि चेतसि विद्यमानोऽपि समाधिः न विवक्ष्यते । निरोधमात्रस्य विवक्षितत्वात् । तथा सबीजावस्थायामपि संस्कारान्यथात्वमात्त्रमेव विवक्षितम् । न प्रत्ययाः समाधिरेकाग्रता चेति ॥ ९ ॥ तस्य प्रशान्तवाहिता संस्कारात् ॥ १० ॥ निरोधसंस्काराभ्यासपाटवापेक्षा प्रशान्तवाहिता चित्तस्य भवति। तत्संस्कारमान्द्ये व्युत्थानधर्मिणा संस्कारेण निरोधधर्मसंस्कारोऽभिभूयत इति ॥ १० ॥ विवरणम् विवरणम्

तस्य चित्तस्य निरोधपरिणाममनुगच्छतः प्रशान्तवाहिता संस्कारात् । निरोधसंस्कारपाटवापेक्षा निरोधसंस्कारस्य पाटवं द्रढिमा तदपेक्षा प्रशान्तवाहिता प्रसन्नता चित्तस्य भवति ॥

सा प्रशान्तवाहिता कियन्तं कालमित्याह – तं संस्कारं निरोधसंस्कारं आरभ्य यावत् व्युत्थानधर्मिणा व्युत्थानं धर्मो व्युत्थानजनितत्वाद्यस्य तेन संस्कारेण निरोधधर्मससंस्कारो नाभिभूयते, तावन्तं कालमस्य प्रशान्तवाहिता । निरोधसंस्कारसमुदयादिति ॥ १० ॥ सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ११ ॥ सर्वार्थता चित्तधर्मः। एकाग्रताऽपि चित्तधर्मः। सर्वार्थतायाः क्षयस्तिरोभाव इत्यर्थः। एकाग्रताया उदय आविर्भाव इत्यर्थः। तयोर्धमित्वेनानुगतं चित्तं, तदिदं चित्तमपायोपजनयोः स्वात्मभूतयोर्धर्मयोरनुगतं समाधीयते स चित्तस्य समाधिपरिणामः ॥ ११ ॥ विवरणम् विवरणम्

सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः । सर्वार्थता भोगापवर्गार्थयोग्यताविचित्रता चित्तधर्मः । वक्ष्यति – ‘द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्’ इति । एकाग्रताऽपि चित्तस्य धर्मः शान्तोदितप्रत्यययोः साम्यं समाधीयमानस्य चित्तस्य सर्वर्थतायाः क्षयः भवति । तिरोभावः इत्यर्थः । न हि किञ्चिद्विद्यमानं विनङ्क्ष्यति । एकाग्रताया उदयः भवति । आविर्भाव इत्यर्थः । नाविद्यमानमुत्पद्यते ॥

तयोः क्षयोदययोः धर्मित्वेनानुगतं चित्तम् । पूर्वसूत्रादन्वयग्रहणमिहापि सन्निधीयते । सर्वार्थतायाः क्षयमेकाग्रतायाश्चोदयं नियमेनान्वीयमानं चितं समाधिप्राधान्येन परिणमते । योऽसौ चित्तेन सर्वार्थतैकाग्रताक्षयोदययोरनुगमः स समाधिपरिणामः । समाधेश्च प्राधान्यमेकाग्रताभूमौ व्याख्यातम् ‘यस्त्वेकाग्रे चेतसि स भूतमर्थं प्रद्योतयति’ इति ॥

तदेवाह – तदिदं चित्तम्, अपायोपजनौ स्वात्मभूतौ अव्यतिरिक्तौ तयोर्धर्मयोः सर्वार्थतैकाग्रतयोः अनु(भवा)गमात् समाधीयते । स चित्तस्य समाधिप्राधान्यात् समाधिपरिणामः ॥ ११ ॥ ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥ समाहितचित्तस्य पूर्वप्रत्ययः शान्त उत्तरस्तत्सदृश उदितः, समाधिचित्तमुभयोरनुगतं पुनस्तथैवाऽऽसमाधिभ्रेषादिति। स खल्वयं धर्मिणश्चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥ विवरणम् विवरणम्

तत्र पुनः समाधिकाले शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः । समाहितचित्तस्य निरुद्धबाह्यवृत्तेः पूर्वः प्रत्ययः शान्तः तिरोभूतः । उत्तरस्तत्सदृश उदितः प्रादुर्भूतः । समाधिचित्तं समाधानविशिष्टं समाध्यवस्थम् । समाधिचित्तमुभयोः शान्तोदितयोः प्रत्यययोः अनुगतम् ॥

पुनस्तथैव यथा प्रत्यय आद्यः शान्त उत्तरस्तत्सदृश उपजातः, स च शान्तः पुनरन्य उदितः, स शान्तः पुनश्चान्य उदितः, इत्येवं आ समाधिभ्रेषात् व्युत्थानसंस्कारेण यावत् समाधिः विभ्रंशते ॥

स खल्वयं धर्मिणः चित्तस्य प्रतिक्षणं सदृशशान्तोदितप्रत्यययोरनुगमः एकाग्रतापरिणामः ॥

तत्र यावत् बाह्यवृत्तिनिरोधादारभ्य चित्तस्य संस्कारपशेषता, तावत् निरोधपरिणामः ॥

तथा बाह्यप्रत्ययनिरोधात् प्रभृति आ प्राक् अशेषप्रत्ययनिरोधात्, अशेषप्रत्ययनिरोधोत्तरकालं च एकाग्रतोदयाभावात्, तावत् समाधिपरिणामः ॥

तथा समाधिपरिणामकाल एव शान्तोदितयोस्तुल्ययोः सम्भवादेकाग्रतापरिणामः । पूर्वपरिणा(मान)मनान्तरीयकत्वमुत्तरोत्तरपरिणामस्येति क्रमेण त्रयोऽपि परिणामा व्याख्याताः ॥

किमनेन परिणामान्वाख्यानेन प्रयोजनम् ? उच्यते – चलं गुणवृत्तं, गौणं च समस्तं परिणामधर्मकमनवस्थितमिति वैराग्यभावनार्थम् । तथा परिणामत्रयसंयमादतीतानागतज्ञानार्थं च एतदन्वाख्यानम् ॥ १२ ॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ १३ ॥ एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः। तत्र व्युत्थाननिरोधयोर्धर्मयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः। लक्षणपरिणामश्च। निरोधस्त्रिलक्षणस्त्रिभिरध्वभिर्युक्तः। स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः। यत्रास्य स्वरूपेणाभिव्यक्तिः। एषोऽस्य द्वितीयोऽध्वा। न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः। विवरणम् विवरणम्

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः । एतेन पूर्वोक्तेन चित्तपरिणामेन । किंविशिष्टेन ? धर्मलक्षणावस्थारूपेण धर्मरूपेण लक्षणरूपेण अवस्थारूपेण च । भूतेन्द्रियेषु भूतेषु पृथिवीप्रभृतिषु स्थूलेषु, इन्द्रियेषु च श्रोत्रादिषु, येषां तत्त्वान्तरपरिणामो नास्ति । धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः ॥

चित्तस्यानवस्थितत्वेन गम्यमानेन परिणामेन भूतेन्द्रियाणां परिणामस्य प्रकारत्रययोगिनः चित्तपरिणतिवत् असुविज्ञानत्वात् अतिदेशः क्रियते ॥

ननु च निरोधसमाध्येकाग्रतापरिणामाश्चित्तस्याभिहिताः । न तु धर्मलक्षणावस्थापरिणामाः । कुतस्तत्रातिदेश इति, अभिहितत्वमेषां दर्शयति – तत्र व्युत्थाननिरोधयोः धर्मयोः अभिभवप्रादुर्भावौ धर्मिणि चित्ते धर्मपरिणामः ॥

एतस्माद्धि धर्मभेदवचनात् धर्मभेदमवादिष्म । तयोश्च धर्मपरिणामययोः व्युत्थाननिरोधयोरभिभवप्रादुर्भववचनात् लक्ष्णावस्थापरिणामावपि च अवादिष्मैव ॥

कथम् ? वर्तमानलक्षणादतीतलक्षणमभिसम्पद्यमानो धर्मोऽभिभूयते । यश्च अनागतलक्षणात् वर्तमानलक्षणमभिसम्पद्यमानः स प्रादुरस्ति । तदभिभवप्रादुर्भाववचनाच्च प्रतिक्षणं दुर्बलरूपोऽवस्थापरिणाम उक्तो भवतीत्याह – लक्षणपरिणामो निरोधस्त्रिलक्षण इति ॥

चित्ते लक्षणपरिणामः त्रिलक्षणत्वेन त्रिभिरध्वभिः अतीतानागतवर्तमानैः युक्तः प्रतिपाद्यते परिणामिनो ह्येकैकस्य त्रयोऽप्यध्वान एतेऽवश्यम्भाविनः । यस्य त्वेते न सन्ति सोऽपरिणामी कूटस्थ इत्युच्यते ॥

स खलु निरोधः अनागतलक्षणमध्वानं हित्वा धर्मत्वं निरोधधर्मत्वं अनतिक्रान्तः असत्कार्यारम्भाभावात् । असत्कार्यारम्भे हि त्रिकालत्वमेकस्य वस्तुनो नोपपद्यत (नापि) कालत्रयपरिच्छेद्यस्य त्रिलक्षस्याभावात् । अत उच्यते – धर्मत्वमनतिक्रामन्नेव वर्तमानं लक्षणं प्रतिपन्नः यत्र यस्मिन् वर्तमाने लक्षणे अस्य स्वरूपेणाभिव्यक्तिः एषोऽस्य निरोधस्य अनागताध्वसमीक्षया द्वितीयोऽध्वा ॥

यदा तु व्युत्थानं वर्तमानं लक्षणमारोक्ष्यति, तदा निरोधोऽतीतलक्षणमध्वानं तृतीयं प्राप्स्यतीति स तृतीयोऽध्वा भविष्यत्येव ।

स्यादेतत् – वर्तमानलक्षणप्रतिपत्तौ निरोधस्य त्र्यध्वत्वं नास्तीति, अत आह – न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः । कुतः ? येन स एवानागतो वर्तमानोऽतीतश्चेति ॥ तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्नम्। एषोऽस्य तृतीयोऽध्वा। न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम्। एवं पुनर्व्युत्थानमुपसम्पद्यमानमनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम्। यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः। एषोऽस्य द्वितीयोऽध्वा। न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तमिति। एवं पुनर्निरोध एवं पुनर्व्युत्थानमिति। तथाऽवस्थापरिणामः। तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इति। एष धर्माणामवस्थापरिणामः। तत्र धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानामप्यवस्थाभिः परिणाम इति। एवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणमपि गुणवृत्तमवतिष्ठते। चलं च गुणवृत्तम्। गुणस्वाभाव्यं तु प्रवृत्तिकारणमुक्तं गुणानामिति। एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात्त्रिविधः परिणामो वेदितव्यः। विवरणम् विवरणम्

तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिः अतीतानागतवर्तमानैः युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनतिक्रान्तं यथा व्याख्यातं निरोधे निरोधिनि धर्मे वर्तमानमध्वानमभिसम्पद्यमाने अतीतलक्षणं अध्वानं प्रतिपन्नम् ॥

एषोऽस्य व्युत्थानस्य वर्तमानं प्रथममध्वानमभिसमीक्ष्य द्वितीयोऽध्वा । द्वितीये तु पर्याये तृतीय एवाध्वा द्वितीयो भविष्यति । न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम् ॥

पुनर्व्युत्थानं निरोधसंस्कोरण उपसम्पद्यमानम् अनागतलक्षणं अध्वानं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपेणाभिव्यक्तौ सत्यां व्यापारः स्वकार्यापादनसामर्थ्यम् । एषोऽस्य अनागताभिसमीक्षया द्वितीयोऽध्वा । न चातीतानागताम्यां लक्षणाभ्यां वियुक्तम् ॥

यथा चित्तं व्युत्थाननिरोधधर्माभ्यां न युज्यते । एवं पुनर्निरोधः एवं पुनः व्युत्थानमिति एष लक्षणपरिणामश्चित्तधर्मयोर्व्युत्थाननिरोधयोः ॥

तथा अवस्थापरिणामः परिदृश्यते । कथम् ? निरोधक्षणेषु निरोधे वर्तमाने निरोधसंस्कारा बलवन्तो भवन्ति । संस्कारबलवत्वेन निरोधबलवत्त्वमपि । दुर्बला व्युत्थानसंस्काराः, तत एव व्युत्थानदुर्बलत्वमपि । तथा व्युत्थानलक्षणे व्युत्थानसंस्कारबलीयस्त्वं निरोधसंस्कारदुर्बलत्वम्, इत्येवं प्रतिक्षणं दृढदुर्बलावत्थाभ्यां युज्यमानानां धर्माणां अवस्थापरिणामः ॥

तत्र केन रूपेण कस्य परिणाम इति दर्शयति – धर्मिणो धर्मैः परिणामः । यथा चित्तस्य धर्मिणो निरोधव्युत्थानादिधर्मैः । धर्माणां त्र्यध्वनां लक्षणैः परिणामः । यथा निरोधादिचित्तधर्माणां अनागतादिलक्षणैः । लक्षणानामप्यवस्थाभिः परिणामः । यथा वर्तमानादिलक्षणानां दृढदुर्बलत्वाद्यवस्थाभिः । इत्येवं धर्मलक्षणावस्थापरिणामैः अशून्यलक्षणम् अशून्यरूपं गुणवृत्तमवतिष्ठते ॥

चलं गुणवृतम् । एतदेव तु गुणस्वाभाव्यं प्रवृत्तिकारणं सकलव्यापारकारणं उक्तं गुणानां सत्त्वादीनाम् इति । एतेन चेतसि प्रसिद्धेन धर्मलक्षणावस्थापारीणामात्रतयेन भूतेन्द्रियेषु धर्मधर्मिभेदात् त्रिविधः परिणामो वेदितव्यः ॥ परमार्थतस्त्वेक एव परिणामः। धर्मिस्वरूपमात्रो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति। तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वं भवति नतु द्रव्यान्यथात्वम्। यथा सुवर्णभाजनस्य भित्त्वाऽन्यथाक्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वमिति। विवरणम् विवरणम्

परमार्थतस्त्वेक एव परिणामः । कथम् ? धर्मिस्वरूपमात्रो हि धर्मः । न हि धर्मिपरिहारेण धर्मो नाम पृथगस्ति । नापि धर्मपरित्यागेन लक्षणं नाम पृथक् भाव्यते । नापि लक्षणव्यतिरेकेण अवस्थानां पृथक्त्वं भवति । तेन धर्मिविक्रियैवैषा धर्मद्वारा धर्मभेदद्वारेण त्रिधा प्रपञ्च्यते ॥

कथं पुनर्धर्मिविक्रियैवैषा । न पुनरत्यन्तापूर्वोत्पत्तिविनाशाविति ? तत आह – तत्र धर्मस्य घटादेः धर्मिणि मृदाख्ये वर्तमानस्य अध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वमेव प्रत्ययान्यथात्वम्, अतीतो घटः, वर्तते, अनागतः, इति च धर्मिणि वर्तमानस्यैव । स एव धर्मस्याविर्भावतिरोभावान्यथात्वम् । न द्रव्यान्यथात्वं तदेव मृद्द्रव्यं धर्मि रूपान्तरं च ॥

उदाहरणं परिदर्शयति – यथा सुवर्णभाजनस्य भित्त्वा अन्यथा कुण्डलादिभावेन क्रियमाणस्य भावान्यथात्वं स्वस्तिककुण्डलादिसंस्थानान्यत्वम् । न सुवर्णद्रव्यान्यथात्वमिति ॥ अपर आह – धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात्। पूर्वापरावस्थाभेदमनुपतितः कौटस्थ्येनैव परिवर्तेत यद्यन्वयी स्यादिति। अयमदोषः। कस्मात्। एकान्ततानभ्युपगमात्। तदेतत्त्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात्। अपेतमप्यस्ति विनाशप्रतिषेधात्। संसर्गाच्चास्य सौक्ष्म्यं, सौक्ष्म्याच्चानुपलब्धिरिति। विवरणम् विवरणम्

अपर आह असत्कार्यसमारम्भाभिमानी – धर्माभ्यधिको धर्मव्यतिरिक्तो धर्मी, धर्मश्चाविद्यमानोऽन्यश्चान्यश्च समुदायिष्यते । न पुनरेको धर्मी धर्मेषु भूतभविष्यद्वर्तमानेषु धर्मीव्यतिरिक्तोऽन्वयीति ॥

यद्यन्वयी धर्मानभ्यधिको धर्माव्यतिरिक्तः पूर्वतत्त्वात् पूर्वपूर्वद्रव्यस्वरूपात् अनतिक्रामन् पूर्वापरावस्थाभेदम् अतीताद्यवस्थाभेदम् अनुपतितः अनुगतः स्यात् , ततश्च एष दोषः प्रसजति – स धर्मी तवाभिमतः कौटस्थ्येनापि परिवर्तेत अपरिणामित्वे वर्तेत ॥

अत्राह–अयमदोषः । कस्मात् ? एकान्तानभ्युपगमात् अत्यन्तकौटस्थ्यविनाशयोः धर्मिणोऽनभ्युपगमात् । यद्यत्यन्तं कूटस्थो धर्मी स्यात् आत्मवत्, ततश्च अस्माद्धर्मिणो धर्माणामभेदात् कौटस्थ्यं प्रसज्येतेति दोषः स्यात् । न तु धर्मिणां गुणानामत्यन्तकौटस्थ्यमभ्युपगम्यते । परिणामिनित्यत्वं हि गुणानां वदिष्यति ॥

अथ वा, धर्मधर्मिणोः एकान्तभेदाभेदानभ्युपगमात् । एकान्तेन हि धर्मिभ्योऽन्वयिभ्यो धर्माणां [अ]भेदे कौटस्थ्यं प्राप्नुयात् । अत्यन्तभेदे वा धर्माणां अत्यन्तविनाशः स्यात् । न त्वत्यन्तभेदाभेदावभ्युपायिष्येते । तस्मात् न कौटस्थ्यदोष इति ॥

कथं कौटस्थ्याभाव इत्याह–तदेतत् त्रैलोक्यं व्यक्तेरपैति, न कूटस्थम् । कस्मात् ? नित्यत्वप्रतिषेधात् । कार्यत्वादेव हि नित्यत्वं प्रतिषिद्धम् । अथात्यन्तविनष्टमिति चेदाह-अपेतमप्यस्ति, विनाशप्रतिषेधात् । कारणस्य नित्यत्वात् तदभेदाच्च कार्यस्य अत्यन्तविनाशः प्रतिषिद्ध एव ॥

ततश्च यदुच्यते कैश्चित्-विरुद्धहेत्वाभासोदाहरणमेतदिति, कथं ? यथा - ‘असौ विकारो व्यक्तेरपैति, नित्यत्वप्रतिषेधात् , अपेतमप्यस्ति, विनाशप्रतिषधोत्’ इत्यत्र नित्यत्वप्रतिषेधात् इत्ययं हेतुः ‘अपेतोऽपि विकारोऽस्ति’ इत्यनेन सिद्धान्तेन विरुध्यते ॥

कथम् ? व्यक्तिरात्मलाभः, अपायः प्रच्युतिः, यद्यात्मलाभात् प्रच्युतो विकारोऽस्ति, नित्यत्वप्रतिषेधो नोपपद्यत । यत्तु व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वमिति ॥

नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात् प्रच्युतिः । यदात्मलाभात् प्रच्यवते तदनित्यम् । यदस्ति न तदात्मलाभात् प्रच्यवते । अस्तित्वं च आत्मलाभात् प्रच्युतिश्चेति विरुद्धावेतौ धर्मौ सह न सम्भवतः । सोऽयं हेतुः यं सिद्धान्तमाश्रित्य प्रवर्तते तमेव व्याहन्तीति विरुद्धो हेतुरिति ॥

नायं दोषः । वस्तूनां व्यक्ताव्यक्तधर्मकत्वाभ्युपगमात् । यथा हि घटादिर्विद्यमानोऽपि सन् अगारे नोपलभ्यते । न च तावता असौ नास्तीति शक्यं प्रतिज्ञातुम् । आलोकोपायेन हि व्यज्यते । तथा इदं त्रैलोक्यं कारणे संसृष्टं विद्यमानमेव अनभिव्यक्तात्मकगुणस्वभावतया, पुरुषार्थनिमित्तेनाविष्क्रियते ॥

तथैव च गतिसंस्कारक्षये स्थितिसंस्काराभिव्यक्तौ कारणं प्रति संसृज्यमानं व्यक्तेरपैति । यथा दीपालोकतिरोधाने विद्यमानोऽपि घटादिः सन्तमसावष्टम्भात् व्यत्तेरपसरति, तथा अत्रापि महदादयो यमः त्र्यध्वानः संसर्गविसर्गधर्माणः, न तु सत्त्वादयो धार्मिणः ॥

ततस्त्रैलोक्यं महदादिस्तम्बपर्यवसानं सत्त्वादीनां धर्मभूतम[न]भिव्यक्तिधर्मकं सत् अत्यन्तनिरुद्धसूक्ष्मधर्मसमुदयात् व्यक्तिस्थूलधर्मरूपेण न गृह्यत इत्युच्यते – तदेतत् त्रैलोक्यं व्यक्तेरपैति इति । न पुनः धर्भिस्वरूपेणापायः । तथा च धर्मिरूपेण नित्यत्वादुच्यते – तदपेतमप्यस्ति इति ॥

तदेवं व्यक्तिरूपश्च शक्तिरूपश्चैको धर्मी, व्यक्तिरूपेण च तस्यानित्यत्वं, शक्तिरूपेण च नित्यत्वमिति कथमेष विरोधः स्यात् । न हि देवदत्तश्चलनादिव्यापारेण सर्वदा गृह्यमाणश्चलनादिविरामे विरंस्यति । चलनमेव हि तिरोधीयते । तस्मादव्यतावस्थायामप्यस्ति धर्मी, व्यक्तावस्थायामुपलभ्यमानत्वात्, अन्धतमसावस्थितघटादिवत् ॥

व्यक्तिरपि स्वकीयधर्मान्तरसमीक्षया धर्मिणी । सा च धर्मिरूपेण नित्या, धर्मरूपेणानित्या अभ्युपेयते । एवं विकारेषु धर्मधर्मिभेदोऽनवस्थित इत्यनवस्थाऽपि इष्यत एव ॥

तत्र व्यक्तेरपैति इत्यनेन न विरुध्यते, नित्यत्वप्रतिषेधात् इत्ययं हेतुः । नापि अपेतमप्यस्ति इत्यनेन विरोधः । उभयोर्भिन्नविषयत्वात् । नापि विनाशप्रतिषेधात् इत्ययं अपेतमप्यस्ति इत्यनेन विरुध्यते । यथा बाह्यादपेतोऽप्यस्ति देवदत्त इति ॥

अथ मन्वीथाः – अस्ति इति नित्यत्वमुच्यते, तेन नित्यत्वप्रतिषेधात् इत्ययं नित्यत्वेन विरोधमालिङ्गतीति । न – अनभ्युपगमात् । न हि व्यक्तेर्नित्यत्वमभ्युपगच्छेम, तस्या एव नित्यत्वं प्रतिषेधेम । शक्तिव्यक्तिधर्मकत्वाभ्युपगमादिति हि प्रतिपादितम् ॥

तदेतदनिर्ज्ञाय पराभिप्रायं विरोधोदाहरणत्वापादानम् अन्धदर्पणीयवृत्तान्तमुद्भावयति । यथा किल कश्चिदन्धः स्वां अदर्शशक्तिं अनवधार्य स्वार्थमादर्शमुपार्जयति तद्वदेतदाभाति ॥

अपि च यद्यप्येकत्रैव व्यक्तौ शक्तौ वा नित्यत्वमनित्यत्वं च अध्यारोप्य त्वं पक्षसिषाधयिषया ब्रवीथाः, एवमपि विरुद्धोदाहरणत्वं न सम्भवति, विपरीता(त)साधनात् । कथम् ? अपेतोऽप्यस्ति इति नित्यत्वप्रतिषेधात् इत्युच्यते । नित्यत्वप्रतिषेधात् इति अनित्यत्वादित्युक्तं भवति । अपेतस्याप्यस्तित्वं नित्यत्वमुच्यते । नित्यत्वस्य विपरीतमनित्यत्वम् । न च पक्षस्यानित्यत्वस्य अनित्यत्वं हेतुर्भवति, यो विपरीतं साधयन् नित्यत्वं विरुन्धीत । न ह्यनिष्टमसाधयन् विरुद्धतामियात् ॥

अथापि नित्यत्वप्रतिषेधो नाम आत्मलाभात् प्रच्युतिरिति विक(ल्पस्य)ल्प्य वावद्येथाः – एवमपि शब्दभेदमात्र(त्रात्) नार्थभेदः । आत्मलाभात् प्रच्युतिः, अनित्यत्वं, इत्येकोऽर्थः ॥

अथापि नित्यत्वोपपत्त्यभावादित्यवलम्बेथाः – एवमपि नित्यत्वप्रतिषेधात् इत्ययं शब्दः (एकस्यां शुक्तिकायां) नित्यत्वोपपत्त्यभावादित्यस्यार्थस्य [अ]वाचकः ॥

अथापि वाचक इत्यारोप्य प्रतिभाषेत – एवमपि शक्तिव्यक्तिधर्मधर्मिभे(दरूपेण)दे न नित्यत्वमनित्यत्वं(त्यरूपं) चेत्युक्तमेव समाधानम् ॥

एतेन व्यक्तेः अपेतोऽप्यस्ति, विनाशप्रतिषेधात् इति विरोधोद्भावनं प्रत्याख्यातम् ॥

एवमवस्थिते व्यक्तेरपेतस्य प्रत्यक्षेणानुपलभ्यमानस्य कथमस्तित्वम् ? यावता, नास्ति, अनुपलभ्यमानत्वात्, नभःकुसुमवत् इति ॥

अत्रोच्यते – अनुपलब्धिरसिद्धो हेतुः । अनुमानागमाभ्यामुपलब्धेः । यदेतत् व्यक्तं एतत् प्रागुत्पत्तेरप्यस्ति, यत उत्पद्यते । असच्चेन्नोत्पद्येत, शशविषाणवदेव ॥

किं च – असतः सत्त्वे सतश्चासत्त्वे सर्वत्र न आश्वस्युः । किं च – अनुपलब्धेश्चेदसत्त्वं मुक्तात्मकारणादीनां च प्रागुपलम्भादूर्ध्वं च अस्तित्वं केन लभ्यते ? तथा-

“नासतो विद्यते भावो नाभावो विद्यते सतः । ”

इति अगमः । प्रत्यक्षानुपलब्धिश्च नासत्त्वस्य कारणम् । अथ व्यक्तेरेव विकारो विद्यमानश्चेत्, कुतो नोपलभ्यत इति ? आह – साक्षात् कारणे संसर्गादस्य सौक्ष्म्यम्, अतोऽनुपलब्धिः । न असत्वात् ॥ लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतवर्तमानाभ्यां लक्षणाभ्यामवियुक्तः। तथाऽनागतोऽनागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः। तथा वर्तमानो वर्तमानलक्षणयुक्तोऽतीतानागताभ्यां लक्षणाभ्यामवियुक्त इति। यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति। विवरणम् विवरणम्

इदानीं भूतेन्द्रियाणां लक्षणपरिणाम इदमुच्यते – लक्षणपरिणामो धर्मो यथा मृदो घटादिः अध्वसु अतीतादिषु वर्तमानोऽतीतो धर्मः । किमुक्तं भवति ? अतीतलक्षणयुक्तः, न पुनरसत्त्वमापन्नः । इतराभ्यां च अनागतवर्तमानाभ्यामवियुक्तः । कारणस्य मृदो वर्तमानत्वात् तत्र संसृष्टस्य घटस्य [अ]विद्यमानत्वेऽपि(नस्यापि) युक्तो वर्तमानेन लक्षणेन घटः । तथा भविष्यन्नपि घटो मृद एवानागतः सन् भविष्यतीत्यनागतलक्षणेनाप्यवियुक्तः तथा वर्तमानः, वर्तमानलक्षणयुक्त:, अतीतानागताभ्यां लक्षणाभ्यामवियुक्तः ॥

तथा अनागतः अनागतलक्षणयुक्तः, वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः अतीतानागतलक्षणयोः मृदात्मकत्वात् घटस्य व्यवहितेनाप्यतीतलक्षणेनावियोगः ॥

कथमेकलक्षणयुक्तो धर्मो लक्षणाभ्यामपराभ्यामवियुक्त इत्यवियोगस्य दृष्टान्तमाह – यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवति । शेषासु तु भूतभविष्यल्लक्षणयुक्तो रागः । सतश्चाविननाशादसतश्चानुत्पत्तेरिति हि प्रतिपादितम् ॥ अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगादध्वसङ्करः प्राप्नोतीति परैर्दोषश्चोद्यत इति। तस्य परिहारः – धर्माणां धर्मत्वमप्रसाध्यम्। सति च धर्मत्वे लक्षणभेदोऽपि वाच्यो न वर्तमानसमय एवास्य धर्मत्वम्। एवं, हि न चित्तं रागधर्मकं स्यात्क्रोधकाले रागस्यासमुदाचारादिति। विवरणम् विवरणम्

न हि क्रोधकाले रागः स्वकाल इव समुदाचरति । क्रोधकाले हि रागः अतीतोऽनागतो वा । तथा क्रोधोऽपि रागकाले । यदि हि वर्तमानसमय एवैकं लक्षणं अभविष्यत्, क्रोधकालेऽपि रागः समुदाचरिष्यत् । नापि वा । समुदाचरिष्यत् । नापि क्रोधकाले नास्ति ॥ किञ्च त्रयाणां लक्षणानां युगपदेकस्यां व्यक्तौ नास्ति सम्भवः। क्रमेण तु स्वव्यञ्जकाञ्जनस्य भावो भवेदिति। उक्तं च रूपातिशया वृत्त्यतिशयाश्च विरुध्यन्ते, सामान्यानि त्वतिशयैः सह प्रवर्तन्ते। तस्मादसङ्करः। यथा रागस्यैव क्वचित्समुदाचार इति न तदानीमन्यत्राभावः किन्तु केवलं सामान्येन समन्वागत इत्यस्ति तदा तत्र तस्य भावः। तथा लक्षणस्येति। विवरणम् विवरणम्

किं च – त्रयाणां लक्षणानां युगपदेकस्यां लक्षणस्य वृत्तौ विरोधात् नास्ति सम्भवः । क्रमेण लक्षणानां क्रमेण स्वव्यञ्जकाञ्जनस्य घटादिस्वव्यञ्जकाञ्जनस्य अन्यतमस्य लक्षणस्य भवेत् सम्भवः ॥

उक्तं च – रूपातिशयाः वृत्त्यतिशयाश्च विरुध्यन्ते । वर्तमानरूपवृत्त्यतिशयैर्युक्ते घटे च पिण्डादिव्यक्तिरूपातिशया विरोधात् न सम्भवन्ति । अत एव अतीतानागतरूपा धर्मिसामान्यानुगतत्वेनाविरोधात् अतिशयैः सह वर्तन्ते ॥

तस्मात् अध्वनाम् असङ्करः । यथा रागस्यैव क्वचित् समुदाचार इति न तदानीमन्यत्र स्त्रीषु अभावो रागस्य । किन्तु केवलं सामान्येन चित्तरूपेण समन्वागतः अतीतोऽनागतोऽपि सन् इत्यस्ति तदा तस्य रागस्य भावः । तथा लक्षणस्येति ॥ न धर्मी त्र्यध्वा धर्मास्तु त्र्यध्वानस्ते लक्षिता अलक्षितास्तत्र लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः। यथैका रेखा शतस्थाने शतं दशस्थाने दशैका चैकस्थाने। यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति। विवरणम् विवरणम्

ननु च पिण्डकपालयोरतीतानागतत्वात् घटावस्थायामभावाच्च ताभ्यां मृदाख्यस्य धर्मिणोऽपि अतीतानागतत्वमिति धर्मिणि पिण्डकपालयोरभाव इति कृत्वा धर्माणां पिण्डकपालादीनामध्वत्रयानुपपत्तिरिति परिशङ्कमानः कथयति – न धर्मी त्र्यध्वा । मृदाख्यो हि धर्मी पिण्डकपालातीतानागतत्वेन नातीतोऽनागतो वा । सर्वधर्मेषु मृदभिज्ञानानु(प्र)वृत्तेः । किं तर्हि ? धर्माः पिण्डादयः त्र्यध्वानः घटकाले पिण्डकपालयोरदर्शनात् । तस्मादध्वत्रयायोगो न धर्माणां परिशङ्कनीयः ॥

ते धर्मा लक्षिताः पिण्डादयः त्र्यध्वत्वेनाभिलक्षिताः तां तामवस्थां दृढदुर्बलत्वादिकां प्राप्नुवन्तोऽन्यत्वेन नवो घटः पुराणश्चेत्यनेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतः । न द्रव्यान्तरतः मृदतिरितात् ॥

यथा एका रेखा शतस्थाने शून्यद्वयेन तृतीयस्थाने शतं भवति । सैव च दशस्थाने एकेन शून्येन द्वितीयस्थाने दश । सैव प्रथमस्थाने एका ॥

यथा वा एकत्वेऽपि स्त्री माता चोच्यते दुहिता च, सैव अन्यापेक्षया स्वसा च । तदेवम् अवस्थान्तरादेव शब्दप्रत्ययादिभेदाः । न धर्मधर्मिभेदेन । तस्मात् यदुच्यते परैः शब्दप्रत्ययलक्षणधर्मकालादिभेदो हेतुः कार्यकारणभेदे इति, सोऽनेनानैकान्तिकीकृतः ॥ अवस्थापरणामे कौटस्थ्यप्रसङ्गदोषः कैश्चिदुक्तम्। कथम्। अध्वनो व्यापारेण व्यवहितत्वात्। यदा धर्मः स्वव्यापारं न करोति तदाऽनागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तस्तदाऽतीत इत्येवं धर्मधर्मिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते। विवरणम् विवरणम्

अवस्थापरिणामे तृतीयेऽस्मिन् कौटस्थ्यप्रसङ्गदोषः [कैश्चित्] उक्तः । कथं कौटस्थ्यप्रसङ्गः ? अध्वानः वर्तमानादयः स्वव्यापारेण व्यवहि(स्थि)ताः । कथम् ? यदा धर्मो घटः पिण्डावस्थायां स्वव्यापारं न करोति तदा अनागतः । यदा करोति तदा वर्तमानः अयम् । यदा कृत्वा निवृत्तः तदा अतीतः । तत्र स एव धर्मः कृतः क्रियमाणः करिष्यमाणः निजव्यापारोपारूढः धर्मिस्वात्मभूत एवावस्थापितः । न व्यतिरिक्तरूपः । तेन धर्मिणां गुणानां नित्यत्वात् नित्यत्वाव्यतिरेकात् धर्मलक्षणावस्थनां कौटस्थ्यं प्राप्नोतीति दोष उच्यते ॥ नासौ दोषः। कस्मात्। गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात्। यथा संस्थानमादिमद्धर्ममात्रं शब्दादीनां गुणानां विनाश्यविनाशिनामेवं लिङ्गमादिमद्धर्ममात्रं सत्त्वादीनां गुणानां विनाश्यविनाशिनां तस्मिन्विकारसञ्ज्ञेति। विवरणम् विवरणम्

नासौ दोषः । कस्मात् ? गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात् उद्भवाभिभवत्वविचित्रतया पुरुषवदेकान्तकूटस्थता नेष्यते गुणानाम् । परिणामाभ्युपगमात् । न चानवरतपरिणतीनामपि परस्परविमर्दातिरेकेण द्रव्यान्तरभावापत्तिरिति न कौटस्थ्यम् ॥

कथं विमर्दवैचित्र्यमित्याह-यथा संस्थानं शरीरादिकं [आदि]मत् कारणवत् धर्ममात्रं कारणस्यात्मभूतमव्यतिरिक्तं विनाशि तिरोभावधर्मकं धर्मान्तरसमुदये । केषां संस्थानमित्या(मा)ह-शब्दादीनामविनाशिनाम् । एवं लिङ्गं महदाख्यं आदिमत् कारणवत् धर्ममात्रं विनाशे गुणानामविनाशिनाम् आत्मभूतम् । तस्मिन् महदादिधर्ममात्रे विकारसञ्ज्ञा न गुणानां विमर्दविचित्रतया विनाशित्वं गुणस्वरूपेण नित्यत्वं इति ॥ तत्रेदमुदाहरणं मृद्धर्मी पिण्डाकाराद्धर्माद्धर्मान्तरमुपसम्पद्यमानो धर्मतः परिणमते घटाकार इति। घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते। घटो नवपुराणतां प्रतिक्षणमनुभवन्नवस्थापरिणामं प्रतिपद्यत इति। धर्भिणोऽपि धर्मान्तरमवस्था धर्मस्यापि लक्षणान्तरमवस्थेत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति। एवं पदार्थान्तरेष्वपि योज्यमिति। त एते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक एव परिणामः सर्वानमून्विशेषानभिप्लवते। अथ कोऽयं परिणामः। अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परणाम इति ॥ १३ ॥ विवरणम् विवरणम्

तत्रोदाहरणम्-मृत् धर्मी पिण्डाकारा पिण्डाकारात् आकारान्तरं घटं उपसम्पद्यमानो धर्मतः परिणमते ॥

[घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते ॥ ]

तथा घटो नवपुराणतां प्रतिक्षणमनुभवन् अवस्थापरिणामं प्रतिपद्यत इति । धर्मिणोऽपि मृदादेः धर्मान्तरं पिण्डादिकं अवस्था । धर्मी पिण्डकपालादिरूपावस्थामासीदिति ॥

धर्मस्यापि घटादेः लक्षणान्तरं अतीतादिकं अवस्था । स एव हि घटो धर्मोऽतीतानागतवर्तमानावस्थामुपारोहति ॥

तत एक एव परिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वपि मृदः अन्येषअवपि शरीरेन्द्रियादिषु योज्यम् । त एते धर्मलक्षणावस्थापरिणामा धर्भिस्वरूपमनतिक्रान्ता इत्येक एव धर्मिणः परिणामः सर्वान् धर्मलक्षणावस्थापरिणामान् विशेषानभिप्लवते । कुतः ? येन अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति धर्मी परिणाम एवेति शक्यते प्रतिपत्तुम् ॥ १३ ॥ तत्र – शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥ योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः। स च फलप्रसवभेदानुमित एकस्यान्योऽन्यश्च परिदृष्टः। तत्र वर्तमानः स्वव्यापारमनुभवन्धर्मी धर्मान्तरेभ्यः शान्तेभ्यश्चाव्यपदेश्येभ्यश्च भिद्यते। यदा तु सामान्येन समन्वागतो भवति तदा धर्मिस्वरूपमात्रत्वात्कोऽसौ केन भिद्येत। तत्र ये खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्या श्चेति, तत्र शान्ता ये कृत्वा व्यापारानुपरताः सव्यापारा उदितास्ते चानागतस्य लक्षणस्य समनन्तरा वर्तमानस्यानन्तरा अतीताः। किमर्थमतीतस्यानन्तरा न भवन्ति वर्तमानाः, पूर्वपश्चिमताया अभावात्। यथाऽनागतवर्तमानयोः पूर्वपश्चिमता नैवमतीतस्य। तस्मान्नातीतस्यास्ति समनन्तरः। तदनागत एव समनन्तरो भवति वर्तमानस्येति। विवरणम् विवरणम्

कः पुनरसौ धर्मी? यस्मिन् अवस्थिते धर्मान्तरविरामे धर्मान्तरोदयः परिणाम इति । तत्र शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी । शान्तोदितान् अव्यपदश्यांश्च धर्माननुपतितुं शीलं यस्य सोऽन्वयी भिन्नेष्वभिन्नात्मा धर्मीति व्यपदिश्यते । धर्मः नाम योग्यतावच्छिन्ना शक्नोति रशनाकुण्डलादिभावमापत्तुमिति या सुवर्णस्य धर्मिणः कुण्डलत्वादिका शक्तिः स एव धर्मः ॥

स च अव्यक्तोऽपि सन् धर्मिणि फलप्रसवभेदानुमितसद्भावः । यथा देशान्तरे कालान्तरे च ताटङ्कादिक फलं कनकपिण्डः प्रसूयते । तत्फलप्रसवभेददर्शनेनान्यानन्यानपि प्रकारानयं प्रसवितु विभवतीति तस्मिन् धर्मिणि फलप्रसवभेदानुमितसद्भावः । एकस्य धर्मिणः अन्यश्चान्यश्च धर्म इत्यनेनैकस्य धर्मिणो धर्मसङ्ख्यत्वमाह ॥

तत्र यो दृष्टः स वर्तमानः स्वं व्यापारमुदकाहरणादिकम् अनुभवन् धर्मान्तेरभ्यः शान्तेभ्यश्चाव्यपदेश्येभ्यश्च भिद्यते ॥

यदा तु सामान्येन धर्मिरूपेण समन्वागतो भवति, अथ तदा धर्मिस्वरूपमात्रत्वात् धर्मिस्वरूपात्मभूतत्वात् कोऽसौ विशेषतः केन वा भिद्येत । व्यापाराधिरूढरूपाणामेव भेदो, न कारणसमनुगमनिरीक्षितात्मनामित्यर्थः ॥

के पुनः शान्ता उदिता अव्यपदेश्या वा ? ते खलु धर्मिणो धर्माः शान्ताः ये कृत्वा व्यापारमुपरताः । सव्यापारा उदिताः । ते चानागतलक्षणस्य समनन्तराः । तथा वर्तमानस्यानन्तरा अतीताः । किमर्थमतीतस्यानन्तरा न भवन्ति । न सन्तीत्यर्थ: । पूर्वपश्चिभाभावात् । यो यस्य पश्चाद्भवति स तस्य पश्चिमोऽनन्तरः । इतरश्च तदपेक्षया पूर्वः । तदिह पश्चिमाभावात् एष स्वयमपि पूर्वो न भवतीति पूर्वपश्चिमाभावादतीतस्यानन्तरा न सन्ति । यथा अनागतवर्तमानयोः पूर्वपश्चिमता नैवमतीतस्य । तस्मान्न[नाती]तस्यास्ति समनन्तरः ॥

यस्त्वयं पाठः तदनागत एव समनन्तरीभवति वर्तमानस्य इति, न तस्य प्रकृतेन सम्बन्धः । तस्मात्तदनागत एव समनन्तरो भवत्यतीतस्य इत्ययमेव पाठः । अर्थोपपत्तेः । कथम्? यदा व्युत्थानसंस्कारो निरोधसंस्कारेण आद्योऽभिभूयते, तदा वर्तमानमध्वानं हित्वा व्युत्थानसंस्कारोऽतीतमध्वानमुपसम्पद्य पुनरनागतः सन्वर्तमानीभवतीत्यसमनन्तरोऽप्यनागत एव समनन्तरीभवत्यतीतस्येत्युच्यते । अतीतानागतयोर्लक्षणयोर्धर्माणां धर्मिस्वरूपमात्राविशेषात् ॥ अथाव्यपदेश्याः के। सर्वं सर्वात्मकमिति। यत्रोक्तम् – जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम्। तथा स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्वित्येवं जात्यनुच्छेदेन सर्वं सर्वात्मकमिति। विवरणम् विवरणम्

अथ अव्यपदेश्या: के? तदव्यपदेश्याभिप्रदर्शनार्थमाह – सर्वं सर्वात्मकम् इति । कथम्? तत्रोक्तम्–जलभूम्योः पारिणामिकंरसादिवैश्वरूप्यं स्थावरेषु दृष्टम् । यथा रस एक एव इक्षुशृङ्गिबेरकादिषु मधुरकटुकत्वादिवैश्वरूप्यं प्रतिपद्यते । तथा, रूपस्य शुक्लकृष्णत्वादिविचित्ररूपत्वम् । एवं गन्धादिष्वपि । तथा स्थावराणां जङ्गमेषु रसादिवैश्वरूप्यम् । स्थावराणामुपयुक्तानां जङ्गमेषु रसलोहितादिविश्वभेदः । तथा जङ्गमानां स्थावरेषु उपयुक्तानाम् वृक्षायुर्वेदप्रसिद्धं रसादिवैश्वरूप्यम् ॥

