समाधिपादः यस्त्यक्त्वा रूपमाद्यं प्रभवति जगतोऽनेकधाऽनुग्रहाय प्रक्षीणक्लेशराशिर्विषमविषधरोऽनेकवक्त्रः सुभोगी। सर्वज्ञानप्रसूतिर्भुजगपरिकरः प्रीतये यस्य नित्यं देवोऽहीशः स वोऽव्यात्सितविमलतनुर्योगदो योगयुक्तः ॥ १ ॥ अथ योगानुशासनम् ॥ १ ॥ अथेत्ययमधिकारार्थः। टीका तत्त्व-वैशारदी

नमामि जगदुत्पत्तिहेतवे वृषकेतवे । क्लेशकर्मविपाकादिरहिताय हिताय च ॥ १ ॥

नत्वा पतञ्जलिमृषिं वेदव्यासेन भाषिते । सङ्क्षिप्तस्पष्टबह्वर्था भाष्ये व्याख्या विधास्यते ॥ २ ॥

इह हि भगवान्पतञ्जलिः प्रारिप्सितस्य शास्त्रस्य सङ्क्षेपतस्तात्पर्यार्थं प्रेक्षावत्प्रवृत्त्यङ्गं श्रोतुश्च सुखावबोधार्थमाचिख्यासुरादाविदं सूत्रं रचयाञ्चकार – अथ योगानुशासनम् । तत्र प्रथमावयवमथशब्दं व्याचष्टे – अथेत्ययमधिकारार्थः । अथैष ज्योतिरितिवत्, न त्वानन्तर्यार्थः । अनुशासनमिति हि शास्त्रमाहानुशिष्यतेऽनेनेति व्युत्पत्त्या । न चास्य शमदमाद्यनन्तरं प्रवृत्तिरपि तु तत्त्वज्ञानचिख्यापयिषानन्तरम् । जिज्ञासाज्ञानयोस्तु स्यात् । यथाऽऽम्नायते – तस्माच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत् इति । शिष्यप्रश्नतपश्चरणरसायनाद्युपयोगानन्तर्यस्य च सम्भवेऽपि नाभिधानं, शिष्यप्रतीतिप्रवृत्त्योरनुपयोगात्प्रामाणिकत्वे योगानुशासनस्य तदभावेऽप्युपेयत्वादप्रामाणिकत्वे च तद्भावेऽपि हेयत्वात् । एतेन तत्त्वज्ञानचिख्यापयिषयोरानन्तर्याभिधानं परास्तम् । अधिकारार्थत्वे तु शास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य योगस्याभिधानात्सकलशास्त्रतात्पर्यार्थव्याख्यानेन शिष्यः सुखेनैव बोधितश्च प्रर्वतितश्च भवतीति । निःश्रेयसस्य हेतुः समाधिरिति हि श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम् । ननु किं सर्वसन्दर्भगतोऽथशब्दोऽधिकारार्थः, तथा सति ‘‘अथातो ब्रह्मजिज्ञासा’’ इत्यादावपि प्रसङ्ग इत्यत आह – अयमिति । ननु-

हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः । इति योगियाज्ञवल्क्यस्मृतेः कथं पतञ्जलेर्योगशास्त्रकर्तृत्त्वमित्याशङ्क्य सूत्रकारेणानुशासनमित्युक्तम् । पातञ्जल-रहस्यम्

नत्वा हरेः पादरजांसि शम्भोः शौरेर्गणेशस्य महाविभूतेः ॥ पतञ्जलेर्व्यासमुनेश्च वक्ष्ये वाचस्पतेर्न्यून समर्पणाय ॥ १ ॥

योगेनाष्टाङ्गयुक्तेन समाध्यन्तेन स्थायिना ॥ आद्ये पादे महेशाय दीयते सुदृढासनम् ॥ २ ॥

आशीर्वादव्याजेन शास्त्रार्थं कथयति - य इति । विश्वाधारोsनन्तः पतञ्जलिरूपेण लोकानुग्रहार्थमवतीर्णः सन् यो योगशास्त्रस्यानुकर्ता स वस्तच्छास्त्रश्रोतृन् पात्वित्यन्वयः, ऋषिमूर्तावघटमानान्येकादश विशेषणानि भूतपूर्वगत्या नेयानि, अन्यथा दृष्टविरोधात्, प्रक्षीणाः क्लेशादिविपाकान्ता यस्य स तथोक्तः, प्रक्षीणक्लेशराशिरिति, देवाकृतित्वे सति फणावत्त्वं विषमविषधरत्वम्, अत एव बहुवक्त्रत्वं सुभोगित्वञ्च, सर्वेषां जीवानां ज्ञानस्य प्रसूतिर्जन्म यस्मादसौ सर्वज्ञानप्रसूतिः, भुजगा एव परिकरः स्त्र्यादिस्थानीयो यस्य स तथोक्तः, सिता शुभ्रा विमला तनुर्यस्य स सितविमलतनुः ॥ १ ॥

“तुमर्थाच्च भाववचनादि”त्यनुशासनाद् वृषकेतुं प्रसादयितुमित्यर्थे नमामि वृषकेतव इति फलेभ्यो व्रजतीतिवत्,

“सञ्ज्ञा च परिभाषा च विधिर्नियम एव च

अतिदेशोsधिकारश्च षड्विधं सूत्रलक्षणम्” इत्युक्तेः

तत्राधिकारसूत्रम् – “अथ योगानुशासनम्” इति,

तद् व्याचष्टे – सङ्क्षिप्तेति । सङ्क्षिप्तो ग्रन्थपरिमाणेन, स्पष्ट उपनागरादिशब्दैः, बह्वर्थता सूत्राद्यर्थवत्त्वेन,

“सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः ।

स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः” इति भाष्यलक्षणम्,

“पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना । आक्षेपस्य समाधानं व्याख्या पञ्चविधा स्मृता ” ॥ २-३ ॥

युक्तिमलिश्रित्याह – अथेति । क्वाप्यधिकारार्थोsथशब्दो न दृष्ट इति चेत् तत्राह – वेदे तावदथैष ज्योतिरिति, “अथैष ज्योतिः, अथ सर्वज्योतिः, अथ विश्वज्योतिः, एतेन सहस्रदक्षिणेन यजेत” इति, ज्योतिष्टोमादियागान्तराण्यधिक्रियन्त इत्यर्थः, अधिकारार्थं नियन्तुमानन्तर्यार्थं निराकरोति - “न त्वित्यादि - प्रमाणिकत्व” इत्येतदन्तेन,

यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।

“ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि”,

यच्छेन्निरुन्ध्याद्, “यद्योगेनात्मदर्शनं”,

“त्रिरुन्नतं स्थाप्य समं शरीरम्” इत्यादि,

“प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि । अदृष्टशतभागोsपि न कल्प्यो निष्प्रमाणकः ॥ ”,

इति न्यायेनाह – तदभावेsपीति । शान्त्यादिसमाद्यन्तानां षण्णामभावेsपि, षण्णां भावेsपि वा क्षणिकनिरात्मनो बौद्धादिशास्त्रादावप्रवृत्तेः, अयमिति । योगानुशासनं शास्त्रमधिकृतं वेदितव्यम्। योगः समाधिः। स च सार्वभौमश्चित्तस्य धर्मः। क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तभूमयः। तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते। टीका तत्त्व-वैशारदी

शिष्टस्य शासनमनुशासनामित्यर्थः । यदाऽयमथशब्दोऽधिकारार्थस्तदैष वाक्यार्थः सम्पद्यत इत्याह – योगानुशासनं शास्त्रमधिकृतमिति । ननु व्युत्पाद्यमानतया योगोऽत्राधिकृतो न तु शास्त्रमित्यत आह – वेदितव्यमिति । सत्यं व्युत्पाद्यमानतया योगः प्रस्तुतः, स तु तद्विषयेण शास्त्रेण करणेन व्युत्पाद्यः । करणगोचरश्च व्युत्पादकस्य व्यापारो न कर्मगोचर इति कर्तृव्यापारविवक्षया योगविषयस्य शास्त्रस्याधिकृतत्वं वेदितव्यम् । शास्त्रव्यापारगोचरतया तु योग एवाधिकृत इति भावः । अधिकारार्थस्य चाथशब्दस्यान्यार्थं नीयमानोदकुम्भदर्शनमिव श्रवणं मङ्गलायापि कल्पत इति मन्तव्यम् । शब्दसन्देहनिमित्तमर्थसन्देहमपनयति – योगः समाधिरिति । “युज समाधौ” इत्यस्माद्व्युत्पन्नः समाध्यर्थो न तु “युजिर् योगे” इत्यस्मात्संयोगार्थ इत्यर्थः । ननु समाधिरपि वक्ष्यमाणस्याङ्गिनो योगस्याङ्गम् । न चाङ्गमेवाङ्गीत्यत आह – स च सार्वभौमः । चस्त्वर्थोऽङ्गादङ्गिनं भिनत्ति । भूमयोऽवस्था वक्ष्यमाणा मधुमती मधुप्रतीका विशोका संस्कारशेषास्ताश्चित्तस्य, तासु सर्वासु विदितः सार्वभौमश्चित्तवृत्तिनिरोधलक्षणो योगः । तदङ्गं तु समाधिर्नैवम्भूतः । व्युत्पत्तिनिमित्तमात्राभिधानं चैतद्योगः समाधिरिति । अङ्गाङ्गिनोरभेदविवक्षामात्रेण प्रवृत्तिनिमित्तं तु योगशब्दस्य चित्तवृत्तिनिरोध एवेति परमार्थः । वृत्तयो ज्ञानान्यात्माश्रयाण्यतस्तन्नि- रोधोऽप्यात्माश्रय एवेति ये पश्यन्ति तन्निरासायाऽऽह – चित्तस्य धर्म इति । चित्तशब्देनान्तःकरणं बुद्धिमुपलक्षयति । न हि कूटस्थनित्या चितिशक्तिरपरिणामिनी ज्ञानधर्मा भवितुमर्हति बुद्धिस्तु भवेदिति भावः । स्यादेतत्सार्वभौमश्चेद्योगो हन्त भोः क्षिप्तमूढविक्षिप्ता अपि चित्तभूमयः । अस्ति च परस्परापेक्षया वृत्तिनिरोधोऽप्यास्विति तत्रापि योगत्वप्रसङ्ग इत्याशङ्क्य हेयोपादेयभूमीरुपन्यस्यति – क्षिप्तमित्यादि । क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्तमस्थिरम् । मूढं तु तमःसमुद्रेकान्निद्रावृत्तिमत् । क्षिप्ताद्विशिष्टं विक्षिप्तम् । विशेषोऽस्थेमबहुलस्य कादाचित्कः स्थेमा । सा चास्यास्थेमबहुलता सांसिद्धिकी वा वक्ष्यमाणव्याधिस्त्यानाद्यन्तरायजनिता वा । एकाग्रमेकतानम् । निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धम् । तत्र क्षिप्तमूढयोः सत्यपि परस्परापेक्षया वृत्तिनिरोधे पारम्पर्येणापि निःश्रेयसहेतुभावाभावात्तदुपघातकत्वाच्च योगपक्षाद्दूरोत्सारितत्वमिति न तयोर्योगत्वं निषिद्धम् । विक्षिप्तस्य तु कादाचित्कसद्भूतविषयस्थेमशालिनः सम्भाव्येत योगत्वमिति निषेधति । तत्र विक्षिप्ते चेतसि समाधिः कादाचित्कसद्भूतविषयस्य चित्तस्य स्थेमा न योगपक्षे वर्तते । कस्मात् । यतस्तद्विपक्षविक्षेपोपसर्जनीभूतः । विपक्षवर्गान्तर्गतस्य हि स्वरूपमेव दुर्लभं प्रागेव कार्यकरणं न खलु दहनान्तर्गतं बीजं त्रिचतुरक्षणावस्थितमुप्तमप्यङ्कुराय कल्पत इत भावः । पातञ्जल-रहस्यम्

