समाधिपादः यस्त्यक्त्वा रूपमाद्यं प्रभवति जगतोऽनेकधाऽनुग्रहाय प्रक्षीणक्लेशराशिर्विषमविषधरोऽनेकवक्त्रः सुभोगी। सर्वज्ञानप्रसूतिर्भुजगपरिकरः प्रीतये यस्य नित्यं देवोऽहीशः स वोऽव्यात्सितविमलतनुर्योगदो योगयुक्तः ॥ १ ॥ अथ योगानुशासनम् ॥ १ ॥ अथेत्ययमधिकारार्थः। वार्तिकम् योग-वार्त्तिकम्

यश्चिन्मात्ररसोऽपि नित्यविमलोपाधेर्गुणैरीश्वरो हेयैः क्लेशमुखैर्गुणैर्विरहितो मुक्तः सदा निर्गुणः । सोऽस्मान् बुद्धिगुणैः स्वयं निगडितान् स्वांशान् कृपासागरो दीनान्मोचयतु प्रभुर्गुणमयं पाशं दहन् लीलया ॥ १ ॥

श्रीपातञ्जलभाष्यदुग्धजलधिर्विज्ञानरत्नाकरो वेदव्यासमुनीन्द्रबुद्धिखनितो योगीन्द्रपेयामृतः । भूदेवैरमृतं तदत्र मथितुं विज्ञानविज्ञैरिह श्रीमद्वार्त्तिकमन्दरो गुरुतरो मन्थानदण्डोऽर्प्यते ॥ २ ॥

सर्ववेदार्थसारोऽत्र वेदव्यासेन भाषितः । योगभाष्यमिषेणातो मुमुक्षूणामिदं गतिः ॥ ३ ॥

गङ्गाद्याः सरितो यद्वदब्धेरंशेषु संस्थिताः । साङ्ख्यादिदर्शनान्येवमस्यैवांशेषु कृत्स्नशः ॥ ४ ॥

निर्विघ्नग्रन्थसमाप्तये योगप्रवर्त्तकमनन्तमीश्वरं स्मरन् शिष्याणां शास्त्रग्रहणानुष्ठानादावप्यप्रतिबन्धं तत एव प्रार्थयते । यस्त्यक्त्वेति । यः स्वस्याद्यरूपं शेषाख्यं त्यक्त्वा स्वांशैस्ततो विभक्तो भूत्वा लोकानुग्रहार्थं बलरामादिरूपेणाविर्भवति स वो युष्मान् शिष्यान् पालयेत् शास्त्रार्थग्रहणादिप्रतिबन्धं निवारयत्वित्यर्थः । शेषं सुगमम् ॥ १ ॥

अध्यात्मयोगाधिगमेन मत्वा देवं धीरो हर्षशोकौ जहाति’ ‘‘यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते । अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा’ ‘‘तावदेव निरोद्धव्यं यावद्धृदि गतं क्षयम् । एतद् ज्ञानं च ध्यानं च शेषोऽन्यो ग्रन्थविस्तर’’ इत्यादिश्रुतिषु, ‘‘मुक्तिर्योगात्तथा योगः सम्यङ्ज्ञानान्महीयते । तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिक’’ इत्यादिस्मृतिषु च योगो मोक्षहेतुतया विहितः, तत्र योगः किंस्वरूपः किमुपायः केन वा द्वारेण ज्ञानमोक्षयोः कारणमित्यादिकं मुमुक्षूणां विविदित्सितं भवति, ब्रह्ममीमांसासाङ्ख्यादिषु च ज्ञानमेव विचारितं बाहुल्येन ज्ञानसाधनमात्रस्तु योगः सङ्क्षेपतः, ज्ञानजन्ययोगस्तु सङ्क्षेपतोऽपि तेषु नोक्तोऽतोऽतिविस्तरेण द्विविधं योगं प्रतिपिपादयिषुर्भगवान् पतञ्जलिः शिष्यावधानायादौ योगानुशासनं शास्त्रमारभ्यतया प्रतिज्ञातवान् ॥

तदिदं सूत्रमारभ्य समग्रं शास्त्रं सर्वलोकहिताय भगवान् बादरायणो व्याचष्टे । अथेत्ययमधिकारार्थ इत्यादिना । अधिकारशब्दो योगरूढतया आरम्भण एव मुख्य इति शास्त्रस्याधिकार्यत्वं मुख्यमेवास्ति । यत्र चार्थस्याधिकार्यत्वमुच्यते यथा अथैष ज्योतिरित्यादौ तत्राधिकार्यशास्त्रविषयतया गौणं तदित्याशयः । एतेन शास्त्रस्यानधिकार्यत्वमनिरूप्यत्वादित्यपास्तं प्रकृतभाष्यविरोधादिति । प्रश्नाद्यर्थकत्वमथशब्दस्य किं कुत्रापि नास्तीत्याशङ्कानिरासायोक्तमयमिति । अधिकारार्थोऽधिकारवाचक इत्यर्थः । अथशब्दस्य चोच्चारणमात्रेण मङ्गलत्वमपि बोध्यम् । शिष्टस्य शासनमनुशासनं तेन शास्त्रस्य गुरुमूलकतया सूत्रकारेण प्रामाण्यं दर्शितं ‘‘हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातन’’ इति योगियाज्ञवल्क्येन हिरण्यगर्भस्यादिगुरुत्वबोधनादिति । योगानुशासनं शास्त्रमधिकृतं वेदितव्यम्। योगः समाधिः। स च सार्वभौमश्चित्तस्य धर्मः। क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तभूमयः। तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते। वार्तिकम् योग-वार्त्तिकम्

सूत्रवाक्यार्थमुपसंहरति, योगस्यानुशासनं शास्त्रमधिकृतं वेदितव्यमिति । शिष्यैरिति शेषः । वेदितव्यमिति पूरणेन सूत्रस्य शिष्यावधानार्थकत्वं सूचितं, योगस्य च फलं सूत्रभाष्ययोः स्थाने स्थाने वक्ष्यमाणं मयोत्तरसूत्रावतारिकायामपि सङ्क्षेपाद्वक्ष्यते । योगलक्षणपरतया द्वितीयसूत्रमवतारयिष्यति । तत्र युजसमाधाविति योगलक्षणस्य प्रसिद्धत्वाल्लक्षणान्तराकाङ्क्षैव नास्तीत्याशङ्कां तस्यातिव्याप्तत्वेनादावपाकरोति । योगः समाधिः स च सार्वभौमश्चित्तस्य धर्म इति । युज समाधावित्यनुशासनतः प्रसिद्धो योगः समाधिः चित्तवृत्तिनिरोधः स च सार्वभौमः सर्वासु वक्ष्यमाणासु क्षिप्ताद्यवस्थासु साधारणश्चित्तस्य धर्मः स्वाभाविकः जलस्य द्रवत्ववत्, क्षिप्ताद्यवस्थायामपि हि यत्किञ्चिद्वृत्तिनिरोधोऽस्त्येवेति, तथा चालक्ष्यास्ववस्थासु तल्लक्षणमतिव्याप्तमिति शेषः । कास्ताः सर्वाः चित्तभूमय इत्याकाङ्क्षायामाह । क्षिप्तमित्यादि । क्षिप्तं रजसा विषयेष्वेव वृत्तिमत् । मूढं तमसा निद्रादिवृत्तिमत् । क्षिप्ताद्विशिष्टं विक्षिप्तं सत्त्वाधिक्येन समादधदपि चित्तं रजोमात्रयान्तरान्तरा विषयान्तरवृत्तिमत् । एकस्मिन्नेव विषये अग्रं शिखा यस्य चित्तदीपस्येत्येकाग्रं विशुद्धसत्त्वतयैकस्मिन्नेव विषये वक्ष्यमाणावधीकृतकालपर्यन्तमचञ्चलं निवातस्थदीपवत् । तथा च क्षिप्तादित्रयोऽपि किञ्चिदैकाग्र्यसत्त्वेऽपि तत्र नातिप्रसङ्गः । निरुद्धं च निरुद्धसकलवृत्तिकं संस्कारमात्रशेषमित्यर्थः । रजोधर्मस्य रागादेः प्रतिघातादेव लोकानां तमोधर्मो विषादादिर्दृश्यत इति क्षिप्तात्पूर्वत्र मूढस्योपन्यासः । उक्तातिव्याप्तिं प्रतिपादयितुमुक्तभूमिषु लक्ष्यालक्ष्यविभागं करोति । तत्र विक्षिप्त इत्यादिना । तत्र तासु पञ्चसु मध्ये विक्षिप्ते चेतसि वर्त्तमानः समाधिरल्पो त्वाबहुलविक्षेपशेषीभूतत्वान्न योगपक्षे योगमध्ये प्रविशति क्लेशहान्यहेतुत्वात् सुतरां तु क्षिप्तमूढयोश्चित्तयोर्वर्तमानौ समाध्यभ्यासावित्याशयः । अतो न क्षिप्तमूढभूम्योरलक्ष्यत्वाप्रतिपादनेन न्यूनतेति । विक्षिप्तमुखेनाद्यभूमित्रयस्यालक्ष्यत्वमुक्त्वान्त्यभूमिद्वयमेव लक्ष्यमित्याह । यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति क्षिणोति च क्लेशान्कर्मबन्धनानि श्लथयति निरोधमभिमुखं करोति स सम्प्रज्ञातो योग इत्याख्यायते। स च वितर्कानुगतो विचारानुगत आनन्दानुगतोऽस्मितानुगत इत्युपरिष्टान्निवेदयिष्यामः। सर्ववृत्तिनिरोधे त्वसम्प्रज्ञातः समाधिः ॥ १ ॥ वार्तिकम् योग-वार्त्तिकम्

यस्त्वेकाग्र इति । यस्तु समाधिरेकाग्रे चेतसि वर्त्तमानोऽर्थं ध्येयं वस्तु सद्भूतं परमार्थभूतं प्रकर्षेण द्योतयति साक्षात्कारयति ततश्च क्लेशानविद्यादीन् पञ्च क्षिणोति ततोऽपि च कारणोच्छेदाद्धर्माधर्मरूपाणि बन्धनानि बुद्धिपुरुषयोर्बन्धकारणानि श्लथयति अदृष्टोत्पादनाक्षमाणि करोति तथा निरोधमसम्प्रज्ञातयोगभिमुखं प्रत्यासन्नं करोति । परवैराग्यजननेनेति शेषः । स समाधिः सम्प्रज्ञातो योग इति कथ्यत इत्यर्थः । सम्यक् प्रज्ञायते साक्षात्क्रियते ध्येयमस्मिन्निरोधविशेषरूपे योग इति सम्प्रज्ञातो योगः । यद्यपि समाधिशब्देनैकाग्रतातिशयरूपं निरोधद्वयरूपयोगद्वयस्याङ्गमेव परिभाषिष्यते तथापि योगद्वयमङ्गाङ्गिनोरभेदविवक्षयैव समाधिशब्देनोक्तमेवमुत्तरोत्तरसूत्रेऽपि बोध्यम् । स च सम्प्रज्ञातश्चर्तुर्विध इत्याह । स चेति । न च वितर्कानुगतादित्रिके साक्षात्कारजनकत्वादिकं साक्षान्नास्ति अविद्यालेशसम्पर्कादिति वाच्यम् । सवितर्कादिक्रमेणैव साक्षात्कारवृद्ध्या चरमभूमिकायामृतम्भरप्रज्ञोदयन भूमिकाचतुष्टय एव साक्षात्कारसम्बन्धादिति । निरुद्धभूमेरपि लक्ष्यत्वमाह । सर्ववृत्तीति । सम्प्रज्ञातकालीना साक्षात्काररूपिणी या वृत्तिः तस्या अपि वक्ष्यमाणपरवैराग्येण निरोधे जायमाने त्वसम्प्रज्ञातयोग इत्यर्थः । वृत्तिनिरोधश्च चित्तस्य वृत्तिसंस्कारशेषावस्था अभावस्याधिकरणावस्थाविशेषमात्ररूपत्वात् निरुध्यन्तेऽस्यामवस्थायामिति व्युत्पत्तेर्वा, सा चावस्था संस्कारमात्रैः परिणामधारा । निरोधकाले संस्कारतारतम्यरूपस्यैव चित्तपरिणामस्य सूत्रभाष्याभ्यां वक्ष्यमाणत्वादिति । ननु वृत्तिनिरोधो वृत्यभावमात्रमेकाग्रताविशेषो वा निरोधस्याभावमात्रत्वे वक्ष्यमाणसंस्कारजनकत्वानुपपत्तेरेकाग्रतामात्ररूपत्वे समाधिरूपादङ्गात्सम्प्रज्ञाताच्च भेदानुपपत्तेः । '

‘उल्काहस्तो यथा कश्चित् द्रव्यमालोक्य तास्त्यजेत् ।

बोधेन ज्ञानमालोक्य तथा बोधं परित्यजे’दित्यादिस्मृतिषु, ‘यावद्धृदि गतं क्षय’मिति पूर्वोक्तश्रुतौ चासम्प्रज्ञातस्य सकलवृत्तिशून्यत्वश्रवणाच्च । ननु सम्प्रज्ञातासम्प्रज्ञातयोर्योगयोर्निरोधरूपयोः किं प्रयोजनं ‘योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्याते’रितिसूत्रेण योगाङ्गस्यैव ज्ञानहेतुताया वक्ष्यमाणत्वात् सम्प्रज्ञातयोगकाले ज्ञानस्योत्पत्तेरेव शास्त्रेष्ववगमात् न तु तद्धेतुतायाः एककालकत्वेन हेतुहेतुमद्भावासम्भवाच्च । अस्तु वा विषयान्तरसञ्चाराख्यप्रतिबन्धनिवृत्तिरूपतया ज्ञानहेतुत्वं सम्प्रज्ञातयोगस्य ‘क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनतासमापत्ति’रित्यागामिसूत्राच्च न तु असम्प्रज्ञातयोगस्यापि तस्य ज्ञानजन्यत्वात्, न च ज्ञानोत्पत्यनन्तरं मोक्षायान्यत्साधनमपेक्षणीयं’ तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य’ इत्यादिश्रुतिभिरन्यनिरपेक्षज्ञानस्य मोक्षहेतुत्वसिद्धेरविद्याकामकर्मादिनिवृत्तौ हेत्वभावेन पुनः संसारानुपपत्तेश्च । अत्रोच्यते । ज्ञाने जातेऽपि प्रारब्धकर्मणा देहधारणस्यावश्यकत्वेन तदानीमपि बाह्याभ्यन्तरवृत्तिभिर्यत् दुःखं न जायते एतदप्यन्ततो योगद्वयस्य फलमस्ति । तथा हि वक्ष्यति भाष्यकारः सर्वाश्चैता वृत्तयः सुखदुःखवमोहात्मिका अत एताः सर्वा वृत्तयो निरोद्धव्या इति । किञ्च ज्ञानस्य यथा कर्मक्षयहेतुत्वमस्ति तथा योगस्यापि ‘‘विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात्’’ इत्यादिवाक्यशतेभ्यः । तथा च कर्मक्षयद्वारा ज्ञानस्येवासम्प्रज्ञातयोगस्यापि मोक्षहेतुत्वं सिद्धं तत्र चासम्प्रज्ञातयोगेनाखिलसंस्कारदाहकेन प्रारब्धकर्माप्यतिक्रम्यत इति ज्ञानाद्विशेषः । ज्ञानस्य हि प्रारब्धनाशकत्वे बाधिकास्ति ‘तस्य तावदेव चिर’कित्यादिश्रुतिर्जीवन्मुक्तिश्रुतिस्मृतयश्च । योगस्य प्रारब्धनाशकत्वे बाधकं नास्ति प्रत्युत दग्धकर्मचयोऽचिरादित्येव स्मर्यते, अतः प्रारब्धमपि कर्म कर्मविपाकोक्तप्रायश्चित्तादिवदेवातिक्रम्य झटिति मोचनमेव योगस्य फलम् । अन्यच्च योगद्वयेनाखिलसंस्कारक्षये भोगसंस्कराख्यसहकार्यभावात् प्रारब्धं कर्मापि यत्फलाक्षमं भवति इदमपि योगफलम् । तदुक्तं मोक्षधर्मे,

‘नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बल’मिति ।

बलं प्रारब्धस्याप्यतिक्रमेण स्वेच्छया शीघ्रमोक्षहेतुः । अपि च वृत्तिनिरोधात्मको योग एव दुःखनिवृत्यात्मकमोक्षे साक्षाद्धेतुः पुरुषे दुःखस्य चित्तवृत्यौपाधिकत्वात् उपाधिनिवृत्तिश्चौपाधिकनिवृत्तौ चरमकारणमतो ज्ञानेन न योगस्यान्यथासिद्धिः ज्ञानवैराग्यकर्मक्षयादीनां वृत्तिनिरोधाख्यचरमकारणद्वारैव दुःखात्यन्तोच्छेदहेतुत्वात् वृत्त्यत्यन्तनिरोधस्तु चरमासम्प्रज्ञाते भवति यत्र संस्कारस्यात्यन्तक्षयेण चित्तस्य विलयान्मोक्षो भवति । तथा च द्वारद्वारिभावेनापि ज्ञानस्येव सम्प्रसाज्ञातयोगस्यापि मोक्षहेतुत्वं सिद्धमसम्प्रज्ञातयोगस्य च साक्षान्मोक्षहेतुत्वं’ तदा द्रष्टुः स्वरूपेवऽस्थान’मिति सूत्रकारः स्वयं वक्ष्यति ‘मुक्तिर्हित्वान्यथाभावं स्वरूपेण व्यवस्थिति’रित्यादिवाक्यैरात्यन्तिकस्य स्वरूपावस्थानस्यैव मोक्षत्वादिति दिक् ॥ १ ॥ तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते- वार्तिकम् योग-वार्त्तिकम्

तदेवं चित्तभूमिषु लक्ष्यालक्ष्यविवेकपूर्वकं प्रसिद्धस्य योगलक्षणस्यातिव्याप्तिं प्रदर्श्य योगलक्षणाकाङ्क्षा उपपादिता, अतः परं लक्षणपरतयोत्तरसूत्रमवतारयति । तस्य लक्षणाभिधित्सयेति । तस्य द्विविधस्य योगस्य, उक्तातिव्याप्तिनिराकरणान्यथानुपपत्या सूत्रद्वयेनैव लक्षणसमाप्तिर्भविष्यतीति सूचयितुमभिधित्सयेत्युक्तमन्यथा हि तस्य लक्षणसूत्रं प्रववृते इत्येतावन्मात्रमुच्येत- योगश्चित्तवृत्तिनिरोधः ॥ २ ॥ सर्वशब्दाग्रहणात्सम्प्रज्ञातोऽपि योग इत्याख्यायते। चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात्त्रिगुणम्। वार्तिकम् योग-वार्त्तिकम्

चित्तमन्तःकरणसामान्यमेकस्यैवान्तःकरणस्य वृत्तिभेदमात्रेण चतुर्धात्र दर्शने विभागात् तस्य यावल्लक्ष्यमाणा वृत्तयस्तासां निरोधस्तासां लयाख्योऽधिकरणस्यैवावस्थाविशेषोऽभावस्यास्मन्मतेऽधिकरणावस्थाविशेषरूपत्वात्, स योग इत्यर्थः । नन्विदं लक्षणं सम्प्रज्ञातस्याव्यापकं तत्र ध्येयाकारवृत्तिसत्वादित्याशङ्क्य भाष्यकार आह । सर्वशब्देति । सर्ववृत्तिनिरोध इत्यवचनादित्यर्थः । नन्वेवं पूर्वोक्तातिव्याप्तिः क्षिप्तादिष्वपि यत्किञ्चिद्वृत्तिनिरोधादिति चेन्न । तदा दृष्टुः स्वरूपेऽवस्थानमिति वक्ष्यमाणसूत्रसाहित्येनैवास्य लक्षणत्वात् । तथा च द्रष्टृस्वरूपावस्थितिहेतुश्चित्तवृत्तिनिरोधः क्षिप्ताद्यवस्थासु नास्तीति नातिव्याप्तिः, सम्प्रज्ञातस्य च स्वरूपावस्थितिहेतुत्वमसम्प्रज्ञातद्वारास्त्येवेति । परे तु क्षिणोति च क्लेशानिति पूर्वभाष्यानुसारेण क्लेशकर्मादिपरिपन्थित्वं निरोधविशेषणं पूरणीयं तथा च क्लेशकर्मादिपरिपन्थित्वे सति चित्तवृत्तिनिरोधत्वं योगद्वयसाधारणं लक्षणमित्याहुः । अस्य च लक्षणस्य क्षिप्तादिभूमित्रयेऽतिव्याप्तिर्नास्तीत्यत्र हेतुं क्रमेण प्रतिपादयति । चित्तं हीत्यादिना । प्रख्या तत्त्वज्ञानमनेन सर्वे सात्त्विका गुणा उपलक्षिताः । प्रवृत्तिः कर्म, अनेन सर्वे राजसा गुणा ग्राह्याः । स्थितिर्वृत्त्याख्यगतिशून्यता निद्रेति यावत्, अनेन सर्वे तामसा गुणा ग्राह्याः । एते क्रमात्सत्त्वरजस्तमआख्यानां द्रव्याणां धर्माः पराश्रितत्वात् रूपादिवद्गुणा इत्युच्यन्ते तदाश्रयास्तु सत्त्वादिद्रव्याणि रज्ज्वारम्भकतन्तुवदेव गुणा इत्युच्यन्ते, तथा च प्रख्यादिस्वभावकत्वात् चित्तं त्रिगुणं सत्त्वादिगुणत्रयनिर्मितं रज्जुवदित्यर्थः । ततः किमित्यत आह । प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति। तदेव तमसाऽनुविद्धमधर्माज्ञानावैराग्यानैश्वयोपगं भवति। तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति। वार्तिकम् योग-वार्त्तिकम्

प्रख्यारुपं हीति । हिशब्दो वाक्यालङ्कारे अवधारणे वा । चित्तसत्त्वमिति । चित्तस्य सत्त्वप्राधान्यप्रतिपादनाय पुनरुक्तं, प्रख्यारूपमिति च तेजः सत्त्वव्यावर्त्तनायोक्तं, तथा च प्रख्यास्वभावं चित्तरूपं सत्त्वं स्वोपसर्जनभूताभ्यां रजस्तमोभ्यां संसर्गेण क्षिप्तावस्थायामणिमाद्यैश्वर्ये शब्दादिविषये चानुरक्तं भवतीत्यर्थः । अतः क्षिप्तावस्थस्य वृत्तिनिरोधस्य स्वरूपावस्थानाहेतुत्वात् रागादिक्लेशापरिपन्थित्वाद्वा न तत्रातिव्याप्तिरिति भावः । क्षिप्तावस्थायामतिव्याप्तिं परिहृत्य मूढावस्थायामपि तां परिहरति । तदेव तमसेति । उपगमुन्मुखं तत्प्रियमित्यर्थः । भावस्तु पूर्ववत् । विक्षिप्तावस्थायामतिव्याप्तिं परिहरति । तदेव प्रक्षीणेति । मोहस्तमोद्रव्यं कार्यकारणाभेदात् तदेव दर्पणस्य मलवच्चित्तसत्त्वस्यावरणं प्रक्षीणं यत्र तत्प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानं सर्वविषयाकारवृत्तिमद् एवम्भूतं हिरण्यगर्भादीनां चित्तं रजोलेशेन सम्भेदाद्विक्षिप्तं सद् धर्मादिचतुष्टयप्रियं भवतीत्यर्थः । अत्रापि भावः पूर्ववदेव बोध्यः । अवस्थात्रयेऽतिव्याप्तिं परिहृत्य एकाग्रनिरुद्धावस्थयोर्लक्ष्ययोर्लक्षणं क्रमेण योजयति । तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति। तत्परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः। चितिशक्तिरपरिणामिन्यप्रतिसङ्क्रमा दर्शितविषया शुद्धा चानन्ता च सत्त्वगुणात्मिका चेयमतोविपरीता विवेकख्यातिरिति। अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि। तदवस्थं संस्कारोपगं भवति। स निर्बीजः समाधिः। न तत्र किञ्चित्सम्प्रज्ञायत इत्यसम्प्रज्ञातः। द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥ २ ॥ वार्तिकम् योग-वार्त्तिकम्

तदेव रजोलेशेनेत्यादिना । विक्षेपहेतुना रजोलेशेनापि मलेनापेतमत एव स्वरूपप्रतिष्ठं स्वाभाविकेन रूपेण प्रसादादिना सम्यगवस्थितं निर्मलदर्पणवत् अतश्च सत्त्वपुरुषयोर्बुद्ध्यात्मनोर्विवेकख्यातिमात्रं तन्मात्रवृत्तिकं सत् धर्ममेघध्यानमात्रप्रियं भवति न तु क्लेशप्रियैश्वर्यप्रियमित्यर्थः । धर्ममेघध्यानं किमित्याकाङ्क्षायामाह । तत्परमिति । तद्धर्ममेघाख्यं ध्यानं परमं प्रसङ्ख्यानं तत्त्वज्ञानं विवेकख्यातेरेव पराकाष्ठेति योगिनो वदन्तीत्यर्थः । तथा चेयमेकाग्रता सत्त्वपुरुषान्यथाख्यातिरूपिणी द्रष्टृस्वरूपावस्थाने हेतुः क्लेशकर्मादिपरिपन्थिनी चेति योगलक्षणाक्रान्तेति भावः । धर्मेमेघसमाधिश्च सूत्रकारेणैव वक्ष्यते । यद्यप्यस्मितानुगत एव सम्प्रज्ञातयोगे सत्त्वपुरुषान्यताख्यातिरस्ति न वितर्कानुगतादौ तथाप्यनेनैव तेऽप्युपलक्षणीया एतदङ्गभूतत्वात्तेषामिति । निरुद्धावस्थायामपि लक्षणं योजयन्नेव सकारणस्य निरोधस्य स्वरूपमाह । चितिशक्तिरित्यादिना । सम्प्रज्ञातकाले संसारहेतुत्वादिदोषदर्शनादेवेतरवृत्तिनिरोधो जातस्तस्माच्च सिद्धायां विवेकख्यातिनिष्ठायां विवेकख्यातेरप्यनात्मत्वसाक्षात्करणात् तत्फलसिद्धेश्च तत्रापि वैराग्यं भवति ततः सर्ववृत्तिनिरोध इति प्रक्रिया । तत्र यादृशो विवेकख्यातिनिष्ठा विवेकख्यातिवैराग्ये हेतुस्तामादौ दर्शयति । ख्यातिरितीत्यन्तेन । चितिशक्तिः पुरुषाख्या न परिणामिनी पूर्वधर्मापाये धर्मान्तरोत्पत्तिः परिणामस्तद्रहिता कूटस्थनित्या परमार्थसत्येति यावत् । लोकेऽर्थप्रकाशनरूपे फल एव चैतन्यशब्दः प्रयुज्यते चैतन्यफलोपधानं च न सर्वदा सर्वपुरुषेऽस्तीत्याशयेन शक्तिपदोपादानं, तथा च शक्तिरूपेणावस्थिता चितिरित्यर्थः । चितिश्च न गुणः किन्तु प्रकाशस्वरूपं द्रव्यमिति ‘द्रष्टा दृशिमात्र’ इति सूत्रे विस्तरतः प्रतिपादयिष्यामः । यतोऽपरिणामिनी अत एव चितिशक्तिरप्रतिसङ्क्रमासञ्चारा, यथा बुद्धिर्विषयं गच्छति तद्ग्रहणार्थं नैवं चितिरक्रियत्वात् । अथ वा नास्ति प्रतिसङ्क्रमः सङ्गो विषयेषु यस्या इत्यप्रतिसङ्क्रमा निर्लेपेति यावत् । नन्वपरिणामित्वे चात्मनो विषयाकारत्वाभावात् कथं विषयस्फुरणं तत्राह । दर्शितविषया, दर्शितो बुद्ध्या निवेदितो विषयो यस्यै इति विग्रहः । विषयैः सह बुद्धिवृत्तिश्चितौ प्रतिबिम्बिता सती भासत इति भावः । वृत्तिसारूप्यमितरत्रेति सूत्रे चैतदुक्तं भविष्यति । यतोऽपरिणामिनी अत एव शुद्धानन्ता च सुखदुःखमोहाद्यात्मकाशुद्धिरहिता पूर्णा च, उक्ताशुद्धेः परिणामरूपत्वात्सक्रियस्यैव परिच्छिन्नत्वाच्चेति । इयं विवेकख्यातिः धर्मधर्म्यभेदात्तद्वती वृत्तिः सत्त्वगुणात्मिका सत्त्वगुणस्य कार्या अतश्चितिशक्तितो विपरीता परिणामिनी स्वयमेव विवेकाकारिणी प्रतिसङ्क्रमवती दीपशिखावत् विषयेषु सर्पणात्तथा जडा तथा सुखदुःखाद्यशुद्धिमतो परिच्छिन्ना च इत्यतोऽनात्मत्वादिदोषदर्शनात् तत्फलसिद्धेश्च विवेकख्यात्यां विरक्तं प्रत्युत्पन्नालम्प्रत्ययं चित्तं तामपि ख्यातिं निरुणद्धि आवृणोति विलापयतीति यावत् । परवैराग्येण हेतुना चित्तस्य सा वृत्तिः स्वयमेव विलीयते यथा निद्रादोषेण सुषुप्तौ जाग्रदादिवृत्तिरिति शर्करास्वादेनैव गुडदोषा अभिव्यज्यन्त इत्यतो विवेकख्यातेर्दोषदर्शने पुरुषगुणदर्शनमुपयुज्यत इति भावः । तथा यावद्वृत्तिदोषालिप्तत्वेन वृत्तिवैधर्म्येण वृत्तिभेदत आत्मा न दृश्यते तावद्दोषदर्शनेऽपि आत्मत्वभ्रमात् वृत्तिवैराग्यं न घटते आत्मत्त्वेनैव परमप्रियत्वात् अत आत्मवृत्त्योभयोरेव गुणदोषाभ्यां विविच्य दर्शनं वृत्तिवैराग्ये हेतुरित्याशयः । तदवस्थं निरोधावस्थं चित्तं संस्कारोपगं संस्कारमात्रानुसारि संस्कारमात्ररूपेण प्रशान्तवाहि भवति सेयं प्रशान्तवाहिता स पूर्वोक्तो निर्बोजः समाधिः निरोधयोगो न किञ्चित्तत्र योगे ज्ञायते इति विग्रहेणासम्प्रज्ञातनामा चेति वाक्यार्थः । असम्प्रज्ञातयोगे चित्तबीजस्य संस्कारस्य तत्त्वज्ञानजन्यपर्यन्तस्याशेषतो दाहान्निर्बीजसञ्ज्ञा तस्येति भावः । बीजदाहादेव चास्य निरोधस्य स्वरूपावस्थितिहेतुतया क्लेशकर्मादिपरिपन्थितया च लक्षणसङ्गतिरित्याशयः । सुषुप्तौ च निद्राख्यचित्तवृत्तिसत्त्वाच्च सम्प्रज्ञातलक्षणातिव्याप्तिस्तात्कालीनविरोधस्य क्लेशादिपरिपन्थित्वाभावाच्च । एतेन यदाधुनिकवेदान्तिब्रुवा असम्प्रज्ञातेऽपि निर्विकल्पमात्मज्ञानं स्वरूपसद्बुद्धिवृत्तिरूपं तिष्ठतीति वदन्ति तदप्रामाणिकत्वेनैतद्भाष्यविरोधेन चोपेक्षणीयम् । '

‘युञ्जीत योगी निर्जित्य त्रीन् गुणान् परमात्मनि ।

तन्मयश्चात्मतो भूत्वा चिद्वृत्तिमपि सन्त्यजेदि’‘ति मार्कण्डेयपुराणादौ ऐश्वरयोगेऽपि वृत्तिशून्यत्वावगमाच्च ।

निर्विकल्पं त्वात्मज्ञानं सम्प्रज्ञातकाल एव भवति शब्दार्थज्ञानविकल्पशून्यस्य सम्प्रज्ञातकालीनज्ञानस्यैव निर्विकल्पकस्य लयस्य मानत्वात् । योगद्वयमुपसंहरति । द्विविध इति । ॥ २ ॥ तदवस्थे चेतसि विषयाभावाद्बुद्धिबोधात्मा पुरुषः किंस्वभाव इति – वार्तिकम् योग-वार्त्तिकम्

ननु चित्तवृत्तिनिरोधे कः पुरुषार्थ इत्याकाङ्क्षया योगलक्षणपूरणाय च प्रवर्त्तमानं योगस्य फलप्रतिपादकं सूत्रमधिकप्रश्नमुखेनोत्थापयति प्रसाङ्गादात्मनः कौटस्थ्यमपि प्रतिपादयितुम् । तदवस्थ इति । ननु असम्प्रज्ञातावस्थे चेतसि सति बुद्धिबोधात्मा बुद्धिविषयकबोधस्वरूपो बुद्धिसाक्षी पुरुषः किंस्वभावः केन रूपेण तिष्ठति किं व्युत्थान इव तदानीमपि प्रकाशरूप एव तिष्ठति वृत्त्याख्यदृश्याभावादेव तु न पश्यति, अथवा काष्ठवदप्रकाशरूप एव आत्मा तदा तिष्ठति व्युत्थानकाले तु निमित्तविशेषात् प्रकाशरूपेण परिणमते किं वा दशाक्षये दीपवन्नश्यतीत्यर्थः । एतेष्वाद्यपक्षं सूत्रेण सिद्धान्तयति तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥ स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये। व्युत्थानचित्ते तु सति तथाऽपि भवन्ती न तथा ॥ ३ ॥ वार्तिकम् योग-वार्त्तिकम्

तदाऽसम्प्रज्ञातयोगकाले द्रष्टुः चितिशक्तेः पुरुषस्य स्वरूपे निर्विषयचैतन्यमात्रेऽवस्थानमित्यर्थः । यथा जपापाये स्फटिकस्यालोहिते स्वस्वरूपेऽवस्थानं तथा वृत्त्यपाये पुरुषस्य वृत्तिप्रतिबिम्बशून्ये स्वस्वरूपेऽवस्थानमिति भावः । यथा च तदा संस्कारशेषबुद्धेर्भानं न भवति तथोत्तरसूत्रे वक्ष्यामः । तथा च कूटस्थ एव पुरुषो व्युत्थान इव तदानीमपि प्रकाशस्वरूप एव तिष्ठति । योगलक्षणमप्येतद्धेतुनिरोधत्वमेव । तत्र च वृत्त्यात्मकदुःखाभावः पुरुषार्थ इति भावः । सोऽयं पुरुषार्थो भाष्यकारेण सूचितो यथा कैवल्य इत्यनेन । कैवल्ये हि दुःखनिवृत्तिरेव पुरुषार्थ इति वक्ष्यति ‘हेयं दुःखमनागत’मिति सूत्रेणेति । क्रमेण चरमासम्प्रज्ञातेऽशेषसंस्कारक्षयात् चित्तेन सह वृत्तीनामात्यन्तिकनिरोधे सत्यात्यन्तिकं स्वरूपावस्थानं मोक्षाख्यमिति । ननु तदानीं दुःखाभावेऽन्यदा दुःखमस्तीत्यायातं तथा चापरिणामित्वानुपपत्तिरित्याशङ्कां परिहरति भाष्यकारः । व्युत्थानेति । व्युत्थानचित्तदशायां तु चितिस्तथाऽपि स्वरूपेण तिष्ठन्ती न तथा नासम्प्रज्ञातस्य कैवल्यस्य च समानरूपेत्यर्थः ॥ ३ ॥ कथं तर्हि, दर्शितविषयत्वात् – वार्तिकम् योग-वार्त्तिकम्

सूत्रान्तरमवतारयितुं पृच्छति । कथं तर्हीति । कूटस्थापि चितिः केन प्रकारेण तर्हि व्युत्थाने तिष्ठतीत्यर्थः । असम्प्रज्ञातापेक्षया सम्प्रज्ञातोऽप्यत्र व्युत्थानं बोध्यम् । अत्र प्रत्युत्तरं सूत्रं हेतुपदमध्याहृत्य पठति । दर्शितविषयत्वादिति । वृत्तिसारुप्यमितरत्र ॥ ४ ॥ व्युत्थाने याश्चित्तवृत्तयस्तदविशिष्टवृत्तिः पुरुषः। तथा च सूत्रम् – “एकमेव दर्शनं ख्यातिरेव दर्शनम्” इति। चित्तमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः। तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः सम्बन्धो हेतुः ॥ ४ ॥ वार्तिकम् योग-वार्त्तिकम्

इतरत्र व्युत्थाने चित्तेन सह द्रष्टुर्वृत्तौ सारूप्यमित्यर्थः । व्युत्थाने हि बिम्बप्रतिबिम्बरूपयोर्बुद्धिपुरुषवृत्त्योः सारूप्यं, तदेतद्व्याचष्टे । व्युत्थानेति । इतरत्र व्युत्थाने याश्चित्तस्य वृत्तयो दीपस्य शिखा इव द्रव्यरूपा भङ्गुरा अवस्थापरिणामाः मूषानिषिक्तद्रुतताम्रवत् स्वसंयुक्तार्थाकारास्त्रिगुणकार्यत्वात् सुखदुःखमोहाश्रयतया शान्तघोरमूढाख्या भवन्ति ताभिरविशिष्टा अविलक्षणा वृत्तयो यस्य पुरुषस्य स तथा । वृत्तिश्च गुणो न भवति’‘भागगुणाभ्यां तत्त्वान्तरं वृत्तिः सम्बन्धार्थं सर्पती’‘ति साङ्ख्यसूत्रात् । भागो विभक्तांशोऽग्निविस्फुलिङ्गवदिति । कुतः पुनरपरिणामिनो वृत्तिस्तत्रोक्तं दर्शितविषयत्वादिति । बुद्ध्या निवेदितविषयत्वादित्यर्थः । निवेदनं च स्वारूढविषयस्य प्रतिबिम्बरूपेण चित्याधानम् ।

‘‘गृहीतानिन्द्रियैरर्थानात्मने यः प्रयच्छति ।

अन्तःकरणरूपाय तस्मै विश्वात्मने नम’’ इति विष्णुपुराणादिभ्यः । एतदुक्तं भवति । यद्यपि पुरुषश्चिन्मात्रोऽविकारी तथापि बुद्धेर्विषयाकारवृत्तीनां पुरुषे यानि प्रतिबिम्बानि तान्येव पुरुषस्य वृत्तयः । न च ताभिरवस्तुभूताभिः परिणामित्वं, स्फटिकस्येवातत्त्वतोऽन्यथाभावादिति । तदुक्तं साङ्ख्ये, जपास्फटिकयोरिव नोपरागः किं त्वभिमान इति । सूत्रकारोऽपि वक्ष्यति ‘‘चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदन’मिति । एतेन सुखदुःखमोहगुणकवृत्तिसारूप्याद् व्युत्थाने चितिरपि दुःखादिमतीव यद्भवति तदेव चितेर्दुःखभोगो दुःखाभ्यवहरणरूपः, प्रतिबिम्बरूपदुःखहानमेव चासम्प्रज्ञातस्य फलमिति सूत्रद्वयेन सिद्धम् । ये तु अहं सुखी दुःखीत्यादिप्रत्ययादात्मन एव पारमार्थिकीं वृत्तिमिच्छन्ति त एवं प्रत्याख्येयाः । स्वत एव चेदात्मनः परिणामास्तर्हि सर्वावयवावच्छेदेन सर्वदा वृत्तिमसङ्गादनिर्मोक्षादिप्रसङ्गः । यदि मनःसंयोगो निमित्तं तर्हि लाघवादेकेन मनस्त्वेनैव हेतुतास्तु आत्ममनस्तत्संयोगानां त्रयाणां हेतुत्वे गौरवात् । अनुमानं च अर्थाकारपरिणामसुखादिकमन्तःकरणोपादानकं बाधकाभावे सति तदन्वयव्यतिरेकानुविधायित्यात् मनःसंयोगवदिति । भोगे व्यभिचारवारणाय सत्यन्तं, बुद्धेः स्वभोक्तृत्वे च बाधकं कर्तृकर्मविरोधं सूत्रकारो वक्ष्यति । अहं कर्त्ता सुखीत्यादि प्रत्ययास्तु अहं गौर इत्यादिभ्रमशतान्तःपातित्वेनाप्रामाण्यज्ञानास्कन्दिता नोक्तानुमानस्य बाधकाः, प्रत्युत ‘‘प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्त्तारं स पश्यति’’ इत्यादिस्मृत्युपोद्बलितेनोक्तानुमानेनैव बाध्यन्ते देहभिन्नात्मसाधकैरनुमानैरहं गौर इत्यादिप्रत्ययवदिति दिक् । स्वोक्ते बुद्धिपुरुषयोर्वृत्तिसारूप्ये पञ्चशिखाचार्यसूत्रं प्रमाणयति । तथा च सूत्रमिति । ख्यातिर्बुद्धिर्दर्शनं पुरुषस्य इत्यन्तं च सूत्रम् ॥ तथा च ख्यातिरेव दर्शनमित्येकमेव एकाकारमेव दर्शनं भ्रमो लोकानामिति सूत्रार्थः । इतिशब्दश्चान्यो भाष्ययोजनार्थे पूरणीयः । ननु सविषयवृत्तेः स्फुरणं चेतनसंयोगादेव भवतु, यथा सजलघटादिप्रकाशः सूर्यसम्बन्धात्, अतः किमर्थं चैतन्ये वृत्तिप्रतिबिम्बं वृत्तौ वा वक्ष्यमाणचैतन्यप्रतिबिम्बं कल्प्यते । सुख्यहं जानामीति बुद्धिपुरुषयोरेकताभ्रमस्तु परस्परप्रतिबिम्बं विनापि दूरस्थवनस्पत्योरिव दोषवशादेव सम्भवति तत्कथं बुद्धिपुरुषयोर्वृत्तिसारूप्यसिद्धिरिति । अत्रोच्यते । चेतने तावद्बुद्धिप्रतिबिम्बमवश्यं स्वीकार्यम् । अन्यथा कूटस्थनित्यविभुचैतन्यस्य सर्वसम्बन्धात्सदैव सर्वं वस्तु सर्वैर्ज्ञायेत नहि सूर्यसम्बन्धे सति घटाद्यप्रकाशो दृष्ट इति । न चाज्ञानाख्यं ज्ञानप्रतिबन्धकं चैतन्ये कल्पनीयं, नित्यज्ञानस्य प्रतिबन्धासम्भवात् ‘‘दुःखाज्ञानमया धर्माः प्रकृतेस्ते तु नात्मन’’ इत्यादिभिरात्मन्यज्ञानप्रतिषेधाच्च । अतोऽर्थभानस्य कादाचित्कत्वाद्युपपत्तयेऽर्थाकारतैवार्थग्रहणं वाच्यं बुद्धौ तथा दृष्टत्वात्, बुद्धावपि हि संयोगमात्रस्यार्थग्रहणत्वे अतीन्द्रियस्याप्यर्थस्य बुद्धिग्राह्यत्वप्रसङ्गात् । सा चार्थाकारता बुद्धौ परिणामरूपा स्वप्नादौ विषयाभावेन तत्प्रतिबिम्बासम्भवात्, पुरुषे च प्रतिबिम्बरूपा विद्यमानवृत्तिमात्रग्राहके पुंसि प्रतिबिम्बेनैवोपपत्तेरिति । न केवलं तर्कादेव चिति बुद्धेः प्रतिबिम्बं कल्प्यते सुख्यहं जानामीति बुद्धिपुरुषयोरेकताभ्रमस्तु परस्परप्रतिबिम्बं विनापि दूरस्थवनस्पत्योरिव दोषवशादेव सम्भवति तत्कथं बुद्धिपुरुषयोर्वृत्तिसारूप्यसिद्धिरिति । अत्रोच्यते । चेतने तावद्बुद्धिप्रतिबिम्बमवश्यं स्वीकार्यम् । अन्यथा कूटस्थनित्यविभुचैतन्यस्य सर्वसम्बन्धात्सदैव सर्वं वस्तु सर्वैर्ज्ञायेत नहि सूर्यसम्बन्धे सति घटाद्यप्रकाशो दृष्ट इति । न चाज्ञानाख्यं ज्ञानप्रतिबन्धकं चैतन्ये कल्पनीयं, नित्यज्ञानस्य प्रतिबन्धासम्भवात् ‘‘दुःखाज्ञानमया धर्माः प्रकृतेस्ते तु नात्मन’’ इत्यादिभिरात्मन्यज्ञानप्रतिषेधाच्च । अतोऽर्थभानस्य कादाचित्कत्वाद्युपपत्तयेऽर्थाकारतैवार्थग्रहणं वाच्यं बुद्धौ तथा दृष्टत्वात्, बुद्धावपि हि संयोगमात्रस्यार्थग्रहणत्वे अतीन्द्रियस्याप्यर्थस्य बुद्धिग्राह्यत्वप्रसङ्गात् । सा चार्थाकारता बुद्धौ परिणामरूपा स्वप्नादौ विषयाभावेन तत्प्रतिबिम्बासम्भवात्, पुरुषे च प्रतिबिम्बरूपा विद्यमानवृत्तिमात्रग्राहके पुंसि प्रतिबिम्बेनैवोपपत्तेरिति । न केवलं तर्कादेव चिति बुद्धेः प्रतिबिम्बं कल्प्यते किन्तु

‘‘तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥

यथा संलक्ष्यते रक्तः केवलः स्फटिको जनैः ।

रञ्जकाद्युपधानेन तद्वत्परमपूरुष’’ इत्यादिस्मृतिशतैरपीति ।

न चैवं संस्कारशेषा बुद्धिः पुरुषे प्रतिबिम्बिता भायादित्यसम्प्रज्ञातयोगानुपपत्तिरिति वाच्यम् । परमाणोरिव वृत्यतिरिक्तानां प्रतिबिम्बसमर्पणासामर्थ्यस्य फलबलेन कल्पनात् । अनादिस्वस्वामिभावस्यैव प्रतिबिम्बनियामकतया वक्ष्यमाणत्वात्तु न परबुद्धिवृत्तेर्भानम् । अत एव पुरुषार्थवत्येव बुद्धिः पुरुषस्य विषय इति साङ्ख्यसिद्धान्तो विवेकख्यातिविषयभोगौ च पुरुषार्थाविति । यथा च चिति बुद्धेः प्रतिबिम्बमेवं बुद्धावपि चित्प्रतिबिम्बं स्वीकार्यमन्यथा चैतन्यस्य भानानुपपत्तेः स्वयं साक्षात्स्वदर्शने कर्मकर्त्तृविरोधेन बुद्ध्यारूढतयैवात्मनो घटादिवज्ज्ञेयत्वाभ्युपगमात् । तथा च वक्ष्यति सूत्रकारो ‘द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थ’मिति । बुद्धावात्मप्रतिबिम्बमेव च तान्त्रिका बुद्धेश्चिच्छायापत्तिरित्यात्माकारतेति प्राहुः । प्रतिबिम्बोपाधौ बिम्बाकारो बुद्धेः परिणाम एव स च साक्षिभास्य इति । एतेन नीरूपत्वाद् बुद्धिपुरुषयोरन्योन्यं प्रतिबिम्बनं न सम्भवतीत्यपास्तम् । उभयत्रोभयाकारबुद्धिपरिणामस्यैव प्रतिबिम्बशब्देनात्र विवक्षितत्वात् । जलादावपि सूर्याद्याकारबुद्धिपरिणामस्यैव सूर्यादिप्रतिबिम्बितत्वाच्च । तदेवं बुद्ध्यात्मनोः परस्परप्रतिबिम्बरूपाद्दोषादेवैकताभ्रमोऽहं कर्त्ता सुखी जानामीत्यादिरूप इति । तदेतत्परस्परं प्रतिबिम्बं साङ्ख्यकारिकायामिव शब्दाभ्यामुक्तं ‘‘तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्त्तेव भवत्युदासीन’’ इति दिक् ।

यच्चैतच्चैतन्ये बुद्धिवृत्तिसारूप्यमुक्तं चैतन्यस्य बुद्ध्याकारतारूपम् । इदमेव चैतन्यस्यार्थोपरक्तं वृत्तिभानं तस्य चाकारोऽयं घट इत्यादिरूप एव, अन्यथा वृत्तिसारूप्यानुपपत्तेः । न तु वृत्तिबोधस्य पृथगाकारोऽस्ति घटमहं जानामि दुःखितोऽहमित्यादिकं तु बुद्धेरेवाकारान्तरं पुरुषस्यापरिणामित्वाद् अभ्रान्तत्वाच्चेति । तथा च सूत्रकारो वक्ष्यति ‘चित्तेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदन’मिति । ननु वृत्तितद्बोधौ यदि घटदीपाविवात्यन्तभिन्नौ न तु चिज्जडात्मकमविभक्तमेकं वस्तु मणिकान्तिवत् तर्हि तत्तच्चित्तवृत्तीनां प्रतिनियततत्तत्पुरुषमात्रबोध्यत्वे किं नियामकमित्याकाङ्क्षायां प्रतिनियतयोरेव चित्तात्मनोरनादिः स्वस्वामिभावसम्बन्धस्तन्नियामक इति प्रतिपादयति । चित्तमयस्कान्तेत्यादिना सम्बन्धो हेतुरित्यन्तेन । तत्राप्यादावनादिं स्वस्वामिभावं युक्त्योपपादयति । चित्तमिति । यथायस्कान्तमणिः स्वस्मिन्नेवायःसन्निधीकरणमात्रात् शल्यनिष्कर्षणाख्यमुपकारं कुर्वन् स्वामिनः स्वं भवति भोगसाधनत्वात्, तथैव चित्तमपि अयःसदृशविषयजातस्य स्वस्मिन् सन्निधीकरणमात्रात् दृश्यत्वरूपमुपकारं कुर्वत् पुरुषस्य स्वामिनः स्वं भवति भोगसाधनत्वात् । अतश्चित्तपुरुषयोरनादिः स्वस्वामिभावः सम्बन्ध इति शेषः । ततः किमित्त्यत आह । तस्मादिति । तस्मात्स्वस्वामिभावस्य सिद्धत्वात्, स एवानादिसबन्धः पुरुषस्य चित्तवृत्तिदर्शने हेतुरित्यर्थः । अतो न परचित्तेन परस्य वृत्तिसारूप्यं भवति, कदापि तद्वृत्त्यबोधेन तयोः स्वस्वामिसम्बन्धाभावात् । ननु स्वस्वाभिभावस्य कथमनादित्वं स हि भोग्यभोक्तृभावरूपतयाप्रलये न तिष्ठतीति । मैवम् । अभुज्यमानधनेऽपि सुषुप्तस्य स्वस्वामिभावेन स्वत्वस्वामित्वयोरतिरिक्तपदार्थत्वात् स्वरूपसम्बन्धविशेषत्वाद्वा प्रतियोग्यनुयोगिभाववत् । अथवा स्वभुक्तवृत्तिवासनावत्त्वमेव बुद्धौ पुरुषस्य स्वत्वमीदृशो भोग्यभोक्तृभाव एव च तान्त्रिकैर्भोग्यभोक्तृयोग्यतेत्युच्यते । ‘चिदवसानो भोग’ इतिसाङ्ख्यसूत्रोक्तस्य सुखदुःखानुभवरूपभोगस्य पुरुषधर्मत्वादिति । स च स्वस्वामिभावश्चित्तपुरुषयोरनादिरेव स्वीक्रियते । न च महत्तत्वरूपस्य चित्तस्य कार्यतया कथं तद्धर्मस्यानादित्वमिति वाच्यम् । अन्तःकरणस्य वृक्षवत् कार्यावस्थायामेव महत्तत्वपरिभाषास्वीकारात् बीजावस्था तु प्रकृत्यंशत्वरूपा नित्यैव, अन्यथा धर्माधर्मसंस्कारादीनामाश्रयं विना प्रलयेऽवस्थानानुपपत्तेः प्रकृतिमात्रस्य तदाश्रयत्वे तत्कार्यभोगस्मृत्यादेरपि तन्निष्ठत्वस्यैवौचित्यात् अन्तःकरणकल्पनानर्थक्यमन्तःकरणधर्मत्वं धर्मादीनामिति साङ्ख्यसूत्रस्य यथाश्रुतार्थानुपपत्तिश्चेति । अथैवं बुद्धितत्कारणयोरुभयोर्धर्मादिकल्पने गौरवमिति चेद्दृष्टानुसारितयाऽस्य गौरवस्य प्रामाणिकत्वात् । यथा हि परमाणुपर्यन्तमेव घटे पाकेन रूपं जायते तद्घटभङ्गे च तैरणुभिर्घटान्तरं तद्रूपकं भवति, तथैव प्रकृतिपर्यन्तमेव बुद्धौ धर्मादिकमुत्पद्यते तद्बुद्धिनाशे च तत्प्रकृतिभिः तादृशधर्मादिमदेव बुद्ध्यन्तरमुत्पाद्यते कारणगुणप्रक्रमादिति दिक् ॥ ४ ॥ ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य – वार्तिकम् योग-वार्त्तिकम्

कृत्यादिलक्षणा अपि वृत्तयः सन्तीत्यागामिसूत्रस्य न्यूनतां परिहर्तुं चित्तस्येत्यन्तं पूरयित्वोत्तरसूत्रमवतारयति । ताः पुनरिति । चित्तस्य बहुवृत्तिकत्वे सत्यपि ता निरोद्धव्या वृत्तयः क्लिष्टाक्लिष्टरूपा वक्ष्यमाणाः पञ्चतय्य एवेति सूत्रेण सहान्वयः । प्रमाणादिरूपवक्ष्यमाणवृत्तिपञ्चकनिरोधेनैव तत्कार्याणामन्यवृत्तीनां निरोधसिद्धिरिति भावः ॥ वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५ ॥ क्लेशहेतुकाः कर्माशयप्रचये क्षेत्रीभूताः क्लिष्टाः। ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः। क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः। क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति। अक्लिष्टच्छिद्रेषु क्लिष्टा इति। तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते। संस्कारैश्च वृत्तय इति। एवं वृत्तिसंस्कारचक्रमनिशमावर्तते। तदेवम्भूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति। ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः ॥ ५ ॥ वार्तिकम् योग-वार्त्तिकम्

यैः प्रमाणादिलक्षणव्यापारैः चित्तं जीवति ते तद्वृत्तय उच्यन्ते द्विजादीनां याजनादिवत् । क्लिष्टाश्चाक्लिष्टाश्च क्लिष्टाक्लिष्टाः । निरोद्धव्या वृत्तयः क्लिष्टा वा अक्लिष्टा वा भवन्तु वक्ष्यमाणाः पञ्चतय्यः पञ्चप्रकारा एवेति सूत्रार्थः । वृत्तीनामसङ्ख्यव्यक्तितयाऽवयवार्थकत्वानुपपत्या तयपो लक्षणयात्रा प्रकारवाचित्वं ‘ताः पञ्चधा वृत्तय’ इत्यागामिभाष्यात् इति । क्लिष्टवदक्लिष्टस्यापि हेयत्वप्रतिपादनाय क्लिष्टाक्लिष्टविभागप्रदर्शनं, तत्र चायं क्रमोऽक्लिष्टा उपादाय क्लिष्टा निरोद्धव्यास्ततस्ता अपि परवैराग्येणेति । ‘‘सत्त्वेनान्यतमौ हन्यात्सत्त्वं सत्त्वेन चैव ही’‘ति स्मरणात् । क्लिष्टा व्याष्टे । क्लेशहेतुका इति । त्रिगुणात्मकतया सर्वासामेव वृत्तीनां क्लेशवत्त्वेन क्लिष्टाक्लिष्टविभागो नोपपद्यत इत्यतः क्लेशसम्बन्धविशेषपरतया इत्थं व्याख्यायते । अत्र च हेतुः प्रयोजनं, क्लेशश्चात्र मुख्य एव ग्राह्यो दुःखाख्यः । तथा च क्लेशहेतुका दुःखफलिका विषयाकारवृत्तय इत्यर्थः । क्लेशजनकत्वे हेतुः कर्मेत्यादि । कर्माशयप्रचयानां धर्माधर्मवासनासमूहानां क्षेत्रीभूता आलम्बनीभूताः, क्लिष्टा इत्यर्थः । विषयाकारवृत्तिजन्यतृष्णाद्यभिहतस्तद्धानार्थं यतमानः परपीडानुग्रहाभ्यां धर्माधर्मावुपचिनोति, ततश्च दुःखधारा भवतीति भावः । अक्लिष्टा व्याचष्टे । ख्यातीति । अक्लिष्टा अक्लेशफलिकाः ताश्च गुणाधिकारविरोधिन्यः गुणानां सत्त्वादीनामधिकारः कार्यारम्भणं तद्विरोधिन्योऽविद्याकामकर्मादिरूपकारणनाशकत्वात् । ख्यातिविषया विवेकख्यातिसम्बद्धा इत्यर्थः । ख्यातिसाधनस्यापि सङ्ग्रहाय विषयपदमिति । ननु सूत्रकारेण तामसीनां सात्त्विकीनां च द्विविधानामेव वृत्तीनां निरोद्धव्यत्वमुक्तं न तु राजसीनां क्लिष्टाक्लिष्टरूपमिश्रवृत्तीनामिति न्यूनतेत्याशङ्क्य मिश्रवृत्तीनामुक्तास्वेवान्तर्भावमाह । क्लिष्टप्रवाहेति । क्लिष्टशेषीभूता अपि अक्लिष्टरूपास्तदंशा यद्यपि क्लिष्टच्छिद्रेषु सन्ति तथाप्यक्लिष्टा एव अक्लिष्टशब्देन गृहीता भवन्ति । एवमक्लिष्टच्छिद्रेष्वपि क्लिष्टाः क्लिष्टशब्देन गृहीता इत्यर्थः । तथा च राजस्या मिश्रवृत्तेरंशाभ्यामंशिन्योः प्रवेश इति न न्यूनता । इदानीं वृत्तिनिरोधस्य फलं वक्तुमादौ संसारानर्थबीजं संस्कारं दर्शयति । तथाजातीयका इति । क्लिष्टाक्लिष्टजातीयकाः संस्कारा इत्यर्थः । अस्य जीवभ्रामकस्य वृत्तिसंस्कारचक्रस्य स्तम्भने ‘प्रलये च निरोध एवोपाय इत्याह । तदेवम्भूतमिति । तद्वृत्तिसंस्कारचक्रात्मकं चित्तमेवम्भूतं निरोधावस्थमवसिताधिकारं क्रमेण समाप्यमानाधिकारं सदात्मकल्पेनात्माविभागेन निर्दुःखतया तिष्ठति व्युत्थानपर्यन्तम् । अथ वाभ्यासपाटवेनाखिलसंस्कारक्षये सति प्रलयमात्यन्तिकलयमेव गच्छति विदेहकैवल्यं प्राप्नोतीत्यर्थः । निरोधसमाधेः पुनरनुत्थानमेव योगिनां मुक्तिरिति भावः ॥ ५ ॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतय ॥ ६ ॥ तत्र वार्तिकम् योग-वार्त्तिकम्

तत्रेति पूरयित्वोत्तरसूत्रमवतारयति । तत्र, तासु वृत्तिषु मध्ये - प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥ इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम्। फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः। प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः। वार्तिकम् योग-वार्त्तिकम्

अनधिगततत्त्वबोधः प्रमा तत्करणं प्रमाणमिति प्रमाणसामान्यलक्षणं सुगमत्वादकृत्वैव विभागः कृतः । परोक्तानि चेतराणि प्रमाणानि एष्वेवान्तर्भाव्यानीत्याशय इति । प्रत्यक्षं व्याचष्टे । इन्द्रियेति । इन्द्रियाण्येव नाडीचित्तसञ्चरणमार्गः तैः संयुज्य तद्गोलकद्वारा बाह्यवस्तुषूपरक्तस्य चित्तस्येन्द्रियसाहित्येनैवार्थाकारः परिणामो भवति न केवलस्य चित्तस्य पैत्त्याद्याकारतायां नयनादिगतपित्ताद्यन्वयव्यतिरेकाभ्यामतो रूपादिवृत्तिषु चक्षुरादीनामपि कारणत्वं शास्त्रेषूच्यते । अत्रोपरागादित्यन्तेन बाह्यवृत्तेः कारणमात्रं दर्शितं न तु तल्लक्षणे प्रवेशनीयम् । आत्मादिप्रत्यक्षाव्यापन्नादीश्वरप्रत्यक्षव्यापन्नाच्च, तस्याजन्यत्वात् । अर्थस्येत्यनेन समारोपितत्वप्रतिषेधान्न विपर्ययेऽतिव्याप्तिः । विशेषावधारणप्रधानेति विशेषणादनुमानागमयोर्व्यावृत्तिः । स्मृतिव्यावर्त्तनाय तद्विषयेति । उपरक्तवस्तुविषयेत्यर्थः । सामान्यविशेषाभ्यामत्यन्तभिन्न एवार्थ इत्येतन्निरासायोक्तं सामान्यविशेषात्मन इति । अनेन चावयवी न निराकृतः किन्त्ववयविनि सामान्यविशेषयोरविभागलक्षणं तादात्म्यमुक्तं पश्चादवयविव्यवस्थापनादिति । ‘‘अनन्ता रश्मयस्तस्य दीपवद्भ्यः स्थितो हृदि’’ । ‘‘बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्’’ इत्यादिस्मृतिभ्यो रश्मिशाखादितुल्यतालाभात् । वृत्तिः प्रभावद्द्रव्यमेवेति प्रागेवोक्तम् । सा वृत्तिरेव दीपप्रभावत् बाह्यार्थमुपसृत्य चक्षुराद्येकीभावेन घटाद्याकारा भवति । स्वप्नध्यानादौ घटाद्याकारतया चित्तवृत्तेरनुभूयमानत्वाद्बाह्येऽपि ज्ञानाकारः सिध्यति । अत्रांशे बौद्धानामस्माकं चैकवाक्यत्वेऽपि न साम्यम् । अस्माभिर्बाह्यार्थस्यापि स्वीकारादिति । प्रत्यक्षस्य लक्षणं कृतमिदानीं तस्य प्रमाकरणत्वेन प्रमाणत्वमुपपादयति । फलमिति । वृत्तिरूपस्य करणस्य फलं पुरुषनिष्ठश्चित्तवृत्तिविषयको बोधः, पुरुषार्थमेव करणानां प्रवृत्तेः । अयं च बोधो विषयदेश एव भवति विभुत्वात् । ननु अयं घट इति वृत्तेर्बोधो घटमहं जानामीति रूपस्तस्य च पौरुषेयत्वे पुरुषस्य स्वतन्त्राकारेण परिणामित्त्वापत्तिरिति तत्राह । अविशिष्ट इति । स च बोधश्चित्तवृत्त्या सहाविशिष्ट इति वृत्तिसारूप्यसूत्रे उपपादित इत्यर्थः । अयं घट इत्याकारा बिम्बरूपा वृत्तिः कारणं तस्या एव वृत्तेश्चैतन्ये प्रतिबिम्बनाच्चैतन्यमप्ययं घट इत्याकारमिव सद्बोधाख्यं फलं भवतीति नात्रविशेषः शब्देन वक्तुं शक्यते, विवेकिभिरेवेक्षुक्षीरादिमाधुर्यस्येव स्वयं विशेषोऽनुभूयते दृग्दृश्यादिवैधर्म्यादिति भावः । पौरुषेयो बोध इत्याधाराधेयभावश्च गगने श्रोत्रमितिवद्विशिष्टाविशिष्टभेदेनोपपादनीयः । करणलक्षणं चात्र फलायोगव्यवच्छिन्नकारणत्वमिति । ननु रूपादिषु चक्षुरादीनामेव करणत्वं श्रुतिस्मृत्योरवगम्यत इति चेत्सत्यं, किन्तु बुद्धिवृत्त्याख्यप्रमान्तरं प्रत्येव तेषां करणत्वं न तु पौरुषेयबोधरूपां मुख्यप्रमां प्रति, प्रमाद्वयं च साङ्ख्ये सूत्रितं ‘द्वयोरेकतरस्य वाप्यसन्निकृष्टार्थपरिच्छितिः प्रमे’ति । चक्षुरादीनां च वृत्तौ करणत्वं व्यापारवत्करणत्वरूपं कुठारादावेवेति शेषः । ननु विषयाकारतैव विषयग्रहणं चित्तस्य दृष्टं पुरुषस्तु कूटस्थो न वृत्याकारतां भजतेऽतः कथं पुरुषश्चित्तवृत्तिसाक्षी स्यात् कथं वाविशिष्टः पौरुषेयो बोध इत्याशङ्कायामाह । प्रतिसंवेदीति । संवेदिन्या बुद्धेः प्रतिसंवेदी तत्समानाकारः पुरुष इत्येतच्चतुर्थपादे ‘चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदन’मिति सूत्रे उपपादयिष्याम इत्यर्थः । यद्यपि चितेः स्वयमाकारो नास्ति तथापि प्रतिबिम्बवशाद्वृत्त्याकारापत्या वृत्तिबोध इत्यस्माभिर्वृत्तिसारूप्यप्रसङ्गेन प्रागेव व्याख्यातम् । कश्चित्तु वृत्याख्यकारणसामानाधिकरण्येन बुद्धावेव प्रमाख्यं फलं जायते, चैतन्यमेव हि बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्यार्थाकारया तदाकारतामापद्यमानं फलं, तच्च चिच्छायाख्यं चित्प्रतिबिम्बं बुद्धेरेव धर्म इति वदति । तन्न । पौरुषेयशब्दस्य यथाश्रुतार्थत्यागापत्तेः प्रतिबिम्बस्य तुच्छतयाऽर्थभानरूपत्वानुपपत्तेश्च प्रतिबिम्बस्य प्रकाशाद्यर्थक्रियाकारितायाः क्वाप्यदर्शनाच्च । प्रतिबिम्बं हि तत्तदुपाधिषु बुद्धेर्बिम्बाकारपरिणाममात्रमिति । किञ्च परस्परं प्रतिबिम्बस्य श्रुतिस्मृतिसिद्धतया चितेरेव वृत्तिप्रतिबिम्बोपहितायाः फलत्वं युक्तं ज्ञानशब्देनात्मन एव प्रतिपादनात् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ज्ञानमेव परं ब्रह्म’ ‘ज्ञानं बन्धाय चेष्यते’ इत्यादिश्रुतिस्मृतिष्विति । बुद्धेश्चिच्छायापत्तिश्चाहमित्यादिरूपैश्चितो भानार्थमेवेष्यते बुद्ध्यारोहं विना साक्षात्स्वभाने कर्मकर्तृविरोधादित्युक्तमेव । अपि च बुद्धेरेव प्रमातृत्वे पुरुषो न सिध्येत् । वृत्तिसाक्षितया पुरुषसिद्धिरिति चेत्, एवं सति वृत्तिद्रष्टुरेव वृत्त्यारूढार्थद्रष्टृत्वकल्पनोचिता न तु बिम्बप्रतिबिम्बयोरुभयोरेव द्रष्टृत्वमर्थभेदेन कल्पयितुं युक्तं, गौरवादिति । किञ्च जानामीत्येवं बुद्धिवृत्तौ भासमानं प्रतिबिम्बचैतन्यं स्वज्ञेयं न सम्भवति कर्मकर्तृविरोधादतो बिम्बचैतन्ये भानमावश्यकमिति । अत्रायं प्रमात्रादिविभागः ॥

प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च । प्रमार्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् ॥

प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते । वृत्तयः साक्षिभास्याः स्युः करणस्यानपेक्षणात् ॥

साक्षाद्दर्शनरूपं च साक्षित्वं साङ्ख्यसूत्रितम् । अविकारेण द्रष्टृत्वं साक्षित्वं चापरे जगुः ॥ इति दिक् । अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम्। यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवत्, विन्ध्यश्चाप्राप्तिरगतिः। आप्तेन दृष्टोऽनुमितो वाऽर्थपरत्रस्वबोधसङ्क्रान्तये शब्देनोपदिश्यते, शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः। यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते। मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ॥ ७ ॥ वार्तिकम् योग-वार्त्तिकम्

पुरुषे वृत्तिबोधरूपं च फलमनुमानादिसकलवृत्तिश्वपि बोध्यम् । अनुमानं लक्षयति । अनुमानस्येति । साध्यविशिष्टः पक्षोऽनमेयः तस्य साध्यवत्त्वेन तुल्यजातीयेषु सपक्षेषु अनुवृत्तो विजातीयेभ्यो विपक्षेभ्यो व्यावृत्तो यः सम्बन्धोऽर्थात्तत्रैवानुमेये पक्षवृत्तिरिति यावत् । तद्विषया तन्निबन्धना, षीञ् बन्धने इत्यनुशासनात्तद्विषयज्ञानजन्येति यावत् । एवम्भूता या सामान्यावधारणप्रधाना वृत्तिः सानुमानमित्यर्थः । सम्बन्ध इति पाठेऽपि सम्बन्ध्यत इति सम्बन्धः’ यथा च स एवार्थः । सामान्येत्यादि प्रत्यक्षव्यावृत्तस्वरूपकथनमात्रं न तु लक्षणान्तर्गतं वैयर्थ्यादिति । अनुमानवृत्तेरुदाहरणमाह । यथादेशान्तरप्राप्तेरिति । अत्रान्वयव्याप्तौ दृष्टान्तश्चैत्रवदिति । व्यतिरेकव्याप्तौ च दृष्टान्तो विन्ध्यश्चाप्राप्तिरगतिरिति । अप्राप्तेरिति पञ्चमीपाठस्तु लेखकप्रमादात् प्रत्यक्षसिद्धेनुमितिवैयर्थ्यादिति । आगमाख्यां वृत्तिं लक्षयति । आप्तेनेति । भ्रमप्रमादविप्रलिप्साकरणापाटवादिदोषरहितेनेत्यर्थः । मूलवक्त्रभिप्रायेण श्रुतो वेति नोक्तं तदप्युपलक्षणीयम् । स्वबोधसङ्क्रान्तये स्वबोधसदृशबोधोत्पत्यर्थमित्यर्थः । श्रोतुर्वृत्तिरिति व्युत्क्रमेणान्वयः । अत्राप्तोक्तार्थविषयिणी शब्दजन्या वृत्तिरित्येवागमप्रमाणस्य लक्षणं, शेषं तु आगमशब्दव्युत्पत्तिमात्रमाप्तादागच्छति वृत्तिरित्यागम इत्याशयः । तदर्थविषयेत्यन्तविशेषणव्यावृत्त्यात्र प्रमाणमागमवृत्तिं दर्शयति । यस्येति । दृष्टानुमितार्थकत्वाभावेनाश्रद्धेयार्थोऽवेद्यप्रतिपाद्यको यस्यागमस्य वक्ता स आगमः शास्त्रं चैत्यं वन्देत स्वर्गकाम इत्यादिरूपं प्लवते, प्रमाणवृत्तिजननासमर्थ इत्यर्थः । नन्वेवं दृष्टानुमितार्थकवक्त्रनिर्मितस्य श्रुतिमूलस्याधुनिकागमस्यापि प्लवः स्यादत आह । मूलेति । ॥ ७ ॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥ स कस्मान्न प्रमाणम्? यतः प्रमाणेन बाध्यते। भूतार्थविषयत्वात्प्रमाणस्य। तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम्। तद्यथा – द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति। वार्तिकम् योग-वार्त्तिकम्

विपर्यय इति लक्ष्यनिर्देशो मिथ्याज्ञानमिति लक्षणं, मिथ्येत्यस्य विवरणमतद्रूपप्रतिष्ठमिति । न तद्रूपो न स्वसमानाकारो यो विषयस्तत्प्रतिष्ठं तद्विशेष्यकमित्यर्थः । भ्रमस्थले ज्ञानाकारस्यैव विषये समारोप इति भावः । संशयस्याप्यत्रैवान्तर्भावः । अत्र च शास्त्रेऽन्यथाख्यातिः सिद्धान्तो न तु साङ्ख्यवदविवेकमात्रम् ‘अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्ये’त्यागामिसूत्रात् । वैशेषिकाच्चात्रायं विशेषो यद्बाह्यरजतादेर्नारोपः किं त्वान्तरस्यैवेति, ज्ञानाकारमनुभवसिद्धं शुक्त्यादिकं सन्निकृष्टं विहाय दूरस्थरजतादिविषयकत्वकल्पने गौरवात् स्वप्ने दृष्टमिदानीं नास्तीति स्वरूपतो बाधानुपपत्तेश्च । तथा च ब्रह्मसूत्रद्वयं ‘सन्ध्ये सृष्टिराह ही’ति तदभिध्यानादेव तत्तिरोहितं ततो ह्यस्य बन्धविपर्यया’विति चेति । ननु प्रतीतिबलेनैव विषयः सिध्यतु तथा च शुक्तिरजतादिस्थलेप्यतद्रूपप्रतिष्ठत्वमसिद्धमित्याशयेन पृच्छति । स कस्मादिति । परिहरति । यत इति । अबाधितानुभवेनैव विषयसिद्धिरिति भावः । ननु बाध्यबाधकभाव एव वैपरीत्येन कथं न भवति तत्राह । भूतार्थेति । सदर्थविषयत्वेन प्रमाणस्य बलवत्त्वात् तत्त्वपक्षपातो हि धियां स्वभाव इति । अत्रोदाहरणमाह । तत्र प्रमाणेनेत्यादिना । विपर्ययवृत्तेरतिहेयत्वख्यापनायाह । सेयं पञ्चपर्वा भवत्यविद्या, अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति। एत एव स्वसञ्ज्ञाभिस्तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति। एते चित्तमलप्रसङ्गेनाभिधास्यन्ते ॥ ८ ॥ वार्तिकम् योग-वार्त्तिकम्

प्रमाणं लक्षयित्वा विपर्ययं लक्षयति -

सेयमिति । पञ्चपर्वा याऽविद्या संसारानर्थबीजं सा । इयमेव, मिथ्याज्ञानरूपा वृत्तिरेव, एतद्विशेष एवेति यावत् । अत इयमवश्यं निरोद्धव्येति भावः । पर्वाणि गणयति । अविद्याऽस्मितेति । क्लेशाः क्लेशाख्याः । क्लेशदत्वादिति भावः । रागादीनां मिथ्याज्ञानत्वाभावेऽपि अविद्ययानुगतत्वादविद्यापर्वत्वं विपर्ययत्वं च, यथाङ्कुरस्य बीजपर्वत्वं बीजत्वं चेति बोध्यम् । नन्वविद्या विपर्ययो मोह इति पर्याया एवं च सति मोहवृत्त्योरभेदात् कथं शान्तघोरमूढत्वं वृत्तीनामिति सिद्धान्तो घटेतेति चेत्, न । धर्मधर्म्यभेदेनैवात्र वृत्तीनां विपर्ययादिरूपविभागकरणात् । वस्तुतस्तु वृत्तयो विपर्ययादिमत्य एवेति । अत्यन्तहेयत्वप्रतिपादनायान्वर्थसञ्ज्ञापञ्चकं क्लेशानामाह । एत एवेति । स्वसञ्ज्ञाभिः स्वानुरूपसञ्ज्ञाभिः । तथा च विष्णुपुराणम् ॥

तमो मोहो महामोहस्तामिस्रो ह्यन्धसञ्ज्ञकः । अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥ इति ।

एतेषामेव च प्राधान्येनावान्तरविभागः साङ्ख्यकारिकायामुक्तः । भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः ॥ इति ।

अव्यक्तमहदहङ्कारपञ्चतन्मात्रेष्वनात्मस्वष्टस्वात्मबुद्धिरविद्या, अष्टविधं तमः, ज्ञानावरकत्वात् । एतास्वेव देहाद्यात्मबुद्धीनामन्तर्भावः, देहादीनामेतदष्टककार्यत्वात् । शुक्तिरजतादिविपर्ययाणां तु संसाराहेतुतया नात्र गणना, ‘विपर्ययादिष्यते बन्ध’ इति पूर्वकारिकया बन्धहेतुविपयर्यस्यैव प्रकृतत्वादिति । मोहादिष्वप्येवं बोध्यम् । अष्टस्वणिमाद्यैश्वर्येष्वनात्मसु आत्मीयबुद्धिरस्मिता स्वत्वास्मितयोः पर्यायत्वात् सैव चाष्टविषयकतया अष्टविधो मोहो मुख्यत उच्यते । शेषं पूर्ववत् । तथा दृष्टानुश्रविकभेदेन दशसु शब्दादिविषयेषु रागो दशविधो महामोहः । शेषं पूर्ववत् । तथाष्टैश्वर्यस्य विषयदशकस्य च परिपन्थिनि द्वेषोऽष्टादशधा तामिस्रः । शेषं पूर्ववत् । तथा ऐश्वर्याष्टकं विषयदशकं च नङ्क्ष्यतीति यस्त्रासः सोऽष्टादशधाभिनिवेशोऽन्धतामिस्रः । शेषं पूर्ववत् । एत इति । अविद्यादय इत्यर्थः ॥ ८ ॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥ स न प्रमाणोपारोही। न विपर्ययोपारोही च। वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते। तद्यथा – चैतन्यं पुरुषस्य स्वरूपमिति। यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते। वार्तिकम् योग-वार्त्तिकम्

शब्दज्ञानानुपाती वस्तुशून्यः प्रत्ययो विकल्प इत्यर्थः । शब्दश्च शाब्दज्ञानं च ते अनुपातिनी यस्य स तथा । तथा च तदुभयजनकः सर्वदैव बाधाबाधकालाविशेषेणेत्याद्यविशेषणार्थः । ननु विकल्पस्य सवस्तुकत्वे प्रमाणेऽन्तर्भावः, निर्वस्तुकत्वे तु विपर्ययेऽन्तर्भावस्तृतीयप्रकारासम्भवादित्याशङ्कां परिहरन्नेव विशेषणयोर्व्यावर्त्यमाह । स नेति । उपारोहोऽन्तर्भावः । प्रमाणकोट्यनन्तर्भावे हेतुर्वस्तुशून्यत्वेऽपीति विपर्ययकोट्यनन्तर्भावे च हेतुः शब्दज्ञानेत्यादि । माहात्म्यं याथार्थ्यं, तथा च यथार्थशब्देन यथार्थज्ञानेन च यादृशो व्यवहारो भवति शब्दज्ञानरूपस्तादृश एव व्यवहारो विकल्पादपि दृश्यते विवेकिनामपीत्यर्थः । विपर्ययस्तु नैवं, बाधोत्तरमिदं रजतमिति शब्दप्रत्यययोरभावादिति । एतेन विपर्ययलक्षणे शब्दज्ञानानुपातित्वं विशेषणं देयमिति भावः । विकल्पस्योदाहरणमाह । तद्यथेत्यादिना । किं विशेष्यं केन विशेषणेन व्यपदिश्यते, अत्यन्ताभेदान्नास्त्यत्र विकल्पज्ञाने विशेषणविशेष्यभावरूपोऽर्थ इत्यर्थः । वस्तुशून्यत्वमुपपाद्य शब्दज्ञानानुपातित्वमुपपादयति । भवति च व्यपदेशे वृत्तिः। यया चैत्रस्य गौरिति। तथा प्रतिषिद्धवस्तुधर्मो निष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति, गतिनिवृत्तौ धात्वर्थमात्रं गम्यते। तथाऽनुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमात्रमवगम्यते न पुरुषान्वयी धर्मः। तस्माद्विकल्पितः स धर्मस्तेन चास्ति व्यवहार इति ॥ ९ ॥ वार्तिकम् योग-वार्त्तिकम्

भवति चेति । चैत्रस्य गौरिति यथार्थशब्दवत् अत्रापि विशेष्यविशेषणभावव्यपदेशे सति तथा वृत्तिर्बोधो विवेकिनामपि भवति चेत्यर्थः । अन्यान्यप्युदाहरणान्याह । तथेत्यादिना । शास्त्रैः प्रतिषिद्धा वस्तुभूताः सुखादयो धर्मा यत्रेति प्रतिषिद्धवस्तुधर्मा पुरुष, इयं वृत्तिरेकमुदाहरणम् । अभावस्याधिकरणमात्ररूपत्वेनाधाराधेयभावविरहादिति । निष्क्रियः पुरुष इत्यन्यदुदाहरणम् । लौकिकमप्युदाहरणत्रयमाह । तिष्ठतीति । तिष्ठति बाणः, स्थास्यति, स्थित इति गतिनिवृत्तौ गतिनिवृत्तिविषयकविकल्पे वर्त्तमानत्वादिविशिष्टं स्थाधात्वर्थमात्रं पारमार्थिकतया प्रतीयते कर्त्तृत्वं कर्तृत्वस्य वर्त्तमानत्वादिकं च प्रत्ययत्रयार्थस्तु विकल्पित इत्यर्थः । बाणे गतिनिवृत्त्यनुकूलकृत्यभावादिति । उदाहरणान्तरमाह । तथानुत्पत्तीत्यादिना व्यवहार इतीत्यन्तेन । अनुत्पत्तिर्धर्मो यस्येत्यनुत्पत्तिधर्मा पुरुषः । स धर्मोऽनुत्पत्तिर्धर्मः । प्रमाणविपर्ययातिरिक्तायां विकल्पवृत्तौ बहुवादिविप्रतिपत्तेस्तन्निरासाय बहून्युदाहरणानि । एवं खपुष्पशशशृङ्गप्रत्यया अपि विकल्पमध्ये प्रवेशनीयाः । खपुष्पं नास्तीति प्रत्ययानुरोधेन तादृशप्रत्ययसिद्धेः । विकल्पप्रत्ययास्तु वैशेषिकैराहार्यज्ञानविशेषतयैष्टव्या एव । विशेषस्तु, तैर्मिथ्याज्ञानमध्ये प्रवेश्यन्ते अस्माभिस्तु सविकल्पनिर्विकल्परूपाभ्यां श्रुतिसिद्ध्योरविभागार्थं पृथङ् निर्दिश्यन्त इति ॥ ९ ॥ अभावप्रययालम्बना वृत्तिर्निद्रा ॥ १० ॥ सा च सम्प्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः। कथं, सुखमहमस्वाप्सम्। प्रसन्नं मे मनः प्रज्ञां मे विशारदी करोति। दुःखमहमस्वाप्सं स्त्यानं मे मनो भ्रमत्यनवस्थितम्। गाढं मूढोऽहमस्वाप्सम्। गुरूणि मे गात्राणि। क्लान्तं मे चित्तम्। अलसं मुषितमिव तिष्ठतीति। स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे तदाश्रिताः स्मृतयश्च तद्विषया न स्युः। तस्मात्प्रत्ययविशेषो निद्रा। सा च समाधावितरप्रत्ययवन्निरोद्धव्येति ॥ १० ॥ वार्तिकम् योग-वार्त्तिकम्

निद्राया वृत्तित्वस्फुटीकरणाय पुनर्वृत्तिग्रहणम् । जाग्रत्स्वप्नवृत्तीनामभावस्य प्रत्ययः प्रतिसङ्क्रमस्थानं कारणमिति यावत् । तच्च चित्तसत्त्वावच्छादकं तमोद्रव्यमन्धकारादिवत्तदेवालम्बनं विषयो यस्याः सा तथा तादृशी वृत्तिर्निद्रेत्यर्थः । बुद्धेर्हि त्रिगुणतया यदा सत्त्वरजसी अभिभूय समस्तकरणावरकं तम आविर्भवति तदा मलिनस्य चित्तसत्त्वस्य तमआकारैव वृत्तिः स्वपिमीत्याकारा जायते, स्वापश्चात्र जाग्रत्स्वप्नवृत्त्यभावः । तां च निद्राख्यां वृत्तिमवबुध्यमानः पुरुषः सुषुप्तस्थानोऽन्तःप्रज्ञ इति श्रुतिभिरुच्यत इति । न च चित्तेन चित्तग्रहणे कर्मकर्त्तृविरोधः । वृत्त्या चित्तस्य ग्रहणेन कर्मकर्त्रोर्भेदात् । न चैवमेकया वृत्त्या वृत्यन्तरग्रहणसम्भवे पुरुषकल्पनावैयर्थ्यम् । नियमेन वृत्तिगोचरवृत्तिकल्पनेऽनवस्थायाः सूत्रेण वक्ष्यमाणत्वादिति । ननु निरोधे कैवल्यप्रलयादिष्विव वृत्यभाव एव सर्वस्यां सुषुप्तौ कथं न स्वीक्रियते न तु तद्द्वितीयमस्ति ततोऽप्यन्यद्विभक्तं यत्पश्येदिति सौषुप्तश्रुतावपि तदानीं ज्ञानाभावस्यैवावगमादित्याशङ्क्याह । सा तु सम्प्रबोध इति । सा तु निद्रा प्रत्ययविशेष एव, जागरे स्मरणादित्यर्थः । अत एव ‘त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवे’दित्यादिश्रुतयः सुषुप्तस्थानेपि भोग्यमस्तीत्याहुः । न चैवं श्रुत्योर्विरोध इति वाच्यम् । अर्धसमग्रभेदेन सुषुप्तेर्द्वैविध्यात् । ‘मुग्धेर्द्धसम्पत्ति’रिति सुषुप्तिप्रकरणस्थवेदान्तसूत्रात् । अन्यथा श्रुत्योर्विरोधस्यापरिहार्यत्वाच्च कदाचिद्गाढतमसा चित्तसत्वस्य तमोगोचरवृत्तावप्यसामर्थ्यं च सम्भवत्येवेति । यत्त्वाधुनिका वेदान्तिब्रुवा आहुः, सुषुप्तौ तमः साक्षिभास्यमेव न तत्र वृत्तिरस्तीति । तन्न । वक्ष्यमाणस्मरणानुपपत्तेः साक्षिण्यपरिणामिनि संस्कारस्मृत्योरनभ्युपगमात् । यच्च तदेकदेशी सुषुप्तावज्ञानाख्यप्रकृतेरेव वृत्तिमाह न तु चित्तस्य, तदपि हेयम् । एवं सति जाग्रत्स्वप्नयोरपि तस्या एव वृत्तिसम्भवे चित्तकल्पनावैयर्थ्यादिति । तस्माज्जाग्रत्स्वप्नयोरिव सुषुप्तेऽपि चित्तस्यैव वृत्तिः, ‘जाग्रत्स्वप्नसुषुप्तं च गुणतो बुद्धिवृत्तयः’ इति स्मृतिश्च, तथा चित्तत्वेनैव वृत्तिसामान्ये हेतुतायां लाघवाच्चेति । स्मरणाकारं पृच्छति । कथमिति । यस्यां सत्त्वसचिवं तम आविर्भवति तस्याः सात्विक्या निद्राया उत्थितस्य स्मरणाकारमाह । सुखमिति । प्रसन्नं निर्मलं मनः स्वस्मिन् जायमानां प्रज्ञां यथार्थवृत्तिं विशारदीकरोति सूक्ष्मार्थप्रतिबिम्बोद्ग्राहिणीं करोतीत्यर्थः । विशारदां करोतीति पाठस्तु साधुः । यस्यां रजःसचिवं तम आविर्भवति तस्या राजस्या निद्राया उत्थितस्य स्मरणाकारमाह । दुःखमिति । स्त्यानमकर्मण्यं, तामस्या निद्राया उत्थितस्य स्मरणाकारमाह । गाढमिति । अलमत्यन्तं मुषितमिव परैरपहृतमिव तिष्ठतीत्यर्थः । अलसमिति पाठे तु स्त्यानता चित्तस्यातिचाञ्चल्येन कर्माक्षमता, बालस्य तु तमोधर्मगुरुत्वेन कर्माक्षमता कर्मण्यनिच्छा वेति भेदः । ननु भवतु प्रत्यवमर्शस्तथापि कथं सुषुप्तौ प्रत्ययसिद्धिस्तत्राह । स खल्विति । प्रत्ययानुभवे सूत्रोक्तस्याभावप्रत्ययस्यानुभवे सति सोऽयं प्रत्यवमर्शः खलु न स्यादित्यर्थः । संस्कारासम्भवादिति भावः । ननु वृत्तिं विनापि सुखादिवत् सुषुप्तौ स्वापस्य साक्षिभास्यत्वमभ्युपगम्य तत्स्मरणमुपपादनीयमित्याशङ्क्याह । तदाश्रिता इति । तद्विषयाः प्रत्ययविषयिकाः स्मृतयोऽपि तदाश्रिताश्चित्ताश्रिता न स्युरन्यदृष्टस्यान्येनास्मरणादित्यर्थः । न च स्मरणमपि साक्षिण्येवास्त्विति वाच्यम् । तत्र संस्कारासम्भवात् स्मृत्याख्यपरिणामासम्भवाच्चेति । ननु निद्रावृत्तिरपि तमस्येकाग्रा विषयदुःखशून्या चेति सा किमर्थं निरोद्धव्येत्याशङ्क्याह । सा चेति । इतरवृत्तिवत् सुखदुःखमोहात्मकत्वेन समाधिप्रतिपक्षत्वेन च निद्रापि समाधौ निरोद्धव्येत्यर्थः ॥ ॥ १० ॥ अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ ११ ॥ किं प्रत्ययस्य चित्तं स्मरति आहोस्विद्विषयस्येति। ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तज्जातीयकं संस्कारमारभते। स संस्कारः स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति। वार्तिकम् योग-वार्त्तिकम्

भाष्यानुसारेणास्य सूत्रस्यायमर्थः । एवमनुभूतौ यौ विषयौ वृत्तितदारूढार्थौ तयोरसम्प्रमोषोऽस्तेयमनपहरणं धर्मधर्म्यभेदात्तद्वती तदुभयविषयिणीति यावत्, एवम्भूता वृत्तिः स्मृतिरिति । अत्र प्रत्यभिज्ञादिव्यावृत्तये संस्कारमात्रजन्यत्वमेव स्मृतिलक्षणं, सूत्रकारेण तु स्मृतेः प्रायिकं स्वरूपमेवोक्तं तेन न प्रमुष्टतत्ताकस्मरणाव्याप्तिः । अथवा सूत्रोक्तमेव लक्षणं तच्च संस्कारमात्रजन्यत्वेन विशेषणीयं प्रमुष्टतत्ताकं तु संस्कारमात्रजन्यमपि ज्ञानमनुभवमध्ये प्रवेशनीयं, शब्दजन्यपदार्थोपस्थित्यादौ स्मरामीति स्फुटं व्यवहारादर्शनात् । प्रमाणेत्यादिवृत्तिविभागसूत्रे तु संस्कारमात्रजन्यत्वगुणेन तादृशं ज्ञानं स्मृतिशब्दगृहीतमनेन च सूत्रेण मुख्यस्मृतिर्लक्षितेति । स्मृतेर्वृत्तितदर्थोभयविषयकत्वं सूत्रोक्तमवधारयितुं भाष्यकारो विमृशति । किं प्रत्ययस्येति । स्मृत्यर्थधातुयोगात् कर्मणि षष्ठी । चित्तं किं पूर्वानुभवरूपं प्रत्ययमपि स्मरति आहोस्विद्विषयमात्रमित्यर्थः । तत्र स्मृतेरुभयविषयकत्वरूपमाद्यं पक्षं सिद्धान्तयितुमादावुभयस्मरणे कारणमुभयगोचरसंस्कारमुपपादयति । ग्राह्योपरक्त इत्यादिना । यतो ग्राह्योपरक्तो ज्ञानविशेषणतया घटादिभिरप्याकारितोऽतो ग्राह्यग्रहणोभयाकारनिर्भासस्तदुभयाकारतया प्रसिद्धो यः प्रत्ययो घटं जानामीत्यनुव्यवसायः स तथाजातीयकं ग्राह्यग्रहणोभयाकारमेव संस्कारं जनयति समानाकारत्वेनैव लाघवादनुभवसंस्कारस्मृतीनां कार्यकारणभावादित्यर्थः । नन्वत्र व्यवसायरूपवृत्तेः स्वप्रकाशत्वमेव निर्भासान्तविशेषणार्थः कथं नेष्यत इति चेत्, न । कर्मकर्तृविरोधेन वृत्तेः स्वविषयकत्वस्य सूत्रभाष्याभ्यां चतुर्थपादे निराकरिष्यमाणत्वात् । ननु किं व्यवसायस्य संस्कारजनकत्वमेव नास्ति । न नास्ति, किन्तु तत्संस्कारजन्यं ज्ञानं स्मृतिर्न भवति, प्रमुष्टतत्ताकस्य पराभिमतस्य स्मरणस्यास्माभिर्व्यवहारानुसारेणानुभवमध्य एव प्रवेशनादिति । नन्वस्तूभयविषयकसंस्कारस्ततः किमित्यत आह । स संस्कार इति । स चोभयविषयकसंस्कारो यद्वा स्वाभिव्यञ्जकेन कालादिनाभिव्यक्तो भवति तदा तदाकारां स्वसमानाकारामेव ग्राह्यग्रहणोभयात्मिकां तदुभयविषयिणीं स्मृतिं जनयतीत्यर्थः । अनुभूतविषयासम्प्रमोषं सूत्रोक्तं व्याख्यानुव्यवसायतज्जन्यस्मरणयोर्विशेषमप्याह । तत्र ग्रहणाकारपूर्वा बुद्धिः। ग्राह्याकारपूर्वा स्मृतिः। सा च द्वयी – भावितस्मर्तव्या चाभावितस्मर्तव्या च। स्वप्ने भावितस्मर्तव्या। जाग्रत्समये त्वभावितस्मर्तव्येति। सर्वाः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात्प्रभवन्ति। सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः। सुखदुःखमोहाश्च क्लेशेषु व्याख्येयाः। सुखानुशयी रागः। दुःखानुशयी द्वेषः। मोहः पुनरविद्येति। एताः सर्वा वृत्तयो निरोद्धव्याः। आसां निरोधे सम्प्रज्ञातो वा समाधिर्भवत्यसम्प्रज्ञातो वेति ॥ ११ ॥ वार्तिकम् योग-वार्त्तिकम्

तत्र ग्रहण इति । पूर्वं मुख्यं विशेष्यमिति यावत् । तयोः प्रत्ययस्मरणयोरत्यन्तं समानाकारत्वं न मन्तव्यं यतस्तत्र तयोर्मध्ये बुद्धिरनुव्यसायरूपा यथोक्तप्रत्ययो ग्रहणाकारविशेष्यिका भवति घटमहं जानामीत्यनुव्यवसाये ज्ञानस्य घटांशे विशेष्यत्वात्, स्मृतिस्तु ग्राह्याकारविशेष्यिका भवति स घट इत्येव स्मरणात् । तत्ता च पूर्वज्ञानत्वरूपा । अतः स्मृतौ ज्ञानस्य ग्राह्यं विशेष्यमिति । अयं चाकारभेदोऽनुभवसिद्ध इति भावः । स्मृतेरवान्तरभेदं दर्शयति । सा च द्वयीति । भावित उद्भावितः सूचितः स्मर्त्तव्यार्थो ययेति भावितस्मर्त्तव्या तद्भिन्ना चाभावितस्मर्त्तव्या । तयोरुदाहरणे दर्शयति । स्वप्ने इति । स्वप्नदर्शनमेव हि भाव्यर्थसूचकतया शास्त्रे सिद्धं न तु जाग्रत्कालीना स्मृतिरिति । ननु स्वप्ने पूर्वदृष्टत्वास्मरणात् संस्कारमात्रजन्यत्वाभावाच्च कथं स्मृतित्वमिति चेन्न । अंशतस्तदुभयरूपत्वस्य स्वप्नज्ञानेष्वपि सत्त्वात् तादृशस्य स्वप्नांशस्यैवोपन्यासादिति । सर्ववृत्यन्ते स्मृतिवृत्तेरुपन्यासस्य बीजमाह । सर्वा इति । अनुभवात्, अनुव्यवसायात् । अनुभावादिति पाठे प्रभावादित्यर्थः । यथोक्तानां वृत्तीनां निरोद्ध्यत्वे बीजमाह । सर्वाश्चैता इति । एताः सर्वाः प्रमाणादिवृत्तयो बुद्धिद्रव्यस्य सुवर्णस्येव प्रतिमादिवद्विषयाकारा द्रव्यरूपाः परिणामाः सुखदुःखमोहगुणका इत्यर्थः । बुद्धिवृत्तिर्हि रूपादिमती भार्येव सुखादिमती पुरुषस्य भोग्येति । अतो दुःखवत्वेन वृत्तयो निरोद्धव्या इत्युपसंहरिष्यति । ननु सुखवत्त्वेनोपादेयत्वमेव कुतो न भवेदित्यत आह । सुखदुःखेति । क्लेशेषु क्लेशव्याख्यानसूत्रेषु व्याख्येयाः व्याख्यानमेवाह । सुखानुशयी राग इत्यादि । सुखदुःखानुशयी सुखदुःखविषयकः । तथा च रागजनकतया दुःखवत्सुखमपि हेयं, मोहस्त्वविद्यारूपतया शोकाद्यखिलदुःखनिदानत्वेन हेय इत्याशयः । एता इति । अतो दुःखात्मकत्वादेताः सर्वा निरोद्धव्या इत्यर्थः । प्रकरणार्थमुपसंहरति । आसामिति ॥ ११ ॥ अथाऽऽसां निरोधे क उपाय इति – वार्तिकम् योग-वार्त्तिकम्

तदेवं सामान्यतो योगस्य लक्षणं कृतमिदानीं तस्योपायं प्रतिपादयिष्यति सूत्रकारस्तत्र सङ्क्षेपाद् उपायसारसङ्ग्राहकं सूत्रमवतारयति । अथासामिति ॥ अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥ चित्तनदी नामोभयतोवाहिनी वहति कल्याणाय वहति पापाय च। या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा। संसारप्राग्भाराऽविवेकविषयनिम्ना पापवहा। तत्र वैराग्येण विषयस्रोतः खिलीक्रियते। विवेकदर्शनाभ्यासेन विवेकस्रोत उद्धाट्यत इत्युभयाधीनश्चित्तवृत्तिनिरोधः ॥ १२ ॥ वार्तिकम् योग-वार्त्तिकम्

अभ्यासवैराग्ये व्याख्यायेते । अभ्यासवैराग्ययोरवान्तरव्यापारभेदेन निरोधजनने समुच्चय एव न विकल्प इत्याह । चित्तनदीति । यथा नदी कदाचित् समुद्राभिमुखी वहति कदाचिच्च तद्वैपरीत्येन पृथिव्यभिमुखी वहति । अन्यथा समुद्रगमनमात्रेण शुष्येतैव । एवं चित्तनद्यपि उभयतोवाहिनी । उभयतो वहनस्य प्रयोजनमाह । वहतीति । कल्याणं मोक्षस्तदर्थं, पापं संसारस्तत्फलत्वात्तत्कारणत्वाद्वा तदर्थम् । तथा चोक्तम् ।

प्रत्यग्दृशां विमोक्षाय निबन्धाय पराग्दृशाम् । अपामार्गलतेवायं विरुद्धफलदो भवः ॥ इति ।

प्रवाहद्वयं विशिष्य दर्शयति । या त्विति । प्राग्भारा अभिमुखी । विवेकविषयो निम्नो गमनमार्गो यस्या इत्यर्थः । जलस्य हि प्रवाहाभिमुखं वर्त्म नीचं भवतीति । तत्र चित्तनद्यां वैराग्येण विषयमार्गगं वृत्तिस्रोतः खिलीक्रियते अल्पीक्रियते विवेकदर्शनस्याभ्यासेन च विवेकमार्गगं वृत्तिस्रोत उद्घाट्यते बलवत् क्रियते येन निरोधाख्ये कैवल्यसागरे विलीयते इत्यतोऽवान्तरव्यापारभेदेनोभयाधीनश्चित्तवृत्तिनिरोध इत्यर्थः । तदुक्तं गीतायाम् ।

असंशयं महाबोहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ इति ।

अत्र विवेकदर्शनमात्रस्याभ्यासः प्राधान्येनोक्तः । आगामिसूत्रे निरोधसाधनानष्ठानसामान्यस्यैवाभ्यासत्ववगमादिति ॥ १२ ॥ तत्र स्थितौ यत्नाऽभ्यासः ॥ १३ ॥ चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः। तदर्थः प्रयत्नो वीर्यमुत्साहः। तत्सम्पिपादयिषया तत्साधनानुष्ठानमभ्यासः ॥ १३ ॥ वार्तिकम् योग-वार्त्तिकम्

अत्राभ्यासवैराग्ये क्रमाल्लक्षयति सूत्रजातेन -

तत्राभ्यासवैराग्ययोर्मध्ये । चित्तस्येति । अवृत्तिकस्य वृत्यन्तरशून्यस्य न तु वृत्तिसामान्याभाववतः, स्थित्यनन्तरं सम्प्रज्ञातस्य समापत्तिसूत्रे भाष्यकारैर्व्याख्येयत्वात् । प्रशान्तवाहितेति । वृत्यन्तराभावात्प्रशान्ता हर्षशोकादितरङ्गरहिता एकाग्रवृत्तिधारेत्यर्थः । शान्तिश्च तन्त्रेषूक्ता ॥

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् । न हृष्यति ग्लायति च स शान्त इति कथ्यते ॥ इति ।

स्थितिशब्दार्थं व्याख्याय सप्तम्यर्थं व्याचष्टे । तदर्थ इति । तथा च चर्मणि द्वीपिनं हन्तीतिवदियं निमित्तसप्तमीति । यत्नशब्दं व्याचष्टे । प्रयत्न इति । प्रयत्नमपि पर्यायाभ्यां विशदयति । वीर्यमुत्साह इति । तथाप्यस्पष्टं मन्वानोऽतिविशेषत आह । तत्सम्पिपादयिषयेति । तत्सम्पादनेच्छया श्रद्धावीर्यस्मृतिसमाधिप्रज्ञादीनां वक्ष्यमाणानां साधनानामनुष्ठानमभ्यास इत्यभ्यासलक्षणं कृतम् ॥ १३ ॥ स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥ दीर्घकालासेवितो निरन्तरासेवितः सत्कारासेवितः। तपसा ब्रह्मचर्येण विद्यया श्रद्धया च सम्पादितः सत्कारवान्दृढभूमिर्भवति। व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः ॥ १४ ॥ वार्तिकम् योग-वार्त्तिकम्

ननु व्युत्थानसंस्कारेणानादिना प्रतिबन्धात् कथमभ्यासः स्थितिं सम्पादयतु इत्याकाङ्कायामाह सूत्रकारः ॥

सत्कारासेवित इत्येतद्विवृणोति । तपसेत्यादिना सत्कारवानित्यन्तेन । दृढभूमिरित्येतद्विवृणोति । व्युत्थानेति । व्युत्थानसंस्कारेण द्रागित्येव सहसा अनभिभूतः स्थितरूपो विषयो यस्य स भवतीत्यर्थः । अभ्यासं कृत्वोपरमे च कालक्रमादभिभवो भवत्येवेति प्रतिपादयितुं द्रागित्येवेत्युक्तम् ॥ १४ ॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् ॥ १५ ॥ स्त्रियोऽन्नपानमैश्वर्यमिति दृष्टविषये वितृष्णस्य स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तावानुश्रविकविषये वितृष्णस्य दिव्यादिव्यविषयसम्प्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसङ्ख्यानबलादनाभोगात्मिका हेयोपादेयशून्या वशीकारसञ्ज्ञा वैराग्यम् ॥ १५ ॥ वार्तिकम् योग-वार्त्तिकम्

अभ्यासं लक्षयित्वा वैराग्यं लक्षयति -

रागाभावमात्रं दोषदर्शनजन्यो रागाभावो वा न निरोधहेतुर्वैराग्यं रोगादिनिमित्तकारुचितो योगानुदयात् । दोषदर्शनजवैराग्यादनन्तरमपि विषयसान्निध्येन चित्तक्षोभितः सौभर्यादेर्योगानिष्पतेश्च । अतोऽत्र वैराग्यस्य वैतृष्ण्यमात्रं न लक्षणं, किन्तु यथोक्तवितृष्णस्य वशीकारसञ्ज्ञेति । तदेतद् व्याचष्टे । स्त्रिय इति । दृष्टविषयवितृष्णस्येति व्याख्याय आनुश्रविकविषयवितृष्ण्स्येति व्याचष्टे । स्वर्गेति । स्वर्गश्च वैदेह्यं च प्रकृतिलयत्वं च तेषां प्राप्तिरेवानुश्रवाख्यवेदोक्तो विषयस्तत्र च वितृष्णेत्येत्यर्थः । स्थूलदेहविरहेऽपि लिङ्गशरीरेणैव येषां देवानां भोगस्ते विदेहास्तद्रूपता च वैदेह्यम् । ये तु सावरणब्रह्माण्डाद्बहिरावरणे प्रकृतौ लीनाः श्लिष्टाः लिङ्गदेहेन सह गता इति यावत्, तेषां भावः प्रकृतिलयत्वं न तु प्रलय एवात्रोक्तः, करणं गतस्यैव श्रुतिस्मृत्योर्भोगश्रवणात् । अन्यथा प्राकृतप्रलयवदपुरुषार्थत्वाच्च । प्रकृतिलयानां च विदेहेभ्योऽयं भेदः । विदेहाः सावरणब्रह्माण्डान्तर्गता एवाल्पमैश्वर्यं मलिनं च विषयं भुञ्जते, प्रकृतिलयास्तु बहिर्गमनेन विदेहान् प्रत्यपीशते स्वसङ्कल्पमात्रेण तत्रैवनिर्मलं कारणसत्त्वनिर्मितं विषयं च भुञ्जते त ईश्वरकोटय उच्यन्त इति । षष्ठ्यन्तं हेतुगर्भविशेषणपदं व्याख्याय वशीकारसञ्ज्ञेति विशेष्यपदं व्याचष्टे । दिव्यादिव्येति । अयमर्थः । आदौ विषयसान्निध्यरूपेऽवसरे दोषावरकाभावाद् दोषदर्शनेन वैतृष्ण्यं भवति ‘विरक्तिदोषदर्शनादि’ति स्मृतेः । तच्चत्रिविधं यतमानसञ्ज्ञा व्यतिरेकसञ्ज्ञा एकेन्द्रियसञ्ज्ञेति । एतास्तु पश्चाद् व्याख्यास्यामः । एतस्माच्च त्रिविधवैतृष्ण्यादभ्यस्यमानाद्विषयसंयोगकालेऽपि दोषदर्शनमप्रतिबद्धमुत्पद्यते ‘वैराग्याद्दोषदर्शन’मिति स्मृत्यन्तरात्, कुतः पुनरप्रतिबन्धः । तत्रोक्तं, प्रसङ्ख्यानबलात् दोषसाक्षात्कारस्य बलवत्त्वादिति । दोषसाक्षात्काररूपबलाभावात्तु सौभर्यादेः प्राग्विरक्तस्यापि विषयसन्निकर्षेण दोषदर्शनं प्रतिबध्य पुना राग उत्पादित इति । एतस्माच्च दोषदर्शनोत्कर्षाद्विषयसंयोगकालेऽपि या चित्तस्यानाभोगात्मिकाऽऽभोगरहिता, एतस्य विवरणं हेयोपदेयशून्या रागद्वेषशून्या वशीकारसञ्ज्ञा या वितृष्णा सा वैराग्यमपरमिति शेषः । उत्तरसूत्रे तत्परमिति वचनादस्यापरत्वम् । तथा च रागद्वेषशून्यस्य विषयसाक्षात्कारस्य योग्यता वशीकारसञ्ज्ञाख्यवैराग्यमिति पर्यवसितम् । तेन सर्वदैतादृशविषयसंयोगाभावेऽपि न निरोधासम्भवः । तदेवमनेन सूत्रेण हेतुहेतुमद्भावरूपतस्तन्त्रान्तरसिद्धं वैराग्यचतुष्टयमेवोक्तम् । तत्र प्रथमभूमिका यतमानसञ्ज्ञानाम्नी वितृष्णा ज्ञानपूर्वकं वैराग्यसाधनानुष्ठानम् । द्वितीयभूमिका व्यतिरेकसञ्ज्ञा सा च जितान्येतानीन्द्रियाणि एतानि च जेतव्यानीति व्यतिरेकावधारणयोग्यता । तृतीयभूमिका च एकेन्द्रियसञ्ज्ञा सा च बाह्येन्द्रियविषयेषु रूपादिषु रागादिक्षये सति एकस्मिन्नेव मनसि मानापमानादिविषयकरागद्वेषादिक्षयो रागद्वेषज्ञानपूर्वक इति । चतुर्थभूमिका तु वशीकारसञ्ज्ञा स्पष्टमुक्तैवेति ॥ १५ ॥ तत्परं पुरुषख्यातेर्गुणवेतृष्ण्यम् ॥ १६ ॥ दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात्तच्छुद्धिप्रविवेकाप्यायितबुद्धिर्गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति। तद्वयं वैराग्यम्। तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम्। यस्योदये सति योगी प्रत्युदितख्यातिरेवं मन्यते – प्राप्तं प्रापणीयं, क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसङ्क्रमः, यस्याविच्छेदाज्जनित्वा म्रियते मृत्वा च जायत इति। ज्ञानस्यैव परा काष्ठा वैराग्यम्। एतस्यैव हि नान्तरीयकं कैवल्यमिति ॥ १६ ॥ वार्तिकम् योग-वार्त्तिकम्

अपरवैराग्यमुक्त्वापरवैराग्यमाह ॥

तदिति वैराग्यं परामृश्यते, तथा चात्मद्वयान्यतरसाक्षात्काराभ्यासाद्धेतोरुत्पद्यमानं सकलगुणेषु वैतृष्ण्यं परं श्रेष्ठं वैराग्यमित्यर्थः । पूर्वसूत्रोक्तवैराग्यादस्य भेदं दर्शयति । दृष्टेत्यादिना । पूर्वसूत्रे विषयदोषदर्शनाद्विषयेष्वेव वैराग्यमुक्तं न तु ज्ञाने, तदानीं ज्ञानेऽपि विनाशित्वादिदोषदर्शनसाम्येपि नालन्द्धिरूपं वैराग्यं सम्भवति अविद्यानिवृत्याख्यप्रयोजनवत्वात्, अत्र तु सूत्रे ज्ञानेनाविद्यानिवृत्त्यादौ सिद्धे तेनैव दोषदर्शनेनानात्मत्वदृष्ट्या च ज्ञानसाधारणेष्वखिलकार्यकारणेष्वात्मतृप्तस्योपेक्षेति वैराग्ययोर्भेद इति वाक्यार्थः । तच्छुद्धीति । पुरुषशुद्धिप्रविवेकश्चितिशक्तिरपरिणामिनीत्यादिना दर्शितस्तेनाप्यायिता तृप्ता समाप्तपुरुषार्था बुद्धिर्यस्येति विग्रहः । व्यक्ताव्यक्तेति । व्यक्ताव्यक्ते स्थूलसूक्ष्मे कार्ये धर्मावाश्रिते येषु सत्त्वादिगुणेषु तेभ्यः, तैः कार्यैः सहितेभ्यस्तेभ्य इति यावत् । तद्द्वयमिति । तत्तस्मादुभयं परस्परभिन्नं वैराग्यमित्यर्थः । द्वितीयवैराग्यस्य परत्वे हेतुमाह । तत्र यदुत्तरमिति । ज्ञानप्रसादमात्रं वैराग्यमित्यागामिनान्वयः । ज्ञानस्य प्रसादश्च स्वयं व्याख्यास्यते । ननु वैतृष्ण्यं तृष्णाविरहरूपं वैराग्यं सूत्रकारेणोक्तं तद्विहाय कथं भाष्यकारेण ज्ञानरूपं तदुच्य इति चेन्न । शब्दभेदेऽप्यर्थभेदात् । न ह्यभावोऽस्मन्मतेऽतिरिक्तोऽस्ति, अधिकरणस्यावस्थाविशेषस्यैवाभावत्वात् । तथा च चित्तस्यैव तादृशी ज्ञानावस्थैव तृष्णाविरह इति । यदि च सुषुप्त्यादौ तृष्णाविरहोऽपेक्षितस्तदा ज्ञानप्रसादयोग्यतैव परवैराग्यमुच्यतां योग्यता च निर्मलसत्त्वतेति । अपि च भवतु वैतृष्ण्यमेव वैराग्यं तथापि ज्ञानप्रसादेनैव वैतृष्ण्यगतो विशेषोऽनुमीयत इति लिङ्गलिङ्गिनोरभेदोपचारात्सूत्रभाष्ययोर्नविरोधः । विरामप्रत्ययाभ्यासपूर्व इत्यागामिसूत्रेऽपि परवैराग्यस्य प्रत्ययत्वलाभाच्चेति । ज्ञानप्रसादस्य लक्षणमाह । यस्योदय इति । यस्य ज्ञानप्रसादस्योदये सति । एतस्यैव विवरणं प्रत्युदितख्यातिर्निष्पन्नात्मज्ञानो योगीति । प्रापयणीयं ज्ञानं प्राप्तं सिद्धं, यतः क्षीणा अविद्यादयः क्षेतव्याः क्लेशाः । अतश्च श्लिष्टानि निःसन्धीनि पर्वाणि यस्य स श्लिष्टपर्वा भवसङ्क्रमो देहाद्देहान्तरसञ्चाराख्यः संसारश्छिन्नः, पुनर्न भवितेति यावत् । यस्य संसारस्याविच्छेदात् जन्ममरणप्रवाहोऽतिदुःखदो भवतीत्येवं मन्यत इत्यन्वयः । ज्ञानप्रसादमात्रमित्युक्तं शब्दान्तरेण विवृणोति । ज्ञानस्यैवेति । ज्ञानस्य परा काष्ठा च विवेकख्यातावलम्प्रत्ययो दुःखात्मिकेयमपि शाम्यत्विति रूप इत्यर्थः । अस्य ज्ञानकाष्ठात्वे हेतुमाह । एतस्यैवेति । एतस्यैव यतो ज्ञानप्रसादस्य केवलं नान्तरीयकं नियतम् । एतस्मिन्नेव सति कैवल्यमावश्यकं नान्यस्मिन् ज्ञाने यमनियमादौ वैराग्ये वा तत्सत्त्वेऽप्यसम्प्रज्ञातानुदयेनाशेषतः प्राचीनकर्मक्षयानियमतः कषायसम्भवतश्च मोक्षे विलम्बसम्भवादिति ॥ १६ ॥ अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथमुच्यते सम्प्रज्ञातः समाधिरिति – वार्तिकम् योग-वार्त्तिकम्

तदेवं सामान्यतो योगस्तत्साधनं चोक्तमिदानीं विशेषतो योगतत्साधने वक्तव्ये तत्रादौ योगगतमवान्तरं विभागं दर्शयिष्यति सूत्रकारः । तत्सूत्रावताराय पृच्छति । अथोपायेति । उपायद्वयेन अभ्यासवैराग्याभ्यां, निरुद्धराजसतामसवृत्तेः पुरुषस्य कथं कैः प्रकारभेदैः सम्प्रज्ञातयोगः शास्त्रेषु कथ्यत इत्यर्थः । अत्र प्रत्युत्तरं सूत्रम् - वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः ॥ १७ ॥ वितर्कश्चित्तस्याऽऽलम्बने स्थूल आभोगः आनन्दो ह्लादः। सूक्ष्मो विचारः। एकात्मिका संविदस्मिता। तत्र प्रथमश्चतुष्टयानुगतः समाधिः सवितर्कः। द्वितीयो वितर्कविकलः सविचारः। तृतीयो विचारविकलः सानन्दः। चतुर्थस्तद्विकलोऽस्मितामात्र इति। सर्व एते सालम्बनाः समाधयः ॥ १७ ॥ वार्तिकम् योग-वार्त्तिकम्

अस्यार्थः । साक्षात्कारविशेषरूपैर्वितर्कादिभिरनुगमात् हेतोः सम्यक् प्रज्ञावत्वेन योगः सम्प्रज्ञातनामा भवति । वितर्कादिभूमिभेदैश्चतुर्धाविभक्त इत्यर्थादिति । अत्र रूपानुगमादिति पाठः प्रामादिकत्वादुपेक्षणीयः । भाष्ये वितर्कविकलः सविचार इत्यादिप्रयोगेषु रूपपदाप्रयोगात् आद्यसूत्रेपि भाष्यकृता वितर्कानुगतो विचारानुगत इत्यादेरेव प्रयोगाच्च । यच्च तत्र पाठे वितर्कादीनां रूपैरनुगमादिति कस्यचिद्व्याख्यानं तदपि वैयर्थ्यादुपेक्षणीयम् । वितर्कादिचतुष्टयं व्याचष्टे । वितर्कश्चित्तस्येत्यादिना - योनिजं वा विराजं वा चतुर्भुजादिकं वा स्थूलं षड्विंशतितत्त्वसङ्घातमाश्रित्य प्रथमं भावना प्रवर्त्तते, स आलम्बनमदृष्टजातीयेषु चैतन्यपर्यन्तेषु पूर्वं चिन्तनासम्भवात् । योगबलादेव हि तानि पश्चात्साक्षात्क्रियन्त इति न तान्यालम्बनानि । तथा चैकस्मिन्नेवालम्बने । क्रमेण चतुष्प्रकारः सम्प्रज्ञातो भवति । तत्रालम्बने विराट्शरीरादौ प्रथमं यश्चित्तस्य स्थलाकारत्वात्स्थूल आभोगः परिपूर्णता । स्थूलयोर्भूतेन्द्रिययोरदृष्टाश्रुतामताशेषविशेषसाक्षात्कारः सवितर्क इत्यर्थः । विशेषेण तर्कणमवधारणं वितर्क: तेनानुगतो युक्तो निरोधो वितर्कानुगतनामायोग इति भावः । सवितर्कनिर्वितर्कस्यावान्तरभेदौ वक्ष्यति । तत्र च वितर्कशब्दो विपरीततर्कणार्थकः । शब्दार्थज्ञानविकल्पस्यैव तस्मिन्सूत्रे विकल्पशब्दार्थावगमात् । सूक्ष्मो विचार इति । तत्रैवालम्बने कारणत्वादिनानुगता ये प्रकृतिमहदहङ्कारपञ्चतन्मात्ररूपा भूतेन्द्रिययोः सूक्ष्मा अर्थास्तदाकारत्वात्सूक्ष्मो यश्चित्तस्याभोगः सूक्ष्मगताशेषविशेषसाक्षात्कारः स विचार इत्यर्थः । विशेषेण चरणं सूक्ष्मवस्तुपर्यन्तमिति विचारस्तेनानुगतो युक्तो निरोधो विचारानुगतनामा योग इति भावः । सविचारनिर्विचारौ चास्य विचारस्यावान्तरभेदौ वक्ष्यति, तत्र च विचारशब्दो मन्दचरणार्थकस्तान्त्रिकपरिभाषा वा । तद्भाष्ये सूक्ष्मविषयकसमाधेः कार्याद्युपरागस्यैव विचारशब्दार्थत्वावगमात् । आनन्दोह्लाद इति । तत्रैवालम्बने यश्चित्तस्य विचारानुगतभूम्यारोहात्सत्त्वप्रकर्षेण जायमाने ह्लादाख्यसुखविशेषे आभोगः साक्षात्कारो भवति स आनन्दविषयकत्वादानन्द इत्यर्थः । तेनानुगतो युक्तो निरोध आनन्दानुगतनामा योग इति भावः । तदानीं चानन्दगोचर एवाहं सुखीति चित्तवृत्तिर्भवति न सूक्ष्मवस्तुष्वपीति विचारानुगतात् विशेषः । तथा च गीता ।

सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥

तं विद्याद् दुःखसंयोगं वियोगं योगसञ्ज्ञितम् । इति ।

आनन्दस्य च सानन्दनिरानन्दत्वेन भेदो नास्ति सूत्रभाष्ययोरवक्ष्यमाणत्वादिति । अत्र कश्चित् ह्लादो ह्लादवानिन्द्रियवर्गः । तथा च इन्द्रियाकारत्वादिन्द्रियरूपो यश्चित्तस्याभोगः साक्षात्कारः स आनन्द इत्यर्थं वदति । तन्न । एतादृशलक्षणायां प्रमाणादर्शनात् । इन्द्रियस्यापि स्थूलतया तत्राभोगस्यापि वितर्कमध्य एव प्रवेशाच्च कारणत्वमेव सत्यत्वमिति भाष्ये वक्ष्यमाणत्वेन केवलविकृतित्वरूपस्यास्थूलत्वस्येन्द्रियसाधारण्यादिति । किञ्च इन्द्रियगोचरसम्प्रज्ञातस्यानन्तानुगतत्वे सति परोक्तरीत्या तत्रापि वृत्त्युपरागानुपरागाभ्यां सानन्दनिरानन्दरूपावान्तरविभागसम्भवात्तदवचनेनागामिसूत्रभाष्ययोर्न्यूनता स्यात् । अस्मद्व्याख्याने चावान्तरविभागो न सम्भवतीति न तदवचनन्यूनता । यत्तु ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनतासमापत्तिरितिसूत्रे ग्राह्यात्पृथगिन्द्रियेषु सम्प्रज्ञातो वक्ष्यते तत्प्रकारान्तरेण सम्प्रज्ञातस्याखिलविषयसङ्कलनार्थमेव न तु वितर्कानुगतविचारानुगताभ्यामिन्द्रियसमापत्तेरानन्दानुगतरूपभेदमभिप्रेत्य ,तथा तातात्पर्यग्राहकलिङ्गाभावादिति दिक् ।

एकात्मिका संविदस्मितेति । एकशब्दोत्र केवलवाची एकात्मिका एक एवात्मा अस्यां विषयत्वेनास्तीत्येकात्मिका । तथा चोक्तम् । एकालम्बने या चित्तस्य केवलपुरुषाकारा संवित् साक्षात्कारोऽस्मीत्येतावन्मात्राकारत्वादस्मितेत्यर्थः । सा च जीवात्मविषया परमात्मविषया चेति द्विधा वक्ष्यते तेनानुगतो युक्तो निरोधोऽस्मितानुगतनामा योग इति भावः । अस्य अस्मिताया अपि सास्मितनिरस्मितरूपो विभागो नास्ति, सूत्रभाष्ययोरवक्ष्यमाणत्वात्, केवलपुरुषज्ञानस्य निर्विकल्पकमात्ररूपतया द्विविधत्वासम्भवाच्च । देहेन्द्रियाद्युपरागे तु सविकल्पानां योगानां वितर्कानुगतादिभूमित्रय एवान्तर्भावादिति । अत्र चास्मिताशब्दो विविक्तचेतनाकारतामात्रोपलक्षकत्वेनोदासीनभावेन य ईश्वरचेतनत्त्वसाक्षात्कारस्तस्यापि सङ्ग्रहः सोपाधिकेश्वरसम्प्रज्ञातस्य च विचारानुगते प्रवेशः । एताश्च सम्प्रज्ञातभूमय आनन्दानुगते विचारानुगते प्रवेश्य मोक्षधर्मवाक्येनोक्ताः ॥

वितर्कश्च विवेकश्च विचारश्चोपजायते । मुनेः समादधानस्य प्रथमं योगमादितः ॥ इति ।

प्रथमं योगं सम्प्रज्ञातं समादधानस्य कुर्वतः । आदितः क्रमाज्जायत इत्यर्थः ॥

योगारम्भे मूर्त्तहरिममूर्त्तमथ चिन्तयेत् । स्थूले विनिर्जितं चित्तं ततः सूक्ष्मे शनैर्नयेत् ॥ इति ।

स्मृतिद्वयं चास्मिन्नौत्सर्गिकक्रमे प्रमाणमिति । इदानीं संवेद्ये केवले ध्यानं न कुर्याद्रघुनन्दने’त्यादिस्मृत्यनुसारेण पूर्वपूर्वभूमिकासूत्तरोत्तरभूमिविषयस्य चिन्तनमुत्तरोत्तरभूमिषु च पूर्वपूर्वविषयस्य परित्यागं विदधाति । तत्र प्रथमश्चतुष्टयानुगत इत्यादिना । तत्र प्रथमः सवितर्को वितर्कानुगतः समाधिश्चतुष्टयानुगतो वितर्कादिचतुष्टयेनानुगतो भवति । तप्तायःपिण्डवदेकीभावेन स्थूलसाक्षात्कारे पुरुषपर्यन्तानां सर्वेषामेव भानात् । अत्र च विचारादित्रयविषयग्राहकतामात्रेण विचारादित्रयानुगतत्वं विवक्षितमन्यथा साङ्कर्यापत्तेः । वितर्कानुगते समाधौ केवलात्मपर्यन्तसाक्षात्काराभावाच्च । एवमुत्तरेष्वपि बोध्यम् । द्वितीय इति । द्वितीयो विचारानुगतो वितर्कविकलः वितर्कभूमिजयात्तत्परित्यागेन तद्विषयविकलः । तृतीय इति । तृतीय आनन्दानुगतो विचारविषयेणापि विकलः । चतुर्थ इति । चतुर्थोऽस्मितानुगतस्तद्विकल आनन्देनापि विकल इत्यतोऽस्मितामात्र इत्यर्थः । असम्प्रज्ञातात्सम्प्रज्ञातस्य भेदमाह । सर्व एत इति । सालम्बनाः साधारणा एकाग्रवृत्तियुक्ता इति यावत् । समाधयो योगाः कार्यकारणयोरभेदादिति प्रागेव व्याख्यातम् ॥ १७ ॥ अथासम्प्रज्ञातः समाधिः किमुपायः किंस्वभावो वेति – वार्तिकम् योग-वार्त्तिकम्

क्रमप्राप्तमसम्प्रज्ञातमवतारयितुं पृच्छति । अथेति विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥ सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः। तस्य परं वैराग्यमुपायः। सालम्बनो ह्यभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनी क्रियते। स चार्थशून्यः। तदभ्यासपूर्वकं हि चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः सभाधिरसम्प्रज्ञातः ॥ १८ ॥ वार्तिकम् योग-वार्त्तिकम्

वृत्त्यापि विरम्यतामिति प्रत्ययो विरामप्रत्ययः परं वैराग्यं ज्ञानेऽप्यलम्बुद्धिर्ज्ञानमपि शाम्यत्वित्येवंरूपा तस्या अभ्यासात् पौनःपुन्याज्जायत इत्याद्यविशेषणार्थः । तथा चाद्यविशेषणेनोपायकथनं मध्येन लक्षणकथनमन्त्येन लक्ष्यकथनमन्योऽसम्प्रज्ञात इत्यर्थः । अन्त्यं विशेषणद्वयं व्याचष्टे । सर्वेति । समाधिर्योगः । आद्यविशेषणस्य पर्यवसितार्थमाह । तस्य परं वैराग्यमुपाय इति । नन्वेकाग्रतारूपोऽभ्यासोऽप्यत्र साक्षात्कारत्वं कथं न भवति सम्प्रज्ञात इवेत्याकाङ्क्षायामाह । सालम्बन इति । पुरुषपर्यन्तं कस्मिन्नप्यालम्बने चित्तस्यैकाग्रतारूपोऽभ्यासो नासम्प्रज्ञातस्य साक्षात्साधको भवति आलम्बनवृत्त्यविरोधित्वात् । अतः पुरुषख्यातिपर्यन्तास्वखिलवृत्तिषु अलम्बुद्धिरूपो विरामप्रत्ययः परवैराग्याख्य एवासम्प्रज्ञातेन साधनतयालम्बनीक्रियते आश्रीयते । स यतो निर्वस्तुको, नास्ति वस्तु चिन्तनीयं यत्रेत्यर्थः । ननु तस्य निर्वस्तुकत्वं कथं तदाश्रयणे हेतुस्तत्राह । स चार्थशून्य इति । सोऽप्यसम्प्रज्ञातो ध्येयार्थशून्यः अतोऽखिलध्येयवैराग्यमेव तत्र हेतुर्युक्त इत्यर्थः । सूत्रस्य फलितार्थमाह । तदभ्यासेति । कृतवैराग्याभ्यासं चित्तं निरालम्बनं निर्विषयमभावप्राप्तमिव वृत्तिरूपकार्याकारणात् मृतकवद्भवति इत्येषोऽवस्थाविशेष इत्यादेरयमर्थः । निर्बीज इति । संस्कारद्वारा जन्म बीजं ज्ञानकर्म तच्छून्यावस्थेत्यर्थः । संस्काराख्यसंसारबीजोन्मूलक इति वार्थः ॥ १८ ॥ स खल्वयं द्विविधः - उपायप्रत्ययो भवप्रत्ययश्च। तत्रोपायप्रत्ययो योगिनां भवति – वार्तिकम् योग-वार्त्तिकम्

असम्प्रज्ञातस्यापि निमित्तभेदात् द्वैविध्यं सूत्राभ्यां सूत्रकारो वक्ष्यति । तदेव द्वैविध्यं युक्तिसिद्धेन पूर्वाचार्योक्तक्रमेण दर्शयति तयोः सूत्रयोरवतारणाय । स खल्वयं द्विविध इति । सोयमसम्प्रज्ञातः, आगामिसूत्रस्य प्रज्ञापूर्वकत्वदर्शनात् । उपायप्रत्ययो वक्ष्यमाणश्रद्धाद्युपायकारणको योगिनामिह लोके भवति । इह लोके योगभ्रष्टानां च देवताविशेषतापन्नानां देवलोके भवप्रत्ययो जन्ममात्रकारणक इति क्रमः । तत्रोपायप्रत्ययं विस्तरेण वदिष्यन् सूत्रकारः सूचीकटाहन्यायेनादौ भवप्रत्ययं वदिष्यतीति सूत्रभाष्ययोः क्रमभेदो न दोषायेति मन्तव्यम् । उत्पत्तिक्रमानुसारेण सौत्रं क्रममुल्लङ्घ्य पूरयित्वात्वा सूत्रमुत्थापयति । तत्रेति । तत्रोपायप्रत्ययो योगिनां प्रकृष्टयोगानां भवति । स च पश्चाद्वक्ष्यत इति शेषः - भवप्रययो विदेहप्रकृतिलयानाम् ॥ १९ ॥ विदेहानां देवानां भवप्रत्ययः। ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्ति। तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति ॥ १९ ॥ वार्तिकम् योग-वार्त्तिकम्

भवो जन्म तदेव प्रत्ययः कारणं यस्येति विग्रहः । विदेहप्रकृतिलयानामिति विभज्य व्याचष्टे । विदेहानामिति । शरीरनैरपेक्ष्येण बुद्धिवृत्तिमतो विदेहा इति विभूतिपादे स्पष्टीभविष्यति । ते च महदादयो देवास्तेषां साधनानुष्ठानं विनैवासम्प्रज्ञातयोगो जन्ममात्रनिमित्तको भवति योनिसाद्गुण्येनौत्पत्तिकज्ञानात् । ते हि दैनन्दिनप्रलये कदाचिच्च सर्गकालेपि स्वसंस्कारमात्रोपगतेन चित्तेन संस्कारशेषेण निरोधावस्थेन चित्तेन कैवल्यपदमिव प्राप्नुवन्तो व्युत्थानकाले च स्वसंस्कारस्य देवभावप्रापकसंस्कारस्य विपाकं फलमैश्वर्यं भोगं प्रारब्धकर्मयन्त्रिता अतिवाहयन्ति अतिक्रामन्ति ततो मुच्यन्त इति शेषः । तथा च प्रकृतिलया इति । ईश्वरोपासनया प्रकृतिदेवतोपासनया वा ये ब्रह्माण्डं सावरणं त्यक्त्वा लिङ्गशरीरेण सह प्रकृत्यावरणे गताः तेऽत्रप्रकृतिलीनाः तेऽपि च असमाप्तकार्ये चेतसि स्वेच्छयैव प्रकृतिलीने संस्कारशेषे सति असम्प्रज्ञातयोगे कैवल्यपदमिव प्राप्नुवन्ति यावदधिकारशेषवशात् चित्तं पुनर्व्युत्थितं न भवति तस्यापि भवप्रत्यय इति शेषः । अधिकारसमाप्तौ च तेऽपिमुच्यन्त इत्याशयः । केचित्तु भवत्यस्यामितिभवोऽविद्या, तथाचेदं सूत्रमिन्द्रियादिप्रकृत्यन्तचिन्तकानामविद्याकारणकमसम्प्रज्ञातं वदन्तीत्याहुः । तन्न । परवैराग्यस्यासम्प्रज्ञातहेतुतया तस्याविदुष्यसम्भवात् । यच्च वायुपुराणे

दश मन्वन्तराणीह तिष्ठन्तीद्रियचिन्तकाः । भौतिकाश्च शतं पूर्णं सहस्रं त्वाभिमानिकाः ॥

बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः । पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ॥

निर्गुणं पुरुषं प्राप्य कालसङ्ख्या न विद्यते ।

इति वाक्यं, तद् इन्द्रियाद्युपासकानामनुत्पन्नज्ञानानां कर्मदेवानां तत्तत्पदावस्थितिकालमेव परिच्छिनत्ति न तु तेषामसम्प्रज्ञातसमाधिकालान् देहाद्यभावेन वृत्त्यभावकालान् वा इन्द्रियादिचिन्तामात्रेणासम्प्रज्ञातानुपपत्तेः वृत्त्यभावस्य कादाचित्कस्य प्रलयमरणादितुल्यत्वेनापुरुषार्थत्वाच्च इन्द्रियाद्युपासकानामिन्द्रियाद्यभिमानिसूर्यादिपद- प्राप्तेरेवान्यत्र फलवत्त्वाश्रवणाच्चेति ॥ १९ ॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥ उपायप्रत्ययो योगिनां भवति। श्रद्धा चेतसः सम्प्रसादः। सा हि जननीव कल्याणी योगिनं पाति। तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यमुपजायते। समुपजातवीर्यस्य स्मृतिरुपतिष्ठते। स्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते। समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते। येन यथार्थं वस्तु जानाति। तदभ्यासात्तत्तद्विषयाच्च वैराग्यादसम्प्रज्ञातः समाधिर्भवति ॥ २० ॥ वार्तिकम् योग-वार्त्तिकम्

उपायप्रत्ययमसम्प्रज्ञातं तदधिकारिणं चाह -

इतरेषां विदेहप्रकृतिलयातिरिक्तानां देवानां वा मनुष्यादीनां वा न जन्ममात्रादसम्प्रज्ञातो भवति किन्तु श्रद्धादिभ्यः प्रज्ञापर्यन्तेभ्य इत्यर्थः । सङ्क्षेपतः सूत्रवाक्यार्थमाह । उपायेति । उपायः श्रद्धादिः । श्रद्धादीन् पञ्च क्रमेण व्याचष्टे । श्रद्धा चेतस इत्यादिना । सम्प्रसादः प्रीतिः योगो मे भूयादित्यभिलाषा । सा च समर्था मातेव योगिनं पाति प्रतिबन्धसहस्राणि तिरस्कृत्य रक्षति, यथा योगभङ्गो न भवतीत्यर्थः । श्रद्धातश्च वीर्यं भवतीत्याह । तस्य हीति । श्रद्धधानस्य विवेके जीवेश्वरान्यतरयपुरुषतत्त्वज्ञाने योगसाधनेऽर्थितया वीर्यं प्रयत्नो धारणारूपो भवतीत्यर्थः । समुपजातेति । वीर्यतश्च स्मृतिर्ध्यानं ततश्चसमाधिर्योगस्य चरमाङ्गं भवति । तदेवं श्रद्धामूलकाद्धारणाद्यन्तङ्गत्रयात् सम्प्रज्ञातयोगे जायमाने प्रज्ञा जीवब्रह्मान्यतरात्मतत्त्वसाक्षात्काररूपो विवेक उपावर्त्तते, उपजायते येन विवेकेन यथार्थं वस्तु जानाति विषयीकरोति विद्वानित्यर्थः । तदेवं श्रद्धादीन् व्याख्याय तत्पूर्वकत्वमसम्प्रज्ञातस्य व्याचष्टे । तदभ्यासादिति । प्रज्ञाया अभ्यासात्तत्सिद्धा तद्विषयकादपि विरामप्रत्ययरूपादलम्बुद्ध्याख्याद्वैराग्यादसम्प्रज्ञातो भवतीति सूत्रार्थः ॥ २० ॥ ते खलु नव योगिनो मृदुमध्याधिमात्रोपाया भवन्ति। तद्यथा - मृदूपायो मध्योपायोऽधिमात्रोपाय इति। तत्र मृदूपायस्त्रिविधः – मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेग इति। तथा मध्योपायस्तथाऽधिमात्रोपाय इति। तत्राधिमात्रोपायानां – वार्तिकम् योग-वार्त्तिकम्

प्रसन्नसमाधिसिद्धौत्वतिशयेनोपायानुष्ठानं हेतुरिति सूत्रद्वयेन प्रतिपादनीयं, तयोरादिसूत्रमवतारयितुमुपक्रमते । ते खल्विति । उपायः श्रद्धादिः । तस्य मृदुत्वमल्पता,मध्यत्वं प्रसिद्धमेव, अधिमात्रत्वमतिप्रमाणता अतिशयितत्वमिति यावत् । संवेगश्चोपायानुष्ठाने शैघ्र्यम् । कश्चित् संवेगो वैराग्यमिति व्याचष्टे । तन्न । योगिनो नवधात्वानुपपत्तेः । उपायकार्यतया वैराग्यस्योपायमृदुत्वादिकं विहाय स्वातन्त्र्येण मृदुत्वाद्यसम्भवात् संवेगशब्दस्य वैराग्यवाचकत्वाभावाच्चेति तथामध्येति । मृदुसंवेगत्वादिरूपैस्त्रिविध इत्यर्थः । तथाधिमात्रोपाय इति । अधिकप्रमाणकोपायोऽपि मृदुसंवेगत्वादिरूपैस्त्रिविध इत्यर्थः । तत्र तेषु नवसु मध्ये, सूत्रेण सहान्वयः ॥ तीव्रसंवेगानामासन्नः ॥ २१ ॥ समाधिलाभः समाधिफलं च भवतीति ॥ २१ ॥ वार्तिकम् योग-वार्त्तिकम्

नवयोगिमध्ये चरमाणामेवासन्नोऽसम्प्रज्ञातो भवतीत्यर्थः । समाधिलाभः, तन्निष्पत्तिः । न केवलं समाधिरासन्नोऽपि तु मोक्षोऽपीत्याह । समाधिफलं चेति ।

‘विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि’ इत्यादिविष्णुपुराणादिभ्य इति भावः ।

अत्र कश्चित् अधिमात्रोपायानामिति सूत्रमध्ये न प्रवेशयति । तन्न । तथा सति संवेगस्य त्रिधा विभागेनैव सूत्रोपपत्तौ भाष्ये नवधा विभागप्रदर्शनवैयर्थ्यापत्तेः ॥ २१ ॥ मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥ मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति। ततोऽपि विशेषः। तद्विशेषादपि मृदुतीव्रसंवेगस्याऽऽसन्नः, ततो मध्यतीव्रसंवेगस्याऽऽसन्नतरः, तस्मादधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्यासन्नतमः समाधिलाभः समाधिफलं चेति ॥ २२ ॥ वार्तिकम् योग-वार्त्तिकम्

पूर्वसूत्रोक्तविशिष्टेऽन्तर्गतस्य तीव्रत्वस्य मृदुमध्याधिमात्रत्वेन त्रैविध्यात्ततोऽप्यासन्नादपि विशेषस्तरतमरूपो भवति । पूर्वसूत्रोक्तस्य नवमयोगिन इत्यर्थः । एतदेव व्याचष्टे - ततोऽपि विशेष इत्यन्तेन भाष्येण । फलितार्थमाह । तद्विशेषादपीति । तस्माद्विशेषादपि नवमस्य विविधस्यान्तिमानामासन्नतम इत्यर्थः । अपिशब्द आगामिसूत्रस्थसाधनापेक्षया । अत्र तीव्राधिमात्रसंवेगस्येत्यपपाठः । अधिमात्रतीव्र इत्युक्तभाष्यतोऽधिमात्रतीव्रसंवेगस्येत्येव पाठादिति ॥ २२ ॥ किमेतस्मादेवाऽऽसन्नतमः समाधिर्भवति। अथास्य लाभे भवत्यन्योऽपि कश्चिदुपायो न वेति – वार्तिकम् योग-वार्त्तिकम्

सूत्रान्तरमवतारयितुं पृच्छति । किमेतस्मादेवेति । किमेतस्मादेव तीव्रसंवेगस्याधिमात्रत्वादेवासन्नतमः समाधिर्भवतीत्यादिरर्थः । न वेति वैकल्पिकत्वार्थः । विकल्पमेव सिद्धान्तयति सूत्रेण ॥ ईश्वरप्रणिधानाद्वा ॥ २३ ॥ प्रणिधानाद्भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णात्यभिध्यानमात्रेण। तदभिध्यानमात्रादपि योगिन आसन्नतमः समाधिलाभः समाधिफलं च भवतीति ॥ २३ ॥ वार्तिकम् योग-वार्त्तिकम्

विशेष इत्यनेनान्वयः । प्रणिधानमत्र न द्वितीयपादवक्ष्यमाणं किन्तु असम्प्रज्ञातकारणीभूतसमाधिर्भावनाविशेष एव । तज्जपस्तदर्थभावनमित्यागामिसूत्रेणैवात्मप्रणिधानस्यात्र लक्षणीयत्वात् । तथाच सूत्रद्वयस्यायमर्थः । प्रज्ञान्तो यो योगोपायो जीवात्मपरमात्मसाधारणविषयक उक्तः तत्र जीवात्मप्रज्ञान्तस्योपायस्याधिमात्रतीव्रसंवेगत्वे सत्येवासन्नतमोऽसम्प्रज्ञातो भवति । परमात्मप्रज्ञान्तस्योपायस्य तु अधिमात्रतीव्रसंवेगत्वाभावेऽपि आसन्नतमोऽसम्प्रज्ञातो भवतीति । एवं च सति मुख्यकल्पानुकल्पभेदेन परमात्मजीवात्मप्रज्ञयोर्योगमोक्षहेतुत्वं बोध्यम् । उभयप्रज्ञयोरेव देहाद्यभिमाननिवर्त्तकत्वेन परवैराग्यद्वारकत्वसाम्येऽपि अतितीव्राभ्यासं विनापि परमात्मप्रज्ञाया आसन्नतमयोगहेतुतया श्रेष्ठात् । ‘ततःप्रत्यक्चेतनाधिगमोप्यन्तपयाभावश्चे’त्यागामिसूत्रेणाधिकद्वारकीर्त्तनात् । अत एव श्रुतिस्मृतीतिहासादिषु प्रायशो ब्रह्मज्ञानमेव मोक्षहेतुतयोपदिश्यते, कदाचिदेव तु स्वातन्त्र्येण जीवतत्त्वज्ञानमिति । यदि च उभयोरेव तुल्यवद्विकल्पः स्यात्तर्हि ‘‘तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’’ ‘‘तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतु’‘रित्यादिश्रुतयो व्याकुप्येरन् । तथा

स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपाप्रकटस्वरूपः । सर्वेश्वरः सर्वविशेषवेत्ता समस्तशक्तिः परमेश्वरात्मा ॥

प्रज्ञायते येन उदस्तदोषं शुद्धं परं निर्मलमेकरुपम् । सन्दृश्यते वाप्यवगम्यते वा तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ॥

इत्यादिस्मृतयोऽपि व्याकुप्येरन् । मुख्यकल्पत्वे तु, राजमार्ग एव मम इति वाक्यवत् तादृशवाक्यानां मुख्यसाधनपरतयोपपत्तिरिति दिक् । ननु जीवप्रज्ञा आसन्नतमयोगोत्पादनार्थमभ्यासस्यातितीव्रत्वमपेक्षते ईश्वरप्रज्ञा तु नापेक्षते इत्येव का युक्तिरित्याकाङ्क्षायामाह । प्रणिधानादित्यादि । ब्रह्मात्मना चिन्तनरूपतया प्रेमलक्षणभक्तिरूपाद्वक्ष्यमाणात्प्रणिधानादावर्जितोऽभिमुखीकृत ईश्वरस्तं ध्यायिनमभिध्यानमात्रेण अस्य समाधिमोक्षौ आसन्नतमौ भवेतामितीच्छामात्रेण रोगाशक्त्यादिभिरुपायानुष्ठानमान्द्येऽप्यनुगृह्णाति आनुकूल्यं भजते, अतस्तस्मादभिध्यानादपि प्रणिधाननिष्पत्त्यादिद्वारा योगिनामासन्नतमौ समाधिमोक्षौ भवत इत्यर्थः ॥ २३ ॥ अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति – वार्तिकम् योग-वार्त्तिकम्