एवं स्थावराणास्थावेरेषु, जङ्गमानां च जङ्गमेषु, इत्येवं जात्यनुच्छेदन सत्त्वाद्यविनाशेन सर्वं सर्वात्मकम् । अङ्गुलेशिखरे लोकत्रयमप्यस्ति। तथा च ‘अङ्गुष्ठादसृजत् ब्रह्मा रोमकूपेभ्यः’ इत्यादिश्रुतिस्मृतिशतप्रस्थानम् ॥ देशकालाकारनिमित्तापबन्धान्न खलु समानकालमात्मनामभिव्यक्तिरिति। य एतेष्वभिव्यक्तानभिव्यक्तेषु धर्मेष्वनुपाती सामान्यविशेषात्मा सोऽन्वयी धर्मी। यस्य तु धर्ममात्रमेवेदं निरन्वयं तस्य भोगाभावः। कस्मात्, अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत्कथं भोक्तृत्वेनाधिक्रियेत। तत्स्मृत्यभावश्च नान्यदृष्टस्य स्मरणमन्यस्यास्तीति। वस्तुप्रत्यभिज्ञानाच्च स्थितोऽन्वयी धर्मी यो धर्मान्यथात्वमभ्युपगतः प्रत्यभिज्ञायते। तस्मान्नेदं धर्ममात्रं निरन्वयमिति ॥ १४ ॥ विवरणम् विवरणम्

यदि सर्वं सर्वात्मकं, तदा सर्वं सर्वत्रोपलभ्येत, सम्मतविप्रयोगजन्मा च शोको मा प्र(ति)वर्तिष्टेत्यादेरुत्तरं पठति – देशकालाकारनिमित्तापबन्धात् देशादीनामपबन्धः अववन्धः तस्मात्, न समानकालम् आत्मनां सर्ववस्तूनाम् अभिव्यक्तिः । कस्यचित् क्वचिदेव देशेकाले च केनचिदवाकरेण तनुभृतां च धर्मादिनिमित्ताभिसमीक्षयाकञ्चिदश्वाभिव्याक्तिः, यथा राहुप्रभृतीनाम् । एतेनैव सम्मतविप्रयोगनिमित्तशोकाद्युपपतिः । अत एकैकस्मिन् अतिलङ्कितसङ्ख्यागोचरत्वाद्धर्मानशक्या व्यपदेष्टुम् ॥

य एतेषु शान्तोदिताव्यपदेश्येषु अभिव्यक्तानभिव्यक्तेषु धर्मेषु अनुपाती सामान्यविशेषात्मा सत्त्वादिशब्दादिरूपेण सोऽन्वयी धर्मी । यस्य तु वादिनः धर्ममात्रमेवेदं निरन्वयं बाह्यमाध्यामकञ्च, यस्य च ज्ञानमात्रमेव, तस्य धर्माणां क्षणप्रणाशित्वादतीतानागतवर्तमानपथारोहिणां समानकालानां च भोक्तृभोग्यत्वादिसम्बन्धानुपपत्तेः भोगाभावः ॥

सम्बन्धाभावं दर्शयति – कस्मात्? अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत् विज्ञानमकर्तृ भविष्यत् कथं भोक्तृत्वेनाधिक्रियेत । कर्तुश्च फलाभिप्रवृत्तेः फलेन सम्बन्धो युज्यते । अन्यः कर्ता फलेन चान्यः सम्बध्यत इति विरुध्यते ॥

स्मृत्यभावश्च । कृतकरणीयादिविषयस्मृत्यभावश्च । अन्यदृष्टस्य स्मरणमन्यस्यनास्तीति । न हि चैत्रदृष्टस्य वसुमित्रः स्मरति । [वस्तु] प्रत्यभिज्ञानाच्च, यस्मात्तदेवेदमितिवस्तुप्रत्यभिजानीमः, तस्मात् स्थितोऽन्वयी धर्मी धर्मान्यथात्वं धर्मैरन्यथात्वम् अभ्युपगतः प्रतिपन्नः । न तु स्वरूपेणान्यथात्वम् । यथारुचकादिभेदानुगतमपिकनकमेवेति प्रत्यभिजानीमः । तस्मात् नेदं धर्ममात्रं निरन्वयमिति ॥ १४ ॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥ एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर्भवतीति। तद्यथा चूर्णमृत्पिण्डमृद्घटमृत्कपालमृत्कणमृदिति च क्रमः। यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः। पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः। लक्षणपरिणामक्रमो घटस्यानागतभावाद्वर्तमानभावः क्रमः। तथा पिण्डस्य वर्तमानभावादतीतभावः क्रमः। नातीतस्यास्ति क्रमः। कस्मात्। पूर्वपरतायां सत्यां समनन्तरत्वं, सा तु नास्त्यतीतस्य। तस्माद्द्वयोरेव लक्षणयोः क्रमः। तथाऽवस्थापरिणामक्रमोऽपि घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते। सा च क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिमापद्यत इति। धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति। विवरणम् विवरणम्

इदानीं परिणामभेदेहेतुरुच्यते – सिद्धेहि भेदेपरिणामत्रयसंयमः प्रयोक्तुरुपकल्पेत । यत: कश्याचिल्लिङ्गद्वारा अतीतादिषुमतिरुपजनयितुं शक्यते, नान्यथा इति, क्रमान्यत्वं परिणामान्यत्वे हेतुः । एकस्य धर्मिणः चित्तादेः एक एव परिणाम इति प्रसक्तेः धर्मादीनां धर्म्यभेदादिति, परिणामभेदसिद्धये हेतुरेष उच्यते – क्रमान्यत्वम् । क्रमः अनन्तरभावः तस्यान्यत्वं भेदः ॥

त्रयो हि क्रमा अन्योन्यविधर्माण उपलक्ष्यन्ते । लक्षणावस्थाक्रमाभ्यामन्यो धर्मक्रमः । धर्मावस्थाक्रमाभ्यामन्यो लक्षणक्रमः । धर्मलक्षणक्रमाभ्यामन्योऽवस्थाक्रमः । यच्च तेषामन्यत्वं प्रसिद्धमार्गमधिरूढं तत्क्रमकार्याणां परिणामानामनुमापकम् अन्यत्वेहेतुः ॥

तद्यथा मृत्धर्मी चूर्णमृत् इति चूर्णादिभिर्धमैरयुगपत्कालजन्मभिः क्रमवर्तिभिः परिणमते । सर्वत्र मृद्ग्रहणेन धर्मिणो मृदाख्यस्य परस्परलक्ष्यमाणभेदचूर्णपिण्डघटकपालकणादिधर्मानुगमं प्रतिपादयति ॥

चूर्णस्यानन्तरः पिण्डः, पिण्डस्यानन्तरो घटः, घटस्यानन्तराणि कपालानि, कपालानां कणा अनन्तरा इति धर्म एव चूर्णमृत्, पिण्डमृत्, घटमृत्, कपालमृत्, कणमृत्, इति क्रमः, धर्मान्तरस्यक्रमः । न लक्षणं, नाप्यवस्था । यथा–यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः । कथम्? पिण्डो घट उपजायत इति पिण्डरूपामृत्घटीभवतीत्यर्थः । अभेदोपचारेण पिण्डो घट उपजायत इत्युच्यते । न पुनः पिण्डो धर्मो धर्मोन्तरात्मतां प्रतिपद्यते । पिण्डधर्मविमर्दनेन तद्विरोधी तदनन्तरं घटाख्यो धर्म उपजायते ॥

धर्मपरिणामश्च द्विविधः, तुल्यपरिणामश्चातुल्यपरिणामश्च । यथा पिण्डो घट उपजायत इत्यतुल्यपिण्डस्य, घटादिधर्मैर्मृदाख्यो धर्मी परिणमते, सः अतुल्यधर्मपरिणामः । यावच्च घटस्य जन्मनः प्रभृति आकपालापत्तेः तावत्घटरूपेणैव परिणमते मृदिति स तुल्यधर्मपरिणामः ।

तथा चित्तमपि निरुद्धवृत्तिकमेकाग्रतावस्थायां तुल्याभ्यां धर्माभ्यां शान्तेदितप्रत्याभ्यां परिणमते, व्युत्थाननिरोधाभ्यां धर्माभ्याम् अतुल्याभ्यां परिणते, तथा व्युत्थानवेलायां शान्तघोरमूढैः प्रत्ययैर्धर्मैरतुल्यैः परिणामं प्रतिपद्यते । सोऽयं धर्मपरिणामक्रम उक्तः ॥

इदानीं लक्षणपरिणामक्रम उच्यते –लक्षणपरिणामक्रम: घटस्यानागतात्लक्षणात्ववर्तमानभावः । तथा पिण्डस्य विरोधिधर्मोदये वर्तमानादतीत [भावः] क्रमः । नातीतस्यास्ति क्रमः । धर्मे हि वर्तमानलक्षणस्य समनन्तरं यल्लक्षणं स लक्षणक्रमः । न चातीतलक्षणस्य समनन्तरं लक्षणमस्ति ॥

कस्मात्? पूर्वापरतायां हि सत्यां समनन्तरत्वम् । सा चातीतस्य नास्ति । तस्मात् द्वयोरेव अनागतवर्तमानयोः लक्षणयोः क्रमः । अतीतस्य क्रमाभावप्रतिपादनेन प्रयोजनम्क्षणतत्क्रमयोः संयमात्’ इत्यत्र भविष्यति ॥

तथा अवस्थापरिणामक्रमः घटस्याभिनवस्य प्रान्ते अवसानावस्थायां पुराणाता दृश्यते । सा च क्षणपरम्पराऽनुपातिना क्रमेणाभ्यूह्यमाना प्रतिक्षणमभिनवभावपरिमर्दनेन पुराणता सञ्जनिष्यते । सा च प्रान्तेषु परां व्यक्तिमापादिता । मध्ये तु सूक्ष्मतया न विभाव्यते । तेन मध्यावस्थायां सन्नपि क्रमो न लक्ष्यते । प्रान्तकालाभिव्यक्तिलिङ्गेनानुमायिष्यते – येन इर्यपुराणतापरां व्यक्तमुपप्रापिता सोऽयं क्रम इति । न हि घटे परिनिष्पन्नमात्रे प्रतिक्षणजन्माऽपिपुराणतागृह्यते ॥

तथा च वदिष्यति – “क्षणप्रतियागी परिणामापरान्तनिर्याह्यः क्रमः” इति । तस्मात् धर्मलक्षणक्रमाभ्यामवस्थाक्रमस्यान्यत्वात् धर्मलक्षणपरिणामाभ्यां विशिष्टोऽयन्तृतीयः परिणामः ॥ त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः। धर्मोऽपि धर्मी भवत्यन्यधर्मस्वरूपापेक्षयेति। यदा तु परमार्थतो धर्मिण्यभेदोपचारस्तद्द्वारेण स एवाभिधीयते धर्मस्तदाऽयमेकत्वेनैव क्रमः प्रत्यवभासते। विवरणम् विवरणम्

त एते क्रमाधर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । विवक्षितेतुधर्मधर्मिणोरभेदे तत्र क्रमभेदो न लभ्यते । धर्मोऽपि धर्मी भवत्यन्यधर्मापेक्षया । गुणेभ्योऽन्यत्र धर्मधर्मित्वं नाम न व्यवस्थितम् । महदादीनामप्यविशेषापेक्षया धर्मित्वम् । अविशेषाण च विशेषापेक्षया, विशेषाणां च शान्तोदितापेक्षयेति । यदा तु परमार्थतो धर्मिण्यभेदोपचारद्वारेणाभिधीयते धर्मः, तदाऽयमेकत्वेनैव क्रमः प्रत्यवभासते ॥ चित्तस्य द्वये धर्माः परिदृष्टाश्चापरिदृष्टाश्च। तत्र प्रत्ययात्मकाः परिदृष्टा वस्तुमात्रात्मका अपरिदृष्टाः। ते च सप्तैव भवन्त्यनुमानेन प्रापितवस्तुमात्रसद्भावाः । निरोधधर्मसंस्काराः परिणामोऽथ जीवनम् । चेष्टा शक्तिश्च चित्तस्य धर्मा दर्शनवर्जिताः ॥ इति ॥ १५ ॥ विवरणम् विवरणम्

तत्र चित्तस्य द्वये द्विविधाः धर्माः परिदृष्टाश्चापरिदृष्टाश्च उपलब्धाश्चानुपलब्धाश्च । के ते इत्याह – तत्र प्रत्ययात्मकाः रागद्वेषमोहादयः परिदृष्टाः । वस्तुमात्राः स्वरूपेण विद्यमानाः कार्ययोगिनः अपरिदृष्टाः । [ते च]स्वविषयवृत्तिसद्भावैः सप्तैव भवन्ति । ते कथमवगम्यन्त इति? अनुमानेन प्रापितवस्तुमात्रसद्भावाः कार्यलिङ्गेनावगतसद्भावाः । स्वरूपेण तु नानीश्वरैरुपलम्यन्ते । ततश्चैकैकत्वेनोच्यन्ते ॥

निरोधधर्मसंस्काराः । निरोधः उक्तः । धर्मः इति, धर्माधर्मौ । संस्काराः वासनारूपाः । परिणामः उत्तमलक्षणः । अथ जीवनम् इति, धर्माद्यपेक्षया सकलकरणवृत्तिः प्राणलक्षणा येन चित्तधर्मेण भवति, स जीवनम् इत्युच्यते । चेष्टा व्यापारः । शक्तिः सामर्थ्यं, चित्तस्य धर्माः । दर्शनवर्जिताः अप्रत्यक्षाः । इति एते सप्त निरोधादयश्चित्तधर्मा अपरिदृष्टा उच्यन्ते ॥ १५ ॥ अतो योगिन उपात्तसर्वसाधनस्य बुभुत्सितार्थप्रतिपत्तये संयमस्य विषय उपक्षिप्यते – परिणामत्रयसंयमादतीतानागतज्ञानम् ॥ १६ ॥ धर्मलक्षणावस्थापरिणामेषु संयमाद्योगिनां भवत्यतीतानागतज्ञानम्। धारणाध्यानसमाधित्रयमेकत्र संयम उक्तः। तेन परिणामत्रयं साक्षात्क्रियमाणमतीतानागतज्ञानं तेषु सम्पादयति ॥ १६ ॥ विवरणम् विवरणम्

एते त्रयः परिणामाधर्मलक्षणावस्थारूपाः योगिनः उपात्तसर्वसाधनस्य समासादितयमादिसकलसाधनस्य स्थिरतरसंयमस्य, अतीतानागतप्रत्युपस्थितबुभुत्सितार्थप्रतिपत्तये संयमस्यविषयः उपक्षिप्यते । त्रयोऽप्येको विषयः संयमस्य ॥

परिणामत्रयसंयमादतीतानागतज्ञानम् । परिणामत्रये तावत्संयमः करणीयः, यावत्समाधिप्रज्ञाऽऽलोकः । स चयद्विषय उपस्थितः, तं विषयं यथाभूतप्रत्यक्षतामापादयति । सूक्ष्मं व्यवहितमतीतमनागतं विप्रकृष्टं वा यमुद्दिश्य प्रापणाभिप्रायेण सूक्ष्मादिषु संयमः क्रियते, तदा सोऽर्थोवश्यतां योगिन उपयाति । धर्मलक्षणावस्थापरिणामेषु संयमात्योगिनो भवत्यतीतानागतज्ञानम् । धारणाध्यानसमाधित्रयमेकत्र संयम उक्तः । तेन संयमेन परिणामत्रयं साक्षात्क्रियमाणमतीतानागतज्ञानं तेषु परिणामेषु सम्पादयति । सकलपदार्थीनां परिणामित्वात्तेषां चातीतादियोगात्कालत्रययुक्तसमस्तपदार्थविषयपरिणामत्रयसंयमेन सर्वं प्रत्यक्षीभवति । तथा प्रतिक्षणपरिणामधर्मकमनवस्थितं विश्वमोक्षमाणस्यवैराग्यं जायते ॥ १६ ॥ शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ १७ ॥ तत्र वाग्वर्णेष्वेवार्थवती। श्रोत्रं च धवनिपरिणाममात्रविषयम्। पदं पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यमिति। विवरणम् विवरणम्

अयमन्यः संयमविषयः उपक्षिप्यते सर्वशब्दार्थप्रतिपत्त्यर्थः शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानं सम्पद्यते । तत्र कः शब्दः, को वा अर्थः, प्रत्ययो वा, सङ्करश्च किन्निमित्तः, कथं च तेषां प्रविभागः? इति ॥

तत्र किं वागुच्चार्यः श्रोत्रग्राह्यः (स) शब्दः, उतार्थान्तरं, किं वागेव, तद्वदतिरितो वा, इति तावद्विचार्यते– वाक्तावन्नशब्दः । कस्मात्? वाक् वर्णेष्वेवार्थवती । वागिति वर्णभिव्यञ्जकमष्टसु स्थानेषु विषक्तमिन्द्रियं वर्णाभिव्यक्तिमात्रप्रयोजनोपक्षयं, न तावदर्थाभिव्यक्तौ शब्दाभिव्यक्तौ वा व्यापारं करोति ॥

तथा श्रोत्रं च न स्वयं शब्दः, नापि शब्दविषयम् । कस्मात्? ध्वनिपरिणाममात्रविषयं हि तत् । ध्वनिरिति सामान्यं वर्णावर्णरूपम् । तस्य विशेषः परिणामः अकारादिवर्णात्मकः, काकादिवाशितात्मकश्च मूढकरणव्यङ्ग्यः । तत् ध्वनिपरिणाममात्रप्रकाशावसानं श्रोत्रं नार्थशब्दयोर्व्याप्रियते ॥

ननु च श्रोत्रग्राह्य एवशब्दः । न—अर्थप्रत्यायकत्वात् । अर्थं यः सम्प्रत्यायति स शब्दः । कः पुनरसौ? पदम् । तत्पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यं नादानां ध्वनीनां श्रोत्रविषयभूतानां प्रत्येकं प्रत्ययिनिसंस्कारमाधाय निवर्तमानानाम् अन्त्येन ध्वनिनायासमुपस्थापिताबुद्धिः सा नादानुसंहारबुद्धिः प्रथमध्वनिक्रमानुसंहारासादितसंस्कारस्य प्रत्ययिनश्चित्तस्य जायते, तयैकया बुद्ध्या अयं निर्गृह्यते । तत्पदम् । तच्च प्रत्यक्षत्वाद्रूपादिवन्नान्यप्रमाणापेक्षम् ॥

ननु च “गकारौकारविसर्जनीयाः” इतिभगवानुपवर्षः । तन्न – अवाचकत्वात् । कथम्? समुदायासम्भवात् । समुदायासम्भवश्च एकसमयासम्भवित्वात् । न हि गकारोच्चारणकाले औकारविसर्जनीयौ । नाप्यौकारोच्चारणकाले गकारविसर्जनीयौ । नापि विसर्जनीयप्रवृत्तिवेलायामितरयोः समवस्थानमितिवर्णसमुदायासम्भवादवाचकत्वम् ॥

यथैव वर्णानां युगपत्समयानवस्थानम्, एवं संस्काराणां स्मृतीनां च तज्जनितानामयुगपत्कालत्वादवाचकत्वम् । स्मृत्युपयोगार्थत्वाच्च संस्कारस्यानुभूतविषय एवोपयोगात्, प्रत्याख्यस्य चापूर्वत्वात् ॥

अपि च संस्काराणां वाचकचाभ्युपगमे, ‘शब्दादर्थप्रतिपतिः’ ‘पूर्वीपरीभूतं भावमाख्यातेनाचष्टे’ ‘धर्मस्य शब्दमूलत्वादशब्दमनपेक्ष्यं स्यात्’ इति प्रसिद्धिरपहूयेत ॥

अथापिवर्णभावभावित्वेन स्मृतिसंस्कारयोरपिशब्दत्वमुपचर्येत । नैतदपि—तद्भावभावित्वं नामतस्मिन्नेव सति भवत्यसत्यभाव एव यत्र, तत्र स्यात् । (न च) तच्च वर्णानां शब्दत्वे सिद्धे भवेत् । लोकस्तु शरीरादावात्माभिमानादविवेकादतस्मिन्नपि तद्बुद्धिं करोतीति न सर्वत्र वस्तुनिर्णये हेतुर्भवति ॥

अपि च, वाक्श्रोत्रव्यापार एव सत्यर्थप्रतिपत्तिरिति तस्याव्यभिचारात्तद्भावभावित्वेशब्दत्वं प्राप्नोति । तस्मादन्त्योवर्णो न वाचकः, वर्णत्वात् आद्यवर्णवत् । तथा, तत्स्मृतिसंस्कारानवाचकाः, स्मृतिसंस्कारत्वात्, आद्यवर्णस्मृतिसंस्कारवत् ॥

यदि चान्त्यो वर्णः पूर्ववर्णजनितसंस्कारसहितः वाचक इत्युच्यते– नैतदेवम् । कस्मात्? अन्त्यवर्णोच्चारणमात्रादेवार्थप्रत्ययप्रसङ्गात् । कथम्? अतीतदिवसोच्चरितगकारादिवर्णाहितसंस्कारो हि समस्तः श्रोता । तत्रान्त्यवार्णोच्चारणमात्रादर्थ: प्रतीयेत । अथापि नियमार्थमाद्यावर्णोच्चारणमिति चेत् – न – पूर्ववर्णानां पश्चिमवर्णेनातुल्यकालत्वात्साहायकाभावे नियमानुपपतिः ॥

तवापिवर्णानाम्पदव्यञ्जकत्वेनियमार्थम्पूर्ववर्णाउचारयितव्याइतिदोषएवेति, पदव्यञ्जकत्वकल्पनातो वर्णानामेव वाचकत्वं युक्तमितिचेत्, न – वर्णनां बुद्धौ स्वकीयसंस्काराधानमात्राभ्युपगमात् । उच्चरितप्रध्वंसमानवर्णसंस्कारपरं परोपचितायां हि बुद्धौ पदं निर्भासते । एतदेव हि वर्णानां पदव्यञ्जकत्वम् । न पदं प्रति दीपवत्साक्षात्प्रवर्तते ॥

न बुद्धौ धार्मिद्वारेण संस्काराणामेकाश्रयावस्थानादन्योन्योपकार्योपकारकभावः समीचीनतरः । इष्टानिष्टविषयोपलब्धिस्मृतीच्छाद्वेषादिवत् । न कदाचिदन्येन वर्णेन पूर्ववर्णानां तदीयस्मृतिसंस्काराणां वा सम्बन्ध उपकल्पते ॥

अथ ममापिनियतक्रमवर्णसम्पादि सँस्कारपरम्परोपचितबुद्ध्युत्पादकत्येनैव वर्णानां वाचकत्वमिति चेत् – न – अभ्युपेतपरिवर्जनात् । यदि तावद्वर्णानेकसंस्कारविशिष्टाबुद्धिः अर्थविषयवापदविषया वा? यद्यर्थविषया, सैव शब्दः प्राप्नोति । अर्थप्रत्यायकत्वात् । अथ पदविषया, तथाऽपि पदादर्थप्रतिपत्तिरिति बाध्येत ॥

तस्मादेकबुद्धिविषयो वर्णव्यतिरिक्तः शब्दोऽभ्युपगन्तव्यः । तेन पूर्ववर्णजनितसंस्कारसहितोऽन्त्यो वर्णः, तत्स्मृतिः, संस्कारो वा, न वाचकः । संस्कारसाहायकापेक्षत्वात्, बुद्धिवत् ॥ वर्णा एकसमयासम्भवित्वात्परस्परनिरनुग्रहात्मानस्ते पदमसंस्पृश्यानुपस्थाप्याऽऽविर्भूता-स्तिरोभूताश्चेति प्रत्येकमपदस्वरूपा उच्यन्ते। विवरणम् विवरणम्

एवं गते कथं वर्णानामर्थविषयः पदविषयो वाव्यापारो नास्तीत्याह – वर्णाः एकसमयासम्भवित्वात् । एककालासम्भवित्वं च वाचः क्रमवर्तित्वात् । अतः परस्परनिरनुग्रहात्मानः कस्यचिदभिसम्बन्धस्याभावादितेरतरनिरुपकाराः । ते पदमनुपसंस्पृश्यानुपस्थाप्य कञ्चन पदे व्यापारमविधाय आविर्भुताश्च तिरोभूताश्च व्यस्ता वा समस्ता वा न पदात्मानमपाङ्गविक्षेपणापि परामृशन्ति । प्रत्येकमपदस्वरूपाः युगपदनवस्थानातसमुदायात्मनाऽप्यपदस्वरूपा एव । किमङ्गः पुनः प्रत्येकमनर्थकानामवस्थितानामिति ॥ वर्णः पुनरेकैकः पदात्मा सर्वाभिधानशक्तिप्रचितःसहकारिवर्णान्तर-प्रतियोगित्वाद्वैश्वरूप्यमिवाऽऽपन्नः पूर्वश्चोत्तरेणोत्तरश्च पूर्वेण विशेषेऽवस्थापित इत्येवं बहवो वर्णाः क्रमानुरोधिनोऽर्थसङ्केतेनावच्छिन्ना इयन्त एते सर्वाभिधानशक्तिपरिवृता गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थं द्योतयन्तीति। विवरणम् विवरणम्

वर्णः पुनरेकैकः सर्वाभिधानशक्तिप्रचितः । अभिधीयतेयैः तान्यभिधानानिपदानि, तेषां सर्वेषामभिधानानां पदानामभिव्यञ्जिकाभिः शक्तिाभिः प्रचितः, अराणामेकैक इव नाभौ । तद्यथा—गकारः गोवर्गाग्निगगनादिसर्वपदाभिद्योतनसामर्थ्यप्रचितः ॥

सहकारिवर्णान्तरप्रतियोगित्वात् । यथा गौरिति गकरैकारविसर्जनीयसहकारिसव्यपेक्षः अग्निरितीकारप्रतियोगी । तस्मादनेकवर्णान्तरोपाधिसम्बन्धात्प्रतिपदं वैश्वरूप्यमिवापन्नः । उत्तरश्रवर्णः पूर्वेण विशेषे पदविशेषप्रद्योतने अवस्थापितः । पूर्वैश्चोत्तरेण, मध्यमोऽपि पूर्वोत्तराभ्याम् ॥

एवं बहवो वर्णाः क्रमानुरोधिनः विशिष्टक्रमम्, आनुपूर्वीम् अनुरुध्यमानाः ॥

अर्थसङ्केतेन अमी अस्मिन्नर्थे एतत्क्रमावलम्बिनः इयन्त इति सङ्केतः समयः, तेन अथैसङ्केतेन अवच्छिन्नाः ॥

वर्णसङ्केतद्वारेणपदं सङ्केत्यते । वर्णाव्यभिचरितचारित्रम् असाधारणवर्णक्रमापेक्षितसङ्केतसमयं हि पदम् । वर्णसङ्केत एव तस्य सङ्केतः । इयन्त एते वर्णाः सर्वाभिधानशक्तिपरिच्युताः विशिष्टसास्नादिमदर्थप्रतिपादकासाधारणपदावभासनव्यापारपरत्वादेव अपरपदान्तरप्रतिपादकशक्त्यन्तरेभ्यः परिच्युता: निवृत्ता: इतरेतरविशेषविनियोगपरवशावेशादुदासीनपदान्तरप्रकाशनशक्तयः गकारौकारविसर्जनीयाः सास्नादिमन्तमथैमवद्योतयन्ति पदमभिव्यञ्जयन्तः ॥ तदेतेषामर्थसङ्केतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस्तत्पदं वाचकं वाच्यस्य सङ्केत्यते। तदेकं पदमेकबुद्धिविषय एकप्रयत्नाक्षिप्तमभागमक्रममवर्णं बौद्धमन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्णैरेवाभिधीयमानैः श्रूयमाणैश्च श्रोतृभिरनादिवाग्व्यवहारवासनानुविद्धया लोकबुद्ध्या सिद्धवत्सम्प्रतिपत्त्या प्रतीयते। विवरणम् विवरणम्

तदेषामर्थसङ्केतेनावच्छिन्नानाम् अभिहितेन न्यायमार्गेण अनुगृहीतध्वनिक्रमाणां विशिष्टानुपरिपटिसमायोगिनाम् इत्थङ्क्रमविशेषक्रमलब्धजन्मनां वर्णानां सम्बन्धः य एको बुद्विनिर्भासः बुद्धेर्निर्भासः तत् पदं भूमिः (भूमिषुमेव) भूमिकेव वाचकं वाच्यस्य न वर्णाः । वर्णद्वोरण तु सङ्केत्यते ॥

तत् पदमेकम् एकमपि, यद्वस्तु सावयवं घटादि तदनेकबुद्धिविषयं दृष्टं, न तु पदं तथा । तत् एकबुद्धिविषयं सर्वलेोकप्रत्यक्षम् । वर्णाः पुनरनेकत्वादयुगपत्कालजन्मानः एकबुद्धिविषयतां न समुपाश्नुनुवते । यस्वेवमेकबुद्विनिर्ग्राह्यमनुमानेन निराचिकीर्षति, तस्य प्रत्यक्षाविरोधिनी प्रतिज्ञा स्यात् ॥

एवम् एकप्रयत्नाक्षिप्तं वर्णक्रमजन्मप्रत्युपनीतसंस्कारनिमित्तबुद्धिपरिपाकाभिसमक्षया पश्चिमबुद्धौ झटिति परिस्फुरितम्, अविभागम् अवयवश्यून्यम्, अत एव अक्रममवर्णात्मकमन्त्यवर्णप्रत्ययव्यापारोपस्थापितम् आद्यवर्णव्यापारपरम्परानुगृहीतपश्चिमवर्णग्रहणमात्त्रप्रत्युद्भासितम् ॥

परत्र परबुद्धिप्रतिपिपादयिषया वर्णैरेवाभिधीयमानैः अभिधातृभिः, श्रूयमाणैश्च श्रोतृभिः, अनादिवाग्व्यवहारवासनानुविद्धया लोकबुद्धया सिद्धवत् सम्प्रतिपत्या प्रतीयते । (नापि) अनादिसंसारचक्रमण्डले परिवर्तते । शब्दादेवार्थप्रतिपतिपूर्वको व्यवहारः, तद्वासनावासिताया लोकधिया सिद्धवत् प्रतीयत इति, लौकिकानां सम्मुग्धाकारप्रवर्तितव्यवहारमात्रचरितप्रयोजनानां आत्मनीव पदे विप्रतिपत्तिः ।

तस्मात् [पदं] वर्णव्यतिरिक्तम्, एकबुद्धिनिर्ग्राह्यत्वे सति प्रत्यायकत्वात्, प्रदीपवत् । अर्थप्रतिपत्तौ च कारणत्वात्, प्रदीपवत्, बुद्धिवच्च । न वर्णाः पदम्, एकेन कर्त्रा क्रमेण प्रयुज्यमानत्वात्, करणत्वाच्च, वासीवृक्षादानादिवत् ॥

अत्र कश्चित् आह—

वर्णा वा ध्वनयो वापि स्फेटं न पदवाक्ययोः ।

व्यञ्जन्ति व्यञ्जकत्वेन यथा दीपप्रभादयः ॥

सत्त्वात् घटादिवच्चेति साधनानि यथारुचि ।

लौकिकव्यतिरेकेण कल्पितेऽर्थे भवन्ति हि ॥

नार्थस्य वाचकः स्फोटो वर्णेभ्यो व्यतिरेकतः ।

घटादिवन्न दृष्टेन विरोधो धर्म्यसिद्धितः ॥

प्रतिषेधेत्तु यो वर्णास्तज्ज्ञानानन्तरोद्भवात् ।

दृष्टबाधो भवेत्तस्य शशिचन्द्रनिषेधवत् ॥

वर्णोत्था वाऽर्थधीरेक्षा तज्ज्ञानानन्तरोद्धवा ।

यादृशी सा तदुत्था हि धूमादेरिव वह्निधीः ॥

दीपवद्वा गकारादेर्गवादेः प्रतिपादक: ।

ध्रुवं प्रतीयमानत्वात् तत्पूर्वप्रतिपादनात् ॥ ”इति ।

अत्रोच्यते—वर्णा वाध्वनयो वाऽपिस्फेटं न पदवाक्ययोः इति, पदं वाक्यं वा स्वतस्तावन्न प्रसिद्धम् । तत्रासतिवर्णव्यतिरिक्ते पदे वाक्ये वा, पदवाक्ययोः स्फोटं न व्यञ्जयन्तीति कथं चेतस्विनां वचनावकाशः स्यात् । एवं च सति, उद्दिश्यपदवाक्ययोः स्फोटं प्रतिषेधतापदं वाक्यं चाभ्युपगतं भवेत् ॥

अथापिपराभप्रायेणोच्येत, तथाऽपि सिद्धसाध्यता । न परस्य पदवाक्ययोरन्यः स्फोटोविद्यते, यः प्रतिषिध्येत । पदवाक्ये एव हितस्य स्फोटः ॥

अथापि ब्रूयात् – अर्थावच्छेदकाविशिष्टक्रमोपनिवेशिनो वर्णाः पदं वाक्यं च प्रतिषिध्यते इति । तच्च न युक्तम्, स्वतो विरोधात् ॥

अथाऽपि ब्रूयात् – वर्णव्यतिरिक्तं पदं वाक्यं वा प्रतिषिध्यते इति । तथाऽपि व्यतिरिक्तमुद्दिश्य तस्य व्यञ्जनप्रतिषेधाद्व्यतिरिक्तपदवाक्याभ्युपगमः प्रसक्तः ॥

अथाऽपि परकल्पितपदवाक्यप्रतिषेधः, एवमपि व्यञ्जकत्वादित्यसिद्धो हेतुः । कथम्? स्वात्मव्यातिरिक्तस्य वा पदस्य व्यञ्जकत्वं, अव्यतिरिक्तस्य वा व्यञ्जकत्वं, अर्थस्य वा व्यञ्जकत्वं वर्णानामिति त्रयीविकल्पना । यदि व्यतिरिक्तस्य व्यञ्जकत्वं, तदा स्वतोऽसिद्धःस्यात् ॥

अथाव्यातिरिक्तस्य, तथाऽपि परस्यासिद्धः । किञ्च, व्यञ्जकत्वाच्चव्यतिरिक्तस्यैव व्यञ्जकत्वं, नाव्यातिरिक्तस्य, प्रदीपादेरिव । अन्यव्यञ्जनार्थं हि व्यञ्जकः प्रदीपादिरुपादीयते, न स्वात्मव्यञ्जनाय । स्वात्मव्यक्त्यर्थो चेदुपादास्यते, जनुषाऽन्धस्यापि व्यज्येत ॥

अथ व्यतिरिक्तव्यञ्जकत्वे सिद्धे, पदस्य व्यञ्जका भवेयुः, अर्थस्य वा । तत्रानेकसाध्यं यथा शिबिकोद्वहनादि, तत् अन्यतमेन न शक्यम् अनुष्ठातु, एवमन्यतमेन वर्णानामर्थस्य प्रतिपादनमनेकसाध्यत्वादशक्यमिति प्रतिपादितम् ॥

न च कूपखानकन्यायेनापि कञ्चित्कञ्चिद्व्यङ्ग्ये संस्कारमाधायवर्णानिवर्तन्ते इति शक्यं वक्तुम् । अभिधेयस्यैकबुद्धिविषयत्वात् ॥

यथा च सुगतकृतान्ते प्रध्वंसमानं विज्ञानमुत्पत्स्यमानस्य विज्ञानस्य संस्कारमाधातुमपर्याप्तं, स्थितस्य धर्मिणः कस्यचिदभावात् । एवमन्योन्यसम्बन्धाभावादयुगपत्समयजन्मनां वर्णानां पूर्वस्य पूर्वस्य विनश्यत उत्तरस्योत्तरस्य चोपजनिष्यमाणस्य बलाधानानुपपत्तिरिति नार्थस्य व्यञ्जका वर्णाः ॥

परिशेषात्पदस्यैव व्यतिरिक्तस्याभिव्यञ्जितारः इति स्थितधर्मः । अस्माकं तु स्थितेर्धर्मिणिश्चेतसि पूर्वपूर्ववर्णप्रत्युपस्थितसंस्कारपरम्परापरिपाकविशारदे पश्चिमवर्णजन्मवेलायां निरवयवमेकबुद्धिनिर्ग्राह्यबुद्धिनिर्भसात्मकझटितिसमुन्मिषतीति न संस्काराधानासामर्थ्यदोषप्रसङ्गः ॥

किञ्च, यद्यपि वर्णाः स्वबुद्धिं व्यञ्जयन्ति । सा बुद्धिरर्थप्रतीतिं प्रति करणभूतैवाभिव्यज्यते, न तु फलं प्रति वर्णाः करणत्वेन व्याप्रियन्ते । करणभूतबुद्ध्युत्पादनोपक्षयत्वात् । बुद्धेरेव हि फलं प्रति व्यापारः । यस्य हि फलं प्रति व्यापारः तत्प्रमाणं, स शब्दः । ततश्च अर्थप्रतीतिं प्रति कारणभूतबुद्धिव्यवहितत्वान्नवर्णानां वाचकत्वम् । परम्परयातुपदम्प्रत्युपायत्वं न वर्णानां प्रतिषिध्यते ॥

तस्मादेवमयं श्लोकः पठितव्यः–

वर्णा वा ध्वनयो वाऽपि भिन्नमेवार्थमात्मनः ॥

व्यञ्जन्ति व्यञ्जकत्वेन यथा दीपप्रभादयः ॥

तथा, घटादीनामप्यर्थोन्तरप्रत्युपस्थानमात्रत्वमभ्युपगम्यत एव । घटादयो हि दर्शनमात्रेण पचनाहरणधारणादियोग्यताबुद्धिम् अन्यद्वा किञ्चित् उपस्थापयन्त्येव । तथा वर्णानां पारम्पर्येण आत्मव्यतिरिक्तपदप्रत्युपस्थापकत्वं सत्त्वात्घटादिवदिष्यत एवेति तुल्यमेतदपि ॥

सत्वाद्घटादिवच्चेति साधनानि यथारुचि ।

लौकिकव्यतिरेकेण कल्पितेऽर्थे भवन्ति हि ॥

सर्वथाजातिर्वा बुद्धिर्वा भवतु, यतो वा कुतश्चित् उच्चारितप्रध्वस्तवर्णानसम्भविनो वर्णव्यतिरिक्तात् अर्थप्रतिपत्तिः, सस्फोटः । स च अवश्यं वर्णासम्भावित्वात्कार्यस्याभ्युपगमनीयः । तथा च—

‘नार्थस्य वाचकः स्फोटो वर्णेभ्यो व्यतिरेकतः’

इति ब्रुवतोऽभ्युपगमविरोधः स्यात् । अपि च, वर्णेभ्यो व्यतिरेकतः इत्यन्यतरा सिद्धः । स्वतो व्यतिरेकेस्यासिद्धत्वात् ॥

किञ्च, नामाख्यातोपसर्गानिपातपदजातिचतुष्टयमभ्युपगच्छता जातिव्यञ्जकं वर्णव्यतिरिक्तम् अन्यदभ्युपगन्तव्यम् । न वर्णाः पदजातिमभिव्यञ्जितुमुत्सहन्ते । वर्णा हि वर्णजातिमभिव्यञ्जयन्ति । न चावयवेषु भिन्नकालजन्मविनाशेष्ववयविजातिव्यञ्जनमुपपद्यते । व्यवस्थितेष्वपि नामतावदवयवेषु न पाणिपादादयः शरीरादृते शरीरत्वमभिव्यञ्जयन्ति । किं पुनरनवस्थितेषु ॥

किञ्च, अश्वः अयातमयातमक्षः भवति, तेन मम वायुर्वायुः, इत्यादिषु तुल्यस्वरूपेषु नामत्वाख्यातत्वे परस्परविरुद्धजातीयेनैक एव वर्णोऽभिव्यनक्ति ॥

यदि वा अश्वः इति नामजात्या अभिव्यञ्जकाः अकारशकारवकाराकारविसर्जनीयाः आख्यातजात्यभिव्यञ्जकेभ्यो भिन्ना भवेयुः, तदा उपपद्यते भिन्नानां भिन्नजात्यभिव्यञ्जकत्वम् । तदेकत्वेनोपपद्यते ॥

यद्यपि अर्थप्रकरणशब्दान्तरसन्निधानादिभिः इदं नाम इदमाख्यातम् इतिपरिकल्प्येत, तथाऽपि नामाख्यातजात्यभिव्यक्तिम् अर्थप्रकरणादिभिरेक एव वर्णो न शक्नोति कर्तुम् । न हि ब्राह्मण एव ब्राह्मणत्वं क्षत्रियत्वं चाभिव्यनक्ति ॥

तस्मात् भिन्ना अकाराः शकारावकारादयश्च बहव एषितव्याः । एवं गोशब्दादयोऽपि भिन्ना एव । तथा गोशब्दत्वमश्वशब्दवं च सिद्धम् । एवं मत्वमात्वमित्वमीत्वं च सिद्धम् । एवं च सति अकारादयो वर्णा अत्वादीन्येव सामान्यान्यभिव्यञ्जयन्ति । नाश्वादीन्नामाख्यातजातिभेदानित ॥

तस्मात् वर्णव्यतिरिक्तं पदत्वसामान्याभिव्यञ्जकं पदमभ्युपगन्तव्यम् । एवं च सत्येष श्लोक एवं पठितव्य:-

प्रतिषेधेत्तु यः स्फोटं वर्णधीसमनन्तरम् ।

दृष्टबाधो भवेत्तस्य शशिचन्द्रनिषेधवत् ॥

वणोत्थाऽवर्णधीरेषा तज्ज्ञानानन्तरोद्भवा ॥ इति ॥

करणबुद्धिव्यवहितत्वादनन्तरोद्भवत्वमसिद्धम् । पारम्पर्योण चेत्सिद्धसाध्यता । धूमस्यापि न वह्निधियं प्रति कारणत्वम् । धूमधियः कारणत्वात् । धूमादीनां पारम्पर्यवत्वर्णादीनामपि पारम्पर्येणोपकारकत्वमिष्यत इत्युक्तम् ॥

तस्मादयमपि श्लेक एवं पठितव्यः—

वर्णोत्था नार्थधीरेषा तज्ज्ञानानन्तरोद्भवा ।

येदृशी सा तदुत्थानधूमोदरिव वह्निधीः ॥

न च दीपवत्सन्निपत्यगकारौकारौसास्नादिमदर्थव्यञ्जकौ । अर्थव्यक्तिकालानवस्थानादनयेार्दृष्टो व्यभिचार: विसर्जनीयविषयेऽपि समुन्नीयते निरवस्थानादि । वर्णानार्थव्यक्तिसमानकालावस्थायिनः, प्रदीपस्तु व्यङ्ग्यकालेन तुल्यकालावस्थानः कारणत्वं प्रतिलभते ॥

तस्मादयमप्येवं श्लेकः पठितव्यः–

दीपवद्वा गकारादिर्गवादीनामवाचक: ।

ध्रुवं प्रतीयमानत्वात्तत्पूर्वे प्रतिपादनात् ॥

प्रमाणं चात्र भवति – अर्थस्य न वाचकाः, नाप्यर्थं प्रतिप्रमाणं वर्णाः, साक्षात्सङ्केतापेक्षत्वात्, अङ्कप्रतिमादिवत् । यथा शताद्यङ्काविष्णुप्रतिमाश्च सङ्केतापेक्षागममेवावद्योतयन्ति । न विष्णुशताद्यर्थं प्रति प्रमाणत्वमुपयान्ति ॥

यत्तु नापेक्षते सङ्केतं, तत्प्रमाणम्, यथा वाक्यं, दीपादिजात्यन्तरं च । न तथा वर्णा इति प्रतिमावदेषा अप्रामाण्यमापाततम् । तथा, वर्णा अर्थप्रतिपादकमात्मव्यतिरिक्तमभिव्यञ्जयन्ति, साक्षात्सङ्केतापेक्षत्वात्, अङ्कविष्णुप्रतिमादिवत् । स्फोटः तत्सङ्केतेन साक्षादपेक्षते इत्यवादिष्म ॥