अधिकारार्थे सतीत्यर्थः, अन्यथा - “अथैष ज्योतिः”, “अथ शब्दानुशासनम्” इत्याद्यसिद्धिः, अतस्तदुपलक्षणमयमिति, शिष्टस्येति । शिष्यहिताय हिरण्यगर्भादिना शासितस्य, तमनुसृतवानिति, यत्ताक्षादेः कुठारादौ हस्तव्यापारो न तु च्छिदादौ फल इत्याह - “सत्यमित्यादिना भाव” इत्यन्तेन, मङ्गलार्थतात्वार्थीत्याह – अधिकारार्थस्येति,

“ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।

कण्ठं भित्वा विनिर्यातौ तेन माङ्गलिकावुभौ” इति,

दध्यादिदर्शनवन्मङ्गलप्रयोजनकौ, न तु मङ्गलवाचकाविति वेदितव्यमिति ध्वनिः, शब्दसन्देह इति । वर्णानुपूर्व्याः समानत्वात्, सम्पूर्वाङ्पूर्वस्य दधाते रूपम्, “उपसर्गे धोः किः” इति धाधातोः किप्रत्ययात् समाधिरिति, अङ्गं सम्प्रज्ञातसमाधिः, अङ्ग्यसम्प्रज्ञातसमाधिः, तत्र मधुमत्यादिचतुष्टये वर्तत इति सार्वभौमः, तासु वृत्तेर्विद्यमानत्वाद्, ज्ञानाश्रय आत्मेति नैयायिकादयः, निर्गुणश्चेति श्रुतिमाश्रित्य तान्निराह – चित्तस्य धर्म इति । यस्मिन् परिणममाने तदेवेदमिति बुद्धिर्न विहन्यते तत्परिणामिनित्यं यथा पृथिव्यादीति, भेदमाश्रित्याह – कूटस्थनित्येति । विपरिणममानधर्मानाश्रय इत्यर्थः, अस्थेमा = चाञ्चल्यम्, सांसिद्धिकी = स्वाभाविकी, तर्हि कदाचिद् व्युत्थानं न स्याद् ? अत्राह – संस्कारेति । क्षिप्तत्वम् = उद्दिष्टविषयातिरिक्तविषयत्वम्, मूढत्वं = विषयमात्रग्राहकत्वम्, सत्यपीति । तदधिकारे चेतसीति शेषः, उपघातकत्वाद् = एकाग्रनिरोधयोर्नाशकत्वाद्, उपसर्जनीभूतता = विक्षेपबहुलता, न खल्विति । यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति क्षिणोति च क्लेशान्कर्मबन्धनानि श्लथयति निरोधमभिमुखं करोति स सम्प्रज्ञातो योग इत्याख्यायते। स च वितर्कानुगतो विचारानुगत आनन्दानुगतोऽस्मितानुगत इत्युपरिष्टान्निवेदयिष्यामः। सर्ववृत्तिनिरोधे त्वसम्प्रज्ञातः समाधिः ॥ १ ॥ टीका तत्त्व-वैशारदी

यदि विक्षेपोपसर्जनीभूतः समाधिर्न योगः कस्तर्हीत्यत आह – यस्त्वेकाग्रे चेतसीति । भूतमिति समारोपितमर्थं निवर्तयति । निद्रावृत्तिरपि स्वालम्बने तमसि भूते भवत्येकाग्रेत्यत उक्तम् – सदिति । शोभनं नितान्ताविर्भूतं सत्त्वं तमःसमुद्रेकस्त्वशोभनस्तस्य क्लेशहेतुत्वादिति । द्योतनं हि तत्त्वज्ञानमागमाद्वाऽनुमानाद्वा भवदपि परोक्षरूपतया न साक्षात्कारवतीमविद्यामुच्छिनत्ति द्विचन्द्रदिङ्मोहादिष्वनुच्छेदकत्वादत आह – प्रेति । प्रकारो हि प्रकर्षं द्योतयन्साक्षात्कारं सूचयति । अविद्यामूलत्वादस्मितादीनां क्लेशानां, विद्यायाश्चाविद्योच्छेदरूपत्वाद्विद्योदये चाविद्यादिक्लेशसमुच्छेदो विरोधित्वात्कारणविनाशाच्चेत्याह – क्षिणोति चेति । अत एव कर्मरूपाणि बन्धनानि श्लथयति । कर्म चात्रापूर्वमभिमतं कार्ये कारणोपचारात् । श्लथयति स्वकार्यादवसादयति । वक्ष्यति हि सति मूले तद्विपाक इति । किञ्च निरोधमभिमुखं करोत्यभिमुखी करोति । स च सम्प्रज्ञातश्चतुष्प्रकार इत्याह – स चेति । असम्प्रज्ञातमाह – सर्ववृत्तीति । रजस्तमोमयी किल प्रमाणादिवृत्तिः सात्त्विकीं वृत्तिमुपादाय सम्प्रज्ञाते निरुद्धा । असम्प्रज्ञाते तु सर्वासामेव निरोध इत्यर्थः । तदिह भूमिद्वये समाप्ता या मधुमत्यादयो भूमयस्ताः सर्वास्तासु विदितः सार्वभौम इति सिद्धम् ॥ १ ॥ पातञ्जल-रहस्यम्

दग्धवेत्रबीजस्य यत्कदलीकाण्डजनकत्वमुदाहरणं तद् दाहसहकृतभूविकारः स न वेत्रबीजविकारः, तद्गतरसाद्यप्रत्यभिज्ञानाद्, भूते = पारमार्थिक तमस्येव; न विवर्त्त इत्यर्थः, एकाग्रम् = एकमीशमासमन्ताद् गच्छद्रमते निश्चलीभवति, एकतत्त्वाभ्यासादिति वक्ष्यते, कार्ये = अपूर्वे, कारणं = यागादिः, तत्र योगशब्दप्रयोगात्,

“श्रुतार्थापत्तिरेवैका प्रमाणं तस्य चेष्यते । शब्दैकदेशभावात्तु स्वार्थेष्वागम एव च ॥ ”, इति भट्टोक्तेः,

अपूर्वं श्रुतार्थापत्तिगम्यम्, एवं “सति मूले” अपूर्वे सति, तद्विपाकाः = जात्यायुर्भोगाः, निरुद्धेति कृत्वा सम्प्रज्ञातोsप्युपादेयो, भूमिद्वये = सम्प्रज्ञातासम्प्रज्ञातरूपे, या इति प्रथमाबहुवचनम् ॥ १ ॥ तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते- योगश्चित्तवृत्तिनिरोधः ॥ २ ॥ सर्वशब्दाग्रहणात्सम्प्रज्ञातोऽपि योग इत्याख्यायते। चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात्त्रिगुणम्। टीका तत्त्व-वैशारदी

द्वितीयं सत्रूमवतारयति – तस्य लक्षणेति । तस्येति पूर्वसूत्रोपात्तं द्विविधं योगं परामृशति – योगश्चित्तवृत्तिनिरोधः । निरुध्यन्ते यस्मिन्प्रमाणादिवृत्तयोऽवस्थाविशेषे चित्तस्य सोऽवस्थाविशेषो योगः । ननु सम्प्रज्ञातस्य योगस्याव्यापकत्वादलक्षणमिदम् । अनिरुद्धा हि तत्र सात्त्विकी चित्तवृत्तिरित्यत आह – सर्वशब्दाग्रहणादिति । यदि सर्वचित्तवृत्तितिरोध इत्युच्येत भवेदव्यापकं सम्प्रज्ञातस्य । क्लेशकर्मविपाकाशयपरिपरन्थी चित्तवृत्तिनिरोधस्तु तमपि सङ्गृह्णाति । तत्रापि राजसतामसचित्तवृत्तिनिरोधात्तस्य च तद्भावादित्यर्थः । कुतः पुनरेकस्य चित्तस्य क्षिप्तादिभूभिसम्बन्धः किमर्थं चैवमवस्थस्य चित्तस्य वृत्तयो निरोद्धव्या इत्याशङ्क्य प्रथमं तावदवस्थासम्बन्धे हेतुमुपन्यस्यति – चित्तं हीति । प्रख्याशीलत्वात्सत्त्वगुणम् । प्रवृत्तिशीलत्वाद्रजोगुणम् । स्थितिशीलत्वात्तमोगुणम् । प्रख्याग्रहणमुपलक्षणार्थम् । तेनान्येऽपि सात्त्विकाः प्रसादलाघवप्रीत्यादयः सूच्यन्ते । प्रवृत्त्या च परितापशोकादयो राजसाः । प्रवृत्तिविरोधी तमोवृत्तिधर्मः स्थितिः । स्थितिग्रहणाद्गौरवावरणदैन्यादय उपलक्ष्यन्ते । एतदुक्तं भवति – एकमपि चित्तं त्रिगुणनिर्भिततया गुणानां च वैषम्येण परस्परविमर्दवैचित्र्याद्विचित्रपरिणामं सदनेकावस्थमुपपद्यत इति । पातञ्जल-रहस्यम्

तमपि = सम्प्रज्ञातमपि, सङ्गृह्णाति परिपन्थित्वाविशेषात्,

प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।

अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः – इति साङ्ख्यसिद्धान्तमाह – चित्तं हीति । प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति। तदेव तमसाऽनुविद्धमधर्माज्ञानावैराग्यानैश्वयोपगं भवति। तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति। टीका तत्त्व-वैशारदी