ननु प्रधानपुरुषातिरिक्तं तत्त्वं नास्तीति त्वयाप्यभ्युपगम्यते तव चेश्वरो न प्रधानं चेतनत्वाद्यभ्युपगमात् । नापि पुरुषः, सर्वेषां पुरुषाणां चिन्मात्रस्वरूपत्वेनेश्वरत्वानीश्वरत्वयोः स्वतोऽसम्भवात् । नहि वैशेषिकादिवत् नित्येच्छादिमान् स्वत एवेश्वरस्त्वयाप्यभ्युपगम्यते । औपाधिकत्वे तूपाधिमुक्त्या पुरषाख्यजीवानामेवैश्वर्यमस्तु तत्परत्वेनैव श्रुतिस्मृत्युपपत्तेः । अतःप्रधानजीवातिरिक्त ईश्वरो नास्तीति साङ्ख्याक्षेपनिरासकतयोत्तरसूत्रमवतारयति । अथ प्रधानेति । क इत्याक्षेपे । अथ वा प्रकृतिपुरुषातिरिक्तस्येश्वरस्य किं लक्षणमिति प्रश्नेन लक्षणसूत्रमुत्थापयति । अथ प्रधानेति- क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥ अविद्यादय क्लेशाः। कुशलाकुशलानि कर्माणि। तत्फलं विपाकः। तदनुगुणा वासना आशयाः। ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते, स हि तत्फलस्य भोक्तेति। यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते। यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः। वार्तिकम् योग-वार्त्तिकम्

पुरुषविशेष एवेश्वरः, तथा चेश्वरस्य पुरुषेऽन्तर्भावस्तदुपाधेः प्रधानइति भावः । यच्चोक्तं सिद्धजीवमादायेश्वरप्रतिपादकश्रुतिस्मृत्योरुपपत्तिरिति तन्निराकरणार्थमपरामृष्ट इत्यन्तं विशेषणम् । क्लेशाद्यपरामृष्टतया श्रुतिस्मृतिगीत ईश्वरो न सिद्धजीवो भवितुमर्हति कादाचित्कक्लेशादिसम्बन्धादित्यर्थः । अपरामृष्टान्तं विशेषणं व्याचष्टे । अविद्यादय इति । अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशा इति वक्ष्यति । कुशलाकुशलसाधनत्वात् कुशलाकुशलानि धर्माधर्माः तयोः क्लेशकर्मणोः फलं विपाकः स च जात्यायुर्भोगाः । भोगश्चात्र विषयसत्त्वादिभिश्चित्तपोषणं शब्दाद्याकारवृत्तिर्वा न तु सुखाद्यनुभवः, ते च मनसि वर्त्तमाना इति वक्ष्यमाणात्स हि तत्फलस्य भोक्तेत्यनेन विपाकफलयोः सुखदुःखयोर्भोगस्य पुरुषे वक्ष्यमाणत्वाच्चेति । चित्तभूमौ शेरते इत्याशया वासनास्ताश्च विपाकानुगुणाःतत्कारणानि,यतस्तत्तच्छरीरसाध्यभोगवासनामुद्बोध्यैव कर्मणा विपाको दीयते इति । ननु क्लेशाद्यपरामृष्टत्वं सर्वपुरुषसाधारणमित्याशङ्क्याह । ते च मनसीति । एकस्यैवान्तःकरणस्य वृत्तिभेदाच्चातुर्विध्यमित्याशयेन पूर्वं चेतस्युक्ता अविद्यात्र मनस्युक्तेति बोध्यम् । तथा चायमर्थः । ते चाविद्यादयो यद्यपि मनस्येव सन्ति, न कुत्रापि पुरुषे, तथापि पुरुषे सांसारिके व्यपदिश्यन्त इति । अपदेशबीजं च स्वामित्वापरनामकं भोक्तृत्वमित्याह । सहीति । हि यस्मात् स पुरुषस्तस्य क्लेशादेः फलस्य सुखदुःखयोःस्वस्मिन्प्रतिबिम्बितयोर्भोक्ता भवतीत्यर्थः । स्वामित्वसम्बन्धेनाधारत्वे दृष्टान्तमाह । यथेति । तथा च राजा जयी, पुरुषो धनीत्यादिवदेव पुरुषः क्लेशादिमान्, सुखी, दुःखी, मूढ इत्यादिविद्वद्व्यवहार इति भावः । समवायसम्बन्धेन पुरुषे सुखादिमत्वबुद्धिरेवाविद्येति । एवं च सत्वाख्येन क्लेशसम्पर्केण शून्यता नान्यपुरुषेस्ति किं त्वीश्वर एवेत्याह । यो ह्यनेनेति । अनेन भोगेन क्लेशादिफलभेगेनेत्यर्थः । अत्रानेनेति विशेषणादीश्वरस्य भोगोऽस्तीत्यवधार्यते । सर्वविवेकग्रहणे सत्येव स्वोपाधिसुखसाक्षितामात्रं चिदवसानो भोग इति साङ्ख्यसूत्रात् । तथा च

उपद्रष्ट्रानुमन्ता च भर्त्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेस्मिन् पुरुषः परः ॥

इति गीताद्युक्तः परमेश्वरे भोग उपपद्यत इति । अत एवेश्वरस्यापि भोगप्रतिपादिका ऋतं पिबन्ताविति श्रुतिः यथाश्रुतैवोपपद्यते । अनश्नन्नन्यो अभिचाकशीतिति श्रुतिस्तु मुख्यमेव भोगं प्रतिषेधति, मुख्यभोगश्चाभिमानपूर्वकः सुखाद्यनुभवः, लोकैस्तत्रैव भोगव्यवहारात् “सत्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोग” इत्यागामिसूत्रेण तस्यैव लक्षयितव्यत्वात् । अथ वा जीवभोग्यदुःखादिभोक्तृत्वमेवानश्नन्नितिवाक्येन प्रतिषिध्यते । एकशरीरस्थत्वेन तद्भोगस्यैव प्रसक्तत्वादिति जीवन्मुक्तस्यापीश्वरसदृश एव भोगो दुःखभोगमात्रमीश्वराद्विलक्षणमिति । अपरामृष्टत्वं परामर्शशून्यता, तत्र परामर्शशब्दफलं प्रतिपादयितुं शङ्कते । कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः। ते हि त्रीणि बन्धनानि च्छित्त्वा कैवल्यं प्राप्ता ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी। यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवमीश्वरस्य। यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः सम्भाव्यते नैवमीश्वरस्य। स तु सदैव मुक्तः सदैवेश्वर इति। वार्तिकम् योग-वार्त्तिकम्

कैवल्यमिति । यदि क्लेशादिशून्य ईश्वरः श्रुतिस्मृतिभ्य एष्टव्यस्तर्हि कैवल्यं ज्ञानं प्राप्ता बहवो हिरण्यगर्भादयः केवलिनः केवलानां जीवन्मुक्तानामध्यक्षाः क्लेशादिशून्याः सन्ति त एवेश्वरतया श्रुत्यर्थाः सन्त्विति पूर्वपक्षिणो भावः । तथा च साङ्ख्यसूत्रं ‘मुक्तात्मनःप्रशंसासिद्धस्य वे’ति ।

‘‘आद्यस्तु मोक्षो ज्ञानेन द्वितीयो रागसङ्क्षयात् ।

कृच्छ्रक्षयात्तृतीयस्तु व्याख्यातं मोक्षलक्षणम्’’ इति पञ्चशिखाचार्यधृतवाक्ये च ज्ञानस्यापि कैवल्यमोक्षादिशब्दार्थत्वात्, हिरण्यगर्भादयोऽपि कैवल्यमुक्त्यादिमन्त उच्यन्ते । कैवलिन इति पाठे केवलस्यायमिति कैवलोऽत्र द्वितीयमेक्षरागादिक्लेशशून्यतेति । परिहरति । ते हीति । ते हि हिरण्यगर्भादयः प्राकृतिकानि बन्धनानि पूर्वस्थितानि छित्वैव मुक्ताः, न तु क्लेशादिपरामर्शशून्याः, ईश्वरस्तु सर्वदैव क्लेशात्मकबन्धनत्रयशून्यतया श्रुत्यादिसिद्ध इत्यर्थः । ईश्वरस्य सदा क्लेशादिशून्यत्वे मानं

तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः । कर्मात्मा पुरुषो योऽसौ मोक्षबन्धः स युज्यते ॥

इत्यादिवाक्यशतानि । निर्गुणो गुणाभिमानशून्यः गीतायां गुणाभिमानशून्यतयैव गुणातीतत्ववचनात् ।

‘परस्तु निर्गुणः प्रोक्तो ह्यहङ्कारयुतोऽपर’ इति नारदीयादिष्वपि ईश्वरजीवयोरिच्छादिसाम्येऽपि तदनभिमानाभिमानाभ्यां निर्गुणसगुणत्वसिद्धेश्च । बन्धनत्रयं चोक्तं साङ्ख्ये, प्रकृतिलयानां प्राकृतिको बन्धः । विदेहानां वैकारिको बन्धः । दिव्यादिव्यविषयभाजां दक्षिणाबन्ध इति । तत्राद्योऽष्टप्रकृतिष्वभिमानरूपः । द्वितीयः शब्दादिविषयरागः । तृतीयो गृहस्थानां कर्मदक्षिणादानाध्ययनादिष्वनुरागः । तथा चोक्तम् -

‘प्रकृतेर्बत बन्धेन तथा वैकारिकेण च ।

दक्षिणाभिस्तृतीयेन बद्धोजन्तुर्विवर्त्तत’ इति ।

ईश्वरस्य क्षुद्रेश्वरेभ्यो वैलक्षण्यं बन्धापरामर्शरूपं विवृणोति । यथा मुक्तस्येति । निरस्ताविद्यस्येत्यर्थः । प्रज्ञायते निश्चीयते सम्भाव्यत इति प्रकृतिलीनस्याभिमानसम्बन्धेन पश्चाद्बन्धसम्भावनेति भावः । सदैव मुक्त इति । दुःखशून्य इत्यर्थः । सदैवेश्वर इति । सदैवाप्रतिहतेच्छयायुक्तः । अत्र केचित् सदैवेश्वर ऐश्वरशक्तिमानित्यर्थः । नहि वेदान्तिभिरिव प्रलये योगैरपि ईश्वरस्य नित्यमिच्छादिकमभ्युपगन्तुं शक्यते प्रकृतेर्गुणसाम्यरूपत्वाभ्युपगमविरोधात् इत्येकदेशिनः । तन्न । यतो -

‘नैवाहस्तस्य न निशा नित्यस्य परमात्मन’ इत्यादिवाक्यशतैरीश्वरसत्त्वस्य नित्यमेव ज्ञानेच्छादिकं यथाश्रुतभाष्यानुरोधाच्च विसदृशपरिणामाभावरूपाच्च साम्यावस्थानिच्छेत्यादिमन्नित्यसत्त्वव्यक्तिसत्त्वेऽप्युपपद्यत इति स्वकार्याकरणमेव च तस्य द्विपरार्द्धान्तलय इति, किं बहुना ‘आत्मा वा इद मेक एवाग्र आसीन्नान्यत् किं चकिञ्चन मिषदि’ति श्रुत्या प्राग्लये परमात्मनोर्थद्रष्टृत्वं सिद्धमत ईश्वरोपाधेर्ज्ञानलक्षणा वृत्तिः प्रलयेऽप्यस्ति न चोपाधिवृत्तिं विनैवेशस्य ज्ञातृत्वमेष्टव्यं. बाधकं विना दृष्टानुसारत्यागानौचित्यात् । ज्ञानशक्तिरहं परेति प्रकृत्यभिमानिदेवतावाक्यविरोधाच्च । किं चैत’त्तमो वा इदमेकमास तत्परे स्यात् तत्परेणेरितं विषयत्वं याती’त्यादिश्रुतिष्वेव परमेश्वरप्रयत्नेनैव गुणवैषम्यं श्रूयते, तथा ।

प्रकृतिं पुरुषं नैव प्रविश्यात्मेच्छया हरिः । क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ ॥

इत्यादिना प्रकृतेर्वैषम्यहेतुः, क्षोभोऽपीश्वरेच्छात एव । स्मर्यते च, अतः साम्यावस्थायामप्यगत्येश्वरोपाधेर्ज्ञानादि स्वीकार्यमिति । अपि च एवं सति प्रलये स्वसङ्कल्पेन स्वोपाधिं स्वस्माद्वियोज्येश्वरः शेते पूर्वसर्गीयसङ्कल्पसंस्काराभ्यां च सर्गादावुपाधिरीश्वरेण सह स्वयं संयुज्यते इत्यभ्युपेयं, तच्चायुक्तं तस्य हेतुरविद्येत्यागामिसूत्रेणाविद्याया बुद्धिपुरुषसंयोगहेतुत्ववचनेनेश्वरस्याप्यविद्वत्त्वापत्तेः । न चाहार्यज्ञानरूपाविद्यया संयोगः स्यात् सा चाविद्या मायेति न कस्याः क्लेशत्वमिति वाच्यम् । संयोगहेत्वविद्याया विवेकख्यातिनाश्यत्वबोधकसूत्रविरोधात् । किञ्च सूत्रकारेण

क्लेशकर्मविपाकाद्यैर्वासनाभिस्तथैव च । ह्यपरामृष्टमेवाह पुरुषं हीश्वरं श्रुतिः ॥

इति योगियाज्ञल्क्यादिभिश्चेश्वरोपाधौ संस्कारस्य प्रतिषिद्धत्वात्, तदभ्युपगमोऽपि तेषामपसिद्धान्त एव, तथा आगामिसूत्रप्रतिषिद्धं कालावच्छिन्नत्वं स्यात् उपाधिवृत्यभावेनैव चेतनस्य कालानवच्छिन्नत्वात् इत्यादीन्यत्र दूषणानि सन्ति, तस्मात् प्रलये निरुद्धोऽप्युपाधिः पूर्वसर्गीयसङ्कल्पवासनाभ्यां स्वयं व्युत्थितो भवतीति यच्छास्त्रं तद्दैनन्दिनप्रलये योगनिद्रया शयानस्य स्वयम्भोरुपाधिपरमेव न परमेश्वरोपाधिपरमिति दिक् ।

शास्त्रप्रामाण्यसिद्धौ शास्त्राद्यर्थोक्तेश्वरसिद्धिरीश्वरसिद्धौ चैतत्प्रत्यक्षपूर्वकतया शास्त्रप्रामाण्यसिद्धिरित्योन्याश्रयं मन्वानो नास्तिक ईश्वरे प्रमाणमस्ति न वेति पृच्छति । योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विन्निर्निमित्त इति। तस्य शास्त्रं निमित्तम्। शास्त्रं पुनः किन्निमित्तं, प्रकृष्टसत्त्वनिमित्तम्। वार्तिकम् योग-वार्त्तिकम्

योसाविति । सर्वपुरुषाणां स्वत एकरूपतयैश्वर्यमुपाधिधर्म एवेति प्रतिपादयितुं प्रकृष्टसत्त्वोपादानादित्युक्तं, प्रकृष्टसत्त्वसम्बन्धात्तदुपाधिकः शाश्वतिको नित्य उत्कर्ष ऐश्वर्यमित्यर्थः । ईश्वरस्य चोपाधौ प्रमाणं’ ‘कार्योपाधिरयं जीवः कारणोपाधिरीश्वर’ इति श्रुत्यादयः । ‘तदैक्षत’ ‘सोकामयत’ ‘तदात्मानं स्वयमकुरुत’ ‘स एको ब्रह्मण आनन्द’ इति श्रुत्याद्युक्तस्य आनन्दान्तस्य ब्रह्मणि स्वतोनुपपत्तिश्च । साक्षी चेता केवलो निर्गुणश्चेत्यादिश्रुतिभिरीश्वरस्य निर्गुणत्वचिन्मात्रत्वसिद्धेरिति । सनिमित्तकः सप्रमाणकः । उत्तरं, तस्य शास्त्रं निमित्तमिति । शास्त्रं श्रुतिस्मृतीतिहासपुराणानि । पुनः पृच्छति । शास्त्रं पुनरिति । शास्त्रस्यैव प्रामाण्यं कुत इत्यर्थः । उत्तरं, प्रकृष्टसत्त्वनिमित्त इति । ईश्वरस्योपाधिर्यत्प्रकृष्टसत्त्वं तत्प्रत्यक्षरूपवाक्यार्थज्ञानजन्यत्वाच्छास्त्रस्य प्रामाण्यमित्यर्थः । नन्वेवमन्योऽन्याश्रयः शास्त्रप्रामाण्ये सिद्धे प्रकृष्टसत्त्वसिद्धिः, तत्सिद्धौ च तन्मूलकतया शास्त्रप्रामाण्यसिद्धिरिति चेन्न । मन्त्रायुर्वेदप्रामाण्यत ईश्वरसिद्धेः प्रागेव शास्त्रस्य प्रामाण्यसिद्धेः, प्रकृष्टसत्त्वस्य च शास्त्रप्रामाण्यनिर्वाहकतामात्रमत्रोक्तमिति । तथा च न्यायसूत्रं ‘मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्य’मिति । एतयोः शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिः सम्बन्धः। एतस्मादेतद्भवति सदैवेश्वरः सदैव मुक्त इति। तच्च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम्। न तावदैश्वर्यान्तरेण तदतिशयते। यदेवातिशयि स्यात्तदेव तत्स्यात्। तस्माद्यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वर इति। न च तत्समानमैश्वर्यमस्ति। कस्मात्, द्वयोस्तुल्ययोरेकस्मिन्युगपत्कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्वित्येकस्य सिद्धावितरस्य प्राकाम्यविघातादूनत्वं प्रसक्तम्। द्वयोश्च तुल्ययोर्युगपत्कामितार्थप्राप्तिर्नास्ति। अर्थस्य विरुद्धत्वात्। तस्माद्यस्य साम्यातिशयैर्विनिर्मुक्तमैश्वर्यं स एवेश्वरः। स च पुरुषविशेष इति ॥ २४ ॥ वार्तिकम् योग-वार्त्तिकम्

एतयोरिति । विषयत्वेन समवायसम्बन्धेन च परमेश्वरसत्त्वे वर्त्तमानयोरेतयोः शास्त्रोत्कर्षयोरनादिर्निमित्तनैमित्तिकभावः सम्बन्धः शास्त्रं नैमित्तिकं सत्त्वोत्कर्षश्च निमित्तं कारणत्वादित्यर्थः । ततः किमित्याकाङ्क्षायामाह । तस्मादिति । सदैवेश्वरः प्रलयेपि ज्ञानेच्छाकृतिमान् सदैव मुक्तोऽनादिकाले क्लेशाद्विमुक्तश्चेत्यर्थः । ईश्वरस्याद्वितीयत्वमपि प्रतिपादयति । तच्चेति । नास्ति साम्यमतिशयश्चयस्मात् तादृशमित्यर्थः । अतिशयनिर्मुक्तौ हेतुमाह । न तावदिति । उक्ते हेतुमाह । यदेवेति । यस्माद्धेतोर्यदेवातिशयि निरतिशयं तदेव तत ऐश्वर्यं स्यादिति योजना । सातिशयत्वे सत्यैश्वर्यमेव न भवति अप्रतिहतेच्छत्वस्यैवाभावात् । अतो यदेव निरतिशयि तदेव मुख्यमैश्वर्यमित्यर्थः । उपसंहरति । तस्मादिति । ऐश्वर्येण यत्र काष्ठा प्राप्यते स ईश्वर इत्यर्थः । साम्यनिर्मुक्तौ हेतुमाह । न चेति । द्वयोरिति । नवमल्पकालस्थायि पुराणं दीर्घकालस्थायि । एवमस्त्वित्येवंरूपेणैकस्मिन्नर्थे क्वचिद्द्वाभ्यां तुल्याभिमताभ्यां कामिते सति एकस्य सिद्धौ सङ्कल्पसिद्धावितरस्येच्छाविघातादूनत्वं न्यूनस्य स्यादतो न समानानेकेश्वरसम्भव इत्यर्थः । ननूभयोः सङ्कल्पान्नवत्वं पुराणत्वं चोभयमेव भवतु, तत्राह । द्वयोश्चेति । तस्य पुरुषविशेषत्वमुपसंहरति । स चेति । स्यादेतत् । यदि प्रकृष्टसत्त्वोपादानादेव शाश्वतिको जीवेभ्य उत्कर्षश्चेतनविशेषस्य त्वयाप्यभ्युपगतस्तथा जीवानामप्यपकर्षो मलिनकार्यसत्त्वनिमित्तक इत्यर्थादागतः । तथा च श्रुतिरपि

‘कार्योपाधिरयं जीवः कारणोपाधिरीश्वर’ इति ।

तर्हि किमर्थं पुरुषविशेष ईश्वर इत्युच्यते एकस्यैवात्मन आकाशस्येवोपाधिभेदैर्जीवेश्वरादिविभागसम्भवेन लाघवादैकात्म्यकल्पनस्यैवौचित्यात्’ ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’

‘आकाशमेकं हि यथा घटादिषु पृथग्भवेत् ।

तथात्मको ह्यनेकश्च जलाधारेष्विवांशुमानि’त्यादिश्रुतिस्मृतिशतैरात्मैक्यस्यैव प्रतिपादितत्वाच्च ।

भेदाभेदोभयश्रुतिस्मृतिमध्ये भेदनिन्दयाऽभेदज्ञानस्य मोक्षफलकत्वकथनेन चाभेदवाक्यान्येव स्वार्थपराणि भेदवाक्यानि त्वनुवादमात्राणीति । अत्रोच्यते । जीवेश्वरयोरंशांशिनोस्तावद्व्याप्यव्यापकभावस्वीकारेण जीवोपाधिनावच्छेद्यस्यात्मप्रदेशस्येश्वरोपाध्यवच्छिन्नत्वं वक्तव्यं, तथा च, यथा ब्रह्माण्डाकाशस्य गर्दभमुखावच्छेदेन दुस्स्वरत्वं, यथा वा पाय्यवच्छेदेनौपाधिकं दुर्गन्धत्वमेवं कारणसत्त्वावच्छिन्नचिदाकाशस्यापीश्वरस्य जीवोपाद्यवच्छेदेन संसारित्वं स्यात् । यदि च जीवेश्वरौ चैतन्यस्यैवांशौ, न तु जीव ईश्वरस्य साक्षादंशोऽतो घटकुण्डाकाशवदेवान्योऽन्यव्यावृत्तौ जीवेश्वरौ स्वीक्रियेतां तदापीश्वरस्य जीवान्तर्यामित्वानुपपत्तिः, जीवप्रदेशेपीश्वरासत्त्वादिति । एवमेव सर्वजीवानामप्यैक्यं न सम्भवति, एकस्यैव चिदाकाशस्यैकान्तः करणाद्विमुक्तेऽपि प्रदेशे संसार्यन्तःकरणान्तरसम्बन्धात् बन्धप्रसङ्गेन श्रुत्युक्तबन्धमोक्षादिव्यवस्थानुपपत्तेः, न ह्याकाशस्य भग्नघटप्रदेशेष्वन्यघटसम्बन्धो न भवतीति नियमः सम्भवति, प्रत्यक्षविरोधात्, पर्यायैश्चैकस्मिन्नेव देशेऽनेकलिङ्गदेशसम्बन्धस्य समानदेशीयभोगेनानुमानाच्च । तदेतदुक्तं कपिलाचार्यैः ।

‘जन्मादिव्यवस्थातः पुरुषबहुत्वमुपाधिभेदेऽप्येकस्य नानायोग आकाशस्येव घटादिभिरित्यादि’सूत्रैरिति । ननूपाधिविशिष्टयोरेव जीवेश्वरत्वे वक्तव्ये इति चेत्, न । विकल्पासहत्वात् । विशिष्टानतिरेके जीवेश्वरत्वं बन्धमोक्षादिसाङ्कर्यतादवथ्यात् । अतिरेके च तदनित्यं नित्यं वा । आद्ये विनाशितया तस्य बन्धमोक्षाद्यनुपपत्तिः । अन्त्ये वृश्चिकभिया पलायमानस्याशीविषमुखनिपातः । यदि हि विशिष्टा अनेक आत्मानः कल्पनीयास्तर्हि अस्मासूपन्यस्तगौरवं भवतामप्यापति तमधिकं तु सामान्यैकात्मकल्पनमिति । न चात्माद्वैतश्रुत्यनुरोधेनतदप्युचितमिति वाच्यम् । विशिष्टात्मभ्यः सामान्यात्मनोऽत्यन्तभेदे तत्त्वमस्याद्यभेदवाक्यानुपपत्तितादवस्थ्यात् । अत्यन्तमभेदे च विशिष्टातिरिक्तताविरोधात् । भेदाभेदे चास्मन्मतप्रवेशादिति, अस्माभिरपि हि सामान्यरूपेणाभेदो वैधर्म्यलक्षणभेदनिरासायेष्यते विशेषतस्तु भेद इति । तथा चोक्तं कपिलाचार्यैः । ‘नाद्वैतश्रुतिविरोधो जातिपरत्वा’दिति । एवं तावदवच्छेदवादो निरस्तः । प्रतिविम्बवादस्त्वत्यन्तं विकल्पासहः । प्रतिबिम्बस्य तुच्छत्वे प्रतिबिम्बरूपजीवस्य ब्रह्मणा सहाभेदानुपपत्तिः सदसतोरभेदानुपपत्तेः । अतुच्छत्वे चात्मनानात्वस्य शब्दभेदेन स्वीकारापत्तिरद्वैताद्यनुपपत्तिश्चेति । अत्र च मूढानामुपर्युपरि कक्षाः ब्रह्ममीमांसाभाष्येऽस्माभिर्निराकृताः । तत्त्वमस्यादिवाक्यानि तत्र विस्तरेण व्याख्यातानि सङ्क्षेपतस्त्वत्रापि व्याख्यास्यामः । न्यायानुग्रहेण बलवद्भिरग्निविस्फुलिङ्गादिभिः सांशदृष्टान्तैः विरोधादाकाशसूर्यादिदृष्टान्ता अखण्डतापरा न भवन्ति, किन्तु ब्रह्मणि सर्वजीवानामविभागलक्षणाभेदस्य सर्वकालस्यापि तथा पारमार्थिकत्वेपि यत्किञ्चिदवच्छेदेन फेनबुद्बुदादिवत् अतिभङ्गुरस्य विभागलक्षणभेदस्यापारमार्थिकस्यौपाधिकत्वमात्रं प्रतिपादयन्तीति । एतेन भेदनिन्दावाक्यानि प्रकरणभेदैर्विभागवैधर्म्यादिभेदपराण्येव । यच्चोक्तमभेदज्ञानान्मोक्षः श्रूयत तत्परम्परयैव न तु साक्षात् । ’अथात आदेशो नेति नेति’ ’न ह्येतस्मादिति नेत्यन्यतरमस्ति’

प्रधानपुरुषव्यक्तकालानां परमं हि तत् । पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम् ॥

इत्याद्यैः श्रुतिस्मृतिवाक्यैर्विवेकाख्यभेदज्ञानस्यैव मुख्यत्वात् ॥

परमात्मात्मनोर्योगः परमोऽर्थ इतीष्यते । मिथ्यैतदन्यद् द्रव्यं हि नैति न द्रव्यतां यतः ॥

इति विष्णुपुराणादिष्वत्यन्ताभेदस्यापि निन्दितत्वाच्चेति । किं बहुना

अन्यश्च राजन् प्रवरस्तथान्यः पञ्चविंशकः ॥

तस्थत्वाच्चानुपश्यन्ति एक एवेति साधवः ॥

इति मोक्षधर्मादिष्वन्योन्याभावाविभागरूपतयैव भेदाभेदयोर्व्याख्यातत्वेन भेदवाक्याभेदवाक्ययोरर्थनिर्णये नाधुनिककुतर्कापेक्षेति दिक् ॥ २४ ॥ किं च – वार्तिकम् योग-वार्त्तिकम्

पुरुषान्तरेभ्य ईश्वरस्य निरतिशयसार्वज्ञरूपविशेषान्तरं प्रतिपादयन् सूत्रमवतारयति । किं चेति । तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥ यदिदमतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सर्वज्ञबीजमेतद्विवर्धमानं यत्र निरतिशयं स सर्वज्ञः। अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात्परिमाणवदिति। यत्र काष्ठाप्राप्तिर्ज्ञानस्य सु सर्वज्ञः। स च पुरुषविशेष इति। वार्तिकम् योग-वार्त्तिकम्

बीजं लिङ्गं सर्वज्ञानुमापकं वक्ष्यमाणं यत्सातिशयजातीयं ज्ञानं तत्तत्रेश्वरे निरतिशयमित्यर्थः । सार्वज्ञबीजमिति पाठेप्ययमेवार्थः । यत्तु बीजं कारणं, तथा च सर्वज्ञत्वकारणं सत्त्वमिति तस्यार्थ इति कश्चित् । तन्न । ज्ञानस्य बह्वल्पतयोरेव बीजतयात्र भाष्यकारैर्व्याख्यास्यमानत्वादिति व्याचष्टे । यदिदमिति । यत् अतीतानागतवर्तमानानां प्रत्येकसमुच्चितानामतीन्द्रियार्थानामल्पं बहुत्वं ग्रहणं ज्ञानमिदं सर्वज्ञबीजमित्यर्थः । कथं बीजं तदाह । तदिति । एतत्सर्वज्ञबीजं सातिशयज्ञानं विवर्धमानं यत्र निरतिशयं भवति ससर्वज्ञोऽन्यथानवस्थानादिति युक्तिरुक्ता । प्रयोगमप्याह । अस्तीति । सर्वज्ञबीजं सातिशयज्ञानं क्वचित्प्राप्तकाष्ठं सातिशयत्वात् परिमाणवदित्यर्थः । अत्र बाधकाभावे सतीति हेतुर्विशेषणीयस्तेन गुरुत्वसंस्काररूपादिषु न व्यभिचारस्तेषां चैकत्र काष्ठाप्राप्तौ कार्यमात्रे अतिशयित्वमेव बाधकं सामग्र्यस्तारतम्याव्यवस्थित्या कार्यतारतम्ये व्यवस्थानुपपत्तेः । ज्ञानेच्छापरिमाणानां तु नित्यानामपि सिद्धतया क्वचित् काष्ठाप्राप्तौ नास्ति बाधकम् । वस्तुतस्तु यथाश्रुतभाष्यादनवस्थापत्तेश्च गुरुत्वादिष्वप्यतिशयानां क्वचित्काष्ठानुमीयते सामग्रीतारतम्यकाष्ठाया अप्यनवस्थापत्यैवानुमानसाम्यात्, अतो न हेतौ विशेषणापेक्षेति । अस्मिंश्चानुमाने श्रुत्यादिस्तर्क इति, सूत्रतात्पर्यमाह । यत्रेति । ननूक्तानुमानेन सामान्यतः सर्वज्ञपुरुषसिद्धावपि तस्य सञ्ज्ञाविशेषः कथमवधार्यत इत्याकाङ्क्षायामाह । सामान्यमात्रोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थमिति। तस्य सञ्ज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या। तस्याऽऽत्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम्। ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामीति। तथा चोक्तम् – आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद्भगवान्परमर्षिरासुरये जिज्ञासमानाय तत्रं प्रोवाचेति ॥ २५ ॥ वार्तिकम् योग-वार्त्तिकम्

सामान्येति । सामान्यमात्रेणोपसंहारे निश्चये कृतपर्यवसानमनुमानं न सञ्ज्ञादिविशेषप्रतिपादनक्षममित्यत इत्यादिरर्थः । सञ्ज्ञा ब्रह्मान्तर्यामिपरमात्मादिरूपा आदिशब्देन पूर्णानन्दत्वपरमकारुणिकत्वपारमार्थिकात्मत्वजगदाधारकारणत्वादयो ग्राह्याः । हरिहरादिसञ्ज्ञामूर्त्तयस्तु शक्तिशक्तिमदाद्यभेदेनोपासनार्थमेव परमेश्वरस्योच्यन्ते न तु साक्षादेव ॥

ब्रह्मविष्णुशिवा ब्रह्मन् प्रधाना ब्रह्मशक्तयः । ततो न्यूनाश्च मैत्रेय देवा दक्षादयस्ततः ॥

ब्रह्मविष्णुशिवादीनां यः परः स महेश्वरः । इत्यादिवाक्येभ्यः ।

आगमतो वेदान्ततः । यत्त्वाधुनिकाः केचन परस्य साक्षादपि लीलाविग्रहं कल्पयन्ति । तदप्रामाणिकं विष्ण्वादीनामेव लीलावतारश्रवणात् । विष्ण्वादीनां च परमात्मन्येवाहम्भावात्तेषामवतारा एव परमेश्वरावतारतया श्रुतिस्मृतिषूच्यन्ते, तेन तु ते भ्रान्ताः ‘न तस्य कार्यं करणं च विद्यते’ इत्यादिश्रुतिभ्यः परमेश्वरस्य कार्यकारणाख्यशरीरद्वयप्रतिषेधात् । ‘अनादिमत्परम्ब्रह्म सर्वदेहविवर्जित’मित्यादिस्मृतिभ्यश्चेति दिक् ॥ ननु नित्यमुक्तश्वरादीश्वरस्तर्हिपुरुषार्थाभावात् तस्य प्रवृत्तिर्न घटते । तथा च साङ्ख्यसूत्र’स्वोपकारादधिष्ठानं लोकव’दितीति पूर्वपक्षः । तन्न । प्रवृत्त्यादिनित्यत्वात्वात् तत्र निमितापेक्षा नास्तीतिमुख्यसमाधाने सत्यपि प्रौढा प्रकारान्तरेणापि समाधानमाह । तस्मात्सेति । आत्मानुग्रहः स्वोपकारः । तस्येश्वरस्य स्वोपकाराभावेऽपि भक्तान्पुरुषानुद्धरिष्यामीत्याशयेन ज्ञानधर्मयोरुपदेशतो भक्तभूतानुग्रहः प्रयोजनं,पुरुषाणां विशेषणं कल्पेत्यादि । कल्पप्रलयेषु दैनन्दिनप्रलयेषु महाप्रलयेषु प्राकृतप्रलयेषु च संसारिणः स्वकारणगामिनोऽतस्तदा मरणदुःखभाज इत्यर्थः । ननु स्वेष्टसाधनताज्ञानाभावे कथं व्यापारः स्यादिति चेन्न । तृणारणिमणिन्यायेन स्वेष्टसाधनताज्ञानपरदुःखज्ञानयोर्विजातीयेच्छाद्वयं प्रत्येव फलबलेन हेतुतायाः क्लृप्तत्वात् । तथा च ब्रह्मसूत्रं ‘लोकवत्तु लीलाकैवल्यम्’ इति । ननु तथापि भक्तानेवानुगृह्णाति, नान्यान् प्रत्युत तान्निगृह्णात्यपि स्वभक्तैश्वर्यदानेनेत्यतो वैषम्यादिना नेश्वरस्य नित्यमुक्तत्वं भवतीति चेत् । मैवम् । अग्नेरौष्ण्यस्वाभाव्यवत् विशुद्धसत्त्वे भक्तवशतास्वभावस्यापर्यनुयोज्यत्वात् । वैषम्यं च रागद्वेषाभ्यामेव भवति न तु प्रवृत्तिमात्रेणेति । अत एव गीता समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ इति । यच्च हिरण्यगर्भाद्यैश्वर्यदानात् अन्येषां दुःखं भवति तत्रापि हिरण्यगर्भादीनामेव वैषम्यं बीजम् । ईश्वरस्य तु परदुःखप्रहाणेच्छा, विद्यमानापि भक्तवशतया कुण्ठिता स्वकार्याय विलम्बेत इति सर्वं समञ्जसम् । यच्च सर्वेश्वरस्य कर्मसापेक्षतया वैषम्यं नैर्घृण्यं च ब्रह्ममीमांसासूत्रेणापाकृतं तत्राप्ययमेवाशयः । लोकानां विहितनिषिद्धरूपाणि कर्माणि देवानां सुखदुःखसाधनानि अत ईश्वरेणेव भक्तदेवेषु अपराद्धाय यत् दुःखं दीयतेऽनपराद्धाय सुखं तद्भक्तपारवश्यनिमित्तकमिति । स्वप्रयोजनाभावेपि विदुषां प्रवृत्तौ पञ्चशिखाचार्यवाक्यं साङ्ख्यस्थं प्रमाणयति । तथा चोक्तमिति । आदिविद्वान् स्वयम्भूः सर्गादावाविर्भूतो विष्णुर्निर्माणचित्तं योगबलेन स्वनिर्मितं चित्तमधिष्ठाय स्वांशेन प्रविश्य कपिलाख्यपरमर्षिर्भूत्वा कारुण्यात् जिज्ञासवे आसुरये तत्त्वं प्रोवाचेत्यर्थः ॥ २५ ॥ स एषः – वार्तिकम् योग-वार्त्तिकम्

परमेश्वरस्यापरं विशेषं प्रतिपादयति सूत्रकारः- पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥ पूर्वे हि गुरवः कालेनावच्छिद्यन्ते। यत्रावच्छेदार्थेन कालो नोपावर्तते स एष पूर्वेषामपि गुरुः। यथाऽस्य सर्गस्याऽऽदौ प्रकर्षगत्या सिद्धस्तथाऽतिक्रान्तसर्गादिष्वपि प्रत्येतव्यः ॥ २६ ॥ वार्तिकम् योग-वार्त्तिकम्

पूर्वेषां पूर्वपूर्वसर्गाद्युत्पन्नानां ब्रह्मविष्णुमहेश्वरादीनामपि गुरुः पितान्तर्यामी विद्ययाज्ञानचक्षुःप्रदश्च । कुतः । कालेनानवच्छेदात् । ब्रह्मादयो हि द्विपरार्द्धादिकालेनावच्छिन्नाः कालानवच्छिन्नं गुरुं विना न सम्भवन्तीत्यर्थः । ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’इत्यादिश्रुतिभ्य इति भावः । न च प्रकृतिस्वातन्त्र्यक्षतिः । निमित्तमप्रयोजकं प्रकृतीनामित्यागामिसूत्रात् निमित्तकारणस्येश्वरादेस्तत्स्वातन्त्र्याविघातकत्वात् । एतदेव व्याचष्टे । पूर्वे हीति । अवच्छेदशब्दार्थेनावच्छेदप्रयोजनेन कालेनापावर्तते न सम्बध्यते । तात्पर्यार्थमाह । यथास्येति । अस्य वर्त्तमानस्य सर्गस्यादौ पूर्वं प्रकर्षगत्या ज्ञानोत्कर्षप्राप्त्या स्वतःसिद्ध इत्यर्थः । अत्रेश्वरस्य सर्वजीवपितृत्ववचनात् श्रुत्युक्ताग्निविस्फुलिङ्गदृष्टान्तानुसारेण च जीवब्रह्मणोरंशांशिभावस्तयोरभेदश्च पितापुत्रवदेवेति भावः । तथा च स्मृतिः ।

यथा दीपसहस्राणि दीप एकः प्रसूयते । तथा जीवसहस्राणि स एवैकः प्रसूयते ॥

सलिले करकाश्मेव दीपोऽग्नाविव तन्मयः । जीवो मौढ्यात् पृथग्बुद्धो युक्तो ब्रह्मणि लीयते ॥ इत्यादिः ।

अयं चाभेदो नाखण्डता अपि त्वविभाग एव, “अविभागो वचनादि"ति वेदान्तसूत्रेण जीवानां ब्रह्मण्यविभागलक्षणाभेदस्यैव वचनात् । अविभागश्च दुग्धं जलमभूदित्यादिप्रत्ययनियामकः स्वरूपसम्बन्ध आधारतादिवत्, किं वा लक्षणानन्यत्वमिति । अनेन पितृत्वान्तर्यामित्वरूपेण गुरुत्वेन जीवानामप्यात्मेश्वर इति वेदन्तमहावाक्यार्थोऽपि सूचितः । यो हि यस्यांशी अधिष्ठाता वा भवति स तस्यात्मेति दृष्टं, यथा सूर्यश्चक्षुषः यथा वा जीवो देहस्येति दिक् ॥ २६ ॥ तस्य वाचकः प्रणवः ॥ २७ ॥ वाच्य ईश्वरः प्रणवस्य। किमस्य सङ्केतकृतं वाच्यवाचकत्वमथ प्रदीपप्रकाशवदवस्थितमिति। वार्तिकम् योग-वार्त्तिकम्

ईश्वरशब्दार्थो विस्तरेणव्याख्यात इदानीं तत्प्रणिधानं व्याख्यातुमादौ प्रणिधानाङ्गं मन्त्रं दर्शयति-

तस्येश्वरस्य प्रणवो नामेत्यर्थः ।

अदृष्टविग्रहो देवो भावग्राह्यो मनोमयः । तस्योङ्कारः स्मृतो नाम तेनाहूतः प्रसीदति ॥ इति योगियाज्ञवल्क्यादिभ्यः ।

अदृष्टविग्रहोऽद्भुतशरीरो देवः परमात्मा भावग्राह्यो भक्तिमात्रग्राह्यो मनोमयो मनस्तुल्यकारणोपाधिशबलोऽयःशबलाग्निवदित्यादिरर्थः । कर्त्तव्यविचारोपयोगिनमर्थं पूरयति । वाच्य ईश्वर इति । नित्य एव प्रणवेन सहेश्वरस्य वाच्यवाचकभाव इति । श्रद्धातिशयोत्पादनाय संशयपूर्वकमवधरयति । किमस्येति । ईश्वरप्रणवयोर्वाच्यवाचकता शक्तिः किमस्येश्वरस्य सङ्केतेनाहार्यान्योन्याध्यासरूपेण कृता आगन्तुकी यथा पिण्डविशेषे देवदत्तादिनामवाच्यता पितृसङ्केतकृता तद्वत् । अथवा प्रदीपस्य प्रकाशवत्स्वाभाविकी यावद्द्रव्यभाविनीत्यर्थः । विमृश्य सिद्धान्तमाह । स्थितोऽस्य वाच्यस्य वाचकेन सह सम्बन्धः। सङ्केतस्त्वीश्वरस्य स्थितमेवार्थमभिनयति। यथाऽवस्थितः पितापुत्रयोः सम्बन्धः सङ्केतेनावद्योत्यते, अयमस्य पिता, अयमस्य पुत्र इति। सर्गान्तरेष्वपि वाच्यवाचकशक्त्यपेक्षस्तथैव सङ्केतः क्रियते। सम्प्रतिपत्तिनित्यतया नित्यः शब्दार्थसम्बन्ध इत्यागमिनः प्रतिजानते ॥ २७ ॥ वार्तिकम् योग-वार्त्तिकम्

स्थित इति । अर्थसम्बन्धमेवाभिनयति प्रकाशयतीत्यर्थः । स च शक्त्याख्यसम्बन्ध आधाराधेयवत्स्वरूपसम्बन्धोऽतिरिक्तपदार्थ एव वास्तु घटादिनाम्नामप्येवं बोध्यं देवदत्तादिनाम्नां तु नैवं यतः पुरुषसङ्केतभेदेनार्थभेदा भवन्तीति । सङ्केतेनेति । अयमस्य पितेत्याद्येवंरूपेणेत्यन्वयः । ननु शक्तिनित्यत्वेऽपि कदाचित्सङ्केतभेदाद्देवदत्तादिशब्दवदर्थभेदोऽपि प्रणवस्य स्यादित्याशङ्कायामाह । सर्गान्तरेष्वपीति । अयं सङ्केतो लौकिको न भवति अपि तु सर्वज्ञाश्चेतनाशक्तिं पूर्वसिद्धामनुसृत्यैव सङ्केतं कुर्वन्तीत्याशयः । सम्बन्धनित्यत्वे सम्प्रतिपत्याख्यकार्यनित्यत्वं प्रमाणयति । सम्प्रतिपत्तीति । देवदत्तादिशब्दवद्वाच्यवाचकभावस्थानित्यत्वे कदाचित्सङ्केतवैपरीत्येन व्यवहारवैपरीत्यमपि स्यादित्याशयः । तथा च सति सर्वत्र शब्दार्थेऽनाश्वासः स्यादित्यागमिनः प्रतिजानते अवधारयन्तीति समग्रवाक्यार्थेनान्वयः ॥ २७ ॥ विज्ञातवाच्यवाचकत्वस्य योगिनः – वार्तिकम् योग-वार्त्तिकम्

प्रणिधानाङ्गमन्त्रं प्रदर्श्य साङ्गप्रणिधानस्य स्वरूपं सूत्रकारो वक्ष्यति तत्सूत्रं पूरयित्वोत्थापयति । विज्ञानेति । सूत्रेण सहान्वयः- तज्जपस्तदर्थभावनम् ॥ २८ ॥ प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम्। तदस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतश्चित्तमेकाग्रं सम्पद्यते। तथा चोक्तम् – स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत्। स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते ॥ इति ॥ २८ ॥ वार्तिकम् योग-वार्त्तिकम्

सूत्रार्थं व्याचष्टे । प्रणवस्येति । प्रणवजपेन सह ब्रह्मध्यानं प्रणिधानं, तच्च वाच्यवाचकभावं ज्ञात्वा कर्त्तव्यमिति समुदायार्थः । ‘प्रणवेन परं ब्रह्म ध्यायीत नियतो यति’रिति स्मरणादिति । प्रणवार्थश्चावान्तरभेदैः श्रुत्यादिषु बहुधोक्तः सङ्क्षेपात्तु गारुडोक्तोऽर्थोत्र कथ्यते’ यथा गारुडे

व्यक्ताव्यक्ते च पुरुषस्तिस्रो मात्राः प्रकीर्त्तिताः ।

अर्धमात्रा परं ब्रह्म ज्ञेयमध्यात्मचिन्तकैः ॥ इति । प्रणवार्थचिन्तनं च मुख्यतो द्विविधं, तत्रैकमंशांशिकार्यकारणशक्तिशक्तिमदाद्यभेदेन तप्तायःपिण्डवदविभागलक्षणैकीभावादहं ब्रह्म सर्वं खलु ब्रह्मेत्यादिरूपं भवति, तमेतमात्मानमोमिति ब्रह्मणैकीकृत्य ब्रह्म चात्मनोमित्येकीकृत्येत्यादि श्रुतेः । सर्वं खल्विदं ब्रह्म तज्जलानितिशान्त उपासीतेत्यादिश्रुतेश्च ।

एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो, नास्ति परं ततोन्यत् ।

सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ॥ इत्यादिस्मृतेश्च ।

अपरं प्रकृतितत्कार्यपुरुषेभ्यो विवेकेन केवले ब्रह्मचिन्मात्रे आत्मत्वचिन्तनम् । ओमित्येवं ध्यायथ आत्मनं स्वस्ति वः पाराय तमसः परस्मात् । अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति तमेवैकं जानथ आत्मानं आत्मेत्येवोपासीतेति श्रुतेः ॥

प्रकृतिं पुरुषे स्थाप्य पुरुषं ब्रह्मणि न्यसेत् । अहं ब्रह्म परं ज्योतिः प्रसङ्ख्याय विमुच्यते ॥

यः सर्वभूतचित्तज्ञो यश्च सर्वहृदि स्थितः ।

यश्च सर्वान्तरे ज्ञेयः सोहमस्मीति चिन्तयेद् ॥ इति गारुडादिभ्यश्च ।

तथा ‘आत्मेति तूपयन्ति ग्राहयन्ति चे’ति ब्रह्ममीमांसासूत्राच्च । अत्र गारुडवाक्ये पुरुषस्य ब्रह्मणि न्यासो लय एव न त्वभेदः ॥

विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् । ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥

इत्यादिवाक्येषु जीवविलापनेन ब्रह्मात्मचिन्तनस्य स्मरणात्, प्रकृतिस्थापनसाहचर्याच्च । अम्बरदृष्टान्तश्च नाखण्डत्वे

यथाग्निरग्नौ सङ्क्षिप्तः समानत्वमनुव्रजेत् । तथात्मा साम्यमभ्येति योगिनः परमात्मना ॥

इत्यादिवाक्योक्तस्याग्निवायुजलादिबुहलदृष्टान्तस्य साम्यस्य च विरोधात् न्यानुग्रहेणाग्न्यालयादिदृष्टन्तानामेव बलवत्त्वाच्च । किन्तु एकरूपस्योपाधिकमिथ्याविभागनिवृत्तिमात्रे इति, विलापनेन च प्रकृत्यादिवज्जीवानामनात्मत्वमेव लभ्यते । तदुक्तं मात्स्ये

तत्त्वैः सम्पादितं भुङ्क्ते पुरुषः पञ्चविंशकः । ईश्वरेच्छावशात्सोपि जडात्मा कथ्यते बुधैः ॥

इति । मोक्षधर्मे च

ते चैनं नाभिनन्दति पञ्चविंशकमप्युत । षड्विंशमनुपश्यन्तः शुचयस्तत्परायणाः ॥

इति । एतेन प्रकृतिपुरुषौ विलाप्य यच्छिष्टं ब्रह्म तस्मिन्नेवाहम्भावे वचनाच्च न जीवे मुख्योऽहंशब्द इति, ध्यानयोश्चिन्तनयोर्मध्ये प्रथमचिन्तनमुपासना द्वितीयं तत्त्वज्ञानमिति । ब्रह्मात्मताज्ञानं चातिदुर्लभं, मोक्षधर्मे चोक्तं

भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरामयाः । ऐकात्म्यं नाम कश्चिद्धि कदाचित्प्रतिपद्यते ॥ इति दिक् ।

ईश्वरप्रणिधानादिति पञ्चम्युक्तमसम्प्रज्ञातपर्यन्तयोगहेतुत्वं तत्सम्प्रणिधानस्य येन द्वारेण तदाह । तदस्येति । प्रणिधानादिभिश्चैकाग्रो भवति ततश्च परमात्मसाक्षात्कारः ततः परवैराग्यादसम्प्रज्ञातयोग इति शेषः ।

स्वाध्याययोगसम्पत्या परमात्मा प्रकाशत इति वक्ष्यमाणवाक्यस्वरसात् ।

उक्तार्थे स्वपितुर्वाक्यं विष्णुपुराणस्थं प्रमाणयति । तथा चोक्तमिति । योगजपयोरेकदा न सम्भव इति योगस्याद्यन्तयोर्व्युत्थानकाले जप उक्तः । ननु परमात्मसाक्षात्कारात् परवैराग्यं भवतीति यदुक्तं तन्नोपपद्यते, आत्मसाक्षात्कारेणैवाभिमाननिवृत्या परवैराग्यसम्भवादिति । अत्रोच्यते । ब्रह्मज्ञानं ताटस्थ्येनात्र न विवक्षितं किन्त्वात्मत्वेनैव, तथा च जीवात्मतत्वज्ञानाद् बुद्धियपर्यन्तमभिमाननिवृत्तिवत्परमात्मज्ञानात् जीवपर्यन्तेष्वभिमानो निवर्त्तते, पञ्चविंशतितत्त्वानि विलाप्यैव सोऽहमित्यात्मतयाऽधिष्ठानब्रह्मसाक्षात्कारादिति । नन्वेवं जीवस्याप्यनात्मत्वं प्रसक्तमिति चेत्, न । व्यावहारिकपारमार्थिकभेदेनात्मद्वयाभ्युपगमात् । आत्मत्वं हि सङ्घाताध्यक्षत्वं क्षेत्रज्ञत्वं च । तच्चेश्वरस्यैवास्ति ईश्वरत्ववत्, जीवात्मनां परतन्त्रत्वात् धर्माधर्माद्यज्ञातृत्वाच्च । जीवानां च चितिशक्तिमत्तामात्रेणैवात्मत्वं गौणं बुद्ध्याद्यापेक्षिकं च यथा हिरण्यगर्भादीनामीश्वरत्वं तद्वज्जीवानामात्मत्वं बन्धमोक्षभोगादिभागितया सिद्धं, लोकव्यवहारगोचरतया च व्यावहारिकमेव । एवमेवाहन्त्वंशब्दोऽपि परमात्मन्येव मुख्यो न तु जीवे, प्रयोगादिषु स्वातन्त्र्याभावेन प्रयोक्त्राऽऽत्मत्वादिरूपस्याहमादिशब्दप्रवृत्तिनिमित्तस्य जीवेष्वभावादिति । तथा चोक्तम् ।

त्वामात्मानं परं मत्वा परमात्मानमेव च । आत्मा पुनर्बहिर्मृग्य अहो ज्ञजनताज्ञता ॥

इति । परमनात्मानम् । यद्यपि जीवो मुख्यात्मा न भवति तथापि तज्ज्ञानादपि धर्माधर्मरागाद्विनिवृत्या मोक्षस्तुभवत्येवेति । एतेन व्यवहारपरमार्थभेदादैकात्म्यनानात्मतावादौ श्रुतिस्मृतिदर्शनेष्वविरुद्धावित्यपि सिद्धम् । अधिकं तु ब्रह्ममीमांसाभाष्ये विज्ञानामृते द्रष्टव्यमिति दिक् । तदिदमीश्वरप्रणिधानाद्वेत्यादिसूत्रगणोक्तमर्थजातं लिङ्गपुराणे स्पष्टं प्रदर्शितम् । यथा ।

अविद्ययेशस्य योगो नातीतो नाप्यनागतः । नाप्यस्त्यस्मितया चैवं रागेणापि त्रिकालता ॥

कालेषु त्रिषु सम्बन्धस्तस्य द्वेषेण नो भवेत् । तथैवाभिनिवेशेन सम्बन्धो न कदाचन ॥

कुशलाकुशलैश्चैव सम्बन्धो नैव कर्म्मभिः । भवेत् कालत्रये शम्भोरविद्यामतिवर्जनात् । विपाकैः कर्मणां तस्य न भवेदेव संयमः । कालेषु त्रिषु शर्वस्य शिवस्य शिवदायिनः ॥

सुखदुःखैर्न सम्म्पृश्यः कालत्रितयवर्तिभिः । तथैव भोगसंस्कारैर्भगवानन्तकान्तकः ॥

पुंविशेषः परो देवो भगवान् परमेश्वरः । चेतनाचेतनोन्मुक्तः प्रपञ्चादखिलात्परः ॥

लोके सातिशयत्वेन ज्ञानैश्वर्ये विलोकिते । शिवे नातिशयित्वेन स्थिते आहुर्मनीषिणः ॥

प्रतिसर्गं वस्तुभानं ब्रह्मणोऽशास्त्रविस्तरम् । उपदेशात्स एष्टव्यः कालावच्छेदवर्तिनाम् ॥

कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः । सर्वेषामपि सर्वेशः कालावच्छेदवर्जितः ॥

अनादिरेव सम्बन्धो विज्ञानोत्कर्षयोः परे । स्थितयोरीदृशः शर्वः परिशुद्धः स्वभावतः ॥

आत्मप्रयोजनाभावे परानुग्रह एव हि । प्रयोजनं समस्तानां क्रियाणां परमेष्ठिनः ॥

प्रणवो वाचकस्तस्य शिवस्य परमात्मनः । शिवरुद्रादिशब्दानां प्रणवो हि परः स्मृतः ॥

शम्भोः प्रणववाच्यस्य भावना तज्जपादपि । आशु सिद्धिः परा प्राप्या भवत्येव न संशयः ॥

एकं ब्रह्ममयं ध्यायेत्सर्वं विप्र चराचरम् । चराचरविभागं च त्यजेदहमिति स्मरन् ॥

सप्ताण्डावरणान्याहुरण्डस्यात्माम्बुजासनः । कोटिकोट्ययुतानीशे चाण्डानि कथितानि तु ॥

तत्र तत्र चतुर्वक्ता ब्रह्माणो हरयो भवाः । सृष्टाः प्रधानेन तथा प्राप्य शम्भोस्तु सन्निधिम् ॥

असङ्ख्याताश्च रुद्राख्या असङ्ख्याताः पितामहाः । हरयश्चाप्यसङ्ख्याता एक एव महेश्वरः ॥

ब्रह्मेन्द्रविष्णुरुद्राद्यैरपि देवैरगोचरम् । आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥

शिवतत्त्वमिति ख्यातं शिवादपि परं पदम् । इति ॥ २८ ॥ किं चास्य भवति – वार्तिकम् योग-वार्त्तिकम्

तदेवं जीवप्रज्ञाया इवेश्वरप्रणिधानादपि प्रज्ञाद्वारा योगस्तत्फलं मोक्षश्च भवतीत्युक्तमिदानीं तयोर्मध्ये ईश्वरप्रणिधानस्य मुख्यकल्पत्वं प्रतिपादयितुं तत्र द्वाराधिक्यं सूत्रेण प्रतिपादयति । किं चास्येति । अन्यच्चास्य प्रणिधानिनो भवतीत्यर्थः- ततः प्रत्यक्त्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥ ये तावदन्तराया व्याधिप्रभृतयस्ते तावदीश्वरप्रणिधानान्न भवन्ति। स्वरूपदर्शनमप्यस्य भवति। यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः केवलोऽनुपसर्गस्तथाऽयमपि बुद्धे प्रतिसंवेदी यः पुरुषस्तमधिगच्छति ॥ २९ ॥ वार्तिकम् योग-वार्त्तिकम्

तत ईश्वरप्रणिधानात्तत्साक्षात्कारद्वारा तद्दृष्टान्तेन जीवतत्वमप्यनायासेन पूर्णतया साक्षात्क्रियत इति प्रथमदलार्थः । अपिशब्द आसन्नतमसमाध्यपेक्षया । यद्यपि प्रति प्रतिवस्तु अञ्चति अनुगच्छतीति व्युत्पत्त्याऽसङ्कुचितसर्वानुगतः परमात्मैव मुख्यः प्रत्यक्शब्दार्थः ।

‘प्रत्यक् प्रशान्तं भगवच्छब्दसञ्ज्ञं यद्वासुदेवं कवयो वदन्ती’त्यादिष्वपीश्वरे प्रत्यक्प्रयोगदर्शनाच्च । तथापीश्वरादिशब्दवदेव प्रत्यक्शब्दोऽपि जीवे गौणो विभुत्वात् । अत एव प्रकृतिव्यावर्त्तनाय चेतनेत्युक्तम्’ यदि च प्रत्यक्शब्दः पश्चिमवाची तथापि सर्वप्रलयावधिभूते ब्रह्मण्येव मुख्योऽन्यत्र गौण इति । अन्तरायाभाव एकाग्रतासामान्यस्यैव फलमिति वक्ष्यते ‘तत्प्रतिषेधार्थमेकतत्वाभ्यास’इति सूत्रेणेत्यतो विशिष्टेश्वरप्रणिधानस्यान्तरायाभावफलकत्ववचनमनुवादकतया व्याचष्टे । ये तावदिति । अनुवादस्य च फलमाधिक्येन विघ्ननिवर्त्तकत्वलाभः । ‘तस्य ह न देवाश्च नाभूत्या ईशत आत्मा ह्येषां स भवती’ति श्रुत्या ब्रह्मात्मतादर्शिन इच्छाविघाते देवादीनामप्यसामर्थ्यप्रतिपादनादिति । अत एवोक्तं नारदीयादिष्वपि ।

तस्मान्मुमुक्षोः सुसुखो मार्गः श्रीविष्णुसंश्रयः । चित्तेन चिन्तयानेन वञ्च्यते ध्रुवमन्यथा ॥

धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि इत्यादि । स्वरूपदर्शनमिति । अस्य प्रतीचो जीवस्य यत्तात्त्विकं रूपं तस्य साक्षात्करोऽपि भवतीत्यर्थः । अन्यप्रणिधानेनान्यसाक्षात्कारेऽदृष्टद्वारवत्, दृष्टद्वारमप्यस्तीति प्रतिपादयन्नेव स्वरूपदर्शनं विवृणोति । यथैवेति । बुद्धेः प्रतिसंवेदी बुद्धिवृत्तिप्रतिबिम्बोद्ग्राही तत्साक्षीति यावत्, इदं च जीवब्रह्मणोरत्यन्ताभेदनिराकरणाय वैधर्म्यमुक्तं, यथैवेश्वरः शुद्ध्यादिगुणकस्तथायमपि यो बुद्धेः साक्षी पुरुष इत्येवमधिगच्छति, अवधारयति पुरुषत्वाविशेषादित्यर्थः । पुरुषश्चेतनः शुद्धः पापपुण्यविवर्जितः प्रसन्नो निर्दुःखः केवलश्चिन्मात्रोऽनुपसर्गो जात्यायुर्भोगरहित इति । तदेतदुक्तं नारदीये ।

मायाप्रवर्त्तके विष्णौ दृढा भक्तिः कृता नृणाम् । सुखेन प्रकृतेर्भिन्नं स्वं दर्शयति दीपवद् ॥ इति ॥ २९ ॥ अथ केऽन्तराया ये चित्तस्य विक्षेपाः। के पुनस्ते कियन्तो वेति – वार्तिकम् योग-वार्त्तिकम्

यद्यपि अंशिस्वरूपावधारणेनांशस्वरूपावधारणवदंशस्वरूपावधारणेनाप्यंशिस्वरूपावधारणं भवति अंशांशिनोरेकस्वरूपत्वस्यौत्सर्गिकत्वात्, प्रत्युत ईश्वरस्यावाङ्मनसगोचरतया स्वतत्त्वसाक्षात्कारादेव तदनुसारेणेश्वरे विवेकः सम्भवति नान्यथा । तथा च श्रुतिरपि । ‘यदात्मतत्त्वेन न तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्ये’दित्यादिः । तथापि जीवस्य पूर्णत्वनित्यत्वाद्यंश ईश्वरानुसारेणैव सुखेन ज्ञातुं शक्यत इत्याशयः । अत एव ‘तत्त्वमेव त्वमेव तत्’ इत्यादिश्रुतयः परस्परमेवावैधर्म्यलक्षणाभेदं प्रतिपादयन्ति । अन्योन्यदृष्टान्तेनान्योन्यधर्माणामन्योन्यस्मिन् अवधारणायान्तरायस्वरूपप्रतिपादकं सूत्रमवतारयति । अथेति । व्याध्यादेरन्तरायत्वोपपादनाय सूत्रे चित्तविक्षेपा इति वदिष्यति, तस्य व्याख्यानार्थं भाष्ये व्रक्रोक्तिः । विक्षेपाः विक्षेपकाः । सामान्येन दत्तोत्तरं विशेषसङ्ख्याभ्यां पुनः पृच्छति । के पुनरिति । व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चितविक्षेपास्तेऽन्तरायाः ॥ ३० ॥ नवान्तरायाश्चित्तस्य विक्षेपाः। सहैते चित्तवृत्तिभिर्भवन्ति। एतेषामभावे न भवन्ति पूर्वोक्ताश्चित्तवृत्तयः। व्याधिर्धातुरसकरणवैषम्यम्। स्त्यानमकर्मण्यता चित्तस्य। संशय उभयकोटिस्पृग्विज्ञानं स्यादिदमेवं नैवं स्यादिति। प्रमादः समाधिसाधनानामभावनम्। आलस्यं कायस्य चित्तस्य च गुरुत्वादप्रवृत्तिः। अविरतिश्चित्तस्य विषयसम्प्रयोगात्मा गर्धः। भ्रान्तिदर्शनं विपर्यज्ञानम्। अलब्धभूमिकत्वं समाधिभूमेरलाभः। अनवस्थितत्वं यल्लब्धायां भूमौ चित्तस्याप्रतिष्ठा। समाधिप्रतिलम्भे हि सति तदवस्थितं स्यादिति। एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इत्यभिधीयन्ते ॥ ३० ॥ वार्तिकम् योग-वार्त्तिकम्

चित्तविक्षेपकतयैतानि ते पूर्वसूत्रोक्ता अन्तराया इत्यर्थः । व्याचष्टे । नवेति । अन्वयव्यतिरेकाभ्यां चित्ते विक्षेपकत्वमेषां साध्यति । सहैत इति । सूक्ष्मकालानाकलनेन सहेत्युक्तम् । एतेषामव्यवधानेनैव व्याध्वादिगोचरा वा तन्निवृत्त्युपायगोचरा वा चित्तस्य वृत्तयो भवन्ति योगभ्रंशिका इत्यर्थः । व्याध्यादीन्नव क्रमेण व्याचष्टे । व्याधिरिति । शरीरधारकत्वात् धातूनां वातकफपित्तानां रसानामाहारपरिणामानां करणानां चक्षुरादिमनआदीनां च वैषम्यं विसदृशभावो व्याधिः । अकर्मण्यता योगानुष्ठानाक्षमता । आमवातादिना देहस्याकर्मण्यत्वेऽपि चित्तस्य योगाविरोधाच्चित्तस्येत्युक्तम् । संशयाकारमाह । स्यादिति । इदं गुरुशास्त्रोक्तं ज्ञानतत्साधनादि । अभावनमननुसन्धानम् । कायगुरुत्वं कफादिना चित्तगुरुत्वं तमसा, ताभ्यां हेतुभ्यामप्रवृत्तिः समाधिसाधनाननुष्ठानम् । सम्प्रयोगात्मा सन्निकर्षजन्यो गर्धोऽभिलाषः । विपरीतं ज्ञानं गुर्वादिप्रमितार्थविपरीतनिश्चयः । समाधिभूमेरिति । वक्ष्यमाणानां मधुमत्यादिभूमीनामेकतमस्या अपि साधनानुष्ठानेऽप्यलाभ इत्यर्थः । अप्रतिष्ठालाभेऽपि भ्रंशः । ननु लाभोत्तरं भ्रंशे का क्षतिरित्याशङ्कायामाह । समाधिप्रतिलम्भे हीति । प्रतिलम्भो निष्पत्तिर्ध्येयसाक्षात्कार इति यावत् । अयं भावः । साक्षात्कारपर्यन्तमेव चित्तस्य तत्तद्भूम्यवस्थानमपेक्षितमतोऽकृतसाक्षात्कारस्य योगारूढस्यापि भ्रंशोऽनवस्थितत्वमेव भवतीति । ‘आरूढयोगोऽपि निपात्यतेऽधः सङ्गेन योगी किमुताल्पसिद्धि’रित्यादिस्मृतिश्चात्र प्रमाणमिति । एतेषां तान्त्रिकान् सञ्ज्ञाभेदानाह । एत इति ॥ ३० ॥ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥ दुःखमाध्यात्मिकमाधिभौतिकमाधिदैविकं च। येनाभिहताः प्राणिनस्तदपघाताय प्रयतन्ते तद्दुःखम्। दौर्मनस्यमिच्छाविघाताच्चेतसः क्षोभः। यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम्। प्राणो यद्बाह्यं वायुमाचामति स श्वासः। यत्कौष्ठ्यं वायुं निःसारयति स प्रश्वासः। एते विक्षेपसहभुवो विक्षिप्तचित्तस्यैते भवन्ति। समाहितचित्तस्यैवे न भवन्ति ॥ ३१ ॥ वार्तिकम् योग-वार्त्तिकम्

न केवलमेते व्याध्यादयो योगान्तराया अपि तु दुःखादिरूपेष्वन्तरायान्तरेष्वपि हेतवो भवन्तीत्याह ॥

दुःखादीन्यत्र क्रमेण व्याचष्टे । दुःखमिति । आत्मानं स्वसङ्घातमधिकृत्य वर्त्तत इत्याध्यात्मिकं तच्च द्विविधं शारीरं मानसं च । शारीरं व्याध्यादिजनितं, मानसं कामादिजम् । भूतानि प्राणिनो व्याघ्रादीन् लक्षीकृत्य जायत इत्याधिभौतिकं व्याघ्राद्युत्थम् । देवानधिकृत्य जायत इत्याधिदैविकं शीतोष्णाद्युत्थमित्यर्थः । यद्यपि सर्वमेव विपक्षोद्भवं दुःखं मानसं तथापि प्राधान्येन मनोविकारजन्यत्वाजन्यत्वाभ्यां मानसत्वामानसत्त्वविभागः, विषयगतदुःखेषु चित्तविक्षेपाणामहेतुत्वात् दुःखसामान्यस्य त्रिविधा विभागो न घटते घटपटादिदुःखानामसङ्ग्रहात्, एवमन्यत्रापि । दुःखसामान्यलक्षणमाह । येनेति । क्षोभश्चाञ्चल्यम् । यदङ्गानीति । अङ्गकम्पोऽङ्गमेजयत्वमिति । प्राणेति । पुरुषप्रयत्नं विना स्वयमेव प्राणो यद्बाह्यं वायुमतिशयेनाचामति पिबति, शरीरान्तः प्रवेशयति स श्वासनामा विकार इत्यर्थः । कोष्ठ्यमुदरस्थं वायुं निःसारयति बहिः करोति । शेषं पूर्ववत् । सूत्रवाक्यार्थं व्याचष्टे । एत इति । विक्षेपसहभुवो व्याध्यादिविक्षेपोद्भवाः । तत्र हेतुमाह । विक्षिप्तेति ॥ ३१ ॥ अथैते विक्षेपाः समाधिप्रतिपक्षास्ताभ्यामेवाभ्यासवैराग्याभ्यां निरोद्धव्याः। तत्राभ्यासस्य विषयमुपसंहरन्निदमाह – वार्तिकम् योग-वार्त्तिकम्

विक्षेपानन्तरमेव जायन्ते विक्षेपनिवृत्तौ निवर्तन्त इत्यर्थः । नन्वेतेन्तरायाः सकार्याः किमीश्वरप्रणिधानमात्रनिरस्या अथ वा अन्योपायेनापि निरसितुं शक्या इत्याकाङ्क्षायामुत्तरं प्रयच्छति सूत्रान्तरावतारणाय । अथैत इति । अथ विक्षेपोत्पत्त्यनन्तरमेते विक्षेपा अभ्यासवैराग्याभ्यामित्यादिसूत्रोक्ताभ्यां सामान्याभ्यामेवाभ्यासवैराग्याभ्यां निरस्या न त्वीश्वरप्रणिधानादेवेति नियम इत्यर्थः । एतत्प्रतिपादकतयोत्तरसूत्रमवतारयति । तत्रेति । तयोरभ्यासवैराग्ययोर्मध्येऽभ्यासविषयं जीवेश्वरादिसाधारणं पिण्डीकृत्योपसंहरन् इदं मयोक्तं वक्ष्यमाणसूत्रेणाहेत्यर्थः । यदि हीश्वरप्रणिधानमेव केवलमन्तरायाभावहेतुरिति वक्ष्यमाणसूत्रार्थः स्यात्तदा एकतत्त्वाभ्यास इति सामान्योपसंहारो न युज्येत निस्सन्देहार्थमीश्वराभ्यास इत्येव वक्तुं युक्तत्वादिति भावः- तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥ विक्षेपप्रतिषेधार्थमेकतत्त्वावलम्बनं चित्तमभ्यसेत्। यस्य तु प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वमेव चित्तमेकाग्रं नास्त्येव विक्षिप्तम्। यदि पुनरिदं सर्वतः प्रत्याहृत्यैकस्मिन्नर्थे समाधीयते तदा भवत्येकाग्रमित्यतो न प्रत्यर्थनियतम्। वार्तिकम् योग-वार्त्तिकम्

एकं स्थूलादिकिञ्चित् । यत्तु एकतत्वशब्देनात्र परमेश्वर एवोक्त इति तन्न । बाधकं विना सामान्यशब्दस्य विशेषपरत्वानौचित्यात् । पूर्वसूत्रप्राप्तत्वेन पौनरुक्त्यापत्तेश्च । सर्वमेव चित्तमेकाग्रं नास्त्येव विक्षिप्तमित्यागामिभाष्यानुपपत्तेश्चेति । उक्तयोर्विक्षेपैकाग्रतयोर्वक्ष्यमाणपरिकर्मणश्चोपपत्तये चित्तस्य स्थिरतां साधयिष्यन् चित्तस्य क्षणिकत्वादिकं दूषयति । यस्य त्विति । यस्य तु वैनाशिकस्य मते चित्तं प्रत्यर्थनियतमर्थादर्थान्तरं न गच्छति तथा प्रत्ययमात्रं निराधारवृत्तिमात्रं तथा क्षणिकं च भवति तस्य मते सर्वमेव चित्तमेकाग्रमतो विक्षिप्तचित्तानुपपत्तिरित्यर्थः । तदनुपपत्तौ च तेषां स्वशिष्येभ्यः स्वशास्त्रेषु समाध्युपदेशो विफल एवेति भावः । एकस्य चित्तस्य क्रमेण नानार्थविषयकत्वस्वीकारे तु नायं दोष इत्याह । यदि पुनरिति । ततः किमित्यत आह । अतो नेति । योऽपि सदृशप्रत्ययप्रवाहेन चित्तमेकाग्रं मन्यते तस्यैकाग्रता यदि प्रवाहचित्तस्य धर्मस्तदैकं नास्ति प्रवाहचित्तं क्षणिकत्वात्। अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः, स सर्वः सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्वादेकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः। तस्मादेकमनेकार्थमवस्थितं चित्तमिति। वार्तिकम् योग-वार्त्तिकम्

योऽपि वैनाशिकविशेष उक्तदोषपरिहाराय मन्यते सदृशप्रत्ययप्रवाहरूपतैव चित्तस्यैकाग्रता, प्रवाहमध्ये विसदृशत्वं च विक्षेप इति, तस्य मतं योऽपीत्यादिनानूद्य विकल्प्य दूषयति । तस्येति । मत इति शेषः । क्षणिकत्वादिति । अत आश्रयाभावेनैकाग्रतानुपपत्तिरिति शेषः । नन्वतीतानागतवर्त्तमानासु सदृशप्रत्ययव्यक्तिषु त्रित्वादिवद्व्यासज्यवृत्तिरेकाग्रता भवत्विति चेन्न । अन्योन्यासमानकालीनेषु व्यासज्यवृत्तित्वासम्भवात् । क्षणिकवादिनां सामान्यधर्माभावेन सादृश्यस्य दुर्वचत्वाच्चेति । प्रवाहांशस्य प्रत्येकव्यक्तेरित्यर्थः । दूषयति । स सर्व इति । स सर्वः प्रवाहांशः सदृशप्रत्ययप्रवाहान्तःपाती वा विसदृशप्रत्ययप्रवाहान्तःपाती वा भवतु उभयथैव एकाग्रः चित्तस्य प्रत्यर्थनियतत्वादित्यादिरर्थः । अतः स्वसिद्धान्तमुपसंहरति । तस्मादिति । अवस्थितं स्थिरम् । परमते दूषणान्तरमाह । यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जायेरन्नथ कथमन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत्। अन्यप्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत्। कथञ्चित्समाधीयमानमप्येतद्गोमयपायसीयन्यायमाक्षिपति। वार्तिकम् योग-वार्त्तिकम्

यदि चेति । स्वभावभिन्नत्वेन नित्यभिन्नत्वेन त्वयाभ्युपगताः प्रत्ययायद्येकचित्तानाश्रिताः स्युरित्यर्थः । अथशब्दः प्रश्ने । अन्यप्रत्ययदृष्टस्येति । तन्मते चित्तातिरिक्तात्माभावादुक्तम् । उपचितस्य अर्जितस्य कर्माशयस्यादृष्टस्येत्यर्थः । नन्वेकसन्तानोत्पन्नत्वं नानुभवसंस्कारस्मृत्यादीनां कार्यकरणाभावाभ्युपगमेनायं दोषः परिहर्त्तव्य इत्याशङ्कायामाह । समाधीयमानमिति । गोमयं पायसं गव्यत्वादित्यादि न्यायमतदूषणं समाधीयमानमप्याक्षिपति तिरस्करोति । तन्न्यायापेक्षयाप्येतद्दूषणोद्धरणन्याय आभासीभूत इत्यर्थः । तत्र हि गव्यत्वं हेतुः प्रसिद्धोऽस्ति, अत्र त्वेकसन्तानीयत्वरूपो हेतुरप्यप्रसिद्धः सन्तानस्यैकतानिर्वाहकजात्याद्यनभ्युपगमादितिभावः । दूषणान्तरमाह । किं च स्वात्मानुभवापह्नवश्चित्तस्यान्यत्वे प्राप्नोति। कथं, यदहमद्राक्षं तत्स्पृशामि यच्चास्प्राक्षं तत्पश्यामीत्यहमिति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्यभेदेनोपस्थितः। एकप्रत्ययविषयोऽयमभेदात्माऽहमिति प्रत्ययः कथमत्यन्तभिन्नेषु चित्तेषु वर्तमानः सामान्यमेकं प्रत्ययिनमाश्रयेत्। स्वानुभवग्राह्यश्चायमभेदात्माऽहमिति प्रत्ययः। न च प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते। प्रमाणान्तरं च प्रत्यक्षबलेनैव व्यवहारं लभते। तस्मादेकमनेकार्थमवस्थितं च चित्तम् ॥ ३२ ॥ वार्तिकम् योग-वार्त्तिकम्

किञ्चेति । स्वस्य बौद्धस्य य आत्मविषयकानुभवस्तस्याप्यपलापश्चित्तस्य प्रतिक्षणमन्यत्वे सति प्रसज्यत इत्यर्थः । पृच्छति । कथमिति । उत्तरं, यदिति । अव्ययमहमो विशेषणम् । तथा च योऽहमद्राक्षं सोहं स्पृशामीत्यादिप्रत्ययेऽहमिति यः प्रत्ययांशः स सर्वस्य प्रत्ययस्य दर्शनस्पर्शनादिरूपस्यान्योन्यभेदे सति तदाश्रये प्रत्ययिनि धर्मिणि अभेदाकारतयाऽनुभवसिद्धोऽस्तीत्यर्थः । आत्मानुभवं व्याख्याय तदपह्नवं व्याचष्टे । एकप्रत्ययेति । अयं चैकप्रत्ययविषयः प्रत्ययव्यक्तिमात्रगोचरको भवन्मतेऽतो भेदाकारोहमिति प्रत्ययः कथं भवन्मतेऽत्यन्तभिन्नेषु क्षणिकचित्तेषु विषयत्वेन वर्तमानः सामान्यमेकं विषयीकुर्यादित्यर्थः । सर्वप्रत्ययानुगतधर्मिणः स्थिरचित्तस्यानभ्युपगमादिति भावः । ननु अभेदाकारोऽहम्प्रत्यय एवाप्रामाणिक इति, तत्राह । स्वानुभवेति । अभेदात्मा अभेदाकारः । ननु यत्सत्तत् क्षणिकमिति सत्त्वेन क्षणिकत्वानुमानादुक्तप्रत्ययो बाधनीयस्तत्राह । न च प्रत्यक्षेति । माहात्म्यं स्वार्थसाधकत्वं न तर्कादिशून्यप्रमाणान्तरेणाभिभूयते प्रतिबध्यते उपजीव्यजातीयत्वेनाबलवत्त्वादित्यर्थः । शङ्खः पीत इत्यादिप्रत्यक्षं तु तर्कयोगेन बलवतानुमानेनैव बाध्यते । एवं देहाद्यात्मताप्रत्यक्षमपि निर्णीतप्रामाण्येन शास्त्रेण सन्दिग्धप्रामाण्यतया दुर्बलं बाध्यत इति । ननु चित्तातिरिक्तात्मानभ्युपगमिनामयं दोषो न चास्तिकानाम् अहम्प्रत्ययस्य स्थिरात्मविषयकत्वाभ्युपगमादतः स्वमते कथं चित्तस्थैर्यसिद्धिरिति चेत्,पूर्वोक्तात्स्मृतिसंस्कारयोरेकाश्रयतानियमादित्यवेहि । तदिदं चित्तस्थैर्यमुपसंहरति । तस्मादिति । परिकर्मोपदेशान्यथानुपपत्त्यापि चित्तस्थैर्यमनुमीयते इत्याह । यस्येति । हेतुगर्भविशेषणेन, यस्य स्थिरचित्तस्येदमागामिसूत्रवक्ष्यमाणपरिकर्म चित्तप्रसाधनं स्थितिदार्ढ्यहेतुः परिष्कारः शास्त्रेषु निर्दिश्यत इत्यर्थः ॥ ३२ ॥ यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निर्दिश्यते तत्कथम् – वार्तिकम् योग-वार्त्तिकम्

सूत्रान्तरमुत्थापयितुं पृच्छति । कथमिति । किमुपायकं किंस्वरूपं किं फलं वा परिकर्म भवतीत्यर्थः । अत्र सूत्रेणैवोत्तरम्- मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चितप्रसादनम् ॥ ३३ ॥ तत्र सर्वप्राणिषु सुखसम्भोगापन्नेषु मैत्रीं भावयेत्। दुःखितेषु करुणाम्। पुण्यात्मकेषु मुदिताम्। अपुण्यशीलेषूपेक्षाम्। एवमस्य भावयतः शुक्लो धर्म उपजायते। ततश्च चित्तं प्रसीदति। प्रसन्नमेकाग्रं स्थितिपदं लभते ॥ ३३ ॥ वार्तिकम् योग-वार्त्तिकम्

प्रसादनं स्थितिनिबन्धनमित्यागामितृतीयसूत्रस्थेनान्वयः । अन्यथा तत्र सूत्रे वाशब्दवैयर्थ्यात् । निबन्धनत्वं च स्थित्यभ्रंशहेतुत्वं, तच्च स्थितिहेतुश्रद्धाद्यप्रतिबन्धद्वारा तत्रैव आगामिसूत्रे भाष्यव्याख्यानात् । श्रद्धावीर्यस्मृतिसमाधीनामेव स्थितिहेतूनामुक्तत्वाच्च । अत्र सुखादिशब्दस्तद्बाहुल्यलाभाय धर्मधर्म्यभेदात्सुखितावाची । भावना चोत्पादनं प्रसादनं समाधिप्रतिबन्धकरागद्वेषाधर्मादिमलापसारणं तोयादिप्रसादवदित्यर्थः । तत्र सर्वेति । मैत्रीं सौहार्दीं करुणां निरुपधिपरदुःखप्रहाणेच्छां, मुदितां प्रीतिमुपेक्षामौदासीन्यं, सर्वत्र भावयेदित्यन्वयः । भावनानां चित्तप्रसादे द्वारमाह । एवमस्येति । शुक्लः पापासभिन्नः ततो धर्मः, इतस्तमःक्षये चित्तं निर्मलं भवतीत्यर्थः । अदृष्टद्वारकत्वं चैतन्मुख्यत उक्तं रागद्वेषनिवृत्तिरूपदृष्टद्वारकत्वमपि बोध्यम् । तदुक्तं गीतायाम् ।

“रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥

प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठत” इति । ननु चित्तस्य प्रसादाख्यपरिकर्मणैव किं कार्यमित्याकाङ्क्षायामाह । प्रसन्नमिति । प्रसन्नं चित्तमेकाग्रं भूत्वा स्थिरपदमभ्रंशयोग्यतां लभत इत्यर्थः । स्थितिपदमिति पाठे स्थितिः स्थैर्यमित्यर्थः । एवं सर्वत्र ॥ ३३ ॥ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥ कौष्ठ्यस्य वायोर्नासिकापुटाभ्यां प्रयत्नविशेषाद्वमनं प्रच्छर्दनं, विधारणं प्राणायामस्ताभ्यां वा मनसः स्थितिं सम्पादयेत् ॥ ३४ ॥ वार्तिकम् योग-वार्त्तिकम्

प्रसादस्य साधनान्तरमाह-

वाशब्दोऽप्यर्थे । आभ्यामपि चित्तस्य प्रसादनं कुर्यादित्यर्थः । नासिकापुटाभ्यामिति । एकतरपुटेनेत्यर्थः । प्रयत्नविशेषादिति । सूक्ष्मरूपेण योगशास्त्रोक्तरीत्या, वमनं रेचनमित्यर्थः । विधारणं कुम्भकं तच्चार्थात्पूरणानन्तनरमिति बोध्यम् । रेचनोत्तरं पूरणं विना विधारणासम्भवात् । प्राणायाम इत्युत्तराच्च । ‘प्राणायामश्च विज्ञेयो रेचकपूरककुम्भका’ इत्यादिस्मृतिभिस्त्रयाणामेव मिलितानां प्राणायामत्वकथनादिति । प्राणायाम इति । एतद्द्वयं पूरणगर्भं प्राणायाम इत्यर्थः । प्रच्छर्दनविधारणे व्याख्याय समग्रसूत्रार्थमाह । ताभ्यामिति । स्थितिं भावयेत् । प्रसादद्वारेति शेषः । अत्र प्राणायामो यमादिनिरपेक्ष एवोत्तमाधिकारिणो योगसाधनतयोक्तः । द्वितीयपादे च मन्दाधिकारिणो व्युत्थितचित्तस्य यमाद्यष्टाङ्गमध्ये प्राणायामो वक्तव्य इत्यपौनरुक्त्यम् । तथा च स्मृतिः ‘प्राणायामैर्दहद्दोषान् धारणाभिश्च किल्बिष’मिति ॥ ३४ ॥ विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ ३५ ॥ नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित्सा गन्धप्रवृत्तिः। जिह्वाग्रे रससंवित्। तालुनि रूपसंवित्। जिह्वामध्ये स्पर्शसंवित्। जिह्वामूले शब्दसंविदित्येता वृत्तय उत्पन्नाश्चित्तं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधिप्रज्ञायां च द्वारी भवन्तीति। एतेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्यादिषु प्रवृत्तिरुत्पन्ना विषयवत्येव वेदितव्या। यद्यपि हि तत्तच्छास्त्रानुमानाचार्योपदेशैरवगतमर्थतत्त्वं सद्भूतमेव भवति, एतेषां यथाभूतार्थप्रतिपादनसामर्थ्यात् तथाऽपि यावदेकदेशोऽपि कश्चिन्न स्वकरणसंवेद्यो भवति तावत्सर्वं परोक्षमिवापवर्गादिषु सूक्ष्मेष्वर्थेषु न दृढां बुद्धिमुत्पादयति। तस्माच्छास्त्रानुमानाचार्योपदेशोपोद्बलनार्थमेवावश्यं कश्चिदर्थविशेषः प्रत्यक्षीकर्तव्यः। तत्र तदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयमपि आऽपवर्गाच्छ्रद्धीयते। एतदर्थमेवेदं चित्तपरिकर्म निर्दिश्यते। अनियतासु वृत्तिषु तद्विषयायां वशीकारसञ्ज्ञायामुपजातायां समर्थं स्यात्तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति। तथा च सति श्रद्धावीर्यस्मृतिसमाधयोऽस्याप्रतिबन्धेन भविष्यन्तीति ॥ ३५ ॥ वार्तिकम् योग-वार्त्तिकम्

प्रसादापेक्षया स्थितिनिबन्धनं परिकर्मान्तरमाह-

प्रकृष्टा वृत्तिः प्रवृत्तिः साक्षात्काररूपा, विषया गन्धादयः पञ्च विषयत्वेनास्याः सन्तीति विषयवती । सा च स्वसाधनादुत्पन्ना स्वाविषयेष्वपि विवेकपर्यन्तेषु श्रद्धाद्यप्रतिबन्धहेतुतया स्थितिप्रयोजिका भवतीत्यर्थः । वाशब्दः समुच्चये आवश्यकतया भाष्ये वाच्यत्वात् । अत्र च मनस इति वचनात् मनश्चित्तयोरेकतेति बोध्यम् । विषयवतीं प्रवृत्तिं पञ्चप्रकारां दर्शयति । नासिकाग्र इति । नासिकाग्रे गन्धोपलब्धिस्थाने धारणां कुर्वतो योगिनो यो दिव्यगन्धसाक्षात्कारोऽल्पेनैव कालेन भवति, सा गन्धप्रवृत्तिरिति तान्त्रिकपरिभाषा । एवं सर्वत्र व्याख्येयम् । ताल्वादयो रूपाद्युपलब्धिस्थानमिति शास्त्रप्रामाण्यादवधारणीयम् । स्थितिनिबन्धनीति व्याचष्टे । चित्तं स्थितौ निबध्नन्तीति । अर्थान्तरेष्वतिसूक्ष्मेषु दृढस्थितियोग्यं कुर्वन्ति संस्कारद्वारेणेर्यर्थः । अन्यच्च कुर्वन्तीत्याह । संशयमिति । शास्त्रीयेऽर्थान्तरे संशयं निराकुर्वन्तीत्यर्थः । संशयविधमनप्रकारं च वक्ष्यति । समाधिप्रज्ञायामिति । समाधौ जायते या प्रज्ञा सत्त्वपुरुषान्यतासाक्षात्कारस्तत्र वक्ष्यमाणवैराग्यद्वारोपकुर्वन्ति चेत्यर्थः । एतेनेति । यतो रूपप्रवृत्तिर्विषयवती एतेन हेतुना रूपप्रधानत्वाच्चन्द्रादिप्रवृत्तयोऽपि स्थितिहेतुतया शास्त्रान्तरेषूच्यमाना अस्यामेव विषयवत्या प्रवेशनीया इत्यर्थः । अतो न न्यूनतेति भावः । संशयं विधमन्तीति यदुक्तं तत्र शङ्कां निराकुर्वन्नेव तद्विवृणोति । यद्यपि हीति । तैस्तैः शास्त्रैः स्वानुमानैराचार्योपदेशैश्च निर्णीतमर्थतत्त्वं परमार्थभूतमेव भवतीति निश्चयान्न तत्र संशयः सम्भवतीति शेषः । संशयमुपपादयति । तथापीति । यावच्छास्त्रार्थैकदेशः स्वकरणैश्चक्षुर्मन आदिभिर्न साक्षात्क्रियते तावत्सर्वं शास्त्रादिपरोक्षमिव व्याजोक्तिवत् सन्दिग्धतात्पर्यकं भवति इत्यतो नापवर्गादिषु निश्चयं जनयतीत्यर्थः । तात्पर्यसंशयाहितो हि संशयो निर्णीतेऽप्यर्थे भवति । अत एव शास्त्रमूलकेऽनुमानेऽपि संशयो भवतीत्याशयः । संशयमुपपाद्य तद्विधमनप्रकारमाह । तस्मादिति । उपोद्बलनमत्र पूर्वावधृततात्पर्ये संशयापसारणं, तत्र शास्त्रेषु श्रद्धीयते इदमित्थमेवेति विश्वस्यत इत्यर्थः । एतदर्थं निश्चयाख्यश्रद्धोत्पादनार्थं समाधिप्रज्ञायाः श्रद्धाद्वारीभवतीति यदुक्तं तद्विवृणोति । अनियतास्विति । अनियतासु अव्यवस्थितासु चित्तवृत्तिषु मध्ये तत्तद्गन्धादिप्रवृत्त्या गन्धादीनां दोषदर्शनात् तद्विषयके वशीकारसञ्ज्ञावैराग्ये जाते सति विक्षेपह्रासात् तस्य तस्योत्तरभूमिरूपस्यार्थस्य साक्षात्काराय चित्तं समर्थं स्यादित्यर्थः । वैराग्यस्य द्वारं विक्षेपाख्यप्रतिबन्धनिवृत्तिं स्वयं विवृणोति । तथा च सतीति ॥ ३५ ॥ विशोका वा ज्योतिष्मती ॥ ३६ ॥ प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनीत्यनुवर्तते। हृदयपुण्डरीके धारयतो या बुद्धिसंवित् बुद्धिसत्त्वं हि भास्वरमाकाशकल्पं, तत्र स्थितिवैशारद्यात्प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विकल्पते। तथाऽस्मितायां समापन्नं चित्तं निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति। यत्रेदमुक्तम् – “तमणुमात्रमात्मानमनुविद्यास्मीत्येवं तावत्सम्प्रजानीते” इति। एषा द्वयी विशोका विषयवती, अस्मितामात्रा च प्रवृत्तिर्ज्योतिष्मतीत्युच्यते। यया योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३६ ॥ वार्तिकम् योग-वार्त्तिकम्

वशीकारसञ्ज्ञावैराग्ये च सतीत्यर्थः । चित्तस्थैर्यनिबन्धनं परिकर्मान्तरमाह-

विगतः शोको यस्या इति विशोकेति हेतुगर्भविशेषणं, तथा च यतो विशोका अतो वक्ष्यमाणज्योतिष्मती श्रेष्ठा स्थितिहेतुरित्यर्थः । द्विविधां विशोकां विवृणोति । हृदयेत्यादिना एषा द्वयी विशोकेत्यन्तेन । हृदयपुण्डरीकालम्बने चित्तं धारयतो या बुद्धिसंवित्तत्साक्षात्कारो भवति, यच्च वक्ष्यमाणरीत्याऽस्मितामात्रमस्मीत्येतावन्मात्राकारं चित्तं भवति, एषा द्वयी विशोका ज्योतिष्मतीत्युच्यते इत्यन्वयो भविष्यति, तत्र बुद्धिसंविदि ज्योतिष्मतीसञ्ज्ञाया अन्वर्थतामाह । बुद्धिसत्वं हीति । बुद्धिरूपं सत्त्वं भास्वरं स्वपरप्रकाशकं तेजोवत् आकाशवद्विभु च भवति तत्र बुद्धौ स्थितिवैशारद्याद् निर्मलैकाग्र्यात् बुद्धिप्रवृत्तिः सूर्यादिप्रभान्तसदृशाकारेण विकल्पते विशेषेणोत्पद्यत इत्यर्थः । अतो विषयस्य ज्योतिष्मत्वेन विषयिणी प्रवृत्तिरपि ज्योतिष्मतीति भावः । यत्र चान्तःकरणस्य विभुत्वमाचार्येण सिद्धान्तितम् । अन्तःकरणस्य चेयं योगशास्त्रोक्ता प्रक्रिया । उदरोरसोर्मध्ये यत्पद्मं तिष्ठत्यधोमुखमष्टदलं तद्रेचकप्राणायामेनोर्ध्वमुखं कृत्वा तस्मिन्नालम्बने चित्तं धारयेत् । तत्र हि चित्तं तिष्ठति । तद्यथा । पद्ममध्ये सूर्यमण्डलमकारो जागरितस्थानं, तस्योपरि चन्द्रमण्डलमुकारः स्वप्नस्थानं, तस्योपरि वह्निमण्डलं मकारः सुषुप्तिस्थानं, तदुपरि परं ब्रह्म व्योमात्मकं नादस्तुरीयस्थानमस्ति यमर्द्धमात्रमुदाहरन्ति योगिनः । तत्कर्णिकायां विष्कग्व्यापिशाखासहस्रवत्या मनोवहनाड्या मूलं तिष्ठति, तस्या अलाबुलतिकाया इव ऊर्ध्वमुखी एकाशाखा सुषुम्नेति गीयते तया च शाखारूपया ब्रह्मनाड्या बाह्यान्यपिसूर्यमण्डलानि प्रोतानि सैव मनोवहा नाडी चित्तस्थानं भवति तस्यां चित्तं धारयतो योगिनश्चित्तसाक्षात्कारो जायते इति । तथास्मितायामिति । अस्मिताऽत्र नाहङ्कारः किं त्वात्मतत्त्वं तमणुमात्रमात्मानमनुविद्येत्युत्तरवाक्यात् । अस्मितात्मताहन्तानां पर्यायत्वाच्च । भावप्रत्ययश्च निर्विशेषसामान्यमात्रताबोधनाय प्रयुक्तः । तथा चास्मितायां विविक्तचिन्मात्रे पुरुषे समापन्नं तद्रूपतापन्नमत एव निस्तरङ्गमहोदधिकल्पं, पुरुषाकारत्वात् स्वयमपि तत्कल्पं, तथा शान्तं शोकादिनिमित्तक्षोभरहितमनन्तं सर्वतोऽनावृतमस्मितामात्रमस्मीत्येतावन्मात्राकारमन्याकारताशून्यं भवतीत्यर्थः । आत्मनश्चिज्ज्योतिर्मयत्वात् तदाकारस्य ज्योतिष्मत्त्वं स्पष्टमेवेति पुनर्नोक्तम् । नन्वनेनैवात्मसाक्षात्कारेणैव कृतार्थत्वात् कथमस्य स्थितिशेषतयोपन्यास इति चेत्, न । कृतात्मसाक्षात्कारेणापि ज्ञाननिष्ठया परवैराग्यार्थमभ्यासापेक्षणादिति, गन्धादिप्रवृत्तिभ्यश्चायमस्मिताप्रवृत्तेर्विशेषो यद्गन्धादिप्रवृत्तयोऽर्थान्तरेषु चित्तस्थैर्यहेतवोऽस्मिताप्रवृत्तिस्तु स्वविषय एवेति । अपि जीवात्मसाक्षात्कारस्य परमात्मनि चित्तस्थितिहेतुत्वमस्तीति । अस्मिताशब्दार्थं पूर्वाचार्यमुखेन विवृणोति । यत्रेदमिति । अणुमात्रं सूक्ष्मतममनुविद्य श्रवणमननाभ्यामवधार्य अस्मीत्येतावन्मात्राकारेण साक्षात्करोतीत्यर्थः । एषा द्वयीति । विषयवती, अस्मितामात्रा चेति द्विविधा विशोका ज्योतिष्मतीत्युच्यते शास्त्रकृद्भिः । अनया योगिनश्चित्तं स्थितियोग्यतां प्राप्नोतीत्यर्थः । ननु गन्धादिप्रवृत्तिवबुद्धिसंविदोऽपि विषयवतीत्वे पूर्वसूत्रेणैव तद्ग्रहणं युक्तमिति चेत्, न । गन्धादिपञ्चक एव विषयशब्दस्य मुख्यत्वात्तत्प्रवृत्तेरेव मुख्यविषयवत्याः पूर्वसूत्रेणोक्तत्वात्, बुद्धौ च पुरुषसाक्षितया विषयशब्दो गौण एव, अङ्गस्य पुरुषस्य बुद्धिवद्बन्धाभावेन सिधात्वर्थायोगात् । अतो बुद्धिसंविदो गौणं विषयवत्वमत्र सूत्रे प्रोक्तमिति विशोकत्वं चास्मितासंवेदः साक्षादेवास्ति ‘तरति शोकमात्मवि’दिति श्रुतेः । बुद्धिसंविदस्तु विशोकत्वं सङ्कल्पसिद्ध्या किं वा विवेकख्यातिद्वारेति बोध्यम् ॥ ३६ ॥ वीतरागविषयं वा चित्तम् ॥ ३७ ॥ वीतरागचित्तालम्बनोपरक्तं वा योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३७ ॥ वार्तिकम् योग-वार्त्तिकम्

चित्तस्थैर्यकारणं परिकर्मान्तरमाह ॥

व्याचष्टे । वीतेति । वीतरागं यत्सनकादीनां चित्तं तदेवालम्बनं तेनोपरक्तं तद्धारणया तदाकारतापन्नं योगिचित्तं विरक्तं सदालम्बनान्तरेऽपि स्थितियोग्यतां लभत इत्यर्थः ॥ ३७ ॥ स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥ स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३८ ॥ वार्तिकम् योग-वार्त्तिकम्

तथैव परिकर्मान्तरमाह -

स्वप्नज्ञानं स्वप्नरूपं ज्ञानं तदालम्बनकं चित्तं प्रपञ्चज्ञाने स्वप्नदृष्टिमच्चित्तमिति यावत् । तथा चोक्तम् ।

दीर्घस्वप्नमिमं विद्धि दीर्घं वा चित्तविभ्रमम् । इति । इयं च दृष्टिः कामदुघत्वादिगुणैर्वाचि धेनुदृष्टिवत् क्षणभङ्गुरविषयकत्वादिगुणैर्जाग्रत् ज्ञाने स्वप्नदृष्टिरूपेति । एतदपि वैराग्यद्वारा चित्तस्थैर्यहेतुरित्याशयः । निद्राज्ञानालम्बने चेति । निद्रारूपं ज्ञानमेवालम्बनं यस्य तत्तथा सर्वजीवेषु विस्मृतात्मकेषु सुषुप्तदृष्टिमच्चित्तमिति यावत् । तदुक्तम् ।

ब्रह्माद्यं स्थावरान्तं च प्रसुप्तं यस्य मायया । तस्य विष्णोः प्रसादेन यदि कश्चित् प्रमुच्यते ॥

चराचरं लय इव प्रसुप्तमिह पश्यताम् । किं मृषा व्यवहारेषु न विरक्तं भवेन्मनः ॥ इति ।

भाष्यं च सुगमम् ॥ ३८ ॥ यथाभिमतध्यानाद्वा ॥ ३९ ॥ यदेवाभिमतं तदेव ध्यायेत्। तत्र लब्धस्थितिकमन्यत्रापि स्थितिपदं लभत इति ॥ ३९ ॥ वार्तिकम् योग-वार्त्तिकम्

किं बहुना यदेवाभिमतं हरिहरमूर्त्यादिकं तदेवादौ ध्यायेत्, तस्मादपि ध्यानात्तत्र लब्धस्थितिकस्य चित्तस्यान्यत्रापि विवेकपर्यन्तसूक्ष्मेषु विनैव साधनान्तरं स्थितियोग्यता भवतीत्यर्थः । इत्थमेवव्याचष्टे । यदेवेति ॥ ३९ ॥ परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥ सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति। स्थूले निविशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य। एवं तामुभयीं कोटिमनुधावतो योऽस्याप्रतीघातः स परो वशीकारः। तद्वशीकारात्परिपूर्णं योगिनश्चित्तं न पुनरभ्यासकृतं परिकर्मापेक्षत इति ॥ ४० ॥ वार्तिकम् योग-वार्त्तिकम्

परिकर्मनिष्पत्तेर्लक्षणमाह-

यस्य परिकर्मितचेतसः । परमं महत्त्वं येषां पुरुषादीनां ते परममहत्त्वाः । व्याचष्टे । सूक्ष्म इति । सूक्ष्मेऽल्पपरिमाणे चित्तस्य निवेशनमवस्थानमभीप्सोरित्यर्थः । लभते योगीति शेषः । स्थूल इति । स्थूले महत्परिमाणेऽन्यत् पूर्ववत् । एवं तामिति । एतत्स्थूलसूक्ष्मरूपं कोटिद्वयं पक्षद्वयं चरतोऽस्य चित्तस्य योऽप्रतिघातः केनाप्यप्रतिबद्धता स वशीकारश्चित्तस्य विधेयत्वं भवतीत्यर्थः । परशब्दादपरोऽपि वशीकरोस्ति दोष दर्शनजन्यो वशीकारसञ्ज्ञारूप इति भावः । तदपेक्षयास्य परत्वे हेतुमाह । तद्वशीकारादिति । तस्माद्वशीकारात्परिपूर्णं समाप्तस्थैर्यसाधनाकङ्क्षं चित्तमभ्यासान्तरसाध्यं परिष्कारं नापेक्षत इत्यर्थः । वशीकारसञ्ज्ञावैराग्यानन्तरमपि तु चित्तमभ्यासकृतं वशीकारमपेक्षत एवेति तदपरं निकृष्टमिति भावः ॥ ४० ॥ अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा समापत्तिरिति, तदुच्यते – वार्तिकम् योग-वार्त्तिकम्

तदेवमभ्यासवैराग्यादिकं परिकर्मान्तं योगसाधनमभिहितं सामान्यतो योगद्वितयं च प्रोक्तमतः परं योगयोः फलं वक्तव्यं, तत्रादौ सम्प्रज्ञातस्य फलं ध्यानादिव्यावृत्तं प्रतिपादयत्सूत्रमवतारयति । अथेति । अथशब्दः प्रश्ने । समापत्तिः सम्यगालम्बनाकारत्वापत्तिः प्रत्यक्षवृत्तिरित्यर्थः । चित्तस्य चेयं प्रज्ञाख्यावस्था सम्प्रज्ञातेष्वेव भवति न तु धारणाध्यानसमाधिषु तेषु सामाग्र्येणालम्बनाग्रहणात् साक्षात्कारस्यैव विशेषाकारत्त्वादिति- क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१ ॥ क्षीणवृत्तेरिति प्रत्यस्तमितप्रत्ययस्येत्यर्थः। अभिजातस्येव मणेरिति दृष्टान्तोपादानम्। यथा स्फटिक उपाश्रयभेदात्तत्तद्रूपोपरक्त उपाश्रयरूपाकारेण निर्भासते तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते। भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपाभासं भवति। तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं भवति। तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति। वार्तिकम् योग-वार्त्तिकम्

क्षीणवृत्तेरपगतवृत्यन्तरस्य चित्तस्येत्यर्थः । अभिजातस्य निर्मलस्य मणेरिव ग्रहीत्रादिषु तत्स्थिततया तदञ्जनता सम्यक् तदाकारता जायते, सा च समापत्तीति शब्दवाच्या भवतीत्यर्थः । अत्र सम्प्रज्ञातफलभूतायाः प्रज्ञायाः समापत्तिरिति तान्त्रिकी परिभाषापि प्रसङ्गादुक्ता । सा चासम्प्रज्ञातव्यावृत्तस्य सम्प्रज्ञातस्वरूपस्य परिचायकतयैव सम्प्रज्ञातयोग इति पश्चाद्वक्ष्यते ता एव सबीजः समाधिरिति सूत्रे इति । क्षीणवृत्तेरिति हेतुगर्भविशेषणस्यायमाशयः । चित्तस्य स्वत एव सर्वार्थसाक्षात्कारसामर्थ्यमस्ति विषयान्तरव्यासङ्गदोषादेव तु तत्प्रतिबद्धमतो वृत्यन्तरप्रतिबन्धस्य निःशेषतो विगमे स्वत एव ध्येयवस्तुसाक्षात्कारस्तद्रूपापत्त्याख्यो भवतीति भाष्ये प्रत्यस्तमितेति । प्रत्ययस्य प्रत्ययान्तरस्येत्यर्थः, समापत्तेरपि प्रत्ययत्वात् । उत्पत्तिक्रमानुरोधेन सौत्रं पाठक्रममुल्लङ्घ्य ग्राह्यादिसमापत्तीः सदृष्टान्ता व्याख्यानायादौ स्वयं विवृणोति । यथेति । उपाश्रयभेदाज्जपाकुसुमाद्युपाधिविशेषात्तद्रूपोपरक्तस्तत्प्रतिबिम्बोद्ग्राही सन् स्फटिक उपाधितुल्याकारतयैव निर्भासते प्रतीयते तथा ग्राह्येणालम्बने नोपरक्तं समर्पितप्रतिबिम्बं वृत्तेः प्रत्यक्षरूपतालाभाय ग्राह्यसमापन्नमिति ग्राह्यगतविशेषाकारमित्यर्थकमेवम्भूतं चित्तं ग्राह्यान्यूनाकारेणैव साक्षिणि निर्भासत इत्यर्थः । यत्र समापत्तिरूपस्य प्रत्यक्षस्य प्रामाण्याय ग्राह्यरूपाकारेण निर्भासत इत्यनेन तत्फलमुक्तं पौरुषेयबोधस्यैव प्रमाणफलत्वादिति । एवं सर्वत्र ग्राह्यसमापत्ताववान्तरं त्रैविध्यमाह । भूतेति । अत्र भतूसूक्ष्मशब्देन तन्मात्रादिप्रकृतिपर्यन्तं गृहीतं, सूक्ष्मशब्दस्य कारणार्थतया नात्रेन्द्रियग्रहणं, स्थूलशब्देन च महाभूतानि गृहीतानि, विश्वभेदशब्देन च स्थावरजङ्गमादयोऽवान्तरभेदा ग्राह्याः । अन्यत् पूर्ववत् । गृह्यतेऽनेनेति ग्रहणमिन्द्रियं तत्र समापत्तौ सूक्ष्मस्थूलविश्वभेदरूपं त्रैविध्यमतिदिशति । तथा ग्रहणेष्वपीन्द्रियेष्वपि द्रष्टव्यम्। ग्रहणालम्बनोपरक्तं ग्रहणसमापन्नं ग्रहणस्वरूपाकारेण निर्भासते। तथा ग्रहीतृपुरुषालम्बनोपरक्तं ग्रहीतृपुरुषसमापन्नं ग्रहीतृपुरुषस्वरूपाकारेण निर्भासते। तथा मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुषसमापन्नं मुक्तपुरुषस्वरूपाकारेण निर्भासत इति। तदेवमभिजातमणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिरित्युच्यते ॥ ४१ ॥ वार्तिकम् योग-वार्त्तिकम्

तथा ग्रहणेष्वपीति । इन्द्रियाणां सूक्ष्मं बुद्ध्यहङ्काराविति भाष्यकारो वक्ष्यति । स्थूलं च चक्षुरादिकं विश्वभेदश्च स्थावरजङ्गामानां चक्षुरादिविशेषा इति । अवान्तरविभागमतिदिश्य ग्रहणसमापत्तिं सामान्यतो दर्शयति । ग्रहणालम्बनेति । पूर्ववद्व्याख्येयम् । ग्रहीतृसमापत्तिं पूर्ववद्व्याचष्टे । तथा ग्रहीत्रिति । ग्रहीतृत्वं बुद्धेरपि व्यपदिश्यत इति तद्व्यावर्त्तनाय पुरुषपदम् । अत्र ग्रहणफलोपहितत्वं ग्रहीतृत्वं स्वरूपयोग्यतापरत्वे मुक्तपुरुषेषु पृथग्वचनानौचित्यात्, ईश्वरस्य चात्रैव प्रवेशः । ग्रहणस्वरूपयोग्यमात्रेष्वपि समापत्तिं व्याचष्टे । मुक्तेति । मुक्ता आत्यन्तिकलयङ्गताः शुकादयः । समग्रसूत्रार्थमाह । तदेवमिति ॥ ४१ ॥ तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ ४२ ॥ तद्यथा गौरितिशब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टम्। विभज्यमानाश्चान्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये विज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः। तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा सङ्कीर्णा समापत्तिः सवितर्केत्युच्यते । यदा पुनः शब्दसङ्केतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरूपाकारमात्रतयैवावच्छिद्यते। सा च निर्वितर्का समापत्तिः। तत्परं प्रत्यक्षम्। तच्च श्रुतानुमानयोर्बीजम्। ततः श्रुतानुमाने प्रभवतः। न च श्रुतानुमानज्ञानसहभूतं तद्दर्शनम्। तस्मादसङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति ॥ ४२ ॥ वार्तिकम् योग-वार्त्तिकम्

सामान्यतः समापत्तिरुक्ता तत्र ग्रहीतृसमापत्तौ स्थूलसूक्ष्मविषयत्वरूपविशेषाभावात्सा एकविधैव । ग्राह्यग्रहणसमापत्योस्तु तद्विशेषसत्त्वात्तयोर्विशेषानाह त्रिभिः सूत्रैः ॥

तृतीयसूत्रे सूक्ष्मविषयकसमापत्तेःवक्ष्यमाणतयास्य सूत्रद्वयस्य स्थूलविषयकत्वं परिशेषाल्लभ्यते । स्थूलं कार्यं सूक्ष्मं करणम् । तत्र स्थूलं द्विविधं, भूतानि तन्मात्राणां कार्याणि इन्द्रियाणि चाहङ्कारस्य कार्याणीति । तत्र च स्थूलसूक्ष्मसमापत्ती द्विविधे भवतः । तासु चतसृषु समापत्तिषु सविकल्पिकायाः स्थूलविषयकसमापत्तेर्लक्षकमिदं सूत्रं, तदेतद्व्याचक्षाण आदौ शब्दार्थज्ञानविकल्पमुदाहरति । तद्यथेत्यादिना दृष्टमित्यन्तेन । इत्यविनिर्भागेन एवमभेदेन विभक्तानां वस्तुतो भिन्नानामपि ग्रहणं विकल्पाख्यं लोके दृष्टं पूर्वोक्तविकल्पलक्षणाक्रान्तत्वादित्यर्थः । ननु वस्तुशून्यत्वे सति विकल्पः स्यात् प्रतीतिबलात्त्वभेदोऽत्र वस्तुसन्नेव भवतु तत्राह । विभज्यमानाश्चेति । अन्वयव्यतिरेकाभ्यां परीक्षकैर्विभज्यमाना विविच्यमाना अन्येऽर्थज्ञानधर्माभ्यां भिन्नाः शब्दधर्मास्तारत्वमन्दत्वादयः । एवमर्थधर्माः जडत्वमूर्त्तत्वादयः शब्दज्ञानधर्माभ्यामन्ये । एवं ज्ञानधर्माःप्रकाशामूर्त्तत्वादयः शब्दार्थधर्माभ्यामन्ये । इत्ययमेतेषां शब्दार्थज्ञानानां विभक्तोऽन्योन्यं भिन्नः पन्थाः स्वरूपभेदोन्नयनमार्ग इत्यर्थः । समापत्तिरेव विकल्परूपेत्यतो विकल्पसङ्कीर्णत्त्वानुपपत्तिरित्याशयेनान्यथासूत्रार्थं व्याचष्टे । तत्रेति । तत्र गवादौ स्थूलभूतेन्द्रियेषु समापन्नस्य समाहितस्य योगिनःसमाधिप्रज्ञायां समारूढो यो गवाद्यर्थः स यदि शब्दार्थज्ञानविकल्पेन गौरियं भासते इत्येवं शब्दार्थज्ञानानामभेदभ्रमेणानुविद्धो विषयीकृतो भवति तदा सा सङ्कीर्णा विकल्पमिश्रिता विकल्पविषयीभवदर्थविषयिणीति यावत् । समापत्तिः सवितर्कसञ्ज्ञा भवतीत्यर्थः । अत्र हि गौरयमित्यंशे शब्दार्थयोरभेदविकल्पः । भासत इत्यंशे चार्थज्ञानयोरभेदविकल्पः । अर्थद्वारा च शब्दज्ञानयोरप्यभेदविकल्पः । एवं नारायणोऽयं भासत इत्यादिरूपैश्च सवितर्का समापत्तिर्भवति । अत्र शब्दादिविकल्पैर्यथासम्भवमन्येऽपि विकल्पा उपलक्षणीयाः । इयं च समापत्तिरपरं प्रत्यक्षमविद्यालेशसम्बन्धादिति ॥ ४२ ॥ निर्वितर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते – वार्तिकम् योग-वार्त्तिकम्

सूत्रान्तरं योजयितुं प्रथमं तावन्निर्वितर्कां स्थूलसमापत्तिंव्याचष्टे । यदा पुनरिति । अयं भावः । शब्दसङ्केतस्मरणपूर्वके तावत्क्रमेणागमानुमानज्ञाने भवतः । सङ्केतश्चायं गौरिति शब्दार्थयोरितरेतराध्यासात्मकः । ‘एतद्वैतत्परमपरं च ब्रह्म यदोङ्कार’ इत्यादिश्रुतिषु’ अकारोकारमकारा ब्रह्मविष्णुमहेश्वराः’ इत्यादिस्मृतिषु ‘अमरा निर्जरा’ इत्यादिकोशेषु च सङ्केतस्य विकल्पिताभेदरूपत्वावधारणात् । ततश्च सङ्केतग्रहसमानाकारेणैव शाब्दबोधस्तन्मूलकानुमानं च भवतीत्यत आगमानुमानज्ञानयोरपि श्रवणमननरूपयोर्विकल्प औत्सर्गिकः ततश्च तन्मूलिकाया प्रथमं जायते समाधिप्रज्ञा, सापि विकल्पव्याप्तिश्चैव भवतीति सा सवितर्का भवति । यदा पुनरर्थमात्रादरादर्थमात्रप्रवणेन चेतसा सङ्केतस्मृतिस्त्यज्यते तदा समाधौ तन्मूलको विकल्पो न जायत इति निर्वितर्का भवतीति । तदिदमाह । शब्दसङ्केतेति । शब्दसङ्केतस्य स्मृतेः परशुद्धिरपगमस्तस्यां सत्यां तत्त्स्मृतिनिमित्तकेन श्रुतानुमानज्ञानकालीनविकल्पेन शून्यायां समाधिप्रज्ञायामर्थस्वरूपाकारेणैवावधार्यत इत्यादिरर्थः । आरोपगन्धस्यापि सम्पर्को नास्तीति प्रतिपादनाय स्वरूपमात्रेणावस्थितोऽर्थ इत्युक्तम् । परमिति । आरोपसम्पर्काभावादिति भावः । अगृहीतग्राहित्वं निर्वितर्कसमापत्तेः प्रामाण्यप्रयोजकं दर्शयति । तच्चेत्यादिना दर्शनमितीत्यन्तेन । श्रुतानुमानयोः श्रवणमननयोर्बीजं बीजशब्दार्थं व्याचष्टे । तत इति । प्रभवतः प्रकर्षेण भवतः गुरुणाऽशेषविशेषसाक्षात्कारं विना असन्दिग्धाविपर्यस्तवस्तुस्वरूपप्रतिपादनासम्भवात् । अतः सवितर्कानधिगतोऽपि विशेषोऽस्या विषय इत्यर्थः । नन्वेवं सर्वज्ञगुरुणा श्रुतिस्मृतिभ्यामेवाशेषविशेषप्रतिपादनं स्यादितीयं व्यर्था निर्वितर्कसमापत्तिरिति तत्राह । न चेति । सहभूतं तत्कालीनगुरोर्विशेषज्ञत्वेऽपि स विशेषः शब्देनाशेषो वक्तुं न शक्यते इक्षुक्षीरादिविशेषवत् ‘इदं तदिति निर्देष्टुं गुरुणापि न शक्यत’ इति स्मृतेः । अतः सर्वज्ञवाक्यादपि निर्विकल्पकसमापत्तिसमानाकारं ज्ञानं न सम्भवतीत्यर्थः । ततः किमित्यत आह । तस्मादिति । सङ्कीर्णं गृहीतमात्रादवगाहि, तदेवमुत्तरसूत्रस्य लक्ष्यमवधार्य सूत्रमवतारयति । निर्वितर्कया इति । स्पष्टम् – स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३ ॥ या शब्दसङ्केतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्यस्वरूपोपरक्ता प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति सा तदा निर्वितर्का समापत्तिः। वार्तिकम् योग-वार्त्तिकम्

यतः स्मृतिपरिशुद्धौ सत्यां जायते तथा स्वरूपशून्येव भवति अतोऽर्थमात्रस्य निर्भासो यत्रेत्यर्थमात्रनिर्भासा अखिलविकल्पशून्याया समापत्तिः सा निर्वितर्केत्यर्थः । पदानि क्रमशो व्याचष्टे । या शब्देति । शब्दसङ्केतात् श्रुतानुमानरूपज्ञाने या विकल्परूपा स्मृतिः चिन्ता सवितर्ककालेऽप्यनुवर्तते तदपगमे सतीत्याद्यपदार्थः । शब्दङ्केतस्यात्र स्मृतिहेतुत्वं स्वगोचरज्ञानद्वारा बोध्यम् । सङ्केतश्च शब्दार्थयोः कल्पिताभेदमात्र इत्यतः सङ्केतमात्र इत्यतः सङ्केतस्मृतौ तन्मूलकज्ञाने चाभेदविकल्प औत्सर्गिक इति । शब्दविकल्पशून्यत्वे हेतुमुक्त्वा ज्ञानविकल्पशून्यत्वे हेतुमाह । स्वमिवेति । इवकारो भिन्नक्रमेण त्यक्त्वेतिपदानन्तरं योजनीयः, त्यागसादृश्यं चाग्रहणमिति । तृतीयपदस्यार्थमाह । पदार्थमात्रेति । तस्याप्यर्थमाह । ग्राह्यस्वरूपापन्नेव भवतीति । सा निर्वितर्केति । एवं निर्भासा या समापत्तिः सा निर्वितर्केत्यर्थः । तदेवं सूत्राभ्यां प्रतिपादितौ सवितर्कनिर्वितर्कयोगौ सविकल्पनिर्विकल्पशब्दाभ्यामपि शास्त्रेषूच्येते । वितर्कविचारेत्यादिसूत्रे च यः स्थूलविषयकाभोगो वितर्क इत्युक्तं स एवात्र सवितर्कनिर्वितर्कसमापत्तिरूपेण द्विधोक्त इति । नन्वस्य निर्वितर्कसाक्षात्कारस्य विषयः किमवयवाः, किं वावयवी, आद्ये वक्ष्यमाणनिर्विचारसमापत्या सहैकविषयत्वापत्तिः । अन्त्येऽवयविनः कल्पितत्वेन तद्गोचरनिर्वितर्काया विकल्यशून्यत्वानुपपत्तिरित्याशङ्क्यावयविनं व्यवस्थापयन् अवयविविषयकत्वमेवास्य वृद्धवाक्यादवधारयति । तथा च व्याख्यातम् – तस्या एकबुद्ध्युपक्रमो ह्यर्थात्माऽणुप्रचयविशेषात्मा गवादिर्घटादिर्वा लोकः। वार्तिकम् योग-वार्त्तिकम्

तथा चेत्यादिना लोक इत्यन्तेन । व्याख्यातं पूर्वाचार्यैरिति शेषः । तस्या निर्वितर्काया गवादिर्घटादिर्वालोक आलम्बनमित्यन्वयः । नन्ववयविनि किं प्रमाणं तत्राह । एक बुद्ध्युपक्रम इति । एका गौरिति बुद्धिमुपक्रमते आरभत इत्येकबुद्ध्युपक्रमः । अतो नावयवानामनेकतया अवयविव्यवहारनिर्वाहकत्वमिति भावः । नन्वेवमप्येकप्रत्ययानुरोधादेकं विज्ञानमात्रमेवावयविव्यवहारहेतुरस्तु तत्राह । अर्थात्मेति । अर्थात्मा दृश्यस्वरूपः । विज्ञानमात्रत्वे स्वस्य स्वदृश्यत्वानुपपत्तिः कर्मकर्तृविरोधादिति भावः । नन्वेवमवयवेभ्योऽवयविनोऽतिरेके कपालं घटो जात इत्यादिरूपोवयवावयविनोरभेदप्रत्ययो न स्यादित्याशङ्कामपाकरोति । अणुप्रचयविशेषात्मेति । अणूनामेव प्रचयाख्यसंयोगनिमित्तको यो विशेषः परिणामरूपस्तत्स्वरूप इत्यर्थः । तथा च सामान्यविशेषयोर्भेदाभेदाङ्गीकारात् अभेदप्रत्ययोऽप्युपपन्न एवेति भावः । न च भेदाभेदयोर्विरोध इति वाच्यम् । भेदस्यान्योन्याभावरूपत्वादभेदस्याविभागरूपत्वादिति । अयं चाविभागो न लक्षणानन्यत्वं लक्षणभेदकालेऽप्यभेदप्रत्ययात् किं त्वाधाराधेयभाववत्स्वरूपसम्बन्धविशेष एव दुग्धजलयोरिवेति । एतत्सर्वं परिणामसूत्रे विशिष्य प्रतिपादयिष्यति भाष्यकारः । ननु यद्यवयवी स्वीकृतस्तर्हि तस्यैकावयवनाशे नाशापत्त्याऽनुपलब्धिप्रसङ्गः । किं चावयविनो नित्यस्तु सर्वदा कार्यकारिताप्रसङ्गः, अनित्यत्वेऽसदुत्पादतः शशशृङ्गाद्यपि कारणव्यापारादुत्पद्येतेत्याशङ्कामपाकरोति । स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्म आत्मभूतः फलेन व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रादर्भवति। धर्मान्तरस्य कपालादेरुदये च तिरो भवति। स एष धैर्मोऽवयवीत्युच्यते। योऽसावेकश्च महांश्चाणीयांश्च स्पर्शवांश्च क्रियाधर्मकश्चानित्यश्च तेनावयविना व्यवहाराः क्रियन्ते। वार्तिकम् योग-वार्त्तिकम्

स चेति । स च स्थूलोऽवयवी स्वकारणानां भूतसूक्ष्माणां साधारणः प्रत्येकं परिसमाप्नोति न तु द्वित्वादिवद्व्यासज्यवृतिः,एकावयवव्यवधानेऽप्यप्रत्यक्षत्वप्रसङ्गात् । अत एकावयवनाशेऽप्यवयवान्तरे अवयव्यवस्थानात्तदुपलब्धिः । अवयवविभागविशेष एव चावयविनाशकः । स च विशेषोजातिरूपः फलबलात् कल्प्यत इति भावः । तथा आत्मभूतः सदैव भूतसूक्ष्मेष्वनुगतः नातः शशादौ शृङ्गाद्युत्पत्तिप्रसङ्गः । तत्र प्रमाणमाह । फलेन व्यक्तेनानुमित इति । अभिव्यक्तिलक्षणकार्यानुमितः । असदभिव्यक्तौ सर्वत्र सर्वाभिव्यक्तिप्रसङ्गात् । ननु तर्हि सर्वदैवाभिव्यक्तिः कुतो न भवति तत्राह । स्वव्यञ्जकेति । स्वाभिव्यक्तिहेतुर्यत्कारणं तदेवाञ्जनमभिव्यञ्जनकारणं यस्य तथाभूतः सन्नाविर्भवति वर्त्तमानावस्थां प्राप्नोति न सर्वदा । तथा धर्मान्तरोदयकाले च मुद्गरपातादिना तिरोभवति अतीतावस्थां प्राप्नोति । स एव अवयवानां धर्मोऽवयवीत्युच्यते इत्यर्थः । अतो नोक्तशङ्कावकाशः । कार्यनित्यत्वेऽप्यभिव्यक्तस्यैव कार्यस्य स्वकार्यकारित्वादिति भावः । स्यादेतत् । अभिव्यक्तिरपि नित्या अनित्या वा । आद्ये सर्वदैवाभिव्यक्तिकार्यप्रसङ्गः । अन्तेऽवयव्यादेरेवानित्यत्वमभिव्यक्तिवदस्तु व्यर्थमभिव्यक्तिकल्पनमिति । उच्यते । अतीतानागतावस्थावत्त्वस्वरूपमनित्यत्वं घटादावभिव्यक्तौ चेष्यत एव आद्यन्तयोः कार्यस्यात्यन्तासत्त्वप्रतिषेधाय ध्वंसादिप्रतियोगित्वस्यैव निषेधात्, अतीतानागतावस्थयोर्ध्वंसप्रागभावस्थलाभिषेकमात्र एवास्माकं विशेषात् । अभिव्यक्तिकल्पनाच न व्यर्था घटोऽनागतो घटोऽतीत इति व्यवहारवत् घटो वर्तमान इति व्यवहारस्यापि घटमात्रेणासम्भवात्, घटस्यावस्थात्रयसाधारण्येनातीतादिकालेऽपि वर्तमानत्वव्यवहारप्रसङ्गात् । न चैवमभिव्यक्तेरप्यवस्थात्रयकल्पना भवत्येवेति वाच्यम् । बीजाङ्कुरादिवत् प्रामाणिकत्वेनादोषत्वस्य साङ्ख्यसूत्रेणोक्तत्वात् । किञ्च स एवाभिव्यक्तिरित्येव सत्कार्यवादिनो नियमः । अभिव्यक्तेश्चाभिव्यक्त्यन्तरास्वीकारेण तस्या असत्या एवोत्पादेऽपि न क्षतिः । कार्याणामनागतावस्थैवाभिव्यक्तेरप्यनागतावस्था सैव चाभिव्यक्त्युत्पत्तौ नियमिका, अतः शशशृङ्गादिवैलक्षण्यम् । यथा परैरुत्पत्तेरुत्पत्तिरभावे चाभावः स्वरूपमेवेष्यते तथैवाभिव्यक्तेरभिव्यक्तिः स्वरूपमेवेत्यस्माभिरप्युपगन्तव्यम् । घटादेरतीतानागतावस्थे तदभिव्यक्तेरप्यतीतानागतावस्थे इति । अथैवमभिव्यक्तिरपि घटस्वरूपमेवास्त्विति चेन्न । अतीताद्यवस्थघटेनाभिव्यक्तिव्यवहारप्रसङ्गस्योक्तत्वादिति दिक् । यत्तु वैशेषिकाः प्रागभावमेव कार्योत्पत्तिनियामकं कल्पयन्ति, तदसत् । अभावकल्पनापेक्षया भावकल्पने लाघवात् । भावानां दृष्टत्वात् अन्यानपेक्षत्वाच्च । अपि चाभावेषु स्वतोविशेषे भावत्वापत्तिः । प्रतियोगिरूपविशेषश्च प्रतियोग्यसत्ताकाले नास्ति, अतो भावस्याविशिष्टतया सर्वत्र सर्वोत्पत्तिप्रसङ्ग एवेति । अवयवेभ्यो विज्ञानाच्चातिरिक्ततया हेतुभूतं ताभ्यां वैधर्म्यजातमवयविनि दर्शयति । योसाविति । षड्विशेषणानि यथासम्भवमवयवज्ञानाभ्यां वैधर्म्याणि, वैशेषिकैस्त्र्यणुकशब्देनोच्यते यः परिणामविशेषः स एवात्राणीयानित्युक्तः कार्येषु परमसूक्ष्मत्वाभावादिति । अवयवादिविलक्षणजलाहरणादिव्यवहारकारितयाप्यतिरिक्तोऽवयवीति प्रतिपादयति । तेनावयविनेति । अवयवातिरिक्तोऽवयवी नास्तीत्यवयवा एव निर्विकल्पसाक्षात्कारविषय इति वैनाशिकमतमपाकरोति । यस्य पुनरवस्तुकः स प्रचयविशेषः सूक्ष्मं च कारणमनुपलभ्यमविकल्पस्य तस्यावयव्यभावादतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्तं मिथ्याज्ञानमिति। वार्तिकम् योग-वार्त्तिकम्

यस्य पुनरिति । यस्य मते स प्रचयनिमित्तका विशेषोऽवयव्याख्योऽवस्तुकस्तुच्छः सूक्ष्मं चावयवाख्यं कारणं न प्रत्यक्षगोचरं तस्य मतेऽवयव्यभावात् प्रायेण सर्वमेव मिथ्याज्ञानमित्यायातम् । यतोऽतद्रूपप्रतिष्ठमेव मिथ्याज्ञानमिति, तदा च सर्वस्य मिथ्याज्ञानत्वे सम्यग् ज्ञानमपि किं स्यात्, न स्यादेव विषयाभावेन क्वापि ज्ञानस्य सद्विषयकत्वासिद्धेरित्यर्थः । तत्र हेतुः । यद्यदिति । नन्ववयवज्ञानस्य सम्यग्ज्ञानत्वं स्यादिति चेन्न । सूक्ष्मं चेत्यादिना अवयवानामप्रत्यक्षत्वस्योक्तत्वात् । अप्रत्यक्षेष्ववयवेषु लिङ्गं चावयव्येव, तस्याभावात् पूर्वावयवज्ञानं प्रमाणाभावादेवासिद्धमित्याशयः । ज्ञानज्ञानस्य सम्यग्ज्ञानत्वं कदाचित् स्यादित्याशयात् प्रायेणेत्युक्तम् । अवयव्यभावे सङ्घाताश्रितत्वेन परैरभ्युपगतस्य ज्ञानस्यापि रूपादिवन्मिथ्यात्वे सर्वं ज्ञानं भ्रमो ज्ञानत्वादित्यनुमानसम्भवाच्चेति । स्वसिद्धान्तमुपसंहरति । तदा च सम्यग्ज्ञानमपि किं स्याद्विषयाभावात्। यद्यदुपलभ्यते तत्तदवयवित्वेनाऽऽम्नातम्। तस्मादस्त्यवयवी यो महत्त्वादिव्यवहारापन्नः समापत्तेर्निर्वितर्काया विषयी भवति ॥ ४३ ॥ वार्तिकम् योग-वार्त्तिकम्

तस्मादिति । सवितर्कायाः कदाचित् विकल्पेनाप्युपपत्तिरित्याशयेन निर्वितर्काया इत्युक्तम् ॥ ४३ ॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥ तत्र भूतसूक्ष्मकेष्वभिव्यक्तधर्मकेषु देशकालनिमित्तानुभवावच्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते। तत्राप्येकबुद्धिनिर्ग्राह्यमेवोदितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते। या पुनः सर्वथा सर्वतः शान्तोदिताव्यपदेश्यधर्मानवच्छिन्नेषु सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारेत्युच्यते। एवं स्वरूपं हि तद्भूतसूक्ष्ममेतेनैव स्वरूपेणाऽऽलम्बनीभूतमेव समाधिप्रज्ञास्वरूपमुपरञ्जयति। प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारेत्युच्यते। तत्र महद्वस्तुविषया सवितर्का निर्वितर्का च, सूक्ष्मवस्तुविषया सविचारा निर्विचारा च। एवमुभयोरेतयैव निर्वितर्कया विकल्पहानिर्व्याख्यातेति ॥ ४४ ॥ वार्तिकम् योग-वार्त्तिकम्

तदेवं स्थूलविषये सूत्रद्वयेन समापत्तेर्द्विधा विभागं कृत्वा सूक्ष्मविषयेपि तस्या द्वैविध्यमतिदिशति -

एतया सवितर्कनिर्वितर्करूपया स्थूलविषयकसमापत्या सूक्ष्मविषयाऽपि सविचारनिर्विचाररूपा समापत्तिद्वयी व्याख्याता अर्थोपरागानुपरागसाम्येनेत्यर्थः । वितर्कविचारेत्यादिसूत्रे सूक्ष्मविषयकाभोगो विचार इत्युक्तं स एवात्र सविचारनिर्विचाररूपेणात्रोच्यते इति स्मर्त्तव्यम् । कार्याद्युपरागानुपरागयुक्तां समापत्तिं द्विधा विभजते । तत्र भूतसूक्ष्मेष्विति । अत्र भूतशब्दश्चेन्द्रियाणामप्युपलक्षकः सामान्यत एव सूक्ष्मविषयत्वेनास्याः समापत्तेः भाष्ये व्याख्येयत्वात् । भूतेन्द्रियाणां यन्मूलं कारणं तन्मात्रादिप्रकृतिपर्यन्तं ‘सूक्ष्मविषयत्वं चालिङ्गपर्यवसान’मित्यागामिसूत्रात्तेषु वर्त्तमानधर्मविशिष्टेषु तथा देशकालनिमित्तैर्विशिष्टतयानुभूयमानेषु या समापत्तिः सा सविचारेत्युच्यत इत्यर्थः । अत्रदेश उपर्यधःपार्श्वादिः, कालो वर्तमानादिः, निमित्तं परिणामप्रयोजकः पुरुषार्थविशेष इति पूर्ववदेवात्राप्यवयवातिरिक्तस्तन्मात्रादिरूपोऽवयवी समापत्तेर्विषय इत्याह । अत्रापीति । उदितो वर्त्तमानः, उपतिष्ठते आरूढं भवति । सविचारां व्याख्याय निर्विचारां व्याचष्टे । या पुनरिति । या तु सर्वथा सर्वैः स्वरूपैः सर्वतो देशकालाद्यनवच्छेदतः समापत्तिः शान्तादिव्यपदेश्यधर्मानवच्छिन्नेष्वतीतवर्त्तमानभविष्यद्धर्मैरनवच्छिन्नेषु अतीतवर्तमानभूतसूक्ष्मेषु जायते, सा निर्विचारा अनवच्छिन्नशब्दस्यासम्बद्धार्थत्वनिरासाय विशेषणद्वयं सर्वधर्मेत्यादि । सर्वधर्मानुगतेषु सर्वधर्माणामाश्रयेषु चेत्यर्थः । निर्वितर्कसाम्यमस्याः प्रतिपादयति । एवंस्वरूपं हीति । पूर्वसूत्रानुसारेणैतद्व्याख्येयम् । उक्तस्य समापत्तिचतुष्टयस्य विषयविभागमाह । तत्रेति । महत् स्थूलं केवलविकृतिरिति यावत् । तेनेन्द्रियाणां भूतपरमाणूनां च सङ्ग्रहः । भूतपरमाणूनां च सूक्ष्ममध्ये प्रवेशो वक्तुं न शक्यते, आगामिसूत्रे पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्म इत्यादिना तन्मात्रादीनामेव सूक्ष्मत्वस्य वक्ष्यमाणत्वात् । सूक्ष्मत्वं च तत्त्वान्तरकारणत्वं, तच्च जलादिचतुष्टयव्यावृत्यर्थं बहिरिन्द्रियग्राह्यगुणराहित्येन विशेषणीयम् । वस्तुतस्त्वष्टप्रकृतिसिद्धान्ताद् भूतान्युत्तरभूतेष्वाधारकारणान्येव न तु प्रकृतयः, अतोऽत्र तत्त्वान्तरप्रकृतित्वमेव सूक्ष्मत्वमिति । ननु शब्दार्थज्ञानविकल्पसङ्कीर्णत्वमेव कथमेतयैवेत्यनेन नातिदिश्यते तत्राह । एवमुभयोरेतयैव निर्वितर्कया विकल्पहानिर्व्याख्यातेति । एवं स्वरूपमिव विकल्पहानिरपि यथोक्तविकल्पराहित्यमपि उभयोः सविचारनिर्विचारयोरेतयैव पूर्वोक्तया निर्वितर्कया यथोक्तविकल्पशून्यया सूत्रकारेण व्याख्यातप्रायेत्यर्थः । पूर्वभूमिकायां त्यक्तविकल्पस्योत्तरभूमिकायामसम्भवादिति ॥ ४४ ॥ सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥ पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः। आप्यस्य रसतन्मात्रम्। तैजसस्य रूपतन्मात्रम्। वायवीयस्य स्पर्शतन्मात्रम्। आकाशस्य शब्दतन्मात्रमिति। तेषामहङ्कारः। अस्यापि लिङ्गमात्रं सूक्ष्मो विषयः। लिङ्गमात्रस्याप्यलिङ्गं सूक्ष्मो विषयः। न चालिङ्गात्परं सूक्ष्ममस्ति। नन्वस्ति पुरुषः सूक्ष्म इति। सत्यम्। यथा लिङ्गात्परमलिङ्गस्य सौक्ष्म्यं न चैवं पुरुषस्य। किन्तु, लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति। अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥ वार्तिकम् योग-वार्त्तिकम्

सूक्ष्मविषयेत्युक्तं, तत्र सूक्ष्मो विषयः किम्पर्यन्त इत्याकाङ्क्षायामाह ।

सूक्ष्मश्चासौ विषयश्चेति सूक्ष्मविषयः, अलिङ्गं प्रकृतिस्तत्पर्यन्तैव सूक्ष्मविषयतेत्यर्थः । तत्र स्थूलमारभ्य प्रकृतिपर्यन्तस्य सूक्ष्मतायां क्रममाह । पार्थिवस्येति । स्थूलकाष्ठाः पञ्चविधा अणवस्तत्र पार्थिवाण्यपेक्षया गन्धतन्मात्रं समापत्तेः सूक्ष्मो विषयः । यद्यपि पार्थिवाणुर्जलविशिष्टगन्धतन्मात्रारब्धस्तथापि गन्धतन्मात्रस्य प्राधान्यात् तदेव पार्थिवाणोः सूक्ष्ममुक्तम् । एवमाप्यादीनां त्रयाणां पूर्वपूर्वभूतविशिष्टरसादितन्मात्रकार्यत्वेऽपि आकाशाणोश्चाहङ्कारविशिष्टशब्दतन्मात्रकार्यत्वेऽपि प्राधान्यादेकैकतन्मात्रमेव सूक्ष्ममित्युक्तमिति वेदितव्यम् । तेषामहङ्कार इति । तेषां पञ्चतन्मात्राणामहङ्कारः सूक्ष्मः, कारणत्वात् । अत्र च तन्मात्रैरिन्द्रियाण्युपलक्षणीयानि । अस्यापीति । अहङ्कारस्यापीत्यर्थः । लिङ्गमात्रं महत्तत्त्वं तद्धि स्वकारणस्य प्रकृतेरनुमापकमात्रमङ्कुरवत् । प्रकृतिगतविशेषाणामहङ्कारादिष्वेव प्रकटीभावात् । यथा यत्र काण्डादिभिर्बीजगतविशेषाभिव्यक्तिर्नाङ्कुरमात्रेणेति । अलिङ्गं प्रधानम् । अकार्यत्वेन कस्याप्यननुमापकत्वादिति । अलिङ्गपर्यवसानत्वं व्याचष्टे । न चालिङ्गादिति । चोदयति । नन्विति । ननु पुरुषः प्रकृत्यपेक्षयापि सूक्ष्मोऽस्ति निर्धर्मकत्वादिति पूर्वपक्षं परिहरति । सत्यमिति । यथोपादानतया लिङ्गापेक्षितं सौक्ष्म्यं प्रधानस्यास्ति नैवं पुरुषस्य तस्यापरिणामित्वात्, उपादानतया च सूक्ष्मत्वमत्र विवक्षितमित्याशयः । ननु यदि पुरुषः कारणं न भवति, तर्हि ‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्ब्रह्म’ ’तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी’त्यादि श्रुतिस्मृतिशतविरोध इत्याशङ्कां परिहरति । किन्तु लिङ्गस्येति । हेतुस्तु भवति किन्तु लिङ्गस्यान्वयिकारणमुपादानकारणं पुरुषो न भवतीति व्युत्क्रमेणान्वयः । तत्र परमात्मनोऽधिष्ठातृत्वेन निमित्तकारणवं ‘मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्’ इति गीतावचनात् ।

प्रधानपुंसोरजयोर्यतः क्षोभः प्रवर्त्तते । नित्ययोर्व्यापिनोश्चैव जगदादौ महात्मनोः ॥

तत्क्षोभकत्वाद् ब्रह्माण्डसृष्टौ हेतुर्निरञ्जनः । अहेतुरिति सर्वात्मा जायते परमेश्वरः ॥

इत्यादि सकलस्मृतिषु तथा निर्णयाच्च । यत्तु ईश्वरस्याधिष्ठानत्वरूपमुपादानत्वं यतो वा इमानि भूतानि जायन्त इत्याद्युक्तश्रुतिस्मृत्योर्गीयते, आकाशस्य वायूपादानवत्, तदप्यत्र दर्शननिमित्तकारणतामध्य एव प्रवेश्यते पुरुषाणां विकारित्वभ्रमनिरासायेति, पुरुषार्थं प्रकृतेः प्रवृत्त्यभ्युपगमेन च जीवपुरुषाणामपि महदाद्यखिलसृष्टिहेतुत्वं संयोगमात्रेण नोपादानत्वेन । तथा चोक्तम् ।

बुद्ध्यादयो विशेषान्ता अव्यक्तादीश्वरेच्छया । पुरुषाधिष्ठितादेव जज्ञिरे मुनिपुङ्गवाः ॥

सत्त्वं रजस्तम इति प्रकृतेरभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥

इत्यादिस्मृतिभिः । जीवानामधिष्ठानसंयोगमात्रमनुमतिस्तु पूर्वकल्पीयकामकर्मादिरूपेति दिक् ॥ ४५ ॥ ता एव सबीजः समाधिः ॥ ४६ ॥ ताश्चतस्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिरपि सबीजः। तत्र स्थूलेऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मेऽर्थे सविचारो निर्विचार इति चतुर्धोपसङ्ख्यातः समाधिरिति ॥ ४६ ॥ वार्तिकम् योग-वार्त्तिकम्

तदेवं ग्राह्यग्रहणसमापत्त्योः स्थूलसूक्ष्मविषयभेदेन विशिष्टाविशिष्टरूपतश्चतुर्विधविभाग उक्तः ग्रहीतृसमापत्तौ च यः सविकल्परूपो विशेषः स एतास्वेव चतसृष्वन्तर्भूतः चेतनोपरागेणैवाचेतनेषु योगस्य व्यवस्थापितत्वात् । अतो ग्रहीतृसमापत्तौ सविकल्पाविकल्पादिविभागो नोक्तः । वितर्केत्यादिसूत्रेण पूर्वं सम्प्रज्ञातस्यावान्तरविभाग एव कृत इदानीं यथोक्तसमापत्याख्यकार्यमुखेन सबीजपरिभाषापूर्वकं सम्प्रज्ञातस्य सामान्यलक्षणमनेनैव प्रसङ्गेनाह -