तस्मादेवम् अनेकयुक्तिपरिवारप्रत्युपानीतबलाधानं कः स्फोटम् अपाकर्तुं शक्नोति ॥ तस्य सङ्केतबुद्धितः प्रविभाग एतावतामेवं जातीयकोऽनुसंहार एकस्यार्थस्य वाचक इति। सङ्केतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मको योऽयं शब्दः सोऽयमर्थो योऽयमर्थः सोऽयं शब्द इति। एवमितरेतराध्यासरूपः सङ्केतो भवतीति। एवमेते शब्दार्थप्रत्यया इतरेतराध्यासात्सङ्कीर्णा गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानम्। य एषां प्रविभागज्ञः स सर्ववित्। विवरणम् विवरणम्

तदेवङ्गते भाष्यमिदानीमुच्यते – तस्य पदस्य सङ्गीतबुद्वितः प्रविभागः । शब्दार्थज्ञानव्यतिभिन्नरूपा हि सङ्केतबुद्धिः । तस्याः सकाशात्पदस्य प्रविभागः करणीय: ॥

सङ्केतरूपं दर्शयति – एतावतां वर्णानाम् एवञ्जातीयकेऽनुसंहार एतस्याथैस्य वाचकः इति । यथा अयमङ्कः शतंसहस्रे, विष्णुरेषाप्रतिमा इति च ॥

सङ्केतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मा, न प्रमाणभूतः । यथाविप्णुरेषा प्रतिमा, एष एव चतुर्भुज इति, तथा प्रत्यय उभयमिदम् उभयं नु प्रत्यय इत्यन्योन्याध्यस्तरूपाविष्णुप्रतिमाप्रत्ययाः ॥

तथा योऽयंशब्दः सोऽयमर्थः, योऽयमर्थः सशब्दः, यश्चप्रत्ययः सोऽर्थः शब्दश्चेति, एवमितरेतराध्यासरूपः सङ्केतो भवति । एवमेतेशब्दार्थप्रत्यया इतरेतराध्यासात्सङ्कीर्णाः । तद्यथा गौरिति शब्दो, गौरित्यर्थो, गौरीति ज्ञानम् इति ॥

य एषां शब्दार्थप्रत्ययानां प्रविभागज्ञः, स सर्वज्ञः । कस्मात्? अशक्यत्वात्प्रविभागज्ञानस्य । न ह्यसर्वज्ञः शक्नोति प्रविभागेन तानवगन्तुम् ॥ सर्वपदेषु चास्ति वाक्यशक्तिर्वृक्ष इत्युक्तेऽस्तीति गम्यते। न सत्तां पदार्थो व्यभिचरतीति। तथा न ह्यसाधना क्रियाऽस्तीति। तथाच पचतीत्युक्ते सर्वकारकाणामाक्षेपो नियमार्थोऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानामिति। दृष्टं च वाक्यार्थे पदरचनं श्रोत्रियश्छन्दोऽधीते, जीवति प्राणान्धारयति। तत्र वाक्ये पदार्थाभिव्यक्तिस्ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा। अन्यथा भवत्यश्वोऽजापय इत्येवमादिषु नामाख्यातसारूप्यादनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेतेति। विवरणम् विवरणम्

सर्वपदेषु चास्ति वाक्यशक्तिः । वृक्ष इत्युक्ते अस्तीति गम्यते । न सत्तां पदार्थो व्ययभिचरतीति ॥

किमर्थमेतदुच्यते? इह सर्वभूतरुतज्ञानोपायः प्रतिपिपादयिषितः । सर्वभूतरुतं च वाक्यार्थविषयमेव, न पदार्थविषयम् । पदानां केवलानां वर्णानामिवानर्थकत्वात्, संव्यवहाराभावाच्च । यथैव वर्णनां वर्णान्तराभिसमीक्षयापदावद्योतनप्रयोजनवत्त्वम्, एवं पदानामपिपदान्तरापेक्षयावाक्योपस्थापनोपायत्वम् । एवं सतिवाक्यस्यैव प्रामाण्यं, केवलपदप्रयोगेऽर्थाप्रतीतेः ॥

किञ्च, केवलं पदमप्रमाणं, तावता निर्णयाभावात्, एकैकवर्णवत् । नापि पदं वाचकम्, सङ्केतार्थापेक्षत्वात्, शताद्यङ्कवत् । नामाख्याते केवलेन वाचके, केवलाप्रयोगात्, उपसर्गवत् । यत्रापि केवलं पदं प्रयुयुक्षिते तत्राप्यवश्यम्, अस्ति तिष्ठति देवदत्त इत्यादि पदं बुद्धौ विपरिवर्तत इति न केवलाप्रयोगसिद्धिः ॥

प्रलम्बते, पर्यागच्छति, अभ्यागच्छति, इत्यादिषु उपसर्गकर्मप्रवचनीयानां न कश्चिदर्थः । तथा अभिमनायते, सुमनायते, दुर्मनायते, इत्यादिषु च उपसर्गाणां द्योतकत्वं सिद्धम् । तथा, प्रतिष्ठते, अधीत इत्यादिष्वयुपसर्गाणां द्योतकत्वमेव न वाचकत्वमिति । तथा न ह्यसावना क्रिया अस्ति । केवलकर्मप्रयोगे किमपि साधनं द्रव्र्यं गुणो वावगम्यते ॥

किञ्च, प्रकृतिप्रत्ययानामनवस्थितावधिकत्वात्व्यभिचारादवाचकत्वम् । तद्यथा-दरिद्रातिःकेषाञ्चिद्द्रव्यमात्र एव पठ्यते । दरिद्रशब्दस्तु निपातोपसर्गस्थानीयः पुनरागच्छति, द्रति, निद्राति, दरिद्राति, इति । तत्र का प्रकृतिरिति वक्तव्यम् । किं (द्राक्त्रिदं) द्रा, इति, किंवा दरिद्रेति । केषाञ्चित्तु दरिद्रेत्येतावत्पठ्यते । तथा द्राशब्दोऽपि पृथगाम्नायते ॥

एवमस्ति सकारमात्रं पठन्ति । वीतिचप्रत्ययेकारमागमं कुर्वन्ति । केचित्तु सहकारेण पठित्वा (अविति) वीतिचप्रत्यये लोपमकारस्यकुर्वन्ति । तत्र का प्रकृतिरिति वक्तव्यम् । न निर्ज्ञायते । प्रकृत्यवधौप्रत्ययावधौवाप्रकृतिप्रत्ययार्थौ शक्यौ विवेक्तुम् ॥

क्वचिदुपसर्गोऽपि ‘असङ्ग्रामयतशूर’ इत्यादिषुप्रकृत्येकदेशतामापन्नः । तथा, अततेर्नः, अः, अस्यापत्यमिः, इयान्, अधुना, इत्यादिकः प्रकृत्यर्थभागम् असत्यां प्रकृतौ ब्रूयात् । अग्निचित्, सोमसुत्, भिदा, छिदा, अथो, कति, अमा, पच, पठ, इत्यादिषु प्रत्ययार्थमसतिप्रत्ययेकीब्रूयात् ॥

एवमादिषु लक्षितापचाराणां प्रकृतिप्रत्ययनां कः शक्नुयादर्थवत्त्वं कल्पयितुम् । अत्रभवतु नान्यत्रेति नार्धजरतीयं लभ्यम् । उद्दालकपुष्पभञ्जिकापारं न पुष्पप्रचायिका, इत्यत्र कः पूर्वपदोत्तरपदार्थः? प्रज्ञः, सञ्ज्ञ, इत्यादिषु प्रत्यन्वयोऽपि नास्तीति कस्य कोऽर्थः? इति ॥

ऋषभो, वृषभो, वृषः, उदकम्, उदकुम्भः, क्षीरोदः, यावो, यावकः, कूपः, सूपः, यूपः, इत्यादिषु कस्य कोऽर्थो इति वक्तव्यम् । दध्यशान, मध्वत्र, इत्यादिषु, किमवधि किं पदं वाचकम्? ॥

तस्मात्सर्वत्र दृष्टापचाराणां वर्णप्रकृतिप्रत्ययपदानाम् अनर्थकानामदृष्टापचारनिरवयववाक्योपायत्वमेव । तानि निःसन्धिबन्धनान्निरवयवात्मिथ्याभूतवर्णपदध्वनिष्कृतचित्रीभावाद्वाक्यादपोद्धृत्य व्याकरणीयानि ॥

तानि च वाक्यस्यानवयवभूतानि, उपायत्वाद्व्याक्यावयववदवभासमानानि, यावत्फलम् असत्त्वात्शताद्यङ्कवदेवमिथ्याभूतानि, अनुच्चार्यमाणवाक्यावद्योतनार्थकरणसन्निपाते विशेषेणोपादायपरिहीयमाणानि, स्वकीयक्रमनिष्पत्तिविनिवृत्तिकालादिभेदविचित्रतया वाक्यात्मानं क्रमवन्तमिव, निष्पद्यमानमिव, निवर्तमानमव, द्राघीयांसमिव, कालवन्तमिव,भेदवन्तमिव, विचित्राकारतामापादयन्ति ॥

एवं च सति, यदुच्यते शशविषाणादपोद्धृत्यखरविषाणस्य, किन्तदिति एतदलीकं, यथैव मृगतृष्णिकातेयमलीकमपि सत्यादूषरादपोद्धियते, यथा च स्थाणोः पुरुषः, पुरुषाच्च स्थाणुः, शुक्तिकातश्च रजतमपोद्ध्रियते, यथैव च मृगतोयादयो यथाभूतेषु रादिवस्तुप्रतिपत्तिहेतवः, तथा वर्णपदप्रकृतिप्रत्ययायथाभूतवाक्यार्थप्रतिपातकारणेतत्प्रतिपत्तौ चापोद्ध्रियन्ते ॥

क्वचिदर्थप्राप्तमपोद्ध्रियते, यथा मृगतोयादिकम् । कञ्चित्तु प्रयोजनत्वेन विवक्षितं, यथाशतादिसङ्ख्यातः शताद्यङ्कापोद्धारः क्रियते, यथा च लिप्यक्षराणि सड्रेतापेक्षत्वातकृतसमयरूपाणी अकारादिवर्णादपोद्ध्रियन्ते । अथ च सर्वाण्यतानियथाभूतार्थप्रतिपादनोपायत्वं प्रतिपद्यन्ते । न च तावता मिथ्यात्वमेषां नास्ति । तथापदादन्यपि ॥

यो हि प्रकृत्तिप्रत्ययपदवर्णानां सङ्केतद्वरेणान्योपायानां मिथ्याभूतलिप्यक्षरकल्पानां स्वयमपिस्वसङ्केतेन वाक्यार्थप्रतिपत्युपायमनेकधानिर्मायव्यवहरमाणः सत्यत्वमेषां मन्यते, नूनमसावभ्रे चन्द्रासन्दिदृश्यमाणः चन्द्रदर्शनोपायभूतमभ्रमपि चन्द्रत्वेन प्रतिपद्यत इति ॥

यथा च वाक्यमेव सत्यं, तथा वाक्यार्थस्यैव सत्यत्वं, न पदानि, पदार्था वा केवलाः, सत्यत्वमुपयान्ति । सर्वमेवसामान्याविशेषात्मकं वस्तु । न हि सामान्यव्यावृत्तो विशेष:, विशेषव्यावृत्तं वा सामान्यमस्ति । गौरियुक्ते अस्तीति गम्यते । तेन केवलपदप्रयोगेऽप्यन्तर्नीतपदान्तरार्थो वाक्यार्थ एव प्रतीयते, न केवलपदार्थ: ॥

एवं च सति

पदार्था गमयन्त्येतं प्रत्येकं संशये सति ॥

सामस्ये निर्णयोत्पदात्स्थाणुर्मूर्धस्थकाकवत् ॥

इत्यसिद्धमस्माकम् । न हि स्थाणुर्नाम वाक्यार्थः पृथक्पदार्थवेनप्रसिद्धः । यस्मात्वृक्षः सन्स्थाणुः सन्मूर्धा सन्काकः सन्मूर्धनि स्थाणोः इत्यन्तर्नीतप्रतीयमानपदान्तरास्थानपेक्षयां स्थाणुमूर्धत्थकाकबुद्धिरेवनस्यात् । सत्स्वपि तेषु सद्बुद्धिसमुत्पतेः सत्पदार्थान्तरबुद्धिरवश्यम्भाविनी ॥

तस्मात्वाक्यार्थ एव प्रत्येकमपि संशयात्मक इति कुतः पदार्थाः प्रत्येकमसन्तो वाक्यार्थं गमयेयुः । तस्मादेवमयं श्लोकः पठितव्यः—

वाक्यं तु गमयत्येनं प्रत्येकं संशये सति ॥

सामस्ये निर्णयोत्पादात्स्थाणुमूर्धस्थकाकवत् ॥

एवम्—

वाक्येनैवोच्यते तस्माद्वाक्यार्थोऽन्यैररूपणात् ।

अन्ते चास्तीति बोधाच्च वृक्षेणैव च वृक्षता ॥

यत्तु पलाशशब्देन वृक्षता नोच्यते इति, सस्यमेवमेतत् । न हि पलाशवाक्येन वृक्षवाक्यार्थस्याभिधानम् । भिन्नविषयत्वात् । अन्यो हि पलाशवाक्यार्थैः पलाशोऽस्ति तिष्ठतीति वा । अन्योवृक्षवाक्यार्थः । यदा च पदवणीनां निरवयवानां पृथगस्तित्वमभ्युपगम्यते, तदा निरवयववर्णपदोपादानं वाक्यं सावयवं कथमवकल्पेत । न हि क्रियाकाशादिभिः सावयवं शक्यमारब्धुम् । अथ सावयवत्वमभ्युपायिष्यते, तत्रापि दोष एव प्रसज्येत ॥

सद्भावेपदवर्णानां भेदीयः परमाणुवत् ।

सर्वा भावस्ततश्चेति सेयं बालविभीषिका ॥

परमाणूनां सत्वादिधर्ममात्रत्वाभ्युपगमत्विवृत्यसुष्ठुभाषामहे – सेयं वृद्धविभीषकेति ॥

अथ केवलपदप्रयेगे पदार्थान्तरस्यापि सङ्ग्रहात्किमनेकपदप्रयोगेणेति चेत्, नियमार्थोऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानां क्रियाववचनात्साधनानि विद्यन्त इत्यर्थप्राप्तानां नियमः, चैत्र एव कर्ता, अग्निनैव करणेन, तण्डुलानेव कर्म, इति ॥

अपि च नियमार्थमात्रे(मन्तरे)णानुवादः । दृष्टं च वाक्यार्थे केवलं पदम् । यथा श्रोत्रियः छन्दोऽधीते इति । साधनवचनमेव केवलश्रोत्रियपदं छन्दोऽधीते इत्यस्मिन्क्रियासाधनसमुदाये वर्तते । तथा जीवति इति क्रियापदमाक्षिप्तक्रियासाधनविशेषम् । (छत्रं) छन्दोऽधीते, प्राणान्धारयति, इति वाक्ये श्रेत्रियो जीवतीति च पदार्थाभिव्यक्तिः । सर्वथा सर्वपदेषु वाक्यशक्तिरित्यङ्गीकृतपदान्तरार्थान्येव सर्वाणि पदानी इत्येतदुच्यते ॥

तस्मात् क्वचित् क्रियापदेनैव साधनमुपक्षिप्तम् । क्वचिच्च नामपदेनैव क्रिया अभिहिता । तस्मात्तेषां विभागो दुरवबोध इति । ततः वाक्यात् प्रविभज्य [पदं] व्याकरणीयं क्रियावाचकं वा जीवतीत्यादि, कारकवाचकं वा श्रोत्रियः क्षत्रियः इत्यादि ॥

अन्यथा यदि वाक्यात्प्रविभज्यनव्याक्रियेत, तदा ततो भवत्यश्वोऽजापयः इत्येवमादिषु नामाख्यातसारूप्यादनिर्ज्ञातं कथं क्रियायां कारके वा व्या[क्रि]प्रियेत । भवति निधेहीति सर्वनाम्नः शत्रन्तस्य वासप्तम्यां रूपम् । भवति बीजादङ्कुर इत्याख्यातम् ॥

अश्वश्चरतीति जातिवाचकम् । अश्चस्त्वं ग्राममित्यश्वयतेर्लुङन्तस्य मध्यमपुरुषैकवचनान्तस्य प्रयोगः । अजापयः पीयतामितिनामपदम् । अजापयस्त्वं राजानमिति जपतोर्णिजन्तस्य लङ्मध्यमपुरुषैकवचनान्तस्य रूपम् ॥ तेषां शब्दार्थप्रत्ययानां प्रविभागः। तद्यथा श्वेतते प्रासाद इति क्रियार्थः, श्वेतः प्रासाद इति कारकार्थः शब्दः, क्रियाकारकात्मा तदर्थः प्रत्ययश्च। कस्मात्। सोऽयमित्यभिसम्बन्धादेकाकार एव प्रत्ययः सङ्केत इति। विवरणम् विवरणम्

तेषां शब्दार्थप्रत्ययानां सङ्करं प्रदर्श्य विभागः प्रतिपाद्यते–श्वेतते प्रासाद इति क्रियार्थः । श्वेतः प्रासाद इति कारकार्थः । क्रियाकारकत्वाद्वस्तुनः श्वेततेश्रेत इति च क्रियार्थे न चकारकार्थेन चाभिधानम् ॥

यथा शब्दः क्रियाकारकात्मा, यः श्वेतः स श्वेततेयः श्वेततेसश्वेतः इत्येवं क्रियाकारकाव्यतिरिक्तः एकः शब्दः, तथा अर्थः तद्वाच्यः क्रियाकारकात्मा । तथा तद्विषयः प्रत्ययः क्रियाकारकात्मा । तथा अर्थः शब्दप्रत्ययात्मा । प्रत्ययोऽपि शब्दार्थात्मा । कस्मात्? सोऽयमित्यभिसम्बन्धात् । योऽर्थः स शब्दः, यः शब्दः सोऽर्थः प्रत्ययश्च, यः प्रत्ययः सोऽर्थः शब्दश्च, इत्येवम् अभेदाकारप्रत्ययः स्मृत्यात्मा सङ्केतः इति । एवं सङ्कररूपतः प्रविभागः कार्यः ॥ यस्तु श्वेतोऽर्थः स शब्दप्रत्यययोरालम्बनीभूतः। स हि स्वाभिरवस्थाभिर्विक्रियमाणो न शब्दसहगतो न बुद्धिसहगतः। एवं शब्द एवं प्रत्ययो नेतरेतरसहगत इत्यन्यथा शब्दोऽन्यथाऽर्थोऽन्यथा प्रत्यय इति विभागः। एवं तत्प्रविभागसंयमाद्योगिनः सर्वभूतरुतज्ञानं सम्पद्यत इति ॥ १७ ॥ विवरणम् विवरणम्

कथम्? यस्तु श्वेतोऽर्थः श्वेतगुणः प्रासादादिरर्थः स शब्दप्रत्यययोः आलम्बनीभूतः वाच्यत्वेनविषयत्वेन च । स हि स्वाभिरवस्थाभिः नवपुराणत्वादिभिः विक्रयमाणः नशब्दसहगतो न अपि बुद्धिसहगतः । शब्दप्रत्ययाभावेऽपि भावात् । एवं प्रत्ययः नशब्दसहगतोनाप्यर्थसहगतः । इतराभावेऽपि भावात् । तथाशब्दःअपि, अर्थप्रत्ययव्यभिचारात् इति एवम् अन्यथा अर्थः अन्यथाशब्दः अन्यथाप्रत्ययः इतिप्रविभागः । एवं च [तत्] प्रविभागसंयमात् इदं वर्णैः सङ्केतितैः वाक्यात्मकम् ‘अभिव्यज्यमानम्’ ‘अयमर्थ: प्रत्ययश्वायम्’ इति प्रविभागेन संयमात्प्रविभक्तपदपदार्थप्रत्ययानां स्वेन रूपेण साक्षात्करणात् योगिनः सर्वभूतरुतज्ञानं सम्पद्यत ॥ १७ ॥ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ १८ ॥ द्वये खल्वमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपा विपाकहेतवो धर्माधर्मरूपाः। ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्मवदपरिदृष्टाश्चित्तधर्माः। तेषु संयमः संस्कारसाक्षात्क्रियायै समर्थः। न च देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणम्। तदित्थं संस्कारसाक्षात्करणात्पूर्वजातिज्ञानपुत्पद्यते योगिनः। परत्राप्येवमेव संस्कारसाक्षात्करणात्परजाति-संवेदनम्। विवरणम् विवरणम्

संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् । द्वये खल्वमी संस्काराः वासनाऽभिधानाः परिदृष्टाः अपरिदृष्टाश्च स्मृतिक्लेशहेतवः । परिदृष्टाः (उभयेऽपि) क्लेशकर्मविपाकानुभवनिर्वर्तिताः चित्तधर्माः धर्माधर्मरूपाः धर्माधर्मनिमित्ताः पूर्वभवाभिसंस्कृताः (ता) अतिक्रान्तानन्तजन्मनिष्पादिताः परिणामचेष्टानिरोधशक्तिजीवनधर्माः पूर्वव्याख्याताः अपरिदृष्टाः । तेषु द्वयेषु संस्कारेषु संयमः क्रियमाणः संस्कारसाक्षात्क्रियायै समर्थः भवति ॥

ते च देशकालनिमित्तानुभवविशिष्टतया निर्वर्तितत्वात्साक्षात्करणकालेऽपि देशादिविशोषणाविशिष्टा एव प्रत्यक्षीभवन्ति। तस्मात् न च (ते) देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणम् ॥

तदित्थं संस्कारसाक्षात्करणात् पूर्वजातिज्ञानमुत्पद्यते योगिनः । परत्रापि प्राणिषु एवमेव येषां जातिं बुभुत्सते तदीयसंस्कारेषु संयमात् [संस्कारसाक्षात्करणात्] तत्पूर्वजातिज्ञानमुत्पद्यते ॥ अत्रेदमाख्यानं श्रूयते – भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणाद्दशसु महासर्गेषु जन्मपरिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभूत्। अथ भगवानावट्यस्तनुधरस्तमुवाच – दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसम्भवं दुःखं सम्पश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन सुखदुःखयोः किमधिकमुपलब्धमिति। भगवन्तमावट्यं जैगीषव्य उवाच – दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवं दुःखं सम्पश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन यत्किञ्चिदनुभूतं तत्सर्वं दुःखमेव प्रत्यवैमि। भगवानावट्य उवाच - यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च सन्तोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति। भगवाञ्जैगीषव्य उवाच – विषयसुखापेक्षयैवेदमनुत्तमं सन्तोषसुखमुक्तम्। कैवल्यसुखापेक्षया दुःखमेव। बुद्धिसत्त्वस्यायं धर्मस्त्रिगुणस्त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति। दुःखरूपस्तृष्णातन्तुः। तृष्णादुःखसन्तापापगमात्तु प्रसन्नमबाधं सर्वानुकूलं सुखमिदमुक्तमिति ॥ १८ ॥ विवरणम् विवरणम्

तत्र संस्कारसाक्षात्करणफलव्यञ्जनार्थम् इदमाख्यानमुपक्षिप्यते—भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणात् दशसु महासर्गेषु जन्मपरिणामम् अनुपश्यतो विवेकजं वैराग्यानिमित्तं ज्ञानं प्रादुरभूत् ॥

अथभगवान् आवटयः तन्त्रधरः तमुवाच – दशसु महासर्गेषु [भव्यत्वात्] अनभिभूतबुद्धिसत्वेन त्वया नरकतिर्यग्गमनदुःखमनुपश्यता देवमनुष्येषु पुनः पुनः उत्पद्यमानेन सुखदुःखयोः किमुपलब्धमधिकमिति ॥

भगवन्तमावष्ट्यञ्जैगीषव्यउवाच–दशसु महासर्गेषु भव्यत्वात् अनभिभूतबुद्धिसत्वेन मया नरकतिर्यग्गमनमनुपश्यता देवमनुष्येषु पुनः पुनः उत्पद्यमानेन यत्किञ्चित् अनुभूतं तत्सर्वं दुःखमिति [दुःखमेव] प्रत्यवैमि ॥

भगवानावट्य उवाच – यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च सन्तोषसुखं [किमिदमपि दु:खपक्षे निक्षितमिति । भगवान् जैगीषव्य उवाच—विषयसुखापेक्षयैवेदमनुत्तमं सन्तोषसुखं [प्रधानवशित्वसुखं च] उत्तम् । कैवल्यसुखापेक्षया दुःखमेव । बुद्धिसत्त्वस्यायं धर्मः त्रिगुणः ॥ ] ‘त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति । किमपेक्षया पुनरेतद्द्वयं सुखं भवतीत्याह – दुःखरूपस्तृष्णातन्तुः । तृष्णासन्तानदुःखोपशमरूपं तु प्रसन्नमनाबाधं सर्वानुकूलं सुखमिदमुक्तं सन्तोषसुखं प्रधानजयसुखं च ॥ १८ ॥ प्रत्ययस्य परचित्तज्ञानम् ॥ १९ ॥ प्रत्यये संयमात्प्रत्ययस्य साक्षात्करणात्ततः परचित्तज्ञानम् ॥ १९ ॥ विवरणम् विवरणम्

प्रत्ययस्य पराचित्तज्ञानम् । परप्रत्यये संयमात् परप्रत्ययस्य साक्षात्करणम् । तत्साक्षात्करणे तत्सम्बन्धिनः परचित्तस्य ज्ञानं भवति ॥ १९ ॥ न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ २० ॥ रक्तं प्रत्यय जानात्यमुष्मिन्नालम्बने रक्तमिति न जानाति। परप्रत्ययस्य यदालम्बनं तद्योगिचित्तेन नाऽऽलम्बनीकृतं परप्रत्ययमात्रं तु योगिचित्तस्याऽऽलम्बनीभूतमिति ॥ २० ॥ विवरणम् विवरणम्

तत्र परप्रत्ययसाक्षात्करणात्तद्दु:खे दु:खित्वं, तत्सुखे सुखित्वं च प्राप्नोतीत्याशङ्क्याह-न च सालम्बनं तस्य अविषयीभूतत्वात् । रक्तं प्रत्ययं जानाति योगी । परस्य अमुष्मिन् आलम्बने रक्तः प्रत्यय इति न जानाति । परप्रत्ययस्य यदालम्बनं सुखरूर्षदुःखरूपं वा, येनसुखी दुःखी वा भवेत् ॥

ननु चालम्बनमसञ्जानानः कथममुष्मिन्नक्त इति सञ्जानीत इति? उच्यते – रक्तममुष्मिन्निति सामान्यं विजानाति । न पुनः सुखविशेषं सुखिनः प्रत्ययस्यालम्बनीभूतमालम्बते । परप्रत्ययमात्रं तु योगिचित्तस्यालम्बनीभूतम् ॥ २० ॥ कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासम्प्रयोगेऽन्तर्धानम् ॥ २१ ॥ कायस्य रूपे संयमाद्रूपस्य या ग्राह्या शक्तिस्तां प्रतिष्टभ्राति। ग्राह्यशक्तिस्तम्भे सति चक्षुष्प्रकाशासम्प्रयोगेऽन्तर्धानमुत्पद्यते योगिनः। एतेन शब्दाद्यन्तर्धानमुक्तं वेदितव्यम् ॥ २१ ॥ विवरणम् विवरणम्

कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासम्प्रयोगे अन्तधानम् । यागिन आत्मीयस्य कायस्य रूपं कायरूपम् । तस्मिन् रूपे संयमात् तस्य रूपस्य या परचक्षुग्रह्मा शक्तिः तां प्रतिबध्नाति निरुणद्धि । ततः परेषां चक्षुःप्रकाशो योगिकायरूपेण न सम्प्रयुज्यते । ततश्च अन्तर्धानम् । एतेन शब्दाद्यन्तर्धानमुक्तम् । योगिशब्दस्य या ग्राह्यशक्तिः तस्यां संयमे सति या शब्दस्य ग्राह्यशक्तिः सा प्रतिष्टभ्यते । तेन योगिशन्दन्नपरः शृणोति । तथास्पर्शादिष्वपि द्रष्टव्यम् ॥ २१ ॥ सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ २२ ॥ आयुर्विपाकं कर्म द्विविधं सोपक्रमं निरुपक्रमं च। तत्र यथाऽऽर्द्रं वस्त्रं वितानितं लघीयसा कालेन शुष्येत्तथा सोपक्रमम्। यथा च तदेव सम्पिण्डितं चिरेण संशुष्येदेवं निरुपक्रमम्। यथा वाऽग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तः क्षेपीयसा कालेन दहेत्तथा सोपक्रमम्। यथा वा स एवाग्निस्तृणराशौ क्रमशोऽवयवेषु न्यस्तश्चिरेण दहेत्तथा निरुपक्रमम्। तदैकभविकमायुष्करं कर्म द्विविधं सोपक्रमं निरुपक्रमं च। तत्संयमादपरान्तस्य प्रायणस्य ज्ञानम्। विवरणम् विवरणम्

सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमारिष्टेभ्यो वा । आयुर्विपाकं कर्म द्विधा । कथम्? त्वरितं निमित्तमादाय फलप्रदं सोपक्रमम् उच्यते । यत्तु मन्दप्रसरं चिरेण फलं दास्यति तत् निरुपक्रमम् ॥

यथा आर्द्रं वस्त्रं वितानितं विस्तारितं क्षेपीयसा क्षिप्रतेरण कालेन शुष्येत्, तथा सोपक्रमं कर्म क्षिप्रमायुर्विपाकं कृत्वा क्षीयते ॥

तदेव वस्त्रं सम्पिण्डितम् अवितानितं चिरेण शुष्येदेवं निरुपक्रमं चिरेण आयुः करोति ॥

यथा वा अग्निः शुष्के कक्षे युक्तवाते अनुकूलमातरिश्वनि समन्ततो नियुक्तः क्षेपीयसा कालेन दहेत्, तथा सोपक्रमं कर्मक्षेपीयसा कालेन आयुर्धक्ष्यति ॥

स एवाग्निः तृणराशौ क्रमेण न्यस्तश्चिरेण दहेत्, तथा निरुपक्रर्मकर्म ॥

तदेतत् द्विविधम् ऐकभविकमायुष्करं कर्म । तत्संयमादपरान्तज्ञानम् । अपरान्तस्य प्रायणस्य आत्मीयस्य ज्ञानम् । तथा परकीयद्विविधकर्मसंयमात्परप्रायणज्ञानमपि भवति । प्रायणज्ञाने च प्रयोजनं पुरुषकर्तव्यतां प्रति समीहनम् ॥ अरिष्टेभ्यो वेति। त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमाधिदैविकं चेति। तत्राऽऽध्यात्मिकं घोषं स्वदेहे पिहितकर्णो न शृणोति, ज्योतिर्वा नेत्रेऽवष्टब्धे न पश्यति। तथाऽऽधिभौतिकं यमपुरुषान्पश्यति, पितॄनतीतानकस्मात्पश्यति। तथाऽऽधिदैविकं स्वर्गमकस्मात्सिद्धान्वा पश्यति। विपरीतं वा सर्वमिति। अनेन वा जानात्यपरान्तमुपस्थितमिति ॥ २२ ॥ विवरणम् विवरणम्

अरिष्टेभ्यो वा प्रायणज्ञानम् । त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमाधिदैविकं च । तत्राध्यात्मिकस्योदाहरणम्–घोषं स्वदेहे पिहितकर्णौ न शृणोति । ज्योतिर्वा नेत्रेऽवष्टब्धेन पश्यति ॥

तथा आधिभौतिकं–यमपुरुषान्पश्यति । पितॄनतीतानागतानकस्माद्वेत्ति । अधिदैविकम्—अकस्मादेव सिद्धादीन्पश्यति । विपरीतं वा सर्वं पश्यति करोति च । तत्रारिष्टमिति लौकिकी वाचायुतिः । एवं ह्याह–विपरीतदर्शनं ममासीदरिष्टाम्मति ॥ २३ ॥ मैत्र्यादिषु बलानि ॥ २३ ॥ मैत्री करुणा मुदितेति तिस्रो भावनास्तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीबलं लभते। दुःखितेषु करुणां भावयित्वा करुणाबलं लभते। पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते। भावनातः समाधिर्यः स संयमस्ततो बलान्यवन्ध्यवीर्याणि जायन्ते। पापशीलेषूपेक्षा न तु भावना। ततश्च तस्यां नास्ति समाधिरित्यतो न बलमुपेक्षातस्तत्र संयमाभावादिति ॥ २३ ॥ विवरणम् विवरणम्

मैत्र्यादिषु बलानि । मैत्रीकरुणामुदितेति तिस्रो भावनाः । तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीबलं लभते । दु:खितेषु करुणां भावयित्वा करुणाबलं लभते । पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते ॥

भावनातः मैत्र्यादिभावनातः समाधिर्यः सञ्जायते स, संयमः मैत्र्यादिभावनास्थैर्यनिमित्तः । ततः संयमात् मैत्र्यादिगतात् योगिनो बलान्यवन्ध्यवर्याणि जायन्ते ॥

पापशीलेषु तु अस्य उपेक्षा, न तु भावना ॥ ततश्च भावनाया अभावात् तस्याम् उपेक्षायां नास्ति समाधिरित्यतो न बलमुपेक्षातः । तत्र संयमाभावादिति ॥ २३ ॥ बलेषु हस्तिबलादीनि ॥ २४ ॥ हस्तिबले संयमाद्धस्तिबलो भवति। वैनतेयबले संयमाद्वैनतेयबलो भवति। वायुबले संयमाद्वायुबलो भवतीत्येवमादि ॥ २४ ॥ विवरणम् विवरणम्

बलेषु हस्तिबलादीनि । एतैर्मैत्र्यादिनिमित्तैर्बलैर्बलवान्योगीहस्त्यादीनबलेषु संयमङ्कृत्वाहस्त्यादिबलो भवति ॥ २४ ॥ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ २५ ॥ ज्योतिष्मती प्रवृत्तिरुक्ता मनसस्तस्या य आलोकस्तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वाऽर्थे विन्यस्य तमर्थमधिगच्छति ॥ २५ ॥ विवरणम् विवरणम्

प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् । या असौ ज्योतिष्मती प्रवृत्तिरुक्ता, तस्यां प्रकाशः आलोकः तं प्रकाशं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वा अर्थे विन्यस्य स्थापयत्वा तमधिगच्छति ॥ २५ ॥ भुवनज्ञानं सूर्ये संयमात् ॥ २६ ॥ तत्प्रस्तारः सप्त लोकाः। तत्रावीचेः प्रभृति मेरुपृष्ठं यावदित्येवं भूर्लोकः। मेरुपृष्ठादारभ्य आध्रुवाद्ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः। ततः परः स्वर्लोकः पञ्चविधो माहेन्द्रस्तृतीयो लोकः। चतुर्थः प्राजापत्यो महर्लोकः। त्रिविधो ब्राह्मः। तद्यथा – जनलोकस्तपोलोकः सत्यलोक इति। ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान्। माहेन्द्रश्च स्वरित्युक्तो दिवि तारा भुवि प्रजाः ॥ इति सङ्ग्रहश्लोकः। विवरणम् विवरणम्

भुवनज्ञानं सूर्ये संयमात् । सूर्ये संयमं कृत्वा समस्तं भुवनप्रस्तारं प्रत्यक्षाकुर्वीत । भाष्यं तु गतार्थं, सर्वपुराणप्रसिद्धत्वात ॥ २६ ॥ तत्रावीचेरुपर्युपरि निविष्टाः षण्महानरकभूमयो घनसलिलानलानिलाकाशतमःप्रतिष्ठा महाकालाम्बरीषरौरवमहारौरवमहारौरवकालसूत्रान्धतामिस्राः। यत्र स्वकर्मोपार्जितदुःखवेदनाः प्राणिनः कष्टमायुर्दीर्घमाक्षिप्य जायन्ते। ततो महातलरसातलातलसुतलवितलतलातलपातालाख्यानि सप्त पातालानि। भूमिरियमष्टमी सप्तद्वीपा वसुमती, यस्याः सुमेरुर्मध्ये पर्वतराजः काञ्चनः। तस्य राजतवैदूर्यस्फटिकहेममणिमयानि शृङ्गाणि। तत्र वैदूर्यप्रभानुरागान्नीलोत्पलपत्रश्यामो नभसो दक्षिणो भागः, श्वेतः पूर्वः, स्वच्छः पश्चिमः, कुरण्टकाभ उत्तरः। दक्षिणपार्श्वे चास्य जम्बूर्यतोऽयं जम्बूद्वीपः। तस्य सूर्यप्रचाराद्रात्रिं दिवं लग्नमिव वर्तते। तस्य नीलश्वेतशृङ्गवन्त उदीचीनास्त्रयः पर्वता द्विसाहस्रायामाः। तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि रमणकं हिरण्मयमुत्तराः कुरव इति। निषधहेमकूटहिमशैला दक्षिणतो द्विसाहस्रायामाः। तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि हरिवर्ष किम्पुरुषं भारतमिति। सुमेरोः प्राचीना भद्राश्वमाल्यवत्सीमानः प्रतीचीनाः केतुमाला गन्धमादनसीमानः। मध्ये वर्षमिलावृतम्। तदेतद्योजनशतसाहस्रं सुमेरोर्दिशि दिशि तदर्धेन व्यूढम्। स खल्वयं शतसाहस्रायामो जम्बूद्वीपस्ततो द्विगुणेन लवणोदधिना वलयाकृतिना वेष्टितः। ततश्च द्विगुणा द्विगुणाः शाककुशक्रौञ्चशाल्मलगोमेध(प्लक्ष)पुष्करद्वीपाः, समुद्राश्च सर्षपराशिकल्पाः सविचित्रशैलावतंसा इक्षुरससुरासर्पिर्दधिमण्डक्षीरस्वादूदकाः। सप्त समुद्रपरिवेष्टिता वलयाकृतयो लोकालोकपर्वतपरिवाराः पञ्चाशद्योजनकोटिपरिसङ्ख्याताः। तदेतत्सर्वं सुप्रतिष्ठितसंस्थानमण्डमध्ये व्यूढम्। अण्डं च प्रधानस्याणुरयवयवो यथाऽऽकाशे खद्योत इति। तत्र पाताले जलधौ पर्वतेष्वेतेषु देवनिकाया असुरगन्धर्वकिन्नरकिम्पुरुषयक्षराक्षसभूतप्रेत-पिशाचापस्मारकाप्सरोब्रह्मराक्षसकूष्माण्डविनायकाः प्रतिवसन्ति। सर्वेषु द्वीपेषु पुण्यात्मानो देवमनुष्याः। सुमेरुस्त्रिदशानामुद्यानभूमिः। तत्र मिश्रवनं नन्दनं चैत्ररथं सुमानसमित्युद्यानानि। सुधर्मा देवसभा। सुदर्शनं पुरम्। वैजयन्तः प्रासादः। ग्रहनक्षत्रतारकास्तु ध्रुवे निबद्धा वायुविक्षेपनियमेनोपलक्षितप्रचाराः सुमेरोरुपर्युपरि सन्निविष्टा दिवि विपरिवर्तन्ते। माहेन्द्रनिवासिनः षड्देवनिकायाः - त्रिदशा अग्निष्वात्ता याम्यास्तुषिता अपरिनिर्मितवशवर्तिनः परिनिर्मितवशवर्तिनश्चेति। सर्वे सङ्कल्पसिद्धा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः कामभोगिन औपपादिकदेहा उत्तमानुकूलाभिरप्सरोभिः कृतपरिचाराः। महति लोके प्राजापत्ये पञ्चविधो देवनिकायः – कुमुदा ऋभवः प्रतर्दना अञ्जनाभाः प्रचिताभा इति। एते महाभूतवशिनो ध्यानाहाराः कल्पसहस्रायुषः। प्रथमे ब्रह्मणो जनलोके चतुर्विधो देवनिकायो ब्रह्मपुरोहिता ब्रह्मकायिका ब्रह्ममहाकायिका अमरा इति। ते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्तरायुषः। द्वितीये तपसि लोके त्रिविधो देवनिकायः – आभास्वरा महाभास्वराः सत्यमहाभास्वरा इति। ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्विगुणोत्तरायुषः सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वमप्रतिहतज्ञाना अधरभूमिष्वनावृतज्ञानविषयाः। तृतीये ब्रह्मणः सत्यलोके चत्वारो देवनिकाया अकृतभवनन्यासाः स्वप्रतिष्ठा उपर्युपरिस्थिताः प्रधानवशिनो यावत्सर्गायुषः। तत्राच्युताः सवितर्कध्यानसुखाः, शुद्धनिवासाः सविचारध्यानसुखाः, सत्याभा आनन्दमात्रध्यानसुखाः, सञ्ज्ञासञ्ज्ञिनश्चास्मितामात्रध्यानसुखाः। तेऽपि त्रैलाक्यमध्ये प्रतितिष्ठन्ति। त एते सप्त लोकाः सर्व एव ब्रह्मलोकाः। विदेहप्रकृतिलयास्तु मोक्षपदे वर्तन्त इति न लोकमध्ये न्यस्ता इति। एतद्योगिना साक्षात्करणीयं सूर्यद्वारे संयमं कृत्वा, ततोऽन्यत्रापि एवं तावदभ्यसेद्यावदिदं सर्व दृष्टमिति ॥ २६ ॥ चन्द्रे ताराव्यूहज्ञानम् ॥ २७ ॥ चन्द्रे संयमं कृत्वा ताराणां व्यूहं विजानीयात् ॥ २७ ॥ विवरणम् विवरणम्

चन्द्रे ताराव्यूहज्ञानम्। सूर्ये संयमनाद्भुवनप्रस्तारं विदित्वा, तदनन्तरं चन्द्रे संयमं कृत्वा ताराणां व्यूहं विजानीयात् । सूर्यसेयमाद्भुवनप्रस्तारमात्रं प्रज्ञातम्—एवं प्रस्तीर्णाः लोकानद्यः समुद्रागिरयश्चेति । न तु तारा इत्थं व्यूहता अनेन सम्बद्धा इति । चन्द्रसंयमात्तु ताराव्यूहप्रकारावगतिरिति ॥ २७ ॥ ध्रुवे तद्गतिज्ञानम् ॥ २८ ॥ ततो ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात्। ऊर्ध्वं विमानेषु कृतसंयमस्तानि विजानीयात् ॥ २८ ॥ विवरणम् विवरणम्

ध्रुवे तद्गतिज्ञानम् । ततश्च समनन्तरं ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात्-अनेन प्रकोरण सञ्चरमाणा अनेन विशिष्टा इति । अस्मिन्कालेऽनेन ग्रहेण अयं ग्रहो विरुध्यते, इत्थमस्तमयः । इत्थमुदयः, तद्द्वारेणप्राणभृतां शुभमशुभे चेत्यादिवि जानीयात् ॥

एवमन्येषु चोर्ध्वं विमानेषु संयमं कृत्वा तानि विमानानीत्थम्प्रकाराण्येवङ्गतानात्येवमादिसर्वं विजानीयात् ॥ २८ ॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ २९ ॥ नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात्। वातपित्त श्लेष्माणस्त्रयो दोषाः। धातवः सप्त त्वग्लोहितमांसस्नाय्वस्थिमज्जाशुक्राणि। पूर्वं पूर्वमेषां बाह्यमित्येष विन्यासः ॥ २९ ॥ विवरणम् विवरणम्

नाभिचक्रे कायव्यूहज्ञानम् । नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात् । वातपित्तश्लेष्माणस्त्रयो दोषाः एतावत्प्रमाणा एतत्प्रतिष्ठा इत्यादि ज्ञेयम् ॥

तथा धातवः सप्त बाह्याभ्यन्तरभावेनावस्थिताः । (रसः) त्वग्बाह्या सर्वेषाम् । ततोऽभ्यन्तरं लोहितं, ततो मांसं, ततोऽस्थि, ततो मेदः, ततो मज्जा, ततः शुक्लं सर्वाभ्यन्तरमित्येवं पूर्वं पूर्वमेषां बाह्यम् इत्येष विन्यासः । तथा नाडीनां चव्यूहविजानीयात् ॥ २९ ॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥ जिह्वाया अधस्तात्तन्तुस्तन्तोरधस्तात्कण्ठस्ततोऽधस्तात्कूपस्तत्र संयमात्क्षुत्पिपासे न बाधेते ॥ ३० ॥ विवरणम् विवरणम्