क्षिप्ताद्या एव चित्तस्य भूमीर्यथासम्भवमवान्तरावस्थाभेदवतीरादर्शयति – प्रख्यारूपं हीति । चित्तरूपेण परिणतं सत्त्वं चित्तसत्त्वम् । तदेवं प्रख्यारूपतया सत्त्वप्राधान्यं चित्तस्य दर्शितम् । तत्र चित्ते सत्त्वात्किञ्चिदूने रजस्तमसी यदा मिथः समे च भवतस्तदैश्वर्यं च विषयाश्च शब्दादयस्तान्येव प्रियाणि यस्य तत्तथोक्तम् । सत्त्वप्राधान्यात्खलु चित्तं तत्त्वे प्रणिधित्सदपि तत्त्वस्य तमसा पिहितत्वादणिमादिकमैश्वर्यमेव तत्त्वमभिमन्यमानं तत्प्रणिधित्सति प्रणिधत्ते च क्षणम् । अथ रजसा क्षिप्यमाणं तत्राप्यलब्धस्थिति तत्प्रियमात्रं भवति । शब्दादिषु पुनरस्य स्वरसवाही प्रेमा निरूढ एव । तदनेन विक्षिप्तं चित्तमुक्तम् । क्षिप्तं चित्तं दर्शयन्मूढमपि सूचयति – तदेव तमसेति । यदा हि तमो रजो विजित्य प्रसतं तदा चित्तसत्त्वावरकतमःसमुत्सारणेऽशक्तत्वाद्रजसस्तमःस्थगितं चित्तमधर्माद्युपगच्छति । अज्ञानं च विपर्ययज्ञानम् । अभावप्रत्ययालम्बनं च निद्राज्ञानमुक्तम् । ततश्च मूढावस्थाऽपि सूचितेति । अनैश्वर्यं सर्वत्रेच्छाप्रतीघातः । अधर्मादिव्याप्तं चित्तं भवतीत्यर्थः । यदा तु तदेव चित्तसत्त्वमाविर्भूतसत्त्वमपगततमःपटलं सरञ्जस्कं भवति तदा धर्मज्ञानवैराग्यैश्वर्याण्युपगच्छतीत्याह – प्रक्षीणेत्यादि । मोहस्तमस्तदेव चाऽऽवरणं प्रकर्षेण क्षीणं यस्य तत्तथोक्तम् । अत एवे सर्वतो विशेषाविशेषलिङ्गमात्रालिङ्गपुरुषेषु प्रद्योतमानम् । तथाऽपि न धर्मायैश्वर्याय च कल्पते प्रवृत्त्यभावादित्यत आह – अनुविद्धं रजोमात्रया । रजसः प्रवर्तकत्वादस्ति धर्मादिप्रवृत्तिरित्यर्थः । तदनेन सम्प्रज्ञातसमाधिसम्पन्नयोर्मधुभूमिकप्रज्ञाज्योतिर्षोर्मध्यमयोर्योगिनोश्चित्तसत्त्वं सङ्गृहीतम् । पातञ्जल-रहस्यम्

प्रख्या = प्रकाशः, ऐश्वर्यम् = अणिमादि, स्वरसवाही = जलस्येव निम्नगामिता, अज्ञानञ्च ज्ञानाभाव इति मतं निराह-विपर्ययज्ञानमिति । तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति। तत्परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः। चितिशक्तिरपरिणामिन्यप्रतिसङ्क्रमा दर्शितविषया शुद्धा चानन्ता च सत्त्वगुणात्मिका चेयमतोविपरीता विवेकख्यातिरिति। अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि। तदवस्थं संस्कारोपगं भवति। स निर्बीजः समाधिः। न तत्र किञ्चित्सम्प्रज्ञायत इत्यसम्प्रज्ञातः। द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥ २ ॥ टीका तत्त्व-वैशारदी

सम्प्रत्यतिक्रान्तभावनीयस्य ध्यायिनश्चतुर्थस्य चित्तावस्थामाह – तदेव चित्तं रजोलेशान्मलादपेतमत एव स्वरूपप्रतिष्ठम् । अभ्यासवैराग्यपुटपाकप्रबन्धविधूतरजस्तमोमलस्य हि बुद्धिसत्त्वतपनीयस्य स्वरूपप्रतिष्ठस्य विषयेन्द्रियप्रत्याहृतस्यानवसिताधिकारतया च कार्यकारिणो विवेकख्यातिः परं कार्यमवशिष्यत इत्याह - सत्त्वपुरुषान्यताख्यातिमात्रं चित्तं धर्ममेघध्यानोपगं भवति । धर्ममेघश्च वक्ष्यते । अत्रैव योगिजनप्रसिद्धिमाह – तदिति । सत्त्वपुरुषान्यताख्यातिमात्रं चित्तं धर्ममेघपर्यन्तं परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः । चित्तसामानाधिकरण्यं च धर्मधर्मिणोरभेदविवक्षया द्रष्टव्यम् । विवेकख्यातेर्हानहेतुं चितिशक्तेश्चोपादानहेतुं निरोधसमाधिमवतारयितुं चितिशक्तेः साधुतामसाधुतां च विवेकख्यातेर्दर्शयति – चितिशक्तिरित्यादि । सुखदुःखमोहात्मकत्वमशुद्धिः । सुखमोहावपि हि विवेकिनं दुःखाकुरुतः । अतो दुःखवद्धेयौ । तथा चातिसुन्दरमप्यन्तवद्दुनोति । तेन तदपि हेयमेव विवेकिनः । सेयमशुद्धिरन्तश्च चितिशक्तौ पुरुषे न स्त इत्युक्तम् – शुद्धा चानन्ता चेति । ननु सुखदुःखमोहात्मकशब्दादीनियं चेतयमाना तदाकारापन्ना कथं विशुद्धा तदाकारपरिग्रहपरिवर्जने च कुर्वती कथमनन्तेत्यत उक्तम् – दर्शितविषयेति । दर्शितो विषयः शब्दादिर्यस्यै सा तथोक्ता । भवेदेतदेवं यदि बुद्धिवच्चितिशक्तिर्विषयाकारतामापद्येत, किन्तु बुद्धिरेव विषयाकारेण परिणता सत्यतदाकारायै चितिशक्त्यै विषयमादर्शयति । ततः पुरुषश्चेतयत इत्युच्यते । ननु विषयाकारां बुद्धिमनारूढायाश्चितिशक्तेः कथं विषयवेदनं विषयारोहे वा कथं न तदाकारापत्तिरित्यत उक्तम् - अप्रतिसङ्क्रभेति । प्रतिसङ्क्रमः सञ्चारः । स चितेर्नास्तीत्यर्थः । स एव कुतोऽस्या नास्तीत्यत उक्तम् – अपरिणामिनीति । न चितेस्त्रिविधोऽपि धर्मलक्षणावस्थालक्षणः परिणामोऽस्ति । येन क्रियारूपेण परिणता सती बुद्धिसंयोगेन परिणमेत चितिशक्तिः । असङ्क्रान्ताया अपि विषयसंवेदनमुपपादयिष्यते । तत्सिद्धं चितिशक्तिः शोभनेति । विवेकख्यातिस्तु बुद्धिसत्त्वात्मिकाऽशोभनेत्युक्तम् – अतश्चितिशक्तेर्विपरीतेति । यदा च विवेकख्यातिरपि हेया तदा कैव कथा वृत्त्यन्तराणां दोषबहुलानामिति भावः । ततस्तद्धेतोर्निरोधसमाधेरवतारो युज्यत इत्याह – अतस्तस्यामिति । ज्ञानप्रसादमात्रेण हि परेण वैराग्येण विवेकख्यातिमपि निरुणद्धीत्यर्थः । अथ निरुद्धाशेषवृत्ति चित्तं कीदृशमित्यत आह – तदवस्थमित्यादि । स निरोधोऽवस्था यस्य तत्तथोक्तम् । निरोधस्य स्वरूपमाह – स निर्बीज इति । क्लेशसहितः कर्माशयो जात्यायुर्भोगबीजं तस्मान्निर्गत इति निर्बीजः । अस्यैव योगजनप्रसिद्धामन्वर्थसञ्ज्ञामादर्शयति – न तत्रेति । उपसंहरति – द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥ २ ॥ पातञ्जल-रहस्यम्

सत्प्रतियोगिकाभावकल्पनाद् वरं भावकल्पनं लघ्वित्यसुरामित्रादिवद्,

“भावान्तरमभावो हि कया चित्तु व्यपेक्षया”

इति भट्टोक्तेश्च, अपगततमःपटलम् = अनावरकम्, विशेषाः = शान्तघोरमूढशब्दाद्यन्विताः पर्थिव्यादयः, तत्र शान्तो विरञ्च्यादिशब्दः, घोरो व्याघ्रादिशब्दः, मूढो मेघादिध्वनिः, एवं स्पर्शः पुत्रवह्निपवनादिषु, एवं रूपं चन्द्रसूर्यस्त्र्यादिषु, एवं रसो मधुरकटुकषायादिषु, एवं गन्धः कर्पूरलशुनकस्तूरिकाssदिषून्नेयम्, अविशेषास्तन्मात्राणि भूतमात्राणि भूतमात्रतामापन्नानि इत्यर्थः, लिङ्गमात्राः महदादिमनोsन्ताः त्रयोदश प्रकृतौ लीनत्वाद्, अलिङ्गं प्रकृतिः कुत्रापि लयरहितत्वात्, प्रज्ञाज्योतिरिति विशोकाय नामान्तरम्, अतिक्रान्तभावनीयस्य = जीवन्मुक्तस्य,

अनवसिताधिकारतयेति । जन्मरहितत्वेन, धर्ममेघः = परं वैराग्यम्, धर्मः प्रसङ्ख्यानादिः, धर्मि चित्तम्, प्रसङ्ख्यानं वैराग्यं, अतिसुन्दरं स्वर्गादिसुखम, “तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते” इत्यादिश्रुतेः स्वर्गादेरन्तवत्त्वश्रवणाद्, “यज्जन्यं तदनित्यं” इति व्याप्तेश्च, “अपाम सोमम्” इत्यादि किञ्चित्कालस्थपरम्, शुद्धा = क्लेशकर्मादिधर्मात्यन्ताभावाधिकरणं, अनन्ता = प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगिनी, अशुधिरन्तश्च पुरुषे नास्तीति,

“पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः” इति श्रुतेः, तस्यामपीति ।

“त्यज धर्ममधर्मञ्च उभे सत्यानृते त्यज ।

उभे सत्यानृते त्यक्त्वा येन त्यजसि तत् त्यज” इति श्रुतेः, उक्तं त्यक्त्वा ज्ञानमपि त्यजेत्यर्थः, त्रिविधेति । धर्मपरिणामो नाम मृत्सुवर्णादेर्घटाकारापत्तिः, लक्षणपरिणामो नामातीतप्रत्युदिताव्यपदेश्यरूपो वक्ष्यते, अवस्थापरिणामो नाम नूतननूतनतरनूतनतमत्वादि, परेणेति । कृतकृत्यरूपेण बीजे सत्यसति प्रतिबन्धेsवश्यं कार्यं स्यादिति सूचितम्, अन्वर्था = अनुगतार्था, न तु शब्दमात्रम् ॥ २ ॥ तदवस्थे चेतसि विषयाभावाद्बुद्धिबोधात्मा पुरुषः किंस्वभाव इति – तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥ स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये। व्युत्थानचित्ते तु सति तथाऽपि भवन्ती न तथा ॥ ३ ॥ टीका तत्त्व-वैशारदी