ता एव ग्रहीतृग्रहणग्राह्येषु समापत्तय एव सबीजः समाधिः सम्प्रज्ञातयोग इत्यर्थः । समापत्तिरूपसाक्षात्कारहेतुत्वाद्योगस्य समापत्तित्वमुक्तम् । योगे स्वतोऽवान्तरविशेषाभावादिति । ननु ग्रहीतृग्रहणग्राह्यसमापत्तिभिर्वितर्कविचारास्मितानुगतास्त्रयः सम्प्रज्ञाता एव सङ्गृह्यन्ते, न पुनरानन्दानुगत इति कथं ता एवेत्यवधारणमिति चेन्न । आनन्दस्य बुद्धिधर्मत्वेन ग्राह्यमध्ये प्रवेशात् । ननु दुःखबीजसंस्कारहेतुतया समापत्तय एव सबीजाः, न तु वृत्तिनिरोधात्मको योग इति कथमुच्यते ता एव सबीजयोग इति तत्राह भाष्यकारः । ताश्चतस्र इति । बहिर्वस्तून्यनात्मधर्माः संस्कारधर्मादयो दुःखबीजानि जायन्त आभ्य इति बहिर्वस्तुबीजाः, सम्प्रज्ञातनिष्ठाया अपि संस्कारहेतुत्वात् धर्ममेघत्वाच्च । तथा च वितर्कादिसूत्रोक्तरीत्या चतस्रः प्रकृते तु त्रिधा विभक्तास्ता ग्रहीत्रादिविषयिकाः समापत्तयो बहिर्वस्तुबीजा इत्यतस्ताभिः सम्बन्धात्समाधेः सम्प्रज्ञाताख्यो वृत्तिनिरोधोऽपि सबीज उच्यत इत्यर्थः । ननु स्थूलसूक्ष्मसमापत्तेरेव चतुर्विधत्वादानन्दास्मितासमापतिभ्यां सह षट् समापत्तयो भवन्ति, तत्कथमुच्यते चतस्र इत्याशङ्कामपाकरोति । तत्र स्थूल इति । तत्र चतसृषु समापत्तिषु मध्ये स्थूलोऽर्थ एक एव समाधिरवान्तरभेदेनैव सवितर्करूपतो द्विधा । तथा सूक्ष्मेऽर्थेप्येक एव समाधिरवान्तरभेदेनैव सविचारनिर्विचाररूपतो द्विधा प्रोक्त इत्यतो वितर्कानुगतादिरूपैः पूर्वं स सम्प्रज्ञातयोगश्चतुर्धा उपसङ्ख्यातः परिगणित इत्यर्थः । केचित्तु सूत्रस्थ एवकारो भिन्नक्रमः । तथा च ताः सवितर्कनिर्वितर्कसविचारनिर्विचाररूपाश्चतस्रः समापत्तयः सबीजसमाधेरेवेति सूत्रार्थः,तेन न ग्रहीत्रादिसमापत्तेरपि सबीजत्वं भाष्ये प्रागुक्तं विरुध्यत इत्याहुः । तन्न । ग्रहीत्रादिसमापत्तेः सबीजत्वानुक्त्यात्र सूत्रकारस्य न्यूनतापत्तेः । एवकारवैयर्थ्याच्च । यथाक्रमस्यैव एवकारस्योपपत्तौ भिन्नक्रमत्वानौचित्याच्चेति । यच्चान्यत्तैरुक्तं ग्राह्यविषये स्थूलसूक्ष्मभेदेन सवितर्कादिरूपाश्चतस्रः समापत्तयः ग्रहणाख्येषु चेन्द्रियेषु सानन्दनिरानन्दरूपे द्वे समापत्ती ग्रहीतृषु च सास्मितनिरस्मितरूपे द्वे समापत्ती इत्यष्टौ समापत्तयो बोध्याः युक्तिसाम्यादिति,तदपि न । प्रमाणादर्शनात् । आनन्दानुगतास्मितानुगतो निरानन्दनिरस्मितत्वरूपविशेषासम्भवाच्च । आनन्दो हि ह्लादमात्रोऽस्मिता च चैतन्यमात्रसंविदिति भाष्यकृता प्रोक्तम् । न त्विन्द्रियं ह्लादशब्देन व्याख्येयं, लक्षणाप्रसङ्गात् । नापि अहङ्कारोपरक्तचैतन्यमस्मिताशब्देन व्याख्ययं, लक्षणापत्तेः । यतः कथं ह्लादवतः सम्प्रज्ञातस्य ह्लादशून्यत्वं, कथं वा विविक्तचिन्मात्रसंविद्युक्तस्य सम्प्रज्ञातस्य तच्छून्यत्वमिति दिक् । तस्मादवान्तरभेदेन पञ्चैव समापत्तयः, ग्राह्यग्रहणयोः स्थूलसूक्ष्मभेदेन सवितर्काद्याश्चतस्रः पञ्चमी च ग्रहीतृष्विति सम्प्रज्ञातयोगस्त्वानन्दानुगतमादायावान्तरभेदेन षोढैवेति ॥ ४६ ॥ निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥ अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम्। यदा निर्विचारस्य समाधेर्वैशारद्यमिदं जायते तदा योगिनो भवत्यध्यात्मप्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः। तथा चोक्तम् – प्रज्ञाप्रसादमारुह्य अशोच्यः शोचतो जनान्। भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति ॥ ४७ ॥ वार्तिकम् योग-वार्त्तिकम्

उक्तासु समापत्तिषु निर्विवारायां विशेषं कञ्चिदाह ॥

सामान्यतो वैशारद्यमादौ व्याचष्टे । अशुद्ध्येति । रजस्तमोवृद्धिकारणं पापादिरशुद्धिः सैवावरणलक्षणो मलस्तस्मादपेतस्येति हेतुगर्भविशेषणम् । प्रकाशात्मनः प्रकाशस्वभावस्य बुद्धिरूपसत्त्वस्य कारणापायादेव रजस्तमोभ्यामनभिभूतोऽतः स्वच्छः ध्येयगताशेषविशेषप्रतिबिम्बोद्ग्राही स्थितिप्रवाह एकाग्रताधाराचित्तस्य वैशारद्यमित्यर्थः । समग्रसूत्रार्थं व्याचष्टे । यदेति । आत्मनि बुद्धौ वर्तत इत्यध्यात्मं तादृशः । प्रसादशब्दार्थं विवृणोति । भूतार्थेति । यत्रार्थविषयकः क्रमाननुरोधी युगपत्सर्वार्थग्रही स्फुटप्रत्यक्षः सम्प्रज्ञाख्यआलोक इत्यर्थः । अत्रैव परमर्षिगाथामुदाहरति । तथा चेति । तरति शोकमात्मविदिति श्रुतेरशोच्यः अहं दुःखी पापीत्यादिरूपैः स्वस्याशोच्यः सन् सर्वानेव जनान् शोचतो दुःखितान् पश्यश्यति । स्वस्वयं शोच्यो हि पुरुषः स्वापेक्षया कञ्चित् सुखिनमिव पश्यति मौढ्यात् । अशोच्यस्तु परमार्थतो दुःखसमुद्रमग्नं सर्वं जीवजातं दुःखितमेव पश्यति अमूढत्वादित्यर्थः । लोकानन्तरमितिशब्दः पादपूरणार्थः । तथा च निर्विचारवैशारद्येजाते स्वयमेव प्रकृतिपुरुषविवेको वा परमेश्वरतत्त्वं वा साक्षात्क्रियते न तु तत्साक्षात्काराय पुनर्योगापेक्षेति निर्विचाराया उत्कर्षः ॥ ४७ ॥ ऋतम्भरा तत्र प्रज्ञा ॥ ४८ ॥ तस्मिन्समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतम्भरेति सञ्ज्ञा भवति। अन्वर्था च सा, सत्यमेव बिभर्ति न च तत्र विपर्यासज्ञानगन्धोऽप्यस्तीति। तथा चोक्तम् – आगमेनानुमानेन ध्यानाभ्यासरसेन च। त्रिधा प्रकल्पयन्प्रज्ञा लभत योगमुत्तमम् ॥ इति ॥ ४८ ॥ वार्तिकम् योग-वार्त्तिकम्

पूर्वसूत्रोक्तसबीजसमाधौ जायमानायाः समापत्याख्यायाः प्रज्ञाया अन्वर्थां तान्त्रिकीं सञ्ज्ञामपि दर्शयति ।

तस्मिन्निति । तत्रेत्यस्य विवरणं तस्मिन्समाहितचितस्येति पूर्वोक्ते सबीजयोग इत्यर्थः । न चाव्यवहितसूत्रोक्तं वैशारद्यं प्रसादो वा कथं तत्रेत्यनेन परामृष्यत इति वाच्यम् । द्वितीयसूत्रतोऽत्र समाधिप्रज्ञासामान्यपरत्वस्य लप्स्यमानत्वात् । सुगममन्यत् । ननु सञ्ज्ञाकथनमात्रेण किं प्रयोजनमित्याशङ्क्याह । अन्वर्थेति । विपर्यासरूपज्ञानं यद्यपि सवितर्कयोगजप्रज्ञायां शब्दार्थज्ञानविकल्पेऽस्ति तथापि ऋतम्भरजातीयत्वस्यैवात्र विवक्षितत्त्वात् न तस्यामव्याप्तिः, साजात्यं च समाधिप्रज्ञात्वेन । अथवा तत्र समाहितचित्ते जायमाना या प्रजा सैव ऋतम्भरोच्यत इति सूत्रार्थः । लौकिकज्ञानेऽविद्यालेशसम्पर्कावश्यम्भावादिति योगकाले प्रकृष्टा प्रज्ञा भवतीत्यत्र स्मृतिं प्रमाणयति । तथा चेति । ध्यानस्य चिन्तनस्य योऽभ्यासः पौनःपुन्यं तत्र यो रस आदरस्तेन, तथा च श्रवणमनननिदिध्यासनैस्त्रिभिर्हेतुभिः सबीजयोगकाले प्रज्ञां प्रकल्पयन् प्रकर्षेण विपर्यासराहित्येनोत्पादयन् तत्प्रज्ञातः परवैराग्यद्वारा वक्ष्यमाणमुत्तमयोगं निर्बीजं लभत इति श्लोकार्थः ॥ ४८ ॥ सा पुनः – वार्तिकम् योग-वार्त्तिकम्

ननु आगमानुमानयोरपि प्रमाणत्वात्ताभ्यामेव तदर्थतत्त्वं गृह्यतां किं योगेनेत्याशङ्कानिरासायोत्तरसूत्रं प्रवर्त्ततेतद्योजयति । सा पुनरिति । श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥ श्रुतमागमविज्ञानं तत्सामान्यविषयम्। न ह्यागमेन शक्यो विशेषोऽभिधातुं, कस्मात्, न हि विशेषेण कृतसङ्केतः शब्द इति। तथाऽनुमानं सामान्यविषयमेव। यत्र प्राप्तिस्तत्र गतिर्यत्राप्राप्तिस्तत्र न भवति गतिरित्युक्तम्। अनुमानेन च सामान्येनोपसंहारः। तस्माच्छ्रुतानुमानविषयो न विशेषः कश्चिदस्तीति। वार्तिकम् योग-वार्त्तिकम्

सा तु समाधिसामान्यजा प्रज्ञाश्रुतानुमानरूपप्रज्ञाभ्यां श्रवणमननाभ्यामन्यविषया अतिरिक्तविषया विशेषार्थत्वात् विशेषोऽर्थो विषयो यस्याः सा तथा तत्त्वादित्यर्थः । समाधिप्रज्ञायाः श्रवणमननाभ्यामतिरिक्तविषयत्वं विवृणोति । श्रुतमागमेति । नहि विशेषेणेति । पदार्थतावच्छेदकरूपेणैव पदार्थः शाब्दबोधे भासतेऽन्यथातिप्रसङ्गात् । पदार्थतावच्छेदकं तु घटत्वादिसामान्यमेव न तु तत्तद्विशेषास्तेषामानन्त्येन सर्वेषामेकदाऽनुपस्थितेस्तत्तद्रूपैः शक्तिग्रहासम्भवात् विशेषाणामन्योन्यं व्यभिचाराच्चसामान्यतः श्रुतेप्यर्थ विशेषसंशयदर्शनाच्चेति । इत्युक्तमिति । अनुमानमित्यस्य विशेषणम् । अत्र हि व्यापकतावच्छेदकेन गतित्वादिसामान्येनैवानुमानं भवति न तु क्रियादिगतविशेषरूपैरिति । अनुमानेन चेति सामान्योपसंहार इत्युक्त इत्यनुषङ्गः । ननु श्रुतानुमानागोचरोऽपि विशेषो लौकिकप्रत्यक्षेणैव ग्राह्योऽस्तु किं योगजप्रत्यक्षेणेति तत्राह । न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणमस्ति। न चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति समाधिप्रज्ञानिर्ग्राह्य एव स विशेषो भवति भूतसृऽक्ष्मगतो वा पुरुषगतो वा। तस्माच्छ्रतानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वादिति ॥ ४९ ॥ वार्तिकम् योग-वार्त्तिकम्

न चाभ्येति । नन्वेवं तस्य विशेषस्याऽप्रामाणिकत्वात् अभाव एवास्त्वित्याशङ्कां प्रतिषेधति । न चास्य विशेषस्येति । नहि निर्विशेषं सामान्यमस्तीति न्यायेनसर्वत्रैव वस्तुनि विशेषसिद्धेरिति भावः । अतः परिशेषात्समाधिप्रज्ञाग्राह्य एव स विशेष इत्युपसंहरति । इति समाधीति । स्थूलस्य विशेषः कदाचिल्लौकिकप्रत्यक्षगोचरोऽपि स्यादिति स्थूलं परित्यज्य भूतसूक्ष्मगतइत्युक्तम् । पुरुषगतो वेति । एतेन पुरुषेष्वपि विशेषादिधर्मः स्वीकृतः धर्मनिषेधविशेषगुणद्रव्यादिपरः । अथ वा स्वस्वोपाधिप्रतिबिम्बा एवातीतानागतवर्तमाना मुक्तामुक्तसाधारणाखिलपुरुषेष्वन्योन्यं विशेष इति बोध्यम् । स्यादेतत् । व्यवहितादिषु सन्निकर्षाद्यभावात्कथं समाधिप्रत्यक्षग्राह्यत्वमपि स्यात् । अथ योगजधर्मस्यापि सन्निकर्षत्वं कल्प्यमिति चेन्न । संयोगादिभिरननुगमात् प्रत्यक्षे विषयस्य कारणत्वेनातीतादिप्रत्यक्षस्यैवासम्भवाच्चेति । अत्रोच्यते । अस्माकमन्तः करणस्य विभुत्वेनातीतादीनां स्वरूपतः सत्वेन च सदा सर्वासन्निकर्षात्, योगजधर्मेण च व्यवहितातीतादिज्ञानप्रतिबन्धकं तम एव निरस्यत इति तदेतत्साङ्ख्यभाष्ये’लीनवस्तुलब्धातिशयसम्बन्धाद्वा न दोष’ इति सूत्रेऽस्माभिः प्रपञ्चितम् । उपसंहारमुखेन सूत्रवाक्यार्थमाह । तस्माच्छ्रुतेति । एतेन दशमस्त्वमसीतिवत् शब्दादेव साक्षात्कार आत्मनो भवति निर्विशेषत्वेन चात्मनो न विशेषग्रहार्थमपि योगजप्रत्यक्षापेक्षेति नवीनवेदान्तिप्रलापोऽपसिद्धान्त एव, स्वशास्त्रानुक्तेऽर्थे समानतन्त्रसिद्धान्तस्यैवसिद्धान्तत्वादिति ॥ ४९ ॥ समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवो जायते – वार्तिकम् योग-वार्त्तिकम्

यथोक्तप्रज्ञायाः संस्कारजनकत्वमुत्तरसूत्रोपयोगितया प्रतिपादयति । समाधीति । ननु तथापि प्रज्ञोत्पत्तिपर्यन्तं योगापेक्षास्तु प्रज्ञोत्पत्यनन्तरं तु पुनः सम्प्रज्ञातपरम्परायाः किं फलमित्याशङ्कायामाह । तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥ समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते। व्युत्थानसंस्काराभिभवात्तत्प्रभवाः प्रत्यया न भवन्ति। प्रत्ययनिरोधे समाधिरुपतिष्ठते। ततः समाधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो जायते। ततश्च प्रज्ञा, ततश्च संस्कारा इति। कथमसौ संस्कारातिशयश्चित्तं साधिकारं न करिष्यतीति। न ते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतुत्वाच्चित्तमधिकारविशिष्टं कुर्वन्ति। चित्तं हि ते स्वकार्यादवसादयन्ति। ख्यातिपर्यवसानं हि चित्तचेष्टितमिति ॥ ५० ॥ वार्तिकम् योग-वार्त्तिकम्

प्रतिबन्धः कार्यविरोधित्वम् । इदमेव बाधशब्देन भाष्यकारो वक्ष्यति । सर्वेषां च संस्काराणां चित्तनाशादेव नाश इत्यपि भाष्ये व्यक्तीभविष्यति । सूत्रार्थं व्याचष्टे, बाधत इत्यन्तेन । आशेते इत्याशयः संस्कारश्चासावाशयश्चेति विग्रहात् संस्काराशयमनुद्बुद्धसंस्कारमित्यर्थः । उद्बुद्धसंस्कारस्य च बाधो न सम्भवति उद्बोधप्रतिबन्धस्यैव बाधशब्दार्थत्वादिति भावः । ननु वृत्तिनिरोधसंस्कारस्य व्युत्थानसंस्काराभिभावकत्वं वक्ष्यति तत्कथं समाधिप्रज्ञासंस्कारस्यापि व्युत्थानसंस्काराभिभावकत्वमिष्यत इति चेन्न । वृत्तित्वावच्छिन्नाभावस्यैव वक्ष्यमाणयुक्त्या संस्कारजनकत्वसिद्धेर्न तु सम्प्रज्ञातकालीनस्य यत्किञ्चिद्वृत्तिनिरोधस्यापि, स्मृतिहेतुतया सिद्धात्प्रज्ञासंस्कारादेव व्युत्थानसंस्काराभिभवस्य वक्ष्यमाणप्रयोजनस्योपपत्तेः । ननु एकयैव प्रज्ञाव्यक्त्या तत्सन्तानव्यक्त्या चोत्पादितेन संस्कारेण व्युत्थानसंस्कारबाधसम्भवे किमर्थं पुनःपुनः सम्प्रज्ञातानुष्ठानं तत्राह । व्युत्थानसंस्काराभिभवादित्यादि, ततश्च संस्कारा इत्यन्तेन । अभिभवात् । तत्करणात् । शेषं स्पष्टम् । अयं भावः । नैकदा सम्प्रज्ञातो व्युत्थानं संस्कारबाधः । श्रुतिस्मृतिसिद्धस्य पुनः पुनर्व्युत्थानस्यानुपपत्तेः । उपदेशाद्यनुपपत्तेश्च । किन्तु सम्प्रज्ञातपरम्पराजन्येन दृढतरसंस्कारेणैव तद्बाधः अदृढैश्च प्राथमिकैः सम्प्रज्ञातसंस्कारैस्तस्य बाधार्थन्तनुतापरम्परैव क्रियते तथा च संस्कारदाढ्यार्थं प्रज्ञासंस्कारचक्रमपेक्ष्यत इति । एतेन प्रज्ञायाः साक्षादेव व्युत्थानसंस्कारबाधकत्वशङ्काप्यपास्ता । एकप्रज्ञयैव संस्कारबाधे व्युत्थानासम्भवात् । प्रज्ञासंस्कारे तु दृढरूपवैजात्यसम्भवेन तस्यैव व्युत्थानसंस्कारबाधकतावच्छेदकत्वकल्पनया व्युत्थानाद्युपपत्तिरिति । व्युत्थानसंस्कारेषु मध्ये वा विद्यासंस्कारस्यायं विशेषः यत्सकृत्प्रज्ञया जनितेनैव संस्कारेणाविद्यासंस्कारो बाध्यते न तत्र प्रज्ञासंस्कारचक्रापेक्षेति । एतच्च ‘ते प्रतिप्रसवहेयाः सूक्ष्मा’ इत्यागामिसूत्रद्वये प्रकटीभविष्यति । इदमत्रावधेयम् । अस्मिन्सूत्रे शेषसूत्रे चाखिलसंस्कारदाहस्य योगफलत्ववचनात् प्रारब्धकर्मणोऽप्यतिक्रमेणाशुतरमोक्षः केवलज्ञानासाध्यो योगयोरसाधारणं फलमिति । नहि भोगसंस्कारस्य निःशेषतो दाहे प्रारब्धकर्मापि फलायालं, दृष्टकारणाभावात् । योगाग्निदग्धकर्मचयोऽचिरादित्यादिवाक्ये सङ्कोचकप्रमाणाभावाच्च । ज्ञानाग्निः सर्वकर्माणीत्यादिष्वगत्या सङ्कोचः क्रियते तस्य तावदेव चिरमित्यादिज्ञानिविषयकश्रुतेः उपदेशाद्यन्यथानुपपत्तेश्च । साङ्ख्यवेदान्तसूत्रयोश्च ज्ञानिनामेव प्रारब्धभोगावश्यकतोक्ता । नन्वर्द्धभुक्तप्रारब्धकर्मणां नाशे तत्फलस्य कालप्रतिनियमानुपपत्तिरिति चेन्न । शास्त्रोक्तनाशकनाश्यकर्मस्वेव कालप्रतिनियमात् । अन्यथा कर्मविपाकोक्तप्रायश्चित्तस्य शान्तिकर्मादेश्चार्धभुक्तपापनाशकत्वानुपपत्तिः शास्त्रोक्तनाशकनाश्यकर्मणां तु फलदातृत्वमिति दिक् । नन्वेवं प्रज्ञासंस्कारातिशयस्वीकारे ततोऽपि पुनर्जन्म भविष्यति । न चासम्प्रज्ञातयोगेन तस्य नाशो भवितेति वाच्यम् । असम्प्रज्ञाताभावेऽपि प्रारब्धसमाप्त्यनन्तरं केवलज्ञानतो मोक्षाभ्युपगमादित्याशङ्कते । कथमसाविति । साधिकारं स्वकार्यजननक्षमम् । परिहरति । न त इति । ते प्रज्ञासंस्काराश्चित्तं स्वकार्यक्षमं न कुर्वन्ति जन्मकारणस्याविद्यादिक्लेशस्य विनाशनादित्यर्थः । कर्मनाशनादित्यपि बोध्यम् । कर्तव्यसमापनादपि साधिकारं न कुर्वन्तीत्याह । चित्तं हीति । स्वकार्यादवसादयन्ति कर्त्तव्यशून्यङ्कुर्वन्ति । तत्र हेतुः ख्यातीत्यादि । हि यस्माच्चित्तस्य व्यापारो विवेकख्यातिपर्यन्तः विवेकख्यातिनिष्पत्तौ सत्यां प्रवर्त्तकपुरुषार्थासम्भवात् सा च विवेकख्यातिरूपा प्रज्ञा तत्संस्कारातिशयेनानिशमुत्पद्य परवैराग्यजननद्वारेणसमाप्यत इत्यर्थः ॥ ५० ॥ किं चास्य भवति – वार्तिकम् योग-वार्त्तिकम्

क्षीणवृत्तेरित्यादिसूत्रैः सम्प्रज्ञातस्य फलादिकमुक्तमिदानीमसम्प्रज्ञातस्य फलादेः सूत्रं प्रवर्त्तिष्यते । तत्सूत्रं प्रज्ञासंस्कारातिशयस्य पुनर्जन्माहेतुत्त्वे हेत्वन्तरपरतयाऽवतारयति । किञ्चास्येति । अस्य प्रज्ञासंस्कारस्यान्यच्च फलं सर्ववृत्तितत्संस्कारयोर्निरोधो भवतीति न पुनर्जन्मसम्भावनेत्यर्थः । तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ ५१ ॥ स न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृतानामपि संस्काराणां प्रतिबन्धी भवति। कस्मात्, निरोधजः संस्कारः समाधिजान्संस्कारान्बाधत इति। वार्तिकम् योग-वार्त्तिकम्

पूर्वपूर्वासम्प्रज्ञाते तावत्प्रज्ञैव निरुध्यते प्रज्ञासंस्कारस्य तु तानवमात्रं भवति । एवं क्रमेण तु तस्यापि प्रज्ञाकृतसंस्कारस्याप्यसम्प्रज्ञातपरम्परया निरोधेऽत्यन्ताभिभवे जायमाने चरमासम्प्रज्ञातो निर्बीजयोगस्य परा काष्ठा भवत्यपुनर्व्युत्थानेत्यर्थः । सर्वनिरोधादितिसूत्रावयवेन निर्बीजत्वे हेतुरुक्तः । यतः प्रज्ञा तत्संस्कारश्च सर्वोप्यत्यन्तं विलपितोऽतो निर्बीजः । दुःखबीजैः संस्कारादिभिः शून्य इत्यर्थः ।

पूर्वपूर्वासम्प्रज्ञातव्यक्तिषु च क्रमेण बीजतानवाद्गौणं निर्बीजत्वमसम्प्रज्ञातलक्षणे पूर्वं भाष्यकृतोक्तमिति स्मर्त्तव्यं तथा च चरमासम्प्रज्ञाते सर्वे प्रज्ञासंस्काराः क्षीयन्त इत्यतो न ते चित्तं साधिकारं कुर्वन्तीति भावः । एतेनासम्प्रज्ञातपरम्परायाः प्रज्ञासंस्कारात्यन्तलयः फलं सूत्रेणोक्तं, सूत्रस्थस्यापिशब्दस्यार्थं भाष्यकारो व्याचष्टे । स न केवलमिति । स सामान्यनिर्बीजयोगः न केवलं समाधिप्रज्ञाया विरोधी भावाभावरूपेण अपि तु क्रमेणप्रज्ञाकृतसंस्काराणामपि प्रतिबन्धी अत्यन्तमभिभावक इत्यर्थः । ननु यद्यप्रज्ञातो बाधकस्तर्हि सकृदसम्प्रज्ञातादेव सर्वसंस्कारबाधे व्युत्थानं कदापि कस्यापि न स्यादित्याशयेनाक्षिपति । कस्मादिति । परिहरति । निरोध इति । न निरोधः साक्षादेव प्रज्ञासंस्कारान् विलामयति किन्तु निरोधपरम्पराजन्यो दृढतरः संस्कार एव प्रज्ञासंस्कारानत्यन्तं विलापयतीत्यर्थः । दृढतरत्वं च जातिविशेष इत्युक्तम् । ननु ज्ञानस्यैव संस्कारजनकत्वं दृष्टं निरोधस्तु न ज्ञानं संस्कारशेषचित्तावस्थाविशेषमात्रत्वादतस्तस्य संस्कारजनकत्वे किं प्रमाणमित्याशङ्क्याह । निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्तित्वमनुमेयम्। व्युत्थाननिरोध-समाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैश्चित्तं स्वस्यां प्रकृताववस्थितायां प्रविलीयते। तस्मात्ते संस्काराश्चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति। वार्तिकम् योग-वार्त्तिकम्

निरोधस्थितीति । निरोधस्थितावसम्प्रज्ञातावस्थाने यो मुहूर्ताहोरात्रमासादिरूपः कालक्रमः क्रमेण कालवृद्धिस्तद्दर्शनेन निरोधावस्थाचित्तजन्यः संस्कारोऽनुमेयः संस्कारवृद्धिव्यतिरेकेण तन्नियामकासम्भवादित्यर्थः । सम्प्रज्ञातस्य तु कालवृद्धिः प्रज्ञासंस्कारतारतम्येनैवोपपद्यत इत्यतो न सम्प्रज्ञातस्य संस्कारहेतुतेति । ननु प्रज्ञासंस्कारश्चरमासम्प्रज्ञातेनात्यन्तं बाध्यतां निरोधसंस्कारास्तु कुतः समुच्छिद्यन्ते, तदनुच्छेदे च साधिकारत्वमेव चित्तस्येतिमोक्षानुपपत्तिः । किञ्च प्रलीनानामपि संस्काराणां कदाचिद्योगीश्वरसङ्कल्पादिना दग्धबीजस्येव पुनरुद्बोधोऽपि सम्भाव्यते इत्याशङ्कामपाकरोति । व्युत्थाननिरोधेति । असम्प्रज्ञातापेक्षया समाधिप्रज्ञापि व्युत्थानम् । अतो व्युत्थानं ज्ञानसामान्यं निरोधसमाधिश्चासम्प्रज्ञातस्तदुभयप्रभवैः सह सहितैः कैवल्यभागीयैः कैवल्यहेतुकर्मसंस्कारैर्विशिष्टं चित्तं स्वकीयप्रकृतौ नित्यायां स्वयमेव प्रलीयते दग्धेन्धनानलवदात्यन्तिकलयं गच्छति परिणामस्वाभाव्यात् तत्स्वामिपुरुषस्य भोगहेतुर्विसदृशपरिणाम एव हि पुनर्न भवति तद्धेतोःपुरुषार्थस्याभावादित्यर्थः । अथवाकैवल्यभागीयैः कैवल्यपर्यन्तस्थायिभिर्व्युत्थानसंस्कारैः सहेति चित्तविशेषणम् । अनेन सूत्रेण शङ्कानिराकरणमुपपादयति । तस्मादिति । तस्मान्निरोधसंस्कारस्यापि क्षयात्ते निरोधसंस्कारा इत्यादिरर्थः । ननु भवतु योगद्वयाच्चित्तस्यात्यन्तिकलयस्तथापि पुरुषार्थः कः सिध्यतीत्याकाङ्क्षायामाह । यस्मादवसिताधिकारं सह कैवल्यभागीयैः संस्कारैश्चित्तं निवर्तते, तस्मिन्निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठोऽतः शुद्धः केवलो मुक्त इत्युच्यत इति ॥ ५१ ॥ वार्तिकम् योग-वार्त्तिकम्

यस्मादित्यादि । यस्माच्चित्तं निवर्ततेऽतस्तस्मिन्निवृत्ते सति पुरुषो मुक्त इत्युच्यते तत्र हेतुगर्भविशेषणानि स्वरूपेत्यादीनि । स्वरूपमात्रप्रतिष्ठः पररूपैः प्रतिबिम्बितदुःखादिभिर्मुक्तः शुद्धस्वत्वसम्बन्धेन पुण्यपापमुक्तः । भोगसाधनत्वस्यैव स्वत्वतया कूटस्थस्यापि संसारदशायां स्वत्वाभ्युपगमात् । एतादृशमुक्तेः साध्यत्वमुपपन्नं केवल उपाधिसंयोगाख्यबन्धमुक्त इत्यर्थः । एवंरूपो मोक्ष एव योगस्य मुख्यं फलमित्याशयः । पारमार्थिको दुःखकर्मादिसम्बन्धो लेपाख्यसंयोगरूपसम्बन्धो वा लोके बन्ध इत्युच्यते तन्मुक्तिश्च बुद्धेरेव न कूटस्थस्यासङ्गस्य पुरुषस्येति प्रतिपादयितुं मुक्त इत्युच्यत इत्युक्तं शास्त्रेषु मुक्त इति व्यवहारमात्रं क्रियत इति तस्यार्थः । तदुक्तं साङ्ख्यसूत्रेण’वाङ्मात्रं न तु तत्त्वं चित्तस्थिते’रिति । पुरुषे बन्धादिकं वाङ्मात्रं चित्त एव बन्धाद्यवस्थानादित्यर्थः । पुरुषार्थत्वं च पारमार्थिकमेव दुःखं भुञ्जीयामिति प्रार्थनादिति भावः । साङ्ख्यप्रवचन इति । साङ्ख्यशास्त्रस्यैव प्रकर्षेण वचनं साङ्ख्यप्रवचनं, साङ्ख्ये ह्यभ्युपगमवादेनेश्वरं प्रतिषिध्यासम्प्रज्ञातयोगनैरपेक्ष्येण च जीवतत्त्वज्ञानादेव मोक्ष उक्तोऽस्मिंस्तु शास्त्रे निरुपद्रवासन्दिग्धैच्छिकमुक्तिनियमाय परमेश्वरविद्या आशुमोक्षहेतुरसम्प्रज्ञातयोगश्च प्रदर्शित इति भावः ॥ ५१ ॥ साधनपादः उद्दिष्टः समाहितचित्तस्य योगः। कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादित्येतदारभ्यते – वार्तिकम् योग-वार्त्तिकम्

ननु प्रथमपादेनैव योगः सोपायः सफलश्चावान्तरभेदैः सह प्रोक्तः तत्किमपरमवशिष्यते यदर्थं द्वितीयपाद आरब्धव्य इत्याकाङ्क्षायामाह । उद्दिष्ट इति । समाहितचित्तस्य योगारुढचित्तस्योत्तमाधिकारिणोऽभ्यासवैराग्यमात्रसाधनेनैष क्रियायोगादिसकलाङ्गानां नैरपेत्येक्ष्येण पूर्वपादे योगःप्रदर्शितः तेषां बहिरङ्गत्वं वक्ष्यति ‘त्रयमन्तरङ्गं पूर्वेभ्य’ इति सूत्रेण तदभावेपि भावादिति भाष्येण च । तथा चोक्तमाश्वमेधिके ।

अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः । ब्रह्मभूतश्चरन् लोके ब्रह्मचारीति कथ्यते ॥

इति । तथा गारुडेपि ।

आसनस्थानविधयो न योगस्य प्रसाधकाः । शिशुपालः सिद्धिमापस्मरणाभ्यासगौरवात् ॥

इति । ते चाभ्यासवैराग्ये न सर्वेषां द्रागित्येव भवतः, अतो व्युत्थितचित्तो बहिर्मुखोपिइ योगा(योगमारुरुक्षुरिति)रुरुक्षः क्रमात् केनोपायेन योगयुक्तः स्यादितितमुपायं वक्तुमेतत्सूवजातमारभप्तइत्यर्थः । तेदेवमधिकारभेदेन साधनभेदो

गारुडादिष्वप्युक्तः ।

आरुरुक्षुयतीनां च कर्मज्ञाने उदाहृते । आरूढयोगवृक्षाणां ज्ञानत्यगौ परौ मतौ ॥

इति ।

त्यागो बाह्यकर्मणाम् । गीतायामपि । आरुरुक्षोर्मुनेर्योगं कर्म कारणमच्यते । यागारूढस्य तस्यैव शमः कारणमच्यते ॥

इति । कारणं योगस्य ॥ तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १ ॥ नातपस्विनो योगः सिध्यति। अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर्नान्तरेण तपः सम्भेदमापद्यत इति तपस उपादानम्। तच्च चित्तप्रसादनमबाधमानमनेनाऽऽसेव्यमिति मन्यते। स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा। ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं तत्फलसन्न्यासो वा ॥ १ ॥ वार्तिकम् योग-वार्त्तिकम्

योगोपायत्वाद्योगः, क्रिया चासौ योगश्चेति विग्रहः तपआदीनि त्रीणि क्रियायोग इत्यर्थः । ईश्वरप्रणिधानरूपो भक्तियोगोऽप्यत्र क्रियायोगमध्यएव प्रवेशितः ।

अतो ‘योगास्त्रयो मया प्रोक्ता भक्तिज्ञानक्रियात्मका’ इत्यादिस्मृतिषु त्रय एव योगोपायत्वाद्योगा उक्ताः तत्र ज्ञानयोगो धारणाध्यानसमाधिरूपः पूर्वपादे प्रोक्तः विस्तरस्त्वस्याग्रे भविष्यतीति । यद्यपि यमादयोपि क्रियायोगास्तथापि वक्ष्यमाणयमनियमादिषु मध्ये तपआदित्रयं प्रकृष्टतयादौ पृथङ् निर्दिष्टं केवलेनैतेनापि तीव्रतरेण योगो भवतीति सूचयितुमिति बोध्यम् । ननु स्वाध्यायेश्वरप्रणिधानं च तत्त्वज्ञानेश्वरानुग्रहाभ्यां योगोपकारकं स्यात् तपस्तु देहेन्द्रियशोषणात्मकं केन द्वारेण योगस्योपकारकं भवतु प्रत्युत चित्तक्षोभकत्त्वेन योगविरोध्येवेत्याशङ्क्य तपसो द्वारमाह । नातपस्विन इति । असिद्धौ हेतुमाह । अनादीति । अनादिक्लेशकर्मवासनया हेतुना चित्रा नानाविधा अशुद्धिः पापाख्याप्रत्युपस्थापितविषयजालतया योगविरोधिनी तपो विना न सम्भेदं तनुतामपद्यइत्यर्थः । इतीति । इत्यतः साधनमध्ये तपसो ग्रहणमित्यर्थः । योगविरोधशङ्कामपाकरोति । तच्चेति । तच्च तपश्चित्तप्रसादाविरोधि मृद्वेवानेन योगिना कर्त्तव्यमिति परमर्षिभिर्मन्यत इत्यर्थः । पवित्राणां पापक्षयहेतूनाम् । प्रथमपादोक्तप्रणिधानादतिरिक्तमत्र प्रणिधानमाह । सर्वक्रियामिति । लौकिकवैदिकासाधारण्येन सर्वकर्मणां परमेश्वरेन्तर्यामिणि अर्पणमित्यर्थः । तदुक्तं गीतायाम् ।

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥

इति ।

अर्पणं च -

कामतोऽकामतो वापि यत्करोमि शुभाशुभम् । तत्सर्वं त्वयि सन्न्यस्तं त्वत्प्रयुक्तः करोम्यहम् ॥

इत्यादिस्मृतिभिर्व्याख्यातमिति । त्वत्प्रयुक्तः करोम्यहमितिचिन्तनमेव सन्न्यास इत्यर्थः । अत्र प्रयोक्तृत्वमन्तर्यामिविधयैव न तु श्रुतिद्वारा अशुभकर्मसु श्रुत्यभावादिति । एतदपेक्षयापि प्रकृष्टं द्विविधं कर्मार्पणान्तरङ्कौर्मे प्राक्तम् ।

ब्रह्मणा दीयते देयं ब्रह्मणो सम्प्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥

नाहं कर्त्ता सर्वमेतत् ब्रह्मैव कुरुते तथा । एतत् ब्रह्मार्पणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥

इति । तत्फलेति । एतदपि कौर्मे प्रोक्तम् । यद्वा फलानां सन्न्यासं प्रकुर्यात्परमेश्वरे । कर्मणामेतदप्याहुर्ब्रह्मर्पणमनुत्तमम् ॥

इति । कर्मफलानामीश्वरो भोक्तेति चिन्तनं कर्मफलसन्न्यासः । भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरमित्याद्विवाक्यात् । तदुक्तम् । ‘करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत् तदि’ति । यज्ञादीनां ही न्द्रादिभावापक्षस्यान्तर्यामिणो भोग एव मुख्यं फलं ‘येप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वक’मित्यादिवाक्येभ्य इति । नन्यत्र वाक्ये विष्ण्वाख्यदेवताविशेषस्यैवेतरदेवतायजनेन यजनं प्रोक्तं न परमात्मन इति चेन्न । परं हि ब्रह्म कथितं योगयुक्तेन तन्मयेत्यनुगीतावाक्यतः श्रीकृष्णस्य भगवद्गीतायां परमात्मोपदेशस्यैव लाभादिति । यद्यपीश्वरस्य भोगो नित्यः तथापि सिसृक्षाद्युत्पत्तिवत् तदुष्पत्तिर्गौणी । यज्ञादिसहकारेणैव फलदातृतयेश्वरप्रीतेरभिव्यक्तेः । नन्वीश्वरप्रणिधानमत्र पूर्वपादोक्तभावनारूपमेव कथं न भवति तत्राह । स हि क्रियायोग इति । स हि स एव फलसन्न्यासः कर्मार्पणं च क्रियायोगो भवति कर्मशेषत्वात्तज्जपस्तदर्थभावनमिति पूर्वोक्तं च भावनारूपं प्रणिधानं ज्ञानमेव कर्मतच्छेषत्वयोरभावादित्यर्थः । उत्तरसूत्रेण सहान्वयेतुहिशब्दवैयर्थ्यमिति बोध्यम् ॥ १ ॥ स हि क्रियायोगः – वार्तिकम् योग-वार्त्तिकम्

तेषां योगद्वारमाह ॥ समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २ ॥ स ह्यासेव्यमानः समाधिं भावयति क्लेशांश्च प्रतनू करोति। प्रतनूकृतान्क्लेशान्प्रसङ्ख्यानाग्निना दग्धबीजकल्पानप्रसवधर्मिणः करिष्यतीति। तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति ॥ २ ॥ वार्तिकम् योग-वार्त्तिकम्

उभयार्थत्वे हेतुमाह । स हीति । आ सम्यक् निष्काप्रादिरूपेणसेव्यमानः स हि स एव कर्मयोगः । कर्मातिरिक्तविषयेभ्यो निरुद्धवृत्तिकं निष्पापं च चित्तं करोति ततः क्रमेण सन्वोद्रेकादेकाग्रमन्यत्रापि करोति । अविद्यादिकं च प्रकर्षेणानायासेन तनूकरोति सत्त्वशुद्ध्यादिद्वारेत्यर्थः । उत्तमाधिकारिणश्च समाधियोग्यता क्लेशतनुता च सिद्धैवेत्यतः पूर्वपादे तदुभयं योगसाधनतया नोक्तम् । ननु अविद्यादीनां क्लेशानां नाशेनैव संसारोच्छेदः प्रतनूकरणेन तु किं प्रयोजनमित्याकाङ्क्षायामाह । प्रतनूकृतानिति । प्रतनूकृतांश्च शुष्केन्धनतुल्यान् कृतान् क्लेशान् क्रियायोगः स्वयमुद्दीपितेन प्रसङ्ख्यानाग्निना विवेकख्यातिवह्निना दग्धबीजवदप्रसवधार्मिणोऽप्रसवस्वभावान् संस्काराजनकान् करिष्यति जीवन्मुक्तिदशायामिति शेषः । प्रसङ्ख्यानाग्निज्वालने तनूकरणस्य द्वारं वदन् पूर्वोक्तार्थमुपसहरति । तेषामिति । अपरामृष्टा अनभिभूता, तथा चानभिभव एव तनूकरणस्य द्वारमिति । सूक्ष्मेति । सूक्ष्मविषयत्वात् सूक्ष्मा साक्षात्काररूपिणी प्रज्ञा क्रमेण समाप्तकर्त्तत्र्या सती चरमासम्प्रज्ञाते प्रतिप्रसवाय प्रलयाय कल्पिष्यते विदेहकैवल्यदशायामिति शेषः । तदेवं क्रियायोगस्य मोक्षज्ञानादिव्यापारकथनात्कर्मयोगो ज्ञानादिसाधनतया ज्ञानाद्यङ्गमेव न साक्षान्मोक्षहेतुरिति सिद्धान्त इति ॥ २ ॥ अथ के क्लेशाः कियन्तो वेति – वार्तिकम् योग-वार्त्तिकम्

उत्तरसूत्रावताराय पृच्छति । अथेति ॥ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ ३ ॥ क्लेशा इति पञ्च विपर्यया इत्यर्थः। ते स्पन्दमाना गुणाधिकारं द्रढयन्ति, परिणाममवस्थापयन्ति, कार्यकारणस्रोत उन्नमयन्ति, परस्परानुग्रहतन्त्री भूत्वा कर्मविपाकं चाभिनिर्हरन्तीति ॥ ३ ॥ वार्तिकम् योग-वार्त्तिकम्

पञ्च विपर्यया इति पूरयित्वा सङ्क्षेपतः सूत्रार्थमाह । क्लेशा इतीति । इतिशब्दोऽविद्यादिपरामर्शी तथा चाविद्यास्मितारागद्वेषाभिनिवेशाइति पञ्चविपर्ययाः क्लेशा इत्यर्थ इति योजना । अत्र कियन्त इति प्रश्नस्योत्तरं पञ्चेत्यनेन । के त इत्यस्य चोत्तरं विपर्यया इत्यनेनाह । पञ्च विपर्यया इति । अत्र पञ्चेत्यर्थादेव लब्धं विपर्यया इति च पूरितं विशेषलक्षणस्य च सामान्यलक्षणपूर्वकत्वौचित्यात् विपर्ययशब्दश्चात्र संसारहेतुविपर्ययार्थकः अतो न शुक्तिरजतविपर्यये क्लेशलक्षणातिव्यप्तिः । रागादीनां च विपर्ययकार्यतया विपर्ययत्वं चेष्टम् । प्रकृतस्य संसारहेतुविपर्ययस्य लक्षणमदृष्टसामान्यहेतुमनोविशेषगुणत्वमिति । ननु क्लेशशब्दो दुःखवाची किमित्यविद्यादिषु परिभाषितः, किमर्थं वा तेषामुच्छेदोऽपेक्षित इत्याकाङ्क्षायामाह ते स्यन्दमाना इति । ते क्लेशाःस्यन्दमाना लब्धवृत्तिका दृष्टादृष्टद्वारा गुणानां सत्त्वादीनाम् अधिकारं कार्यारम्भणसामर्थ्यं द्रढयन्ति बलवत् कुर्वन्ति तथा गुणानां परिणामं वैषम्यरूपमवस्थापयन्ति निर्वर्तयन्ति ततश्च महदादिरूपकार्यकारणप्रवाहमुन्नमयन्ति प्रवर्तयन्ति । यदर्थमेतत्सर्वं कुर्वन्ति तद्दर्शयति । परस्परेति । कर्मविपाकं जात्यायुर्भोगं चाभिनिर्हरन्ति निष्पादयन्ति । किं स्वतन्त्रा एव, नेत्याह । परस्परानुग्रहतन्त्रा भूत्वेति । अविद्यातो रागो रागाच्चाविद्येत्येवमादिरूपान्योन्यानुग्रहाधीना भूत्वेत्यर्थः । अन्योन्यसाहित्येनैव हि क्लेशानां स्थैर्यं भवति, येन स्थैर्येण विपाकपरम्परा निर्वहतीति भावः । तथा च क्लेशाख्यदुःखदत्वादविद्यादीनां क्लेशपरिभाषा तान्त्रिकी, तथा दुःखनिदानतयाऽविद्यादयः समुच्छेत्तव्या इति भावः ॥ ३ ॥ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४ ॥ अत्राविद्या क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां चतुर्विधविकल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम्। तत्र का प्रसुप्तिः। चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः। तस्य प्रबोध आलम्बने सम्मुखीभावः। प्रसङ्ख्यानवतो दग्धक्लेशबीजस्य सम्मुखीभूतेऽप्यालम्बने नासौ पुनरस्ति, दग्धबीजस्य कुतः प्ररोह इति। अतः क्षीणक्लेशः कुशलश्चरमदेह इत्युच्यते। तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति। सतां क्लेशानां तदा बीजसामर्थ्यं दग्धमिति विषयस्य सम्मुखीभावेऽपि सति न भवत्येषां प्रबोध इत्युक्ता प्रसुप्तिर्दग्धबीजानामप्ररोहश्च। वार्तिकम् योग-वार्त्तिकम्

निमित्तकारणस्यापि प्रसवभूमित्वं प्राधान्यमात्रेण गौणं व्याख्यास्थते । अत्रेति । अत्र एतेषु क्लेशेषु मध्ये चर्तुभेदानामस्मितादिक्लेशानामित्यादिरर्थः । प्रसन्तादीनां सर्वेषामेवावियासत्त्वे सत्त्वं तदभावे तदभाव इत्याशयः । तेषां चतुर्विधभेदं विवृणोति । तत्र का प्रसुप्तिरिति । चेतसिशक्तिमात्रेणानागतवस्थयावस्थितानामस्मितादीनां बीजभावोपगमः स्वकार्यजननसामर्थ्थ प्रसुप्तिरित्यर्थः । अस्माद्वाक्यात् कार्यस्यानागतावस्यैव कारणे कार्यशक्तिरिति लब्धं सैव च उपादानकारणतेतिभावः । दग्धबीजभावां पञ्चमीमवस्थां व्यावर्त्तयितं बीजभावोपगम इत्युक्तं दग्धबीजभावानां चास्मितादीनां पुनरप्रसवादविद्या न क्षेत्रमिति सा पञ्चम्यवस्थान लक्ष्येतिभावः । कदाचित्प्रबोधसत्त्वे एव सुषुप्तिः सम्भवतीत्यतः प्रबोधमपि दर्शयति । तस्येति । तस्य सुप्तक्लेशस्य स्वस्वविषये समुखीभावोभिव्यक्तिः प्रबोध इत्यर्थः ।

पञ्चम्यवस्थायामतिव्यात्यभावं

प्रतिपादयेति । प्रसङ्ख्यानेति । प्रसङ्ख्यानवतो विवेकसाक्षात्वारिणो जीवन्मुक्तस्य दग्धक्लेशबीजतया सम्मुखीभूते सन्निकृष्टेऽपि विषये असौ क्लेशानां सम्मुखीभावः पुनर्नभवति । तत्र हेतुर्दग्धबीजस्य कुतः प्ररोह इतीति । कारणाभावादित्यर्थः । तत्र तस्य पुनः क्लेशप्ररोहे, शास्त्रप्रसिद्धं चरमदेहकत्वन्त्व प्रमाणयति । अत इति । पुनः प्ररोहे सति देहान्तरोत्यत्या ज्ञानिदेहस्य चरमत्वानुपपत्तिरिति भावः । तथा च स्मर्यते ।

बीजन्यग्न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥

इति । ज्ञानदग्धैः क्लेशरूपबीजैर्हपभिरात्मा देहो न पुनरूत्पद्यत इत्यर्थः ।

क्लेशाख्यबीजदाहादित्यर्थः । दग्धबीजभावाया अवस्थाया अपरिगणने बीजमाह । तत्रैवेति । तत्रैव चरमदेहएव दग्धबीजावस्था नान्यत्र पुन र्जन्माभावादित्यर्थः । अतो नास्ति दग्धबीजावस्थस्य प्रस्रवो नापि तत्प्रसवभूमिरविद्येति भावः । जीवन्मुक्तानां विषयसन्निकर्षेऽपि क्लेशानभिव्यक्तेः क्लेशसंस्कार एव तदा नास्ति विवेके कैवल्य इवेति भ्रमं निरस्यति । सतामिति । सूक्ष्मरूपेण सतामेव क्लेशानां तदा चरप्रदेहे बीजसुमर्थ्थं कार्यजननसामर्थ्यं दग्धं नाशितमित्यादिरर्थः । अग्न्यादौ दाहादिशक्तेर्यावद्द्रव्यभावितादर्शनात् चित्तेन सहैव क्लेशशक्तेरशेषतो नाशसम्भवात् । ततश्च ते प्रतिप्रसवहेयाः सूक्ष्मा इतिसूत्रे व्यक्तीभविष्यति । उपसंहरति । इत्युक्तं प्रसुप्तिरिर्दग्धबीजानामप्ररोहश्चेति । शिष्यावधानाय क्रमप्राप्तं तनुत्वस्यनिर्ववनं प्रतिजानीते । तनुत्वमुच्यते – प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति। तथा विच्छिद्य विच्छिद्य तेन तेनाऽऽत्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः। कथं, रागकाले क्रोधस्यादर्शनात्। न हि रागकाले क्रोधः समुदाचरति। रागश्च क्वचिदृश्यमानो न विषयान्तरे नास्ति। नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्तः किन्तु तत्र रागो लब्धवृत्तिरन्यत्र तु भविष्यद्वृत्तिरिति। स हि तदा प्रसुप्ततनुविच्छिन्नो भवति। वार्तिकम् योग-वार्त्तिकम्

तनुत्वमुच्यत इति । प्रतिपक्षेति । क्लेशप्रतिपक्षःक्रियायोगः तस्य भावनमनुष्ठानं तेनोपहताः क्लेशास्तनवो विवेकख्यातिप्रतिबन्धात्तमा भवन्ति, एतदेव तनुत्वमिति शेषः । केचित्तु सम्यग्दर्शनं श्रवणादिरूपं परोक्षमविद्यायाः प्रतिपक्षः एवं भेददर्शनमस्मितायाम हेयानुपादेयताज्ञानरूपं माध्यस्थ्यं रागद्वेषयोः उपकरणाख्यानुबन्धबुद्धिनिवृत्तिरभिनिवेशस्य, एतेषां भावनेनानुष्ठानेनोपहता इत्यर्थमाहुः । विच्छित्तिं व्याचष्टे । तथेति । क्लेशानामन्यतमेनाभिभवादत्यन्तविषयसेवनाद्वा विच्छिद्य विच्छिद्य तेन तेनात्मना पूर्ववदतनुभावेनैव पुनः समुदाचरन्ति अविर्भवन्तीत्यतो विच्छिन्नशब्दवाच्या भवन्तीत्यर्थः । अत्र वीप्सया विच्छिद्य समुदाचारयोः पौनःपुन्यं दर्शयता प्रसुप्तात् भेद उक्तः, प्रसुप्तिहिं क्लेशानां व्यञ्जकविलम्बनैकद्विविजन्मादिबहुकालं व्यापारानभिव्यक्तिः विच्छिन्नता तु स्वल्यप्रतिबन्धतः क्लेशप्रवादस्याल्पकालमन्तरान्तरानभिव्यक्तिरिति भेदः तेन तेनात्मनेत्यनेन च तत्ववस्थातो भेद्र उक्त इति । विच्छेदे प्रमाणं पृच्छति । कथमिति । उत्तरं, रागेति । रागकाले क्रोधस्यादर्शनात् क्रोधस्य विच्छिन्नता सिध्यतीत्यर्थः । तदा क्रोधाभावे च पुनः क्रोधोत्पत्यसम्भवः असत्कार्यानभ्युपगमादिति भावः । एवं क्लेशान्तरेपि द्रष्टव्यम् । रागकाले क्रोधस्य विच्छेदे च क्रोधो बीजमित्याह । नहीति । कालिकविच्छेदं क्लेशानाम् उदाहृत्य दैशिकविच्छेदमप्युदाहरति । रागश्चेति । विषयान्तरे न नास्ति अपि तु विच्छिन्नावस्थस्तत्रापि अन्यथाऽसदुत्पादादासम्भवादित्यर्थः । अतो विषयान्तरे तदा रागेण विच्छिन्ना इति भावः । तदेवं लोकव्यवहारेणाप्यवधारयति । नैकस्यामिति । तत्र एकस्यां स्त्रिस्यामित्यर्थः । स हीति । सहि रागस्तदा अन्यत्र प्रसुप्तो वा तनुर्वा विच्छिन्नो वैकतरे ऽवश्यं भवति तत्र विच्छिन्नतामादायात्रोदाहृत इत्याशयः । उदारतां व्याचष्टे । विषये यो लब्धवृत्तिः स उदारः। सर्व एवैते क्लेशविषयत्वं नातिक्रामन्ति। कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारो वा क्लेश इति, उच्यते – सत्यमेवैतत्, किन्तु विशिष्टानामेवैतेषां विच्छिन्नादित्वम्। यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति। सर्व एवामी क्लेशा अविद्याभेदाः। कस्मात्, सर्वेष्वविद्यैवाभिप्लवते। यदविद्यया वस्त्वाकार्यते तदेवानुशेरते क्लेशा विपर्यासप्रत्ययकाल उपलभ्यन्ते क्षीयमाणां चाविद्यामनु क्षीयन्त इति ॥ ४ ॥ वार्तिकम् योग-वार्त्तिकम्

क्लेशानां स्थूलसूक्ष्माणां सर्वेषामेव ज्ञाननाश्यत्ववक्ष्यमाणमुपपादयितुम् अविद्यामूलकत्वमन्यक्लेशानामाह ॥

विषये इति । लब्धवृत्तिर्लब्धस्वाभाविकवृत्तिरित्यर्थः । तेन तनुव्यावृत्तिः । ननु प्रसुप्तविच्छित्रयोः कथं क्लेशत्वं दुःखजनकत्वादित्याशङ्काह । सर्व एवैत इति । क्लेशविषयत्वं क्लेशजननयोग्यत्वं नातिक्रामन्ति उदाराद्यवस्थायां प्रसुप्तादिरूपस्य धर्मिणो दुःखदत्वादित्यर्थः । नन्वेवं सर्वासामेवक्लेशव्यक्तीनां कालभेदाच्चानुरूप्ये कथं प्रसुप्तादिरूपेण क्लेशानां विभाग इत्याशङ्कते । कस्तर्हीति । परिहरति । उच्यत इति । प्रसुप्तादिरूपेण चतुर्णां क्लेशानामेकत्वमिति सत्यमेतत् । तथापि अवस्थाभिर्विशिष्टानामेव क्लेशानां विच्छिवादित्वं विवक्षितं यथैकस्यैव पुरुषस्य बालकतरुणवृद्धादिरूपो विभाग इत्यर्थः । उक्ताया उदारावस्थायाः कारणं प्रदर्शयति हानाय । यथैवेति । स्वव्यञ्जकेन विषयध्यानेनाञ्जनेनाभिव्यक्त उदारो भवति क्लेश अतो मुमुक्षुणा प्रतिपक्षभावनावद्विषयसङ्गत्यागोपि कार्य इत्याशयः । निमित्तकारणेपि क्षेत्रशब्दो येन गुणेनात्र गौणस्तमाह । सर्वेष्वितिसर्व । ननु रागादीनां ज्ञानत्वाभावात् कथमविद्याविशेषत्वमित्याशयेन पृच्छति कस्मादिति । उत्तरं, सर्वेष्विति । सर्वेष्वेव स्वेत रक्लेशेष्वविद्यैवव व्यापिका भवति तत्र हेतुर्यदिति, आकार्यते विषयीक्रियते । अनुशेरते अनुगता भवन्ति, शेषं सुगमं, तथा च “वैशेष्यात्तद्वाद” इति न्यायेनाविद्याप्राचुर्यात् अविद्यामिश्रितेषु सर्वक्लेशेष्वविद्याभेदवत्यमुपपन्नं, यथा सुवर्णादिषु पार्थिवांशमिश्रितेषु तेजोवैशेष्यात्तेजोभेदत्वमिति भावः ॥ ४ ॥ तत्राविद्यास्वरूपमुच्यते – वार्तिकम् योग-वार्त्तिकम्

अविद्यैव मूलं दुःखबीजम् इत्युक्तमिदानीं पञ्चक्लेशान् पञ्चभिः सूत्रैः क्रमेण लक्षयति । अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५ ॥ अनित्ये कार्ये नित्यख्यातिः। तद्यथा - ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकस इति। तथाऽशुचौ परमबीभत्से काये – स्थानाद्बीजादुपष्टम्भान्निःस्यन्दान्निधनादपि। कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ॥ इति अशुचौ शुचिख्यातिर्दृश्यते। नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेवचन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेति कस्य केनाभिसम्बन्धः। भवति चैवमशुचौ शुचिविपर्यासप्रत्यय इति। एतेनापुण्ये पुण्यप्रत्ययस्तथैवानर्थे चार्थप्रत्ययो व्याख्यातः। वार्तिकम् योग-वार्त्तिकम्

अनित्यादिचतुष्टये क्रमेण नित्यादिबुद्धिरविद्येत्यर्थः । अविद्याचतुष्टयं क्रमेण व्याचष्टे उदाहरणानि च दर्शयति । अनित्य इति । अनित्यत्वमसत्त्वं कालनिष्ठाभावप्रतियोगित्वमिति यावत् । तस्यैव स्वरूपास्वपाख्यानं कार्यमिति । नित्यत्वं च सत्त्वम् । तदुक्तं गारूडे

अनात्मन्यात्माविज्ञानमसतः सत्स्वरूपता ।

सुखाभावे तथा सौख्यं माया विद्याविनाशिनी ॥ ति ।

भगवद्गीतायां च ।

नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपिदृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥

इति । असतः प्रागभावप्रतियोगिनोऽभावोऽविनाशित्वं नास्ति सतश्चानादिभावस्य अभावो विनाशो नास्तीत्यर्थः । अविनाशि तु तद्विद्दीत्याद्युत्तरवाक्यात् अत्राभावप्रतियोगित्वरूपानित्यत्वमेवासत्त्वमुक्तमिति । इमामेवासति सद्वुद्धिरूपामविद्यामादाय प्रपञ्च आविद्यक इति श्रुतिस्मृतिडिण्डिमः । तथा प्रपञ्जज्ञानस्यासति सदाकारकत्वात् भ्रमत्वमपि शुक्तिरजतादि ज्ञानवद्गीयते इति उक्ताविद्यायाः प्रपञ्चमेवोदाहरणमाचार्योऽप्याह । ध्रुवेति ।

वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्यादिश्रुत्यापि प्रपञ्चस्येदृशमेवासत्यत्वमुक्तम् । परमबीभत्स इति । कुत्सितेऽपवित्र इति यावत् । कायस्याशुचित्वे श्रुतिं प्रमाणयति । उक्तं चेति । स्थानं मूत्राद्युपहतं मातुरुदरं बीजशुक्रशोणिते उपष्टम्भो मातृभुक्तान्नादिरसः । निस्यन्दो नवद्वारैरोमकूपादिभिश्च क्षरणं, निधनं मरणम् । एवमन्येऽशद्धिहेतवः स्पष्टाः । तथा स्नानादिभिः शौचाधानादपि सदा स्वतोऽशुचित्वमनुमीयत इत्याह । आधेयशौचत्वादिति । ननु भवतु शरीरमशुचि तथापि तत्र शुचिख्यातौ किं प्रमाणमित्याकाङ्क्षायामाह । अशुचौ शुचिख्यातिर्दृश्यत इति । नवीनशशाङ्कवदियं कन्या कमनीया मधुनोऽमृतस्य वावयवैरंशैर्निमितवे दृश्यते । हावः शॄङ्गारजा लीला कस्य स्त्रीकायस्य निकृष्टस्य केन चन्द्रकलादिनाऽतिनिर्मलेना भिसम्बन्धः साधर्म्यम् । नास्त्येवव विवक्षितसाधर्म्यमित्यर्थः । उपसंहरति । भवतीति । एतेनेति । एतेनाशुचौशुख्यातिव्याख्यानेनऽपुण्ये तप्तशिलारोहणाद्वौ हिंसादौ वा पुण्यप्रत्ययस्तथानर्थेऽनार्जनरक्षणादिना दुःखबहुलतयाऽपुरुषार्थे धनादावर्थप्रत्ययोऽप्यविद्यात्वेन व्याख्यातः । शुच्यशुचिशब्दयोर्योगोत्कृष्टसाधनासाधनमात्रोपलक्षकत्वादित्यर्थः । भाष्योक्तमप्यविद्याद्व यमन्यासामपि संसारहेतूनामविद्यानामुपलक्षकमतो न न्यूनता । तत्रेत्युत्त रग्रन्थेन तृतीयामविद्यां व्याख्यातुमादौ वक्ष्यमाणसूत्रमुखेन तस्योदाहरणं प्रदर्शयति । तथा दुःखे सुखख्यातिं वक्ष्यति - परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः इति। तत्रसुखख्यातिरविद्या। तथाऽनात्मन्यात्मख्यातिर्बाह्योपकरणेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनस्यनात्मन्यात्मख्यातिरिति। तथैतदत्रोक्तम् - व्यक्तमव्यक्तं वा सत्त्वमात्मत्वेनाभिप्रतीत्य तस्य सम्पदमनु नन्दत्यात्मसम्पदं मन्वानस्तस्य व्यापदमनु शोचत्यात्मव्यापदं मन्वानः स सर्वोऽप्रतिबुद्धः इति। एषा चतुष्पदा भवत्यविद्या मूलमस्य क्लेशसन्तानस्य कर्माशयस्य च सविपाकस्येति। वार्तिकम् योग-वार्त्तिकम्

तथा दुःख इति । तथेत्यस्य तत्र सुखख्यातिरविद्येत्यनेनान्वयः । वक्ष्यतीति । अर्थदिति शेषः । तत्रेति । जगद्रूपदुःख इत्यर्थः । अत्र च दुःखमेव सर्वं विवेकिन इत्यागामिसूत्रे दुःखसाधनतया दुःखबहुलतया च दुःखत्ववचनात् दुःखसाधने दुःखनिवृत्याख्यतात्त्विकसुखसाधनत्वबुद्धिः तथा दुःखप्रचुरे सुखप्रचुरत्वबुद्धिश्च तृतीया अविद्येति बोध्यम् । अन्यथा केवलदुःखे दुःखभ्रमस्यासिद्धिरिति,चतुर्थीमविद्यां व्याचष्टे तथानात्मनीति । उदाहरणं बाह्येति । बाह्यस्य देहस्य उपकरणेषु पुत्रादिषु अहम्बुद्धिस्तथा विषयभोगावच्छेदकतया अन्तःकरणस्योपकरणे शरीरेऽहम्बुद्धिस्तथा भोग्यतया साक्षात्पुरुषस्योपकरणेऽन्तःकरणे ऽहम्बुद्विरित्यर्थः । इमामेव चतुर्थीमविद्यामादाय प्रपञ्चोऽविद्याकार्य इत्युच्यते । अहं कर्तेत्याद्याभिमानस्यैव धर्माधर्मोत्पत्तिद्वाराऽखिलजगद्धेतुत्वात् इति । अत्र पञ्चशिखचार्यसंवादमाह । तथेति । यथा मयोक्तं तथा । अत्र चतुर्थे अविद्याविषये पञ्चशिखेनाप्येतदुक्तमित्यर्थः । व्यक्ताव्यक्तं व्याकृताव्याकृतं स्थूलसूक्ष्मरूपं बुद्धिसत्त्वमात्मतया गृहीत्वा तस्य सत्त्वस्य सम्पत्तिं सत्यसङ्कल्पादिकं शुभवासनादृष्टादिकं चानुनन्दत्यात्मसम्पदं मन्वानस्तथा तस्य विपत्तिम् इच्छावघातादिरूपादिकं चानुशोचत्यात्मविपत्तिं मन्वान एवंविधो यः स सर्वोऽविद्वानित्येतुदुक्तक्तमित्यन्वयः । ननु शुक्तिरजतादिभ्रमरूपाणामविद्यानां कथमत्र गणना न कृतेत्याशङ्क्याह । एषेति । पशोरिव चत्वारि पदानि पादा अंशा अस्या इति चतुष्पदा एवम्भूतैवैषा संसारस्य मूलं भवतीत्यर्थः । तथा च संसाराहेतुतया नान्यासामत्र गणनमिति भावः । ननु विग्रहतोऽविद्याशब्दस्य विद्याभिन्नत्वं विद्याशून्यत्वमत्युमविद्यात्वं वा अर्थः स्यात् न तु विपरीतख्यातिरित्याशङ्क्याह । तस्याश्चामित्रागोष्पदवद्वस्तुसतत्त्वं विज्ञेयम्। यथा नामित्रो मित्राभावो न मित्रमात्रं किं तु तद्विरुद्धः सपत्नः। यथा वाऽगोष्पदं न गोष्पदाभावो न गोष्पदमात्रं किन्तु देश एव ताभ्यामन्यद्वस्त्वन्तरम्, एवमविद्या न प्रमाणं न प्रमाणाभावः किन्तु विद्याविपरीतं ज्ञानान्तरमविद्येति ॥ ५ ॥ वार्तिकम् योग-वार्त्तिकम्

तस्याश्चेति । तस्याश्चाविद्यायाः सतत्त्वं तत्वं वस्त्वेव विज्ञेयं न तु अभावोऽमित्रगोष्पदादिशब्दवदित्यर्थः । दृष्टान्तं विभजते । यथा नामित्र इति । न मित्राभाव इति । अत्राभावशब्देन संसर्गान्योन्याभावौ ग्राह्यौ न मित्रमात्रमिति । नास्तिमित्रं यस्मादिति व्युत्पत्या केवलमित्रमित्यर्थः । किन्तु तद्विरुद्धो मित्रविरुद्ध इत्यर्थः । तथा च निरूढलक्षणेति भावः । किन्तु देश एवेति । विपुलो देशविशेषोऽगोष्पद इति परिभाषितः । प्रमाणं विद्या । ज्ञानान्तरमिति । एतेनाविद्याशब्दस्य ज्ञानविशेषे रूढत्वावधारणादाधुनिकवेदान्तिनामन्याथत्वोपवर्णनं स्वातन्त्र्यमात्रमवधेयम् । क्वाचित्कस्तु त्रिगुणात्मकप्रकृतावविद्याशब्दो गौणः । अविद्याधर्मकत्वात् अविद्यायात्मन्यारोपितत्वात् जडत्वाच्च । विद्याविद्याशब्दयोर्ज्ञानाज्ञानवाचित्वेनात्मानात्मवाचित्वादिति । अस्मिंश्च दर्शने साङ्ख्यानामिवाविवेको नाविद्यशब्दार्थः किन्तु वैशेषिकादिवत् विशिष्टज्ञानमेवेति सूत्रभाष्याभ्यामवगन्तव्यम् ॥ ५ ॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६ ॥ पुरुषो दृक्शक्तिर्बुद्धिर्दर्शनशक्तिरित्येतयोरेकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते। भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तासङ्कीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्पते। स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति कुतो भोग इति। तथा चोक्तम् – ‘बुद्धितः परं पुरुषमाकारशीलविद्यादिभिर्विभक्तमपश्यन्कुर्यात्तत्राऽऽत्मबुद्धिं मोहेन’ इति ॥ ६ ॥ वार्तिकम् योग-वार्त्तिकम्

अविद्यानन्तरं तत्कार्यमस्मितां लक्षयति -

दृग् द्रष्टा, दृश्यतेनेनेति दर्शनं करणं बुद्धिः, प्रलयाद्वौ फलोपधानं नास्तीति शक्तिग्रहणं तयोरेकात्मतेव स्वरूपतो धर्मतश्चात्यन्तमेकाकारो विपर्ययोऽस्मिताऽहङ्कार इत्यर्थः । एतदेव शब्दान्तरेणाह । पुरुष इत्यादिना । एकस्वरूपापत्तिरिव एकाकारो यः क्लेशः सोऽस्मितोच्यत इत्यन्वयः । अविद्यातश्चास्मिताया अयं भेदो यद्बुद्ध्याद्व दावादौ या सामान्यतोहम्बुद्धिरयञ्च भेदाभेदेनाप्युपपद्यते अत्यन्तभेदाग्रहणात् सैवाविद्या न तु तदुत्तरकालीनः पुरुषे बुद्ध्यादिगुणदोषारोप ईश्वरोहमहं भोगीत्यादिरूपः न वा दूरस्थवनस्पत्योरिव तयोरत्यन्तमेकताभ्रमः । अस्मिता तु एतदुभयरूपिणीति भ्रमत्वाविशेषेऽपि कार्यकारणरूपावान्तरविशेषादविद्यास्मितयोर्भेदेनोपन्यास इति । अनयोरयं कार्यकारणभावो लोकानुसारेणावधार्यते, लोके ह्यादौ कलत्रपुत्रभृत्यादिषु आत्मभावो जायते पश्चादेव तु तेषां सुखदुःखादिकमात्मन्यभिमन्यते तथादौ जलादिषु उपाधिषु प्रतिबिम्बादिरूपेण चन्द्राद्यारोपो भवति पश्चादेव तु चन्द्रादिषु तद्वारा कम्पमालिन्याद्यरोपो भवतीति । अयं च कार्यकारणभावः पूर्वसूत्रभाष्यस्थेन पञ्चशिखवाक्येनाप्युक्तः । तथा साङ्ख्यकारिकायामपि पाठक्रमेणोक्तः । द्धिद्व

तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्त्तेव भवत्युदासीनः ॥ इति ।

ननु बुद्धिपुरुषयोरन्योन्यारोपणैवाहं दुःखीत्यादिव्यवहारोपापत्ता वेकात्मतारोऽपि किं प्रमाणं, परस्परारोपश्च व्यक्त्योरभेदग्रहं विनापि रङ्गरजतयोरिव सम्भवत्येव अग्निलोहयोर्दूर स्थवनस्पत्योश्च पुनः स्फुटैक्यप्रत्ययदर्शनादभेदारोपः सिध्यति । आत्मबुद्ध्योस्तु परमसूक्ष्मतया नास्ति स्फुटमैक्यप्रत्यक्षमिति तत्राह । भोक्तृभोग्यशक्त्योरिति । अत्यन्तविविक्तयोरित्यत्र हेतुरत्यन्तासङ्कीर्णयोरत्यन्तविप्रकृष्टधर्मकयोरिति । भोग्यभोक्तृत्वे एव स्फु टे वैधर्म्ये अन्यथा कर्मकर्तृविरोधादिति भावः । एवम्भूतयोर्भोक्तृ भोग्ययोः पुरुषबुद्ध्योरविभागप्राप्ताविव सत्यामेकत्वप्रत्यये सत्येव भोगः सम्भवति भेदग्रहे तु तयोः कैवल्यमन्योन्यवियोग एव भवति परवैराग्यादित्यतः कथं भोगः स्यादित्यर्थः । तथा च भोगान्यथानुपपत्तिरेकात्मतारोपे प्रमाणमित्याशयः । अत एव सत्त्वपुरुषयोः प्रत्ययाविशेषो भोग इति सूत्रकृद्व दिष्यति । योऽहंसुखी सोऽहं तदनुभवितेत्येकाकारतैव च बुध्यात्मत्मप्रत्यययोरविशेषाद्यस्मिन्सत्येव च लोके भोगव्यवहार इति । जीवन्मुक्तस्य च गौण एव भोगः सुखादिसाक्षात्कारमात्ररूप इति वक्ष्यामः । इदं चोपलक्षणं सुखदुःखज्ञानाद्याश्रयोऽहम् एक एवेति प्रत्ययोऽप्येकात्मतारोपे प्रमाणं बोध्यम् । अस्मितायाः स्वरूपे अविद्याजन्यत्वे च पञ्चशिखाचार्यवाक्यं प्रमाणयति । तथा चोक्तमिति । परमार्थतो बुद्धितः परं पृथक्कृतं पुरुषं बुद्धेराकारशील विद्यादिभिर्विविक्तमसंस्पृष्टमपश्यन्नविवेकी जनस्तत्र बुध्याकारादिषु आत्मबुद्धिमस्मितां कुर्यात् । शान्ताद्याकारोऽस्मि जाग्रदादिशीलोऽस्मि विद्यादिमानस्मि इत्येवंरूपा, मोहेन पूर्वसूत्रोक्ताविद्ययेत्यर्थः ॥ ६ ॥ सुखानुशयी रागः ॥ ७ ॥ सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धस्तृष्णा लोभः स राग इति ॥ ७ ॥ वार्तिकम् योग-वार्त्तिकम्

अस्मितां लक्षयित्वा तत्कार्यं रागं लक्षयति ।

सुखानुशयी सुखतत्साधनमात्रावषयको यः क्लेशः स राग इत्यर्थः । मात्रपदादविद्यदिव्यावृत्तिर्जीवन्मुक्तेच्छाव्यक्ते राग एव न भवति संसाराहेतुत्वादिति न तस्यामतिव्याप्तिः । रागस्य कारणं वदन्निममेवार्थं भाष्यकारोऽप्याह । सुखाभिज्ञस्य वा सुखानुस्मृतिपूर्वको वेत्यर्थः । तेन सुखसाक्षात्कारतः सुखस्मृतितश्च रागो भवतीति रागस्य कारणमुक्तम् । पर्यायै रागशब्दार्थमवधारयति । गर्ध इत्यादिना ॥ ७ ॥ दुःखानुशयी द्वेषः ॥ ८ ॥ दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिघो मन्युर्जिघांसा क्रोधः स द्वेषः ॥ ८ ॥ वार्तिकम् योग-वार्त्तिकम्

रागप्रतिघातोत्थतया रागस्य पश्चाद्द्वेषं लक्षयति ।

सर्वं पूर्ववत् । प्रतिहन्त्युद्वेजयतीति प्रतिघः । अत्र जिघांसेतिवचनाद् द्वेषोपीच्छाविशेष एवेत्याशयः ॥ ८ ॥ स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥ ९ ॥ सर्वस्य प्राणिन इयमात्माशीर्नित्या भवति मा न भूवं भूयासमिति। न चाननुभूतमरणधर्मकस्यैषा भवत्यात्माशीः। एतया च पूर्वजन्मानुभवः प्रतीयते। स चायमभिनिवेशः क्लेशः स्वरसवाही कृमेरपि जातमात्रस्य प्रत्यक्षानुमानागमैरसम्भावितो मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूऽतं मरणदुःखमनुमापयति। यथा चायमत्यन्तमूढेषु दृश्यते क्लेशस्तथा विदुषोऽपि विज्ञातपूर्वापरान्तस्य रूढः। कस्मात्। समाना हि तयोः कुशलाकुशलयोर्मरणदुःखानुभवादियं वासनेति ॥ ९ ॥ वार्तिकम् योग-वार्त्तिकम्

द्वेषमूलकतया द्वेषस्य पश्चादभिनिवेशं लक्षयति । ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ १० ॥ ते पञ्च क्लेशा दग्धबीजकल्पा योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति ॥ १० ॥ वार्तिकम् योग-वार्त्तिकम्

स्वरसेन संस्कारमात्रेण वहतीति स्वरसवाही । अपिशब्दसमुच्चितमविद्वांसं तथेति तच्छब्दः परामृशति । रूढः प्रसिद्धः, तथा च यथा अविद्व ज्जनस्य तथा विदुषोऽपि स्वरसवाहित्वहेतुना यः क्लेशोऽस्ति प्रसिद्धः सोऽभिनिवेश इत्यर्थः । अविद्यादयस्तु विदुषि न सन्तीति न तेष्वतिव्याप्तिः । नन्वेवं कथं पूर्वोक्तमविद्याव्याप्तत्वमभिनिवेशस्य घटताम् । विद्यनाशेऽप्यभिनिवेशसत्त्वादिति चेन्न । संस्कारहेतुतावच्छेदकरूपेणैव विपर्ययव्याप्तत्वस्य विवक्षितत्वात् संस्कारहेतुत्वं मरणत्रासासितिरिक्तभयत्वेनैव फलबलादिति । अयं च क्लेशो भयाख्य इति वक्ष्यति भाष्यकारः । अभिनिवेशस्यात्यन्तदुरन्तत्वप्रतिपादनाय विद्व दपरिहार्यत्वमुखेन लक्षणं कृतं भयसामान्यमेव तु अभिनिवेशो रागादिवदिह विवक्षित इति । तत्रादौ भाष्यकारोऽभिनिवेशस्य स्वरूपमाह । सर्वत्रेति । सर्वस्य विदुषोऽविदुषश्चेयमात्मन्याशीः प्रार्थना इच्छाविशेषः सदैव भवति । तामेवाह । मा न भूवम् इति । माहमभावीभूवं भूयासं जीव्यासमित्येवंरूपेत्येर्थः । इयमाशीरेव त्रासो भयमित्युच्यत इति भावः । विदुषोऽप्यपरिहार्यत्वमुपपादयितुं यथोक्तमभिनिवेशस्य कारणमवधारयति । न चेति । अननुभूतो मरणस्य धर्मो दुःखातिशयो येन तस्ययमाशीर्न सम्भवति धनादिनाशजन्यदुःखज्ञस्यैव धनादिषु । तादृशाशीर्दर्शनात् । धनं मे मा नश्यतु सदैव भूयादिति । अत एव तयाशिषा पूर्वजन्मनि मरणदुःखानुभवस्तत्कारणतया प्रतीयते अनुमीयत इत्यर्थः । एतेन जीवस्थानादित्वमपि प्रसङ्गात्साधितं, जन्म तु कूटस्थचिन्मात्रस्य तैस्तैर्देहेन्द्रियबुद्धिवेदनादिभिराद्यः सम्बन्ध इति । यत्तु न जायते न म्रियत इत्यादिवाक्यं तदात्मन उत्पत्तिविनाशावेतद्देहादेरिव प्रतिषेधतीति बोध्यम् । ननु इह जन्मन्येवानुमानादिना मरणदुःखानुभवेनाभिनिवेशाख्यं भयं भवतु किमर्थं पूर्वजन्मानुभवः कल्प्यत इत्याशङ्कामपाकरोति । स चायमिति । स चायमात्माशीरूपोऽभिनिवेशः स्वरसवाही स्वाभाविकोऽत्यन्तमूढस्य कृमेरपि मरणदुःखप्रत्यक्षादिभिरसम्भाव्यो मरणत्रास उच्छेददृष्ट्यात्मक उच्छेददृष्टिकार्यः पूर्वजन्मानुभूतं मरणदुःखमनुमापयति । पूर्वजन्मनि मरणदुःखानुभवमनुमापयति । यदनुभवोत्थेन मरणत्रासेन जनितया वासनयेह जन्ममरणत्रसो भवतीति शेषः । मरणभयस्य द्वेषरुपस्यापि संस्कारजनकत्वं निरोधस्येवागत्या कल्प्यत इति । अभिनिवेशं तत्कारणं च व्याख्याय सूत्रवाक्यार्थं व्याचष्टे । यथा चेत्यादिना रूढ इत्यन्तेन । विज्ञातेति । विज्ञातः सम्प्रज्ञातयोगेन साक्षात्कृतः प्रपञ्चस्य पूर्वान्तोऽपरान्तश्चाद्यन्तौ येन स तथा तस्य तत्त्वज्ञस्येत्यर्थः । कुशलाकुशलयोरिति वक्ष्यमाणत्वात् इति । एतेनाद्यन्तयोरवशिष्यमाणमेव वस्तु प्रपञ्चस्य तत्त्वं तच्च परं ब्रह्म विकारस्तु मध्ये वाचारम्भणमात्रमित्यस्माकमपि सिद्धान्त इति सिद्धम् । तथा चोक्तं मोक्षधर्मेऽपि ।

अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे । अन्तप्राप्तिसुखामाहुर्दुखमन्तरमेतयोः ॥

इति । सुखामाहुरित्यार्षम् । सुखायाहुरिति पाठस्तु साधुः । ननु तत्त्वज्ञस्याविद्यस्मिताद्यभावात्कथं यथोक्ताशीरित्याशयेनाशङ्कते कस्मादिति । संस्कारमात्रजन्यत्वेन परिहरति । समाना हीति । इयं वासना एतदाशीर्हेतुवासनेत्यर्थः । इयं च बलवत्तरावासना चित्तेन सह नश्यतश्च ज्ञानेन न भूत्यतदत्येतत् अविद्यादिसंस्कारेभ्यो विशेषः । ननु कुशलस्यात्मनित्यत्वनिश्चयात्कथं मा न भूवं भूयासमितीच्छा स्यात् द्धसिद्धत्वज्ञानस्य प्रतिबन्धकत्वादिति चेन्न । विशेषदर्शने सत्यपीदृगिच्छादृष्ट्या फलबलेन तादृशसंस्कारस्य उत्तेजकत्वात् । एतेन यदाधुनिकवेदान्तिब्रुवा आहुरात्मा सुखस्वरूपः निरुपधियथोक्तेच्छाविषयत्वात् बाह्यसुखवदित्यनुमानेनात्मनः सुखरूपता सिध्यतीति, तदप्यपास्तम् । पूर्वपूर्वजन्मसु यस्त्रासो जातस्तेन तदा जातायास्तद्वासनातो निरुपधीच्छासम्भवात् । अन्यथाप्यात्मत्वेनैव प्रियत्वकल्पनौचिन्याच्चेति ।

क्रियायोगः क्लेशतनूकरणार्थ इत्युक्तं तत्र क्लेशतनूकरणस्य फलं वक्तुमाह ।

प्रसवाद्विरुद्धः प्रतिप्रसवः प्रलयः । तथा च प्रतिप्रसवेन चित्तस्य प्रलयेन सूक्ष्मा दग्धबीजभावाः क्लेशा हेया इत्यर्थः । तदेव भाष्यकार आह । ते पञ्चेति । पञ्चमध्ये अभिनिवेशो मरणातिरिक्त एव योगिनो दग्धबीजकल्पो भवतीत्त्युक्तमेव । ननु तनूकरणं दग्धबीजभावः प्रलयश्चेत्येव क्रमः । अतो दग्धबीजभावप्रतिपादकमुत्तरसूत्रमेवादावुचितमिति चेन्न । मुख्यफलतया प्रलयस्यात्रादौ निर्वचनात् तत्र द्वाराकाङ्क्षया च दग्धबीजभावस्य पश्चाद्व क्ष्यमाणत्वादिति । ननु क्लेशतद्वासनयोर्वक्ष्यमाणप्रसङ्ख्यानेनैव नाशोस्तु किमर्थं तत्र चित्तनाशोऽपेक्ष्यत इति चेन्न । ज्ञानदग्धैस्तथा क्लेशैरित्यादिशास्त्रप्रामाण्येन ज्ञानाग्निदाहस्यैव सिद्धेर्न तु तन्नाशस्य । युक्तिश्चाचात्र प्रगेवोक्ता कारणेषु कार्यशक्तेर्यावद्द्रव्यभावित्वदर्शनमिति । तथा च योगाग्निना व्युत्थाननसंस्कारदाहवद् ज्ञानाग्निनापि क्लेशसंस्कारयोर्दाह एव भवति, न तु तन्नाशः । नन्वेवमपि क्लेशसंस्कारदाहेनैव संसारात्यन्तोच्छेदसम्भवे संस्कारसहितचित्तनाशः किमिति मोक्षायापेक्ष्यत इति चेन्मैवम् । योगिसङ्कल्पेन दृष्टबीजादिवत् दग्धबीजशक्तिकादपि कदाचित्पुनरङ्कुरोत्पत्यापत्तेरिति ॥ १० ॥ स्थितानां तु बीजभावोपगतानाम् – वार्तिकम् योग-वार्त्तिकम्

तनूकरणस्य द्वारं दग्धबीजभावं प्रतिपादयन् सूत्रं पूरयित्वा पठति । स्थितानामिति । तद्वृत्तय इति । समासान्तर्गततच्छब्दस्यार्थैः क्लेशैः सहान्वयः । स्थितानामित्यस्य विवरणं बीजभावोपगतानामिति । एतच्च सूत्रेण सह व्याख्यास्यामः । ध्यानहेयास्तद्वृत्तयः ॥ ११ ॥ क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तत्कृताः सत्यः प्रसङ्ख्यानेन ध्यानेन हातव्या यावत्सूक्ष्मीकृता यावद्दग्धबीजकल्पा इति। यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते पश्चात्सूक्ष्मो यत्नेनोपायेन चापनीयते तथा स्वल्पप्रतिपक्षाः स्थूला वृत्तयः क्लेशानां, सूक्ष्मास्तु महाप्रतिपक्षा इति ॥ ११ ॥ वार्तिकम् योग-वार्त्तिकम्

क्लेशानामिति । स्थितानां बीजभावोपगतानां क्लेशानां या वृत्तयः स्थूला अभिव्यक्तावस्थाः ताः प्रथमं क्रियायोगेनाल्पीकृताः सत्यः प्रसङ्ख्यानेन समाधिजप्रज्ञारूपेण ध्यानेन ध्यानकार्येण हातव्याः प्रतिबद्धोत्पत्तिकाः कर्त्तव्याः यावत्सूक्ष्मीकृताः, अस्यैव विवरणं दावदग्धबीजकल्पा भवन्तीत्यर्थः । ततश्च प्रतिप्रसवहेया इति पूर्वसूत्रेणैवोक्तमिति । तनूकरणादिषु त्रिषु सुकरत्वदुष्करत्वरूपं विशेषं दृष्टान्तेनाह । यथा वस्त्राणामिति । निर्धूयते वाताहत्या निराक्रियते । यत्नेन पाषाणप्रहारादिना, उपायेन क्षारसंयोगादिना । अत्रेदं दृष्टान्ते साधनत्रयं दार्ष्टान्तिकेपि साधनत्रित्वाभिप्रायेणोक्तम् । स्वल्पेति । स्वल्पः क्रियायोगः प्रतिपक्षस्तनुता हेतुर्यासां स्थूलानामतनूकृतानां तास्तथा महानतिदुष्करः प्रसङ्ख्यानाग्निरसम्प्रज्ञातयोगसाध्यचित्तनाशश्च प्रतिपक्षौ दाहकनाशकौ यासामिति महाप्रतिपक्षा इत्यर्थः । अनेन सूत्रेण जीवन्मुक्तानां वृत्तिरूपोऽप्यविद्यालेशस्तिष्ठति इत्यभ्युपगम आधुनिकानां वेदान्तिब्रुवाणामपि सिद्धान्त इति निर्णेयम् । तथा सति स्थूलानामपि प्रतिप्रसवहेयत्वापत्तेरिति ॥ ११ ॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥ तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधप्रभवः। स दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च। तत्र तीव्रसंवेगेन मन्त्रतपःसमाधिभिर्निर्वर्तित ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति। तथा तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनरपकारः स चापि पापकर्माशयः सद्य एव परिपच्यते। यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः। तथा नहुषोऽपि देवानामिन्द्रः स्वकं परिणामं हित्वा तिर्यक्त्वेन परिणत इति। तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः। क्षीणक्लेशानामपि नास्त्यदृष्टजन्मवेदनीयः कर्माशय इति ॥ १२ ॥ वार्तिकम् योग-वार्त्तिकम्

इदानीं क्लेशाः किमर्थं हेया इत्याकाङ्घायां क्लेशानां परम्परया दुःखनिदानत्वं सूत्रत्रयेण वक्तव्यं, तत्रादौ क्लेशानां दुःखोत्पादने साक्षाद् द्वावरमाह-

दृष्टादृष्टजन्मनी वर्त्तमानभविष्यती वेदनं भोगः कर्माशयो धर्माधर्मौ तौ च

दृष्टजन्मभोग्यौ वा अदृष्टजन्मभोग्यौ वा उभयथैव क्लेशमूलकौ । क्लेशे सत्येव भवत इत्यर्थः । यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमान् लोकान्न हन्ति न निबध्यते’ इत्यादिवाक्यशतेभ्य इति भावः । यथा वाधिकारिविशेषतया क्लेशानां धर्मादिजनकत्वं शौचा दिवत् एवं तज्जनककर्मादिषु रागादिरूपैः प्रवर्त्तनादपीत्यपि बोध्यम् । क्लेशमूलकत्वं विवृणोति । तत्रेति । तत्र चित्ते लोभादिरूपदोषत्रयसत्वे एव पुण्यपापरूपौ कर्माशयौ भवत इत्यर्थः । रागद्वेषमोहाख्यानां च दोषाणामदृष्टनियामकत्वं कौर्म दर्शितम्

रागद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः ।

कार्यो अस्य भवेद्वोषः पुण्यापुण्यमिति श्रुतिः ।

तद्व शादेव सर्वेषां सर्वदेहसमुद्नव इति ।

दृष्टजन्मवेदनीयमुदाहरति । तत्र तीव्रेति । सद्य इति । इह जन्मनीत्यर्थः । परिपच्यते कालेन परमेश्वरेण वा फलोपहितीक्रियते । अदृष्टजन्मवेदनीयं पुण्यमुदाहृत्य दृष्टजन्मवेदनीयं पापमुदाहरति । तथेति । य इत्यानुषज्यते । यथाक्रममुक्तयोः पुण्यपापयोर्दृष्टान्तावाह । यथा नन्दीश्वर इति । अदृष्टजन्मवेदनीयं च कर्म प्रसिद्धत्वान्नोदाहृतम् । प्रसङ्गतो व्यतिरेकावप्युदाहरति । तत्र नारकाणामिति । नारकिपुरुषाणां धर्माद्यनुपत्तेः । ननु स्वर्गिणामपि कर्म नोत्पद्यत इति कथं नारकिवचनमात्रमिति चेत् न । स्वर्गिणां भारतवर्षमागत्य लीलामानुषविग्रहेण प्रयागादौ कर्मानुष्ठानस्य तत्फलस्य च श्रवणादिति । शेषं सुगमम् ॥ १२ ॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३ ॥ सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूलः। यथा तुषावनद्धाः शालितण्डुला अदग्धबीजभावाः प्ररोहसमर्था भवन्ति नापनीततुषा दग्धबीजभावा वा, तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति नापनीतक्लेशो न प्रसङ्ख्यानदग्धक्लेशबीजभावो वेति। स च विपाकस्त्रिविधो जातिरायुर्भोग इति। वार्तिकम् योग-वार्त्तिकम्

न केवलं कर्माशयेष्वेव क्लेशः कारणमपि तु तत्फलेष्वपि अतस्तान्यपि दुःखेत्पादने क्लेशानां साक्षात्परम्परया द्वाराणीत्याह-

क्लेशरूपे कर्माशयस्य मूले सत्येव कर्माशयस्य विपाकः फलं भवतिक्लेशाश्च वासनारूपा एव जन्मादिविपाककारणम् । विपाकस्य स्वरूपमाह । जात्यायुर्भोगा इति । जातिर्जन्म आयुर्जीवनकालः भोगः सुखदुःखात्मकशब्दादिवृत्तिरित्यर्थः । न तु सुखादिसाक्षात्कार एवात्र भोगः, ते ह्लादपरितापफला इत्युत्तरसूत्रे तस्य विपाकजन्यतावचनात् इति । स्यादेतत् । क्लेशानां कर्मसहकारित्वे प्रमाणं नास्ति । “ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेर्जुने”त्यादिवाक्येभ्यो हि ज्ञानस्य क्लेशक्षयहेतुत्ववत् कर्मक्षयहेतुत्वमपि सिद्धम् । अतः क्लेशाभावकाले कर्माभावस्यावश्यकत्वात्तत एव विपाकाभावः स्यादिति । अत्रोच्यते । विविधयोनिहेतुशुभाशुभकर्मसु सत्सु यत्र रागादिरन्तकाले उद्बुद्धस्तिष्ठति मरणोत्तरं तामेव योनिं जीवः प्राप्नोति नेतरामित्यन्वयव्यतिरेकाभ्यां कर्मवद्रागादिदोषोऽपि विपाकहेतुः । तथा च श्रुतिः “तदेवमूक्तः सह कर्मणैति लिङ्गं मनो यत्र निषिक्तमस्ये”ति । “तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चे”ति च । तथा गीतापि । “पुरुषः प्रकृतिस्थो हि भुङ्के प्रकृतिज्ञान् गुणान् । कारणं गुणसङ्गोस्य सदसद्योनिजन्मस्वि”ति । न्यायसूत्रं च । ‘वीतरागजन्मादर्शनात् । “ नरकादिष्वपि रागाद्यनुसारेणैव विपाको भवति । निषिद्धस्त्र्यादिसक्तानामेव तप्तफलोहमयनारीसमालिङ्गनादिफलश्रवणात्, अतः क्लेशोऽपि स्वातन्त्र्येण विपाकारम्भे हेतुः, ज्ञानोत्तरं चारब्धविपाकः समाप्यत एव न त्वारभ्यत इतिन तत्र क्लेशापेक्षेति । अपि चात्रैव सूत्रे भाष्यकृता कर्माशयस्यापि प्रसङ्ख्यानदग्धबीजभावस्य वक्तव्यतया कर्माशयस्य दाह एव ज्ञानेन क्रियते न तु नाश इत्यवधार्यते । स च क्लेशाख्यसहकार्युच्छेद एव । ज्ञानस्य हि व्यापारद्व यं क्लेशाख्यहेतूच्छेदेन कर्मानुत्पादः प्राचीनकर्मणां दाहश्च न तु कर्मनाशः प्रारब्धकर्मणोपि नाशप्रसङ्गात् । न च प्रारब्धातिरिक्तकर्मत्वेन ज्ञाननाश्यता कल्प्येति वाच्यम् । लाघवेन क्लेशस्यैव विपाकारम्भहेतुत्वकल्पनौचित्यात् । प्रारब्धफलकस्य कर्मणी बीजशक्तिनाशेऽपि फलं समाप्यत एव बीजदाहेप्युत्पन्नाङ्कुरवदिति । अत एव “ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः” । योगाग्निदग्धकर्मचयोन्नाचिरादि”ति गीताविष्णुपुराणयोर्ज्ञानयोगाभ्यां कर्मणो दाह एव श्रूयते न तु नाश इति । तदेकवाक्यतया च क्षीयन्ते चास्य कर्माणीत्यादिवाक्यान्यपि दाहपरण्येव । तथा तदधिगम उत्तरपूर्वार्धयोरश्लेषविनाशा”विति ब्रह्मसूत्रेपि विनाशशब्दो निष्फलतार्थक एव मन्तव्यः । कर्माशयनाशस्तु ज्ञानवासनानाशवत् चित्तनाशादेव भवति धर्मिनाशस्य धर्मनाशहेतुतायाः सामान्यत एव क्लृप्तत्वादिति । तस्माज्ञ्ज्ञानेन क्लेशाख्यहेतुदाहात् कर्मानुत्पादवत् प्राचीनकर्मविपाकानारम्भोऽपि भवति क्लेशाख्यदृष्टसहकार्यभावात् । अतो ज्ञानात् क्लेशाख्यसहकार्युच्छेद एव कर्मदाह इति सर्वं सुस्थम् ।

तदेतत्सर्वमभिप्रेत्य भाष्यकारः सूत्रमिदं व्याचष्टे । सत्सु क्लेशेष्विति । विपाकारम्भीति । आरम्भशब्दाज्जीवन्मुक्तस्यारब्धविपाकेषु न क्लेशाः कारणमित्युक्तं तस्य ह्यारब्ध एव विपाकः कर्मणा समाप्यत इति । एतेन जीवन्मुक्तस्य भोगार्थमविद्यालेशकल्पनमज्ञानामुपेक्षणीयम् । आरब्धविपाकक्लेशानामहेतुत्वादिति । क्लेशानां कर्माशयसहकारित्वं ज्ञानादग्धकर्माशयस्यैव विपाकारम्भहेतुत्वं च दृष्टान्तेन प्रतिपादयति । यथा तुषेति । क्लेशावनद्ध इति । ज्ञानादग्धबीजभाव इत्यपि बोध्यम् । दृष्टान्तानुसारात् न प्रसङ्ख्यानदग्धबीजभावो वेत्युत्तरवाक्याच्च । नापनीतक्लेश इति । सविपाकगोचरक्लेशशून्य इत्यर्थः । अतो न प्रसङ्ख्यानदग्धबीजभावो वेत्यस्य क्लेशसामान्याभावकालीनः कर्माशयोऽसङ्कीर्णोदाहरणमिति । जात्यायुर्भोगा इति व्याचष्टे । स च विपाक इति । कर्मणी जन्मकारणत्वे कञ्चन विशेषमवधारयितुमाह । तत्रेदं विचार्यते – किमेकं कर्मैकस्य जन्मनः कारणमथैकं कर्मानेकं जन्माऽऽक्षिपतीति। द्वितीया विचारणा – किमनेकं कर्मानेकं जन्म निर्वर्तयति अथानेकं कर्मैकं जन्म निर्वर्तयतीति। न तावदेकं कर्मैकस्य जन्मनः कारणम्। कस्मात्, अनादिकालप्रचितस्यासङ्ख्येयस्यावशिष्टस्य कर्मणः साम्प्रतिकस्य च फलक्रमानियमादनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति। न चैकं कर्मानेकस्य जन्मनः कारणम्। कस्मात्, अनेकेषु कर्मसु एकैकमेव कर्मानेकस्य जन्मनः कारणमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः, स चाप्यनिष्ट इति। न चानेकं कर्मानेकस्य जन्मनः कारणम्। कस्मात्, तदनेकं जन्म युगपन्न सम्भवतीति क्रमेणैव वाच्यम्। तथा च पूर्वदोषानुषङ्गः। वार्तिकम् योग-वार्त्तिकम्

तत्रेदं विचार्यत इति । तत्र जन्मलक्ष्णविपाके, अस्य च विचारस्य प्रयोजनं स्वयमेव वक्ष्यति । तत्र चत्वारो विकल्पाः कर्मैकत्वपक्षं ध्रुवं कृत्वाजन्मैकत्वानेकत्वरूपं प्रथमं विकल्पद्व यं कर्मानेकत्वं च ध्रुवं कृत्वा जन्मानेकत्वैकत्वरूपमपरं विकल्पद्व यमिति । आक्षिपतीति । फलदानार्थमुत्यादयतीत्यर्थः । किमनेकमिति । अनेकं कर्म मिलित्वा अनेकं जन्म करोतीत्यर्थः । आद्यविकल्पे तु न मिलनमुक्तमिति ततो विशेषः । तत्राद्यं विकल्पमपाकरोति । न तावदेकमिति । पृच्छति । कस्मादिति । उत्तरम् । अनादीति । प्रचितस्य सञ्चितस्य अवशिष्टस्य अभुक्तस्य । अविशिष्टस्येतिपाठे अन्योन्यमभुक्तत्वेनाविशिष्टस्येत्यर्थः । साम्प्रतिकस्यैहिकस्य फलक्रमानियमादनाश्वास इति यथोक्तानामनन्तकर्मणां मध्ये किं कर्म प्रथमं फलं दास्यति किं वा पश्चादितिफलक्रमे नियमो नास्ति, अतो लोकानां पुण्यानुष्ठाने फलानाश्वासः स्यात् । भाव्यनन्तकालमध्ये भाविपापादिनानुष्ठीयमानकर्मणो विनाशसम्भवात् झटिति भोगकामनयैव कर्मानुष्ठानाच्चेत्यर्थः । द्वितीयं विकल्यं निराकरोति । न चैकमिति । अनेकजन्मसु किञ्चित्कृत्वा फलदानायानेकजन्मनः कारणमेकैकं कर्मेत्यपि न भवतीत्यर्थः । अत्र हेतुं पृच्छति । कस्मादिति । उत्तरम्, अनेकेष्विति । अनेकेषु जन्मसु क्रियमाणं कर्मैकैकं प्रत्येकमेवानेकस्यासङ्ख्यजन्मनः कारणम्, अतोऽवशिष्टस्य तदितरस्य तद्विरुद्धफलस्य कर्मण इति यावदिति । तृतीयं विकल्पं निराकरोति । न चानेकं कर्मेति । पृच्छति । कस्मादिति । उत्तरम्, तदनेकमिति । तथा चेति । प्रथमपक्षोक्तदोषस्यानाश्वासस्य प्रसङ्ग इत्यर्थः । तदेवं पक्षत्रये दूषिते चतुर्थपक्षं सिद्धन्तयति । तस्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त एकप्रघट्टकेन मरणं प्रसाध्य सम्मूर्छित एकमेव जन्म करोति। तच्च जन्म तेनैव कर्मणा लब्धायुष्कं भवति। तस्मिन्नायुषि तेनैव कर्मणा भोगः सम्पद्यत इति। असौ कर्माशयो जन्मायुर्भोगहेतुत्वात्त्रिविपाकोऽभिधीयत इति। अत एकभविकः कर्माशय उक्त इति। वार्तिकम् योग-वार्त्तिकम्

तस्मादिति । तस्माज्जन्मरभ्यामरणपर्यन्तकालं विहितनिषिद्धैर्यो धर्माधर्मसमूहो गुणप्रधानभावापन्न उत्पादितः स मरणकाल आरब्धकर्मभोगसमाप्त्या लब्धावसरः सन्नेकप्रयत्नेन मिलित्वा स्वफलदानार्थं मरणं प्रसाध्य सम्मूर्च्छितः प्रवृद्धवेग एकमेव जन्म गुणप्रधानभावापन्नः स्वफलयोग्यंयं करोति नानेकमित्यर्थः । मरणं च लिङ्गदेहस्य स्थूलदेहादुत्क्रमणं न तु नाशो गमनश्रुतेः, नाशस्य भोगाहेतुतया कर्माजन्यत्वस्वाभाविकत्वयोर्भाष्ये वक्ष्यमाणत्वाच्च । ननु केवलजन्मना किं प्रयोजनं तत्राह । तच्च जन्मेति । आयुषोऽपि न स्वतः पुरुषार्थत्वमत आह । तस्मिन्नायुषीति । असाविति । जन्महेतुरित्यर्थः । अन्यो हि द्व्येकमात्रविपाको भवतीति वक्ष्यति । और्त्सार्गकमुपसंहरति । अत इति । एको भवोऽस्मिन्कार्यतयास्तीति एकभविकः कर्माशयसमूहः । पूर्वाचार्यैरुक्त इत्यर्थः । ऐकभविक इति पाठे त्वेकभविकं कर्म तज्जन्यादृष्टं चैकभविकमित्यर्थः । नन्वेवं स्वार्गनारकिणां कथं पुनर्जन्मादि स्यात् स्वर्गादिशरीरे धर्माद्यनुत्पत्तेः प्राचीनसर्वकर्मणां च तत्रैव समापनादिति । चेत्, न । स्वर्गादिजनककर्मणामेव ब्राह्मणस्थावरादियोनिलाभपर्यन्तफलश्रवणात् शास्त्रानुक्तकालविशेषस्यैव फलस्यैकभविकत्वनियमादिति । त्रिविपाकं कर्मोक्त्वैकद्विविपाके कर्मणी प्राह । दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी भोगहेतुत्वाद्द्विविपाकारम्भी वा आयुर्भोगहेतुत्वात् नन्दीश्वरवन्नद्वुषवद्वेति। क्लेशकर्मविपाकानुभवनिर्वर्तिताभिस्तु वासनाभिरनादिकालसम्मूर्छितमिदं चित्तं विचित्रीकृतमिव सर्वतो मत्स्यजालं ग्रन्थिभिरिवाऽऽततमित्येता अनेकभवपूर्विका वासनाः। यस्त्वयं कर्माशय एष एवैकभविक उक्त इति। ये संस्काराः स्मृतिहेतवस्ता वासनास्ताश्चानादिकालीना इति। वार्तिकम् योग-वार्त्तिकम्

दृष्टजन्मेति । नन्दीश्वरवन्नहुषवच्चेति दृष्टान्तद्व यं पूर्वोपन्यासक्रमेणोक्तम्, अत्र तु व्युक्रमेण योजनीयं प्रतिज्ञाक्रमेणोदाहरणौचित्यात् । नन्दीश्वरस्य ह्यष्टजन्मायुर्मनुष्यजन्मनः पुण्यविशेषेणायुर्भोगरूपं विपाकद्व यं देवसम्बन्ध्युत्पन्नं नहुषस्य चेन्द्रत्वसम्पादककर्मणैव दीर्घायुष्ट्वस्य लाभात् पापविशेषेण केवलं सर्पभोगरूप एक एव विपाक उत्पन्न इति । तत्र च नन्दीश्वरनहुषयोर्मनुष्यश्यशरीरस्थैव वार्द्धकादिवद्देव सर्परूपपरिणामान्तरात् न जन्मान्तरमपूर्वदेहानुपादादिति । नन्वेवं कर्माशयवज् ज्ञानवासनाप्यै कभविक्येव स्यात्तथा च तासामनादित्वं चाशिषो नित्यत्वादित्यागामिसूत्रे वासनानामनादित्ववचनं नोपपद्येत त इत्याशङ्कां परिहरति । क्लेशकर्मेति । क्लेशक्रर्मणोर्विपाकस्य योऽनुभवश्चित्तवृत्तिनिवहो ज्ञानरूपस्तन्निष्पादिताभिर्ज्ञानरूपवासनाभिरनादिकालेषु सम्मूर्च्छितम् उपचितं पुष्टमिति यावत् । अत एव विविधरूपाभिस्ताभिः पटवत् सर्वतश्चित्रितम् इव चित्तं ग्रन्थिभिरायतं मत्स्यजालम् इव वर्तत इत्यत एता वासना अनेकभवपूर्विकाः स्वीक्रिय्यन्ते । अन्यथा मनुष्ययोन्यनन्तरं देवतिर्यग्योनिभोगानुपपत्तेः मनुष्यजन्मनि तद्वासनानुपपत्तेः । एवं भववासनानां च मनुष्यजन्मनैव क्षयादित्यर्थः । अत्र वासनानां जीवमत्स्यबन्धकचित्तजालग्रथितत्वेनरूपणात्—“भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः” इत्यादिश्रुतावपि हृदयग्रन्थिर्वासनैव न त्वाधुनिककल्पिताहङ्कारादिरिति सिद्धम् । कर्माशयाख्याद्धर्माधर्मरूपात् संस्काराद्वासनानां वैलक्षण्यम् आह—ये संस्कारा इति । ताश्चानादिकालीना इत्युपसंहारः । यस्त्वसावेकभविकः कर्माशयः स नियतविपाकश्चानियतविपाकश्च। तत्र दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य। कस्मात्। यो ह्यदृष्टजन्मवेदनीयोऽनियतविपाकस्तस्य त्रयी गतिः – कृतस्याविपक्वस्य नाशः, प्रधानकर्मण्यावापगमनं वा, नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानमिति। वार्तिकम् योग-वार्त्तिकम्

औत्सर्गिकम् एकभविकत्वं क्वचिदपवदितुं भूमिकां रचयति—यस्त्वसाविति । नियतः स्वाभाविको विघ्नशून्यः तादृशो विपाको यस्य स तथा । स चाबन्ध्योऽनन्यशेषः कर्मान्तराभिभूतश्च कर्माशयस्तद्विपरीतश्चानियतविपाक इत्यर्थः । अयं चार्थः—अनियतविपाकत्रैविध्यं भाष्ये व्यक्तीभविष्यति । तत्रादृष्टजन्मवेदनीयस्य नियतविपाकस्य इवायं नियम इति । एकभविकत्वनियम इत्यर्थः । न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य चेति सुगमम् ।

दृष्टजन्मवेदनीयस्य भवाहेतुत्वेनैकभविकत्वाभावः स्पष्ट एवेत्यतोऽनियतविपाकस्यैवैकभविकत्वनियमाभावे हेतुं पृच्छति—कस्मात्?इति । उत्तरं—यो ह्यदृष्टेति । दृष्टजन्मवेदनीयस्यैकभवित्वशङ्का नास्तीत्याशयेनाह—अदृष्टजन्मवेदनीयस्येति । स्वरूपाख्यानमात्रं न तु दृष्टजन्मवेदनीयस्यानियतविपाकत्वं नास्तीत्यादिः कश्चिदाशयः सम्भवति, प्रयोजनाभावात् । यो ह्यदृष्टजन्मवेदनयोग्यो नियतविपाकभिन्नः, स त्रिविध इत्यर्थः । यथा श्रुते वक्ष्यमाणस्याविपक्वनष्टस्य सङ्ग्रहानुपपत्तेः । तिसृष्वेकां गतिम् आह—कृतस्यैति । अपरिपक्वस्यादत्तफलकस्य विनाश इत्यर्थः । तथा च तस्य नास्त्येकभविकत्वम् इत्याशयः । द्वितीयाम् आह—प्रधान इति । प्रधानकर्मणा यागादिना सहैव तदङ्गानां पशुहिंसादीनां स्वफलदानाय च फलप्राप्तिः न स्वातन्त्र्येण तद्व त् परोपसर्जनतयानुष्ठितत्वात् न स्वातन्त्र्येण फलदानमिति । तथा प्रधानकर्मातिशयस्य यदा बलवत्तरकर्मान्तरेणाभिभवः, तदा तदुपसर्जनस्यापि नैकभविकत्वमित्याशयः । तृतीयां गतिम् आह—नियतविपाक इति । तत्र प्रधानं नाङ्गि किन्तु बलवत्तरम् । नियतविपाकेन प्रधानकर्मणास्वविरुद्धफलदेनाभिभूतस्य प्रतिबद्धस्य चिरम् अवस्थानं द्वित्रिचतुरादिजन्मसु प्रसुप्ततयावस्थानम् इत्यर्थः । तथा च तस्य नैकभविकत्वम् इत्याशयः । तत्र कृतस्याविपक्वस्य नाशो यथा शुक्लकर्मोदयादिहैव नाशः कृष्णस्य। यत्रेदमुक्तम् –“द्वे द्वे ह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतोऽपहन्ति तदिच्छस्व कर्माणि सुकृतानि कर्तुमिहैव ते कर्म कवयो वेदयन्ते।” वार्तिकम् योग-वार्त्तिकम्

एतास्वाद्यम् उदाहरति—तत्र कृतस्यैति । शुक्लः कर्माशयः धर्मः, कृष्णश्चाधर्मः, तयोराद्येनोत्तरस्य नाशे श्रुतिम् उदाहरति—यत्रेदमिति । पुण्यपापरूपे द्वे कर्मणी पुरुषैर्वेदितव्ये अवधारयितव्ये । द्वे द्वे इति वीप्सा पुरुषभेदात् कर्मभेदम् अभिप्रेत्योक्ता, यतः पुण्यकृतः पुण्यनिमित्त एको मुख्यो राशिः समूहस्य समूहिकार्यत्वात् पापकस्य पापराशेरपहन्ति, चोरस्य निहन्तीतिवत् कर्मणि षष्ठी , तस्मात् सुकृतानि कर्माणि कर्तुम् इच्छस्व, तच्च कर्म इह लोक एव ते तुभ्यं वेदयन्ते प्रतिपादयन्ते, न तु लोकान्तरैति श्रुत्यर्थः । इच्छस्वेति छान्दसत्वाद् आत्मनेपदम् । प्रधानकर्मण्यावापगमनम्। यत्रेदमुक्तं – “स्यात्स्वल्पः सङ्करः सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षायालम्। कस्मात्, कुशलं हि मे वह्वन्यदस्ति यत्रायमावापं गतः स्वर्गेऽप्यपकर्षमल्पं करिष्यति” इति। वार्तिकम् योग-वार्त्तिकम्

द्वितीयां गतिम् उदाहरति—प्रधान इति । यत्र यस्मिन् विषये पञ्चशिखाचार्येणेदं वक्ष्यमाणम् उक्तं, तद् एव प्रधानकर्मण्यावापो गमनमित्यन्वयः । स्यात् स्वल्पः इत्यादिवाक्यस्यायम् अर्थः—हिंसादिजन्यपापेन यागाद्यपूर्वस्य स्वल्प एव सङ्करः स्यात्, सोऽपि सपरिहारः स्वल्पेनैव प्रायश्चित्तेन परिहर्तुं शक्यते । यदि च प्रमादतः प्रायश्चित्तं न क्रियते सप्रत्यवमर्षः, बहुसुखमध्ये अन्यद्दुःखमर्षणायोग्यं भोजननान्तरीयकदुःखवत्, अतः कुशलस्य कर्मणोऽपकर्षाय हेयत्वाय नालं न पर्याप्तम् । सङ्कर इति । शेषं करिष्यतीत्यन्तं पञ्चशिखवाक्यं सुगमम् । नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानम्। कथमिति, अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं मरणमभिव्यक्तिकारणमुक्तम् न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य। यत्त्वदृष्टजन्मवेदनीयं कर्मानियतविपाकं तन्नश्येदावापं वा गच्छेदभिभूतं वा चिरमप्युपासीत, यावत्समानं कर्माभिव्यञ्जकं निमित्तमस्य न विपाकाभिमुखं करोतीति। तद्विपाकस्यैव देशकालनिमित्तानवधारणादियं कर्मगतिश्चित्रा दुर्विज्ञाना चेति। न चोत्सर्गस्यापवादान्निवृत्तिरित्येकभविकः कर्माशयोऽनुज्ञायत इति ॥ १३ ॥ वार्तिकम् योग-वार्त्तिकम्

तृतीयां गतिम् उदाहरति—नियत इति । उत्कटत्वरूपं बलवत्त्वम् एव प्रधानत्वम् । नन्वेवं कर्मविशेषस्य चिरम् अवस्थाने सति पूर्वोक्तसर्वकर्मणाम् एकदैव प्रायणाद् अभिव्यक्तिः कथम् उपपद्यत इत्याशयेन शङ्कते—कथम् ?इति । सिद्धान्तम् आह—अदृष्ट इति । कर्मणः कर्मसामान्यस्य । समानम् एकम् । न त्वदृष्टेति । अदृष्टजन्मवेदनीयस्यैति प्रसङ्गादुक्तम् । अत्रानियतविपाकस्य वेति वाशब्दः क्वचित् तिष्ठति, स वाशब्दोऽप्यर्थः । गतित्रयम् उपसंहरति—यत् त्विति । उपासीत प्रतीक्षेत । विपाकं विपाकारम्भकं स्वाविरुद्धकर्मान्तरमिति शेषः । उपासनस्यावधिम् आह—यावदिति । अस्य समानम् अविरुद्धं कर्माभिव्यक्तौ निमित्तं यावन्नैतत्फलोन्मुखीकरोतीत्यर्थः ।

यद् यज्जन्मकृतं पापं मया सप्तसु जन्मसु । तन्मे रोगं च शोकं च माकरी हन्ति सप्तमी ॥

इत्यादिवाक्यानि तथा कर्मगतेर्दुर्विज्ञानत्ववचनानि चैतादृशकर्मविषयाण्येवेत्याह—तद्विपाकस्यैति । अभिभूतकर्मविपाकस्यैव कुत्र कदा केन निमित्तविशेषेण भविष्यतीत्यवधारयितुम् अशक्यत्वादियम् अभिभूतकर्मगतिश्चित्रा अद्भुतरूपा दुर्विज्ञाना चेत्यर्थः । नन्वेवम् एकभवित्वं क्षतम् इत्याशङ्क्याह—न चोत्सर्गस्येति । निवृत्तिः क्षतिरित्यर्थः । क्वचिदपवादेऽप्येकभविकत्वम् औत्सर्गिकम् एवानुमन्यतेऽस्माभिरित्यर्थः । न चैवमप्यपवादाशङ्कयानाश्वासतादवस्थ्यम्, अपवादस्य स्वानुष्ठानमान्द्यनिमित्तकतया तद्धित्वैव शक्यपरिहारत्वादिति । यच्चाधुनिकवेदान्तिभिरेकभविकमतं व्यभिचारेण दूषितं तद् अज्ञानाद् एव, औत्सर्गिकतामात्रस्य भाष्यकृतोक्तत्वादिति सर्वं सुस्थम् ॥ १३ ॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४ ॥ ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफला अपुण्यहेतुका दुःखफला इति। यथा चेदं दुःखं प्रतिकूलात्मकमेवं विषयमुखकालेऽपि दुःखमस्त्येव प्रतिकूलात्मकं योगिनः ॥ १४ ॥ वार्तिकम् योग-वार्त्तिकम्

इदानीमुक्ताभ्यां कर्मतद्विपाकाभ्यां क्लेशानां मुख्यफलमाह ।

ते विपाकाः सर्व एव समुच्चितसुखदुःखफलकाः समुच्चितपुण्यपापहेतुकत्वादित्यर्थः ।

अथ सुखावच्छेदेन पुण्यहेतुकाः दुःखावच्छेदेन पापहेतुका इति विभज्य प्रतिपादयति—ते जन्मायुरित्यादिना । सुखदुःखयोश्च फलत्वं भोग्यतयेति प्राग् एव व्याख्यातम् । विपाकान्तरगतभोगश्च शब्दाद्याकारवृत्तिरेवेति तस्यापि सुखदुःखहेतुत्वमुपपन्नम् । तदेवम् अनेकसूत्रैः प्रोक्तमविद्याया दुःखनिदानत्वं न्यायाचार्यैः एकसूत्रेणैवार्थादुक्तम्—दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तराभावाद् अवर्ग इति । कारणनाशाद् एव हि कार्यानुत्पाद इति । तद् एवं दुःखनिदानतया क्लेशानां हेतुत्वम् उक्तम् ।

ननु सर्वे विपाकाः कथं सुखदुःखफलकाः ? ब्रह्मलोकादौ दुःखासम्भिन्नसुखसत्त्वादित्याशङ्कां परिहरति—यथा चेदमिति । यथा चेदं परिदृश्यमानं रोगादिदुःखं प्रतिकूलात्मकद्वेष्यस्वभावं भवति, एवं सर्वत्रैव विषयसुखकालेऽपि दुःखम् योगिनां प्रतिकूलात्मकं तिष्ठतीत्यर्थः ।

दुःखतत्साधनयोरेकरूपेण ग्रहणाय प्रतिकूलात्मकम् इत्युक्तम् । मूढानां दुःखसमुद्रमग्नानां सुखेनान्तरीयकसूक्ष्मदुःखेषु दृष्टिर्नास्तीति योगिन इत्युक्तम् । तथा च लौकिकदुःखम् इव विषयसुखम् अपि दुःखशबलतया दुःखत्वेन हेयम् एवेति भावः । यद्यपि स्वर्गादौ सुखम् अधिकं तथाप्यल्पम् अपि दुःखं बलवद्द्वेषविषयो भवति । बलवत्त्वं च सुखाभिलाषाभिभावकत्वम् ।

तथा च साङ्ख्यसूत्रम्—यथा दुःखं द्वेषः पुरुषस्य न तथा सुखाद् अभिलाषः इति । अस्मिन् सूत्रे सुखदुःखयोरेव कर्मविपाकफलत्ववचनात् जीवन्मुक्तानाम् अपि प्रारब्धपाकेषु सुखदुःखे शरीरे भवत एव, आभिमानिके तु न भवतः । तत्कारणक्लेशाभावादिति सिद्धान्तः । तथा च श्रुतिः—“न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति” इति ।

आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।

किमिच्छन् कस्य कामाय शरीरमनुसञ्चरेत् -इति च ।

स्मृतिश्च—

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते इति ॥ १४ ॥ कथं, तदुपपाद्यते – वार्तिकम् योग-वार्त्तिकम्

सूत्रान्तरमवतारियुतं सुखस्यापि ज्ञानिदृष्ट्या दुःखत्वेहेतुं पृच्छति । कथमिति । तदुपपादकतयोत्तरसूत्रमवतारयति । तदुपपद्यत इति ॥ परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ १५ ॥ सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः। तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः। तथा चोक्तम् – “नानुपहत्य भूतान्युपभोगः सम्भवतीति हिंसाकृतोऽप्यस्ति शारीरः कर्माशयः” इति। विषयसुखं चाविद्येत्युक्तम्। वार्तिकम् योग-वार्त्तिकम्

परिणामश्च तापश्च संस्कारश्च तज्जानि दुःखानि तैः सम्बन्धात् तत्कारणत्वादिति यावत् । तथा गुणवृत्त्यविरोधाच्चार्थतो दुःखसम्भिन्नत्वाच्च प्रकृतितत्कार्यसुखादिकं सर्वं दुःखम् एव विवेकिनः सुखदुःखतत्त्वसाक्षात्कारिणो मतमिति वाक्यार्थः । प्रतिपदं च व्याख्या भाष्ये भविष्यति । एवकारेण चानुकूलात्मकसुखरूपतया व्यवच्छिन्ना । यद्यप्ययोगिनोऽपि दुःखम् एव सर्वं, तथापि स मूढत्वात् सुखकाले दुःखतया न जानाति, योगी तु सुखकालेऽपि तस्य दुःखात्मकत्वं पश्यतीति प्रतिपादयितुं विवेकिन इत्युक्तम् ।

ननु सुखसाधनतया सुखसम्भिन्नतया च सुखम् एव कथं सर्वं न भवतीति चेत् ? न, दुःखेषु बलवद्द्वेषस्योक्तत्वात्, सामान्यतो बाहुल्यस्याप्यत्र नियमाकत्वाच्च वैशेष्यात् तद्वाद इति न्यायात् । तद् उक्तं विष्णुपुराणे—

कलत्रपुत्रमित्रार्थगृहक्षेत्रधनादिकैः । क्रियेत न तथा भूरि सुखं पुंसां यथाऽसुखम् ॥ इति ।

संसारे च सुखापेक्षया दुःखबाहुल्यं जैगीषव्यावट्यसंवादे व्यक्तीभविष्यतीति ।

तत्र परिणामदुःखहेतुतया सुखस्यापि दुःखतां प्रतिपादयति—सर्वस्यायमिति । उत्सर्गतः सर्वलोकस्य सुखानुभवकाले तत्र सुखे रागो जायते, रागाच्च सुखम् इदं मे स्थिरं भवतु परमेश्वर ! मा नश्यत्वित्यादि सङ्कल्पात्मको मानसः कर्माशयो धर्माधर्मरूपी भवति, कर्माशयाच्च जन्मादिदुःखमिति प्रागेवोक्तम् इत्यर्थः । सुखभोगकाले रागजकर्माशयवत् द्वेषमोहजोऽपि कर्माशयः परिणामदुःखहेतुरस्तीत्याह—तथा च द्वेष्टि इति । तथा च सुखभोगकाले तद्विरोधितया दुःखसाधनानि द्वेष्टि सुखभ्रंशे दुःखं मे मा भूत् शत्रुश्च मे नाश्यत्वित्यादिरूपेण । तथा दुःखसाधनानि परिहर्तुम् अशक्तो मुह्यति चेत्यतो द्वेषमोहकृतोऽप्यस्ति कर्माशयः इत्यर्थः ।

तथा चोक्तमिति—सुखस्य रागानुविद्धत्वं च मयैवोक्तं सुखानुशायी रागः इति सूत्रे, सुखाभिज्ञस्य इत्यादिभाष्येणेत्यर्थः ।

मानसकर्माशयद्वारा सुखस्य परिणामदुःखत्वं प्रतिपाद्य शरीरकर्माशयद्वारापि तदाह—नानुपहत्य इति । शारीरः कर्माशयइति । सुखभोगकाल इति शेषः । एताभ्यां च मानसशारीराभ्यां कर्माशयाभ्यां वाचनिकोऽपि कर्माशयः शापाशीर्वादज उपलक्षणीयः । सुखस्यापि परिणामदुःखसम्बन्धेन दुःखत्वेऽविद्यासूत्रं प्रमाणीकृत्योपपादयति—विषयसुखं च इत्यादिना ।

ननु सर्वदुःखान्त एवेदं वक्तुम् उचितमिति चेत् ? न, सुखस्याविद्यात्वोपपादनकाल एव दृष्टद्वारापि परिणामदुःखम् उपदेष्टुम् आदावेव विषयसुखस्याविद्यात्वप्रतिपादनात् । अत्र च वक्ष्यमाणपारमार्थिकसुखव्यावर्तनाय विषयेत्युक्तम् । अविद्याविषयपदार्थानां बुद्धिमात्रतया सुखमविद्येत्यभेदनिर्देशः ।

भोगेन सुखं भवतीत्येवंरूपा भोगजदुःखे सुखबुद्धिरविद्या, सा चाविद्या न तत्सूत्रे विवेचिता ।p> या भोगेष्विन्द्रियाणां तृप्तेरुपशान्तिस्तत्सुखम्। या लौल्यादनुपशान्तिस्तद्दुःखम्। न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम्। कस्मात्, यतो भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति। तस्मादनुपायः सुखस्य भोगाभ्यास इति। स खल्वयं वृश्चिकविषभीत इवाऽऽशीविषेण दष्टो यः सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति। एषा परिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि योगिनमेव क्लिश्नाति। वार्तिकम् योग-वार्त्तिकम्

अतोऽत्र ताम् अविद्यां प्रतिपादयन्नेव प्रकारान्तरेण परिणामदुःखं दर्शयति—या भोगेष्विति । तत्रादौ परमार्थिके सुखदुःखे कथयति—तद्दुःखम् इत्यन्तेन ।

अयं भावः—विषयसुखं पारमार्थिकसुखं न भवति, दुःखबहुलत्वेन दुःखसम्भिन्नत्वेन च विवेकिनां निरुपधिप्रियत्वाभावात् । सुखानुशायी राग इति सूत्रानुसारेण निरुपधिप्रियत्वस्यैव सुखलक्षणत्वादिति । अतः शान्तिश्चित्तस्य व्यापारोपरमस्तन्निमित्तिका दुःखनिवृत्तिरिति यावत् । सैव पारमार्थिकं सुखं, सुखं दुःखसुखात्यय इति स्मरणात् । तृष्णादिदुःखासम्भिन्नतया विशेषदर्शिनाम् अपि निरुपधिप्रियत्वाच्च । तस्य च साधनं भोगेष्विन्द्रियाणां तृप्तिरिच्छाविच्छेद एव । तथा च श्रुतिः— इति । स्मृतिश्च—स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य इति । स्मृतिश्च—न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् इति ।

अत्र विषयसुखशब्देन चित्तस्य शान्तिनिमित्तिकाह्लादोऽपि गृहीतः, तस्यापि दुःखसम्भिन्नत्वेन दुःखत्वस्याविद्यालक्षणे विवक्षितत्वादिति ।

या लौल्यादिति । या चेन्द्रियाणां लौल्याद्भोगतृष्णातश्चित्तस्यानुपशान्तिर्वृत्तिचाञ्चल्यं तद्दुःखं दुःखबाहुल्यतो विवेकिभिर्हेयत्वादित्यर्थः । सुखदुःखयोस्तत्साधनयोश्चैवं निर्णये सति विषयसुखस्य तत्साधनभोगस्याविद्यकम् एव सुखत्वं तत्साधनत्वं च लब्धम् । अतश्च विषयसुखस्य परिणामदुःखत्वम् इत्येतत्प्रघट्टकेनाह—न चेन्द्रियाणाम् इत्यादिना, मग्न इत्यन्तेन ।

भोगाभ्यासम् अनु इति ।

न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मैव भूय एवाभिवर्धते ॥ इति ।

वृश्चिक इति । वृश्चिकविषभीतः कामादिक्षुद्रदुःखभीतस्तन्निवृत्त्याख्यसुखार्थी स्त्रीपुत्रादिमयमहादुःखसर्पैर्दष्ट इति दृष्टान्तार्थः । विषयानुवासित इति परिणामदुःखपङ्कमग्नतायां हेतुरुक्तः । विषयसंस्कारसंस्कृत इत्यर्थः । परिणामदुःखम् उपसंहरन्नेव विवेकिन इति विशेषणव्यावर्त्यम् आह—एषा परिणाम इति । दुःखता दुःखसमूहो जनतेतिवत् । प्रतिकूला द्वेष्या, सुखकालेऽपि योगिनम् एव क्लिश्नाति दुःखाकरोतीत्यर्थः । भूते पश्यन्ति बर्वराः इति न्यायेनायोगिनं परिणामकाल एव विषयसुखं दुःखाकरोति, योगिनं तु स्वकाल एवानर्थहेतुतादर्शनेन दुःखाकरोतीति भावः । अथ का तापदुःखता, सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति तत्रास्ति द्वेषजः कर्माशयः। सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते ततः परमनुगृह्णात्युपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति। स कर्माशयो लोभान्मोहाच्च भवतीत्येषा तापदुःखतोच्यते। का पुनः संस्कारदुःखता, सुखानुभवात्सुखसंस्काराशयो दुःखानुभवादपि दुःखसंस्काराशय इति। एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दुःखे वा पुनः कर्माशयप्रचय इति। वार्तिकम् योग-वार्त्तिकम्

क्रमप्राप्तं तापदुःखं व्याख्यातुं पृच्छति—अथ का इति । तापो दुःखम् किं तापजन्यदुःखसामान्यम् इत्यर्थः । उत्तरं—सर्वस्य इति । पूर्ववद्व्याख्येयम् । पूर्वं सुखानुभवो रागानुविद्ध उक्त इदानीं च दुःखानुभवो द्वेषानुविद्ध उच्यते इत्येव विशेष इति ।

स कर्माशय इति । सन्तापकालीनः कर्माशयो द्वेषेणेव रागमोहाभ्याम् अपि पूर्ववन्मानसो भवतीत्यर्थः । मानसं परिस्पन्दनं यद् उक्तं तत् कायिकहिंसार्थम् एव, न तु स्वातन्त्र्येण मानसकर्माशयहेतुरतो न पौनरुक्त्यम् । यद्यपि तापदुःखतायाम् अपि परिणामदुःखतैवात्र प्रदर्श्यते, तथापि पूर्वकाल उत्तरकाले च सर्वदैव दुःखत्वात् तापजदुःखस्य परिणामदुःखात् पृथङ्निर्देशः । अतः परिणामाद्दुःखमिति बोध्यम् । क्रमप्राप्तं संस्कारदुःखं व्याख्यातुं पृच्छति—का पुनः इति । सुखदुःखसंस्कारजन्यदुःखमान्यम् इत्यर्थः । सुखानुभवादिति । अत्रेयं प्रक्रिया—आदौ सुखदुःखानुभैस्तत्संस्काराशयोऽनुद्बुद्धसंस्कारः, ततः कालादिविशेषैस्तदुद्बोधः, ततः स्मृतिः, ततो रागद्वेषौ, तयोश्च प्रवृत्तिः, ततश्च पुनर्दुःखमिति । ज्ञानसंस्काराद् दुःखं प्रतिपाद्य धर्माधर्मरूपात् कर्मसंस्काराद् अपि दुःखं प्रतिपादयति—एवं कर्मभ्य इति । सुखदुःखरूपे विपाक इत्यन्वयः ।

नन्वियम् अपि परिणामदुःखतैवेति चेत् ? सत्यं, तथापि संस्कारपरम्पराया अनन्तदुःखप्रतिपादनाय गोबलीवर्दन्यायेन अस्य दुःखस्य पृथगुपन्यासो बोध्यः ।p> एवमिदमनादि दुःखस्रोतो विप्रसृतं योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति। कस्मात्, अक्षिपात्रकल्पो हि विद्वानिति। यथोर्णातन्तुरक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति न चान्येषु गात्रावयवेषु, एवमेतानि दुःखान्यक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति नेतरं प्रतिपत्तारम्। इतरं तु स्वकर्मोपहृतं दुःखमुपात्तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानमनादिवासनाविचित्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिवाविद्यया हातव्य एवाहङ्कारममकारानुपातिनं जातं जातं बाह्याध्यात्मकोभयनिमित्तास्त्रिपर्वाणस्तापा अनुप्लवन्ते। तदेवमनादिना दुःखस्रोतसा व्युह्यमानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यत इति। वार्तिकम् योग-वार्त्तिकम्

विवेकिन इति विशेषणस्याभिप्रायं विस्तरतः सकलदुःखसाधारणम् आह—एवम् इदमिति । स्वाभाविकतयाऽनन्तत्वलाभायानादीत्युक्तं स्रोतसो विशेषणं विप्रसृतम् इति । विस्तीर्णम् इत्यर्थः । अक्ष्णः पात्रेणाधारेण गोलकेन तुल्यो विद्वान् इत्युक्तं विवृणोति—यथोर्णा इति । एतानि भाविदुःखानीतरम् अयोगिनं प्रतिपत्तारं शब्दादिना परिणामदुःखज्ञातारम् अप्यविद्वांसम् इत्यर्थः । इतरं तु वर्तमानकाल एव क्लिश्नन्तीत्याह—इतरं त्विति । इतरं तु योगिनं त्रिपर्वाणस्तापा अनु स्वोत्पत्त्यनन्तरमेव प्लवन्ते व्याप्नुवन्तीत्यन्वयः, न तु पूर्वमिति शेषः । आधिभौतिकाधिदैविकाध्यात्मिकरूपाणि पर्वाणि येषां तापानां ते तथा । त्रिपर्वत्वं हेतुगर्भविशेषणम् । बाह्येति । बाह्यशब्देनाधिभौतिकाधिदैविकयोर्ग्रहणं, इतरस्य विशेषणान्तरम् अनादीत्यादि । अनुपातिनम् इत्यन्तम् । अनादिवासनाभिर्विचित्रया नानारूपया चित्तवृत्त्या चित्तनिष्ठयाविद्ययानुविद्धं लिप्तम् इव, अत एव हातव्येऽपि देहेन्द्रियादावहङ्कारममकारवन्तमिवेत्यर्थः । आत्मनोऽविद्यास्मिताद्यभावप्रतिपादनाय इवेत्याद्युक्तम् । शेषमतिरोहितम् । परिणामादिदुःखत्रयस्य साचिनो ज्ञानेन यत्फलं तदपि प्रसङ्गाद् आह—तद् एवमिति । सुगमम् । गुणवृत्तिविरोधाच्च दुःरवमेव सर्वं विवेकिनः। प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्री भूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेवाऽऽरभन्ते। चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम्। रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते, सामान्यानि त्वतिशयैः सह प्रवर्तन्ते। एवमेते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः सर्वे सर्वरूपा भवन्तीति, गुणप्रधानभावकृतस्त्वेषां विशेष इति। तस्माद्दुःखमेव सर्वं विवेकिन इति। वार्तिकम् योग-वार्त्तिकम्

गुणवृत्त्यविरोधाच्चेति हेतुं व्याख्यातुकामो योजयति—गुणेति । गुणानां सत्त्वादीनां ये वृत्यतिशयास्तेषाम् एव विरोध एकदानवस्थानं न तु न्यूनाधिकभावेन वृत्तीनां विरोधोऽस्ति, अतः प्राधान्येन सत्त्वपरिणामे सुखात्मकचित्तवृत्तावपि तदुपसर्जनतया रजोंऽशपरिशपरिणामभूतं दुःखम् अप्यल्पम् अस्त्येवेति दुःखसम्भिन्नत्वात् सर्वं सुखाद्यपि दुःखम् एव विवेकदृष्ट्येति तस्य दलस्यार्थः । गुणवृत्तिविरोधादिति प्रामादिकपाठे तु गुणवृत्त्यतिशयस्यैव विरोधादत्यर्थः । तदेतद्व्याचष्टे—प्रख्याप्रवृत्ति इति । प्रख्या प्रकाशः । प्रवृत्तिः क्रिया । स्थितिः स्तम्भः । धर्मधर्म्यभेदात्तद्रूपा सत्त्वादयो बुद्धिरूपेण परिणता गुणाः परस्परसाहाय्याः सन्तः शान्त्यादिरूपं प्रत्ययं वृत्तिं त्रिगुणं सुखदुःखमोहवन्तम् एवारभन्ते, सुखादीनां सत्त्वादिकार्यत्वात् यः कश्चन प्रत्ययः शान्तो वा घोरो मूढो वा भवति, स सर्वोऽपि त्रिगुण एव नैकैकमात्रगुण इत्यर्थः । शान्तादिपरिभाषात्रयं च सुखदुःखमोहाधिक्यमात्रेणेति । तथा च सुखवत्यपि प्रत्यये दुःखम् अस्त्येव । अत एक प्रत्ययोपादानत्वेन सुखेऽपि दुःखस्याविभागलक्षणाभेदो हरीतक्याम् इव षण्णां रसानामिति । प्रत्ययश्च बुद्धेर्वृत्तिः प्रदीपशिखावत् बुद्धेः शिखा द्रव्यरूपा, भागगुणाभ्यां तत्त्वान्तरं वृत्तिः सम्बन्धार्थं सर्पति इति साङ्ख्यसूत्रात्, अतः प्रत्ययस्य सुखादिगुणवत्ता घटत इति । ननु सुखकाले सूक्ष्मो दुःखात्मको रजःपरिणामो नियमेन भवतीत्यत्र किं मानम् तत्राह—चलं चेति । प्रदीपावयवानाम् इव बुद्ध्यवयवानां गुणानां क्रिया चञ्चला प्रतिक्षणम् अन्यान्या भवति, न तु निर्व्यापारा गुणास्तिष्ठन्ति, अतस्तान्त्रिकैश्चित्तं क्षिप्रपरिणाम्युक्तमित्यर्थः । यद्यपि सर्वं जडवस्तु प्रतिक्षणपरिणामि, तथापि स्पष्टत्वाभिप्रायेण चित्तमिति विशेषवचनम् । तथा च चित्तगतस्य सत्त्वस्य वृत्तिकाले रजसो वृत्तिरावश्यकीति भावः । नन्वेक एव प्रत्ययः कथं विरुद्धसुखादित्रयात्मकः स्यात् तत्राह—रूपातिशया इति । बुद्धे रूपाण्यष्टौ भावा धर्मादयो धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणि, वृत्तयश्च द्रव्यरूपाः शान्तादिनामकाः परिणामास्तेषाम् अतिशया उत्कर्षा एव परस्परं विरुध्यन्ते । यदा धर्म उत्कृष्यते, तदा नाधर्म उत्कृष्यते, एवं यदा ज्ञानादि तदा नाज्ञानादि, तथा शान्ताद्युत्कर्षकाले घोराद्युत्कर्षश्च विरुध्यते, सामान्यानि त्वपकृष्टान्यतिशयैः सह प्रवर्तन्त एवेत्यर्थः । ननु भवतु चित्तस्य सुखात्मकप्रत्यये दुःखत्वं सुखात्मकेषु शब्दादिविषयेषु कुतो दुःखत्वं येन सर्वं दुःखं स्यादित्यत आह—एवमेत इति । यथा चित्तस्य प्रत्यया एवम् एव सर्वे पदार्थाः सर्वरूपाः सुखदुःखमोहधर्मका भवन्ति,अत एते गुणाः सत्त्वादयो घटादिरूपेणापि परिणताः परस्परसाहित्येनोत्पादितसुखदुःखमोहात्मकप्रत्यया इत्यर्थः । न हि विषयगतविशेषं विना विषयसम्बन्धमात्रेण सुखाद्यात्मकचित्तवृत्तिरुदेतुम् अर्हति, अव्यवस्थापत्तेः । विषयगतविशेषस्य चित्तगतसुखादिनियामकत्वे विशेषः सुखादिरूप एव विषयेषु कल्प्यते, कार्यानुरूपस्यैव कारणस्य औचित्यात् । अतो विषयेऽपि सुखादिधर्मान्तरं सुखादिवत् सिध्यतीति भावः । ननु सुखदुःखे रूपादिवद्विषयधर्मौ स्यातां मोक्षस्तु ज्ञानरूपः कथं विषयधर्मः स्यादिति चेत् ? न, अतस्मस्तदाकारतामात्रस्यैव मोहशब्दार्थत्वात् । तदुक्तं मोक्षधर्मे—जगन्मोहात्मकं विद्धि अव्यक्तं व्यक्तसञ्ज्ञकम् इति । अपि च सर्वकार्याणां बुद्ध्यात्मकत्रिगुणात्मकहत्तत्त्वस्य परिणामत्वाद् अपि मोहवत्त्वमिति । ननु सर्वे यदि सर्वरूपास्तर्हि सर्वं सुखात्मकम् अपि स्यादिति न दुःखस्यापि हेयत्वं स्याद् इत्याशङ्कायाम् आह—गुणप्रधान इति । तथा च दुःखबहुलतया दुःखप्राधान्याद्दुःखम् एव सर्वम् इदं सुखं वैशेष्यत्तु तद्वाद इति न्यायेनेति भावः । उपसंहरति—तस्मादिति । तस्मात् परिणामेत्यादि सौत्रहेतुज्ञानाद् इत्यर्थः । तद् एवम् अत्र ध्यानादेर्व्युत्थिच्चित्तस्य योगसाधनं क्रियायोगम् उक्त्वा तत्फलप्रसङ्गेन क्लेशास्तद्धानोपायाश्च तेषां हेयत्वाय दुःखनिदानत्वं दुःखं च प्रतिपादितम् । इदानीं सङ्क्षेपेणोक्तं समग्रशास्त्रार्थं विस्तरेण सूत्रकारः पुनर्वदति सूत्रजातैः शास्त्रसमाप्तिपर्यन्तैः । तदस्य महतो दुःखसमुदायस्य प्रभवबीजमविद्या। तस्याश्च सम्यग्दर्शनमभावहेतुः। यथा चिकित्साशास्त्रं चतुर्व्यूहम् – रोगो रोगहेतुरारोग्यं भैषज्यमिति, एवमिदमपि शास्त्रं चतुर्व्यूहमेव। तद्यथा – संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति। तत्र दुःखबहुलः संसारो हेयः। प्रधानपुरुषयोः संयोगो हेयहेतुः। संयोगस्याऽऽत्यन्तिकी निवृत्तिर्हानम्। हानोपायः सम्यग्दर्शनम्। वार्तिकम् योग-वार्त्तिकम्

तान्यवतारयितुं तेषां विषयजातम् आदौ सामान्यतः सङ्कलय्य दर्शयति—तद् अस्यैति । तत् तस्मादस्य दृश्यसामान्यरूपस्य दुःखसमूहस्योत्पत्तेर्बीजं मुख्यनिमित्तकारणम् अविद्या प्रथमक्लेशः, तस्याश्चाविद्याया अत्यन्तोच्छेदहेतुस्तत्त्वज्ञानम् । अतश्चिकित्साशास्त्रवद् इदं योगशास्त्रं चतुर्व्यूहं चत्वारो व्यूहा हेयादीनां राशयः प्रतिपाद्या अस्मिन्निति चतुर्व्यूहम् इत्यर्थः । रोगादितुल्यत्वं प्रतिपादयन्नेव तेषां व्यूहानां स्वरूपाण्याह—तत्र दुःख इति । संसरत्यस्मिन्निति संसारोऽत्र प्रपञ्चः । ननु दुःखम् एव हेयमिति वक्ष्यति । तत्कथं संसारो हेय उच्यते ? तत्राह—दुःखबहुलः इति । दुःखबहुलत्वात् संसार एव दुःखम् इत्यर्थः । प्रधान इति । नन्वविद्या दुःखहेतुरित्युक्त्वात्र संयोगः कथं दुःखहेतुः साध्यत इति चेद् व्यापारकथनायेत्येव हि । अविद्या हि बुद्धिपुरुषसंयोगाख्यजन्मद्वारैव दुःखहेतुः, कार्यकारणाभेदेन च सैव बुद्धिरत्रप्रधानशब्दार्थः । द्रष्टृदृश्ययोः संयोगो हेयहेतुरित्यागामिसूत्रादिति । संयोगस्येति । उक्तसंयोगस्य आत्यन्तिकी निवृत्तिरेव हानम् दुःखहानमिति यावत्, तच्चरमकारणत्वादित्यर्थः । हानोपायः इति । सम्यग्दर्शनमिति । प्रकृतिपुरुषविवेकसाक्षात्कारो दुःखहानोपाय इत्यर्थः । असम्प्रज्ञातयोगस्त्वाशुतरमोक्षार्थम् एवापेक्ष्यत इत्याशयः । तेनायं योगो हानोपायतयात्र नोक्तः । ये तु नास्तिका मन्यन्ते—संयोगहानं न मोक्षः, किन्तु चित्तरूपस्यात्मनस्त्याग एव मोक्षः । तत्र हातुः स्वरूपमुपादेयं वा हेयं वा न भवितुमर्हतीति हाने तस्योच्छेदवादप्रसङ्ग उपादाने च हेतुवादः। उभयप्रत्याख्याने शाश्वतवाद इत्येतत्सम्यग्दर्शनम् ॥ १५ ॥ वार्तिकम् योग-वार्त्तिकम्