कण्ठकूपे क्षुत्पिपासानिवृत्तिः । जिह्वाया अधस्तात्तन्तुः उन्नामिकायां जिह्वायां दृश्यते । तन्तोरधस्तात् कण्ठः । ततोऽधस्तात् कूपः । तत्र संयमात् क्षुत्पिपासे न प्रतिबाधेते ॥ ३० ॥ कूर्मनाड्यां स्थैर्यम् ॥ ३१ ॥ कूपादध उरसि कूर्माकारा नाडी, तस्यां कृतसंयमः स्थिरपदं लभते। यथा सर्पो गोधा वेति ॥ ३१ ॥ विवरणम् विवरणम्

कूपस्याधस्तादुरसि कूर्मा नाम नाडी । तस्यां कृतसंयमः स्थिरपदं लभते चित्तस्थैर्यं लभते । यथा सर्पो गोधा वा धारणादुरसा अत्यन्तं स्थिरीभवति ॥ ३१ ॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३२ ॥ शिरःकपालेऽन्तश्छिद्रं प्रभास्वरं ज्योतिस्तत्र संयमं कृत्वा सिद्धानां द्यावापृथिव्योरन्तरालचारिणां दर्शनम् ॥ ३२ ॥ विवरणम् विवरणम्

शिरःकपालेऽन्तश्छिद्रं प्रभास्वरत्वात् ज्योतिः इत्युच्यते , तत्र संयमात् सिद्धानां द्यावापृथिव्योरन्तरालचारिणां दर्शनं भवति ॥ ३२ ॥ प्रातिभाद्वा सर्वम् ॥ ३३ ॥ प्रातिभं नाम तारकं तद्विवेकजस्य ज्ञानस्य पूर्वरूपम्। यथोदये प्रभा भास्करस्य। तेन वा सर्वमेव जानाति योगी प्रातिभस्य ज्ञानस्योत्पत्ताविति ॥ ३३ ॥ विवरणम् विवरणम्

आत्मनि संयमं कुर्वतः, ईश्वरं वा अत्यन्तं प्रणिदधानस्य योगिनः प्रातिभं तारकं स्वयमुत्थितं मानसं ज्ञानम्, तत् वक्ष्यमाणलक्षणस्य विवेकजस्य ज्ञानस्य पूर्वरूपम् । यथा उदये प्रभा औषसी किञ्चिदुन्मीलन्ती लोहितायमाना भास्करस्य उज्जिगमिषतः पूर्वरूपम् । तस्मादा सर्वं विजानन्ति योगिनः प्रातिभस्य ज्ञानस्य उत्पादादिति ॥ ३३ ॥ हदये चित्तसंवित् ॥ ३४ ॥ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म तत्र विज्ञानं तस्मिन्संयमाच्चित्तसंवित् ॥ ३४ ॥ विवरणम् विवरणम्

हृदये चित्तसंवित् । यदिदमस्मिन् ब्रह्मपुरे शरीरे दहरम् अल्पं पुण्डरीकं पुण्डरीकाकारोमां स पिण्डोऽधोमुखः, वेश्मवदने कनाडीसुषिरयोगात् वेश्म । तत्र विज्ञानं चित्तं, तस्मिन् उरस्सरो विलग्ननालेप्राणवेश्मनिपुण्डरीके संयमाच्चित्ते सत्त्वे संवित् भवति ॥ ३४ ॥ सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३५ ॥ बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम्। तस्माच्च सत्त्वात्परिणामिनोऽत्यन्तविधर्मा विशुद्धोऽन्यश्चितिमात्ररूपः पुरुषः। तयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य दर्शितविषयत्वात्। स भोगप्रत्ययः सत्त्वस्य परार्थत्वाद्दृश्यः। विवरणम् विवरणम्

सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम् । सत्त्वं चित्तं, पुरुषो भोक्ता, तयोः अत्यन्तासङ्कीर्णयोः अत्यन्तविलक्षणयोरतीवपृथग्भूतयोः वृत्तिसारूप्यं प्रत्ययाविशेषः, स भोगः पुरुषस्य । परार्थात् सत्त्वात् पुरुषप्रत्ययेन सङ्गीणीभासाद्विविच्य स्वार्थे चितिमात्रस्वरूपे संयमात् पुरुषज्ञानं भवति ॥

कीदृशं तत्परार्थं चित्तसत्त्वम्? यतो विविच्य स्वार्थे पुरुषे संयमः क्रियत इति । बुद्धिसत्त्वं प्रख्याशीलं समानं सत्त्वं वस्तुकार्यं पुरुषार्थकर्तव्यतया समवस्थानम् उपनिबन्धनं ययोस्ते समानसत्वोपनिबन्धने रजस्तमसी वशीकृत्य न्यग्भावमापाद्य सत्त्वपुरुषान्यताप्रत्ययेन योगिनः परिणतम् ॥

तस्माच्च सत्त्वात् परिणामिनः त्रिगुणादनित्यादशुद्धात् परार्थादचेतनात् अत्यन्तविधर्मा विशुद्धोऽन्यः अपरिणामी स्वार्थो नित्यः चिन्मात्ररूपः पुरुषः ॥

तयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषोभोगः पुरुषस्य दर्शितविषयत्वात् । स भोगप्रत्ययः । नापरिणामित्वे सति दर्शितविषयत्वादन्यो भोगः सम्भवति । सत्त्वस्य परार्थत्वात् अविशिष्ठीभोगप्रत्ययो दृश्यः पुरुषेण ॥ यस्तु तस्माद्विशिष्टश्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययस्तत्र संयमात्पुरुषविषया प्रज्ञा जायते। न च पुरुषप्रत्ययेन बुद्धिसत्त्वात्मना पुरुषो दृश्यते। पुरुष एव तं प्रत्ययं स्वात्मावलम्बनं पश्यति। तथा ह्युक्तम् - विज्ञातारमरे केन विजानीयात् इति ॥ ३५ ॥ विवरणम् विवरणम्

यस्तु तस्मात् गौणप्रत्ययात् प्रत्ययिनश्च विशिष्टश्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययः, स्वार्थः पुरुष एव परिणामानुपपत्तेः प्रत्ययः । तत्र संयमात् पुरुषविषयाप्रज्ञा जायते ॥

ननु च यदि पुरुषः प्रत्ययस्य विषयीक्रियते, तेन चेत्पुरुषो गृह्यते, परार्थः पुरुषः प्राप्नोति । नैष दोषः । न च पुरुषप्रत्ययेन पुरुषविषयेण प्रत्ययेन बुद्धिसत्त्वात्मना बुद्धिसत्त्वधर्मेण पुरुषो दृश्यते बुद्धेरचेतनत्वात् ॥

पुरुष एव तं प्रत्ययं स्वालम्बनं पुरुषाभासं पश्यति पुरुषाभासत्वमेव प्रत्ययस्य पुरुषालम्बनत्वम् । न प्रत्ययस्य पुरुषालम्बनत्वम् । यथा मुखसन्निधौ दर्पणो मुखाकरेण परिणमते, तथा चित्तं पुरुषाकारेण परिणतं पुरुषाभासं पुरुषेण गृह्यते ॥

तथा चोक्तं – ‘विज्ञातारमरेकेन विजानीयात्’ इति । न कस्यचित्पुरुषः कर्मतां प्रतिपद्यत इत्यर्थः ॥

ननु चक्षुरादर्शतलप्रतिहतं प्रतिनिवृत्य यथा मुखस्य ग्राहकम्, एवं पुरुषोऽपि चित्तसत्त्वप्रतिहतः प्रतिनिवृत्य स्वात्मानं गृह्णीयात् – न – परिणामानुपपत्तेः पुरुषस्य । नह्यपरिणामिनश्चित्तं प्रति प्रवृत्तिः प्रतिनिवृत्तिर्वीसाधिमानमुपानुवीत ॥

न चापि चक्षुः प्रतिनिवृत्य मुखं ग्राहयति । मुखस्य दर्पणमण्डलाधिकरणत्वेन अनुभूयमानत्वात् । न हि स्वमुखं दर्पणाधिकरणस्थम् । किञ्च, आदर्शानुविधानाच । यथा स्वड्गे दीर्धमुखे दृश्यते । न स्वमुखं दीर्धम् । प्रतिहतेन चेदुपलम्येत चक्षुषा निजमुखं, तत्र आदर्शानुविधानमयुक्तम् ॥ ३५ ॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३६ ॥ प्रातिभात्सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम्। श्रावणाद्दिव्यशब्दश्रवणम्। वेदनाद्दिव्य-स्पर्शाधिगमः। आदर्शाद्दिव्यरूपसंवित्। आस्वादाद्दिव्यरससंवित्। वार्तातो दिव्यगन्धविज्ञानमित्येतानि नित्यं जायन्ते ॥ ३६ ॥ विवरणम् विवरणम्

ततः प्रातिभाश्रावणवेदनादर्शस्वादवार्ता जायन्ते । ततः स्वार्थे समाधानात्, प्रातिभात् आत्मसंयमजनिताता मानसात् ज्ञानात्, सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानं सम्पद्यते । श्रावणात् दिव्यशब्दानां श्रवणम् । वेदनात् स्पर्शज्ञानात् सिद्धादीनां स्पर्शं जानाति । आदर्शात् चाक्षुषात् ज्ञानात् दिव्यं रूपम् अवगच्छति । आस्वादात् रसनेन्द्रियज्ञानात् दिवव्यरससंवेदनं भवति । वृत्तौ भवं वार्तं लोकसंव्यवहारज्ञानं, तस्मादेष संव्यवहारतरुवरूपं यथावदधिगच्छति ॥ ३६ ॥ ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३७ ॥ ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गास्तद्दर्शनप्रत्यनीकत्वात्। व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः ॥ ३७ ॥ विवरणम् विवरणम्

ते समाधावुपसर्गाव्युत्थाने सिद्धयः । ते प्रातिभादयः पुरुषे समाहितचित्तस्य उ(स्यसमु)त्पद्यमाना उपसर्गाः पुरुषदर्शनप्रत्यनीकत्वात् । व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः । यद्यपि पुरुषे संयमादुत्पद्यन्ते, तथापि न विरक्तस्य समाहितचित्तस्य जायन्ते ॥ ३७ ॥ बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ ३८ ॥ लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयवशाद्बन्धः प्रतिष्ठेत्यर्थः। तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिबलाद्भवति। प्रचारसंवेदनं च चित्तस्य समाधिजमेव। कर्मबन्धक्षयात्स्वचित्तस्य प्रचारसंवेदनाच्च योगी चित्तं स्वशरीरान्निष्कृष्य शरीरान्तरेषु निक्षिपति। निक्षिप्तं चित्तं चेन्द्रियाण्यनुपतन्ति। यथा मधुकरराजानं मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनुनिविशन्ते तथेन्द्रियाणि परशरीरावेशे चित्तमनुविधीयन्त इति ॥ ३८ ॥ विवरणम् विवरणम्

बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः । लोलीभूतस्य घण्टाभिघाततुल्यस्य देदीप्यमानाङ्गारराशिद्युतिचञ्चलस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयाद्बन्धः प्रतिष्ठेत्यर्थः । शरीरमात्रसङ्कोचावस्थानम् ॥

तस्य बन्धस्य कर्म कारणम् । कारणशैथिल्यं, कर्माशयशिथिलत्वं समाधिबलाद्भवति । प्रचारसंवेदनं च चित्तस्य समाधिजमेव । कर्मबन्धक्षयात् स्वचित्तप्रचारसंवेदनाच्च ‘अस्मिन्निमित्ते हृष्यति मुह्यति लुभ्यति चानेन कारणेन’ इत्येवमादिस्वचित्तसञ्चरणसतत्त्ववेदनाच्च योगी चित्तं स्वशरीरान्निष्कृष्य शरीरान्तरेषु निक्षिपति ॥

चित्तम् अस्य उत्पतत् इन्द्रियाणि अनुत्पतन्ति । तस्मादिन्द्रियवृत्तिलाभात्परशरीरेषु प्राणादिवृत्तय उत्पद्यन्ते । यथा मधुकरराजं मक्षिका उत्पतन्तमनुत्पतन्ति, निविशमानमनुनिविशन्ते, तथेन्द्रियाणि परशरीरावेशे चित्तमनु विधीयन्ते ॥ ३८ ॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३९ ॥ समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनं, तस्य क्रिया पञ्चतयी प्राणो मुखनासिकागतिराहृदयवृत्तिः। समं नयनात्समानश्चाऽऽनाभिवृत्तिः। अपनयनादपान आपादतलवृत्तिः। उन्नयनादुदान आशिरोवृत्तिः। व्यापी व्यान इति। एषां प्रधानं प्राणः। उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च प्रायणकाले भवति। तां वशित्वेन प्रतिपद्यते ॥ ३९ ॥ विवरणम् विवरणम्

उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च । समस्तेन्द्रियवृत्तिः जीवनं सर्वेषामेकादशानामिन्द्रियाणां वर्तनं जीवनम् । यथा पञ्जरगतशकुनिसञ्चलनेन पञ्जरचलनम्, एवम् अशेषकरणानमेकेन सम्मूर्छितेन व्यापारेण येन शरीरं ध्रियते तज्जीवनम् । तस्य जीवनस्य पुरुषार्थकर्तव्यतानियमात् पञ्चतयी क्रिया प्राणापानव्यानोदानसम्मानभेदेन प्रस्तीर्यते ॥

तत्र प्राणो मुखनासिकागातिराहृदयवृत्तिः । समं नयनात्समान: आनाभिवृत्तिः आनाभिदेशं वर्तते । मूत्रपुरीषादीनाम् अपनयनादपानः, स च नाभिप्रभृति आपादतलं वर्तते । ऊर्ध्वं शरीरस्य नयनादुदानः, स च पादतलादारभ्य आमस्तकवृत्तिः । समस्तशरीरव्यापी व्यान इति ॥

एतेषां प्रधानः प्राणः । तज्जयाच्च सर्वेषामपानादीनां तु जयो भवति । तेषां तु जयोपाये विस्तरेण हैरण्यगर्भे व्याख्यातः । इह तु मनोजयानुजितत्वाज्जयोपायोन पृथगभिहितः । प्राणायामजयात्तु जीयन्त एव । नपृथगेषां जयोपायप्रतिपादनमादृष्यमिति फलमात्रमुदानजितेरुच्यते–

उदानजयात् जलपङ्ककण्टकादिषु, आदिना कृपाणधारादिषु असङ्गः । किञ्च, उत्क्रान्तिश्च प्रायणकाले भवति । तां प्रायणकाले भवन्तीमुत्क्रान्तिमुदानजयात् वशीकृत्य स्वतन्त्रतया प्रतिपद्यते ॥ ३९ ॥ समानजयाज्ज्वलनम् ॥ ४० ॥ जितसमानस्तेजस उपध्मानं कृत्वा ज्वलयति ॥ ४० ॥ विवरणम् विवरणम्

समानजयात् ज्वलनम् । जितसमानः तेजस उपध्मानं कृत्वा समानवाय्वाश्रयत्वात् उदानतेजसोः तदुपध्मानर्मकारकस्तावद्येगी । जाठरं ज्वलयति ॥ ४० ॥ श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ४१ ॥ सर्वश्रोत्राणामाकाशं प्रतिष्ठा सर्वशब्दानां च। यथोक्तम् – तुल्यदेशश्रवणानामेकदेशश्रुतित्वं सर्वेषां भवतीति। तच्चैतदाकाशस्य लिङ्गम्। विवरणम् विवरणम्

श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् । कः पुनरसौ सम्बन्धो यत्र संयम इत्याह–सर्वश्रोत्राणामाकाशं प्रतिष्ठा । शब्दानां चाकाशगुणत्वादाकाशमेव प्रतिष्ठा । ग्राह्यं शब्दं प्रतिश्रोत्रस्य व्यवधानाभावः श्रोत्राकाशयोः सम्बन्धः ॥

तथाचोक्तम् - तुल्यदेशश्रवणानाम् । श्रूयतेऽनेनेति श्रवणम् । तुल्यदेशानि श्रवणानि येषां ते तुल्यदेशश्रवणाः । तेषाम् एकश्रुतित्वं सर्वेषां भवति । तदेकस्मिन्नवकाशदायिनिनिरावरणात्मके वस्तुनि सति युज्यते । तच्चैतदाकाशस्य सत्त्वे लिङ्गम् ॥ अनावरणं चोक्तम्। तथाऽमूर्तस्यानावरणदर्शनाद्विभुत्वमपि प्रख्यातमाकाशस्य। शब्दग्रहणानुमितं श्रोत्रम्। बधिराबधिरयोरेकः शब्दं गृह्णात्यपरो न गृह्णातीति। तस्माच्छ्रोत्रमेव शब्दविषयम्। श्रोत्राकाशयोः सम्बन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते ॥ ४१ ॥ विवरणम् विवरणम्

तथा अनावरणात्मकं चोक्तम् । (कुतः) तथा मूर्तस्यान्यत्राकाशात् आकाशविलक्षणस्य घटादेः आवरणदर्शनात् । अतो यस्य मणिवज्रादिमध्येष्वप्यावरणं नास्ति, तदाकाशम् । अत एव विभुत्वमपि प्रख्यातमाकाशस्य ॥

श्रोत्रस्य लिङ्गमाह – शब्दग्रहणानुमितं तु श्रोत्रम् । यस्मात् बधिराबधिरयोरेकः शब्दं गृह्णाति अपरो न गृह्णाति । यन्निमित्तमबधिरस्य शब्दग्रहणमितरस्य चाग्रहणं तच्छ्रोत्रम् । तस्माच्छ्रोत्रमेव शब्दविषयम् । बधिरेणाश्रवणात् । श्रोत्राकाशयोः सम्बन्धे कृतसंयमस्य योगिनः दिव्यं श्रोत्रं प्रवर्तते ॥ ४१ ॥ कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाऽऽकाशगमनम् ॥ ४२ ॥ यत्र कायस्तत्राऽऽकाशं तस्यावकाशदानात्कायस्य तेन सम्बन्धः प्राप्तिस्तत्र कृतसंयमो जित्वा तत्सम्बन्धं लघुषु वा तूलादिष्वा परमाणुभ्यः समापत्तिं लब्ध्वा जितसम्बन्धो लघुर्भवति। लघुत्वाच्च जले पादाभ्यां विहरति। ततस्तूर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति। ततो यथेष्टमाकाशगतिरस्य भवतीति ॥ ४२ ॥ विवरणम् विवरणम्

कायाकाशयोः सम्बन्धसंयमाल्लधुतूलसमापत्तेश्च अकाशगमनम् । यत्र कायः तत्र आकाशम् । तस्य अवकाशदानात् कायस्य अविनाभावलक्षणः सम्बन्धः तेन आकाशेन । तत्र कायाकाशयोः इतरेतराविनाभावप्राप्तिलक्षणसम्बन्धे कृतसंयमो योगी जित्वा तत्सम्बन्धं ततो लघुषु तूलादिषु आ परमाणुभ्यः समापत्तेः जितसम्बन्धः तूलादिवल्लाघवं प्रतिपद्यते ॥

जितकायाकाशसम्बन्धः समापन्न: तुलादितुल्यलाघवशीलनार्थं जले पादाभ्यां विहरति । ततः ऊर्ध्वम् ऊर्णनाभितन्तुमात्रे विहरति । तत्र सञ्जातकोकिलतन्तुसमानलाधवः पुनः रश्मिषु विहरति । ततो मातरिश्वनि । ततो यथेष्टम् आकाशे गतिरस्य भवति ॥ ४२ ॥ बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ ४३ ॥ शरीराद्बहिमर्नसो वृत्तिलाभो विदेहा नाम धारणा। सा यदि शरीरप्रतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति सा कल्पितेत्युच्यते। या तु शरीरनिरपेक्षा वहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्वकल्पिता। तत्र कल्पितया साधयन्त्यकल्पिता महाविदेहामिति। यया परशरीराण्याविशन्ति योगिनः। ततश्च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेशकर्म विपाकत्रयं रजस्तमोशूलं तस्य च क्षयो भवति ॥ ४३ ॥ विवरणम् विवरणम्

बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः । शरीरात् बहिः देशान्तरे विषयविशेषे स्वयमेव समाधिबलात् उपजायते या मनसो वृत्तिः सा महाविदेहा नाम धारणा । सा यदि शरीरप्रतिष्ठस्यैव मनसो वृत्तिमात्रेण बहिः विषये भवति, तदानीं कल्पिता उच्यते । शरीरस्थमनस्सङ्कल्पपूर्वकत्वात् । या तु समाधिबलनिमित्तात् शरीरे बन्धकारणशैथिल्यात् शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः, सा खलु अकल्पिता इत्युच्यते । यथैव कल्पितायां शरीरावधिक एव बहिर्वृत्तिलाभः, एवं नाकाल्पतायां शरीराधिष्ठानावधिसमीक्षा ॥

सा चोभय्यपिविदेहैव बहिरुपकल्पितत्वात् । तत्र या इयमकल्पितामहाविदेहेति समाख्यायते । तत्र कल्पितया साधयन्त्यकल्पितां महाविदेहाम् । कल्पनासंशीलनसाध्यत्वादकल्पितायाः कल्पितया च संसाधयन्ति । यया महाविदेहया परशरीराण्याविशन्ति योगिनः । ततश्च धारणातः महाविदेहातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेशकर्मविपाकत्रयं रजस्तमोमूलं तस्य च क्षयं भवति ॥ ४३ ॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ४४ ॥ तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहाऽऽकारादिभिर्धर्मैः स्थूलशब्देन परिभाषिताः। एतद्भूतानां प्रथमं रूपम्। द्वितीयं रूपं स्वसामान्यं मूर्तिर्भूमिः स्नेहो जलं वह्निरुष्णता वायुः प्रणामी सर्वतोगतिराकाश इत्येतत्स्वरूपशब्देनोच्यते। विवरणम् विवरणम्

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः । स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश्चार्थवत्त्वं चेत्येवमेकैकं भूतं पञ्चात्मकम् । तत्र पार्थिवाः शब्दादयः शब्दस्पर्शरूपरसगन्धाः विशेषाः पञ्चलक्षणतन्मात्रारब्धत्वात्पृथिव्याः । सह अकारादमिः । पृथिव्यास्तावदाकारादयः—

आकारो गौरवं रौक्ष्यं चेरणं स्थैर्यमेव च ।

स्थितिर्भेदः क्षमाकार्ष्ण्यं काठिन्यं सर्वभोग्यता ॥ इति ॥

तथा - स्नेहहप्रभासैक्ष्म्यमार्दवगौरवरक्षापवित्रत्वसन्धानादय औदका गुणाः ॥

तथा – तैजसाः ऊर्ध्वभाक्त्वपावनतादग्धृत्वपाचकत्वलाघवभास्वरत्वादयः ॥

तथा – वायवीयाः तिर्यग्यानपवित्रत्वाक्षेपबलनोदनत्वादयः ॥

तथा – नाभसाः सर्वगत्यव्यूहविष्टम्भाः ॥

तदेतैः आकारादिभिः सहशब्दादयो विशेषाः स्थूलब्देन संव्यवहारार्थं शाखे परिभाषिताः । एवमाप्याश्चत्वारो रसादयो विशेषाः सैक्ष्म्यादिभिः । सह, एवं तैजसारूपादयस्वयो विशेषा ऊर्ध्वभाक्त्वादिभिः सहस्थूला उच्यन्ते । तथा वायवीयाः शब्दस्पर्शतिर्यक्पातादयः स्थूलाविशेषाः । एवमाकाशस्यसर्वगतत्वादयःरथूलाविशेषाः । तत् एतत् भूतानां प्रथमं स्थूलं रूपं उक्तम् ॥

द्वितीयम् अधुना स्वरूपम् उच्यते । तच्च सामान्यं पार्थिवेषु भिन्नेष्वभिन्नमनुगतं मूर्तिरेव भूमिः इति । तथा रसादिष्वाप्येष्वनुगतं सामान्यं स्नेह एव जलम् इति । तथैवाग्नेयेषु रूपादिष्वनुगतं सामान्यं वह्निरुष्णत्वमेव । तथा स्पर्शतिर्यैक्पातादिष्वनुगतं सामान्यं प्रणामित्वमेव वायुः । तथा शब्दादिष्वनुगतम् सामान्यं सर्वतोगतिरेव आकाशः, इत्येतत् स्वरूपशब्देनोक्तं द्वितीयं रूपम् ॥ अस्य सामान्यस्य शब्दादयो विशेषाः। तथा चोक्तम् – एकजातिसमन्वितानामेषां धर्ममात्रव्यावृत्तिरिति। विवरणम् विवरणम्

तस्य सामान्यस्य रूपस्य शब्दादयो विशेषाः । तथा चोक्तम्- एकजातिसमन्वितानां सत्त्वदिगुणसमनुगतानाम् एषां भूतानां पृथिव्यादीनसामान्यानां शब्दादिधर्ममात्रं व्यावर्तते ॥ सामान्यविशेषसमुदायोऽत्र द्रव्यम्। द्विष्ठो हि समूहः प्रत्यस्तमितभेदावयवानुगतः शरीरं वृक्षो यूथं वनमिति। विवरणम् विवरणम्

सामान्यविशेषसमुदायो द्रव्यम् । कस्मात्? द्विष्ठो हि समूहः द्वाभ्यां प्रकाराभ्यां स्थितो द्विष्ठः प्रत्यस्तमितभेदावयवः व्यावृत्तप्रत्ययशून्य इत्यर्थः । यथा शरीरं वृक्षो यूथं वनमिति ॥ शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्याः। समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस्ताभ्यामेवाभिधीयते समूहः। विवरणम् विवरणम्

उपातभेदावयवानुगतः आगृहीतभेदावयवानुगतः समूहः उभयशब्देनेपादीयत । उभये देवमनुष्या इति । तद्यथा – समूहस्य देवा एकोभागः, मनुष्या एकोभागः । ताभ्यामेव भागाभ्यामागृहीतयथास्वभेदानुगताभ्याम् । अभिधीयते समूहः उभये इति ॥ स च भेदाभेदविवक्षितः। आम्राणां वनं ब्राह्मणानां सङ्घ आम्रवणं ब्राह्मणसङ्घ इति। विवरणम् विवरणम्

तयोः भेदाभेदो विवक्षितः आम्राणां वनम् इति । आम्राणामिति भेदेन विवक्षा । वनमित्य्भेदेन । ताभ्यां द्वाभ्यां भदाभेदाभ्याम् । आम्राणां वनमिति षष्ठीप्रथमा । तद्द्वयोर्विवक्षितएकः समूह इति ॥ स पुनर्द्विविधो युतसिद्धावयवोऽयुतसिद्धावयवश्च। युतसिद्धावयवः समूहो वनं सङ्घ इति। अयुतसिद्धावयवः सङ्घातः शरीरं वृक्षः परमाणुरिति। अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः। एतत्स्वरूपमित्युक्तम्। विवरणम् विवरणम्

स पुनर्द्विविधः समूहः - युतसिद्धावयवोऽयुतसिद्धावयवश्च । युतसिद्धावयवः पृथक्सिद्धावयवः समूहो वनं सङ्घ इति । अयुतसिद्धावयवः अपृथक्सिद्धावयवः सङ्घातः शरीरं वृक्षः परमाणुरिति ॥

परमाणूनामपि सावयवत्वं सत्त्वादिकार्यत्वान्मूर्तत्वाच्च घटादिवदेव । अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः । एतत्स्वरूपमित्युक्तं सामान्यविशषात्मकम् ॥ अथ किमेषां सूक्ष्मरूपं, तन्मात्रं भूतकारणं, तस्यैकोऽवयवः परमाणुः सामान्यविशेषात्माऽयुतसिद्धावयवभेदानुगतः समुदाय इत्येवं सर्वतन्मात्राण्येतत्तृतीयम्। अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावानुपातिनोऽन्वय शब्देनोक्ताः। अथैषां पश्चमं रूपमर्थवत्त्वं, भोगापवर्गार्थता गुणेष्वेवान्वयिनी, गुणास्तन्मात्रभूतभौतिकेष्विति सर्वमर्थवत्। तेष्विदानीं भूतेषु पञ्चसु पञ्चरूपेषु संयमात्तस्य तस्य रूपस्य दर्शनं जयश्च प्रादुर्भवति। तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति। तज्जयाद्वत्सानुसारिण्य इव गावोऽस्य सङ्कल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥ ४४ ॥ विवरणम् विवरणम्

अथ किमेषां सूक्ष्मं रूपम् इति । तन्मात्रं भूतकारणम् । अनेकपरमाणुप्रारब्धत्वात् तस्य तन्मात्रस्य एकोऽवयवः परमाणुः । सोऽपि सामान्यविशेषात्मा अयुतसिद्धावयवभेदानुगतः समुदाय इति । एवं सर्वतन्मात्राणि । ततश्च तन्मात्राणि विशेषविनिर्मुक्तानि तदवयवाश्च परमाणव इति एतत् भूतानां तृतीयं सूक्ष्माख्यं रूपं संयमस्य विषय इति । तन्मात्रारब्धत्वाच्च सावयवमाकाशमनित्यं च । न च शब्दव्यतिरेकेण आकाशं नामद्रव्यम् उपलब्धुं शक्यम् । धर्मधर्मिणोरभेदात् ॥

ननु च केशादीनां कृष्णिमाऽप्युपैति, शुक्लिमासमुपजायते । तथा च अपायोपजनधर्माणः कृष्णिमादयः ते गुणाः । यत्तु न कृष्णिमानमनुविनश्यति, शुक्लिमानमन्वेति, तद्द्रव्यम् । एवम् आकाशादीनामपिगुणव्यतिरेकेण सद्भावः, शब्दप्रत्ययादिभेदात् इति ॥

न–दृष्टान्ताभावात् । ते एव कृष्णाः शुक्लाश्च केशाः कृष्णशुक्लत्वादिधर्मै: परिणमन्ते । सर्वं हि सर्वात्मकमित्युक्तम् । न खलु क्वचिदपि कूटस्थे आश्रये गुणाः शुक्लत्वादयः अपायोपजनवन्त उपलभ्यन्ते । न च कृष्णत्वादिव्यपनयनेन द्रव्यस्वरूपम् । यद्यपि – दर्शनस्पर्शनाभ्यां यदुपलभ्यते तद्द्रव्यम् इति, तदप्ययुतसिद्धरूपस्पर्शसमुदायत्वादुभाभ्यां दर्शनस्पर्शनाभ्यां गृह्यत इत्यदोषः ॥

ननु च न रूपं स्पर्शनेन गृह्यते, नापि दर्शनेन स्पर्शः, यदुभाभ्यां गृह्यते ‘यत्पश्यामितदेवस्पृशामी’ति तद्द्रव्यम् । यत्तु चक्षुषैव गृह्यते स्पर्शनेनैव च गृह्यते स गुण इति ॥

न – माषतिलयवादिभिक्षजातिविमिश्रराशावनैकन्तिकत्वात् । गृह्यते च दर्शनस्पर्शनाभ्यां राशिः । किञ्च – दर्शनस्पर्शने गुणस्यैव ग्राहके, बाह्येन्द्रियत्वात्, श्रोत्रवत् । न हि जातिरपि गुणव्यतिरिक्ता विद्यते भेदे जाग्रहणात् ॥ किञ्च, घटादादावपि परस्पराध्यासेन दर्शनस्पर्शनाभ्यां रूपस्पर्शयोरेव ग्रहणम् । यथेदंरूपं दुर्गन्धि सुरभिगन्धि चेति । तस्मादाकाशमपि तन्मात्रारब्धं शब्दव्यतिरेकेणाशक्यं प्रतिपत्तुमिति सावयवमनित्यं च ॥

अथ भूतानां चतुर्थं रूपम् । ख्यातिक्रियास्थितिशीलागुणाः कार्यस्वरूपानुपातिनः कार्यधर्मानुयायिनः अन्वयशब्देनोक्ताः । अनुगमात् । तदेतद्भूतानां चतुर्थं रूपं संयमस्य गुणान्वयाख्यो विषयः ॥

अथैषां पञ्चमं रूपमर्थवत्वम् । अस्य व्याख्यानं भोगापवर्गार्थता । सा च गुणेष्वन्वयिनी । तत्र या गुणेष्वनुवृत्ता भोगापवर्गार्थतातदिदं भूतानां पञ्चमं रूपं संयमस्यार्थवत्त्वाख्यो विषयः ॥

गुणास्तन्मात्रेषु भूतेषु भूतविकारेषु चान्वयिनः । एवं तन्मात्रं सूक्ष्मरूपं भूतभूतविकारेष्वनुगतम् । भूतस्वरूपं च स्थूलेषु भूतविकारेष्वनुगतमिति सर्वमर्थवत् । गुणानां भोगापवर्गार्थवत्वात्तेषां च सर्वान्वयित्वात्तदर्थवत्त्वेन सर्वं भूताविकारादिकम् अर्थवत् ॥

तेष्विदानीं भूतेषु पञ्चसु पञ्चरूपेषु स्थूलादिपञ्चरूपेषु यथाक्रमं संयमात् पूर्वं स्थूलेन संयमं कृत्वा तज्जयसाक्षात्करणानन्तरं स्वरूपसंयमं कुर्वीत । पूनः सूक्ष्मे, पुनश्चान्वये, पुनश्चार्थवत्वे इत्येवं यथाक्रमं संयमात्तस्य तस्य स्थूलादिकस्य दर्शनं जयश्च यथावत् प्रादुर्भवति । तत्र भूतस्वरूपाणि जित्वा योगी भूतजयी भवति । तज्जयात् वत्सानुसारिण्य इव गावः (यथा प्रकृतिभूतगावः) अस्य सङ्कल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥ ४४ ॥ ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ ४५ ॥ तत्राणिमा भवत्यणुः। लघिमा लघुर्भवति। महिमा महाभवति। प्राप्तिरङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम्। प्राकाम्यमिच्छानभिघातः। भूमावुन्मज्जति निमज्जति यथोदके। वशित्वं भूतभौतिकेषु वशी भवत्यवश्यश्चान्येषाम्। ईशितृत्वं तेषां प्रभवाप्ययव्यूहानामीष्टे। यत्र कामावसायित्वं सत्यसङ्कल्पता यथा सङ्कल्पस्तथा भूतप्रकृतीनामवस्थानम्। न च शक्तोऽपि पदार्थविपर्यासं करोति। कस्मात्। अन्यस्य यत्र कामावसायिनः पूर्वसिद्धस्य तथा भूतेषु सङ्कल्पादिति। एतान्यष्टावैश्वर्याणि। विवरणम् विवरणम्

(स्व)संयमफलमिदानीमाह – ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च । तत्राणिमा को भवति इत्याह – अणुः इति । सूक्ष्मादपि सूक्ष्मतरो भवतीच्छातः । तेनाणिम्ना सर्वमनुप्रविशतिवज्रमपि । तथा सर्वस्यादृश्यो भवति ।

लघिमा – लघुः लघुभ्यः तूलादिभ्योऽपिलघुतरः भवति । तेन निरालम्बनः सर्वतो गन्तुं पर्यामोति । महिमा-महान्भवति । आकाशमपि व्याप्नोति । प्राप्तिः – इहस्थ एव अङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम् । प्राकाम्यं – प्रचुरकामेयथेष्टकामो भवति इच्छानभिधातः । भूमावुन्मज्जति निमज्जति च । यथाकामत्वात् यथोदके ॥

वशित्वम् – सर्वलोकवशित्वम् । अस्य व्याख्यानं भूतभौतिकवशी भवति अवश्यञ्चान्येषाम् । ईशित्वम् – तेषां भूतानां प्रभवव्यूहाप्ययानाम् उत्पत्तिस्थितिप्रलयानाम् ईष्टे । यत्र कामावसायित्वम् – यरिमन्कामस्तत्रैव तदवसानं तदन्तं गच्छति । सत्यसङ्कल्पाद्धेतोः यथा सङ्कल्पः तथा भूतप्रकृतीनामवस्थानं भवति ॥

शक्तोऽपि स योगी न पदार्थविपर्यासं करोति । नाग्निं शीतीकरेति । कस्मात्? अन्यस्य यत्र कामावसायिनः पूर्वसिद्धस्य परमेश्वरस्य तथा तेषु पदार्थेषु विपर्यासेन सङ्कल्पात् । न हि पदार्थ विपर्यासं चिकीर्षमाणस्य पूर्वसिद्धं प्रतिविनाद्वेषेण तद्विपर्यासो भवति । तदशुद्ध्यभावादेव न पदार्थविपर्यासं करोति । कल्याणतराचरणो हि स इति । एतान्यष्टौ अणिमाद्यैश्वर्याणि भूतजयाद्भवन्ति ॥ कायसम्पद्वक्ष्यमाणा। तद्धर्मानभिघातश्च पृथिवी मूर्त्या न निरुणद्धि योगिनः शरीरादिक्रियां, शिलामप्यनुविशतीति। नाऽऽपः स्निग्धाः क्लेदयन्ति। नाग्निरूष्णो दहति। न वायुः प्रणामी वहति। अनावरणात्मकेऽप्याकाशे भवत्यावृतकायः सिद्धानामप्यदृश्यो भवति ॥ ४५ ॥ विवरणम् विवरणम्

कायसम्पद्वक्ष्यमाणा । तद्धर्मानभिधातः तेषां भूतानां धर्मैः न योगिनोऽभिघातो भवति । पृथिवी स्वेन धर्मेण मूर्त्या न विरुणद्धि योगिनः शरीरादिक्रियाम् । कथम् ? शिलामप्यनुप्रविशति । नापः स्निग्धा योगिनं क्लेदयन्ति वर्षसहस्रमप्युदके तिष्ठन्तम् । नाग्निरुष्णो दहति । न वायुः प्रणामी वहति । अनावरणात्मकेऽपि प्रकटरूपेऽपि भवत्यावृतः प्रकटो न भवति । सिद्धानामप्यदृश्यो भवति ॥ ४५ ॥ रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ ४६ ॥ दर्शनीयः कान्तिमानतिशयबलो वज्रसंहननश्चेति ॥ ४६ ॥ विवरणम् विवरणम्

रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् । रूपवान् दर्शनीयः । लावण्यवान् कान्तिमानतिशयबलो वज्रसंहननश्च भवति ॥ ४६ ॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ४७ ॥ सामान्यविशेषात्मा शब्दादिर्ग्राह्यः। तेष्विन्द्रियाणां वृत्तिर्ग्रहणम्। न च तत्सामान्यमात्रग्रहणाकारं कथमनालोचितः स विषयविशेष इन्द्रियेण मनसाऽनुव्यवसीयेतेति। स्वरूपं पुनः प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्यविशेषयोरयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिन्द्रियम्। तेषां तृतीयं रूपमस्मितालक्षणोऽहङ्कारः। तस्य सामान्यस्येन्द्रियाणि विशेषाः। चतुर्थं रूपं व्ययवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणा येषामिन्द्रियाणि साहङ्काराणि परिणामः। पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थवत्त्वमिति। पञ्चस्वेतेष्विन्द्रियरूपेषु यथाक्रमं संयमस्तत्र तत्र जयं कृत्वा पञ्चरूपजयादिन्द्रियजयः प्रादुर्भवति योगिनः ॥ ४७ ॥ विवरणम् विवरणम्

ग्रहणस्वरूपास्मितान्वयार्थवत्वसंयमादिन्द्रियजयः । सर्वमेतद्गतसूत्रेण तुल्यव्याख्यानम् । अस्मितामात्रं तु विशेषो भूतानामिव तन्मात्राणि । सामान्यविशेषात्मा शब्दादिर्विषयः । तेष्विन्द्रियाणां या वृत्तिः विषयविशेषावलोकनात्मिका तत् ग्रहणम् । न च तत्सामान्यमात्रे शब्दादिसामान्याभासनमात्रे मनसि ग्रहणाकारः उपपद्यते । कथम्? अनालोचितः स्वविषयविशेष इन्द्रियेण अनिगृहीतो निजो विषयविशेषे मनसा कथं नु नाम अनुव्यवसीयेत । न कथञ्चिदनुव्यवसीयेत तैमिरिका तैमिरिकयाऽनुव्यवसायाननुव्यवसायाभ्याम् । तस्मान्नेन्द्रियेणानालोचितविषये मनसा । अनुव्यवसायः । तत्रास्यां विशेषात्मिकायां वृत्तौ प्रथमं संयमः कर्तव्यः ॥

अथ स्वरूपं पुनः इन्द्रियाणां द्वितीयं रूपम् । प्रकाशात्मनोः सामान्यविशेषयोः विषयविशेषालोचनमिन्द्रियाणां विशेषः । यथा प्रदीपस्य घटादिविशेषाकारालोकोविशेषः । प्रकाशमात्रं सामान्यम् । अतः सामान्यविशेषात्मकम् अयुतसिद्धावयवभेदानुगतं द्रव्यमिन्द्रियं प्रदीपवत् । यथासामान्यमूर्तिधर्मः स्थूलादिष्वनुप्रवर्तते, तथेन्द्रियं प्रकाशात्मकं द्रव्यविशेषात्मिकायां ग्रहणवृत्तावनुप्रवर्तते । तदेतस्मिन्द्वितीये इन्द्रियाणां स्वरूपे संयमः क्रियत ॥

तेषाम् इन्द्रियाणां तृतीयं रूपमस्मितालक्षणोऽहङ्कारः । तस्य अहङ्कारस्य सामान्यस्येन्द्रियाणि अयुतसिद्धावयवभेदानुगतानि ग्रहणरूपान्वयीनि विशेषाः । तत्र अस्मितायां संयमः करणीयः ॥

चतुर्थं रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीलागुणाः । येषामिन्द्रियाणि साहङ्काराणि परिणामः । तत्र गुणानुगमे संयमः कर्तव्यः ॥

पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थवत्त्वम् । अतः सर्वेषामर्थवत्वमनुगमश्च पूर्ववत् ॥

एवं एषु पञ्चस्विन्द्रियरूपेषु यथाक्रमं क्रमानतिक्रमेण संयमः । तत्र प्रत्येकं पञ्चसु जयं कृत्वा पञ्चस्वरूपजयं लभते । तस्मात् पञ्चस्वरूपजयादिन्द्रिय(यादि)जयो वक्ष्यमाणफलाय प्रादुर्भवति योगिनः । यत्तु ततः परमावश्यतेन्द्रियाणाम्’ इति, तद्विषयग्रहणवृत्तिर्वेशित्वमात्रं विषयाप्रतिपत्तिरूपम् ॥ ४७ ॥ ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ४८ ॥ कायस्यानुत्तमो गतिलाभो मनोजवित्वम्। विदेहानामिन्द्रियाणामभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः। सर्वप्रकृतिविकारवशित्वं प्रधानजय इत्येतास्तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते। एताश्च करणपञ्चरूपजयादधिगम्यन्ते ॥ ४८ ॥ विवरणम् विवरणम्

ततो मनोजवत्वं विकरणभावः प्रधानजयश्च । तत इन्द्रियजयात् कायस्यानुत्तमः न विद्यतेऽस्मादुत्तम इत्यनुत्तमः गतिलाभो मनोजवत्वम् । विदेहानां शरीरनिरपेक्षाणाम् इन्द्रियाणाम् अभिप्रेतदेशापेक्षोऽभिप्रेतकालापेक्षोऽभिप्रेतशब्दादिविषयापेक्षश्च वृत्तिलाभो विकरणभावः । सर्वप्रकृतिविकारवाशत्वम् अष्टानां प्रकृतीनां तद्विकाराणां च वशित्वं प्रधानजय इत्येतास्तिस्रः सिद्धयो मधुप्रतीकाः इति उच्यन्ते । ताश्च पञ्चस्वरूपजयादधिगम्यन्ते ॥ ४८ ॥ सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ४९ ॥ निर्धूतरजस्तमोमलस्य बुद्धिसत्त्वस्य परे वैशारद्ये परस्यां वशीकारसञ्ज्ञायां वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम्। सर्वात्मानो गुणा व्यवसायव्यवसेयात्मकाः स्वामिनं क्षेत्रज्ञं प्रत्यशेषदृश्यात्मत्वेनोपस्थिता इत्यर्थः। सर्वज्ञातृत्वं सर्वात्मनां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानामक्रमोपारूढं विवेकजं ज्ञानमित्यर्थः। इत्येषा विशोका नाम सिद्धिर्यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरति ॥ ४९ ॥ विवरणम् विवरणम्

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वे सर्वज्ञातृत्वं च । सर्वप्रकारेण सर्वसाधनेन निर्धूतरजस्तमोमलस्य सत्त्वस्य परे वैशारद्ये स्वच्छे स्थितिप्रवाहे परे वर्तमानस्य परस्यां वशीकारसञ्ज्ञायां ज्ञानप्रसादमात्रे निरतिशये वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम् । सर्वस्य वस्तुजातस्येष्टे ॥