सम्प्रत्युत्तरसूत्रमवतारायितुं चोदयति – तदवस्थे चेतसीति । किमाक्षेपे । तत्तदाकारपरिणतबुद्धिबोधात्मा खल्वयं पुरुषः सदाऽनुभूयते न तु बुद्धिबोधरहितोऽतोऽस्य पुरुषस्य बुद्धिबोधः स्वभावः सवितुरिव प्रकाशः । न च संस्कारशेषे चेतसि सोऽस्ति । न च स्वभावमपहाय भावो वर्तितुमर्हतीति भावः । स्यादेतत् । संस्कारशेषामपि बुद्धिं कस्मात्पुरुषो न बुध्यत इत्यत आह – विषयाभावादिति । न बुद्धिमात्रं पुरुषस्य विषयोऽपितु पुरुषार्थवती बुद्धिः । विवेकख्यातिविषयभोगौ च पुरुषार्थौ । तौ च निरुद्धावस्थायां न स्त इति सिद्धो विषयाभाव इत्यर्थः । सूत्रेण परिहरति – तदा द्रष्टुः स्वरूपेऽवस्थानम् । स्वरूप इत्यारोपितं शान्तघोरमूढस्वरूपं निवर्तयति । पुरुषस्य हि चैतन्यं स्वरूपमनौपाधिकं न तु बुद्धिबोधः शान्तादिरूप औपाधिको हि स स्फटिकस्येव स्वभावस्वच्छधवलस्य जपाकुसुमसन्निधानोपाधिररुणिमा । न चोपाधिनिवृत्तावुपहितनिवृत्तिरतिप्रसङ्गादिति भावः । स्वरूपस्य चाभेदेऽपि भेदं विकल्प्याधिकरणभाव उक्त इति । अयमेवार्थो भाष्यकृता द्योत्यते – स्वरूपप्रतिष्ठेति । तदानीं निरोधावस्थायां न व्युत्थानावस्थायामिति भावः । स्यादेतद्व्युत्थानावस्थायामप्रतिष्ठिता स्वरूपे चितिशक्तिर्निरोधावस्थायां प्रतितिष्ठन्ती परिणामिनी स्यात् । व्युत्थाने वा स्वरूपप्रतिष्ठाने व्युत्थाननिरोधयोरविशेष इत्यत आह – व्युत्थानचित्ते त्विति । न जातु कूटस्थनित्या चितिशक्तिः स्वरूपाच्च्यवते तेन यथा निरोधे तथैव व्युत्थानेऽपि । न खलु शुक्तिकायाः प्रमाणविपर्ययज्ञानगोचरत्वेऽपि स्वरूपोदयव्ययौ भवतः । प्रतिपत्ता तु तथाभूतमप्यतथात्वेनाभिमन्यते । निरोधसमाधिमपेक्ष्य सम्प्रज्ञातोऽपि व्युत्थानमेवेति ॥ ३ ॥ पातञ्जल-रहस्यम्

सवितुरीति व्यतिरेकदृष्टान्तः, तस्य परिणामित्वात् पुंसस्तदनधिकरणत्वात्,

“सदृशादृष्टसंस्काराः स्मृतिबीजस्य हेतवः”

इत्युक्तिमाश्रित्याह – न चेति । आरोपे सति निमित्तानुसरणम् न तु निमित्तमस्तीत्यारोपः, कार्योन्नेयत्वात्तेषां, निरधिकारे चेतसि सोsकिञ्चित्करः, भावो धर्मी स्वभावं धर्मं विना वर्तितुं नार्हतीति, यथा वह्निरौष्ण्यप्रकाशं विना, बुद्धिस्थमर्थं पुरुषबुद्धिश्चेतयते न तु बुद्धिमात्रम्, यथा – “पोटा स्त्रीपुंसलक्षणा” इत्यभिधानात्, स्वरूप इति आरोपितरूपं निषेधति, तत्र श्रुतिः – “स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि यदि वा न महिम्नीति”, निरूपादानस्य द्रव्यस्याकाशवदाश्रयाश्रयिभावप्रतिपत्तौ भ्रान्तवृत्तिमत्त्वाविषेषाद् व्युत्थानमेवेति ॥ ३ ॥ कथं तर्हि, दर्शितविषयत्वात् – वृत्तिसारुप्यमितरत्र ॥ ४ ॥ व्युत्थाने याश्चित्तवृत्तयस्तदविशिष्टवृत्तिः पुरुषः। तथा च सूत्रम् – “एकमेव दर्शनं ख्यातिरेव दर्शनम्” इति। चित्तमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः। तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः सम्बन्धो हेतुः ॥ ४ ॥ टीका तत्त्व-वैशारदी

सूत्रान्तरमवतारयितुं पृच्छति – कथं तर्हीति । यदि तथा भवन्ती न तथा केन तर्हि प्रकारेण प्रकाशत इत्यर्थः । हेतुपदमध्याहृत्य सूत्रं पठति – दर्शितविषयत्वाद्वृत्तिसारूप्यमितरत्र । इतरत्र व्युत्थाने याश्चित्तवृत्तयः शान्तघोरमूढास्ता एवाविशिष्टा अभिन्ना वृत्तयो यस्य पुरुषस्य स तथोक्तः । सारूप्यमित्यत्र सशब्द एकपर्यायः एतदुक्तं भवति - जपाकुसुमस्फटिकयोरिव बद्धिपरुषयोः सन्निधानादभेदग्रहे बुद्धिवृत्तीः पुरुषे समारोप्य शान्तोऽस्मि दुःखितोऽस्मि मूढोऽस्मीत्यध्यवस्यति । यथा मलिने दर्पणतले प्रतिबिम्बितं मुखं मलिनमारोप्य शोचत्यात्मानं मलिनोऽस्मीति । यद्यपि पुरुषसमारोपोऽपि शब्दादिविज्ञानवद्बुद्धिवृत्तिर्यद्यपि च प्राकृतत्वेनाचिद्रूपतयाऽनुभाव्यस्तथाऽपि बुद्धेः पुरुषत्वमापादयन्पुरुषवृत्तिरिवानुभव इवावभासते । तथा चायमविपर्ययोऽप्यात्मा विपर्ययवानिवाभोक्ताऽपि भोक्तेव विवेकख्यातिरहितोऽपि तत्सहित इव विवेकख्यात्या प्रकाशते । एतच्च “चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम्” इत्यत्र “सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः” इत्यत्र चोपपादयिष्यते । एतच्च मतान्तरेऽपि सिद्धमित्याह – तथा चेति । पञ्चशिखाचार्यस्य सूत्रम् “एकमेव दर्शनं ख्यातिरेव दर्शनम्” इति । ननु कथमेकं दर्शनं यावता बुद्धेः शब्दादिविषया विवेकविषया च वृत्तिः प्राकृततया जडत्वेनानुभाव्या दर्शनं ततोऽन्यत्पुरुषस्य चैतन्यमनुभवो दर्शनमित्यत आह – ख्यातिरेव दर्शनमिति । उदयव्ययधर्मिणीं वृत्तिं ख्यातिं लौकिकीमभिप्रेत्यैतदुक्तम् – एकमेवेति । चैतन्यं तु पुरुषस्य स्वभावो न ख्यातेः । तत्तु न लोकप्रत्यक्षगोचरोऽपि त्वागमानुमानगोचर इत्यर्थः । तदनेन व्युत्थानावस्थायां मूलकारणमविद्यां दर्शयता तद्धेतुकः संयोगो भोगहेतुः स्वस्वामिभावोऽपि सूचित इति तमुपपादयन्नाह – चित्तं स्वं भवति पुरुषस्य स्वामिन इति सम्बन्धः । ननु चित्तजनितमुपकारं भजमानो हि चेतनश्चित्तस्येशिता । न चास्य तज्जनितोपकारसम्भवस्तदसम्बन्धादनुपकार्यत्वात्तत्संयोगतदुपकारभागित्वे परिणामप्रसङ्गादित्यत आह – अयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेनेति । न पुरुषसंयुक्तं चित्तमपि तु तत्सन्निहितम् । सन्निधिश्च पुरुषस्य न देशतः कालतो वा तदसंयोगात्किन्तु योग्यतालक्षणः । अस्ति च पुरुषस्य भोक्तृशक्तिश्चित्तस्य भोग्यशक्तिः । तदुक्तम् – दृश्यत्वेनेति । शब्दाद्याकारपरिणतस्य भोग्यत्वेनेत्यर्थः । भोगश्च यद्यपि शब्दाद्याकारा वृत्तिश्चित्तस्य धर्मस्तथाऽपि चित्तचैतन्ययोरभेदसमारोपाद्वृत्तिसारूप्यात्पुरुषस्येत्युक्तम् । तस्माच्चित्तेनासंयोगेऽपि तज्जनितोपकारभागिता पुरुषस्यापरिणामिता चेति सिद्धम् । ननु स्वस्वामिसम्बन्धो भोगहेतुरविद्यानिमित्तोऽविद्या तु किन्निमित्ता न खल्वनिमित्तं कार्यमुत्पद्यते । यथाऽहुः –

“स्वप्नादिवदविद्यायाः प्रवृत्तिस्तस्य किङ्कृता । “

इति शङ्कामुपसंहारव्याजेनोद्धरति – तस्माच्चित्तवृत्तिबोधे शान्तघोरमूढाकारचित्तवृत्त्युपभोगे-ऽनाद्यविद्यानिमित्तत्वादनादिः संयोगो हेतुरविद्यावासनयोश्च सन्तानो बीजाङ्कुरसन्तानवदनादिरिति भावः ॥ ४ ॥ पातञ्जल-रहस्यम्

तथा भवन्ती कैवल्यरूपाsपि व्युत्थाने न तथा भेदेनानाभासमानत्वादेकरूपेव, सादृश्यस्य भेदघटितत्वादिति भावः, मुखे दर्पणगतमालिन्यमारोप्योक्तं, मलिनमिति, शोचत्यात्मानमिति । समारोपोsपि बुद्धिवृत्तिश्चेतःपरिणामित्वादिति भावः, पुम्प्रकृत्योर्जलदुग्धयोरिवात्यन्तसङ्कीर्णत्वादेकमिव दर्शनं भवति, अनुभाव्या दर्शनमिति दृश्यते पुरुषेणेति व्तुत्पत्त्या, अनादिरिति,

“तदाकृत्युपरक्तानां व्यक्तीनामेकया विना । अनादिकाला वृत्तिर्या सा कार्यानादिता मता” इत्युक्तेरिति ॥ ४ ॥ ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य – वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५ ॥ क्लेशहेतुकाः कर्माशयप्रचये क्षेत्रीभूताः क्लिष्टाः। ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः। क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः। क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति। अक्लिष्टच्छिद्रेषु क्लिष्टा इति। तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते। संस्कारैश्च वृत्तय इति। एवं वृत्तिसंस्कारचक्रमनिशमावर्तते। तदेवम्भूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति। ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः ॥ ५ ॥ टीका तत्त्व-वैशारदी

स्यादेतत्पुरुषो हि शक्य उपदिश्यते । न च वृत्तिनिरोधो वृत्तीरविज्ञाय शक्यः । न च सहस्रेणापि पुरुषायुषैरलमिमाः कश्चित्परिगणयितुम् । असङ्ख्याताश्च कथं निरोद्धव्या इत्याशङ्क्य तासामियत्तास्वरूपप्रतिपादनपरं सूत्रमवतारयति – ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य – वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । वृत्तिरूपोऽवयव्येकस्तस्य प्रमाणादयोऽवयवाः पञ्च । ततस्तदवयवा पञ्चतयी पञ्चावयवा वृत्तिर्भवति । ताश्च वृत्तयश्चैत्रमैत्रादिचित्तभेदाद्बह्व्य इति बहुवचनमुपपन्नम् । एतदुक्तं भवति – चैत्रो वा मैत्रो वाऽन्यो वा कश्चित्सर्वेषामेव तेषां वृत्तयः पञ्चतय्य एव नाधिका इति । चित्तस्येति चैकवचनं जात्यभिप्रायम् । चित्तानामिति तु द्रष्टव्यम् । तासामवान्तारविशेषमनुष्ठानोपयोगिनं दर्शयति – क्लिष्टाक्लिष्टा इति । अक्लिष्टा उपादाय क्लिष्टा निरोद्धव्यास्ता अपि परेण वैराग्येणेति । अस्य व्याख्यानं – क्लेशहेतुका इति । क्लेशा अस्मितादयो हेतवः प्रवृत्तिकारणं यासां वृत्तीनां तास्तथोक्ताः । यद्वा पुरुषार्थप्रधानस्य रजस्तमोमयीनां हि वृत्तीनां क्लेशकारणत्वेन क्लेशायैव प्रवृत्तिः । क्लेशः क्लिष्टं तदासामस्तीति क्लिष्टा इति । यत एव क्लेशोपार्जनार्थममूषां प्रवृत्तिरत एव कर्माशयप्रचये क्षेत्रीभूताः । प्रमाणादिना खल्वयं प्रतिपत्ताऽर्थमवसाय तत्र सक्तो द्विष्टो वा कर्माशयमाचिनोतीति भवन्ति धर्माधर्मप्रचयप्रसवभूमयो वृत्तयः क्लिष्टा इति ।