किं चासंसारिविज्ञानसन्तानोच्छेदेन जीवन्मुक्तविज्ञानसन्तानलाभ एव मोक्ष इति तन्मतनिरसनपूर्वकं स्वशास्त्रस्यैव सम्यग्दर्शनत्वम् अवधारयति—तत्र हातुः इति । तत्र चतुर्व्यूहमध्य आत्मनो हानम् उपादानं वा न पुरुषार्थ इत्यर्थः । इतिशब्दस्य हेतुवाद इत्यनन्तरम् अन्वयः । उक्तार्थे हेतुम् आह—हाने तस्येति । तस्य हाने स्वत्यागे हि त्वोच्छेदवचनं प्रसज्येत मुख्यत्यागस्य भेदतन्त्रत्वेनात्मन्यसम्भवात् । तच्चायुक्तं स्वनाशस्य लोके पुरुषार्थत्वादित्यर्थः । स्वयं म्रियमामाणोऽपि दुःखहानार्थम् एवाग्निप्रवेशादौ प्रवर्तते, न तु स्वनाशार्थम् इत्यर्थः । हेतुवादः इति । हेतुः स्वरूपस्य स कारणतावादः स्यात्, तथा च भावकार्यत्वेन विनाशित्वप्रसङ्ग इत्यर्थः । उभय इति । इत्यतो हानोपादानोभयनिषेधे स्वयं नित्यतावाद एव परिशेषात् सिध्यतीति, अत एतदेव यथोक्तचतुर्व्यूहशास्त्रं सम्यग्दृश्यतेऽनेनेति व्युत्पत्त्येत्यर्थः ॥ १५ ॥ तदेतच्छास्त्रं चतुर्व्यूहमित्यभिधीयते – वार्तिकम् योग-वार्त्तिकम्

इदानीं वक्ष्यमाणसूत्रगणमवतारयति । तदेतदिति । तदेतच्छास्त्रं चतुर्व्यूहमिति क्रमेण अभिधीयते प्रतिपाद्यते सूत्रकारेणेत्यर्थः— हेयं दुःखमनागतम् ॥ १६ ॥ दुःखमतीतमुपभोगेनातिवाहितं न हेयपक्षे वर्तते। वर्तमानं च स्वक्षणे भोगारुढमिति न तत्क्षणान्तरे हेयतामापद्यते। तस्माद्यदेवानागतं दुःखं तदेवाक्षिपात्रकल्पं योगिनं क्लिश्नाति नेतरं प्रतिपत्तारम्। तदेव हेयतामापद्यते ॥ १६ ॥ वार्तिकम् योग-वार्त्तिकम्

अनागतमिति विशेषणस्य फलमाह ॥ दुःखम् अतीतम् इत्यादिना । अतिवाहितम् अतिक्रान्तम् अतः सिद्धतया तद्धानं न पुरुषार्थः । तथा वर्तमानम् अपि स्वसत्ताकाले भुज्यत एवेति त्वया वक्तुं न शक्यते, स्वोत्तरोत्पन्नगुणेन च तृतीयक्षणे स्वयम् एव नङ्क्ष्यतीति तद्धानार्थः प्रयासो विफल इत्यर्थः । नन्वेवम् अनागतस्यापि हेयत्वं न घटते, परचित्तदुःखस्य स्वचित्ते स्वत एवाभावात्, स्वचित्तवृत्तेश्चानागतदुःखस्यावश्यम्भावित्वात् । अन्यथा सत्त्वप्रमाणाभावादिति चेन्न, स्वचित्तस्य इवानागतदुःखस्य कारणोच्छेदेनानुत्पत्त्या हेयत्वाद्व र्तमानलक्षणम् अप्राप्तस्याप्यनागतदुःखस्य चित्तनाशेन नाशात् कदाचिद्व र्तमानोऽपि चानागतधर्मोऽनुमानात् सिध्यति सर्वं सर्वात्मकमिति भाष्यकारेण तृतीयपादे सर्वत्रैव परिणामिवस्तुनि विकारजननशक्तेः कार्यानागतावस्थारूपाया जलभूम्यदिदृष्टान्तैः शान्तोदिताव्यपदेश्य इत्यादिसूत्रेऽनुमेयत्वादिति । शेषं पूर्वसूत्रे व्याख्यातप्रायम् । अस्माच्च सूत्रादत्यन्तिकी दुःखनिवृत्तिरेव मोक्ष इतिति सिद्धम् । अस्मिन् सूत्रे दुःखं मुख्यम् एव ग्राह्यं, मुख्यस्यैव स्वतो हेयत्वात्, तद्धानं च समवायसम्बन्धेन । यद्यपि पुरुषे नित्यसिद्धं, तथापि भोग्यतारूपस्वत्वसम्बन्धेन धनादीनाम् इव तद्धानं न नित्यसिद्धमिति तेन सम्बन्धेन तद्धानं पुरुषार्थ इत्याशयः । तथा हि वक्ष्यति तस्मिन्निवृत्ते पुरुषः पुनरिदं तापत्रयं न भुङ्क्ते इति । तद् एतद् उक्तं साङ्ख्यन्याययोः त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थ इति । दुःखात्यन्तविमोक्षोऽपवर्गःइति च ।

यत्तु, आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम् इत्येवंविधवाक्यजातं तद्दुःखनिवृत्याख्यसुखपरम् एव, तदानीम् अभोग्यसुखस्यापुरुषार्थत्वात्, सुखं दुःखसुखात्यत्यय इति परिभाषया रूढिबाधनाच्च ॥ १६ ॥ तस्माद्यदेव हेयमित्युच्यते तस्यैव कारणं प्रतिनिर्दिश्यते – वार्तिकम् योग-वार्त्तिकम्

हेयस्य सूत्रं व्याख्याय क्रमप्राप्तहेयहेतुप्रतिपादकं सूत्रमवतारयति । तस्माद्यदेव हेयमिति । द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥ द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः। दृश्या बुद्धिसत्त्वोपारूढाः सर्वे धर्माः। तदेतद्दृश्यमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारिदृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः, अनुभवकर्मविषयतामापन्नं यतः। अन्यस्वरूपेण प्रतिलब्धात्मकं स्वतन्त्रमपि परार्थत्वात्परतन्त्रम्। तयोर्दृग्दर्शनशक्त्योरनादिरर्थकतः संयोगो हेयहेतुर्दुःखस्य कारणमित्यर्थः। तथा चोक्तम् – तत्संयोगहेतुविवर्जनात्स्यादयमात्यन्तिको दुःखप्रतीकारः। कस्मात्, दुःखहेतोः परिहार्यस्य प्रतीकारदर्शनात्। वार्तिकम् योग-वार्त्तिकम्

द्रष्टृपदार्थम् आह—द्रष्टेति । बुद्धेः प्रतिसंवेदनं, संवेदनस्य बुद्धिवृत्तेः प्रतिबिम्बः । प्रतिध्वनिवद् इयं प्रयोगः । सोऽस्यास्तीति फलितार्थः । दृश्यपदार्थम् आह—दृश्या बुद्धिसत्त्वेति । बुद्धिसत्त्वस्यापि दृश्यत्वेनात्र विशेषणं विवक्षितम् । धर्मा इति च बुद्ध्यारूढत्वेन बुद्धिधर्मत्वम् अभिप्रेत्योक्तं, न तु बुद्धिकार्यत्वाभिप्रायेण, प्रधानादेरपि दृश्यत्वेन तत्त्यागानौचित्यात् । उत्तरसूत्रे प्रधानस्यैव मुख्यतो दृश्यत्ववचनाच्च ।

यद्यपि बुद्ध्यारूढो भवन् पुरुषोऽपि दृश्यः, तथापि तस्य निर्दुःखतया तद्दर्शनं न हेयहेतुरित्याशयेनात्र दृश्यमध्ये पुरुषं न गणयिष्यतीति । तथा च सुखदुःखमोहात्मकदृश्यवत्या बुद्ध्या सह द्रष्टुः साक्षिणः काष्ठाग्निवत् सम्बन्धो बन्धाख्यः पुरुषस्य दुःखहेतुरिति सूत्रार्थः । न तु बुद्ध्यारूढैर्दृश्यैर्द्रष्टुर्ज्ञानरूपः संयोगो हेयहेतुरत्र विवक्षितः । स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः इत्यागामिसूत्रेणास्य संयोगस्य ज्ञानहेतुत्वेनैव लक्षणीयत्वात्, न तु ज्ञानरूपत्वेनेति । अस्माच्च सूत्राद्बुद्ध्यात्मसंयोगवत् घटाद्यात्मसंयोगोऽपि भोगहेतुर्बोध्यः । भोक्तृभोग्यसंयोगस्यैव सामान्यतो भोगहेतुतया लाघवेनौचित्यात्, विषयभोगे च बुद्ध्यवच्छेदेन विषयसंयोगस्य हेतुत्वान्नातिप्रसङ्ग इतिति । अस्य च संयोगस्य पुरुषार्थो हेतुरिति वक्त्रं सकलपुरुषार्थवत्त्वरूपं स्वत्वं बुद्धौ पुरुषस्य प्रतिपादयति—तदेतदिति । न च तस्य हेतुरविद्येत्यागामिसूत्रेणैव संयोगस्य कारणं वक्ष्यत इति नास्ति संयोगकारणापेक्षेति वाच्यम्, अविद्याया अपि पुरुषार्थासमाप्तिद्वारैव बन्धहेतुताया वक्ष्यमाणत्वातिति ।

तद् एतद् इत्यादेरयम् अर्थः—तद्बुद्धिसत्त्वम् एतज्जगद्दृश्यं यत्रास्तीत्येतद्दृश्यम्, अतोऽयस्कान्तवत् सन्निधिमात्रेणोपकारितया स्वयं दृश्यतया च ज्ञानमात्रस्वरूपस्य स्वामिनः पुरुषस्य स्वमात्मीयं भवतीति । ननु बुद्धेः कथम् अन्यः स्वामी स्वीक्रियते, सैवापरतन्त्रा स्वयं द्रष्ट्री स्वार्थैव भवतु ? तत्राह—अनुभवकर्म इत्यादि । यतः कर्मकर्तृविरोधेन स्वदृश्यत्वानुपपत्त्यानुभवाख्यं यत् पुरुषस्य कर्म तद्विषयताम् आपन्नं सदेवान्यरूपेण पुरुषचैतन्येन प्रतिलब्धात्मकं सिद्धसत्ताकं, अन्यरूपेणान्यप्रयोजनेन लभस्थितिकं वातः स्वतन्त्रं पुरुषानाश्रितम् अपि परार्थत्वात् परतन्त्रं परस्य स्वम् इत्यर्थः । तद् एवं दृश्याख्यभोग्यात्मकाखिलपुरुषार्थस्य बुद्धिनिष्ठत्वे सिद्धे स एव पुरुषार्थोऽनागतावस्थो बुद्धिपुरुषयोः संयोगे हेतुरिति वदन् सूत्रवाक्यार्थम् आह—तयोरिति । तयोः स्वस्वामिनोः । दृश्यतेऽनयेति दर्शनं बुद्धिः, अनादिश्चात्र प्रवाह—रूपेण पुरुषार्थकृतत्ववचनात् ।

ननु पुरुषार्थसंयोगाङ्गीकारे सत्यपरिणामित्वभङ्ग इ चेन्न, सामान्यगुणातिरिक्तधर्मोत्पत्तेरेव व्यवहारानुसारेण परिणामशब्दार्थत्वाधारणात्, घटाद्यसंयोगाद्यैराकाशस्य द्वित्वादिभिश्च पुरुषस्य परिणामव्यवहाराभावात्, पद्मपत्रस्थतोयेन पद्मपत्रस्थापरिणामासंयोगादिश्रवणाच्च । संयोगविभागसङ्ख्यादयस्तु द्रव्यसामान्यगुणा इति । अपि च श्रुतिस्मृत्योः सुखादिरूपाः परिणामा एव पुरुषे नाभ्युपगम्यन्ते, मनोऽन्वयव्यतिरेकेण मनस्येव लाघवतस्तत्कल्पनात् मनसोऽवच्छेदकत्वं परिकल्प्यान्यत्र तत्कल्पने गौरवात् । संयोगादिकं प्रति तु द्रव्यत्वेनैव हेतुतया पुरुषस्यापि तत्सम्भवात्, पुरुषस्य द्रव्यत्वं चानाश्रितत्वतः परिमाणतश्च सिद्धमिति । यद्यपि कारणावस्थबुद्धिः पुरुषस्य विभुः, तथापि तयोः संयोगः परिच्छिन्नगुणान्तरावच्छेदेन सम्भवत्येव, महदाद्यखिलपरिमाणानां त्रिगुणसंयोगं विनानुत्पत्तेः, स च संयोगजः संयोगः, न तु कर्मजः, अवयवसंयोगाद् अवयविसंयोगवद् अवच्छेदकीभूतगुणसंयोगाद् एव विभुनोः संयोगोत्पत्तेः, भूतलस्य घटसंयोगेन घटावच्छिन्नाकाशसंयोगोत्पत्तिवत् ।

वैशेषिकशास्त्रे विभुनोः संयोगश्च साक्षाद् एव निषिद्धः, न तु संयोगजः संयोगग इतिति । यदि चात्मनः संयोग एव नास्तीति स्वीक्रियते, तर्हि प्रकृतिपुरुषसंयोगात् सृष्टिस्तद्वियोगतश्च प्रलय इति श्रुतिस्मृतिसूत्राणि नोपपद्येरन् । न च भोक्तृभोग्ययोग्यतैवोपचारिकोऽत्र संयोगो वक्तव्यः, तस्याः स्वस्वामिभावरूपत्वेनानादितया कार्यत्वस्याञ्जसानुपपत्तेः । किञ्च तस्या अविनाशित्वे ज्ञाननाश्यत्ववचनविरोधः, नाशित्वे परिणामः पुरुषस्य स्यादिति ।

ननु संयोगस्वीकारे पुरुषस्यासङ्गताक्षतिरिति चेत्? न, पुष्करपत्रे पुरुषदृष्टान्ते संयोगसत्त्वेऽपि असङ्गताऽभ्युपगमात्, स्वाश्रयविकारहेतुसंयोगस्यैव सङ्गत्वात् । पुरुषे च तादृशसंयोगास्वीकारादिति । तस्मात् पुरुषार्थनिमित्तको बुद्धिपुरुषयोः संयोगो भवति, स एव च जन्मरूपतया दुःखहेतुरिति सिद्धम् । स च संयोगविशेषः परमेश्वरस्य योगमाया योगीन्द्रैरप्यचिन्त्या श्रुतिस्मृतिगम्या न विशेषतस्तर्कगोचरो भवति, यथा खलु नित्यमुक्त असङ्गमविद्यादिरहितं विभुचिन्मात्रमात्मानं जीवजातम् ईश्वरो निबध्नाति । तथा चोक्तम्—

अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् ॥ इति ।

सेयं भगवतो माया यन्नयेन विरुध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ इति ।

संयोगस्य दुःखहेतुत्वे पञ्चशिखाचार्यस्य संवादम् आह—यथा चोक्तम् इत्यादिना, प्रतीकार इत्यन्तेन । तयोर्बुद्धिपुरुषयोः संयोगो दुःखहेतुस्तस्य परिवर्जनाद् अत्यन्तोच्छेदाद्दुःखस्यात्यन्तिकः प्रतीकार उच्छेदः स्याद् इत्यर्थः ।

नन्वनादिकालप्रवृत्तस्य दुःखहेतुसंयोगस्योच्छेदो न शक्यसम्भावन इत्याशयेन पृच्छति प्रसङ्गात् तच्छक्यत्वम् अवधारयितुं—कस्मादिति । उत्तरम्—दुःखहेतोः इति । परिहार्यस्य इत्यनेन प्रकृत्यादिनित्यव्यावृत्तिः । तथा च दुःखहेतुत्वनित्यत्वलिङ्गेन संयोगस्य शक्योच्छेदकत्वम् अनुमेयम् इत्याशयः । तद्यथा – पादतलस्य भेद्यता, कण्टकस्य भेत्तृत्वं, परिहारः कण्टकस्य पादाऽनधिष्ठानं पादत्राणव्यवहितेन वाऽधिष्ठानम्, एतत्त्रयं यो वेद लोके स तत्र प्रतीकारमारभमाणो भेदजं दुःखं नाऽऽप्नोति। कस्मात्, त्रित्वोपलब्धिसामर्थ्यादिति। अत्रापि तापकस्य रजसः सत्त्वमेव तप्यम्। कस्मात्, तपिक्रियायाः कर्मस्थत्वात्, सत्त्व क्रिया नापरिणामिनि निष्क्रिये क्षेत्रज्ञे, दर्शितविषयत्वात्। सत्त्वं तु तप्यमाने तदाकारानुरोधी पुरुषोऽप्यनुतप्यत इति ॥ १७ ॥ वार्तिकम् योग-वार्त्तिकम्

दुःखहेतोः प्रतीकार्यत्वे लौकिकम् उदाहरणम् आह—तद् यथा इति । भेद्यत्वं भेदजदुःखभागित्वं भेत्तृत्वं च भेदद्वारा दुःखहेतुत्वं पादानधिष्ठानं पादेनानारोहणं, पादत्राणम् उपानत्, तद्व्यवहितेन वा पदा कण्टकस्यारोहणम् इत्यर्थः । एतत् त्रयं दुःखाश्रयदुःखहेतुतत्परीहारोपायरूपम् इत्यर्थः । यो वेदेत्यनेनैतत्त्रयज्ञानस्य प्रतीकारहेतुत्वं वदन्नेतत् त्रयं मुमुक्षुभिरज्ञेयम् इत्यपि सूचितवान् ।

ननु तापो दुःखमिति पर्यायः, तथा च दृष्टान्ते यथा भेद्यभेत्तृप्रतीकाररूपं त्रितयम् अस्ति नैवं दार्ष्टान्तिके, तत्रैकस्य बुद्धेरेव तप्यतापकोभयरूपताभ्युपगमात्पुरुषस्य निर्दुःखत्वाद् इत्याक्षिपति—कस्मादिति । सिद्धान्तम् आह—त्रित्वोपलब्धीति । बाह्यदुःखस्थल उक्तत्रयोपलब्धिबलादन्तरदुःखस्थानेऽपि त्रयसिद्धिरिति भावः ।

तस्य प्रकारम् आह—अत्रापि इति । अत्रापि दार्ष्टान्तिकेऽपि । अयं भावः—बुद्धेरेकत्वेऽपि त्रिगुणात्मकत्वाद् अंशत्रयम् अस्ति, तत्र रजोंशःशस्तापकः, सत्त्वांशस्तप्यो, बुद्धिपुरुषयोर्वियोगश्च दुःखप्रतीकार इति त्रयम् उपपन्नमिति ।

ननु पुरुष एव कथं न तप्यो भवतीत्याशयेन पृच्छति—कस्मादिति । सिद्धान्तम् आह—अत्रापीत्यादिना क्षेत्रज्ञ इत्यन्तेन । कर्मस्थत्वात् कर्मतन्त्रत्वात्, सकर्मकत्वादिति यावत् । कर्मत्वं च क्रियाव्याप्यत्वं दुःखव्याप्यत्वं वा परिणामिनि न सम्भवतीत्यर्थः । वृत्तिव्याप्यत्वं तु विषयतारूपम् अपरिणामिन्यपि सम्भवतीत्यतो ज्ञानक्रियाकर्मत्वं पुरुषस्योपपद्यत इति विशेषः । यच्च पुरुषस्य स्वज्ञेयत्वं तद् अपि स्वप्रतिबिम्बितबुद्धिवृत्तिव्याप्यत्वम् एवेति न तत्रापि परिणामापेक्षेति । नन्वेवं कथं दुःखनिवृत्तिः पुरुषार्थः, परदुःखस्याहेयत्वात्, न च पुरुषनिष्ठत्वभ्रमाद्दुःखं हेयं स्यादिति वाच्यम् ? विदुषाम् अपि दुःखहानार्थम् असम्प्रज्ञातार्थितायाः स्वीकाराद् इत्याशङ्कां समाधत्ते— दर्शितविषयत्वात् इत्यादिना । पुरुषो यतो दर्शितविषयो बुद्धिसत्त्वेन निवेदितविषयोऽतः सत्त्वे तप्यमाने प्रतिबिम्बरूपेण बुद्धिसत्त्वसमानाकारो भवेन्न तु तप्यत इति मूढैर्दृश्यते अनुतप्यत इवेत्यर्थः । न हि स्वाकारप्रतिबिम्बनातिरिक्तविषयनिवेदनम् अपरिणामिनि सम्भवति, प्रतिपादितं चैत द् वृत्तिसारूप्यम् इतरत्र” इति सूत्रे । तथा च प्रतिबिम्बरूपेण भोगाख्यसम्बन्धेन विदुषाम् अपि दुःखस्य हेयत्वान्न पुरुषार्थासम्भवदोष इति भावः । ये तु पुरुषस्य भोक्तृत्वम् अपि नेच्छन्ति, तेषाम् एवाधुनिकवेदान्तिब्रुवाणाम् अयं दोषः ॥ १७ ॥ दृश्यस्वरूपमुच्यते – वार्तिकम् योग-वार्त्तिकम्

इदानीं द्रष्टुदृश्यसंयोगानां त्रयाणामेव स्वरूपं सूत्रकारो वक्ष्यति । तत्र दृश्यरूपप्रतिपादकं सूत्रमवतारयति । दृश्यस्वरूपमुच्यत इति । पूर्वसूत्रे च प्राधान्यादादौ द्रष्टुरुपन्यास इति बोध्यम् । प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ १८ ॥ प्रकाशशीलं सत्त्वम्। क्रियाशीलं रजः। स्थितिशीलं तम इति। एते गुणाः परस्परोपरक्तप्रविभागाःपरिणामिनः संयोगवियोगधर्माण इतरेतरोपाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वेऽप्यसम्भिन्नशक्तिप्रविभागास्तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः प्रधानवेलायाम् उपर्दशितसन्निधाना गुणत्वेऽपि च व्यापारमात्रेण प्रधानान्तर्णीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः सन्निधिमात्रोपकारिणोऽयस्कान्तमणिकल्पाः प्रत्ययमन्तरेणैकतमस्य वृत्तिमनु वर्तमानाः प्रधानशब्दवाच्या भवन्ति। एतद्दृश्यमित्युच्यते। वार्तिकम् योग-वार्त्तिकम्

प्रलये प्रकाशादिकार्याभावाच्छीलपदोपादानम् । प्रकाशो सौभाग्यादिवृत्तिरूपालोको भौतिकालोकश्च । क्रियायत्नश्चलनं च । स्थितिः प्रकाशक्रियाभ्यां यथोक्ताभ्यां शून्यत्वं, तयोः प्रतिबन्ध इति यावत् । तच्छीलं गुणत्रयमिति विशेष्यपदम् अत्रोत्तरसूत्रे गुणपर्वाणीति विभागवचनाल्लभ्यते, अत एव भाष्यकारैरेते गुणा इति व्याख्यास्यन्ते ।

तादृशेषु गुणेषु प्रमाणम् आह—भूतेति । भूतेन्द्रियात्मकं स्थूलसूक्ष्मरूपाणां भूतानां स्थूलसूक्ष्मरूपाणां चेन्द्रियानां कारणं तेन महदाद्यखिलकार्यकारणत्वम् एव लब्धम् । तच्च गुणेषु । तेषां प्रकाशादिरूपतायां च प्रमाणं त्रिगुणात्मकानां च जडकार्याणां त्रिगुणात्मकजडकारणम् आह—भोगापवर्गार्थमिति । भोगापवर्गप्रयोजनवदिति सूत्रार्थः ।

नन्वेवं गुणत्रयस्यैव दृश्यत्वं प्राप्तं, न तु विकाराणामिति चेत् ? न, गुणपर्वतयोत्तरसूत्रेण तेषाम् अपि सङ्ग्राह्यत्वादिति ।

तद् एतत् सूत्रं व्याचष्टे—प्रकाशशीलमिति । ननु सत्त्वादिगुणा एव चेत् प्रकाशादिशीला दृश्यत्वेनात्रोक्तास् तर्हि प्रकृत्यवचनात् सूत्रकारस्य न्यूनता, तथा सत्त्वादिगुणानाम् एव भूतेन्द्रियात्मकत्वस्वीकारात् प्रकृतिसिद्धान्तक्षतिर्वैयर्थ्याद् इत्याशङ्क्य गुणा एव प्रकृतिशब्दवाच्याः, न तु तदतिरिक्ता प्रकृतिरस्तीत्यवधारयति—एते गुणाः इति । सत्त्वादयो गुणा एते प्रकृतिशब्दवाच्या भवन्ति, प्रधीयतेऽस्मिन् कार्यजातम् इत्यादि व्युत्पत्त्या प्रधानप्रकृत्यादिशब्दैरुच्यन्त इत्यन्वयः ।

तथा च साङ्ख्यसूत्रं “सत्त्वादीनाम् अतद्धर्मत्वं तद्रूपत्वात्” इति । सत्त्वादिषु गुणस्य च पुरुषोपकरणत्वात् तद्बन्धकत्वाच्च, न तु प्रकाशक्रियादिवत् परसमवेतत्वाद् इति भावः । प्रधानशब्दवाच्यत्वोपपादनाय गुणानाम् एव जगत्कारणत्वानित्यत्वादिकं हेतुगर्भविशेषणैरुपपादयति—परस्पर इति । सत्त्वस्य प्रविभागोऽधिकभागः स्वल्पाभ्यां च रजस्तमोभ्याम् उपरक्तः संसृष्टः, एवं रजसस्तमस इत्येवं परस्परोपरक्तप्रविभागाः, तथा संयोगविभागधर्माणः परस्परं संयोगविभागस्य भावाः । एतेन गुणानां द्रव्यत्वं सिद्धम् । तथा इतरेतरसाहाय्येनोत्पादितावयविनः कार्यकारणाभेदेन चारम्भवादाद्विशेषः ।

ननु यदीतरसाहाय्येन सर्वे गुणाः सर्वकार्यकारणानि, तर्हि सत्त्वादेरपि क्रियादिहेतुत्वेन सक्रियत्वाद्यापत्त्या प्रकाशादिशक्तिसाङ्कर्यमिति ? तत्राह—परस्पराङ्गाङ्गित्वेऽपि इति । अन्योन्याङ्गाङ्गिभावेनोत्पादितेऽपि द्रव्ये प्रकाशगुणः सत्त्वस्यैव क्रियागुणो रजस एव स्थितिगुणस्तमस एवेत्यतो न प्रकाश्॒दिशक्तिविभागस्य सम्भेदः सम्मिश्रणम् इत्यर्थः । तथा तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः सत्त्वादिजात्या सजातीया विजातीयाश्च ये सहकारिशक्तिविशेषाः, तदनुपातिनस् तेषाम् अविशेषेणोपष्टम्भकस्वभावा इति अर्थः । एतेन सत्त्वादीनि व्यक्तिरूपेणानन्तानि, त्रिगुणत्वादिव्यवहारस् तु सत्त्वत्वादिजातिमात्रेण वैशेषिकाणां नवद्रव्यव्यवहारवदिति सिद्धम् । अत एव लघुत्वादिधर्मैरन्योन्यं साधर्म्यं वैधर्म्यं च गुणानां इति साङ्ख्यसूत्रेण सत्त्वादीनां साधर्म्यवैधर्म्ये लघुत्वादिरूपे प्रदर्शिते इति । तथा प्रधानवेलायां स्वस्वप्राधान्यकालेऽभिव्यक्तसान्निध्या विकारेषु भवन्ति, तथा गुणत्वेऽपीतरोपसर्जनतादशायाम् अपि व्यापारमात्रेण तथा विषयविधयायस्कान्तमणिवच् चित्तस्याकर्षकाः । वक्ष्यति हि—अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तम् इति ।

तथा प्रत्ययम् अन्तरेणाभिव्यक्तिं विना स्वानभिव्यक्तिकाल इति यावत् । तदानीम् एकतमस्य यस्य कस्य चिद्गुणान्तरस्य वृत्तिम् अनु सूक्ष्मवृत्तिमन्तः, वृत्त्यतिशयानाम् एव विरोधस्योक्तत्वादिति विशेषणवर्गार्थः । एतदृश्यमित्युच्यत इति । एतद्गुणत्रयम् एव कार्यकारणभावापन्नं दृश्यम् उच्यते, नास्ति ततोऽतिरिक्तं दृशश्यान्तरमित्यर्थः । एत एव च गुणा न्यायवैशेषिकाभ्यां द्रव्याष्टकरूपेण विभज्यन्ते, वेदान्तिभिस्तु मायेत्युच्यन्ते, “मायां तु प्रकृतिं विद्याद्” इति श्रुतेः ।

तद् उक्तं बृहद्वासिष्ठे –

नामरूपविनिर्मुक्तं यस्मिन् सन्तिष्ठते जगत् । तमाहुः प्रकृतिं केचित् मायामन्येन्ये परे त्वणून् ॥ इति ।

स्याद् एतत्, यदि त्रिगुणातिरिक्ता प्रकृतिर्नास्ति, तदा, अजाम् एकां लोहितशुक्लकृष्णामित्यादि श्रुत्युक्तं प्रकृतेरेकत्वादिकं व्याहन्येत । तथा—

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥

इत्यादिनोक्तो व्यापकत्वाक्रियत्वनिरवयवत्वादिरूपश्च साङ्ख्यादिसिद्धान्तो व्याहन्येत । तथा—“एते प्रधानस्य गुणास्त्रयः स्युरनपायिनः” इत्यादिस्मृतिशतपरम्परासु प्रधानस्य गुणानां चाधाराधेयभावहेतुहेतुमद्भावयोर्वचनं नोपपद्येत । तथा—“सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः” इति गीतादिवाक्योक्तं सत्त्वादेः प्रकृतिकार्यत्वं चानुपपन्नम् । तथाष्टाविंशतितत्त्वपक्षोऽपि नोपपद्येत इति ? अत्रोच्यते—पुरुषभेदेन सर्गभेदेन च भेदाभाव एव प्रकृतेरेकत्वम् अजादिवाक्यै

स्तन्मू

लकसाङ्ख्यादिभिश्च प्रतिपाद्यते । अजावाक्येन तथा तात्पर्यावधारणात् । भोग्यभोक्त्रोर्हि मध्ये भोग्या गुणा भोग्यत्वाभोग्यत्वाभ्यां सर्गभेदेन न भिद्यन्ते, एते भोगार्हा एते च नेति, मुक्तपुरुषोपकरणानाम् अप्यन्यपुरुषभोग्यत्वात् । भोक्तारस्तु पुरुषाः, भोक्तृत्वाभोक्तृत्वाभ्यां सर्गभेदेन भिद्यन्ते पूर्वसर्गमुक्ता नोत्तरसर्गे भोक्तारः, किन्त्वन्य एवेति । अतः प्रकृतिरेका पुरुषस्त्वनेक इत्युच्यन्ते ।

तथा त एव गुणाः सर्वसर्गेषु स्रष्टारो भवन्ति । महदादिविकाराणां तु सर्गभेदेन भिन्नत्वं स्पष्टम् एव, अतीतव्यक्तेः पुनरनुदयस्य वक्ष्यमाणत्वादिति । यदि तु प्रकृतिरेकैव व्यक्तिः स्यात्, तदा “निमित्तम् अप्रयोजकं प्रकृतीनाम्” इति प्रकृतिबहुत्वसूत्रविरोधः, “इन्द्रो मायाभिः पुरुरूप ईयत” इत्यादिश्रुतिविरोधश्चेति ।

व्यापकत्वं च प्रकृतेः कारणत्वसामान्येनैव बोध्यं, कारणशून्यप्रदेशाभावाद्गन्धादेः पृथिव्यादिव्यापकत्ववत् । महदादिकं तु सामान्येनापि न व्यापकमिति । अत एवांशभेदेन प्रकृतेर्व्यापकत्वप्रकृत्यापूरो घटत इति । प्रकृतेरक्रियत्वं चाध्यवसायाभिमानादिरूपप्रतिनियतकार्यशून्यत्वमेव, न तु चलनादिकर्मशून्यत्वं—

प्रधानात् क्षोभ्यमाणाच्च तथा पुंसः पुरातनात् । प्रादुरासीन्महद् बीजं प्रधानपुरुषात्मकम् ॥

इत्यादिस्मृतिषु प्रकृतेरपि चलनापरनामकक्षोभावगमात्,

प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि । चेष्टा यतः स भगवान् काल इत्युपलक्षितः ॥ इति स्पष्टं क्रियास्मरणाच्च ।

यत्तु क्वचित् पुरुषस्यापि क्षोभः श्रूयते स सङ्गोन्मुखत्वेन गौणः । प्रकृतिकर्मणैव संयोगोत्पत्तेरिति । प्रकृतेर्निरवयवत्ववाक्यानि चारम्भकावयवनिषेधकानि, न तु वनांशवृक्षतुल्याणाम् अंशानां निषेधकानि । एतेन एते प्रधानस्य गुणा इत्यादिवाक्यान्यप्युपपादितानि वनतुल्यस्य प्रधानस्यांशिनः पनसाम्रदाडिमादितुल्यस्य गुणद्रव्यस्यांशत्वाभ्युगमादिति ।

यच्च सत्त्वादीनां प्रकृतिकार्यत्ववचनं तद्व्यवहाराभिप्रायेण प्रकाशादिफलोपहिततयैव हि सत्त्वादिव्यवहारो दृश्यत इति । अन्यथा गुणनित्यत्वसिद्धान्तव्याघाताद् अखण्डैकप्रकृतेर्विचित्रपरिणामासम्भवाच्च । सम्भवे वा महदादिकार्यान्तराणाम् अपि केवलप्रकृतरेव सम्भवाद् गुणकल्पनावैयर्थ्यम् । किञ्च, गुणरूपावच्छेदभेदाद् एव तत्सम्भवः? इति चेत्, न, तथा सति गुणेभ्य एव सर्वकार्योपपत्त्या तदतिरिक्तप्रकृतिवैयर्थ्यम् ।

किञ्च, यदि गुणत्रयातिरिक्ता प्रकृतिः स्यात्, तदा—

गुणसाम्यमनुद्रिक्तमन्यूनं च महामते । प्रोच्यते प्रकृतिर्हेतुः प्रधानं कारणं परम् ॥

इत्यादिस्मृतिषु “सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः” इति साङ्ख्यसूत्रे च साम्यावस्थगुणानां प्रकृतित्ववचनम् आञ्जस्येन नोपपद्येत, नोपपद्येत च विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि, ते व्यक्तसूक्ष्मा गुणात्मनः, परिणामक्रमसमाप्तिर्गुणानां इत्यादि सूत्रेषु भाष्ये च गुणानाम् एव मूलकारणत्ववचनम् इत्यादिदूषणं स्यादिति ।

साम्यावस्था च न प्रकृतिलक्षणे विषयाणाम् अपि तु यदा कदाचित् सम्बन्धेनोपलक्षणम्, काकवन्तो देवदत्तस्य गृहा इतिवत् । सा च न्यूनाधिकभावेनासंहननावस्था अकार्यावस्थेति यावत् । तदुपलक्षितणत्वं च प्रकृतिलक्षणं महदादिव्यावृत्तम् । तेन सर्गकालेऽपि गुणानां प्रकृतित्वोपपत्त्या न प्रकृतिनित्यताक्षतिः, नापीश्वरस्य तदैकरूप्येण साम्यावस्थाशून्यत्वेऽपि तत्र प्रकृतिलक्षणातिव्याप्तिरिति दिक् । तदेतद्भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते। तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति। तत्तु नाप्रयोजनमपि तु प्रयोजनमुररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तद्दृश्यं पुरुषस्येति। तत्रेष्टानिष्टगुणस्वरूपावधारणमविभागापन्नं भोगो भोक्तुः स्वरूपावधारणमपवर्ग इति। द्वयोरतिरिक्तमन्यद्दर्शनं नास्ति। तथा चोक्तम् – अयं तु खलु त्रिषु गुणेषु कर्तृष्वकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे तत्क्रियासाक्षिण्युपनीयमानान्सर्वभावानुपपन्नाननुपश्यन्नदर्शनमन्यच्छङ्कत इति। वार्तिकम् योग-वार्त्तिकम्

गुणेषु प्रमाणोपदर्शकं भूतेन्द्रियात्मकमिति विशेषणं व्याचष्टे - तदेतद्भूतेति । भूतभावेन इत्यस्य विवरणं पृथिव्यादिना इति । तत्राप्यवान्तरविशेषम् आह—सूक्ष्मस्थूलेनेति । तन्मात्राणि सूक्ष्माणि पृथिव्यादीनि महाभूतानि स्थूलपृथिव्यादीनि । इन्द्रियभावेनेत्यस्य विवरणं श्रोत्रादिना इति । तत्राप्यवान्तरविशेषम् आह—सूक्ष्मस्थूलेनेति । महद्हङ्कारौ सूक्ष्मेन्द्रियम् एकादश च स्थूलेन्द्रियाणि, इन्द्रियस्य सङ्घात ईश्वरस्य कारणत्वादित्यर्थः ।

भोगापवर्गार्थमिति गुणस्य इवापरं विशेषणं मोक्षोपपादकं व्याचष्टे—तत्तु नाप्रयोजनमित्यादिना । तद् गुणत्रयं न प्रयोजनशून्यं सद्भूतेन्द्रियरूपेण प्रवर्तते, अपि तु प्रयोजनं स्वीकृत्यैव प्रवर्तत इत्यतस्तादृशं गुणत्रयं पुरुषस्य भोगापवर्गार्थं हि भोगापवर्गफलकमेवेत्यर्थः ।

भोगापवर्गौ व्याचष्टे—तत्रेष्टानिष्ट इति । इष्टानिष्टगुणाः सुखदुःखात्मकाः शब्दादयः, तत्स्वरूपावधारणं तदाकाकारा बुद्धिवृत्तिः, न तु पुरुषनिष्ठः साक्षात्कारः, बुद्धिनिष्ठायाः वक्ष्यमाणत्वात्, स हि तत्फलस्य भोक्तेत्यनेन पुरुषनिष्ठस्य भोगान्तरस्य वक्ष्यमाणत्वात् पुरुषनिष्ठभोगस्य चित्स्वरूपतया नित्यत्वेन न फलत्वमञ्जसास्तीति भावः । शब्दादिवृत्तिकाले विवेकख्यातिसत्त्वे वक्ष्यमाणापवर्ग एवेति तादृक्शब्दादिव्यावृत्त्यर्थम् अविभागापन्नमिति विशेषणं पुरुषेण सहाविविक्तम् । अहङ्कारेण ममेत्यात्मनिष्ठतयाभिमन्यमानमिति यावत् । जीवन्मुक्तस्य भोगाभास एव, अहं शृणोमीत्याद्यभिमन्यमानगर्भेष्वेव शब्दादिवृत्तेर्गुणेषु भोगव्यवहारात् । भोक्तुरिति । भोक्तुः पुरुषस्य यत् स्वरूपम् उपाधिविविक्तचैतन्यं तदकारा बुद्धिरपवर्गः ।

आदौ तु मोक्षो ज्ञानेन द्वितीयो रागङ्क्षयात् । कृच्छ्रक्षयात् तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ॥

इति पञ्चशिखवाक्यात् । अपवृज्यतेऽनेनेति व्युत्पत्तेर्वेत्यर्थः ।

ननु भोगापवर्गातिरिक्तार्थमपि दृश्यं कथं न भवतीत्याकाङ्क्षायाम् आह—द्व योरिति । दर्शनं बुद्धिवृत्तिः । अविभागापन्न्तायां पञ्चशिखाचार्यसंवादम् आह—तथा चोक्तमिति । अयं लोकेषु गुणेषु सर्वकर्तृषु सत्सु गुणत्रयापेक्षया चतुर्थे तुरीये पुरुषे गुणव्यापाराणां जाग्रदादीनां साक्षिमात्रे कर्तर्युपनीयमानान् बुद्ध्या समर्प्यमाणान् गुणपरिणामान् तत्रैव पुरुषे उपपन्नान् युक्तिसिद्धान् इव पश्यन् मूढो न गुणेभ्योऽन्यद्दर्शनं चैतन्यं शङ्कते सम्भावयत्ययपीत्यर्थः ।

अत्र विवेकग्रहणे भिन्नत्वे च हेतुस्तुल्यातुल्यजातीय इति पुरुषविशेषणं, बुद्धिपुरुषयोर्द्वयोरपि स्वच्छत्वसूक्ष्मत्वादिना साम्यात् गुणपुरुषयोस्तुल्यजातीयत्वं जडत्वाजडत्वपरिणामित्वापरिणामित्वादिभिश्च वैजात्यमित्याशयः ।

अत्र भाष्ये गुणत्रयापेक्षया पुरुषस्य चतुर्थत्ववचनाद् अन्यान्यपि तुरीयवाक्यानि जाग्रदाद्यवस्थसत्त्वादिगुणत्रयापेक्षया साक्षित्वम् एव पुरुषस्य तुरीयावस्थां वदतीति सिद्धम् । तथा च स्मर्यते—

सत्त्वाज्जागरणं विद्याद्रजसा स्वप्नमादिशेत् । प्रस्वापं तमसा जन्तोस्तुरीयं त्रिषु सन्ततम् ॥ तावेतौ भोगापवर्गौ बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति। यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तत्फलस्य भोक्तेति, एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुषे व्यपदिश्येते, स हि तत्फलस्य भोक्तेति। बुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्धस्तदर्थावसायो मोक्ष इति। एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः। स हि तत्फलस्य भोक्तेति ॥ १८ ॥ वार्तिकम् योग-वार्त्तिकम्

ननूक्तयोर्भोगापवर्गयोर्गुणकार्यतया गुणनिष्ठत्वेन कथं पुरुषस्य भोगापवर्गार्थं दृश्यम् इत्युक्तम् इत्याशङ्कते—तावेताविति । यतो बुद्धिकृतान्वयव्यतिरेकाभ्यां बुद्धिकार्यवतो लाघवेन बुद्धावेव वर्तमानौ, न तु पुरुषनिष्ठावित्यादिरर्थः । दृष्टान्तप्रदर्शनपूर्वकं परिहरति—यथा इत्यादिना । पुरुषे स्वामित्वाज्जयादिवत् तौ व्यपदिश्येते इति वाक्यार्थः । बन्धमोक्षौ यथोक्तभोगापवर्गौ । स हि तत्फलस्येति । बुद्धिगतयोर्विषयावधारणपुरुषावधारणयोः फलस्य सुखादिरूपस्य भोक्ता स्वप्रतिबिम्बितस्य साक्षी, अतस्तयोः स्वामीत्यर्थः । अत्र पुरुषस्यापि स्वातन्त्र्येण भोगस्योक्तत्वात् स्वरूपप्रतिष्ठा वा चितिशक्तिरिति शास्त्रप्रान्तसूत्रे पुरुषस्य स्वतोऽपि मोक्षस्य वक्ष्यमाणत्वाच्च पुरुषस्य भोगापवर्गौ च निराक्रियेते, बुद्धिगतभोगापवर्गयोः स्वतोऽपुरुषार्थत्वाच्च, करणव्यापारस्य पुरुषार्थतासिद्धान्ताच्च । अपि तु परिणामरूपौ यथोक्तभोगापवर्गावेव पुरुषस्य निराक्रियेते । अत एव तावेतावित्यनेन भोगापवर्गौ विशेषितौ भाष्यकारेणेति । पुरुषाणां च संसारिणां मुख्य एव भोगो बुद्धिवृत्त्यविविक्तः सुखादिसाक्षात्कारः, जीवन्मुक्तेश्वरयोस्तु गौणो भोगः सुखादिसाक्षात्कारमात्ररूप इतीश्वरलक्षणसूत्रे प्रतिपादितम् अस्माभिरिति ।

यदि च पुरुषे पृथग्भोगमोक्षौ न स्वीक्रियेते, तदा—

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥

मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः

इत्यादिवाक्यानि नोपपद्येरन्निति दिक् ।

बुद्धेरेव परमौ बन्धमोक्षावपि दर्शयति—बुद्धेरेव इति । बुद्धिरूपेण परिणतानां गुणानाम् एवेत्यर्थः । तदर्थावसायो विवेकख्यात्या पुरुषार्थसमाप्तिः । तथा च यथोक्तभोगावर्गरूपैः पुरुषार्थैः सम्बन्धो बुद्धेर्बन्धो वियोगश्च मुक्तिरिति भावः । एतौ च बुद्धेः परमबन्धपरममुक्ती । पूर्वोक्तौ तु भोगापवर्गाव परबन्धजीवन्मुक्ती इत्यविरोधः । एतेनेति । एतेन शब्दाद्विषयभोगविवेकख्यात्योः पुरुषेष्वौपचारिकत्वेन ग्रहणादयोऽपि पुरुषेषूपचरितसत्ताका वेदितव्या इति शेषः । ग्रहणं स्वरूपमात्रेणार्थज्ञानं, धारणा चिन्तनं, ऊहोऽर्थगतविशेषाणां वितर्कणं, अपोहो वितर्कितमध्ये विचारतः कियतां निराकरणं, तत्त्वज्ञानं वितर्कितमध्य एकं विचारतः कियद् विशेषावधारणं, अभिनिवेशस्तदाकारतापत्तिरिति । प्रकृतस्य योगस्य भूमिकाख्यतयैव चित्तपरिणामा अत्र गणिताः, एतैश्चान्येऽपीच्छाकृत्यादयः उपलक्षणीया इति । नन्वनेन सूत्रेण गुणानामेव दृश्यत्वं प्रोक्तं न तु विकाराणामिति ॥ १८ ॥ दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते – वार्तिकम् योग-वार्त्तिकम्

न्यूनतानिरासायप्रवर्तमानं सूत्रान्तरमवतारयति । दृश्यानां त्विति । स्वरूपभेदावधारणार्थमवान्तरभेदप्रतिपादनार्थमित्यर्थः । विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९ ॥ तत्राऽऽकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः। तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि, एकादशं मनः सर्वार्थम्, इत्येतान्यस्मितालक्षणस्याविशेषस्य विशेषाः। गुणानामेष षोडशको विशेषपरिणामः। वार्तिकम् योग-वार्त्तिकम्

गुणात्मको वंशः तस्यालिङ्गादिविशेषान्तं पर्वचतुष्टयं बीजाङ्कुरवद् अवस्थाभेदा नात्यन्तं भिन्नाः, अतो गुणेष्वेव सर्वदृश्यानां अन्तर्भाव इति सूत्रकारस्याशयः । कार्यैः कारणान्यनुमीयन्त इत्याशयेन विशेषादिक्रमेण पर्वगणनम् ।

तत्र यस्य यस्याविशेषस्य यो यो विशेषस्तम् आह—तत्राकाश इति । आकाशादीनि भूतानि शब्दादितन्मात्राणां शान्तादिविशेषशून्यशब्दादिधर्मकसूक्ष्मद्रव्याणां अत एवाविशेषसञ्ज्ञकानां विशेषा अभिव्यक्तशान्तादिविशेषकाः परिणामाः । यथा क्रममिति शेषः ।

तथा इति विशेषाः इत्यागमिनान्वयः । मनस इन्द्रियमध्यप्रवेशे हेतुगर्भविशेषणं सर्वार्थमिति । सर्वेषां दशेन्द्रियाणामर्था यस्येति मध्यमपदलोपी समासः, मनःसहकारेणैव श्रोत्रादीनां शब्दादिग्राहकत्वादिति । अहङ्कारस्याविशेषत्वे हेतुगर्भविशेषणं—अस्मितालक्षणस्येति । अभिमानमात्रधर्मकस्य श्रवणस्पर्शनादिरूपशेषरहिताहङ्कारस्येति शेषः ।

पिण्डीकृत्य विशेषपर्वोपसंहरति—गुणानामिति । एवं पञ्चभूतैकादशेन्द्रियगणः षोडशसङ्ख्याको गुणानां विशेषाख्यः परिणाम इत्यर्थः ।

नन्विन्द्रियवत् तन्मात्राण्यहङ्कारस्य विशेषाः कथं नोक्ताः शब्दस्पर्शादिविशेषवत्त्वात्?इति चेत्, न, विशेषमात्रस्यैवात्र विशेषपरिभाषणात् तन्मात्राणि तु भूतानां अविशेषा अपि भवन्तीति । षडविशेषाः। तद्यथा – शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति एकद्वित्रिचतुःपञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः, षष्ठश्चाविशेषोऽस्मितामात्र इति। एते सत्तामात्रस्याऽऽत्मनो महतः षडविशेषपरिणामाः। यत्तत्परमविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वं तस्मिन्नेते सत्तामात्रे महत्यात्मन्यवस्थाय विवृद्धिकाष्ठामनुभवन्ति। वार्तिकम् योग-वार्त्तिकम्

अविशेषपर्व व्याचष्टे—षड् अविशेषाः इति । षड् गणयति—शब्दतन्मात्रं इत्यादिना, अस्मितामात्र इत्यन्तेन । एकद्वित्री इति । लक्ष्यतेऽनेनेति लक्षणं धर्मः तन्मात्राणां द्रव्यत्वलाभाय लक्षणपदम् । तथा चोत्तरोत्तरतन्मात्रेषु पूर्वपूर्वतन्मात्राणां हेतुत्वाच्छब्दतन्मात्रं शब्दमात्रधर्मकं तत्कार्यतया स्पर्शतन्मात्रं शब्दस्पर्शोभयधर्मकं, एवं क्रमेणैकैकलक्षणधर्मवृद्धिरित्यर्थः । एतेषु च मात्रशब्दैः शान्तादिविशेषस्यैव व्यावृत्तिर्न तु गुणान्तरसम्पर्कस्य, एकद्वित्र्यादिलक्षणत्ववचनात् ।

तन्मात्राण्यविशेषाणि अविशेषास्ततो हि ते । न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः ॥ इति विष्णुपुराणाच्चेति ।

ननु तन्मात्रेषु परस्परं कार्यकारणभावे सिद्ध एव कारणगुणकर्मेणोत्तरोत्तरं गुणवृद्धिः सेत्स्यति , तत्रैव तु किं प्रमाणं श्रुतिस्मृत्योः स्थूलभूतेष्वेवाकाशादिक्रमेण कारणतासिद्धेरिति चेत् ? आकाशादिस्थूलभूतेभ्यो वाय्वाद्युत्पत्तिदर्शनेन सूक्ष्मेऽपि भूते तथा कार्यकारणभावकल्पनस्यौचित्यमिति । एतानि च तन्मात्राणि तामसाहङ्काराच्छब्दादिक्रमेणोत्पद्यन्त इति बोध्यम् । अस्मितामात्रोऽभिमानवृत्तिकः, तेनेन्द्रियभावापन्नाहङ्कारव्यावृत्तिः ।

एते सत्तामात्रस्येति । सत्ता विद्यमानता व्यक्ततेति यावत् । व्यक्ततामात्रं महत्तत्त्वम् आद्यकार्यत्वात्, प्रलये हि सर्वं विकारद्रव्यम् अतीतानागतरूपाभ्यामेव तिष्ठति, न तु विद्यमानतया, अत आद्यविकारोऽङ्कुरवद् यो महासर्गादौ सत्तां लभते, स सत्तामात्रमुच्यते । स च सत्सामान्यतया सत्तामात्रमुच्यते, सद्विशेषाणामहङ्कारादीनां तदानीमभावात् । अत एव यास्कमुनिना जन्मादिषड्भावविकारमध्ये जन्मोत्तरमस्तितैव विकार उक्तः । तथा च संसारवृक्षस्यास्तितामात्रपरिणामो महत्तत्त्वं वृद्धिपरिणामस्त्वत्वहङ्कारादिरिति । एवम्भूतस्य सर्वविकाराणाम् आत्मनः स्वरूपस्य महतो महत्तत्त्वस्य बुद्ध्याख्यस्य परिणामः षड् अविशेषसञ्ज्ञका इत्यर्थः । अविशेषत्वं च सामान्यत्वम् । यद्यपि षोडशविशेषाणां सामान्यत्वं महत्तत्त्वप्रकृत्योरप्यस्ति तथाप्यविशेषशब्दः पङ्कजादिशब्दवद्योगरूढः षट्स्वेवेति । अत्र षण्मध्ये तन्मात्राणां बुद्धिपरिणामित्वमहङ्कारद्वारैव मन्तव्यं सूक्ष्मविषयत्वं चालिङ्गपर्यवसानमति सूत्रे भाष्येण तथा व्याख्यातत्वादिति ।

लिङ्गमात्रपर्व व्याचष्टे— यत्तत्परमिति । अविशेषेभ्यो यत्परं पूर्वोत्पन्नं वंशस्योद्भित्पर्ववज्जगदङ्कुरो महत्तत्त्वं, तल्लिङ्गमात्रमित्यर्थः । लिङ्गमिखिलवस्तूनां व्यञ्जकं तन्मात्रं महत्तत्त्वं, महत्तत्त्वं हि स्वयम्भोरादिपुंसः कार्यब्रह्मण उपाधिभूतं सर्गादौ सर्वं जगद्भासयदेवोदेति सुप्तोत्थितचित्तवत्, ज्ञानादिरिक्तस्तु व्यापारः पश्चादेवाहङ्कारादुत्पन्नो भवत्यतो लिङ्गमात्रम् इत्युच्यते । तथा च स्मृतिः—

ततोऽभवन्महत्तत्त्वमव्यक्तात् कालचोदितात् । विज्ञानात्मात्मदेहस्थं विश्वं व्यञ्जंस्तमोनुदः ॥

कश्चित् तु लयं गच्छतीति लिङ्गपदस्यार्थम् आह—तत् तु प्रमाणादर्शनादुपेक्षितं, अहङ्कारादेरपि लयगमनेन महत्तत्त्वमात्रे लिङ्गमात्रप्रयोगानौचित्याच्च, तथा लिङ्गमात्रमिति मात्रशब्दार्थानुपपत्तेश्चेति । तस्मिंस्तत्त्वे महच्छब्दप्रयोगबीजमहङ्काराद्यखिलविकाराधारत्वमाह—तस्मिन्निति । तस्मिन् सूक्ष्मरूपे ते पूर्वोक्ता अविशेषविशेषाः पदार्थाः अवस्थयानागतावस्थया स्थित्वोत्तरोत्तरवंशपर्वाणीव विवृद्धिकाष्ठां स्थावरजङ्गमानां प्राप्नुवन्ति ।

महान् प्रादुरभूद्ब्रह्मा कूटस्थो जगदङ्कुरः ॥ इति स्मृतेः ।

तथा प्रतिसम्मृज्यमानाः प्रलीयमानाश्च ते तस्मिन्नेवावस्थयातीतावस्थयानुगता भूत्वा तेनैव सह यत्तत्प्रसिद्धसाम्यावस्थगुणत्रयरूपमलिङ्गं तत् प्रधानाख्यमूलकारणं प्रतियन्ति प्रकृतौ लीयन्त इत्यन्वयः । एतेन महत्तत्त्वोपाधिकस्य कार्यब्रह्मणोऽपि जगत्सृष्टिस्थितिलयहेतुत्वं प्रसङ्गाद्व्याख्यातम् ।

प्रधानस्यासङ्गत्वोपपादनायाव्यक्तमिति विशेषणम्, स्वयम् अव्यक्ततया न परस्परव्यञ्जकम् इत्यलिङ्गमित्याशयः पुरुषात् पराभिमतशशशृङ्गादिभ्यश्च व्यावर्तनाय निःसत्तासत्तं विशेषणम् । निर्गते पारमार्थिके सत्तासत्ते यस्मादिति विग्रहः कूटस्थनित्यादि पारमार्थिकं सत् ।

सतोऽस्तित्वे च नासत्ता नास्तित्वे सत्यता कुतः ।

तस्मान्न विज्ञानमृतेऽस्ति किञ्चित्

क्वचित् कदाचिद् द्विजवस्तुजातम् ।

यच्चान्यथात्वं द्विज याति भूयो

न तत् तथा तत्र कुतो हि सत्त्वम् ॥

इति गारुडवैष्णवादिवाक्येभ्यः असत्तासामान्याभावस्यैव पारमार्थिकसत्तात्वसिद्धेः । तच्च सत्त्वं प्रधाने नास्ति, महदाद्यखिलविकाररूपैः प्रलयेष्वसत्त्वात्, सूक्ष्मदृष्ट्या तु परिणामितया प्रतिक्षणं तत्तद्धर्मरूपेणापायाच्च । तथा च श्रुतिस्मृतयः

चैतन्यं चिन्मात्रं सत्क्षणं न सन्तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमा नः ॥

इत्याद्या इति । यथा च सत्तया वर्जितमेवमवासत्तयापि पारमार्थिक्या वर्जितसत्तासामान्याभावस्यैव पारमार्थिकासत्त्वात् । तच्च प्रधाने नास्ति, नित्यत्वाद् अर्थक्रिया कारित्वात् श्रु तिस्मृ त्यनुमानाद सिद्धत्वाच्च । इत्थ मे व च सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं मायाख्यं प्रधानमिति वेदान्तसिद्धान्तोऽयवधारणीयः ।

नासद्रूपा न सद्रूपा माया नैवोभयात्मिका । सदसद्भ्यामनिर्वाच्या मिथ्याभूता सनातनी ॥

इत्यादित्यपुराणादिषु मायाख्यप्रकृतेः पारमार्थिकसत्त्वादिरूपेणानिरूप्यत्ववचनाच्च ।

न तु प्रपञ्चस्यात्यन्ततुच्छता, अत्यन्तविनाशिता वा वेदान्तसिद्धान्तः, नाभाव उपलब्धेः, भावे चोपलब्धेः इति वेदान्तसूत्राभ्यामे वात्यन्ततुच्छताया निराकरणात्, सत्त्वाच्चावर स्या सद्व्यपदेशादिति चे न्न धर्मान्तरेण वाक्यशेषात्, वैधर्म्या च्च न स्वप्नादिव दि त्यादि यथाश्रुतवेदान्तसूत्रेभ्यः प्रपञ्चस्य सदसदपेताया एव सिद्धे श्च धर्मान्तरेणातीतागतधर्मेण, शास्त्रेषु स्वप्नादिदृष्टान्ताश्च क्षणभङ्गुरत्वपारमार्थिकासत्त्वांशेनैवेति बोध्यम् ।

न हि स्वप्नन्धर्वनगरादयोऽप्यत्यन्तासन्तः, स्वप्नादावपि साक्षिभास्यमानसपदार्थाभ्युपगमात् । अन्यथा “सन्ध्ये सृष्टिराह हि” इति वेदान्तसूत्रेणैव स्वप्ने सृष्ट्यवधारणं विरुध्येत । वैधर्म्याच्च न स्वप्नादिवदिति वेदान्तसूत्रे च जाग्रत्प्रपञ्चस्य केवलमानसत्व मेव निराकरोति । एतेन स्वप्नादिदृष्टान्तैः प्रपञ्चस्य मनोमात्रत्वाभ्युपगमः नवीनवेदान्तिनाम् अपसिद्धान्त एव, वेदान्तसूत्रेणापि स्वप्नतुल्यत्वाभावनिर्णयात् । तस्माद्यथोक्तम् एव प्रपञ्चस्यासत्त्वं ब्रह्ममीमांसाया अपि सिद्धान्तः । समानतन्त्रसिद्धत्वाच्चेति दिक् । प्रतिसंसृज्यमानाश्च तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय यत्तन्निःसत्तासत्तं निःसदसन्निरसदव्यक्तमलिङ्गं प्रधानं तत्प्रतियन्ति। एष तेषां लिङ्गमात्रः परिणामो निःसत्तासत्तं चालिङ्गपरिणाम इति। वार्तिकम् योग-वार्त्तिकम्

कश्चित् त्वत्रोत्तरविशेषणे चार्थक्रियाकारित्वम् एव सत्त्वं विवक्षितं तच्च प्रलये प्रकृतितद्विकारयोर्नास्तीत्याह, तन्न, ईश्वरान्यपुरुषस्याप्येवमसत्तया तद्व्यावृत्त्यसम्भवात्, जीवेष्वपि हि विषयप्रकाशनव्यापारोपरम एवासत्ता लयः स्वापः प्रलयेऽस्तीश्वप्रकरणे श्रुतिस्मृतिषु प्रसि द्ध इति प्रधानस्य पारमार्थिकसदसत्त्वाभावोपपत्तये तद्विकाराणामपि पारमार्थिक्यौ सदसत्ते न स्त इति प्रतिपादयितुं प्रधा नस्य विशेषणान्तरं निःसदसदिति । निर्गते सदसती यस्मादिति विग्रहः । निःसन्निरसदिति पाठेऽप्ययमेवार्थः । प्रधानवृत्ति हि यद् विकारजातं तत्पारमार्थिकसन्न भवति, परिणामित्वेन स्वधर्मैः प्रतिक्षणविनाशाद्, आद्यन्तयोर्व्य क्त्यवस्थयाप्यसत्त्वाच्च । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥

इत्यादिश्रुतिस्मृतयश्च विकाराणां नित्यतारूपं सत्त्वं निराकुर्वन्ति । अत्र च श्रुतौ विकाराणाम् आद्यन्तयोर्नाममात्रावशेषत्वास्थिरतयैव तदपेक्षया स्थिरत्वरूपं सत्यत्वं कारणस्य विवक्षितं, “नित्यो नित्यानां” “सत्यस्य सत्यमिति” श्रुत्यन्तरे तादृशार्थसिद्धेः, न पुनर्विकाराणाम् अत्यन्ततुच्छतया, मृद्विकारस्य ब्रह्मविकारदृष्टान्तत्त्वानुपपत्तेः दर्शत्वा । न हि लोके मृद्विकारस्यात्यन्ततुच्छत्वं सिद्धमस्ति येन ब्रह्मकार्यप्रपञ्चतुच्छत्वे दृष्टान्तदर्शता तस्य स्यादिति । यथा प्रधानवृत्तिकार्यजातमत्यन्तसन्न भवति, एवमत्यन्तासदपि न भवति, अतीतानागतादिरूपैः सदा सत्त्वात्, तद्धेदं तर्ह्यव्याकृतमासीत्,

आसीद् इदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमव सर्वतः ॥ इत्यादिश्रुतिस्मृतिभ्य इति ।

नन्वेवं सविकारस्य प्रधानस्य सदसत्त्वप्रतिषेधे सति प्रकृतेः सदसदात्मकताप्रतिपादकश्रुतिस्मृतिशतव्याकोपः, सदसत्ख्यातिबाधाबाधाभ्यामिति साङ्ख्यसूत्रविरोधश्चेति ? मैवम् । तथाविधवाक्यानां व्यक्ताव्यक्तरूपव्यावहारिकसदसत्तापरत्वात् । साङ्ख्यसूत्रे च बाधाबाधौ रूपभेदेन सार्वकालिकाविति । तदुक्तम्—

जगन्मयी भ्रान्तिरियं न कदापि न विद्यते । विद्यते न कदाचिच्च जलबुद्बुदवत् स्थितम् ॥ इति ।

भ्रान्तिरिति पारमार्थिकभ्रममाश्रित्य ज्ञानज्ञेययोर्भेदविवक्षयोक्तम् । अत एव गौतमसूत्रम्—तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिरिति । तात्त्विकमिथ्याबुद्धिरनित्यपदार्थज्ञानं च प्रधानं मिथ्याज्ञानं प्रसिद्धमिथ्याज्ञानं शुक्तिरजतादिज्ञानमिति । पारमार्थिकभ्रमलक्षणं च तदभाववति तत्प्रकारत्वमसद्विषयकता वा, तदुभयमपि परिणामिनित्यपदार्थबुद्धिष्वप्यस्तीति । व्यावहारिकपारमार्थिकभेदेन सत्तादिद्वैविध्यं च विष्णुपुराणादिषु प्रसिद्धम् । यथा—

सद्भाव एषो भवते मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् । एतच्च यत् संव्यवहाभूतं तथापि चोक्तं भुवनाश्रितं तत् ॥ इति ।

तृतीया च लोकसिद्धा प्रातिभासिक्यपि सत्ता शुक्तिरजतस्वाप्नपदार्थानां मनोमात्रपरिणामानामिति । यत् तु परमात्माचैतन्यस्यैव सत्त्वं न तु जीवचैत्नयाना मपीति वेदान्तरहस्यं “नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता बोद्धा” इत्यादिश्रतिसिद्धं, तत्तु लयशून्यत्वरूपामतिपारमार्थिकसत्ताम् अभिप्रेत्यैव बोध्यम् । प्रलये हि परमात्मनि प्रकृतिपुरुषयोर्व्यापारोपरमरूपो लयो भवति—

प्रकृतिः पुरुषश्चोभौ लीयेते परमात्मनि ॥ इत्यादिवाक्येभ्यः ।

परमात्मा च सदा जाग्रत्स्वरूपतया लयशून्य इति । स एव परमात्मसन् न प्रकृतिपुरुषाविति वेदान्तमहावाक्यमर्यादा । एतेन सदसत्त्वयोर्विरोधादेकत्रासम्भव इत्य प्यपास्तम् । व्यवहारपरमार्थभेदेन कालभेदेनावच्छेदभेदेन स्वरूपभेदेन प्रकारभेदेन च तयोर्विरोधादिति । तदेवं श्रुतिन्यायसिद्धं सत्यत्वमिथ्यात्वविभागमविदुषामाधुनिकवेदान्तिब्रुवाणां प्रपञ्चात्यन्तासत्यत्वादिरूपा अपसिद्धान्ता नास्तिकमतानुसारिणो मुमुक्षुभिर्दूरतः परिहरणीयाः, समानन्यायेनान्यत्र सिद्धान्तानामेव ब्रह्ममीमांसासिद्धान्तत्वादिति सर्वं समञ्जसम् । लिङ्गमात्रपरिणामम् उपसंहरति— एष तेषामिति । । तेषां गुणानामित्यर्थः ।

अलिङ्गं पर्व व्याचष्टे—निःसत्तासत्तं चेति । निःसत्ताऽसत्तमित्युक्ते यः पदार्थः सोऽलिङ्गनामा गुणानां परिणामः, स च साम्यावस्थानात्मको गुणेभ्योऽतिरिक्त इति तस्य गुणपरिमत्वमुपपद्यते, तस्यां च साम्यावस्थायां प्रधानवाचिशब्दो धर्मधर्म्यभेदेन महदादिव्यावृत्यर्थमेवात्र श्रुतिस्मृत्योश्च प्रयुज्यते, परमार्थतस्तु गुणा एव तदुपलक्षिताः प्रधानम्, भाष्ये गुणानाम् एव प्रधानत्वस्योक्तत्वादिति । अलिङ्गावस्थायां न पुरुषार्थो हेतुर्नालिङ्गावस्थायामादौ पुरुषार्थता कारणं भवतीति। न तस्याः पुरुषार्थता कारणं भवतीति। नासौ पुरुषार्थकृतेति नित्याऽऽख्यायते। त्रयाणां त्ववस्थाविशेषाणामादौ पुरुषार्थता कारणं भवति। स चार्थो हेतुर्निमित्तं कारणं भवतीत्यनित्याऽऽख्यायते। गुणास्तु सर्वधर्मानुपातिनो न प्रत्यस्तमयन्ते नोपजायन्ते। व्यक्तिभिरेवातीतानागतव्ययागमवतीभिर्गुणान्वयिनीभिरुपजननापायधर्मका इव प्रत्यवभासन्ते। यथा देवदत्तो दरिद्राति। कस्मात्। यतोऽस्य म्रियन्ते गाव इति, गवामेव मरणात्तस्य दरिद्राणं न स्वरूपहानादिति समः समाधिः। वार्तिकम् योग-वार्त्तिकम्

इदानीं पर्वणां गुणानां च परस्परवैधर्म्यैर्भेदो व्युत्पादनीयः, तत्रादावलिङ्गावस्थारूपस्य पर्वणः पर्वत्रयाद् गुणेभ्यश्च वैधर्म्यं प्रतिपादयति— अलिङ्गावस्थायामिति । पुरुषार्थो विषयभोगविवेकख्याती तत्कार्यौ सुखदुःखाभावौ च स पुरुषार्थो नालिङ्गावस्थां प्रति हेतुः यतोऽलिङ्गावस्थाया मा दौ सृष्टेः प्राक् पुरुषार्थता पुरुषार्थसमूहः कारणं कारणत्वाभिमतो नोत्पद्यत इत्यर्थः । दुःखनिवृत्तिव्यावर्तनाय कारण मि त्युक्तम् । प्रलयकाले दुःखनिवृत्तेः कर्मक्षया दे वोपपत्तेः प्रलयाप्रयोजनतया दुःखनिवृत्तिः प्रलयकारणं न भवतीत्याशयः ।

उपसंहरति— न तस्या इति । । एतदुक्तं भवति—व्यक्तावस्थायां गुणेभ्यः शब्दाद्युपभोगादिरूपः पुरुषार्थो जायतेऽतः स तस्यामनागतावस्थः कारणं भवतु साम्यावस्थायां तु न तज्जन्यः कश्चन पुरुषार्थोऽस्तीत्यतो नास्याः पुरुषार्थः कारणमिति । एतावता किमित्यत आह— नासौ पुरुषार्थकृतेति । नित्याख्याय त इ ति । शास्त्रेष्विति शेषः । नित्या स्वाभाविकी, अनैमित्तिकत्वेन पर्वत्रयापेक्षया स्थिरा, स्वाभाविकत्वेऽपि धर्मादिभिः प्रतिबन्धोऽत्र गुणानां साम्यरूपः परिणा म इ ति भावः । अव्यक्तावस्थायाश्च स्वाभाविकत्वं न व्यक्तावस्थापेक्षया । बहुकालावस्थायित्वम्मे व नित्यत्वं सत्यत्वापरनामकं व्यवहारे सिद्धम् । धर्मो नित्यः सुखदुःखे त्वनित्ये इत्यादिभारतादिव्यवहारात् । ईदृशनित्यत्वं च गीतादिषूक्तम्—

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ इत्यादिभिरिति ।

अथ वा सर्वदा सत्त्वरूपं नित्यत्वम् एवात्राप्यर्थोऽस्तु, सर्गेऽपि गुणसाम्यस्यात्यन्ततोऽनुच्छेदात्, अंशत एव वैषम्येणावरणरूपस्य गुणसाम्यस्य सर्वदा सत्त्वात्, अन्यथा साम्यावस्थाया अत्यन्तोच्छेदे पर्वत्वानुपपत्ते श्च । अनेन हि सूत्रेण ऊर्ध्वमूल म धःशा खमित्यादिगीता म व्यक्तमूलप्रभव इत्यादिमोक्षधर्मादिकं चानुसृत्य संसाररूपो गुणवृक्ष एव चतुष्पर्वतया निरूपितः । तस्य च वंशतुल्यस्य गुणवृक्षस्यावरणानां पूर्वपूर्वतत्त्वाना मं शत एवोत्तरतत्त्वरूपेण परिणामो भवति, समुद्रस्यांशतः फेनादिरूपतावत् न तु दध्ना दुग्धस्येव पूर्वपूर्वतत्त्वस्य सर्वांशेन परिणामः । उत्पन्नकार्यस्य कारणेन पुनरापूरा णा र्थं तु कारणानां स्वकार्यावरकतयावस्थानं सिध्यति । तस्मात् सर्गकालेऽपि बहिरलिङ्गावस्थावस्थानात् तस्या नित्यत्वमिति । ननु प्रकृतिम् आदायाष्टा वे वावरणानि ब्रह्माण्डस्य श्रूयन्ते न तु तन्मात्रा ण्य पीति चेत् ? न, सूक्ष्मस्थूलयोरेकत्वविवक्षयाष्टधावरणवचनात् । अत एव भागवतद्वितीयस्कन्धे परब्रह्मगतौ पञ्चभूतानां बहिस्त न्मात्रावरणे गतिरुक्ता । इन्द्रियाणि चाकारणत्वा न्ना वरणानि, तेषामुत्पत्तिस्तु तन्मात्रसमानदेशा यथा तिलसमानदेशा सूक्ष्मतैलोत्पत्तिरिति दिक् ।

इतरस्मिन्नवस्थात्रये त्वनित्यत्वरूपं वैधर्म्य मा ह— त्रयाणामिति । आदौ उत्प त्तावु पादानकारणत्वव्यवच्छेदार्थमाह— चार्थेति । अनित्या त्रिधा अवस्थेति शेषः । शेषं सुगमम् ।

पर्वसु नित्यानित्यत्वरूपं वैधर्म्यमुक्त्वा पर्विणां गुणानां पर्वभ्यो वैधर्म्य मा ह—गुणा स्त्विति । गुणा स्तु सत्त्वादयः सर्वविकारेष्वनुगता अत उत्पत्तिविनाशशून्या अनुपचरितनित्या इत्यर्थः । अलिङ्गावस्थापि हि नैवं नित्येति ।

ननु त्रिगुणात्मकप्रकृतेर्नित्यत्वे—

प्रकृतिं पुरुषं चैव प्रविश्यात्मेच्छया हरिः ।

क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ ।

तस्मादव्यक्त मु त्पन्नं त्रिगुणं द्विजसत्तम ॥ इत्यादि स्मृतिषु प्रकृतेर्व्ययोत्पत्तिवचनं कथम् उपपद्येत ? तत्राह— व्यक्तिभिरेवेति । गुणान्वयिनीभिर्गुणधर्मैः कार्यव्यक्तिभिरेवातीताद्युपचयान्तपरिणामवतीभिर्हेतुभिर्जन्मविनाशवन्त इव ते गुणाः प्रतीयन्ते, कार्यकारणविभागात्, न तु तेषां स्वतो जन्मविनाशौ स्त इत्यर्थः । तथा च स्वानुगतानां व्ययादिनैव गुणात्मकप्रकृतेर्व्ययादिव्यवहार इत्याशयः । परिणामस्तु प्रकृतेः ।

पारमार्थिकत्वे सति व्याप्यानामुत्पत्तिविनाशयोः व्यापकेषु व्यवहारे .दर्शनमाह— यथेति ।

दरिद्राति क्षीणो भवति इति । समः समाधिः इति । इदं समाधानं दार्ष्टान्तिकेऽपि समान मि त्यर्थः ।

ननु तथापि प्रकृतेर्नित्यत्वं नोपपद्यते, भूयश्चान्ते विश्वमायानिवृत्तिः, प्रकृतिः पुरुषश्चोभौ लीयेते परमात्मनीत्यादिवाक्येभ्यः इति चेत् ? दत्तोत्तरत्वात्, कार्यविनाशेन तत्रापि तन्निवृत्तिवचनात्, व्यापारोपरमाख्यलयस्यैव पुरुषसाहचर्येण तत्रावधारणाच्च—

वियोजयत्यथान्योन्यं प्रधानपुरुषावुभौ । प्रधानपुंसो र नयो रे ष संहार ईरितः ॥ इति कौर्मवाक्याच्च ।

अन्यथा न्यायानुग्रहणे बलवतीभिः प्रकृतिनित्यताश्रुतिभिर्विरोधाच्च । एवमेव प्रकृतिपुरुषयोः पुराणेषु श्रूयमाणोत्पत्तिरन्योन्यसंयोगेनाभिव्यक्तिरेव बोध्या—संयोगलक्षणोत्पत्तिः कथ्यते कर्मजा तयोःइति स्मृतेः ।

तथा चोक्तम्—

न घटत उद्भवः प्रकृतिपुरुषयोरजयोः उभययुजा भवन्त्यसुभृतो जलबुद्बुदवत् । त्वयि त इमे ततो विविधनामगुणैः परमे सरित इवार्णवे मधुनि लिल्युरशेषरसाः ॥ इति । लिङ्गमात्रमलिङ्गस्य प्रत्यासन्नं, तत्र तत्संसृष्टं विविच्यते क्रमानतिवृत्तेः। तथा षडविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते परिणामक्रमनियमात्। तथा तेष्वविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते। तथा चोक्तं पुरस्तात्। न विशेषेभ्यः परं तत्त्वान्तरमस्तीति विशेषाणां नास्ति तत्त्वान्तरपरिणामः। तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते ॥ १९ ॥ वार्तिकम् योग-वार्त्तिकम्

त्व इदानीं प्रकृत्यादीन् स्वस्वकार्यैरनुमापयितुं पर्वशब्दसूचितमलिङ्गादीना म विरलक्रमं दर्शयति— लिङ्गमात्रमिति । प्रत्यासन्नमव्यवहितकार्यम् । तत्रेति । तद्धि लिङ्गमात्रं तत्रालिङ्गेऽलिङ्गावस्थप्रधानेऽव्यक्तरूपेणाविभक्तमित्यतस्ततो विविच्यते विभक्तं भवति । तत्र हेतुः— क्रमेति । क्रमस्य पौर्वापरस्य कदाप्य नतिक्रमादित्यर्थः । यदि हि कारणे ह्यनागतावस्थाभिरसतामप्युत्पत्तिः स्यात्, तर्हि अविशेषात् सर्वं सर्वत्रोत्पद्येत, तथातीतमप्युत्पद्येतत्पद्ये, न च प्रागभावः कारणम्, अभावस्यासिद्धेः । किञ्चाभावस्य निमित्तकारणत्वाभ्युपगमे तस्यैवोपादानकारणत्व म पि स्यात्, तथा च जितं शून्यवादिभिः । अथाभावस्योपादानत्वं न दृष्टमिति चेत् ? तुल्यं निमित्तत्वेऽपि । अत उपादानतावन्निमित्तत्वमपि नाभावस्य । तस्मात् कार्यजननशक्तिरेवानागतावस्थारूपिणी कार्यरूपेण परिणमत इति । तदनेन भाष्येण सत्कार्यवादः प्रसाधितः । तथेत्याद्यप्येवं व्याख्येयम् । महदादिभिः प्रकृत्याद्यनुमानप्रकारश्च साङ्ख्यसूत्रैरुक्तोऽस्माभिरपि तद्भाष्ये प्रपञ्चितो विस्तरभयात् तु नेह प्रस्तूयतैति । तथा चोक्तं पुरस्तादिति । यथाविशेषेभ्योऽवान्तरभेदभिन्ना विशेषा जायन्ते, तथा पुरस्ता द स्यैव सूत्रस्यादावु क्तमि त्यर्थः ।

ननु कथं गुणपर्वणां चतुर्धा विभागः सूत्रकारेण कृतः ? ब्रह्माण्डस्थावरजङ्गमरूपैः पर्वणामानन्त्यमाशङ्क्य ब्रह्माण्डादीनां सर्वेषां विशेषकार्याणां विशेषेष्ववान्तर्भावमाह—न विशेषेभ्य इति । परमुत्तरभावि तत्त्वान्तरं तत्त्वभेदो नास्ति, अतो विशेषाणां तत्त्वान्तरपरिणामो नास्तीत्यर्थः । अतो ब्रह्माण्डादिकं सर्वं गृहीतमिति भावः । तत्तत्त्वं च द्रव्यत्वं तत्त्वान्तरत्वं च स्वावृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् । पञ्चविंशतितत्त्वेषु पञ्चविंशतिजात्यनङ्गीकारे च तत्त्वान्तरत्वं स्वावृत्तिद्रव्यविभाजकोपाधिमत्त्वमिति ।

नन्वेवं तत्त्वभेदात् कथमन्तःकरणस्यैकत्वं तत्र तत्रोक्तं घटेतेति । उच्यते—यथा विशेषाख्यपञ्चतत्त्वात्मिकैकेव पृथिवी प्रागुत्पद्यते, ततः तस्याः खननमन्थनादिना पार्थिवे जलतेजसी अभिव्यक्तमात्रे भवतः, एवं तत्त्वत्रयात्मक एवादौ महान् जायते, पश्चाच्च तस्याहङ्कारादिर्वृत्तिभेद इति । तर्हि किं विशेषाणां परिणामा एव न सन्ति । नेत्याह—तेषां त्विति । व्याख्यास्यन्त इति । सूत्रकारेणोत्तरपाद इति शेषः ।

स्यादेतत्—महदादिक्रमेणोक्तः सृष्टिप्रकार आकाशादिक्रमबोधकश्रुतिविरोधाद्धेयः, श्रुतौ तन्मात्राद्यश्रवणेन ते पदार्थाश्च कल्पिताः, मन्वादिस्मृतयश्च साङ्ख्यकल्पनानुवादेन धर्मादिपरा एव न प्रकृत्यादिपरा इति न स्मृतिभिरपि प्रकृत्यादिसिद्धिरिति ? अत्रोच्यते—गुणत्रयात्मिका प्रकृतिस्तावत् मूलकारणतया मैत्रेयोपनिषदि श्रूयते, यथा—

“तमो वा इदमेकमास तत्परं स्यात् तत्परेणेरितं विषमत्वं प्रयाति एतद् वै रजसो रूपं तद्रजः खल्वीरितं विषमत्वं प्रयाति एतद् वै सत्त्वस्य रूपं तत् सत्त्वमेवेरितं तमसः सम्प्रासवत् तत् सांशोऽयंयश्चेतितामात्रः प्रतिपुरुषं क्षेत्रज्ञः सङ्कल्पाध्यवसायलिङ्गः प्रजापतिस्तस्य प्रोक्ता अस्यास्तनवो ब्रह्मा रुद्रो विष्णुरित्यादि”,

यथा गर्भोपनिषदि चतुर्विंशतितत्त्वान्यनेन क्रमेणोक्तानि, यथा—

अष्टौ प्रकृतयः, षोडश विकाराः, शरीरं तस्यैवैति ।

तथा प्रश्नोपनिषदि च—

“एवं ह वैतत् सर्वं परे आत्मनि सम्प्रतिष्ठते देहिनाम् पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा चेत्यादिना परमात्मनि सर्वं त्रयोविंशतितत्त्वं तिष्ठति समुद्रे नदनदीवदित्युक्तम् । “

अतश्चतुर्विंशतितत्त्वानि प्रत्यक्षश्रुत्या स्मृत्यनुमेयश्रुत्या च सिद्धानि । अद्वैतश्रुतिस्तु न तासां बाधिका, व्यवहारपरमार्थभेदेन विषयभेदात्, व्यावहारिकाद्वैतश्रुतीनां चाविभागलक्षणाभेदपरताया एव नदीसमुद्रादिदृष्टान्तैरवगमादर्शदिति । तेषां च महदादीनां सृष्टिक्रमोऽपि श्रुतौ पाठक्रमाद् अवधार्यते ।

एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ इत्यादिषु ।

यच्च तैत्तिरीयके वियदादिसृष्टिः श्रूयते, तत्र वियतःप्राग्बुद्ध्यादिदिसृष्टिः । पूरणीया स्मृत्युन्नेयश्रुत्येकवाक्यतया छान्दोग्ये वियद्वायुपुराणवदिति ।

किञ्च, साङ्ख्योक्तसृष्टिक्रमे स्पष्टैव श्रुतिरस्ति, यथा गोपालतपनीये—“एकम् एवाद्वितीयं ब्रह्मासीत् तस्मादव्यक्तमेवाक्षरं तस्मादक्षरान्महत्, महतो वै अहङ्कारस्तस्मादेवाहङ्कारात् पञ्च तन्मात्राणि तेभ्यो भूतादीनीति । वेदान्तसूत्रैरपि बुद्ध्यादिक्रमेणैव सृष्टिरुक्ता तत्र नवीनानां कुव्याख्या चास्माभिस्तद्भाष्य एवापास्तेति । तदेवं साङ्ख्यशास्त्रे प्रपञ्चितानि चतुर्विंशतितत्त्वान्यत्र सङ्क्षेपतः सूत्रद्व येनोक्तानि । एतेषां च स्वरूपादिकं तत्रैव प्रदर्शितं सङ्क्षेपतस्त्वत्राप्युच्यते—पञ्च भूतान्येकादशेन्द्रियाणि च प्रसिद्धान्येव, तन्मात्राणि भूतानां साक्षात् कारणानि, शब्दादिमत् सूक्ष्मद्रव्याणि अतस्तानि सूक्ष्मभूतान्यपि क्वचिदुच्यन्ते, महदहङ्कारौ च मोक्षधर्मे लक्षितौ, यथा—

हिरण्यगर्भो भगवान् एष बुद्धिरिति स्मृतः । महानिति च योगेषु विरिञ्चिरिति चाप्युत ॥

धृतं चैकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना ।

तथैव बिम्बरूपत्वाद्विश्वरूप इति श्रुतः ।

एष वै विक्रियापन्नः सृजत्यात्मानमात्मना । अहङ्कारं महातेजाः प्रजापतिमहङ्कृतम् ॥ इत्यादि ।

अत्र चोपासनार्थं शक्तिशक्तिमदभेदेनोपाध्योर्नामादिकमुपाधिमत्त्वेन तयोरुक्तेर्मनुष्यपश्वादिनामरूपादिवत् । स्मृत्यन्तरेषु साङ्ख्ययोगयोश्चाविवेकतो जडवस्तुन्येव तद्व्यवहारः, ज्ञानाचार्ययत्यादिरूपमहत्तत्त्वस्याभिमानरूपाहङ्कारस्य चान्तःकरणधर्मादिति । प्रकृतिस्तु त्रयोविंशतितत्त्वकारणानि सत्त्वादनामकसूक्ष्मद्रव्याणि असङ्ख्यातानि । गुणशब्दश्च तेषु पुरुषोपकरणत्वात् । पुरुषबन्धकत्वाच्च प्रयुज्यते । तच्च गुणत्रयं सुखदुःखमोहधर्मकत्वात् सुखदुःखमोहात्मकमुच्यते, पुरुषाणां सर्वार्थसाधकत्वाद्राजामात्यवत् प्रधानमुच्यते, जगदुपादानत्वात् प्रकृतिर्जगन्मोहकत्वाच्च मायेत्युच्यते, वैशेषिकादिभिश्च स्वस्वरिभाषया परमाण्वज्ञानादिशब्दैश्चोच्यत इति ।

तदुक्तं वासिष्ठे—

नामरूपविनिर्मुक्तं यस्मिन् सन्तिष्ठते जगत् । तमाहुः प्रकृतिं केचिन्मायामेके परे त्वणून् ॥ इत्यादिनेति ।

एषु च त्रयोविंशतितत्त्वानि सर्गादौ स्थूलसूक्ष्मशरीरद्व यरूपेण परिणमन्ते । तत्र स्थूलं पञ्चभूतेभ्यः सूक्ष्मं च शेषेभ्यः । तयोश्च सूक्ष्मं काष्ठवच्चैतन्याभिव्यञ्जकत्वात् पुरुषस्य लिङ्गशरीरम् इत्युच्यते, तच्चाहङ्कारस्य बुद्धौ प्रवेशात् सप्तदशावयवकं साङ्ख्यशास्त्रे प्रोक्तं सप्तदशैकं लिङ्गमिति । अत्र एकत्वं समष्ट्यभिप्रायेणोक्तं, व्यक्तिभेदः कर्मविशेषादित्युत्तरसूत्रेण व्यक्तिरूपत एकस्यैव लिङ्गशरीरस्य व्यक्तिभेदवचनात् । अयं च व्यष्टिसप्रष्टिभावो न वनवृक्षवत् किन्तु पितापुत्रवदेव ।

तच्छरीरसमुत्पन्नैः कार्यैस्तैः करणैः सह । क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः ॥

इति मन्वादिवाक्यैर्हिरण्यगर्भस्य शरीरद्वयांशैरेवाखिलपुंसां शरीरद्वयोत्पत्तिरिति सिद्धेः ।

वनवृक्षयोस्तु नैवं कार्यकारणभावोऽस्तीति दिक् ॥ १९ ॥ व्याख्यातं दृश्यमथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते – वार्तिकम् योग-वार्त्तिकम्

सूत्रान्तरमवतारयति- व्याख्यातमिति । द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २० ॥ दृशिमात्र इति दृक्शक्तिरेव विशेषणापरामृष्टेत्यर्थः। स पुरुषो बुद्धेः प्रतिसंवेदी। स बुद्धेर्न सरूपो नात्यन्तं विरूप इति। न तावत्सरूपः। कस्मात्। ज्ञाताज्ञातविषयत्वात्परिणामिनी हि बुद्धिः। तस्याश्च विषयो गवादिर्घटादिर्वा ज्ञातश्चाज्ञातश्चेति परिणामित्वं दर्शयति। सदाज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति। कस्मात्। नहि बुद्धिश्च नाम पुरुषविषयश्च स्यादगृहीता गृहीता चेति सिद्धं पुरुषस्य सदाज्ञातविषयत्वं ततश्चापरिणामित्वमिति। वार्तिकम् योग-वार्त्तिकम्

दृशिरत्र न गुणः किन्तु प्रकाशस्वरूपं द्रव्यं - ज्ञानं नैवात्मनो धर्मो न गुणो वा कथञ्चन । ज्ञानस्वरूप एवात्मा नित्यः सर्वगतः शिवः ॥

इत्यादिस्मृतेः । अग्न्यौष्णायादिषु च भेदाभेदावेव । औष्ण्याग्रहणेऽपि चक्षुषाग्निग्रहणात् पुरुषस्तु ज्ञानग्रहणं विना न गृह्यते इति । मात्रशब्देन पूर्वसूत्रोक्तप्रकाशक्रियादिगुणव्यावृत्तिः तेष्वेव च सर्वेषां शेषगुणानामन्तर्भावः शुद्धशब्देन च भूतेन्द्रियात्मकत्वव्यावृत्तिः । शुद्धेपि बुद्धभेदभ्रमोपादानाय शेषविशेषणम् । अत्र च परिणामित्वपारार्थ्याचेतनत्वादीनि बुद्धेरशुद्धिः तद्राहित्यं च पुरुषस्य शुद्विरिति भाष्ये व्यक्तीभविष्यति । प्रत्ययानुपश्यः प्रत्ययसमानाकारतापन्न इव सन् बुद्धिवृत्तिसाक्षीत्यर्थः । अनेन विशेषेण द्रष्टरि प्रमाणं चोक्तमिति । शुद्धो`ऽपीत्यादिभागस्य फलान्तरं च भाष्यकारो व्याख्यास्यति । दृशिमात्रशब्दार्थमाह । दृक्शक्तिरेवेति । प्रलयमोक्षादौ जीवानां दर्शनाख्यचैतन्यफलोपधानं नास्तीतिशक्तिपदोपादानम् । एवशब्दार्थमाह । विशेषणापरामृष्टेति । विशिष्यते व्यावर्त्यते द्रव्यान्तरादेभिरिति विशेषणानि विशेषगुणाः वैशेषिकशास्त्रोक्ताः तैःकालत्रयेप्यसम्बद्धाइत्यर्थः । तेन संयोगसङ्ख्यापरिमाणादिसत्त्वेप्यक्षतः । द्रष्टेति लक्ष्यपदं बुद्धिव्यावृत्ततया व्याचष्टे । स पुरुष इति । संवेदिन्या बद्धेःप्रतिसंवेदी पुरुषः संवेदनमर्थाकारवृत्तिः तस्याः प्रतिसंवेदनं प्रतिध्वनिवत्प्रतिबिम्बं यत्र स पुरुष इत्यर्थः । बुद्धेः साक्षीति तु पर्यवसितार्थः । एनेन प्रतिबिम्बरूपयारोपितक्रियया कल्पितं दर्शनकर्त्तृत्वं द्रष्टृत्वमित्यपि सूचितम् । आत्मनो ज्ञानस्वरूपत्वं च

यथा दीपः प्रकाशात्मा स्वल्पो वा यदि वा महान् । ज्ञानात्मानं तथा विद्यादात्मानं सर्वजन्तुषु ॥

इत्यादिवाक्यशतानुग्रहेण लाघवतर्कानुग्रहेण चात्मत्वादिरूपव्यतिरेक्यादिलिङ्गैरनुमेयं ज्ञानाश्रयत्वकल्पने धर्मधर्मिभावापन्नवस्तुद्वयकल्पनागौरवात् । अहं जानामीति प्रत्ययस्तु अहं गौर इति भ्रमशतान्तः पातितयाप्रामाण्यशङ्कास्कन्दितत्वेन यथोक्ता नुमानापेक्षया दुर्बल इति दिक् । बुद्धिपुरुषयोर्बिवेकप्रतिपादनाय तयोरभेदभ्रमोपपादनाय च तयोर्वैरूप्यसारूप्यप्रतिपादकतया क्रमेण शुद्धो ऽपीत्यादिविशेषणद्वयं व्याचष्टे । स न बुद्वेः सरूपो नात्यन्तं विरूप इति । पारमार्थिकसारूपस्याभावः शुद्धो ऽपीत्याद्यदलार्थः । प्रतिबिम्बरूपापारमार्थिकसारूप्यं च शेषदलार्थः । तथा च परिणामित्वादिरूपबुद्विसारूप्यभाव एव शुद्विः बुद्धिवृत्तिसारूप्यमेव च प्रत्ययानुपश्यत्वमित्यायातम् । सारूप्याभावसारूप्ये क्रमेण प्रतिपादयति । न तावदित्यादिना । कस्मादित्यस्योत्तरं परिणामिनी हि बुद्धिरिति । परिणामित्वे हेतुर्ज्ञाताज्ञातविषयत्वादितित्वा । ज्ञातेत्याद्युक्तं विवृणोति । तस्याश्चेति । तस्या बुद्धेश्चो हेतौ । गवादिरिति । गोशब्दः शब्दवाची । अतो गवादिघटादिपदाभ्यां धर्मधर्मिसामान्यपरतया धर्मधर्मिरूपाणामशेषाणां बुद्विविशेषाणां ग्रहणम् । ज्ञातो वृत्तिव्याप्यस्तदन्यश्चाज्ञातः । दर्शयति अनुमापयतीत्यर्थः । अयं भावः । बुद्विः परिणामिनी स्यात् तदैव कदाचित् बुद्धिः शब्दाद्याकारा भवति कदाचिच्च नेत्युपपद्यते । न च पुरुष इव बुद्धावपरिणामित्वेपि विषयस्य प्रतिबिम्बनमेव विषयाकारतास्तु ततश्च प्रतिबिम्बकादाचित्कत्वेन ज्ञाताज्ञातविषयत्वमुपपद्येतेति वाच्यम् । स्वप्नध्यानादौ विषयासान्निध्येन तत्प्रतिबिम्बासम्भवात्, शास्त्रेषु बुद्धै विषयप्रतिबिम्बचनं तु तत्समानाकारपरिणाममात्रेणातोबुद्धेरर्थग्रहणस्यानित्यतयातस्याअर्थाकारपरिणामोनुमीयते इति, । बुद्वेः परिणामित्वं दर्शयित्वा तद्भावं परुषे दर्शयति । सदाज्ञातेति । सदा ज्ञातोविषयो बुद्धिवृत्तिरूपोयेन तस्य भावः सद्वाज्ञातविषयत्वं, परिदीपयति अनुमापयति । यदि हि पुरुषः परिणामी स्यात् तदा जाड्यपरिणामेन कदाचित् पुरुषस्य विषयो बुद्धिवृत्तिरज्ञातापि तिष्ठेत् ततश्च वर्त्तमानाया अपि घटादिवृत्तेरज्ञानसम्भवात् घटादिकं निश्चिनोमि न वेत्यादि संशयः स्यात् । तथा योग्यानुपलब्ध्या घटादिज्ञानाभावनिश्चयश्च न स्यात् । अज्ञातवृत्तिसत्तासम्भवादिति भावः । नन्वेतावता भोक्तु र्ज्ञा नं परिणामो मास्तु सुखादिपरिणामाभावस्तु कथं तेनानुमाप्यत इति चेत् । उच्यते । शब्दादिनिश्चयरूपस्य परिणामस्य बुद्धौ सि द्ध्यै व तत्कार्याणामिच्छाकृतिसुखदुःखादृष्टसंस्कारादीनां बुद्धिधर्मत्वेनैव सिद्धैः । सामानाधिकरणयप्रत्यसत्त्या कार्यकारणभावे लाघवादिति । ननु न पुरुषस्यापिसदाज्ञातविषयत्वं प्रलयादौ स्वविषयस्य बुद्धिवृत्तेरदर्शनादित्याक्षिपति । कस्मादिति । समाधत्ते । नहीति । नहि पुरुषविषयो बुद्धिवृत्तिरपि शब्दादिवत्साच्च तिष्ठेच्च । अथवागृहीता गृहीता च कालभेदेन भवतीत्यर्थः । तथा च स्मर्यते ।

न चिदप्रतिबिम्बास्ति दृश्याभावादृते किल । क्वचिच्चाप्रतिबिम्बेन किलादर्शोऽवतिष्ठते ॥ इति ।

तथा च प्रलयादौ वृत्याख्यविषयाभावादेव तां नपश्यतीति भावः । उपसंहरति । इति सिद्धमिति । परिणामित्ववदेव परार्थत्वापरार्थत्वरूपमपि वैधर्म्यं बुद्धिपुरुषयोर्दर्शयति ।

किञ्चेति । बुद्विः परार्था स्वभिन्नस्यभोगादिसाधनं संहत्यकारित्वात् सहकारिसापेक्षव्यापारकत्वात् । शय्यासनशरीरादिवत्, पुरुषश्च स्वार्थः स्वस्य च भोगादिसाधनम् उक्तहेत्वभावात् यन्नैवं तन्नैवं यथा स एव दृष्टान्त इत्यर्थः । बुद्धेर्हि व्यापारो विषयग्रहणादिरिन्द्रियादिसापेक्षः शय्यादीनामपि शयनादिकार्यं भूम्यादिसापेक्षं,

पुरुषस्य सुखादिप्रकाशनं च व्यापार एव न भवति स्वरूपतो नित्यत्वात् । नापि सुखादिसत्त्वे तत्प्रकाशार्थं पुरुषः सहकारिणमपेक्षत इति भावः । बुद्ध्यादेः परार्थत्वे च श्रुतिः । ‘न वा अरे सर्वस्य कामाय सर्वं प्रियं भव त्यात्मनस्तु कामाय सर्वं प्रियं भवतीत्यादि । अत्र कश्चित् स्वार्थ इति साध्यस्य न परार्थमित्यर्थमाह । तन्न । भृत्यचेतनस्यापि स्वामिचेतनार्थत्वदर्शनात् । परार्थत्वमेव तु परमात्रार्थत्वमिति चेत् नाचेतनत्वरूपं वैधर्म्यान्तरमाह । तथा सर्वार्थेति । सुखदुःखमोहात्मकांस्त्रिगुणान् सर्वार्थान् गृह्णाती बुद्धिरपि तदाकारतया त्रिगुणा सत्त्वादिगुणत्रयमयीत्यनुमीयते । त्रिगुणत्वाच्च पृथिव्यादिवदचेतनेतिसिद्धम् । गुणानां तूपद्रष्टा पुरुषो द्रष्टृबुद्धिसान्निध्येन बुद्धिवृत्तिप्रतिबिम्बमात्रतो गुणद्रष्टा भवति न गुणाकारपरिणामेन बुद्धिवदिति अतो न स त्रिगुणस्ततश्चेतन इति शेषः । उपसंहरति । अत इति । अतो वैधर्म्यत्रयान्न बुद्विसरूपः पुरुष इत्यर्थः । एतावता शुद्ध इति व्याख्यातम् । ननु सर्वाभिमाननिवृत्त्यर्थं सामान्यत एव दृग्दृश्यविवेकः प्रतिपादनीयः तत्किमिति बुद्धिपुरुषयोरेव वैषम्यं प्रतिपाद्यत इति चेन्न । बुद्धिरेव पुरुषस्य साक्षाद्दृश्या बुद्ध्यारूढः तयैवान्येषां दृश्यत्वात् तस्यामेव साक्षादभिमानः तत्सम्बन्धादेवा न्य त्राभिमानात् । मृतदेहे सुषुप्त्यवस्थप्रा णे च चैतनेयाभावस्य स्पष्टत्वात् । एकैकैरिद्रिय यघातेऽपि चैतन्योपलब्धेन्द्रिद्याणामप्यचैतन्यस्य स्पष्टत्वात् । अतो बुद्धिविवेकादेव सर्वाभिमाननिवृत्तिरित्याशयेन बुद्धिवैधर्य्यमेव पुरुषेषु प्रायशः प्रतिप्राद्यते । किञ्च बुद्ध्यतिरिक्तेभ्यस्त्र्यात्मविवेकस्य न्यायवैशेषिकाभ्यामेव सिद्धत्वेन बुद्धितो विवेक एव साङ्ख्ययोगयोरसाधारणं कृत्यमिति । अत्यन्तवैरूप्यं निराकर्त्तुमुत्थापयति । किं च परार्था बुद्धिः संहत्यकारित्वात्, स्वार्थः पुरुष इति। तथा सर्वार्थाध्यवसायकत्वात्त्रिगुणा बुद्धिस्त्रिगुणत्वादचेतनेति। गुणानां तूपद्रष्टा पुरुष इत्यतो न सरूपः। अस्तु तर्हि विरूप इति। नात्यन्तं विरूपः। कस्मात्, शुद्धोऽप्यसौ प्रत्ययानुपश्यो यतः। प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन्नतदात्माऽपि तदात्मक इव प्रत्यवभासते। तथा चोक्तम् - अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङ्क्रमा च परिणामिन्यर्थे प्रतिसङ्क्रान्तेव तद्वृत्तिमनुपतति, तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायते ॥ २० ॥ वार्तिकम् योग-वार्त्तिकम्

अस्तु तर्हीति । यत इत्यस्य पूर्वेणान्वयः । प्रत्ययानुपश्य इत्येतद्वाचष्टे । प्रत्ययं बौद्धमिति । बुद्धिवृत्तिमनुपश्यतीत्यर्थः । ननु बुद्धिद्रष्टृत्वेपि कथं नात्यन्तं बुद्धिवैरूप्यं तत्राह । तमनुपश्यन्नितिश्य । यतस्तमनुपश्यन्नतः पुरुषोऽतदात्मापि परमार्थतो बुद्ध्यसरूपोऽपि तत्सरूप इव प्रकाशते तदनुकारी भवति स्फटिक इव जपासरूप इत्यर्थः । अर्थाकारत्वस्यैवार्थग्रहणरूपतायाः बुद्धिस्थले सिद्धत्वादित्यर्थः । प्रतिबिम्बरूपेण च मिमिथ्यासारूप्येण न पारमार्थिकासारूप्यविरोधः । यथोक्तयोः सारूप्यवैरुप्ययोः पञ्चशिखाचार्यवाक्यं प्रमाणयति । तथा चोक्तमिति । भोक्तृशक्तिर्बुद्धिव त् परिणामिनी न भवति तथा बुद्धिवत्स्वविषये सङ्क्रान्ता उपरक्तापि न भवति विकारहेतुसंयोगस्यैवोपरागत्वात् बुद्धिविकारप्रतिबिम्बेनैवोपपत्तौ पुरुषस्य विकारकल्पनावैयर्थ्यात् । आभ्यां विशेषणाभ्यां वैरूप्यं दर्शितम् । इदानीं सारूप्यं दर्शयितुं त्र्यादौ बुद्धिश्चिद्रूपत्वमुपपादयति । परिणामिन्यर्थ इति । परिणामिनि स्वस्वार्थे विषये बुद्धौ प्रतिबिम्बरूपेण सङ्क्रान्तेवोपरक्तेव सती तद्वृत्तिं विषयाश्चाकारामनुपतति चेतनामिव करोति यथा सूर्यो जलेऽनुपतन् जलं सूर्यमिवकरोति तद्वत् । अनेन बु द्धे रूपं दर्शयित्वा पुरुषस्य बुद्धिसारूप्यं दर्शयति । तस्याश्चेति । हिशब्दोवधारणे । तस्या अपि भोक्तृशक्तिर्ज्ञानवृत्तिर्ज्ञानरूपा वृत्तिर्बुद्धिवृत्यवशिष्टैवैत्याख्यायते इत्यन्वयः । अत्र हेतुः प्राप्तेति । उपग्रह उपरागः, उक्तरीत्या प्राप्तचैतन्योपरागकल्पाया बुद्धिवृत्तेरनुकारिणी प्रतिबिम्बोद्ग्राहिणी तन्मात्रतयेति ज्ञानवृत्तेर्विशेषणम् । तथा च परस्परप्रतिबिम्बात् द्वयोरपि चेतनत्वसुखादिपरिणामकत्वरूपं सारूप्यमित्यर्थः । आख्यायत इत्यनन्तरमितिशब्दः पूरणीयः । तदनेन सूत्रेण जीवेश्वरसाधारण्येनैव चिन्मात्रत्वमुक्तम् । तथा च श्रतिस्मृती । ‘’चेत नामात्रः प्रतिपुरुषं क्षेत्रज्ञः’ ।

ज्ञानमेव परं ब्रह्म ज्ञानं बन्धाय चेष्यते । ज्ञानात्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ॥

इति । ये तु वैशेषिकादयो ज्ञानाश्रयमात्मानं मन्यते ते श्रुतिस्मृतिविरोधेनोपेक्षणीयाः । किञ्च लाघवात् प्रतिपुरुषमेकैकमात्रव्यक्तिनित्यज्ञानसिद्वौ तस्याश्रयो गौरवात् न कल्प्यते जानामीति प्रत्ययस्य संयोगसम्बन्धेनैवोपपत्तेः । यथा हीन्धनं तेजस्वीति प्रत्ययः संयोगसम्बन्धेन प्रमा तथैव बुद्धौ ज्ञानाख्यद्रव्यसंयोगसम्बन्धेन ज्ञानवत्वप्रत्ययः प्रमैव लोकानामहमिति प्रत्यये चावश्यं बुद्धिरपि भासते अनादिमित्याज्ञानवासनाख्यदोषस्य प्रतिबन्धे मानाभावात् । अतोऽहं जानामीत्यविदुषां प्रत्ययोऽहमंशे भ्रमो ज्ञानवत्त्वांशे प्रमेत्यावयोः समानमेव । विदुषां तु जानामीति प्रत्ययोऽसिद्ध एव । परमेश्वरस्य सर्वज्ञत्वादिव्यवहारस्तु लोकव्यवहारादिति । अधिकं तु साङ्ख्यभाष्यादौ प्रोक्तमिति दिक् ॥ २० ॥ तदर्थ एव दृश्यस्याऽऽत्मा ॥ २१ ॥ दृशिरूपस्य पुरुषस्य कर्मरूपतामापन्नं दृश्यमिति तदर्थ एव दृश्यस्याऽऽत्मा भवति। स्वरूपं भवतीत्यर्थः। स्वरूपं तु पररूपेण प्रतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति। स्वरूपहानादस्य नाशः प्राप्तो न तु विनश्यति ॥ २१ ॥ वार्तिकम् योग-वार्त्तिकम्

बुद्ध्यतिरिक्ते द्रष्टरि प्रमाणमाह सूत्रकारः-

श्यतस्य पुरुषस्यार्थः प्रयोजने भोगापवर्गावेवार्थः प्रयोजनं यस्य स तथेति मध्यमपदलोपी समासः । भोगापवर्गप्रयोजनकमेव दृश्यस्य स्वरूपं कार्यकारणात्मकं गुणत्रयं न स्वार्थमित्यर्थः । तथा च गुणाः परार्थाः संहत्यकारि त्वात् शय्यादिवदित्यनुमानेन बुद्ध्यतितिरिक्तस्य पुरुषाख्य स्य परस्य सिद्धिरिति भावः । इदं चानुमानं पूर्वसूत्रे व्याख्यातम् । तदर्थमेव दृश्यमित्येतावन्मात्रेणैव निर्वाहेप्यात्मपदं धात्वर्थे दर्शने तदर्थ त्वान्यत्वाभ्रमनिरासाय प्रयुक्तमिति । तदर्थत्वे युक्तिं वदन् सूत्रं व्याचष्टे । दृशिरूपस्स्येति । यतो दृशिरूपस्य पुरुषस्य यत्कर्मेव कर्म दर्शनं तद्विषयताङ्गतमेव वस्तु दृश्यं भवति दर्शनं च सर्ववस्तूनां प्रयोजनमिति सर्वसम्मतमतस्तद र्थ मेव दृश्यस्य गुणादेः स्वरूपं भवति तिष्ठतीत्यर्थः । नहि परप्रयोजनकं वस्तु परप्रयोजनं विना क्षणमपि स्थातुं क्षमते नित्यमनित्यं वा प्रयोजनं विना कस्यापि परार्थस्यावस्थानादर्शनेन पुरुषार्थस्य तत्स्थितिहेतुत्वसिद्धेरिति भावः । अनेन च सूत्रेण चैतन्याधीना सत्ता दृश्यस्य न स्वत इति सिद्धम् ।

सूत्रान्तरमवतारयितुमुपक्रमते । तत्स्वरूपमिति । । ननु दृश्यस्वरूपं यदि प रस्य पुरुषस्य रूपेण दर्शनेन निमित्तेन तदर्थं प्रतिलब्धात्मकं लब्धसत्ता कं तर्हि भोगापवर्गार्थातायां भोगापवर्गरूपे पुरुषस्यार्थसमूहे कृते सति रूपेण न दृश्यत इति कृ त्वात्वा स्वरूपत्यागान्नाशोऽत्यन्तोच्छेदोऽस्य गुणादेः प्रोक्त इत्यर्थः । प्रयोजनसमापत्त्या हि प्रयोजनकारि नाश्यत इति धर्माधर्मवासनादिस्थले दृष्टं तथा च प्रकृतिनित्यत्वसृष्ट्यादिप्रवाहानुच्छेदनित्यैश्वर्यादिसिद्धान्तहानिरिति पूर्वः पक्षः । अत्र सिद्वान्तमाह । न ते विनश्यतीति । श्य पृच्छति । कस्मादिति । अत्र प्रत्युत्तरं सूत्रं पठति ॥ २१ ॥ कस्मात् – कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २२ ॥ कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि नाशं प्राप्तमप्यनष्टं तदन्यपुरुषसाधारणत्वात्। कुशलं पुरुषं प्रति नाशं प्राप्तमप्यकुशलान्पुरुषान्प्रति न कृतार्थमिति तेषां दृशेः कर्मविषयतामापन्नं लभत एव पररूपेणाऽऽत्मरूपमिति। अतश्च दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यात इति। तथा चोक्तम् –र्धमिणामनादिसंयोगाद्धर्ममात्राणामप्यनादिः संयोग इति ॥ २२ ॥ वार्तिकम् योग-वार्त्तिकम्

व्याचष्टे । कृतार्थमिति । बुद्ध्या कृतः समर्पितोऽर्थो यस्येति कृतार्थमेकं कं चिन्मुक्तपुरुषं प्रति गुणादिकं नष्टं प्रयोजनाकरणात् राज्ञो राज्यवन्नष्टमपि सामान्यतो न नष्टं तस्मिन् कृतार्थे ऽ न्यपुरुषे च तस्य साधारणत्वादित्यर्थः । योजितं सूत्रं तात्पर्यतो व्याचष्टे । कुशलमित्यादिना रूपमितीत्यन्तेन । कुशलं कल्याणमुक्तम् । अकृतोऽर्थो येनेत्यकृता र्थं, शेषं व्याख्यातप्रायम् । सो ऽ यं सूत्रार्थः श्रुत्याप्यनुगृहीतो, यथा

अजामेकां लोहितशुक्लकृ ष्णां ब ह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुपमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ इति ।

तदनेन सूत्रेण प्रकृतिनित्यत्वं पुरुषबहुत्वं च प्रतिपादितम् ।

तथा पुरुषभेदात् प्रकृतेर्बहुत्वं नास्तीत्येवंरूपं प्रकृतेरेक त्वं च प्रतिपादितं विज्ञानवादादिनिरासायेति । नन्वेवं’

यथा घटीकुम्भकमण्डलुस्थमाकाशमेकं बहुधा हि भिन्नम् ।

तथा सुबाहुः स च काशिपोऽहमन्ये च देहेषु शरीरभेदै -रित्येवंविधश्रुतिस्मृतिशतोक्तं सर्वात्मनामैक्यं विरुद्धमिति चेन्न । तादृशवाक्यैः प्रकरणभेदेन क्वचिदवैधर्म्यलक्षणाभेदप्रतिपादनात् । सर्वात्मनामवैधर्म्यज्ञानेनैवापरिणामितया बुद्ध्याद्यभिमाननिवृत्तितो मोक्षसिद्धेः । क्वचिच्चाविभागलक्षणाभेदप्रतिपादनात् । ततश्चैकस्यैव परमात्मनो मुख्यात्मता सिध्यतीति । एतच्च सर्वं ब्रह्ममीमांसाभाष्ये श्रुतिभाष्यदिषु च प्रपञ्चितमस्माभिः । न पुनस्तादृशवाक्यानां जीवात्मपरमात्माखण्डतापरतवं सम्भवति बन्धमोक्षानुपपत्तिरूपसत्तर्कानुग्रहेण बलवद्भिर्भेदग्राहक श्रुतिस्मृतिशतैर्विरोधात् । अधिकं तु भेददर्शनात् ‘अंशोनानाव्यपदेशा’दिति ब्रह्ममीमांसामारभ्यसर्वदर्शनसूत्रैरतिस्फुटमात्मभेदप्रतिमादनेन भेदस्यैव श्रुत्यर्थत्वावधारणाच्च । अपि च सर्वात्मनामैक्यमात्रज्ञानान्न संसाराभिमाननिवृत्तिः सम्भवति । एकस्मिन्नेवाकाशेऽवच्छेदभेदेन शब्दतदभाववत् एकस्मिन्नेवात्मन्यवच्छेदेन संसारासंसारयोः सम्भवात् । विवेकज्ञानापेक्षणे च तत एवाभिमाननिवृत्तेरैक्यज्ञानस्य न दृष्टद्वारा मोक्षहेतुत्वं स्यात् नाप्यात्मैक्यज्ञानात् सर्वात्मब्रहमोपासनं सम्भवति । साक्षात् कुक्कुरत्वादिदृष्ट्यात्र ब्रह्मणो निन्दाया एव प्रसङ्गात् । जडवर्गेष्वविभागलक्षणाभेदेनोपासनाया आवश्यकल्प्यत्वेन चेतनवर्गेष्वपि तथैवौचित्याच्च । तस्मात् प्रयोजनाभावात् नात्माखण्डताप्रतिपादने श्रुतिस्मृत्योस्तात्पर्यम् । अधिकं तु ब्रह्ममीमांसायामस्माभिराधुनिकवेदान्तिब्रुवमतखण्डनावसरे प्रतिपादितमिति दिक् । तदेवं विशेषाविशेषेत्यादिसूत्रगणेन द्रष्टुः पुरुषस्य स्वत एव दर्शनशक्तेश्च बुद्धेः कारणरूपेण नित्यत्वे सिद्धे तयोः संयोगः प्रवाहरूपेणानादिरिति शास्त्रेषु व्याख्यातमुपपन्नमित्याह । अतश्चेति । विनाशित्वेऽपिभावरूपाणां गुणानामनादित्वं न घटेत ततश्च तत्कार्यबुद्वेः ततश्च बुद्धिपुरुषसंयोगस्येति भावः । बुद्विपुरुषसंयोगस्येति प्रवाहरूपेणानादित्वे पञ्चशिखाचार्यसंवादमाह । तथा चोक्तमिति । धर्मिणां गुणानां पुरुषैः सहानादिसंयोगादिति तु गुणनित्यत्वं विना धर्मसामान्यानां बुद्ध्यादीनां संयोगानादित्वं न घटत इति प्रतिपादनाय प्रदर्शितम् । तदेवं प्रकाशप्रवृत्तीत्यादिसूत्रैःपञ्चविंशतितत्त्वान्यत्र सङ्क्षेपतो विवेकेनोक्तानि विस्तरस्तु साङ्ख्यदर्शने द्र ष्टव्यः । प्रकृतिपुरुषविवेकस्यैव मुख्यतस्तत्र प्रतिपादनात् अत्र योग स्येवति । ॥ २२ ॥ संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते- वार्तिकम् योग-वार्त्तिकम्

द्रष्टृदृश्ययोः स्वरूपमुक्तमि दानीं तत्संयोगस्य स्वरूपप्रदर्शकं सूत्रमुत्थापयति । संयोगस्वरूपेति । द्रष्टृट्रुश्ययोः संयोगसामान्यं न हेयहेतुः प्रलयमोक्षादिसाधारण्यात् अतः संयोगगतविशेषावधारणायेदं सूत्रं प्रववृत इत्यर्थः । स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥ पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः। तस्मात्संयोगादृश्यस्योपलब्धिर्या स भोगः। या तु द्रषुः स्वरूपोपलब्धिः सोऽपवर्गः। दर्शनकार्यावसानः संयोग इति दर्शनं वियोगस्य कारणमुक्तम्। दर्शनमदर्शनस्य प्रतिद्वन्द्वीत्यदर्शनं संयोगनिमित्तमुक्तम्। नात्र दर्शनं मोक्षकारणमदर्शनाभावादेव बन्धाभावः स मोक्ष इति। दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्यतो दर्शनं ज्ञानं कैवल्यकारणमुक्तम्। वार्तिकम् योग-वार्त्तिकम्

स्वशक्तिर्दृश्यं भोग्यतायोग्यत्वात् । स्वामिशक्तिर्द्रष्टा भोक्तृयोग्यत्वात् तयोः स्वरूपोपलब्धौ हेतुर्यः संयोगविशेषः स एव द्रष्टृदृश्यसंयोगोऽत्र हेयहेतुरुक्त इत्यर्थः । विभुना द्रष्टृदृश्यसंयोगसामात्यस्य सार्वकालिकत्त्वेन हेयाहेतुत्वादिति भावः । स च संयोगविशेषो बुद्धिद्वारकः दृश्यबुद्धिसत्तप्राधिरूपः सर्वे धर्मा इति पूर्वभाष्यात् । अतो दृश्यवत्या बुद्ध्या संयोग एवात्र संयोगविशेषः ।

“आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः”

इत्येवंविधश्रुत्यादिभ्यो लिङ्गदेहादात्मसंयोगादेवात्मनो विषयदर्शनाव गमादिति । एतेन भोक्तृभोग्ययोग्यतैव द्रष्टृदृश्ययोरनादिः सम्बन्धः संयोगाङ्गीकारे पुरुषस्य परि णामित्वापत्तेरिति कस्यचित् प्रलापः सूत्रस्वरसाद्धेयः । तथा सति स्वस्वाभिभावः संयोग इत्येव सूत्रौचित्यात् संयोगस्यानाद्येकव्यक्तित्वे सत्यागामिसूत्राभ्यामुत्पत्तिविनाशवचनानुपपत्तेश्च चेतनत्वाचेतनत्वातिरिक्तस्य प्रतिनियतस्य योग्यस्य ज्ञानावच्छेदकस्यानिरूपणाच्च । तयोश्च मोक्षकालसाधारण्येन हेयाहेतुत्वात् । यदि च स्वभुक्तवृत्तिवासनावत्वं प्रवाहरूपेण च वासनाया अनादित्वं तदेव च संयोग इत्युच्यते । तथापि तादृशसंयोगस्य भाष्य वक्ष्यमाणमविद्यावासनाजन्यत्वादिकं न घटेतैव यथाश्रुतसंयोगत्यागानौचित्यादिकं चेति । यच्चोक्तं संयोगेन परिणामित्वमिति तत्परिणामलक्षणज्ञानात् संयोगविभागमात्रेणा काशादौ परिणामव्यवहाराभावेन सामान्यगुणातिरिक्तधर्मोतपत्तिरेव परिणाम इत्युक्तत्वात्, अन्यथा च प्रतिसर्गं प्रकृतिपुरुषयोः संयोगविभागौ श्रुतिस्मृत्योः श्रूयमाणौ विरुध्येताम् । नहि प्रतिसर्गं योग्यतोत्पादविना शौ घटेतां पुरषस्य परिणामप्रसङ्गात् । यथाश्रुतसंयोगविभागयोरेवोत्पादादिक्रमौचि त्याच्चेति दिक् । सूत्रा र्थं विवृणोति । पुरुष इत्यादिना सोऽपवर्ग इत्यन्तेन । संयुक्त इति । भवतीति शेषः । सूत्रे स्वरूपपदं न विवेकख्यातिपर्य्यन्तस्य दर्शनसामान्यस्य संयोगजन्यत्वप्रतिपादनायेति । इदानीं विवेकख्यातिरविप्लवा हानोपाय इति तस्य हेतुरविद्येति चागामि सूत्रद्वयार्थोऽनैव सूत्रेणोपपादित इत्येतत्क्रमेण प्रतिपादयति- दर्शनकार्येत्यादीना । कृतकृतस्य प्रयोजनाभावेनावस्थानसम्भवेन दर्शनरूपकार्यावसानः संयोग इत्यतो दर्शनं द्रष्टृस्वरूपोपलब्धिर्वियोगकारणमर्थादनेन सूत्रेणोक्तमुपपादितं तथा दर्शनमदर्शनस्य प्रतिद्वन्द्विः विरोधीत्यतोऽदर्शनं संयोगहेतुरित्यर्थादुक्तमुपपादितम् । दर्शनदर्शनयोर्विरोधेन विरुद्धयोरेव वियोगसंयोगयोस्तदुभयकार्यत्वौचित्यादित्यर्थः । नन्वदर्शनं संयोगकारणं तर्ह्यदर्शनाभावादेव संयोगविनिवृत्यात्मको मोक्षो भविष्यति कथं दर्शनमपि मोक्षहेतुरुच्यते इत्याशङ्कायामाह । नात्र दर्शनमिति । अस्मच्छास्त्रे दर्शनं तत्त्वज्ञानं न मोक्षकारणं, गौरवात् विरोधादिभिर्व्यवधानेन मोक्षाव्यवहिततप्राक्काले ज्ञाने नियमासम्भवात्, किन्त्वदर्शनस्य वक्ष्यमाणरूपस्याभावादेव द्रष्टुर्दृश्यसंयोगाभावः स एवमोक्ष इत्यर्थः । एतेन मोक्षस्यानिमित्तकतया स्वाभाविकत्वरूपं नित्यत्वं लब्धम् । नन्वेवं विवेकख्यातिरविप्लवा हानोपाय इत्यग्रिमसूत्रविरोधो दर्शनं वियोगस्य कारणमिति स्वोक्तिविरोधश्च तत्राह । दर्शनस्य भाव इति । सुगमम् । उक्तं शास्त्रे । तथाच तत्त्वज्ञानं मोक्षे प्रयोजकमात्रमिति । उत्तरसूत्रेणासाधारणं संयोगहेतुमदर्शनमवधारयितुमुक्तादर्शनं विकल्प्य पृच्छति । किं चेदमदर्शनं नाम, किं गुणानामधिकार आहोस्विद्दृशिरूपस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्यानुत्पादः। स्वस्मिन्दृश्ये विद्यमाने यो दर्शनाभावः। वार्तिकम् योग-वार्त्तिकम्

किञ्चेदमिति । किं पुनः संयोगकारणत्वेनोक्तमदर्शनमित्यर्थः । नामेति वाक्यालङ्कारे । यदपि संयोगो दर्शनकारणमिति सूत्रणाद् दर्शनस्यानुत्पाद एव संयोगहेतुतयात्र प्रसक्तो नान्यः । तथापि तत्समनियततया अन्येषामपि संशयकोटित्वं बोध्यम् । तत्र प्रथमो विकल्पः किं गुणानामिति । गुणानां सत्त्वादीनाम् अधिकारः कार्यारम्भसाम र्थ्य म् । ज्ञानान्यदग्धा कार्यविशेषजननशक्तिरित्यर्थः । ततोऽपि हि संसारहेतुसंयोगविशेषो जायत इति द्वितीयं विकल्पं परित्यज्य सर्वविकल्पेषु बन्धकत्वगुणयोगेनादर्शनशब्दो गौणः । द्वितीयं विकल्पमाह । आहोस्विदिति । अदर्शनमित्यत्र दर्शनशब्दस्य कारणसाधनत्वप्रतिपादनाय दृशिरूपस्य स्वामिनो दर्शितविषयस्येति चित्तविशेषणं दृशिस्वरूपायस्वामिनो दर्शितो विषयो येन तस्येत्यर्थः । उक्तमेव विवृणोति । स्वस्मिन्निति । स्वस्मिंश्चित्ते पुरुषार्थरूपेण दृश्ये शब्दादिवृत्तौ सत्त्वपुरुषणान्यतावृत्तौ च सति यो दर्शनाभावश्चित्तवृत्यभाव इत्यर्थः । मोक्षकालीनं दर्शनाभावं व्यावर्तयितुं सत्यन्तम् । संयोगाहेतुतया तु तादृशमदर्शनं नात्र विचारणीयं चित्ते हि पुरुषार्थसत्तायामेवादर्शनं संयोगहेतुर्भवति इति भावः । व्यर्थतया द्वितीयविकल्पस्य विशेष्यभागरित्यागमात्रेण तृतीयं विकल्पमाह । किमर्थवत्ता गुणानाम्। अथाविद्या स्वचित्तेन सह निरुद्धा स्वचित्तस्योत्पत्तिबीजम्। किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः। यत्रेदमुक्तं प्रधानं स्थित्यैव वर्तमानं विकाराकरणादप्रधानं स्यात्। वार्तिकम् योग-वार्त्तिकम्

किममर्थवत्तेति । सत्कार्यसिद्धेर्भाविभागयोरव्यपदेश्ययोः स्वकारणेषु गुणेष्ववस्थानमित्यर्थः । चतुर्थ विकल्पमाह । अथाविद्येति । पञ्चपर्वा अविद्या प्रलयकाले स्वचित्तेन सह गुणेषु लीना वासनारूपेण स्वाश्रयचित्तस्योत्यत्तिबीजमित्यर्थः । तथा चाविद्यावासनैवादर्शनमिति । अयमेव पक्षः सिद्धान्तो भविष्यति । पञ्चमं विकल्पमाह । किं स्थितीति । प्रधाननिष्ठस्य साम्यपरिणामहेतोः स्थितिसंस्कारस्य क्षये सति गतिसंस्कारस्य महदादिरूपविसदृशपरिणामहेतोरभिव्यक्तिरित्यर्थः । तयैव हि प्रकृतिक्षोभद्वारा पुम्प्रकृत्योः संयोगो जन्यते इति । तदुभयसंस्कारसद्भावे मतान्तरं प्रमाणयति । यत्रेदमिति । तथा गत्यैव वर्तमानं विकारनित्यत्वादप्रधानं स्यात्। उभयथा चास्य वृत्तिः प्रधानव्यवहारं लभते नान्यथा। कारणान्तरेष्वपि कल्पितेष्वेव समानश्चर्चः। दर्शनशक्तिरेवादर्शनमित्येके, “प्रधानस्याऽऽत्मख्यापनार्था प्रवृत्तिः” इतिश्रुतेः। सर्वबोध्यबोधसमर्थः प्राक्प्रवृत्तेः पुरुषो न पश्यति सर्वकार्यकरणसमर्थं दृश्यं तदा न दृश्यत इति। उभयस्याप्यदर्शनं धर्म इत्येके। तत्रेदं दृश्यस्य स्वात्मभूतमपि पुरुषप्रत्ययापेक्षं दर्शनं दृश्यधर्मत्वेन भवति। तथा पुरुषस्यानात्मभूतमपि दृश्यप्रत्ययापेक्षं पुरुषधर्मत्वेनेवादर्शनमवभासते। दर्शनं ज्ञानमेवादर्शनमिति केचिदभिदधति। इत्येते शास्त्रगता विकल्पाः। तत्र विकल्पबहुत्वमेतत्सर्वपुरुषाणां गुणानां संयोगे साधारणविषयम् ॥ २३ ॥ वार्तिकम् योग-वार्त्तिकम्

स्थित्यै गत्यै इति तादर्थ्ये चतुर्थ्यौ एवकारौ च तयोः पश्चादध्याहार्यौ स्थित्यैवेतिपाठे तु विशेषणे तृतीया इति । तथा च प्रधानं चेत् स्थितमात्रेण’ वर्त्तेत तदा विकाराजनकत्वान्न प्रधानं स्यात् मूलकारणत्वं हि प्रधानत्वमिति । तथा गतिमात्रेण चेद्वर्त्तेत तदा महदादीनामपि प्रकृतिवदेव नित्यत्वापत्त्या किं कस्य मूलं स्यादिति न व्यवहारः सम्भवत्यत उभयथैव स्थितिगतिभ्यामेव प्रधानस्यावस्थानं प्रधानव्यवहारं लभते कार्यतया न पुनरन्यथेत्यर्थः । न केवलं मूलकारण एवायं स्थितिगत्योः कालभेदेन निर्णायको विचारः किन्तु कल्पितेषु विकाररूपेषु कारणभेदेषु महदादिष्वेव चर्चो विचारः समान इति प्रसङ्गादवधारयति नास्तिकानां कुर्वद्रूपतावादमपाकर्तुं कारणन्तरेष्वपीति । स च चर्चो यथा मृदादिकं यदि स्थित्यैव निवृत्यैव वर्त्तेत तर्हि कदापि घटानुत्पादनेन कारणत्वहानिः । यदि गत्यैव प्रवृत्यैव वर्त्तेत तदा मृद्घटयोर्द्वयोरेव तुल्यकालतया कार्यकारणव्यवस्थानुपपत्तिरतो विकाररूपकारणमपि स्थितिगत्युभयवदेवेति षष्ठविकल्पमाह । दर्शनशक्तिरेवेति । पुरुषायात्मानं दर्शयितुं या क्षमता सा दर्शनशक्तिः सैव चादर्शनमित्यर्थः । इयं च शक्तिर्विवेकख्यात्यनुत्पादरूपा संयोगहेतुस्तथा चोक्तं साङ्ख्याकारिकया ।

‘दृष्टाहमित्युपरमत्यन्येति ।

पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्न्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ ’इति ।

तृतीयविकल्पस्थस्य शब्दादिवृत्त्यनुत्पादस्य त्यागादस्य ततो भेदः । प्रधानस्य दर्शनशक्तौ श्रुतिं प्रमाणयति । प्रधानस्येति । काललुप्तशाशाखास्थेयं श्रुतिः । सप्तमं विकल्पमाह । सर्वबोद्ध्येत्यादिनाऽवभासत इत्यन्तेन । सर्वबोधे समर्थोऽपि पुरुषः प्रधानप्रवृत्तेः प्राक् न पश्यति इत्येकमदर्शनं पुरुषनिष्ठमपरं च सर्वकार्याणां करणोत्पादने समर्थं स्वरूपयोग्यमपि दृश्यं प्रधानं तदा प्राक् प्रधानप्रवृत्तेः पुरुषेण न दृश्यत इति दृश्यनिष्ठमदर्शनमित्येवमुभयस्याप्यदर्शनं धर्म इत्येक आहुरित्यर्थः । एतदेवत्रादर्शनमिति शेषः । ननु जडानामदर्शनात्मकत्वात् कथं तेषामदर्शनं धर्मः स्यात् अभावस्याधिकरणस्वरूपत्वादव्यभिचारेण लाघवादेकतासिद्धेश्च कथं वा दृशिस्वरूपस्य पुरुषस्यादर्शनं घटते प्रकाशरूपस्याप्रकाशरूपत्वासम्भवात् इत्याशङक्य समाधत्ते । तत्रेदमिति । तत्रादर्शनद्वयमध्ये इदमेकमदर्शनं दृश्यस्वरूपभूतमपि दृश्यधर्मत्त्वेन विशिष्टं भवति तत्र हेतुः पुरुषप्रत्ययापेक्षमिति । पुरुषप्रत्ययं बोधमपेक्ष्य तद्विषयतयेति यावत् । तथेति । तथा पुरुषस्य निर्धर्मत्वात् सदा प्रकाशरूपत्वात् चानात्मभूतमप्यदर्शनं पुरुषधर्मत्वेनैव लौकिकबुध्यावभासते, तत्र हेतुः दृश्यप्रत्ययसापेक्षमिति । दृश्यप्रत्ययमपेक्ष्य दृश्यगोचरप्रत्ययाभावेनेति यावत् । अष्टमविकल्पमाह । दर्शनज्ञानमिति । ज्ञानं वासनारूपं तस्यापि दृश्यसंयोगहेतुत्वात् न तु भोगापवर्गरूपमनागतावस्थं दर्शनमत्रोक्तम् अर्थवत्तया पौनरुक्त्यादिति । उपसंहरति । इत्येत इति । शास्त्रेष्वेतेऽज्ञानभेदास्तान्त्रिकैरुच्यन्त इत्यर्थः । संयोगभेदेन सर्वेषामेवादर्शनानां हेतुत्वं सिद्धान्तयन्नेव संयोगविशेषहेत्वदर्शनविशेषपरतयोत्तरसूत्रमवतारयति । तत्र विकल्पेति । तत्रादर्शने विकल्पबहुत्वं भेदबाहुल्यमेतत् पुरुषसामान्यस्य गणुसामान्यस्य च पुरुषार्थहेतुसंयोगसामान्यं प्रति कारणतायां बोध्यम् । यस्तु प्रत्येकचेतनस्य तत्तच्चेतनस्य स्वबुद्धिसंयोगो हेयहेतुः स्वस्वामीत्यादिप्रकृतसूत्रेणोक्तः तस्य हेतुरविद्या चतुर्थविकल्परूपमदर्शनमेवेति सूत्रेण सहान्वयः । प्रत्यक्चेतनयेतिपाठे स्वस्वबुद्ध्यनुगमशीलचेतनस्येत्यर्थः । अयं भावः । अविद्याक्षयोत्तरमपि जीवन्मुक्तस्य भोगार्थं विषयरूपेण परिणतैर्गुणैःसह संयोग उत्पद्यते अतो नाविद्या गुणपुरुषसंयोगसामात्यं हेतुः किन्तु यथोक्तो गुणाधिकारादिरेव स्वबुद्धिसंयोगस्तु जन्मापरनामा अविद्यां विना न भवतीति बुद्धिपुरुषसंयोग एवासाधारण्येनाविद्याहेतुर्भवति सैव च बुद्धिः संयोगद्वारा द्रष्टृदृश्यसंयोगहेतुर्विद्योच्छेद्या च भवतीत्याशयेन सैवोत्तरसूत्रोण सूच्यते, न गणाधिकारादिः तस्य ज्ञानानुच्छेद्यत्वात् एकस्य पुंसो मुक्तावपि पुरुषान्तरार्थं गुणाधिकारादितादवस्थ्यात् यदेव च पुरुषेण छेतुं शक्यते तदेव हेयनिदानमत्र प्रतिपादनीयम्, अन्यथा कालकर्मेश्वरादीनामपि हेयहेतुसंयोगकारणतया तेषामप्यत्र प्रतिपाद्यतापत्तेरिति ॥ २३ ॥ यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः – तस्य हेतुरविद्या ॥ २४ ॥ विपर्ययज्ञानवासनेत्यर्थः। विपर्ययज्ञानवासनावासिता च न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति साधिकारा पुनरावर्तते। सा तु पुरुषख्यातिपर्यवसानां कार्यनिष्ठां प्राप्नोति, चरिताधिकारा निवृत्तादर्शना बन्धकारणाभावान्न पुनरावर्तते। वार्तिकम् योग-वार्त्तिकम्

तस्य द्रष्टृदृश्यसंयोगस्य बुद्धिपुरुषसंयोगद्वारा हेतुरविद्येत्यर्थः । भाष्यकारेण च सूत्रकार तात्पर्याभिप्रायेणैव तस्येत्यस्य बुद्धिसंयोगस्येत्यर्थ उक्तः न तु साक्षादैक्यद्रष्टुर्दृश्यसामान्यसंयोगस्यैव पूर्वसूत्रे प्रकृतत्वात् । बुद्धिसंयोगस्येति । अविद्या चात्रानात्मन्यात्मबुद्धिमात्रं तस्य बुद्विसंयोगहेतुत्वात् अनित्यादौ नित्यादिबुद्धिरूपाणामविद्यानां वक्ष्यमाणविवेकख्यातिनाश्यत्वानुपपत्तेश्च । सा चाविद्या बुद्धिसंयोगजनतया तदव्यवहितप्राक्काले न सम्भवतीत्यत आहभाष्यकारो, विपर्ययेति । सर्गान्तरीयाविद्यायाः स्वचित्तेन सह निरुद्धायाः प्रधाने या वासना स्थिता तया वासितं प्रधानं तत् पुरुषसंयोगिनीं तादृशीमेव बुद्धिं सृजतीत्यनादित्वान्न दोषः । अविद्यावासनायां बुद्धिपुरुषसंयोगहेतुत्वे युक्तिमाह । विपर्ययेति । विपर्ययज्ञानवासनाबलात् पुरुषख्यातिरूपां कार्यनिष्ठां स्वकर्त्तव्यचरमावधिं न प्राप्नोति बुद्धिरतः स्वाधिकारतया पुनरावर्तते पुरुषेण संयुज्यते सा तु बुद्विः पुरुषान्यताख्यातिपर्यन्ता सती कार्यसमाप्तिं प्राप्नोति परवैराग्योत्पादात् । ततश्च चरिताधिकारा निष्पादितकार्या निवृत्ताविद्या सती संयोगाख्यबन्धस्य कारणाभावात् न पुनः पुरुषेण संयुज्यत इत्यर्थः । तथा चान्वयव्यतिरेकाभ्यां विपर्ययवासनाबुद्धिः पुरुषसंयोगहेतुरिति भावः । पुरुषख्यात्या चित्तस्य निवृत्तिरिति यदुक्तं तत्र नास्तिकाक्षेपं निराचिकीर्षंस्तं प्रदर्शयति । अत्र कश्चित्पण्डकोपाख्यानेनोद्धाटयति - मुग्धया भार्ययाऽभिधीयते - पण्डकाऽऽर्यपुत्र, अपत्यवती मे भगिनी किमर्थं नाम नाहमिति, स तामाह - मृतस्तेऽहमपत्यमुत्पादयिष्यामीति। तथेदं विद्यमानं ज्ञानं चित्तनिवृत्तिं न करोति, विनष्टं करिष्यतीति का प्रत्याशा। तत्राऽऽचार्यदेशीयो वक्ति – ननु बुद्धिनिवृत्तिरेव मोक्षोऽदर्शनकारणाभावाद्बुद्धिनिवृत्तिः। वार्तिकम् योग-वार्त्तिकम्

कश्चिदिति । षण्डकोपाख्यानेन दृष्टान्तेनोद्धाटयति आक्षिपतीत्यर्थः । नपुंसकाख्यानमेवाह । मुग्धयेत्यादिना उत्पादयिष्पतीत्यन्तेन । स षण्डकस्तां भार्याम् । विनष्टमिति । विनष्टं परवैराग्येण निरुद्धं ज्ञानं चित्तनिवृत्तिरुपं मोक्षं करिष्यतीति नास्ति प्रत्याशेत्यर्थः । उपेक्षासूचनाय पूर्वाचार्यमुखेनात्र सिद्धान्तमाह । तत्रेति । ईषदसमाप्ताचार्य आचार्यदेशीयः । उपेक्षणीये प्रत्युत्तरदानमात्रेणाचार्यदेशीयत्वम् । आचार्यश्च वायौ प्रोक्तः ।

आचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि । स्वयमारभते यस्मादाचार्यस्तेन चोच्यते ॥ इति । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते। तत्र चित्तनिवृत्तिरेव मोक्षः, किमर्थमस्थान एवास्य मतिविभ्रः ॥ २४ ॥ वार्तिकम् योग-वार्त्तिकम्

नन्विति सम्बोधने । एतदुक्तं भवति । ज्ञानं न साक्षान्मोक्षहेतुरस्माभिरिष्यते किन्तु अविद्याख्यादर्शननिवृत्तितत्कार्यनिरोधयोगद्वारा । तथा च विनष्टमपि ज्ञानं बुद्धिपुरुषवियोगरूपमोक्षव्यापारद्वारा कारणं सम्भवत्येवेति । ननु यद्ययमाचार्यदेशीयः तर्हि किं बुद्धिचित्तादिनामकान्तःकरणनिवृत्तिर्मोक्ष एव न भवतीत्याशङ्कायामाह । तत्र चित्तेति । चित्तनिवृत्तिर्मोक्षो भवत्येव किन्तु तत्रास्थान एवास्य नास्तिकस्य बुद्धिव्यामोहो व्यर्थ इत्यतोऽत्रोपेक्षणीये समाधातृत्वादेवाचार्यदेशीय उक्त इत्यर्थः ॥ २४ ॥ हेयं दुःखं हेयकारणं च संयोगाख्यं सनिमित्तमुक्तमतः परं हानं वक्तव्यम् – वार्तिकम् योग-वार्त्तिकम्

तदेवं हेयहेयहेतुरूपं व्यूहद्वयं व्याख्याय तृतीयव्यूहस्य सूत्रमवतारयति । हेयमिति । निमित्तमविद्या । तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ २५ ॥ तस्यादर्शनस्याभावाद्बुद्धिपुरुषसंयोगाभाव आत्यन्तिको बन्धनोपरम इत्यर्थः। एतद्धानम्। तद्दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनरसंयोगो गुणैरित्यर्थः। दुःखकारणनिवृत्तौ दुःखोपरमो हानं, तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम् ॥ २५ ॥ वार्तिकम् योग-वार्त्तिकम्

तस्या अविद्याया आभावाद्विनाशद् बुद्धिपुरुषसंयोगनिवृत्तिद्वारा द्रष्टृदृश्यसंयोगनिवृत्तिः दुःखहानमित्युच्यते कार्यकारणयोरभेदोपचारात् तस्य पुरुषार्थत्वायोक्तं तद्दृशेः कैवल्यमिति, तदेव च हानं पुरुषस्य कैवल्यमित्यप्युच्यत इत्यर्थः । इममेव सूत्रार्थ भाष्यकारः प्रकारान्तरेणाह तस्येति । बुद्धिपुरुषसंयोगशब्देन कार्यकारणाभेदात् द्रष्टृदृश्यसंयोगोऽपि ग्राह्यः प्रलयकालीनवियोगव्यावर्त्तनायात्यन्तिक इति विशेषणं बन्धनोपसम्मस्य । एतद्धानमिति पूर्वेणसहान्वेति । तद्दृशेः कैवल्यमित्येतद्वाचष्टे । तद्दृशेरिति । तद्धानं गुणैः बुद्धिगुणैः दुःखादिभिः पुनरसंयोगः प्रतिबिम्बरूपेणासम्बन्ध इत्यर्थः । स एव च दुःखभोगनिनृत्तिरूपः स्वतः पुरुषार्थरूप इति भावः । सूत्रस्य फलितार्थमाह । दुःखेति हानमित्यन्तेन । व्याख्याते कैवल्यशब्दार्थे तदा द्रष्टुः स्वरूपेऽवस्थानमिति गतसूत्रं प्रमाणयति । तदेति । तदा दुःखनिवृत्तौ । अस्य च हानव्यूहस्य चतुर्थपादे विस्तरो भविष्यतीत्यत्र दिङ्मात्रेण स उक्तः ॥ २५ ॥ अथ हानस्य कः प्राप्त्युपाय इति – वार्तिकम् योग-वार्त्तिकम्

अतः परं हानोपायव्यूहश्चतुर्थपादस्यापि कियत्पर्य्यन्तं वाच्यस्तत्र चतुर्थव्यूहप्रतिपादनसूत्रमवतारयति । अथेति । बुद्धिसंयोगनिवृत्तिरेव साक्षाद्दुःखहानेः कारणं विवेकख्यातिस्तु बुद्धिसंयोगहेत्वविद्यानिवर्त्तकत्वेन परम्परयेति प्राप्तिशब्देन सूचितम् ॥ विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥ सत्त्वपुरुषान्यताप्रत्ययो विवेकख्यातिः। सा त्वनिवृत्तमिथ्याज्ञाना प्लवते। यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं सम्पद्यते तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसञ्ज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति। सा विवेकख्यातिरविप्लवा हानोपायः। ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश्चाप्रसव इत्येष मोक्षस्य मार्गो हानस्योपाय इति ॥ २६ ॥ वार्तिकम् योग-वार्त्तिकम्