सर्वात्मना सकलप्रकृतिविकारात्मना गुणाध्यवसायात्मकाः बुद्ध्यादिकारणभावपरिणताऽध्यवसायात्मकाः शान्तोदिताव्यपदेश्यधर्मानुप्रसर्पिणः स्वामिनं क्षेत्रज्ञं दृशिमात्रम् अशेषगुणाः दृश्यत्वेन भोग्यत्वेन अवस्थिताः लभ्यन्ते इत्यर्थः ॥

सर्वज्ञातृत्वं सर्वात्मकानां शान्तोदिताव्यपदश्यधर्मत्वेनावस्थितानां गुणानाम् अक्रमोपारूढम् एककालभावि विवेकजं ज्ञानमित्यर्थः । इत्येषा सर्ववशित्वसर्वज्ञातृत्वलक्षणा विशोका नाम सिद्धिः । यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो विहरति वशी ॥ ४९ ॥ तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ५० ॥ यदाऽस्यैवं भवा क्लेशकर्मक्षये सत्त्वस्यायं विवेकप्रत्ययो धर्मः सत्त्वं च हेयपक्षे न्यस्तं पुरुषश्चापरिणामी शुद्धोऽन्यः सत्त्वादिति। एवमस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पान्यप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति। तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं न भुङ्क्ते। तदेतेषां गुणानां मनसि कर्मक्लेशविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्याऽऽत्यन्तिको गुणवियोगः कैवल्यं, तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुष इति ॥ ५० ॥ विवरणम् विवरणम्

तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् । यदा अस्यैवं भवति सवैज्ञस्य सर्वभावानधितिष्ठतः क्लेशकर्मक्षये विवेकी सत्त्वस्य प्रत्ययः । कीदृश इत्याह – सत्त्वं च हेयपक्षे न्यस्तं परिणामित्वाशुद्धत्वत्रिगुणत्वादिभिः । पुरुषश्च सत्यविधर्मा अपरिणामी शुद्धोऽन्तः सत्त्वात् इत्यनेन प्रकारेण ॥

ततः अपि सर्वज्ञसर्वभावाध्यक्षत्वात् विरज्यमानस्य यानि क्लेशबीजानि अविद्यावासनारूपाणि दग्धशालिबीजकल्पानि प्रसवासमर्थानि तानि चरितार्थेन प्रलीयमानेन सह आश्रयेण मनसा प्रयस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयम् आध्यात्मिकादिलक्षणं न भुङ्के ॥

तदेषां गुणानां मनसि क्लेशकर्मविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे प्रलये पुरुषस्यात्यन्तिको गुणवियोगः कैवल्यम् । तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुषः । तत्र तद्वैराग्यादपि इत्यपिशब्दादप्राप्तयोगैश्वर्यस्यापि सम्यग्दर्शनात्कैवल्यमिति ॥ ५० ॥ स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ५१ ॥ चत्वारः खल्वमी योगिनः प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति। तत्राभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः। ऋतम्भरप्रज्ञो द्वितीयः। भूतेन्द्रियजयी तृतीयः सर्वेषु भावितेषु भावनीयेषु कृतरक्षाबन्धः कर्तव्यसाधनादिमान्। चतुर्थो यस्त्वतिक्रान्तभावनीयस्तस्य चित्तप्रतिसर्ग एकोऽर्थः। सप्तविधाऽस्य प्रान्तभूमिप्रज्ञा। विवरणम् विवरणम्

स्थान्युपमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् । स्थानं स्वर्गादिकं येषान्ते स्थानिनो देवा इन्द्रादयः । तै: उपमन्त्रणं भो भो इहोष्यताम् इत्यादि । तस्मिन् सत्यात्मनो हीनत्वं स्मरतः प्राप्नुतः सङ्गस्मयौ (अर्थादिति) तौ च न कर्तव्यौ । सङ्गस्मयकरणेऽनिष्टं प्रसज्येत ॥

चत्वारः खल्वमी योगिनः – प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्येतिः अतिक्रान्तभावनीयश्व । तान्क्रमेण व्याचष्टे – तत्राभ्यासी अभ्यसनशील: प्रवृत्तज्योतिः ज्योतिष्मत्यादीनामन्यतमाप्रवृत्तिः प्रवृत्ता यस्य स प्रवृत्तज्योतिः प्रथमः ॥

ऋतम्भरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीयः । स तु सर्वेषु भावितेषु भावनीयेषु साक्षात्कृतेषु जितेषु च कृतरक्षाबन्धः, उपात्तस्य हि रक्षाविधानीया, भावनीयेषु साक्षात्करणीयेषु कर्तव्यतासाधनवांश्च । कर्तव्यतायाः साधनानि कर्तव्यतासाधनानि अभ्यासवैराग्यादीनि यस्य सः कर्तव्यतासाधनवान् ॥

यस्त्वतिक्रान्तभावनीयश्चतुर्थः तस्य चित्तप्रतिसर्ग एव चित्तप्रलय एव एकोऽर्थः परिशिष्टः । सप्तविधा । तस्य प्रान्तभूमिप्रज्ञा । तत्र मधुमतीं भूमिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्त्वविशुद्धिमनुपश्यन्तः स्थानैरुपनिमन्त्रयन्ते भो इहाऽऽस्यतामिह रम्यतां कमनीयोऽयं भोगः कमनीयेयं कन्या रसायनमिदं जरामृत्युं बाधते वैहायसविदं यानममी कल्पद्रुमाः पुण्या मन्दाकिनी सिद्धा महर्षय उत्तमा अनुकूला अप्सरसो दिव्ये श्रोत्रचक्षुषी वज्रोपमः कायः स्वगुणैः सर्वमिदमुपार्जितमायुष्मता प्रतिपद्यतामिदमक्षयमजरममरस्थानं देवानां प्रियमिति। एवमभिधीयमानः सङ्गदोषान्भावयेद्घोरेषु संसाराङ्गारेषु पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथञ्चिदासादितः क्लेशतिमिरविनाशी योगप्रदीपस्तस्य चैते तृष्णायोनयो विषववायवः प्रतिपक्षाः। स खल्वहं लब्धालोकः कथमनया विषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसाराग्नेरात्मानमिन्धनी कुर्यामिति। स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्येवं निश्चितमतिः समाधिं भावयेत्। विवरणम् विवरणम्

तत्र मघुमतीं भूमिं द्वितीयामृतम्भरप्रज्ञाभूमिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्वविशुद्धिमनुपश्यन्तः स्थानैरुपम्न्त्र्यन्ते । भोः इत्यादि प्रसिद्धार्थं भाष्यम् ॥ ५१ ॥ सङ्गमकृत्वा स्मयमपि न कुर्यादेवमहं देवानामपि प्रार्थनीय इति। स्मयादयं सुस्थितम्मन्यतया मृत्युना केशेषु गृहीतमिवाऽऽत्मानं न भावयिष्यति। तथा चास्य च्छिद्रान्तरप्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशानुत्तम्भयिष्यति ततः पुनरनिष्टप्रसङ्गः। एवमस्य सङ्गस्मयावकुर्वतो भावितोऽर्थो दृढी भविष्यति। भावनीयश्चार्थोऽभिमुखी भविष्यतीति ॥ ५१ ॥ क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२ ॥ यथाऽपकर्षपर्यन्तं द्रव्यं परमाणुरेवं परमापकर्षपर्यन्तः कालः क्षणो यावता वा समयेन चलितः परमाणुः पूर्वदेशं जह्यादुत्तरदेशमुपसम्पद्येत स कालः क्षणः। तत्प्रवाहाविच्छेदस्तु क्रमः। क्षणतत्क्रमयोर्नास्ति वस्तुसमाहार इति बुद्धिसमाहारो मुहूर्ताहोरात्रादयः। स खल्वयं कालो वस्तुशून्योऽपि बुद्धिनिर्माणः शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवावभासते। विवरणम् विवरणम्

क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् । क्षणं क्रमं च स्वयमेव विस्तरेणाचष्टे–तत्र अपकर्षपर्यन्तं यतः परमपकर्षो न शक्येत कर्तुं तद्द्रव्यं परमाणुः । एवं लेकबुद्धिविकल्पतादहोरात्रलक्षणादपकृष्यमाणात्कालादल्पीयः परिजिघृक्षयायतः परम् अपक्रष्टुं न शक्यते सः अपकर्षपर्यन्तः कालः क्षणः वस्तुभूतः ॥

यद्वा, यावता समयेन विचलितः परमाणुः पूर्वं देशं जह्यादुतरमाभसम्पद्येत सकालः क्षणः । सर्वथाऽप्यस्ति (सूक्ष्म)क्षण इत्यर्थः ॥

तस्य प्रवाहाविच्छेदभाविनः तस्य क्षणस्य प्रवाहः प्रबन्धः अविच्छेदेनैरन्तर्थं तथा भवितुं शीलं यस्य क्षणस्य प्रवाहाविच्छेदभाविनः क्षणस्य यत् आनन्तर्यं सः क्षणस्य क्रमः । तयोश्च क्षणतत्क्रमयोर्नास्ति वस्तुसमाहारः क्षणक्रमस्यावस्तुत्वात्क्षणस्य चैकत्वान्नास्ति तयोः समाहारः समूहः ॥

ननु चासति क्षणतत्क्रमसमाहरे कथं माससंवत्सरादयः प्रवर्तेरन्निति, तदर्थमाह–बुद्धिसमाहारात् बुद्धिपरिकल्पितात् क्षणतत्क्रमयोः समाहारादादित्यादिदेशान्तरसम्बन्धावबन्धबुद्धिसमुद्भवितात् मुहूर्ताहोरात्रादयः । ततश्चबुद्धिस्थित एषभेदः ॥

यो हि प्रसन्नसमानप्रत्ययप्रवाहिमानसः एकाग्रभूमिप्रतिष्ठिचित्तसत्वः, तस्य सत्यपि कालानुभवेक्षणयुगसहस्रयोस्तुल्यता । नैवं व्युत्थितचित्तस्य । तथा स्वप्नेऽपि घटिकामात्रेण बुद्धिपरिकल्पितं यो जनसहस्रनमनेकं संवत्सरेणैव [गन्तव्यं] गच्छति । तस्माद्बुद्धिवैचित्र्यानिर्मित एव कालसमाहारः ।

यस्य तु क्रियाव्यतिरिक्तः कालः नित्यो विभुः, तस्य चिरक्षिप्रत्वाद्यपि क्रियामात्रेपर्यवसितत्वात्पृथक्कालास्तित्वेन लिङ्गे घटते । नियतपरिमाणा हि क्रिया अनवगतपरिमाणायाः क्रियाया लक्षणम् । यथा आगोदोहनं स्वपति । आओदनपाकमधीते इति । स एव च कालः । न हि नित्यस्य विभोः तस्य कूटस्थस्य असम्बन्धत्वात्वस्त्वन्तरपरिच्छेदकत्वं प्रस्थादिवदुपपद्यते ॥

क्रियावान्कालः परिच्छेदकः प्रस्थादिवदिति चेत्, तस्यापि क्रियावत्वात्क्रियावतश्च परिच्छेदनीयत्वदन्येन क्रियावता परिच्छेदकेन कालेन भावितव्यम् । तस्याप्यन्येनत्यनवस्थाप्रसङ्गः क्रियावत्त्वाचानित्यत्वमपि प्रसज्येत ॥

अथ स्वव्यापारेणैव काल: परिच्छेदनीयकं यायादिति चेत्, अन्येऽपि स्वव्यापारेणैव परिच्छेद्या इतिकालपृथक्त्वकल्पनानिरर्थिका । तथा च क्रियै वास्तुकालः ॥

अथापि सद्भावमात्रेण कालः परिच्छेदक इति, सर्वेषामपि सद्भावाविशषादेव प्रसक्तम् ॥

क्रियाकालपक्षेऽप्येष विकल्पः प्राप्त इति चेत् – न, क्रियायाः सर्वप्रसिद्धत्वात् । परिच्छेदकत्वस्य च आगोदोहमास्ते इत्यादिषु सिद्धत्वात्क्रियैव परैच्छेदिका लभ्यते, नापरः काल: परिच्छेदक इति । चिरं क्षिप्रमिति च प्रयत्नमन्दिमपाटवकृतः प्रत्ययोनव्यतिरिक्तकालनिबन्धन इत्याह–स खल्वयं कालः संवत्सरादिरूपो वस्तुशून्यो बुद्विनिर्माणः बुद्ध्या निर्मापिष्यते ॥

शब्दधर्मानुपाती त्रुटिनिमेषाहोरात्रादिशब्दविकल्पानुप्रवर्ती । लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवाभासते । क्षणस्तु वस्तुपतितः क्रमावलम्बी। क्रमश्च क्षणानन्तर्यात्मा तं कालविदः काल इत्याचक्षते योगिनः। नच द्वौ क्षणौ सह भवतः। क्रमश्च न द्वयोः सहभुवोरसम्भवात्। पूर्वस्मादुत्तरभाविनो यदानन्तर्यं क्षणस्य स क्रमः। तस्माद्वर्तमान एवैकः क्षणो न पूर्वोत्तरक्षणाः सन्तीति। तस्मान्नास्ति तत्समाहारः। ये तु भूतभाविनः क्षणास्ते परिणामान्विता व्याख्येयाः। तेनैकेन क्षणेन कृत्स्नो लोकः परिणाममनुभवति। तत्क्षणोपारूढाः खल्वमी सर्वे धर्माः। तयोः क्षणतत्क्रमयोः संयमात्तयोः साक्षात्करणम्। ततश्च विवेकजं ज्ञानं प्रादुर्भवति ॥ ५२ ॥ विवरणम् विवरणम्

क्षणस्तु वस्तुरूपः वास्तविकःतद्द्रव्यान्यथात्वेनानुमीयमानः क्रमावलम्बी । क्रमश्च क्षणानन्तर्यात्मा क्षणप्रवाहविच्छेदबुद्धिनिमित्तः ॥

तं क्षणं कालाविदः काल इत्याचक्षते योगिनः । न च द्वौ क्षणौ सह भवतः, ययोः समाहारः कल्प्येत । एकस्मिन्धर्मिणिस अहजन्मनोः क्षणयोरसम्भवात् । जायमानो हि चैत्र एकस्मिन्क्षणे जायते । न तत्र द्वौ क्षणौ सह भवतः । क्रमश्च न द्वयोः । कस्मात्? द्वयोः क्षणयोः सहभुवोरसम्भवात् ॥

पूर्वस्मादुत्तरस्य भाविनो यदानन्तर्यं क्षणस्य स क्रमः । यथा पिण्डादुत्तरभाविनो घटस्य यदा नन्न्तर्यं स क्रमः । न हि चक्रान्तरस्थस्य मृत्पिण्डस्य चक्रान्तरस्थमृत्पिण्डजनितो घटः क्रमे वर्तते । तस्माद्वर्तमान एवैकः क्षणः । न पूर्वोत्तरावतीतानागतौ स्तः पूर्वोत्तरयोर्धर्मिस्वरूपमात्रत्वात् । धर्मी च वर्तमानक्षणारूढ एव । तस्मान्नास्ति तत्समाहारः क्षणतत्क्रमसमाहारः ॥

ये तु भूतभविनः अतीतभविष्यन्तः क्षणाः ते धर्मिणः पूरिण्मास्तितया धर्मिपारण्णामापेक्षया व्याख्येया: । तेनैकेन क्षणेन कृत्स्नो लोक: परिणाममनुभवति । तत्क्षणोपारूढाः वर्तमानक्षणोपारूढाः खल्वमी सर्वे धर्माः सर्वपदार्थाः ॥

यदुक्तमतीतक्षणस्य नास्तिक्रम इति, तस्यैतत्प्रयोजनं, तत्क्रमक्रमप्रतिषेधः । क्षणक्रमक्रमे हि सति क्षणक्रमस्य वस्तुत्वं प्रसज्येत । वस्तुनो हि क्रम इति । ततश्च क्रपतत्क्षणयोः संयमादितिनोपकल्पेत । तस्मात् एतयोः क्षण [तत्] क्रमयोः सेयमात्तयोः साक्षात्करणम् । ततश्च विवेकजं ज्ञानम् । क्षणतत्क्रमाङ्किता एव हि सर्वे पदार्था इति तानशेषान्विविच्य विजानाति ॥ ५२ ॥ तस्य विषयविशेष उपक्षिप्यते – जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३ ॥ तुल्ययोर्देशलक्षणसारूप्ये जातिभेदोऽन्यताया हेतुः, गौरियं वडवेयमिति। तुल्यदेशजातीयत्वे लक्षणमन्यत्वकरं कालाक्षी गौः स्वस्तिमती गौरिति। द्वयोरामलकयोर्जातिलक्षणसारूप्याद्देशभेदोऽन्यत्वकर इदं पूर्वमिदमुत्तरमिति। यदा तु पूर्वमामलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेश उपावर्त्यते तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदितिप्रविभागानुपपत्तिः। असन्दिग्धेन च तत्त्वज्ञानेन भवितव्यमित्यत इदमुक्तं ततः प्रतिपत्तिर्विवेकजज्ञानादिति। विवरणम् विवरणम्

तस्य विवेकज्ञस्य ज्ञानस्य कीदृशं ज्ञेयमिति तस्य विषयविशेषः उपक्षिप्यते – जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः । [तुल्ययोर्देशलक्षणसारूप्ये] जातिभेदः पदार्थानाम् अन्यतायाः अन्यत्वावच्छेदस्य हेतुः । यथा - गैरियं बडवेयमिति ॥

यत्र जातिभेदो नास्त्येकैव जातिः, तत्र तुल्यजातित्वे लक्षणं लिङ्गम् अन्यत्वावच्छेदकरम् - कालाक्षी गौः, स्वस्तिमती गौरिति ॥

यत्र न जातिभेदो नापि लक्षणभेदस्तत्र देशभेदोऽन्यत्वावच्छेदहेतुः । यथा-द्वयोरामलकयोर्जातिलक्षणसारूप्ये देशभेदोऽन्यत्वकरः इदं पूर्वम् आमलकम् इदमुत्तरमिति ॥

यदा तु पूर्वमामलकम् अन्यव्यग्रस्य समाकुलितचित्तस्य ज्ञातुरुत्तरदेश उपावर्तते पूर्वदेशे चोत्तरं, तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदिति तुल्ययोः प्रविभागानुपपत्तिः । असन्दिग्धेन तत्त्वज्ञानेन भवितव्यं, ज्ञेयस्य विद्यमानत्वादेकरूपस्य इत्यत इदमुक्तं ततः प्रातिपत्तिर्विवेकज्ञानादिति । क्षणतत्क्रमसंयमापादितविवेकजन्मनो ज्ञानात् प्रतिपत्तिरिति ॥ कथं, पूर्वामलकसहक्षणो देश उत्तरामलकसहक्षणाद्देशाद्भिन्नः। ते चाऽऽमलके स्वदेशक्षणानुभवभिन्ने। अन्यदेशक्षणानुभवस्तु तयोरन्यत्वे हेतुरिति। एतेन दृष्टान्तेन परमाणोस्तुल्यजातिलक्षणदेशस्य पूर्वपरमाणुदेशसहक्षणसाक्षात्करणादुत्तरस्य परमाणोस्तद्देशा-नुपपत्तावुत्तरस्य तद्देशानुभवो भिन्नः सहक्षणभेदात्तयोरीश्वरस्य योगिनोऽन्यत्वप्रत्ययो भवतीति। विवरणम् विवरणम्

तत् कथम्? पूर्वामलकसह(ल)क्षणो देशः पूर्वामलकसहचरो देशः उत्तरामलकसह(ल)क्षणात् उत्तरामलकसहचरात् देशात् मिश्रः । ते चामलके पूर्वोत्तर(ल)क्षणसहचरिते स्वदेश(ल)क्षणानुभवभिन्ने स्वदेशचिह्नभूते यः क्षणः तदनुभवमिन्ने स्वेदेश(ल)क्षणानुभवचिह्निते अन्यदेश(ल)क्षणानुभवस्तयोरन्यत्वे हेतुरिति ॥

अनेन दृष्टान्तेन परमाणोरतुल्यजातिलक्षणमेद(देश)स्य पूर्वपरमाणुदेशसह(ल)क्षणसाक्षात्करणात् पूर्वपरमाणुदेशन सहभूतस्य (ल)क्षणस्य साक्षात्करणात् उत्तरपरमाणोस्तद्देशापवृतौ पूर्वदेशगतावपि उत्तरस्य तद्देशानुभवभिन्नः क्षणः । क्षणभेदात्तयोरीश्वरस्य योगिनोऽन्य(था)त्वप्रत्ययः भेदावचेछदो भवति ॥ अपरे तु वर्णयन्ति – येऽन्त्या विशेषास्तेऽन्यताप्रत्ययं कुर्वन्तीति। तत्रापि देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश्चान्यत्वे हेतुः। क्षणभेदस्तु योगिबुद्धिगम्य एवेति। अत उक्तं मूर्तिव्यवधिजातिभेदाभावान्नास्ति मूलपृथक्त्वमिति वार्षगण्यः ॥ ५३ ॥ विवरणम् विवरणम्

अत्रापरे वर्णयन्ति–ये अन्त्या विशेषाः परमाणुगता नित्याः, ते एव अन्यताप्रत्ययं कुर्वन्तीति किं तत्क्षणतत्क्रमसंयमेन । यथा घटादिगता विशेषा अन्यताप्रत्ययं कुर्वन्ति, तथा परमाणुगता ये विशेषाः त एव तद्भावप्रत्ययं स्वसद्भावप्रत्ययं च कुर्वीरन् । आश्रयभेदप्रल्ययमपि कुर्वन्ति ॥

अत्रोच्यते - देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश्चान्यत्वे हेतुः उक्त एव स्थूलेषु (न तु) ननु परमाणुषु प्रतिक्षणपरिणामित्वात् । अवस्थितेषु हि विशेषेष्वन्त्येषु स्यादन्यथाऽवधारणम् । न चानवरतपरिणामेषु घटते ॥

यदा पूर्वः परमाणुरुत्तरपरमाणुरूपेण परिणमते, पूर्वपरमाणुरूपेण चोत्तरः, तत्रावस्थितान्त्यविशेषाभावाद्विवेकप्रतिपक्तिरनुपपन्ना । तत्रावश्यं क्षणतत्क्रमसंयमजनितविवेकज्ञानादेव सम्प्रतिपत्तिः । अनित्याश्च परमाणव इति ह्युक्तम् । तस्मात् क्षणभेदस्तु योगिबुद्धिगम्य एव ॥

तथा चानित्यत्वस्य परमाणूनामाचार्यान्तरमतप्रतिपादनद्वारेण प्रसिद्धिं दर्शयति–अत उक्तम्-मूर्तिव्यवधिजातिभेदाभावात् नास्ति मूल(जाति)पृथक्त्वमिति वार्षगण्यः । यथा प्रतिक्षेत्रज्ञं प्रधानबुहुत्वं न्यायविरुद्धं मूर्तिव्यवधिजातिभेदाभावात् प्रधानानां पृथक्त्वम् एकपुरुषार्थदृश्यवत् अनुपपन्नम्, एवं परमाणूनामपि मूलत्वे पृथक्त्वं नोपकल्पते । ततश्च एकं मूलमिति प्राप्तम् । न परमाणुभेदो हि नित्यो युक्तः । परमाणूनां च मूर्तत्वात् रूपादिमत्त्वाच्च अनिल्यत्वं घटादिवदेवेति ॥ ५३ ॥ तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥ ५४ ॥ तारकमितिस्वप्रतिभोत्थमनौपदेशिकमित्यर्थः। सर्वविषयं नास्य किञ्चिदविषयीभूतमित्यर्थः। सर्वथाविषयमतीतानागतप्रत्युत्पन्नं सर्वं पर्यायैः सर्वथा जानातीत्यर्थः। अक्रममित्येकक्षणोपारूढं सर्वं सर्वथा गृह्णातीत्यर्थः। एतद्विवेकजं ज्ञानं परिपूर्णम्। अस्यैवांशो योगप्रदीपो मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिरिति ॥ ५४ ॥ विवरणम् विवरणम्

तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् । काष्ठाप्राप्त ज्ञानं देवर्षिगन्धर्वादीनाम् । तारकमिति । विवेकजामिदमुच्यते स्वप्रतिभोत्थमनौपदेशिकमित्यर्थः । नान्येनोपदेष्टुं शक्यं, नाप्युपदेशेन यथावत् ग्रहीतुं शक्यते । यस्मात् तत् सर्ववस्तुविषयम् । नास्य किञ्चिदविषयीभूतम् ।

सर्वथाविषयं च सर्वम् अतीतानागतप्रत्युत्पत्रं सर्वपर्यायैः सर्वविशेषणैः सर्वथा सर्वेण प्रकारेण जानाति । अक्रमम् एकक्षणोपारूढ़म् । एकस्मिन् क्षणे सर्वं सर्वथा गृह्णाति । नास्मदादिवत् क्रमेण ॥

तत् एतद्विवेकजं ज्ञानं परिपूर्णम्, अस्यैवांशो योगप्रदीपः । स एव ज्ञानांशो योगश्च प्रदीपश्च । योगस्य वा प्रदीपो योगप्रदीपः । मधुमतीं भूमिमुपादाय आरभ्य यावदस्य विवेकजस्य ज्ञानस्य परिसमाप्तिः तावत् । विवेकजज्ञानपरिसमाप्तिपर्यन्तानि ज्ञानानि मनोजवक्त्वादियुक्तानि अस्यैवांशः ॥ ५४ ॥ प्राप्तविवेकजज्ञानस्याप्राप्तविवेकजज्ञानस्य वा – सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५ ॥ यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषस्यान्यताप्रतीतिमात्राधिकारं दग्धक्लेशबीजं भवति तदा पुरुषस्य शुद्धिसारूप्यमिवाऽऽपन्नं भवति, तदा पुरुषस्योपचरितभोगाभावः शुद्धिः। एतस्यामवस्थायां कैवल्यं भवतीश्वरस्यानीश्वरस्य वा विवेकजज्ञानभागिन इतरस्य वा। नहि दग्धक्लेशबीजस्य ज्ञाने पुनरपेक्षा काचिदस्ति। सत्त्वशुद्धिद्वारेणैतत्समाधिजमैश्वर्यं ज्ञानं चोपक्रान्तम्। परमार्थतस्तु ज्ञानाददर्शनं निवर्तते तस्मिन्निवृत्ते न सन्त्युत्तरे क्लेशाः। क्लेशाभावात्कर्मविपाकाभावः। चरिताधिकाराश्चैत्तस्यामवस्थायां गुणा न पुरुषस्य पुनर्दृश्यत्वेनोपतिष्ठन्ते। तत्पुरुषस्य कैवल्यं, तदा पुरुषः स्वरूपमात्रज्योतिरमलः केवली भवति ॥ ५५ ॥ विवरणम् विवरणम्

योगजे ज्ञानैश्चर्य अतिक्रान्ते परिसमापिते च । नातः परं योगज्ञानमैश्वर्यं च । तद(दु)पक्रमणाच्च प्राप्तज्ञानैश्वर्यस्यैव तद्वैराग्यानन्तरं कैवल्यमिति प्राप्तमत आह-प्राप्तविवेकज्ञानस्य [अप्राप्तविवेकज्ञानस्य वा] बाह्यदर्शननिवृतौ कैवल्यम् । कथमिति ? सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यानिति ॥

यदा निर्धूतरजस्तमोमलं पुरूषान्यताप्रत्ययमात्रम् अन्यतामात्रप्रत्ययवैभवयुक्तं दग्धक्लेशबीजं विनिवृत्ताविद्याप्रत्ययवासनारूपं बुद्धिसत्वं भवति, तदा पुरुषस्य शुद्धिसारूप्यमिवापन्नम् ॥

यद्यपि त्रिगुणं पुरुषविलक्षणं, पुरुषश्च तद्विलक्षणः, तथाऽपि पुरुषान्यताप्रत्ययपरिणामित्वात् शुद्धिसारूप्यमिवापन्नम् इत्युच्यते । एतस्यामवस्थायां कैवल्यं भवतीश्चरस्यानीश्चरस्य वा, विवेकज्ञानभागिनः इतरस्य वा । यस्मादुभयोरविद्यानिवृतिरेव कारणं तस्मात् । नहि दग्धलेशबीजस्य ज्ञाने काचिदपेक्षा । यतः सम्यग्दर्शी सर्वं त्रिगुणमिति मन्यते, त्रिगुणश्च प्रत्ययो हेय इति, मधुमत्यादिज्ञाने तस्य न कदाचिदप्यपेक्षा ॥

यत्तु योगज्ञानमैश्वर्यं चोक्तं, तत् सम्यग्दर्शनार्थनुक्रान्तसत्त्वशुद्धिपदमार्गेण प्रक्रान्तमानुषङ्गिकम् । परमार्थतस्तु ज्ञानाददर्शनं विनिवर्तते । तस्मिन् विनिवृत्ते न सन्त्युक्तक्लेशाः अस्मितादयः । तेषामविद्याक्षेत्रत्वात् । क्लेशाभावाच्च कर्मविपाकाभावः “क्लेशमूलः कर्माशयः” “सति मूले तद्विपाकः” इति हि प्रतिपादितम् ॥

तस्मात् सम्यग्दर्शनार्थमेवेदं शास्त्रम्, न ज्ञानैश्वर्यविभूतिप्रयोजनम् । चरिताधिकाराचैतस्यामवस्थायां गुणाः । न पुरुषस्य पुनर्द्दश्यत्वेनातिष्ठन्ते । तत् पुरुषस्य कैवल्यम् । तदा पुरुषः स्वरूपमात्रज्योतिः इति अमलः केवलीभवति इति । इतिशब्दः समाप्त्यर्थः ॥ ५५ ॥ कैवल्यपादः जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १ ॥ देहान्तरिता जन्मना सिद्धिः। ओषीधिभिरसुरभवनेषु रसायनेनेत्येवमादिः। मन्त्रैराकाशगमनाणिमादिलाभः। तपसा सङ्कल्पसिद्धिः, कामरूपी यत्र तत्र कामग इत्येवमादि। समाधिजाः सिद्धयो व्याख्याताः ॥ १ ॥ विवरणम् विवरणम्

प्रथमे पादे समाधिः प्राधान्येन निर्दिष्टः । द्वितीये तत्साधनानि व्याख्यातानि । तृतीये तु सम्यग्दर्शनार्थयोगाङ्गानुष्ठानानुषङ्गजज्ञानैश्वर्यानुक्रमणं कृतम् । तच्च सर्व दु:खस्येति जैगीषव्याख्यानेन प्रतिपादितम् । दु:खहानं चात्यन्तिकगुणोपरम इत्युक्तम् । तथैव ‘तद्वैराग्यादपि’ दोषबीजक्षये कैवल्यम् । ”प्राप्तविवेकज्ञानस्याप्राप्तविवेकज्ञानस्य वा “सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ’ इत्यनन्तरमुक्तम् । तच्च कैवल्यं प्रतिपक्षनिवर्तनेन प्रतिपादनीयमितीदं कैवल्यपादानुक्रमणं क्रियते ॥

तथा अनेकजन्मान्तरोपार्जितवासनोच्छेदप्रकाराश्च कैवल्यार्थमेव प्रदर्शनीयाः । तथा कैवल्योपयोगिसमाधिसिद्धिस्तुत्यर्थं पूर्वत्रानुक्तं सिद्ध्यन्तरं प्रक्रियते । तुल्यजातीयानामन्यतमानिन्दनेनान्यतमस्तुतिर्भवति ॥ “तत्र ध्यानजमनाशयम्’ ‘कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम्” इति वक्ष्यमाणेन स्तुत्यर्थता आविष्करिष्यते ॥

जन्मौषधिमन्त्रतपस्समाधिजाः सिद्धयः । देहान्तरिता यथा योगादिना देहान्तरेषु स्वर्गादिषु जन्मसिद्धिः । ओषधिभिरसुरभवनेषु रसायनेन सोमामलकादिभक्षणेन पूर्वदेहानपनयेनैव । मन्त्रैः उपजप्यमानैः आाकाशगमनादि । तपसा सङ्कल्पसिद्धिः कामरूपी यत्र कामगमन इत्येवमादिः । समाधिजाः सिद्धयः पूर्वमेव व्याख्याताः ॥ १ ॥ तत्र कायेन्द्रियाणामन्यजातीयपरिणतानाम् – जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ २ ॥ पूर्वपरिणामापाय उत्तरपरिणामोपजनस्तेषामपूर्वावयवानुप्रवेशाद्भवति। कायेन्द्रियप्रकृतयश्च स्वं स्वं विकारमनुगृह्णन्त्यापूरेण धर्मादिनिमित्तमपेक्षमाणा इति ॥ २ ॥ विवरणम् विवरणम्

तत्र सिद्धिः कार्यकरणानामुत्कर्षः । जर्न्मसिद्धौ तु पतितपूर्वोपार्जितकार्यकरणस्य शरीरान्तरमुपादायिष्यत इति नास्ति तत्र संशयः । अपतितशरीरस्य तु जायन्तरपरिणामे किं तदेव कार्यकरणमुपादानमुतान्यदपीति – तत्र कायेन्द्रियाणामन्यजातिपरिणतानां – जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥

पूर्वपरिणामापाये समवस्थितानमेव पूर्वकार्यकरणानाम् उत्तरपरिणामोपजनः अपूर्ववयवानुप्रवेशेन भवति । कस्मात् ? अल्पपरिमाणस्योपादानस्य महापरिमाणकार्यानुपपत्तेः । न हि दशपलात्तपनीयपिण्डादशीतिपला पत्री जनिष्यते ?

कायेन्द्रियप्रकृतयः स्वं स्वं विकारं कायमिन्द्रियं वा अनुगृह्णन्त्यापूरेण धर्मादिनिमित्तम् आदिग्रहणादवक्ममरि निमित्तम् अपेक्षमाणाः ॥ २ ॥ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ ३ ॥ न हि धर्मादि निमित्तं तत्प्रयोजकं प्रकृतीनां भवति। न कार्येण कारणं प्रवर्त्यत इति। कथं तर्हि, वरणभेदस्तु ततः क्षेत्रिकवत्। यथा क्षेत्रिकः केदारादपां पूर्णात्केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनाऽपकर्षत्यावरणं त्वासां भिनत्ति तस्मिन्भिन्ने स्वयमेवाऽऽपः केदारान्तरमाप्लावयन्ति तथा धर्मः प्रकृतीनामावरणमधर्मं भिनत्ति तस्मिन्भिन्ने स्वयमेव प्रकृतयः स्वं स्वं विकारमाप्लावयन्ति। यथा वा स एव क्षेत्रिकस्तस्मिन्नेव केदारे न प्रभवत्यौदकान्भौमान्वा रसान्धान्यमूलान्यनुप्रवेशयितुं, किं तर्हि मुद्गगवेधुकश्यामाकादींस्ततोऽपकर्षति। अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रविशन्ति, तथा धर्मो निवृत्तिमात्रे कारणमधर्मस्य, शुद्ध्यशुद्ध्योरत्यन्तविरोधात्, न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति। अत्र नन्दीश्वरादय उदाहार्याः। विपर्ययेणाप्यधर्मो धर्मं बाधते। ततश्चाशुद्धिपरिणाम इति। तत्रापि नहुषाजगरादय उदाहार्याः ॥ ३ ॥ विवरणम् विवरणम्

धर्मादिनिमित्तमपेक्षमाणाः स्वं स्वं विकारमनुगृह्णन्ति इत्युक्तम् । तत्र किं धर्मोदिनिमित्तं प्रकृतीनां प्रयोजकं, किं वा नेति, तदाह – निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् । न हि धर्मादिनिमित्तं प्रयोजकं प्रकृतीनाम् । कस्मात् ? न हि कार्येण धर्मदिना निमित्तेन कारणं कार्यकरणप्राप्तरूपं प्रवर्त्यते ॥

कथं तर्हि? वरणभेदस्तु ततः धर्मादिनिमित्तात् भवति । क्षेत्रिकवत् । यथा क्षेत्रिकः केदारादपां पूर्णात् केदारान्तरं पिप्लावयिषुः नापः पाणिना अपकर्षति । आवरणं तु तासां भिनत्ति । तस्मित् मिन्ने स्वयमेवाऽऽपः केदारान्तरमाप्लावयन्ति ॥

तथा धर्मः प्रकृतीनामावरणमधर्मं भिनत्ति । धर्ममधर्मोऽपि भिनत्त्यावरणम् । तस्मिन् भिन्ने स्वयमेव प्रकृतयः स्वं स्वं विकारमाप्लावयन्ति पूरयन्ति ॥

यथा वा स एव क्षेत्रिकस्तस्मिन्नेव केदारे न प्रभवत्यौदकान् भौमान् वा रसान् धान्यमूलान्यनुप्रवेशयितुम् । किं तु मुद्भतिन्दुकगवीथुकश्यामाकादीन् तस्मात् धान्यमूलात् अपकर्षति । अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रविशन्ति ॥

तथा धर्मो निवृत्तिमात्रे कारणमधर्मस्य । अधर्मोऽपि धर्मस्य । शुद्ध्यशुद्ध्योरत्यन्तविरोधात् । न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति ॥

अत्र नन्दीश्वरप्रभृतय उदाहार्याः । विपर्ययेणा[प्य]धर्मो धर्मं बाधते । ततश्धाशुद्विपरिणाम इति । अत्रापि नहुषादय उदाहार्याः ॥ ३ ॥ यदा तु योगी बहून्कायान्निर्मिमीते तदा किमेकमनस्कास्ते भवन्त्यथानेकमनस्का इति – निर्माणचित्तान्यस्मितामात्रात् ॥ ४ ॥ अस्मितामात्रं चित्तकारणमुपादाय निर्माणचित्तानि करोति, ततः सचित्तानि भवन्तीति ॥ ४ ॥ विवरणम् विवरणम्

यदा तु योगी बहून् कायान्निर्मिमीते, तदा किमेकमनस्कास्ते भवन्ति, अथानेकमनस्का इति समाधिसिद्धे कश्चिदनुक्तो विशेष उच्यते -निर्माणचित्तान्यस्मितामात्रात् । सोऽहङ्कारं चित्तकारणमुपादाय निर्माणचित्तानि निर्मितानि चिन्तानि अप्राकृतानीश्वरचितानि नवानि करोति योगी । चित्तग्रहणमुदाहरणमात्रम् । इन्द्रियाण्यप्यस्मितामात्रादेव । ततः ते सचित्ताः सकारणांश्च भवन्ति ॥

चित्तेन्द्रियाभावे च मृतदेशीयः कायो निरर्थकः स्यात् । एकचित्तत्वे तु गुणप्रधानभावः प्रवृत्तिभदेश्च नोपकल्पते । तत्र विभुत्वादेकक्षत्रज्ञत्वेऽपि बहुकायाराम्भत्वमुपपद्यते । गुणप्रधानानेकप्रवृत्तिभेदार्थं तु करणभेद एषितव्यः ॥

केचितु क्षेत्रज्ञा अप्यन्ये प्रतिकायभेदं भवन्तीति मन्वते । केचिदत्र चोदयन्ति अकृताभ्यागमम् । अन्ये तु तदनुरूपोपार्जितकर्माणः क्षेत्रज्ञा भवन्तीति परिहारमाहुः ॥ ४ ॥ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५ ॥ बहूनां चित्तानां कथमेकचित्ताभिप्रायपुरःसरा प्रवृत्तिरिति सर्वचित्तानां प्रयोजकं चित्तमेकं निर्मिमीते, ततः प्रवृत्तिभेदः ॥ ५ ॥ विवरणम् विवरणम्

यद्येवं कथं बहूनां चित्तानाम् एकचिताभिप्रायपुरस्सरा प्रवृतिरिति । तत्रोच्यते - प्रवृत्तिभेद प्रयोजकं चित्तमेकमनेकेषाम् । प्रवृत्तिभेदे सत्यपि सर्वचित्तानां प्रयोजकं चित्तमेकं फलाधिकृतदेशीयं शरीरान्तरे निर्मिमीते ॥

तच्च योगिबुद्धिमनुवर्तते । अन्यानि च निर्माणचित्तानि भिन्नानेकप्रवृत्तीनि । तन्नायकचित्तानुवर्तीनि भवन्ति । ततश्च तेषां प्रवृत्तिः ‘निवृत्तिः उपेक्षा इत्येवमदिप्रवृतिभेदः उपपद्यते । राजप्रकृतिप्रवृतिभेदवत् । एवमेकचित्ताभिप्रायपुरःसरा च प्रवृत्तिरवकल्पते ॥ ५ ॥ तत्र ध्यानजमनाशयम् ॥ ६ ॥ पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धय इति। तत्र यदेव ध्यानजं चित्तं तदेवानाशयं तस्यैव नास्त्याशयो रागादिप्रवृत्तिर्नातः पुण्यपापाभिसम्बन्धः क्षीणक्लेशत्वाद्योगिन इति। इतरेषां तु विद्यते कर्माशयः ॥ ६ ॥ विवरणम् विवरणम्

तत्र ध्यानजमनाशयम् । पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपस्समाधिसामर्थ्यनिर्मितम् । तत्र तेषु यदेव ध्यानजं चित्तं तदेव अनाशयं क्लेशकर्माशयापवर्जितम् । तस्यैव नास्त्याशयः रागादिप्रवृत्तिः, अतो न पुण्यपापाभिसम्बन्धः क्षीणङ्केशत्वाद्योगिनः ॥ ‘क्लेशमूलो हि कर्माशयः’ इत्युक्तम् । तदभावाच्च कर्माशयानुपपत्तिः । अपरेषां तु जन्मादिसिद्धानां कर्माशयः अक्षीणक्लेशवाद्विद्यते एव ॥ ६ ॥ यतः – कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ७ ॥ चतुष्पदी खल्वियं कर्मजातिः। कृष्णा शुक्लकृष्णा शुक्लाऽशुक्लाकृष्णा चेति। तत्र कृष्णा दुरात्मनाम्। शुक्लकृष्णा बहिःसाधनसाध्या। तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः। शुक्ला तपःस्वाध्यायध्यानवताम्। सा हि केवले मनस्यायत्तत्वादबहिःसाधनाधीना न परान्पीडयित्वा भवति। अशुक्लाकृष्णा सन्न्यासिनां क्षीणक्लेशानां चरमदेहानामिति। तत्राशुक्लं योगिन एव फलसन्न्यासादकृष्णं चानुपादानात्। इतरेषां तु भूतानां पूर्वमेव त्रिविधमिति ॥ ७ ॥ विवरणम् विवरणम्

कुत एतयोगिन एव न कर्माशयः ? इतरेषां त्वस्तीति । यतः कर्माशुक्लकृष्णं योगिनस्त्रिविधमितरेषाम् । सिद्धासिद्धसामान्याविषयमिदं सूत्रम् ॥

ननु च पूर्वसूत्रर्माप सामान्यविषयमेव । न । समाधिसिद्धिस्तुल्यर्थत्वात् । सामान्यविषयत्वे तु समाधिसिद्धिस्तुतिरनुपपन्ना स्यात् । सिद्धिपरिसङ्ख्यानेन तु विशेषविषयत्वे, तुल्यजातीयजन्मादिसिद्धिचतुष्टयसावद्यत्वसङ्कीर्तनात् समाधिसिद्धेः स्तुतिरुपपद्यते ॥

किं च, जन्मादिसिद्धिसाधनानां कैवल्यार्थताप्रतिषेधश्चार्थादिति विशिष्टविषयमेव पूर्वसूत्रम् । इदं तु सामान्यविषयमेव पूर्वसूत्रहेतुत्वेनोपादानात् ॥

चतुष्पदी खल्वियं कर्मजातिः । कृष्णा दुरात्मनां शास्त्रमार्गतिर्वार्तदुष्टचेतसामशुद्धतरा । या तु बहिस्साधनसाध्या जायापुत्रपशुयाजकादिनिष्पाद्या सा शुक्लकृष्णा । कोऽसौ ? यत्र [पर]पीडाऽनुग्रहद्वारेण कर्माशयप्रचयः, सा क्लेशबाहुलकनिष्पादनीयत्वात् कृष्णा च शुक्ला च ॥