अक्लिष्टा व्याचष्टे – ख्यातिविषया इति । विधूतरजस्तमसो बुद्धिसत्त्वस्य प्रशान्तवाहिनः प्रज्ञाप्रसादः ख्यातिस्तया विषयिण्या तद्विषयं सत्त्वपुरुषविवेकमुपलक्षयति । तेन सत्त्वपुरुषविवेकविषया यतोऽत एव गुणाधिकारविरोधिन्यः । कार्यारम्भणं हिं गुणानामधिकारो विवेकख्यातिपर्यवसानं च तदिति चरिताधिकाराणां गुणानामधिकारं विरुन्धन्तीति । अतस्ता अक्लिष्टाः प्रमाणप्रभृतयो वृत्तयः । स्यादेतद्वीतरागजन्मादर्शनात्क्लिष्टवृत्तय एव सर्वे प्राणभृतः । न च क्लिष्टवृत्तिप्रवाहे भवितुमर्हन्त्यक्लिष्टा वृत्तयो न चामूषां भावेऽपि कार्यकारिता विरोधिमध्यपातित्वात्तस्मात्क्लिष्टानामक्लिष्टाभिर्नरोधस्तासां च वैराग्येण परेणेति मनोरथमात्रमित्यत आह – क्लिष्टप्रवाहेति । आगमानुमानाचार्योपदेशपरिशीलनलब्धजन्मनी अभ्यासवैराग्ये क्लिष्टच्छिद्रमन्तरा तत्र पतिताः स्वयमक्लिष्टा एव यद्यपि क्लिष्टप्रवाहपतिताः । न खलु शालग्रामे किरातशतसङ्कीर्णे प्रतिवसन्नपि ब्राह्मणः किरातो भवति । अक्लिष्टच्छिद्रेष्विति निदर्शनम् । क्लिष्टान्तरवर्तितया च क्लिष्टाभिरनभिभूता अक्लिष्टाः । स्वसंस्कारपरिपाकक्रमेण क्लिष्टा एव तावदभिभवन्तीत्याह – तथाजातीयका इति । अक्लिष्टाभिर्वृत्तिभिरक्लिष्टाः संस्कारा इत्यर्थः । तदिदं वृत्तिसंस्कारचक्रमनिशमावर्तते, आनिरोधसमाधेः । तदेवम्भूतं चित्तं निरोधावस्थं संस्कारशेषं भूत्वाऽऽत्मकल्पेनावतिष्ठत इत्यापाततः प्रलयं वा गच्छतीति परमार्थतः । पिण्डीकृत्य सूत्रार्थमाह – ता इति । पञ्चधेत्यर्थकथनमात्रं न तु शब्दवृत्तिव्याख्यानम् । तयपः प्रकारेऽस्मरणात् ॥ ५ ॥ पातञ्जल-रहस्यम्

“तमो मोहो महामोहस्ताभिसो ह्यन्धसञ्ञकः । अविद्या पञ्चपर्वा सा प्रादुर्भूता महात्मनः” ॥

इति विष्णुपुराणोक्तमाश्रित्याह – तासामिति । अविद्याssदयः पञ्च पर्वाणीव पर्वाणि यस्याः, लम्बकर्णवत् तद्गुणसंविज्ञानो बहुव्रीहिः; ते पञ्च, क्लेशा इति परिभाषा प्राणिनां क्लेशहेतुत्वाद्वा, प्रतिपत्ता = अधिकारी, स च मनुष्याधिकारत्वाच्छास्त्रस्य; सक्तो रागी, चिनोति रागद्वेषप्रयुक्तासत्कर्मणि करोतीत्यर्थः, ख्यातिरिति । सत्त्वपुरुशान्यताज्ञानं सत्त्वपुरुषविवेकमिति पुरुषप्रतियोगीकसत्त्वानुयोगिकभेदज्ञानं स्तम्भः पिशाचो नेतिवत्, पुरुषसाक्षात्काराभावेsपि भेदधीः “प्रकृतिपुरुषसंयोगा नित्यानुमेयाः” इति सिद्धान्ताद्, “वीतरागजन्मादर्शनादि”ति न्यायसूत्रम्, वीतरागाः क्लेशाद्यनधिकारिणः, तेषां निरधिकारत्वाज्जन्माभाव इति सूत्रार्थः, आगम इति । आगम इत्यनेन श्रवणम्, अनुमानं = मननम्, आचार्योपदेशो ब्रह्मनिष्ठोपदेशः,

“उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः”

इति स्मृतेर्निधिध्यासनं वा परिशीलनमसकृदावृत्तिः, तन्मध्यपतितस्तद्ग्रहणेन गृह्यत इति न्यायमन्यथयति – न खल्विति ॥ ५ ॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतय ॥ ६ ॥ टीका तत्त्व-वैशारदी

ताः स्वसञ्ज्ञाभिरुद्दिशति – प्रमाणविपर्ययविकल्पनिद्रास्मृतयः । निर्देशे यथावचनं विग्रहञ्चार्थे द्वन्द्वः समास इतरेतरयोगे । यथाऽनित्याशुचिदुःखानात्मसु नित्यशुचिमुखात्मख्यातिरविद्येत्युक्तेऽपि न दिङ्मोहालातचक्रादिविभ्रमा व्युदस्यन्त एवमिहापि प्रमाणाद्यभिधानेऽपि वृत्त्यन्तरसद्भावशङ्का न व्युदस्येतेति तन्निरासाय वक्तव्यं पञ्चतय्य इति । एतावत्य एव वृत्तयो नापराः सन्तीति दर्शित भवति ॥ ६ ॥ पातञ्जल-रहस्यम्

निर्देश इति । लक्षणसूत्रा उत्तरे, तत्र यथावचनं यथासङ्ख्यं यथालिङ्गं च विग्रहः, तेन प्रमाणानि च विपर्ययश्च विकल्पश्च निद्रा च स्मृतिश्चेति समासः, अविद्येति । अयोगव्यवच्छेदः, तेनालातचाक्रादीनां ग्रहणम् ॥ ६ ॥ तत्र प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥ इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम्। फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः। प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः। टीका तत्त्व-वैशारदी

तत्र प्रमाणवृत्तिं विभजन्सामान्यलक्षणमाह – प्रत्यक्षानुमानागमाः प्रमाणानि । अनधिगततत्त्वबोधः पौरुषेयो व्यवहारहेतुः प्रमा । तत्करणं प्रमाणम् । विभागवचनं च न्यूनाधिकसङ्ख्याव्यवच्छेदार्थम् । तत्र सकलप्रमाणमूलत्वात्प्रथमतः प्रत्यक्षं लक्षयति – इन्द्रियेति । अर्थस्येति समारोपितत्वं निषेधति । तद्विषयेति बाह्यगोचरतया ज्ञानाकारगोचरत्वं निवारयति । चित्तवर्तिनो ज्ञानाकारस्य बाह्यज्ञेयसम्बन्धं दर्शयति – बाह्यवस्तूपरागादिति । व्यवहितस्य तदुपरागे हेतुमाह – इन्द्रियप्रणालिकयेति । सामान्यमात्रमर्थ इत्येके । विशेषा एवेत्यन्ये । सामान्यविशेषतद्वत्तेत्यपरे वादिनः प्रतिपन्नास्तन्निरासायाऽऽह – सामान्यविशेषात्मन इति । न तद्वत्ता किं तु तादात्म्यमर्थस्य । एतच्चैकान्तानभ्युपगम इत्यत्र प्रतिपादयिष्यते अनुमानागमविषयात्प्रत्यक्षविषयं व्यवच्छिनत्ति – विशेषावधारणप्रघानेति । यद्यपि सामान्यमपि प्रत्यक्षे प्रतिभासते तथाऽपि विशेषं प्रत्युपसर्जनीभूतमित्यर्थः । एतच्च साक्षात्कारोपलक्षणपरम् । तथा च विवेकख्यातिरपि लक्षिता भवति । फलविप्रतिपत्तिं निराकरोति – फलं पौरुषेयश्चित्तवृत्तिबोध इति । ननु पुरुषवर्ती बोधः कथं चित्तगताया वृत्तेः फलम् । न हि खदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियत इत्यत आह – अविशिष्ट इति । न हि पुरुषगतो बोधो जन्यते, अपि तु चैतन्यमेव बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्त्याऽर्थाकारया तदाकारतामापद्यमानं फलम् । तच्च तथाभूतं युद्धेरविशिष्टं बुद्ध्यात्मकं, वृत्तिश्च बुद्ध्यात्मिकेति सामानाधिकरण्याद्युक्तः प्रमाणफलभाव इत्यर्थः । एतच्चोपपादयिष्याम इत्याह – प्रतिसंवेदीति । अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम्। यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवत्, विन्ध्यश्चाप्राप्तिरगतिः। आप्तेन दृष्टोऽनुमितो वाऽर्थपरत्रस्वबोधसङ्क्रान्तये शब्देनोपदिश्यते, शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः। यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते। मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ॥ ७ ॥ टीका तत्त्व-वैशारदी