साक्षात्कारनिष्ठारूपत्वलाभायाविप्लवेति विशेषणम् । तत्राविप्लवशब्दात् कथमेतल्लभ्यते इत्याकाङ्क्षायामाह । प्लवते । मिथ्याज्ञानेन संस्कारवशात् मिथ्याज्ञानेनान्तरान्तराभिभूयत इत्यर्थः । यदेति । यदा तु साक्षात्कारदशायां सूक्ष्ममिथ्याज्ञानमनागतावस्थं दग्धबीजतुल्यावस्थं तस्य विवरणं बन्ध्यप्रसवं बन्ध्यप्रसवसामर्थ्यं भवति तदा विधूतक्लेशाख्यधूलेर्बुद्धिसत्त्वस्यात एव परवैशारद्ये वैलक्षण्ये अस्यैव विवरणं परस्यां वशीकारसञ्ज्ञायां ‘पपरमाणुपरममहत्त्वान्तोऽस्यवशीकार’ इति सूत्रोक्तायामिच्छाऽप्रतिघातरूपायां वर्त्तमानस्य विवेकख्यातिप्रवाहो निर्मलो मिथ्याज्ञानाकुलषितो भवति अतः सा विवेकख्यातिरविप्लवोच्यते । सा परमसाक्षात्काररूपिणी हानोपाय इत्यर्थः । केन द्वारेण हानोपाय इत्याकाङ्क्षायामाह । तत इति । ततो विवेकख्यातेः कारणात् मिथ्याज्ञानस्य सूक्ष्मरूपस्य दग्धबीजताप्राप्तिः । ततश्च पुनरप्रसव इति कृत्वा एष विवेकख्यातिरूपश्चित्तनिवृत्यादिरूपमोक्षस्य पन्थाः अस्य विवरणं हानोपाय इत्यर्थः ॥ २६ ॥ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥ तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः। सप्तधेति अशुद्ध्यावरणमलापगमाच्चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति। वार्तिकम् योग-वार्त्तिकम्

नन्वेवं ज्ञानादेव दुःखहानाख्यमोक्षवचनादसम्प्रज्ञातयोगस्य किं प्रयोजनमिति चेन्न । परवैराग्यजासम्प्रज्ञातयोगस्याप्यत्र ज्ञानद्वारतया मोक्षहेतुत्वाशयादिति । तस्या विवेकख्यातेरविप्लवाख्यनिष्ठाया लक्षणमाह ।

तस्य विवेकखयातिरूपहानोपायस्य प्रान्तभूमिकारूपिणी प्रज्ञा सप्तधेत्यर्थः । तदेतद् व्याचष्टे । तस्येतीति । तच्छब्दोक्तहानोपायस्य स्वरूपाख्यानं प्रत्युदितख्यातेरिति । अन्यथा तस्येतिपुल्लिङ्गानुपपत्तेः । प्रत्याम्नायः परामर्शः । न चात्र प्रत्युत्पन्नख्यातेः पुरुषस्य परामर्श इत्यर्थः सम्भवति पुरुषस्य पूर्वेसूत्रेष्वप्रस्तुतत्वात् । सप्तधेत्येतद्व्याख्यातुं गृह्णाति । सप्तधेतीति । अशुद्ध्येति । अशुद्धिविपर्ययाख्याऽविद्या तत्कार्यपापादिकं चोत्तरसूत्रभाष्यात् सैवावरणरूपो मलस्तदवगमाच्चित्तस्य प्रत्ययान्तराणां विवेकख्यात्यन्येषामनुत्पादे सति परवैराग्यजान्निरोधयोगादुत्थानदशायां सप्ताकारा प्रज्ञा विवेकिनो निष्पन्नज्ञानस्य लिङ्गं भवतीत्यर्थः । एवकारो योगव्यवच्छेदे प्रकारन्यूनता नास्तीत्यर्थः । एकस्या एव प्रज्ञायाः सप्तप्रकारत्वमुदाहरति । तद्यथा – परिज्ञातं हेयं नास्य पुनः परिज्ञेयमस्ति। क्षीणा हेयहेतवो न पुनरेतेषां क्षेतव्यमस्ति। साक्षात्कृतं निरोधसमाधिना हानम्। भावितो विवेकख्यातिरूपो हानोपाय इति। एषा चतुष्टयी कार्या विमुक्तिः प्रज्ञायाः। चित्तविमुक्तिस्तु त्रयी चरिताधिकारा बुद्धिः। गुणा गिरिशिखरतटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति। न चैषां प्रविलीनानां पुनरस्त्युत्पादः प्रयोजनाभावादिति। एतस्यामवस्थायां गुणसम्बन्धातीतः स्वरूपमात्रज्योतिरमलः केवली पुरुष इति। एतां सप्तविधां प्रान्तभूभिप्रज्ञामनुपश्यन्पुरुषः कुशल इत्याख्यायते। प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वादिति ॥ २७ ॥ वार्तिकम् योग-वार्त्तिकम्

तद्यथेत्यादिना । प्रथमं प्रकारमाह । परिज्ञातमिति । परिज्ञातं साक्षात्कृतं मुमुक्षुभिर्हेयं नास्यावशिष्टं पुनर्ज्ञेयमस्तीत्यर्थः । द्वितीयं प्रकारमाह । क्षीणा इति । ततश्च हेयहेतवोऽविद्याकामकर्मादयो विवेकसाक्षात्कारेण मम क्षीणा इत्यादिरर्थः । तृतीयं प्रकारमाह । साक्षात्कृतमिति । ततश्चाविद्यादिक्षयादुत्पन्नेन निरोधसमाधिना हेतुना व्युत्थानकाले दुःखहानरूपो भाविमोक्षो मया साक्षात्कृतः देहपातानन्तरमेतादृशो मे मोक्षो भवितेति सजातीयसाक्षात्कार एव सजातीयान्तरसाक्षात्कारविनाशे परिचितः । असम्प्रज्ञातयोगदृष्टान्तेन कैवल्यमपि दृष्टप्रायमिति फलितार्थः । यथाश्रुते निरोधसमाधौ हानसाक्षात्कारानुपपत्तिर्वृत्त्यभावादिति असम्प्रज्ञातकालीनश्च दुःखाभावो योग्यानुपलब्ध्या व्युत्थाने साक्षात्क्रियते, यदि ह्यसम्प्रज्ञातेऽपि दुःखं स्यात् तदानुभूयेत ततश्च सुप्तोत्थान इव व्युत्थाने स्मर्येतेति । अथवा निरोधसमाधिना निष्पाद्यं हानं मोक्षो हानगोचरसम्प्रज्ञातेन साक्षात्सतमित्यर्थः । चतुर्थं प्रकारमाह । भावित इति । ततश्च फलनिष्पत्त्या विवेकख्यातिरूपो हानोपायो भावितो निष्पादितः फलनिष्पत्त्यैव साधनस्य सिद्धेरिति । वस्तुतस्तु भावित इत्यादिप्रकारस्य द्वितीयस्थल एव पाठ आञ्जस्येन क्रमोपपत्तेः ॥ एषेति । एषा प्रान्तभूमिप्रज्ञाया विषयो हेयज्ञानसमाप्त्यादिरूपा चतुष्टयी प्रज्ञायाः प्रज्ञाख्यतत्वज्ञाननिमितात् पुंसां कार्यमुक्तिः कार्याद्विमुक्तिः कर्तव्यसमाप्तिः जीवन्मुक्तिरित्यर्थः । इयं परवैयाग्यरूपा चित्तनाशस्याद्यभूमिकारूपा । चित्तेति । चित्ताद्विमुक्तिः चित्तविमुक्तिः परममुक्तिः सापि प्रान्तभूमिप्रज्ञाया विषयः त्रिविधा भवति । चित्तविमुक्तिस्तु स्वयमेव भवति, न तत्र साधनापेक्षेत्याशयेन पृथगुपन्यासः । तत्राद्यं चित्तविमुक्तिमाह । चरिताधिकारा बुद्धिद्धिरिति । समाप्तभोगापवर्गा भवति बुद्धिरित्यर्थः । इयं परवैपग्यरूपा चित्तनाशस्याद्यभूमिकारूपा । द्वितीयामाह । गुणा इति । बुद्धिर्गुणाः संसारसुखदुःखादयः स्वकारणे सत्त्वादित्रिगुणमयप्रकृतौ लीयमानास्तेन चित्तेन सहात्यन्तलयं गच्छन्ति । तत्र दृष्टान्तो गिरीति । गिरिशिखरकूटात् च्युताः शिला इवावस्थातुमक्षमा इत्यर्थः । एषा च लिङ्गशरीरस्य विनश्यदवस्था द्वितीयभूमिका । तृतीयामाह । न चैषामिति । न चैषां संस्कारसुखादीनां पुनरुद्भवोऽस्ति पुरुषार्थसमाप्त्या प्रयोजनाभावात् इत्यत एतस्यामवस्थायां पुरुषो बुद्ध्यादिगुणसम्बन्धविशेषशून्यः स्वरूपमात्रज्योतिः निर्विषयकचिज्ज्योतिस्वरूपोऽमल औपाधिकतमोमालिन्यरहितः केवली केवलेषु मुक्तेष्वविभागी भवतीत्यर्थः । इयं चात्यन्तिकलयनिष्पत्तिरूपा विदेहकैवल्यस्य चरमभूमिका इमां त्रिविधां चित्तभूमिं भाविनीमेव जीवन्मुक्तदशायां विशुद्धचित्तो योगी साक्षात्करोतीति बोध्यम् । तदेवं सप्तविषयत्वात्सप्तप्रकारा प्रज्ञा व्याख्याता । इदानीं सूत्रतात्पर्यार्थमाह । एतां सप्तविधामिति । प्रज्ञावानित्यनुक्त्वा प्रज्ञामनुपश्यन्निति निरभिमानताप्रतिपादनायोक्तं, वुद्धिवृत्तिं प्रज्ञां साक्षिभावेनैव जीवन्मुक्तः पश्यति न त्वभिमन्यत इत्याशयः, कुशलः कल्याणोऽकल्याणबुद्धिपत्नीपरित्यागादिति । ज्ञानिनो जीवन्मुक्तस्य लक्षणं सूत्रेणोक्तं तत्प्रसङ्गात् स्वयं परमुमुक्तस्य ततो विशेषमाह । प्रतिप्रसव इति । चित्तस्यात्यान्तं लयेपि कुशल इत्येव भवति, सत्वादिभिः सत्त्वादिभिश्च कुशलगुणैरत्यन्तवियोगादित्यर्थः । एवकारेण जीवन्मुक्तदशायामपि बाधितमकुशलं तिष्ठतीत्युक्तम् । अत एव चाख्यायत इत्यनेन जीवन्मुक्तावस्थायां गौणं कुशलत्वं व्याख्यायात्र भवतीत्यनेन मुख्यं कुशलत्वमुच्यत इति, यत्तु गीतायां ” सर्वारम्भवरित्यागी गुणातीतः स उच्यत” इति ज्ञानिनोऽपि गुणातीतत्वमुक्तं तद् गुणाभिमानशून्यतामात्रं परमेश्वरस्य निर्गुणत्ववदिति ॥ २७ ॥ सिद्धा भवति विवेकख्यातिर्हानोपाय इति, न च सिद्धिरन्तरेण साधनमित्येतदारभ्यते – वार्तिकम् योग-वार्त्तिकम्

अतः परं शास्त्रसमप्तिपर्यन्तं हानोपायव्यूहस्याशेषविशेषास्तत्प्रसङ्गेनैव च हानव्यूहस्य विशेषाश्च व्याख्येयाः । तत्रादौ विवेकख्यात्युपायप्रतिपादकं सूत्रजातमवतारयति । सिद्धेति । सिद्धा निष्पन्ना अविप्लवेति यावत्- योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥ २८ ॥ योगाङ्गान्यष्टावभिधायिष्यमाणानि। तेषामनुष्ठानात्पञ्चपर्वणो विपर्ययस्याशुद्धिरूपस्य क्षयो नाशः। तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः। यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते। यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते। सा खल्वेषा विवृद्धिः प्रकर्षमनुभवत्या विवेकख्यातेः, आगुणपुरुषस्वरूपविज्ञानादित्यर्थः। योगाङ्गानुष्ठानमशुद्धेर्वियोगकारणम्। यथा परशुश्छेद्यस्य। विवेकख्यातेस्तु प्राप्तिकारणं यथा धर्मः सुखस्य नान्यथा कारणम्। कति चैतानि कारणानि शास्त्रे भवन्ति। नवैवेत्याह। वार्तिकम् योग-वार्त्तिकम्

सामान्यतो ज्ञानं श्रवणमननाभ्यामपि भवतीति दीप्तिपदं, दीप्तीश्चात्राश्रुतामतविशेषग्रहणम् । अत्र योगाङ्गानुष्ठानादित्यनेन वक्ष्यमाणयमादीनां योगाङ्गत्वमपि ज्ञानाङ्गतावदेव विवक्षितम् । अन्यथा “तदपि बहिरङ्गं निर्बीजस्ये’‘त्यागामिसूत्रे योगाङ्गतायां विशेषस्याप्रकृताभिधानताप्रसङ्गात् । ननु योगाङ्गानि योगसाधनानि तानि च पूर्वोक्ततया पुनर्नाकाङ्क्ष्यन्ते इति चेन्न । कथं व्युत्थितचित्तोपि योगयुक्तः स्यादित्यादिभाष्येणैव दत्तोत्तरप्रायत्वात् । पूर्वपादे ह्युत्तमाधिकारिणामभ्यासमवैराग्ये एव योगयोः साधनमुक्तं ततश्च मध्यमाधिकारिणां तपःस्वाध्यायेश्चप्रणिधानान्यपि केवलानि साधनानि एतत्पादस्यादावुक्तानि । अतः परं मन्दाधिकारिणां यमादीन्यपि योगसाधनानि वक्तव्यानि ज्ञानसाधनप्रसङ्गेनेत्यपौनरुक्त्यम् । यद्यपि ज्ञानमप्यसम्प्रज्ञातयोगसाधनतयास्मिन् शास्त्रे प्रतिपादितं तथापि तद्योगसामान्येऽङ्गं न भवति सम्प्रज्ञाताहेतुत्वात् । अतो योगसामान्यस्य ज्ञानस्य चोभयोरेव तुल्यवदङ्गतयात्र यमादीन्यष्टावेव योगाङ्गतयाप्रतिपादयिष्यन्त इति । सूत्रं व्याचष्टे - योगोङ्गानीति । विपर्ययस्येति । योगाङ्गतया विपर्ययशब्देन तत्कार्यं पापादिकमपि ग्राह्यं तस्याप्यशुद्धिरूपत्वात् ।

ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतले प्रख्ये पश्यन्त्यात्मानमात्मनि ॥ इति स्मृतेः ।

नाशश्चात्र तनुता । तथा तथा तनुत्वमशुद्धिरापद्यत इत्युत्त्तरवाक्यात् क्लेशतनूकरणार्थश्चेत्युक्तसूत्राच्च । अतो न ज्ञानेनैव क्लेशानामत्यन्तोच्छेद इति सिद्धान्तव्याघातः । अनुरोधिनी अनुसारिणी दीप्तिः सूक्ष्मग्राहिता । गुणपुरुषेति । गुणास्त्रयः सत्त्वादयः पुरुषश्च जीवेश्वरावित्यर्थः । एतेन जिज्ञासामात्रद्वारा । यमनियमान्तर्गतसर्वकर्मणां ज्ञानहेतुत्वजिज्ञासानन्तरं च कर्मत्याज्यमनुत्पन्नज्ञानेनापीति वेदान्तिब्रुवाणां मतं दुर्मतं मन्तव्यम् । विपर्ययतानवद्वारा यमनियमान्तर्गतकर्मणां ज्ञानहेतुत्वसिद्धेरिति । अत एव

कर्मणा सहिताज्ज्ञानात् सम्यग्योगोऽभिजायते । ज्ञानं च कर्मसहितं जायते दोषवर्जितम् ॥

इति कौर्मादिषु कर्मणां ज्ञानसाहित्येनानुष्ठानं सिद्धम् । यद्यपि विषयान्तरासञ्चाराख्यप्रतिबन्धनिवृत्तिरूपतया सम्प्रज्ञातोऽपि ज्ञानकारणं तथाप्यशुद्धिक्षयद्वारा योगाङ्गानुष्ठानानामेव ज्ञानदीप्तिहेतुत्वमस्ति न योगस्येत्यङ्गपदोपादानमिति । ननु नानाविधकार्यकारणभावदर्शनात् योगाङ्गान्यशुद्धिक्षयं प्रति ज्ञानं प्रति च कीदृशं कारणमित्याकाङ्क्षायामाह । योगाङ्गानुष्ठानमशुद्धेरिति । अशुद्धेः कारणं वियोगरूपेणातिशयेनेत्यर्थः । अयं भावः । सत एव वस्तुनोऽतिशयहेतुः कारणमुच्यते असदुत्पादस्यानभ्युपागमात् । तथा च सत्येवाशुद्धिवियोगाख्येनातीतावस्थारूपेणातिशयेन योगाङ्गानां कार्येति । एवं दृष्टान्तेऽपि बोध्यम् । विवेकख्यातेस्तु प्राप्तिकारणमिति । प्राप्तिरूपातिशयाधायकतया विवेकख्यातेः कारणमित्यर्थः । प्राप्तिश्चोत्पत्तौ प्रतिबन्धनिवर्त्तनम् । तत्र दृष्टान्तमाह । यथेति । नान्यथाकारणमिति । न वैशेषिकाणामिवोत्पत्तिकारणमस्मन्मते । धर्मादीनां निमित्तकारणानां प्रतिबन्धनिवृत्तिकारणत्वसिद्धान्तादित्याशयः । निमित्तमप्रयोजकमं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवदि’ति सूत्रे चैतत् व्यक्तीभविष्यति । विवेकख्यातेरुत्पत्तौ च चित्तमेव कारणं स्वत एव सर्वार्थग्रहणसामर्थ्यादिति । पृच्छति । कति चैतानीति । उत्तरं, नवैवेत्याहेति । पूर्वाचार्यगण इति शेषः । कारिकोक्तानि नव कारणानि । यथोक्तममुदाहरति । तद्यथा – उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः। वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥ इति। तत्रोत्पत्तिकारणं मनो भवति विज्ञानस्य, स्थितिकारणं मनसः पुरुषार्थता, शरीरस्येवाऽऽहार इति। अभिव्यक्तिकारणं यथा रूपस्याऽऽलोकस्तथा रूपज्ञानं, विकारकारणं मनसो विषयान्तरम्। यथाऽग्निः पाकस्य। प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्य। प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः। वार्तिकम् योग-वार्त्तिकम्

तन्नेति । ज्ञानस्य वृत्तिरूपस्योत्पत्तिरूपातिशयेन मनः कारणं सम्भवति उपादानत्वादित्यर्थः । प्राप्तिकारणं च नोत्पत्तौ साक्षात्कारणं किन्तु प्रतिबन्धनिवृत्तिद्वारेति । घटादिषु दण्डादीनि च पूर्वोक्ताप्तिकारणमध्य एव प्रवेशनीयानि उत्पत्तिकारणत्वमुपादानकारणत्वमिति । स्थितीति । भोगापवर्गरूपं पुरुषार्थसामान्यं मनसः स्थितिरूपातिशयेन कारणं भवति पुरुषार्थसमाप्तौ । मनसः स्वयमेव लयादित्यर्थः । अत्र प्राधान्येनैव मन उदाहृतं पुरुषार्थस्य सर्वभोग्यानामेव स्थितिहेतुत्वादिति । अभिव्यक्तीति । आलोकरूपज्ञानं च रूपस्याभिव्यक्तिरूपातिशयेन कारणमित्यर्थः । अभिव्यक्तिश्च बुद्धिवृत्तिः पौरुषेयबोधश्च तत्र बुद्धिवृत्तौ आलोकः कारणं पौरुषेयबोधे च रूपज्ञानं बुद्धिवृत्तिरूपमिति विभागः । विकारकारणमिति । एकाग्रस्य मनसो विषयान्तरं स्वगोचररागादिविकाररूपातिशयेन कारणं भवतीत्यर्थः । प्रत्ययकारणमिति । प्रत्ययः सम्प्रत्ययः प्रामाण्यनिश्चय इति यावत्, तथा च पर्वते धूमदर्शनमित्यर्थः । यथाश्रुतेऽग्निज्ञानस्येत्यत्र ज्ञानशब्दवैयर्थ्यात् । आनुमानिकज्ञानस्यापि अभिव्यक्तिमध्य एव प्रवेशाच्च । प्राप्तिकारणमिति । आप्तिः प्राप्तिरित्येक एवार्थः एतद्व्याख्यातम् । वियोगकारणं तदेवाशुद्धेः। अन्यत्वकारणं यथा सुवर्णस्य सुवर्णकारः। एवमेकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे द्वेषो दुःखत्वे रागः सुखत्वे तत्त्वज्ञानं माध्यस्थ्ये। धृतिकारणं शरीरमिन्द्रियाणाम्। तानि च तस्य। महाभूतानि शरीराणां, तानि च परस्परं सर्वेषां तैर्यग्यौनमानुषदैवतानि च परस्परार्थत्वादित्येवं नव कारणानि। तानि च यथासम्भवं पदार्थान्तरेष्वपि योज्यानि। योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति ॥ २८ ॥ वार्तिकम् योग-वार्त्तिकम्

वियोगेति । एतदपि व्याख्यातम् । ननु वियोगकारणे कारणव्यवहार एव नास्तीति चेन्न । मशकार्थोऽयं धूम इत्यादिव्यवहारदर्शनात् । कर्मकार्ययोरेकार्थतयाऽशेषधातुकर्मणामेव कार्यत्वाच्चेति । अन्यत्वत्वकारणमिति । रूपभेदकारणमित्यर्थः । ननु विकारकारणादस्य को भेद इति चेत्, उच्यते । सुवर्णादेः कटकादिरूपतात्यागेन कुण्डलादिरूपतायां यत्कारणं तत्सुवर्णादेर्विकारकारणमुच्यते, तदेव च कारणं कटकादेरन्यत्वकारणमुच्यते कटकादिविनाशपूर्वकमन्येषां कुण्डलादीनामुत्पादनात्, अतः कार्यभेदेनैकस्यैव वस्तुनो द्विधाकारणत्वमिति । सुवर्णस्येति । सुवर्णपिण्डादिरित्यर्थः । सुवर्णस्य सर्वविकारानुगतत्वेन सुवर्णान्यत्वाकारणत्वात् । अतोऽस्य विकारकारणात् भेदात् सुवर्णपिण्डं कुण्डलं करोति इत्यादिप्रत्ययश्चास्यां कारणतायां प्रमाणमिति । बाह्यमन्यत्वकारणमुदाहृत्यान्तरमन्यत्वकारणमुदाहरति । एवमेकस्येति । स्त्रीप्रत्ययस्य आकारपरिणतबुद्धिद्रव्यस्य वृत्त्याख्यस्यैकजातीयस्य मूढत्वादिधर्माणामन्यत्वे भिन्नत्वे अविद्यादिचतुष्टयं कारणमित्यर्थः । तत्र मोहः कर्त्तव्याकर्त्तव्यशून्यता, दुःखित्वसुखित्वे माध्यस्थ्यं रागद्वेषमोहशून्यता । धृतिकारणमिति । शरीरमिन्द्रियाणमाश्रयविधया धारकं, तानि चेन्द्रियाणि तस्य शरीरस्य योगक्षेमनिर्वाहकत्वेन धारकाणि । एवं पृथिव्यादीनि महाभूतान्याधारतयैव शरीराणां धारकाणि । तानि च परस्परं सर्वेषामिति । तानि च महाभूतान्यन्योन्यं सर्वेषां सर्वाणि धारकाणि आकाशं वायोर्धारकं, चक्रवात्या च छिद्राकाशस्य धारिका, छिद्रस्य तत्तन्त्रत्वात् तदाश्रितत्वाच्च । एवं वायुस्तेजसो धारकः, तेजश्चावरणादिरूपमण्डार्न्तवर्तिवायूनां धारकमित्यादिरूपेण व्याख्येयम् । तथा तैर्यग्योनमानुषदैवतानि च शरीराणि परस्यरं धारकाणि आश्रयाश्रयिभावाभावोऽपि यज्ञवृष्ट्यादिभिरन्योन्यमुपकारकत्वात् । “देवान् भावयतानेन ते देवा भावयन्तुव” इत्यादिभ्य इत्यर्थः । अथैवं स्थितिकारणात् धृतिकारणस्य कथं भेद इति, उच्यते । कार्यानुप्रवेशाप्रवेशाभ्यामवान्तरभेदात् स्थितिहेतुर्हि पुरुषार्थाहारादिर्मतः शरीराद्यविभक्तः सन्नेवतानि स्थापयति धृतिहेतुश्च शरीरादिरिन्द्रियादीनननुप्रविश्यैव तानि धारयतीति महान् विशेष इति । उपसंहरति । इत्येवमिति । यथायोग्यमेभिरेव कारणत्वैरविद्याकर्मजीवेश्वरादीनां सर्वकारणत्वप्रतिपादिकाः श्रुतिस्मृतयो व्याख्येया इत्याशयवानाह । तानि च यथासम्भवमिति । आधुनिकातूत्पाद्यविकार्याप्यसंस्काररूपैश्चर्तुर्विधं कार्यमाहुः । तैस्तु नवानामेव कार्याणां चतुर्धा विभागः कृत इति । प्रकृतिमुपसंहरति योगाङ्गेति ।

सूत्रान्तरमवतारयति । तत्रेति ॥ २८ ॥ तत्र योगाङ्गान्यवधार्यन्ते – यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २९ ॥ यथाक्रममेषामनुष्ठानं स्वरूपं च वक्ष्यामः ॥ २९ ॥ वार्तिकम् योग-वार्त्तिकम्

पूर्वपादोक्तान्यन्तरङ्गान्यभ्यासवैराग्यश्रद्धाप्राणायामादीन्यस्य पादस्यादावुक्तानि मध्यमसाधनानि तपःस्वाध्यायेश्वरप्रणिधानान्यत्यन्तबहिरङगैरनुक्तसाधनैः सह पिण्डीकृत्य योगज्ञानोभयसाधनतयात्रोच्यन्त इत्यपौनरुक्तम् । क्रियासाधननिरूपणं तु उत्तममध्यमाधमाधिकारभेदात् । तत्र वैराग्यस्य सन्तोषे प्रवेशः श्रद्धादीनां च तप आदिषु परिकर्मणां च धारणविचित्रक इति श्रवणमननयोश्च प्रमाणविधयैव ज्ञानहेतुत्वं साक्षाद स्तीत्याशयेनाशुद्धिक्षयद्वारकेषु ज्ञानसाधनेषु न ते परिगणितेति मन्तव्यम् । भाष्ये यथाक्रममेषामनुष्ठानमितिकर्तव्यमिति शेषः । अयं तूत्सर्ग एवमीश्वरप्रसादाज्जितोत्तरभूमिकस्य नाधरभूमिषु विनियोग इति भाष्ये वक्तव्यत्वात्, अन्यथा बहिरङ्गान्तरङ्गविभागप्रतिपादनवैयर्थापत्तेश्चेति ।

उत्तरसूत्रजातमवतारयति । स्वरूपं चेति । स्वरूपं च यथाक्रममेषामतः परं वक्ष्याम इत्यर्थः ॥ २९ ॥ तत्र – अहिंसासत्यस्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३० ॥ तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोहः। उत्तरे च यमनियमास्तन्मूलास्तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते। तदवदातरूपकरणायेवोपादीयन्ते। तथा चोक्तम् – स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस्तामेवावदातरूपामहिंसां करोति। वार्तिकम् योग-वार्त्तिकम्

योगाङ्गभूतां प्रकृष्टामहिंसां लक्षयति । तत्राहिंसा सर्वथेति । आश्रमविहितनित्यकर्माविरोधेनेति विशेषणीयाशौचादिषु क्षुद्रजन्तुहिंसाया अपरिहार्यत्वात् । अत एव योगिनां प्राणायामादिकं तत्पापक्षालनाय नित्यतया शास्त्रे विहितमिति । अहिंसाया अविरोधेनैवासत्यादयो यमनियमा अनुष्ठेया इति प्रतिपादनाय तस्याः श्रेष्ठत्वमाह । उत्तरे चेति । तन्मूला इति । सैव मूलं प्रयोजनं येषामिति विग्रहः । अतोऽहिंसासिद्धिपरतयैवशास्त्रेष्वितरयमनियमाः प्रतिपाद्यन्त इति तत्सिद्धिपरतयैवेन्तस्य विवरणम् । तत्प्रतिपादनायेति । सत्यादिभिरहिंसा सिध्यतीति प्रतिपादनायेति तस्यार्थः । तथा तदवदातरूपकरणायाहिंसानिर्मलीकरणायैव योगिभिरूपादीयन्तेऽनुष्ठीयन्ते चेत्यर्थः । शौचतपआद्यकरणे च नरकादिना हिंसाप्यन्ततोऽस्तीति मन्तव्यम् । तथा चेत्यादि, सुगमम् । तथा मोक्षधर्मेप्युक्तं -

यथा नागपदेऽन्यानि पदानि पदगानाम् । सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ॥

एवं सर्वमहिसायां धर्मार्थमपि धीयते । इति । सत्यं यथार्थे वाङ्मनसे। यथा दृष्टं यथाऽनुमितं तथा वाङ्मनश्चेति। परत्र स्वबोधसङ्क्रान्तये वागुक्ता, सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिवन्ध्या वा भवेदिति। एषा सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय। यदि चैवमप्यभिधीयमाना भूतोपघातपरैव स्यान्न सत्यं भवेत्पापमेव भवेत्तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात्। तस्मात्परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात्। वार्तिकम् योग-वार्त्तिकम्

सत्यं लक्षयति । सत्यमिति । यथार्थत्वं व्याचष्ठे । यथादृष्टमिति । दर्शनादीनां प्रमात्वमपि विवक्षितम् । भ्रान्तावेति वक्ष्यमाणत्वात् । अज्ञाननिमित्तकपापान्तरवत् भ्रान्तिनिमित्तका सत्यस्यापि पापत्वौचित्यात् । मनश्चेति । मनश्च तथा तात्पर्ययुक्तमित्यर्थः । तेन यदा दृष्टादिविपरीतार्थबोधने तात्पर्यं तदा यथार्था वागसत्यैव भवति यथाश्वत्थामा हत इति युधिष्ठिरवाक्यं, तत्र हि गजविषये वाक्यस्य सत्यत्वेपि मनसो न सत्यत्वं दृष्टविपरीतद्रोणपुत्रहनने तात्पर्यादिति । सत्यस्योदाहरणं सामान्यत आह । परत्रेत्यादिना इतीत्यन्तेन । इतिशब्दात्पूर्वं तदा सत्यमिति पूरणीयम् । स्वविनोदाय गीतावाक्यादीनां परप्रतिपत्तिवन्ध्यत्यादावपि नासत्यत्वमित्यतस्तव्यावर्त्तनार्थं परत्र स्वबोधसङ्क्रान्तये इत्युक्तम् । वञ्चिता विपरीतार्थबोधनेच्छया प्रयुक्ता भ्रान्ता भ्रमेण प्रयुक्ता प्रतिपत्तिवन्ध्याप्रसिद्धपदादिभिर्न बोधजननक्षमेत्यर्थः । यथोक्तसत्यलक्षणे लोकहितत्वमपि विशेषणं देयमित्याह । एषेति । एषा वाक् प्रवृत्ता ब्रह्मणा निर्मिता । अतो यदि च, एवमपि यथार्थापि, अभिधीयमानोच्चार्यमाणेत्यादिरर्थः । सा च वाक् यथा दस्युभिः सार्थगमनं पृष्टस्य सार्थगमनाभिधानमित्यादिरूपा, पुण्याभासेन पुण्यवत् प्रतीयमानेन । तत्र हेतुः पुण्यप्रतिरूपकेणेति पुण्यसदृशेनेत्यर्थः । कष्टं दुःखात्मकं तमो नरकमित्यर्थः । सत्यं यथार्थं ब्रूयादित्यर्थः । अत्र च असत्यनिवृत्तिमात्रं सत्यशब्देन विवक्षितं तस्यैव तदसम्भवात्, अन्यथाऽसत्यस्य वचनेपि यमप्रसङ्गाच्चेति । अस्तेयं लक्षयितुमभावस्य प्रतियोगिनिरूपणाधीननिरूपणतयादौ स्तेयं लक्षयति । स्तेयमशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणं, तत्प्रतिषेधः पुनरस्पृहारूपमस्तेयमिति। ब्रह्मचर्यं गुप्तेन्द्रियस्योपस्थस्य संयमः। विषयाणामर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणमपरिग्रह इत्येते यमाः ॥ ३० ॥ वार्तिकम् योग-वार्त्तिकम्

स्तेयमिति । प्रतिग्रहव्यावर्त्तनायाशास्त्रपूर्वकमिति । अत्र चौर्येणापि स्वत्वं ज्ञायत इत्यवगम्यते । अथ वास्वीकरणं ममेति बुद्धिमात्रं भ्रमसाधारणमिति तत्प्रतिषेधस्तन्निवृत्तिस्तथाप्यस्पृहामुपलक्षयित्वाह । सस्पृहारूपमिति । ब्रह्मचर्यं लक्षयति । गुप्तेति । गुप्तेन्द्रियस्येति स्वोक्तस्य विवरणमुपस्थस्येति । संयम इत्यत्रोपसर्गेणान्येन्द्रियसाहित्यमुपस्थस्य ग्राह्यं तेनोपस्थस्य विषये सर्वेन्द्रियव्यापारोपरम इति लक्षणम् । तथाचोक्तं दक्षसंहितायाम् -

ब्रह्मचर्यं सदा रक्षेदष्टधा लक्षणं पृथक् । स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् ॥

सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥ इति ।

प्रकृष्टमीक्षिणं प्रेक्षणं रागपूर्वकं दर्शनमित्यर्थः । अपरिग्रहं लक्षयति । विषयाणामिति । परिग्रहे हिंसाद्या अपि दोषास्तेषां दर्शनादिति विशेषणं दम्भाशक्त्यादिनिमित्तकास्वीकरणेऽतिव्याप्तिनिरासायेति । हिंसा चात्र दातृप्रभृतीनां बोध्या ॥ ३० ॥ ते तु – वार्तिकम् योग-वार्त्तिकम्

उक्तानां यमानां विशेषप्रतिपादकं सूत्रं पूरयित्या पठति । ते त्विति - जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ ३१ ॥ तत्राहिंसा जात्यवच्छिन्ना मत्स्यवधकस्य मत्स्येष्वेव नान्यत्र हिंसा। सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति। सैव कालावच्छिन्ना न चतुर्दश्यां न पुण्येऽहनि हनिष्यामीति। सैव त्रिभिरुपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे नान्यथा हनिष्यामीति। यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति। एभिर्जाति देशकालसमयैरनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः। सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यन्ते ॥ ३१ ॥ वार्तिकम् योग-वार्त्तिकम्

समयः सङ्केतो वक्ष्यमाणनियमविशेष इति यावत् । जात्यादिभिश्चतुर्भिरनवच्छिन्नास्ते यमाः सार्वभौमाः सर्वास्ववस्थास्वनुगता अतो महाव्रतमितिसञ्ज्ञिता इत्यर्थः । अन्वर्थसञ्ज्ञायाः फलं च प्रकृष्टयोगिभिरेवमनुष्ठानमिति । मुख्यमहिंसाख्ययममाश्रित्य जात्यवच्छिन्नादीन् व्याचष्टे । तत्राहिंसेति । जातिर्मत्स्यत्वादिः, तया परम्परया अवच्छिन्ना मत्स्याद्यतिरिक्तस्याहिंसेत्यर्थः । एवमुत्तरास्वपि परम्परयैवावच्छिऩ्नत्वं बोध्यम् । सैव देशेति । सैवाहिंसैव एवमुत्तरयोरपि । त्रिभिरुपरतस्येति । साङ्कर्यनिरासायोक्तम् । त्रिभिर्जात्याद्यवच्छेदैः परम्परया शून्यस्य पुरुषस्येत्यर्थः । समयावच्छिन्नोस्योदाहरणद्वयमाह । देवेति । यथा चेति । यथा चेत्यर्थः । अहिंसाया इवान्येषामपि यमानां जात्याद्यवच्छिन्नत्वमूहनीयमित्याशयः । सूत्रतात्पर्यार्थमाह । एभिरिति । सार्वभौमशब्दस्यार्थमाह । सर्वभूमिष्विति । सर्वभूमिष्वित्यस्य विवरणं सर्वविषयेष्विति । विषया जात्यादयो यथोक्ताः । अस्यापि विवरणं सर्वथैवेत्यादि । ननु कुशसमिदाहरणादिवैधहिंसानामपि परित्यागे नित्यकर्मबाधेन प्रत्यवायापत्तिरिति, मैवम् ।

सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखेषु तयोद्विजन्ति । तेषां भयोत्पादनजातखेदः कुर्यान्न कर्माणि हि जातवेदः ॥

इति मोक्षधर्मादिवाक्यैर्जातवेदस्योत्पन्नात्मज्ञानस्य योगिनः कारुणिकस्य बाह्यकर्मत्यागानुज्ञयाऽयोगिनामेव बाह्यकर्माकरणे प्रत्यवायात् योगरूपस्यैव नित्यकर्मणो मन्वादिभिर्विहितत्वाच्च । यथा मनौ ।

एतानेके महायज्ञान् यज्ञाशास्त्रविदो जनाः । अनीहमानाः सततमिन्द्रियेष्येव जुह्वति ॥ इति ।

अत एव वसिष्ठेन बाह्याभ्यन्तरकर्मणोर्विकल्प उक्तः ।

बाह्यमाभ्यन्तरं चेति द्विविधं कर्म वैदिकम् । तयोरन्यतरत् कुर्यान्नित्यं कर्म यथाविधि ॥

इति । तयोश्चाभ्यन्तरं कर्म हिंसाद्यभावात् ऐकाग्र्यरूपत्वाच्च श्रेष्ठं गीतादियुक्तम् ‘श्रेयान् द्रव्यमयाद्यज्ञाज्ञ्ज्ञानज्ञः परन्तपे’त्यादिना । भाष्यकारश्चवैधहिंसाया अपि पापहेतुत्वमग्रे प्रतिपादयिष्यति ‘शौचादिषु चापरिहार्याहिंसा चाश्रमविहिता वे’ति न तया व्रतलोपः स्वाश्रमधर्माविरोधित्वेन विशेषितत्वादिति ॥ ३१ ॥ शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२ ॥ तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यम्। आभ्यन्तरं चित्तमलानामाक्षालनम्। सन्तोषः सन्निहितसाधनादधिकस्यानुपादित्सा। तपो द्वन्द्वसहनम्। द्वन्द्वाश्च जिघत्सापिपासे शीतोष्णे स्थानासने काष्ठमौनाकारमौने च। व्रतानि चैषां यथायोगं कृच्छ्रचान्द्रायणसान्तपनादीनि। स्वाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा। ईश्वरप्रणिधानं तस्मिन्परमगुरौ सर्वकर्मार्पणम्। शय्यासनस्थोऽथ पथि व्रजन्वा स्वस्थः परिक्षीणवितर्कजालः। संसारबीजक्षयमीक्षमाणः स्यान्नित्ययुक्तोऽमृतभोगभागी ॥ यत्रेदमुक्तं ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्चेति ॥ ३२ ॥ वार्तिकम् योग-वार्त्तिकम्

यमान् व्याख्याय नियमान् व्याचष्टे-

स्थूलशरीरस्यैव बाह्यान्तररूपेणादौ द्विविधं बाह्यशौचं दर्शयति । मृज्जलेति । मेध्यं गोमूत्रयवाग्वादि तेषां भक्षणं मेध्याभ्यवहरणमादिशभाववासादयो ग्राह्याः । मानसमपिशौचमाह । आभ्यन्तरमिति । सत्त्वस्वभावस्य चित्तस्य मला रागद्वेषादयस्तेषां मैत्र्यादिना प्रक्षालनं प्रसाद इति प्रागुक्तमित्यर्थः । सन्तोषं व्याचष्टे । सन्निहितेति । अत्यावश्यकप्राणयात्रानिर्वाहकविद्यमानसाधनादतिरिक्तस्यालिप्सेत्यर्थः । द्वन्द्वसहिष्णुतेति । शास्त्रोक्तरीत्या निर्द्वेषं द्वन्द्वसेवनमित्यर्थः । द्वन्द्वान्याह । जिघत्सेति । जिघत्सा बुभुक्षा,यद्यपि शीतोष्णादिवत्परस्परविरुद्धत्वं बुभुक्षापिपासयोर्नास्ति तथापि मिथुनवदेव पारिभाषिकद्वन्द्वता । स्थानमूर्ध्वावस्थानम् । आसनं चोपवेशनम् । काष्ठामौनमिङ्गितेनापि स्वाभिप्रायाप्रकाशनम् । आकारमौनं त्ववचनमात्रम् । एतानि शास्त्रोक्तव्रतेनैव सोढव्यानि न तु वृथेत्याशयेनाह - व्रतानि चैषामिति । स्वाध्यायव्याख्या सुकरा । तज्जपस्तदर्थभावनमितिप्रथमपादोक्तप्रणिधानव्यावृत्यर्थद्वितीयपादाद्यसूत्रवाक्यर्थमेव प्रणिधानशब्दार्थं स्मारयति । तस्मिन्परमगुरौ सर्वसर्वकर्मार्मणमिति । एत्तच्च तत्रैव व्याख्यातम् ।

नन्वेवं तदर्थभावनरूपमेव प्रणिधानमर्थो भवतु । न । बहिरङ्गतयाः वक्ष्यमाणत्वात् । ईश्वरभावनं हि ध्यानरूपतया योगस्यान्तरङ्गमेव । त्रयमन्तरङ्गमिति वक्ष्यमानसूत्रात् सर्वकर्मार्पणमेव मुख्यतो ध्येयं न त्वीश्वरतत्त्वम् । ‘कुर्यात् कर्म सन्न्यासचिन्तन’मिति योगियाज्ञवल्वायक्यात् ।

नाहं कर्ता सर्वसर्वमेतन्मनसाकुरुते तथा । एतद् ब्रह्मार्पणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ इति कौर्माच्च ।

ईश्वरस्तु सामान्यतस्तद्विशेषणतामात्रेण कर्तृत्त्वारोपेण च ध्येय इत्यतो युक्ता तस्य योगाबहिरङ्गतेति । तदेवं सूत्रगणोक्तयमनियमा विष्णुपुराणदिष्वपि दर्शिताः ।

ब्रह्मचर्यमहिंसां च सत्यास्तेयपरिग्रहान् । सेवेत योगी निष्कामो योग्यतां मनसो नयन् ॥

स्वाध्यायशौचसन्तोषतपांसि नियतात्मवान् । कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणं मनः ॥ इत्यादिभिः ।

एतेषु दशसु मध्ये ईश्वरप्रणिधानस्य मुख्यतो योगाङ्गत्वमिति प्रतिपादनाय निर्विघ्नपरमात्मयोगहेतुत्वं तस्याह श्लोकेन । शय्यासनेति । ईश्वरप्रणिधानी तदनुग्रहात्सदैवयोगयुक्तः स्यादिति श्लोकार्थः । स्वस्थः परमात्मनिष्ठः, परमात्मार्पितकर्मणां मुख्यतस्तद्योगस्यैव कल्पनौचित्यात्, वितर्कजालो यो वक्ष्यमाणः वक्ष्यमाणप्रतिपक्षभावनां विनापि परिक्षीणो यस्य स तथा । संसारबीजानां संस्कारादीनां क्षयमनुदिनमुलभमानः, तथामृतभोगभोगी त्यागी चेन्मुक्तिसुखानुभवितेत्येवम्भूतो नित्ययुक्तः स्यादित्यर्थः । न केवलमीश्वरेर्पितकर्मण ऐश्वरयोग एव भवति, अपि त्वीश्वरसाक्षात्कारद्वारा पूर्णत्वात्वादिना तत्त्वसाक्षात्कारोऽपीत्युक्तमेव स्मारयति । यत्रेदेमुक्तमिति । यत्रेश्वरयोगे । ननु यमनियमयोर्मध्ये यज्ञदानाद्यवचनान्न्यूनतेति चेत्, न ।

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।

ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते- इत्यादिवाक्येभ्योऽत्रानुक्तकर्मणां तपेस्येवान्तर्भाव: ।

एवं योगिनामन्तर्यागाऽभयदानादेरपि तपस्येवान्तर्भावः । देवब्राह्मणार्थहिंसाया अपि त्याज्यवचनेन च प्रकृष्टयोगिनां बाह्यकर्मणामभावसिद्धिद्धिरिति । तदेवं यमाः पञ्च नियमाश्च पञ्च सर्वस्मृतिसिद्धा: प्रोक्ता: ।

ननु यमानामभावरूपतया कालाद्यनवच्छिन्नत्वसम्भवात् सार्वभौमत्वमुक्तं, नियमानां तु प्रतिनियतकालावच्छिन्नतया न सार्वभौमत्वं सम्भवति, अतो नात्र महाव्रतरूपो विशेष उक्त इति । यथोक्तयोश्च यमनियमयोर्मध्ये निवृत्तिरूपतया शक्यसम्पादनत्वेन यमा एव परमहंसानामावश्यका जडभरतादीनामप्यहिंसापालनस्य विष्णुपुणाराणादौ स्मरणात् । न तु नियमाः प्रवृत्तिरूपतया योगान्तरायत्वात् । तदुक्तं भागवते -

यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् । इति ।

उक्तेषु यमनियमेषु वक्ष्यमाणविघ्नस्य निवृत्त्युपायप्रप्तिपादकं सूत्रं पूरयित्वावतारयति । एतेषां यमनियमानमिति ॥ ३२ ॥ एतेषां यमनियमानाम् – वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३ ॥ यदाऽस्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन्हनिष्याम्यहमपकारिणमनृतमपि वक्ष्यामि क्रयमप्यस्य स्वीकरिष्यामि दारेषु चास्य व्यवायी भविष्यामि परिग्रहेषु चास्य स्वामी भविष्यामीति। एवमुन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन बाध्यमानस्तत्प्रतिपक्षान्भावयेत्। घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणमुपागतः सर्वभूताभयप्रदानेन योगधर्मः। स खल्वहं त्यक्त्वा वितर्कान्पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति भावयेत्। वार्तिकम् योग-वार्त्तिकम्

वक्ष्यमाणवितर्कैर्यमादिबाधने सति वक्ष्यमाणं प्रतिपक्षभावनं कुर्यादित्यर्थ: । तदेतद्वाचष्टे । यदास्येति । विपरीतास्तर्का विचारा येष्विति । वित्तर्कसञ्ज्ञाहिंसादिषु तान्त्रिकी । तर्कश्चात्र विषेणं, तथा च वितर्क्यमाणो हिंशादिर्वितर्कः, तेन बाधने स्वाभिमुखीकरणे प्रतिपक्षभावनम् उत्तरसूत्रवक्ष्यमाणं कुर्यादित्यर्थः, विपरीततर्कस्याकारमाह - हनिष्यामीत्यादिना इतीत्यन्तेन, एवं नियमपञ्चकेऽपि, त्यक्ष्याम्यहं शौचमित्यादयो वितर्काः द्रष्टव्याः युक्तिसाम्यात्, सूत्रतात्पर्यमाह - एवमिति । एवमुन्मार्गाभिमुखेन हिंसादिगतेन वितर्कज्वरेण ज्वलितेन बाध्यमानो योगी वितर्कविरोधिज्ञानविषयतया वितर्कप्रतिपक्षान् दुःखादिफलकत्वादीन् भावयेत् चिन्तयेदित्यर्थः ।

प्रतिपक्षभावनं व्याचष्टे । घोरेष्वित्यादिना भावयेदित्यन्तेन । वितर्कान् हिंसादीन् । अत्र दु:खफलत्वचिन्तनं वाक्यतात्पत्पर्यार्थः । तुल्यत्वमेव विवृणोति । यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनराददान इति मादि सूत्रान्तरेष्वपि योज्यम् ॥ ३३ ॥ वार्तिकम् योग-वार्त्तिकम्

यथेति । एवमादीति । वितर्कबाधने प्रतिपक्षभावनमित्येवमादिकं सूत्रान्तरेषु आसनप्राणायासूत्रेष्वपि योजनीयम् । आदिशब्देनास्य सूत्रस्य व्याख्या, उत्तरसूत्रं च ग्राह्यम् । आसनादिषु च वितर्का आसनादिकं त्यक्ष्य इत्यादिरूपा इति शेष: ।

इदानीं ये वितर्काः ये वा वितर्कस्य प्रतिपक्षाः यादृशं वा तच्चिन्तनं तत्त्रयमाह । वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ ३४ ॥ तत्र हिंसा तावत् – कृता कारिताऽनुमोदितेति त्रिधा। एकैका पुनस्त्रिधा लोभेन मांसचर्मार्थेन क्रोधेनापकृतमनेनेति मोहेन धर्मो मे भविष्यतीति। लोभक्रोधमोहाः पुनस्त्रिविधा मृदुमध्याधिमात्रा इति। एवं सप्तविंशतिर्भेदा भवन्ति हिंसायाः। मृदुमध्याधिमात्राः पुनस्त्रिधा - मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरिति। तथा मृदुमध्यो मध्यमध्यस्तीव्रमध्य इति। तथा मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति। एवमेकाशीतिभेदा हिंसा भवति। सा पुनर्नियमविकल्पसमुच्चयभेदादसङ्ख्येया, प्राणभृद्भेदस्यापरिसङ्ख्येयत्वादिति। एवमनृतादिष्वपि योज्यम्। वार्तिकम् योग-वार्त्तिकम्

हिंसादय इति । वितर्काणां स्वस्वरूपकथनं विशेषणत्रयेण । तत्तद्गतविशेषाणां कथनं सर्वर्थैव हेयत्वत्वप्रतिपादनाय । दुःखादिफलकत्वत्वकथनं च प्रतिपक्षकथनम् । प्रतिपक्षान् भावयेदितिपूर्वसूत्रीयभाष्यानुपपत्या प्रतिपक्षभावनमित्यन्तकर्मधारयासम्भवात् । शेषेण च भावनकथनमिति । दुःखाज्ञाने एवानन्ते फले येषामिति विग्रहः । विशेषणत्रयोक्तान् विशेषान् विवृणोति । तत्र हिंसेति । कृतेति । कृता वा कारिता वा अनुमोदितावेत्यर्थः । तत्र कृता स्वयं निष्पादिता, कारिता कुर्वित्युक्ता, अनुमोदितापरैः क्रियमाणा साधुसाध्वित्यङ्गीकृता । कृतादीनामपि द्वितीयविशेषणोक्तं त्रैविध्यं व्याचष्टे । एकैकेति । लोभेनेत्यस्य व्याख्या । मांसचर्मार्थेन मांसचर्मादिप्रयोजनेन तथा अपकृतमनेनेत्येवं क्रोधेन, तथा मोहेन यज्ञार्थहिंसया निर्दोषो धर्मो भविष्यतीत्येवंरूपेणेत्यर्थः । यद्यपि मृदुमध्याधिमात्रा इति हिंसादिविशेषणं सूत्रेऽस्ति, तथापि लोभादिर्मृदुत्वात्वादिनैव हिंसादेर्मृदुत्वादिकमत्र विवक्षितमर्थसौष्ठवमित्याशयेन लोभादिविशेषणतया मृदुत्वात्वादीन् व्याचष्टे । लोभक्रोधमोहा इति । लोभक्रोधमोहा एकैकाः पुनस्त्रिधा मृदुमध्याधिमात्रा इत्यर्थः । एवमित्यादि हिंसाया इत्यन्तमेकं वाक्यं मृदुमध्याधिमात्रत्वात्वात्ततोऽपि विशेष इति पूर्वपादीयसूत्रानुसारेण । यौक्तिकानपरान् विशेषान् स्वयमाह । मृदुमध्याधिमात्रा: पुनस्त्रिधेति । सर्वत्र तीव्रत्त्वमधिमात्रता, शेषं स्पष्टम् । सा पुनर्नियमेति । मत्स्येष्वेव हिंसेत्यादिर्नियमः । एकस्मिन् दिवसे स्थावरस्य जङ्गमस्य वान्यतरस्यैव हिंसा नोभयोरित्यादिर्विकल्पः । स्थावरजङ्गमयोरुभयोरेवाव्यवस्थया हिंसेत्यादिः समुच्चयः । इत्येवं नियमविकल्पसमुच्चयानामानन्त्यादसङ्ख्येयभेदेत्यर्थः । नियमाद्यानन्त्ये हेतुः, प्राणभृदिति । हिंस्यानां वाऽसङ्ख्यतया नियमादीनामनन्तप्रकारत्वत्वमित्यर्थः । एवमिति । हिंसायामिवानृतादिरूपवितर्केष्वपि कृतकारिता इत्यादिविभागा योजनीया इत्यर्थः । ते खल्वमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्। दुःखमज्ञानं चानन्तं फलं येषामिति प्रतिपक्षभावनम्। तथा च हिंसकस्तावत्प्रथमं वध्यस्य वीर्यमाक्षिपति। ततश्च शस्त्रादिनिपातेन दुःखयति। ततो जीवितादपि मोचयति। ततो वीर्याक्षेपादस्य चेतनाचेतनमुपकरणं क्षीणवीर्यं भवति। दुःखोत्पादान्नरकतिर्यक्प्रेतादिषु दुःखमनुभवति, जीवितव्यपरोपणात्प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नपि दुःखविपाकस्य नियतविपाकवेदनीयत्वात्कथञ्चिदेवोच्छ्वसिति। यदि च कथञ्चित्पुण्यावापगता हिंसा भवेत्तत्र सुखप्राप्तौ भवेदल्पायुरिति। एवमनृतादिष्वपि योज्यं यथासम्भवम्। एवं वितर्काणां चामुमेवानुगतं विपाकमनिष्टं भावयन्न वितर्केषु मनः प्रणिदधीत ॥ ३४ ॥ वार्तिकम् योग-वार्त्तिकम्

अज्ञानं चेति । अज्ञानं सम्मोहः हिंसातो द्वःखाज्ञाने यथा । भवतस्तदाह । तथा चेति । तथा हीत्यर्थ: । वीर्याक्षेपो बलानुनियमनम् । एवं त्रिप्रकारहिंसनां त्रिप्रकारमेव दुःखं हन्ता प्राप्नोति, कर्मानुरूपफलोदयादिति प्रतिपादयति । ततो वीर्येति । परस्य वीर्याक्षेपात्तस्य हन्तुरपि चेतनमुपकरणं स्त्रीपुत्रधनादिकं क्षीणवीर्यं कार्याक्षमं भवति । तथा परस्य शस्त्रादिना दु:खोत्पादनाद्धन्तापि नरकादिषु याम्यशस्त्रादिना दु:खमनुभवति । तथा परस्य जीवितव्यपरोपणात् प्राणवियोजनात्त तत्कर्तापि प्रतिक्षणं जीवितात्ययं रोगादिना मरणावस्थां सम्मोहमयीमापन्नो मरणमिच्छन्नपि कथञ्चिदेव जीवति । ननु तदानीमेव कथं मरणं न भवति तत्राह । दु:खविपाकस्येति । दु:खरूपस्य विपाकस्य प्रतिनियतजन्मादिविपाकैरेव भोग्यत्वात्वादित्यर्थ: । तदेतद्धिंसाया अनन्तदु:खाज्ञानफलत्वं गीतायामप्युक्तं

नानात्मपरमदेहेषु प्रद्विषन्तोभ्यसूयका: । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ॥

क्षिपाम्यजस्रमशुभानासुरीश्वेव योनिषु । इति ।

पुत्रा ह्यग्निविस्फुस्फुलिङ्गवत् पितुरंशाः । ‘आत्मा वै जायते पुत्र’हति श्रुते: । अत ईश्वरांशजीवेषु द्वेष ईश्वरद्वेष एव । किञ्च जीवानामप्यात्मा परमेश्वरः । अतः शरीरद्वेषेण शरीरिद्वेषवत् जीवद्वेशषेण परमेश्वारद्वेषो भवतीति भाव: । पुण्यावापगतेति । पुण्यकर्मरूपस्य बीजस्य चित्तभूमावावपने गता सहावापितेत्यर्थः । धान्यबीजवपने तृणबीजानां वपनवदिति भावः । भवेदल्पायुरिति । नन्वहिंसन्सर्वाणि भूतान्यन्यत्र तीर्थेर्थेभ्यः’ ‘तस्माद्यज्ञे वधोऽवध’ इत्यादिश्रुतिमृतिभिर्वैधहिंसातिरिक्तहिंसाया एव प्रतिषाधात् कथं वैधद्विंसाया अनिष्टसाधनत्वमुच्यत इति । अत्रोच्यते । कार्यत्वमिष्टसाधनत्वं वा विध्यर्थो न पुनरनिष्टाननुबन्धित्वमपि । राजत्वादिप्रापककर्मणां गर्भवासजन्याद्यनर्थहेतुतायाः सर्वसम्मतत्वात् । न च बलवदनिष्टाननुबन्धित्वमपि विध्यर्थो वक्तुं शक्यते । अनिष्टेषु पुरुषाणां बलवद्-द्वेषस्याव्यवस्थितेः । दुःखमेव सर्वं विवेकिन इत्युक्तत्वात् । किञ्च बलवदनिष्टाननुबन्धित्वस्य विध्यर्थत्वेपि यज्ञादिनान्तरीयकहिंसायाः सामान्यतोऽनिष्टजनकत्वश्रुत्यविरोधः । अपि चावैधहिंसात्यागस्य स्वर्गादिसाधनताबोधकविधिभिर्वैधहिंसायाः स्वर्गादिसाधनताबोधकविधिभिश्च सह हिंसाया मृत्य्वाद्यनिष्टहेतुताबोधकश्रुतिस्मृतीनां नास्त्येव विरोधो, येन तासु सङ्कोचः कल्प्येत अतो युक्तमुक्तं पुण्यावापगतानामपि हिंसानामनिष्टहेतुत्वम् । पुण्यावापगतहिंसास्वपि युधिष्ठिरादीनां प्रायश्चित्तश्रवणादप्ययमेव सिद्धान्त उन्नीयते ।

तस्माद्यास्याम्यहं तात दृष्ट्वेमं दु:खसन्निधिम् ।

त्रयीधर्मममधर्माढ्यं किम्पाकफलसन्निभम् ॥ इति मार्कण्डेयादिस्मृतिश्रुत्यादिभ्यश्च । अत एवं स्मर्यतेऽपि ।

सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखेषु तथोद्विजन्ति । तेषां भयोत्पादनजातखेदः कुर्यान्न कर्माणि हि जातवेद ॥ इति मोक्षधर्मादिष्विति ।

वधोऽवध इत्यादिवाक्यं तु वधाभासतापरमिति दिक् । एवमिति । अनृतादिष्वप्येवं दु:खाज्ञानफलकत्वं यथासम्भवं मरणादिकं विहाय योज्यमित्यर्थः । प्रतिपक्षभावनस्य प्रयोजनमाह । एवं वितर्काणामिति । अनुगतं नियतमेवमनिष्टं विपाकं वितर्काणां कार्यमेव चिन्तयन् योगी न वितर्केषु मनः प्रणिदधीत ददातीत्यर्थः ।

यमनियममित्यतिसूचकानां सिद्धान्तानां प्रतिपादकानि सूत्राणि अवतारयति प्रतिपक्षेति ।

ज्ञेया हातुमर्हा एवम्भूता वित्तर्का यदास्य योगिनः प्रतिपक्षभावनातो विषयसान्निध्यकालेऽप्यप्रसवस्वभावा भवन्ति, तदा तत्कृतं, वितर्कहानिकृतमैश्वर्यं यमादिनिष्पत्तिसूचकं भवतीत्यर्थः । तन्निष्पत्त्यवधारणे च तत्तद्भूमिषु यत्नं विहाय भूमिकान्तरेषु योगी यत्नमातिष्ठेतेत्येतत्प्रतिपादयितुं सर्वेष्वेव योङ्गागेषु सिद्धिकथनम् । तद्यथा तदैश्वर्य यथा । प्रतिपक्षभावनाद्धेतोर्हेया वितर्का यदाऽस्य स्युरप्रसवधर्माणस्तदा तत्कृतमैश्वर्यं योगिनः सिद्धिसूचकं भवति। तद्यथा – अहिंसाप्रतिष्ठायां तत्सन्निधा वैरत्यागः ॥ ३५ ॥ सर्वप्राणिनां भवति ॥ ३५ ॥ वार्तिकम् योग-वार्त्तिकम्

प्रतिष्ठायां स्थैर्ये उक्तवितर्कैरसंस्पर्श इति यावत् । तस्यां सत्यां तत्सन्निधिस्थानां सर्वप्राणिनां मार्जारमूषकादीनामन्योन्यवैरत्यागो भवतीत्यर्थः ॥ ३५ ॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६ ॥ धार्मिको भूया इति भवति धार्मिकः, स्वर्गं प्राप्नुहीति स्वर्गं प्राप्नोति। अमोघाऽस्य वाग्भवति ॥ ३६ ॥ वार्तिकम् योग-वार्त्तिकम्

सर्वप्राणिनां भवतीत्यत्रापि शेषः । क्रिया धर्मः तस्य फलं स्वर्गादि: तयोराश्रयत्वं सर्वप्राणिनां सत्यप्रतिष्ठस्य वचनाद्भवतीत्यर्थः । तदेतद् व्याचष्टे । धार्मिक इति । धार्मिको भूया इति वचनात् सम्बोध्यो धार्मिको भवतीत्यादिरर्थः । अमोघेति । एवं प्रकारेणास्य योगिनो वाक् सत्या भवतीत्यर्थः । अत्र वाक् मनसोऽप्युपलक्षणम् ॥ ३६ ॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७ ॥ सर्वदिक्स्थान्यस्योपतिष्ठन्ति रत्नानि ॥ ३७ ॥ वार्तिकम् योग-वार्त्तिकम्

सर्वाभ्यो दिग्भ्यो रत्नोपस्थानं सर्वसर्वरत्नोपस्थानम् । तदेतद् व्याचष्टे । सर्वदिक्कानीति ॥ ३७ ॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८ ॥ यस्य लाभादप्रतिघान्गुणानुत्कर्षयति। सिद्धश्च विनेयेषु ज्ञानमाधातुं समर्थो भवतीति ॥ ३८ ॥ वार्तिकम् योग-वार्त्तिकम्

शक्तिविशेषं लक्षयति । यस्येति । यस्य वीर्यस्य लाभात्प्रतीघातवर्जितान् गुणान् ज्ञानक्रियाशक्तीरुत्कर्षयति योगी वर्धयति तथा सिद्धद्ध: स्वयं ज्ञानी भूत्वा शिष्येषु ज्ञानाधानसमर्थश्च भवतीत्यर्थः ॥ ३८ ॥ अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ ३९ ॥ अस्य भवति। कोऽहमासं कथमहमासं किंस्विदिदं कथं स्विददं के वा भविष्यामः कथं वा भविष्याम इत्येवमस्य पूर्वान्तपरान्तमध्येष्वात्मभावजिज्ञासा स्वरूपेणोपावर्तते। एता यमस्थैर्ये सिद्धयः ॥ ३९ ॥ वार्तिकम् योग-वार्त्तिकम्

अपूर्वेण देहेन्द्रियादिसङ्घातेन ज्ञानहेतुः सम्बन्धो जन्म तस्य कथन्ता किम्प्रकारता तयोः सम्बोधः साक्षात्करो जन्मकथन्तासम्बोधः । तथा च शान्तोदिताव्यपदेश्यानां जन्मनां स्वरूपतः प्रकारतश्च जिज्ञासामात्रेण साक्षात्कारोऽपरिग्रहस्थैर्ये भवतीत्यर्थः । तदेतद् व्याचष्टे । अस्य भवतीति । इदं सूत्रेण सहान्वेति । कोऽहमासं कथमहमासमित्यतीतजन्मनः स्वरूपप्रकारयोर्जिज्ञासा किंस्विदित्यादिद्वयं वर्तमानजन्मनः स्वरूपप्रकारजिज्ञासा, के वा भविष्याम इत्यादिद्वयं च भाविजन्मन इति । पूर्वापरान्तमध्या: भूतभविष्यद्वर्त्तमानकालाः तेष्वस्य योगिनः स्वजन्मजिज्ञासोत्पन्नमात्रैवस्वरूपेण स्वविषयेण ज्ञानेन उपावर्तते । विशिष्टा भवति नास्त्यत्र साधनापेक्षेत्यर्थः । स्वतः सर्वार्थग्रहणयोग्यस्यापि चेतसोऽतीतादीनां स्वावस्थानामग्रहणं परिग्रहव्यासङ्गदोषादतो परिग्रहस्थैर्यात्ताः क्षणं प्रणिधानमात्रेणैव गृह्यन्त इति भावः ॥ ३९ ॥ नियमेषु वक्ष्यामः – शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४० ॥ स्वाङ्गे जुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर्भवति। किं च परैरसंसर्गः कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृज्जलादिभिराक्षालयन्नपि कायशुद्धिमपश्यन्कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्येत ॥ ४० ॥ वार्तिकम् योग-वार्त्तिकम्

शौचात् शौचस्थैर्यात् । अनेन सूत्रेण बाह्यशौचस्थैर्यस्य सिद्धिरुच्यते, जुगुप्सा कुत्सा अशुचित्वदोषदर्शनं, तस्याशेषतः साक्षात्कार इति यावत् । शौचास्वाङ्गजुगुप्सायां युक्तिमप्याह । स्वाङ्ग इति । यतः पूर्वमल्पजुगुप्सया शौचमभ्यस्तमतोऽतिशयितजुगुत्साशौचफलं युक्तेत्याशयः । जुगुप्सां विवृणोति । कायेति । अवद्यं दोषः । तज्ज्ञानस्य फलमाह । कायानभिष्वङ्गीति । शेषं सुगमम् ।

अन्तः शौचस्य सिद्धिद्धिसूचकं सूत्रमवतारयति । किञ्चेति ॥ ४० ॥ किं च – सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ ४१ ॥ भवन्तीति वाक्यशेषः। शुचेः सत्त्वशुद्धिस्ततः सौमनस्यं तत ऐकाग्र्यं तत इन्द्रियजयस्ततश्चाऽऽत्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीत्येतच्छौचस्थैर्यादधिगम्यत इति ॥ ४१ ॥ वार्तिकम् योग-वार्त्तिकम्

एतेषु क्रमं दर्शयति । शुचेरिति । क्षालितचित्तमलस्य सत्त्वशुद्धि: सत्त्वोद्रेको भवति, ततः सौमनस्यं प्रीतिः, स्वत एवानन्दो जायते, ततश्च प्रीतचित्तस्याविक्षेपादैकाग्र्यम्, तत इन्द्रियजय: ततश्चात्मदर्शनयोग्यत्वमिति । सूत्रद्वयार्थमुपसंहरति । एतदिति । एतत्सूत्रद्वयोक्तं शौचसामान्यस्य स्थैर्यात्प्राप्यते इत्यर्थः ॥ ४१ ॥ सन्तोषादनुत्तमः सुखलाभः ॥ ४२ ॥ तथा चोक्तम् – यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ इति ॥ ४२ ॥ वार्तिकम् योग-वार्त्तिकम्

अभिष्वङ्गः प्रीतिरिति पुस्तकान्तरेऽधिकम् । नास्त्युत्तमं सुखं यस्मात्तादृशसुखस्य लाभः सन्तोषस्थैर्याद्भवतीत्यर्थ: । तृष्णाक्षयो हि सन्तोषः तृष्णाप्रतिबन्धापगमे च चित्तस्य स्वाभाविकसत्त्वाधिक्यनिमित्तिका सुखस्वभावता स्वत एवाविर्भवति न तत्सुखे विवयापेक्षेति तन्निर्विषयं शान्तिसुखम् आत्मसुखमुच्यते ।

‘ते येशतं प्रजापतेरानन्दाः । स एको ब्रह्नण आनन्दः । श्रोत्रियस्य चाकामहतस्ये’त्यादिश्रुते: ।

ईश्वरस्य पूर्णकामत्वात्, श्रोत्रियस्य च ज्ञानेन कामक्षयादुभयोरेव वैतृष्णस्य तुल्यतयासमानं सुखमित्याशयः । बुद्धे: सत्त्वात्मकतया सुखस्वभावत्त्वेन जीवेऽपि नित्यं सुखमिदमेव गीयते स्वाभाविकस्य यावद्द्रव्यभावित्वात्, तमसा पिहितत्वेन च सदानभिव्यक्तत्वात्, न पुनश्चितिरेव सुखस्वरूपिणी चिन्मात्रत्वश्रुतिस्मृतिसूत्रविरोधादेरुक्तत्वात् इति । सन्तोषादभिव्यक्तसुखस्यानुत्तमत्वे स्मृतिमुदाहरति । तथा चोक्तमिति । कामसुखं कामेभ्यो लौकिकविषयेभ्य: सुखं दिव्यं सङ्कल्पमात्रोत्थविषयजं सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ती’त्यादिश्रुतेः तृष्णाक्षयसुखस्य तृष्णक्षयाभिव्यक्तसुखस्येत्यर्थः । विदेहकैवल्ये तु सुखवाक्यानि दु:खनिवृत्त्या गौणानीति ॥ ४२ ॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥ ४३ ॥ निर्वर्त्यमानमेव तपो हिनस्त्यशुद्ध्यावरणमलं तदावरणमलापगमात्कायसिद्धिरणिमाद्या। तथेन्द्रियसिद्धिर्दूराच्छ्रवणदर्शनाद्येति ॥ ४३ ॥ वार्तिकम् योग-वार्त्तिकम्

व्याचष्टे । निर्वर्त्यमानमिति । अशुद्धिरधर्मस्तामसो गुणः सैवाणिमादिशक्तेरावरको मत इत्यर्थः । अणिमादिसिद्धीर्विभूतिपादे व्याख्यास्यति । शेषं सुगमम् ॥ ४३ ॥ स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥ ४४ ॥ देवा ऋषयः सिद्धाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति,कार्ये चास्य वर्तन्त इति ॥ ४४ ॥ वार्तिकम् योग-वार्त्तिकम्

सम्प्रयोगो दर्शनं यां देवतां द्रष्टुमिच्छति सैव दृश्या भवतीत्यर्थः । सुगमं भाष्यम् ॥ ४४ ॥ समाधिसिद्विरीश्वरप्रणिधानात् ॥ ४५ ॥ ईश्वरार्पितसर्वभावस्य समाधिसिद्धिर्यया सर्वमीप्सितमवितथं जानाति देशान्तरे देहान्तरे कालान्तरे च। ततोऽस्य प्रज्ञा यथाभूतं प्रजानातीति ॥ ४५ ॥ वार्तिकम् योग-वार्त्तिकम्

व्याचष्टे । ईश्वरेति । ईश्वरेऽर्पितः सर्वभावः सर्वव्यापारो येन तस्य समाधिसिद्धिर्योगनिष्पत्तिर्यथा येन प्रकारेणेश्वरानुग्रहतो भवति युक्तीत्यधिकं पुस्ताकान्तरे । तदुच्यते, आदौ तावद् देशाद्यन्तरस्थमपि ध्येयं सर्वं श्रवणमननकाले यथार्थमेव जानाति । गुरुवाक्यादावविपर्यस्तं भवति । ततोऽस्य योगिन: प्रज्ञा समाधिकालेऽपि यथार्थमेव साक्षात्करोतीत्यर्थः । एवं सम्प्रज्ञातसिद्धावसम्प्रज्ञातसमाधिः स्वयमेव सिध्यतीति तत्र प्रदर्शितम् । न चेश्वरप्रणिधानादेव योगनिष्पत्तावितराङ्गवैयर्थ्यमिति वाच्यम् । ईश्वरप्रणिधानस्य मोहमात्रनिवृत्तिद्वारत्ववचनात् । द्वारान्तरेण त्वङ्गान्तराणां समाधिसाधनत्वसम्भवात् । अपि च ईश्वरप्रणिधानेनैव निर्विघ्नं सर्वाण्यङ्गानि सम्पाद्य समाधिं जनयतीति नान्याङ्गवैफल्यम् । अथवा अन्यान्यङ्गानीश्वरप्रणिधानद्वारा समाधिं निष्पादयन्ति इतराङ्गानां च स्वतो नैतादृशी शक्तिरस्ति इत्याशयेनेश्वरप्रणिधानस्यैव तु मुख्यतः समाधिसाधकत्वं सूत्रितमिति बहिरङ्गत्वं त्वस्य संयमद्वारकतया अनावश्यकतया च वक्ष्यतीति ।

सूत्रान्तरमवतारयति । उक्ता इति ॥ ४५ ॥ उक्ताः सह सिद्धिभिर्यमनियमाः। आसनादीनि वक्ष्यामः। तत्र – स्थिरसुखमासनम् ॥ ४६ ॥ तद्यथा पद्मासनं भद्रासनं स्वस्तिकं दण्डासनं सोपाश्रयं पर्यङ्कं क्रौञ्चनिषदनं हस्तिनिषदनमुष्ट्रनिषदनं समसंस्थानं स्थिरसुखं यथासुखं चेत्येवमादीनि ॥ ४६ ॥ वार्तिकम् योग-वार्त्तिकम्

स्थिरं निश्चलं सुखकरं च यत्तदासनम् आस्यतेऽनेन प्रकारेणेत्यासनमित्यर्थः । आसनस्य भेदानाह । तद्यथेति । तत्र पद्माद्यासनचतुष्टयस्य लक्षणं वसिष्ठेनोक्तम् ।

अङ्गुष्ठौ सन्निबध्नीयात् हस्ताभ्यां व्युत्क्रमेण तु । ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतले उभे ॥

पद्मासनं भवेदेतत् सर्वेषामेव पूजितम् ।

एकपादमथैकस्मिन् विन्यस्योरौ च संस्थितः

इतरस्मिंस्तथा पादं वीरासनमुदाहृतम् ।

अस्यैवार्द्धामर्द्धासनमप्युच्यते, तथा-

गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । पार्श्वपादौ च पाणिभ्यां दृढं बध्वा सुनिश्चल: ॥

भद्रासनं भवेदेतत्सर्वव्याधिविषापहम् । जानूर्वोरन्तरे सम्यक् कृत्वात्वा पादतले उभे ॥

ऋजुकायः सुखासीनः स्वस्वस्तिकं तत्प्रचक्षते । इति ।

इतराण्यासनानि योगप्रदीपाद्युक्तानि सङ्क्षेपात्कथ्यन्ते । दण्डासनम् - उपविष्य भूमिश्लिष्टजङ्गोरुपादौ प्रसाद्यं दण्डवच्छयनम् । सोपाश्रयं योगपदयोगेनोपवेशनम् । पर्यङ्कं च जानुप्रसारितबाहोः शयनम् । क्रौञ्चनिषदनादीनि क्रौञ्चादीनां निषण्णानां संस्थानदर्शनात् प्रत्येतव्यानि । जान्वोरुपरि हस्तौ कृत्वा कायशिरोग्रीवाणामवक्रभावेनावस्थानं समवस्थानम् । स्थिरमुखं च सूत्रोपात्तं, तस्य व्याख्यानं यथासुखमिति । आदिशब्देन मायूराद्यासनानि ग्राह्याणि । यावत्यो जीवजातयस्तावन्त्येवासनानीति सङ्क्षेपः ॥ ४६ ॥ प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ ४७ ॥ भवतीति वाक्यशेषः। प्रयत्नोपरमात्सिध्यत्यासनं येन नाङ्गमेजयो भवति। अनन्ते वा समापन्नं चित्तमासनं निर्वर्तयतीति ॥ ४७ ॥ वार्तिकम् योग-वार्त्तिकम्

आसनस्थैर्यस्योपायमाह ।

प्रयत्नशैथिल्यस्य द्वारमाह । येन नाङ्गेति । बहुव्यापारानन्तरं चेदासनं क्रियते तदाङ्गकम्पनादासनस्थैर्यं न भवतीत्याशयः । अनन्तेति । अथवा प्रयत्नशालित्वेपि पृथिवीधारिणि स्थिरतरशेषनागे समापन्नं तद्धारणया तदात्मतापन्नं चित्तमासनं निष्पादयतीत्यर्थः । तच्चानन्तानुग्रहाद्वासजातीयभावनावशाद्वादृष्टविशेषवशाद्वेत्यन्यदेतत् ॥ ४७ ॥ ततो द्वन्द्वानभिघातः ॥ ४८ ॥ शीतोष्णादिभिर्द्वन्द्वैरासनजयान्नाभिभूयते ॥ ४८ ॥ वार्तिकम् योग-वार्त्तिकम्

आसनप्रतिष्ठायां सिद्धिमाह ।

भाष्यं सुगमम् ॥ ४८ ॥ तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ ४९ ॥ सत्यासनजये बाह्यस्य वायोराचमनं श्वासः, कौष्ठ्यस्य वायोर्निःसारणं प्रश्वासः, तयोर्गतिविच्छेद उभयाभावः प्राणायामः ॥ ४९ ॥ वार्तिकम् योग-वार्त्तिकम्

क्रमप्राप्तं प्राणायाममाह ।

वक्ष्यमाणचतुर्विधप्राणायामस्यैवं सामान्यलक्षणं गतिविच्छेदः । शास्त्रोक्तरीत्या स्वाभाविकगतेः प्रतिषेध इत्यर्थः । स च रेचकपूरककुम्भकेष्वनुगतः । नन्वेवं प्रत्येकस्यापि प्राणायामत्वापत्या त्रिभिर्मिलित्वैकप्राणायाम इति ‘प्राणायामस्तु विज्ञेयो रेचकपूरककुम्भकै’रित्यादिवाक्योक्तं व्याहन्येतेति चेन्न । त्रयाणां पौर्वापर्येण प्रथमभूमिकायां सहानुष्ठाननियमादेकत्वव्यहारोपपत्तेः । न तु तादृशवाक्येषु मिलितानामेव प्राणायामत्वं विवक्षितम् ।

रेचकं पूरकं त्यक्त्वा सुखं यद्वायुधारणम् ।

प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः ॥ इति वासिष्ठसंहितादौ केवलकुम्भकस्यापि प्राणायामत्यवचनादिति । इदं सूत्रं व्याचष्टे । सत्यासन इति । यथा यमनियमयोरन्यकालकृतयोर्योगाङ्गत्वं नैवमासनस्य, किन्तु प्राणायामाद्यपञ्चकसाहित्येनेति एतत् प्रतिपादयितुं सत्यासने इति विशेषणं, तथा च सत्यासन इति समाधिसूत्रपर्यन्तम् अनुवर्तनीयम् । गीतादावासनोपरागेणैव ध्यानादिस्मरणादिति । अत एव चासनादीनां षडङ्गानां सहानुष्ठेयत्वेनारादुपकारकतयान्तरङ्गत्वमित्याशयेन स्मृत्यादिषु क्वचित्प्रसङ्गो योग उच्यते । यमनियमयोः कालान्तरीयतयात्यन्तबहिरङ्गत्वादिति । आचमनमन्तःप्रवेशः । नन्वेवं प्रवेशनिर्गमरूपयोः श्वासप्रश्वासयोः गतिरेव नास्तीत्याशयेनाह । उभयाभाव इति । तथा च गतिशब्दार्थोऽत्र न विवक्षितः स्वाभाविकश्वासप्रश्वासयोः प्रतिषेधः प्राणायाम इत्येवार्थः ।

अवान्तरभेदप्रतिपादकमुत्तरसूत्रं पूरयित्वोत्थापयति । स त्विति ॥ ४९ ॥ स तु – बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ ५० ॥ यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः। यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः। तृतीयः स्तम्भवृत्तिर्यत्रोभयाभावः सकृत्प्रयत्नाद्भवति। यथा तप्ते न्यस्तमुपले जलं सर्वतः सङ्कोचमापद्यते तथा द्वयोर्युगपद्गत्यभाव इति। त्रयोऽप्येते देशेन परिदृष्टा इयानस्य विषयो देश इति। कालेन परिदृष्टाः क्षणानामियत्तावधारणेनावच्छिन्ना इत्यर्थः। सङ्ख्याभिः परिदृष्टा एतावद्भिः श्वासप्रश्वासैः प्रथम उद्धातस्तद्वन्निगृहीतस्यैतावद्भिर्द्वितीय उद्धात एवं तृतीयः। एवं मृदुरेवं मध्य एवं तीव्र इति सङ्ख्यापरिदृष्टः। स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः ॥ ५० ॥ वार्तिकम् योग-वार्त्तिकम्

स तु प्राणायामो बाह्यवृत्तिराभ्यन्तरवृत्तिस्तम्भवृत्तिरिति त्रिविधः रेचकपूरककुम्भकभेदात् । तदुक्तं विष्णुपुराणे ।

परस्परेणाभिभवं प्राणापानौ यदानिलौ । कुरुतः स द्विधा तेन तृतीयः संयमात्तयोः ॥ इति ।

स च त्रिविधः । प्राणायामो देशकालसङ्ख्याभिः परिदृष्टो निर्णीतो नियमितो भवति तदाभ्यासवशात् क्रमेण दीर्घसूक्ष्मसञ्ज्ञको भवतीति सूत्रार्थः । तदेतद्वाचष्टे । यत्रेति । विशेषाणां सामान्यनिष्ठत्वात् इयं सप्तमी । यत्र प्राणायामे गतिविच्छेदे प्रश्वासपूर्वकगत्यभावः.प्रश्वासेन रेचकेन गतिविच्छेदः स बाह्यो बाह्यवृत्तिः प्राणायामो रेचकनामित्यर्थः । न च रेचनं बाह्य इत्येवास्त्विति वाच्यम् । प्राणस्यायामः प्राणायाम इति योगादरेणायामाख्यनिरोधस्य विशेष्यीकरणादिति । यत्र श्वासेति । यत्र श्वासेन पूरकेण गत्यभावः स आभ्यन्तरः, आभ्यन्तरवृत्तिः प्राणायामः पूरकनामेत्यर्थः । स्तम्भवृत्तिरिति । यत्रोभयाभावः श्वासप्रश्वासयोरभावः सकृत्प्रयत्नादेवाभ्यासनिरपेक्षाद्भवति स स्तम्भवृत्तिः प्राणायामः कुम्भकनामेत्यर्थः । वक्ष्यमाणस्य कुम्भकभेदस्य चतुर्थप्राणायामस्य व्यावर्त्तनाय सकृत्प्रयत्नादिति विशेषणम् । स हि प्रयत्नबाहुल्येनैव भवतीति, तत्रैव प्रतिपादयिष्यति । एकदैव बाह्याभ्यन्तरप्राणविलापने दृष्टान्तमाह । यथा तप्त इति । द्वयोर्बाह्याभ्यन्तरदेशयोः । देशकालसङ्ख्याभिः परिदृष्ट इति विशेषणस्ययायमर्थः । एतावद्देशेन वा एतावत्कालेन वा एतावन्मात्रसङ्ख्याभिर्वावच्छिन्नो मया रेचकादिः कर्त्तव्य इत्येवमवधारित इति । तदेतद्विभज्य व्याचष्टे । त्रयोप्येत इति । त्रयो रेचक्रपरककुम्भकाः । इयानिति । नासाग्रात् प्रादेशद्वादशाङ्गुलहस्तादिपरिमितो बाह्यदेशो रेचकस्य विषयः स चेषीकातूलादिक्रियानिश्चेयः । पूरकस्य चापादतलमामस्तकमाभ्यन्तरो विषयः स च पिपीलिकास्पर्शसदृशेन स्पर्शेन निश्चेयः । कुम्भकस्य रेचकपूरकयोः बाह्याभ्यन्तरदेशौ समुच्चितावेव विषयः उभयत्रैव प्राणस्य विलयात् । स च तूलस्य क्रियाया उक्तस्पर्शस्य चानुपलब्ध्या निश्चेय इति । कालेनेति । चक्षुर्निमेषावच्छिन्नस्य कालस्य चतुर्थभागः क्षणः, तेषामियत्तावधारणेनावच्छिन्नाः एतावत्क्षणरेचकादिः कर्त्तव्य इति नियमिता इत्यर्थः । सङ्ख्याभिरिति । मात्राणां द्वादशादिसङ्ख्याभिरित्यर्थः । यद्यपि सङ्ख्याभिरपि कालनियम एव क्रियते । तथापि प्रकारभेदाद्भेद इति । तत्र हि शङ्खध्वन्यादिना कालनियमः क्रियते, स कालेन परिदृष्टः, यत्र च वक्ष्यमाणयमात्रासङ्ख्याभिः कालनियमः क्रियते स सङ्ख्याभिः परिदृष्ट इति । सङ्ख्यार्थं मात्रा च मार्कण्डेयप्रोक्ता ।

निमेषोन्मेषणे मात्रा तालो लघ्वक्षरं तथा । प्राणायामस्य सङ्ख्यार्थं स्मृतो द्वादशमात्रिकः ॥ इति ।

निमेषादिलघ्वक्षरान्तं मात्राप्रमाणं तदेव दर्शयत्युत्तरार्द्धेन द्वादशमात्रिको द्वादशगुणितो यः कश्चन निमेषादिरयं पदार्थः प्राणायामस्य सङ्ख्यार्थं स्मृत इत्यर्थः । एवं प्रणवादयोऽपि मात्रा वसिष्ठयज्ञिवल्क्यादिभिरुक्ताः । पूरकादिष्वेव द्वादशमात्रेत्ययमधमः कल्पः । यतः पूरकादिषु प्रत्येकं मात्रायाः सङ्ख्याभेदो वसिष्ठसंहितायामुक्तः ।

एवं ज्ञात्वा विधानेन प्रणवेन समाहितः । प्राणायामत्रयं कुर्यात्पूरकुम्भकरेचकैः ॥

आकृष्य श्वसनं बाह्यात् पूरयेदिडयोदरम् । शनै! षोडशमात्राभिरुकारं तत्र संस्मरन् ॥

मकारं मूर्त्तिमत्रापि संस्मरन् प्रणवं जपेत् । धारयेत् पूरितं पश्चात् चतुःषष्टया त मात्रया ॥

यावद्वा शक्यते तावद्धारणं जपसंयुतम् । पूरितं रेचयेत्यश्चात् प्रणवं ह्यनिलान्वितम् ॥

शनैः पिङ्गलया पुत्र! द्वात्रिंशन्मात्रया पुनः । ध्यायन्नाद्याक्षरं तत्र प्रणवस्य समाहितः ॥ इति ।

अकारोकारमकाराणां मूर्त्तयो ब्रह्मविष्णुरुद्रशरीराणि, तमेतं पुराणयुक्तं मात्राभेदं सामान्यतो भाष्यकार आह । एतावद्भिरित्यादिना । एतावद्भिः षोडशादिभिः मात्राख्यैः पदार्थैः निमेषोन्मेषणादिभिः । श्वासप्रवेशः पूरकः प्रथम उद्धातः । वायोरुद्धननं गतिनिरोध इति यावत् । तथा निगृहीतस्य स्तम्भितस्य वायोरेतावद्भिश्चतुःषष्ट्यादिभिर्निमेषोन्मेषणादिभिः कुम्भको द्वितीय उद्धातः । एवं तृतीय उद्धातोऽर्थाद्रेचक, एतावद्भिर्द्वात्रिंशदादिभिर्निमेषोन्मेषणादिभिरित्यर्थः । अत्र प्रथमादिशब्दैः पूरकादित्रये क्रमवचनात सैत्रः पाठक्रमोऽनुष्ठाने नादर्त्तव्यः । तथा च पूरककुम्भकरेचका इत्येवौत्सर्गिकोऽनुष्ठानक्रमः, पुराणादिषु बाहुल्येन दर्शनाच्च । सृष्टौ महदादिक्रमवदिति । प्रकारान्तरेणापि सङ्ख्यापरिदृष्टत्वमाह । एवं मृदुरित्यादिना । एवम् एतावद्भिमात्राप्रमाणैर्मृदुः प्राणायामः, एवम् एतावद्भिर्मध्यमः, एवमेतावद्भिस्तीव्रः प्राणायाम इत्यपि सङ्ख्यापरिदृष्टो भवतीत्यर्थः । तदुक्तं कौर्म ।

मात्राद्वादशको मन्दश्चतुर्विंशतिमात्रकः । मध्यमः प्राणसंरोधः षट्त्रिंशन्मात्रिकोऽन्तिमः ॥ इति ।

अत्र पूरकादिविशेषावचनात् त्रिष्वपि प्राणायामेषु द्वादशद्वादशमात्रादिरूपैकैव सङ्ख्या इत्येवं पृथक्कल्पः । देशकालसङ्ख्याभिः परिदृष्ट इत्यत्र चेच्छाविकल्प एव न तु समुच्चयः उदाहृतवसिष्ठवाक्यादौ केवलमात्रासङ्ख्यायामपि प्राणायामदर्शनात् । समुच्चयानुष्ठाने तु फलभूमा भवत्येव भूयसि भूय इति न्यायादिति । दीर्घसूक्ष्म इति दत्तं व्याचाष्टे । स खल्विति । स बाह्याभ्यन्तरस्तम्भवृत्तिस्त्रिविधः प्राणायामः । एवं देशाद्यवधारणैरभ्यस्तः स दीर्घसूक्ष्मसञ्ज्ञको भवतीत्यर्थः । दीर्घश्चासौ सूक्ष्मश्चेति सान्वयेयं सञ्ज्ञा, देशाद्यन्यतमनियमेन हि प्रत्यहमभ्यस्यमानः क्रमेण कालवृद्ध्या दीर्घकालव्यापित्वेन दीर्घो भवति, वायुसञ्चारस्यातिसूक्ष्मतया च सूक्ष्म इति । यद्यपि अभ्यस्त इति सूत्रे नास्ति तथापि दीर्घसूक्ष्मसञ्ज्ञयाअर्थाक्षिप्त एव भाष्यकारेण व्याख्यात इति । तदेवं प्राणायामस्य रेचककुम्भकपूरकाख्यविशेषत्रयमभ्यासाख्यगुणयोगेन तेषां दीर्घसूक्ष्मत्वं चोक्तम् ॥

इदानीं केवलकुम्भकरूपं प्राणायामस्य चतुर्थं विशेषमाह ॥ ५० ॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१ ॥ देशकालसङ्ख्याभिर्बाह्यविषयपरिदृष्ट आक्षिप्तः। तथाऽऽभ्यन्तरविषयपरिदृष्ट आक्षिप्तः। उभयथा दीर्घसूक्ष्मः। तत्पूर्वको भूमिजयात्क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः। तृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः। चतुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात्क्रमेण भूमिजयादुभयाक्षेपपूर्वको गत्यभावश्चतुर्थः प्राणायाम इत्ययं विशेष इति ॥ ५१ ॥ वार्तिकम् योग-वार्त्तिकम्

बाह्याभ्यन्तरविषयकौ बाह्माभ्यन्तरवृत्ती पूर्वसूत्रोक्तौ रेचकपूरकौ तत्राक्षेपी अतिक्रमी तावतिक्रम्य त्यक्त्वा स्वयमेव केवलो वर्त्तत इति यावत् । एवम्भूतो यः प्राणायामः स चतुर्थ इत्यर्थः । अस्य

च केवलकुम्भक इति सञ्ज्ञा वसिष्ठवाक्याद् व्यक्तीभविष्यति । पूर्वसूत्रोक्तस्तम्भवृत्तिस्तु नियमेन रेचकपूरकयोरन्तराल एव वर्त्तत इति न तदतिक्रमी? रेचकपूरकविषयातिक्रमस्यापि लाभाय विषयघटितं लक्षणमुक्तम् । न तु रेचकपूरकातिक्रमीत्येवं सूत्रितम् ।

अयं च कुम्भको न रेचकपूरकदेशेन परिच्छिन्नः व्यापकत्वात्वात्, नापि कालसङ्ख्याभ्यां परिच्छिन्नः स्वेच्छया माससंवत्सरादिकालस्थायित्वात् । स च प्राणायामो ध्रुवस्य विष्णुपुराणो श्रूयते ।

तस्य हि तपसि प्राणनिरोधेन सर्वजीवप्राणनिरोधोऽभवदिति तत्रोक्तम् । अतस्तस्य केवलकुम्भक आसीदिति । अयं चतुर्थः प्राणायामः सोपायो वसिष्ठसंहितायामुक्तः । यथा ।

प्रस्वेदं जनयेद्यस्तु प्राणायामो हि सोऽधमः । मध्यमः कम्पनात्प्रोक्त उत्थानं चोत्तमे भवेत् ॥

पूर्वं पूर्वं प्रकुर्वीत यावदुत्तमसम्भवः । निश्वासोच्छ्वासकौ देहे स्वाभाविकगुणावुभौ ॥

तथापि नश्यश्यतस्तेन प्राणायामोत्तमेन हि । तयोर्नाशे समर्थः स्यात् कर्त्तुं केवलकुम्भकम् ॥

रेचकं पूरकं त्यक्त्वा मुख्यं यद्वायुधारणम् । प्राणायामोयमित्युक्तः स वै केवलकुम्भकः ॥

सहितं केवलं वापि कुम्भकं नित्यमभ्यसेत् ।

यावत्केवलसिद्धिः स्यात् तावत्सहितमभ्यसेत् ।

केवले कुम्भके सिद्धे रेचपूरकवर्जिते । न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते ॥ इति ।

आकाशगमनादिशक्त्यात्रिभावेण कामगत्वादिकं स्यादित्यर्थः । चतुर्थस्योत्पत्तिक्रमं कथयति । देशकालेति । बाह्यविषयो रेचको देशकालसङ्ख्याभिरादौ परिदृष्टः, पराच्च देशादिभिः सहैवाक्षिप्तोऽतिक्रामितो भवतीति शेषः । अतश्च सूत्रे

देशवाचको विषयशब्दः कालसङ्ख्ययोरप्युपलक्षणमित्याशयः । तथा आभ्यन्तरविषयः पूरकोपिदेशादिभिरादौ परिदृष्टः पश्चाद्देशादिभिः सहैव सोऽप्याक्षिप्तो भवति । तच्चाक्षिप्तमुभयथा दीर्घसूक्ष्मो द्विविधो दीर्घसूक्ष्मश्चिरकालं देशादिभिरभ्यस्तौ रेचकपूरकाविति यावत् । तत्पूर्वकः तदुभयाक्षेपपूर्वकस्तदुभयमाक्षिपन्निति यावत् । अवान्तरालिकभूमिकाजयात् कालक्रमेण न तु शीघ्रम् उत्पद्यमान एवं भूत उभयोः श्वासप्रश्वासयोः गतिविच्छेदश्चतुर्थः प्राणायाम इत्यर्थः । स्तम्भवृत्याख्यतृतीयप्राणायामात् मिश्रकुम्भकादस्य वैलक्षण्यमाह । तृतीयस्त्विति । तृतीयस्तु गत्यभावः स्तम्भवृत्तिर्विषयेण देशेन तदुपलक्षितकालसङ्ख्याभ्यां चानालोचितोऽनवधारितः सकृदारब्धोऽभ्यासबाहुल्यं विनैवोत्पत्पद्यमानश्च भवति । तथा स एव तृतीयो देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मश्च भवतीति सामान्यविशेषाभ्यां तृतीयस्य रूपद्वयमुक्तम् । चतुर्थस्यतद्विपरीततामाह । चतुर्थस्त्विति । चतुर्थस्तु श्वासप्रश्वासयोः रेचकपूरकयोर्देशाख्यविषयाद्यवधारणानन्तरं क्रमिकभूमिजयाद्धेतोः पूरकरेचकाक्षेपपूर्वको गत्यभाव इत्ययं चतुर्थप्राणायामे तृतीयाद्विशेष इत्यर्थः । प्राणायामस्य चापरे सगर्भागर्भादयो विशेषाः पुराणादिषु द्रष्टव्याः । जपध्यानयुतोऽगर्भो त्वगर्भस्तद्विवर्जित’ इत्यादिवाक्यैरिति दिक् ।

योगे जनयितव्ये प्राणायामस्य व्यापारं तत्सिद्धिसूचकमाह ॥ ५१ ॥ ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥ प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म। यत्तदाचक्षते – महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वमावृत्य तदेवाकार्ये नियुङ्क्त इति। तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद्दुर्बलं भवति प्रतिक्षणं च क्षीयते। तथा चोक्तम् – “तपो न परं प्राणायामात्ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्य” इति ॥ ५२ ॥ वार्तिकम् योग-वार्त्तिकम्

ततः प्राणायामात् । भूत्रं व्याचष्टे । प्राणायामानिति । विवेकज्ञानावरणीयं विवेकज्ञानावरकम्, अथवा कोपनीयेत्यादिवत् अत्रापि कर्त्तरि कृत्यप्रत्ययः भव्यगेयप्रवचनीयादीनां कर्त्तरि निपातनस्य दिङ्मात्रप्रदर्शनपरत्वात् । कर्मेति । कर्माधर्मः तस्य ज्ञानप्रतिबन्धकत्वमेव ज्ञानावरकत्वमेतादृशं कर्म क्षीयत इत्यर्थः । कर्मणो ज्ञानावरकत्वे पूर्वाचार्यवाक्यं प्रमाणयति । यत्तदाचक्षत इति । यत्तत्कर्म एवमाचक्षते । महामोहो रागस्तन्मयेन तत्प्रचुरेणेन्द्रजालतुल्येन शब्दादिविषयेण द्वारेण प्रकाशशीलमपि बुद्विसत्त्वमावृत्य तदेव कर्मैवाकार्ये संसारहेतुव्यापारे एव नियुङ्त्त इत्यर्थः । दुर्बलं प्रकाशावरणाक्षमं भवति । तथा प्रतिक्षणं क्षीयतेऽपचीयते चेत्यर्थः । तदुक्तं मनुना ।

दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ इति ।

दोषाः पापानि तत्कार्ये तमोमलविपर्ययौ च । तपः पापनाशकं कर्म । पापक्षये सति यद्भवति तदाह । तत इति । ततः पापाख्यकारणाभावान्मलानां तमसां तत्कार्यविपर्ययाणां चापगमे ज्ञानदीप्तिश्चेत्यर्थः । ननु तपसैव पापक्षय इत्युक्तं तर्हि किं प्राणायामेनेति चेन्न । ज्ञानावरकपापक्षये प्राणायामस्य श्रेष्ठोपायत्वात् । अत एव पूर्वपादे प्रकृष्टाधिकारिणः प्राणायाम एव साधनमुक्तं विक्षेपकतया तयोरन्तराभावेऽपि तेनैव योगनिष्पत्तिसम्भवादिति ।

अन्यच्च भवतीत्याह ॥ ५२ ॥ किं च – धारणासु च योग्यता मनसः ॥ ५३ ॥ प्राणायामाभ्यासादेव। प्रच्छर्दनविधारणाभ्यां वा प्राणस्य इति वचनात् ॥ ५३ ॥ वार्तिकम् योग-वार्त्तिकम्

प्रत्याहारसूत्रमवतारयति । अथ क इति ॥ ५३ ॥ अथ कः प्रत्याहारः – स्वविषयासम्प्रयोगे चितस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४ ॥ स्वविषयसम्प्रयोगाभावे चित्तस्वरूपानुकार इवेति, चित्तनिरोधे चित्तवन्निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवदुपायान्तरमपेक्षन्ते। यथा मधुकरराजं मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनु निविशन्ते तथेन्द्रियाणि चित्तनिरोधे नीत्येष प्रत्याहारः ॥ ५४ ॥ वार्तिकम् योग-वार्त्तिकम्

जितेन्द्रियस्य हि ध्यानकाले चक्षुरादीन्यपि ध्येयवस्त्वाकारेण चित्तेन तुल्याकाराणीव भवन्ति, न स्वातन्त्र्येण विषयान्तरं मनसैकीभुय सङ्कल्पयन्ति, तथा चित्ते निरोधोन्मुखे सति प्रयत्नान्तरं विनैव निरुद्धानि भवन्ति अतस्तस्येन्द्रियाणि चित्तानुकारीणीत्युच्यन्ते । अजितेन्द्रियस्य तु चक्षुरादीनि तदानीमपि रूपादिषु मनसैव धावन्ति अतश्चित्तमेवेन्द्रियानुकारि भवति ।

इन्द्रियाणां हि सर्वेषां यद्येकं क्षरतेन्द्रियम् । तेनास्य द्रवते प्रज्ञा दृतेः पादादिवोदकम् ॥ इति स्मृतेरित्याशयः ।

अजितेन्द्रियस्यापि इन्द्रियाणि विषयभोगकाले चित्तानुकारीणि भवन्त्येवेति, तद्यावर्तनाय स्वविषयासम्प्रयोग इत्युक्तम्, ध्यानकाले च चाक्षुषादितुल्या वृत्तिश्चित्तस्यैव भवति न तु चक्षुरादीनाम्, तेषां तु तदतिरिक्तवृत्त्यभावमात्रमतोऽनुकार इवेत्युक्तम् ।

अत एव ।

पिबन्निव च चक्षुर्भ्यां पादौ संवाहयन्निव ।

चित्तेन्द्रियैक्यतो ध्यायेत्तन्मूर्त्तिं विजितेन्द्रियः ॥ इत्यादिस्मृतिष्वपीवशब्द एव प्रयुक्त इति ।

तदेतद्व्याचष्टे । स्वविष्येति । इवेतीत्यन्तस्य एष प्रत्याहार इत्यागामिनान्वयः । अनुकार्यस्य कार्यरूपं लक्षणमाह । चित्तनिरोध इत्यादिना अपेक्षन्त इत्यन्तेन । चित्तस्य वृत्तिनिरोधकाले यत्स्वयमेवेन्द्रियवृत्तिनिरोधो भवति इदमेव परमवश्यत्वं प्रत्याहारकार्यत्त्वात् तल्लक्षणमित्याशयः । निरुद्धानि भवन्तीति शेषः । नेतरेन्द्रियजयवदिति । इतरे उक्तपरमवश्यत्वादतिरिक्ता द्वितीयसूत्रवक्ष्यमाणा इन्द्रियजयाः । तेषु सस्त्वपि स्वनिरोधार्थं यथेन्द्रियाणि प्रत्याहारादिकमपेक्षन्ते नैवं यथोक्तप्रत्याहारे सति स्वनिरोधार्थं चित्तनिरोधातिरिक्तमपेक्षन्त इत्यर्थः । इन्द्रियाणां चित्तानुकारं दृष्टान्तेन प्रतिपादयति । यथा मध्वित्यादिना निरुद्धानीत्यन्तेन । दार्ष्टान्तके दृष्टान्तोक्तोत्पतनतुल्यो निरोधः । तेन च निवेशनतुल्यं ध्यानमप्युपलक्षणीयम्, अन्यथा दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यादिप्रदर्शने न्यूनतापत्तेः । एष प्रत्याहार इति । पुरैव व्याख्यातम् ’ सोयं प्रत्याहारः सप्रयोजनो विष्णुपुराणे प्रोक्तः ।

शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ॥

वश्यता परमा तेन जायते निष्कलात्मनाम् । इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ इति । अतश्च प्रत्याहार इन्द्रियधर्म इति ।

योगे प्रत्याहारस्यावान्तरव्यापारभूतं तत्सिद्धिसूचकमाह ॥ ५४ ॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ॥ शब्दादिष्वव्यसनमिन्द्रियजय इति केचित्। सक्तिर्व्यसनं व्यस्यत्येनं श्रेयस इति। अविरुद्धा प्रतिपत्तिर्न्याय्या। शब्दादिसम्प्रयोगः स्वेच्छयेत्यन्ये। रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित्। चित्तैकाग्र्यादप्रतिपत्तिरेवेति जैगीषव्यः। ततश्च परमा त्वियं वश्यता यच्चित्तनिरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत्प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिन इति ॥ ५५ ॥ वार्तिकम् योग-वार्त्तिकम्

ततः प्रत्याहारादिन्द्रियाणां परमो जयो भवतीत्यर्थः । तत्र परमजयप्रतिपादनार्थं बहुविधान् पक्षानाह । शब्दादिष्वित्यादिना । व्यवसनशब्दार्थमाह । सक्तिरिति । सक्तिः सङ्गो येन शास्त्रविरुद्धेऽपिविषयभोगे इन्द्रियाणि प्रवर्त्तन्ते व्यवस्यति क्षिपति निरस्यत्येन श्रेयस इति व्युत्पत्तयेति शेषः । एवं च सति, शास्त्राविरुद्धा प्रतिपत्तिरेष भोगो न्याय्या एवेति पूर्वोक्तेन केचिदित्यनेनान्वयः । मतान्तरमाह । शब्दादीति । इन्द्रियविषययोः सम्प्रयोगे तदपारतन्त्र्यमित्यर्थः । मतान्तरमाह । रागद्वेषेति । रागद्वेषनिमित्तकाभ्यां सुखदुःखाभ्यां शून्यो विषयभोगस्तथेत्यर्थः । तेनाभिमानिकसुखदुःखशून्यत्वं लब्धं कायिकसुखदुःखानां योगावस्थां विना परिहारासम्भव इति भावः । एतेषु त्रिषूत्तरोत्तरमुत्कर्षेऽपि नैते परमा । इन्द्रियजया एतावन्मात्रमिन्द्रियवृत्त्यनिरोधात् । अतःसूत्रकारसम्मतं परममाह । चित्तैकाग्र्यादिति । चितैकाग्र्याद्धेतोरिन्द्रियाणां याऽप्रतिपत्तिर्वृत्तिनिरोधस्तद्योयोग्यता स एव जय इति जैगीषव्य इत्यर्थः । तत इति । इयं च वश्यता ततो हेतोः परमा वश्यता । यद् यतः चित्तनिरोधेनेत्यादिरर्थः । कालादिव्यावर्तनाय प्रयत्नकृतमिति । तथा च पूर्वसूत्रोक्तचित्तानुकारस्य फलं लक्षणं च । या समाधौ चित्तेन सहेन्द्रियाणां वृत्तिनिरोधयोग्यता सैव परमवश्यताख्यो जयोऽनेन सूत्रेणोक्त इति । एतादृशवश्यताभावेनैव सौभरिप्रभृतीनां योगभ्रंशादियं वश्यतापि योगनिष्पत्तिहेतुः । अत एव गीता ।

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥

तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ इति ।

तदेवं ज्ञानसाधनमुखेन योगस्यापि बहिरङ्गानि यमादिप्रत्याहारान्तानि ससिद्धीन्यत्र पादे प्रोक्तानि धारणादित्रयस्य सिद्धिबाहुल्यात्तु सिद्धिभिः सह तत्प्रतिपादनार्थमेव समग्रस्तृतीयपादो भविष्यति ॥ ५५ ॥ विभूतिपादः उक्तानि पञ्च बहिरङ्गानि साधनानि। धारणावक्तव्या – वार्तिकम् योग-वार्त्तिकम्

योगाङ्गेषु मध्ये कियन्ति पूर्वपादे प्रोक्तानि कियन्ति चात्र प्रादे इत्यत्र नियामकं वदन्नेव क्रमप्राप्तं धारणासूत्रमवतारयति । उक्तानीति । बहिरङ्गान्तङ्गत्वे अपि पादभेदेन निरूपणे नियामके इत्यर्थः । देशबन्धश्चित्तस्य धारणा ॥ १ ॥ नाभिचक्रे हृदयपुण्डरीके मूर्ध्नि ज्योतिषि नासिकाग्रे जिह्वाग्र इत्येवमादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा ॥ १ ॥ वार्तिकम् योग-वार्त्तिकम्

यत्र देशे ध्येयं चिन्तनीयं ध्यानाधारदेशविषये चित्तस्य स्थापनं तदैकाग्र्यं धारणेत्यर्थः । तदेतद्व्याचष्टे । नाभीति । मूर्ध्नि मूर्धस्थे ज्योतिषि आदिशब्देन गारुडाद्युक्तदेशान्तराणि ग्राह्याणि, यथा गारुडे –

प्राङ् नाभ्यां हुदये वाऽथ तृतीये च तथोरसि । कण्ठे मुखे नासिकाग्रे नेत्रभ्रूमध्यमूर्द्धसु ॥

किञ्चित्तस्मात्परस्मिंश्च धारणा दश कीर्त्तिताः ।

मुखे जिह्वाग्रे । किञ्चित्तस्मात्परस्मिन्निति मूर्ध्नि उपरि द्वादशाङ्गुलपरिमिते देशे लिङ्गशरीरस्य सप्राणस्य तावत्पर्यन्तं प्रदीपशिखावदवस्थानादवहितैस्तावत्पर्यन्तमेव लिङ्गशरीरानुगतोष्मोपलभ्यते वाक्यानामुपलम्भाच्च । तदुक्तं कौर्मे –

शिखाग्रे द्वादशाङ्गुल्ये कल्पयित्वाथ पङ्कजम् ।

इत्यादिनेति । एतानि च नाभ्यादीनि जीवेश्वरयोर्मुख्यस्थानान्येव राज्ञः सिंहासनवत् । जीवेश्वरव्यञ्जकस्य लिङ्गशरीरस्य मुख्यस्थानत्वाद् अत एतानि धारणायाः प्रकृष्टदेशा उक्ताः आध्यात्मिकान् ध्यानदेशानुक्त्वा बाह्यानपि सङ्क्षेपत आह । बाह्ये वा विषय इति । चन्द्रसूर्याग्न्यादावीश्वरदेवतादिध्यानदेश इत्यर्थः । वृत्तिमात्रेणेति । वृत्तिमात्रेण न तु ध्येयकल्पनयेत्यर्थः । तेन ध्यानादिव्यावृत्तिः । तदुक्तमीश्वरगीतायाम् –

हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वतमस्तके । एवमादिप्रदेशेषु धारणा चित्तबन्धनम् ॥

देशावस्थितमालक्ष्य बुद्धेर्या वृत्तिसन्ततिः । वृत्त्यन्तरैरसंस्पृष्टा तद्ध्यानं सूरयो विदुः ॥

एकाकारसमाधिः स्याद्देशालम्बनवर्जितः । प्रत्ययो ह्मर्थमात्रेण योगसाधनमुत्तमम् ॥ इति ।

बन्ध इतीत्यन्तेन देशबन्धशब्दं व्याख्याय सूत्रवाक्यार्थमुपसंहरति । बन्ध इति । ईदृशो बन्धो धारणेत्यर्थः । इदं च धारणालक्षणं प्राथमिकपरिच्छिन्नयोगाभिप्रायेण सूचितं यत्र प्रथमत एवेश्वरानुग्रहाद् अपरिच्छिन्नतया जीवब्रह्मयोगो भवति तत्र देशालम्बनधारणानुपयोगात् । अतो धारणाया अन्यदपि लक्षणं गारुडादावप्युक्तम् । यथा गारुडे –

प्राणायामैर्द्वादशभिर्यावत्कालः कृतो भवेत् । स तावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत् ॥ इत्यादि ।

एतदेव तु धारणासामान्यलक्षणम् । अन्यथा क्षणमात्रेणापि धारणापत्तेः । अतः सूत्रोक्तं विशेषणीयमिति ॥ १ ॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ २ ॥ तस्मिन्देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृशः प्रवाहः प्रत्त्ययान्तरेणापरामृष्टो ध्यानम् ॥ २ ॥ वार्तिकम् योग-वार्त्तिकम्

धारणासाध्यं ध्यानमाह ।

भाष्यं सुगमम् । इदमपि ध्यानलक्षणं प्राथमिकौत्सर्गिकध्यानाभिप्रायेण सर्वत्र ध्याने देशानियमात् । अतोऽस्य गारुडे लक्षणान्तरमुक्तं –

तस्यैव ब्रह्मणि प्रोक्तं ध्यानं द्वादशधारणे-त्यनेन ।

तस्यैव द्वादशप्राणायामकालेन धारितचित्तस्य द्वादशधारणाकालावच्छिन्नं चिन्तनं ध्यानं प्रोक्तमित्यर्थः । अनेन च पूर्ववत्सूत्रोक्तं विशेषलक्षणं विशेषणीयम् ॥ २ ॥ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३ ॥ ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति ध्येयस्वभावावेशात्तदा समाधिरित्युच्यते ॥ ३ ॥ वार्तिकम् योग-वार्त्तिकम्

ध्यानसाध्यं समाधिं लक्षयति ।

मात्रपदास्यार्थः स्वरूपशून्यमिवेत्यनेन स्वयं विवृतः । तदेतद्व्याचष्टे । ध्यानमेवेति । तदा तदेव ध्यानं ध्येयस्याकारेणैव साक्षिणि निर्भासते न तु प्रत्ययाकारनिर्भासं चित्तस्य घ्येयस्वरूपावेशेनाहमिदं चिन्तयामीत्येवं प्रत्ययाकारवृत्त्यन्तरानुदयात् । तदा ध्यानमेव समाधिरुच्यत इत्यर्थः । ध्यानस्वरूपस्य वस्तुतः सत्त्वादिवशब्दप्रयोगः । तथा च ध्यातृध्येयध्यानकलनावत् ध्यानं तद्रहितं च समाधिरिति ध्यानसमाध्योर्विभागः । इदं च समाधिलक्षणं पूर्वसूत्रोक्तध्यानविशेषतया देशघटितत्वेनापरिच्छिन्नसमाध्यव्यापकम् अतोऽर्थमात्रावभासनं चिन्तनमित्येव समाधिसामान्यलक्षणम् । उदाहृतेश्वरगीतावाक्ये तल्लक्षणसिद्धेः । अथ वा गारुडोक्तं यथा –

ध्यानं द्वादशपर्यन्तं मनो ब्रह्मणि योजयेत् । तिष्ठेत्तल्लयतो युक्तः समाधिः सोऽभिधीयते ॥ इति ।

अत्रापि सूत्रोक्तं विशेषलक्षणं ध्यानद्वादशगुणितकालावच्छिन्नत्वेन विशेषणीयमिति । अस्य च समाधिरूपस्याङ्गस्याङ्गियोगसम्प्रज्ञातयोगादयं भेदो यदत्र चिन्तारूपतया निःशेषतो ध्येयस्वरूपं न भासते अङ्गिनि तु सम्प्रज्ञाते साक्षात्कारोदये समाध्यविषया अपि विषया भासन्त इति । तथा च साक्षात्कारयुक्तैकाग्र्यकाले सम्प्रज्ञातयोगोऽन्यदा तु समाधिमात्रमिति विभागः । अष्टानां चाङ्गानां फलद्वयं सम्प्रज्ञातयोगस्तद्द्वाराऽसम्प्रज्ञातयोगश्चेति ॥ ३ ॥ त्रयमेकत्र संयमः ॥ ४ ॥ तदेतद्धारणाध्यानसमाधित्रयमेकत्र संयम। एकविषयाणि त्रीणि साधनानि संयम इत्युच्यते। तदस्य त्रयस्य तान्त्रिकी परिभाषा संयम इति ॥ ४ ॥ वार्तिकम् योग-वार्त्तिकम्

ध्यानादित्रयस्य परिभाषासूत्रम् ।

अस्मिन्नेव पादे प्रोक्ततया त्रयशब्देन धारणादित्रयमेव लभ्यते । भाष्यं सुगमम् । धारणाध्यानसमाधीनां मिलितानां तत्र तत्र सूत्रेऽनया सञ्ज्ञया ग्रहणं भविष्यति । तेषु च प्रातिस्विकरूपैस्त्रयाणामुच्चारणे ग्रन्थबाहुल्यं स्यादित्याशयेन तन्त्रान्तरसिद्धसञ्ज्ञाप्रतिपादकमिदं सूत्रम् ॥ ४ ॥ तज्जयात्प्रज्ञालोकः ॥ ५ ॥ तस्य संयमस्य जयात्ससमाधिप्रज्ञाया भवत्यालोको यथा यथा संयमः स्थिरपदो भवति तथा तथा समाधिप्रज्ञा विशारदी भवति ॥ ५ ॥ वार्तिकम् योग-वार्त्तिकम्

संयमसिद्धयोऽग्रे विस्तरतो वक्ष्यन्ते साम्प्रतं संयमस्य योगाङ्गताप्रयोजकं द्वारमाह –

तज्जयः संयमस्य जयः स्थैर्यं सात्म्यमिति यावत् । तस्मात् प्रज्ञाया आलोको दीप्तिर्बुद्धिः, क्रमेण भवतीत्यर्थः । तदेतद्व्याचष्टे । तस्येति । स्वोक्तं विवृणोति । यथेति । वैशारद्यं चातिसूक्ष्मव्यवहिताद्यर्थानां परप्रत्यक्षीकरणसामर्थ्यमिति ॥ ५ ॥ तस्य भूमिषु विनियोगः ॥ ६ ॥ तस्य संयमस्य जितभूमेर्याऽनन्तरा भूमिस्तत्र विनियोगः। न ह्यजिताधरभूमिरनन्तरभूमिं विलङ्घ्यप्रान्तभूमिषु संयमं लभते। तदभावाच्च कुतस्तस्य प्रज्ञालोकः। ईश्वरप्रसादाज्जितोत्तरभूमिकस्य च नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः। कस्मात्, तदर्थस्यान्यत एवावगतत्वात्। भूमेरस्या इयमनन्तरा भूमिरित्यत्र योग एवोपाध्यायः। कथम्। एवं ह्युक्तम् – योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्तते। योऽप्रमत्तस्तु योगेन स योगे रमते चिरम् ॥ इति ॥ ६ ॥ वार्तिकम् योग-वार्त्तिकम्

संयमस्यानुष्ठाने विशेषमाह ।

तस्य संयमस्य स्थूलादिपूर्वपूर्वभूमिकाजयानन्तरं सूक्ष्मादिषूत्तरोत्तरभूमिकासु नियोजनं योगिना कर्तव्यमित्यर्थः । एतदेव व्याचष्टे भाष्यकारः तस्येति । अनन्तरा अव्यवहिता । क्रमेण भूमिकारोहे युक्तिमाह । नहीति । प्रान्तभूम्यपेक्षयाऽधराऽधस्था भूमिरजिता येन सोऽजिताधारभूमिर्योगी, नहि अनन्तरभूमिमव्यवहितभूमिं विलङ्घ्याप्राप्तभूमिषु व्यवहितोत्तरभूमिषु संयमं लभते । धनुर्धरादिषु स्थूलवेधाद्यनन्तरमेव सूक्ष्मे वेधादिदर्शनात्सोपानारोहणादिषु च क्रमेणैवारोहादिदर्शनात् अन्यथाधःपातात् तदभावाच्चेति । ततश्च संयमालाभात् कुतः प्रज्ञालोकस्तत्तद्भूमिषु स्यादित्यर्थः । तथा चोक्तं गारुडे –

स्थित्यर्थं मनसः पूर्वं स्थूलरूपं विचिन्तयेत् । तत्र तन्निश्चलीभूतं सूक्ष्मेऽपि स्थिरतां व्रजेत् ॥ इति ।

अयं च भूमिकारोहे कमश्चौत्सर्गिकः कदाचिदपोद्यतेऽपीत्याह । जितान्तरेति । ईश्वरप्रसादादादावेव वशीकृतप्रकृतिपुरुषविवेकादिभूमिकस्य योगिनो नाधोभूमिषु परचित्तज्ञानादिषु परचित्तप्रत्ययादिषु प्रत्यये परचित्तज्ञानमिन्याद्यागामिसूत्रवाच्येषु विराडादिस्थूलेषु वा संयमो युक्त इत्यर्थः । पृच्छति । कस्मादिति । उत्तरं, तदर्थस्येति । अधरभूमिसंयमप्रयोजनस्योत्तरभूम्यारोहणस्येश्वरानुग्रहादेवावगतत्वात् प्राप्तत्वादित्यर्थः । ननूत्सर्गात्सिद्धं क्रममुल्लङ्घ्य प्रथममुत्तरभूमिकासु संयमारम्भ एव न युक्तः तत्कथमादौ तज्जयो घटेतेति चेन्न । युञ्जमानेनादावेव सर्वोत्कृष्टभूमिकायां स्वचित्तस्य परीक्षणीयत्वात् । तत्संयमायोग्यतां स्वस्यानुभूयैवाधरभूमिषु स्वयोग्यतामवधार्य चित्तस्य धारणीयत्वादिति । नन्वेवमधिकारिपुरुषभेदेन भूमिकाक्रमभेदात् कथं स्वयोग्यो भूमिकाक्रमो योगिभिरवधारणीय इति तत्राह । भूमेरस्या इति । उपाध्यायो गुरुः योगबलादेव स्वयं जानातीत्यर्थः । अत्र प्रमाणं पृच्छति । कथमिति । उत्तरम् । एवमुक्तमिति । अप्रमत्तः सिद्ध्यलम्पटः ॥ ६ ॥ त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ७ ॥ तदेतद्धारणाध्यानसमाधित्रयमन्तरङ्गं सम्प्रज्ञातस्य समाधेः पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्य इति ॥ ७ ॥ वार्तिकम् योग-वार्त्तिकम्

आवश्यकत्वाद्यवधारणार्थं योगाङ्गेष्ववान्तरविशेषमाह सूत्राभ्याम् ।

आगामिसूत्रानुरोधादत्र सम्प्रज्ञातसमाधेरिति पूरयित्वा व्याचष्टे । तदेतदिति । अत्र सम्प्रज्ञातस्येत्यत्र प्रज्ञाया विशेषणतया ज्ञानस्याप्यन्तरङ्गत्वमेतत्त्रये विवक्षितम् बीजसाम्यात् ज्ञानप्रकरणपाठाच्च । अन्तरङ्गत्वे च बीजमिदं यद्धेयातिरिक्तवृत्तिनिरोधरूपे सम्प्रज्ञाते ध्येयसंयमः साक्षादेव कारणं विषयान्तरसञ्चाररूपत्वात्, एवं ध्येयसाक्षात्कारेऽपि साक्षादेव विषयान्तरसञ्चाराख्यप्रतिबन्धनिवृत्तिद्वारा कारणमिति, प्रत्याहारान्तं त्वङ्गपञ्चकं चित्तस्थैर्यद्वारेण परम्परयैवोभयोः कारणमिति । अत एव यस्य जडभरतादेः स्वत एव प्राचीनकर्मवशाच्चित्तं संयमयोग्यं भवति तस्य नास्तीतराङ्गावश्यकत्वमित्युक्तं गारुडादिषु -

आसनस्थानविधयो न योगस्य प्रसाधकाः । विलम्बजननाः सर्वे विस्तराः परिकीर्त्तिताः ॥

शिशुपालः सिद्धिमाप स्मरणाभ्यासगौरवात् । इत्यादिना ।

अत एव जडभरतादीनां समाधिविघ्नतया बाह्यकर्मत्यागोऽपि श्रूयते । अत एव गीतायां संयमाशक्तायैवाभ्यासकर्मादीनि विशेषत उपदिष्टानि ।

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥

अथ चित्तं समाधातुं न शक्रोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । इत्यादिना ।

अभ्यासश्चात्रैव सूत्रितः । स्थितौ यत्नोऽभ्यास इति, तथा ब्रह्ममीमांसायामपि, समाधिविरोधे सति गुणलोपेन गुणिन इतिन्यायसिद्धा बाह्यकर्मानपेक्षोक्ता । अत एव चाग्नीन्धनाद्यनपेक्षेति सूत्रेण –

यच्च विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्त्वा विद्ययामृतमश्नुते

इति श्रुत्या ज्ञानकर्मणोः साहित्यमुक्तं तत्राङ्गाङ्गिनोरौत्सर्गिकं सहानुष्ठानमेवाभिप्रेतं न तु मोक्षाख्यफले तयोः तुल्यवत्समुच्चयः । अविद्यया मृत्युं तीर्त्वेत्यनेन ज्ञानविप्लवनिवृत्त्याख्यमृत्युतरणद्वारेण विद्यायामेव मोक्षदायिन्यां कर्मण उपयोगावगमात् ।

न केवलेन योगेन प्राप्यते परमं पदम् । ज्ञानं तु केवलं सम्यगपवर्गप्रदायकम् ॥

इत्यादिवाक्यैर्योगशब्दोक्तकर्मनिरपेक्षात् ज्ञानयोगादपि मोक्षसिद्धेः, अङ्गत्वं च पूर्वजन्मन्यनुष्ठितानामपि कर्मणां जडभरतादिषु सिद्धमिति । एतेन –

उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञानकर्मभ्यां लभते परमं पदम् ॥

इत्यादिवाक्यानि अङ्गाङ्गिनोरौत्सर्गिकसहानुष्ठानपरायण्येव न मोक्षं प्रति समुच्चयबोधकानीति दिक् ॥ ७ ॥ तदपि बहिरङ्गं निर्बीजस्य ॥ ८ ॥ तदप्यन्तरङ्गं साधनत्रयं निर्बीजस्य योगस्य बहिरङ्गं भवति। कस्मात्, तदभावे भावादिति ॥ ८ ॥ वार्तिकम् योग-वार्त्तिकम्

निर्बीजयोगस्यासम्प्रज्ञातस्य तदपि त्रयं बहिरङ्गमेव विवेकख्यातिपरवैराग्यद्वारा परम्परया हेतुत्वेनावश्यकत्वाभावादित्यर्थः । एतदेवाह । तदभावे भावादिति । पूर्वोक्तविदेहप्रकृतिलयानां देवविशेषाणामौत्पत्तिकज्ञानवैराग्याणां संयमनैरपेक्ष्येणैव दैनन्दिनप्रलयादावसम्प्रज्ञातोदयादित्यर्थः । तथा च स्मृतिः –

योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते । आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ॥ इति ।

तदेतत्प्रागुक्तं भवप्रत्ययो विदेहप्रकृतिलयानामिति सूत्रेणेति ॥ ८ ॥ अथ निरोधचित्तक्षणेषु चलं गुणवृत्तमिति कीदृशस्तदा चित्तपरिणामः – वार्तिकम् योग-वार्त्तिकम्

ज्ञानोपायप्रसङ्गेन योगाङ्गानि विस्तरतः प्रोक्तानि इदानीमङ्गभूतस्य समाधेरङ्गिनोश्च योगयोः स्वरूपभेदावधारणाय तत्तदवस्थागता विशेषा वक्तव्याः । तावतैव तयोरङ्गाङ्गिनोः प्रयोजनमपि प्रतिपादितं भविष्यति तत्राङ्गसमाधिनो योगद्वयस्य विशेषावधारकसूत्रमुत्थापयति प्रश्नमखेन । अथेति । निरोधचित्तक्षणेषु निरोधावस्थचित्तक्षणेषु योगद्वयक्षणेषु इति यावत् । गुणव्यापारस्य स्थिरत्वात् त्रिगुणात्मकस्य चित्तस्य निरोधक्षणेष्वपि परिणामधारा आवश्यकी स च परिणामः कीदृश इति प्रश्नः । व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचितान्वयो निरोधपरिणामः ॥ ९ ॥ व्युत्थानसंस्काराश्चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्ययनिरोधे न निरुद्धा निरोधसंस्कारा अपि चित्तधर्मास्तयोरभिभवप्रादुर्भावौ व्युत्थानसंस्कारा हीयन्ते निरोधसंस्कारा आधीयन्ते। निरोधक्षणं चित्तमन्वेति तदेकस्य चित्तस्य प्रतिक्षणमिदं संस्कारान्यथात्वं निरोधपरिणामः। तदा संस्कारशेषं चित्तमिति निरोधसमाधौ व्याख्यातम् ॥ ९ ॥ वार्तिकम् योग-वार्त्तिकम्

असम्प्रज्ञातापेक्षया सम्प्रज्ञातेऽपि प्व्युत्थानं तथा च व्युत्थानं निरोधश्च योगद्वयसाधारण एवात्र ग्राह्यः केवलस्यासम्प्रज्ञातरूपस्य निरोधस्यात्रग्रहणे सम्प्रज्ञाताख्यनिरोधस्य परिणामाकथनान्न्यूनतापत्तेः । व्युत्थानसंस्काराभिभवश्च क्रमेण ह्रासो न तु दाहः । निरोधसंस्कारप्रादुर्भावश्च क्रमेण वृद्धिः तौ निरोधपरिणामौ निरोधकालीनपरिणामः, स च निरोधक्षणचित्तान्वयः प्रत्येकं निरोधक्षणेषु एकस्मिन् स्थिरे चित्तेऽन्वित इत्यर्थः । एत्तच्च विशेषणं योगकाले प्रतिक्षणमेतादृशपरिणामलाभाय चित्तस्थैर्यलाभाय चोक्तम् । अत्र निरोधकाले जायमानः संस्कार एव निरोधसंस्कार इत्युक्तः, तेन सम्प्रज्ञातरूपनिरोधस्य संस्काराजनकत्वेऽपि तत्कालीनप्रज्ञाजन्यसंस्कारस्यैव निरोधसंस्कारत्वमुपपन्नमिति चित्तधर्मिणो धर्मपरिणामोऽयमिति प्रतिपादनाय भाष्यकार आह । व्युत्थानसंस्काराश्चित्तधर्मा इति । ननु वृत्तिनिरोधेनैव तत्कार्यतया तत्संस्काराणामपि निरोधो भवतु तन्तुनिरोधेन पटनिरोधवत् । अतो न पृथग्व्युत्थानसंस्काराभिभवापेक्षेत्याशङ्कां समाधत्ते । न ते प्रत्ययात्मका इति । न प्रत्ययोपादानकाः । अतो न व्युत्थानसंस्काराः प्रत्ययनिरोधेऽपि निरुद्धा भवन्तीत्यर्थः । निमित्तकारणत्वादेव प्रत्ययस्येति भावः । तस्मात्प्रत्ययनिवृत्तावपि तत्संस्कारनिवृत्तिकारणं पृथगेवापेक्ष्यत इति । शेषं भाष्यं सूत्रव्याख्ययैव व्याख्यातप्रायम् ॥ ९ ॥ तस्य प्रशान्तवाहिता संस्कारात् ॥ १० ॥ निरोधसंस्काराभ्यासपाटवापेक्षा प्रशान्तवाहिता चित्तस्य भवति। तत्संस्कारमान्द्ये व्युत्थानधर्मिणा संस्कारेण निरोधधर्मसंस्कारोऽभिभूयत इति ॥ १० ॥ वार्तिकम् योग-वार्त्तिकम्

ननु किमर्थं निरोधसंस्काराः कल्प्यन्ते इत्याकाङ्क्षायां निरोधसंस्कारप्रमाणमाह ।

तस्य निरोधावस्थचित्तस्य प्रशान्तवाहिता निश्चलनिरोधधारया वहनं निरोधसंस्कारबलादेव भवतीत्यर्थः । अतो निरोधसंस्कारस्तत्प्रादुर्भावश्चावश्यमेष्टव्य इति भावः । अन्वयव्यतिरेकाभ्यां कार्यकारणभावं प्रतिपादयति । निरोधेत्यादि । भाष्यं सुगमम् ॥ १० ॥ सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ११ ॥ सर्वार्थता चित्तधर्मः। एकाग्रताऽपि चित्तधर्मः। सर्वार्थतायाः क्षयस्तिरोभाव इत्यर्थः। एकाग्रताया उदय आविर्भाव इत्यर्थः। तयोर्धमित्वेनानुगतं चित्तं, तदिदं चित्तमपायोपजनयोः स्वात्मभूतयोर्धर्मयोरनुगतं समाधीयते स चित्तस्य समाधिपरिणामः ॥ ११ ॥ वार्तिकम् योग-वार्त्तिकम्

निरोधरूपयोगद्वयकार्यः परिणामो व्याख्यातः, इदानीं तद्विलक्षणं योगाङ्गसमाधिकार्यं परिणामं दर्शयति ।

सर्वार्थता = विक्षिप्तता, एकाग्रता = एकमात्रविषयता, तयोर्यथाक्रमं क्षयोदयौ चित्तस्य समाधिकालीनपरिणाम इत्यर्थः । अत्रापि प्रतिक्षणमित्यनुषञ्जनीयं युक्तिसाम्यात् तदेतद्व्याचष्टे । सर्वार्थतेति । सर्वार्थताया अत्यन्तोच्छेद एकदा न भवति । नापि एकाग्रताया निष्पत्तिरेकदा भवति किं तु क्षणक्रमेणैवातः क्षयोदयौ तिरोभावाविर्भावार्थकतया व्याचष्टे । क्षय इत्यादिना तिरोभाव इत्यर्थ इत्यन्तेन । अत्र तिरोभावाविर्भावौ ह्रासवृद्धी । ननु सर्वार्थतैकाग्रतयोर्धर्मौ कथं चित्तस्येत्युच्येते तत्राह । तयोर्धर्मित्वेनानुगतं चित्तमिति । तयोः सर्वार्थतैकाग्रतयोः । तथा च धर्मपरिणामेऽपि धर्मद्वारा धर्मिण एव भवतीत्यर्थः । उत्तरसूत्रवक्ष्यमाणपरिणामात् व्यावर्त्य प्रकृतसूत्रवाक्यार्थभूतं परिणामं व्याचष्टे । तदिदमिति । तदिदमित्यस्य विवरणम् अनुगतमित्यन्तं, तथा च चित्तं स्वात्मभूतयोः स्वकार्ययोः सर्वार्थतैकाग्रतयोर्धर्मयोरपायकाले उपजनकाले चानुगतं यत्समाधीयते स समाधिपरिणाम इत्यर्थः । समाहितचित्तस्य तु परिणामः शेषसूत्रेण वक्ष्यत इति भावः ॥ ११ ॥ ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥ समाहितचित्तस्य पूर्वप्रत्ययः शान्त उत्तरस्तत्सदृश उदितः, समाधिचित्तमुभयोरनुगतं पुनस्तथैवाऽऽसमाधिभ्रेषादिति। स खल्वयं धर्मिणश्चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥ वार्तिकम् योग-वार्त्तिकम्

इदानीमङ्गसमाधावेव परिणामान्तरमुक्तपरिणामकालीनमाह ।

ततः सर्वार्थतायाः निःशेषतः क्षये सति शान्तोदितौ अतीतोत्पद्यमानौ तुल्पप्रत्ययौ एकाकारप्रत्ययौ चित्तस्यैकाग्रताकालीनः पुनः परिणामो भवति सजातीय एकैकः प्रत्ययो नश्यति अन्योऽन्य उत्पाद्यत इत्येवं परिणामो भवतीत्यर्थः । तदेतद्व्याचष्टे । समाहितेति । समाध्यारूढस्य चित्तस्येत्यर्थः । अनेन पूर्वसूत्रोक्तचित्ताद्यवच्छेदः कृतः तत्र समाधीयमानचित्तस्यैव परिणामस्योक्तत्वादिति, न पुनस्तथेत्यनेन धारावाहिक एकाग्रतासन्तान उक्तः । अवधिमाह । आसमाधीति । भेषो = भ्रंशः ॥ १२ ॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ १३ ॥ एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः। तत्र व्युत्थाननिरोधयोर्धर्मयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः। लक्षणपरिणामश्च। निरोधस्त्रिलक्षणस्त्रिभिरध्वभिर्युक्तः। स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः। यत्रास्य स्वरूपेणाभिव्यक्तिः। एषोऽस्य द्वितीयोऽध्वा। न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः। वार्तिकम् योग-वार्त्तिकम्

तदेवं योगतदङ्गयोः परिणामरूपवैलक्षण्यं तयोर्विवेकाय प्रदर्शितम् । अनयैव दिशा व्युत्थानकालीना अपि चित्तपरिणामा व्याख्यातप्रायाः, इतः परिणामत्रयसंयमादित्यागामिसूत्रोपोद्घातसङ्गत्या सर्वत्र वैराग्याग्निप्रज्वलनाय च चित्तवदेवान्येष्वप्यतिदेशेनैव परिणामान्व्याचष्टे सूत्रकारः ।

धर्मैलक्षणैरवस्थाभिश्च परिणामा धर्मलक्षणावस्थापरिणामा एते च भाष्ये व्याख्येयाः, एत एव परिणामाः भूतेन्द्रियेषु न तु तत्त्वान्तरपरिणामा इत्यसाधारणाशयेनैवात्र प्रकृत्यादिष्विति नोक्तम् । तेन तत्त्वान्तरपरिणामवदेतेऽपि परिणामाः सर्वएव यथायोग्यं प्रकृत्यादिष्वप्यवगन्तव्याः, तथा च भाष्यकारो वक्ष्यति एवं धर्मलक्षणावस्थापरिणामैः शूण्यं क्षणमपि न गुणवृत्तमवतिष्ठते इत्येतेन सर्ववस्तुषु परिणामत्रयमिति । सूत्रं व्याचष्टे । एतेनेति । ननु चित्तपरिणाममात्रं पूर्वसूत्रोक्तं न तु धर्मलक्षणावस्थापरिणामा इत्याशङ्कां तद्विभागप्रदर्शनेनापाकर्त्तुमुपक्रमते । तत्र व्युत्थानेति । तत्र तेषां मध्ये व्युत्थाननिरोधयोरभिभवप्रादुर्भावावेव चित्ते धर्मिणि धर्मपरिणामः प्रथमसूत्रेणैवोक्त इत्यर्थः, अवस्थितस्य धर्मिणः पूर्वधर्मतिरोभावे धर्मान्तरप्रादुर्भावस्यैव धर्मपरिणामत्वमिति भावः । यद्यपि प्रथमसूत्रे व्युत्थाननिरोधसंस्कारयोरेवाभिभवप्रादुर्भावावुक्तौ तथापि व्युत्थाननिरोधयोरपायोपजनावप्यर्थाल्लब्धाविति । धर्मश्च द्रव्यं गुणो वेत्यन्यदेतत् । तथा तेनैव सूत्रेणाभिभवप्रादुर्भावशब्दाभ्यां धर्मस्य लक्षणपरिणामोऽप्युक्त इत्याह । लक्षणपरिणामश्चेति । लक्षणपरिणामो हि अवस्थितस्य धर्मस्यानागताद्विलक्षणत्यागे वर्त्तमानादिलक्षणलाभः स चाभिभवप्रादुर्भाववचनेनैव लब्धः । अतीततावर्त्तमानतयोरेवाभिभवप्रादुर्भावत्वादिति भावः । तत्रादौ निरोधरुपस्य धर्मस्य प्रादुर्भावशब्दोक्तं लक्षणपरिणाममुदाहरति । निरोधस्त्रिलक्षण इति । एतस्यैव विवरणं त्रिभिरध्वभिर्युक्त इति, क्रमेण सम्बन्धादध्वतुल्यतयाऽनागतादिभावोऽध्वेत्युच्यते । तथा धर्मिणोर्धर्माणां चान्योन्यं व्यावर्त्तनाल्लक्षणशब्देन च तन्त्रे परिभाषित इति । ततः किमित्यत आह । स खल्विति । स खलु, निरोधः प्रादुर्भावकाले अनागतलक्षणरूपमध्वाख्यं हित्वेत्यादिरर्थः । अत्र सत्कार्योपपत्तये धर्मपरिणामत्वोपपादनाय च धर्मत्वमनतिक्रान्त इत्युक्तम् । स्वरूपेणावस्थितस्यैव धर्मस्य रूपान्तरापाये रूपान्तरोत्पत्तौ धर्मपरिणामव्यवहारादिति । वर्तमानावस्थामितरावस्थाद्वयाद्विविच्य दर्शयति । यत्रेति । स्वरूपेणार्थक्रियाकारित्वेनाभिव्यक्तिरूपलब्धिरित्यर्थः । स चानागतापेक्षया द्वितायोऽध्वेति शिष्यव्युत्पादनाय प्रसङ्गादाह । एषोऽस्येति । असदुत्पादसद्विनाशयोः प्रतिषेधायाह । नचेति । निरोधक्षण एव निरोधस्य लक्षणपरिणामं दर्शयित्वा व्युत्थानस्यापि दर्शयति । तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्नम्। एषोऽस्य तृतीयोऽध्वा। न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम्। एवं पुनर्व्युत्थानमुपसम्पद्यमानमनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम्। यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः। एषोऽस्य द्वितीयोऽध्वा। न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तमिति। एवं पुनर्निरोध एवं पुनर्व्युत्थानमिति। तथाऽवस्थापरिणामः। तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इति। एष धर्माणामवस्थापरिणामः। तत्र धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानामप्यवस्थाभिः परिणाम इति। एवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणमपि गुणवृत्तमवतिष्ठते। चलं च गुणवृत्तम्। गुणस्वाभाव्यं तु प्रवृत्तिकारणमुक्तं गुणानामिति। एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात्त्रिविधः परिणामो वेदितव्यः। वार्तिकम् योग-वार्त्तिकम्

तथा व्युत्थानमिति । सर्वं पूर्ववत् विशेषस्तु वर्तमानतां हित्वातीतां प्राप्त इति तृतीयोऽध्वेति च । एवं व्युत्थानकालेऽपि व्युत्थाननिरोधयोः लक्षणपरिणामौ क्रमेण दर्शयति । एवं पुनर्व्युत्थानमुपसम्पद्यमानमिति । उपसम्पद्यमानं जायमानं तच्च व्यक्त्यन्तरम् अतीतव्यक्तेरनुत्पादस्य वक्ष्यमाणत्वात् । अन्यत्सर्वं पूर्ववत् । एवं पुनर्निरोध इति । अत्र एवमित्यनेन तथा व्युत्थानमित्यादिवाक्योक्ता निरोधस्य तृतीयाध्वप्रक्रिया निर्दिष्टा अतो न निरोधतृतीयावस्थाकथनाभावशून्यतेति । इदं च व्युत्थाननिरोधपरिणामचक्रम् अपवर्गपर्यन्तमेवेति सङ्क्षेपेणाह । एवं पुनर्व्युत्थानमिति । व्युत्थानादिरित्यर्थः । चित्तधर्मस्य लक्षणपरिणामं प्रदर्श्य तल्लक्षणस्यावस्थापरिणामं तस्य प्रशान्तवाहिता संस्कारादिति सूत्रे व्याख्यातं दर्शयति । तथा अवस्थापरिणाम इति । उच्यत इति शेषः । संस्कारयोर्बलवत्त्वदुर्बलत्वे च घटस्य नवपुराणतादिवद् वृद्धिह्रासौ उत्पत्तिविनाशरूपत्वे लक्षणपरिणामाद्भेदानुपपत्तेः । लक्षणस्येव नवपुराणत्वादिनाऽवस्थापरिणाम इति वक्ष्यमाणाच्च । ननु द्रव्यस्यैव वृद्धिक्षयौ दृष्टौ । न गुणस्येति चेन्न । रूपादीनामपि वृद्धिह्रासानुभवात् रूपभेदकल्पने च गौरवात् तदेव रूपमिदानीं प्रवृद्धमिति प्रत्यभिज्ञाऽनुपपत्तेश्चेति । तस्मात्संस्कारस्यादृष्टादेश्चास्ति अवस्थापरिणामः ज्ञानेच्छादिषु चोत्पत्तिविनाशानुभवात् क्षणद्वयमात्रस्थायित्वेऽपि द्वितीयक्षणे वर्त्तमानलक्षणस्यावस्थापरिणामो भवति क्षणत्वेनैव परिणामहेतुत्वात् अन्यथा सर्ववस्तूनां प्रतिक्षणपरिणामस्य वक्ष्यमाणस्यानुपपत्तेः । एतेनोत्तरवृत्तिविभुविशेषगुणस्यैव ज्ञानादिनाशकत्वेनैकाग्रतादशायामपि ज्ञानस्य बहुक्षणस्थायित्वान्नावस्थापरिणामसम्भव इत्यपास्तम् । तदेवं परिणामत्रयं व्याख्याय तेषां आधारव्यवस्थामाह । तत्र धर्मिण इत्यादिना । लक्षणानामप्यवस्थाभिरिति । यद्यपि अवस्थानामपि बाल्यादीनां लक्षणपरिणामोऽस्ति तथापि यथोक्तक्रमे न काप्यनुपपत्तिः । ननु वर्तमानलक्षणस्य नवपुराणाद्यवस्थापरिणमोऽस्तु, अनागतातीतलक्षणयोस्तु कीदृशोऽवस्थाभेदः स्यादिति । उच्यते । शीघ्रभविष्यत्ताविलम्बभविष्यत्तादिरूपो विशेषस्तयोरपि अनुमीयते सत्वादिवदेव गुणत्वेन प्रतिक्षणपरिणामित्वसिद्धेरिति । यथोक्तैश्चित्तपरिणामैः सर्ववस्तूनां परिणाममतिदिशन् वैराग्याग्निप्रज्वलनार्थं तेषां प्रीतिक्षणपरिणामित्वं दर्शयति । एवं धर्मलक्षणेति । तदुक्तं मन्वादौ -