ननु ज्योतिष्टेमादिकर्मशास्त्रसमधिगतत्वान्न कृष्णं, शुक्लमेव तु तत् । अत्रोच्यते – न - काग्यैरनैकान्तिकत्वात् । तान्येव चार्थानर्थोभयकारणानि । अथ तत्फलस्य स्वर्गीदेराभिमतत्वादर्थत्वमेवेति चेन्न - परदाराभिमर्शनस्यापि वाञ्छितत्वादर्थेत्वप्रसङ्गात् ॥

अथ परदाराभिसरणादावभ्युग्रदोषसम्पातात्, प्रतिषिद्धत्वाश्च रागादिनियोगप्रवृतेश्वासमानमिति चेन्न - तत्रापि समानत्वात् । कामात्मतानिषेधादनिष्टयोगश्च । जन्ममरणयोरभ्युग्रदोषभूतयोरवश्यम्भावित्वादिष्टानिष्टद्वयहेतुत्वमेव । स चानिष्टयोगः परपीडादेरित्यवसीयते । तत्प्रतिषेधोपपत्तेः ॥

अवश्यं हि जन्ममरणद्वयेन विना स्वर्गादिफलमुपभोक्तुं न शक्यम् । तश्चेदस्ति तस्य दुःखरूपवादायातं तर्हि ज्योतिष्टोमादीनामुभयात्मकत्वम् । अथ कर्मान्तरोमेव प्रतिषिद्धं जन्ममरणारम्भकारणमिति चेन्न - तद्भावभावित्वात् । तस्मिन् हि सति जन्ममरणभावात् ॥

अथ तु भवत्पक्षे नित्यमेव कुर्वीत, न जन्ममरणे प्रवर्तेयाताम् । कुर्वत एव ते भवतो नाकुर्वतः । तस्मान्निमित्तत्वमवगम्यते । किं च - येन जन्ममरणमारप्स्यते त्वर्गादौ तत् कर्म यदि जन्मान्तरगतं, तत्रानिर्मोक्षप्रसङ्गः । काम्यप्रतिषिद्धाक्रियायामपि पूर्वजन्मकृतफलस्यावश्यप्रापर्णीयत्वात् ॥

अथ प्राक्तनजन्मकर्मक्षयार्थानि नित्यानीति चेत् – तन्न - नियमानुपपतेः । अनिष्टफलान्येवारब्धकार्याणि पूर्वकर्माणि, न त्विष्टफलानीति [नि]-नियन्तुं शक्यते । अदृष्टफलेषु हि सत्सु नित्यान्येव कुर्वतोऽपि मोक्षानुपपत्तिर्जन्मारम्भित्वं च ॥

तत इष्टानामप्युभयहेतुत्वं सिद्धम् । बाह्यसाधनानां कर्मणां पीडानुग्रहरूपत्वात् । न वै खल्वपि नित्येन पूर्वकृतकर्मणामिष्टानां ज्येतिष्टोमादीनां निवृत्तिरुपकल्पते । विरोधाभावात् । अविरोधश्चोभयेषां शुद्धिरूपत्वात् । तन्त्रसिद्धेश्च ॥

अथापि ब्रूयादे[दने]कजन्मारब्धानि कर्मणि जन्मै(कै)कमारभन्ते, नानारब्धकार्यमवशिष्यत इति । तथाऽपि पूर्वजन्मकर्मण इदानीन्तनजन्मफलदानेन क्षयङ्गतत्वादधुनातनजन्मनिष्पादितानामभिनवानामेव काम्यानां स्वर्गफलजन्ममरणदुःखारम्भित्वामिति शुक्लकृष्णरूपापत्तिः ॥

ततश्च जन्ममरणदुःखस्य स्वर्गाभिधानायाः प्रीतेश्च दर्शनात् तत्कारणस्य द्विरूपत्वमनुमास्यामहे । तथा च सिद्धे प्रतिषिद्धभूतहिंसाचरणं क्रत्वर्थमप्यग्रीषेमीयादौ प्रवर्तमानं कृष्णरूपामित्यनुमास्यामहे । क्रवर्थपि सती हिंसा अनिष्टभूतैव तदर्थतां प्रतिपद्यते ॥

यदुक्तम् - अविशेषेण यच्छास्त्रं शिरोवदित चोत्तरीमित, तत्र शिरेवदित्येवञ्जातीयकदृष्टन्तासिद्धत्वम् । अविशेषेण यच्छास्त्रमिति तु होमस्वरूपस्य विरोधाद्वाध्यबाधकत्वमुपपद्यते । हिंसायास्तु विरोधाभावादुभयोर्हेतुत्वं भोजनस्येव सुखशरीरस्थितिद्वयहेतुत्वम् । यथा च तीर्थस्नानस्य ह्लादादृष्टार्थत्वं तथा हिंसाऽप्यनिष्टफलत्वमपरित्यजन्ती महाफलं क्रतुं नैव नाभिनिर्वर्तयति ॥

अथ बाह्यसाधनसाध्यमपि निल्यं केवलं कामसंयोगाभावाच्छुक्नुमेवेति चेदेवमुच्यते – न - दोषवत्वेन नित्यकाम्यानामविशेषात् । यथा कामिनः काम्यानीति कामसंयोगेन काम्यानां दोषवत्वमेवं कामादिहेतुभूतविद्यादोषवत्वमविशिष्टमिति नित्यानामप्युभयात्मकत्वमेव । अविद्यावत्वं च नित्येषु प्रवृत्तस्य प्रायश्चित्तनिमित्तोत्पतेरवश्यम्भावित्वात् ॥

अपि चाविदुष एव सर्वं कर्म । विदुषः कर्मानुत्पत्तेः । विद्वान् हि पुरुषः स्वरूपावस्थानव्यतिरेकेण फलं नाभिमन्यते । स्वरूपमात्रावस्थानं च समस्तव्यापारविरामेण प्रवर्तते । न चैवं विदुषः क्रियाऽनुष्ठानं घटते । न हि स्थलपथेनाभिप्रतिष्ठासमानो जलमार्गाभिप्रस्थानसाधनं नावादिकमनुतिष्ठति ॥

ननु (न च) नित्यकाम्ययेरेवं सत्यविशेषः स्यात् । अत्रोच्यते -कामितफल(तन्मात्रं नि)कर्ममात्रनिवृतिप्रयोजनत्वानित्यानामदोषः । यो हि काम्याद्विनिवृत्तस्तस्य बहुलं कर्मणां कामरहितेन शुद्धेन कर्त्रा कृतत्वादतिशुद्धफलत्वं शुक्लत्वबहुत्वाञ्च संस्कारार्थत्वम् । अपि च कामनिवृत्तिरेव महत् फलम् ॥

किं च, नित्यं कुर्वतः किमर्थं करोमि, किं वाऽस्य फलं, के वास्यानुष्ठाने दोषाः, इति सम्यम्दर्शनरूपः परामर्शो जायत इति नित्यस्यास्ति विशेषः । शुक्लकृष्णात्मकत्वं त्वविशिष्टमुभयेषामपि कर्मणाम् । बाह्यसाधनसाधनीयत्वेन परपीडोपपत्तेः । [इति] तस्मादुच्यते ॥

शुक्ला कर्मजातिः तपस्स्वाध्यायध्यानवताम् । सा हि केवले मनस्यायत्तत्वादबहिस्साधना बाह्यसाधानानपेक्षा न परान् पीडयित्वा भवति ॥

अशुक्लकृष्णा सन्न्यासिनां क्षीणक्लेशानां चरमदेहानाम् । एषाम् आरब्धैकशरीराणाम् । अशुक्ला सन्यासात् अकृष्णा च अनुपादानात् अकरणात् । नापि शुक्लकृष्णविमिश्रा, बाह्यसेन्यासानुपादानाभ्यां हेतुभ्याम् । तथा चोक्तम् –

अनिष्टाभिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ॥

भवत्य[त्यत्यगिनां]योगिनां प्रेत्य न तु सन्न्यासिनां कश्चित्तू ॥ इति ॥

इतरेषां तु भूतानां जन्मौषधिमन्त्रतपस्सिद्धानामन्येषां च त्रिविधं शुक्लं कृष्णं मिश्रं च पूर्वमिव यथा द्वितीये पादे ‘क्लेशमूलः’ इत्यादौ ॥ ७ ॥ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ८ ॥ तत इति त्रिविधात्कर्मणः, तद्विपाकानुगुणानामेवेति यज्जातीयस्य कर्मणो यो विपाकस्तस्यानुगुणा या वासनाः कर्मविपाकमनुशेरते तासामेवाभिव्यक्तिः। न हि दैवं कर्म विपच्यमानं नारकतिर्यङ्मनुष्यवासनाभिव्यक्तिनिमित्तं सम्भवति। किन्तु दैवानुगुणा एवास्य वासना व्यज्यन्ते। नारकतिर्यङ्मनुष्येषु चैवं समानश्चर्चः ॥ ८ ॥ विवरणम् विवरणम्

कैवल्यस्य प्रस्तुतत्वात् तस्य च प्रतिबन्धहेतयः क्लेशाः, कर्माणि, वासानाश्च, [व्याख्यातव्याः] । क्लेशानां तु व्यापारः, प्रतिपक्षः, निवृत्तिश्च तेषां, विस्तरेण व्याख्याताः । एवं कर्मणामपि वासनानां तुल्यव्यापारावस्थानप्रतिपक्षनिवृत्तयो निर्वर्णनीया इत्यत उत्तराणि सूत्राण्यारभ्यन्ते-यतस्तान्निवृत्तौ कैवल्यमुपपद्यते नान्यथा । ततस्तद्विपाकानुगुणानामेवाभिव्यतिर्वासनानाम् ॥

ततः तस्मात् त्रिविधात् उक्तलक्षणात् कृष्णशुक्लविमिश्ररूपात् कर्मणः प्रविपच्यमानाद्धेतुभूतात् तद्विपाकानुगुणानां तस्यैव कर्मणो विपाकः फलं तदनुगुणानां तदनुरूपाणां तादृशीनाम् एव वासनानामभिव्यक्तिः ॥

एतदुक्तं भवति - देवतिर्यङ्मनुष्याविपाकहेतुषु कर्मसु मध्ये यज्जातीयस्य कर्मणो यादृशो विपाकः तस्य विपाकस्य अनुगुणा वासनाः तत् कर्मविपाकमनुशरेते अनुत्पद्यन्ते, तासामेवाभिव्यक्तिः । तत्सदृशेन कर्मविपाकेन संस्कृतत्वात् । यथा मातृसदृशी प्रविलोक्य वत्सोऽनुधावति । नान्यासामतदनुगुणानामभिव्यक्तिः ॥

न हि दैवं कर्म विपच्यमानं फलाभिमुखीभावमापद्यमानं नारकतिर्येङ्मनुनुषवासनाभिव्यक्तिनिमित्तं[सं]भवति । निमित्तनैमित्तिकयोः प्रतिनियतानुगुणत्वात् । किं तु दैवानुगुणा एवास्याभिव्यज्यन्ते । नारकतिर्यङ्मानुषेष्वेवं समानश्चर्चः समाधिः ॥

नारके कर्मणि विपश्यमाने तत्कर्मानुगुणा वासनाः प्रादुर्भवन्ति । तथा तैर्यग्योनकर्मणि विपच्यमाने तद्विपाकानुरूपा वासना व्यज्यन्ते । तथा मानुषेऽपि समानो न्यायः । न हि स्वविपाकसदृशीरनुपादाय वासनास्तस्य तस्य कर्मणे विपाकः सम्भवति । नापि वासनानामात्मनिष्पादकविपाकाराभिकर्मतुल्यरूपाणि कर्मान्तराणि विपाकाभिमुखान्यन्तरेणाभिव्यक्तिः । एवं कर्मणां वासनानां च परस्परहेतुहेतुमद्भावोऽनादिभूतः ॥ ८ ॥ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९ ॥ वृषदंशविपाकोदयः स्वव्यञ्जकाञ्जनाभिव्यक्तः। स यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहितः पुनश्च स्वव्यञ्जकाञ्जन एवोदियाद्द्रागित्येवं पूर्वानुभूतवृषदंशविपाकाभिसंस्कृता वासना उपादाय व्यज्येत। कस्मात्। यतो व्यवहितानामप्यासां सदृशं कर्माभिव्यञ्जकं निमित्तीभूतमित्यानन्तर्यमेव। कुतश्च, स्मृतिसंस्कारयोरेकरूपत्वात्। यथाऽनुभवास्तथा संस्काराः। ते च कर्मवासनानुरूपाः। यथा च वासनास्तथा स्मृतिरिति जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतिः। स्मृतेश्च पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशाद्व्यज्यन्ते। अतश्च व्यवहितानामपि निमित्तनैमित्तिकभावानुच्छेदादानन्तर्यमेव सिद्धमिति ॥ ९ ॥ विवरणम् विवरणम्

तत्र वासनानामनेकजातिकालदेशव्यवधानेन दवीयसीनामानन्तर्यं विपच्यमानेन कर्मणा सह नास्ति । यथा दवीयसां मित्रस्वजनादीनाम् । यथैव · च नेदीयसी वासना पटीयसी, न तथा दवीयसी पटीयमानमासीदति । तस्मान्नास्ति दवीयसीनामानन्तर्यं वासनानाम् ॥

तदभावे चायं दोषः प्राप्नोति – यथा कल्पशतान्तरितः वृषदंशविपाकः भविष्यतः वृषदंशविपाकस्वानन्तरातीतो दैवविपाकः । तत्र नेदीयसी दैववासना विरुद्धत्वात् वृषदंशविपाकाभिव्यक्तिहेतुतां न प्रतिपद्यते । कल्पशतव्यवहितानामपि वृषदंशवासनानां विप्रकर्षादनुपादाने वृषदंशविपाकहेतोः कर्मणो विपाको नावकल्पेत । ततश्च कर्मणां वासनानां चानर्थक्यं प्रसज्यतेति ॥

अत्रोच्यते – जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् । वृषदंशविपाकादयः स्वकर्मव्यञ्जकाञ्जनाः व्यञ्जकेन स्वेन कर्मणा व्यज्यमानाः यदि जातिशतेन वा दूरदेशतया वा कल्पसहस्रेण वा व्यवहिताः ॥

तथा चोक्तम् “ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासः” इत्यादि । जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतयः । स्मृतिभ्यश्च पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशावेशादभिव्यज्यन्ते । कर्माशयस्यापि वृत्तिलाभो देशादिनिमित्तापेक्षयेति प्रतिपादितम् ॥

अतश्च व्यवहितानामपि निमित्तनैमित्तिकभावानुच्छेदादानन्तर्यमेव । यादृशः संस्कारस्तादृशी, स्मृतिः । प्रतिनियतव्यञ्जकत्वाच्च तयोर्न विप्रकर्षः कारणम् । यतः कल्पशतव्यवहितादपि संस्कारादेव तुल्यजातीया स्मृतिरिति, आनन्तर्यमेव सिद्धम् ॥ ९ ॥ तासामनादित्वं चाऽऽशिषो नित्यत्वात् ॥ १० ॥ तासां वासनानामाशिषो नित्यत्वादनादित्वम्। येयमात्माशीर्मा न भूवं भूयासमिति सर्वस्य दृश्यते सा न स्वाभाविकी। कस्मात्। जातमात्रस्य जन्तोरननुभूतमरणधर्मकस्य द्वेषदुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत्। न च स्वाभाविकं वस्तु निमित्तमुपादत्ते। तस्मादनादिवासनानुविद्धमिदं चित्तं निमित्तवशात्काश्चिदेव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपावर्तत इति। विवरणम् विवरणम्

इदानीं वासनानामनादित्वेन विपाकनिर्वर्तकत्वममिदर्शयति – संस्कारस्य चानादित्वोमकैकस्य चासङ्ङ्ख्यययोनिगमनं वैराग्यप्रतिपत्त्यर्थं प्रतिपादयति – तासामनादित्वं चाऽऽशिषो नित्यत्वात् । तासां वासनानामाशिषो नित्यत्वादनादित्वम् । येयमात्माशीः ‘मरणं मा नु भूत्’ इति, एवमाशीर्वा ‘भूयासम्’ इति सर्वस्य दृश्यते । स न स्वाभाविकी स्वरसप्रवृत्ताऽपि निरूढाऽपि ॥

कस्मात्? जातमात्रस्य अननुभूतजननमरणधर्मकस्य द्वेषानुस्मृतिनिमित्तो दुःखानुस्मृतिहेतुको वा मरणत्रासः कथं भवेत् ? न हि कथञ्चन दु:खस्मरणादिनिमित्तोपादान स्वाभाविकस्योपपद्यते । न च स्वाभाविकं वस्तु निमित्तमुपादत्ते । न हि ज्वलनस्योष्णत्वं स्वाभाविकं सदात्मीयकार्ये निमित्तमीक्षेत ॥

न चाननुभूते विषये स्मृतिरिष्टेऽनिष्टे वा कस्यचिदुपप्लोष्यते । अनुभूतप्रियाननुस्मरणे, न च तद्विषयवाञ्छा । तथा अनुभूताप्रियाननुस्मरणे, न तद्विषयो द्वेषस्त्रासश्च लोके परिदृश्यते । तथा च यो यो जातस्तस्य तस्येह जन्मन्यननुभूतजन्ममरणस्य जन्मानन्तरमेवात्माशीरभिदृश्यते । तस्मात् तदाशीर्नित्यत्वात् पूर्वजन्ममरणानुभवोऽनुमीयते । ततः पूर्वस्ततोऽपि पूर्व इति, स्मृतिसंस्काराणां तत्कारणानां च जन्ममरणानुभवानामनादित्वमनुमिमीमहे ॥

तथैव एकैकस्य प्राणभृतोऽनेकयोनिगमनासाद्धिः । एवमेता वासना दुरवहना अविहानीयाः । कुत एवम् ? यस्मादनादिवासनानुविद्धं चित्तमिदं निमित्तवशात् कर्मनिमित्तवशात् काश्चिदेव वासनाः प्रविपच्यमानकर्मतुल्यजातीयक्रियाविपाकाभि(न्न)निष्पादिताः प्रतिलभ्य पुरुषस्य भोगायोपावर्तते यावदवसिताधिकारमिति ॥ घटप्रासादप्रदीपकल्पं सङ्कोचविकासि चित्तं शरीरपरिमाणाकारमात्रमित्यपरे प्रतिपन्नाः। तथा चान्तराभावः संसारश्च युक्त इति। वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकासिनीत्याचार्यः। विवरणम् विवरणम्

तदेतच्चित्तं घटप्रासादप्रदीपकल्पं सङ्कोचविकासि हस्तिमशकादिशरीरपरिमाणाकरं यथा दीपो घटप्रासादादिषु । तदेवम् अपरे प्रतिपन्नाः । तत्र च युक्तिमाह- तथा चेति । तथा च सङ्कोचविकसित्वे च अन्तराभावः मरणादुत्तरकालं जन्मनश्च प्रागेतस्मिन् अन्तराले भवतीत्यन्तराभावः संसरणं सञ्चरणं येन सञ्चरति तदपि शरीरमातिवाहिकं चित्तस्याविभुत्वे युक्तमिति ब्रुवन्ति । वृत्तिरेवास्य विभुनश्चित्तस्य सङ्गोचविकासिनीत्याचार्याः । आचार्यग्रहणम् उपपत्तिमत्वात् पूजार्थम् । चित्तस्य स्थितिर्गतश्च परिणामित्वाद्विभुत्वेऽपीन्द्रियाणां चोपपद्यते योगिनां च विकरणभावः सर्वज्ञत्वं विभुत्वे घटते ॥

न चोपभोगशून्यस्यातिवाहिकशरीरस्य कल्पनायामस्ति प्रमाणम् । शशविषाणवदनुपलभ्यमानत्वात् ॥ “न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति” इति श्रुतेः । तथा “अथ यो हैताननन्तानुपास्ते ” इति श्रुतिः करणव्यापित्वं ख्यापयति ॥ तच्च धर्मादिनिमित्तापेक्षम्। निमित्तं च द्विविधम् – बाह्यमाध्यात्मिकं च। शरीरादिसाधनापेक्षं बाह्यं स्तुतिदानाभिवादनादि, चित्तमात्राधीनं श्रद्धाद्याध्यात्मिकम्। तथा चोक्तम् – ये चैते मैत्र्यादयो ध्यायिनां विहारास्ते बाह्यसाधननिरनुग्रहात्मानः प्रकृष्टं धर्ममभिनिर्वर्तयन्ति। तयोर्मानसं बलीयः। कथं, ज्ञानवैराग्ये केनातिशय्येते, दण्डकारण्यं च चित्तबलव्यतिरेकेण शारीरेण कर्मणा शून्यं कः कर्तुमुत्सहेत समुद्रमगस्त्यवद्वा पिबेत् ॥ १० ॥ विवरणम् विवरणम्

तच्च सङ्कोचविकासित्वं वृत्तेः धर्मादिनिमित्तापेक्षम् । निमित्तं च द्विधा बाह्यमाध्यात्मिकं च । शरीरादिसाधनापेक्षं बाह्यं स्तुत्यभिवादनादि कर्म । किं पुनराध्यात्मिकम्? आह - केवलचित्तमात्राधीनं श्रद्धादि ॥

तथा चोक्तम् - ये चैते मैत्र्यादयो ध्यायिनां विहारा: चित्तव्यापाराः चेष्टितानि ते बाह्यसाधननिरनुग्रहाः बाह्यसाधननिरपेक्षाः केवलचित्तमात्रनिर्वृत्ताः प्रकृष्टं धर्ममाभिनिर्वर्तयन्ति ॥

तयोः बाह्याध्यात्मिकयोर्निमित्तयोः मानसम् आध्यात्मिकं मैत्र्यादिचित्ताभिनिष्पन्नं निमित्तं बलीयः । कथम् इति? ज्ञानवैराग्ये केनातिशय्येते ? न केनापीत्यर्थः । यतस्तृतीयपादानुक्रान्ताविभूतजातं ज्ञानवैराग्यसाध्यम् । दण्डकारण्यं चित्तबलव्यतिरेकेण कः कर्तुं शक्नोति । कश्च पिबेत् समुद्रमगस्त्यवत् इति । अतो मानसबलमेव बलम् । न शारीरम् । “तस्मात् मानसं परमं वदन्ति” इति श्रुतेः । तथा च भगवानाबभाषे-

“श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । “

“सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते“ इति ॥ १० ॥ हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः ॥ ११ ॥ हेतुर्धर्मात्सुखमधर्माद्दुःखं, सुखाद्रागो दुःखाद्द्वेषस्ततश्च प्रयत्नस्तेन मनसा वाचा कायेन वा परिस्पन्दमानः परमनुगृह्णात्युपहन्ति वा ततः पुनर्धर्माधर्मौ सुखदुःखे रागद्वेषाविति प्रवृत्तमिदं षडरं संसारचक्रम्। अस्य च प्रतिक्षणमावर्तमानस्याविद्या नेत्री मूलं सर्वक्लेशानामित्येष हेतुः। फलं तु यमाश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, न ह्यपूर्वोपजनः। मनस्तु साधिकारमाश्रयो वासनानाम्। न ह्यवसिताधिकारे मनसि निराश्रया वासनाः स्थातुमुत्सहन्ते। यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदालम्बनम्। एवं हेतुफलाश्रयालम्बनैरेतैः सङ्गृहीताः सर्वा वासनाः। एषामभावे तत्संश्रयाणामपि वासनानामभावः ॥ ११ ॥ विवरणम् विवरणम्

कथं पुनस्तासां वासनानां निवृत्तिः । अनादिरूढत्वात् न निवृत्तिरासां घटामाढौकते । न च तन्निवृत्तिमन्तरेण कैवल्योपपत्तिरित्यत उच्यते - हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः । हेतुश्च फलं चाश्रयश्चालम्बनं च हेतुफलाश्रयालम्बनानि । तैः सङ्गृहीतत्वादुपग्रथितत्वादेषां हेत्वादीनामभावे तदभावे वासनानामभावः । तस्मादुपपद्यते वासनानां निवृतिः ॥

कोऽसौ हेतुः? इत्याह-धर्मस्तावदविद्याविनमितचेतसाम् । ततो धर्मात् सुखम् । सुखानुशयी रागः । एवमविद्यात एव निषिद्धाचरणात् अधर्मः । ततो दु:खम् । दुःखानुशयी द्वेषः । ततः सुखोपार्जने दु:खपरिहारे च पूर्ववेदव प्रयत्नः । तेन प्रयत्नेन वाचा कायेन परिस्पन्दमानः परमनुगृह्णात्युपहन्ति च । पुनश्च ततः परानुग्रहपरपीडनाम्यां धर्माधर्मौ । ताभ्यां सुखदुःखे । ताभ्यां च रागद्वेषौ पूर्ववदेव । ततः प्रयत्नः ॥

इत्येवमनवरतप्रारब्धपरिभ्रमणं प्रवृत्तमिदं षडरं संसारचक्रम् । अस्य च प्रतिक्षणमावर्तमानस्याविद्या नेत्री रथचक्रस्य तुरङ्गयुवतिरिव ॥

सा मूलं सर्वक्लेशानामिति यदेतदविद्यानेतृकं षडरं चक्रम् एष हेतुः वासनानाम् । एतच्चक्रावृत्तिकृता हि ताः । अविद्यायास्त्वभावे विशीर्णनाभिबन्धनमिव चक्रं, धर्मादिहेतुचक्रमपि विशीर्यते । तद्विशरणे च चक्रावृत्तिकृतजन्मनां वासनानामकार्यक्षमत्वम् ॥

फलं तु यम् अर्थम् आश्रित्य यस्य प्रत्युत्पन्नता तत् तस्य फलम् । तदपि वासनानां सङ्ग्राहकम् । तदभावे वासनाभिव्यक्त्यभावात् । सुखादिफलस्य वासनाधायित्वात् । न ह्यपूर्वोपजनः । नात्यन्तमसदुत्पद्यते ॥

मनः साधिकारं कर्तव्यतावत् न पुरुषार्थशून्यम् । कृतपुरुषार्थस्वरूपज्ञानं विनिवृत्ताविद्याकमिति साधिकारमाश्रयो वासनानाम् । तदाश्रित्य हि हेतुचक्रपरिभ्रमणम् । न ह्यवसिताधिकारे करणीयपुरुषार्थशून्ये मनसि निराश्राया वासनाः स्थातुमुत्सहन्ते ।

यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदालम्बनम् । एवं हेतुफलाश्रयालम्बनैरेतैः सङ्गृहीताः सर्वा वासनाः । तेषां हेत्वादीनाम् अभावे तत्संश्रयाणामपि वासनानामभावः छत्राभावे छायानिवृत्तिवत् ॥

एषां चाभावोपायो द्वितीयपादे व्याख्यातः । तस्मात् न वासना सम्यग्दर्शने सति कैवत्यप्रतिबन्धिनी । भवत्येवाविद्यानिवृत्तौ कैवत्यमिति ॥ ११ ॥ नास्त्यसतः सम्भवः, न चास्ति सतो विनाश इति द्रव्यत्वेन सम्भवन्त्यः कथं निवर्तिष्यन्ते वासना इति। अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ १२ ॥ भविष्यद्व्यक्तिकमनागतमनुभूतव्यक्तिकमतीतं स्वव्यापारोपारुढं वर्तमानं, त्रयं चैतद्वस्तु ज्ञानस्य ज्ञेयम्। यदि चैतत्स्वरूपतो नाभविष्यन्नेदं निर्विषयं ज्ञानमुदपत्स्यत। तस्मादतीतानागतं स्वरूपतोऽस्तीति। किञ्च भोगभागीयस्य वाऽपवर्गभागीयस्य वा कर्मणः फलमुत्पित्सु यदि निरुपाख्यमिति तदुद्देशेन तेन निमित्तेन कुशलानुष्ठानं न युज्येत। सतश्च फलस्य निमित्तं वर्तमानीकरणे समर्थं नापूर्वोपजनने। सिद्धं निमित्तं नैमित्तिकस्य विशेषानुग्रहणं कुरुते नापूर्वमुत्पादयतीति। विवरणम् विवरणम्

ननु चैषामभावे तदभाव इत्युक्तम् । तथा च सिद्धान्तहानिः ! कथम् ? एवं हि सिद्धान्तः नास्त्यसतः सम्भवः उत्पत्तिः । न चास्ति सतो विनाश इति । अथ पुनः सन्ति वासनास्तदा, द्रव्यत्वेन (वस्तुसत्यः) [सम्भवन्त्यः] कथं निवर्तिष्यन्ते । नैव निवर्तिष्यन्त इत्यर्थः । तत्र कथमुक्तमेषामभावे तदभाव इति । कथं वा कैवत्यमनिवृत्तासु हेतुकृतजन्मसु वासनास्वित्यत उत्तरं पठति - अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्मणाम् ॥

एवं वैतत् । अथ वा सिद्धान्तपक्षेणैव नेयं भाष्यम् । कथम् ? एषामभावे तदभावः इति हेत्वादीनां वासनानां च नात्यन्ताभाव उच्यते । कस्मात् ? नास्त्यसतः सम्भवो न चास्ति सतो विनाश इति द्रव्यत्वेन वस्तुतया सम्भवन्त्यः कथं निवर्तिष्यन्ते वासनाः । शब्दविकल्पितत्वे वासना नात्यन्तं निवर्तिष्यन्ते । सन्त्येवातीतस्वरूपेणेत्यर्थः ॥

भविष्यद्व्यक्तिकं भविष्यति व्यक्तिः यस्य तत् भविष्यद्व्यक्तिकम् । यथा पिण्डावस्थायां घटरूपम् । प्रवृत्तेतिकर्तव्यतासाधनं तत् अनागतम् । भूतव्यक्तिकमतीतं भूता अतिक्रान्ता व्यक्तिरुपलब्धिर्विषयत्वापत्तिर्यस्य । यथा प्रभग्नो घटः तदतीतमित्युच्यते । अव्यङ्ग्यमभविष्यत् यस्य व्यञ्जने साधनमुपादेयम् । अनतीतव्यक्तिकमभूतम् । किं तर्हि? व्यापारोपारूढ़ं तत् वर्तमानम् । यथा घटः स्वक्रियायाः ॥

त्रयं चैतत् अतीतानागतवर्तमानलक्षणकं वर्तमाने धर्मिणि वर्तमाने धर्मरूपं वस्तु समस्तलोकविनिश्चितरूपस्याव्यभिचारिणो ज्ञानस्य प्रमाणभूतस्य ज्ञेयम् हि सङ्गिरामहे । कस्मात्? निश्चितज्ञानोत्पत्तिविषयत्वात् ॥

यदि चैतद्वस्तु स्वरूपतो नाभविष्यत् नेदं निर्विषयं ज्ञानमुदपत्स्यत । यथा शशविषाणादि निश्चितज्ञानोत्पतिकारणं न भवति । न च तथेह निश्चितवस्तुज्ञानोत्पत्तिहेतुविषयत्वं न विद्यते । सकलजनानुभवविषयमिदं ज्ञानं वर्तते । घटो भविष्यति घटो भूत इति च । तस्माद्वस्त्वेव कालत्रयसम्बन्धि । परिनिश्चितज्ञानोत्पत्तिविषयत्वात् ॥

अथ वा नावस्तुविषयमतीते भविष्यति च घटादौ ज्ञानम् । शब्दविकल्पितत्वे सति निश्चितरूपेण उत्पद्यमानत्वात्, वर्तमानघटादिविषयज्ञानवत् । अव्यभिचाराच्च । लिङ्गानुमेयत्वाच्च, धूमेन अग्न्यादिज्ञानवत् । लिङ्गदर्शनानन्तरोत्पत्तेर्वा ॥

यद्वा, अतीतमनागतं च वस्तु सत् स्वरूपेण, लिङ्गदर्शनानन्तरबुद्धिविषयत्वात्, प्रसिद्धानुमेयवत् । तस्मादतीतानागतं स्वरूपतोऽस्ति ॥

किं च - भोगभागीयस्य भोगहितस्य यागादे:, अपवर्गभागीयस्य वा अपवर्गहितस्य समाध्यादेः कर्मणः फलमुत्पित्सु यस्य नास्ति तस्य वादिनः तत् निरुपाख्यं प्राप्नोति शशविषाणवत् । न हि शशविषाणं भविष्यतीत्युपाख्यायते । न तथेह । किं तर्हि ? यागेन स्वर्गो भविष्यति, समाध्यादिना मोक्षो भविष्यति इति च कुशलैः अतिकठोरमतिभिरुपाख्यायते ॥

तस्मात् निरुपाख्यत्वात् तदुद्देशेन फलोद्देशेन । निरुपाख्यत्वात् तेन फलेन निमित्तेन कुशलानुज्ञानम् इदं कुरु भविष्यति त्रानेनादः इति स्वयमप्रतिपद्यमानाः कुशलाः कथमनुजानीयुः उपदिशेयुर्वा । किं च, दृष्टमात्रप्रतिपत्तौ कुशलाकुशलाविशेषश्च प्राप्नोति । कुशलानां वा मिथ्याप्रतिपत्तिः ‘अकुशलाः समीचीनदर्शनाः’ इति ॥

किं च, अभावज्ञानात् कुशला अपि फलाय नाभिसमीहेरन् । अभावाविशेषाच्च कारणनियमो नाकल्पिष्यत । (न) सर्वतो वा सर्वमुदपत्स्यत । नापि कारणमुपादास्यत । उपादाने वा तैलार्थी सैकतमप्युपादास्यत किं तिलैरनेकायासनिष्पाद्यैः । अत्यन्तासदपूर्वं चेदमजनिष्यत । न चैतद् दृष्टम् ॥

तस्मात्तद्भोगभागीयमपवर्गभागीयं वा कर्म निमितं कारणं विद्यमानस्यैव तस्य फलस्य वर्तमानीकरणे समर्थं नापूर्वोपजने । सिद्धं हि स्वेनात्मना निमित्तं स्थाली क्षीरधर्मातञ्चनादि दध्यादिकस्य नैमित्तिकस्य कर्कशतरभावाद्यभिव्यक्तिद्वारेण विशेषानुग्रहं कुरुते-नापूर्वमेव दधि उत्पादयति तथेह भोगभागीयादिकर्म ॥ धर्मी चानेकधर्मस्वभावस्तस्य चाध्वभेदेन धर्माः प्रत्यवस्थिताः। न च यथा वर्तमानं व्यक्तिविशेषापन्नं द्रव्यतोऽस्त्येवमतीतमनागतं च। कथं तर्हि, स्वेनैव व्यङ्ग्येन स्वरूपेणानागतमस्ति। स्वेन चानुभूतव्यक्तिकेन स्वरूपेणातीतमिति। वर्तमानस्यैवाध्वनः स्वरूपव्यक्तिरिति न सा भवत्यतीतानागतयोरध्वनोः। एकस्य चाध्वनः समये द्वावध्वानौ धर्मिसमन्वागतौ भवत एवेति नाभूत्वा भावस्त्रयाणामध्वनामिति ॥ १२ ॥ विवरणम् विवरणम्

किं च, धर्मी चानेकधर्मस्वभावोऽनेकधर्मात्मा । यथा कनकपिण्डः शान्तोदिताव्यपदेश्यरुचककुण्डलादिधर्मात्मकः । तस्य धर्मिणः अध्वभेदेन अतीतादिलक्षणभेदेन धर्माः प्रत्यवस्थिताः ॥

यथा वर्तमानं वस्तु व्यक्तिविशेषापन्नं कुण्डलादिव्यक्तिप्राप्तं द्रव्यतः कार्यरूपतः अस्ति व्यापाराधिरूढतया, नैवमतीतमनागतं च । किं तर्हि? स्वेनैव व्यङ्ग्येन स्वरूपेण भविष्यता अनागतमस्ति । स्वेन चानुभूतव्यक्तिकेन अतिक्रान्तोपलब्धिकेन अतीतमस्ति ॥

वर्तमानस्यैव त्वध्वनः स्वरूपतो व्यक्तिरिति न सा व्यक्तिः भवत्यतीतानागतयोरध्वनोः । एकस्य चाध्वनः समये कालेद्वावध्वानौ धर्मिसमन्तागातौ विरोधात् न भवत एवेति । तथा चोक्तोऽश्वसङ्करपरिहारः ॥

यस्य पुनरतीतमनागतं च लक्षणं स्वरूपेण नास्ति, तस्य धर्माणामध्वभेदो न प्राप्नोति । कथम् ? न हि तस्य घटो भविष्यन्नतीतो वा विद्यते । न हि कपालानि पिण्डो वा घटः । इत्येकस्य वर्तमानस्यैवाध्वनः. समये त्रयाणामध्वनां धर्मत्वेन समागमः स्यात् । अतश्च वर्तमान एव घटोऽतीतोऽनागत इति चोच्येत पिण्डकपालयोरघटत्वात् मृदि च घटस्याभावाद्भविष्यति घटोऽतीतो घट इति च पिण्डकपाले निरुच्येयाताम् । तथा च विवक्षतो गैरप्यश्व इति स्यादधोऽपि गैौरिति ॥

अथोच्येत, घटस्य प्रगभावप्रध्वंसाभावावतीतानागतत्वेनाभिधीयेते इति । ततोऽप्येष पापीयानभ्युपगमः । तत्र युक्तमपि गौरश्व इति वस्तुत्वादेतयोः । न त्विह वस्तुवाचिना शब्देन घटोऽतीतोऽनागत इति चाभावस्याभिधानं युज्यते स[त्य]त्ववादिनाम् ॥

नापि नियम उपपद्यते । घटेनैव व्यपदिश्यते, घटोऽतीतो घटे भविष्यतीति च । न पुनः कुलालादिभिरपदिश्यते कुलालादयोऽतीता भविष्यन्ति वेति ॥

अथ घटस्यैव तत्रानुपलभ्यमानत्वादिति चेत्-न-हस्तिशार्दूलादीनामपि तत्रानुपलम्भे व्यपदेशप्रसङ्गात् । अथोपलब्धपूर्वस्यैव व्यपदेश इति चेत्-न- घटक्रियादिष्वपि प्रसङ्गात् ॥

अथ घटस्य तेन क्रियाद्यभाव इति चेत्-न-अभावस्य सम्बन्धविशेषानुपपत्तेः । न हि समवायलक्षणः प्राप्तिलक्षणो वा सम्बन्धो भावाभावयोरवकल्पते । येनासौ घटस्य अभावो न पुनः क्रियादीनाम् । अन्यतरसम्बन्धे च अभावस्य वस्तुत्वप्रसङ्गः । अथ वस्त्वेवेति चेत्, सिद्धस्तर्हि भविष्यन्नतीतश्च पदार्थः ॥

अथोपचारात् सिद्धकपालावस्था अवयवा भविष्यति घटो भूतो घट इति चापदिश्येरन् सम्बन्धात्, तद्यथा-अन्नं प्राणा इति, अत्रापि यथा कुलालचक्रदण्डसूत्रादिषु घटो नास्ति, तथा पिण्डकपालेष्वपीति तदभावविशेषे च कपालेषु घटेऽतीत इति व्यपदेशो न कुलालादिष्विति नियमानुपपत्तिः ॥

न चापि विद्यमानानां साधनानां घटादिनिष्पादिनामप्यविद्यमानैरुत्पाद्यैर्घटादिभिः सम्बन्ध उपपद्यते । न चासति सम्बन्धे घटोत्पादनाभिप्रायेण कारकप्रवृत्तिः ॥

अथायुतसिद्धः समवायलक्षणः सम्बन्धो जन्यानां कारणानां च न प्रतिषिध्यत इति चेत्-न-युतसिद्धायुतसिद्धत्वस्य समानकालभाविनां वस्तूनां दर्शनात् । न भावाभावयोः क्वचिदपि युतसिद्धत्वमयुतासिद्धत्वं वा दृश्यते ॥

तस्माज्जन्यजनकानामपि सम्बन्धाभ्युपगमाद्विद्यमानत्वमेवेति, उत्पत्तेः प्रागूर्ध्वं च विद्यते कार्यम्, वस्त्वन्तरसम्बन्धात्, प्रसिद्धघटादिवत् । उपलप्स्यमानत्वादुपलब्धत्वाच्च, अपवरकस्थघटदिवत् । उद्दिश्य कर्त्रा प्राप्यत्वात्, देशान्तरवत् । तथा कर्तृव्यापारप्राप्यत्वाच्चेति ॥

किं च, न लौकिका अतीतानागतशब्दाभ्यां गगनकमलिनविदविद्यमानमर्थं प्रतियन्ति प्रतिपादयन्ति वा । तस्मादतीतमनागतं च स्वरूपतो विद्यत एव । नाभूत्वा भावस्त्रयाणामध्वनाम् । किं तर्हि ? विद्यमानानामेवाभिव्यक्तिः ॥

तस्माद्व्यक्तिरूपेण वासनानामत्यन्ताविनिवृत्तिः । गुणरूपेण तु सतीनामपि कार्यासमर्थत्वान्न कैवल्याभावदोषः । नापि सिद्धान्तविरोधः ॥ १२ ॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥ ते खल्वमी त्र्यध्वानो धर्मा वर्तमाना व्यक्तात्मानोऽतीतानागताः सूक्ष्मात्मानः षड्विशेषरूपाः। सर्वमिदं गुणानां सन्निवेशविशेषमात्रमिति परमार्थतो गुणात्मानः। तथा च शास्त्रानुशासनम् – गुणानां परमं रूपं न दृष्टिपथमृच्छति। यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम् ॥ इति ॥ १३ ॥ विवरणम् विवरणम्

अतीतानागतवर्तमानधर्मा: केन पुना रूपेण सन्तीति तत्प्रतिपादनार्थमाह-ते व्यक्तसूक्ष्मा गुणात्मानः । ते खल्वमी त्र्यध्वानः अतीतानागतवर्तमानाध्वत्रयोपारूढाः धर्माः वर्तमानाः वर्तमानलक्षणोपारूढाः व्यक्तात्मानः लोकप्रत्ययविषयीभूतस्वभावाः । अतीतानागताः सूक्ष्मात्मानः लोकप्रत्ययविषयभावमप्राप्ताः षडविशेषस्वरूपाः अस्मितादिस्वभावाः । ततश्च व्यक्तात्मानः षोडशविकाराः कार्यकारणलक्षणाः ॥

सर्वमिदम् अध्यात्मिकं कार्यकारणरूपं व्यक्तात्मकं, यच्च सूक्ष्ममविशेषलक्षणमस्मितादि, यच्च लिङ्गमात्रं सूक्ष्मत्वाविशेषत्, सर्वमिदं जगत् गुणानां सत्त्वरजस्तमसां प्रख्याप्रवृत्तिस्थितिशीलानां सन्निवेशविशेषमात्रमिति परमार्थतो गुणात्मानः गुणस्वभावाः ॥

तथा च शास्त्रानुशासनम्-गुणानां परमं रूपं स्वं परमार्थरूपमनपायोपजनात्मकमेकैकस्य । तच्च न दृष्टिपथमृच्छति । न दृष्टिगोचरीभवति । यतु दृष्टिपथं प्राप्तं गुणापरिमर्देन विषमभावकृतसन्निवेशलक्षणं, तन्मायेव न तु मायैव, असारत्वात्तु मायावदिति । सुतुच्छकम् अत्यल्पमकदशमात्रपरिणामत्वात् साम्यावस्थानां गुणानाम् ॥ १३ ॥ यदा तु सर्वे गुणाः कथमेकः शब्द एकमिन्द्रियमिति – परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४ ॥ प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणात्मकानां करणभावेनैकः परिणामः श्रोत्रमिन्द्रियं, ग्राह्यात्मकानां शब्दतन्मात्रभावेनैकः परिणामः शब्दो विषय इति, शब्दादीनां मूर्तिसमानजातीयानामेकः परिणामः पृथिवीपरमाणुस्तन्मात्रावयवस्तेषां चैकः परिणामः पृथिवी गौर्वृक्षः पर्वत इत्येवमादिर्भूतान्तरेष्वपि स्नेहौष्ण्यप्रणामित्वावकाशदानान्युपादाय सामान्यमेकविकारारम्भः समाधेयः। विवरणम् विवरणम्