प्रत्यक्षानन्तरं प्रवृत्त्यादिलिङ्गकश्रोतृबुद्ध्यनुमानप्रभवसम्बन्धदर्शनसमुत्थतयाऽऽगमस्यानुमान-जत्वादनुमितस्य चाऽऽगमेनान्वाख्यानादागमात्प्रागनुमानं लक्षयति – अनुमेयस्येति । जिज्ञासितधर्मविशिष्टो धर्म्यनुमेयस्तस्य तुल्यजातीयाः साध्यधर्मसामान्येन समानार्थाः सपक्षास्तेष्वनुवृत्त इत्यनेन विरुद्धत्वमसाधारणत्वं च साधनधर्मस्य निराकरोति । भिन्नजातीया असपक्षास्ते च सपक्षादन्ये तद्विरुद्धास्तदभाववन्तश्च, तेभ्यो व्यावृत्तस्तदनेन साधारणानैकान्तिकत्वमपाकरोति । सम्बध्यत इति सम्बन्धो लिङ्गमनेन पक्षधर्मतां दर्शयन्नसिद्धतां निवारयति । तद्विषया तन्निबन्धना, “षिञ् बन्धने” इत्यस्माद्विषयपदव्युत्पत्तेः । सामान्यावधारणेति प्रत्यक्षविषयाद्व्यवच्छिनत्ति । सम्बन्धसंवेदनाधीनजन्मानुमानं विशेषेषु सम्बन्धग्रहणाभावेन सामान्यमेव सुकरसम्बन्धग्रहणं गोचरयतीति । उदाहरणमाह – यथेति । चो हेत्वर्थे । विन्ध्योऽगतिर्यतस्तस्मात्तस्याप्राप्तिरतो गतिनिवृत्तौ प्राप्तेर्निवृत्तिदेशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवदिति सिद्धम् । आगमस्य वृत्तेलक्षणमाह – आप्तेनेति । तत्त्वदर्शनकारुण्यकरणपाटवाभिसम्बन्ध आप्तिस्तया वर्तत इत्याप्तस्तेन दृष्टोऽनुमितो वाऽर्थः । श्रुतस्य पृथगनुपादानं तस्य दृष्टानुमितमूलत्वेन ताभ्यामेव चरितार्थत्वादाप्तचित्तवर्तिज्ञानसदृशस्य ज्ञानस्य श्रोतृचित्ते समुत्पादः स्वबोधसङ्क्रान्तिस्तस्यै, अर्थ उपदिश्यते श्रोतृहिताहितप्राप्तिपरिहारोपायतया प्रज्ञाप्यते । शेषं सुगमम् । यस्याऽऽगमस्याश्रद्धेयार्थो वक्ता, यथा यान्येव दश दाडिमानि तानि षडपूपा भविष्यन्तीति । न दृष्टानुमितार्थो यथा चैत्यं वन्देत स्वर्गकाम इति । स आगमः प्लवते । नन्वेवं मन्वादीनामप्यागमः प्लवेत । न हि तेऽपि दृष्टानुमितार्थाः । यथाऽऽहुः –

“यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः । स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ ”

इत्यत आह – मूलवक्तरि त्विति । मूलवक्ता हि तत्रेश्वरो दृष्टानुमितार्थ इत्यर्थः ॥ ७ ॥ पातञ्जल-रहस्यम्

प्रकृतिकार्याणां प्रमाणप्रमेयादीनां जडत्वेन हानोपादानादिव्यवहाराश्चिदधीना इत्याह – अनधिगतेत्यादि – प्रमेत्यन्तेन, तत्कारणं तद्व्यञ्जकम्, “त्रिविधं प्रमाणमाख्यातमि”त्युक्तियोजनायाह – विभागवचनमिति । सामान्यमित्येके = भाट्टादयः, यद्यपि त्वक्चक्षुषोर्द्रव्यग्राहकत्वात् सामान्यमात्रं न गृह्यते; तथाsपि द्रव्यतादात्म्येन ग्रहणम्, आकृतिस्तु “क्रियाsर्थत्वाद्” इति सूत्रे निर्णीतम्, विशेषा एवेत्यन्ये = बौद्धाः, तेषां क्षनिकस्वलक्षणमात्रस्वीकाराज्जातेरस्वीकृतिः; असकृत् क्षणान्तरक्षनावर्तित्वं क्षणिकत्वं, सामान्यविशेषतद्वत्ता इत्यपरे = नैयायिकाः “जात्याकृतिव्यक्तयः पदार्थ” इति स्वीकृतेः, स्वमतमाह – तच्चे इति । तादात्म्यमिति । भेदानुपमर्द्देनाभेदधीहेतुस्तादात्म्यम्, यथा घटघटत्वयो; अयं घट इति च प्रतीतेः, बुद्ध्यात्मकमिति । बुद्धिश्चित्तवृत्तिस्तदविनाभूतम्, तथा च केनेsपि तच्छ्रतिः-प्रतिबोधविदितमिति, बुध्यतेsनेनेतिवद्, व्यक्तिं विना जातेः; चित्तवृत्तिं विना फलचैतन्याग्रहाद्, अनुमनोपजीवित्वादागमस्य प्रत्यक्षानन्तरमिति सङ्गतिमाह – प्रवृत्यादीति ।

अयमर्थः – गामानाय शुक्लां दण्डेनेत्युत्तमबुद्धेनोक्ते मध्यमबुद्धस्य गवानयने प्रवृत्तिं दृष्ट्वा व्युत्पित्सुर्बालोsनुमिनोति – अस्यैषा प्रवृत्तिरिष्टसाधनादिज्ञानपुरःसरा प्रवृत्तित्वाद् मदीयप्रवृत्तिवद् गामानयेति शब्दं विनाsन्यत् कारणमनुपलभमानस्तादृशपदकदम्बमेव कारणत्वेन जानाति, न जानाति किं पदं कुत्र शक्तमिति ततोsश्वमानाय गां बधानेति शब्दं श्रृणोति, ततश्चावापोद्वापाभ्यां प्रतिपदं व्युत्पन्नो भवति – गोपदं गवि शक्तमिति, आनयपदमानयने शक्तमिति, अन्वाख्यानेति । अन्वाख्यानं त्वनुमानादिगृहीतोsर्थः परस्मिन् श्रोत्रन्तःकरणे तादृशेन शब्देन समर्पणमिति अनुमेय इति । अनुमेयो वह्न्यादिः, तुल्यजातीया इति । तुल्यजातीयामहानसादयः, असाधारण इति । असाधारणत्वं सपक्शहीनत्वम्, निराकरोति – भाष्य इति शेषः, असपक्षा जलह्रदादयः, अपाकरोति, भाष्य इति शेषः, विरुद्धासाधारणसाधारणानैकान्तिकासिद्धाः हेत्वाभासास्ते निरस्ताः, भूतार्थदर्शनं = तत्त्वदर्शनम्, कारुण्यं = परदुःखप्रहानेच्छा, करणपाटवं बाधिर्यादिराहितयम्, श्रुतस्य पृथगनुपादानमिति, तत् साक्षात् परम्परया वा दृष्टावुमिताभ्यां व्याप्तम् ॥ ७ ॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥ स कस्मान्न प्रमाणम्? यतः प्रमाणेन बाध्यते। भूतार्थविषयत्वात्प्रमाणस्य। तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम्। तद्यथा – द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति। टीका तत्त्व-वैशारदी

विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् । विपर्यय इति लक्ष्यनिर्देशः । मिथ्याज्ञानमित्यादि लक्षणम् । यज्ज्ञानप्रतिभासिरूपं, तद्रूपाप्रतिष्ठभेदातद्रूपप्रतिष्ठम् । यथाऽश्राद्धभोजीति । अतः संशयोऽपि सङ्गृहीतः । एतावांस्तु विशेषः – तत्र ज्ञानारूढैवाप्रतिष्ठता द्विचन्द्रादेस्तु बाधज्ञानेन । मन्वेवं विकल्पोऽपि तद्रूपाप्रतिष्ठानाद्विचारतो विपर्ययः प्रसज्येतेत्यत आह – मिथ्याज्ञानमिति । अनेन हि सर्वजनीनानुभवसिद्धो बाध उक्तः । स चास्ति विपर्यये न तु विकल्पे, तेन व्यवहारात् । पण्डितरूपाणामेव तु विचारयता तत्र बाधबुद्धेरिति । चोदयति – स कस्मान्न प्रमाणम् । नोत्तरेणोपजातविरोधिना ज्ञानेन पूर्वं बाधनीयमपि तु पूर्वेणैव प्रथममुपजातेनानुपजातविरोधिना परमिति भावः । परिहरति – यतः प्रमाणेनेति । यत्र हि पूर्वापेक्षा परोत्पत्तिस्तत्रैवमिह तु स्वकारणादन्योन्यानपेक्षे ज्ञाने जायेते । तेनोत्तरस्य पूर्वमनुपमृद्योदयमनासादयतस्तदपबाधात्मैवोदयो न तु पूर्वस्योत्तरबाधात्मा, तस्य तदानीमप्रसक्तेः । तस्मादनुपजातविरोधिता बाध्यत्वे हेतुरुपजातविरोधिता च बाधकत्वे । तस्माद्भूतार्थविषयत्वात्प्रमाणेनाप्रमाणस्य बाधनं सिद्धम् । उदाहरणमाह – तत्र प्रमाणेनेति । सेयं पञ्चपर्वा भवत्यविद्या, अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति। एत एव स्वसञ्ज्ञाभिस्तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति। एते चित्तमलप्रसङ्गेनाभिधास्यन्ते ॥ ८ ॥ टीका तत्त्व-वैशारदी

अस्य कुत्सितत्वं हानाय दर्शयति – सेयं पञ्चेति । अविद्यासामान्यमविद्यास्मितादिषु पञ्चसु पर्वस्वित्यर्थः । अव्यक्तमहदहङ्कारपञ्चतन्मात्रेष्वष्टस्वनात्मस्वात्मबुद्धिरविद्या तमः । एवं योगिनामष्टस्वणिमादिकेष्वैश्वर्येष्वश्रेयःसुश्रेयोबुद्धिरष्टविधो मोहः पूर्वस्माज्जघन्यः । स चास्मितोच्यते । तथा योगेनाष्टविधमैश्वर्यमुपादाय सिद्धो भूत्वा दृष्टानुश्रविकाञ्शब्दादीन्दश विषयान्भोक्ष्य इत्येवमात्मिका प्रतिपत्तिर्महामोहो रागः । एवमेतेनैवाभिसन्धिना प्रवर्तमानस्य केनचित्प्रतिबद्धत्वादणिमादीनामनुत्पत्तौ तन्निबन्धनस्य दृष्टानुश्रविकविषयोपभोगस्यासिद्धेः प्रतिबन्धकविषयः क्रोधः स तामिस्राख्यो द्वेषः । एवमणिमादिगुणसम्पत्तौ दृष्टानुश्रविकविषयप्रत्युपस्थाने च कल्पान्ते सर्वमेतन्नङ्क्ष्यतीति यस्त्रासः सोऽभिनिवेशोऽन्धतामिस्रः । तदुक्त –

“भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः” इति ॥ ८ ॥ पातञ्जल-रहस्यम्

अप्रतिष्ठा = एककोट्यनिर्धारणम्, धियामौत्सर्गिकं प्रामाण्यमिति न्यामाश्रित्याह – स कस्मादिति ।

“पूर्वं परमजातत्वादबाधित्वैव जायते ।

परस्यानन्यथोत्पादाग्र त्वबाधेन सम्भव” इति ।

न्यायमाश्रित्याह – परिहरतीति । प्रमाणेन = उत्तरभाविना, उपसंहरति – तस्मादिति । सामान्यम् = अविद्यापदवाच्यत्वं पञ्चानामवान्तरभेदे सत्यपि,

तदुक्तम् –

“तत्सादृष्यमभावश्च तदन्यत्वं तदल्पता ।

अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिता” इति

स्वसमञ्ज्ञाभिरिति । यथासङ्ख्यं तमोमोहमहामोहादिनामानः, अणिमादीति ।

“अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ।

ईशित्वञ्च वशित्वञ्च तथा कामावसायिता” इति

अस्यार्थः – यत ऐश्वर्यादणुर्भवति तत्र विद्यमनोsपि न दृश्यते, लघिमा लघुर्भवति सूर्यलोकं गच्छति, प्राप्तिः सप्तवितस्तिपरिमाणोऽप्यन्गुल्यग्रेण चान्द्रमसं स्पृशति, प्राकाम्यं यद्यद् इच्छति तत्तत् करोति-भूमावपि निमज्जति, महिमा पर्वतादिशरीरो भवतीति, कायिकं वाचिकं मानसं त्रयमीशित्वं सर्वान् प्रतीष्टे, केनापि न प्रतिहन्यते यत्तदश्वर्यं, वशित्वञ्च भूतभौतिकान् वशीकरोति तेषां प्रभवव्यूहलये समर्थो भवति, कामावसायिता यद्वाचाsभिलषति मनसा सङ्कल्पयति तत्सत्यं, अन्येषां तु व्यभिचरतीति भावः, केनचिदित्यसुरादिना, तदुक्तमिति । तत्त्वकौमुद्यां ॥ ८ ॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥ स न प्रमाणोपारोही। न विपर्ययोपारोही च। वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते। तद्यथा – चैतन्यं पुरुषस्य स्वरूपमिति। यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते। टीका तत्त्व-वैशारदी