धोरेऽस्मिन् हतसंसारे नित्यं सततघातिनाम् । कदलीस्तम्भनिःसारे संसारे सारमार्गणम् ॥

यः करोति स सम्मूढो जलबुद्बुदसन्निभे । इति ।

गुणवृत्तं गुणानां सत्त्वादीनां व्यापारः स्वकार्यैर्धर्मादिपरिणामैः क्षणमपि शून्यं नावतिष्ठते । प्रतिक्षणं परिणामं जनयतीत्यर्थः । ननु व्यापाराभावदशायामपरिणामित्वं स्यात् तत्राह । चलं च गुणवृत्तिमिति । चलमिति भावप्रधानो निर्देशः । चाञ्चल्यं हि गुणानां स्वभाव इत्यर्थः । ननु प्रतिक्षणं चाञ्चल्ये प्रमाणं किमित्याकाङ्क्षायामाह । गुणस्वाभाव्यं त्विति । राज्ञो हि गुणानामुपकरणानां भृत्यादीनां स्वाम्यर्थं प्रतिक्षणमेव व्यापारो दृश्यते अतो गुणस्वभावतैव पुरुषगुणानामपि सत्त्वादीनां प्रतिक्षणप्रवृत्तौ प्रमाणमुक्तं पूर्वाचार्यैरित्यर्थः । गुणत्वं च परस्यैव भोगापवर्गहेतुत्वमिति । चित्तदृष्टान्ते परिणामत्रयं व्याख्याय दार्ष्टान्तिकेऽपि तद्व्याख्यातुमारभते । एतेनेति । धर्मधर्मिभेदादिति । धर्मधर्मिभेदमाश्रित्येत्यर्थः । तत्र पृथिव्यादीनां धर्मिणां घटादिर्धर्मपरिणामः घटादीनां धर्माणां वर्त्तमानातीतते लक्षणपरिणामः वर्त्तमानादिलक्षणानां च त्रयाणामपि बाल्ययौवनादिरवस्थापरिणाम इति । ननु त्रयोऽपि कथं परिणामा भूतेन्द्रियेषूच्यन्ते तेषु धर्मिषु धर्ममात्रपरिणामादिति तत्राह । परमार्थतस्त्वेक एव परिणामः। धर्मिस्वरूपमात्रो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति। तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वं भवति नतु द्रव्यान्यथात्वम्। यथा सुवर्णभाजनस्य भित्त्वाऽन्यथाक्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वमिति। वार्तिकम् योग-वार्त्तिकम्

परमार्थतस्त्विति । एक एव परिणामः त्रयोऽपि धर्मिपरिणाम एव यतो धर्मिस्वरूप एव धर्मोऽतो धर्मिपरिणाम एवैष लक्षणादिपरिणामो धर्मादेरित्यवान्तरमेव विभज्यत इत्यर्थः । इदानीं प्रतिक्षणपरिणामे क्षणिकतादिप्रसङ्गमपाकर्तुं परिणामत्रयं क्रमेण परीक्षणीयम् । तत्रादौ धर्मपरिणामः परीक्ष्यते । तत्र धर्मस्येत्यादिना । तत्र तेषु परिणामेषु मध्ये धर्मिणि सत एव धर्मस्यातीताद्यवस्थासु धर्मिणो भावान्यथात्वं धर्मान्यथात्वमेव भवति न द्रव्यान्यथात्वं खरूपान्यथात्वे हि प्रतिक्षणं परिणामेन क्षणिकतापत्त्या प्रत्यभिज्ञाऽऽद्यनुपपत्तिरिति भावः । सवर्णस्य भावान्यथात्वं भाजनादिरूपधर्मापाये कटकादिधर्माभव्यक्तिरिति, प्रत्यभिज्ञाबलेन च सुवर्णसामान्यस्य सर्वविकारानुगतस्य सिद्धिः । तत्सामान्यं चावयविरूपो धर्मीति । वैशेषिकास्तु सुवर्णस्यान्यथात्वेऽवयवसंयोगनाशात् पूर्वसुवर्णव्यक्तिर्नश्यत्येव प्रत्यभिज्ञा तु जातिविषयेति । तन्न । एवं सति प्रतिक्षणमवयवोपचयापचयाभ्यामवयवसंयोगविभागस्यावश्यकत्वेन शरीराद्यखिलवस्तूनां क्षणिकत्वापत्तेर्ब्रह्मणाऽप्यपरिहार्यत्वात् । जात्यैव सर्वत्र प्रत्यभिज्ञोपपत्तौ प्रत्यभिज्ञया घटादिस्थैर्यमिति स्वसिद्धान्तविरोधापत्तेश्च । तस्मादवयवसंयोगनाशो न द्रव्यनाशहेतुः किं तु वह्न्यादौ तृणारणिमण्यादिवदव्यवस्थितमेव फलबलात्कारणं कल्पनीयम् । अथवा विजातीयोऽवयवविभागविशेष इति स्वरूपान्यथात्ववादिबौद्धैर्धर्मिपरिणामे प्रोक्तं दूषणं निराकर्त्तुमुत्थापयति । अपर आह – धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात्। पूर्वापरावस्थाभेदमनुपतितः कौटस्थ्येनैव परिवर्तेत यद्यन्वयी स्यादिति। अयमदोषः। कस्मात्। एकान्ततानभ्युपगमात्। तदेतत्त्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात्। अपेतमप्यस्ति विनाशप्रतिषेधात्। संसर्गाच्चास्य सौक्ष्म्यं, सौक्ष्म्याच्चानुपलब्धिरिति। वार्तिकम् योग-वार्त्तिकम्

अपर आहेति । धर्मी धर्मेभ्योऽतिरिक्तो न भवति अत्यन्ताभिन्न इत्यर्थः । अत्र हेतुः पूर्वतत्त्वानतिक्रमात् पूर्वतत्त्वस्य धर्मिणोऽनतिक्रमापत्तेः कौटस्थ्यापत्तेरिति यावत् । एतदेव विवृणोति । पूर्वापरेति । धर्मी यद्यन्वयी धर्मेषु स्यात्तर्हि पूर्वापरसकलावस्थाभेदेष्वनुगततयाऽतीताद्यवस्थायामपि सत्त्वप्रसङ्गात् कौटस्थ्येनैव तिष्ठेत् चितिशक्तिवत् नित्यत्वकूटस्थत्वयोरेकार्थत्वात् तच्च तवाप्यनिष्टमित्यर्थः । परिहरति । अयमदोष इति । एकान्ततेति । एकान्तनित्यत्वानभ्युपगमादित्यर्थः । एकान्तेन सर्वथा स्वरूपतो धर्मतश्च नित्यत्वमेव कौतस्थ्यमस्माभिरप्युपेयते । तच्च चितिशक्तेरेव न तु धर्मरूपेणानित्यस्य धर्मिण इत्यर्थः । विकारव्यावृत्तं प्रकृतेर्नित्यत्वं सतोऽतीतानागतावस्थाशून्यत्वम् इति स्वरूपतो धर्मतश्च नित्यानित्योभयरूपत्वं प्रपञ्चस्येति प्रतिपादयति । तदेतदिति । तदेतत्त्रैलोक्यं कार्यकारणात्मकं चतुर्विंशतितत्त्वानि स्वकार्याणीति यावत्, यथायोग्यं धर्मरूपेण स्वतश्च व्यक्तेर्वर्त्तमानावस्थातोऽपैति नित्यत्वप्रतिषेधात् । ‘नैवेह किञ्चनाग्र आसीत्’ ’असद्वा इदमग्र आसीद्’ इत्यादिश्रुतिभः,

“व्यक्ताव्यक्तात्मिका तस्मिन् प्रकृतिः सम्प्रतीयत”

इत्यादिस्मृतिभिः यत्सावयवं तदनित्यं घटादिवदित्यनुमानेनेत्यर्थः । नन्वेवमत्यन्तोच्छेद एवास्तु तत्राह । अपेतमिति । अपेतमतीतमपि प्रकृत्यादिधर्मिरूपेणातीतरूपेण चास्ति विनाशप्रतिषेधाद् अत्यन्तोच्छेदप्रतिषेधात् “तद्धैक आहुरसदेवैकमग्र आसीद्” इत्यत्यन्तोच्छेदमाशङ्क्य कथमसतः सज्जायेत सत्त्वेव सोम्येदमग्र आसीदिति श्रुत्या तत्प्रतिषेधादित्यर्थः । विनाशित्वे सत्यनादिभावत्वानुपपत्तेरिति । यद्यपि सत्त्वेवेति श्रुतौ तच्छब्दार्थः परमात्मैव तदैक्षतेत्युत्तरवाक्यात् । तथापि सदेकीभावेनेदमासीदितिवचनादस्य प्रपञ्चस्यापि प्रलये सत्त्वं सिद्धमेव । एव तद्धेदं तर्ह्यव्याकृतमासीत्तमसैवेदमासीत्,

“आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्”

इत्यादिश्रुतिस्मृतयोऽप्यत्यन्तोच्छेदनिषेधिका उदाहार्याः । युक्तिश्चासदुत्पादे शशशङ्गाद्युत्पत्तिप्रसङ्गबन्धमोक्षाद्यनुपपत्त्यादिरूपा ग्राह्याः । नन्वपेतमपि चेदस्ति कथं नोपलभ्यते तत्राह । संसर्गाच्चेति । अस्य विकारजातस्य स्वस्वकारणेषु प्रकृत्यादिषु संसर्गादिविभागाख्यात् कार्यस्य सौक्ष्म्यमव्यक्तता तस्माच्चास्यानुपलब्धिः सूक्ष्मताया लौकिकसाक्षात्कारप्रतिबन्धकत्वादित्यर्थः । तदेवं क्रार्यकारणादिभेदेन प्रकृत्यादीना सर्वेषां परिणामिनां प्रकारभेदेन नित्यानित्योभयरूपत्वव्यवस्थापनात्तेषां सदसद्रूपत्वं सिद्धान्तितम् । ’सदसत्ख्यातिर्बाधाबाधाभ्यामि’तिसाङ्ख्यसूत्रानुसारात् । इदमेव च जडानां व्यावहारिकं सत्त्वं पुराणादौ गीयते । यच्च निःसत्तासत्तं प्रधानमिति भाष्यकारैः प्रागुक्तं तत् पारमार्थिकसत्त्वासत्त्वाभिप्रायेणैवेत्यस्माभिस्तत्रैव व्याख्यातम् । एतेनात्मैव सन्नन्यत्सर्वमसदिति श्रुतिस्मृतिवादा अप्यविरुद्धा एकान्तनित्यत्वस्यैव पारमार्थिकसत्तात्वात्तच्च कूटस्थनित्यस्यैवास्ति असत्तासमर्कराहित्यान्न तु व्यवहारसत्ता प्रकृत्यादीनामिति । इत्थमेव च

“नाऽसद्रूपा न सद्रूपा माया नैवोभयात्मिका । सदसद्भ्यामनिर्वाच्या मिथ्याभूता सनातनी ॥ “

इत्यादिवाक्यान्यपि सङ्गच्छन्ते न पुनराधुनिकवेदान्तिब्रुवाणामनिर्वचनीयतावादेऽपि, तैर्हि मायाऽऽख्यजगत्कारणस्यापि विनाशोऽत्यन्ततुच्छत्वमेव वा परमार्थत इष्यते तन्मते च सनातनत्ववचनविरोध इति दिक् । लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतवर्तमानाभ्यां लक्षणाभ्यामवियुक्तः। तथाऽनागतोऽनागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः। तथा वर्तमानो वर्तमानलक्षणयुक्तोऽतीतानागताभ्यां लक्षणाभ्यामवियुक्त इति। यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति। वार्तिकम् योग-वार्त्तिकम्

धर्मपरिणामं परीक्ष्य लक्षणपरिणामः परीक्ष्यते । लक्षणपरिणाम इति । अध्वसु वर्तमान इति । धर्माणां नित्यत्वमुक्तं नित्यत्वं विनाऽतीतानागतलक्षणयोगासम्भवात्, अत्र एकैकलक्षणाभिव्यक्तिकालेऽपि धर्मो लक्षणान्तराभ्यां सूक्ष्माभ्यां वियुक्तो न भवतीति समुदायार्थः, तथा धर्मा इव लक्षणान्यपि नित्यान्येवेति नात्यन्तासदुत्पत्तिसदत्यन्तोच्छेदयोः प्रसङ्ग इति भावः । नन्वेकलक्षणाभिव्यक्तिकाले लक्षणान्तरयोरनुपलम्भादभाव एव युक्त इत्याशङ्कायां तयोरुपलब्धिमानुमानिकीं दर्शयति - यथेति । न शेषासु विरक्त इति । रागस्य भावित्वे सति विरक्तव्यवहारादर्शनात् तथा चैकविषयकरागाभिव्यक्तिकालेऽपि विषयान्तररागस्यात्यन्ताभावो नास्ति अतो रागस्यैकलक्षणाभिव्यक्तिकालेऽन्ययोः सत्ता सिध्यत्यनुमानादित्यर्थः । अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगादध्वसङ्करः प्राप्नोतीति परैर्दोषश्चोद्यत इति। तस्य परिहारः – धर्माणां धर्मत्वमप्रसाध्यम्। सति च धर्मत्वे लक्षणभेदोऽपि वाच्यो न वर्तमानसमय एवास्य धर्मत्वम्। एवं, हि न चित्तं रागधर्मकं स्यात्क्रोधकाले रागस्यासमुदाचारादिति। वार्तिकम् योग-वार्त्तिकम्

लक्षणापरिणामेऽपि परोक्तदूषणमुद्भावयति । अत्रेति । सर्वस्यानागतादेर्वर्तमानादिसर्वलक्षणयोगादनागतादिकमपि वर्त्तमानं स्यादित्यध्वनां सङ्करः प्रसक्तः, क्रमिकत्व चासदुत्पादप्रसङ्ग इति शेषः । अतो वर्त्तमानमात्रलक्षणकं सर्वं वस्तु पूर्वोत्तरकालयोस्तु तस्याभावमात्रम् अभावप्रतियोगित्वादेव चातीतत्वादिव्यवहार इति । तत्रादौ धर्मेषु लक्षणत्रयसम्बन्धमेव व्यवस्थापयति । धर्माणामिति । भर्याणाप्रिति । धर्माणां तावत् धर्मत्वं प्राक्साधितत्वान्न साधनीयम् । सिद्धे च धर्मत्वे धर्माणां लक्षणं भेदो लक्षणबहुत्वमपि वक्तव्यं न पुनरर्द्धवैनाशिकोक्तं वर्त्तमानमात्रमेकं लक्षणम् ।

यतो न वर्त्तमानसमयमात्रेऽस्य धर्मस्य धर्मत्वं किं त्वतीतादिसमयेऽपीति शेषः, अत्र हेतुमाह – एवं हीति । हि यस्माद्, एवं वर्त्तमानकाल एव धर्मत्वे सति सर्वमेव चित्तं न रागधर्मकं विरक्तमिति यावत् विरक्तव्यवहारयोग्यं स्यात् क्रोधकाले रागस्यासमुदाचाराद् अनाविर्भावादित्यर्थः । अयं भावः – यथा यदा कदा चिद्रागसत्त्वेन भवन्मते चित्तं रक्तमिति व्यवहारः तथा यदा कदा चिद्रागाभावेन चित्तं विरक्तमिति व्यवहारः स्यादिति, अतोऽतीतादिकालेऽपि रागादेश्चित्तादिधर्मत्वाद् धर्माणां त्रिलक्षणकत्वं सिद्धं, यच्च तैरुच्यतेऽभावप्रतियोगितामात्रेणातीतादिव्यवहार इति, तदपि हेयम् असति घटे ध्वंसप्रतियोगित्वादिरूपस्यातीतत्वस्य वृत्त्यनुपपत्तेः संयोगित्वादिवत्प्रतियोगित्वादेरपि सम्बन्धिद्वयसत्त्वं विनाऽनुपपत्तेः सदसतोः सम्बन्धादर्शनाद् ध्वंसप्रागभावयोरसिद्धेश्च, घटो वर्त्तमान इतिवत् घटोऽतीतो भविष्यन्निति प्रत्ययाभ्यां घटावस्थाविशेषयोरेव सिद्धः, अन्यथा भावाभावस्याप्यतिरिक्तत्वादिप्रसङ्ग इत्यादयश्च दोषाः स्वयमूहनीयाः । किञ्च त्रयाणां लक्षणानां युगपदेकस्यां व्यक्तौ नास्ति सम्भवः। क्रमेण तु स्वव्यञ्जकाञ्जनस्य भावो भवेदिति। उक्तं च रूपातिशया वृत्त्यतिशयाश्च विरुध्यन्ते, सामान्यानि त्वतिशयैः सह प्रवर्तन्ते। तस्मादसङ्करः। यथा रागस्यैव क्वचित्समुदाचार इति न तदानीमन्यत्राभावः किन्तु केवलं सामान्येन समन्वागत इत्यस्ति तदा तत्र तस्य भावः। तथा लक्षणस्येति। वार्तिकम् योग-वार्त्तिकम्

तदेवं धर्माणां लक्षणत्रयं व्यवस्थाप्येदानीं तत्साङ्कर्यं परिहरति - किञ्चेति । त्रयाणामनागतादिलक्षणानामेकदैकस्मिन् वस्तुनि सम्भवोऽभिव्यक्तिर्नास्ति किं तु स्वाभिव्यञ्जकं दण्डचक्रादिवस्त्वञ्जनतुल्यं यस्य एवम्भूतस्य लक्षणस्य क्रमेण भावोऽभव्यक्तिर्भवेदिति नाभिव्यक्तौ साङ्कर्यं, स्वरपतस्तु साङ्कर्यमिष्यत एवेत्यर्थः । अव्यक्तयोर्लक्षणयोर्व्यक्तेन लक्षणेन सह नास्ति विरोध इत्यत्र पञ्चशिखवाक्यं प्रमाणयति – उक्तं चेति । धर्माद्यान्यैश्वर्यान्तान्यष्टौ चित्तस्य रूपाणि वृत्तयश्च ज्ञानाद्याश्रयाः शान्तघोरमृढाश्चित्तपरिणामास्तेषामतिशयोऽभिव्यक्तिरूपोत्कटतेति । इदं च वाक्यं गुणवृत्त्यविरोधाच्च दुःखमेव सर्वमिति सूत्रे व्याख्यातम् ।

उपसंहरति । तस्मादिति । असङ्करे दृष्टान्तमाह । यथेति । रागस्यैवेति । धर्माणां लक्षणत्रयसम्बन्ध उदाहृतस्यैव रागस्यैवेत्यर्थः । क्वचिद्विषये अन्यत्र विषयान्तरेऽभावः सामान्याभाव इत्यर्थः । दार्ष्टान्तिकमाह । तथा लक्षणस्येतीति । क्वचित्समुदाचार इत्यादिरर्थः । अयं च लक्षणपरिणामो न धर्मिणः किं तु धर्माणामेवेत्येवं’ धर्मपरिणामाद्विशेषमाह । न धर्मी त्र्यध्वा धर्मास्तु त्र्यध्वानस्ते लक्षिता अलक्षितास्तत्र लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः। यथैका रेखा शतस्थाने शतं दशस्थाने दशैका चैकस्थाने। यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति। वार्तिकम् योग-वार्त्तिकम्

न धर्मीति । नन्वयं लक्षणपरिणामो लक्षणेऽस्ति न वा, आद्येऽनवस्था; अन्त्ये लक्षणपरिणामे परिणामलक्षणासम्भवः – पूर्वलक्षणातीततायां लक्षणान्तराभिव्यक्तेरेव लक्षणपरिणामत्वादिति मैवम् । बीजाङ्कुरत्वप्रामाणिकत्वेनास्या अनवस्थाया अदोषत्वात्, अन्यथा धर्मस्य धर्मस्तस्यापि धर्म इत्याद्यनवस्थाया अपि दोषत्वापत्त्या धर्मधर्मिभावादिरपि न सिध्येदिति, अधिकं तु निर्वितर्केति सूत्रे प्रोक्तम्, तदेवं सर्वधर्माणां सदैव लक्षणत्रयसम्बन्धोऽस्ति; अभिव्यक्तिस्तु त्रयाणां क्रमिकीति सिद्धम् ।

स्यादेतत् । लक्षणाभिव्यक्तेरपि नित्यत्वात्कथं क्रमिकत्वं, तत्र क्रमिकत्वसम्भवे वा किमपराद्धं लक्षणक्रमिकत्वेन? अत्रोच्यते – नित्यानित्योभयरूपत्वस्योक्ततया नित्यत्वेऽपि सर्वकार्येष्वनित्यरूपेण क्रमः सम्भवति, लक्षणानामपि क्रमश्चेष्यत एव लक्षणाभिव्यक्तिक्रमस्तु लक्षणासाङ्कर्याय प्रकृते प्रदर्शतः, अधिकस्तु निर्वितर्कसमापत्तिसूत्रेऽस्माभिः प्रोक्त इति दिक् ।

लक्षणपरिणामं परीक्ष्यावस्थापरिणामं परीक्षितुं धर्मगतं विभागमाह – ते लक्षिता इति । लक्षिता व्यक्ता वर्त्तमाना इति यावत् । अलक्षिता अव्यक्ता अतीतानागता इति यावत् । तां तां बाल्ययौवनवार्धकाद्यवस्थां प्राप्नुवन्तोऽन्योन्यमन्यत्वेन भेदेनोच्यन्ते बालोऽयं न युवेत्यादिरूपेण, स च निर्देशोऽवस्थान्तरतोऽवस्थाभेदादेव, न तु द्रव्यभेदादित्यर्थः । तथा च पूर्वावस्थापायेऽवस्थान्तरप्राप्तिः सिद्धा, सैव चावस्थापरिणाम इति भावः । यद्यप्येतादृशोऽवस्थापरिणामोऽनागतातीतलक्षणयोरपि पूर्वमुक्तः, तथापि वर्त्तमानलक्षणस्यैवावस्थापरिणामः स्फुटमुपलभ्यत इत्याशयेन वर्त्तमानलक्षणमालम्ब्यैव स उदाहृत इति । धर्मिण एकत्वेऽपि निमित्तभेदेनान्यत्वव्यवहारे दृष्टान्तमाह – यथैकेति । यथा एकत्वव्यञ्जिका रेखा=अङ्कविशेषो यदा बिन्दुद्वयोपरि तिष्ठति तदा शतमिदं नैकमिति व्यवह्रियते, तयोरेकबिन्दुलोपे च दशेदं न शतमिति व्यवह्रियते अवशिष्टबिन्दुस्थाने चैकत्वव्यञ्जकरेखान्तरदाने सत्येकादशेदं न दशेतीत्यर्थः । दृष्टान्तान्तरमाह – यथा चेति । उच्यत इति । पुत्रपिताभ्रातृभिर्जनकत्वादिनिमित्तभेदाद्भेदेनेति शेषः । अवस्थापरणामे कौटस्थ्यप्रसङ्गदोषः कैश्चिदुक्तम्। कथम्। अध्वनो व्यापारेण व्यवहितत्वात्। यदा धर्मः स्वव्यापारं न करोति तदाऽनागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तस्तदाऽतीत इत्येवं धर्मधर्मिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते। वार्तिकम् योग-वार्त्तिकम्

अवस्थापरिणामेऽपि बौद्धोक्तं दूषणमुदाहरति । व्यवस्थेति । अवस्थापरिणामाभ्युपगमे धर्मधर्मिलक्षणावस्थानां चतुर्णामेव कौटस्थ्यापत्तिरित्यर्थः । तत्र हेतुं पृच्छति । कथमिति । उत्तरम्- अध्वनो व्यापारेण व्यवहितत्वादिति । व्यापारनिमित्तेनैव सर्ववस्तुष्वनागताद्यध्वनामन्योन्यं व्यवहितत्वाभ्युपगमात् विभागाभ्युपगमात् न तु भावरूपेण धर्मलक्षणयोः सदा सत्त्वस्येष्टत्वादित्वर्थः । अधुना विभागस्य व्यापारनिमित्तकत्वं विवृणोति । यदा धर्म इत्यादिना तदा अतीत इत्यन्तेन । धर्मशब्दोत्राऽश्रितमात्रवाची, न करोति न करिष्यतीत्यर्थः । आद्यन्ताध्वनोर्विभागस्य व्यापारनिमित्तकत्वं व्यापाराभावनिमित्तकत्वेन परम्परयेति भावः । एवं च सति पूर्वधर्मातीततायां धर्मान्तराभिव्यक्तिरित्येवंरूपपरिणामलक्षणान्नित्यत्वमवस्थानामपि भवद्भिर्वक्तव्यं न तु विनाशः । अवस्थानां च नित्यत्वे किमप्यनित्यं न स्यादित्येवं धर्मधर्म्यादिकं सर्वं जगत् कूटस्थं स्यादिति परैर्दोष उच्यत इति । नासौ दोषः। कस्मात्। गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात्। यथा संस्थानमादिमद्धर्ममात्रं शब्दादीनां गुणानां विनाश्यविनाशिनामेवं लिङ्गमादिमद्धर्ममात्रं सत्त्वादीनां गुणानां विनाश्यविनाशिनां तस्मिन्विकारसञ्ज्ञेति। वार्तिकम् योग-वार्त्तिकम्

उपसंहारः – नित्यत्वमात्रं न कौटस्थ्यं किं त्वेकान्तनित्यत्वमित्याशयेन पूर्ववदुक्तदोषं परिहरति – नासौ दोष इति । कौटास्थ्यदोषो नास्तीत्यर्थः, गुणनित्यत्वेऽपीति । धर्मिनित्यत्वेऽपि धर्माणां विमर्दस्य विनाशस्य कूटस्थतो वैचित्र्यात् वैलक्षण्यादित्यर्थः । अपरिणामनित्यतैव कौटस्थ्यं तच्च पुरुषातिरिक्ते नास्तीति भावः । गुणनित्यत्वेऽपि गुणानां विमर्दमुदाहरति – यथेति । यथेति न दृष्टान्ते किन्तूदाहरणे, संस्थानमिति । अर्थविनाशेनाविनाशिनां शब्दादितन्मात्राणां पञ्चभूतरूपं संस्थानं धर्ममात्रमादिमत् इत्यतो विनाशीत्यर्थः, एवमित्याद्यप्येवं व्याख्येयम्, लिङ्गं महत्तत्वम्, एवमहङ्कारादयो घटादयश्च स्वविनाशनाविनाशिनां कारणानां धर्ममात्राणि विनाशिन इति बोध्यम् । तदेतच्छ्रुत्योक्तम्, ‘वाचारम्भणं विकारो नामधयं मृत्तिकेत्येव सत्य’मिति । सत्यं विकारापेक्षया स्थिरमित्यर्थः, तस्मिन्निति । तस्मिन् धर्मे विकारसञ्ज्ञा परिणामसञ्ज्ञेत्यर्थः, अतो धर्मिणां परिणामितया न कौटस्थ्यं सुतरान्तु धर्मलक्षणावस्थानामिति भावः । तत्रेदमुदाहरणं मृद्धर्मी पिण्डाकाराद्धर्माद्धर्मान्तरमुपसम्पद्यमानो धर्मतः परिणमते घटाकार इति। घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते। घटो नवपुराणतां प्रतिक्षणमनुभवन्नवस्थापरिणामं प्रतिपद्यत इति। धर्भिणोऽपि धर्मान्तरमवस्था धर्मस्यापि लक्षणान्तरमवस्थेत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति। एवं पदार्थान्तरेष्वपि योज्यमिति। त एते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक एव परिणामः सर्वानमून्विशेषानभिप्लवते। अथ कोऽयं परिणामः। अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परणाम इति ॥ १३ ॥ वार्तिकम् योग-वार्त्तिकम्

परिणामत्रयं विस्तरेण परीक्षितम्, इदानीं भतेन्द्रियेषु परिणामत्रयं क्रमेण दर्शयति – तत्रेदमुदाहरणमिति । धर्मत इति । धर्मेण परिणमत इत्यर्थः । धर्मपरिणामस्य स्वरूपं दर्शयति – घटाकार इतीति । स परिणामो घटाकार इत्यर्थः । नवपुराणतामिति । नवीनताऽनन्तरं पुराणतां प्राप्नुवन्नित्यर्थः, धर्मादीनां सर्वेषामेवावस्थात्वाविशेषेऽपि गोबलवर्दन्यायेनैवैषां तान्त्रिको भेदनिर्देश इत्याह – धर्मिणोऽपीति । लक्षणस्य च पुराणत्वादिकमवस्थेति प्राप्तत्वादेव नोक्तम् । एक एवेति । अवस्थामात्र एवेत्यर्थः, एवमवस्थालक्षणयोरपि धर्मत्वाद्धर्मपरिणामोऽपि गोबलवर्दन्यायेनैव बोध्यः । एवं पदार्थान्तरेष्वपीति । भूतान्तरेषु इन्द्रियादिषु प्रकृत्यादिषु चेत्यर्थः, अपरं विशेषं परिणामेषु पूर्वोक्तं स्मारयति – त एत इति । त्रयोऽपि परिणामाः धर्मिस्वरूपमनतिक्रान्ताः, धर्मिण्येवानुगता अतो धर्मधर्म्यभदात् धर्मपरिणाममात्रमेकमेवेति सामान्यतो भवति धर्मी, स एव च सर्वान् परिणामानभिप्लवते व्यप्नोति । सूत्रस्थं परिणामशब्दार्थं प्रश्नपूर्वकं व्याचष्टे – अथ कोऽयं परिणाम इति । उत्तरम् – अवस्थितस्येति । संस्कारेऽपि परिणामस्योक्तत्वाद् । द्रव्यस्येति । धर्मिण इत्यर्थः । धर्मशब्दश्चाश्रितमात्रवचनः निवृत्त्युत्पत्ती = अतीततावर्त्तमानते, ननु धर्मातिरिक्तो धर्मी नानुभूयते यस्य धर्मादेः परिणामः स्यादिति बौद्धाशङ्कायां धर्माद्विविच्य धर्मी सूत्रकारेण प्रतिपादयिष्यते ॥ १३ ॥ तत्र – वार्तिकम् योग-वार्त्तिकम्

तत् सूत्रं तत्रेति पूरयित्वा पठति – तत्रेति । तत्र तेषु परिणामेषु तेषां परिणामानामिति यावत्, धर्मीति सूत्रेण सहान्वयः । शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥ योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः। स च फलप्रसवभेदानुमित एकस्यान्योऽन्यश्च परिदृष्टः। तत्र वर्तमानः स्वव्यापारमनुभवन्धर्मी धर्मान्तरेभ्यः शान्तेभ्यश्चाव्यपदेश्येभ्यश्च भिद्यते। यदा तु सामान्येन समन्वागतो भवति तदा धर्मिस्वरूपमात्रत्वात्कोऽसौ केन भिद्येत। तत्र ये खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्या श्चेति, तत्र शान्ता ये कृत्वा व्यापारानुपरताः सव्यापारा उदितास्ते चानागतस्य लक्षणस्य समनन्तरा वर्तमानस्यानन्तरा अतीताः। किमर्थमतीतस्यानन्तरा न भवन्ति वर्तमानाः, पूर्वपश्चिमताया अभावात्। यथाऽनागतवर्तमानयोः पूर्वपश्चिमता नैवमतीतस्य। तस्मान्नातीतस्यास्ति समनन्तरः। तदनागत एव समनन्तरो भवति वर्तमानस्येति। वार्तिकम् योग-वार्त्तिकम्

अतीतवर्त्तमानानागतधर्मेष्वनुपाती वर्त्तमानरूपेणानुगतो धर्मीत्यर्थः । अत्राव्यपदेश्येति विशेषणं धर्मधर्मिणोर्विवेकप्रदर्शनाय । तथा च वर्त्तमानत्वावर्त्तमानत्ववैधर्म्येण धर्मिणो धर्मस्य च विवेक इति भावः । धर्मशब्दार्थं व्याचष्टे । योग्यतेति । दग्धशक्तेरपि सङ्ग्रहाय योग्यतावच्छिन्नेत्युक्तम् । वर्त्तमानता स्वरूपयोग्यतेत्यर्थः । तेनातीतादिसाधारण्यलाभः । एवकारो वर्तमानादिविशेषव्यवच्छेदार्थः शक्तित्वं चानागन्तुकत्वम् । तथा चाग्नेर्दाहशक्तिवद्धर्मा अपि धर्मिणि यावद्द्रव्यभाविनः, नहि शक्तिवियोगः शक्तिमतोऽस्ति शक्तिशक्तिमतोरभेदादिति भावः । धर्मशब्दार्थमुक्त्वा तस्य शान्तादितोपपादनायानभिव्यक्तिदशायामपि सत्तां साधयति । स चेति । स च धर्मः शक्तिरूपः फलप्रसवात् तदानुमिताव्यक्तावस्थक इत्यर्थः । आकस्मिकत्वे हि मृद्येव घटस्तन्तुष्वेव पट इत्यादिभेदः फलस्य प्रसवे न स्यात् अतो अनादित्वं वक्तव्यम् अनादित्वाच्चानन्तत्वमिति भावः । एकानेकत्ववैधर्म्येणापि धर्मधर्मिविवेकायाह । एकस्येति । स च धर्म एकस्य धर्मिणोऽनेकोऽपि दृष्ट इत्यर्थः । सूत्रतात्यर्यविषयं धर्माद् धर्मिणो विवेकमुपपाद्यादौ धर्माणामेवान्योन्यं विवेकं प्रतिपादयति । तत्रेति । तेषु धर्मेषु मध्ये वर्त्तमानो धर्मो धर्मान्तरेम्यो वर्त्तमानातिरिक्तधर्मेभ्यः शान्ताव्यप्रदेश्यरूपेभ्यो भिद्यते विविच्यते वर्त्तमानत्वावर्त्तमानत्ववैधर्म्यादिति शेषः । वर्त्तमान इत्यस्य विवरणं स्वव्यापारमनुभवन्निति । नन्वेवं किं धर्माणामन्यन्यमत्यन्तमेव भेदो न तु भेदाभेदौ? नेत्याह । यदा त्विति । यदा तु शान्ताव्यपदेश्यावस्थायां धर्मः सामान्येनाभिव्यक्तविशेषराहित्येन धर्मिण्यनुगतो विलीनो भवति तदा धर्मिस्वरूपमात्रतयाऽवस्थानाद् धर्म्यविभागादिति यावत् । कोसौ धर्मः केन व्यापारेण भिद्येत = अयोगिभिर्विविच्येत धर्मस्य तल्लक्षणस्य वाऽनुपलम्भादतस्तदानीमविभागलक्षणाभेदोपि भवतीत्यर्थः । एतेन च भाष्यकृता ब्रह्माद्वैतमपि वेदान्तोक्तं व्याख्यातप्रायम्, प्रलये सर्ववस्तूनां परमात्मन्यविभागात् यथाऽकाशेऽभ्राणामिति । तथा च श्रुतिः - स यथा सर्वासामपां समुद्र एकायनमित्यादिना समष्टिजीवस्य प्रलयं प्रदर्श्यात्माद्वैतमाह । यत्र हि द्वैतमिव भवति तदेतर इतरं पश्यति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदिति । इदानीं शान्तोदिताव्यपदेश्यशब्दार्थं व्याचष्टे । तत्र त्रय इति । तदिदं व्याख्याय तस्य पाठक्रमात् क्रमभ्रमं परिहर्तुमाह । ते चानागतस्येति । एवं वक्ष्यमाणाव्यपदेश्येऽपि पाठक्रमो नादर्त्तव्य इत्याह । वर्त्तमानस्यानन्तरा अतीता इति पाठक्रमः । कथं त्यज्यत इत्याशयेन पृच्छति । किमर्थमिति । उत्तरम् - पूर्वपश्चिमताया अभावादिति । पूर्वपश्चिममद्वारादित्यर्थः । तदेव विवृणोति । यथेति । नैवमतीतस्येति । वर्त्तमानेन सहेति शेषः । तथा चानागतावस्थायाः प्रागभावस्थानीयायां वर्त्तमानावस्थायां हेतुत्वादतीतावस्थानन्तरं वर्त्तमानावस्था न

भवतीत्यर्थः । उदिताव्यपदेश्यरूपपाठक्रमत्यागेऽपीदमेव बीजमिति भावः । उपसंहरति । तस्मादिति । समनन्तरः पश्चिमो लक्षणभेद इति शेषः । तत्त्वतोऽनागत एव वर्त्तमानस्य समनन्तरः पूर्वो भवतीत्यर्थः । एतेन सत्कार्यवादेऽपि पूर्वाभिव्यक्तो घटादिर्न पुनरुत्पद्यत इति सिद्धान्तः स्मर्त्तव्यः । नन्वनागतवर्त्तमानयोः कार्यकारणभाव एव किं प्रमाणमिति चेत्, शृणु । यद्यतीतस्य पुनर्वर्त्तमानता स्यात् तर्ह्मनिर्मोक्षः स्यात् । विनष्टान्तःकरणाविद्याकर्मादीनां पुनरुद्भवेन मुक्तस्यापि संसारोदयसम्भवात् । किं च यद्यतीतोऽपि घटः पुनर्वर्त्तमानः स्यात्तदा स एवायं घट इति कदाचिप्रत्यभिज्ञायेत । अतो योग्यानुपलब्ध्याऽतीतव्यक्त्यनुन्मज्जनं निर्णीयत इति । अत्रानागतातीतावस्थयोः प्रागभावध्वंसरूपयोः कार्योत्पादकानुत्पादकत्ववैधर्म्यवजनाद् अव्यक्तावस्थाया एवावान्तरभेदावनागतातीतते परस्वरविलक्षणे इति मन्तव्यम् । नन्वेवमतीतस्य पुनरनुत्पादादतीतसत्त्वकल्पना व्यर्थति चेत्? न । लोकानतीतान्ददृशे स्वदेह इत्यादिवाक्यशतसिद्धयोगिप्रत्यक्षान्यथानुपपत्त्या तत्सिद्धेः विषयतत्सन्निकर्षयोः प्रत्यक्षहेतुत्वात् । न चातीतार्थस्मरणमेवास्त्विति वाच्यम् । पूर्वाननुभूतस्यापि योगिना दर्शनात् । ये त योगजधर्मस्यापि सन्निकर्षत्वमिच्छन्ति तेषामप्यसत्पदार्थसन्निकर्षानुपपत्तिः प्रत्यक्षं प्रति सन्निकर्षनानात्वेनाननुगमेन हेतुताग्रहानुपपत्तिश्च । ज्ञानादेर्विषयतादिरूपोऽपि सम्बन्धोऽसति न सम्भवति सतोरेव सम्बन्धदर्शनादिति । प्रत्यक्षादिषु संयोगादिरेव प्रत्यासत्तिः योगजधर्मेण चाधर्मतमआदिप्रतिबन्धमात्रं क्रियत इति दिक् । शान्तोदितौ व्याख्यायाव्यपदेश्यं व्याख्यातुं पृच्छति । अथाव्यपदेश्याः के। सर्वं सर्वात्मकमिति। यत्रोक्तम् – जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम्। तथा स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्वित्येवं जात्यनुच्छेदेन सर्वं सर्वात्मकमिति। वार्तिकम् योग-वार्त्तिकम्

अथाव्यपदेश्याः क इति । ये व्यापारान् करिष्यन्ति तेऽव्यपदेश्या इति वक्तुं न शक्यते । अकरिष्यमाणव्यापारकस्यापि केवलानागतलक्षणस्य वस्तुनः स्वीकारादित्यतः प्रकारान्तरेणाव्यपदेश्यं लक्षयति । सर्वं सर्वात्मकमिति । सर्वात्मकं सर्वशक्तिकं, तथा च सर्वत्र परिणामिन्यवस्थिताः सर्वविकारजननशक्तय एवाव्यपदेश्या इत्यर्थः । ननु वर्त्तमानातीतावस्थयोरनुभवस्मरणे प्रमाणे स्तः, शक्त्याख्यायां त्वनागतावस्थायां किं प्रमाणं किं वा सर्वत्र सर्वशक्तिमत्त्वे प्रमाणमित्याकाङ्घायामाह । यत्रोक्तमिति । अभिव्यक्तिरितीत्यन्तेनान्वयः । यत्र सर्वं सर्वशक्तिमदित्यत्रार्थे पूर्वाचार्यैरिदं वक्ष्यमाणप्रमाणमुक्तमित्यर्थः । तत्रादौ प्रत्यक्षस्थले शक्तिमनुमापयति । जलभूम्योरिति । स्थावरेषु रसादिभिः मधुराम्लसुरभ्यसुरभिमृदुकठिनत्वादिभिर्यदनन्तरूपत्वं तज्जलपृथिव्योः परिणामनिमित्तकमित्यन्वयव्यतिरेकाभ्यां प्रत्यक्षतो दृष्टम् अतो जलभूमी स्थावरात्मिके स्थावरशक्तिमत्यौ इति भावः । शक्तिं विनापि कार्यकरणेऽतिप्रसङ्गात्तथा जङ्गमेषु यद्वैश्वरूप्यं स्थावराणां परिणामनिमित्तकं दृष्टं मनुष्यादीनां धान्यादिस्थावरकार्याणां धान्यादिविशेषैः रूपादिविशेशदर्शनात् । तथा स्थावराणां यद्वैश्वरूप्यं तज्जङ्गमानां परिणामनिमित्तकं दृष्टम् । गोमयदुग्धादिभिर्धान्यचम्पकादीनां स्थावराणां विचित्ररूपरसादिदर्शनादित्यर्थः । एवमादिदृष्टान्तैः सर्वेषु वस्तुषु सर्वविकारजननशक्तिः सिध्यतीत्याह । इत्येवमिति । यथा जलादिस्थावराद्यात्मकम् एवमन्यदपि सर्वविकारात्मकं तच्छक्तिमत् । नन्वतीतकार्ये शक्तिमत्त्वं नास्ति भाविवस्तूनामित्यत उक्तम् । जात्यनुच्छेदेनेति । यद्यप्यतीतकार्यव्यक्तय उच्छिन्नास्तथाऽपि तज्जातीयसर्वस्यानुच्छेदादित्यर्थः । तथा च सर्वात्मकत्वं सर्वजातीयशक्तिमत्त्वमेवात्र विवक्षितमिति भावः । एतेनान्यद्रव्यस्य परिणामव्यक्तीनामन्यत्राभावेऽपि न नियमभङ्गः तज्जातीयव्यक्त्यन्तरजननशक्तिसम्भवादिति । तदेतदुक्तं विष्णपुराणे ।

यथा च पादपो मूलस्कन्धशाखादिसंयुतः । आदिबीजात्प्रभवति बीजान्यन्यानि वै ततः ॥

सम्भवन्ति ततस्तेभ्यो भवन्त्यन्ये परे द्रुमाः । तेऽपि तल्लक्षणद्रव्यकारणानुगता मुने ॥

एवमव्याकृतात्पूर्वं जायन्ते महदादयः । सम्भवन्ति सुरास्तेभ्यस्तेभ्यश्चाखिलजन्तवः ॥ इति ।

यदि च सर्वत्र सर्वसजातीयवस्तुजननशक्तिर्न स्वीक्रियते तदा कथमेकस्मादेव चतुर्मुखशरीरादखिलदेवदानवनरपश्वादिसमुद्भवः कथं वाऽगस्त्यजाठराग्नेः समुद्रशोषणं कथं वा ब्रह्मविष्णुरुद्रपार्वतीशरीरादिषु विश्वरूपदर्शनम्, योगिनां च स्वशरीरमनसोरनन्ता विभूतय उपपद्येरन्? किं बहुना -

उपदेक्ष्यन्ति मे ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥

इत्यादिवाक्यैः सर्वप्राणिशरीरे सर्वजातीयवस्तुसत्तावचनं शक्तिरूपतां विनाऽऽञ्जस्येन नोपपद्येत । अर्जुनादिभिश्च शक्तिरूपेणावस्थितं भाविभीष्मवधादिकमेव कृष्णादिशरीरे कालात्मके दिव्यचक्षुषा दृष्टं योगिभिरतीतानागतमिवेति । एतेन स इदं सर्वं भवति तस्मात्सर्वमभवदिति श्रुतेः ब्रह्मविदः सर्वाभावरूपा श्रुत्युक्ता सिद्विरुपपादिता । तथा जीवोपाधावपि या महैश्वर्यशक्तिमत्त्वाज्जीवानामीश्वरत्वप्रतिपादकश्रुतिस्मृतय उपपन्नाः । तथा त एते सत्या अनृतापिधानाः इति श्रुतिरपीति मन्तव्यम् । नन्वेवं सर्वत्र सर्वजातीयशक्त्यङ्गीकारे कथमेकदा न नानाविकारोत्पत्तिः कथं वा शिलाशकलादपि नाङ्कुरोत्पत्तिरस्मदादिशरीराच्चतुर्मुखादिवत् सङ्कल्पमात्रेण नाखिलप्राण्युत्पत्तिरित्याशङ्कां परिहरति । देशकालाकारनिमित्तापबन्धान्न खलु समानकालमात्मनामभिव्यक्तिरिति। य एतेष्वभिव्यक्तानभिव्यक्तेषु धर्मेष्वनुपाती सामान्यविशेषात्मा सोऽन्वयी धर्मी। यस्य तु धर्ममात्रमेवेदं निरन्वयं तस्य भोगाभावः। कस्मात्, अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत्कथं भोक्तृत्वेनाधिक्रियेत। तत्स्मृत्यभावश्च नान्यदृष्टस्य स्मरणमन्यस्यास्तीति। वस्तुप्रत्यभिज्ञानाच्च स्थितोऽन्वयी धर्मी यो धर्मान्यथात्वमभ्युपगतः प्रत्यभिज्ञायते। तस्मान्नेदं धर्ममात्रं निरन्वयमिति ॥ १४ ॥ वार्तिकम् योग-वार्त्तिकम्

देशकालेति । देशो भूर्लोकादिः कालः कलियुगादिराकारः संस्थानम् अवयवसंयोगविशेषः निमित्तमधर्मादिस्तैरपबन्धात् प्रतिबन्धाद् एकदा क्वारणेषु न विरुद्वानामात्मभूतशक्तीनामभिव्यक्तिर्वर्त्तमानलक्षणपरिणाम इत्यर्थः । एतेन च प्रतिबन्धवचनेनान्या अपि उक्ताशङ्काः परिहृताः सहकारिविरहादित्यर्थ इत्यपि कश्चित् । तस्यापि प्रतिबन्धनिमित्तकविलम्बे पर्यवसानं “निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्” इत्यागामिसूत्रे सर्वेषां निमित्तकारणानां स्वतन्त्रायाः प्रकृतेः परिणामेषु प्रतिबन्धनिवर्त्तकतामात्रावगमादिति । अतः शिलाशकलान्नाङ्कुरोत्पत्तिरवयवसंयोगविशेषस्याङ्कुरोत्पत्तिप्रतिबन्धकत्वाद् अस्मदादिशरीरान्नाखिलप्राण्युत्पत्तिरधर्मप्रतिबन्धात् । ब्रह्माण्डादिशक्तिमतश्च घटादेर्ब्रह्माण्डाद्युत्पादनं विनैव प्रायशो नाशदर्शनात्सा शक्तिः समुत्पद्य घटादिना सहैव नश्यति आधारनाशात् । कदाचिन्नहुषशरीरादीनां सर्पादिभाववत् परमेश्वरादिसङ्कल्पतो घटादीनामपि प्रकृत्यापूरवशात् अव्यवस्थिताखिलपरिणामो भवत्येव । तथा चोक्तं लौकिकैरपि

“विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया” । इति ।

एतेन तथा ज्ञानेन पुरुषार्थसमाप्त्या चित्तस्यात्यन्तिकलयकालेऽनागतदुःखमपि शक्तिरूपं चित्तेन सहैव नश्यति । अतो हेयं दुःखमनागतमिति सूत्रोक्तमनागतदुःखस्य हेयत्वमुपपन्नम् । एवं च सति विकाराणां क्वचिल्लक्षणमात्रमपि भवत्यनागतातीततारूपमिति वक्तव्यम् । अन्यथाऽनागतदुःखस्य हेयत्वानुपपत्तेः । परेषामनागतदुःखस्य हानं हि सिद्धत्वान्न पुरुषार्थः । अस्मिंश्चानागतदुःखमभावितया न घटेतेति । पदार्थान् व्याख्याय समग्रं सूत्रार्थमाह । य एतेष्विति । अन्वयी सर्वधर्मान्वयी स्थिर इत्यर्थः । तथा चाभिव्यक्तानभव्यक्तत्ववैधर्म्येण धर्मधर्मिणोर्विवेक इति सूत्रतात्पर्यार्थः ।

तदेवमन्योन्यवैधर्म्याद्धर्मेभ्योऽतिरिक्ततया धर्मी प्रसाधितः । इदानीं तदनभ्युपगमे भाष्यकारो बाधकमप्याह । यस्य त्विति । धर्ममात्रमित्यनेनैव क्षणिकत्वमप्यायातम् । अनेकक्षणस्थायित्वे हि क्षणसम्बन्धरूपधर्मवत्त्वमेव पदार्थमात्रस्य स्यादिति । धर्ममात्रमित्यस्य विवरणं निरन्वयमिति, निर्धर्मिकमित्यर्थः । धर्मिनिराकरणादात्मा क्षणिकविज्ञानमित्यायातं तथा च प्रथमपादोक्तमेव दूषणमाह । तस्य भोगाभाव इति । शेषं सुगमम् ॥ १४ ॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥ एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर्भवतीति। तद्यथा चूर्णमृत्पिण्डमृद्घटमृत्कपालमृत्कणमृदिति च क्रमः। यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः। पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः। लक्षणपरिणामक्रमो घटस्यानागतभावाद्वर्तमानभावः क्रमः। तथा पिण्डस्य वर्तमानभावादतीतभावः क्रमः। नातीतस्यास्ति क्रमः। कस्मात्। पूर्वपरतायां सत्यां समनन्तरत्वं, सा तु नास्त्यतीतस्य। तस्माद्द्वयोरेव लक्षणयोः क्रमः। तथाऽवस्थापरिणामक्रमोऽपि घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते। सा च क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिमापद्यत इति। धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति। वार्तिकम् योग-वार्त्तिकम्

नन्वस्तु धर्मी धर्मातिरिक्तः तथाऽप्येकस्य धर्मिण एक एव परिणामोऽस्तु, एकस्य नानापरिणामाङ्गीकारे सहकारिभेदकल्पनागौरवादित्याशङ्कायामेकस्य धर्मिणः परिणामभेदं साधयति । एकस्य धर्मिण आगामिसूत्रवक्ष्यमाणपरिणामत्रयसिद्धये ।

एकस्य धर्मिणः परिणामनानात्वे क्रियाभेदो हेतुर्लिङ्गमित्यर्थः । आशङ्कापूर्वकं सूत्रं व्याचष्टे । एकस्येति । भवतीति सिद्वान्त इति शेषः । हेतुत्वं प्रतिपादयितुमादौ धर्मपरिणामविषये धर्मिणः क्रमं दर्शयति । चूर्णेति । एकैव मृत् प्रथमं चूर्णमृत्तिष्ठति ततः पिण्डमृद्भवति ततश्च घटमृदिति घटोत्पत्तौ मृद्धर्मिणः क्रमं प्रतिपाद्य घटलयेऽपि मृदः क्रममाह । कपालमृत्कणमृदिति । चशब्देनान्यपरिणामविषयेऽपि क्रमः समुच्चीयते सर्वत्र मृच्छब्दो मृद्धर्मिण एकत्वप्रतिपादनार्थः । एकस्य सामान्यात्मकस्य मृद्धर्मिणोऽनङ्गीकारे मृदित्यनुगतप्रत्ययो न स्यादिति भावः । ननु धर्माणामेव क्रमः पौर्वापर्यात्मा सम्भवति न तु धर्मिण इत्याशङ्कायां प्रकृतेः क्रमं लक्षयति । यो यस्येति । यस्य धर्मिणो धर्मान्तरस्य समनन्तरो यो धर्मः स एव तस्य धर्मिणः क्रम इत्यर्थः । तथा च मृदेकैव चूर्णं भूत्वा पश्चात् पिण्डो भवतीत्येकः क्रमः, पश्चाच्च घट इत्यादिक्रमैर्मृद्धर्मिण एव क्रमबहुत्वमिति भावः । धर्माणां क्रमस्यैवात्र विवक्षितत्वे तु तेषां क्रमनानात्वेऽप्येकस्य धर्मिणः परिणामबहुत्वं न सिध्यतीति भाष्यकाराशयः । परिणामत्रयेऽपि क्रममदाहरति । पिण्डः प्रच्यवत इत्यादिना । नातीतस्यास्ति क्रम इति । लक्षणात् लक्षणान्तरप्राप्तिरूपः क्रमो नातीतस्येत्यर्थः । धर्मपरिणाम इवावस्थापरिणामे प्रतिक्षणक्रमो न प्रत्यक्षीक्रियत इति तमनुमानेन साधयति । घटस्याभिनवस्येति । प्रान्त इति शेषः । सा चेति । सा च पुराणता क्षणपरम्परानुपातिना प्रतिक्षणं भिन्नेन स्वरूपसत्ताक्रमसमूहेनैवाभिव्यज्यमाना भवन्ती चरमावस्थायां स्फुटप्रत्यक्षगोचरतामेति । अतः पुराणताभिव्यक्तिहेतुतया प्रतिक्षणमवस्थापरिणामोऽनुमीयत इति शेषः । प्रतिक्षणपरिणामतो यत्सिध्यति तदाह । धर्मलक्षणाभ्यामिति । विशिष्टोऽतिशयितः । धर्मलक्षणपरिणामयोः प्रतिक्षणमनुत्पादादवस्थापरिणामस्य च प्रतिक्षणमुत्पादादित्यर्थः । तथा चोक्तं मनुना -

घोरेऽस्मिन् हन्त संसारे नित्यं संसारपायिनि । इति ।

स्मृत्यन्तरेषु च -

नित्यदा ह्यङ्ग भूतानि भवन्ति न भवन्ति च । कालनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते ॥

इत्यादि च । पुराणे चात एव चतुर्विधः प्रलय उक्तः ।

नित्यो नैमित्तिकश्चेति प्राकृतात्यन्तिकौ तथा । इति ।

नित्यः प्रतिक्षणं जायमानः । एतेन स्वप्नमायादिदृष्टान्ता अपि प्रपञ्चस्य क्षणभङ्गुरत्वेनैव श्रुतिस्मृतिष्वभिप्रेता इति । सूत्रतात्पर्यार्थमाह ।p> त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः। धर्मोऽपि धर्मी भवत्यन्यधर्मस्वरूपापेक्षयेति। यदा तु परमार्थतो धर्मिण्यभेदोपचारस्तद्द्वारेण स एवाभिधीयते धर्मस्तदाऽयमेकत्वेनैव क्रमः प्रत्यवभासते। वार्तिकम् योग-वार्त्तिकम्

त एत इति । प्रतिलब्धस्वरूपाः प्राप्तसम्भवा इतरथा तु नेत्यर्थः । ननु धर्मिणोऽपि घटादेः कपालादिधर्मत्वात् कथं धर्मधर्मिणोर्भेद इति? तत्राह । धर्मोऽपीति । तथा च यो यस्य धर्मी स तस्माद्भिन्न इत्येव नियम इत्यर्थः । नन्वेवं धर्मधर्मिलक्षणानां परिणामभेदे कथमेकस्याः प्रकृतेः सर्वे परिणामा इति श्रूयते –

“इत्येषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणी”त्यादि

स्मृतिषु, तत्राह - यदा त्विति । यदा तु परमार्थधर्मिणि प्रधानेऽभेदोपचारेण निमित्तेन सर्वोऽपि धर्मः स एवाभिधीयते तदाऽयं क्रम एकत्वेन एकनिष्ठत्वेनैव प्रतीयत इत्यर्थः । परमार्थधर्मित्वं च साक्षात्परम्परया सर्वविकाराश्रयत्वम्, तच्च प्रधानस्यैवास्तीत्यन्ये । अपारमार्थिकधर्मिण आपेक्षिकत्वात् । यथा परिणामिनां सत्यत्वं यथा वा ब्रह्ममीमांसायां जीवानामात्मत्वमपारमार्थिकं तयोरपि शशशृङ्गदेहाद्यापेक्षिकत्वादिति भावः । अत्र प्रधानस्यैव पारमार्थिकधर्मिकत्वं वदद्भिः भाष्यकारैः परमात्मन एव निरतिशयसतोऽनापेक्षिकात्मनश्च पारमार्थिकसत्त्वं पारमार्थिकात्मत्वं च श्रुतिस्मृतिसिद्धमनुमतं न्यायसाम्यादिति ध्येयम् । तथाऽभेदोपचारवचनाद् धर्मधर्मिणोर्भेद एव पारमार्थिकः । अविभागमात्रं त्वभेद इत्ययुक्तमिति । तदित्थं सूत्रगणेन प्रपञ्चः प्रकृतिपरिणाम इति सिद्धान्तितम् । तत्र चारम्भवादिभिः सहास्माकं धर्मधर्म्यभेदसत्कार्ययोरेव विरोधो न तु प्रपञ्चस्याचेतनसूक्ष्मद्रव्योपादानकत्वेऽपि तैरभेदप्रत्ययनियामकस्याविभागलक्षणस्वरूपस्यानङ्गीक्रारात् प्रागभावध्वंसयोरङ्गीकाराच्च । ये तु प्रपञ्चस्य ब्रह्मविवर्त्ततावादिनस्तैः सह च नास्माकं विरोधलेशोऽपि वर्त्तते । मायापरिणामस्य प्रपञ्चस्य परमात्मन्यतात्त्विकताया अस्माभिरपीष्टत्वात्,

“इन्द्रो मायाभिः पुरुरूप ईयते” ।

“बहुरूप इवाभाति मायया बहुरूपया । रममाणो गुणेष्वस्या ममाहमिति बध्यते ॥ “

इत्यादिश्रुतिस्मृतिषु मायाविकारस्यैव परमात्मन्यध्यारोपावगमात् । शुक्तौ बुद्विपरिणामरजतारोपवद् बध्यत इति अंशत इत्यर्थः । यदि च मायायामपि विवर्तत्वं प्रपञ्चस्य कश्चिद्वदेत् तदपि परमार्थाभिप्रायेणेष्यत एवास्माभिः मायाऽपेक्षया तत्कार्याणामनित्यत्वेन तामपेक्ष्य मिथ्यात्वात् । वाचारम्भणं विकारो नामधेयं मृतिकेत्येव सत्यमित्यादिश्रौतदृष्टान्तैरेवमेव सिध्येदिति । तदेवं चित्तपरिणामप्रसङ्गेन सर्ववस्तूनां भूतेन्द्रियशब्दोपलक्षितानां त्रिविधः परिणामः सूत्रकारेण प्रतिपादितः । तत्र सूत्रकारैश्चित्तस्य निरोधव्युत्थानसंस्काररूपावेव परिणामौ प्रतिपादितौ, न सर्व इति न्यूनता । तस्याः परिहाराय परिणामात्मकान् चित्तधर्मानशेषतः प्रकरणसमाप्त्यवसरे दर्शयति । चित्तस्य द्वये धर्माः परिदृष्टाश्चापरिदृष्टाश्च। तत्र प्रत्ययात्मकाः परिदृष्टा वस्तुमात्रात्मका अपरिदृष्टाः। ते च सप्तैव भवन्त्यनुमानेन प्रापितवस्तुमात्रसद्भावाः । निरोधधर्मसंस्काराः परिणामोऽथ जीवनम् । चेष्टा शक्तिश्च चित्तस्य धर्मा दर्शनवर्जिताः ॥ इति ॥ १५ ॥ वार्तिकम् योग-वार्त्तिकम्

चित्तस्य द्वय इति । परिदृष्टापरिदृष्टाः = प्रत्यक्षाप्रत्यक्षाः । प्रत्ययात्मका इति । प्रत्ययो वृत्तिपरिणामविशेषो यः साक्षिणि प्रतिबिम्बाधानक्षमः स च ज्ञानेच्छाकृतिसुखदुःखादिमान् प्रदीपशिखावद् द्रव्यरूपः परिणामविशेषः तदात्मकाः तद्रूपा इत्यर्थः । वस्तुमात्रेति । परमाणुतद्रूपवत् प्रतिबिम्बाधानाक्षमतया साक्षिण्याभासमाना इत्यर्थः । ते चापरिदृष्टाः, अनुमानेनेति । अनुमानेन साधिता वस्तुमात्रतया सत्ता येषां सप्तानामित्यर्थः । सप्त दर्शयति । निरोधेति । निरोधो वृत्तिनिरोधः संस्कारजनकत्वेन निवृत्तियत्नवद्भावरूपोऽनुमीयत इति प्रागेवोक्तम् । धर्मश्चादृष्टसामान्यं भोगवैचित्र्यादनुमीयते संस्कारश्च स्मृतिहेतुतयानुमीयते परिणामश्चित्तस्योपचयापचयादिर्वृत्त्युत्कर्षापकर्षादिरनुमीयते । एतच्च छान्दोग्ये स्पष्टम् – “अन्नमयं हि सोम्य मन” इत्यत्र । जीवनं प्राणनादिरूपव्यापारविशेषः सुषुप्तावपि श्वासप्रश्वासाभ्यामनुमीयते, चेष्टा चित्तस्य सञ्चारः स च जाग्रत्स्वप्नसषुप्त्यादिहेतुभ्यां चित्तस्य चक्षुरादिदेशसंयोगवियोगाभ्यामनुमीयते । यद्यपि चित्तस्य विभुत्वं तथापि बाह्यसत्त्वाद्युपष्टम्भेनोपचयापवयवच्छ्रोत्रस्यैवौपाधिकी क्रियाऽप्यस्तीति भावः । शक्तिः ध्यानादिसामर्थ्यं तच्च तत्कार्येणानुमीयते । यद्यपि कार्यजननशक्तिः सर्वपरिणामिष्वनमेयैव भवति तथापि चित्तस्याखिलधर्मप्रसङ्गेन चित्तमधिकृत्योक्ता ॥ १५ ॥ अतो योगिन उपात्तसर्वसाधनस्य बुभुत्सितार्थप्रतिपत्तये संयमस्य विषय उपक्षिप्यते – वार्तिकम् योग-वार्त्तिकम्

पादसमाप्तिपर्यन्तानि संयमसिद्धिसूत्राण्यवतारयति । अतो योगिन इति । ज्ञानसाधनानि योगाङ्गानि विस्तरेण व्याख्यातानि, योगकालीनावस्थाश्च चित्तस्य परिणामरूपा योगनिष्पत्त्याद्यवधारणाय दर्शिताः । अतः परं बुभुत्सितानां योगिभिर्जिज्ञासितानामर्थानां साक्षात्काराय यमादिसाधनसम्पन्नस्य योगिनः संयमविषय उपक्षिप्यते । उभयत्र संयमाद्यथा सिद्विर्भवति तत्सर्वं विशिष्य प्रदर्श्यते पादसमान्तिपर्यन्तमित्यर्थः । अत्र बुभुत्सितार्थप्रतिपत्तय इति वचनात् तत्तद्विभूतिकामैरेव ते संयमाः कर्त्तव्याः केवलमुमुक्षुभिस्तु सत्त्वपुरुषान्यतामात्रसंयमः कर्त्तव्यः परवैराग्यायेति सूचितम् । एताश्च विभूतयः संयमसिद्धिसूचिका अपि ज्ञेयाः । परिणामत्रयसंयमादतीतानागतज्ञानम् ॥ १६ ॥ धर्मलक्षणावस्थापरिणामेषु संयमाद्योगिनां भवत्यतीतानागतज्ञानम्। धारणाध्यानसमाधित्रयमेकत्र संयम उक्तः। तेन परिणामत्रयं साक्षात्क्रियमाणमतीतानागतज्ञानं तेषु सम्पादयति ॥ १६ ॥ वार्तिकम् योग-वार्त्तिकम्

अस्य धर्मिणोऽयं धर्मपरिणामस्तस्य चायं लक्षणपरिणामः लक्षणस्य चायं नवपुराणाद्यवस्थापरिणाम इत्येवमनुक्षणं यत्र कुत्रचिदर्थे संयमात्तत्साक्षात्कारे सति तदितरार्थानामपि धर्मादिपरिणामेष्वतीतानागतज्ञानं सङ्कल्पमात्रेण प्रणिधानलेशादेव भवतीत्यर्थः । अन्यविषयकसंयमात् प्रतिनियतपदार्थान्तरसाक्षात्कारश्च योगजधर्मबलाद्भवतीति शास्त्रप्रामाण्यादवधार्यते धर्मविशेषात्स्वर्गविशेषवत् तपोजन्यसिद्धिवत् भवनज्ञानं सूर्ये संयमादिति वक्ष्यमाणसिद्धिवच्च । कश्चित्तु समानविषयत्वानुरोधात्संयमविषययोरेवातीतानागतयोः साक्षात्कारो भवतीत्यर्थ इत्याह । तन्न । तर्हि तत्संयमात्तज्ज्ञानमित्येव सामान्यतः सूत्रं युज्येत । संयमस्य स्वविषयगोचरसाक्षात्कारजनकत्वनियमात् । अपि च परिणामत्रयं साक्षात्क्रियमाणं तेष्वतीतानागतज्ञानं सम्पादयतीति भाष्ये पौनरुक्त्यमपि स्यादिति । भाष्ये तेष्विति । धर्मलक्षणावस्थापरिणामेषु सर्ववस्तुसाधारणेष्वित्यर्थः । शेषं सुगमम् ॥ १६ ॥ शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ १७ ॥ तत्र वाग्वर्णेष्वेवार्थवती। श्रोत्रं च धवनिपरिणाममात्रविषयम्। पदं पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यमिति। वार्तिकम् योग-वार्त्तिकम्

संयमान्तरस्य सिद्ध्यन्तरमाह ।

गौरित्यादिः शब्दो गौरित्यादिरर्थो गौरित्यादिः प्रत्ययः तेषां वक्ष्यमाणं सङ्केतरूपाध्यासात्सङ्करो विवेकाग्रहणं भवति । वस्तुतस्तु तेषां भेदोऽस्ति, अतस्तेषां प्रविभागे भेदे संयमात्साक्षात्कृते सति सर्वभूतानां रुतानि ज्ञायन्ते । अयं काकादिरिममर्थमेवं प्रतीत्यानेन शब्देन कथयतीत्येवमित्यर्थः । यद्यपि साक्षात्कृते सतीति सूत्रे नास्ति, तथापि संस्कारसाक्षात्करणादित्युत्तरसूत्रेण साक्षात्कारपर्यन्तस्यैव संयमस्य सिद्धिकथनात्सर्वत्र सूत्रे संयमस्य साक्षात्कारद्वारकत्वं व्याख्येयम् । अत एव भाष्यकारोऽप्यनेकसूत्रे दृग्दर्शनार्थसाक्षात्कारपर्यन्ततां संयमस्य व्याख्यास्यति । त्रिविधैरेव शब्दार्थप्रत्यययोस्तेषां शब्दानामन्योन्यं च सङ्करं दर्शयितुं शब्दानामेवादौ त्रैविध्यं दर्शयति भाष्यकारः । तत्र वागिति । तत्र शब्दमध्ये वागिन्द्रियं वर्णेष्वेव प्रयोजनवत् । शब्देषु मध्ये वागिन्द्रियजन्यः शब्दो वर्ण एव न तु शृङ्गादि शब्दो नापि वाचकं पदमित्यर्थः । उरआदिषूत्पद्यमानः शब्दो वर्णः ।

अष्टौ स्थानानिवर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥

इति स्मरणात्, वागिन्द्रियस्य च शरीराद्बहिर्वृत्तिर्नास्ति अतो न श्रोत्रग्राह्यवक्ष्यमाणशब्दो नापि तदनन्तरं श्रोतृबुद्धिग्राह्यो वाचकशब्दो वागिन्द्रियकार्यः । श्रोतृश्रोत्रदेशे वक्तृवागिन्द्रियासम्बन्धेन श्रोत्रग्राह्यशब्दोत्पादकत्वासम्भवात् इति । वागिन्द्रियजन्याच्छब्दाच्छब्दान्तरमाह । श्रोत्रं चेति । ध्वनिर्नाम वागिन्द्रियशङ्खादिष्वभिहतस्योदानवायोः परिणामभेदः येन परिणामेनोदानवायुर्वक्तृदेहादुत्थाय शब्दधारां जनयन् श्रोतृश्रोत्रं प्राप्नोति तस्य ध्वनेः परिणामभूतं वर्णावर्णसाधारणं नादाख्यं शब्दसामान्यमेव श्रोत्रस्य विषयः न त ध्वन्यपरिणामभूतं वाचकं पदमित्यर्थः । स च शब्दो वर्णजातीयत्वेन वर्ण इत्युच्यते । तृतीयं शब्दमाह । पदं पुनर्नादानुसंहारबुद्विनिर्ग्राह्यमिति । यथाप्रतीतिसिद्धावन्नादाख्यान् गकारादिवर्णान् प्रत्येकं गृहीत्वाऽनु पश्चाद्या बुद्धिः संहरति एकत्वमापादयति गौरित्येकं पदमिति तया बुद्ध्या निर्ग्राह्यः वर्णेभ्योऽतिरिक्तमखण्डमेकदैवोत्पद्यमानं वक्ष्यमाणं स्फोटाख्यमिति शेषः । तथा चायं तृतीयः शब्दोऽन्तःकरणस्यैव ग्राह्य इत्यर्थः । तस्य हि पदस्य श्रोत्रग्राह्यत्वेऽनुसंहारबुद्धेरन्तःकरणनिष्ठायाः वैयधिकरण्येन हेतुत्वं स्यात् । तच्चायुक्तं, सामानाधिकरण्यस्य प्रत्यासत्तितायां लाघवात् । न चानुसंहारबुद्विरपि श्रोत्रादेरेवास्त्विति वाच्यम् । असम्भवात् । वर्णानां ह्यैक्यापादनमानुपूर्व्यैक्यात्, सा चानुपूर्वी गकारोत्तरौकारादिरूपिणी नानेकवर्णपदेषु श्रोत्रेण ग्रहीतुं शक्यते । आशुविनाशितया वर्णानां मेलनाभावात् पूर्वपूर्ववर्णसंस्काराणां तत्स्मृतीनां चान्तःकरणनिष्ठानामन्तःकरणसहकारित्वमेवोचितम् । अतः स्मृतानां वर्णानां मनसैवानुपूर्वी ग्रहीतुं शक्य इति भावः । ननु स्फोटाख्यः शब्दः कीदृशः किङ्कारणकः किम्प्रमाणक इति । अत्रोच्यते । यथा बीजाङ्कुराद्यनेकावस्थो वृक्षधर्मी क्रमिकाभ्यस्ताभ्योऽतिरिक्तः पल्लवादिरूपाशेषावस्थया व्यज्यते अयमाम्रवृक्षो न वृक्षान्तरमेवंरूपेण स च बीजादिभ्यो भिन्नाभिन्नः भेदाभेदयोरनुभवात् । तथैव गकारौकाराद्यनेकावस्थो गौरित्यादिरखण्डः स्फोटशब्दः क्रमिकाभ्यो गकाराद्यवस्थाभ्योऽतिरिक्त आनुपूर्वीविशेषविशिष्टया विसर्जनीयादिरूपचरमावस्थया व्यज्यते, इदं गौरिति पदं न तु गौर इतीत्यादिरूपेण । तच्च स्फोटपदं गकारादिवर्णेभ्यो भिन्नाभिन्नं भेदाभेदयोरनुभवात् । स च पदाख्यः शब्दोऽर्थस्फुटीकरणात् स्फोट इत्युच्यते । स्फोटशब्दस्य च कारणम् एकप्रयत्नजन्यो ध्वनिविशेषः प्रयत्नभेदेनोच्चारणे व्यवधाने सत्येकपदकव्यवहाराभावात् । गौरित्येकपदमिति व्यवहारस्तु स्फोटे प्रमाणं, वर्णानामनेकत्वेन तैरेकत्वव्यवहारस्याञ्जस्येनानुपपत्तेः । तथा प्रत्येकवर्णादनुत्पद्यमानस्यार्थप्रत्ययस्य हेतुत्वं च स्फोटे प्रमाणम् । यदि चानुपूर्वीविशिष्टसमूहस्यैकत्वादेकत्वव्यवहारः, तेनैव रूपेणार्थप्रत्ययहेतुत्वं च स्वीक्रियते, तर्हि संयोगविशेषावच्छिन्नावयवसमूहादेवैकत्वव्यवहारजलाद्याहरणयोरुपपत्त्या घटाद्यवयविमात्रोच्छेदप्रसङ्गः युक्तिसाम्यात् । नन्वेवं युक्तिसाम्याद्वाक्यमपि स्फोटरूपम् एकैकं स्यात् इति चेत् । बाधकाभावे सतीष्टत्वादिति दिक् । भाष्यकारस्तु सङ्क्षेपतो वर्णानां पदत्वं निराकरोति । वर्णा एकसमयासम्भवित्वात्परस्परनिरनुग्रहात्मानस्ते पदमसंस्पृश्यानुपस्थाप्याऽऽविर्भूता-स्तिरोभूताश्चेति प्रत्येकमपदस्वरूपा उच्यन्ते। वार्तिकम् योग-वार्त्तिकम्

वर्णा एकेति । अनेकवर्णा एकसमयस्थित्यनर्हत्वात् परस्परं निरनुग्रहात्मानोऽसम्बद्धस्वभावा अतस्ते पदमसंस्पृश्य पदवमप्राप्य अत एवार्थमनुपस्थाप्याविर्भूयैव क्षणात्तिरोभूताश्चेति कृत्वा प्रत्येकमपदस्वरूपा विवेकिभिरुच्यन्त इत्यर्थः । अत्र स्वरूपग्रहणादवस्थावस्थावतोरभेदेन वर्णानां पदत्वं न निराकृतम् । ननु यदि वर्णाः पदस्वरूपा न भवन्ति तर्हि कथमियन्तो वर्णाः क्रमविशेषावच्छिन्ना अस्यार्थस्य वाचका इति लोकैः सङ्केत्यन्त इत्याशङ्कां परिहरति । वर्णः पुनरेकैकः पदात्मा सर्वाभिधानशक्तिप्रचितःसहकारिवर्णान्तर-प्रतियोगित्वाद्वैश्वरूप्यमिवाऽऽपन्नः पूर्वश्चोत्तरेणोत्तरश्च पूर्वेण विशेषेऽवस्थापित इत्येवं बहवो वर्णाः क्रमानुरोधिनोऽर्थसङ्केतेनावच्छिन्ना इयन्त एते सर्वाभिधानशक्तिपरिवृता गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थं द्योतयन्तीति। वार्तिकम् योग-वार्त्तिकम्

वर्णः पुनरित्यादिना सङ्केत्यन्त इति पर्यन्तेनेत्येकवाक्येन । अयमर्थः । यद्यपि वर्णाः पदाद्भिन्नास्तथाप्यवस्थावस्थावतोरभेदस्यापि सत्त्वादेकैकोपि वर्णः पदात्मा पदभिन्नो भवति बीजाङ्कुरादिरिव वृक्षाभिन्नोऽत एव पदरूपेण सर्वपदार्थाभिधानयोग्यतासम्पन्नः, अत्र हेतुमाह । सहकारीति । पदभावे सहकारीणि यानि वर्णान्तराणि तत्प्रतियोगित्वात् तत्सम्बन्धित्वात् अनन्तपदरूपतामिवापन्नो भवति । इवशब्दोऽत्र वैश्वरूप्ययोग्यतामात्रप्रतिपादनार्थः । वैश्वरूप्यप्रकारमाह । पूर्वो गकारः उत्तरेणौरिति वर्णद्वयेन गण इत्यादिपदात् व्यावर्त्यते । उत्तरश्च विसर्जनीयः पूर्वेण गौरिति वर्णद्वयेन गौर इत्यादिपदेभ्यो व्यावर्त्य विशेषे गौरिति स्फोटपदेऽखण्डे तादात्म्येनावस्थापितो भवति इति हेतोरेवंरूपा बहवो वर्णाः क्रमानुरोधिन आनुपूर्वीविशेषसापेक्षाः पदाभेदतोऽर्थसङ्केतेनावच्छिन्ना नियमिता भूत्वा सर्वाभिधानसमर्था अपि इयन्त एतावत्सङ्ख्यका एते गकारादयो गामेवोपस्थापयन्ति इत्यतस्तु तेन प्रकारेण वर्णमुखेन तत्पदमेवाविवेकतः सङ्केत्यत इत्यन्वयः । तत्र हेतुर्वाच्यस्य वाचकमिति । पदमेव हि वाच्यस्य वाचकमुपस्थापकम् । तदेतेषामर्थसङ्केतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस्तत्पदं वाचकं वाच्यस्य सङ्केत्यते। तदेकं पदमेकबुद्धिविषय एकप्रयत्नाक्षिप्तमभागमक्रममवर्णं बौद्धमन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्णैरेवाभिधीयमानैः श्रूयमाणैश्च श्रोतृभिरनादिवाग्व्यवहारवासनानुविद्धया लोकबुद्ध्या सिद्धवत्सम्प्रतिपत्त्या प्रतीयते। वार्तिकम् योग-वार्त्तिकम्

अन्यस्यान्यरूपेण सङ्केते हेतुरेतेषामित्यादि निर्भास इत्यन्तम् । यः पदाख्यो बुद्विमात्रग्राह्यः स्फोट एतेषां वर्णानाम् अर्थसङ्केतेनावच्छिन्नानां तथा समाप्तो ध्वनिजन्यः क्रम आनुपूर्वीविशेषो येषां तादृशानाम् एकोऽभिन्न इति पदस्य स्वरूपाख्यानम् । समाप्तो वाक्यार्थः । अयं भावः । यथा संयुक्तं कपालद्वयं जलाहरणहेतुरित्यविवेकतो बालकेभ्य उपदिश्यते पटादिभ्यो घटस्य व्यावर्त्तकान्तरासम्भवात् । ततश्च बालकः कपालाविवेकेन घटस्यैव जलाहरणहेतुत्वं गृह्णाति, एवमेव स्फोटान्तरव्यावर्त्तनाय वर्णाविवेकेनैव स्फोटे सङ्केतोपदेशः सङ्केतग्रहश्च भवतीति न वर्णेषु सङ्केततानुपपत्तिरिति । त्रिविधं शब्दं प्रदर्श्येदानीं तेषां मध्यात्सङ्केतकारणं प्रतिपादयति । तदेकमिति । प्रतीयत इत्यनेनान्वयः । अयमर्थः । यद्यपि तत्पदं स्फोटाख्यम् एकमेव न तु वर्णवदनेकम् एकत्वे प्रमाणमेकबुद्विविषयमिति तथा वक्तुरेकेनैव प्रयत्नेन ध्वन्यादिद्वारोत्पादितं वर्णास्तु प्रयत्नभेदेनाप्युत्पद्यन्ते तथाऽभागं निरंशं, वर्णव्यूहस्तु वनवसांशः । तथाऽक्रमम् एकदैवोत्पद्यमानं न तु वर्णवत् क्रमेण, अत एभिर्हेतुभिर्वर्णभन्नं, किञ्च बौद्धं बुद्धिमात्रग्राह्यं तथान्त्यवर्णस्य प्रत्ययरूपव्यापारेणाभिव्यक्तं वर्णास्तु नैवं, तथापि परप्रतिपिपादयिषया वक्तृभिरभिधीयमानैः श्रोतृभिश्च श्रूयमाणैर्वर्णैरेवंरूपैः सिद्धवत्परमार्थवदन्योन्यसम्प्रतिपत्त्या संवादेन प्रतीयते व्यवह्रियते । न तु वर्णेभ्योऽन्येन रूपेण, तत्र हेतुरनादिवाग्व्यवहारवासनावशीकृतया लौकिकबुद्ध्येति । अत्राभिधीयमानैरित्यनेन वागिन्द्रियविषयवर्णाविवेकः पदस्येति श्रूयमाणैरित्यनेन श्रोत्रविषयशब्दाविवेकः पदस्येति बोध्यम् । तदेवं त्रिविधशब्दानामन्योन्याध्यासात्सङ्करो दर्शितः । इदानीं त्रिविधशब्देनार्थप्रत्यययोरध्यासं प्रतिपादयितुं शाब्दव्यवहारस्य सङ्केतग्रहमूलकत्वमाह । तस्य सङ्केतबुद्धितः प्रविभाग एतावतामेवं जातीयकोऽनुसंहार एकस्यार्थस्य वाचक इति। सङ्केतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मको योऽयं शब्दः सोऽयमर्थो योऽयमर्थः सोऽयं शब्द इति। एवमितरेतराध्यासरूपः सङ्केतो भवतीति। एवमेते शब्दार्थप्रत्यया इतरेतराध्यासात्सङ्कीर्णा गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानम्। य एषां प्रविभागज्ञः स सर्ववित्। वार्तिकम् योग-वार्त्तिकम्

तस्येति । तस्य पदस्य प्रविभागो विषयव्यवस्था सङ्केतग्रहादेव भवति । प्रविभागमेवाह । एतावतामिति । एतावतां वर्णानाम् एवञ्जातीयक एवमानुपूर्वीकोऽनुसंहारो मिलनमेतस्यार्थस्य वाचक उपस्थापक इत्येवंरूपो विभाग इत्यर्थः । एकस्यार्थस्येति पाठेऽर्थविशेषस्येत्यर्थः । सङ्केतशब्दार्थमाह । सङ्केतत्विति । अध्यासः सङ्केतकर्तुराहार्यारोपः । आरोपिताभेद इति यावत् । तस्यैव च ज्ञानं पदार्थोपस्थापकं तत्राधुनिकनामादिकल्पनाव्यावर्त्तनाय स्मृत्यात्मक इति विषयविषयिणोरभेदात् पाणिन्यादिस्मृत इत्यर्थः । न च कल्पिताभेदस्यासतः कथं सङ्केतत्वमिति वाच्यम् । असत्ख्यात्यनभ्युपगमेनान्यत्र सत एवाभेदस्यान्यत्र कल्पनादिति । अध्यासस्य सङ्केतत्वे प्रमाणमाह । यो यं शब्द इत्यादिना भवतीत्यन्तेन । ओमित्येकाक्षरं ब्रह्मेत्यादिः शास्त्रेषु कम्बग्रीवादिमान् घट इत्यादिर्लोके च पदपदार्थयोरभेदारोप एव सङ्केतो दृश्यत इत्यर्थः । ओमित्यादिशब्दवाच्यत्वलक्षणायां प्रमाणाभावादिति । अत एवकोशेषु अमरा निर्जरा देवा इत्यादिना शब्दार्थयोरारोप्यमाणाभेद एव सङ्केतो दृश्यत इति । अत एवैतेनानाद्यभेदारोपेणागामिनो मन्त्रार्थयोरभेदोपासनामुपदिशन्ति । मीमांसकाश्च मन्त्रमयीं देवतामाहुः । या त्वस्माच्छब्दादयमर्थो बोद्धव्य इतीश्वरेच्छाविषयत्वं शक्तिरिति तन्त्रान्तरे लक्षिता साऽप्रामाणिकी लक्षणादिसाधारणी च । अपि चेश्वरमजानतोऽपि शब्दार्थप्रत्ययो दृश्यते, तथा पदपदार्थयोरभेदेन सङ्केतोऽपि न युज्येतेत्यादिदोषो बोध्यः । इदानीमुक्तसङ्केतबुद्विनिमित्तकः त्रयाणां सङ्केत इत्याह । एवमेत इति । एवं सङ्केतबुद्धेः कारणादेते त्रिविधाः शब्दा अर्थप्रत्ययौ च सङ्कीर्णावविविक्तौ च । तत्र सङ्केतग्रह एव शब्दार्थयोरितरेतराध्यासः शब्दार्थयोस्तु प्रत्ययेन सहैकाकारत्वादन्योऽध्यासः प्रसिद्ध एवेति भावः । सङ्कराकारमाह । गौरिति । य इति । स एव शब्दादीनां तत्त्वज्ञो नान्य इत्यर्थः । वर्णध्वनिपदानामन्योन्यसङ्करवदिदानीं पदवाक्ययोस्तदर्थयोश्च सङ्करेणापि शब्दार्थप्रत्ययानां सङ्करं दर्शयति । सर्वपदेषु चास्ति वाक्यशक्तिर्वृक्ष इत्युक्तेऽस्तीति गम्यते। न सत्तां पदार्थो व्यभिचरतीति। तथा न ह्यसाधना क्रियाऽस्तीति। तथाच पचतीत्युक्ते सर्वकारकाणामाक्षेपो नियमार्थोऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानामिति। दृष्टं च वाक्यार्थे पदरचनं श्रोत्रियश्छन्दोऽधीते, जीवति प्राणान्धारयति। तत्र वाक्ये पदार्थाभिव्यक्तिस्ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा। अन्यथा भवत्यश्वोऽजापय इत्येवमादिषु नामाख्यातसारूप्यादनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेतेति। वार्तिकम् योग-वार्त्तिकम्

सर्वपदेष्विति । वाक्यशक्तिः पटार्थान्तरसहकारेण वाक्यभवनशक्तिः । तथा च वृक्ष इत्यादिपदानां वृक्षोऽस्ति वृक्षश्चलति वृक्षश्छिद्यत इत्यादिवाक्यैः सङ्करोऽविवेक इति भावः । पदेषु वाक्यशक्तिमुदाहरति । वृक्ष इत्युक्त इति । वृक्ष इत्युक्ते सत्याकाङ्क्षापूरणार्थं योग्यतादिवशादस्तीति शब्दो गम्यतेऽध्याह्रियत इत्यर्थः । तथा च पदे वाक्यसङ्कर इति भावः । ननु शब्दाध्याहारो न सम्भवति एकस्मिन्नेवार्थे शब्दानामानन्त्यात् शब्दविशेषानुमापकलिङ्गाद्यनुपस्थितेरिति चेत्, न । स्वेच्छया स्वयं कल्पितेन केनाप्याकाङ्क्षापूरकशब्देन वक्तृतात्ययविषयार्थबोधसम्भवात् । अर्थविशेषानुमाने तु योग्यताकाङ्क्षातात्पर्यादिकमेव लिङ्गमस्ति, एतदेवाह । न सत्तामिति । योग्यताप्रदर्शनेनाकाङ्क्षातात्यर्यादयोऽप्युपलक्षिताः केवलयोग्यताया अर्थान्तरसाधारण्यादिति । उदाहरणान्तरमाह । तथा नहीति । आक्षेपोऽनुमानम् । नन्वेवं कारकवाचकपदानां कुत्रापि प्रयोगो न स्यादित्यत्राह । नियमार्थ इति । योग्यतादिभिः सर्वत्रार्थविशेषानुमानं न सम्भवति अतः कारकाणां सामान्यतोऽनुमितानामपि नियमार्थः, कारकान्तरव्यावृत्त्यर्थश्चैत्रोऽग्निना भर्जनमित्यादिपदैश्चैत्राग्निभर्जनानां कर्तृकरणकर्मणामनुवाद इत्यर्थः । इदानीमध्याहारं विनापि पदवाक्ययोः सङ्करमर्थाभेदनिमित्तकं दर्शयति । दृष्टश्चेति । छन्दोऽधीत इति वाक्यस्यार्थे श्रोत्रिय इति पदस्य तथा प्राणान् धारयतीति वाक्यस्यार्थे जीवतीति पदस्य च वचनमित्यर्थः ।

जन्मना ब्राह्मणो ज्ञेयः संस्काराद्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥

इति स्मृतेः । जीवबलप्राणधारणयोरित्यनुशासनाच्चेति । ननु यदि वाक्यार्थप्रतिपत्तिः पदादपि भवति तर्हि गुरुतरस्य छन्दोऽधीत इति वाक्यस्य वचनं कदापि न स्यादित्याशङ्कायामाह । तत्र वाक्य इति । अत एव पदवाक्ययोः साङ्कर्यात् संशयस्थले पदं वाक्येन विवरणीयमिति । प्रसङ्गादाह । तत इति । यतो वाक्यार्थेऽपि पदरचना भवति अतः सन्देहस्थले पदमंशभेदैः वाक्येन विवरणीयमित्यर्थः । अव्याकरणे अर्थाप्रत्ययाद्वाक्यव्यवहरणमेव व्यर्थं स्यादित्याह । अन्यथेति । भवतीति प्रयुक्ते नामाख्यातयोः सारूप्या’द्भवति घटो’ ‘भवति भिक्षां देही’त्यर्थद्वयसन्देहेऽनवधारितं पदं कथं किमर्थं क्रियायां कारके वा व्याक्रियेत श्रोतुरर्थप्रत्ययासम्भवात् । एवमश्व इति प्रयुक्ते गतिमकार्षीर्घोटको वेति संशयो नामाख्यातसारूप्यात् । तथाऽजापय इति प्रयुक्ते छाग्याः पयः शत्रून् पराभावितवान् वेत्यर्थसंशयो नामाख्यातसारूप्याद् इत्यर्थः । तदेवं शब्दार्थप्रत्ययानां सङ्करं प्रदर्श्येदानीं प्रविभागं दर्शयति । तेषां शब्दार्थप्रत्ययानां प्रविभागः। तद्यथा श्वेतते प्रासाद इति क्रियार्थः, श्वेतः प्रासाद इति कारकार्थः शब्दः, क्रियाकारकात्मा तदर्थः प्रत्ययश्च। कस्मात्। सोऽयमित्यभिसम्बन्धादेकाकार एव प्रत्ययः सङ्केत इति। वार्तिकम् योग-वार्त्तिकम्

तेषामित्यादिना । तत्रादौ शब्दभेदेऽप्यर्थप्रत्यययोरभेदेन शब्दार्थयोर्भेदं दर्शयति । श्वेतत इत्यादिना प्रत्ययश्चेत्यन्तेन । क्रिया साध्यरूपोऽर्थो यस्य स क्रियार्थः । श्वेतत इति शब्दः तथा कारकः सिद्धरूपोऽर्थो यस्य स कारकार्थः । श्वेत इति शब्दः, एतौ शब्दौ भिन्नौ एतयोरर्थस्तु क्रियाकारकरूप एक एव श्वेतगणमात्रः । एवं प्रत्ययोऽपि । क्रियाकारकात्मकगुणाकारत्वे प्रमाणं पृच्छति । कस्मादिति । उत्तरम् । सोऽयमित्यभिसम्बन्धादिति । श्वेतनं या क्रिया सोऽयं श्वेतरूपः कारको गुणो यश्च श्वेतत इत्यस्मात् श्वेताकारप्रत्ययः सोऽयं श्वेत इत्यस्मादपि श्वेताकारः प्रत्यय इत्यभेदप्रत्यभिज्ञानादित्यर्थः । कथं तर्ह्यभेदेन शब्दार्थयोः सङ्केत इति? तत्राह । एकाकार इति । एकाकार आरोपरूपः प्रत्यय इव सङ्केत आरोपिताभेद एव सङ्केतो न तु पारमार्थिकाभेदरूप इत्यर्थः । ननु शब्दार्थयोरभेदप्रत्ययेन प्रत्यभिज्ञैव कथं न बाध्यते तत्राह । यस्तु श्वेतोऽर्थः स शब्दप्रत्यययोरालम्बनीभूतः। स हि स्वाभिरवस्थाभिर्विक्रियमाणो न शब्दसहगतो न बुद्धिसहगतः। एवं शब्द एवं प्रत्ययो नेतरेतरसहगत इत्यन्यथा शब्दोऽन्यथाऽर्थोऽन्यथा प्रत्यय इति विभागः। एवं तत्प्रविभागसंयमाद्योगिनः सर्वभूतरुतज्ञानं सम्पद्यत इति ॥ १७ ॥ वार्तिकम् योग-वार्त्तिकम्

यस्त्विति । यस्तु श्वेतोऽर्थः शब्दप्रत्यययोर्विषयत्वात् स्वाभिः शब्दादिव्यावृत्ताभिरवस्थाभिर्नवपराणादिभिर्विक्रियमाणत्वाच्च न शब्दप्रत्यययोः सहगतो न कालतः सहचरो वैयधिकरण्यादित्यर्थः । एवं देशतो न सहचरो यतः शब्द आकाशे प्रत्ययो बुद्धावर्थस्तु श्वेतगुणादिः प्रासादादिष्विति भावः । एवमिति । एवं शब्दोऽपि स्वावस्थाभिः विक्रियमाणो नाप्यर्थबुद्ध्योः सहचरः एवं प्रत्ययोऽपीत्यर्थः । उपसंहरति । इत्यन्यथेति । सूत्रार्थमुपसंहरति । एवं तत्प्रविभागेति । एवं मनुष्यविषये शब्दार्थप्रत्ययेषु प्रविभागसंयमात् साक्षात्कारपर्यन्तात्सर्वभूतानां रुतं तदर्थप्रत्ययं च योगी जानाति योगजधर्मस्याचिन्त्यशक्तित्वात् धर्माणां स्वसदृशफलदानस्यौर्त्सर्गिकत्वाच्चेत्यर्थः । अस्मदादीनां च शब्दार्थप्रत्ययभेदसाक्षात्कारे सत्यपि तस्य साक्षात्कारस्य संयमाजन्यत्वान्न सर्वभूतरुतज्ञानं भवति संयमस्यैव हीयं सिद्धिरिति । एवमुत्तरसूत्रेष्वपि यथास्थलमिदमेव समाधानम् ॥ १७ ॥ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ १८ ॥ द्वये खल्वमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपा विपाकहेतवो धर्माधर्मरूपाः। ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्मवदपरिदृष्टाश्चित्तधर्माः। तेषु संयमः संस्कारसाक्षात्क्रियायै समर्थः। न च देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणम्। तदित्थं संस्कारसाक्षात्करणात्पूर्वजातिज्ञानपुत्पद्यते योगिनः। परत्राप्येवमेव संस्कारसाक्षात्करणात्परजाति-संवेदनम्। अत्रेदमाख्यानं श्रूयते – भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणाद्दशसु महासर्गेषु जन्मपरिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभूत्। अथ भगवानावट्यस्तनुधरस्तमुवाच – दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसम्भवं दुःखं सम्पश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन सुखदुःखयोः किमधिकमुपलब्धमिति। भगवन्तमावट्यं जैगीषव्य उवाच – दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवं दुःखं सम्पश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन यत्किञ्चिदनुभूतं तत्सर्वं दुःखमेव प्रत्यवैमि। भगवानावट्य उवाच - यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च सन्तोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति। भगवाञ्जैगीषव्य उवाच – विषयसुखापेक्षयैवेदमनुत्तमं सन्तोषसुखमुक्तम्। कैवल्यसुखापेक्षया दुःखमेव। बुद्धिसत्त्वस्यायं धर्मस्त्रिगुणस्त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति। दुःखरूपस्तृष्णातन्तुः। तृष्णादुःखसन्तापापगमात्तु प्रसन्नमबाधं सर्वानुकूलं सुखमिदमुक्तमिति ॥ १८ ॥ वार्तिकम् योग-वार्त्तिकम्

संस्कारसंयमेनेति सूत्रस्यादौ पूरणीयं संयमसिद्धिप्रकरणत्वात् । अत्र ज्ञानसंस्कारवद्रागादिवासनाधर्माधर्मा अपि ग्राह्या इत्याह । द्वय इति । अमी सूत्रोक्ताः, स्मृतिर्ज्ञाननविशेषः क्लेशोऽत्र रागादिरेव अविद्याऽस्मितयोः स्मृतिमध्यप्रवेशात् । न चाविद्यात एव रागादिसम्भवे तत्संस्कारे प्रमाणं नास्तीति वाच्यम् । अविद्यासाम्येऽपि कस्यचिद् दुग्ध एव प्रीतिर्न दध्नि, कस्यचिद्वैपरीत्यमित्यत्र वासनां विना नियामकान्तराभावेन तत्सिद्धेः । तेषां दृष्टान्तेनाप्रत्यक्षत्वमनात्मधर्मत्वं चाह । त इति । अभिसंस्कृता उपचिताः परिणामादिजीवनान्तचित्तधर्मवन्न साक्षिभास्याः । चित्तधर्माश्चानात्मधर्मा इत्यर्थः । एतेन धर्मादयः प्रलयेऽपि चित्त एव तिष्ठन्ति, तेन चित्तं बीजरूपेण नित्यमित्यायातम् । संस्कारसाक्षात्कारकारणतया संयमं व्याचष्टे । तेषु संयम इति । नन्वज्ञाते संस्कारे संयमो न घटते ज्ञाते च व्यर्थ इति चेत्? न – शब्दानुमानाभ्यां सामान्यतो ज्ञाते विशेषज्ञानफलकस्य संयमस्य सम्भवात् । संस्कारसाक्षात्कारे जायमाने पर्वजन्मज्ञानं भवतीत्यत्र युक्तिमप्याह । न चेत्यादिना साक्षात्करणमित्यन्तेन । देशो जन्मभूमिर्नगरादिः, कालो युगादिः, निमित्तं मातापित्रादिः । एतेषां संस्कारविषयतया तदनुभवैर्विना तान्यविषयीकृत्य संस्काराणां साक्षात्कारो न सम्भवति सविषयकगुणग्रहणस्य विषयोपरागेणैव ज्ञानेच्छादिस्थले दृष्टत्वात्द् अतः संस्कारसाक्षात्कारे पूर्वजन्मनां देशकालनिमित्तादिरूपाशेषविशिष्टानामपि साक्षात्कारो भवति विषयविधयेत्यर्थः । सूत्रार्थं व्याचष्टे । तदित्थमिति । न केवलं संस्कारसाक्षात्कारात् पूर्वजातिज्ञानमेव, अपि तु भाविजन्मज्ञानमपीति स्वयं पूरयति । परत्रापीति । भाविजन्मसंस्काराणामनागतावस्थानां साक्षात्कारादिति शेषः । संस्कारसाक्षात्करणात्पूर्वादिजन्मान्यशेषविशेषैर्ज्ञायन्त इत्यत्र प्रमाणतया जैगीषव्यावट्ययोः संवादमाह ।

अत्रेदमाख्यानमिति । अत्र पूर्वजातिज्ञानविषये महासर्गेषु प्राकृतसर्गेषु जन्मक्रमं बाल्ययौवनवार्द्धक्यादिरूपं तत्परिणामक्रमं च साक्षात्कुर्वतो जैगीषव्यस्य तारकं सर्वविषयकमित्यागामिसूत्रलक्षणीयं विवेकजं ज्ञानमुदभूद् । अथानन्तरं तमाहावट्यनामा योगी लिङ्गशरीरमात्र्वहारी परीक्षार्थं तनुधरो निर्माणकायं धृत्वा पप्रच्छेत्यर्थः । भव्यत्वात् कुशलत्वादनभिभूतवृत्तिसत्त्वेनेत्यस्याधिकं किमुपलब्धुमित्यनेनान्वयः । यथाश्रुते भव्यत्वाख्यजीवन्मुक्त्यनन्तरम् आकाशादिगमनासम्भवादिति । सम्पश्यता = उपभुञ्ज्ञानेन देवतामनुष्येषु जायमानेनेत्यनेन च तत्रत्यसुखमुपभुञ्जानेनेत्युपलक्षितं सुखदुःखयोर्मध्ये संसारे किं बहुलमिति पृष्टः स दुःखबहुत्वप्रतिपादनाय सर्वमेव दुःखमित्याह । दशस्विति । अनुभूतं सुखमिति शेषः । सुखप्यापि दुःखत्वं गुणवृत्त्यविरोधाच्चेत्यनेनोक्तम् । प्रधानवशित्वं स्वेच्छया प्रकृतिनियोक्तृत्त्वं तत्कार्यत्वात्तद्रपम् ऐश्वर्यसुखं तथा सन्तोषसुखं सन्तोषोत्थं स्वाभाविकं सुखं प्रधानवशित्वेन हि कामसमाप्त्या विषयेष्वलम्प्रत्ययरूपं वैतृष्णाख्यं सन्तोषमुत्पाद्य चित्तस्य स्वाभाविकं सुखमभिव्यज्यत इति । कैवल्यापेक्षया दुःखमुपपादयति । बुद्धिसत्त्वस्येति । बुद्धिसत्त्वस्यायं धर्मः सन्तोषाख्योऽलम्प्रत्ययः त्रिगणः सुखादिगुणत्रयवान् सुखादिगुणवांश्च प्रत्ययो बुद्धिपरिणामो हेयपक्षे दुःखपक्षे न्यस्तो मधुविषसम्पृक्तान्नवदित्यर्थः । कैवल्यस्य च सुखत्वम् आत्यन्तिकदुःखनिवृत्तिरूपतयोक्तम् । सुखं दुःखसुखात्यय इति मोक्षशास्त्रे परिभाषणात् । निरुपाधिप्रियत्वस्यैव सुखत्वाच्चेति यथा वाऽत्र कैवल्ये सुखशब्दो दुःखनिवृत्त्यादिपरतया निर्णीत एवं श्रुतिस्मृत्योरपि निर्णयः सर्वशास्त्रेष्वेकरूपव्यवहारौचित्यादिति । नन्वेवं कथं सन्तोषसुखस्यानुत्तमत्वं श्रुतिस्मृत्युक्तमुपपद्येत? तत्राह । दुःखरूप इति । दुःखसाधनतया दुःखरूपस्तृष्णाऽऽख्यस्तन्तुर्बन्धकरज्जुहेतुस्ततः दृष्टोऽर्थो बन्धरूपो यः सम्यक्तयोद्वेजकस्तस्यापगमात् प्रसन्नं वैषयिकदुःखाकलुषितम् अबाधमक्षयं यावद्बुद्धिस्थायि सर्वेषामेवानुकूलं प्रियमिदं सन्तोषोत्थं प्रधानवशित्वमूलकं सुखमुक्तं शास्त्रेष्वित्यर्थः ॥ १८ ॥ प्रत्ययस्य परचित्तज्ञानम् ॥ १९ ॥ प्रत्यये संयमात्प्रत्ययस्य साक्षात्करणात्ततः परचित्तज्ञानम् ॥ १९ ॥ वार्तिकम् योग-वार्त्तिकम् न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ २० ॥ रक्तं प्रत्यय जानात्यमुष्मिन्नालम्बने रक्तमिति न जानाति। परप्रत्ययस्य यदालम्बनं तद्योगिचित्तेन नाऽऽलम्बनीकृतं परप्रत्ययमात्रं तु योगिचित्तस्याऽऽलम्बनीभूतमिति ॥ २० ॥ वार्तिकम् योग-वार्त्तिकम्

व्याचष्टे । प्रत्यय इति । प्रत्ययस्य रागादिमत्याः स्वकीयचित्तवॄत्तेः संयमेनाश्रयादिरूपैरशेषविशेषैः साक्षात्करणात्ततस्तस्माच्चित्तात् परस्य भिन्नस्य चित्तान्तरस्यापि अशेषविशेषतो ज्ञानं सङ्कल्पमात्रेणैव भवतीत्यर्थः । ननु यथा संस्कारसाक्षात्कारे तद्विषपदेशादिकमपि साक्षात्क्रियते किमेवं चित्तान्तरसाक्षात्कारे तद्विषयोऽपि नियमेन साक्षात्क्रियते न वेति जिज्ञासायामाह । न च सालम्बनमिति । तत् परचित्तज्ञानं सालम्बनं न नियमेन भवति तस्य परचित्तालम्बनस्य संयमविषयेण स्वचित्तेनाविषयीकरणादित्यर्थः । तप्रतिपादकशास्त्राभावाच्चेत्यपि द्रष्टव्यम् । न च सालम्बनमित्युक्तं विवृणोति । रक्तमिति । तस्येत्यादि हेतुं विवृणोति । परचित्तस्येति । उपसंहरति । परप्रत्ययेति । तस्मात्परप्रत्ययमात्रं योगिचित्तस्यालम्बनीभूतं न तु परचित्तस्यालम्बनमपीति तुशब्दार्थः ॥ १९-२० ॥ कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासम्प्रयोगेऽन्तर्धानम् ॥ २१ ॥ कायस्य रूपे संयमाद्रूपस्य या ग्राह्या शक्तिस्तां प्रतिष्टभ्राति। ग्राह्यशक्तिस्तम्भे सति चक्षुष्प्रकाशासम्प्रयोगेऽन्तर्धानमुत्पद्यते योगिनः। एतेन शब्दाद्यन्तर्धानमुक्तं वेदितव्यम् ॥ २१ ॥ वार्तिकम् योग-वार्त्तिकम्

कायस्येति । स्वशरीरस्य रूपे संयमादशेषविशेषतः कारणादिभिः साक्षात्कृते सति सङ्कल्पमात्रेण स्वकीयरूपस्य दृश्यताशक्तिं परचक्षुःसंयोगयोग्यता प्रतिबध्नाति ततश्च प्ररचतःप्रकाशैस्तत्किरणैरसंयोगेऽन्तर्धानमुत्पद्यते योगिनः । दिवान्धेनेव केनाप्यसौ न दृश्यत इत्यर्थः । सूत्रकारस्य न्यूनतां परिहरति । एतेनेति । गतेन रूपान्तर्धानेन शास्त्रान्तरसिद्धं शब्दाद्यन्तर्धानमप्युपलक्षितं वेदितव्यमित्यर्थः । यदा कायस्य शब्दस्पर्शरसगन्धसंयमात्तेषां बाह्यशक्तिस्तम्भो भवति, तदा श्रोत्रादिसन्निकर्षप्रतिबन्धाद्योगिनः शब्दादिकं बधिरेणेव केनापि न श्रूयत इति भावः ॥ २१ ॥ सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ २२ ॥ आयुर्विपाकं कर्म द्विविधं सोपक्रमं निरुपक्रमं च। तत्र यथाऽऽर्द्रं वस्त्रं वितानितं लघीयसा कालेन शुष्येत्तथा सोपक्रमम्। यथा च तदेव सम्पिण्डितं चिरेण संशुष्येदेवं निरुपक्रमम्। यथा वाऽग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तः क्षेपीयसा कालेन दहेत्तथा सोपक्रमम्। यथा वा स एवाग्निस्तृणराशौ क्रमशोऽवयवेषु न्यस्तश्चिरेण दहेत्तथा निरुपक्रमम्। तदैकभविकमायुष्करं कर्म द्विविधं सोपक्रमं निरुपक्रमं च। तत्संयमादपरान्तस्य प्रायणस्य ज्ञानम्। वार्तिकम् योग-वार्त्तिकम्

व्याचष्टे । आयुरिति । आयुष्करकर्मज्ञानादेव झटित्यझटितिरूपाभ्यामपरान्तस्य मरणस्य ज्ञानं भवति, अतः कर्मणो विशेषणमायुर्विपाकमिति । सोपक्रमं तीव्रवेगेन फलदातृ । यथा कलिकालीनप्रजासु बाल्ययौवनवार्धकाद्यवस्थानां झटित्येवारम्भकमायुष्करं कर्मेति । निरुपक्रमं च मन्दवेगेन फलदातृ । यथा सत्यादिकालीनप्रजासु बाल्ययौवनवार्धकाद्यवस्थानां विलम्बेन प्रारम्भकमायुष्करं कर्मेति । तथा च सोपक्रमस्य साक्षात्करणात् शीघ्रमरणस्य ज्ञानं निरुपक्रमस्य साक्षात्करणाच्च विलम्बेन मरणस्य ज्ञानं भवतीति विभागः । सोपक्रमनिरुपक्रमकर्मणोर्दृष्टान्तमाह । तत्र यथेत्यादिना । वितानितं विस्तारितम् । द्रघीयसा स्वल्पेन । यथाक्रममुभयोरपरं दृष्टान्तद्वयमाह । यथा वाग्निरित्यादिना । कक्षे तृणे, क्षेपीयसा शीघ्रेण । उपसंहरति । तदैकेति । जन्मान्तरभोगस्य कर्मणो ज्ञानं वर्तमानदेहस्यापरान्तज्ञानहेतुरत उक्तमेकभविकमिति । भुज्यमानकर्मभिः सहैकभविकमित्यर्थः । सूत्रार्थमाह । तत्संयमादिति । अरिष्टेभ्यो वेति। त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमाधिदैविकं चेति। तत्राऽऽध्यात्मिकं घोषं स्वदेहे पिहितकर्णो न शृणोति, ज्योतिर्वा नेत्रेऽवष्टब्धे न पश्यति। तथाऽऽधिभौतिकं यमपुरुषान्पश्यति, पितॄनतीतानकस्मात्पश्यति। तथाऽऽधिदैविकं स्वर्गमकस्मात्सिद्धान्वा पश्यति। विपरीतं वा सर्वमिति। अनेन वा जानात्यपरान्तमुपस्थितमिति ॥ २२ ॥ वार्तिकम् योग-वार्त्तिकम्

ऐकभविकायुष्करकर्मसंयमात्सोपक्रमादिरूपविशेषावधारणे सति पूर्वान्तापेक्षया अपरान्तस्य मरणस्य शीघ्रत्वाशीघ्रत्वरूपैज्ञानं भवति अरिष्टेभ्यो वेत्यर्थः । अरिष्टज्ञानस्यापीदं फलमिति सूत्रे प्रसङ्गादेवोक्तं संयमसिद्धीनामेव प्रकृतत्वादरिष्टानि मरणचिह्नानि च योगिना समाध्यवधानार्थमवधारणीयानि । तानि व्याचष्टे । त्रिविधमिति । पिहितकर्णः स्वदेहान्तर्घोषं वह्निज्वलनवच्छब्दविशेषं न शृणोतीत्येकमरिष्टमाध्यात्मिकम् । अवष्टब्धेऽङ्गुल्यादिना भ्रामिते चक्षुषि वह्निकणतुल्यं ज्योतिर्न पश्यति इत्यपरम् । अन्यान्यपि विविधान्यरिष्टानि वसिष्ठमार्कण्डेयादिभिरुक्तानि दिनमाससंवत्सरादिभेदैर्मृत्युचिह्नानि सङ्क्षेपत आह । विपरीतं वा सर्वमिति । सर्वं श्वासप्रश्वासादिकमिति । अनेन वा अरिष्टेन वेत्यर्थः ॥ २२ ॥ मैत्र्यादिषु बलानि ॥ २३ ॥ मैत्री करुणा मुदितेति तिस्रो भावनास्तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीबलं लभते। दुःखितेषु करुणां भावयित्वा करुणाबलं लभते। पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते। भावनातः समाधिर्यः स संयमस्ततो बलान्यवन्ध्यवीर्याणि जायन्ते। पापशीलेषूपेक्षा न तु भावना। ततश्च तस्यां नास्ति समाधिरित्यतो न बलमुपेक्षातस्तत्र संयमाभावादिति ॥ २३ ॥ वार्तिकम् योग-वार्त्तिकम्

मैत्र्यादिषु संयमात् बलान्यवन्ध्यानि वीर्याणि भवन्ति परेषु मैत्र्याद्यर्थं प्रयत्नो विफलो न भवतीति यावत् । तदेतद्व्याचष्टे । मैत्रीकरुणेति । मैत्र्यादित्रयविषयिण्यस्तिस्रो भावनाः संयमा भवन्ति, तत्र सुखितेषु मैत्री एवंस्वरूपा एवमादिसाधनिकेत्यशेषविशेषैर्मैत्रो भावयित्वा साक्षात्कृत्य च व्याख्यातं मैत्रीबलं लभत इत्यर्थः । एवं करुणामुदितयोरपि व्याख्येयम् । यदपि भावनाशब्दः सूत्रे नास्ति तथापि तन्त्रान्तरानुसारात् स्वयं व्याख्यातः । प्रथमपादोक्तभावनाशब्दवत् अत्राप्युत्पादनार्थमिति भ्रमो मा भूत् इत्येतदर्थं प्रकृते तन्त्रान्तरीयभावनाशब्दस्यार्थं स्वयमाह । भावना समाधिरिति । भाव्यते फलमनेनेति व्युत्पत्या भावनाचिन्तनयोरेकार्थतया वेति भावः । ध्यानधारणयोः सङ्ग्रहाय पुनराह । यः स संयम इति । यः स पूर्वेषु सूत्रेषु प्रक्रान्त इत्यर्थः । भावनाशब्दोक्तसमाधिना ध्यानधारणयोरपि ग्रहणं तन्त्रान्तर इति भावः । भावनातः समाधिरिति पाठे तु, अतः सूत्रात् पूर्वाचार्योक्तादत्र भावना समाधिरेवेत्यर्थः । बलशब्दं विवृण्वानः सूत्रार्थमुपसहरति । ततो बलानीति । ननु प्रथमपादोक्तोपेक्षा कथं मैत्र्यादिष्वित्यवादिशब्देन न सङ्गृहीता तत्राह । पापशीलेष्विति । पापशीलेषु मैत्र्यादिशून्यतारूपम् उपेक्षमात्रं न तु तस्यामभावरूपिण्यामुपेक्षायां प्रतियोगितत्वतिरिक्तः कश्चन विशोषोऽस्ति यस्य साक्षात्कारार्थं भावना स्यादतश्च तस्यामुपेक्षायां नास्ति समाधिः संयमोऽपेक्षित इत्यर्थः । शेषं सुगमम् ॥ २३ ॥ बलेषु हस्तिबलादीनि ॥ २४ ॥ हस्तिबले संयमाद्धस्तिबलो भवति। वैनतेयबले संयमाद्वैनतेयबलो भवति। वायुबले संयमाद्वायुबलो भवतीत्येवमादि ॥ २४ ॥ वार्तिकम् योग-वार्त्तिकम्

हस्त्यादिबलेषु संयमाद् हस्त्यादिबलानि भवन्तीत्यर्थः । भाष्यं सुगमम् ॥ २४ ॥ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ २५ ॥ ज्योतिष्मती प्रवृत्तिरुक्ता मनसस्तस्या य आलोकस्तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वाऽर्थे विन्यस्य तमर्थमधिगच्छति ॥ २५ ॥ वार्तिकम् योग-वार्त्तिकम्

व्यवहितमावृतं विप्रकृष्टं दूरवर्ति । व्याचष्टे । ज्योतिष्मतीति । ज्योतिष्मती बुद्धिपुरुषान्यतरसाक्षात्काररूपिणी मनसः प्रवृत्तिः प्रथमपादोक्ता तस्या य आलोकस्तत्कालीनो यः सत्त्वप्रकाशस्तं योगी सूक्ष्माद्यर्थेषु विन्यस्य च साक्षात्करोतीत्यर्थः । अत्र न्यासमात्रवचनात् तेषु संयमापेक्षा नास्ति चक्षुर्न्यासमात्रेण घटदर्शनवद्विशुद्धसत्त्वप्रतिसन्धानमात्रेणैव सक्ष्मादिसाक्षात्कारो भवतीति भावः । परम्परया बुद्ध्याविषयकसंयमसाध्यत्वेनैव चास्याः सिद्धेः संयमसिद्धिमध्ये निर्वचनमिति ॥ २५ ॥ भुवनज्ञानं सूर्ये संयमात् ॥ २६ ॥ तत्प्रस्तारः सप्त लोकाः। तत्रावीचेः प्रभृति मेरुपृष्ठं यावदित्येवं भूर्लोकः। मेरुपृष्ठादारभ्य आध्रुवाद्ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः। ततः परः स्वर्लोकः पञ्चविधो माहेन्द्रस्तृतीयो लोकः। चतुर्थः प्राजापत्यो महर्लोकः। त्रिविधो ब्राह्मः। तद्यथा – जनलोकस्तपोलोकः सत्यलोक इति। ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान्। माहेन्द्रश्च स्वरित्युक्तो दिवि तारा भुवि प्रजाः ॥ इति सङ्ग्रहश्लोकः। वार्तिकम् योग-वार्त्तिकम्

भुवनशब्दार्थं व्याचष्टे । तत्प्रस्तार इत्यादिना । भुवनविस्तारः कथ्यत इति शेषः । तत्र चतुर्दशसु लोकेषु व्यक्तेष्वादौ सप्त लोकानाह । सप्त लोका इति । सप्त लोकान् विभजते । तत्रेति । अवीचिर्नाम नरकविशेषः । सर्वलोकानामधःस्थानं तदादाय सुमेरुपृष्ठपर्यन्तं भूर्लोकः । मेरुपृष्ठमारभ्य मेरुपृष्ठोपलक्षितभूर्लोकस्योपरि ध्रुवपर्यन्तं भुवर्लोकः । तदुपरि क्रमेण पञ्चविधः स्वर्लोकः । एतेन त्रिलोकव्यवस्थाऽपि दर्शिता । पञ्चानां सामान्यतः स्वर्लोकत्वेनैक्यात् । पञ्चानामवान्तरभेदानाह । माहेन्द्र इत्यादिना । माहेन्द्रो लोकः स्वरितिनामको भूर्भुवर्लोकापेक्षया तृतीयः । एवमुत्तरत्रापि । उक्तव्युत्क्रमेण सप्तलोकानां सङ्ग्रहश्लोकं पठति । ब्राह्म इति । जनादित्रिभूमिको ब्रह्मलोकः । ततोऽधः प्रजापतिलोको महान् महरितिनामा । ततोऽधः स्वरितिनामा इन्द्रलोकः । ततोऽधस्तारालोको द्यौरिति भुवरिति चोच्यते । तदधश्च प्रजानां मनुष्याणां लोको भूरितिनामेत्यर्थः । इदानीं पृथिव्या अधः स्थितान् सप्तनरकान् भूर्लोकांशतया प्रतिपादयति । तत्रावीचेरुपर्युपरि निविष्टाः षण्महानरकभूमयो घनसलिलानलानिलाकाशतमःप्रतिष्ठा महाकालाम्बरीषरौरवमहारौरवमहारौरवकालसूत्रान्धतामिस्राः। यत्र स्वकर्मोपार्जितदुःखवेदनाः प्राणिनः कष्टमायुर्दीर्घमाक्षिप्य जायन्ते। ततो महातलरसातलातलसुतलवितलतलातलपातालाख्यानि सप्त पातालानि। भूमिरियमष्टमी सप्तद्वीपा वसुमती, यस्याः सुमेरुर्मध्ये पर्वतराजः काञ्चनः। तस्य राजतवैदूर्यस्फटिकहेममणिमयानि शृङ्गाणि। तत्र वैदूर्यप्रभानुरागान्नीलोत्पलपत्रश्यामो नभसो दक्षिणो भागः, श्वेतः पूर्वः, स्वच्छः पश्चिमः, कुरण्टकाभ उत्तरः। दक्षिणपार्श्वे चास्य जम्बूर्यतोऽयं जम्बूद्वीपः। तस्य सूर्यप्रचाराद्रात्रिं दिवं लग्नमिव वर्तते। तस्य नीलश्वेतशृङ्गवन्त उदीचीनास्त्रयः पर्वता द्विसाहस्रायामाः। तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि रमणकं हिरण्मयमुत्तराः कुरव इति। निषधहेमकूटहिमशैला दक्षिणतो द्विसाहस्रायामाः। तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि हरिवर्ष किम्पुरुषं भारतमिति। सुमेरोः प्राचीना भद्राश्वमाल्यवत्सीमानः प्रतीचीनाः केतुमाला गन्धमादनसीमानः। मध्ये वर्षमिलावृतम्। तदेतद्योजनशतसाहस्रं सुमेरोर्दिशि दिशि तदर्धेन व्यूढम्। वार्तिकम् योग-वार्त्तिकम्

तत्रेति । तत्र भूर्लोके सर्वनरकाधःस्थितादवीचिनरकादुपर्युपरिस्थिताः षण्महानरकभूमयो घनादीनामुत्तमोत्तमानाम् आधारा महाकालादिसञ्ज्ञकास्तिष्ठन्तीत्यर्थः । घनाः शिलाशकलादयः पार्थिवपदार्थाः तमश्चान्धकारः । अत्र महानरकशब्दादन्येऽप्युपनरकाः कुम्भीपाकादयोऽनन्तास्तत्रैव तिष्ठन्तीति प्रतिपादितम् । दुःखवेदनाः = दुःखभोगिनः, आक्षिप्य = गृहीत्वा भूरादिसप्तलोकानुक्त्वा महातलादीनन्यान् सप्तलोकानाह । ततो महेति । ततोऽवीचेरध इत्यर्थः । तदेवं चतुर्दश लोका भवन्तीति सूचयति । भूमिरियमष्टमीति । अत्र भूमेरष्टमीत्ववचनात्सर्वाधःस्थितात्महातलादुपर्युपरि क्रमेण सप्तपातालानीत्यवगन्तव्यम् । सङ्क्षेपतश्चतुर्दशलोकानुक्त्वा विस्तरेण विवक्षुरादौ भूर्लोकस्य विस्तारमाह । सप्तद्वीपेति । तस्य राजतेति । पूर्वादिप्रदक्षिणक्रमेणेत्यादिः,दक्षिणभागाकाशस्य वैदूर्यप्रभाव्याप्ततायाः वक्ष्यमाणत्वात् । श्वेतो रजतवर्णः स्वच्छः स्फटिकवत्प्रतिबिम्बोद्ग्राही, कुरण्डकं स्वर्णवर्णः पुष्पविशेषः । दक्षिणेति । अस्य सुमेरोरुपरि दक्षिणपार्श्वे जम्बूनामा वृक्षः । यतो यन्नामा लवणोदधिवेष्टितो जम्बूद्वीपो जम्बूद्वीपनामेत्यर्थः, तस्येति । निरन्तरं सूर्येण प्रदक्षिणीकरणात्तस्य सुमेरोरवच्छेदभेदेन रात्रिन्दिवं संयुक्तमिव सद्विवर्त्तते भ्रमति । तथा तस्य मेरोरुत्तरदिशि नीलाद्यास्त्रयः पर्वताः प्रत्येकं द्विसहस्रयोजनविस्तारास्तिष्ठन्ति । तेषामवकाशेषु त्रीणि वर्षाणि प्रत्येकं नवयोजनसहस्रविस्ताराणि । तत्र नीलगिरिर्मेरुलग्नः नीलस्योत्तरे रमणकं श्वेतस्योत्तरे हिरण्मयं शृङ्गवत उत्तरे समुद्रपर्यन्तमुत्तराः कुरव इत्यर्थः । दक्षिणदिश्यपि सन्निवेश एवं बोध्यः । सुमेरोः प्राचीना इति । मेरोः पूर्वदिशि तत्संयुक्तो माल्यवान् पर्वतः तमेव सीमानं कृत्वा समुद्रपर्यन्तं भद्राश्वनामदेशाः तत्र भद्राश्वनामकमेव वर्षम् । एवं मेरोः पश्चिमदिशि तत्संयुक्तगन्धमादनसीमानः समद्रपर्यन्ताः केतुमालनामदेशाः वर्षं चैकमेव केतुमालसञ्ज्ञकमित्यर्थः । मध्य इति । छत्राकारसुमेरोरधोभागे वर्षमिलावृतं चतर्दिक्षु च पर्वताश्छत्रपार्श्वस्यावरणवास इव मेरुपार्श्वेष्वेव संसक्ता इति । तदेवं जम्बूद्वीपस्य नववर्षाणि प्रोक्तानि पर्वतैः सह समग्रं जम्बूद्वीपस्य प्रमाणमाह । तदेतदिति । तदेतज्जम्बूद्वीपाख्यस्थानं योजनशतसहस्रमितम् । अतश्चसुमेरोश्चतुर्दिक्षु पञ्चाशत्पञ्चाशद्योजनसहस्रेण व्यूढं सङ्क्षिप्तं परिसङ्ख्यातमित्यर्थः । सुमेरुमादायेति शेषः । सुमेरोः परिमाणं च विष्णुपुराणे प्रोक्तम् । चतुरशीतिसाहस्रैर्योजनैरस्योच्छ्रायः ।

प्रविष्टः षोडशाधस्ताद् द्वात्रिंशन्मूर्ध्नि विस्तृतः । मूले षोडशसाहस्रो विस्तारस्तस्य भूभृतः ॥

मेरोश्चतुर्दिशस्तत्र नवसाहस्रविस्तृतम् । इलावृतं महाभाग चत्वारस्तत्र पर्वताः ॥ इति । एतेन मेरोः पार्श्वद्वये इलावृतस्याष्टादशसाहस्रतया लक्षप्रमाणता जम्बूद्वीपस्य सिद्धेति । जम्बुद्वीपस्य वेष्टनं लवणसमुद्रमाह । स खल्वयं शतसाहस्रायामो जम्बूद्वीपस्ततो द्विगुणेन लवणोदधिना वलयाकृतिना वेष्टितः। ततश्च द्विगुणा द्विगुणाः शाककुशक्रौञ्चशाल्मलगोमेध(प्लक्ष)पुष्करद्वीपाः, समुद्राश्च सर्षपराशिकल्पाः सविचित्रशैलावतंसा इक्षुरससुरासर्पिर्दधिमण्डक्षीरस्वादूदकाः। सप्त समुद्रपरिवेष्टिता वलयाकृतयो लोकालोकपर्वतपरिवाराः पञ्चाशद्योजनकोटिपरिसङ्ख्याताः। तदेतत्सर्वं सुप्रतिष्ठितसंस्थानमण्डमध्ये व्यूढम्। अण्डं च प्रधानस्याणुरयवयवो यथाऽऽकाशे खद्योत इति। वार्तिकम् योग-वार्त्तिकम्

स खल्विति । अत्र ।

जम्बूद्वीपं समावृत्य लक्षयोजनविस्तृतः । मैत्रेय वलयाकारः स्थितः क्षारोदधिर्बहिः ॥

इति विष्णुपुराणात् । समुदस्य द्वीपद्विगुणत्वं पार्श्वद्वयेन बोध्यम् । ततो द्विगुणा इति । जम्बूद्वीपाद् द्विगुणः शाकद्वीप इत्यर्थः । शाकाच्च द्विगुणः कुशद्वीपः । एवङ्क्रमेण वृद्धिः । समुद्राश्चेति । स्वस्वद्वीपापेक्षया द्विगुणाः समुद्राणां विशेषणत्रयं सर्षपेत्यादि । सर्षपराशिवन्मध्ये किञ्चिन्मात्रोच्छूनाः मध्ये तरङ्गबाहुल्यात् । तथा कूलद्वयस्थितैर्विचित्रशैलैरवतंसकल्पैः सहिता तथा इक्षुरसादितुल्योदका इत्यर्थः । सप्तद्वीपानां समुद्रादिसहितानां मिलित्वा परिमाणमाह । सप्तेति । एते सप्तद्वीपाः समुद्रसहिताः सप्त समुद्राद्बहिःस्थितेन लोकालोकपर्वतेन परिवृताः पञ्चाशद्योजनकोटिपरिमिता इत्यर्थः । अलोकभृमिसहिता इत्यपि बोध्यम् । समग्रभूगोलस्यैव पञ्चाशत्कोटिपरिमितत्वस्य पुराणेष्ववगमादिति । तदेतदिति । तदेतत्सर्व भूगोलकं सुप्रतितमसङ्कीर्णं पञ्चाशत्कोटिपरिमितस्याण्डस्य मध्ये व्यूढं सङ्क्षिप्तम् । इदं च शतकोटिविस्तारमण्डं सप्तावरणसहितमपि प्रकृतेरणुरंश इत्यर्थः । तदुक्तं विष्णुपुराणे प्रकृतिं प्रकृत्य ।

अण्डानां तु सहस्राणां सहस्राण्ययुतानि च । ईदृशानां तथा तत्र कोटिकोटिशतानि च ॥ इति ।

सौरे च ।

ब्रह्माण्डमेतत्सकलं ब्रह्मणः क्षेत्रमुच्यते । क्षेत्रज्ञश्च स एवोक्तो विरिञ्चिश्च प्रजापतिः ॥

सहस्रकोटयः सन्ति ब्रह्मण्डास्तिर्यगूर्ध्वगाः । ब्रह्माणो हरयो रुद्रास्तत्र तत्र व्यवस्थिताः । आज्ञया देवदेवस्य महादेवस्य शूलिनः । ब्रह्माण्डानामसङ्ख्यानां ब्रह्मविष्णुहरात्मनाम् ॥

उद्भवे प्रलये हेतुर्महादेव इति श्रुतिः । इति ।

नारदीये च ।

सृष्टिस्थित्यन्तकरणे ब्रह्मविष्णुमहेश्वराः । यस्यायुतायुतांशांशास्तद्ब्रह्मेत्यभिधीयते ॥ इति ।

न चास्मिन्वाक्ये परमात्मांशत्त्वमेवाण्डशरीरिणां गम्यते न तु प्रकृत्यंशत्वं ब्रह्माण्डस्येति वाच्यम् । शक्तिशक्तिमतोरंशांशिभावेन शक्त्योरप्यंशांशिभावसिद्धेः । अग्निविस्फुलिङ्गादिश्रौतदृष्टान्तेषु तथा दर्शनात् ।

मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । अस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ इति श्रुतेश्चेति । तत्र पाताले जलधौ पर्वतेष्वेतेषु देवनिकाया असुरगन्धर्वकिन्नरकिम्पुरुषयक्षराक्षसभूतप्रेत-पिशाचापस्मारकाप्सरोब्रह्मराक्षसकूष्माण्डविनायकाः प्रतिवसन्ति। सर्वेषु द्वीपेषु पुण्यात्मानो देवमनुष्याः। वार्तिकम् योग-वार्त्तिकम्

इदानीं तत्तल्लोकवासिनो देवादीन् कथयति । तत्र पाताल इति । देवनिकाया देवसमूहा असुरादयश्च प्रतिवसन्तीत्यर्थः । देवाश्च मनुष्याश्च देवमनुष्याः । भूर्लोकस्थानुक्त्वा भवर्लोकस्थानाह । सुमेरुस्त्रिदशानामुद्यानभूमिः। तत्र मिश्रवनं नन्दनं चैत्ररथं सुमानसमित्युद्यानानि। सुधर्मा देवसभा। सुदर्शनं पुरम्। वैजयन्तः प्रासादः। ग्रहनक्षत्रतारकास्तु ध्रुवे निबद्धा वायुविक्षेपनियमेनोपलक्षितप्रचाराः सुमेरोरुपर्युपरि सन्निविष्टा दिवि विपरिवर्तन्ते। वार्तिकम् योग-वार्त्तिकम्

ग्रहनक्षत्रेति । नक्षत्राण्यश्विन्यादिसप्तविंशतिरितराणि क्षुद्रज्योतींषि तारकाः । एते ग्रहादयः सर्वोपरिस्थिते मेढिकाष्ठवन्निश्चलतया स्थिते अत एव ध्रुवसञ्ज्ञके ज्योतिर्विशेषे वायुरज्ज्वा बद्धा गाव इव हालिकतुल्यचक्रवायोः प्रतिनियतसञ्चारेण कालविशेषैरवधृतगतयः सुमेरोरुपर्युपरिभावेन सन्निविष्टा भुवर्लोके भ्रमन्तीत्यर्थः । नन्वेवं सुमेरोरुपरि ज्योतिर्मण्डलस्य भ्रमणे कथं मेरुणा ज्योतिश्चक्रावरणं येन रात्रिदिनव्यवस्थितिरिति चेन्न । वृक्षेण सूर्यव्यवधानवत् मेरोरेकपार्श्वस्थसूर्यादेः पार्श्वान्तरेण व्यवधानसम्भवादिति । स्वर्लोकस्थानाह । माहेन्द्रनिवासिनः षड्देवनिकायाः - त्रिदशा अग्निष्वात्ता याम्यास्तुषिता अपरिनिर्मितवशवर्तिनः परिनिर्मितवशवर्तिनश्चेति। सर्वे सङ्कल्पसिद्धा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः कामभोगिन औपपादिकदेहा उत्तमानुकूलाभिरप्सरोभिः कृतपरिचाराः। वार्तिकम् योग-वार्त्तिकम्

माहेन्द्र इति । त्रिदशादयो देवानां जातिभेदाः कल्पायुषः । कल्पो ब्रह्मणो दिनं तदायुषः सङ्कल्पमात्रेण कर्तुं क्षमाः सङ्कल्पसिद्धाः वृन्दारका देवा औपपादिकदेहाः पित्रोः संयोगं विना क्षणमात्रेणोत्पद्यमानशरीरा इत्यर्थः । महर्लोकस्थानाह । महति लोके प्राजापत्ये पञ्चविधो देवनिकायः – कुमुदा ऋभवः प्रतर्दना अञ्जनाभाः प्रचिताभा इति। एते महाभूतवशिनो ध्यानाहाराः कल्पसहस्रायुषः। प्रथमे ब्रह्मणो जनलोके चतुर्विधो देवनिकायो ब्रह्मपुरोहिता ब्रह्मकायिका ब्रह्ममहाकायिका अमरा इति। ते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्तरायुषः। वार्तिकम् योग-वार्त्तिकम्

महतीति । महाभूतानां परिणमने स्वतन्त्राः ध्यानाहारा ध्यानत एव तृप्ताः । जनलोकस्थानाह । प्रथम इति । भूतेन्द्रियवशिन इति । इन्द्रियाणां परिणमने स्वातन्त्र्यं पूर्वापेक्षयैषामधिकम् । द्विगुणेति । द्विगुणं द्विगुणरूपमुत्तरमधिकमायुर्येषां ते तथा । ब्रह्मपुरस्थितानामायुः कल्पसहस्रात् पूर्वोक्ताद् द्विगुणं तदुत्तरस्य तद्द्विगुणमेवङ्क्रमेण वृद्धिरित्यर्थः । तपोलोकस्थानाह । द्वितीये तपसि लोके त्रिविधो देवनिकायः – आभास्वरा महाभास्वराः सत्यमहाभास्वरा इति। ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्विगुणोत्तरायुषः सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वमप्रतिहतज्ञाना अधरभूमिष्वनावृतज्ञानविषयाः। तृतीये ब्रह्मणः सत्यलोके चत्वारो देवनिकाया अकृतभवनन्यासाः स्वप्रतिष्ठा उपर्युपरिस्थिताः प्रधानवशिनो यावत्सर्गायुषः। वार्तिकम् योग-वार्त्तिकम्

द्वितीय इति । ते भूत इति । भूतेन्द्रिययोः प्रकृतेरहङ्कारस्यापि वशिन इति पूर्वापेक्षयैषामाधिक्यम् । अत्राहङ्कारेणान्तःकरणसामान्यग्रहणम् । एतेन स्वेच्छयान्यपरयोर्निर्माणे चित्तोत्पादनादौ समर्था इति । द्विगुणेति । पूर्वानुसारेण व्याख्येयम् । ऊर्ध्वरेतस इति । प्राणायामवशादूर्ध्वमव रेतांसि सूक्ष्माणि भूत्वा गच्छन्ति न स्खलन्ति सम्भोगाभावाद् येषां ते तथा ऊर्ध्वं सत्यलोकादौ ज्ञानमप्रतिहतं शक्यं येषां ते तथा । अधोलोकेषु अनावृतो ज्ञानविषयो येषां ते तथेत्यर्थः । सत्यलोकस्थानाह । तृतीय इति । आदौ चतुर्णां साधारणानि विशेषणान्याह । अकृतेति । न कृतो भवनन्यासो गृहनिर्माणं यैस्ते तथा स्वस्मिन्नेवात्मनि गृहे प्रतितिष्ठन्तीति स्वप्रतिष्ठा आत्मवासाः । उपर्युपरिस्थिता इति । अच्युतानामुपरि स्थिताः शुद्धनिवासाः, एवङ्क्रमेणेत्यर्थः । तथा च सत्यलोकेऽप्यवान्तरलोकभेदाः सन्तीत्यायातम् । प्रधानवशिनः प्रकृतौ स्वतन्त्रा ईश्वराः द्विपरार्धायुषः । तेषां चतुर्णां सञ्ज्ञाभेदमवान्तरविशेषं चाह । तत्राच्युताः सवितर्कध्यानसुखाः, शुद्धनिवासाः सविचारध्यानसुखाः, सत्याभा आनन्दमात्रध्यानसुखाः, सञ्ज्ञासञ्ज्ञिनश्चास्मितामात्रध्यानसुखाः। तेऽपि त्रैलाक्यमध्ये प्रतितिष्ठन्ति। त एते सप्त लोकाः सर्व एव ब्रह्मलोकाः। विदेहप्रकृतिलयास्तु मोक्षपदे वर्तन्त इति न लोकमध्ये न्यस्ता इति। एतद्योगिना साक्षात्करणीयं सूर्यद्वारे संयमं कृत्वा, ततोऽन्यत्रापि एवं तावदभ्यसेद्यावदिदं सर्व दृष्टमिति ॥ २६ ॥ वार्तिकम् योग-वार्त्तिकम्

तत्राच्युता इति । अच्युतसञ्ज्ञकाः सवितर्कयोगेनैव सुखिनः शुद्धनिवासादयोऽप्येवं व्याख्येयाः । तेऽपि चत्वारोऽपि त्रैलोक्यमध्ये चतुर्दशभुवनमध्य एव तिष्ठन्ति न ब्रह्माण्डाद्बहिरित्यर्थः । नन्वेवमण्डस्य सर्वजीवसाधारण्यात् कथं ब्रह्माण्डसञ्ज्ञेत्याकाङ्क्षायामाह । त एत इति । त एते सप्तलोका अवान्तरं चतुर्दशधा भिन्नाः सर्व एवादिपुरुषस्य ब्रह्मणो लोका ब्रह्मणो हिरण्यगर्भस्य लिङ्गदेहेन सर्वलोकव्यापनात् पितापुत्रवदशांशिभावेन सर्वजीवानां ब्रह्माभेदच्चेति भावः । नन्वसम्प्रज्ञातसुखिनौ यौ विदेहप्रकृतिलयौ ’भवप्रत्ययो विदेहप्रकृतिलयाना’मिति सूत्रोक्तौ तयोर्लोकः कथं नोक्तः तत्राह । विदेहेति । तेषां मुक्तप्रायत्वादीश्वरकोटित्वाच्च ब्रह्माण्डस्यान्तर्बहिः स्वातन्त्र्येण व्यापारवत्तया शास्त्रे न ते लोकमध्ये लोकवासिजनमध्ये गणिता इत्यर्थः । तदेवं सङ्क्षेपतो भुवनशब्दार्थं व्याख्याय सूत्रवाक्यार्थमाह । एतद्योगिनेति । सूर्ये सूर्यद्वारे संयमं कृत्वा योगिनैतद्भुवनं साक्षात्करणीयम् । अत्र योगशास्त्रान्तरदर्शनेन द्वारशब्दः पूरित इत्युन्नीयते । सूर्यद्वारं च ब्रह्मणो लोकद्वारभूतं “सूर्यान्तश्चित्रं स आदित्यमार्च्छति तस्मै स तत्र विजिहीते । यथा भास्करस्य खन्तेन स ऊर्ध्वमाक्रत” इति श्रुतौ, “सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मे”ति श्रुतौ च तद्भाष्यकृता तथा व्याख्यातत्वात् ।

अनन्ता रश्मयस्त्वस्य द्वीपवद्यः स्थितो हृदि । ऊर्ध्वमेकस्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् ॥

ब्रह्मलोकमतिक्रम्य तेन यान्ति परां गतिम् ।

इति स्मरणाच्चेति । न केवलं सूर्यद्वारसंयमस्यैव भुवनज्ञानं फलं किं तु योगशास्त्रोक्तसंयमान्तरस्यापि इत्यतो रागक्षयार्थम् । अन्यत्र संयमेनापि समग्रभुवनं साक्षात्करणीयमित्युपदिशति । ततोऽन्यत्रापीति । ततः सूर्यद्वारादन्यत्रापि एवं संयमं तावदभ्यसेत् यावदिदं भुवनं दृष्टं भवेदित्यर्थः ॥ २६ ॥ चन्द्रे ताराव्यूहज्ञानम् ॥ २७ ॥ चन्द्रे संयमं कृत्वा ताराणां व्यूहं विजानीयात् ॥ २७ ॥ वार्तिकम् योग-वार्त्तिकम्

भाष्यं सगमम् ॥ २७ ॥ ध्रुवे तद्गतिज्ञानम् ॥ २८ ॥ ततो ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात्। ऊर्ध्वं विमानेषु कृतसंयमस्तानि विजानीयात् ॥ २८ ॥ वार्तिकम् योग-वार्त्तिकम्

तारास्वरूपाणि ज्ञात्वैव तासां गतिज्ञानं सम्भवतीत्याशयेन भाष्ये तत इत्युक्तम् । ताराव्यूहज्ञानन्तरमित्यर्थः । भाष्यं सुगमम् । अस्मिन्नेव प्रसङ्गे योगशास्त्रान्तरोक्तात् भुवर्लोकस्थवस्त्वन्तरसंयमात् सिद्धिं स्वयं पूरयति । ऊर्ध्वेति । ऊर्ध्वविमानेष्वादित्यादिरथेषु कृतः साक्षात्कारपर्यन्तः संयमो, येन स तानि विमानानि रथान् जानीयादित्यर्थः । ननु विमाने संयमस्यैव विमानसाक्षात्कारः सिद्धिरत्रोक्ता, साक्षात्कारपर्यन्तस्यैव संयमस्य सर्वत्र सिद्धिकथनात् संयमानां स्वस्वविषयसाक्षात्काहेतुतायाः सामान्यत एव सिद्धत्वाच्च्च ॥ २८ ॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ २९ ॥ नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात्। वातपित्त श्लेष्माणस्त्रयो दोषाः। धातवः सप्त त्वग्लोहितमांसस्नाय्वस्थिमज्जाशुक्राणि। पूर्वं पूर्वमेषां बाह्यमित्येष विन्यासः ॥ २९ ॥ वार्तिकम् योग-वार्त्तिकम्

शरीरमध्यवर्त्ति नाभिकन्दरूपं चक्रं कदलीमूलवदादावुत्पन्नं यतः शाखापल्लावादिवच्छिरःपादादिकमवयवजातमूर्ध्वमधश्चाविर्भवति । तस्मिन्नाभिचक्रे संयमात् साक्षात्कृते कायस्थपदार्थव्यूहं वातपित्तत्वगसृगादिरूपं साक्षात्क्रियत इत्यर्थः । भाष्ये बाह्यमिति । शुक्रस्य मज्जा बाह्येति एवमादिरेषां सत्तानां क्रमः विन्यासः शरीरसंस्थानम् ॥ २९ ॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥ जिह्वाया अधस्तात्तन्तुस्तन्तोरधस्तात्कण्ठस्ततोऽधस्तात्कूपस्तत्र संयमात्क्षुत्पिपासे न बाधेते ॥ ३० ॥ वार्तिकम् योग-वार्त्तिकम्

तन्तोरधस्तादिति । अनेनोपरिच्छिद्रं वारितं कूपादध उरसीत्यागामिभाष्येण चोरःपर्यन्तत्वं कण्ठकूपस्य लक्ष्यते, तथा च जिह्वाधःस्थस्य तन्तोर्मूलादारभ्य उरःपर्यन्तं छिद्रं कण्ठकूपः कूपाकारश्छिद्रमिति । तत्रेति । तस्मिन्प्रदेशे संयमादशेषविशेषतः साक्षात्कृते सति क्षुत्पिपासानिवृत्तिरूपा सिद्धिर्भवतीत्यर्थः । एवंविधेषु च संयमेषु भावनाप्रकारो योगशास्त्रविशेषात् गुरुमुखाच्च प्रत्येतव्यः ॥ ३० ॥ कूर्मनाड्यां स्थैर्यम् ॥ ३१ ॥ कूपादध उरसि कूर्माकारा नाडी, तस्यां कृतसंयमः स्थिरपदं लभते। यथा सर्पो गोधा वेति ॥ ३१ ॥ वार्तिकम् योग-वार्त्तिकम्

कूर्माकारेति । कुण्डलितसर्पवदस्थिरतया कूर्माकारं हृदयपुण्डरीकाख्यं नाडीचक्रं, तत्र कृतसंयमो योगी स्थिरपदं स्थिरां चित्तवृत्तिं लभत इत्यर्थः । नाड्याः कूर्माकारत्वे दृष्टान्तद्वयं - यथा सर्पो गोधा वेति । कुण्डलित इति शेषः ॥ ३१ ॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३२ ॥ शिरःकपालेऽन्तश्छिद्रं प्रभास्वरं ज्योतिस्तत्र संयमं कृत्वा सिद्धानां द्यावापृथिव्योरन्तरालचारिणां दर्शनम् ॥ ३२ ॥ वार्तिकम् योग-वार्त्तिकम्