यदा सर्वे गुणाः पृथिव्यादयः, तदा कथमेकः शब्दः शङ्खादिजनितः । एकमिन्द्रियं श्रोत्रादिकमित्येकबुद्ध्यालम्बनत्वं भवेत् । न खलु भवितव्यम् । त्रिगुणत्वेन हि कारणेन त्रय इति प्रत्ययः स्यात् । एवमिन्द्रियाणां च प्रत्येकं त्रित्वम् । तथा च नियमो न प्राप्नोति । न हि ग्राह्यत्वमेकस्यैव शब्दस्य, ग्राहकत्वं चैकस्य श्रोत्रस्य, इति नियम उपकल्पते । तथा स्पर्शादिषु, त्वगिन्द्रियादिषु च योज्यम् । नियमश्च दृश्यते । कारणं तत्र वचनीयमित्याह-परिणामैकत्वाद्वस्तुतत्वम् ॥

प्रख्याप्रवृत्तिस्थितिशीलानां गुणानां ग्रहणात्मकानां सत्वप्राधान्यात् बोधात्मनामस्मितासंस्थानानां करणभावेनैकः परिणामः श्रोत्रेन्द्रियम् । यथा विरुद्धानां तैलवर्तितेजसां प्रदीपः । तथा त्वगादीन्द्रियेषु पुरुषार्थेतिकरणीये प्रयुक्तानामेकैकमिन्द्रियं परिणाम इति योज्यम् ॥

तथा ग्राह्यात्मकानां गुणानां तमःप्रधानानां शब्दभावेनैकः परिणामः शब्दो विषयः । तथा शब्दादीनां मूर्तिसमानजातीयानां समानाम् एकः गन्धतन्मात्रावयवः परिणामः पृथिवीपरमाणुः । तेषां परमाणूनाम् एकः परिणामः पृथिवी गौर्वृक्षः पर्वत इत्येवमादिः ॥

भूतान्तरेष्वपि योज्यम् । शब्दस्पर्शरूपरसानां स्नेहसमानजातीयानाम् [एकः परिणामः रसतन्मात्रावयवः जलपरमाणुः । तेषां परमाणूनामेकः परिणामे जलम्] ॥

शब्दस्पर्शरूपाणामुष्णत्वसमानजातीयानामेकः परिणामो रूपतन्मात्रावयवः तेजःपरमाणुः । तेषां परमाणूनामेकः परिणामो वह्निः सलिलेन्धनो दारुशकलदीपनश्च ॥

तथा शब्दस्पर्शयोः प्रणामित्वसमानजातीययोः स्पर्शतन्मात्रावयवः वायुपरमाणुरेकः परिणामः । तेषां परमाणूनामेकः परिणामः वायुः सप्त मरुद्गणाश्च ॥

तथा शब्दतन्मात्रावयवानामनावृतत्वसमानजातीयानमेक: परिणाम आकाशः । इत्येवमुक्तेन मार्गेण स्नेहौष्ण्यप्रणामित्वाद्युपादाय सामान्यूमेकविकारारम्भः समाधेयः योज्यः । तस्माद्बहूनामप्येकपरिणामित्वादेकविषयत्वं, ग्राह्यग्रहणनियमश्च सर्वमुपपद्यते ॥ नास्त्यर्थो विज्ञानविसहचरः, अस्ति तु ज्ञानमर्थविसहचरं स्वप्नादौ कल्पितमित्यनया दिशा ये वस्तुस्वरूपमपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमं न परमार्थतोऽस्तीति य आहुस्ते तथेति प्रत्युपस्थितमिदं स्वमाहात्म्येन वस्तु कथमप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तुस्वरूपमुत्सृज्य तदेवापलपन्तः श्रद्धेयवचनाः स्युः ॥ १४ ॥ विवरणम् विवरणम्

ननु च नास्येवासौ एकप्रत्ययविषयः शब्दादिः । एतत्तु सर्वं विज्ञानपरिजृम्भितमेव, विज्ञानभावभावित्वात् । कथं तद्भावभावित्वमित्याह - नास्त्यर्थो विज्ञानविसहचरः पृथग्विज्ञानादुपलब्ध: पृथग्भावी वा । विज्ञानमर्थविसहचरं पृथक्त्वेनोपलब्ध पृथग्भावि वा अस्ति । तस्मादर्थो विज्ञानव्यतिरेकेण नास्तीति प्रतिजानीमहे ॥

प्रमाणमप्यत्र भवति- विज्ञानव्यतिरेकेण नास्ति ग्राह्यं वस्तु, विज्ञानव्यतिरेकेणानुपलभ्यमानत्वात्, विज्ञानस्वरूपवत् । बाह्यार्थशून्यानि जाग्रद्विज्ञानानि, विज्ञानत्वात्, स्वप्नसमयविज्ञानवत् । विज्ञानपरिकल्पिता वा जाग्रद्विषयाः, विषयत्वात्, स्वप्नविषयवत् । विज्ञानं वा विषयाव्यतिरेकि, विज्ञानत्वात्, स्वप्नविज्ञानवदिति ॥

यद्येवं स्यात् किं नश्छिन्नं स्यात् ? पुरुषस्य दृश्यवियोगात् कैवल्यं प्रस्तुतं न सिद्धं स्यात् ॥

यथा उपलभ्यमानस्य स्तम्भादेरभावः एवमुपलभ्यमानत्वाद्विज्ञानस्याप्यभावः । तदभावे च लिङ्गाभावादुपलब्धुरप्यभावः प्राप्नुयादिति, कस्य कैवत्यम् ? केन दृश्येन वियोगः स्यात् ? केन सम्प्रयोगे वा बन्धः प्रतिज्ञायेत ? बन्धाभावे चाभ्युदयनिःश्रयसार्थप्रवृत्तिफलता न प्रसजेयत ॥

किं चान्यत्-विज्ञानव्यतिरेकेणार्थो नास्तीति बुवता विज्ञानमर्थ इति चैकः पदार्थेऽभ्युपगतो भवति, यथा-अग्निरनल इति । एवं च सति विज्ञानं ग्राह्यं ग्राहकम्, अर्थः ग्राह्यो ग्राहकश्चेति नाममात्रे विप्रतिपत्तिः, न पुनरेकस्य ग्राह्यग्राहकभावः प्रत्याख्यायते । तथा च सति पुरुषस्यापि ग्राह्यग्राहकभावः प्राप्तः । तथाऽपि विप्रमोक्षानवक्लृप्तिः, इत्येवमादयो भूयांसो दोषाः प्राप्नुवन्ति ॥

तस्मात् अमुया दिशा अनेन न्यायाभासबलेन ये वस्तुस्वरूपमपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमम्, न तु परमार्थतोऽस्तीति, ते स्वयं तथेति अभ्युपगम्य स्वमाहात्म्येन प्रत्युपस्थितं वस्तुं कथमप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तु स्वयमुपगृह्य अभ्युपगम्य तदेव अभ्युपगतं अपलपन्तः इदमित्यभ्युपेत्य इदं नास्तीत्यपह्नुवानाः श्रद्धेयवचनाः स्युः । न हि स्वानुभवप्रत्याख्यायिनः श्रद्धानीयवचनविस्तारा भवितुमर्हन्ति ॥

तत्र विज्ञानव्यतिरेकेणार्थो नास्तीति प्रत्यक्षविरोधिनी प्रतिज्ञा । संवेदनीकारकं विज्ञानं प्रतीयामः । पृथुबुध्नाद्याकारमर्थं प्रतिपद्येमहि । ग्राहकं च विज्ञानमवभासकं, अवभासनीयश्चार्थः । स्वलक्षणभेदेनार्थज्ञानयोरुपलभ्यमानत्वान्नाव्यतिरेकगन्धोऽपि । ततश्च व्यतिरेकेणानुपलभ्यमानत्वादित्यसिद्धो हेतुस्तव ॥

न च ज्ञानस्यैव पृथुबुध्नाद्याकारता । ज्ञानस्यैकस्यावभास्यावभासकत्वानुपपत्तेः प्रदीपस्येव केवलस्य । भिन्नयोः प्रदीपयोः प्रकाश्यप्रकाशकत्वानुपलम्भादेकस्य च स्वात्मनि प्राप्त्यसम्भवात्, एवं ज्ञानस्य ॥

अपिचानैकान्तिकश्व बुद्धेन प्रतिपक्षवादिना च । न चासौ नास्तीति शक्यं प्रतिज्ञातुं, यं प्रति सिसाधयिषसि, स चेत्तद्विज्ञानव्यतिरिक्तः, तथा घटादिरपि सिध्यति ॥

स्वप्नज्ञानमपि उपलब्धार्थविषयत्वात् न निरालम्बनम् । प्रतिज्ञायाः प्रत्यक्षविरोधो लोकविरोधश्च । सर्वं ज्ञानं सालम्बनं, ज्ञानत्वात्, प्रतिवादिदुष्टवाक्यज्ञानवत्, स्ववाक्यगुणज्ञानवच्च । ततश्च ज्ञानत्वादीनां निरालम्बनत्वहेतूनामेवमादिभिरनैकान्तिकता ॥ १४ ॥ कुतश्चैतदन्याय्यम् – वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ १५ ॥ बहुचित्तालम्बनीभूतमेकं वस्तु साधारणं, तत्खलु नैकचित्तपरिकल्पितं नाप्यनेकचित्तपरिकल्पितं किन्तु स्वप्रतिष्ठम्। कथं, वस्तुसाम्ये चित्तभेदात्। धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि सखज्ञानं भवत्यधर्मापेक्षं तत एव दुःखज्ञानमविद्यापेक्षं तत एव मूढज्ञानं सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानमिति। कस्य तच्चित्तेन परिकल्पितम्। न चान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः। तस्माद्वस्तुज्ञानयोर्ग्राह्यग्रहणभेदभिन्नयोर्विभक्तः पन्थाः। नानयोः सङ्करगन्धोऽप्यस्तीति। विवरणम् विवरणम्

कुतचैतदन्याय्यं गृह्यमाणं वस्तु नास्तीति ? वस्तुसाम्ये चित्तेभदात्तयोर्विविक्तः पन्थाः । बहुचित्तालम्बनीभूतं अनेकचित्तविषयीभूतं एकं वस्तु पुत्रादिकं साधारणं समानम् । तत् खलु नैकचित्ततन्त्रं भवति । एकचित्ततन्त्रत्वाभावादनेकचित्तपरिकल्पितमपि न भवति ॥

किन्तु स्वरूपप्रतिष्ठं चित्तनिरपेक्षं स्वतन्त्रतया व्यवस्थितम् । कथम् ? वस्तुसाम्ये वस्तुनः पुत्रादेरेकत्वे चित्तभेदात् एकस्मिन् पुत्रादिविषये विषयिणां ज्ञानानामनेकत्वात् ॥

कथं चित्तभेद इत्याह- धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि यथा पुत्रत एव मातापित्रोः सुखज्ञानं भवति । तत एव पुत्रादेः अधर्मापेक्षं अहितानां दुःखज्ञानं उपजनिष्यते ॥

तस्मोदवाविद्यापेक्षं कामुकानां मूढ़ज्ञानम् । तत एव पुत्रादेः सम्यग्ज्ञानोपक्षं योगिनां माध्यस्थ्यज्ञानं हेयोपादेयशून्यमुत्पद्यते । कौलेयादीनां तत एव लोभापेक्षया भक्ष्यज्ञानम् । तत एव पुत्रादेर्विरक्तस्य कुणपादिज्ञानम् ॥

यदि कस्यचिच्चित्तेन परिकाल्पतमभविष्यत् (न) अन्यचित्तपरिकल्पितेनान्येषां चित्तमुपारक्ष्यत । नैतद्युक्तं, अत्यन्तासम्बद्धानामदर्शनात् । यदि चान्यपरिकल्पितेनाप्यन्यचित्तोपरागोऽभविष्यत्, तदा सर्वेऽपि सर्वं समज्ञास्यन्त । न चेदं दृष्टम् । तस्मात् न चित्तपरिकल्पितं वस्त्विति, वस्तुज्ञानयोः ग्राह्यग्रहणभेदाद्भिन्नयोर्विवित्तः पन्थाः । नानयोः सङ्करगन्धोऽप्यस्ति ॥

सुखज्ञानालम्वनीभूतं पुत्रादिवस्तु न तज्ज्ञानपरिकल्पितम् । तद्विरुद्धानकचित्तोतोपरञ्जकत्वात्, वादिप्रतिवदिप्रतिज्ञागुणदोषतदाभासवत् । वादिप्रतिवादिप्रभृतीनामपि विज्ञानमात्रत्वे साध्यसाधनादिव्यवहारविलोपः स्यात् ॥

अथ स्वविज्ञानव्यतिरेकेण तेषां ज्ञानरूपाणामेव पृथक्त्वमिति चेत्-अस्तु । तदेव वस्तु ज्ञानान्तरविषयत्वादर्थन्तरं सिद्धम् । सञ्ज्ञामात्रे विप्रतिपत्तिः । विषयिविषयभेदस्तु न साध्यः । तस्मान्नानयोः सङ्करगन्धोऽपीति ॥ साङ्ख्यपक्षे पुनर्वस्तु त्रिगुणं चलं च गुणवृत्तमिति धर्मादिनिमित्तापेक्षं चित्तैरभिसम्बध्यते। निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनाऽऽत्मना हेतुर्भवति। केचिदाहुः – ज्ञानसहभूरेवार्थो भोग्यत्वात्सुखादिवदिति। त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु वस्तुरूपमेवापह्नुवते ॥ १५ ॥ विवरणम् विवरणम्

अथ वस्तुनि स्वरूपप्रतिष्ठेऽपि सुखादिभिन्नप्रत्ययालम्बनता न समीचीनरूपेति चेत् अत्रोच्यते – वस्तु पुनस्त्रिगुणं चलं गुणवृत्तिमिति धर्मादिनिमित्तं चापेक्ष्य चित्तैः सुखदुःखादिभेदरूपेण अभिसम्बध्यते परिणामित्वादनेकशक्तित्वाच्च ॥

धर्मादिनिमित्तानुरूपस्य चोत्पद्यमानस्य प्रत्ययस्य तेन तेन निमित्तेन आत्मना हेतुर्भवति । सत्वात्मना धर्मादिनिमित्तापेक्षं पुत्रादिवस्तु सुखहेतुर्भवति । रजआत्मना त्वधर्मनिमित्तापेक्षं दुःखहेतुर्भवति । तमआत्मना त्वविद्यापेक्षं तदेव वस्तु मोहहेतुर्भवति । सत्तामात्रात्मना सम्यग्दर्शनापेक्षं तदेव माध्यस्थ्यज्ञानहेतुर्भवति ॥

केचिदाहुः एषमेव बौद्धानामन्यतमे बाह्यमर्थमभ्युपगच्छन्त आहुः - ज्ञानसहभूरेवार्थः, यथा विज्ञानं प्रतिक्षणं धर्मिशून्यं उत्पद्यते विनश्यति च, तथा सहैव ज्ञानेनार्थो विज्ञायते विनश्यति च, भोग्यत्वात्, सुखादिवत् । तद्यथा-सुखदुःखादिरूपं भोग्यं विज्ञानसहोत्पत्तिविनाशमसाधारणम्, एवं घटादिरर्थोऽपि विज्ञानसमानसमयजन्मविनाश एव, भोग्यत्वादिति ॥

तेऽपि तथैव विज्ञानवादिवत् साधारणत्वं अनेकसुखादिचित्तालम्बनत्वं बाधमानाः पूर्वोत्तरक्षणेषु स्वकीयविज्ञानोत्पत्तेः पौरस्त्येषु क्षणेषु पाश्चात्येषु च वस्तु नास्तीति वस्तुस्वरूपमेवापह्नुवते ॥

तस्मात् न हि वस्तुनः स्वरूपं विज्ञानसहभावि, तदेवेदमिति प्रत्यभिज्ञानात् । नाचिरजन्मप्रलयं तदेवेदमिति प्रत्यभिज्ञायेत, यथा विज्ञानम् । न हि तदेवादौ मे विज्ञानमिति भवति । वस्तु पुनस्तदेवेदमिति प्रत्यभिज्ञायते । अर्थज्ञानयोरेकसमयभवित्वेऽप्येक[परिशेषः]विशेषः स्यात् ॥

नापि सादृश्यात् प्रत्यभिज्ञानम् । ग्राह्यग्राहकयोर्युगपदुत्पत्तिविनाशवत्वात् । व्यवस्थिते हि वस्त्वन्तरदृश्ये अन्यतत्सदृशवस्तुदर्शनेन सादृश्यप्रत्ययः । एवं तत्सदृशं वा द्रक्ष्यामीत्युत्तराभिलाषः । न हि तदहर्निश्चितमरणस्यापरेद्युरर्थदर्शनाकाङ्क्षा जायते । नापि मत्सदृश ईक्षिप्यत इत्यभिलषति । न चैवं दृष्टम् । सर्वो हि स्वार्थमीहते । भिन्नसन्ततिष्वदर्शनात् ॥

तस्मादिदानीन्तनोऽर्थः नेदानीन्तनज्ञानसहभूरेवेति, ग्राह्यत्वात्, अतीतार्थवत् । अतीतो वा नातीतज्ञानसहनाशजन्मा, ग्राह्यत्वात्, इदानीन्तनार्थवत् । भूतभविष्यज्ज्ञानग्राह्या अर्था अधुनाऽपि सन्ति, ग्राह्यत्वात्, अधुनातनप्रत्ययग्राह्यवत् ॥ इदानीन्तनमपि वस्तु पूर्वोत्तरक्षणेषु तथैव ॥

अथ सुखदु:खज्ञानादभिरनैकान्तिकमिति चेत्-न-अतीतानागतं स्वरूपतोऽस्तीति साधितत्वात् । एवं च सति सुखादीनां च स्वरूपेण सद्भावात् सुखादिवदिति साध्यसमानो दृष्टान्तः ॥

अथ वर्तमानरूपविशेषेणातीतानागतलक्षणयोरर्थस्य सुखादिवदभाव इति चेत्, सिद्धसाध्यता । न हि कुमारभाव एव वृद्धत्वं विद्यते ॥ १५ ॥ न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ १६ ॥ एकचित्ततन्त्रं चेद्वस्तु स्यात्तदा चित्ते व्यग्रे निरुद्धे वाऽस्वरूपमेव तेनापरामृष्टमन्यस्याविषयीभूतमप्रमाणकमगृहीतस्वभावकं केनचित्तदानीं किं तत्स्यात्। सम्बध्यमानं च पुनश्चित्तेन कुत उत्पद्येत। ये चास्यानुपस्थिताभागास्ते चास्यन स्युरेवं नास्ति पृष्ठमित्युदरमपि न गृह्येत। तस्मात्स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते। तयोः सम्बन्धादुपलब्धिः पुरुषस्य भोग इति ॥ १६ ॥ विवरणम् विवरणम्

इतश्च चित्ततन्त्रता वस्तुनो नावकल्पते । एकचित्ततन्त्रं वा वस्तु भवेदनेकचित्ततन्त्रं वा ? एकचित्ततन्त्रत्वे ब्रूमः – न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्? न तावदेकचित्ततन्त्रं, एकचित्ततन्त्रं चेद्वस्तु स्यात् यदिचेदमुच्यते, तच्चित्ते यच्चित्ततन्त्रं वस्तु तस्मिंश्चित्ते व्यग्रे परासक्ते निरुद्धे वा विनष्टे वा तेन प्रमाणचित्तेन अपरामृष्टं च अन्यस्य चाविषयीभूतं एतचित्तन्त्रतयैव, तदा तत् वस्तु अप्रमाणकमगृहीतस्वभावं प्राणचित्तनिरोधादेव तदानीं किं तत् स्यात् । न हि किञ्चिदपि स्यात् । वित्तप्रमाणकं तत् तदभावे न तेन भवितव्यम् ॥

ननु च यथा तत्प्रमाणचित्तं निरुध्यते, तथैव तदपि क्षणिकत्वान्निरुद्धमेव । किं तत्राभिधानीयं स्यात् । उच्यते-न-व्यवहारविलोपान्नियमानुपपत्तेश्च । अग्निरयं मास्प्राक्षीः, इमं गृहाण, अदः प्रदेहीति व्यवहारो विलुप्येत । एकचित्तसहक्षयत्वाद्वस्तुनः ॥

तत्सन्ततिजमत्यन्तसदृशं व्यवहारप्रतिपत्तये भवेदिति चेत्-अत्रापि तत्सन्तानादेव तत्समानेनान्यनानुभवनीयं परप्रमाणस्य च तद्विषयभूतमिति को नियच्छेत् । न हि नियमहेतुरस्ति ॥

अपि च एकचित्ततन्त्रत्वाद्व्यवहारवेलायामन्यत(न)रेदम्प्रत्ययविषयालम्बनो नान्यत(न)रप्रत्ययो युज्यते । न हि खल्वपि वहुचित्ततन्त्रं वस्तु । ततश्च गृहाणेदं प्रयच्छद इति कथं व्यवहरेमहि ॥

नाप्येवन्दर्शनशालिनः शिष्याचार्योपदेशप्रदानादिभिरन्योन्यं व्यवहरेरन् । तस्मान्न चैकचित्ततन्त्रं वस्तु । प्रमाणचित्तविनाशे तद्व्यग्रभावे वा अनवधृतस्वभाववाद्वस्तुन: ॥

सम्बध्यमानं वा वस्तु पुनश्चित्तेन कुत उत्पद्येत । न कुतश्चिदुत्पत्तिरुपपद्यते तत्सन्तानादिति हि प्रत्यवोचाम ॥

किञ्ञ्च, अस्य वस्तुनः अनुपस्थिताः एकस्य प्रत्ययस्याविषयीभूता[ये] भागास्ते चास्य न स्युः । एको हि वस्तुभागो विषयीभूतश्चित्ततन्त्रो नान्यः इति । नास्ति पृष्ठमिति उदरमपि अभिमुखीभूतं न स्यादेव ॥

अथापि काकतलीयन्यायेन भूयांसि चित्तानि युगपदुत्पद्येरन् तद्विषयं च वस्तु तत्समानकालमुन्मज्जतीति, तदेतेनैव पृष्ठोदराभावनिदर्शनेन प्रत्याख्याये । नापि काकतालीयवृत्तान्तेनानादिसमयाधीनो व्यवहारसागर उत्तीर्यते । सर्वे च विज्ञानदर्शनश्लाघिषु दोषा इहापि समाना एव ॥

तस्मात् आह-स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः यस्मिन्नवस्थिते समस्तलोकव्यवहार उपकल्पिष्यते । स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते । तयोश्च अर्थचित्तयोः सम्बन्धादुपलब्धिः पुरुषस्य भोगः । तस्माद्भोक्ता पुरुषः चित्तं करणम् अर्थो विषयः कर्मभूत इत्येतेषां भोक्तृकरणकर्मणां विवित्तः पन्थाः ॥ १६ ॥ तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७ ॥ अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तमभिसम्बन्ध्योपरञ्जयन्ति। येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातस्ततोऽन्यः पुनरज्ञातः। वस्तुनो ज्ञाताज्ञातस्वरूपत्वात्परिणामि चित्तम् ॥ १७ ॥ विवरणम् विवरणम्

कथं चित्ततद्विषययोः सम्बन्धात् पुरुषस्य भोग इत्याह-यद्वा, यस्य चित्तव्यतिरेकेण वस्तु नास्ति, चित्ततन्त्रमेव वा वस्तु, तस्य ज्ञाताज्ञातविषयत्वमनुपपन्नमित्याह – तदुपरागापेक्षत्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् । तेन विषयेण चित्तस्योपरागः तं प्रति अपेक्षा यस्य [तत्] चित्तं तदुपरागापेक्षम्, तस्य भावः तदुपरागापेक्षत्वं तस्मात् तदुपरागापेक्षत्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥

येन वस्तुना चित्तमुपरज्यते तत् ज्ञातं, येन च नोपरज्यते तत् अज्ञातम् । स चोपरागश्चित्तपरिणामापेक्षः । इन्द्रियमार्गेण चित्तं ह्याकारेण परिणममानं हि सम्बध्यते ॥

किं पुनश्चित्तपरिणामनिमितमित्याह-अयस्कान्तमणिकल्पा अयस्कान्तसमानाः विषयाः, अयस्सधर्मकं चित्तम्-अयस्सधर्मकत्वं च विषयसन्निधाने विक्रियत इति । विषयाणामप्ययस्कान्तमणिकल्पत्वं सन्निधिमात्रेण चित्तविक्रियापादनसामर्थ्यात् । अतो विषया आत्माकारेण परिणतं चित्तम् अभिसम्बध्योपरञ्जयन्ति ॥

येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातः । ततोऽन्यः(ऽन्ये) पुनः अनुपरञ्जको (क)विषयः(या)अज्ञातः (ताः) । तस्मात् वस्तुनो ज्ञाताज्ञातस्वरूप(विषय)त्वात् परिणामि चित्तम् । अथ पुनश्चित्ततन्त्र एव विषयश्चित्तमेव वा विषयः, तस्य वादिनः सर्वविषयज्ञत्वमविषयज्ञत्वं वा भवेत् । अज्ञातस्य चित्तस्याभावात् । न चेदं दृश्यते । किं तर्हि ? ज्ञाताज्ञातविषयत्वमेव चित्तस्य प्रतिपद्यामहे । तच्चैतत् स्थिरावस्थानानां विषयाणां प्राप्यभावादन्यथा च सम्बन्धानवकल्पनाचित्तपरिणामापेक्षमेवेति परिणामित्वम् ॥ १७ ॥ यस्य तु तदेव चित्तं विषयस्तस्य – सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १८ ॥ यदि चित्तवत्प्रभुरपि पुरुषः परिणमेत्ततस्तद्विषयाश्चित्तवृत्तयः शब्दादिविषयवज्ज्ञाताज्ञाताः स्युः। सदाज्ञातत्वं तु मनसस्तत्प्रभोः पुरुषस्यापरिणामित्वमनुमापयति ॥ १८ ॥ विवरणम् विवरणम्

यस्य तु स्वामिनो भोक्तुः तदेव ज्ञाताज्ञातविषयं चित्तं वृत्तिरूपेण विषयः न हि निरुद्धवृत्तिनश्चेतसो विषयत्वमिति, तस्य पुरुषस्य सदा ज्ञाताश्चित्तवृत्तय: [तत्प्रभोः पुरुषस्यापरिणामित्वात्] । तासां प्रत्यक्षत्वात् सदा ज्ञातविषयत्वमप्रसाध्यम् ॥

यद्वा प्रत्यक्षगम्याश्चित्तवृत्तयः, उपलब्धत्वेन शब्दलिङ्गानपेक्षं स्मर्यमाणत्वात्, प्रत्यक्षोपलब्धघटवत् । निश्चितरूपत्वाच्च तथैव । संशयाविषयत्वाच्च । यदि हि सदैवाप्रत्यक्षाश्चित्तवृत्तयः, ता बाह्यविषयवत् संशयिता अपि कदाचित् काश्चन भवेयुः । न हि काश्वन कदाचन संशयमार्गसम्पातिन्यो दृष्टाः ॥

अपि च, भवति हि कदाचिज्ज्ञातः सन्नर्थो ज्ञात इति [प्रतीयमानः] । चित्तवृतिप्रत्यक्षाग्राह्यत्वे [तत्] नोपपद्यते । न च फलद्वारेणानुमातुं तत्र शक्यत । फलस्यानवधारणात् ॥

तस्मात् संशयस्य चाविषयत्वात्, पृथक् च विषयाचित्तवृत्तीनां स्वरूपमात्रेणैव स्मर्यमाणत्वात्, सर्वदा सर्व्वाः प्रत्यक्षाश्चित्तवृत्तयः । तथा प्रतिपत्तुरवभासकत्वात्, करणत्वात्, अभिव्यञ्जकत्वाच्च, प्रदीपादिवत् । न तु चक्षुरादिभिरनैकान्तिकत्वम् । तत्रापि प्रत्यक्षग्राह्यत्वात् । यथा प्रदीपाद्यालोकिविशिष्टा घटादयो गृह्यन्ते, तथा श्रोत्रादिस्वालोकविशिष्टा एव शब्दादयो गृह्यन्ते ॥

न च विविच्याग्रहणादप्रत्यक्षत्वमिति शक्यं वक्तुम् । यथा प्रदीपयोः परस्परव्यतिभिन्ना रश्मयः, न चास्यायं रश्मिरस्य चायमिति विविच्यते, न च तावता तेषामप्रत्यक्षत्वम्, [एवं] इहापि चक्षुरादीनां तुल्यजातीयबाह्यालोकादिव्यतिषङ्गाद्विविच्याग्रहणम् । न च तावन्मात्रेण तेषामप्रत्यक्षत्वम् । यो हि प्रत्यक्षावसीयमानचित्तवृत्यपलापं करोति, नूनमसावात्मानमप्यपालपेदिति सर्वोपलब्धेश्चित्तवृत्यधीनत्वात् रूपोपलब्धेरिवालोक(प्रत्यायकं तत्त्वम्) प्रत्ययाधीनत्वम् । तस्मादाह-सदा ज्ञाताश्चित्तवृत्तयः पुरुषस्येति ॥

यच्चैतत् सदा ज्ञातविषयत्वम्, तत्प्रभोः पुरुषस्यापरिणामत्वात् । नित्योपलब्धृस्वरूपप्रयुक्तं हि तदिति । यदि चित्तवत् प्रभुरपि पुरुषः परिणमेत, ततस्तद्विषयाश्चित्तवृत्तयः चित्तस्येव शब्दादिविषयाः, ज्ञाता अज्ञाता अपि स्युः ॥

यत्तु ज्ञाताज्ञातं शब्दादिविषयजातं, तत् परिणामिनश्चित्तस्य परिणामापेक्षं द्रष्टव्यम् । तथैवेन्द्रियाणामपि परिणामापेक्षमेव ज्ञाताज्ञातविषयत्वं दृश्यते । न च तथा चित्तवृत्तीनामन्यतमासामपि ज्ञातत्वमज्ञातत्वं च । नित्यतस्तज्ज्ञाता एव चित्तवृत्तयः । तस्माद्यद्वृत्तिरूपेण सदा ज्ञातत्वं मनसः तत् प्रभोः पुरुषस्यापरिणामित्वमनुमापयति ॥

अपरिणामी पुरुष इति प्रतिज्ञा । सदा ज्ञातविषयत्वादिति हेतुः । वैधर्म्येण चित्तमिन्द्रियाणि च दृष्टान्तः । उपलब्धुश्च विषयिणः प्रकृतत्वात् सदा ज्ञातविषयत्वप्रतिषेधाय मुक्तात्मवदिति दृष्टान्तो नोपपद्यते । मुक्तस्याविषयित्वात् ॥ १८ ॥ स्यादाशङ्का चित्तमेव स्वाभासं विषयाभासं च भविष्यतीत्यग्निवत् – न तत्स्वाभासं दृश्यत्वात् ॥ १९ ॥ यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान्न स्वाभासानि तथा मनोऽपि प्रत्येतव्यम्। विवरणम् विवरणम्

स्यादाशङ्का-चित्तमेव स्वाभासं विषयाभासं च भविष्यतीति । ग्राह्यं ग्राहकं चेति । स्वसंविदिताकारा एव हि वृत्तयः । यथा प्रदीपः प्रकाशयति घटादीनात्मानं च । किं पुरुषेण चित्तवृत्त्युपलम्भिना चित्तव्यतिरिक्तेन कल्पितेनेति ॥

अत्रोच्यते-न तत् स्वाभासं दृश्यत्वात् । यथेतराणीन्द्रियाणि श्रेात्रादीनि विषयाश्च शब्दादयः । न स्वाभासानि इन्द्रियाणि । नापि स्वाभासाः शब्दादयः । दृश्यत्वात् । तथा मनोऽपि प्रत्येतव्यम् । न स्वाभासं चित्तं दृश्यत्वादिति प्रतिपत्तव्यम् ॥

ननु च अग्निवदेव स्वाभासत्वं विषयाभासत्वं च भवतु, यथैव घटादयः प्रकाश्याः स्वरूपोपलम्भनार्थमालोकान्तरमपेक्षन्ते, न तथा प्रदीपः । यथा प्रदीपः स्वाभासो विषयाभासश्च । तथा मनोऽप्यवभासकत्वादेवं भवतु किमात्मना? न हि प्रदीपप्रतिपत्तये प्रदीपान्तरमाददते लौकिकाः ॥

यदि चोपादीयरन् अनवस्थैव स्यात् । एवं विज्ञानस्यापि व्यतिरिक्तेन ग्राह्यत्वे तस्य चान्येन ग्रहणं तस्य चान्येनेत्येवं प्रसज्यत । किं च विज्ञानस्यावभासात्मकत्वात् ग्राहकस्याप्यवभासरूपत्वात् न परस्परोपकार्योपकारकभावः । तद्यथा प्रदीपयोर्द्वयोः । तस्मात् कल्पितोऽपि विज्ञानस्य ग्रहीता अनर्थक इति, भवतु ज्ञानं स्वाभासं पराभासं चेति ॥ न चाग्निरत्र दृष्टान्तः। न ह्यग्निरात्मस्वरूपमप्रकाशं प्रकाशयति। प्रकाशश्चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः। न च स्वरूपमात्रेऽस्ति संयोगः। किं च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः। तद्यथा स्वात्मप्रतिष्ठमाकाशं न परप्रतिष्ठमित्यर्थः। स्वबुद्धिप्रचारप्रतिसंवेदनात्सत्त्वानां प्रवृत्तिर्दृश्यते – क्रुद्धोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति। एतत्स्वबुद्धेरग्रहणे न युक्तमिति ॥ १९ ॥ विवरणम् विवरणम्

अत्रोच्यते-तदेतद्दृष्टान्तापशदावष्टम्भेन सकललोकप्रसिद्धमार्गोपारोहिण आत्मनो निराकरणमशक्यम् । कस्मात्? न चाग्निरत्र दृष्टन्तः । न ह्यग्निरात्मस्वरूपमप्रकाशं प्रकाशयति, यदि चाग्निरप्रकाशः सन् आत्मनैव घटादिवत् प्राकाशयिष्यत, तत उपापत्स्यत दृष्टान्तः । न त्वेवम् । न हि कदाचिदग्निरप्रकाशः ॥

प्रकाशश्चायम् । स च प्रकाश्यप्रकाशकसंयोगे दृष्टः । न च स्वरूपमात्रेऽस्ति संयोगः । द्वयेर्हि संयेगः । नासति संयोगे स्वरूपावभासक्रत्वम् ॥

यदप्युच्यते-घटादिवत् प्रकाशान्तरं नाग्निरपेक्षत इति । तत् प्रकाश्यरूपाभावात् । न तु तस्य घटादिवत् प्रकाश्यं रूपमस्ति । न तावता व्यतिरिक्ताग्राह्यत्वम् । चक्षुषा तुल्यव्यतिरिक्तेन गृह्यत एव ॥

प्रकाश्यस्य घटादेरवतमसतिरस्काराय प्रकाश उपादायिष्यते । न त्वप्रकाश्यरूपत्वात् । अग्नेरालोकान्तरानाकाङ्क्षणं तु भवतैवाभिहितं-द्वयोः प्रदीपयोर्नास्ति परस्परोपकार इति । यत्र नाम भेदेऽपि द्वयोः प्रदीपयोर्नास्त्यप्रकाश्यरूपत्वादन्योन्योपकारः, किमुत असति भेदेऽत्र प्रकाशान्तरोमेव नापेक्षते इति ॥

न तु व्यतिरिक्तग्राह्यत्वं व्यभिचरति, प्रदीपयोर्दृश्यत्वाद्घटादिवत् । एतेन व्यतिरिक्तग्राह्यत्वं ज्ञानस्य दृश्यत्वात् प्रदीपादिवत् सिद्धं भवति । प्रदीपादिवच्च ज्ञानस्य प्रकाशस्वरूपत्वात् करणान्तरानपेक्षापि सिद्धा । तथा च अनवस्थादोषगन्धी न विद्यते ॥

यदप्युच्यते-ज्ञानस्यावभासात्मकत्वात् तद्ग्राहकस्याप्यवभासरूपत्वात् न परस्परोपकार्योपकारकभावः प्रदीपयोरिव द्वयोरिति । नासौ दोषः । चक्षुःप्रदीपवदात्मज्ञानयोर्जात्यन्तरत्वात् ॥

ननु चाहम्प्रत्ययेन चित्तं प्रत्ययि गृह्यत इति विषयविषायित्वमेकस्यैव । नैष दोषः । त्रिगुणत्वाच्चित्तस्य । यत्तत्र तमःप्रधानं चित्तं तदन्यया सत्वात्मिकया वृत्त्या समालम्ब्येत, हस्तेनेव शरीरं कण्डूयमानम् । तत्राप्युपलब्धा विषयी भिन्न एव पुरुषः । एतेन जात्यन्तरग्राह्यग्राहकत्वेन निरवयवत्वेन पुरुषश्च स्वयमेव ग्राह्यः ग्राहकश्चेत्येतत् प्रत्यवोचाम ॥

किं च-स्वाभासं चित्तमिति उच्यमाने च अग्राह्यमेव चित्तं स्यादिति । एवं शब्दार्थः । स्वाभासमिति ह्युक्ते अन्येन नावभास्यते न गृह्यत इत्यर्थः । न तु स्वयमात्मानं गृह्णातीत्युच्यते । एवमादिशब्दप्रयोगेषु शब्दस्य विपरीतार्थत्वम् ॥

तद्यथा-स्वात्मप्रतिष्ठमाकाशम्, अप्रतिष्ठमिति शब्दार्थः । तथा स्वस्थो देवदत्त इति, नीरोग इत्यर्थः, न तु स्वात्मनि स्थित इति । तत्र दृश्यत्वादिति हेतोरसिद्धिमाचक्षाणस्य प्रत्यक्षविरोधो लोकविरोधो व्यवहारविलोपश्चेत्याह - स्वबुद्धिप्रचारप्रतिसंवेदनात् सत्त्वानां प्राणिनां प्रवृत्तिर्दृश्यते ॥

क्रुद्धोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति स्वां स्वां बुद्धिमेवं चरन्तीं प्रतिसंवेद्य दृष्ट्वा क्रोधलोभादिपरिहाराय विवेकवतां प्रवृत्तिरुपलभ्यते । तथा प्रसन्नं मे चित्तं कळुषितं मूढमिति च । तत् एतत् स्वबुद्धेरग्रहणे, न युक्तमिति । न हि निशाम्य परिस्पन्दिनीं बुद्धिरदृयेति युक्तं वक्तुम् ॥ १९ ॥ एकसमये चोभयानवधारणम् ॥ २० ॥ न चैकस्मिन्क्षणे स्वपररूपावधारणं युक्तं, क्षणिकवादिनो यद्भवनं सैव क्रिया तदेव च कारकमित्यभ्युपगमः ॥ २० ॥ विवरणम् विवरणम्

अभ्युपगम्य वादोऽयम्-यद्यपि स्वाभासं विषयाभासं च मनो भवतु । तत्र दूषणम् एकसमये चोभयानवधारणम् । विषयपरिच्छेदकत्वे, नानाक्षणत्वादात्मपरिच्छेदो न युज्यते । अथ पुनरात्मानमवधारयति, न तदा विषयाभिमुखं, स्वात्मपरिच्छेदकत्वे नानाक्षणत्वात् ॥

अथोभयपरिच्छित्तिरेकैवेति चेन्न, निरवयवत्वात् परिच्छित्तेः । न हि निरवयवायाश्चित्तवृत्तेः प्रदीपवदनेकावभासकत्वे युक्तम् । अवयवभदात्तु प्रदीपस्यानेकप्रकाशकत्वं सम्भवति । न तु ज्ञानस्य सावयवत्वं परैरभ्युपेयते ॥

किं च, ज्ञानमेकमेकस्मिन् क्षणे उभयमवधारयतीति चाभ्युपगमे क्रियाकारकभेदप्रसङ्गः । यदुभयावधारणं सा क्रिया । यदवधारयति तत् कारकम् । न चैकस्मिन् क्षणे स्वपरो भयावधारणं क्षणवादिनो युक्तम् । कस्मात् ? उक्तं हि क्षणिकत्वसिद्धये यद्भवनम् उत्पत्तिः सैव क्रिया तदेव च कारकमित्यभ्युपगमः । क्रियाकारकभेदे च क्षणभङ्गभङ्गः स्यात् । कारकेण हि क्रियाक्षणमवस्थानीयम् ॥ २० ॥ स्यान्मतिः स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति – चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ २१ ॥ अथ चित्तं चेच्चित्तान्तरेण गृह्येत बुद्धिबुद्धिः केन गृह्यते, साऽप्यन्यया साऽप्यन्ययेत्यतिप्रसङ्गः। स्मृतिसङ्करश्च, यावन्तो बुद्धिबुद्धीनामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्ति। तत्सङ्कराच्चैकस्मृत्यनवधारणं च स्यादित्येवं बुद्धिप्रतिसंवेदिनं पुरुषमपलपद्भिर्वैनाशिकैः सर्वमेवाऽऽकुलीकृतम्। ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन सङ्गच्छन्ते। केचित्तु सत्त्वमात्रमपि परिकल्प्यास्ति स सत्त्वो य एतान्पञ्च स्कन्धान्निक्षिप्यान्यांश्च प्रतिसन्दधातीत्युक्त्वा तत एव पुनस्त्रस्यन्ति। तथा स्कन्धानां महन्निर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरिष्यामीत्युक्त्वा सत्त्वस्य पुनः सत्त्वमेवापह्नुवते। साङ्ख्ययोगादयस्तु प्रवादाः स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमुपयन्तीति ॥ २१ ॥ विवरणम् विवरणम्

स्यान्मतिः कस्यापि-स्वरससन्निरुद्धं चित्तं चित्तान्तेरण गृह्यते इति भावेन विनष्टं भङ्गुरतरं चित्तं चित्तान्तरेण समनन्तरेण सञ्जायमानेन गृह्यत इति, अथापि नित्यावस्थितपुरुषपरिकल्पना निरर्थिकैव । अत्रोच्यते— चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥

यदि चित्तं चित्तान्तरेण स्वरसनिरुद्धं पौरस्त्यं पाश्चात्येन जायमानेन समनन्तरेण गृहेत, बुद्धिबुद्धिः घटविषया बुद्धिः बुद्धिरुच्यते, तद्विषया तु बुद्धिबुद्धिः, सा केन गृह्यते व्यवस्थितग्राहकाभावात् । साऽप्यन्यया ग्रहीतव्या साऽप्यन्यथेत्यतिप्रसङ्गः ॥

न चागृहीतासु बुद्धिबुद्धिषु संव्यवहारो घटते स्मृतिसंस्कारानुपपत्तेः । तत्रैकजातीयानामेव घटबुद्धिबुद्धीनां दाशतयी माला स्यादनवस्थिता, न घटबुद्धिः । परिसमाप्तौ च घटबुद्धिबुद्धीनां असत्यां कथं घटदिबुद्धिरुपतिष्ठेत ॥

अयं चापरो दोषः स्मृतिसङ्करश्च इति । बुद्धिबुद्धीनां तत्संस्काराणां चैकरूपत्वात् स्मृतिसङ्करः प्राप्नोति । यावन्तो बुद्धिबुद्धीनामनुभवास्तावत्यः स्मृतयः सङ्कीर्णाः प्राप्नुवन्ति । तत्सङ्करात् स्मृतिसङ्करात् स्मृत्यनवधारणे इयमस्या बुद्धेः स्मृतिरित्यनवधारयन्तः कथं व्यवहरेमहि । तथा च सरूपत्वात् स्मृतिसङ्करः प्राप्नोति ॥

यावन्तो बुद्धिबुद्धीनां विदानाः स्वबुद्धिस्मृतिपूर्वव्यवहारासम्भवात् सर्वे सम्मोहेन सङ्गच्छेमहि । यदि चानवस्थापरिजिहासया क्वचित् बुद्ध्यन्तरे समवतिष्ठेमहि, तमेव बुद्धिप्रतिसंवेदिनं बुद्धिप्रतिसंवेदनलिङ्गेन स्पष्टतरमपि पुरुषमपलपद्भिर्वैनाशिकैराकुलीकृतं जगदिति ॥

ननु चालयविज्ञानकल्पनयाऽनवस्थादोषं परिहरेमहि । तथा चात्मकल्पनामपलपेमहीत्येवं ते भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन सङ्गच्छन्ते । तस्याप्यालयविज्ञानस्य ग्राह्यत्वादनवस्थितत्वाचाभिहितसकलदोषानुषङ्गः ॥