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः । ननु शब्दज्ञानानुपाती चेदागमप्रमाणान्तरगतो विकल्पः प्रसज्येत निर्वस्तुकत्वे वा विपर्ययः स्यादित्यत आह – स नेति । न प्रमाणविपर्ययान्तर्गतः । कस्माद्यतो वस्तुशून्यत्वेऽपीति प्रमाणान्तर्गतिं निषेधति । शब्दज्ञानमाहात्म्यनिबन्धन इति विपर्ययान्तर्गतिम् । एतदुक्तं भवति – क्वचिदभेदे भेदमारोपयति क्वचित्पुनर्भिन्नानामभेदम् । ततो भेदस्याभेदस्य च वस्तुनोऽभावात्तदाभासो विकल्पो न प्रमाणं नापि विपर्ययो व्यवहाराविसंवादादिति । शास्त्रप्रसिद्धमुदाहरणमाह – तद्यथेति । किं विशेष्यं केन व्यपदिश्यते विशेष्यते नाभेदे विशेष्यविशेषणभावो न हि गवा गौर्विशेष्यते । किन्तु भिन्नेनैव चैत्रेण । भवति च व्यपदेशे वृत्तिः। यया चैत्रस्य गौरिति। तथा प्रतिषिद्धवस्तुधर्मो निष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति, गतिनिवृत्तौ धात्वर्थमात्रं गम्यते। तथाऽनुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमात्रमवगम्यते न पुरुषान्वयी धर्मः। तस्माद्विकल्पितः स धर्मस्तेन चास्ति व्यवहार इति ॥ ९ ॥ टीका तत्त्व-वैशारदी

तदिदमाह – भवति च व्यपदेशे वृत्तिः । व्यपदेशव्यपदेश्ययोर्भावो व्यपदेशः । विशेषणविशेष्यभाव इति यावत् । तस्मिन्वृत्तिर्वाक्यस्य यथा चैत्रस्य गौरिति । शास्त्रीयमेवोदाहरणान्तरं समुच्चिनोति – तथेति । प्रतिषिद्धो वस्तुनः पृथिव्यादेर्धर्मः परिस्पन्दो यस्य स तथोक्तः । कोऽसौ निष्क्रियः पुरुषः । न खलु साङ्ख्यीये सिद्धान्तेऽभावो नाम कश्चिदस्ति वस्तुधर्मो येन पुरुषो विशेष्येतेत्यर्थः । क्वचित्पाठः प्रतिषिद्धा वस्तुधर्मा इति । तस्यार्थः – प्रतिषेधव्याप्ताः प्रतिषिद्धा न वस्तुधर्माणां तद्व्याप्यता भावाभवयोरसम्बन्धादथ च तथा प्रतीतिरिति । लौकिकमुदाहरणमाह – तिष्ठति बाण इति । यथा हि पचति भिनत्तीत्यत्र पूर्वापरीभूतः कर्मक्षणप्रचय एकफलावच्छिन्नः प्रतीयत एवं तिष्ठतीत्यत्रापि । पूर्वापरीभावमेवाऽऽह – स्थास्यति स्थित इति । ननु भवतु पाकवत्पूर्वापरीभूतयाऽवस्थानक्रियया बाणाद्भिन्नया बाणस्य व्यपदेश इत्यत आह – गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । गतिनिवृत्तिरेव तावत्कल्पिता तस्या अपि भावरूपत्वं तत्रापि पूर्वापरीभाव इत्यहो कल्पनापरम्परेत्यर्थः । अभावः कल्पितो भाव इव चानुगत इव च सर्वपुरुषेषु गम्यते न पुनः पुरुषव्यतिरिक्तो धर्मः कश्चिदित्युदाहरणान्तरमाह – तथाऽनुत्पत्तिधर्मेति । प्रमाणविपर्ययाभ्यामन्या न विकल्पवृत्तिरिति वादिनो बहवः प्रतिपेदिरे । तत्प्रतिबोधनायोदाहरणप्रपञ्च इति मन्तव्यम् ॥ ९ ॥ पातञ्जल-रहस्यम्

विकल्पस्य तृतीयत्वं दूषयन्नाह – नान्विति । व्यपदेशे भेदे वृततिर्वाक्यस्येति शेषः, निष्क्रियः पुरुष इति भिन्नानामभेदधीः तदाभास इति । वस्तुशून्यत्वेsपि शब्दव्यवहाराविसंवादिशब्दमाहात्म्येन भासत इत्यर्थः, असम्बन्धादिति । अभावास्वीकृतेः संयोगसमवायतादात्म्यानां नैयायिकमतेsप्यसिद्धेः एकं फलं = विक्लित्तिः ॥ ९ ॥ अभावप्रययालम्बना वृत्तिर्निद्रा ॥ १० ॥ सा च सम्प्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः। कथं, सुखमहमस्वाप्सम्। प्रसन्नं मे मनः प्रज्ञां मे विशारदी करोति। दुःखमहमस्वाप्सं स्त्यानं मे मनो भ्रमत्यनवस्थितम्। गाढं मूढोऽहमस्वाप्सम्। गुरूणि मे गात्राणि। क्लान्तं मे चित्तम्। अलसं मुषितमिव तिष्ठतीति। स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे तदाश्रिताः स्मृतयश्च तद्विषया न स्युः। तस्मात्प्रत्ययविशेषो निद्रा। सा च समाधावितरप्रत्ययवन्निरोद्धव्येति ॥ १० ॥ टीका तत्त्व-वैशारदी

अभावप्रत्ययालम्बना वृत्तिर्निद्रा । अधिकृतं हि वृत्तिपदमनुवादकम् । प्रमाणविपर्ययविकल्पस्मृतीनां वृत्तित्वं प्रति परीक्षकाणामविप्रतिपत्तेः । अतस्तदनूद्यते विशेषविधानाय । निद्रायास्तु वृत्तित्वे परीक्षकाणामस्ति विप्रतिपत्तिरिति वृत्तित्वं विधेयम् । न च प्रकृतमनुवादकं विधानाय कल्पत इति पुनर्वृत्तिग्रहणम् । जाग्रत्स्वप्नवृत्तीनामभावस्तस्य प्रत्ययः कारणं बुद्धिसत्त्वाच्छादकं तमस्तदेवाऽऽलम्बनं विषयो यस्याः सा तथोक्ता वृत्तिर्निद्रा । बुद्धिसत्त्वे हि त्रिगुणे यदा सत्त्वरजसी अभिभूय समस्तकरणावरकमाविरस्ति तमस्तदा बुद्धेर्विषयाकारपरिणामाभावादुद्भूततमोमयीं बुद्धिमवबुध्यमानः पुरुषः सुषुप्तोऽन्तःसञ्ज्ञ इत्युच्यते । कस्मात्पुनर्निरुद्धकैवल्ययोरिव वृत्त्यभाव एव न निद्रेत्यत आह – सा च सम्प्रबोधे प्रत्यवमर्शात्सोपपत्तिकात्स्मरणात्प्रत्ययविशेषः । कथं, यदा हि सत्त्वसचिवं तम आविरस्ति तदेदृशः प्रत्यवमर्शः सुप्तोत्थितस्य भवति सुखमहमस्वाप्सं प्रसन्नं मे मनः प्रज्ञां मे विशारदी करोति स्वच्छीकरोतीति । यदा तु रजःसचिवं तम आविरस्ति तदेदृशः प्रत्यवमर्श इत्याह – दुःखमहमस्वाप्सं स्त्यानमकर्मण्यं मे मनः कस्माद्यतो भ्रमत्यनवस्थितम् । नितान्ताभिभूतरजःसत्त्वे तमःसमुल्लासे स्वापे प्रबुद्धस्य प्रत्यवमर्शमाह – गाढं मूढोऽहमस्वाप्सं गुरूणि मे गात्राणि क्लान्तं मे चित्तमलसं मुषितमिव तिष्ठतीति । साध्यव्यतिरेके हेतुव्यतिरेकमाह – स खल्वयमिति । प्रबुद्धस्य प्रबुद्धमात्रस्य । तदाश्रिताश्चेति बोधकाले, प्रत्ययानुभवे वृत्त्यभावकारणानुभव इत्यर्थः । ननु प्रमाणादयो व्युत्थानचित्ताधिकरणा निरुध्यन्तां समाधिप्रतिपक्षत्वान्निद्रायास्त्वेकाग्रवृत्तितुल्यायाः कथं समाधिप्रतिपक्षतेत्यत आह – सा च समाधाविति । एकाग्रतुल्याऽपि तामसत्वेन निद्रा सबीजनिर्बीजसमाधिप्रतिपक्षेति साऽपि निरोद्धव्येत्यर्थः ॥ १० ॥ पातञ्जल-रहस्यम्

करणावरकमिति कारणवत्त्वं सूचितं वेदान्तिनामिव न करणाभावः सुषुप्तौ, सोपपत्तिकाद् = अनुभूतविशयकात्, तदेवाह-यदा हीत्यादिना, सा च समाधौ कर्तव्येति शेषः, निद्रा न त्याज्या; एकाग्रवृत्तितुल्यत्वादित्याशङ्क्याह – तामसत्वेनेति ॥ १० ॥ अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ ११ ॥ किं प्रत्ययस्य चित्तं स्मरति आहोस्विद्विषयस्येति। ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तज्जातीयकं संस्कारमारभते। स संस्कारः स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति। टीका तत्त्व-वैशारदी