शिर इति । शिरः कपालमध्येऽन्तश्छिद्रं, छिद्रस्यान्तः प्रभास्वरं स्वप्रकाशक्रं ज्योतिरस्तीत्यादिरर्थः । शिरः कपालमध्ये छिद्रं प्रभास्वरत्वाज्ज्योतिरिति प्रामादिकपाठेऽप्यययमेवार्थो लक्षणया कार्यः । शेषं सुगमम् ॥ ३२ ॥ प्रातिभाद्वा सर्वम् ॥ ३३ ॥ प्रातिभं नाम तारकं तद्विवेकजस्य ज्ञानस्य पूर्वरूपम्। यथोदये प्रभा भास्करस्य। तेन वा सर्वमेव जानाति योगी प्रातिभस्य ज्ञानस्योत्पत्ताविति ॥ ३३ ॥ वार्तिकम् योग-वार्त्तिकम्

प्रातिभमिति । प्रातिभं स्वप्रतिभोत्थमनौपदेशिकं ज्ञानं संसारतरणोपायत्वात् तारकमिति । तारकं सर्वविषयमिति सूत्रे व्याख्यास्यते । तच्च विवेकजस्य वक्ष्यमाणस्य सार्वज्ञस्य पूर्वलिङ्गम् । तत्र दृष्टान्तो यथा । सूर्योदयस्य पूर्वलिङ्गं प्रभेति तेन वा प्रातिभज्ञानेन सर्वं पूर्वोक्तमतीतानागतादिसिद्धिपर्यन्तं योगी जानाति पूर्वोक्तान् संयमान् विनापीत्यर्थः । तेनेत्येतद्विवृणेति । प्रातिभस्य ज्ञानस्योत्पत्ताविति । द्वारान्तरापेक्षा नास्तीति भावः । यद्ययपि तारकं सर्वविषयमित्यागामिसूत्रे विवेकज्ञानमेव प्रातिभं तारकं च व्याख्यास्यते तथाप्यत्र प्रातिभादिहेतुवचनात् विवेकजज्ञानस्य पूर्वरूपमेव लक्षणया प्रातिभं तारकं चेति व्याख्येयम् । ननु संयमसिद्धिमध्ये कथं प्रातिभज्ञानजा सिद्धिरुच्यत इति चेत्, न । प्रातिभस्यापि क्षणतत्क्रमादिसंयमादिजन्यतया वक्ष्यमाणत्वेनोक्तसिद्धेरपि परम्परया संयमसिद्धित्वादिति ॥ ३३ ॥ हदये चित्तसंवित् ॥ ३४ ॥ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म तत्र विज्ञानं तस्मिन्संयमाच्चित्तसंवित् ॥ ३४ ॥ वार्तिकम् योग-वार्त्तिकम्

संयमस्य क्षुद्रसिद्धय उक्ता इदानीं संयमस्य सत्त्वपुरुषान्यताख्यातिरूपां मुख्यां सिद्धिं विवक्षुरादौ तत्संयमहेतुभूतायश्चित्तसंविदः कारणमाह ।

हृदयपदं व्याचष्टे । यदिदमिति । अस्मिन् ब्रह्मणः परमात्मनो जीवस्य च परे शरीरे यदिदं दहरं पुण्डरीकाकारं ब्रह्मणो वेश्म तत्र विज्ञानं विज्ञानवृत्तिकमन्तःकरणं ब्रह्मणः सिंहासनकल्पं तिष्ठति, अतस्तस्मिन् हृदयाख्ये वेश्मनि संयमाच्चित्तसाक्षात्कारो भवतीत्यर्थः ॥ ३४ ॥ सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३५ ॥ बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम्। तस्माच्च सत्त्वात्परिणामिनोऽत्यन्तविधर्मा विशुद्धोऽन्यश्चितिमात्ररूपः पुरुषः। तयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य दर्शितविषयत्वात्। स भोगप्रत्ययः सत्त्वस्य परार्थत्वाद्दृश्यः। यस्तु तस्माद्विशिष्टश्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययस्तत्र संयमात्पुरुषविषया प्रज्ञा जायते। न च पुरुषप्रत्ययेन बुद्धिसत्त्वात्मना पुरुषो दृश्यते। पुरुष एव तं प्रत्ययं स्वात्मावलम्बनं पश्यति। तथा ह्युक्तम् - विज्ञातारमरे केन विजानीयात् इति ॥ ३५ ॥ वार्तिकम् योग-वार्त्तिकम्

चित्ते ज्ञाते चित्ताद्विवेकेनात्मसाक्षात्कारो भवतीति क्रमानुसारेणाह ।

सत्त्वाधिक्यात्सत्त्वं बुद्धिः । परार्थादिति पञ्चमी चान्यपदमध्याहृत्य व्याकरिष्यति । तथा च बुद्धिपुरुषयोरत्यन्तविधर्ममणोः प्रत्ययद्वयाविवेको भोगशब्दार्थः । तयोः प्रत्यययोर्मध्ये परार्थाद्विवेकेन स्वार्थे पौरुषेयप्रत्यये संयमात् साक्षात्कृते सति स्वयमेव पूर्णर्वाद्यशेषविशेषैः पुरुषस्य साक्षात्कारो भवति, तादृशसंयमाभावेऽपीत्यर्थः । यद्यपि पौरुषेयः प्रत्ययः पुरुषातिरिक्तो न भवति तथापि दृश्योपरागेण परिच्छिन्नोंश एव प्रत्ययः, श्रोत्रादिववत् पुरुषस्त्वपरिच्छिन्नो महाकाशवदित्यनर्योर्भेद इत्यतः प्रत्यये साक्षात्कारपर्यन्तसंयमस्यापरिच्छिन्नत्वाद्यंशमात्राधिक्येन फलं पुरुषसाक्षात्कार उक्त इति । नन्वत्र सूत्रे भोगलक्षणस्य किं प्रयोजनमिति चेत् । उच्यते । भोगरूपेणैव बुद्धिपुरुषधर्मयोरविवेकात् धर्मणोः साङ्कर्यमतो भोग्यमध्य एव तद्धर्मयोर्विवेकाय संयमः कार्य इति प्रतिपादयितुम् । अनेन सूत्रेण भोगोऽपि लक्षितः । तदेतद्व्याख्यातुमादावत्यन्तशब्दस्याभिप्रेतमर्थं प्रकटयति । बुद्धिसत्त्वमित्यादिना । अयमर्थः । न केवलं बाह्याद्याकारबुद्ध्या सहासङ्कीर्णः पुरुषोऽपि तु यद्बुद्धिसत्त्वं प्रख्याशीलतया समानसत्त्वाधीनवृत्तिके रजस्तमसी अभिभूय सत्त्वपुरुषान्यतासाक्षात्काररूपेण परिणतं भवति । तस्माच्च । तस्मादपि प्रकृष्टज्ञानैश्वर्यानन्दादिमयाद् बुद्धिसत्त्वादात्माकारतयात्मकल्पात् परिणामिनोऽत्यन्तविधर्मा पुरुषो विशुद्धः परिणामशून्योऽतोन्यश्चिमात्ररूप इति । अयत्यन्तशब्दार्थं व्याख्याय भोगप्रतिपादकं सूत्रार्थं व्याचष्टे । तयोरिति । तयोर्बुद्धिपुरुषयोरत्यन्तविधर्मणोरपि प्रत्ययाविशेषः प्रत्ययोर्विविच्याग्रहणं भोगः । अगृहीततविवेकौ प्रत्ययाविति यावत् । अयमप्यविवेवेको वुद्धिधर्म इति स्मर्तव्यम् । तत्र बुद्धेः प्रत्ययः सुखादिमती विषयाद्याकारचित्तवृत्तिः पुरुषस्य प्रत्ययो बुद्धिवृत्तिप्रतिबिम्बावच्छिन्नचैतन्यांशः सुखाद्यात्मकशब्दाद्यनुभवनामा । तयोरविवेके हेतुमाह ‘पुरुषस्य दर्शितविषयत्वादिति । यतो बुद्ध्या पुरुषे प्रतिविम्बमर्पितं ततो जपास्फटिकयोरिव धर्मसङ्करापत्तेरविवेक इत्यर्थः । तथा च स्मर्यते

शुद्धोऽप्यात्मातिसामीप्यादृश्यधर्मान् पृथग्विधान् । कर्तृत्वभोक्तृत्वमुख्यान् मन्यते स्वान् स्ववीक्षितान् ॥

जीवो बहिरितीक्षित्वा स्फुटभिन्नापि स्वतः । नेमान्वेत्यन्तरासन्नान् मुखसक्तां मसीमिव ॥

इति स्फुटभिन्नानपीमानर्थान् जीव ईक्षित्वा स्वस्माद्बहिरिति स न वेत्ति यत ईक्षणान्यथानुपपत्त्यान्तरासन्नान् प्रतिबिम्बितान्, तत्र दृष्टान्तो मुखलग्नां मसीमिवेन्यर्थः । परार्थादित्याद्युत्तरार्धं संयमसिद्धिम्प्रदर्शकं व्याचष्टे । स भोगप्रत्यय इत्यादिना जायते इत्यन्तेन ।

सोऽविभागापन्न उभयात्मको भोगाख्यः प्रत्ययः सत्त्वस्यांशः परार्थत्वात् परप्रयोजनकत्वात् दृश्यः । यस्तु तस्मात् परार्थादन्यो विशिष्टः स्वार्थः परस्य बुद्ध्यादेरदृश्यः साक्षादृश्यश्च चैतन्यमात्रः पौरुषेयः पुरुषांशः प्रत्ययः भोगाख्यः, तत्र यथोक्तविवेकेन संयमात्साक्षात्कारपर्यन्तात् पुरुषसाक्षात्कारो भवतीत्यर्थः । अत्रान्यपदाध्याहारः कृतः, तदनेन सूत्रेण भोगापवर्गावपि व्याख्यातौ स्वयं च मुख्य एव भोगोऽविविक्तिप्रत्ययात्मको लोकव्यवहारसिद्धः विवेकग्रहे सति परकीयसुखादिसाक्षात्कार इव स्वीयसुखादिसाक्षात्कारेऽपि भोग व्यवहारयोगात् सोऽयं भोगोऽविवेकप्राधान्येन कुत्रचित् बुद्धेरेवेत्यप्युच्यते । तथा सोऽयं भोगोंशभेदेनोभयोरेव भवति । तत्रैव गौणो भोगः साङ्ख्ये प्रोक्तः चिदवसानो भोग’ इति । स च पुरुषस्यैव, न बुद्धेः पुरुषोऽस्ति भोक्तृभावादिति साङ्ख्यवाक्यात् । अन्यस्तु विपाकान्तर्गतो भोगः शब्दाद्याकारवृत्तिश्च बुद्धेरेव, तावेतौ भोगापवर्गौ बुद्धावेव वर्त्तमानाविति भाष्यात् । ‘स हि तत्फलस्य भोक्ते’ति तत्र तत्र भाष्यकृता विपाकफलस्य सुखदुःखादेर्भोगान्तरवचनाच्चेति स्मर्त्तव्यम् । ननु पुरुषज्ञानं भवतीत्युक्तं तत् पुरुषज्ञानं किं बुद्धिसत्त्वस्य भवति, किं वा पुरुषस्य भवति, आद्ये बुद्धेरपि चेतनत्वापत्तिः स्वोक्तपरादृश्यत्वानुपपत्तिश्च । ‘तथा ते तं न पश्यन्ति स पश्यते तानि’त्यादिवाक्यशतविरोधश्च । अन्त्ये, स्वस्य स्वज्ञेयत्वेन कर्म कर्तृविरोधः सदैव स्वज्ञानप्रसङ्गश्च । पुरुषस्यापरिणामिचिन्मात्रत्वादिति तामिमामाशङ्कां परिहरति । न च पुरुषस्येति । पुरुषाकारप्रत्ययेन बुद्विसत्वधर्मेण पुरुषो न दृश्यते न भास्यते तस्य जडत्वात् । अपि तु पुरुष एव तं प्रत्ययं स्वस्वरूपाकारं पश्यति, बुद्ध्यारूढमात्मानं पश्यतीत्यर्थः । स्वस्मिन्प्रतिबिम्बितमितिशेषः । तथा च स्वप्रतिबिम्बितस्वाकारबुद्धिवृत्तिदर्शनमेव पुरुषस्यपुरुषज्ञानम् । यथा स्वप्रतिबिम्बितघटाकारबुद्धिदर्शनमेव पुरुषस्य घटदर्शनमिति । न चात्र कर्मकर्त्तृविरोधः । कर्मकतृविरोधे हि स्वस्मिन् स्वसम्बन्धानुपपत्तिरेव बीजं प्रकासम्बन्धस्यैव प्रकाश्यतारूपत्वात् । अनुभवप्राप्त्योरेकार्थत्वाच्च । स च सम्बन्ध एकस्मिन्नपि बिम्बप्रतिबिम्बाख्यरूपभेदेनोपपन्न इति । अथैवमपि परसमवेतक्रियाफलभागित्वरूपं कर्मलक्षं पुरुषे न घटत इति चेन्न । विशिष्टाविशिष्टरूपेण ज्ञातृज्ञेययोर्भेदसत्त्वात् । आत्माकारवृत्त्यवच्छिन्नस्य ज्ञातृत्वात् केवलस्य ज्ञेयत्वात् । न चैवमेकवृत्यवच्छिन्नबुद्धेर्वृत्त्यन्तरावच्च्छिन्नबुद्धिग्राह्यत्वसम्भवात्, पुरुषकल्पना वैयर्थ्यादिति(?) वाच्यम् । अनवस्थादिदोषैः सूत्रेण निरस्यत्वादिति । यत्तु आधुनिकवेदान्तिब्रुवानुसारेणास्मदीयोऽपि कश्चित् आत्मनो ज्ञेयत्वाभावमेव वदति तद्यथाश्रुतसूत्रभाष्य विरोधादुपेक्षणीयम् । स्वप्रकाशत्वं चात्मनः स्वज्ञेयत्वमेव ‘चेतनात्मा स्ववेदन’ इत्यादिस्मृत्यनुसारात् । शब्दस्य योगार्थपरित्यागानौचित्याच्च’ । बुद्ध्यादिजडवर्गव्यावृत्तेस्तेनैव सम्भवाच्चेत्यादिकं ब्रह्ममीमांसायां प्रतिपादितमस्माभिः । यदपि वृत्तिव्याप्यत्वमात्मनोऽभ्युपेत्य फलव्याप्यात्वं वेदान्तिब्रुवैरपलप्यते, तदपि मोहादेव, फलव्याप्यत्वस्य सामान्यतो व्यवहारहेतुतायाः क्लृप्तत्वेन चैतन्याख्यफलव्याप्यतां विना चैतन्यव्यवहारानुपपत्तेः । अन्यथा घटादिव्यवहारस्यापि वृत्तिव्याप्यत्वेनैवोपपत्तौ विश्वप्रकाशकतया चैतन्यकल्पनावैर्थ्यात् । ‘यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सहेत्यादि’वाक्यानि च लौकिकमनआदिवृत्यगोचरत्वमेव प्रतिपादयन्ति । ‘मनसैवानुद्रष्टव्य’मित्यादिश्रुत्यन्तपत् । ‘अध्यात्मयोगाधिगमेन देवं मत्त्वा धीरो हर्षशोकौ जहाति’ इत्यादिश्रुत्या योगिमनोविषयत्वावगमाच्च । न तु फलव्याप्यत्वं निराकुर्वन्ति मनआदीनां जडत्वेन फलानाधारत्वात् । फलं विना शास्त्रादीनां ब्रह्मणि प्रमाणत्वादिदोषासम्भवादिति दिक् । पुरुषस्यैव स्वजातृत्वमित्यत्र श्रुतिं प्रमाणयति । तथा ह्युक्तमिति । ईश्वरेणेति शेषः । आत्मा यदि न नित्यज्ञानरूपस्तर्हि केन ज्ञानान्तरेण विज्ञातारमात्मानं लोको विजानीयादित्यर्थः । यद्वा मोक्षकाले बुध्यादि विलयात् केन करणेन तदानीं विज्ञातारमात्मानं पुरुषो विजानीयादित्यर्थः । अत्र हि श्रुतौ करणेन पुरुषस्यैव स्वज्ञेयत्वमवगम्यते । अज्ञेयत्वे च विज्ञातारं को विजानीयादित्येवोच्येतेति । इयं श्रुतिः पुरुषस्य सर्वदैवाज्ञेयत्वं वदतीति कश्चित् । तन्न । यतो न प्रेत्य सञ्ज्ञास्तीति पूर्ववाक्ये याज्ञवल्क्येन मोक्षकाले ज्ञानस्वरूपोऽपि पुरुषो न जानातीत्युक्तम्, अखिलदुखभोगनिवृत्तिरूपपरमपुरुषार्थमोक्षं प्रदर्शयितुम् । तत्र विरोधं दृष्ट्वा मूढाया मैत्रेय्यास्तद्विरोधपरिहारायैवेदं वाक्यं प्रवर्तते, न तु पुरुषस्याज्ञेयत्वप्रदर्शनाय । अप्रकृताभिधानप्रसङ्गादिति । ननु भवन्मतेऽपि पराज्ञेयत्वेन कथं मैत्रेय्याः शङ्कापगच्छतीति चेन्न । ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदि’ति पूर्वश्रुत्यैव विरोधस्य परिहृतत्वात् । स्वयं ज्ञानस्वरूपोऽपि सर्वकरणविलयान्मोक्षकाले किमपि न विजानातीति, तत्र च मैत्रेय्या कदाचिदाशङ्केत मोक्षकालेऽनभिव्यक्त्या आत्मा ज्ञानस्वरूप एव मास्त्विति, तत्रोत्तरं वाक्यं प्रवर्त्तते येनेदं सर्वं विजानाति तं केन विजानीयात् विज्ञातारमरे केन विजानीयादिति । आत्मा यदि ज्ञानस्वरूपो न भवति तद्विषयक ज्ञानान्तरकल्पने ऽनवस्थादिकमिति श्रुतेराशयः ॥ ३५ ॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३६ ॥ प्रातिभात्सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम्। श्रावणाद्दिव्यशब्दश्रवणम्। वेदनाद्दिव्य-स्पर्शाधिगमः। आदर्शाद्दिव्यरूपसंवित्। आस्वादाद्दिव्यरससंवित्। वार्तातो दिव्यगन्धविज्ञानमित्येतानि नित्यं जायन्ते ॥ ३६ ॥ वार्तिकम् योग-वार्त्तिकम्

स्वार्थप्रत्ययसंयमेन पुरुषसाक्षात्कारे जाते सति तल्लिङ्गरूपाणि विवेकजज्ञानस्य च पूर्वरूपाणि प्रातिभाद्याः सिद्धयो भवन्ति, ताश्च पुरुषैकाग्रतापरिपन्थित्वेनासम्प्रज्ञातयोगविघ्नभूता एवेति प्रतिपादयितुमादौ ताः प्रदर्शयति ।

ततः पुरुषसाक्षात्कारात् मनआदीनां प्रातिभादिसञ्ज्ञिकाः सिद्धयः सामर्थ्यविशेषरूपा भवन्ति, यस्मात्सामर्थ्यान्मनआदिषु व्यवहितादिज्ञानं भवतीत्यर्थः । अत्र कश्चित् । तत इति तच्छब्देन पुरुषज्ञानं न परामृश्यते । तद्दर्शनप्रत्यनीकत्वादित्यागामिसूत्रभाष्ये पुरुषदर्शनप्रतिबन्धकत्ववचनादपि तु स्वार्थसंयम एव परामृश्यते । तथा च पूर्वसूत्रोक्तसम्मयमस्यैवेदं पुरुषज्ञानात् प्राक्तनं सिध्यन्तरमिति । तन्न । एकस्याः पुरुषज्ञानरूपसिद्धेरुक्ततया चकाराद्यभावेन सिद्ध्यन्तराकाङ्क्षाविरहात् । पुरुषज्ञानस्यै मुख्यतयोपस्थितत्वेन परामर्शौचित्याच्च । अतस्तच्छब्देनात्र पुरुषज्ञानस्यैव परामर्शः पुरुषसाक्षात्काररूपपुरुषैकाग्रताप्रत्यनीकतया तु भाष्यकारः प्रातिभदेरसञ्ज्ञातसमाधावेवोपसर्गत्वं वक्ष्यतीति । प्रातिभादिशक्तीः स्वकार्यैर्लक्षयति भाष्यकारः । प्रातिभादिति । प्रतिभा उपदेशादिनैरपेक्ष्येण सूक्ष्मादीनां मानसं यथार्थज्ञानं, तत्सामर्थ्यं प्रातिभम् । एवं श्रावणाद्यपि व्याख्येयम् । वेदनाद्यास्तु सञ्ज्ञास्त्वक्चक्षुरसनघ्राणानां सामर्थ्येषु बोध्याः । नित्यमिति । कामनां विनापि जायन्त इत्यर्थः ॥ ३६ ॥ ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३७ ॥ ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गास्तद्दर्शनप्रत्यनीकत्वात्। व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः ॥ ३७ ॥ वार्तिकम् योग-वार्त्तिकम्

समाधौ विघ्नरूपास्वेतासूपेक्षां कृत्वा पुरुषदर्शनाभ्यास एव कर्तव्य इत्येतत्प्रतिपादयितुमाह-

ते प्रातिभादयः समाधिनिष्पत्तावसम्प्रज्ञातरूपायामुपसर्गा अन्तराया अतो व्युत्थानापेक्षयैवेते सिद्धयः पुरुषार्था इत्यर्थः । भाष्ये तद्दर्शनेति । तस्य समाहितस्य यद्दर्शनं पुरुषैकाग्र्यं तप्रतिबन्धकत्वादित्यर्थः ॥ ३७ ॥ बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ ३८ ॥ लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयवशाद्बन्धः प्रतिष्ठेत्यर्थः। तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिबलाद्भवति। प्रचारसंवेदनं च चित्तस्य समाधिजमेव। कर्मबन्धक्षयात्स्वचित्तस्य प्रचारसंवेदनाच्च योगी चित्तं स्वशरीरान्निष्कृष्य शरीरान्तरेषु निक्षिपति। निक्षिप्तं चित्तं चेन्द्रियाण्यनुपतन्ति। यथा मधुकरराजानं मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनुनिविशन्ते तथेन्द्रियाणि परशरीरावेशे चित्तमनुविधीयन्त इति ॥ ३८ ॥ वार्तिकम् योग-वार्त्तिकम्

तदेवं ज्ञानादिरूपासंयमसिद्धीः प्रदर्श्य क्रियादिरूपा अपि विभूतीः संयमफलान्याह सूत्रजातेन ।

बन्धशब्दार्थमाह । लोलीभूतस्येति । चञ्चलस्वभावस्यात एवाप्रतिष्ठस्यैकत्रानवस्थितस्यापि मनसो शरीरे या प्रतिष्ठा ज्ञानहेतुः सम्बन्धविशेषः स बन्ध इत्यर्थः । संयमसिद्धित्वोपपादनायाह । तस्येति । तस्य कर्मणः शैथिल्यं भावनेन दृढबन्धनाक्षमता समाधिसामान्यबलाद्भवतीत्यर्थः । तथा च प्रागुक्तं कर्मबन्धनानि श्लथयतीति । प्रचारेति । अनया नाड्या एवम्प्रकारेण

चित्तं शरीरे प्रविशति निर्गच्छति चेत्यादिविशेषैश्चित्तगतिसाक्षात्कारः प्रचारसंवेदनम् । तदपि समाधिसामान्यादेव भवतीत्यर्थः । सूत्रवाक्यार्थमाह । कर्मेति । कर्मनिमित्तकस्य

निर्गमप्रतिबन्धसंयोगविशेषस्य क्षयादित्यर्थः । शेषं सुगमम् ॥ ३८ ॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३९ ॥ समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनं, तस्य क्रिया पञ्चतयी प्राणो मुखनासिकागतिराहृदयवृत्तिः। समं नयनात्समानश्चाऽऽनाभिवृत्तिः। अपनयनादपान आपादतलवृत्तिः। उन्नयनादुदान आशिरोवृत्तिः। व्यापी व्यान इति। एषां प्रधानं प्राणः। उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च प्रायणकाले भवति। तां वशित्वेन प्रतिपद्यते ॥ ३९ ॥ वार्तिकम् योग-वार्त्तिकम्

योगशास्त्रोक्तसंयमविशेषेणोदानजयात्सिद्धिमाह ।

उदानं विवेचयितुं प्राणादीन् पञ्चैव स्वरूपतोऽवान्तरभेदतश्च प्रतिपादयति । समस्तेति । जीवननाम्नी सर्वेन्द्रियाणां वृत्तिः प्राणनापाननादिरूपेत्यर्थः । अत्रेन्द्रियशब्देन स्थूलसूक्ष्मोभयपरतया करणमात्रग्रहणम् । समस्तशब्दोऽपि सामान्यवचनः

सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्चेति साङ्ख्ये दर्शनात् ।

तेन सषुप्तौ चक्षुराद्युपरमेऽपि प्राणादिवृत्तयो जीवनयोनियत्नवशादन्तःकरणस्यैव भवन्ति निद्रावृत्तिवदिति । न चैवं चित्तमात्रस्यैव लाघवात् प्राणादिवृत्तिकत्वमस्त्विति वाच्यम् । चक्षुराद्युपचयाचयापचयाभ्यां प्राणानामुपचयापचयदर्शनात् । अथवा सुषुप्तेऽपीन्द्रियाणां ज्ञानकर्मलक्षणवृत्योरेव प्रतिषेधात् प्राणनादिवृत्तिसत्त्वेऽप्यक्षतिः । ननु बाह्यवायुभिरन्तःप्राणानां समानलक्षणत्वात् वायुसंस्थानविशेषा एव प्राणाः सन्तु, किमर्थं करणानामपि वायुतुल्यः क्रियादिः कल्प्यत इति चेन्न ।

“प्राणाच्छ्रद्धां खं वायु"रित्यादिषु वायोः प्राणकार्यत्वश्रवणात् न वायुक्रिये पृथगुपदेशादिति ब्रह्मसूत्रे वायुतत्सञ्चाराभ्यामतिरेकस्य प्राणेवधारणाच्च । श्रुतिस्मृत्यनुगृहीता युक्तिश्चाचात्रास्ति यदि करणप्राणौ भिन्नौ स्यातां तदा करणवियोगेऽपि मृतदेहवत् कदाचित् प्राणा अपि तिष्ठेयुः । किञ्चान्तःकरणस्य शोकादिना प्राणस्य कम्पादिर्दृश्यते तत्र लाघवात्सामानाधिकरण्येनैव कार्यकारणभावो युक्तोऽन्यधर्मेणान्यपरिणामेऽतिप्रसङ्गात् । अदृष्टकल्पनापत्तेश्च । अपि च लिङ्गशरीरस्य देहशृङ्खलया बन्ध एव कर्मादीनां हेतुत्वं कल्यते न तु वायुबन्धनेऽपि, गौरवात् । उद्गारादिवायूनां जीवदेहपरित्यागदर्शनाच्च वायुगतवैजात्यादिकल्पनां चातिगौरवादिति लिङ्गशरीरस्योर्ध्वाधः सञ्चारादुत्पद्यमानेन वायना सहाविवेकात्तु तप्तायःपिण्डवत्प्राणेषु वायुव्यहारः । अनेनैव व्यवहारेण साङ्ख्येऽपि प्राणाद्या वायवः पञ्चेत्युक्तम् । अपि च श्रुतिस्मृत्योः करणप्राणयोः भेदव्यवहारो वृत्तिभेदादेव मन्तव्यः । उर्ध्याधोगतिलक्षणाः करणानां परिणामभेदाः प्राणा इत्युच्यन्ते । तत्र च वायुरधिष्ठात्री देवता सर्यश्चक्षुर्वातः प्राण इत्यादिश्रुतेः । ज्ञानादिहेतुपरिणामास्तु करणान्युच्यन्त इति विभागः । अतो देवतया’ सहाभेदादपि सूर्यश्चक्षुरितिवत् वायुः प्राण इति व्यवहारो युक्त इति । कश्चित्तु अत्र प्राणादिजीवनशब्दाभ्यां प्राणनादिनामकवायुक्रियाविशेषहेतुः प्रयत्नभेद एवोक्तः, स च करणनिष्ठ इति भाष्यार्थमाह । तन्न । विवरणभाष्ये प्राणादीनां गत्यादिवचनस्य विरोधात्, अत्रापि साङ्ख्यकारिका ब्रह्ममीमांसैकवाक्यत्वौचित्यात् । वायोः प्राणत्वस्य क्वापि दर्शने सूत्रकारानुक्तत्वाच्च । अत एव’ च लिङ्गशरीरमध्ये प्राणा न गण्यन्ते, करणे ऽप्रवेशादिति । तस्येति । तस्य करणसामान्यस्य साधारणी क्रिया पञ्चतयी क्रियोपलक्षितपरिणामभेदः पञ्चतय इत्यर्थः । समुन्नयनादिति । सममनुरूपं नाडीषु रसानां नयनात्समानः । अस्य च हृदयान्नाभिपर्यन्तं वृत्ति. । अपेति । मूत्रपुरीषगर्भादीनामपसरणहेतुरपानः । अस्य नाभेः पादतलपर्यन्तं वृत्तिः । उन्नयनादिति । ऊध्वगतिप्रदत्वात् रसाद्यूर्ध्वनयनाच्चोदान. । अस्य च मुखनासिकादिकमारभ्य ब्रहरन्ध्रपर्यन्तं वृत्तिः । व्यापीति । सर्वदेहव्यापिवृत्तिको बलवत्कर्महेतुर्व्यानः । ननु सर्वेषां वृत्तिभेदात् कथं पञ्च प्राणा इत्युच्यन्ते तत्राह । एषामिति । प्राणो यदश्नाति पिबति तेनैवान्येषां धारणं भवतीति कृत्वैतेषां प्राणो मुख्यः । अतो मुख्यस्य नामादिभिर्गौणानां व्यवहारो राजानुगतेषु राजव्यहारवदिति भावः । तदेवमुदानं व्याख्याय सूत्रं व्याचष्टे । उदानजयादिति । उदानसंयमादन्यसंयमाद् वा उदानवायोः स्वायत्ततायां सत्यां जलपङ्ककण्डकादीनामुपरि सञ्चरतोऽपि तेष्यसङ्गो भवति तैर्विकारहेतुः संयोगो द्न भवति तथार्चिरादिमार्गे गमनाय स्वेच्छयोत्क्रान्तिर्भवतीत्यर्थः । प्रसङ्गादाह - तामिति । तामूर्ध्वमुत्क्रान्तिमुदानवशित्वं विना न लभत इत्युदानजयी स्यादित्यर्थः ॥ ३९ ॥ समानजयाज्ज्वलनम् ॥ ४० ॥ जितसमानस्तेजस उपध्मानं कृत्वा ज्वलयति ॥ ४० ॥ वार्तिकम् योग-वार्त्तिकम्

संयमविशेषजात्समानजयात् ज्वलनं भवतीत्यर्थः । भाष्ये उपध्मानं उत्तेजनं कृत्वा ज्वलति सतीवत्स्वशरीरं दहतीत्यर्थः ॥ ४० ॥ श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ४१ ॥ सर्वश्रोत्राणामाकाशं प्रतिष्ठा सर्वशब्दानां च। यथोक्तम् – तुल्यदेशश्रवणानामेकदेशश्रुतित्वं सर्वेषां भवतीति। तच्चैतदाकाशस्य लिङ्गम्। वार्तिकम् योग-वार्त्तिकम्

आदावाकाशशब्दार्थे तत्र प्रमाणं च दर्शयति । सर्वश्रोत्राणामिति । यद्यपीन्द्रियाण्याहङ्कारिकाण्येव न भौतिकानि, इन्द्रियाणां प्रकाशात्मकतया प्रकाशात्मकान्तःकरणोपादानकत्वस्यैवौचित्यात् । तथाप्याकाशाश्रिततयाकाशप्रतिष्ठत्वं यथान्नाश्रिततया मनसोऽन्नमयत्वमिति । एतेनान्येषामपीन्द्रियाणां भौतिकत्वं श्रुतिस्मृत्युदितं व्याख्यातम् । तत्तद्भूतसंसृष्टतयेन्द्रियोत्पत्या तत्तद्भूतेभ्य एव तत्तदिन्द्रियाभिव्यक्तेः । यत एव दिगात्मकाकाशादीनि पृथिवीपर्यन्तानि पञ्च श्रोत्रादिदेवाः श्रूयन्त इति । शब्दानां चाकाशोपादानत्वमेवास्ति तथा च श्रोत्रशब्दयोराश्रय आकाशमित्यर्थः । श्रोत्राणामाकाशाश्रयत्वे पूर्वाचार्यसम्मतिमाह । यथोक्तमिति । कालभेदेन तुल्यदेशानि श्रवणाख्यज्ञानानि येषा पुंसां तेषामेकश्रुतित्वमेकदेशावच्छिन्नश्रोत्रकत्वं तत्तत्काले भवतीत्यर्थः । स चैको देश आकाशमेवेति भावः । आकाशे प्रमाणमप्याह । तच्चैतदिति । तच्चैतत् श्रोत्रं शब्दश्चाकाशस्य लिङ्गमनुमापकं न हि सूक्ष्ममिन्द्रियमनाश्रयं स्थातुमर्हति, गन्धवत् कर्णशष्कुली च न तस्याधारो लोकान्तरगमनादिकाले कर्णशष्कुल्यभावात् कर्णविवरपिधानेऽपि शब्दश्रवणप्रसङ्गाच्च न च विवरपिधाने सति शब्दा एव श्रोत्रे न गच्छन्तीति वाच्यम् । भित्यादिवत् कर्णच्छिद्रस्थद्रव्याणामपि शब्दागमनाप्रतिबन्धकत्वात् । नापि शून्यमाधारो, भावानाभ्युपगमात् । अभावस्य भावाधारत्वासम्भवाच्च । नापि कर्णशष्कुल्यवच्छिवः पुरुषादिराधारः विवरपिधानेऽपि तदवच्छेदेन चैतन्याभिव्यक्त्या पुरुषादेरनावृततया शब्दयहणप्रसङ्गात् । तस्मात् पिधानयोग्यमेकं द्रव्यं श्रोत्राधारतयापेक्षितं तच्च परिशेषात् कर्णशष्कुल्यवच्छिवं नभ एव श्रोत्रगोलकतया सिद्ध्यतीति भावः । शब्दाधारतायामप्येवं परिशेषः कर्त्तव्यः । तथाहि । अवकाशस्य शब्दकारणत्वं तावत् सर्वसिद्धमवकाशश्च नावरणाभावमात्रम्, अभावस्य भावानाधारत्वात्, अन्यथा सर्ववस्तूनामभावमात्रमूलकत्वापत्तेः । नापि पुरुषादिः । तेषां स्वस्वव्यापाराप्रच्यवेनावकाशासम्भवात् । आवृतत्वाभिमतदेशेपि शब्दाद्युत्पत्तिप्रसङ्गात् । नापि वायुः । द्रव्यान्तरपूरितेऽपि वेण्वादौ वायसंयोगेन शब्दप्रसङ्गात् । न च छिद्रवायुसंयोगोऽपि शब्दकारणं, तथा सति संयोगाधारतया छिद्रस्य द्रवत्वसिद्धौ तस्यैव शब्दाश्रयत्वं युक्तम्, शब्दो त्पत्ताववकाशस्यैवाधिक्येनोपयोगदर्शनादिति । तस्मादावरणीयतयाकाशद्रव्यं सिद्ध्यतीति । अनावरणं चाकाशस्य लिङ्गं पूर्वाचार्यैरुक्तमित्याह । अनावरणं चोक्तम्। तथाऽमूर्तस्यानावरणदर्शनाद्विभुत्वमपि प्रख्यातमाकाशस्य। शब्दग्रहणानुमितं श्रोत्रम्। बधिराबधिरयोरेकः शब्दं गृह्णात्यपरो न गृह्णातीति। तस्माच्छ्रोत्रमेव शब्दविषयम्। श्रोत्राकाशयोः सम्बन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते ॥ ४१ ॥ वार्तिकम् योग-वार्त्तिकम्

अनावरणं चेति । अनावरणमवकाशः । यदि हि अवकाशरूपमाकाशं न स्यात् तदा मूर्त्तद्रव्येषु स्थाल्याद्विष्वन्तस्तेज आदिप्रवेशो न स्यात् । अथाभाव एवावकाशस्तर्ह्यभावस्य भावाश्रितत्वनियमेनाकाशसिद्वेः । अस्माभिरभावानभुपगमाच्च । आत्मादिश्चावक्राशो न सम्भवति आवरणासम्भवादित्युक्तमिति । आकाशस्य विभुत्वमपि प्रसङ्गात्साधयति । तथेति । मूर्त्तत्वं परिच्छिन्नत्वम्, अनावरणमनावृतत्वम्, असमानदेशत्वमिति यावत् । तथा चान्यत्र पृथिवीजलादिस्थले मूर्तस्य परिच्छिन्नस्य मूर्त्तान्तरासमानदेशत्वदर्शनात् घटादिसमानदेशकस्याकाशस्य विभुत्वं सिद्ध्यति आकाशस्य परिच्छिन्नत्वे मूर्त्तयोः समानदेशताविरोधादित्यर्थः । क्वाचित्कस्तु तथा मूर्त्तस्यापीत्यपिशब्दः प्रामादिकोऽर्थासम्भवात् । आकाशस्य विभुत्वे च आकाशवत्सर्वगतश्च नित्य’ इति श्रुत्यादयः प्रमाणमिति । नन्वाकाशस्य विभुत्वे कथं कार्यत्वं घटते, कथं वागामिभाष्येऽकाशपरमाणुकथनमिति चेत् । उच्यते । आकाशं ह्यन्तःकरणवत् वैशेषिकाणां पृथिव्यादिवत् कार्यकारणरूपेण द्विविधं तत्र कारणाकाशं तमोगुणविशेषतयैव व्यवह्रीयते, तदानीमाकाशताव्यञ्जकशब्दादिविशेषगुणाभावात्, कारणपृथिव्यादिवत्, तच्च कारणाकाशं गुणान्तरोपसंसृष्टं सदंशत आदौ शब्दजननयोग्यार्थरूपेण परिणमते क्षीरादिरिवामृतमथनेंऽशतो दधिरूपेण ततश्चाणुसङ्घातेन पृथिवीवदेव महाभूताकाशमहङ्कारापेक्षया परिच्छिन्नं वायोरावरणमुपपद्यत इति । एतेनान्तःकरणोत्पत्तिरपि व्याख्याता, इत्थमपि श्रुतिस्मृतिप्रसिद्धप्रकृतेः कार्यकारणरूपत्वमवगन्तव्यम् । आकाशं प्रसाध्य श्रोत्रे प्रमाणं दर्शयति । शब्दग्रहणानुमितमिति । तदेव विवृणोति । बधिरेति । एतेन चक्षुरादिष्वप्यन्वयव्यतिरेकौ प्रमाणमिति सूचितम् । ’ अन्तःकरणे तु स्मृत्याद्यन्वयव्यतिरेकौ प्रमाणमिति । इदानीं सूत्रं योजयति श्रोत्रेति । सम्बन्धश्चास्माभिर्व्याख्यातः । उपलक्षणं चैतत् त्वग्वातयोश्चक्षस्तेजसो रसनोदकयोर्घ्राणपृथिव्योः सम्बन्धसंयमाद्दिव्यं त्वगादीत्यपि बोध्यम् । दिव्यत्वं च तन्मात्रादिसूक्ष्मगोचरसंयमनैरपेक्ष्येण स्वभावादेव तन्मात्रादिरूपसूक्ष्मशब्दादिग्राहकत्वमिति ॥ ४१ ॥ कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाऽऽकाशगमनम् ॥ ४२ ॥ यत्र कायस्तत्राऽऽकाशं तस्यावकाशदानात्कायस्य तेन सम्बन्धः प्राप्तिस्तत्र कृतसंयमो जित्वा तत्सम्बन्धं लघुषु वा तूलादिष्वा परमाणुभ्यः समापत्तिं लब्ध्वा जितसम्बन्धो लघुर्भवति। लघुत्वाच्च जले पादाभ्यां विहरति। ततस्तूर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति। ततो यथेष्टमाकाशगतिरस्य भवतीति ॥ ४२ ॥ वार्तिकम् योग-वार्त्तिकम्

चकारोऽत्र विकल्पार्थकः । कीदृशः सम्बन्ध इत्याकाङ्क्षायामाह । यत्रेति । यत्रासनादौ शरीरं तिष्ठति तत्र शरीरावच्छेदेनाप्याकाशं तिष्ठति । तत्र हेतुः तस्याकाशस्यावकाशदातृत्वादिति, अतः कायस्याकाशेन सम्बन्धः प्राप्तिरूपो व्यापनमिति यावत् इत्यर्थः । तत्रेति । तत्र सम्बन्धे कृतसंयमः तत्सम्बन्धं जित्वा साक्षात्कारेण स्वेच्छाधीनं कृत्वा लघुर्भवतीत्यागामिनान्वयो भविष्यति । द्वितीयहेतुं व्याचष्टे - लघुषु वेत्यादिना जितसम्बन्ध इत्यन्तेन । समापत्तिं तत्स्थतदञ्जनतां जितसम्बन्धः, स्वायत्तीकृतकायाकाश सम्बन्ध इत्यर्थः । आकाशगतावुपायद्वयसाधारणं क्रममाह । लघुरित्यादिना । प्रथमं लघुर्भवति । ततो लघुतया जले पृथिव्यामिव पद्भ्यां सञ्चरतीत्यादिः क्रम इत्यर्थः । सुगममन्यत् ॥ ४२ ॥ बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ ४३ ॥ शरीराद्बहिमर्नसो वृत्तिलाभो विदेहा नाम धारणा। सा यदि शरीरप्रतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति सा कल्पितेत्युच्यते। या तु शरीरनिरपेक्षा वहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्वकल्पिता। तत्र कल्पितया साधयन्त्यकल्पिता महाविदेहामिति। यया परशरीराण्याविशन्ति योगिनः। ततश्च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेशकर्म विपाकत्रयं रजस्तमोशूलं तस्य च क्षयो भवति ॥ ४३ ॥ वार्तिकम् योग-वार्त्तिकम्

योगशास्तोक्तसंयमविशेषात् वक्ष्यमाणा बहिरकल्पिता वृत्तिर्महाविदेहाख्या सिद्धिर्भवति । ततः सत्वप्रकाशावरणभङ्ग इत्यर्थः । महाविदेहां व्याख्यातुमादौ सामान्यविदेहामाह । शरीरादिति । मनसो बहिर्वृत्तिलाभोऽत्र स्वशरीरस्येव बहिर्वस्तूनां सङ्कल्पादिवशता, सा च बहिरधिष्ठानरूपा धारणा विदेहासामन्यमित्यर्थः । धारणेति च तान्त्रिकी सञ्ज्ञा । तस्या अवान्तरभेदमाह । सा यदीति । शरीरनिरपेक्षेति त्यक्तशरीरेत्यर्थः । अनयापि परशरीरावेशो लिङ्गदेहस्य भवतीति प्रसङ्गादाह । यथेति । तत इत्यादि सूत्रावयवं व्याचष्टे । ततश्चेति । क्लेशेति । क्लेशाश्च कर्म च विपाकत्रयं च यद्रजस्तमोमूलकं सत्त्वस्यावरकं तस्य च समूलस्य क्षयो भवतीत्यर्थः । तेषां क्षये च निरावरणं योगिनः चित्तं स्वेच्छया विहरति विजानाति चेति, चशब्दःस्वोक्तं परशरीरावेशं समुच्चिनोति ॥ ४३ ॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ४४ ॥ तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहाऽऽकारादिभिर्धर्मैः स्थूलशब्देन परिभाषिताः। एतद्भूतानां प्रथमं रूपम्। द्वितीयं रूपं स्वसामान्यं मूर्तिर्भूमिः स्नेहो जलं वह्निरुष्णता वायुः प्रणामी सर्वतोगतिराकाश इत्येतत्स्वरूपशब्देनोच्यते। वार्तिकम् योग-वार्त्तिकम्

तदेवं परिणामत्रयसंयमादित्यारभ्योच्चावचविषयकसंयमानां ज्ञानक्रियारूपाः सिद्धय उक्ता इदानीं वितर्कविचारेत्यादिसूत्रैः स्वशास्त्रे मुख्यतः प्रकृतेषु ग्रहीतृग्रहणग्राह्येषु ये संयमास्तेषां सिद्धयो वक्तव्याः, तत्र ग्रहीतृग्रहणयोः ग्राह्यनिरूप्यत्वादादौ ग्राह्यविषयकसंयमस्य सिद्धिमाह -

स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश्चार्थवत्त्वं चेति स्थलस्वरूपसूक्ष्मान्वयार्थवत्त्वानि, तेषु संयमात्साक्षात्कारपर्यन्तात्तद्रूपाणां जयो वशवर्त्तिता भवतीत्यर्थः । स्थूलं व्याचष्टे । तत्रेति । सामान्यविशेषसमूहरूपाणां पृथिव्यादिपञ्चभूतानामेकदेशाः शब्दादयो विशेषाः धर्मधर्म्यभेदाः तद्वन्तः पदार्था वक्ष्यमाणैराकारादिधर्मैः सह स्थूलशब्देन शास्त्रे परिभाषिता इत्यर्थः । ते च विशेषाः षड्जगान्धारादयः शीतोष्णादयो नीलपीतादयो मधुराम्लादयः सुरभिदुर्गन्धादयश्चेति । एते हि नामकर्मभिरवान्तरं विभज्यन्त इति विशेषाः । आकारादयश्च धर्माः पृथिव्यादीनां क्रमेण शास्त्रे परिपठिताः । यथा—

आकारो गौरवं रौक्ष्यं वरणं स्थैर्यमेव च । वृत्तिर्भेदः क्षमा कार्श्यं काठिन्यं सर्वभोग्यता ॥

स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत् । शैत्यं रक्षा पवित्रत्वं सन्धानं चौदका गुणाः ॥

ऊर्ध्वभाक् पाचकं दग्धृ पावकं लघु भास्वरम् । प्रध्वंस्योजस्वि वै तेजः पूर्वेभ्यो भिन्नलक्षणम् ॥

तिर्यग्यानं पवित्रत्वमाक्षेपो नोदनं बलम् । चलमच्छायता रौक्ष्यं वायोर्धर्माः पृथग्विधाः ॥

सर्वतो गतिरव्यूहोऽविष्टम्भश्चेति ते त्रयः । आकाशधर्मा व्याख्याता पूर्वपूर्वविलक्षणाः ॥ इति ।

आकारोऽवयवसंस्थनं, वृत्तिः सर्वभूताधारता, भेदो विदारणं क्षमा सहिष्णुता धारणं सामर्थ्यमिति यावत् । रक्षाद्स् - आवरणादिना रक्षकत्वम्, आक्षेपः पातनं, सर्वतोगतिर्विभुत्वम्, अव्यूहः सर्वपदार्थानां प्रविरलीकरणम् । अविष्टम्भोऽवकाश इति । प्रथमं रूपमिति । सूत्रोक्तं पञ्चरूपेष्वाद्यं रूपमित्यर्थः । स्थूलं व्याख्याय स्वरूपं व्याचष्टे । द्वितीयं रूपमिति । स्वसामान्यमिति साधारणं लक्षणम् । कस्य किं सामान्यं तद्दर्शयति—मूर्तिर्भूमिरित्यादिना । मूर्तिः सांसिद्धिकं कठिन्यं तद्-व्यङ्ग्या पृथिवीत्वजातिः, कार्यरूपेणाकाशस्याप्यनेकत्वादिति । अत्र सामान्यविशेषयोरभेदप्रतिपादनाय मूर्तिर्भूमिरित्याद्यभेदनिर्देशः । कस्य विशेषस्येदं सामान्यमित्याकाङ्क्षायामाह । अस्य सामान्यस्य शब्दादयो विशेषाः। तथा चोक्तम् – एकजातिसमन्वितानामेषां धर्ममात्रव्यावृत्तिरिति। वार्तिकम् योग-वार्त्तिकम्

अस्येति । शब्दादयः पूर्वोक्ताः मूलतारमन्दादिभेदेन सामान्यस्य जातेरेकदेशाद् व्यावर्तकतया विशेषा इत्यर्थः । अत्र पूर्वाचार्यसंवादमाह । तथा चोक्तमिति । एकजातिसमन्वितानामेषां पृथिव्यादीनां शब्दादिधर्ममात्रेण व्यावृत्तिः सजातीयान्तरादित्यर्थः । एकजातिसमन्वितानामिति । समूहे समूहिवृत्त्यभिप्रायेण प्रयोगः । सामान्यविशेषसमुदायोऽत्र द्रव्यम्। द्विष्ठो हि समूहः प्रत्यस्तमितभेदावयवानुगतः शरीरं वृक्षो यूथं वनमिति। वार्तिकम् योग-वार्त्तिकम्

यत्तु वैशेषिकाःसामान्यविशेषयोराश्रयमेव द्रव्यं मन्यन्ते न तु तयोर्भेदमपि, तन्मताद्विविच्य स्वसिद्धान्तमाह—सामान्येति । अत्र दर्शने सामान्यविशेषयोः समूहो द्रव्यम्, अतिरिक्तावयव्यभ्युपगमेऽपि तयोरभेदस्यापि अभ्युपगमात् । अन्यथा घटोमृत् तन्तुः पटः शुक्लः पट इत्याद्यभेदप्रत्ययानुपपत्तेरित्यर्थः । ननु समूहमात्रस्य द्रव्यत्वे वनस्याप्येकद्रव्यत्वापत्तिरित्याशङ्कां परिहर्तुमादौ समूहस्य द्वैविध्यमाह—द्विष्ठो हीति । द्वाभ्यां प्रकाराभ्यां तिष्ठतीति द्विष्ठः । तत्रैकं प्रकारमाह । प्रत्यस्तमितेति । प्रत्यस्तमितः शब्देनानुपस्थापितो भेदोऽवान्तरविभागो येषामवयवानां तादृशेष्ववयवेष्वनुगत इत्यर्थः । तस्योदाहरणचतुष्कमाह । शरीरमिति । आद्यं द्वयमेकद्रव्यरूपस्य समूहस्योदाहरणमन्त्यद्वयमनेकद्रव्यरूपसमूहस्येति भेदः, यूथादौ च विशिष्टस्यातिरिक्तत्वाभिप्रायेणावयवानुगतत्वमुपपादनीयम् । द्वितीयं समूहस्य प्रकारमाह । शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्याः। समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस्ताभ्यामेवाभिधीयते समूहः। वार्तिकम् योग-वार्त्तिकम्

शब्देनोपात्तेति । अस्योदाहरणम् उभयेति । अत्रोभयशब्दवाच्यस्य समूहस्यावान्तरभेदौ देवमनुष्यशब्दाभ्यामुपात्तौ बहुवचनाभ्यां च तयोरप्यनेकभेदा उपात्ता इति । शब्देनोपात्तभेदत्वं सङ्क्षेपात् स्वयमाह । समूहरूपस्य देवा इति । भागो भेदः, ताभ्यां भेदाभ्याम् । स च भेदाभेदविवक्षितः। आम्राणां वनं ब्राह्मणानां सङ्घ आम्रवणं ब्राह्मणसङ्घ इति। वार्तिकम् योग-वार्त्तिकम्

स चेति । स च द्विविधोऽपि समूहो भेदाभेदाभ्यां प्रयोक्तृभिर्विवक्षितो भवति । आम्राणां वनमिति षष्ठ्या भेदेन आम्रवणमिति च कर्मधारयादभेदेन विवक्षा । एवमन्यत्रापि, तथा च समूहसमूहिनोर्भेदाभेदौ स्त इति प्रतिपादितम् । स पुनर्द्विविधो युतसिद्धावयवोऽयुतसिद्धावयवश्च। युतसिद्धावयवः समूहो वनं सङ्घ इति। अयुतसिद्धावयवः सङ्घातः शरीरं वृक्षः परमाणुरिति। अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः। एतत्स्वरूपमित्युक्तम्। वार्तिकम् योग-वार्त्तिकम्

स पुनरिति । द्विविधोऽपि समूहः पुनर्द्विविधो भवति । द्वैविध्यमेवाह । युतेति । हलिकादिष्वपि संयुक्ततया सम्बद्धतया सिद्धा अपवाद्यस्य समूहस्य यूथवनादेः स तथा । अयुतेति । अयुतसिद्धावयवः समूहः सङ्घातस्तस्य विवरणं शरीरमित्यादि । लौकिकेष्वसंयुततया एकीभावेनैव सिद्धा अवयवा यस्य समूहस्य शरीरवृक्षादेः स तथेत्यर्थः । परमाणुरिति । परमाणूनामपि पञ्चचतुरादितन्मात्रसमूहताया वक्ष्यमाणत्वादिति भावः । तदेवं समूहभेदान् प्रदर्श्य तेष्ववयविद्रव्यरूपं समूहं विशिष्यावधारयति । अयुतेति । संयोगविशेषावच्छिन्नेष्ववयवविशेषेषु अनुगतः सामान्यविशेषसमूहोऽवयव्याख्यं द्रव्यमित्यर्थः । अवयवसाधारणं तु सामान्यतो द्रव्यलक्षणं सामान्यविशेषसमुदायत्वमात्रमिति, उपसंहरति । एतत्स्वरूपमित्युक्तमिति । एतत्सामान्यं स्वरूपशब्देन परिभाषितमित्यर्थः । स्वरूपपरिभाषा च स्थिरतामात्रेण विशेषा ह्यागमापायितया न द्रव्यस्य स्वरूपाणीति । यत्तु पूर्वपादे स्थूलस्वरूपे एकीकृत्यावयविद्रव्यमेव वितर्कानुगतयोगस्य विषयः स्थूलमित्युक्तं तल्लौकिकस्थूलव्यवहारानुसारेण । अत्र तु तान्त्रिकव्यवहारेण तस्यैव द्विधा विभागः । एवमेव विचारानुगतविषयस्य सूक्ष्मस्यैवात्र सूक्ष्मादित्रैविध्यं वक्ष्यतीति द्रष्टव्यम् । स्वरूपं व्याख्याय सूक्ष्मं व्याख्यातुं पृच्छति । अथ किमेषां सूक्ष्मरूपं, तन्मात्रं भूतकारणं, तस्यैकोऽवयवः परमाणुः सामान्यविशेषात्माऽयुतसिद्धावयवभेदानुगतः समुदाय इत्येवं सर्वतन्मात्राण्येतत्तृतीयम्। अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावानुपातिनोऽन्वय शब्देनोक्ताः। अथैषां पश्चमं रूपमर्थवत्त्वं, भोगापवर्गार्थता गुणेष्वेवान्वयिनी, गुणास्तन्मात्रभूतभौतिकेष्विति सर्वमर्थवत्। तेष्विदानीं भूतेषु पञ्चसु पञ्चरूपेषु संयमात्तस्य तस्य रूपस्य दर्शनं जयश्च प्रादुर्भवति। तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति। तज्जयाद्वत्सानुसारिण्य इव गावोऽस्य सङ्कल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥ ४४ ॥ वार्तिकम् योग-वार्त्तिकम्

अथेति । एषां भूतानाम् । उत्तरम्—तन्मात्रमिति । तत्र सूक्ष्मपरिभाषाबीजमाह । भूतकारणमिति । साक्षात्कारणत्वमेव हि सूक्ष्मत्वमत्र विवक्षितमित्याशयः । भूतकारणत्वप्रकारं दर्शयति—तस्येति । तस्य भूतस्यैकश्चरमोऽवयवः परमाणुः सोऽपि च घटादिवदेव सावयवोऽन्यथा स्थूलत्वानुपपत्तेः, शान्तघोरमूढत्वरूपविशेषानुपपत्तेश्चेति एवमित्यतः सर्वतन्मात्राण्येव भूतकारणानि । अवयवान्तरासम्भवादित्यर्थः । उपसंहरति—एतत् तृतीयमिति । एतत्तन्मात्रं तृतीयं भूतानां रूपमित्यर्थः । अन्वयाख्यं चतुर्थं रूपं व्याचष्टे—अथेति । अथानन्तरमुच्यत इति शेषः । त्रिविधा गुणा एवान्वयशब्देनोक्ताः । तत्र हेतुः—कार्यस्वभावानुपातिन इति । कार्यरूपो यः स्वीयो भावः स्वात्मकः पदार्थास्तत्रानुगता अतोऽन्वया इत्यर्थः । ननु भूतेषु प्रख्याशीलस्य सत्त्वस्यानुगमे किं प्रमाणम् ? इति चेद्,‘अन्नमयं हि सोम्यमनः’ इत्यादिश्रुतयोऽन्वयव्यतिरेकौ चेति प्रतीहि । प्रकाशात्मकतया सात्त्विकानि हि मनश्चक्षुरादीन्यन्नरसाद्युपचयापचयाभ्याम् उपचयापचयवन्ति दृश्यन्ते । अतः पृथिव्यादिभूतेषु मनआदिकं तदुपष्टम्भकसत्त्वं वानुगतमित्युन्नीयत इति । पञ्चमं रूपम् आह—अथैषामिति । गुणेषु वर्तमानं यद् भोगापवर्गजातं भोगविवेकख्यातिरूपं तदेव पञ्चमं रूपमर्थवत्त्वाख्यमित्यर्थः । नन्वेवं गुणेषु वर्तमानमर्थवत्त्वं कथं भूतानां रूपं स्यात् ? तत्राह—गुणास्तन्मात्रेति । ननु भोगापवर्गौ शब्दाद्युपलब्धिविवेकख्याती ते चान्तःकरण एव वर्तेते न साक्षाद् गुणेष्विति चेन्न । अनागतावस्थया वासनारूपेण वा तयोरपि प्रलयकाले गुणेष्वेवावस्थानात् । कारणक्रमेणैव कार्येष्वनुगतयोरभिव्यक्तेरिति । पञ्चरूपाणि व्याख्याय सूत्रवाक्यार्थम् आह—तेष्विति । इदानीं भूतेषु इदानीमुत्पन्नेषु इदानीन्तनेषु स्थलभूतेष्वित्यर्थः । तन्मात्रादिषु पञ्चरूपत्वाभावादिदानीं भूतेष्वित्युक्तम् । स्वरूपदर्शनं च संयमस्य जयहेतुत्वे द्वारमुक्तम् । जयो वशीकारः । तत्र पञ्चेति । एकैकमात्रजये हि गौणो भूतजयः । सामग्र्येणाजयाद् इति भावः । वशीकारमेव कार्यद्वारा लक्षयति—तज्जयाद् इति । भूतप्रकृतयो भूतकारणानि त्रिगुणतत्स्थपुरुषार्थपर्यन्तानीत्यर्थः । न तु तन्मात्राण्येव केवलानि गुणपुरुषार्थयोरपि संयमेन साक्षात्कृतत्वाद् इति ॥ ४४ ॥ ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ ४५ ॥ तत्राणिमा भवत्यणुः। लघिमा लघुर्भवति। महिमा महाभवति। प्राप्तिरङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम्। प्राकाम्यमिच्छानभिघातः। भूमावुन्मज्जति निमज्जति यथोदके। वशित्वं भूतभौतिकेषु वशी भवत्यवश्यश्चान्येषाम्। ईशितृत्वं तेषां प्रभवाप्ययव्यूहानामीष्टे। यत्र कामावसायित्वं सत्यसङ्कल्पता यथा सङ्कल्पस्तथा भूतप्रकृतीनामवस्थानम्। न च शक्तोऽपि पदार्थविपर्यासं करोति। कस्मात्। अन्यस्य यत्र कामावसायिनः पूर्वसिद्धस्य तथा भूतेषु सङ्कल्पादिति। एतान्यष्टावैश्वर्याणि। कायसम्पद्वक्ष्यमाणा। तद्धर्मानभिघातश्च पृथिवी मूर्त्या न निरुणद्धि योगिनः शरीरादिक्रियां, शिलामप्यनुविशतीति। नाऽऽपः स्निग्धाः क्लेदयन्ति। नाग्निरूष्णो दहति। न वायुः प्रणामी वहति। अनावरणात्मकेऽप्याकाशे भवत्यावृतकायः सिद्धानामप्यदृश्यो भवति ॥ ४५ ॥ वार्तिकम् योग-वार्त्तिकम्

भूतजयस्य फलं प्रतिपादयति -

तत्र त्रिषु मध्येऽणिमाद्यष्टसिद्धीर्व्याचष्टे—अणिमेति । स्वेच्छया यदणुपरिमाणशरीरो भवति तदणिमा । सङ्कल्पमात्रेण तत्क्षणाद् एवावयवापचयेन सौक्ष्म्यं देहस्य भवति, भूतप्रकृतिवशित्वादिति ।

एवं सर्वत्र अणिमाद्याश्च शास्त्रे गणिताः—

अणिमा महिमा चैव लघिमा प्राप्तिरिन्द्रियैः । प्राकाम्यं श्रुतदृष्टेषु शाक्तिप्रेरणमीशिता ॥

गुणेष्वसङ्गो वशिता यत्कामस्तदवस्यति । इति । लघिमानम् आह—लघुरिति । गुरुतरशरीरोऽपीषिकातूलवल्लघुर्भवतीत्यर्थः । स्पृशतीति । भूमिष्ठ एवेति शेषः । अवयवोपचयेनाङ्गुलिदैर्घ्यादिति । एताश्चतस्रः स्थूलसंयमसिद्धयः । स्वरूपसंयमस्य सिद्धिमाह—प्राकाम्यमिति । इच्छानभिघात इति । सत्यामिच्छायां नास्य रूपं भूतस्य रूपैर्मूर्त्यादिभिर्विहन्यते, भूतस्वरूपाणां जितत्वादित्यर्थः । तस्योदाहरणं—भूमाविति । उन्मज्जति जलमिव भूमिमुद्भिद्योत्तिष्ठति निमज्जति जलवद् भूमौ प्रविशति चेत्येवमादिः प्राकाम्यमित्यर्थः । सूक्ष्मसंयमस्य सिद्धिमाह—वशित्वमिति । भूतभौतिकेष्विति । भूतेषु व्यष्टिषु भौतिकेषु तत्कार्येषु समष्टिमहाभूतेषु ब्रह्माण्डादिषु चेति व्याख्येयम् । जगद्व्यापारवर्जमिति वेदान्तसूत्रेण सिद्धेष्वादिसर्गसामर्थ्याभाववचनादिति । वशीभवति स्वेच्छया परिणमने समर्थो भवति, तत्कारणतन्मात्रविजयात् । तथा तेषामवश्योऽपि भवति । रागादित्यर्थः । अन्वयसंयमस्य सिद्धिमाह—ईशितृत्वमिति । तेषामिति । तेषां भूतानां तन्मात्रद्वारकोत्पत्तिविनाशयोर्व्यूहाख्यसंस्थानविशेषे च समर्थो भवति, भूतानां मूलप्रकृतिविजयादित्यर्थः । अर्थवत्त्वसंयमस्य सिद्धिमाह—यत्रेति । यत्र कामावसायित्वमिति तान्त्रिकी परिभाषा पुराणेष्वप्येवमवगमाद्, भूतप्रकृतीनां गुणतन्मात्रादीनामवस्थानं परिणामविशेषः, विजितार्थसम्बन्धो हि योगी यद् यदर्थतया यद्वस्तु सङ्कल्पयति, तत्तद्वस्तु तदर्थकमेवभवति । विषमप्यमृतस्यार्थं सङ्कल्प्य भोजयन् जीवलोकं सुखाकरोतीति । नन्वेवं योगी जलमपि तेजः कुर्याद्, धर्ममप्यधर्मं कुर्याद् इत्यव्यवस्थैव स्यादित्याशङ्क्याह—न च शक्तोऽपीति । पूर्वपरयोगिव्यवहारानुसारेणैव योगी व्यवहरति । अन्यथा तुल्यबलविरोधेन व्यवहारासम्भवात् । विरोधमेवदर्शयति—अन्यस्येति । पूर्वेषां तथाभूतेषु यथादृष्टेष्वेव सङ्कल्पादितिवाक्यार्थः । तथा च श्रुतिः—‘धाता यथापूर्वमकल्पयद्’ इति । स्वनियमपालनार्थमन्तर्यामिणा तथैव सिद्धः प्रेर्यत इति द्रष्टव्यम् । उपसंहरति—इत्यष्टावैश्वर्याणीति । अणिमाद्यष्टसिद्धिव्याख्यापूरणायैव प्रकाम्यमत्र भाष्यकारैः कथितं, न त्वत्र सूत्रे प्राकाम्यमणिमादिमध्ये विवक्षितं, तद्धर्मानभिघात इत्यनेनैव प्राकाम्यग्रहणेन पौनरुक्त्यापत्तेरिति ॥ ४५ ॥ रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ ४६ ॥ दर्शनीयः कान्तिमानतिशयबलो वज्रसंहननश्चेति ॥ ४६ ॥ वार्तिकम् योग-वार्त्तिकम्

कायसंयप्रादित्वाद्धि सुगमं , प्रसिद्धत्वात्सिद्धिद्वयविवेचनानपेक्षया केवलां कायसम्पदं सूत्रकारो विवृणोति ।

वज्रस्येव संहननं प्रहारो यस्येति वज्रवन्निबिडो दृढः सङ्घातो यस्येति वा वज्रसंहननः । भाष्यं सुगमम् ॥ ४६ ॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ४७ ॥ सामान्यविशेषात्मा शब्दादिर्ग्राह्यः। तेष्विन्द्रियाणां वृत्तिर्ग्रहणम्। न च तत्सामान्यमात्रग्रहणाकारं कथमनालोचितः स विषयविशेष इन्द्रियेण मनसाऽनुव्यवसीयेतेति। स्वरूपं पुनः प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्यविशेषयोरयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिन्द्रियम्। तेषां तृतीयं रूपमस्मितालक्षणोऽहङ्कारः। तस्य सामान्यस्येन्द्रियाणि विशेषाः। चतुर्थं रूपं व्ययवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणा येषामिन्द्रियाणि साहङ्काराणि परिणामः। पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थवत्त्वमिति। पञ्चस्वेतेष्विन्द्रियरूपेषु यथाक्रमं संयमस्तत्र तत्र जयं कृत्वा पञ्चरूपजयादिन्द्रियजयः प्रादुर्भवति योगिनः ॥ ४७ ॥ वार्तिकम् योग-वार्त्तिकम्

ग्राह्यसंयमयस्य सिद्धय उक्ताः ग्रहणसंयमयस्य सिद्धीराह

ग्रहणं च स्वरूपं चास्मिता चान्वयश्चार्थवत्त्वं च तेषु संयमात्साक्षात्कारपर्यन्तात् तद्रूपाणामिन्द्रियाणां जयो भवतीत्यर्थः । ग्रहणं व्याचष्टे—सामान्येति । वृत्तिरालोचनं विषयाकारपरिणामविशेषः चिन्ताऽवधारणाभिमानसंशयरूपादन्तःकरणानामसाधारणवृत्तिचतुष्काद्विलक्षणो दर्शनस्पर्शननामा । यद्यपि सोऽपि स्मरणाद्यनुरोधेनान्तःकरणस्यैव, तथापि चक्षुराद्युपष्टम्भेनैव भवतीति कृत्वा दर्शनादिश्चक्षुरादीनामुच्यते । तथा चोक्तं साङ्ख्ये—

सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् । तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ इति ।

न त्वालोचनशब्दार्थो निर्विकल्पकं ज्ञानं चक्षुरादिमात्रवृत्त्येवेति कल्पनीयम् । एवं सति चक्षुरादिनैव वैशिष्ट्यस्यापि ग्रहणसम्भवात्, सर्ववृत्तीनां चित्तनिष्ठत्वस्य भाष्ये प्रोक्तत्वाच्च । ये तु बौद्धा विशेषस्य मनोमात्रस्य गोचरत्वमभ्युपगम्येन्द्रियवृत्तिं सामान्यमात्रविषयिणीमाहुस्तान् प्रत्याचष्टे—न चेति । न चैतदिन्द्रियं सामान्यमात्रेण ग्रहणमाकारो रूपं यस्य तथा भवतीत्यर्थः । तत्र हेतुः—कथमित्यादि । सविषयगतो विशेष इन्द्रियेण अनलोचितः कथं मनसाऽनुव्यवसीयेत गृह्येत मनसो बहिरस्वातन्त्र्यादन्यथा चक्षुराद्यगोचरार्थानां मनसा विशेषग्रहणप्रसङ्गादित्यर्थः । इन्द्रियाणां द्वितीयं रूपमाह—स्वरूपमिति । प्रकाशात्मनो बुद्धिसत्त्वस्य कार्या येऽयुतसिद्धा अवयवभेदाः सात्त्विकाहङ्काररूपास्तेष्वनुगतःसामान्यविशेषरूपयोः समूहोद्रव्यमिन्द्रियमित्यर्थः । तत्र विशेषाः ग्रहणरूपा नीलपीताद्याकाराः, परिणामभेदाः सामान्यं च चक्षुष्ट्वादीति । ननु पूर्वसूत्रवदत्रापि स्वरूपं केवलं सामान्यमेवोचितम्, अन्यथा ग्रहणाख्यप्रथमरूपस्याप्यत्रैव प्रवेशापत्तेः? इति चेत्, सत्यम् । सामान्यप्राधान्येनैव स्वरूपत्वमत्रापि विवक्षितं, तथापि भूतवदिन्द्रियस्यापि सामान्यविशेषाभ्यामत्यन्तनिषेधप्रतिषेधायैव समुदायो द्रव्यमित्युक्तम् ।

तेषां तृतीयं रूपमिति । तेषामिन्द्रियाणां तृतीयं रूपमवयवशब्देनोक्तोऽहङ्कारः, तत्राभिमानाख्यवृत्तिभ्रमनिरासायास्मितालक्षण इति विशेषणम्, अस्मितावृत्तिक इत्यर्थः । ननु कथमहङ्कार इन्द्रियाणां रूपम् ? इत्याकाङ्क्षायाम् आह—तस्येति । यथा तन्मात्रस्य सामान्यस्य भूतानि विशेषा एवमहङ्कारस्य सामान्यस्य चक्षुरादीनि विशेषाः, कार्यत्वात् । अत इन्द्रियेष्वनुगततयाऽहङ्कार इन्द्रियाणां रूपं, भूतानां तन्मात्रवदितिभावः । इन्द्रियाणां चतुर्थं रूपमाह—चतुर्थमिति । महत्तत्त्वस्यापि चतुर्थरूपमध्ये प्रवेशाय व्यवसायात्मका इति गुणानां विशेषणं व्यवसायाख्यबुद्धिरूपेण परिणतास्तद्विशिष्टा इत्यर्थः । एतेन पूर्वोक्तभूतजयसूत्रेऽप्यन्वयाख्यचतुर्थरूपमध्ये महदहङ्कारयोः प्रवेश इत्युन्नेयं, युक्तिसाम्याद् इति । येषामिति । साहङ्काराणि सान्तःकरणानि । पञ्चमं रूपमाह—गुणेष्विति । इन्द्रियप्रकृतिगुणेष्वित्यर्थः । सूत्रवाक्यार्थं व्याचष्टे—पञ्चस्विति । यथाक्रमं ग्रहणादिक्रमेण संयमः कार्य इति शेषः । ततश्च वत्सानुसारिण्य इव गावोऽस्य सङ्कल्पानुविधायिन्य इन्द्रियप्रकृतयो भवन्तीति शेषः ॥ ४७ ॥ ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ४८ ॥ कायस्यानुत्तमो गतिलाभो मनोजवित्वम्। विदेहानामिन्द्रियाणामभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः। सर्वप्रकृतिविकारवशित्वं प्रधानजय इत्येतास्तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते। एताश्च करणपञ्चरूपजयादधिगम्यन्ते ॥ ४८ ॥ वार्तिकम् योग-वार्त्तिकम्

इन्द्रियजयात्सिद्धीराह ।

व्याचष्टे कायस्येति । अनुत्तमो मनोवच्छीघ्रतरः कर्मेन्द्रियवृत्तिविजायाद्भवति । विकरणभावस्य स्वरूपमाह—विदेहानामिति । स्थूलदेहसम्पर्करहितानामित्यर्थः । इन्द्रियाणामिति । करणसामान्योपलक्षणम् । विकरणभावशब्दस्य योगार्थमाह—अभिप्रेतेति । अभिप्रेतकालदेशविषयापेक्षस्तदपरित्यागी यत्रैव देशादिषु वृत्तिलाभ इष्यते, तत्रैव भवतीत्यर्थः । तथा च विकरणभावो विकीर्णतास्वभावो व्यापितेति यावद्, य एवंविधकरणभावोपपन्ना योगिनस्त एव स्थाने स्थाने विदेहा इत्युक्ताः । सर्वेति । सर्वासां व्यक्तिभेदेनानन्तानां भूतेन्द्रियप्रकृतीनां सत्त्वादिगुणानां तद्विकाराणां च सर्वेषां स्वेच्छयाऽनुविधानं प्रधानजय इत्यर्थः । ननु भूतप्रकृतिजयो भूतजयो वा कथमिन्द्रियजयात् ?इति चेन्न, भूतजयरूपपूर्वभूमिकायामेवतयोर्जितत्वेनोत्तरभूमिकायामेकीकृत्य सर्वजयकथनादिति । एत एव च प्रधानजयिनः पूर्वं स्थाने स्थाने प्रकृतिलया इत्युक्ताः, प्रकृत्या सहैकतां गता इति प्रकृतिलयाः प्रकृतिवशिनः । एतास्तिस्र इति । अत्र सिद्धिविशेषाणामे व मधुप्रतीकसञ्ज्ञाऽवगमाद्योगभूमिचतुष्टयस्य पृथगेव पश्चाद्वक्ष्यमाणत्वाच्च । योगभूमेर्मधुप्रतीकसञ्ज्ञेति कस्यचिद्व्याख्यानमबोधमूलत्वादुपेक्षणीयम् । तत इति सौत्रं पदं व्याचष्टे—एताश्चेति । नन्विन्द्रियजये कथं प्रकृतिमहदहङ्काराणां जय इति चेन्न, इन्द्रियरूपेष्वन्तिमरूपत्रयत्वात्तेषाम् इति ॥ ४८ ॥ सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ४९ ॥ निर्धूतरजस्तमोमलस्य बुद्धिसत्त्वस्य परे वैशारद्ये परस्यां वशीकारसञ्ज्ञायां वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम्। सर्वात्मानो गुणा व्यवसायव्यवसेयात्मकाः स्वामिनं क्षेत्रज्ञं प्रत्यशेषदृश्यात्मत्वेनोपस्थिता इत्यर्थः। सर्वज्ञातृत्वं सर्वात्मनां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानामक्रमोपारूढं विवेकजं ज्ञानमित्यर्थः। इत्येषा विशोका नाम सिद्धिर्यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरति ॥ ४९ ॥ वार्तिकम् योग-वार्त्तिकम्

तदेवं ग्राह्मग्रहणसंयमयोः सिद्धिमुक्त्या ग्रहीतृसंयमस्य सिद्धिमाह ।

मात्रशब्देन संयमरूपा ख्यातिर्लब्धा । तथा सत्त्वपुरुषान्यतासंयमस्य धर्मधर्म्यभेदात् तद्वतश्चित्तस्य सर्वभावेषु प्रकृतितत्कार्यपुरुषेष्वधिष्ठातृत्वं स्वेच्छया विनियोक्तृत्वं स्वदेह इव भवति । तथा प्रकृतिपुरुषादिसर्वज्ञातृत्वं च भवतीत्यर्थः । अत्रापि संयमः साक्षात्कारपर्यन्तो बोध्यः, संयमनिष्पत्तेरेव सिद्धिहेतुत्वात् । ननु परार्थात् स्वार्थसंयमादिति सूत्रोक्तसंयमतोऽस्य को भेदो येन तत्र पुरुषज्ञानं सिद्धिरत्रान्या सिद्धिरिति सिद्धिभेदः स्यात् ? उच्यते—तत्र पौरुषेयप्रत्यये सुखाद्यनुभवरूपे परिच्छिन्न एव संयम उक्तो न त्वपरिच्छिन्ने पुरुषे । अत्र तु तेन संयमेन ज्ञाते परिपूर्णपुरुषे बुद्धिविवेकसंयम उच्यते इति विशेष इति । ननु सत्त्वेतिविशेषवचनमनुचितं, गुणपुरुषान्यतेत्याद्येव वक्तुमुचितमिति चेन्न, रजस्तमोभ्यां पुरुषे साक्षादविवेकाभावाद् बुद्धिसत्त्वाविवेकद्वारैव देहेन्द्रियादिष्वविवेकात्, स्वप्नबाधिर्याद्यवस्थासु चेतने देहेन्द्रियादिविवेकस्य योगारम्भकाल एव बालकैरप्यवधृतत्वाच्चेति । तदिदं सूत्रं व्याचष्टे—निर्धूतेति । परवैशारद्यं परमस्वच्छता अतिसूक्ष्मवस्तुप्रतिबिम्बोद्ग्रहणसामर्थ्यमिति यावत् । परमवशीकारसञ्ज्ञा च परमाणुपरममहत्त्वान्तोऽस्य वशीकार इत्युक्ता । रूपेण प्रतिष्ठस्य स्वप्रतिष्ठस्य । सर्वभावाधिष्ठातृत्वं विवृणोति—सर्वात्मानेति । सर्वात्मान इत्यस्य विवरणं व्यवसायव्यवसेयात्मका इति करणतद्विषयात्मका इत्यर्थः । अशेषदृश्येति । सङ्कल्पमात्रेण पुरुषैः संयुक्ता असंयुक्ताश्चाशेषभोग्यवस्त्वाकारेण परिणता भूत्वा उपतिष्ठन्ते योगिनम् । तत्र हेतुगर्भविशेषणं स्वामिनं क्षेत्रज्ञमिति । यतोऽसौ भोक्तृत्वात् प्रेरकोऽतस्तमयस्कान्तलोहवदुपतिष्ठन्त इत्यर्थः । यद् वा, यतोऽसौ स्वामी ईश्वरः क्षेत्रज्ञश्च परिणामक्षेत्राणि गुणादीनि प्रवर्तयति, परिणामनप्रकारैर्जानाति चेत्यर्थः । यद्यपि सर्वे पुरुषाः सर्वगुणानामविशेषेण स्वामिनः, तथापि पापादिप्रतिबन्धात् सर्वे गुणाः सर्वदा सर्वपुरुषान् न भोग्यत्वेनोपतिष्ठन्तेति भावः । तथा च श्रुतिः—स यदि पितृलोककामः सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति इत्यादिरिति ।

क्रियैश्वर्यरूपां सिद्धिं व्याख्याय ज्ञानैश्वर्यरूपां व्याचष्टे—सर्वज्ञातृत्वम् इति । सर्वात्मनां सर्वपुरुषाणां बद्धमुक्तेश्वराणां शान्तादिरूपधर्मविशिष्टगुणानां चैकदैव ज्ञानं सर्वज्ञातृत्वमित्यर्थः । तस्य सञ्ज्ञा विवेकजमिति । विवेकेन जायमानं यथाऽर्थसाक्षात्कारेति यावत् । अथवा प्रकृतिपुरुषविवेकाज्जायमानमित्यर्थः । सान्वयेयं सञ्ज्ञेति, विशेषसञ्ज्ञाया अन्वर्थतामाह—यां प्राप्येति । क्षीणक्लेशबन्धनत्वात् शोकशून्यतेति भावः ॥ ४९ ॥ तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ५० ॥ यदाऽस्यैवं भवा क्लेशकर्मक्षये सत्त्वस्यायं विवेकप्रत्ययो धर्मः सत्त्वं च हेयपक्षे न्यस्तं पुरुषश्चापरिणामी शुद्धोऽन्यः सत्त्वादिति। एवमस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पान्यप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति। तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं न भुङ्क्ते। तदेतेषां गुणानां मनसि कर्मक्लेशविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्याऽऽत्यन्तिको गुणवियोगः कैवल्यं, तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुष इति ॥ ५० ॥ वार्तिकम् योग-वार्त्तिकम्

सर्वसिद्धिमूर्द्धन्यं विवेकख्यातिरूपसंयमस्य परवैराग्यद्वारा मोक्षाख्यं सिद्ध्यन्तरमाह-

अपिशब्दः कैवल्यमित्यनेनान्वेति । तथा च विवेकख्यातिनिष्ठात एव विवेकख्यातौ तस्या यथोक्तसिद्धौ च वैराग्ये सत्यसम्प्रज्ञातयोगेन दुःखदोषस्य बीजानामखिलवासनाकर्मणां चित्तेन सह लये सति पुरुषस्य कैवल्यं पुनर्गुणासंयोगरूपमपि भवतीत्यर्थः । वैराग्यकारणम् आह—यदेति । क्लेशकर्मक्षयरूपकर्तव्यसमाधौ यदा योगिन एवं भवति, एवं विचारो भवति, एवं शब्दार्थमाह—सत्त्वस्येत्यादिना,सत्त्वादीत्यन्तेन । वैराग्यकारणमुक्त्वा कैवल्ये पुरुषार्थं प्रतिपादयति—एवमस्येत्यादिना,न भुङ्क्त इत्यन्तेन । अत्र न भुङ्क्त इति वचनाद् भोगाभाव एव पुरुषार्थ इति स्मर्तव्यम्, दुःखाभावस्तु परम्परया पुरुषार्थ इति भावः । इदानीं सूत्रार्थं व्याचष्टे—तदेतेषामिति । तत् तदा यदेत्युक्तेनान्वयः । तदा परवैराग्यावस्थायां संस्काररूपाणां दुःखबीजगुणानां सत्त्वादिगुणस्थानां कार्यावस्थमनसि क्लेशादिरूपेणाभिव्यक्तिस्वभावकानां चरितार्थानां समाप्तपुरुषार्थानां प्रतिप्रसवे मनसा सह लये सति, पुरुषस्यात्यन्तिको गुणवियोगः कैवल्याख्यो भवतीत्यर्थः । मोक्षेण पुरुषस्य परिणाममपाकरोति—तदेति ॥ ५० ॥ स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ५१ ॥ चत्वारः खल्वमी योगिनः प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति। तत्राभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः। ऋतम्भरप्रज्ञो द्वितीयः। भूतेन्द्रियजयी तृतीयः सर्वेषु भावितेषु भावनीयेषु कृतरक्षाबन्धः कर्तव्यसाधनादिमान्। चतुर्थो यस्त्वतिक्रान्तभावनीयस्तस्य चित्तप्रतिसर्ग एकोऽर्थः। सप्तविधाऽस्य प्रान्तभूमिप्रज्ञा। वार्तिकम् योग-वार्त्तिकम्

कैवल्याख्यसिद्ध्यर्थिनो योगिनो यथोक्तवैराग्यवदेव साधनान्तरमाह, अथ वा सम्प्रति कैवल्यप्रसङ्गतः कैवल्यसाधने प्रवृत्तस्य योगिनस्तत्प्रत्यूहसम्भवे तन्निराकरणप्रकारमाह ।

स्थानिनः स्वर्गादिलोकाधिकारिणो देवा इन्द्रादयः तेषां स्वर्लोके नयनाय योगिनो निमन्त्रणे सति, तत्र सङ्गस्मयाकरणमुपायः, सङ्गे स्मये च का क्षतिः ? तत्राह—सङ्गस्मायाभ्यां पुनरपि संसारप्रसङ्गात् । सङ्गः प्रीतिः । स्मयश्च देवानां प्रार्थनेनात्मनि कृतार्थताऽभिमान इत्यर्थः । तत्र यस्यां भूमिकायां स्थान्युपनिमन्त्रणं भवति, तां वक्तुं योगिनां भूमिकाचतुष्टयम् आह—चत्वार इति । प्रथमकल्पिकस्य स्वरूपम् आह—तत्राभ्यासीति । प्रवृत्तमात्रं न तु निष्पन्नज्योतिर्ज्ञानं यस्य स तथा सवितर्कादिरूपापरप्रत्यक्षवान्, न तु ऋतम्भरप्रज्ञ इत्यर्थः । मधुभूमिकस्य स्वरूपम् आह—ऋतम्भरेति । ऋतं सत्यमेव बिभर्तीति व्युत्पत्त्या परप्रत्यक्षमेव ऋतम्भरा प्रज्ञाऽत्र विवक्षिता । सा च परिशेषात् निर्वितर्करूपा भूमिकैव तदुत्तरभूमिकानां तृतीयादावेवान्तर्भावादिति । प्रज्ञाज्योतिषः स्वरूपमाह—भूतेति । ऋतम्भरप्रज्ञातोऽस्य विशेषमाह—सर्वेष्विति । सर्वेषु भावितेषूत्पादितेषु निर्वितर्कादियोगेषु कृतो रक्षारूपो बन्धो येन, स तथा । तथा भावनीयेषूत्पादनीयेषु विशोकादिसिद्ध्यादिष्वसम्प्रज्ञातपर्यन्तेषु विहितसाधनवानित्यर्थः । अतिक्रान्तभावनीयस्य स्वरूपमाह—चतुर्थ इति । चित्तप्रतिसर्गोऽसम्प्रज्ञातसमाधिना चित्तविलयमात्रं कर्तव्यमवशिष्यत इत्यर्थः । प्रज्ञाज्योतिषोऽस्य विशेषमाह—सप्तविधेति । प्रज्ञा जातेति शेषः । तत्र मधुमतीं भूमिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्त्वविशुद्धिमनुपश्यन्तः स्थानैरुपनिमन्त्रयन्ते भो इहाऽऽस्यतामिह रम्यतां कमनीयोऽयं भोगः कमनीयेयं कन्या रसायनमिदं जरामृत्युं बाधते वैहायसविदं यानममी कल्पद्रुमाः पुण्या मन्दाकिनी सिद्धा महर्षय उत्तमा अनुकूला अप्सरसो दिव्ये श्रोत्रचक्षुषी वज्रोपमः कायः स्वगुणैः सर्वमिदमुपार्जितमायुष्मता प्रतिपद्यतामिदमक्षयमजरममरस्थानं देवानां प्रियमिति। एवमभिधीयमानः सङ्गदोषान्भावयेद्घोरेषु संसाराङ्गारेषु पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथञ्चिदासादितः क्लेशतिमिरविनाशी योगप्रदीपस्तस्य चैते तृष्णायोनयो विषववायवः प्रतिपक्षाः। स खल्वहं लब्धालोकः कथमनया विषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसाराग्नेरात्मानमिन्धनी कुर्यामिति। स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्येवं निश्चितमतिः समाधिं भावयेत्। वार्तिकम् योग-वार्त्तिकम्

युक्तासु योगभूमिषु स्थान्युपनिमन्त्रणस्य भूमिमवधारयति—तत्रेति । प्रथमभूमिकायां तावन्महेन्द्रादीनामेतादृशानुग्रह एव न भवति । तृतीयचतुर्थभूमिकयोस्तु देवादय उपेक्षणीया एव भवन्ति । अतो मधुभूमिकायां द्वितीयायामेव निमन्त्रणं भवतीत्याशयः । साक्षात्कुर्वतः स्वस्येयं मधुमती भूमिका जातेत्यनुभवतः, अनेन भूमिनिष्पत्तिरुक्ता, निष्पन्नमधुभूमिकस्येत्यर्थः । उपनिमन्त्रणप्रकारमाह—भो इह इत्यादिना देवानां प्रियमित्यन्तेन । सङ्गस्मयाकरणं व्याचष्टे—एवमभिधीयमान इति । सङ्गदोषान् विषयप्रीतिजान् । दोषचिन्तनप्रकारमाह—घोरेष्वित्यादिना, कुर्यामित्यन्तेन । सङ्गं त्यक्त्वा यत् कर्तव्यं तदाह—स्वस्ति इत्यादिना । भावयेत् कुर्यात् । सङ्गमकृत्वा स्मयमपि न कुर्यादेवमहं देवानामपि प्रार्थनीय इति। स्मयादयं सुस्थितम्मन्यतया मृत्युना केशेषु गृहीतमिवाऽऽत्मानं न भावयिष्यति। तथा चास्य च्छिद्रान्तरप्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशानुत्तम्भयिष्यति ततः पुनरनिष्टप्रसङ्गः। एवमस्य सङ्गस्मयावकुर्वतो भावितोऽर्थो दृढी भविष्यति। भावनीयश्चार्थोऽभिमुखी भविष्यतीति ॥ ५१ ॥ वार्तिकम् योग-वार्त्तिकम्

स्वयं विवृण्वानस्तत्कारणदोषमाह—एवम् अहमिति । न भावयिष्यति न चिन्तयिष्यति । यत्नोपचर्यः यत्नप्रतीकार्यः । सङ्गस्मयाकरणस्य फलमाह—एवमस्येति ॥ ५१ ॥ क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२ ॥ यथाऽपकर्षपर्यन्तं द्रव्यं परमाणुरेवं परमापकर्षपर्यन्तः कालः क्षणो यावता वा समयेन चलितः परमाणुः पूर्वदेशं जह्यादुत्तरदेशमुपसम्पद्येत स कालः क्षणः। तत्प्रवाहाविच्छेदस्तु क्रमः। क्षणतत्क्रमयोर्नास्ति वस्तुसमाहार इति बुद्धिसमाहारो मुहूर्ताहोरात्रादयः। स खल्वयं कालो वस्तुशून्योऽपि बुद्धिनिर्माणः शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवावभासते। वार्तिकम् योग-वार्त्तिकम्

सर्वज्ञत्वेऽपि वैराग्यान्मोक्ष इत्युक्तं यदि च रागस्तिष्ठति तदा तद्रागनिवृत्तये पूर्ववत्सर्वज्ञतासाधकं संयमान्तरमाह ।

विवेकात्पूर्वसूत्रोक्तात् सत्त्वपुरुषान्यताख्याज्जायमानं विवेकजं ज्ञानम्, इतरव्यावृत्ततया सर्ववस्तूनामशेषविशेषैः साक्षात्करणमिति यावत् । तत्क्षणतत्क्रमयोः संयमादपि भवतीत्यर्थः । प्रतिक्षणं सर्वं वस्तु परिणमते । अतः क्षणेषु तत्क्रमेषु च संयमेन साक्षात्कारे सति सर्ववस्तूनां सर्वपरिणामतत्क्रमयोरपि ज्ञानात् सर्वस्य वस्तुनो विवेकेन ज्ञानं भवतीति भावः । यद्यप्यपिशब्दः सूत्रे नास्ति,तथापि ततश्च विवेकजं ज्ञानमियागामिभाष्यगम्यः । क्षणशब्दार्थं दृष्टान्तेन प्रतिपादयति—यथेति । यथा लोष्ट्रादेर्भिद्यमानस्य यस्मिन्नवयवे परिमाणापकर्षकाष्ठा सोऽपकर्षावधिः सत्त्वादिगुणविशेषः परमाणुः, एवङ्कालस्यापकर्षावधिभूतोऽवयवविशेषः पूर्वापरांशशून्यः क्षण इत्यर्थः । क्षणस्य लक्षणान्तरमाह—यावता वेति । जह्यादित्यनेनैकं लक्षणम् । सम्पद्येतेति च लक्षणान्तरम्, अन्यथा वैयर्थ्यात्, अवयविद्रव्यस्य देशत्यागो बहुक्षणेनापि कदाचिद्भवत्यवयवानां क्रमेण सञ्चारादित्युक्तम् । परमाणुरिति । अवयविनो देशस्य क्रिययाऽनेकक्षणेन जनितं देशत्यागादिकं व्यवर्तयितुं चलित इत्युक्तम् । अत्र दृष्टान्तादिना परसूत्रेण च साक्षादेवाचार्येण परमाणुवचनाद्, वैशेषिकोक्तपरमाणवोऽप्यस्माभिरभ्युपगम्यन्ते । ते चास्मद्दर्शने गुणशब्दवाच्या इत्येव विशेषः । न चानेकात्मकपृथिव्यादिभूतपरमाणुरेवात्र वाक्ये परमाणुशब्दार्थो युक्तः, अत्र भूतरूपविशेषस्याप्रकृततया द्रव्यशब्दस्य विशेषपरत्वे प्रमाणाभावात्, सावयवस्य पृथिव्यादिपरमाणोर्निरवयवकालपरमाणुदृष्टान्तानुपपत्तेश्च । न च प्रकृतेरणुपरिमाणासिद्धिः, परम्परया पृथिव्यादिभावापन्नानां गुणानां परिमाणाकाङ्क्षायां न्यायवैशेषिकसिद्धाणुपरिमाणस्यैव ग्रहणौचित्यात्, स्वशास्त्रानुक्ततया परोक्तमविरोधि चेति न्यायेन परोक्तपरिमाणस्येवादर्तव्यत्वात् । न चास्मद्दर्शने गुणाख्यप्रकृतेर्विभुत्वम् एवावगम्यतैति वाच्यम्, अन्तःकरणाकाशहेतुगुणानां विभुत्वेन तदुपपत्तेः,सर्वगुणानां विभुत्वे सत्याद्यपरिणामहेतुक्षोभसंयोगाद्यसम्भवादिति । तस्मात्सिद्धमणुपरिमाणा अपि गुणाः सन्तीति, तेषु पृथिवीत्वव्यञ्जकगन्धाद्यनङ्गीकारेणास्मत्सिद्धान्ते पृथिवीत्वादिकं नास्तीति विशेषेति । क्षणं व्याख्याय क्रमं व्याचष्टे—तत्प्रावाह इति । तेषां क्षणानां यः प्रवाह उत्तरोत्तरभावेनावस्थानं तस्याविरलता क्रम इत्यर्थः । इदानीं क्षणातिरिक्तः कालो नास्ति मुहूर्तादिरूपो महाकालपर्यन्त इति प्रसङ्गात्स्वशास्त्रसिद्धान्तमवधारयति—क्षणतत्क्रमयोरिति । क्षणेषु तत्क्रमेषु चाव्यवहितानन्तर्यरूपेषु वस्तुभूतः समाहरो मिलनं नास्ति॑ अतो मुहूर्ताहोरात्रादयो बुद्धिकल्पितसमाहार एवेत्यर्थः । नन्वेवं स्थूलकालाभावे कथं लोकानां तद्यथाऽर्थबुद्धिरिति ? तत्र विकल्पतया समाधत्ते—स खल्वयमिति । नन्वेवं क्षणोऽपि विकल्पमात्रो भवतु कालव्यवहाराविशेषात्क्षणव्यवहारस्य च परमाणुक्रियादिभ्य एव सम्भवाद् इति? क्षणस्तु वस्तुपतितः क्रमावलम्बी। क्रमश्च क्षणानन्तर्यात्मा तं कालविदः काल इत्याचक्षते योगिनः। नच द्वौ क्षणौ सह भवतः। क्रमश्च न द्वयोः सहभुवोरसम्भवात्। पूर्वस्मादुत्तरभाविनो यदानन्तर्यं क्षणस्य स क्रमः। तस्माद्वर्तमान एवैकः क्षणो न पूर्वोत्तरक्षणाः सन्तीति। तस्मान्नास्ति तत्समाहारः। ये तु भूतभाविनः क्षणास्ते परिणामान्विता व्याख्येयाः। तेनैकेन क्षणेन कृत्स्नो लोकः परिणाममनुभवति। तत्क्षणोपारूढाः खल्वमी सर्वे धर्माः। तयोः क्षणतत्क्रमयोः संयमात्तयोः साक्षात्करणम्। ततश्च विवेकजं ज्ञानं प्रादुर्भवति ॥ ५२ ॥ वार्तिकम् योग-वार्त्तिकम्

तत्राह—क्षणस्त्विति । क्षणाख्यस्तु कालो वस्तुकोटौ प्रविष्टः, यतः क्रमावलक्षी क्रमेण लक्ष्यत आश्रीयते क्षणरूपप्रतियोग्यनुयोगिघटितत्वात्क्रमस्येत्यर्थः । तत्र हेतुमाह—क्रमश्च इति । क्रमो ह्यानन्तर्यरूप इत्यर्थः । ननु यः क्षणो वस्तुभूतः स किंस्वरूपः ?इत्याकाङ्क्षायाम् आह—तं कालेति । तस्य च कालस्य क्षणद्वयावस्थायिद्रव्यान्तरेभ्यो विभागैति भावः । कालनित्यत्वश्रुतिस्मृतयश्च प्रवाहरूपकालपराः । स च क्षणाख्यः कालः सत्त्वादीनां द्रव्यरूपः परिणामविशेष इति । बौद्धमताच्चास्माकमयं विशेषो यदस्माभिर्धर्मिग्राहकप्रमाणबलात् क्षण एवास्थिर इष्यते, तैस्तु क्षणमात्रस्थाय्येव पदार्थः सर्व इष्यत इति । न क्षणातिरिक्तः क्षणिकः पदार्थः कश्चिदिष्यते, तैस्तु क्षणमात्रस्थाय्येव पदार्थः सर्व इष्यत इति । तच्च स्थाने स्थाने निराकृतं कार्यकारणव्यवस्थाऽनुपपत्त्यादिभिरिति । तदस्मिन् शास्त्रे क्षण एव काल इति सिद्धान्तः । कालोऽत्र नाभ्युपगम्यत इति कस्यचित् प्रलापस्तु भाष्यार्थाविवेकमूल इति ।

यत्तु पूर्वदेशसंयोगाद्यवच्छिन्नः परमाणुक्रियादिरेव क्षणः, कालस्तु तदतिरिक्तो नित्येति वैशेषिका आहुः, तन्न, विशिष्टस्यातिरेकानतिरेकयोरुभयोरुभयतः पाशादतिरेके स्वसिद्धान्तविरोधाद् अस्मन्मतप्रवेशाच्च, अस्माभिस्तादृशस्यैव गुणपरिणामस्य क्षणत्ववचनात्, अनतिरेके विशेषणविशेष्यतत्सम्बन्धानां त्रयाणामपि स्थिरत्वेन क्षणव्यवहारजननाक्षमत्वात् । नित्यकालेऽपि च प्रमाणं नास्ति । इदानीमित्याद्यखिलव्यवहाराणां खण्डकालमात्रविषयकत्वात् कार्यकारणभावादीनामपि क्षणघटितत्वादिति । एतेन नित्या दिगप्यप्रामाणिकी व्याख्याता, सामान्यतो दिग्व्यवहाराभावात्, पूर्वादिव्यवहारस्य च पराभ्युपगतदिगुपाधिभिरेव सम्भवात् सामान्यतः कालदिग्व्यवहारसत्त्वेऽप्याकाशादेव तदुपपत्तेश्च । अन्यथा पृथिवीजलतेजआदिभिरुपाधिभिर्देशाद्यतिरिक्तपदार्थः स्यादिति । कालाच्च दिश्ययं विशेषः—यत् कालः क्षणरूप इष्यते, दिक् तु सर्वथैव नेष्यत इति । शास्त्रे दिक्सामान्यव्यवहारस्तु पूर्वपश्चिमनियामकोपाध्यवच्छिन्नाकाशेन बोध्यः स्थित्याधारत्वेन देशव्यवहारवदिति । इत एव श्रुत्यादिषु कुत्रचिदाकाशाच्छ्रोत्रं, क्वचिच्च दिशः श्रोत्रमिति वचनमन्योऽन्यमविरुद्धं दिगाकाशयोरेकत्वादिति दिक् । क्षणतत्क्रमयोर्नास्ति वस्तुसमाहार इति यत्प्रागुक्तं, तत् प्रपञ्चयति—न च इत्यादिना, नास्ति तत्समाहार इत्यन्तेन । सहभावाभ्युपगमेऽपि क्रमे न सम्भवतीत्याह—क्रमश्च इति । असम्भवे हेतुमाह—पूर्वस्मादिति । तस्मात् सर्वदैव वर्तमानलक्षणः, स त्वेक एव क्षणस्तिष्ठति, न पूर्वोत्तरे क्षणा इत्यतो नास्ति तयोः क्षणतत्क्रमयोर्वास्तवं मिलनं मुहूर्तादिरूपमित्यर्थः । वक्ष्यमाणोपपादकमादौ वक्ति—ये त्वित्यादिना, सर्वेधर्मा इत्यन्तेन, ये पुनर्भूतभाविनः क्षणास्ते सर्वेऽपि सर्ववस्तुपरिणामाधारा एकदैव वार्धकाद्यदर्शनतः क्षणपर्यायकालत्वेनैव परिणामहेतुत्वादित्युत्तरपादे क्षणप्रतियोगी इत्याद्युत्तरसूत्रे व्याख्येयाः । तेन हेतुनैकेन क्षणेन कृत्स्नो लोकः परिणाममनुभवति प्राप्नोति यतस्तत्क्षणोपारूढाः एकैकक्षणोपारूढा धर्माः इत्यर्थः । ततः किम् ? इत्यत आह—तयोः क्षण इति । ततश्च इति । ततश्च क्षणतत्क्रमसाक्षात्कारादखिलपरिणामतत्क्रमसाक्षात्कारद्वारा सर्ववस्तूनामन्योन्यव्यावृत्ततया स्वरूपावधारणं भवतीति सूत्रार्थ उक्तः ॥ ५२ ॥ तस्य विषयविशेष उपक्षिप्यते – वार्तिकम् योग-वार्त्तिकम्

उत्तरसूत्रमवतारयति । तस्येति । तस्य विवेकजज्ञानस्य सर्वविषयकस्य शिष्यव्युत्पादनाय एकमुदाहरणमुपन्यस्त इत्यर्थः- जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३ ॥ तुल्ययोर्देशलक्षणसारूप्ये जातिभेदोऽन्यताया हेतुः, गौरियं वडवेयमिति। तुल्यदेशजातीयत्वे लक्षणमन्यत्वकरं कालाक्षी गौः स्वस्तिमती गौरिति। द्वयोरामलकयोर्जातिलक्षणसारूप्याद्देशभेदोऽन्यत्वकर इदं पूर्वमिदमुत्तरमिति। यदा तु पूर्वमामलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेश उपावर्त्यते तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदितिप्रविभागानुपपत्तिः। असन्दिग्धेन च तत्त्वज्ञानेन भवितव्यमित्यत इदमुक्तं ततः प्रतिपत्तिर्विवेकजज्ञानादिति। वार्तिकम् योग-वार्त्तिकम्

जातिलक्षणदेशैरन्यताऽनवच्छेदाद् भेदावधारणस्यासम्भवात् । ततो विवेकज्ञानाद् एव प्रतिपत्तिर्विवेकेन साक्षात्कारः पौरुषेयो भवतीत्यर्थः । तत्रादौ जात्याऽन्यताऽवच्छेदस्यासङ्कीर्णमुदाहरणमाह—तुल्ययोर्देश इति । कालभेदेन समानदेशस्थयोर्हि समानरूपयोर्गोगवययोर्भेदो जातिभेदादेवानुमातुं शक्यत इति । अत्र वडवाशब्देनातिसारूप्याद्गवयो लक्षितः सारूप्याधिका बडवैवेति । लक्षणेनान्यत्वावच्छेदनस्यासङ्कीर्णोदाहरणमाह—तुल्यदेश इति । लक्षणमभिव्यक्तो धर्मभेदः देशेनान्यत्वावच्छेदनस्यासङ्कीर्णोदाहरणमाह—द्वयोरिति । देशभेदप्रकारमाह—पूर्वमिदमुत्तरमितीति । इदानीं जात्यादिभिर्यत्रान्यताऽनुमानं न सम्भवति तादृशविवेकजज्ञानस्यासङ्कीर्णमुदाहरणमाह—यदा त्विति । यदा तु पूर्वदेशस्थितमामलकं विषयान्तरव्यग्रस्य ज्ञातुर्विवेकं करिष्यतो योगिन उत्तरस्मिन् देश उपावर्तते सम्बध्यते देवादिना, तदा द्वयोरामलकयोरेकदेशत्वे सति पूर्वदेशोपलक्षितमिदमुत्तरदेशोपलक्षितं चेदमिति विवेकानुपपत्तिः, आमलकयोर्जात्यादित्रिकसाम्यात्, असन्दिग्धतत्त्वज्ञानं चोद्देश्यमित्यत उक्तं सूत्रकारेण ततो विवेकजज्ञानात्प्रातिपत्तिरितीत्यर्थः । कथं, पूर्वामलकसहक्षणो देश उत्तरामलकसहक्षणाद्देशाद्भिन्नः। ते चाऽऽमलके स्वदेशक्षणानुभवभिन्ने। अन्यदेशक्षणानुभवस्तु तयोरन्यत्वे हेतुरिति। एतेन दृष्टान्तेन परमाणोस्तुल्यजातिलक्षणदेशस्य पूर्वपरमाणुदेशसहक्षणसाक्षात्करणादुत्तरस्य परमाणोस्तद्देशा-नुपपत्तावुत्तरस्य तद्देशानुभवो भिन्नः सहक्षणभेदात्तयोरीश्वरस्य योगिनोऽन्यत्वप्रत्ययो भवतीति। वार्तिकम् योग-वार्त्तिकम्

ननु क्षणतत्क्रमयोः संयमात् कथमामलकयोर्विवेकज्ञानमिति पृच्छति—कथम् ? इति । उत्तरं—पूर्वेति । आमलकस्य क्षणेन सह वर्तत इति आमलकसहक्षणः, चैत्रसहोदर इतिवत् । एवंविधः पूर्वो देश आमलकान्तरेण सहक्षणादुत्तरदेशाद्भिन्नोऽतः स्वदेशक्षणप्राप्त्या ते आमलके भिन्ने, एकस्य एकदा विरुद्धदेशसम्बन्धासम्भवाद् इति । एवं तयोर्भेदं प्रसाध्यैकदेशसम्बन्धदशायां विवेकग्रहणोपायमाह—अन्येति । अन्ययोर्भिन्नयोः पूर्वोत्तरदेशसम्बन्धक्षणयोरनुभवः साक्षात्कारस्त्वामलकयोरन्यत्वे हेतुर्यथोक्तविवेकग्रहे कारणमित्यर्थः । अत्र चोदाहरणे क्षणसंयमादेव विवेकजं ज्ञानं दर्शितम् । एतदनुसारेण क्षणक्रमसंयमादपि विवेकजज्ञानस्योदाहरणमुन्नेयमिति भावः । तद्यथा द्वित्रिक्षणमात्रेण ज्येष्ठकनिष्ठयोर्ज्येष्ठकनिष्ठताविवेकज्ञानं क्षणक्रमसाक्षात्कारं विना न सम्भवति अतः क्षणक्रमसंयमसूत्रकारणमिति । एतेनैव स्थूलदृष्टान्तेन परमसूक्ष्मेष्वपि क्षणतत्क्रमानुभवाद् विवेकजज्ञानमनुमेयमित्याह—एतेनेति । तुल्यजातिलक्षणदेशस्य परमाणुसामान्यस्यान्योऽन्यम् अन्यत्वप्रत्ययो विवेकप्रत्ययः पूर्वयोः परमाणुदेशसाहित्यक्षणयोः साक्षात्करणाद् ईश्वरस्य प्रकृत्यादिप्रेरणमभीप्सोर्योगिनो भवतीत्यन्वयः । तत्र हेतुरुक्तः—उत्तरस्य परमाणोरित्यादिना । यत उत्तरस्य परमाणोः पूर्वदेशानुपपत्त्योत्तरस्य स्वदेशप्राप्तिः पूर्वस्य सर्वदेशप्राप्तितो भिन्ना, तयोः सहक्षणभेदात्साहित्यक्षणयोर्भिन्नत्वादित्यर्थः । अपरे तु वर्णयन्ति – येऽन्त्या विशेषास्तेऽन्यताप्रत्ययं कुर्वन्तीति। तत्रापि देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश्चान्यत्वे हेतुः। क्षणभेदस्तु योगिबुद्धिगम्य एवेति। अत उक्तं मूर्तिव्यवधिजातिभेदाभावान्नास्ति मूलपृथक्त्वमिति वार्षगण्यः ॥ ५३ ॥ वार्तिकम् योग-वार्त्तिकम्

तदेवं जात्यादिभेदात् देशसम्बन्धक्षणभेदाच्च तुल्ययोरन्यताप्रत्ययं प्रतिपाद्य परमतेऽप्येतत्समानमिति प्रतिपादयितुं तन्मतमाह—अपरे त्वति । अपरे वैशेषिका वदन्ति नित्यद्रव्यवृत्तयोऽन्त्या विशेषा इति । अन्त्याः प्रलयकालस्थाः । मुक्तेषु ह्यात्मसु सर्वेषु तुल्यजातिलक्षणदेशेष्वन्योऽन्यं विभाजकान्तरासम्भवेन विशेषनामा भेदकः कश्चन पदार्थोऽवश्यं वाच्यः । तथा च परमाण्वादिष्वपि स एवान्यताप्रत्ययं करोतीति तेषामाशयः । तत्रापीति, तन्मतेऽपि देशादीनां योगबुद्धिगम्यक्षणान्तानां भेदोऽप्यण्वादीनामन्यत्वे हेतुरस्त्येवेति समानमित्यर्थः । मूर्तिः संस्थानं । व्यवधिर्व्यवहितता । एतद् द्वयमधिकमत्रोक्तम्—अत इति । यतो मूर्तिव्यवधिजात्यादिर्नित्यद्रव्येष्वप्यस्ति भेदकोऽतः परैरुक्तं मूलपृथक्त्वं मूलेषु नित्यद्रव्येषु विशेषपदार्थो नास्ति, मूर्तिव्यवधिजातिभ्यो भेदेनातिरेकेण पृथक्त्वस्याभावात् तैरेव पृथक्त्वव्यवहारोपपत्तेरिति वार्षगण्य आचार्यो मन्यत इत्यर्थः । ननु वार्षगण्यमते मुक्तपुरुषेषु मूर्त्याद्यभावात्कथं विभागव्यवहारः स्याद् ? इति चेन्न, बद्धावस्थायां ये मूर्त्यादयः स्थितास्त एव मुक्त्यवस्थायामपि योगिभिर्गृह्यमाणा अन्योऽन्यभेदव्यवहारं जनयन्तीत्यभ्युपगमसम्भवात् । अन्यदेशादिरूपाणां तु परमाण्वादीनां प्रलये भेदव्यवहारः स्वगतसुक्ष्मकार्यभेदाद् यथोक्तक्षणभेदादिभ्यश्चेति । अत्र वार्षगण्यमतस्याप्रतिषेधादिदमेव स्वमतमिति मन्तव्यम् ॥ ५३ ॥ तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥ ५४ ॥ तारकमितिस्वप्रतिभोत्थमनौपदेशिकमित्यर्थः। सर्वविषयं नास्य किञ्चिदविषयीभूतमित्यर्थः। सर्वथाविषयमतीतानागतप्रत्युत्पन्नं सर्वं पर्यायैः सर्वथा जानातीत्यर्थः। अक्रममित्येकक्षणोपारूढं सर्वं सर्वथा गृह्णातीत्यर्थः। एतद्विवेकजं ज्ञानं परिपूर्णम्। अस्यैवांशो योगप्रदीपो मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिरिति ॥ ५४ ॥ वार्तिकम् योग-वार्त्तिकम्

विवेकजज्ञानस्यैकं विषयं प्रदर्श्येदानीं सहेतुकां विवेकज्ञानस्य मोक्षोपयोगितामाह -

इति शब्दो हेत्वर्थः । यतो विवेकजं ज्ञानं सर्वविषयादिरूपं अतः सर्वत्र दोषसाक्षात्कारेणोक्तवैराग्यद्वारा संसारतारकं भवतीत्यर्थः, एतेन विवेकजज्ञानस्येदं लक्षणं बोध्यम्, अत एवानेन लक्षणेन सत्त्वपुरुषान्यताख्यातिजन्यसर्वज्ञताया अपि सङ्ग्रहात्तत्र, सूत्रे सापि विवेकजज्ञानशब्देन भाष्यकारैरुक्तेति तत्र भाष्यकारः प्रत्येकं विशेषणानि व्याचक्षाणः तारकशब्दस्यार्थापत्तिलब्धमर्थमाह - तारकमिति । लौकिकसामग्रीं विनैव यथार्थज्ञानसामर्थ्यं सत्त्वपुरुषान्यतासंयमक्षणतत्क्रमसंयमाभ्यामुद्बोधितं प्रतिभा तदुत्थं, स्वप्रतिभोत्थं तदेव हि संसारतारकं घटते, अतोऽर्थापत्त्या स्वप्रतिभोत्थमेव तारकशब्दार्थः, प्रतिभोत्थत्वे हेतुमाह - अनौपदेशिकमिति, न हि सर्वथा सर्वविषयकं ज्ञानं शाब्दं भवितुं युज्यते, शब्दस्य सामान्यमात्रविषयकत्वात्, परिच्छिन्नविषयकत्वाच्चेति, सर्वविषयमित्यत्र सर्वशब्दोऽसङ्कुचित इत्याह - सर्वविषयमिति, सर्वविषयकत्ववचनादित्यर्थः, अतीतेति, अतीतादिरूपं सर्वमित्यनुवादोऽन्वयार्थः पर्यायैः स्वगतविशेषैः सर्वथा निश्शेषैः विषयीकरोतीत्यर्थः, नास्ति क्रमः पौर्वापर्यं यत्र ज्ञान इत्यक्रमम्, अक्रमान्तविशेषणैर्लब्धं वाक्यतात्पर्यार्थमाह - एकक्षणोपारूढमित्यादिना । आरोहोऽत्रार्थात् बुद्धिवृत्ताविति, विवेकजज्ञानस्याखिलसिद्धान्ते निर्वचनस्य बीजमाह - एतदिति । परिपूर्णशब्दार्थं स्वयं व्याचष्टे - अस्यैवांश इति । अस्यैव सूर्यतुल्यस्य विवेकजज्ञानस्यांशो योगप्रदीपः, क्व इत्याकाङ्क्षायामाह - मधुमतीति । स्थान्युपनिमन्त्रणसूत्रे ऋतम्भरप्रज्ञाख्यद्वितीयभूमौ योगी मधुभूमिक इत्युक्तं सैव च भूमिकात्र मधुमतीति निर्दिष्टा । तामादाय सप्तधा प्रान्तभूमिप्रज्ञेति पूर्वोक्तं सम्प्रज्ञातसमाधिपर्यन्तभूमिकाजातं योगप्रदीप इत्यर्थः, ते हि भूमिव्यूहा विवेकजज्ञानविषयैकदेशप्रकाशका अतोंऽशा इति भावः । ननु सवितर्कादिरूपास्तथा परिणामत्रयसंयमादिरूपाश्च याः सम्प्रज्ञातयोगभूमयः पूर्वोक्तास्ताः कथं योगप्रदीपतया विवेकजज्ञानांशतया च निर्दिष्टा इति चेन्न - योगवह्निकणत्वेन तेषामत्यल्पत्वस्य विवक्षितत्त्वात्, प्रकृष्टभूमितया योगप्रदीपानामासामंशत्वेनैव च कणातुल्यभूमीनामंशांशत्वमपि प्राप्तमिति भावः, विष्णुपुराणे च सर्वेषामेवेतरज्ञानानां प्रदीपतुल्यत्वविवक्षया ब्रह्मविवेकजज्ञानस्य सूर्यतुल्यत्वं प्रोक्तम् -

अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ।

यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे! विवेकजम् ॥ इति , इन्द्रियोद्भवमित्यन्येषामपि ज्ञानानामुपलक्षणम् ॥ ५४ ॥ प्राप्तविवेकजज्ञानस्याप्राप्तविवेकजज्ञानस्य वा – वार्तिकम् योग-वार्त्तिकम्

तदेवं संयमानां सिद्धिरूपा विभूतयोऽतीतानागतज्ञानाद्या विवेकज्ञानान्ता ज्ञानक्रियैश्चर्यरूपा विस्तरेणोक्ता:, तत्रायं संशयः - किमेतासां विभूतीनामनन्तरमेव मोक्षो भवति, आहोस्विदेतद्व्यतिरेकेणापि, तत्र निर्णायकतयोत्तरसूत्रमवतारयति - प्राप्तविवेकेति । सूत्रेण सहान्वयः विवेकज्ञानाख्यसिद्ध्यपेक्षयैव सुररामितरसिद्ध्यपेक्षा कैवल्य इति भाष्याशयः । सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५ ॥ यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषस्यान्यताप्रतीतिमात्राधिकारं दग्धक्लेशबीजं भवति तदा पुरुषस्य शुद्धिसारूप्यमिवाऽऽपन्नं भवति, तदा पुरुषस्योपचरितभोगाभावः शुद्धिः। एतस्यामवस्थायां कैवल्यं भवतीश्वरस्यानीश्वरस्य वा विवेकजज्ञानभागिन इतरस्य वा। नहि दग्धक्लेशबीजस्य ज्ञाने पुनरपेक्षा काचिदस्ति। सत्त्वशुद्धिद्वारेणैतत्समाधिजमैश्वर्यं ज्ञानं चोपक्रान्तम्। परमार्थतस्तु ज्ञानाददर्शनं निवर्तते तस्मिन्निवृत्ते न सन्त्युत्तरे क्लेशाः। क्लेशाभावात्कर्मविपाकाभावः। चरिताधिकाराश्चैत्तस्यामवस्थायां गुणा न पुरुषस्य पुनर्दृश्यत्वेनोपतिष्ठन्ते। तत्पुरुषस्य कैवल्यं, तदा पुरुषः स्वरूपमात्रज्योतिरमलः केवली भवति ॥ ५५ ॥ वार्तिकम् योग-वार्त्तिकम्

बुद्धिसत्त्वस्य पुरुषेण सह समाना यदा शुद्धिर्वक्ष्यमाणारूपा विवेकसाक्षात्काराद्भवति तदैव मोक्षो न तत्र सिद्ध्यपेक्षेत्यर्थः, क्वचिदिति शब्दः सूत्रान्ते तिष्ठति, स च हानोपायव्यूहसमाप्तिसूचनार्थः, शुद्धिसाम्यं हेतुतः स्वरूपतश्च व्याचष्टे - यदेति । निर्धूतो रजस्तमोद्रव्यरूपो मलो यस्य तत्तथा, ततश्च दग्धान्यनागतक्लेशरूपाणि विपाकाख्यसंसारबीजानि यत्र तत्तथा, एवं यदा बुद्धिसत्त्वं भवति तदा शुद्ध्या पुरुषस्य स्वरूपमिव तद् भवति, अनेन शुद्धिसाम्ये हेतुरुक्तः, बुद्धेर्दुःखाद्यात्मकत्वान्नात्यन्तं शुद्धिसाम्यं कदापि भवतीत्येतत् प्रतिपादनायेवशब्दप्रयोगः, यस्मिन्नंशे साम्यं तदाह - पुरुषस्येति । बुद्धिधर्मत्वात् पुरुष उपचरितमात्रस्य प्रत्ययविशेषाख्यभोगस्याभावः पुरुषस्य शुद्धिः बुद्धेरपि जीवन्मुक्तदशायां विवेकित्वेन तादृशो भोगो नास्तीति शुद्धिसाम्यमित्यर्थः, अत्र साक्षितामात्ररूपभोगव्यावर्तनायोपचरितेत्युक्तं पुरुषस्य प्रत्ययाविशेषरूप एव हि भोग उपचरितोऽविवेकस्योपाधिधर्मत्त्वात्, चिदवसानतारूपस्तु साङ्ख्यसूत्रोक्तो भोगः स्वत इति, तथा च साक्षी निरभिमान एवं चित्तस्य निरभिमानत्वमेव मोक्षहेतुर्नैश्वर्यादिकमिति पर्यवसितोऽर्थः, एतस्यामिति, एतस्यां शुद्धिसाम्यावस्थायां जातायां प्रारब्धप्रतिबन्धनिवृत्त्यनन्तरं कैवल्यं भवति ईश्वरानीश्वरसाधारण्येनेत्यर्थः, स्वतन्त्रज्ञानक्रियाशक्तिमानत्रेश्वरः, ज्ञाने पुनरिति, ज्ञानान्तरे काप्यपेक्षा नास्तीत्यर्थः , ननु विवेकसाक्षात्कारहेतौ तत्संयमे सत्यवश्यमेव सार्वज्ञ्यादिकं भविष्यति तत्कथमनीश्वरस्य वेत्युच्यत इति चेत् न - संयमे सत्यपि कामानां विना सिद्ध्यनुत्पत्तेः, यागे सत्यपि स्वर्गानुत्पत्तिवत्, किञ्च यमनियमाद्यङ्गवैगुण्यादपि सिद्ध्यनियमः तादृशाङ्गवैगुण्येऽप्यभिमाननिवृत्त्याख्यदृष्टद्वारा कदाचिन्मोक्षः सम्भवत्येवेति, ननु चेत् कैवल्ये सिद्ध्यपेक्षा नास्ति तर्हि किमर्थं मोक्षाख्यहानस्योपायमध्ये सिद्धीनां कथनमित्याशङ्कायामाह - सत्त्वशुद्धिद्वारेणेति । सत्त्वस्य बुद्धिसत्त्वस्य शुद्धिर्वैराग्यादि तद्द्वारेण मोक्षोपयोगितयेति शेषः, ऐश्वर्यं क्रियाशक्तिरणिमादि, ज्ञानं विवेकज्ञानान्तं प्रोक्तं सूत्रजातेन, परमार्थतस्तु सत्तपुरुषान्यताज्ञानादेवाज्ञानादिनिवृत्त्यादिदृष्टद्वारा कैवल्यमित्यर्थः, अत्र चरिताधिकारा इत्यादिना कैवल्यस्वरूपमुक्तम्, कैवल्ये पुरुषार्थमाह - तदेति । तदा सुखदुःखमोहात्मकसत्त्वादिगुणदर्शने चित्तद्ज्योतिर्वियोगात् स्वरूपमात्रज्योतिरतो दुःखादिप्रतिबिम्बरूपमलरहितः सन् केवली भवति केवलेषु मुक्तेषु नित्यमुक्त ईश्वरे वाऽविभागं गच्छतीत्यर्थः, तथा च दुःखभोगनिवृत्तिरेव पुरुषार्थ इति, व्याख्यातानि हानोपायस्य विवेकख्यातेः साधनानि योगस्य साधनानि यमादीनि ससिद्धीनि ॥ ५५ ॥

इति श्रीपातञ्जलभाष्यवार्त्तिके श्रीविज्ञानभिक्षुनिर्मिते विभूतिपादस्तृतीयः ॥ कैवल्यपादः जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १ ॥ देहान्तरिता जन्मना सिद्धिः। ओषीधिभिरसुरभवनेषु रसायनेनेत्येवमादिः। मन्त्रैराकाशगमनाणिमादिलाभः। तपसा सङ्कल्पसिद्धिः, कामरूपी यत्र तत्र कामग इत्येवमादि। समाधिजाः सिद्धयो व्याख्याताः ॥ १ ॥ वार्तिकम् योग-वार्त्तिकम्

हानोपायान्तं व्यूहत्रयम् अतिविस्तरतः पादद्वयेन व्याख्याय हानं तु स्वरूपत एव तत्र सङ्क्षेपादुक्तं, न तु तस्याशेषविशेषरूपो व्यूह इत्यतो हानविस्तरार्थं चतुर्थपादारम्भः । तत्रादौ कैवल्ययोग्यं चित्तं निर्धारयितुं पञ्चप्रकारां सिद्धिम् आह । अनेनैव प्रसङ्गेन जन्मादिसिद्ध्यपेक्षया यथोक्ततमासिद्धेरुत्कर्षोऽपि सेत्स्यति ।

क्रमेण सिद्धीर्व्याचष्टे — देहान्तरिता इति । ऐहिकेन कर्मणा देवादिदेहान्तरे जन्ममात्रेण भवन्ती अणिमादिसिद्धिर्जन्मजेत्यर्थः । औषधिजसिद्धिम् आह——औषधिभिरिति । असुरभवनेषु रसायनं यदोषधिद्रव्यं तदुद्भवेत्येवमादिसिद्धिरोषधिभिरित्यर्थः । असुरभवनेष्विति प्रायिकाभिप्रायेणोक्तं, अत्राप्योषधिभिः सुवर्णादिसिद्धीनां भावात् । शेषं सुगमम् । पञ्चविधसिद्धिसाधारण्याय पूर्वपादो विचारितः । सिद्धिप्रकारोऽस्मिन्नेव प्रसङ्गे कियद्भिः सूत्रैः प्रतिपादनीयः । तत्रादौ निर्माणकायनिर्माणेन्द्रिययोरुत्पत्तिप्रकारप्रतिपादकं सूत्रं पूरयित्वोत्थापयति ॥ १ ॥ तत्र कायेन्द्रियाणामन्यजातीयपरिणतानाम् – वार्तिकम् योग-वार्त्तिकम्

तत्र काय इत्यादि । निर्माणचित्तोत्पत्तिप्रकारस्य सूत्रान्तरेण वक्ष्यमाणत्वादत्र कायेन्द्रिययोरेव ग्रहणम् । जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ २ ॥ पूर्वपरिणामापाय उत्तरपरिणामोपजनस्तेषामपूर्वावयवानुप्रवेशाद्भवति। कायेन्द्रियप्रकृतयश्च स्वं स्वं विकारमनुगृह्णन्त्यापूरेण धर्मादिनिमित्तमपेक्षमाणा इति ॥ २ ॥ वार्तिकम् योग-वार्त्तिकम्

मनुष्यादिजातिरूपः परिणामः । स प्रकृत्यापूराद्भवति, न तु सङ्कल्पमात्रादित्यर्थः । मनुष्यादिजातिरूपेणपूर्वं परिणम्य स्थितानां कायेन्द्रियाणां कामरूपतादशायां यो देवतिर्यगादिजातिपरिणामः स प्रकृत्यापूराद् भवति, न तु सङ्कल्पमात्राद् इत्यअर्थः इतिव्याख्यान्तरम् । अणिमादिरूपपरिणामविशेषश्च प्रकृत्य्अपगमाद् इत्यपि बोध्यम् । अत्र च जात्यन्तरशब्देन योगिनां गजतुरङ्गादिवैभवं तथा कायव्यूहादिकम् अपि ग्राह्यम् । आपूरशब्देनापि प्रकृतीनां संहननम् अपि ग्राह्यम् । कायव्यूहे च श्रुतिः—स एकधा भवति, त्रिधा भवति, पञ्चधा शतं दश चैकश् च सहस्राणि च विंशतिः इत्यादिरिति । प्रकृत्यापूरे हेतुं वदन् सूत्रं व्याचष्टे पूर्वपरिणाम इति । यतो लोके वल्मीकादीनां क्षुद्रपरिणामापाये तदुउत्तरमहापरिणामोत्पत्तिर्भूतप्रकृतीनानुप्रवेशाद् भवतीति दृष्टम् । अतो योगीश्वरादीनाम् अपि देहेन्द्रिययोः परिणामान्तरकाले धर्मादिसापेक्षाः कायेन्द्रियप्रकृतयः स्वंस्वं विकारम् अनुगृह्णन्ति स्वस्वजातीयां कायादिप्रकृतिम् उपकुर्वन्ति आपूरेणानुप्रवेशेनेत्यर्थः । तत्र कायप्रकृतिः पञ्चभूतानि, इन्द्रियप्रकृतिश्चास्मितेति । दृष्टश्च लोके तृष्णराशिनिक्षिप्तस्य वह्निकणस्य क्षणादेव प्रकृत्यापूरेण गगनव्यापी परिणामविशेषैति । एतेन वासनावतारादीनां क्षणाद् एव त्रिभुवनव्यापित्वविश्वरूपत्वादिकं मार्कण्डेयादिभ्यो विष्णुना मायाप्रदर्शनं च प्रकृत्यापूरेण तडिन्माला*याम् इव क्षणभङ्गुरेणेति व्याख्यातम् । अगस्त्यादीनां समुद्रपानादिकं च तोयादिप्रकृत्यपसारणेनेति व्याख्येयम् । एवम् एव विश्वं परमेश्वरस्य मायेति गीयते ऐन्द्रजालिकवत् । क्षणेनैव प्रकृत्यापूरापसारणादिभिर्जगदन्यथयितुं विलापयितुं च परमेश्वरः सङ्कल्पमात्रेण शक्नोति । सूक्ष्मदृष्ट्या तु प्रतिक्षणं तथा करोत्येवेति पश्यन्तु योगिनो भगवन्नृत्यमिति दिक् । ननु योगजधर्मैर्बलात् प्रकृतय आकृष्यन्त इति प्रकृतिस्वातन्त्र्यसिद्धान्तहानिः । तथा स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्तीत्त्यादिश्रुतेरपि प्रकृतिस्वातन्त्र्यहानिरित्याशङ्कायामाह ॥ २ ॥ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ ३ ॥ न हि धर्मादि निमित्तं तत्प्रयोजकं प्रकृतीनां भवति। न कार्येण कारणं प्रवर्त्यत इति। कथं तर्हि, वरणभेदस्तु ततः क्षेत्रिकवत्। यथा क्षेत्रिकः केदारादपां पूर्णात्केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनाऽपकर्षत्यावरणं त्वासां भिनत्ति तस्मिन्भिन्ने स्वयमेवाऽऽपः केदारान्तरमाप्लावयन्ति तथा धर्मः प्रकृतीनामावरणमधर्मं भिनत्ति तस्मिन्भिन्ने स्वयमेव प्रकृतयः स्वं स्वं विकारमाप्लावयन्ति। यथा वा स एव क्षेत्रिकस्तस्मिन्नेव केदारे न प्रभवत्यौदकान्भौमान्वा रसान्धान्यमूलान्यनुप्रवेशयितुं, किं तर्हि मुद्गगवेधुकश्यामाकादींस्ततोऽपकर्षति। अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रविशन्ति, तथा धर्मो निवृत्तिमात्रे कारणमधर्मस्य, शुद्ध्यशुद्ध्योरत्यन्तविरोधात्, न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति। अत्र नन्दीश्वरादय उदाहार्याः। विपर्ययेणाप्यधर्मो धर्मं बाधते। ततश्चाशुद्धिपरिणाम इति। तत्रापि नहुषाजगरादय उदाहार्याः ॥ ३ ॥ वार्तिकम् योग-वार्त्तिकम्

व्याचष्टे । नहीति । धर्मादिरुपाणां निमित्तानां प्रकृत्यापरकत्येयक्तिमाह । न कार्येणेति । परतन्त्रं स्वतन्त्रस्य प्रवर्त्तकमयुक्तमित्यर्थः । किं चाकाशे द्रव्याणाम् अनारम्भिकाप्यनुक्षणम् अणूनां क्रिया सर्वसम्मता । न च तत्रधर्मोऽधर्मो वा कारणं, कस्यापि भोगाहेतुत्वात् । नापि तत्रेश्वरादिसङ्कल्पादिः कारणं, गौरवात् । अतो निरन्तराणुक्रियोपपत्तये लाघवेन गुणत्वेनैव सामान्यतः प्रवृत्तिकारणत्वात् प्रकृतिस्वातन्त्र्यं सिद्धम् । अपि च कदाचिद्दण्डचक्रादिकं विनापि योगिसङ्कल्पाद् एव घटो जायते, आदिसर्गे चेश्वरसङ्कल्पेन बीजान्तराणि विनैव सर्वाणि बीजान्युत्पद्यन्तेइतिपरस्परव्यभिचान्निमित्तानां न साक्षात्कारणत्वसम्भवः । तृणारणिमण्यादिषु चाग्न्यादिकारणत्वेऽन्योन्यव्यभिचारो लोकसिद्ध एवास्ति । अतः सहकार्यप्रयुक्ता प्रकृतिरेव परिणामे कारणं स्वतन्त्रेति सिद्धम् । ननु प्रकृतिश्चेत् स्वतन्त्रा केन प्रकारेण तर्हि धर्मेश्वरयोगिसङ्कल्पादीनां प्रकृतिपरिणामहेतुत्वमिति पृच्छति—कथं तर्हि? इति । सूत्रार्धेनोत्तरम् आह—वरणभेदस्तु ततः क्षेत्रिकवत् इति । अपां पूरणाद् अद्भिः पूरणात्, केदारान्तरस्य विशेषणं समम् इत्यादि त्रिकम्, अपकर्षति क्षिपति प्रावरणम् आलवालम् । स्वं स्वं विकारमिति । स्वस्वजातीयं विकारं व्याप्नुवन्ति विकारप्रसूतीनां परिणामान्तरम् इत्यर्थः । प्रकृतिकार्येन्द्रियप्रकृत्यभिप्रायेणोक्तं गुणाद्गुणान्तमाप्लावयन्तीत्यपि बोध्यम् । क्रियावदारम्भकसंयोगोपि प्रकृतेः स्वत एव भवतीत्यपि तेनैव दृष्टान्तेन प्रतिपादयति । यथा चेति । न तु प्रकृतिप्रवृत्ताविति । संयोगविशेषेष्वपीति वोध्यम् । तथा चाधर्मादिप्रतिबन्धनिवृत्तिद्वारेणैव धर्मादिः परिणामकारणमिति सिद्धम् । अयं भावः । यथा संस्कार एव स्मृतिहेतुः, सदृशादृष्टचिन्तादयस्त्वननुगततया संस्कारस्योद्बोधकमात्राः, उद्बोधश् च निद्रादिदोषरूपावरणभङ्गः, तथैव प्रकृतिरेव जगत्कारणं कालकर्मेश्वरादयस्तु प्रकृतेः कार्यजननशक्त्युद्बोधकाः । तत्र धर्माधर्मौ स्वधर्मविरुद्धधर्मान्तररूपावरणभङ्गेनोद्बोधकौ, ईश्वरस्तु साम्यपरिणामादिरूपाखिलावरणभङ्गेनोद्बोधकः, कालादयस्तु धर्माद्युद्बोधकतया, दण्डादयस्तु कार्यान्तराभिव्यक्तिप्रतिबन्धकतयेत्येवं यथायोग्यमूहनीयम् । एतद् एव निमित्तकारणतेति गीयते । अव्यभिचारात् तु संयोगस्य समवायिकारणत्वम् इष्यत एव, द्वारत्वात् । न तेन प्रकृतेः स्वतन्त्र्यहानिरिति । धर्मस्याधर्मरूपप्रतिबन्धापसारणाद्वारा कायेन्द्रियपरिणामनिमित्तत्वौदाहरणम् आह—अत्र नन्दी इति । नन्दिनामा मनुष्य ईश्वरो जात इति नन्दीश्वरः । एवं नहुषाजगरादयोऽपि व्याख्येयाः । सिद्धादीनां कायेन्द्रियपरिणामश् चिन्तितः । इदानीं सिद्धानां चित्तपरिणामनिर्णायकं सूत्रमवतारयति ॥ ३ ॥ यदा तु योगी बहून्कायान्निर्मिमीते तदा किमेकमनस्कास्ते भवन्त्यथानेकमनस्का इति – वार्तिकम् योग-वार्त्तिकम्

यदेति एकमनस्का निर्मातृमनोमात्रेणव व्यवहारभाजः अनेकमनस्काः । निर्मातृमनोतिरिक्तप्रातिस्विकमनोभाजः । निर्माणचित्तान्यस्मितामात्रात् ॥ ४ ॥ अस्मितामात्रं चित्तकारणमुपादाय निर्माणचित्तानि करोति, ततः सचित्तानि भवन्तीति ॥ ४ ॥ वार्तिकम् योग-वार्त्तिकम्

स्वसङ्कल्पेन निर्मितीचित्तानि निर्माणचित्तान्युच्यन्ते, तानि बहूनि निर्माणदेहसमसङ्ख्यानि भवन्ति । तेषां कारणम् आह—अस्मितामात्रादिति । अहङ्काराद् इत्यर्थः । मात्रशब्देन मनोव्यावृत्तिः, सङ्कल्पमात्रेण मनसो निमित्तमात्रत्वादिति । अत्र चित्तशब्दो मनोत्रवाची, अहङ्करप्रकृतितिकत्ववचनात् । बुद्ध्यहङ्कारा अपि अनेके स्वप्रकृतिप्रधानबुद्ध्यापूराद्भवन्तीति प्रत्येतव्यं युक्तिसाम्यादिति । भाष्ये सचित्तानि शरीराणीत्यर्थः । शेषं सूत्र एव व्याख्यातम् । ननु निर्मातृचित्तस्य एकस्यैव प्रदीपवद्विसारितया कायव्यूहेषु वृत्तिसम्भवात् किमर्थं देहभेदेनान्तःकरणभेदोऽभ्युपगम्यते, न हि नैयायिकानाम् इवास्माकम् अन्तःकरणभेदेनैकदानवहितनानाशरीराधिष्ठानं न सम्भवेदिति अत्रोच्यन्ते — समाधिभोगयोर्ज्ञानाज्ञानयश्चैकदैकस्मश्चित्ते विरोधेन चित्तभेदः सिद्ध्यति । अत एव सर्वज्ञस्यापि विष्णोः स्वसङ्कल्पनिर्मितचित्तभेदेन रामशरीरे कियत्कालमज्ञानम् उपपन्नमिति । यदा तु योगी जीवभेदान् एव स्वदेहान्निर्मितेषु देहेन्द्रियसङ्घातेष्वनेकेषु योजयति, तदा पुनः सुतराम् एवानेकान्तःकरणम् अपेक्षत इति । कदाचित्तु योगिनाम् एकान्तःकरणेनैअ नानादेहेषु व्यवहारं न निराकुर्मः, स्वतन्त्रेच्छस्य नियन्तुम् अशक्यत्वादिति । अथैवं सत्यात्मनानात्वकल्पना व्यर्था, चित्तभेदेनैव ज्ञानाज्ञाद्युपपत्तेरिति ? मैवम् । वृत्तितन्निरोधादीनाम् औपाधिकत्वेनाविरोधेऽपि विषयानुभवाननुभवयोः स्वप्रतिविदितदुःखभोगतदभावयोर्बन्धमोक्षयोश्च साक्षाच्चेतननिष्ठयोर्विरोधेनैवात्मनानात्वसिद्धेरिति दिक् । तदेएतच्छरीरभेदेन नानाचित्तैर्विरुद्धनानाकार्यकारित्वं योगिनां स्मर्यते—

एकस्तु प्रभुशक्त्या वै बहुधा भवतीश्वरः । भूत्वा यस्मात्तु बहुधा भवत्येकः पुनस्तु सः ॥

तस्माच्च मनसो भेदा जायन्ते चैत एव हि । एकधा तद्द्विधा चैव त्रिधा च बहुधा पुनः ॥

योगीश्वरः शरीराणि करोति विकरोति च । प्राप्नुयाद्विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् ॥

संहरेच्च पुनस्तानि सूर्यो रश्मिगमान् इव ॥

इति । अनेकचित्तनिर्माणेपि विशेषमाह ॥ ४ ॥ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५ ॥ बहूनां चित्तानां कथमेकचित्ताभिप्रायपुरःसरा प्रवृत्तिरिति सर्वचित्तानां प्रयोजकं चित्तमेकं निर्मिमीते, ततः प्रवृत्तिभेदः ॥ ५ ॥ वार्तिकम् योग-वार्त्तिकम्

व्याचष्टे—बहूनामिति । तेषां बहूनां कथम् एकचित्ताभिप्रायानुसारिणी प्रवृत्तिः स्याद् इत्याशयेन योगी पूर्वसिद्धं यच्चित्तं तद् एव सर्वचित्तानां प्रयोजकं करोति, ततस्तु चित्ताभिप्रायात् तेषाम् अवान्तरचित्तानां प्रवृत्तिरित्यर्थः । ऐश्वर्यनिर्वाहार्थम् अनेकचित्तेष्वन्तर्यामिविधया स्थितम् एकं चित्तं तेषाम् उत्पत्तिस्थितिसंहारं करोतीति । अत्र च प्रमाणं प्राग् एव दर्शितम्—‘संहरेच्च पुनस्तानि सूर्योरश्मिगणान् इवे’ति । एतेनविष्ण्वादीनाम् अंशावतारा अपि व्याख्याताः । तेषु आत्मन एकत्वेऽप्यशांशिव्यवहार उपाध्योरंशांशिभावेनौपाधिको न पुनरितरजीवेष्विव स्वत एवेति । तदेवमुक्तमेषु पञ्चसु मध्येऽपवर्गयोग्यचित्तमवधारयति ॥ ५ ॥ तत्र ध्यानजमनाशयम् ॥ ६ ॥ पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धय इति। तत्र यदेव ध्यानजं चित्तं तदेवानाशयं तस्यैव नास्त्याशयो रागादिप्रवृत्तिर्नातः पुण्यपापाभिसम्बन्धः क्षीणक्लेशत्वाद्योगिन इति। इतरेषां तु विद्यते कर्माशयः ॥ ६ ॥ वार्तिकम् योग-वार्त्तिकम्

ध्यानजं ध्यानसंस्कृतम्आशयाः क्लेशकर्मवासना न सन्त्यस्मिन्निइत्यानाशयम्, ध्यानसिद्धं चित्तम् एवानाशयं भवति, योगेनैव ज्ञानोत्पत्त्या वासनोच्छेदसम्भवात् न मन्त्रादिभिरित्यर्थः । व्याचष्टे—पञ्चविधमिति । निर्माणचित्तम् अत्र निर्माणक्षयचित्तं न निर्मीयमाणं चित्तं, तस्य सिद्धकार्यत्वेन सिद्धत्वानियमात् । अनाशयम् इत्यस्यार्थम् आह— तस्यैवेति । रागादेः प्रवृत्तिर्यस्मात् संस्कारात् स रागादिप्रवृत्तिराशयस्तस्यैव नास्तीत्यनाशयम् इत्यर्थः । अनाशयत्वस्य किं प्रयोज्यम् इत्याकाङ्क्षायाम् आह—नात इति । सम्बन्ध उत्पत्तिः । ततश्चापुनर्जन्मरूपो मोक्ष इति शेषः । पापपुण्यानुत्पत्तौ हेतुम् आह—क्षीणक्लेशत्वादिति । दग्धक्लेशत्वादिति दग्धक्लेशकर्मवासनत्वादि इत्यर्थः । अदृष्टोत्पत्तावप्यदृष्टान्तरं कारणम्, अदृष्टरूपस्य कर्माशयस्य कार्यमात्रे हेतुत्वात् । तत्रेति निर्धारणसप्तम्यअर्थम् आह—इतरेषामिति । मन्त्रादिसिद्धचित्तानाम् इत्यर्थः । अत्रैव हेतुपरतयोक्करसूत्रमवतारयति ॥ ६ ॥ यतः – वार्तिकम् योग-वार्त्तिकम्

यत इति । कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ७ ॥ चतुष्पदी खल्वियं कर्मजातिः। कृष्णा शुक्लकृष्णा शुक्लाऽशुक्लाकृष्णा चेति। तत्र कृष्णा दुरात्मनाम्। शुक्लकृष्णा बहिःसाधनसाध्या। तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः। शुक्ला तपःस्वाध्यायध्यानवताम्। सा हि केवले मनस्यायत्तत्वादबहिःसाधनाधीना न परान्पीडयित्वा भवति। अशुक्लाकृष्णा सन्न्यासिनां क्षीणक्लेशानां चरमदेहानामिति। तत्राशुक्लं योगिन एव फलसन्न्यासादकृष्णं चानुपादानात्। इतरेषां तु भूतानां पूर्वमेव त्रिविधमिति ॥ ७ ॥ वार्तिकम् योग-वार्त्तिकम्

योगिनो निष्पन्नयोगस्य क्षीणक्लेशस्य कर्म कायादिव्यापारोऽशुक्लाकृष्णः पुण्यपापहेतुः इतरेषाम् अयोगिनां जन्मादिसिद्धानाम् अपि त्रिविधं यथायोग्यं कर्म शुक्लकृष्णयोः प्रत्येकसमुच्चयाभ्यां त्रिविधम् इत्यर्थः । तदेतद्व्याचष्टे—चतुष्पादिति । कर्मसामान्यं चतुरशकम् इत्यर्थः । क्रमेण निर्दिशति—कृष्णेति । कृष्णा दुःखफलदा, तमोवर्धकत्वात् । शुक्लकृष्णा सुखदुःखफलदा, रजोवर्धकत्वात् । शुक्ला सुखफलदा, सत्त्ववर्धकत्वात् । अशुक्लाकृष्णा च सुखदुःखफलशून्या, गुणाहेतुत्वादिति । अत्राशुक्लाकृष्णयोः सुखदुःखफलस्यैव प्रतिषेधेन योगिकर्मणाम् अपि सत्त्वशुद्धिः फलं न निराक्रियते । न च ज्ञानेनैव सत्त्वशुद्ध्याख्यः पापक्षयो भविष्यतीति वाच्यम् । तथापिकर्मणाम् अपि ज्ञानाङ्गतया सत्त्वशुद्धिहेतुत्वात्, आत्मक्रीड आत्मरतिः क्रियावान् एष ब्रह्मविदां वरिष्ठः इति साहित्यश्रुतेः ।

कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥

इतिस्मृतेश्च । अन्यथा वसिष्ठादीनां ज्ञानिनां कर्मानुपपत्तेश्च । न च लोकसङ्ग्रहार्थम् तेषां कर्म, लोकसङ्ग्रहस्य स्वतोऽपुरुषार्थतया कैवल्यहेतुसत्त्वशुद्धिद्वारैव पर्यवसानादिति । चतुर्विधं कर्म क्रमेणोदाहरति—देहेन्द्रियमनोभ्यो बहिर्यानि साधनानि तत्साद्ध्येत्यर्थः । अज्ञानां सकामानामित्यर्थाल्लभ्यते । ज्ञानिनां निष्कामानां, कर्म सामान्यम् एवाशुक्लाकृष्णमितिवक्ष्यमाणत्वात् । ननु बहिःसाधनासाध्यानाम् अपि वेदोक्ततयाकथं कृष्णसङ्करस्तत्राह—तत्र परेति । बहिर्योगोपकरणसम्पदने पिपीलिकादीनाम् अप्यन्ततोऽपरिहार्या पीडा भवतीत्यस्ति तत्र पापकर्माशयः, देवतादीनाम् आराधनादिनानुग्रहात् पुण्यकर्माशयस्तु प्रसिद्ध एवेति साङ्कर्यम् इत्यर्थः । अन्तर्यागरूपायां शुक्लायां पापासाङ्कर्ये बीजम् आह—सा हीति । सन्न्यासिनामिति । सन्न्यासस्त्यागः, अभिमानफलयोस्त्यागिनाम् इत्यर्थः ।

कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥

इत्यादिस्मृतेः । ननु सन्न्यासाश्रमिमात्राणाम् अविद्यादिक्लेशसत्त्वेतेषाम् अपि धर्माधर्मोदयात् क्लेशक्षये च गृहस्थादिकर्मणाम् अप्यशुक्लाकृष्णत्वाच्चेति । सन्न्यासिकर्मणाम् अशुक्लाकृष्णत्वे हेतुम् आह—क्षीणक्लेशानामिति । क्लेशमूलः कर्माशय इत्युक्तादिति भावः । चरमदेहानामितिस्वरूपाख्यानाम् । स्वोक्तं सन्न्यासिनामितिहेतुं विवृणानः सूत्रं व्याचष्टे—तत्रेति । तत्र चतुर्विधकृतमध्ये योगिन एवाशुक्लम् अकृष्णं च कर्म, फलत्यागात्, अहं करोमीत्यस्वीकाराच्चेत्यर्थः । विहितं हि कामनायां सत्याम् एव स्वर्गादिफलं ददाति, विहितं निषिद्धं चोभयम् अप्युपादानाख्याभिमाने सत्येव फलं ददातीति भावः ।

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः ॥

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमान् लोकान् न हन्ति न निबध्यते ॥

इतिशास्त्रस्य प्रमाणम् । ननु तिष्ठत्वयोगिनां कर्म तथापि वासनानभिव्यक्त्यादिनापि कदाचिन्मोक्षः स्यादिति किमर्थं नियमेन ध्यानजस्यानाशयचित्तस्यापेक्षेत्यत आह ॥ ७ ॥ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ८ ॥ तत इति त्रिविधात्कर्मणः, तद्विपाकानुगुणानामेवेति यज्जातीयस्य कर्मणो यो विपाकस्तस्यानुगुणा या वासनाः कर्मविपाकमनुशेरते तासामेवाभिव्यक्तिः। न हि दैवं कर्म विपच्यमानं नारकतिर्यङ्मनुष्यवासनाभिव्यक्तिनिमित्तं सम्भवति। किन्तु दैवानुगुणा एवास्य वासना व्यज्यन्ते। नारकतिर्यङ्मनुष्येषु चैवं समानश्चर्चः ॥ ८ ॥ वार्तिकम् योग-वार्त्तिकम्

तत इति पटं व्याख्याय तद्विपाकानुगुणानामेवेति गृहीत्वा व्याचष्टे । यज्जातीयस्येति । कर्मविपाकमनशेरत इति अनुकुर्वन्ति तन्मखनिरीक्षका इति यावत् । विपच्यमानं फलोन्मुखं चर्चो विचारः । बहुजन्मव्यवहितानामपि वासनानामभिष्यक्तिं कर्मफलान्यथानुपपत्तिप्रमाणेन साधयति ॥ ८ ॥ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९ ॥ वृषदंशविपाकोदयः स्वव्यञ्जकाञ्जनाभिव्यक्तः। स यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहितः पुनश्च स्वव्यञ्जकाञ्जन एवोदियाद्द्रागित्येवं पूर्वानुभूतवृषदंशविपाकाभिसंस्कृता वासना उपादाय व्यज्येत। कस्मात्। यतो व्यवहितानामप्यासां सदृशं कर्माभिव्यञ्जकं निमित्तीभूतमित्यानन्तर्यमेव। कुतश्च, स्मृतिसंस्कारयोरेकरूपत्वात्। यथाऽनुभवास्तथा संस्काराः। ते च कर्मवासनानुरूपाः। यथा च वासनास्तथा स्मृतिरिति जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतिः। स्मृतेश्च पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशाद्व्यज्यन्ते। अतश्च व्यवहितानामपि निमित्तनैमित्तिकभावानुच्छेदादानन्तर्यमेव सिद्धमिति ॥ ९ ॥ वार्तिकम् योग-वार्त्तिकम्

जात्यादिभिर्व्यवहितानाम् अपि वासनानाम् आनन्तर्यम् अव्यवहितवत् कार्यकारित्वं भवति, अन्यथा कर्मफलानुपपत्तेः स्मृतिसंस्कारयोरेकरूपत्वादित्यर्थः । एकरूपत्वम् एकाकारत्वमिति । तत्रादौ भाष्यकारो जात्यादिव्यवहितत्वम् उदाहरन् एवानन्तर्ये कारणं प्रदर्शयति—वृषेत्यादिना । आरम्भ एवाञ्जनस्यापेक्षणाद् उदयपदम् तथा च वृषदंशविपाकारम्भः । स्वव्यञ्जकेनैवाभिव्यक्तो वर्तमानावस्थो भवति, न तु पूर्वदेहत्यागमात्रेण झटित्येवेति नियमोऽतः स यदि जातिशतादिव्यवधानेन व्यञ्जकं प्राप्योदियात्, तदा द्राग् इत्येव शीघ्रं पूर्वप्राप्तवृषदंशविपाकेनजानितान् संस्कारान् गृहीत्वैव व्यक्तो भवति, व्यवहितानाम् अपि वासनानां सदृशकर्मव्यङ्ग्यत्वादित्यत आनन्तरमेवार्थाद्भवतीत्यर्थः । सादृश्यं चात्रैकजातीयफलकत्वम् । अभ्वियञ्जकमिइत्यस्य च विवरणं—निमित्तीभूतमिति । प्रकृतेरेवोपादानत्वादिति भावः । आनन्तर्यं तत्कारणं च व्याख्याय तत्र प्रमाणं पृच्छति—कुत इति । कुतः प्रमाणाद् इत्यर्थः । सूत्रावयवेनोत्तरम् आह—स्मृतिसंस्कारयोरिति । ननु मनुष्यजन्मन्येवाव्यवहिते वृषदंशविपाको भवत्वव्यवहितत्वादिति । तत्राह—ते चेति । ते च संस्काराः कर्माशयानुरूपा एवापेक्षिता इत्यर्थः । नन्वेवम् अपि मनुष्यसंस्काराद् एव वृषदंशविपाकनिर्वाहिका स्मृतिरस्तु, तथापिकर्माशयानुरूपस्मृतिहेतुत्वेन कर्मानुरूपोपपत्तिरिति । तत्राह—यथेति । एकरूपत्वं प्रासाध्य सूत्रतात्पर्यार्थं व्याचष्टे— इति जातीति । ननु सजातीयवासनैव चेद्विपाकनिर्वाहिका तर्ह्येकविपाककाल एव स्मृत्युत्पादेन पूर्वसंस्कारनाशात् कथं पुनस्तज्जातीयं विपाकान्तरम् इत्याशयेनोक्तं—स्मृतेश्च पुनः संस्कारा इति । परमार्थस्तु स्मृतेर्न संस्कारनाशकत्वम् इत्यपि पूर्वोक्तं स्मर्तव्यम् । स्मृतिसंस्काराः स्मृतिहेतुसंस्काराः, कर्माशयवृत्तिलाभात् कर्माशयोद्बोधादिति । नन्वेवं सकलजन्मार्थमेव वासनास्वीकारेऽनवस्थाप्रसङ्ग इत्याशङ्कायामपाकरोति ॥ ९ ॥ तासामनादित्वं चाऽऽशिषो नित्यत्वात् ॥ १० ॥ तासां वासनानामाशिषो नित्यत्वादनादित्वम्। येयमात्माशीर्मा न भूवं भूयासमिति सर्वस्य दृश्यते सा न स्वाभाविकी। कस्मात्। जातमात्रस्य जन्तोरननुभूतमरणधर्मकस्य द्वेषदुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत्। न च स्वाभाविकं वस्तु निमित्तमुपादत्ते। तस्मादनादिवासनानुविद्धमिदं चित्तं निमित्तवशात्काश्चिदेव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपावर्तत इति। वार्तिकम् योग-वार्त्तिकम्

व्याचष्टे—तासामिति । नित्यत्वात् प्रतिजन्मनियतत्वाद् इत्यर्थः । अनादित्वं च प्रवाहरूपेण बोध्यम् । यद्यप्याशीर्नित्यतया तद्धेतुवासनया एवानादित्वं सिद्ध्यति, न तु भोगहेतुवासनानान्तथापि तत्रानस्थायाः प्रामाणिकत्वेनादोषत्वे तद्दृष्टान्तेनान्यासामप्यनादित्वम् अनुमेयम् इत्याशयः । नन्वग्न्यौष्ण्यवद् इयम् आशीश्चित्तस्य स्वाभाविक्येव भवतु ? तत्राह—येयम् इति । आशीर्नित्यत्वं तद्वासनानादित्वे तथाशिषोः स्वाभाविकत्वे वा युक्तिं पृच्छति—कस्मात् ? इति ॥ । तत्रादाव् आशीर्नित्यत्वेन वासनानादित्वं यथा सिद्ध्यति तत्राह—जात इति । जातमात्रोऽनुमानाद्यसमर्थो बालको यदि न पूर्वजन्मन्यननुभूतमरणधर्मकः स्यात्, तथा कथं तस्य द्वेषतत्कारणमरणदुःखस्मरणाभ्याम् एवोत्पाद्यो मरणत्रासो यथोक्ताशीरूपः सम्भवेत् पूर्वपूर्वभवीयमरणदुःखवासनां विनेति शेषः । अस्वाभाविकत्वे तु युक्तिम् आह—न च इति । नापि स्वाभाविकं वस्तु निमित्तसापेक्षम् भवति, भयरूपात्तु यथोक्ताशीःखड्गप्रहारदर्शनादिनिमित्तम् अपेक्षते, अन्यथानुपपत्तेरतो न स्वाभाविकीति शेषः । सूत्रत्रयार्थं शिष्यावधारणयोपसंहरति—तस्माद् अनादि इति । निमित्तं विपाकोन्मुखं कर्म, प्रतिलभ्य गृहीत्वा । ननु वासनाया अनादित्वं तदा भवेद् यदि तदाश्रयं चित्तं नित्यं स्यात् प्रतिशरीरं च भिन्नं न स्यात् । तदेव तु न, पुम्प्रकृत्यतिरिक्तस्य सर्वस्य कार्यत्वाभ्युपगमात् । अणुमहच्छरीरयोः परिणामभेदेन भेदवच्छरीरतुल्यपरिणामचित्तस्यापि भेदसिद्धेश्चेति ? घटप्रासादप्रदीपकल्पं सङ्कोचविकासि चित्तं शरीरपरिमाणाकारमात्रमित्यपरे प्रतिपन्नाः। तथा चान्तराभावः संसारश्च युक्त इति। वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकासिनीत्याचार्यः। तच्च धर्मादिनिमित्तापेक्षम्। निमित्तं च द्विविधम् – बाह्यमाध्यात्मिकं च। शरीरादिसाधनापेक्षं बाह्यं स्तुतिदानाभिवादनादि, चित्तमात्राधीनं श्रद्धाद्याध्यात्मिकम्। तथा चोक्तम् – ये चैते मैत्र्यादयो ध्यायिनां विहारास्ते बाह्यसाधननिरनुग्रहात्मानः प्रकृष्टं धर्ममभिनिर्वर्तयन्ति। तयोर्मानसं बलीयः। कथं, ज्ञानवैराग्ये केनातिशय्येते, दण्डकारण्यं च चित्तबलव्यतिरेकेण शारीरेण कर्मणा शून्यं कः कर्तुमुत्सहेत समुद्रमगस्त्यवद्वा पिबेत् ॥ १० ॥ वार्तिकम् योग-वार्त्तिकम्

तत्रादौ साङ्ख्यपरिणामम् आह—घट इति । प्रतिपुरुषंसर्वशरीरसाधारणम् एकैकम् एव चित्तं तथापिघटप्रासादरूपस्वल्पमहाश्रयभेदेन प्रदीपवत् स्वल्पमहाशरीरभेदेन चित्तं स्वल्पं महापरिमाणं भवति, तथा च नित्यत्वम् अपि तस्य प्रदीपपरमाणुवद् एव द्रष्टव्यम् । तच् च परमाणुतुल्यसूक्ष्मावस्थायां प्रकृतेः सत्त्वकपांशुविशेषतां प्राप्नोतीति न प्रकृतिपुरुषातिरिक्तस्य नित्यतेति भावः । एवम् अपरे साङ्ख्या आहुरित्यर्थः । ननु बिम्बेन चित्तं कथं नेष्यत इत्याकाङ्क्षायाम् आह—तथा चेति । तथा चाणुत्वस्यापि सम्भवात्, पूर्वापरसर्गयोरन्तरा प्रलयेऽभावो लयः सम्भवति, तथा संसारः संसरणम् इहलोकपरलोकसंसारश् च सक्रियत्वात् सम्भवति, विभुत्वे चेद् उभयं न घटतेत्य् अर्थः । स्वशास्त्रसिद्धान्तम् आह—वृत्तिरेवैति । बिम्बाकारवच्चित्तं प्रतिनियतपुरुषभोग्यत्वात्, पुरुषभेदेनानन्तञ्च—

चित्ताकाशं चिदाकाशम् आकाशं च तृतीयकम् । द्वाभ्यां शून्यतमं विद्धि चिदाकाशं वरानने ॥

इत्यादिभिः शास्त्रेषु चित्तविभुत्वावगमात् । अन्यथा परिच्छिन्नत्वे इत्यादिनेति । तदेवं मोक्षयोग्यं चित्तं तत्मसङ्गेनेतरचित्तस्य बन्धप्रकारश्च दर्शितः परुषे चित्तद्वारकबन्धस्य स्वाभाविकत्वे मोक्षासम्भवात्कर्मवासनादिमूलकत्वे त तदच्छेदतो मोक्षो घटत इति इदानीं मोक्षोपपत्तये ऽनाद्यसङ्ख्यानामपि वासनानामत्यन्तोच्छेद उपपाद्यते ॥ १० ॥ हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः ॥ ११ ॥ हेतुर्धर्मात्सुखमधर्माद्दुःखं, सुखाद्रागो दुःखाद्द्वेषस्ततश्च प्रयत्नस्तेन मनसा वाचा कायेन वा परिस्पन्दमानः परमनुगृह्णात्युपहन्ति वा ततः पुनर्धर्माधर्मौ सुखदुःखे रागद्वेषाविति प्रवृत्तमिदं षडरं संसारचक्रम्। अस्य च प्रतिक्षणमावर्तमानस्याविद्या नेत्री मूलं सर्वक्लेशानामित्येष हेतुः। फलं तु यमाश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, न ह्यपूर्वोपजनः। मनस्तु साधिकारमाश्रयो वासनानाम्। न ह्यवसिताधिकारे मनसि निराश्रया वासनाः स्थातुमुत्सहन्ते। यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदालम्बनम्। एवं हेतुफलाश्रयालम्बनैरेतैः सङ्गृहीताः सर्वा वासनाः। एषामभावे तत्संश्रयाणामपि वासनानामभावः ॥ ११ ॥ वार्तिकम् योग-वार्त्तिकम्

वासनाहेतुः संसारचक्रम् । तस्यापि हेतुरविद्येत्यतोऽविद्यैव हेतुशब्दार्थ इत्याह—हेतुरित्यादिना इत्येष हेतुरित्यन्तेन । हेतुः संसारचक्रम् इत्यन्वयः । संसारचक्रस्य ज्ञानकर्मवासनाहेतुत्वे हेतुगर्भविशेषणं प्रवृत्तम् इदं षडरमिति । धर्माधर्मसुखदुःखरागद्वेषरूपेणारषट्केणाविद्यादण्डप्रेरितेन भ्रमितं भवतीत्यतो वासनाहेतुरित्यर्थः । कुलालचक्रस्य हि दण्डेन शलाकाप्रेरणे कृते वेगाख्यः संस्कारो भवति, येन कियत्कालं स्वयम् अपि भ्रमति, तद्वद् एव भ्रामितं संसारचक्रं वासनाहेतुरिति भावः । चक्रप्रवर्तकं दण्डम् आह—अस्य चेति । नेत्री भ्रामिका तथा च सर्ववासनोदयेऽविद्यैव मूलकारणम्, अविद्याक्षये च विहितनिषिद्धकर्मणां सत्त्वेऽपि संसारचक्रभ्रमणान्न वासनोदय इत्यशयः । हेतुम् उपसंहरति—इत्येष हेतुरिति । अविद्या हेतुर्वासनाया इत्यर्थः । फलं त्विति । यं पुरुषार्थम् उद्दिश्य धर्माद्युत्पन्नं तद् एव वासनानाम् अपि फलं, कर्मवासनयोरन्योन्यसहकारित्वाद् इत्यर्थः । ननु फलेन कथं कारणस्य नियमरूपः सङ्ग्रहः, कथं वा फलाभावे कारणाभावः ? फलाभावकालेऽपि कारणस्य सत्त्वादित्याशङ्कायाम् आह—न ह्यपूर्वोपजनैति । अपूर्वस्य सत उपजनो जन्म हि नास्तीत्यर्थः । तथा सत्कार्यस्वीकारेणानागतावस्थफलेन व्याप्तो वर्तमानहेतुर्भवत्येवेति भावः । आश्रयम् आह—मनस्त्विति । साधिकारं पुरुषार्थवत् । अत्र प्रलये वासनासत्त्वस्यानुच्छेदेन वासनाश्रयमनसो नित्यत्वमभिप्रेत्य साधिकारमिति विशेषणम् । अन्यथाधिकारसमाप्तौ मन एव न तिष्ठतीति विशेषणं व्यर्थमिति । आलम्बनम् आह—यद् अभिमुखमिति । मोक्षकाले कामिनीरूपादीनां रागवासनाव्यञ्जकानां सत्त्वेऽप्यालम्बनाभावोपपादनायाभिमुखमिति विशेषणम् । तथा च सन्निकृष्टं वासनाव्यञ्जकम् अत्रालम्बनम् इत्यर्थः । हेत्वादीन् व्याख्याय सूत्रवाक्यार्थम् आह—एवमिति । सङ्गृहीताः व्याप्ताः । अत एषाम् अभावेऽत्यन्तोच्छेदे विदेहमुक्तिसमये तदाश्रयाणां तन्नियतानां वासनानाम् अत्यन्तोच्छेद इत्यर्थः । तथा च वासनानाम् अनादित्वेऽपि मोक्षः सम्भवतीत्याशयः । सत्कार्याभ्युपागमात् वासनानामत्यन्तोच्छेदे न सम्भवतीति शङ्कयोत्तरसूत्रमवतारयति ॥ ११ ॥ नास्त्यसतः सम्भवः, न चास्ति सतो विनाश इति द्रव्यत्वेन सम्भवन्त्यः कथं निवर्तिष्यन्ते वासना इति। वार्तिकम् योग-वार्त्तिकम्

नास्तीति । द्रव्यत्वेन सम्भवन्त्यः वस्तुत्वेन तिष्ठन्त्यः । अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ १२ ॥ भविष्यद्व्यक्तिकमनागतमनुभूतव्यक्तिकमतीतं स्वव्यापारोपारुढं वर्तमानं, त्रयं चैतद्वस्तु ज्ञानस्य ज्ञेयम्। यदि चैतत्स्वरूपतो नाभविष्यन्नेदं निर्विषयं ज्ञानमुदपत्स्यत। तस्मादतीतानागतं स्वरूपतोऽस्तीति। किञ्च भोगभागीयस्य वाऽपवर्गभागीयस्य वा कर्मणः फलमुत्पित्सु यदि निरुपाख्यमिति तदुद्देशेन तेन निमित्तेन कुशलानुष्ठानं न युज्येत। सतश्च फलस्य निमित्तं वर्तमानीकरणे समर्थं नापूर्वोपजनने। सिद्धं निमित्तं नैमित्तिकस्य विशेषानुग्रहणं कुरुते नापूर्वमुत्पादयतीति। वार्तिकम् योग-वार्त्तिकम्

भवेद् अप्ययं दोषो यदि स्वरूपापायो वासनानामस्माभिरुच्यते, किन्त्वत्यन्तातीततामात्रं यतोऽतीतानागतं वस्तु स्वरूपतोऽस्ति । नन्वेकदा विरुध्यमानानां धर्माणां कथम् एकत्र सत्ता घटेत ? तत्राह—अध्वभेदाद्धर्माणामिति । भिन्नाध्वकत्वादविरोध इत्यर्थः । वर्तमानलक्षणानाम् एव धर्माणाम् एकदा विरोध इति भावः । अतीतानागतयोः स्वरूपानपाये प्रमाणं दर्शयति भाष्यकारः—भविष्यदिति । भविष्यन्ती व्यक्तिरभिव्यक्तिर्यस्य तत् तथा । त्रयमिति । त्रयमप्येतद्वस्तुस्वरूपसद्, यतो योगिनां प्रत्यक्षज्ञानस्य ज्ञेयं विषयः । अत्र तर्कम् आह—यदि चेति । नेदमिति । शशशृङ्गादीनां ज्ञानादर्शनादिति भावः । तथा चोक्तं ब्रह्ममीमांसासूत्रेण—नाभाव उपलब्धेःइति । ननु शुक्तिरजतादिवद् बुद्धिपरिणामविशेष एव योगजधर्मादिजन्योऽतीतादिस्थले साक्षिज्ञानविषयोऽस्त्विति चेन्न? योगिना पूर्वानुभूतातीतादेः कालान्तरेऽपि प्रत्यभिज्ञायमानत्वात्, बाधकाभावेऽपि वस्तूनां बुद्धिमात्रत्वे वर्तमानावस्थवस्तूनाम् अपि बुद्धिमात्रताप्रसङ्गाच्च । न चानुपलम्भो बाधकः, योगिप्रत्यक्षसिद्धस्य सौक्ष्म्येणानुपलम्भोपपत्तेः । तथा च साङ्ख्यसूत्रं सौक्ष्म्यात् तद्अनुपलब्धिति । नन्वतीताद्यवस्थायां नास्तीति प्रत्ययो बाधकैति ? मैवम् । योगिप्रत्यक्षेण लौकिकप्रत्यक्षस्य बाधनात्, इदानीं घटोऽतीत इत्यादि प्रतीतिबलाद् नास्तीति प्रत्ययस्यातीततादिविषयकत्वाच् । अतीतानागतसत्त्वस्वीकारे बीजान्तरम् आह—किं चेति । भोगभागीयस्य भोगसाधनस्य , निरुपाख्यम् असत् । तदुद्देशेनेत्य्स्य विवरणं—तेन निमित्तेनेति । कुशलो निपुणः । कुशलो योगी अनागतं साक्षात्कृत्य तद् वर्तमानत्वाय यतते, यथार्जुनः कृष्णशरीरे कालात्मके भीष्मादिप्रवेशं भाविनं दृष्ट्वा युद्धे प्रवृत्तैति । नन्वेवं कारणव्यापारो विफलः, कार्यस्य नित्यत्वाद् इत्याआशङ्कां परिहरन्नेव परमते पूषणान्तरम् आह—सतश्चेति । तथा चाव्यक्तावस्थया सतो वर्तमानतायां कारणव्यापारसाफल्यम् । दृष्टं च कारणव्यापारेण सद् एवाभिव्यज्यतैति । यथा पाषाणेषु सताम् एव प्रतिमापद्मादीनां लौकिकव्यापारेणाभिव्यक्तमात्रमिति । तद् उक्तं वासिष्ठे—

सुषुप्तावस्थया चक्रपद्मरेखा शिलोदरे । यथा स्थिता चित्तेरअन्तस्तथेयं जगदावली ॥

इति । चैतन्ये च जगदावली प्रकृतिपुरुषयोस्तप्तायःपिण्डवद् अविवेकेन प्रकृतिद्वारोपासनार्था श्रुतिस्मृत्योरुच्यते, सर्वकर्तृत्वसत्यसङ्कल्पत्वादिवत् । अथवा गगने वायोर् इवाधारत्वम् असङ्गेऽनेनैव चैतन्ये जगत उच्यतैति । ननु तथापि कारणनित्यत्वेनातीताद्यवस्थाद् अपि कारणात् सदैव कार्याभिव्यक्तिः स्यात् ? तत्राह—सिद्धमिति । सिद्धं वर्तमानम् एव निमित्तम् इत्यादिरर्थः । सतः कार्यस्योत्पत्तौ कारणवैफल्यशङ्कानिरासायोक्तं विशेषानुग्रहणमिति । परमतं निषेधति—नापूर्वेति । अतो नापूर्वम् उत्पादयतीत्य् अर्थः । अपूर्वोत्पादने च शशशृङ्गाद्य् अपि कारणव्यापाराद् उत्पद्येत, उत्पत्तेः प्राक् शशशृङ्गादिभ्यो घटादीनां वैलक्षण्याभावादिति । अधिकं तु प्राग् उक्तम् । धर्मी चानेकधर्मस्वभावस्तस्य चाध्वभेदेन धर्माः प्रत्यवस्थिताः। न च यथा वर्तमानं व्यक्तिविशेषापन्नं द्रव्यतोऽस्त्येवमतीतमनागतं च। कथं तर्हि, स्वेनैव व्यङ्ग्येन स्वरूपेणानागतमस्ति। स्वेन चानुभूतव्यक्तिकेन स्वरूपेणातीतमिति। वर्तमानस्यैवाध्वनः स्वरूपव्यक्तिरिति न सा भवत्यतीतानागतयोरध्वनोः। एकस्य चाध्वनः समये द्वावध्वानौ धर्मिसमन्वागतौ भवत एवेति नाभूत्वा भावस्त्रयाणामध्वनामिति ॥ १२ ॥ वार्तिकम् योग-वार्त्तिकम्

अध्वभेदादिति सूत्रावयवं व्याचष्टिधर्मी चानेकेति । अतो न विरोध इत्य् आह—न चेति । अभिव्यक्तिरूपेण विशेषणेनैव धर्माणां विरोधो न स्वरूपतैति वाक्यार्थः । द्रव्यतः स्वक्रियाकारित्वेन । पृच्छति—कथं तर्हीति । उत्तरं—स्वेनैवेति । व्यङ्ग्येन भाविव्यक्तिकेन । वर्तमानस्य इवेत्यादिरध्वनोरित्यन्त उपसंहारः । षष्ठी चात्र सप्तम्यार्थे । ननु तथाप्य् एकाध्वसमयेऽपराध्वाभावादध्वन्येव सत्कार्यहानिरित्याशङ्कायाम् आह—एकस्य चाध्वनैति । एतच् च एतेनभूतेन्द्रियेषु इत्यादिसूत्रे सम्यग् उपपादितम् अस्माभिरिति । अभूत्वा अस्थित्वा । त्रयाणाम् अध्वनां लक्षणानामिति । तदेवं मोक्षयोग्यं चित्तं तदन्यचित्तानां बन्धप्रकार उक्तस्तस्य च मोक्षानुपपत्तिः परिहृता इतः परं मोक्षकारणस्य विवेकज्ञानाख्यसम्यग्ज्ञानस्य विषयो लणक्षादिकं चातिविस्तरेण कार्यकारणयोर्विवेकं सम्यग्ज्ञानव्षयैकदेशं दर्शयति ॥ १२ ॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥ ते खल्वमी त्र्यध्वानो धर्मा वर्तमाना व्यक्तात्मानोऽतीतानागताः सूक्ष्मात्मानः षड्विशेषरूपाः। सर्वमिदं गुणानां सन्निवेशविशेषमात्रमिति परमार्थतो गुणात्मानः। तथा च शास्त्रानुशासनम् – गुणानां परमं रूपं न दृष्टिपथमृच्छति। यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम् ॥ इति ॥ १३ ॥ वार्तिकम् योग-वार्त्तिकम्

ते धर्मा यद्यपि कालदेन व्यक्ताः सूक्ष्मा वा भवन्तु, सर्व एव गुणात्मनः सत्त्वादिगुणमात्रस्वरूपा एव भवन्ति, सदा वर्तमानत्वेनगुणा एव तदपेक्षया सत्या इत्यअर्थः । व्याचष्टे—ते खल्विति । अत्र सूक्ष्मात्मान इत्यस्यानन्तरं षडविशेषाइति पाठः क्वचित् तिष्ठति, स तु प्रामादिकत्वाद् उपेक्षणीयः । सर्वविकाराणाम् एव गुणात्मकत्वस्य वक्तव्यतया षडविशेषमात्रनिर्देशानौचित्यादिति । अयम् अर्थः—ते धर्मा व्यक्तस्वरूपा सूष्मत्वरूपाश्च महदादिघटपटान्ताः परमार्थतो गुणात्मानो गुणरूपेणैव सन्तोन तु स्वरूपेण, यतः सर्वम् इदं धर्मजातं सत्त्वादीनां सन्निवेशः संयोगस्तद्विशेषमात्रं तद्विलये विलयात् तद्वर्तमानतायां वर्तमानत्वान् नियतमिति । तद् उक्तं—आद्यन्तयोः यदसदस्ति, तद् एव मध्यैति । त्रिगुणात्मकमायैव जगतपरमार्थैति च । अत्र पारमार्थिकत्वं चानित्यतामात्ररूपासत्त्वं, अन्यथा सृष्ट्यादिप्रतिपादकसूत्रादिविरोधात् । अत्रावयवसंयोगातिरिक्तो धर्मो नास्तीति न भाष्यार्थः, अवयविद्रवस्यातिरिक्तस्य स्थानंस्थाने व्यवस्थापितत्वादिति । उक्तार्थे शास्त्रं प्रमाणयति—तथा चेति । परमं पारमार्थिकं नित्यमिति यावत् । मायेव लौकिकमायावत् क्षणभङ्गुरम्, अतः सुतुच्छकम् अत्यन्ततुच्छम् अल्पसारं स्थिरांशाभावादिति । अत्र सुशब्देन परिणामितयागुणानाम् अपि तुच्छत्वं सूचितम् । गुणा एव परिणामितया कूटस्थनित्यापेक्षया तुच्छाः । गुणकार्यन्तु दृश्यमानं गुणापेक्षयापि तुच्छम् । अतः सुतुच्छमिति । यद्यपि मायाशब्दो मिथ्यावस्तूनां कारणे मुख्यः, मायां तु प्रकृतिं विद्यादितिश्रुतेः, विश्वस्य बीजं परमासि मायाइतिस्मृतेश्च । मायात्वं हि मृषाविकारेण व्यामोहकत्वात् । तच् च प्रकृताव् एव मुख्यम्—प्रकृत्या सर्वम् एवेदं जगद् अन्धीकृतं विभोः । जगन्मोहात्मकं विद्धि अव्यक्तं व्यक्तसञ्ज्ञकम् ॥ इति भारतात् । तथापिकार्यकारणाभेदान्मायाशब्दः कार्येऽपि प्रयुक्तः—दैवी ह्यैषा गुणमयी मम माया दुरत्यया[गीता ७.१४] इत्यादौ इवेति मन्तव्यम् । नन्वेवं प्रपञ्चोऽपिप्रकृत्याख्यमूलमायाकार्यत्वान्मायैव, अन्यथा

मम योनिर्महद्ब्रह्मतस्मिन् गर्भं दधाम्य् अहम् । मूलामायाभिधान तत् सा शक्तिर्मयि तिष्ठति ॥

इति कौर्मादिषु मूलेऽतिविशेषणवैयर्थ्यात् । तत् कथम् इव शब्दः प्रयुक्तः ? इति ।

मैवं, लौकिकस्येन्द्रजालादेर् एवात्र दृष्टान्तत्वेनेवशब्दौचित्यादिति । प्रपञ्चस्य मूलकारणमात्रत्वे श्रुतिर् अपि वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् इत्यादिर् उदाहर्तव्या, तथा विष्णुपुराणम् अपि—

शिविका दारुसङ्घातो रचना स्थितिसंस्थितिः । अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिविका त्वया ॥

एवं छत्रशलाकादि पृथग्भावो विमृश्यताम् । क्व जातं छत्रम् इत्य् एष न्यायस्त्वयि तथा मयि ॥

इत्यादि । एवंविधेषु च वाक्येषु विकाराणाम् अनित्यतयैव विवेकवैराग्ययोस् तात्पर्यं न तु कार्यखण्डने, कार्यकारणभावप्रतिपादकवाक्यविरोधात् । न च तदअनुवादमात्रम्, महदादिसृष्टेर्लौकिकप्रमाणानधिगतत्वेन अनुवादासम्भवात् । प्रमाणान्तरसत्त्वे च तेन सहापि विरोधस्यान्यायत्वात् । किं च, सर्वविकारस्य मिथ्यात्वे प्रमाणस्यापि मिथ्यात्वनिश्चयेन श्रुतिप्रमाणवधृतेऽपिकारणत्वाभिमतब्रह्म पुनः संशयः स्यात् प्रामाण्यसंशयादितार्थसंशयादिवदिति दिक् । सूत्रानत्ररमवतारयति । यदेति । यदि सर्वे विकारा अनेकगुणमात्राः तदा कथमेकं शब्दतन्मात्रम् एकं चक्षुरिति लोकशास्त्रयोर्व्यवहर इति शङ्कराचार्यः । तत्र सिद्धान्तमुक्तम् ॥ १३ ॥ यदा तु सर्वे गुणाः कथमेकः शब्द एकमिन्द्रियमिति – परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४ ॥ प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणात्मकानां करणभावेनैकः परिणामः श्रोत्रमिन्द्रियं, ग्राह्यात्मकानां शब्दतन्मात्रभावेनैकः परिणामः शब्दो विषय इति, शब्दादीनां मूर्तिसमानजातीयानामेकः परिणामः पृथिवीपरमाणुस्तन्मात्रावयवस्तेषां चैकः परिणामः पृथिवी गौर्वृक्षः पर्वत इत्येवमादिर्भूतान्तरेष्वपि स्नेहौष्ण्यप्रणामित्वावकाशदानान्युपादाय सामान्यमेकविकारारम्भः समाधेयः। वार्तिकम् योग-वार्त्तिकम्

परिणामस्यैकत्वाद्वस्तूनाङ्गुणानां तत्त्वम् एकत्वमिति योजना । परमार्थतो नानात्वेऽपि व्यावहारिकेणानित्येन परिणामरूपेण वस्तूनाङ्गुणानाम् एकत्वव्यवहार इत्यर्थः । अत एवश्रुतिर्व्यावहारिकस्याग्न्याद्यअवयविन एकस्यावयवविभागे सति नानात्वम् एव पारमार्थिकम् उक्तवती—यद् अग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत् कृष्णं तदन्नस्यापागादग्नेरिग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम्इति । परिणामस्य एकत्वे भाष्यकारो दर्शयति—प्रख्येति । ग्रहणात्मकानां सात्त्विकान्तःकरणरूपेण परिणतानां बाह्यकरणभावेन श्रोत्रम् इत्येकः परिणाम इत्यर्थः । तेन महदहङ्काररूपेणापिपरिणामैकत्वकथनान् न्यूनता । अत्र श्रोत्रशब्देनान्यान्य् अपि ज्ञानेन्द्रियाण्युपलक्षणीयानि । ग्राह्यात्मकानामिति तामसान्तःकरणरूपेण परिणतानाम् इत्यर्थः । अत्र शब्दैति शब्दतन्मात्ररूपं द्रव्य्मात्र् मूर्तिसमानजातीयानाम् इत्याआगामिभाष्येण द्रव्यत्वलाभात् । एतदपि रसादितन्मात्राणाम् उपलक्षणम् । एवं कर्मात्मकानां राजसान्तःकरणरूपेण परिणतानां कारणान्तर्भावेनैकैकः परिणामो वागादीनीन्द्रम् इत्य् अपि बोध्यम् । अतः परं स्थूलभूतरूपेणैकं परिणामं दर्शयति—शब्दादीनामिति । मूर्तिः काठिन्यं पृथिवीत्वमिति यावत् । मूर्त्या सजातीयानां शब्दादितन्मात्राणाम् एकः परिणामः पृथिवीपरमाणुः स्थूलपृथिव्याः परमसूक्ष्मावस्थेत्य् अर्थः । इदं चाग्रे प्रतिपादयिष्यामः । अयम् एव सूक्ष्मशब्देन साङ्ख्ये प्रोक्तः—सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः इत्यत्र ॥ अयं च परमाणुर्वैशेषिकैस्त्रसरेणुशब्देनोच्यते, अस्माभिस्तु प्रत्यक्षपृथिव्याः परमसूक्ष्मत्वात् पृथिवीपरमाणुरिति । गुणेषु पृथिवीत्वादिव्यवहाराभावेनाणुत्वेऽपि न पृथिव्याम् अणुत्वव्यवहारैति । तस्य च पार्थिवपरमाणोर्निरवयवत्वभ्रमनिरासाय पञ्चतन्मात्राण्य् एवावयवा इत्याह—तन्मात्रावयव ति । बहुव्रीहिविग्रहः । महाभूतादिरूपपरिणामेष्वप्येएकत्वं दर्शयति—तेषामिति । एवमिति । एवं भूतान्तरेष्वपि जलादिषु स्नेहादिजातीयानि जलत्वतेजस्त्ववायुत्वाकाशत्वजातीयानि तन्मात्राणि गृहीत्वा सामान्यं सजातीयानाम् अनेकेषां धर्मभूत एकविकारारम्भ उपपादनीय इत्यर्थः । तद्यथा गन्धतन्मात्रं वर्जयित्वा चतुस्तन्मात्राणां स्नेहजातीयानाम् एकः परिणामो जलपरमाणुः । तेषां च महाजलादिः । एवं गन्धरसौ वर्जयित्वा औष्ण्यजातीयानां त्रितन्मात्राणां तेजोऽणुस्तेभ्यो महातेजआदि, एवं गन्धरसरूपाणां वर्जनाद् द्वाभ्यां वाय्वणुस् तेभ्यो महावाय्वादिः । एवं शब्दतन्मात्राद् अहङ्कारांशसहकृताद् आकाशाणुस् तेभ्यो महाकाशादिरिति । इदम् अत्रावधेयम्—शब्दादीनां मूर्तिसजातीयानाम् इत्यादि वाक्याद् अत्र दर्शनेऽयं सिद्धान्तः—शब्दादितन्मात्रपञ्चके काठिन्यस्नेहादिव्यङ्ग्याः पृथिवीत्वादिजातयः सन्ति । तत्र पृथिवीजातीयैः शब्दादिगन्धान्तपञ्चतन्मात्रैः पृथिवीपरमाणुरारभ्यते, पृथिव्यां पञ्चगुणोपलम्भात् । एवं जलजातीयैः शब्दादिरसपर्यन्तैश्चतुस्तन्मात्रैर्जलपरमाणुः । एवं तेजोजातीयैः शब्दादिरूपान्तत्रितन्मात्रैस् तेजःपरमाणुः । एवं वायुजातीयाभ्यां शब्दस्पर्शतन्मात्राभ्यां वायुपरमाणुः । एवम् आकाशजातीयाच्छब्दतन्मात्राद् अहङ्कारसहकृताद्आकाशाणुर्जायते । एवं परमाणुगणोत्पत्त्यनन्तरं तेभ्य एवाकाशादिक्रमेण पञ्चमहाभावान्युत्पद्यन्ते । श्रुतौ चाकाशादिक्रमेण महाभूतोत्पत्तिसिद्धेरिति समानतन्त्रन्यायेन च साङ्ख्येऽपीत्थम् एव सिद्धान्त उन्नीयते । विष्णुपुराणादौ तु शब्दतन्मात्राद् आकाशम् आकाशात् स्पर्शतन्मात्रं तस्माद् वायुर् एवङ्क्रमेण सृष्टिः स्मर्यते । यथा विशेष्पूर्वेऽहङ्कारसृष्ट्यनन्तरम्—

यथा प्रधानेन महान् महता स तथावृतः ॥

भूतादिस् तु विकुर्वाणः सर्गतन्मात्रकं ततः । ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥

शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् । आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ॥

बलवान् अभवद् वायुस् तस्य स्पर्शो गुणो मतः ।

इत्यादिक्रमेण पञ्चभूतसृष्टिरुक्ता । तस्या अयम् अर्थः—सोऽहङ्कारो महताकृत आपूरितः यथा पृथिवी जलेनानुविद्धा भवति तद्वत्, ततो महतापूर्णाद्द्वाभ्यां मिलित्वा भूतास् तामसाहङ्कारः तन्मात्रिकं सर्गं

तन्मात्राणां सृष्टिं ससर्ज चकार, तदनन्तरं स एव भूतादिः शब्दतन्मात्रात् स्वद्वितीयात् शब्दगुणकम् आकाशं ससर्जेत्यनुषज्यते । तथा चाहङ्कारशब्दतमात्राभ्यां मिलित्वाकाशं सृज्यते, न तु तन्मात्रान्तरम् अपेक्ष्यतैति सिद्धम् । तच्च शब्दगुणकम् आकाशं भूतादिनाहङ्कारेणापूरितं भूत्वा स्पर्शमात्रं ससर्ज । अत्र चाकाशेऽहङ्कारस्यापि कारणत्ववचनाद् अपरभूतचतुष्केऽपि तत्तन्मात्राणाम् अहङ्कारसहितानाम् एव हेतुत्वम् अवगम्यते, युक्तिसाम्यात् । एतत्सूचनायैव भूतादिशब्देनाहङ्कारोपन्यासः । ततश्च स्पर्शतन्मात्राद्बलवान् महावायुरभवदिति । एवं क्रमेण तत्तन्मात्राधिक्येन तेजश्चादिभूतपयोत्पत्तिवाक्यान्यपि तत्र व्याख्येयानि । कार्यकारणयोर्विवेकप्रकारः प्रदर्शितः । इदानीं यथोक्तं कार्यकारणरूपं सर्वं वस्त्वसच्चित्तकल्पितमात्रं स्वप्नवदिति य आहुस्तन्निषिध्य चित्ततद्अर्थयोर् विवेकप्रकारं दर्शयिष्यति सूत्रकारः । नास्त्यर्थो विज्ञानविसहचरः, अस्ति तु ज्ञानमर्थविसहचरं स्वप्नादौ कल्पितमित्यनया दिशा ये वस्तुस्वरूपमपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमं न परमार्थतोऽस्तीति य आहुस्ते तथेति प्रत्युपस्थितमिदं स्वमाहात्म्येन वस्तु कथमप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तुस्वरूपमुत्सृज्य तदेवापलपन्तः श्रद्धेयवचनाः स्युः ॥ १४ ॥ वार्तिकम् योग-वार्त्तिकम्

तत्सूत्रम् अवतारयितुम् उपक्रमते—नास्त्यर्थ ति । विज्ञानवादिन आहुः—बाह्यवस्तुनः प्रातीतिक्य् एव सत्ता । परमार्थस् तु गुणा वा तत्परिणामो वा अतीतादिकं वा किम् अपि नास्ति—

न निरोधो न चोत्पत्तिर् न बद्धो न च साधकः । न मुमुक्षुर् न वै मुक्तः इत्य् एषा परमार्थता ॥

यथा रथादयः स्वप्ने भान्तीव नैव सन्ति ते । तथा जाग्रद्अवस्थायां भूतानि च न सन्ति वै ॥ १५९

इत्यादिश्रुतिस्मृतिपरम्परयैव बाह्यवस्तुनिराकरणात् । तथा युक्तिरप्यस्ति—स्वप्नादौ तावत् विषयं विनापि ज्ञानम् उभयवादिसिद्धम्, अनुभवविषयत्वं विना हि विषयः परैरपि न स्वीक्रियते, अत उभयवादिसिद्धेन ज्ञानेनैव स्वप्नादिवत्सर्वव्यवहारोपपत्तौ ज्ञानातिरिक्तार्थकल्पने गौरवमिति । ताम् इमां युक्तिं प्रदर्शयन् स्वमतम् उपन्यस्यति—नास्त्यर्थ इत्यादिना । विज्ञानविसहचरो विज्ञानाभावकालीनोऽर्थ उभयसिद्धो नास्ति, ज्ञानं व्यर्थाभावकालीनं स्वप्नादौ कल्पितम् उभयवादिसिद्धम् इत्यनया दिशा एतद्युक्तिमार्गेण ये वस्तुस्वरूपम् अत्यन्तम् अपह्नुवते । य इत्यैद्यपह्नुवत इत्य्न्तं विवृणोति—ज्ञानेत्यादिना आहुरित्यन्तेन । दिक्शब्दसूचिताश्च पराभिप्रेतश्रुत्याआदयः पूर्वोक्ताः, तथा युक्त्यन्तन्तराणि च—

सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवोदये ॥

इत्यादीनि । तन्मतं स्वयम् आदौ निराकरोति—ते तथेति । ते विज्ञानवादिन एवासन्त इत्यर्थः । तत्र हेतुम् आह—प्रत्युपस्थितम् इत्यादिना स्युरित्यन्तेन । अस्यार्थः—इदं सर्वं वस्तु स्वमाहात्म्येन सन्निकर्षादिनैवोपस्थितं न तु आर्रयादिना । स्वप्नवदत्यन्तबाधादर्शनात् । अतः कथं वस्तुस्वरूपं गृहीतापि प्रमाणरूपेण स्वप्नज्ञानरूपदृष्टान्तबलेन वस्तुस्वरूपम् अपलपन्तः श्रद्धेयार्रयाः स्युः, तेषां ज्ञानस्यापि भ्रमत्वेन तद्वाक्यस्य यथार्थवाक्यार्थज्ञानाजन्यत्वात् । तद्वाक्यार्थस्यापलापाच् च तद्वाक्यस्याश्रद्धेयत्वाद् इत्यर्थः । न हि जाग्रज्ज्ञानस्य स्वप्नदृष्टान्तेन विषयापलापे क्रियमाणे स्वाभिप्रेतस्य यत् किञ्चिज् ज्ञानस्य विषयः सन्न् इत्यप्यभ्युपगन्तुं शक्यते प्रामाणिकरित्यतस्त एव नास्तिकाः, न पुनरर्थो नास्तीति भावः । एतेनाधुनिकानां दृष्टिसृष्टिवादिनां वेदान्तिब्रुवाणाम् अपि मतं प्रच्छन्ननास्तिकतयोपेक्षणीयम् स्वप्नादिदृष्टान्तेन श्रीहर्षादीनाम् असत्खण्डनेन च वेदान्तज्ञानतज्जन्यज्ञानयोरपि भ्रमत्वापत्त्या वेदान्तप्रामाण्यासिद्धौ तत्प्रतिपाद्यब्रह्मासिद्धिप्रसङ्गादिति । नन्वनुभवस्वरूपस्यात्मनः स्वप्रकाशत्वात् न तत्र प्रमाणापेक्षेति चेत् ? न तथा सति वेदान्तश्रवणवैयर्थ्यापत्तेः । अथापूर्णत्वसद्वितीयत्वभ्रमनिरासार्थं श्रवणापेक्षेति चेत् ? न, अप्रमाणीभूतेन वेदान्तेनापूर्णत्वाद्य्अभावस्यासिद्ध्यापत्तेः । ननु श्रुत्या स्वार्थे बोधिते सति पश्चात्तद्बाधेऽप्यक्षतिः, श्रुतिप्रवृत्तेः प्राक् अबाधितम् एव सर्वमिति ? मैवं, श्रुतिप्रामाण्यग्राहकानुमानादीनाम् अप्यप्रामाण्ये स्वप्रमाणभूतां बाधितां च श्रुतिम् उत्पादितज्ञानाम् अपि प्रामाण्यसंशयाहितः स्वार्थसंशय कथं नाजागलस्तनवत् विफलीकुर्यादिति दिक् । विज्ञानवादे दूषणान्तरपरतयोत्तरसूत्रमवतारयति ॥ १४ ॥ कुतश्चैतदन्याय्यम् – वार्तिकम् योग-वार्त्तिकम्

कुतश्चेति । चशब्दो हेत्वन्तरे कुतोपीत्यर्थः । वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ १५ ॥ बहुचित्तालम्बनीभूतमेकं वस्तु साधारणं, तत्खलु नैकचित्तपरिकल्पितं नाप्यनेकचित्तपरिकल्पितं किन्तु स्वप्रतिष्ठम्। कथं, वस्तुसाम्ये चित्तभेदात्। धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि सखज्ञानं भवत्यधर्मापेक्षं तत एव दुःखज्ञानमविद्यापेक्षं तत एव मूढज्ञानं सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानमिति। कस्य तच्चित्तेन परिकल्पितम्। न चान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः। तस्माद्वस्तुज्ञानयोर्ग्राह्यग्रहणभेदभिन्नयोर्विभक्तः पन्थाः। नानयोः सङ्करगन्धोऽप्यस्तीति। वार्तिकम् योग-वार्त्तिकम्

एकस्मिन्न् एव विषये चित्तान्तरवियोगे चित्तान्तरालम्बनदर्शनात्तयोश्चित्तार्थयोर्विभक्तः पृथग् एव पन्थाः स्वरूपभेदोन्नयनवर्त्म, विरुद्धधर्मद्वयरूपम् एकानेकत्वरूपम् इत्यर्थः । क्षणिकविज्ञानम् एव परेषां चित्तम् इत्यतः चित्ताद्भेदेनैव विज्ञानभेदोऽर्थेषु सिद्धैति भावः । तत्रादौ भाष्यकरोऽनुभवबलाद्हेतुं साधयति—बहुचित्तालम्बिनीभूतम् एकं वस्तु साधारणमिति । प्रत्यभिज्ञासिद्धमिति शेषः । सौत्रेऽनुमाने तर्कम् आदौ दर्शयति— तत् खलु इत्यादिना प्रतिष्ठितम् इत्यन्तेन । नैकेति । नैकमात्रीयपुरुषचित्तात्मकं तथा नानेकपुरुषीयचित्तात्मकं, अपि तु स्वप्रतिष्ठं चित्तातिरेकेणैव स्वातन्त्र्येणैव स्थितम् इत्यर्थः । सिद्धहेतुं योजयितुं पृच्छति—कथमिति । उत्तरं—वस्तु इति । आदाव् एकपुरुषीयचित्तकल्पितत्वानुपपत्तिम् उक्तहेतुना प्रतिपादयति—धर्मापेक्षमिति । पुरुषभेदेनैकस्मिन्न् एव योषिद्वस्तुनि धर्मनिमित्तात् सुखज्ञानं दुःखवती स्त्र्याकारवृत्तिरित्येवमादिरूपैश्चित्तभेदोऽस्ति । अतः कस्य पुरुषस्य चित्तेन तत् कल्पितं स्यात् ? न कस्यापीत्यर्थः । नन्वेवं भवत्वनेकपुरुषचित्तपरिकल्पितमिति द्वितीयपक्षः ? तत्राह—न चान्येति । नाप्यन्यपुरुषचित्तात्मकेन वस्तुनान्यस्य चित्त उपरागः सम्भवति, परस्वप्नस्य परेणाज्ञानाद् इत्यर्थः । तर्कं प्रदर्श्य सूत्रार्थं व्याचष्टे—तस्मादिति । ग्राह्यग्रहणयोर्भेदेन वैधर्म्येण भिन्नयोरित्यर्थः । ननु चित्तातिरिक्तार्थवादिनाम् अर्थस्य स्थिरत्वान् निरन्तरम् एव कथं ज्ञानं न भवति, कथं वा एक एवार्थः स्वप्नादिभेदभिन्नासु वृत्तिषु हेतुः स्यात् ? साङ्ख्यपक्षे पुनर्वस्तु त्रिगुणं चलं च गुणवृत्तमिति धर्मादिनिमित्तापेक्षं चित्तैरभिसम्बध्यते। निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनाऽऽत्मना हेतुर्भवति। केचिदाहुः – ज्ञानसहभूरेवार्थो भोग्यत्वात्सुखादिवदिति। त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु वस्तुरूपमेवापह्नुवते ॥ १५ ॥ वार्तिकम् योग-वार्त्तिकम्

न ह्य् अविलक्षणात् कार्यभेदो घटत इत्याशङ्कायाम् आह—साङ्ख्यपक्षे इति । साङ्ख्यानुसारिमते सुखदुःखमोहात्मकं भवति वस्तु चित्तं चलस्वभावम् अतो धर्मादिनिमित्तवशात् सुखाद्यर्थम् एव चित्तैः वस्तु सम्बध्यते इति न सर्वदा ज्ञानम् । तथा धर्मादिनिमित्तानुरूपं सुखाद्यात्मकप्रत्ययं प्रति सुखाद्यात्मकत्वेनैव वस्तुहेतुर् भवतीति कारणतावच्छेदकभेदान् न द्वितीयोऽपि दोष इत्यर्थः । ततश्चाननुभूयमानतया न मोक्षसिद्धिरिति भावः । त्र प्रत्युत्तरं सूत्रमिदम् ॥ १५ ॥ न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ १६ ॥ एकचित्ततन्त्रं चेद्वस्तु स्यात्तदा चित्ते व्यग्रे निरुद्धे वाऽस्वरूपमेव तेनापरामृष्टमन्यस्याविषयीभूतमप्रमाणकमगृहीतस्वभावकं केनचित्तदानीं किं तत्स्यात्। सम्बध्यमानं च पुनश्चित्तेन कुत उत्पद्येत। ये चास्यानुपस्थिताभागास्ते चास्यन स्युरेवं नास्ति पृष्ठमित्युदरमपि न गृह्येत। तस्मात्स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते। तयोः सम्बन्धादुपलब्धिः पुरुषस्य भोग इति ॥ १६ ॥ वार्तिकम् योग-वार्त्तिकम्

वृत्त्याख्यज्ञानातिरिक्तं तेषां चित्तं नास्तीति ज्ञानम् एवात्र चित्तं, तत् तन्त्रं तत् नियतम् । तथा च नापि वस्तु एकज्ञाननियतमिति प्रतिज्ञा, तत्र हेतुः—तद् इत्यादि । तदा तर्हि तच्चित्तप्रमाणकं वस्तु किं स्यात्, चित्तापाये कुत्र विलीयेत ? न कुत्रापीत्य् अतो वस्तु स्थिरमिति शेषः । अयं भावः—यदि चित्तस्य कारणे विलीयत इत्युच्यते, तदा घटादिरूपार्थानां लाघवाच्चित्ताभेदापत्त्या विज्ञानवादिमत एव प्रवेशः, तच्च दूषितम् । यदि च मृदादिषूच्येत, तदा विनाशकारणाकाङ्क्षायां परिपृष्ठस्य मुद्गरपातादेरेव नाशकारणत्वेन चित्तनाशसमकालं घटादिवस्तुनाशानुपपत्तिरिति । हेतुपदस्येमम् एवार्थं भाष्यकार आह—एकेति । एकचित्तनियतं चेद् वस्तु स्यात्, तदा तच्चित्ते विषयान्तरसञ्चारिणि निरुद्धे वा सति अस्वरूपम् एव तद् वस्तु, अतः तदानीं तत् किं स्यात् ? शेषम् अस्वरूपत्वे हेतुः । तत्प्रमाणकम् इत्यस्य विवरणं—केनचिद् अगृहीतस्वभावकमिति । स्वयम् अधिकं पूरयति—सम्बध्यमानं चैति । चित्तेन समकालभावित्वात् कुत उत्पद्येत ? न कुतोऽपीत्य् अर्थः । पूर्ववद् अयं भावः—यदि चित्तस्य कारणाद् एवोत्पत्तिरुच्यते, तदा चित्ताभेद एव स्यात् । यदि च बाह्यकारणात्, भेदाच् चित्तव्यभिचार्यपि स्यात्, स्वतन्त्रकारणेनोत्पादनात्, परिदृष्टानां दण्डचक्रादीनाम् एव कारणौचित्येन चित्तव्यभिचारसिद्धश्चेति । बाधकान्तरमाह—ये चास्यैति । अस्यार्थस्य गृह्यमाणस्यापर्तीयमाना ये च पृष्ठाद्यंशास्तेऽप्य् अप्रामाणिकत्वाद् असन्तः स्युः । एवं च पृष्ठादिव्याप्ततया पृष्ठाद्यभावेनोदराभावसिद्धेरिति भावः । परमतम् अपाकृत्य स्वमतम् उपपन्नतयोपसंहरति—तस्मादिति । उभयत्र स्वतन्त्रशब्दोऽन्योन्यनैरपेक्ष्यबोधनाय । भोग इति । वियोगाच्चानुपलब्धिर् मोक्षैति शेषः । चित्ततदर्थयोर्विवेकप्रकारो दर्शितः । इदानीं ज्ञातविषयत्वसदाज्ञातविषयत्वाभ्यां चित्तात्मनोर्विवेकप्रकार्माह सूत्राभ्याम् । अस्यैव च मोक्षहेतुज्ञानविषयस्य विवेकस्योपोद्घातसङ्गत्या कार्यकारणयोश्चित्तार्थयोश्च विवेकः पूर्वं दर्शितः यावद्धि कार्यभिन्नं कारणं न सिद्ध्याति न तावद्वृत्तिकारणतया चित्तं स्थिरं सिध्यति येन ज्ञाताज्ञातविषयत्वं चित्तस्य स्यात् यावद्वा चित्तार्थयोर्भेतोऽपि न सिद्ध्यति न तावदपि चित्तस्य ज्ञाताज्ञातविषयत्वं सिध्यति ततः कुतो ज्ञाताज्ञातविषयत्वसदाज्ञातविषयत्वाभ्यां चित्तात्मनोर्विवेक इति भावः ॥ १६ ॥ तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७ ॥ अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तमभिसम्बन्ध्योपरञ्जयन्ति। येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातस्ततोऽन्यः पुनरज्ञातः। वस्तुनो ज्ञाताज्ञातस्वरूपत्वात्परिणामि चित्तम् ॥ १७ ॥ वार्तिकम् योग-वार्त्तिकम्

चित्तस्य कालभेदेन ज्ञातम् अज्ञातम् च वसु भवति । कुतः ? अर्थाकारतारूपोपरागसापेक्षत्वात् । अर्थज्ञान इति शेषः । अतो ज्ञाताज्ञातविषयतया चित्तं परिणाम्यपीति भावः । नन्वर्थाकारतातिरिक्तं किं बुद्धेर्ज्ञानम् अस्ति यत्र तस्या अपेक्षोच्यत इति चेत् ? न, भूतप्रकाशवत् सत्त्वस्यापि कश्चन प्रकाशोऽस्ति सुषुप्त्यादिव्यावृत्तोऽनुभवसिद्धः । तस्यैवान्याकारावच्छिन्नस्य बुद्धिधर्मज्ञानत्वाद् इति । उपरागकारणप्रदर्शनपूर्वकं सूत्रं व्याचष्टे—अयस्कान्त इति । अयस्कान्तमणिवद् अक्रिया एव विषयाः । अयोवत् क्रियाशीलं चित्तं स्वमहिम्नाकृष्य स्वस्मिन् संयोज्य तदुपरञ्जयन्ति, स्वाकारैराकारयन्तीति लाक्षारस इव वस्त्रम् । अतो येन विषयेणोपरक्तं तच्चित्तं स विषयस्तस्य ज्ञातित्यर्थः । इतरे चाज्ञाता इत्यर्थः । यद्यपि चित्तस्य जडत्वान् न ज्ञानं चैतन्यस्यैव ज्ञानत्वात्, तस्य च पुरुषेयत्वात्, उभयत्र ज्ञानकल्पने गौरवात् । सत्त्वस्य प्रकाशरूपता च प्रतिबिम्बग्रहणक्षमनैर्मल्यमात्रं, तथापि तप्तायोवद् व्यवहारतो बुद्धिसत्त्वप्रकाशोऽपि ज्ञानशब्देनोक्तः । सूत्रतात्पर्यविषयं पुरुषाद् वैधर्म्यान्तरं हेयताया विवेकस्य च दर्शयति—वस्तुन इति । अतो ज्ञाताज्ञातवस्तुकत्वान्यथानुपपत्त्या चित्तस्योपरागाख्यपरिणामः सिद्ध इत्यर्थः । घटादीनामपि साक्षात्पुरुषविषयत्वे पुरुषस्यापि ज्ञाताज्ञातविषयत्वं स्यादित्याशयेन पूरयित्वोत्तरसूत्रमुत्थापयति ॥ १७ ॥ यस्य तु तदेव चित्तं विषयस्तस्य – वार्तिकम् योग-वार्त्तिकम्

यस्य त्विति । सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १८ ॥ यदि चित्तवत्प्रभुरपि पुरुषः परिणमेत्ततस्तद्विषयाश्चित्तवृत्तयः शब्दादिविषयवज्ज्ञाताज्ञाताः स्युः। सदाज्ञातत्वं तु मनसस्तत्प्रभोः पुरुषस्यापरिणामित्वमनुमापयति ॥ १८ ॥ वार्तिकम् योग-वार्त्तिकम्

यस्य तु तद् एव विषयोपरक्तम् एव चित्तं विषयो नान्यत्, अतः तस्य तत्प्रभोश्चित्तसाक्षिणः पुरुषस्य विषयाश्चित्तवृत्तयः सदा ज्ञाताः, पुरुषस्यापरिणामाद् इत्यर्थः । परिणामित्वे हि कदाचित् पुरुषस्यान्द्यापत्त्या विद्यमानापि चित्तवृत्तिर्न ज्ञायते, तदा च तस्यापि ज्ञाताज्ञातोभयरूपत्वे अहं सुखी न वा, दुःखी न वेच्छामि न वेत्यादिसंशयः स्यात् । एतादृशश् च संशयो न दृश्यते । अतो वृत्तेरज्ञातसत्ता नास्ति, ततश्च पुरुषोऽपरिणामीत्यायातम् । ननु पुरुषस्यापरिणामित्वस्य व्यवस्थापने किम् इति साङ्ख्ययोगयोराग्रह इति चेत् ? शृणु, यदि हि पुरुषस्य ज्ञानादिलक्षणधर्मः कश्चन मोक्षे नश्येत्, तदा व्यवदोषेण दारिद्र्यवन् मोक्षो न परमपुरुषार्थः स्यादिति । अस्मिन् सूत्रे बुद्धिवृत्तिरेव पुरुषस्य विषय इति लब्धम् । अत एव—पुरुषो विषयी नित्यं सत्त्वं च विषयः स्मृतःइत्यनुगीतायां नित्यमित्यनेन सत्त्वाख्याया बुद्धिवृत्तेरेव पुरुषविषयत्वम् उक्तम् । सूत्रतात्पर्यविषयं चित्ताद्वैधर्म्यं भाष्यकार आह—यदि इति । भाष्यं सुगमम् । ननु यदि चित्तम् एव पुरुषस्य विषयः, तर्हि शब्दादिप्रकाशः कथं स्यात् ? चित्तस्याचेतनत्वेन विषयतामात्रेण प्रकाशासम्भवाद् इति चेत् ? न, चित्तारूढतयैव शब्दादीनां पुरुषे भावाद् इति । ननु सर्वसम्बद्धत्वाविशेषेऽपि चित्तम् एव पुरुषस्य विषयो नान्य इत्यत्र का युक्तिरिति चेत् ? शृणु, अर्थाकारतैव विषयविषयिभावो न तु संयोगमात्रम् । अतीन्द्रियेषु संयोगसत्त्वेऽपि चित्तविषयत्वाभावात् । सा चार्थाकारता प्रतिबिम्बरूपैव पुरुषे स्वीकार्या, स्वतोऽपरिणामित्वस्य साधितत्वात् । अतः पुरुषे प्रतिबिम्बसमर्पणसामर्थ्यं वृत्तिमत् स्वचित्तस्यैव फलबलात् कल्प्यते, यथा जलादौ प्रतिबिम्बनसामर्थ्यं रूपवत् स्थूलद्रव्यस्य इवेति । तदेताभ्यां सूत्राभ्यां चित्तविधर्मतया चित्तातिर्क्तो मोक्षार्थपुरुषः प्रतिपादितः । आभ्यां च सूत्राभ्याम् अज्ञानम् इच्छादिविकारजातं च चित्तनिष्ठम् एव, न तु पुरुषनिष्ठम् इत्यवगन्तव्यम् । ननु पुरुषस्य सदाज्ञातविषयत्वेन ज्ञानपरिणामो मास्तु, इच्छासुखादिपरिणामे तु किं बाधकम् इति चेत् ? शृणु, पुरुषस्य सदाज्ञातविषयत्वे सिद्धे लाघवाच् चित्तप्रकाशस्वरूपम् एकैकम् एवात्मद्रव्यं सिध्यति । ततश्चाज्ञानस्य चित्तधर्मतयाऽज्ञानकार्यं धर्मादिकं तत्कार्यं चेच्छासुखादिकम् अपि चित्तस्यैव समानाधिकरण्यप्रत्यासत्तौ लाघवाद् इति भावः । चित्तस्यैव स्वग्राहकतया सदाज्ञातविषयकत्वं चित्तभोक्तुरसिद्धमित्याशङ्कानिरासकं सूत्रान्तरमवतारयति । स्यादाशङ्कति । वैनाशिकानां चित्तात्मवादिनामिति शेषः । चित्तमेव स्वस्य विषयस्य च प्रकाशकमग्निवद्मविषयतिकृतमपरिणामिनान्येनेत्याशङ्कावैनाशिकानां स्यादित्यर्थः । अत्राग्निचित्तयोः साधारणं प्रकाशकत्वम् अखण्डोपाधिः प्रकाश इति व्यवहारहेतुः स्वभासतारूपसाध्ये प्रवेशनीयः । तेनाग्निचेतनयोरेकरूपप्रकाशाभावेपि न क्षतिः । तथा च श्रुतिस्मृत्योरपि आत्मनि नाग्न्यादित्यादिदृष्टान्तानुपपत्तिरिति तामिमामाशङ्कां सूत्रेण परिहरति ॥ १८ ॥ स्यादाशङ्का चित्तमेव स्वाभासं विषयाभासं च भविष्यतीत्यग्निवत् – न तत्स्वाभासं दृश्यत्वात् ॥ १९ ॥ यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान्न स्वाभासानि तथा मनोऽपि प्रत्येतव्यम्। वार्तिकम् योग-वार्त्तिकम्

व्याचष्ट—यथेतराणि इति । अन्तःकरणस्य क्याच्चित्तम् एव मन इत्युक्तवान् । अत्रायं प्रयोगः—चित्तं न स्वाभासं स्वगोचरवृत्त्यभावकाले न स्वप्रकाश्यं दृश्यत्वात् इन्द्रियशब्दादिवद् इति । तथा च स्वगोचरवृत्त्यभावकाले चित्तभानार्थं पुरुषः सिद्ध्यतीति भावः । वृत्तिभानार्थं न्यमेन वृत्तिकल्पने चानवस्थां सूत्रकार एव वक्ष्यति । स्वप्रकाश्यत्वं च पुरुषे प्रसिद्धम् । पुरुषस्य स्वज्ञेयतायाः प्रागुउक्तत्वेन व्यभिचारः स्याद् अतः साध्ये काल इत्यन्तम् । अग्न्यादौ च स्वभासत्वम् एव नास्तीति वक्ष्यति । अतो न तत्रापि व्यभिचारः । दृष्टान्ते च सर्वदैव स्वप्रकाश्यत्वाभावोऽस्तीति । अत्र च कर्मकर्तृविरोधो विपक्षबाधकस् तर्कः । कर्मकर्तृविरोधे च स्वस्मिन् स्वसंयोगानुपपत्तिस् तर्कः । तथा च वक्ष्यति—प्रकाशश्चायं प्रकाश्यप्रकाशकसंयोगेइति । दृष्टोन स्वरूपेऽस्ति संयोगैति । तथा परसमवेतक्रियाफलभागित्वं रूपकर्मत्वं न क्रियाश्रये कर्तरि सम्भवतीति । आधुनिकवेदान्तिब्रुवास्तु चित्तादिकं न द्रष्टृदृश्यत्वाद् इत्येवं प्रयुञ्जते । पुरुषस्तु कर्मकर्तृविरोधाद्दृश्य एव न भवति । पुरुषगोचरस्तु व्यवहारः पुरुषसतैव पुरुषेण भवति, प्रकाशगोचरव्यवहारे प्रकाशान्तरानपेक्षादर्शनाद् इत्याहुः । तन् न चित्तवृत्ताव् अप्येवं परैर्दृश्यत्वस्य सुवचतया चित्तारिक्तपुरुषसिद्ध्यअनुपपत्तेः । वृत्तिगोचरव्यवहारस्यापि स्वरूपसत्त्या वृत्त्यैव वक्तुं शक्यत्वात् । प्रकाशगोचरव्यवहारमात्रे प्रकाशानपेक्षेत्य् एव हि दृष्टम् । तत्र चित्तं वा पुरुषो वेति न कश्चन विशेषः । अपि च स्वप्रकाशं निरञ्जनम् इत्यादि श्रुतिस्मृत्युक्तं स्वप्रकाशत्वम् अप्यदृश्यत्वे सति पुरुषस्य यथाश्रुतं नोपपद्येत, यौगिकार्थत्यागात् । किं च, पुरुषनिष्ठफलाजनकत्वेनात्मतत्त्वाकारा चित्तवृत्तिः प्रमाणम् एव न स्याद् इत्यादिदोषप्रसक्तिरि । कर्मकर्तृविरोधस्तु पुरुषस्य शेयत्वेऽपि नास्ति चेतनप्रतिबिम्बितबुद्धिवृत्तिव्याप्यत्वरूपस्यैव ज्ञेयत्वस्य परादिवद् एव बुद्धिवृत्त्यारूढरूपो दृश्यो दर्पणारूढमुखवत् । केवलस्य द्रष्टेति प्रकारभेदात् कथं कर्मकर्तृविरोध इति दिक् । कर्मकर्तृविरोधस्तु बौद्धमत एव भवति, चित्तातिरिक्तद्रष्ट्रनभ्युपगमेन करणान्तरानभ्युपगमेन न द्रष्टरि साक्षाद् एव स्वप्रतिबिम्बादेर् अनुपपत्तिरिति । न चाग्निरत्र दृष्टान्तः। न ह्यग्निरात्मस्वरूपमप्रकाशं प्रकाशयति। प्रकाशश्चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः। न च स्वरूपमात्रेऽस्ति संयोगः। किं च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः। तद्यथा स्वात्मप्रतिष्ठमाकाशं न परप्रतिष्ठमित्यर्थः। स्वबुद्धिप्रचारप्रतिसंवेदनात्सत्त्वानां प्रवृत्तिर्दृश्यते – क्रुद्धोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति। एतत्स्वबुद्धेरग्रहणे न युक्तमिति ॥ १९ ॥ वार्तिकम् योग-वार्त्तिकम्

चित्तस्य स्वाभासत्वेऽग्निवद् इति परोक्तदृष्टान्तस्यासिद्धिम् आह—न चाग्निरत्रैति । अत्र स्वाभासत्वे । न ह्यग्निरिति । यद्यग्निः पूर्वं तमसा पिहितः पश्चाद् आत्मानं प्रकाश्यतीति क्वचिद् दृष्टं स्यात् तदाग्नेः स्वप्रकाश्यत्वं पुरुषस्येव सिद्ध्येत्,तद् एव तु नास्तीत्यर्थः । ननु पुरुषोऽपि प्रकाशस्वरूप एव सर्वदा, तमस् तु बुद्धिवृत्तेरेव प्रतिबन्धकम् इति चेत् ? सत्यम्—तथापि बुद्धिवृत्त्याख्यकरणाभावकाले सात्मना अविषयीकृत्य करणकाले विषयीकरोतीत्य् अयम् अग्नितो विशेषोऽस्त्य् एवातः प्रकाशस्वरूपतादिसाम्येऽपि पुरुषह् स्वप्रकाश्यो नाग्निरिइति । न केवलं प्रमाणाभावाद् एवाग्नेः स्वप्रकाश्यत्वाभावोऽपि तु प्रकाश्यत्वव्यवहारकारणाभावाद् अपीत्या—प्रकाशश्चायम् इति । प्रकाशोऽत्र प्रकाश्यत्वव्यवहारोऽन्यथा प्रकाशसंयोगस्यैव प्रकाश्यत्वरूपतया तस्य संयोगजन्यत्वानुपपत्तेरिति । संयोगे प्रतिबिम्बसाधारणसम्बन्धो यदि चाग्नौ साक्षाद् एव स्वप्रतिबिम्बादिरिष्यते, तदा दृष्टविरोध इति भावः । अग्नेः स्वप्रकाशत्वं तु प्रकाशान्तरनैरपेक्ष्येण स्वत एव प्रकाशत्वम्, घटादयस् तु प्रकाशसम्बन्धाद् एव प्रकाशन्ते, अग्निदृष्टान्तेन चेदृशम् एव स्वप्रकाशत्वं पुरुषस्य शास्त्रेषूच्यते चित्ताद् विवेकाय । चित्तस्य हि प्रकाशः पुरुषोपाधिक एवायसो दग्धृत्ववद् इति । यत् तु अवेद्यत्वे सत्य् अपरोक्षव्यहारयोग्यत्वं स्वप्रकाशत्वम् इत्याधुनिकवेदान्तिब्रुवाणां प्रलपनं तत्प्राग् एव निराकृतं, विस्तरतस्तु ब्रह्ममीमांसायाम् अपीति दिक् । नन्व् एवम् अप्रकाश्यत्वरूपम् एव स्वाभासत्वं चित्तस्यास्माभिरभ्युपेयम्, तथा चाग्निदृष्टान्त उपपन्नः स्यात् ? तत्राह—किं चेति । शब्दार्थः स्वाभासशब्दार्थः । सम्भवतीति शेषः । एवं च सतीदं दूषणम् इत्याह—स्वबुद्धिप्रचार इत्यादिना । बुद्धेः प्रचारो वृत्तिः, तस्याः संवेदनात् क्रोधाद्यनुभवात् तद्धानाद्यर्थं सत्त्वानां प्राणिनां प्रवृत्तिर्दृश्यते । तच्च स्वबुद्ध्यग्रहणे युक्तं न भवतीति बुद्धेर्ग्राह्यत्वम् अवश्यं वक्तव्यम् इत्यर्थः । नन्वहं क्रुद्ध इत्यादिप्रत्यये पुरुषस्यापि ग्रहणात् स्वाभासत्वं न स्याद् इति चेत् ? सत्यम् । प्रग्राह्यत्वरूपस्य स्वाभासत्वस्य पुरुषेऽप्यनङ्गीकाराद् इति । यद्यप्यादौ क्रोधादीनां स्वरूपतो निर्विकल्प एव बोधः पौर्षेयो भवति, क्रुद्धोऽहम् इत्यादेस्त्वहङ्कारस्यैव व्यक्तिः । पुरुषस्याभ्रान्तत्वात् । कूतास्थतया बुद्धिवृत्त्याकारातिरिक्ताकारासम्भवाच् च । तथापि पौरुषेयेण क्रोधनिर्विकल्पेन जनिता क्रुद्धोऽहम् इति यान्तःकरणस्य विशिष्टवृत्तिस् तत्साक्षिको बोधश्च तद्ग्राह्यत्वेनैवात्र चित्तस्याग्राह्यत्वं प्रतिषिध्यते । क्रोधादीनां पौरुषेयनिर्विकल्पकस्य शब्दागोचरत्वेनोपन्यसितुम् अशक्यत्वात् । पुरुषसाधकं तु चित्तग्रहणं वृत्तिगोचरनिर्विकल्पकम् अनुमानगम्यम् एव, तस्य हि चित्तधर्मत्वं सम्भवति, नियमेन सर्ववृत्तिगोचराया जन्यनिर्विकल्पकधारायाः स्वीकारेऽनवस्थापत्तेः । अज्ञातवृत्तिस्वीकारे च क्रुद्धोऽहं न वेत्य् आदिसंशयाद्य्आपत्तेः क्रोधादिगोचरनित्यनिर्विकल्पकैकज्ञानस्वीकारे च विशिष्टप्रत्यक्षसामग्र्या बलवत्त्याः प्रतिबन्धात् संशयाद्यभावः, सम्प्रज्ञातयोगेऽपि वृत्तिः स्वरूपतो भासत एवेत्य् अभ्युपेयम् इति । चित्तस्य स्वाभासतावादिमते तन्मतालम्ब्यैवान्यदूषणमाह ॥ १९ ॥ एकसमये चोभयानवधारणम् ॥ २० ॥ न चैकस्मिन्क्षणे स्वपररूपावधारणं युक्तं, क्षणिकवादिनो यद्भवनं सैव क्रिया तदेव च कारकमित्यभ्युपगमः ॥ २० ॥ वार्तिकम् योग-वार्त्तिकम्

सूत्रार्थम् आह—न च इत्यादिना युक्तम् इत्यन्तेन । न च नाप्येकस्मिन्नुत्पत्तिक्षण एव स्वपरावधारणंयुक्तम्, पूर्वं सत एव प्रत्यक्षरगोचरत्वात्, स्वस्य च प्राग्असत्त्वाद् इत्यर्थः ।

नन्वेवं स्वोत्पत्त्यनन्तरं स्वग्रहणम् अस्तु ? तत्राह—क्षणिक इति । क्षणिकवादिमते या वस्तुन उत्पत्तिः सैव क्रिया, तस्य कार्यं सैव च तस्य कर्त्रादिकारकवर्गः, तन्मते सर्वं वस्तूत्पत्तिमात्रफलकं निर्हेतुकं स्वयम् एव भवतीति सिद्धान्तः । तथा चोक्तं—भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते इति । अत्रोत्पत्त्यननतरं चित्तस्य स्वग्रहणार्था क्रिया न सम्भवतीत्यर्थः । अस्मन्मतेऽपि शब्दबुद्धिकर्मणा विरम्य व्यापाराभावाद् एकस्या वृत्तेर्द्व्यर्थग्राहकत्वं न सम्भवतीति भावः । उत्तरसूत्रमवतारयति ॥ २० ॥ स्यान्मतिः स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति – वार्तिकम् योग-वार्त्तिकम्

स्यान्मतिरिति । मतिरभ्युपगमः । ननु स्वाभासशब्देन स्वसन्तानभास्यत्वं वक्तव्यं तथा च स्वरसेन विनाशस्वभावेन निरुद्धं नष्टमपि चित्तमुत्तरोत्तरमनुत्पन्नेन चित्तान्तरेण ग्राह्यमित्यभ्युपगमः स्यादिति कर्मकर्तृविरोधादिदोष इत्यर्थः । तत्र सिद्धान्तसूत्रम् ॥ चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ २१ ॥ अथ चित्तं चेच्चित्तान्तरेण गृह्येत बुद्धिबुद्धिः केन गृह्यते, साऽप्यन्यया साऽप्यन्ययेत्यतिप्रसङ्गः। स्मृतिसङ्करश्च, यावन्तो बुद्धिबुद्धीनामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्ति। तत्सङ्कराच्चैकस्मृत्यनवधारणं च स्यादित्येवं बुद्धिप्रतिसंवेदिनं पुरुषमपलपद्भिर्वैनाशिकैः सर्वमेवाऽऽकुलीकृतम्। ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन सङ्गच्छन्ते। केचित्तु सत्त्वमात्रमपि परिकल्प्यास्ति स सत्त्वो य एतान्पञ्च स्कन्धान्निक्षिप्यान्यांश्च प्रतिसन्दधातीत्युक्त्वा तत एव पुनस्त्रस्यन्ति। तथा स्कन्धानां महन्निर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरिष्यामीत्युक्त्वा सत्त्वस्य पुनः सत्त्वमेवापह्नुवते। साङ्ख्ययोगादयस्तु प्रवादाः स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमुपयन्तीति ॥ २१ ॥ वार्तिकम् योग-वार्त्तिकम्

वृत्तिरूपचित्तान्तरेण वृत्तिरूपचित्ते दृश्येऽभ्युपगम्यमाने तु बुद्धिबुद्धेर् वृत्तिवृत्तेरतिप्रसङ्गोऽनवस्था ।

एतद् व्याचष्टे—अथैति । बुद्धिबुद्धिश्चित्तगोचरं चित्तम्, परेषां वृत्त्यतिरिक्तचित्ताभावेन वृत्तिचित्तयोः पर्यायत्वात् । ननु नेयम् अनवस्था, सर्वम् एव चित्तं ग्रहीतव्यम् इति नियमाभावाद् इति चेत् ? वृत्तेरज्ञातसत्ताङ्गीकारे जानामि न वेत्यादिसंशयापत्तेः, योग्यानुपलब्ध्या य्नाद्यभावप्रत्यक्षानुपपत्तेश्च । किं च, मा भवत्वनवस्था, वृत्तिगोचरानन्तवृत्तिकल्पनागौरवं त्वपरिहार्यम् एव, अस्माभिर्लाघवेन सकलवृत्तिगोचरैकविभुज्ञानकल्पनादिति । एतेन चित्तनित्यत्वाभ्युपगमिनाम् अपि न्यायवैशेषिकाणाम् उत्तरोत्तरज्ञानेन पूर्वपूर्वज्ञानग्रहणकल्पना परास्ता, अनवस्थागौरवाभ्याम् इति मन्तव्यम् । अतिप्रसङ्गं व्याख्याय स्मृतिसङ्करं व्याचष्टे—स्मृतिसङ्करश्चैति । बुद्धिबुद्धेरिति शेषः । सङ्करशब्दार्थम् आह—यावन्त इति । विषयानुभवकाले ज्ञानधारा जातेति विषयस्मृतिकालेऽप्य् अनन्तानां तज्ज्ञानानां स्मृतिरेकदैव भविष्यति, घटो मया पुरा ज्ञातो घटज्ञानं तज्ज्ञानं चेत्येवम् अनन्ताकारः, सोऽयं स्मृतिसङ्करः प्राप्त इत्यर्थः । अस्मन्मते च पौरुषेयबोधस्य नित्यतया निर्विकल्पमात्रतया च न स्मृतिहेतुअत्वम् इति । नन्वेतादृशसङ्करे को दोष इति ? तत्राह—तत्सङ्कराच्च ति । सङ्कराभ्युपगमे च घटो मया ज्ञात इत्येकमात्राकारस्मृत्यनुभवो न स्याद् इत्यर्थः । अन्यान्यापि दूषणानि सूत्रयन् नास्तिकमतं तिरस्करोति—एवं बुद्धि इति । सर्वं बन्धमोक्षधर्माधर्मादिव्यवस्थादिकम् । तद् एवं चित्ताद् विविच्य मोक्षो व्यवस्थापितः, चित्तस्य च स्वाभासत्वं निराकृतम् । इदानीं परेषाम् इष्टोक्तात्मतत्त्वावधारणस्य स्वाभ्युपगमविरोधेनाप्यन्याय्यताम् आह—ते तु इति । न न्यायेन सङ्गच्छन्ते न्यायविरुद्धा इत्यर्थः । तेषां विज्ञानवादः शून्यवादश् चेति मुख्यं मतद्वयम् । तत्रादौ विज्ञानवादिनां क्षणिकताख्यस्वाभ्युपगमविरोधान् न्यायविरुद्धाद् भयं दर्शयति—केचिदिति । सत्त्वमात्रम् क्षणिकविज्ञानरूपं चित्तमात्रं परिकल्प्य स्वीकृत्य तस्यैव मोक्षं वदन्ति । अस्ति स सत्त्वविशेषो य एतान् सांसारिकान् पञ्च स्कन्धान् हित्वा अन्यांश् च पञ्चस्कन्धान् युक्तोऽनुभवतीति । ततश्च तत एव स्वाभ्युपगमात् पुनस्त्रस्यन्ति चित्तस्थैर्यापत्त्येत्य् अर्थः । अतो न्यायविरुद्धास् त इति । पञ्चस्कन्धाश् च विज्ञानवेदनासञ्ज्ञारूपसंस्काराख्याश् चित्तस्यैव शाखाभेदा न तु चित्ताद्भिन्नाः । तत्र विज्ञानं विषयानुभवः, वेदना दुःखं, सञ्ज्ञारूपे शब्दार्थाव् इति यावत्, संस्कारो वासना । एतेष्वेषाम् अपि मुखादीनां प्रवेश इत्यखिलं वस्तु चित्तम् एवेति । शून्यवादेऽप्य् आह—तथेति । तथान्ये स्कन्धानां महानिर्वेदाय महानिर्वेदाख्यवैराग्यायापुनर्जन्मरूपप्रशान्तये च जीवन्मुक्तस्य गुरोरन्तिकेब्रह्मचर्यं ब्रह्माभ्यासं साक्षात्कारपर्यन्तं करिष्यामीत्य् उक्त्वा शिष्यताम् आपन्ना नास्तिका गुरूपदेशात् सत्त्वस्याहंशब्दार्थस्यापि सत्ताम् अपलपन्ति शून्यवादिनो भवन्तीत्यर्थः । तेऽपि न्यायविरुद्धाः, भोक्तुः सत्त्वस्यापलापेन स्वामिप्रेतस्य मोक्षस्याहंशब्दार्थस्य ब्रह्मचर्यादीनां सत्तास्वीकारात् । सेयम् उद्देश्यविस्मृतिः कथं मूढान् न लज्जयतीति ?एतेनाधुनिकवेदान्तिब्रुवा अपि न्यायविरुद्धा मन्तव्याः । तेऽपि हि मोक्षाद्यर्थं गुरुम् उपसन्ना ब्रह्मातिरिक्तं सर्वं शुक्तिरजतवद् अत्यन्ततुच्छम् इति गुरूपदेशान् मोक्षतत्साधनादिकम् एवापलपन्तीति । अपि चोपदेशानन्तरम् अकृतसाक्षात्कारस्य मननादिसाधनाद्यनुष्ठानाभ्युपगमोऽपि तेषां न न्याय्यः, असतोपदेशेन फलतत्साधनेषु सर्वेष्वेवाविश्वासात्, अश्रद्धया कृतेनापि फलानुदयाच्च । किं बहुना, श्रुत्यादिप्रामाण्यबाधनेन ज्ञानप्रामाण्यसंशयाद्याहितः संशया योगान्तेऽपि ब्रह्मणि स्यात् । न च स्वप्रकाशतया ब्रह्मणि न प्रमाणापेक्षेति वाच्यम्, प्रकाशतस् तस्य तत्सिद्धौ कर्मकर्तृविरोधाद् इति साङ्ख्यसूत्रोक्तदोषात्, स्वाभ्युपगतश्रवणादिवैयर्थापत्तेश् च, मोक्षसाधनविषयस्य विवेकस्यास्वप्रकाशत्वाच् च । यत् तु अवेद्यत्वेऽपि प्रत्यक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वम् इति प्रलपनं, तत् शशशृङ्गवत् मन्तव्यम्, वेदनस्य व्यवहारं प्रति सामानाधिकरण्येन हेतुत्वात्, द्रष्टव्यत्वादिश्रुतिविरोधात् चेति । सैषातिनास्तिकता दृश्यतेऽपि बहिर्मुखानां यतिमानिनाम् इति । आधुनिकानां वेदान्ते विवर्तवादो यथा यथा विचार्यते, तथा तथा न्यायविरोधेन सिकतासेतुवद् विशीर्यते । स्वमते तु नास्य् अयं न्यायविरोधः, मोक्षभागिनो अयं शब्दार्थस्य भोक्तुः स्थिरस्य स्वीकाराद् इत्याह—साङ्ख्ययोगादयस्तु इति । आदिशब्देन ब्रह्ममीमांसादयो ग्राह्याः । प्रकृष्टा वादाः प्रवादाः, स्वशब्देन अहंस्वम्आत्मेत्य्आदिशब्दजातेन न त्व् अन्यः । कथम् अन्यस्यात्माहम् इत्यादि वृत्तिगोचरः स्यात् ? तत्राह—चित्तस्य स्वामिनमिति । स्वामी ह्यात्मा लोके व्यवह्रियते, यच् चाप्नोति यद् आदत्तइत्यादिशास्त्रे चेति । अपरिणामिनि यथेष्टविनियोक्तृत्वाभावात् कथं स्वामित्वम् ? तत्राह—भोक्तारमिति । अत्र च स्वतोऽपि पुरुषस्य भोगोऽस्तीत्य् अवधारणीयं, प्रकृतोपपत्तये चित्तस्य स्वाभासत्वं निराकृतम् । इदानीं सदाज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुष,यापरिणामादिति सूत्रस्योपपादकं सूत्रमेतेनैव प्रसङ्गेनोत्थापयति ॥ २१ ॥ कथम् – वार्तिकम् योग-वार्त्तिकम्

कथिमिति । नन्वपरिणामित्वे विषये सञ्चाराभावत्तदाकारपरिणामाभावाच्च कथं चित्तज्ञातृत्वरूपं चित्तभोक्तृत्वं पुरुषस्य स्यात् । चित्तस्थने हि घटादिविषयग्रहणं चित्तस्य सञ्चारात्तदाकारपरिणामाच्च दृष्टमित्यर्थः । तत्र सिद्धान्तसूत्रम् । चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ २२ ॥ अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङ्क्रमा च परिणामिन्यर्थे प्रतिसङ्क्रान्तेव तद्वृत्तिमनुपतति। तस्याश्च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तेरनुकारिमात्रतया वुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिराख्यायते। तथा चोक्तम् – न पातालं न च विवरं गिरीणां नैवान्धकारं कुक्षयो नोदधीनाम्। गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिमविशिष्टां कवयो वेदयन्ते ॥ इति ॥ २२ ॥ वार्तिकम् योग-वार्त्तिकम्

अप्रतिसञ्चाराया अपि चित्तेः स्वीयबुद्धिवृत्तिदर्शनं बुद्धिवृत्त्याकारतापत्त्यैव भवतीत्यर्थः । अयं भावः ज्ञातुः सञ्चारो न साक्षाद् एव ज्ञाने हेतुः किं त्वर्थाकारता हेतुः सन्निकर्षद्वारा, अन्यथा स्वप्नादौ मनःसञ्चाराभावेनार्थभानायोगात् । अतो विभुत्वेनैव सर्वत्र सन्निकृष्टस्यात्मनः सञ्चारो नापेक्ष्यत इति । आपत्तिग्रहणं च पुरुषस्य पारमार्थिकाकारप्रतिषेधार्थम् । यथा हि विषयासन्निकर्षकालेऽपि स्वप्नादौ तद्भानायागत्या चित्तस्य तद्आकारः परिणाम इष्यते नैवं पुरुषस्य चित्तवृत्त्य्अभावेऽपि तद्भानं भवति येन पुरुषेऽपि वृत्त्य्आकारः परिणाम इष्यते, किं तु स्फटिके सन्निकृष्टजपालौहित्यस्येव चित्तवृत्तेः प्रतिबिम्बम् एव लाघवाद् इष्यते । उभयत्राकाराख्यपरिणामकल्पने गौरवात्, स्फटिकदर्पणादेः स्वप्रतिबिम्बितवस्तुप्प्रकाशकत्वस्य सिद्धत्वाच् चेति । तद् इदं वृत्तिप्रतिबिम्बितम् एव वृत्त्य्आकारापत्तिरिइत्युक्तं सूत्रकारेणेति । भाष्यकारः पुरुषस्य बुद्ध्याकारतां प्रतिपादयितुम् आदौ बुद्धेरेव रूपम् आह—अपरिणामिनी इति । भोक्तृशक्तिः पुरुषाख्यापरिणामिनी । अतो नापि गतिमती । ततो न स्वप्नजाग्रतोश् चित्तस्येव पुरुषस्य ज्ञानं सम्भवति, किं तु वृत्तिसरूपपरिणामिन्य्अर्थे चितिः प्रतिसङ्क्रान्तेव प्रतिबिम्बरूपेण सञ्चरितेव सती तद्वृत्तिम् अनुपतति तद्वृत्तिं चेतनवत् करोतीत्य् अर्थः । अन्यथा हि घटम् अहं जानामीति बुद्धिवृत्त्य्अनुपपत्तिः । बुद्धेरनर्हत्वाद् अचेतनत्वाच् चेत्युत्तरसूत्रे वक्ष्यति । अथाविवेकाद् एवैतादृशी बुद्धिवृत्तिरिति चेत् ? सत्यम्—तथाप्यविवेक एव प्रतिबिम्बमूलको दोषान्तराभावात् । तथा चेतनभानार्थम् अपि वृत्तौ तत्प्रतिबिम्बः कल्प्यते, बुद्ध्यारूढतयैव शब्दादिवद् आत्मनोऽपि भानादिति । इदम् एव प्रतिबिम्बं बुद्धेश्चिच्छायापत्तिरित्युच्यते, तथा बुद्धेरर्थाकारतावत् आत्माकारतेत्यप्युच्यत इति मन्तव्यम् । यद्यपि घटाद्याकारपरिणामवद् आत्माकारपरिणाम एव बुद्धेर्भवति, तथापि प्रतिबिम्बतुल्यतया स एव प्रतिबिम्बम् अप्य् उच्यते । बुद्धे रूपं प्रदर्श्य पुरुषस्य तद्आकारतापत्तिं दर्शयति—तस्याश्चैति । हिशब्दोऽत्रावधारणे । तस्या अपि चित्तेर्ज्ञानरूपा वृत्तिर्बुद्धिवृत्त्य्अविशिष्टैवेत्याख्यायते व्यवह्रियते । तत्र हेतुः— प्राप्त इत्यादि । प्राप्तेश्चैतन्योपग्रहश्चैतन्यप्रतिबिम्बं येनैतादृशं रूपं यस्या बुद्धिवृत्तेस्तदनुकारिमात्रतया तत्प्रतिबिम्बाधारतामात्रेणेत्यर्थः । द्रष्टा दृशिमात्र इति सूत्रेऽपीदम् एव वाक्यं भाष्यकारैः प्रमाणत्वेनोपन्यस्तम् । वृत्तिसारूप्युतिरत्र इत्यत्राप्येतदुक्तम् इति स्मर्तव्यम् । ननु जानाम्यहं क्रुद्धोऽहं भीतोऽहम् इत्यादिरूपता वृत्तेरेवेति प्रागेवोक्तम् । तर्हि निर्विकल्पकस्य वृत्तिबोधस्य स्वरूपं कीदृशम् इति ? उच्यते—यादृशं ज्ञानक्रोधादिवृत्तीनां रूपं तादृशम् एव, बिम्बप्रतिबिम्बोद्ग्रहणात् तदेव वृत्तिबोधस्य रूपम्, स च वृत्तिबोधो वृत्त्यविवेकेन जानामीति वृत्त्यन्तरस्य विषय एव भवति, ज्ञानचितिबोधादिशब्दानां पर्यायत्वाद् इति । एकाकारतापत्ताव् आगमम् अपि प्रमाणयति—तथा चोक्तमिति । न पातालम् इत्यादेरयम् अर्थः— इत्यादिश्रुतिस्मृतिषु यस्यां गुहायां गुह्यं शाश्वतं ब्रह्मांशांश्यभेदाद् आत्मसामान्यं निहितं सुगुप्तम् इति गीयते, सा गुहान पातालादि किं तु ब्रह्मवृत्त्य्अविशिष्टां बुद्धिवृत्तिम् एव कवयः पण्डिताः पश्यन्तीति । अविशिष्टता च परस्परं प्रतिबिम्बनाद् उभयोरेव विषयाकारत्वं चेतनसाम्यम् इत्युक्तम् । अतो विविच्य ग्रहणायोग्यतयावस्थितिर् एवात्मनः सङ्गोपनं बुद्धावि इति श्लोकतात्पर्यार्थः । तदेतद् एकाकारत्वम् आदित्यपुराणेऽप्युक्तम्—

नित्यः सर्वगतो ह्यात्मा बुद्धिसन्निधिसत्तया । यथा यथा भवेद्बुद्धिरात्मा तद्वदिहेष्यते ॥

इति ॥ ननु भवति चित्तेः स्वबुद्धिसंवेदनं शब्दादिसंवेदनं तु कथं भवेत् बुद्धिवच्छब्दादीनामपि चित्तौ प्रतिबिम्बनसामर्थ्याङ्कीकारे सर्वदैव सर्वार्थमानप्रसङ्गात् । कथं वा चित्तेः स्वसंवेदनम् । उक्ता ह्यनवस्था चित्तवत् पुरुषेपि समानेत्याशङ्कनिरासायोत्तरसूत्रं प्रवृत्तिरिष्यते तत्सूत्रं भाष्यकारः प्रकारान्तरेणाद्यत्थापयति ॥ २२ ॥ अतश्चैतदभ्युपगम्यते – वार्तिकम् योग-वार्त्तिकम्

अतश्चेति । अतो बुद्धिपुरुषयोर्वेद्यवेत्तभावाच्च तदन्यथानुपपत्तेश्चेति यावत् । एतत् आगामिसूत्रप्रतिपाद्यम् । अङ्गीक्रियतइत्यर्थः । चकारोस्मदुक्तप्रयोजनसमुच्चयार्थः । द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥ मनो हि मन्तव्येनार्थेनोपरक्तं, तत्स्वयं च विषयत्वाद्विषयिणा पुरुषेणाऽऽत्मीयया वृत्त्याऽभिसम्बद्धं, तदेतच्चित्तमेव द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते। वार्तिकम् योग-वार्त्तिकम्

सर्वे ग्रहीतृग्रहणग्राह्याःपुरुषस्यार्थाभ्योग्या अस्मिन्निति सर्वार्थम् । अयं घट इत्यनन्तरं घटमहं जानामीति बुद्धेर्वृत्यन्तरस्य ग्रहीतृग्रहणग्राह्याकारस्यायं घट इतिवृत्तिवदेव साक्षिभास्यस्य प्रायशो दर्शनात् । सर्वार्थत्वे हेतुः दृष्टृदृश्योपरक्तमिति । द्रष्टृदृश्योभयाकारमित्यर्थः । बाधकं विना सन्निकृष्टवस्त्वाकारतास्वाभाव्यस्य चित्ते सर्वसम्मतत्वादिति भावः । तथा च बुद्धिसंवेदनमेव बुद्धिस्थस्य शब्दादेः स्वस्य च संवेदनं यद्धि शब्दादिपुरुषोभयाकारा बुद्धिवृत्तिः पुरुषे प्रतिबिम्बिता भासते इदमेव शब्दादेः पुरुषस्य च दृश्यत्वं बुद्धेर्दृश्यत्ववदित्यतो न पुरुषदर्शनार्थन्दृष्ट्वन्तरापेक्षा नापि कर्मकर्त्तृविरोधोऽन्तःकरणद्वारत्वादिति भावः । एतेन सर्वार्थत्वेन भाष्यकारोक्तं बुद्धिपुरुषयोरविशिष्टाकारत्वमपि सिद्धम् । बुद्धेः पुरुषाकारतातिरेकेण पुरुषवत्त्वासम्भवात् । पुरुषस्य बुद्ध्याकारतायाश्च पूर्वसूत्रेणैवोक्तत्वादिति । वेद्यत्वान्यथानुपपत्या यः सिध्यति तं बुद्धौ पुरुषोपरागं प्रतिपादयत्समग्रसूत्रं व्याचष्टे । मनो हीति । उपरक्तं तदाकारम् । अन्यथा ग्रहणानुपपक्तेः । युक्तिपूर्वकं दृष्ट्रुपरागमाह । यत्स्वयं चेति । तन्मनः स्वयमपि पुरुषस्य विषयत्वात् स्वीयचैतन्यलक्षणवृत्तिविशिष्टेन पुरुषेण विषयिणा सम्बद्धम् आकारितं सन्निकर्षस्य ग्रहणहेतुत्वात् । बुद्धिवृत्तौ च पुरुषस्यासङ्गस्य प्रतिबिम्बातिरेकेणानित्यसन्निकर्षासम्भवादिति । तस्मादेतच्चित्तमेवोभयोपरक्ततया शब्दादिविषयरूपेण विषयिपुरुषरूपेण च निर्भासते । साक्षिणि प्रतिबिम्बितं सदिति विषयविषयिनिर्भासं, तत्र हेतुः चेतनाचेतनरूपापन्नं तदाकारम् । एतदेव विवृणोति । विषयात्मकमप्यविषयात्मकमिवेति अचेतनमपि चेतनमिवेति । इवशब्दार्थं दृष्टान्तेनाह । स्फटिकमणिकल्पमिति । यथा एक एव स्फटिकमणिः पार्श्वद्वयस्थयोर्जवेन्द्रनीलयोः प्रतिबिम्बनात्स्वीयरूपेण सह त्रिरूप इव भवतीति । एवं चित्तमपि विषयात्मनोः प्रतिबिम्बनात् ग्रहीतृग्रहणग्राह्यात्मकरूपावयववदिव भवति, अतः सर्वार्थमित्युच्यतइत्यर्थः । चित्तमेवेत्येवकारेणान्येषां सन्निकर्षसत्त्वेप्याकारग्रहणसामर्थ्यं नास्तीत्युक्तम् । अत्र च स्फटिकदृष्टान्तो न सर्वांशे बुद्धेःस्वार्थाकारपरिणामस्यैव स्वप्नानुरोधेनेष्टत्वात् स्फटिके च प्रतिबिम्बमात्रस्य स्वीकारात् । किं तु तत्तद्वस्तुसन्निकर्षेण तत्तद्रूपतया प्रतीयमानतामात्रांशे स्फटिकस्य दृष्टान्त इति मन्तव्यम् । यदेतदुक्तं चित्तस्य द्रष्टृदृश्यसारूप्यम् इदमेव भवबीजाविवेकस्य कारणमिति प्रतिपादयति । तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः। अपरे चित्तमात्रमेवेदं सर्वं नास्ति खल्वयं गवादिर्घटादिश्च सकारणो लोक इति। अनुकम्पनीयास्ते। कस्मात्, अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति। समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतस्तस्याऽऽलम्बनीभूतत्वादन्यः। स चेदर्थश्चित्तमात्रं स्यात्कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत। तस्मात्प्रतिबिम्बीभूतोऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति। एवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात्त्रयमप्येतज्जातितः प्रविभजन्ते ते सम्यग्दर्शिनस्तैरधिगतः पुरुषः ॥ २३ ॥ वार्तिकम् योग-वार्त्तिकम्

तदनेनेति । केचिद्बाह्यार्थवादिनः चितातिरिक्तचेतनानभ्युपगन्तारो वैनाशिकाः । अपरे विज्ञानवादिनः । लोक्यत इति लोकः । तदुक्तं विज्ञानवादिभिः ।

अभिन्नोपि हि बुद्ध्यात्मा विपर्यासितदर्शने । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥

इति । तेषां च वादिनामयं भावः । चित्तस्य चेत्सर्वरूपता स्वीकृता तह्यलं पुरुषेण बाह्यार्थेन वा अनादिवासनावशात् स्वत एव चित्तस्यानन्तपरिणामस्वीकारसम्भवात् । दुग्धस्य दधिरूपतावदिति । अनुकम्पामुखेन तेषु समाधानमाह । अस्ति हीति । इत्यन्तं बीजमित्यर्थः । एतेन यदाधुनिका वेदान्तिब्रुवा आहुः । विषयदोषात् करणदोषाद्वा चैतन्ये भ्रमोन भवति विषयकरणदोषयोर्भ्रममात्रकल्पितत्वेन भ्रमात्पूर्वं तयोरभावात्, अपि त्वनिर्वचनीयाविद्यामात्रादिति । तद्ध्येयम् । चैतन्येऽपि चित्तवदेव सकलवस्तुप्रतिबिम्बेन सारूप्यस्यैव विषयगतदोषस्य प्रपञ्चारोपहेतुतालाभात् सर्ववस्तूनां भ्रममात्रकल्पितत्वस्य चासिद्वेः शुक्तिरजतादिस्थले क्लृप्तत्वेन सारूप्यदोषेणैवाध्यासोपपत्तावध्यासहेतुतया तदभिप्रेतानाह्यविद्यायां क्कल्यनानवकाशाच्चेति । तत्रादौ विज्ञानवादिनं बोधयति । समाधीत्यादिना रूपमवधार्यतइत्यन्तेन । भ्रमस्थले ज्ञेयार्थस्य चित्तमात्रताया अस्माभिप्यभ्युपगमात् । समाधिप्रज्ञायां प्रज्ञेय इत्युक्तमर्थस्य सत्यत्वलाभाय । तथा चायमर्थः । विवादगोचरोऽर्थश्चित्ते प्रतिबिम्बितो योऽनुभूयते स तस्य चित्तस्यालम्बनीभूतत्वाच्चित्तादन्यः । तत्र हेतुः । स चेदिति । स चेदर्थश्चिन्ताकारमात्रं स्यात् कथं तर्हि प्रज्ञयैव प्रज्ञाकारो गृह्मेत कर्मकर्त्तृविरोधात् पुरुषस्यानङ्गीकारात् । पुरुषप्रज्ञया पुरुषसिद्धिरर्थप्रज्ञया अर्थस्यापि सिद्ध्या चित्यादिति । अतो विज्ञानातिरिक्तो विज्ञेयोर्थः सिद्धः । अनयैव युक्त्या पुरुषानभ्युपगन्तारं बाह्यार्थवादिनमपि बोधयति । तस्मादिति । तस्मात्प्रज्ञारूपस्याप्रज्ञाग्राह्यत्वाभावादेव प्रज्ञायां प्रति बिम्बीभूतः प्रतिबिम्बरूपेण जातोऽर्थो ज्ञानाकारो येन गृह्यते स पुरुष इत्यपि सिद्धमित्यर्थः । ननु स्वमगृतृहीत्वैव स्वस्य प्रज्ञारूपं गृह्णातु आकाशाग्रहणेपि शब्दवदितिचेन्न । शब्दवत्केवलस्याकारत्वस्याग्रहणात् । अयं घट इति ज्ञानमभूदित्यादिरूपेण रूपादिवद्धर्मिपुरस्कारेणैवाकारानुभवादिति । ननु कर्मकर्त्तृविरोधः सूत्रकारेणैवोक्तो न तत्स्वाभासमित्यनेनातो भाष्यकारस्य पौनरुक्त्यमिति, मैवम् । तत्र चित्तस्य चित्तग्राह्यत्वं निराकृतमत्र चित्ताकारस्य चित्तग्राह्यत्वं निराक्रियते इति विशेषादिति । पुरुषचित्ततदर्थानां यथोक्तप्रकारैर्विवेकज्ञानमेव तत्त्वज्ञानमिति वेदान्तोक्तोपासनादिव्यावृत्त्यर्थं नास्तिकादिज्ञाननिरसनार्थं चावधारयति । एवं ग्रहीत्रिति । ग्रहीत्रादित्रितयं परस्यरविजातीयतया ये विभजन्ति विवेचयन्ति त एव सम्यग्दर्शिनः तैरेव पुरुषो लब्धः । अन्ये तु भ्रान्ता इत्यर्थः । तथा च श्रुतिः ।

यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥

‘अथात आदेशो नेतिनेति’ ‘न ह्येतस्मादिति नेत्यन्यत्परमस्ती’त्यादिः ॥

स्मृतिश्च ।

अव्यक्ताद्येऽविशेषात्ते विकारेस्मिंश्च वर्त्तते । चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते ॥

इत्यादि । ‘आत्मैवेदं सर्वं’ ब्रह्मैवेदं सर्वं’ ‘वासुदेवः सर्वमि’त्यादिश्रुतिस्मृतयस्तु शक्तिमदाद्यभेदेनैवोपासनार्थं प्रवर्त्तन्त इति न तद्विरोधः । एतेन जीवात्मप्रकरणेषु आत्मैक्यश्रुतीनामवैधर्म्यलक्षणाभेदेन विवेक एव तात्पर्यमिति द्रष्टव्यम् । विवेकज्ञानस्यैव सम्यग्ज्ञानतया मोक्षहेतुत्ववचनात् । परमात्मप्रकरणं तु जीवादपि विवेकेन परमात्मन एकस्यैवात्मत्वे तात्पर्यमिति मन्तव्यम् । द्वितीयपादे विवेकख्यातिरविप्लवा हानोपाय इत्येवोक्तम् । अत्र तु विवेकज्ञानस्यैव सम्यग्ज्ञानत्वोपपादनेन मोक्षहेतुत्वं प्रभाषितम् । विवेकस्वरूपं च परीक्ष्यत इति विवेकः । चित्तादात्म्यविवेकेहेत्वन्तरप्रदर्शकतयासूत्रमवतारयति । इतश्चेति । इतश्च चित्तातिरिक्तः । पुरुष इति शेषः ॥ २३ ॥ कुतश्च – तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ २४ ॥ तदेतच्चित्तमसङ्ख्येयाभिर्वासनाभिरेव चित्रीकृतमपि परार्थं परस्य भोगापवर्गार्थं न स्वार्थं संहत्यकारित्वाद्गृहवत्। संहत्यकारिणा चित्तेन न स्वार्थेन भवितव्यं, न सुखचित्तं सुखार्थं न ज्ञानं ज्ञानार्थमुभयमप्येतत्परार्थम्। यश्च भोगेनापवर्गेण चार्थेनार्थवान्पुरुषः स एव परो न परः सामान्यमात्रम्। यत्तु किञ्चित्परं सामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकस्तत्सर्वं संहत्यकारित्वात्परार्थमेव स्यात्। यस्त्वसौ परो विशेषः स न संहत्यकारी पुरुष इति ॥ २४ ॥ वार्तिकम् योग-वार्त्तिकम्

यदुक्तं चित्तस्य सर्वात्मकत्वाङ्गीकारे असङ्ख्यवासनावशात् स्वत एवचित्तस्यापिपरिणामोस्तु किं पुरुषेणेति । तन्न । यतस्तच्चित्तमसङ्ख्येयवासनाभिश्चित्रितमपि परार्थं परस्यान्यस्य भोगापवर्गायैव विना तौ न स्थातुं परिणामितुं वा क्षमते संहत्यकारिपदार्थानां लोके परमात्रार्थत्वदर्शनादित्यर्थः । तथा च पुरुषार्थसमाप्तौ चित्तविलयेन मोक्षोपपत्तिरित्यत्रापि सूत्रतात्पर्यम् । सूत्रं व्याचष्टे । तदेतदिति । भोगापवर्गार्थं सुखादिसाक्षात्कारार्थम् । संहत्यकारित्वात् इतरसाहाय्येनार्थक्रियाकारित्वात्, गृहवदिति । गृहं हिशयनादिकार्यमास्तरणशरीरादिसाहाय्येनैवकरोति पुरुषस्तु नित्यचैतन्यरूपतया चैतन्यार्थं नान्यमपेक्षते अन्या चार्थक्रिया पुरुषस्य नास्तीतिस न संहत्यकारीत्याशयः । यत्तु सङ्घातपारार्थ्यादिति साङ्ख्ये प्रोक्तम् । तत्रसंहननमारम्भकसंयोगो विवक्षितः स चावयवावयव्यभेदात् शय्यासनगृहादिषु सत्त्वादिषु चास्ति न तु पुरुष इति । ननु चित्तं संहत्यापि करिष्यति स्वार्थमपि भविष्यति कः खलु विपक्षबाधकस्तर्क इत्याकाङ्कायामाह । संहत्यकारिणेति । न सुखचित्तमिति । सुखचित्तं भोगचित्तं न सुखार्थं न चित्तस्य भोगार्थन्तथा तत्त्वज्ञानचित्तमपवर्गचित्तं न चित्तस्यापवर्गार्थं चित्तस्थभोगापवर्गयोरपि कार्यतया सार्थकत्वनियमेनानवस्थाप्रसङ्गात् । यत्कार्यन्तत्सार्थकमिति हि सर्वसम्मतम् । अतश्चित्तस्यैतदुभयमपि परार्थमित्यर्थः । पुरुषस्य च भोगापवर्गौ स्वरूपचैतन्यरूपतया न कार्याविति नानवस्थापुरुषार्थत्ववादिनामिति भावः । पुरुषस्य भोगो हि सुखादिसाक्षात्कारः । अपवर्गश्च विवेकख्यातिसाक्षात्कारो वा स्वरूपावस्थानो वा सर्वथैव चैतन्यमात्रा एव अपरिणामित्वान्निर्द्धर्मत्वाच्चेति । ननु परार्थतामात्रेण नपुरुषसिद्धिर्विनाशादीनामपि परार्थत्वसम्भवात् विनाशार्थमेवोत्पत्तेः परैरभ्युपगमादित्याशङ्कायामाह । यश्चेति । भोगापवर्गार्थवानेवात्र परः साध्ये प्रविष्टोऽतो न सामान्येन येन केनचित्परेण सिद्धसाधनमर्थान्तरं चेत्यर्थः । स्वोत्तरोत्पन्नक्षणिकचित्तस्य भोगार्थकतया पराभिप्रेतं सिद्धसाधनमपाकरोति । यत्तु किं चिदिति । स्वरूपेण आत्मरूपेण भोक्तृतयेतियावत् । यस्त्विति । यस्त्वसौ विशेषः पुरुषाख्यः परः स कूटस्थनित्यत्वात् न संहत्यकारीति न तस्य परार्थत्वापत्यानवस्थितिरित्यर्थः । तदेवं बुद्धिपुरुषविषयाणां विवेकं प्रदर्श्य एतज्ज्ञानादाद्यं मोक्षमादौ प्रतिपादयति ॥ २४ ॥ विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ २५ ॥ यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्ताऽनुमीयते तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्राप्यस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिर्वर्तितमित्यनुमीयते। तस्याऽऽत्मभावभावना स्वाभाविकी प्रवर्तते। यस्याभावादिदमुक्तं स्वभावं मुक्त्वा दोषाद्येषां पूर्वपक्षे रुचिर्भवत्यरुचिश्च निर्णये भवति। तत्राऽऽत्मभावभावना कोऽहमासं कथमहमासं किंस्विदिदं कथंस्विदिदं के भविष्यामः कथं वा भविष्याम इति। सा तु विशेषदर्शिनो निवर्तते। कुतः। चित्तस्यैवैष विचित्रः परिणामः, पुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इति। ततोऽस्याऽऽत्मभावभावना कुशलस्य निवर्तत इति ॥ २५ ॥ वार्तिकम् योग-वार्त्तिकम्

मातृमानमेयात्मकस्याखिलप्रपञ्जस्य तप्तायःपिण्डवदेकीभावापन्नस्य यथोक्तप्रकारैरन्योन्यं विशेषदर्शिनो विवेकसाक्षात्कारिणश्चित्तस्यात्मभावे भावना स्वसत्ताजिज्ञासा कोहमासमित्यादिरूपा भाष्ये व्याख्येया । तस्या भयशोकप्रवृत्तिनिवृत्त्याद्यर्थहेतोर्निवृत्तिराद्यो मोक्षो भवतीत्यर्थः । स्वर्गनरकमोक्षादिभिर्हि विचित्ररूपता चित्तस्यैव भवति न तु सदैकरूपचिन्मात्रस्य न ममेत्यवधारणे सति नैवात्मभावचित्ततोदेतीति भावः । तथा च श्रुतिः । ‘एतं ह वाव न तपति किमहं साधु नाकरवङ्किमहं पापमकरव’मितीत्यादिः । तदेतदुक्तं पञ्चशिखाचार्यैराद्यस्तु मोक्षो ज्ञानेनेति । अत्रादौ भाष्यकार आत्मभावभावनामेव सकारणां प्रतिपादयति । यथेत्यादिना । तत्रापीति । पुरुष इति शेषः । विशेषदर्शनबीजमिति । आत्मभावजिज्ञासाद्वारेति शेषः । इत्यनुमीयत इति । विविद्विषन्ति यज्ञेनेत्यादिश्रुतेः । पापक्षयाद् शुद्धमतिर्बाह्येति ज्ञानमुत्तममितिस्मृतेश्चेति शेषः । तस्य यथोक्तकर्मवतः स्वाभाविकी ऐहिकसाधननिरपेक्षा, तथा च यथोक्तं कर्म आत्मभावनायाः कारणम् । तत्र च नैहिकत्वनियम इत्यायातम् । ऐहिकसाधनशून्यस्य प्राक्तनतथाविधकर्माभावे च सा भावना नोदेति प्रत्युत देहाद्यात्मतायामेकरुचिर्भवतीति, अत्र पूर्वाचार्यवाक्यं प्रमाणयति । यस्याभावादिति । यस्यकर्मणोभावादिदं वक्ष्यमाणफलमुक्तं पूर्वाचार्यैः । तदेवाह । स्वभावमिति । स्वभावमात्मभावं त्यक्त्वा एषां सत्कर्मशून्यानां पूर्वपक्षे नित्यदेहादात्मतायामेव रुचिः श्रद्धातिशयो भवति । अरुचिश्च तत्त्वनिर्णयइत्यर्थः । आत्मभावनायाः कारणमुक्त्वा स्वरूपमाह । तत्रात्मेति । कोहमासं किं नरादिरूप आसं कथमासन्दुःखेन दंशनवासं (दुःखेनेदृशेन वासमिति दुःखेन दर्शनवानासमिति वा कल्प्यम् । ) किंस्विदिदं वर्त्तमानमपि मम स्वरूपं किं देहो वा मन आदिर्वा कथंस्विदिदं केन वा प्रकारेण पुण्यपापादिना तिष्ठतीत्यादिरर्थः । के भविष्याम इत्याद्येकत्वएव बहुवचनं, तथा च यज्जिज्ञासोत्थभयादिनिवृत्तये विशेषदर्शनं पुरुषः सम्पादयति सैवात्मभावनेत्यर्थः । आत्मभावनामशेषतो व्याख्याय सूत्रवाक्यार्थमाह । सा त्विति । विशेषदर्शनात्कुतो निवृत्तिरिति प्रश्नस्योत्तरमाह । चित्तस्येति । एष भावरूपो विचित्रः परिणाम आत्मनो न भवति किं तु चित्तस्यैवाविद्याजन्यत्वात् अविद्यायाश्चचित्तधर्मत्वात् पुरुषस्त्वविद्याशून्यत्वाच्छुद्धः पापपुण्यविवर्जितः । ततश्च चित्तधर्मैर्जन्ममरणसुखदुःखादिभिरपरामृष्टः कदाप्यसम्बद्ध इति । तत इति विशेषदर्शनादस्य कुशलस्यात्मभावना निवर्त्तत इत्यर्थः । तन्निवृत्तेः स्वर्गनरकादिषु रागद्वेषादिनिवृत्तिः फलमिति । तस्य विशेषदर्शिनोलक्षणं सम्प्रज्ञातयोगं वक्ष्यमाणमुक्तेश्च कारणभूतमाह ॥ २५ ॥ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६ ॥ तदानीं यदस्य चित्तं विषयप्राग्भारमज्ञाननिम्नमासीत्तदस्यान्यथा भवति कैवल्यप्राग्भारं विवेकजज्ञाननिम्नमिति ॥ २६ ॥ वार्तिकम् योग-वार्त्तिकम्

कैवल्ये प्राग्भारो यस्य तत्कैवल्यप्राग्भारम् । कैवल्याभिमुखमिति यावत्, व्याचष्टे । तदानीमिति । तदानीं विशेषदर्शनावस्थायां स्वर्गादिवैराग्यवशाच्चित्तमन्यथाभवतीत्यनेनान्वयः । विषयप्राग्भारविषयाभिमुखम् अज्ञाननिम्नमज्ञानमार्गसञ्चारि एवमुत्तरत्र, न चानेन कोमलकण्टकवत् उत्पन्नमात्रेण विशेषदर्शनेनैव कृतकृत्यता भवति पूर्वसंस्कारवशात् अन्तरान्तरा मोहाख्यानां भवदुःखबीजवृत्तीनामनुवृत्तेरित्याह ॥ २६ ॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७ ॥ प्रत्ययविवेकनिम्नस्य सत्त्वपुरुषान्यताख्यातिमात्रप्रवाहिणश्चित्तस्य तच्छिद्रेषु प्रत्ययान्तराण्यस्मीति वा ममेति वा जानामीति वा न जानामीति वा। कुतः, क्षीयमाणबीजेभ्यः पूर्वसंस्कारेभ्य इति ॥ २७ ॥ वार्तिकम् योग-वार्त्तिकम्

व्याचष्टे । विवेकेति । विवेकप्रत्ययनिम्नत्येत्यस्य विवरणं सत्वेत्यादि । सत्त्वपुरुषान्यतामात्रेण प्रवहणशीलस्येत्यर्थः । तच्छिद्रेषु स्थानेषु अविद्यारूपाणाम्प्रत्ययानामाकारा अस्मीत्याद्याश्च प्रदर्शिताः । अस्मीति । देवमनुष्यादिरूपोस्मीत्यर्थः । केवलास्मितायाः सम्प्रज्ञातयोगेपि सत्त्वात् क्षीयमाणेभ्यो बीजेभ्यः क्षीयमाणबीजेभ्यः । एतस्य विशेष्यं पूर्वं संस्कारेभ्य इति । ननु ज्ञाने जातेपि चेत् पूर्वसंस्कारवशाद्व्युत्थानदशायां कदाचिदविद्योदयः कथं तर्हि सम्प्रज्ञातप्रवाहेणापि अविद्यानिवृत्तिः स्यात्तत्राह ॥ २७ ॥ हानमेषां क्लेशवदुक्तम् ॥ २८ ॥ यथा क्लेशा दग्धबीजभावा न प्ररोहसमर्था भवन्ति तथा ज्ञानाग्निना दग्धबीजभावः पूर्वसंस्कारो न प्रत्ययप्रसूर्भवति। ज्ञानसंस्कारास्तु चित्ताधिकारसमाप्तिमनुशेरत इति न चिन्त्यन्ते ॥ २८ ॥ वार्तिकम् योग-वार्त्तिकम्

एषां संस्काराणां हानं दाहः स्वकार्यासामर्थ्यं क्लेशानामिवोक्तं पूर्वाचार्यैरित्यर्थः । ‘ध्वानहेयास्तद्वृत्तयः ते प्रतिप्रसवहेयाः सूक्ष्मा’ इति सूत्राभ्यां यथा स्थूलसूक्ष्मक्लेशानां तत्त्वज्ञानचित्तलयाभ्यां दाहनाशौ प्रोक्तौ तथा तत्संस्काराणामपीति फलितार्थः । एतदेव व्याचष्टे । यथेति । यथा सम्प्रज्ञातयोगिनो व्युत्थानदशायां पूर्वसंस्कारजाः क्लेशा अविद्यादिवृत्तयो दग्धबीजतुल्याः सत्यो न संस्कारं जनयन्ति तथा पूर्वसंस्कारा अपि सम्प्रज्ञातपरम्पराजनितेन निष्ठारूपेण ज्ञानाग्निना दग्धबीजतुल्याः सन्तः प्रत्ययं न प्रसवत इत्यर्थः । पूर्वसंस्कारः प्राचीनः क्लेशसंस्कारः ज्ञानकाले ज्ञानसंस्कारेण प्रतिबन्धात्संस्कारो नोत्पद्यत इत्याशयेन पूर्वपदम् । अत्र ज्ञाननाशोऽपि क्लेशवदुपलक्षित इति । नन्वेकदा चेद्दृष्टं मम जन्ममरणदुःखादिकं नास्तीति तर्हि कदाचिदन्तरान्तरा मोहेपि तद्धानार्थं प्रवृत्तिर्नोपपद्यते मोहस्यापि चित्तधर्मतायाः पूर्वं निश्चितत्वादिति चेन्न । चित्तस्य मोहसत्त्वे पुनश्चित्तस्य भवदुःखोत्पत्या पुरुषस्य दुःखभोगः स्यादित्याशयेनैव ज्ञानिभिरपिचित्तस्यात्यन्ततोमोहनिवृत्त्यर्थं यतनात् । भोगश्च चिन्मात्रस्यैवेत्यसकृदावेदितमिति । ननु संस्कारत्वाविशेषात्तत्त्वज्ञानसंस्कारा अपि किं सम्प्रज्ञातनिष्ठया नश्यन्ति, नेत्याह । ज्ञानसंस्कारास्त्विति । अविरुद्धत्वादिति शेषः । तर्हि कथं तेषां नाशः स्यादिति, तत्राह । इतितच्चिन्त्यतइति । अधिकारसमाप्तौ चित्तेन सहैव तेषां नाशात्तत्साधनचिन्ता नास्तीत्यर्थः । आशु मुमुक्षूणां त्वसम्प्रज्ञातेनापि तन्नाशश्चिन्तित इति भावः । उक्तस्य संस्कारहानस्य प्रकारमाह सूत्रद्वयेन ॥ २८ ॥ प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥ २९ ॥ यदाऽयं ब्राह्मणः प्रसङ्ख्यानेऽप्यकुसीदस्ततोऽपि न किञ्चित्प्रार्थयते। तत्रापि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्कारबीजक्षयान्नास्प प्रत्ययान्तराण्युत्पद्यन्ते। तदाऽस्य धर्ममेघो नाम समाधिर्भवति ॥ २९ ॥ वार्तिकम् योग-वार्त्तिकम्

प्रसङ्ख्यानं विवेकसाक्षात्कारः तत्रापि योऽकुसीदः कृषीवलवत् सर्वभावाधिष्ठातृत्वादिरूपां सिद्धिं न प्रार्थयते तस्य योगविघ्नाभावेन सर्वथा निरन्तरं विवेकख्यात्युदयाद्धर्ममेघनाम्नी सम्प्रज्ञातयोगस्य पराकाष्ठा भवतीत्यर्थः । तदेतद्व्याचष्टे । यदेति । तत्रापि तत्फलेपि, सर्वथाशब्दार्थमाह । संस्कारेति । संस्काररूपस्यबीजस्य क्रमेण क्षयाद्दाहाद्दीयमानाद्धेतोः प्रत्ययान्तराणि अविद्यान्तराणि(अविद्यारूपाणि इति पाठः) यदा न जायन्ते तदा धर्ममेघसमाधिरित्यर्थः । क्लेशकर्मादीनां निःशेषेणोन्मूलकं धर्मं मेहति वर्षतीति धर्ममेघः । अस्याः समाधेर्धर्मद्वारकफलं द्वितीयमोक्षमाह ॥ २९ ॥ ततः क्लेशकर्मनिवृत्तिः ॥ ३० ॥ तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति। कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति।क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान्विमुक्तो भवति। कस्मात्, यस्माद्विपर्ययो भवस्य कारणम्। न हि क्षीणविपर्ययः कश्चित्केनचित्क्वचिज्जातो दृश्यत इति ॥ ३० ॥ वार्तिकम् योग-वार्त्तिकम्

निवृत्तिर्दाहसमाप्तिः । व्याचष्टे । तल्लाभादिति । समूलकामिति । मूलं क्लेशसंस्कारास्तैः सह क्लेशा अभिनिवेशातिरिक्ताश्छिन्ना भवन्ति अत एव कर्माशयाश्च प्रारब्धातिरिक्ताः क्लेशाख्यमूलेन सह हताः स्युरतो न पुनरुत्पद्यन्त इत्यर्थः । ननु दुःखात्यन्तनिवृत्तिरेव मोक्षो जीवतश्चावश्यं दुःखम् । ‘न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति’ इति श्रुतेः, तत्कथं जीवन्मुक्तिरित्याशयेन पृच्छति । कस्मादिति । उत्तरं, यस्मादिति । तथा च दुःखनिदानात्यन्तोच्छेदस्य गौणमुक्तित्यमिति भावः । अत्र प्रमाणमनुपलब्धिमाह । न हीति । तदुक्तं गौतमाचार्यैः ‘वीतरागजन्मादर्शना’दिति । अयमपि मोक्षःपञ्चशिखाचार्यैरुक्तो द्वितीयोरागक्षया(सङ्क्षयादिति पा.)दिति । अत्र जीवन्मुक्तस्य सवासनक्लेशात्यन्तदाहनिर्णयात् आधुनिकवेदान्तिनामविद्यालेशस्वीकारोऽविद्यामूलक एवेति स्मर्त्तव्यम् । इदानीं मुक्तस्य जीवन्मुक्तस्य परममुक्तिप्रकारमाह सूत्रद्वयेन ॥ ३० ॥ तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम् ॥ ३१ ॥ सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्याऽऽनन्त्यं भवति। आवरकेण तमसाऽभिभूतमावृतमनन्तं ज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्धाटितं ग्रहणसमर्थं भवति। तत्र यदा सर्वैरावरणमलैरपगतं भवति तदा भवत्यस्याऽऽनन्त्यम्। ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पं सम्पद्यते। यथाऽऽकाशे खद्योतः। यत्रेदयुक्तम् – अन्धो मणिमविध्यत्तमनङ्गुलिरावयत्। अग्रीवस्तं प्रत्यमुञ्चत्तमजिह्वोऽभ्यपूजयत् ॥ इति ॥ ३१ ॥ वार्तिकम् योग-वार्त्तिकम्

तदा तस्यां जीवन्मुक्तावस्थायां (जीवन्मुक्त्यवस्थायामिति पा.) क्लेशकर्मणोर्ज्ञानावरकमलयोरपगमेन हेतुना ज्ञानस्य सत्त्वप्रकाशस्यानन्त्यादिविभुत्वात् ज्ञेयं प्रकाश्यमल्पं तदपेक्षया भवतीत्यर्थः । यदि हि पञ्चविंशतितत्त्वातिरिक्तमन्यदपिवस्तु तिष्ठेत् तदातदपि प्रकाश्येत ज्ञेयस्यैव तु अल्पतया अन्यन्न प्रकाश्यते न तु सत्त्वस्याल्पतयेति भावः । तदेतद्व्याचष्टे । सर्वैरिति । अनन्तंस्वभावतो व्यापकं ज्ञानं सत्त्वमिति भूतसत्त्वव्यावर्त्तनायोक्तं प्रवर्त्तितमितियस्य विवरणम् सुघाटितमिति । शेषं भाष्यं सुगमम् । अत्र तमोभिभवनानन्तरमेव वृत्युत्पत्तिवचनाद्वृत्तेस्तमोनाशकत्वमाधुनिकवेदान्तिनामपसिद्धान्त इति स्मर्त्तव्यम् । एतादृशं सर्वज्ञत्वं लोकेऽतीवाश्चर्यमन्धमणिवेधादिवदिति बौद्धोपहासमुखेन दर्शयति । यत्रेदमिति । यत्र क्षुद्राणामपि जीवानां योगबलादेतादृशसार्वज्ञे बौद्धैरिदं दृष्टान्तजातमसम्भवदर्शनायोक्तमुपहसद्भिरित्यर्थः । किं तत् तदाह । अन्ध इत्यादि । अविध्यत्सच्छिद्रमकरोत् तं मणिमङ्गुलिहीनोऽवावयत् ग्रथितवान् तं मणिं ग्रीवाशून्यः प्रत्युमुच्यत कण्ठाभरणमकरोत् तं कण्ठाभरणं जिह्वाशून्यस्तुतवानितीत्यर्थः । दृष्टान्तचतुष्टयस्यायमाशयः । अनाद्यविद्यामूढचित्तः साङ्ख्याद्यभिमतसूक्ष्मार्थानामवधारणरूपं वेधनमेवादावशक्यं ततश्च तस्य सूक्ष्मार्थस्याविरलवृत्तिसत्ता चसूत्रेण ग्रथनमप्यशक्यम् । ततोपिसर्वथा विवेकख्यातिरतीवाशक्या ततश्च तादृशचित्तस्य परिपूर्णज्ञानत्वेन स्तुतिरप्यशक्येति । आस्तिकैस्तु श्रुतिस्मृतिप्रामाण्येनैतत्सर्वं श्रद्धेयमिति भावः । यथोक्तसार्वज्ञात्परवैराग्योदयेनासम्प्रज्ञातपरम्पराजन्यं प्रारब्धभोगासमाप्तिजन्यं वा तृतीयं मुख्यमोक्षमाह ॥ ३१ ॥ ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ३२ ॥ तस्य धर्ममेघस्योदयात्कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते। न हि कृतभोगापवर्गाः परिसमाप्तक्रमाः क्षणमप्यवस्थातुमुत्सहन्ते ॥ ३२ ॥ वार्तिकम् योग-वार्त्तिकम्

ततो धर्ममेघोदयात् क्लेशकर्मनिवृत्या ज्ञानस्यानन्त्ये सति परवैराग्येण पुरुषार्थसमाप्त्या कृतार्थान् पुरुषान् प्रति गुणानां सत्त्वादीनां परिणामक्रमः समाप्यते कृतार्थपुरुषाणां भोगौपयिकः परिणामः पुनर्न भवतीत्यर्थः । क्रमश्चाविरलाधारेत्युत्तरसूत्रेण व्याख्यास्यते । तत्र इतिपदं व्याचष्टे । तस्य धर्ममेघस्योदयादिति । कृतार्थानामिति । पुरुषाणामिति शेषः । तथा च कृतार्शपुरुषस्वामिको गुणानां परिणामक्रमः समाप्यत इत्यर्थः । न तु गुणानामखिलस्य परिणामक्रमस्य समाप्तिरत्रोक्ता कृतार्थं प्रतिनष्टमित्युत्तरसूत्रादिति । समाप्तौ हेतुमाह । न हीति । न हि सत्त्वादौ गुणाः कृतभोगापवर्गा अत एव समाप्तक्रमाः तं पुरुषं प्रति क्षणमप्यवस्थातुं समर्थाः स्थितिहेतुपुरुषार्थाभावादिति । यदि च सूत्रभाष्ययोर्गुणशब्देनात्र ब्रह्मादय एव पुरुषोपकरणान्युच्यन्ते तदा यथाश्रुतमेवव्याख्येयम् । अत्राचेतनानां चेतनार्थतया चैतन्याधीनसत्ता वेदान्तिभिरुच्यमाना सिद्धेति स्मर्त्तव्यम् । इयमपि तृतीया मुक्तिः पञ्चशिखाचार्यैरुक्ता’कर्मक्षयात् (कृछ्रक्षयादिति पा.) तृतीयस्तु व्याख्यातं मोक्षलक्षण’मिति । अत एव तत्त्वसमाससूत्रं त्रिविधो मोक्ष’ इति । इदमत्रावधेयम् । यदेताभ्यां सूत्राभ्यां ज्ञानस्यानन्त्यात्सार्वज्ञाख्यात् मोक्ष उच्यते इदं मुख्यकल्पाभिप्रायेणोक्तं वैराग्यादेव सुखेन मोक्षसिद्धेः, न तु सार्वज्ञादिकं विना मोक्षो नभवतीत्याशयेन । यतः सत्त्वपुरुषयोःशुद्धिसाम्येकैवल्यमिति सूत्रे भाष्यकृता ईश्वरस्यानीश्वरस्य प्राप्तविवेकज्ञानस्येतरस्य वेत्यनेनासर्वज्ञस्यापि अभिमाननिवृत्तिमात्रादेव मोक्ष उक्त इति । तथा चोक्तं ‘विवेककख्यातिरविप्लवा हानोपाय’ इति । ‘सति मूलेतद्विपाको जात्यायुर्भोगा’ इति च । संसारबीजं हि अनात्मन्यात्मरूपाऽविद्या रागद्वेषधर्माधर्मतद्विपाकादिहेतुत्वात् सा चेद्विवेकख्यात्या नाशिता तर्हि तत एव संसारे च्छेदे सार्वज्ञाद्यपेक्षा नास्तीति । तथा च विष्णुपुराणे

अनात्मन्यात्मबुद्धिर्या अर्थे स्वमिति या मतिः । अविद्यातरुसंसूचिबीजमेतद्द्विधा स्थितम् ॥

इति । ननु परिणामसमाप्तिरिति वक्तव्ये क्रमशब्दः परिणामानां प्रतिक्षणमुत्पादविनाशकथनेन वैराग्योत्पादनाय प्रयुक्तः । स चायमर्थः कथं क्रमशब्दाल्लभ्यते क्रमशब्दस्य पौर्वापर्यमात्रवाचित्वादित्याशयेन क्रमशब्दार्थं पृच्छति ॥ ३२ ॥ अथ कोऽयं क्रमो नामेति – वार्तिकम् योग-वार्त्तिकम्

अथेति । अयमेतत्सूत्रीयः । अत्र प्रत्युत्तरं सूत्रम् । क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ३३ ॥ क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः। न ह्यननुभूतक्रमक्षणा पुराणता वस्त्रस्यान्ते भवति। नित्येषु च क्रमो दृष्टः। वार्तिकम् योग-वार्त्तिकम्

क्षणप्रतियोगी क्षणस्यावसरस्य विरोधी क्षणेनाप्यनन्तरित इति यावत् । एवंरूपोऽत्र क्रमो विवक्षितो न तु पौर्वापर्यमात्रमिति विशेष्यदलार्थः । परिणामश्च पूर्वधर्मापाये धर्मान्तरोत्पत्तिरित्युक्तमेव, ईदृशे च क्रमेप्रमाणप्रदर्शनपरं परिणामापरान्तनिर्ग्राह्य इति विशेषणम् । भाष्यकारस्तुक्षणप्रतियोगीत्यस्य पर्यवसितमर्थमाह । क्षणानन्तर्यात्मेति । क्रम इत्युत्तरेणान्वयः क्षणानन्तर्यात्मा क्षणानन्तर्यधर्मकः । आनन्तर्यं चाव्यवधानं क्रमस्तु पूर्वापरीभावः । तथा च क्षणाव्यवहितपरिणामधारा पूर्वसूत्रे परिणामक्रमशब्दार्थः । अनवच्छिन्नधारायाः प्रमाणप्रदर्शकं सूत्रावयवं व्याचष्टे । परिणामस्येति । पूर्वान्तापेक्षया वस्त्रादिरूपस्य परिणामस्यापरान्तेन चरमावस्थया अनवच्छिन्नपरिणामधारा अनुमीयतइत्यर्थः । अत्र युक्तिमाह । न हीति । अननुभूतोऽप्राप्ते । यथोक्तक्रमो यैरेवम्भूताः क्षणा यस्याः साऽननभूतक्रमक्षणा पुराणता, तथाच वस्त्रस्यान्तकाले दृश्यमाना पुराणता नह्यननुभूतक्रमक्षणा सम्भवतीत्यर्थः । अतः पुराणतायाः सूक्ष्मतमसूक्ष्मतरसूक्ष्मस्थलादिरूपैःपरिणामक्षणेष्वविरलः क्रमोनुमीयतइति । नन्वपरान्तेनानित्येष्वेव क्रमः सिद्धो न तु प्रधानेऽपि तस्य चरमावस्थाया अभावादतो गुणानां परिणामक्रमे किं प्रमाणं येन तत्समाप्तिः पूर्वसूत्रोक्ता घटेततत्राह । नित्येषु चेति । नित्येषु स्वतोपरान्ताभावेपि विकाराणामपरान्तैरेव प्रतिक्षणपरिणामो दृष्टोनुमित इत्यर्थः । धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति प्रागुक्तत्वादिति भावः । ननु परिणामक्रमाङ्गीकारे नित्यत्वहानिरित्याशङ्कायामाह । द्वयी चेयं नित्यता कूटस्थनित्यता परिणामिनित्यता च। तत्र कूटस्थनित्यता पुरुषस्य। परिणामिनित्यता गुणानाम्। यस्मिन्परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यम्। उभयस्य च तत्त्वानभिघातान्नित्यत्वम्। तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः। कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियामुपादाय कल्पित इति। अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वेति। अवचनीयमेतत्। कथम्। अस्ति प्रश्न एकान्तवचनीयः सर्वो जातो मरिष्यतीति। ओं भो इति। अथ सर्वो मृत्वा जनिष्यत इति। विभज्यवचनीयमेतत्। प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यत इतरस्तु जनिष्यते। तथा मनुष्यजातिः श्रेयसी न वा श्रेयसीत्येवं परिपृष्टे विभज्य वचनीयः प्रश्नः पशूनधिकृत्य श्रेयसी देवानृषींश्चाधिकृत्य नेति। अयं त्ववचनीयः प्रश्नः संसारोऽयमन्तवानथानन्त इति। कुशलस्यास्ति संसारक्रमसमाप्तिर्नेतरस्येति अन्यतरावधारणे दोषः।तस्माद्व्याकरीय एवायं प्रश्न इति ॥ ३३ ॥ वार्तिकम् योग-वार्त्तिकम्

द्वयी चेति । तथा च परिणमित्वेन कूटस्थनित्यतैव विरुध्यते न नित्यतासामात्यमित्याशयः । नित्यस्य सामान्यलक्षणमाह । यस्मिन्निति । तत्त्वं न विहन्यते स्वरूपं नातीतं भवति अत्र चातीतताशून्यत्वमात्रं नित्यस्य सामान्यलक्षणमिति बोध्यम् । तच्चोभयसाधारणमित्याह । उभयपरस्परवियोगो हि उपाध्युपाधिमतोरुभयोरेव केवलता एकाकिता भवति ते चोभे एवदुःखभोगनिवृत्त्याख्यपुरुषार्थसाधने भवत इति द्वे एव कैवल्येलक्षिते तयोश्चाद्यं कैवल्यं पुरुषस्योपचरितमित्युक्तं साङ्ख्यकारिकायाम् ।

तस्मान्न बध्यतेद्वा न मुच्यते नापि संसरति पुरुषः । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥

इति । ननुस्वरूपप्रतिष्ठारूपं कैवल्यं दुःखभोगात्यन्तनिवृत्तिरूपो वा पुरुषार्थः पुरुषस्य तत्र निराकृतः मोक्षस्यान्यमात्रनिष्ठत्वे पुरुषार्थत्वे मोक्षार्थं प्रवृत्त्यनुपपत्तेः पुरुषार्थं हि करणानां प्रवृत्तिरिति । इतिशब्दः शास्त्रसमाप्तिसूचनार्थः । भाष्ये कार्यकारणात्मनामिति कार्यकारणभावापन्नानां महदादिसूक्ष्मभूतपर्यन्तानां लिङ्गशरीरघटकानामित्यर्थः न तु कार्यमात्रस्थूलशरीरं तत्सत्त्वेपि कैवल्योदयादिति । ननु स्वस्य स्वप्रतिष्ठत्वानुपपत्त्याकथं स्वप्रतिष्ठत्वं तत्राह । स्वरूपेति । पुरुषस्य पुनर्बुद्धिसत्त्वासम्बन्धात् केवला चितिशक्तिरेव स्वरूपप्रतिष्ठेत्यर्थः । तस्या इति । स्वरूपप्रतिष्ठायां सदैवावस्थानं पुनरप्रच्यवः कैवल्यं द्वितीयमिति शेषः ॥ ३३ ॥

योगग्रन्थसहस्राणां सर्वोपनिषदां तथा । सतां च यत्र तात्पर्यं सोर्थो व्यासेन भाषितः ॥

व्याख्यातश्च यथाशक्ति निर्मत्सरधिया मया । एतेन प्रीयतामीशो य आत्मा सर्वदेहिनाम् ॥ गुणाधिकारक्रमसमाप्तौ कैवल्यमुक्तं तत्स्वरूपमवधार्यते – पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४ ॥ कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मकानां गुणानां तत्कैवल्यं, स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वानभिसम्बन्धात्पुरुषस्य चितिशक्तिरेव केवला, तस्याः सदा तथैवावस्थानं कैवल्यमिति ॥ ३४ ॥