केचित् वैनाशिकविशेषाः सत्त्वमात्रमपि शब्दान्तेरेण सत्त्वमात्रं भोक्तृस्वरूपं परिकल्प्य अस्ति स सत्त्वो य एतान् पञ्च स्कन्धान् रूपवेदनासञ्ज्ञासंस्कारविज्ञानलक्षणान् निक्षिप्य परित्यज्य अन्यांश्च स्कन्धान् प्रतिसन्दधाति गृह्णाति इत्युक्त्वा तत एव भूतानागतस्कन्धप्रतिसन्धात्रेकसत्त्वपरिकल्पनातः त्रस्यन्ति ॥

तथा तेषामन्या विरुद्धकल्पना-स्कन्धानां महानिर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरामीत्युक्त्वा पुनस्तमेवाभ्युगतं सत्वस्य सत्त्व(साध्यसाधनसम्बन्ध)मपह्नुवते । विज्ञानमात्रं क्षणिकं शून्यं चेति आत्मानमपलपन्ति । (नमभिसन्दधीमहि । तदेवं) साङ्ख्ययोगादयस्तु प्रवादाः । स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमभ्युपयन्ति इति ॥ २१ ॥ कथम् – चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ २२ ॥ अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङ्क्रमा च परिणामिन्यर्थे प्रतिसङ्क्रान्तेव तद्वृत्तिमनुपतति। तस्याश्च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तेरनुकारिमात्रतया वुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिराख्यायते। तथा चोक्तम् – न पातालं न च विवरं गिरीणां नैवान्धकारं कुक्षयो नोदधीनाम्। गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिमविशिष्टां कवयो वेदयन्ते ॥ इति ॥ २२ ॥ विवरणम् विवरणम्

कथं भोक्तारं स्वशब्देनैवाभ्युपयन्ति ? यतः चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ सत्यां स्वबुद्धिसंवेदनं भवति । चितिः चैतन्यं पुरुष इत्यर्थः । सा चापरिणामित्वात् अप्रतिसङ्क्रमा । तस्याः अप्रतिसङ्क्रमायाः अपि सत्याश्चितेः तदाकारापत्तिः । तदिति प्रकृतं चित्तं प्रत्याम्नायते तस्याकारापत्तिस्तदाकारापत्तिः । तस्याश्चितेस्तदाकारापत्तौ सत्यां स्वबुद्धिसंवेदनं भवति । स्वस्य बौद्धस्य प्रत्ययस्योपलब्धिर्भवति । तदर्थमेव हि सा बुद्धिः शब्दादिप्रत्ययरूपेण परिणमते ॥

तदेतत् प्रतिपादयति(प्रतीत्य)-अपरिणामिनी हि भोक्तृशक्तिः दृक्शक्तिः यथाव्याख्याता । अप्रतिसङ्क्रमा च सती परिणामिन्यर्थे बौद्धप्रत्यये प्रतिसङ्क्रान्तेव प्रत्ययिविषयत्वात् तद्वृत्तिमनुपतन्तीवानुपतन्ती द्रष्टृत्वादुपलभमाना । बौद्धः प्रत्ययो जायमान एव तस्याः कर्मतामापद्यते । तं बौद्धं प्रत्ययं वृत्तिमनुपतन्त्युपलभमाना भोक्तृशक्तिः ॥

तस्याश्च प्राप्तचैतन्योपग्रह[स्व]रूपायाः प्राप्तं चैतन्योपग्रहरूपं पुरुषोपग्रहरूपं यया बुद्धिवृत्या समासादितपावकोपग्रहरूपतप्तलोहपिण्डवत् दृशिकर्मत्वादेव अनुकारमात्रतया, बुद्धिवृत्तिसारूप्यमात्रतया । बुद्धिवृत्यविशिष्टा ज्ञवृत्तिरिति । ज्ञ एवोपलब्धिरेव वृत्तिरिति आख्यायते । ‘वृत्तिसारूप्यमितरत्र’ इति हि व्याख्यातम् । तथा “प्रत्ययाविशेषो भोगः” इति प्रख्यापितम् ॥

भोक्तृभोग्यभेदे च सति चित्ताकारापत्तिरूपपद्यते । न चासति व्यतिरिक्ते भोक्तरि चित्तस्यैव दृष्टृदृश्योभयाभासत्वमकस्मादुपकल्पते । तस्मात् सुष्ठूच्यते- ‘साङ्ख्ययोगादय एव पुरुषं स्वशब्देनाभ्युपयन्ति’ इति । अन्ये तु शब्दान्तरेणोपयन्तोऽपि तत एव बिभ्यति ॥

तथा चोत्तम्-बुद्धिवृत्यनुकारमात्रतया बुद्धावेव ज्ञवृत्तिरुपलभ्यते, नान्यत्रेति । न पातालं नो विवरं गिरीणां नैवान्धकारः कुक्षयो नोदधीनाम् , एवमादीनि न गुहा । यस्यां गुहायां निहितं ब्रह्म शाश्चतं सा गुहा, न पाताळादीनि । कस्यां पुनर्गुहायां निहितमित्याह-बुद्धावेव गुहायां वृत्तिम् आत्माख्यां ब्रह्माख्याम् अविशिष्टाम् अपृथग्भूतां बुद्धिवृत्यविशिष्टां वेदयन्ते विवेकिनः ॥ २२ ॥ अतश्चैतदभ्युपगम्यते – द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥ मनो हि मन्तव्येनार्थेनोपरक्तं, तत्स्वयं च विषयत्वाद्विषयिणा पुरुषेणाऽऽत्मीयया वृत्त्याऽभिसम्बद्धं, तदेतच्चित्तमेव द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते। विवरणम् विवरणम्

कामात् पुनः कारणात् पुरुषस्य चेत्ताकारापत्तिः । तस्यां वा सत्यां स्वबुद्धिसंवेदनम् । कुतो वैनाशिकानां चित्तमेव ग्राह्यं ग्राहकं चेति भ्रान्तिरित्याह - द्रष्टृदृश्योपरक्तं चित्तु सर्वार्थम् । द्रष्टा पुरुषो दृश्यं शब्दादि ताभ्याम् उपरक्तं चित्तं सर्वार्थं पुरुषस्य भोगापवर्गार्थं भवति । मनोऽभिमन्तव्येनार्थेन अयस्कान्तमणिदेशीयेन विषयेण उपरक्तं स्वयं च विषयत्वात् पुरुषस्य विषयिणा पुरुषेण सन्निहितेन आत्मीयया वृत्त्या मानसेन प्रत्ययेन विषयतया अभिसम्बद्धम् ॥

तदेतच्चित्तम् आत्मवृत्तिद्वारेण पुरुषेण सम्बन्धाद्द्रष्टुः स्वरूपोपरक्तं शब्दादिना च मन्तव्येनोपरक्तमिति द्रष्टृदृश्योपरक्तं चित्तमेव न पुरुषः । द्रष्टृदृश्योपरक्तम् इत्यस्य व्याख्यानं करोति-विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नम् ॥

कथं पुनः स्वयमचेतनं सचेतनस्वरूपापन्नमिति ? नैष दोषः–पुरुषेण नित्यसन्निधानाचेतनमिव । तदेवाविवेकिभिश्चेतनमित्युच्यते । न तथा विषयाः । नित्यमचेतनात्मका हि ते । स्वतस्तु चित्तमचेतनमेवेति चेतनाचेतनस्वरूपापन्नं इत्युच्यते ॥

विषयात्मकमिव शब्दादिस्वरूपमात्रमिव चेत्यर्थ: । अचेतनं चेतनामिव पुरुषस्वरूपापन्नमिव चेत्यर्थः । स्फटिकमाणिकल्पं यथा स्फटिकमणिरलक्तकादिसन्निधौ तदाकारतां बिभर्ति, तथैव तत् सर्वार्थं चित्तम् उच्यते ॥ तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः। अपरे चित्तमात्रमेवेदं सर्वं नास्ति खल्वयं गवादिर्घटादिश्च सकारणो लोक इति। अनुकम्पनीयास्ते। कस्मात्, अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति। समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतस्तस्याऽऽलम्बनीभूतत्वादन्यः। स चेदर्थश्चित्तमात्रं स्यात्कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत। तस्मात्प्रतिबिम्बीभूतोऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति। एवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात्त्रयमप्येतज्जातितः प्रविभजन्ते ते सम्यग्दर्शिनस्तैरधिगतः पुरुषः ॥ २३ ॥ विवरणम् विवरणम्

तस्मात् अनेन चित्तसारूप्येण भ्रान्ताः केचित् । एतत्तु चित्तसारूप्यं वैशेषिकाणां प्रमोहकारणम् । वैशेषिकादयस्तु चित्तसारूप्यमाहेन्द्रजालव्यामोहितचेतसः तदेव चित्तं चेतनमित्याहुः । कथम् ? यस्मान्मनःपुरुषसंयोगजं चैतन्ये गुणः उच्छेदनीय इति मन्यन्ते । वैनाशिकेभ्यस्त्वयं विशेषः-स्थिरमेकं धर्मिणमिच्छन्तीति ॥

अपरे बौद्धाः चित्तमात्रमेवेदं सर्वम् , नास्ति गवादिर्घटादिश्च स्वाकारेण विशिष्टः सर्वेषां प्रत्ययस्य साधारणो लोकः इति स्वानुभवमप्यपलपन्ति । ते एवं भ्रान्ताः सुकुमारतरबुद्धयो वैनाशिका अनुकम्पनीयाः ॥

कस्मात् ? अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति । सनिमित्ता हि तेषां भ्रान्तिः न लोकायतिकानां शून्यवादिनामिव निर्बीजा । केवलजगद्वञ्चनार्थप्रवृत्तत्वात्तु नैतेष्वनुकम्पा कर्तव्या । तस्माद्युक्तमुक्तं तेषां वराकाणां सबीजभ्रान्तचेतसामनुकम्पनीयमिति ॥

के पुनरभ्रान्ता इत्याह-समाधिप्रज्ञायामिति । समाधिप्रज्ञाग्रहणमभ्रान्तचित्तग्रहणार्थम् । विक्षिप्तचेतसो हि भ्रान्ताः । समाधिप्रज्ञायाम् अभ्रान्तायां विशुद्धायां विवेकवत्यां प्रसन्नगम्भीरतरायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतः निर्मलदर्पणमण्डल इव तस्यां समाधिप्रज्ञायां करणभूतायाम् अलम्बनीभूतत्वादन्यः प्रज्ञातः सकाशाज्जातिस्वरूपक्रियादिभिरन्यः ॥

स चेत् अन्यः चित्तमात्त्रं स्यात् कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत । स्वात्मनि क्रियाविरोधात् न हि कथञ्चिदवधार्येत । तस्मात् प्रज्ञायाः अन्योऽसावर्थः सः, यस्यां प्रज्ञायां प्रतिबिम्बीभूतोऽर्थो येनावधार्येते सः तस्याः प्रज्ञाया आलम्बनीभूताचार्थदन्यः कर्तृकारकभूतः । स पुरुषः ॥

इत्येवं ये ग्रहीतृग्रहणग्राह्यस्वरूपभेदात् कर्तृकरणकर्मभेदोपपत्तेः, नहि निरवयवमेकमेवैकास्मिन् क्षणे वस्तु कर्तृ च कर्म च भवति, ततो ये त्रयमप्येतत् जातितः प्रविभजन्ते, ते सम्यग्दर्शिनः तैरधिगतः पुरुषः, प्राप्त इत्यर्थः । सामर्थ्यात्तु ज्ञात इति गम्यते ॥ २३ ॥ कुतश्च – तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ २४ ॥ तदेतच्चित्तमसङ्ख्येयाभिर्वासनाभिरेव चित्रीकृतमपि परार्थं परस्य भोगापवर्गार्थं न स्वार्थं संहत्यकारित्वाद्गृहवत्। संहत्यकारिणा चित्तेन न स्वार्थेन भवितव्यं, न सुखचित्तं सुखार्थं न ज्ञानं ज्ञानार्थमुभयमप्येतत्परार्थम्। यश्च भोगेनापवर्गेण चार्थेनार्थवान्पुरुषः स एव परो न परः सामान्यमात्रम्। यत्तु किञ्चित्परं सामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकस्तत्सर्वं संहत्यकारित्वात्परार्थमेव स्यात्। यस्त्वसौ परो विशेषः स न संहत्यकारी पुरुष इति ॥ २४ ॥ विवरणम् विवरणम्

कुतश्च अस्ति पुरुषश्चित्तव्यतिरिक्तः ? पूर्वं चित्तस्य दृश्यत्वेन व्यतिरिक्तपुरुषसिद्धिरापादिता । तस्यैव तु चित्तस्य संहत्यकारित्वेनाधुना स्वामिसिद्ध्यर्थमाह – तदसङ्ख्येयवासनाचित्रमपि परार्थ संहत्यकारित्वात् ॥

यद्यपि तदेव चित्तमसङ्ख्येयाभिर्वासनाभिः अनादिसमयाभिः चित्रीकृतं भ्रान्तिकारणमुक्तं, तथापि परार्थं परस्य भोगार्थमेवेति प्रतिज्ञायते । संहत्यकारित्वात् कार्यकरणविषयादिव्यापारापेक्षमर्थसाधकत्वात् संहत्यकारित्वम्, अतः संहत्यकारित्वात् गृहादिवत् इति पारार्थ्यं चित्तस्य । न हि किञ्चन लोके संहत्यकारि दृष्टं स्वार्थम् ॥

तस्मात् संहत्यकारिणा, चितेन न स्वार्थेन भावितव्यम् । न हि सुखचित्तं, सुखार्थं सुखचित्तार्थं वा । नापि ज्ञानचित्तं ज्ञानार्थं वा ज्ञानचित्तार्थं वा । किं तर्हि ? सुखचित्तं ज्ञानचित्तमपि एतदुभयं परार्थम् ॥

यश्च भोगेन सुखाचित्तेन ज्ञानचित्तेन च अपवर्गेणार्थेनार्थवान् पुरुषः स एव परः । न परसामान्यमात्रं शरीरमिन्द्रियाणि विषया वा । नहि वैनाशिकः सुखचित्तं शरीरेन्द्रियविषयार्थमिच्छति । तथा चेच्छन्नभ्युपगतं विरुन्धीत । विज्ञानस्यैव हि सुखापवर्गाभ्यामर्थित्वमभिमन्यते । तस्मात् य एव शरीरेन्द्रियविषयव्यतिरिक्तः पुरुषो भोगापवर्गाभ्यामर्थवानन्यो विज्ञानादभ्युपगमनीयः ॥

यदि यत्किञ्चिच् परसामान्यमात्रम् उदाहरेद्वैनाशिकः, यदि तु वैनाशिकः संहत्यकारिणां गृहादीनां देवदत्तादिसंहतपरार्थत्वमिति व्यामोहादभिमन्यमानः कञ्चन विशिष्टं न परमिच्छेत्, एवं चेन्मन्वीत, स इदं वक्तव्यः–यः परः शरीरेन्द्रियविषयत्ययानां सामान्यम्, उत सर्वे एवेति, किमेषामन्यतमः, किं वा कश्विदेवैतेभ्यो भिन्नजातीय इति ॥

न तावत्सामान्यम् । न हि भोगापवर्गर्थिनार्थ सामान्यवस्तुवैद्राशिकोऽभ्युपैति, स्वसमयविरोधात् । नापि शरीरादीनि समस्तानि भोगापवर्गीभ्यामर्थीनीति वाञ्छति । विज्ञानसन्ततेरेव भोगापवर्गार्थित्वाभिमानात् ॥

न चापि ज्ञानसन्ततिरित्येकं वस्तु(सन्ततेः क्षणिकत्वम् । ) न चापि सन्तानस्यावस्तुतया शशविषाणकल्पस्य भोगापवर्गीभ्यामर्थित्वम् । नापि शरीरेन्द्रियादीनामन्यतमत्वमिच्छति । विज्ञानव्यतिरितानाम् आात्मयसमये भोगापवर्गार्थित्वानभ्युपगमात् ॥

नापि शरीरेन्द्रियाणां सङ्घातो नाम वस्तुतो भवतो विद्यते, येन चित्तं संहतपरार्थं प्रार्थयेथाः । अवस्तुनो हि कथमर्थित्वम् । नापि शरिरेन्द्रियादिभ्योऽन्यं संहतभिन्नजातीयं प्रतिजानीषे । यदि भिन्नजातीर्य भोगापवर्गाभ्यामर्थवन्तमदृष्टं परिकल्पयेथाः, स एवास्माभिरुक्तः पर इति । तस्य च संहृतत्वे परत्वं दृष्टानात्मवज्रोपकल्पते । परिशेषात्तु असंहतो भोगापवर्गाभ्यामर्थी पर इति ॥

किं चान्यत्-संहतपरार्थं चित्तमिति साधयतोऽर्थिनः संहतस्यान्यस्यानुपपत्तेः स्वार्थमेव चित्तमित्युक्तं भवति । तथा च सति भवतो दृष्टान्ताभावोऽभ्युपगमविरोधश्च । तथा मन्वानस्यान्यद्वाचे हृदये चान्यदनिशम्यकारित्र्व चापतति । येन चक्षुरादिपरार्थवसाधनेन विरुद्धतादोषः प्रल्याख्यायि । तेष विज्ञानपरार्थत्वमित चेद्विज्ञानस्यापि संहतत्वात् परार्थवं प्रसाधितम् । अथ विज्ञानस्यापि क्षणिकत्वादर्सहतत्वमित चेत् । न-तत्त्य व्यतिरिक्तदृश्यत्वातू धर्ममात्रानभ्युपगमाच्च क्षणिकत्वानभ्युपगमाचेत्येतदपि प्रत्यवोचाम ॥

तस्मादुच्यते—यत्किञ्चित् परसामान्यमात्रं स्वरूपेणेोदाहरेद्वैनाशिकः स सर्वः संहत्यकारित्वात् परार्थ एव स्यात् । न देवदत्तार्दिसंहतार्थत्वम् । उभाभ्यामावाभ्यामनभ्युपगमात् । त्वमपि विज्ञानव्यतिरेकेण नान्यमभ्युपैषि । वयमपि पुरुषव्यतिरेकेण नान्यार्थत्वमभिवाञ्छामः । विज्ञानमात्रत्वं च नोपपद्यत इत्युक्तम् । अतो यस्त्वसौ परो विशेषः स न संहत्यकारी पुरुषः स्वार्थ इति सिद्धः । तस्मादस्ति भोक्ता तस्य स्वार्थस्य स्वेन दृश्येन परार्थेन यन्निमित्तः संयोगः । तद्वियोगात् कैवल्यमुपकल्पते ॥ २४ ॥ विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ २५ ॥ यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्ताऽनुमीयते तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्राप्यस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिर्वर्तितमित्यनुमीयते। तस्याऽऽत्मभावभावना स्वाभाविकी प्रवर्तते। यस्याभावादिदमुक्तं स्वभावं मुक्त्वा दोषाद्येषां पूर्वपक्षे रुचिर्भवत्यरुचिश्च निर्णये भवति। तत्राऽऽत्मभावभावना कोऽहमासं कथमहमासं किंस्विदिदं कथंस्विदिदं के भविष्यामः कथं वा भविष्याम इति। सा तु विशेषदर्शिनो निवर्तते। कुतः। चित्तस्यैवैष विचित्रः परिणामः, पुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इति। ततोऽस्याऽऽत्मभावभावना कुशलस्य निवर्तत इति ॥ २५ ॥ विवरणम् विवरणम्

गुणपुरुषयोगास्याविद्या निमित्तमुत्तम् । सा च विशेषदर्शिन आत्मानं विजिज्ञासमानस्य विनिवर्तते । तन्निवृत्तै च लिङ्गमाह-विशेषदर्शिन आत्मभावभावनानिवृत्तिः । व्यक्ताव्यक्तसामान्याद्विशिष्टः पुरुषः असाधारणेो विशेषः । तं विशेषं व्यक्ताव्यक्तसामान्यात् प्रविविच्य द्रष्टुं शीलं यस्य स विशेषदर्शी । तस्य आत्मभावभावना निवर्तते । सा च सम्यग्दर्शनाभिमुखा कैवल्यप्रापिकर्मनिमित्ता ॥

कथं पुनरात्मभावभावना अस्यास्तीति विज्ञायत इत्याह - यथा प्रावृषि तृणस्याङ्कुरोद्भेदेन लिङ्गेन तद्बीजसद्धावोऽनुमीय(गम्य)ते, तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातो दृश्यते, तत्राप्यस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिर्वर्तितमिति रोमहर्षाश्रुपातादीलेङ्गेन अनुमीयते ॥

तस्य विशेषदर्शिन: आत्मभावभावना कैवल्यभागीयकर्मनिमित्ता स्वाभाविकी जन्मान्तरकर्मनिमित्ता इहजन्मापरिग्रहस्थैर्यकारणा वा । सा ह्याचार्योपदेशानपेक्षा स्वाभाविकी प्रवर्तते । तस्य कर्मणस्तादृशस्य अभावात् इदमुक्तम् - स्वभावदोषात् अशुद्धकर्मयोगात् एषां पूर्वपक्षे सम्यग्दर्शनतदुपायविपर्यये रुचिर्भवति, अरुचिश्व निर्णये सम्यग्दर्शने ॥

तत्रात्मभावभावना का पुनरित्याह—कोऽहमासं, कथमहमासं, किंस्विादद, कथंस्विदिदं, के भविष्याम:, कथं भविष्यामः, इति । सा तु विशेषदर्शिनो निवर्तते । यद्विषया हि जिज्ञासा, तस्मिन्नधिगते तद्विषया जिज्ञासा विनिवर्तते । कुतः एतदवम् ? यतः चित्तस्यैवैषः के भविष्याम इत्यादिः चित्रः परिणामः न पुरुषस्य । पुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इति । यस्मादेवमत एवं विशेषदर्शिनः तस्यात्मभावभावना कुशलस्य निवतैते ॥ २५ ॥ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६ ॥ तदानीं यदस्य चित्तं विषयप्राग्भारमज्ञाननिम्नमासीत्तदस्यान्यथा भवति कैवल्यप्राग्भारं विवेकजज्ञाननिम्नमिति ॥ २६ ॥ विवरणम् विवरणम्

यदा च विशेषदर्शनमुदपादि, तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् । यदस्य चित्तं विषयनिम्नं विषयप्रवणम् अज्ञानप्राग्भारम् अज्ञाननिष्ठं संसाराभिमुखम् आसीत् , तदस्य विशेषदर्शिनः तदानीमन्यथा भवति, कैवल्यप्राग्भारं विवेकनिम्नम् इति प्रतिस्रोतोवृत्तिज्ञायते ॥ २६ ॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७ ॥ प्रत्ययविवेकनिम्नस्य सत्त्वपुरुषान्यताख्यातिमात्रप्रवाहिणश्चित्तस्य तच्छिद्रेषु प्रत्ययान्तराण्यस्मीति वा ममेति वा जानामीति वा न जानामीति वा। कुतः, क्षीयमाणबीजेभ्यः पूर्वसंस्कारेभ्य इति ॥ २७ ॥ विवरणम् विवरणम्

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः । विवेकनिम्नस्य उत्तरोत्तरविवेकप्रवणचेतसः पुरुषस्य ज्ञानिनः अन्यताख्यातिप्रवाहाधिरोहिणः सत्त्वपुरुषान्यतास्रोतःप्लाविनः चित्तस्य तच्छिद्रेषु विवेकप्रत्ययप्रवाहान्तरालेषु प्रत्ययान्तराणि विपर्ययलक्षणानि अस्मीति वा ममेति वा । कुतः तानि भवन्तीत्याह–क्षीयमाणक्लेशादिबीजस्य चित्तस्य पूर्वेपचितविपरीतसंस्कारेभ्यः प्रत्ययान्तराणि जायन्ते ॥ २७ ॥ हानमेषां क्लेशवदुक्तम् ॥ २८ ॥ यथा क्लेशा दग्धबीजभावा न प्ररोहसमर्था भवन्ति तथा ज्ञानाग्निना दग्धबीजभावः पूर्वसंस्कारो न प्रत्ययप्रसूर्भवति। ज्ञानसंस्कारास्तु चित्ताधिकारसमाप्तिमनुशेरत इति न चिन्त्यन्ते ॥ २८ ॥ विवरणम् विवरणम्

हानमेषां क्लेशवदुक्तम् । यथा क्लेशा दग्धबीजभावा न प्ररोहसमर्था भवन्ति इति ते प्रतिप्रसवहेयाः सूक्ष्माः इत्यत्रोक्तम्, एवं ज्ञानाग्निदग्धबीजभावा: अस्मि ममेत्यादिप्रत्ययसंस्कारा न प्ररोहसमर्था भवन्ति । दग्धशालिबीजवत् पूर्वसंस्कारो न प्रत्ययप्रसूर्भवतीत्यर्थः ॥

ज्ञानसंस्कारास्तु कथमप्रतिपक्षाः सन्तश्चित्तमधिकारे न(विज)योजयिष्यन्तीति ? ते तु सम्यग्दर्शनसंस्काराश्चिताधिकारपरिसमाप्तिमनुशेरते । सहैवाश्रयेणावसितप्रयोजनेन चित्तेन प्रलीयन्ते । न पुनश्चित्तमधिकारप्रवणं कुर्वन्ति । अधिकारहेतोरविद्यायाः प्रतिपक्षत्वाज्ज्ञानस्य । तत्र निष्फलत्वात् न चिन्त्यन्ते । न हि स्वयं पततः पतनहेतुरन्वेषणीयः ॥ २८ ॥ प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥ २९ ॥ यदाऽयं ब्राह्मणः प्रसङ्ख्यानेऽप्यकुसीदस्ततोऽपि न किञ्चित्प्रार्थयते। तत्रापि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्कारबीजक्षयान्नास्प प्रत्ययान्तराण्युत्पद्यन्ते। तदाऽस्य धर्ममेघो नाम समाधिर्भवति ॥ २९ ॥ विवरणम् विवरणम्

विवेकख्यातिप्रवणान्तःकरणस्य ब्राह्मणस्य प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघः समाधिः । स यदा अयं ब्राह्मणः प्रसङ्ख्याने विवेकदर्शनशीलतेऽप्यकुसीदः अवृद्धिको भवति, ततोऽपि प्रसङ्ख्यानप्रसादविशेषादधिकं न किञ्चित् प्रार्थयते । अपिशब्दान्त् प्रसङ्ख्यानेऽपि न प्रार्थना । तत्रापि प्रसङ्ख्याने विरक्तः । सर्वथा सर्वेण प्रकारेण विवेकख्यातिर्यस्य स सर्वथाविवेकख्यातिरेव भवति ॥

क्लेशसंस्कारबीजक्षयात् नास्य शरीरादौ शून्यवेश्मनीव अस्मि ममेति वा ज्ञानप्रसादमात्रैकायतनस्य प्रत्ययान्तराण्युत्पद्यन्ते । तदाऽस्य ब्राह्मणस्य सर्वथाविवेकख्याते: धर्ममेघो नाम समाधिर्भवति । कैवल्याख्यं परं धर्मं वर्षतीति धर्ममेघः इति सञ्ज्ञा ॥ २९ ॥ ततः क्लेशकर्मनिवृत्तिः ॥ ३० ॥ तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति। कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति।क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान्विमुक्तो भवति। कस्मात्, यस्माद्विपर्ययो भवस्य कारणम्। न हि क्षीणविपर्ययः कश्चित्केनचित्क्वचिज्जातो दृश्यत इति ॥ ३० ॥ विवरणम् विवरणम्

ततः क्लेशकर्मनिवृत्तिः । तस्य धर्ममेघनाम्नः समाधेः सम्यग्दर्शनपाकाभिरूपस्य [लाभात् ] भावात् अविद्यादयः क्लेशाः समूलकाषं कषिताः वासनाभिः सह समस्ताः प्रलीनाः भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति । मूलैः क्लेशैः सहोच्छिन्ना भवन्ति ॥

क्लेशकर्मनिवृतौं जीवन्नेव विद्वान् मुक्तो भवति । कस्मात् एवम ? यतो विपर्ययः मिथ्याज्ञानं भवस्य जन्मनः कारणम् । न हि क्षीणविपर्ययः कश्चित् कचिज्जातो दृश्यते ॥ ३० ॥ तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम् ॥ ३१ ॥ सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्याऽऽनन्त्यं भवति। आवरकेण तमसाऽभिभूतमावृतमनन्तं ज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्धाटितं ग्रहणसमर्थं भवति। तत्र यदा सर्वैरावरणमलैरपगतं भवति तदा भवत्यस्याऽऽनन्त्यम्। ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पं सम्पद्यते। यथाऽऽकाशे खद्योतः। यत्रेदयुक्तम् – अन्धो मणिमविध्यत्तमनङ्गुलिरावयत्। अग्रीवस्तं प्रत्यमुञ्चत्तमजिह्वोऽभ्यपूजयत् ॥ इति ॥ ३१ ॥ विवरणम् विवरणम्

तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्यात् ज्ञेयमल्पम् । तदा धर्ममेघसमाधिसमये, सर्वैः क्लेशकर्मावरणैः रजस्तमोजन्मभिः विमुक्तस्य, ज्ञानस्य सत्त्वपुरुषान्यताख्यातिमात्रस्य भवत्यानन्त्यम् । तत् कथमिति ? तमसा(न)ऽभिभूतमनन्तं ज्ञानसत्त्वं, तस्य तिरस्कृतरजोमलस्यानन्तस्य निस्तरङ्गमहोदधिदेशीयस्य निरहितस्याविक्रियस्य कथं तद्ग्रहणसामर्थ्यमित्याह-क्वचिद्रजसा प्रवर्तितं चित्तसत्त्वम् उद्घाटितं वायुनेव महापयोदमण्डलमाहतं सूचितं ग्रहणसमर्थं भवति । स्वतः सत्त्वस्याप्रवर्तनात् रजसो हि प्रवृत्तिसामर्थ्यमिति ॥

तदाऽस्य चित्तस्य भवत्यानन्त्यम्, अशेषज्ञेयविषयत्वमम्बरतलमध्यवर्तिनो जलधरानरोधनिर्गतस्य रवेरिव । तस्य ज्ञानस्यानन्यात् अशेषविषयत्वात् ज्ञेयमल्पं सम्पद्यते । यथा आकाशे खद्योत: इति । यथा आकाशापेक्षया खद्योतो न किञ्चिदेवमेतज्ज्ञानाभिसमीक्षया ज्ञेय न किञ्चिदिति ॥

परमात्मज्ञानावस्थायामशेषविपर्ययतिरोधाने सर्वपुरुषार्थशून्यता चेत्येतत्प्रदरशनार्थमुदाहरणमाह - यत्रेदमुक्तम् - अन्धो मणिमविन्दत् (ध्यत्) तमनङ्गुलिरावयत् । अग्रीवः (तं) प्रत्यमुञ्चत् तमजिह्वेऽभ्यपूजयत् इति । यथा अन्धादीनां मणीवेधादिकमसम्भवदपि विपर्ययेणान्धो मणिमविध्यदिति व्यवह्रियते, तथा ज्ञानज्ञेयसंव्यवहारोऽपि विपर्ययावस्थायामेव । विपर्ययाभावे तु सर्वपुरुषार्थशून्या एव गुणाः सम्पद्यन्त इति ॥ ३१ ॥ ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ३२ ॥ तस्य धर्ममेघस्योदयात्कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते। न हि कृतभोगापवर्गाः परिसमाप्तक्रमाः क्षणमप्यवस्थातुमुत्सहन्ते ॥ ३२ ॥ विवरणम् विवरणम्

ततः धर्ममेघसमाधिसमुदयात् कृतार्थाश्चित्तगुणास्सम्पद्यन्ते । चित्ताधीनत्वाच्च कार्यकरणारम्भिणोऽपि सत्त्वादयः कृतार्था भवन्ति । समस्तस्य पुरुषार्थस्य कृतत्वात् । एषां कृतार्थानां गुणानां जन्ममरणप्र(भाव)वाहरूपः परिणामक्रमः परिसमाप्यते । न हि कृतभोगापवर्गार्थाः क्षणमपि प्रयोजनाभावात् अवस्थातुमुत्सहन्ते ॥ ३२ ॥ अथ कोऽयं क्रमो नामेति – क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ३३ ॥ क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः। न ह्यननुभूतक्रमक्षणा पुराणता वस्त्रस्यान्ते भवति। नित्येषु च क्रमो दृष्टः। विवरणम् विवरणम्

परिणामक्रमपरिसामाप्तिरित्युक्तम् । अथ कोऽयं गुणक्रमो नाम यस्य परिसमाप्तिरुपवर्णिता? तस्यायमधिगमोपाय उच्यते - क्षणप्रतियोगी परिणामापरान्तनिग्रार्ह्यः क्रमः । क्षणं प्रति युज्यत इति क्षणाप्रतियोगी ।

क्षणानन्तर्यात्मा क्षणस्यानन्तरता क्षणानन्तर्यं तदात्मा तत्स्वभावः । क्षणानन्तर्यमेव ‘क्षणतत्क्रमयोः’ इति व्याख्यातम् ॥

किं पुनरस्य ग्रहणे लिङ्गमित्याह—परिणामस्यापरान्तेन विनाशावस्थारूपण अवसानेन लिङ्गेन निगृह्यते सः क्रमः । कथमपरान्तेन निर्ग्रहणमिति ? उच्यते–न ह्याननुभूतक्रमा क्रममनवलम्बमाना क्षणे क्षणे पुराणता वस्त्रस्यान्ते विनाशकाले भवति इति । न हि कदाचिद्भूतमात्रस्यैव वस्त्रस्य पुराणता दृश्यते । तस्मात् पुराणताभिव्यक्तिलिङ्गेनाभ्यूह्यते–येनेयं पुराणता वस्रस्याभिव्यक्तिमुपसम्प्रापिता स क्रमः ॥

तत्र यदि लब्धावसानत्वमलब्धावसानत्वं च क्रमस्य स्यात्, ततो युक्तं कृतार्थानां परिणामक्रमपरिसमासिगुणानामू इति वक्तुम् । तच लब्धलब्धाव सानत्वं क्रमस्य निष्यानित्यत्वे घटते । तत्रानित्येषु वस्त्रादिषु क्रमे दृष्ट्र:, न तु नित्येषु । ततश्च गुणानां नित्यानां परिणामक्रमपरिसमाप्तिरयुक्ता स्यादित्याशङ्कमान आह-नियेषु च क्रमो दृष्टः । द्वयी चेयं नित्यता कूटस्थनित्यता परिणामिनित्यता च। तत्र कूटस्थनित्यता पुरुषस्य। परिणामिनित्यता गुणानाम्। यस्मिन्परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यम्। उभयस्य च तत्त्वानभिघातान्नित्यत्वम्। तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः। कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियामुपादाय कल्पित इति। विवरणम् विवरणम्

किं सर्वत्र ? नेत्याह-द्विविघेयं नित्यता, परिणामनित्यता गुणानां, कूटस्थानित्यता पुरुषस्येति ॥

ननु परिणामिनां गुणानां कथं नित्यता स्यादिति ब्रवीति—यस्मिन् परिणममाने तत्त्वं न विहन्यते । यस्य यद्रूपं प्रमाणेनोपलब्धं, तस्य तत् तत्त्वम् । तद्यस्मिन् न विहन्यते न व्यभिचरति, तदपि नित्यम् । गुणानामपि सुखदु:खमोहात्मता प्रकाशक्रियास्थितिशीलता च तत्वं न विहन्यते । तस्मादेतेऽप परिणामनित्याः । उभयत्र च गुणपुरुषेषु तत्त्वस्याविघातान्नित्यत्वम् । ततो गुणेष्वपि नित्येषु परिणामो दृष्ट इति लब्धालब्धपर्यवसान्त्वं स्थितम् ॥

तत्र गुणधर्मेषु महदादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानः शरीरादिष्विव । नित्येषु तु गुणेषु धर्मिष्वलब्धपर्यवसानः नित्यत्वादेषाम् । कूटस्थनिलेषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयते । तेन मुक्तपुरुषेष्वसन्नप्यनुभवद्वारेण, शब्दपृष्ठेनास्तिक्रियामुपादाय विकल्पितः इति अलब्धपर्यवसान एव । परमार्थतः । पुरुषष्वपारणामित्वान्नास्ति क्रम इत्यर्थः ॥ अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वेति। अवचनीयमेतत्। कथम्। अस्ति प्रश्न एकान्तवचनीयः सर्वो जातो मरिष्यतीति। ओं भो इति। विवरणम् विवरणम्

अथास्य ससारस्य स्थित्या प्रधानरूपेण, गत्या विकारात्मना, द्वय च गुणात्मकमिति गुणेषु च वर्तमानस्य अस्ति क्रमपरिसमाप्तिः न वेति ? अवचनीयमेतत् । अस्त्येवेत्यवधारणं न शक्यं कर्तुम् । नापि नास्त्येवेति । किं तु विभज्य, कस्यचिदस्ति कस्यापि नास्तीति वचनीयमेव ॥

कथम् ? अस्ति प्रश्न एकान्तवचनीयः अप्रविभज्यापि । यथा सर्वो जातो मरिष्यति अज्ञानी इति । ननु ज्ञानवानपि मरिष्यत्येव । उच्यते – अज्ञस्य हि मरणमित्यभिमानः, न ज्ञानिनः । तथा चोक्तम् – मिथ्यैतदाहुर्म्रियतीति मूढाः इति ॥ अथ सर्वो मृत्वा जनिष्यत इति। विभज्यवचनीयमेतत्। प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यत इतरस्तु जनिष्यते। तथा मनुष्यजातिः श्रेयसी न वा श्रेयसीत्येवं परिपृष्टे विभज्य वचनीयः प्रश्नः पशूनधिकृत्य श्रेयसी देवानृषींश्चाधिकृत्य नेति। अयं त्ववचनीयः प्रश्नः संसारोऽयमन्तवानथानन्त इति। कुशलस्यास्ति संसारक्रमसमाप्तिर्नेतरस्येति अन्यतरावधारणे दोषः।तस्माद्व्याकरीय एवायं प्रश्न इति ॥ ३३ ॥ विवरणम् विवरणम्

अथ सर्वो मृत्वा जनिष्यत इति ? विभज्य वचनीयमेतत् एकान्तानुपपत्तेः । कथम् ? प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यते, इतरः अज्ञः जनिष्यते ॥

तथा मनुष्यजातिः श्रेयसी एव नैव वेत्यवचनीयः प्रश्नः । प्रविभज्य तु वचनीय एव । कथम् ? पशूनुद्दिश्य श्रेयसी भवति । देवानृषींश्चाधिकृत्य न श्रेयसी भवति ॥

अयं त्ववचनय एव अप्रविभज्य सामान्येन प्रश्नः–यथा संसारोऽयमन्तवानेवेति अनन्त एवेति वा । बन्धमोक्षानुपपत्तेः । प्रविभज्य तु वचनीय एव । यथा कुशलस्यास्ति संसारचक्रपरिसमाप्तिर्नेतरस्येति ॥

अन्यतरावधारणे दोषः । संसारोऽन्तवानेवानन्त एवेति वान्यतरावधारणे दोषः । तस्मादव्याकरणीय एवायं सामान्येनाप्रविभज्य प्रश्नः, यथा – सर्वो मृत्वा जनिष्यते इति, एवं मनुष्यजातिः श्रेयस्येवेति च । तस्मात् सुष्ठूक्तं कृतार्थानां परिणामक्रमपरिसमासिगुण्णानामिति विशेषणम् ॥ ३३ ॥ गुणाधिकारक्रमसमाप्तौ कैवल्यमुक्तं तत्स्वरूपमवधार्यते – पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४ ॥ कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मकानां गुणानां तत्कैवल्यं, स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वानभिसम्बन्धात्पुरुषस्य चितिशक्तिरेव केवला, तस्याः सदा तथैवावस्थानं कैवल्यमिति ॥ ३४ ॥ विवरणम् विवरणम्

गुणाधिकारपरिसमाप्तौ कैवल्यमुक्तम् । तत्स्वरूपमवधार्यते । कैवल्यं प्रति विप्रतिपत्तेः । केषाञ्चिद्विज्ञानसन्तानस्यात्यन्तोपशमः कैवल्यम् । केषाञ्चित्तु नवानामात्मगुणानां बुद्धीच्छाद्वेषप्रयत्नसुखदुःखधर्माधर्मसंस्काराणामुच्छेदेनाचेतनस्य द्रव्यमात्रस्य पुरुषस्यावस्थानम् । केषाञ्चिदीश्वरस्यायुज्यम् । केषाञ्चित् सर्वज्ञत्वादीश्वरतुल्यधर्मत्वप्राप्तिः कैवल्यमिति भिन्ना मतिः ॥

इहापि विप्रतिपत्तिप्रणोदाय कैवल्यस्वरूपमवधार्यते – पुरुषार्थशून्यानां गुणानां यः प्रतिप्रसवः प्रतिसंसर्गः स्वकारणे प्रत्यस्तमय इत्यर्थः, कार्यकरणात्मकतया परिणतानाम् , तत् कैवल्यं पुरुषस्य केवलत्वं गुणैरमिश्रीभाव इत्यर्थः ॥

स्वरूपप्रतिष्ठा वा चितिशक्तिरिति । बुद्धिसत्त्वानभिसम्बन्धिनी या पुरुषस्य चितिशक्तिः अमिश्रा केवला तस्याः सदा तथैव अवस्थानं केवलायाः भावः कैवल्यम् ॥

ननु कैवल्यस्यैकत्वे कथं विकल्पः? क्रियायां हि विकल्पो न तु वस्तुनि । वस्तुस्वरूपस्य भेदानुपपत्तेः । कैवल्यमपि वस्तु, कथं तद्विकल्प्यत इति । नैष दोषः । निमित्तनैमित्तिकयोः प्रभेदोपपत्तेः । निमित्तनैमित्तिकभेदेोपचरितोऽपि विकल्पे न वस्तुस्वरूपभेदकृतः । या तु गुणानां परिणामिता पुरुषस्य विमिश्रता वृत्तिसरूपता, सा कार्यकरणात्मकानां पुरुषार्थशून्यानां गुणानां प्रतिसंसर्गान्निमित्तादपगच्छतीति निमित्तगेव प्रतिप्रसवाख्यं कैवल्यशब्देनोपचरितं पूर्वम् ॥

द्वितीयं तु गुणप्रतिप्रसवनिमित्तभावि यत् स्वरूपावस्थानं पुरुषस्य गुणैरमिश्रिततया, तत् कैवल्यमिति विशेषः । गुणपुरुषान्तरस्वरूपतत्त्वनिर्धारणेन तन्त्रान्तरीयतत्वस्वरूपनिराकरणेन च कैवल्यान्तराणि निवेदितव्यानि ॥

तत्रोङ्कारो मङ्गलार्थः प्रयुक्तः परम्मश्वरनामाङ्कितमस्तकतया तन्त्रप्रचयार्थं शान्त्यर्थं वा वेदारण्यकवदिति ओम् इति ॥

ओङ्कारो यस्य वक्ता समचरत फलैः कर्म यस्मादशेषं निष्कर्मक्ळेशपाको घटयति सकलं यः फलेन क्रियाणाम् । ईशानामीश्वरो यः स्थितिभवनिधनप्रक्रियाणां विधाता ध्यायन्नः शुक्लिमानं व्यपनुदतु तरां कृष्णिमानं स कृष्णः ॥

यात्राकृतस्त्रिजगतां यदचिन्त्यशक्ति- लेशान् दशाहुरेह मीनमुखावतारान् । क्लेशोद्भवत्रिविधतापपरम्परार्ता: तं नागनाथशायनं शरणं व्रजामः ॥

फणरतौघवद्योति [ पृथिवी ] द्युनभोदिशे । योगीन्द्राय फणीन्द्राय तत्पतञ्जलये नमः ॥

योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन । योऽपाकरोत्तं प्रवरं मुनीनां पतनलिं प्राञ्जलिरानतोऽस्मि ॥

स जयति पतञ्जलिमुनिः येन श्रेयोऽर्थिसार्थसस्यानाम् । विहितो हर्षस्तापत्रितयहृता धर्ममेधेन ॥

यस्ततान भवमार्गलङ्घिनां क्लेशकर्ममयधर्मनुत्तये । धर्ममेघमुखयोगतोयदम् [र्त पतञ्जलिमृर्षिं प्रणतोऽस्मि] ॥

वदनाहितपूर्णचन्द्रकं गुरुमीशानमभूतिभूषणम् । प्रणमाम्भुजङ्गसङ्ग्रहं भगवत्पादमपूर्वशङ्करम् ॥ ३४ ॥