अनुभूतविषयासम्प्रमोषः स्मृतिः । प्रमाणादिभिरनुभूते विषथे योऽसम्प्रमोषोऽस्तेयं सा स्मृतिः । संस्कारमात्रजस्य हि ज्ञानस्य संस्कारकारणानुभवावभासितो विषय आत्मीयस्तदधिकविषयपरिग्रहस्तु सम्प्रमोषः स्तेयम् । कस्मात्सादृश्यात् । ‘मुष स्तेये’ इत्यस्मात्प्रमोषपदव्युत्पत्तेः । एतदुक्तं भवति – सर्वे प्रमाणादयोऽनधिगतमर्थं सामान्यतः प्रकारतो वाऽधिगमयन्ति । स्मृतिः पुनर्न पूर्वानुभवमर्यादामतिक्रामति । तद्विषया तदूनविषया वा न तु तदधिकविषया । सोऽयं वृत्त्यन्तराद्विशेषः स्मृतेरिति । विमृशति – किं प्रत्ययस्येति । ग्राह्यप्रवणत्वादनुभवस्य स्वानुभवाभावात्तज्जः संस्कारो ग्राह्यमेव स्मारयतीति प्रतिभाति । अनुभवमात्रजनितत्वाच्चानुभवमेवेति । विमृश्योपपत्तित उभयस्मरणमवधारयति – ग्राह्यप्रवणतया ग्राह्योपरक्तः । परमार्थतस्तु ग्राह्यग्रहणे एवोभयं तयोराकारं स्वरूपं निर्भासयति प्रकाशयति । स्वव्यञ्जकं कारणमञ्जनमाकारो यस्य स तथोक्तः । स्वकारणाकार इत्यर्थः । व्यञ्जकमुद्बोधकं तेनाञ्जनं फलाभिमुखीकरणं यस्येति वेत्यर्थः । तत्र ग्रहणाकारपूर्वा बुद्धिः। ग्राह्याकारपूर्वा स्मृतिः। सा च द्वयी – भावितस्मर्तव्या चाभावितस्मर्तव्या च। स्वप्ने भावितस्मर्तव्या। जाग्रत्समये त्वभावितस्मर्तव्येति। सर्वाः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात्प्रभवन्ति। सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः। सुखदुःखमोहाश्च क्लेशेषु व्याख्येयाः। सुखानुशयी रागः। दुःखानुशयी द्वेषः। मोहः पुनरविद्येति। एताः सर्वा वृत्तयो निरोद्धव्याः। आसां निरोधे सम्प्रज्ञातो वा समाधिर्भवत्यसम्प्रज्ञातो वेति ॥ ११ ॥ टीका तत्त्व-वैशारदी

ननु यदि कारणविचारेण बुद्धिस्मरणयोः सारूप्यं कस्तर्हि भेद इत्यत आह – तत्र ग्रहणेति । ग्रहणमुपादानं, न च गृहीतस्योपात्तस्योपादानं सम्भवति । तदनेनानधिगतबोधनं बुद्धिरित्युक्तम् । ग्रहणाकारो ग्रहणरूपं पूर्वं प्रधानं यस्याः सा तथोक्ता । विकल्पितश्चायमभेदेऽपि गुणप्रधानभाव इति । ग्राह्याकारः पूर्वः प्रथमो यस्याः सा तथोक्ता । इदमेव च ग्राह्याकारस्य ग्राह्यस्य पूर्वत्वं यद्वृत्त्यन्तरविषयीकृतत्वमर्थस्य । तदनेन वृत्त्यन्तरविषयीकृतगोचरा स्मृतिरित्युक्तं भवति । सोऽयमसम्प्रमोष इति । नन्वस्ति स्मृतेरपि सम्प्रमोषः । दर्शयति हि पित्रादेरतीतस्य देशकालान्तरानुभूतस्याननुभूतचरदेशकालान्तरसम्बन्धः स्वप्न इत्यत आह – सा च द्वयीति । भावितः कल्पितः स्मर्तव्यो यया सा तथोक्ता । अभावितोऽकल्पितः पारमार्थिक इति यावत् । नेयं स्मृतिरपि तु विपर्ययस्तल्लक्षणोपपन्नत्वात्स्मृत्याभासतया तु स्मृतिरुक्ता । प्रमाणाभासमिव प्रमाणमिति भावः । कस्मात्पुनरन्ते स्मृतेरुपन्यास इत्यत आह – सर्वाः स्मृतय इति । अनुभवः प्राप्तिः । प्राप्तिपूर्वा वृत्तिः स्मृतिस्ततः स्मृतीनामुपजन इत्यर्थः । ननु ये पुरुषं क्लिश्नन्ति ते निरोद्धव्याः प्रेक्षावता । क्लेशाश्च तथा । न च वृत्तय, तत्किमर्थमासां निरोध इत्यत आह – सर्वाश्चैता इति । सुगमम् ॥ ११ ॥ पातञ्जल-रहस्यम्

अनुभवविषयातिरिक्तविषयस्यार्जनं सम्प्रमोषः, सादृष्यादिति । तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वं सादृश्यं तस्मात्, स्मरणस्य ग्रहणभिन्नतवेsपि ग्रहणविषयीकृतविषयमात्रग्रहत्वं – प्रकारतः = विशेषत इत्यर्थः, ग्राह्योपरक्त इति ।

“अर्थेनैव विशेषो हि निराकारतया धियाम्”

इत्युक्तिमाश्रित्याह – ग्राह्यप्रवणेति । विशेषः = ज्ञानस्य व्यावर्थकोsर्थ इत्यर्थः, स्वव्यञ्जकं = संस्कारः, उपादानं = स्वीकारः, न च स्वीकृतस्य स्वीकार इत्याह – न चेति । उक्ता बुद्धिः, स्मृतिमाह-ग्राह्याकार इति । वृत्यन्तरविषयीकृतत्वं गृहीतग्राहित्वम्, अत्र वृत्तिविशेषणम्; अन्येषामुपलक्षणतेति नये कल्पित इति स्मर्यमाणे पित्रादौ सान्निध्यमारोप्याह-अयं पितेत्युक्तिः सङ्गता, नेयं स्मृतिरिति । स्वप्नलक्षणाक्रान्तत्वात्, उपजनं = जन्म, तेभ्यः स्मृतेरित्यर्थः ॥ ११ ॥ अथाऽऽसां निरोधे क उपाय इति – अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥ चित्तनदी नामोभयतोवाहिनी वहति कल्याणाय वहति पापाय च। या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा। संसारप्राग्भाराऽविवेकविषयनिम्ना पापवहा। तत्र वैराग्येण विषयस्रोतः खिलीक्रियते। विवेकदर्शनाभ्यासेन विवेकस्रोत उद्धाट्यत इत्युभयाधीनश्चित्तवृत्तिनिरोधः ॥ १२ ॥ टीका तत्त्व-वैशारदी

निरोधोपायं पृच्छति – अथेति । सूत्रेणोत्तरमाह – अभ्यासवैराग्याभ्यां तन्निरोधः । अभ्यासवैराग्ययोर्निरोधे जनयितव्येऽवान्तरव्यापारभेदेन समुच्चयो न तु विकल्प इत्याह – चित्तनदीति । प्राग्भारः प्रबन्धः । निम्नता गम्भीरता, अगाधतेति यावत् ॥ १२ ॥ पातञ्जल-रहस्यम्

न तु विकल्प इति । पक्षे बाधात् विकल्प उभयस्याशास्त्रत्वात् समुच्चयः श्रेयान्, निम्ना = तत्प्रवणा, खिलीक्रियते = अवरुद्ध्यत इत्यर्थः, उध्गाट्यते = निरावरणं क्रियते, उभयाधीन इति । घटधारणे त्रिदण्डवदिति वैराग्याभ्यासाधीन इत्यर्थः ॥ १२ ॥ तत्र स्थितौ यत्नाऽभ्यासः ॥ १३ ॥ चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः। तदर्थः प्रयत्नो वीर्यमुत्साहः। तत्सम्पिपादयिषया तत्साधनानुष्ठानमभ्यासः ॥ १३ ॥ टीका तत्त्व-वैशारदी

तत्राभ्यासस्य स्वरूपप्रयोजनाभ्यां लक्षणमाह – तत्र स्थितौ यत्नोऽभ्यासः । तद्व्याचष्टे –चित्तस्यावृत्तिकस्य राजसतामसवृत्तिरहितस्य प्रशान्तवाहिता विमलता सात्त्विकवृत्तिवाहितैकाग्रता स्थितिः । तदर्थ इति । स्थिताविति निमित्तसप्तमी व्याख्याता “चर्मणि द्वीपिनं हन्ति” इति । प्रयत्नमेव पर्यायाभ्यां विशदयति – वीर्यमुत्साह इति । तस्येच्छायोनितामाह – तत्सम्पिपादयिषया । तदिति स्थितिं परामृशति । प्रयत्नस्य विषयमाह – तत्साधनेति । स्थितिसाधनान्यन्तरङ्गबहिरङ्गाणि यमनियमादीनि । साधनगोचरः कर्तृव्यापारो न फलगोचर इति ॥ १३ ॥ पातञ्जल-रहस्यम्

“तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः” ॥

इत्युक्तं, तत्राल्पार्थं नञं स्वीकृत्याह – अवृत्तिकस्येति । अलवणा यवागूः, ईषल्लवणेत्यर्थः, सत्त्ववृत्तिकस्येति शेषः ॥ १३ ॥ स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥ दीर्घकालासेवितो निरन्तरासेवितः सत्कारासेवितः। तपसा ब्रह्मचर्येण विद्यया श्रद्धया च सम्पादितः सत्कारवान्दृढभूमिर्भवति। व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः ॥ १४ ॥ टीका तत्त्व-वैशारदी

ननु व्युत्थानसंस्कारेणानादिना परिपन्थिना प्रतिबद्धोऽभ्यासः कथं स्थित्यै कल्पत इत्यत आह – स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः । सोऽयमभ्यासो विशेषणत्रयसम्पन्नः सन्दृदावस्थो न सहसा व्युत्थानसंस्कारैरभिभूतस्थितिरूपविषयो भवति । यदि पुनरेवम्भूतमप्यभ्यासं कृत्वोपरमेत्ततः कालपरिवासेनाभिभूयेत । तस्मान्नोपरन्तव्यमिति भावः ॥ १४ ॥ पातञ्जल-रहस्यम्

दीर्घकालेति । आदरः = श्रद्धा, नैरन्तर्येति । आसुषुप्तेरिति भाष्यार्थः, सत्कारः = ब्रह्मचर्यादिपरिवासः, कालाधिक्यञ्चेति ॥ १४ ॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् ॥ १५ ॥ स्त्रियोऽन्नपानमैश्वर्यमिति दृष्टविषये वितृष्णस्य स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तावानुश्रविकविषये वितृष्णस्य दिव्यादिव्यविषयसम्प्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसङ्ख्यानबलादनाभोगात्मिका हेयोपादेयशून्या वशीकारसञ्ज्ञा वैराग्यम् ॥ १५ ॥ टीका तत्त्व-वैशारदी

वैराग्यमाह – दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् । चेतनाचेतनेषु दृष्टविषयेषु वितृष्णतामाह – स्त्रिय इति । ऐश्वर्यमाधिपत्यम् । अनुश्रवो वेदस्ततोऽधिगता आनुश्रविकाः स्वर्गादयः । तत्रापि वैतृष्ण्यमाह – स्वर्गेति । देहरहिता विदेहाः करणेषु लीनास्तेषां भावो वैदेह्यम् । अन्ये तु प्रकृतिमेवाऽऽत्मानमभिमन्यमानाः प्रकृत्युपासकाः प्रकृतौ साधिकारायामेव लीनास्तेषां भावः प्रकृतिलयत्वं तत्प्राप्तिविषये, आनुश्रविकविषये वितृष्णस्याऽऽनुश्रविकविषये वितृष्णो हि स्वर्गादिप्राप्तिविषये वितृष्ण इत्युच्यते । ननु यदि वैतृष्ण्यमात्रं वैराग्यं हन्त विषयाप्राप्तावपि तदस्तीति वैराग्यं स्यादित्यत आह – दिव्यादिव्येति । न वैतृष्ण्यमात्रं वैराग्यमपि तु दिव्यादिव्यविषयसम्प्रयोगेऽपि चित्तस्यानाभोगात्मिका । तामेव स्पष्टयति - हेयोपादेयशून्या । आसङ्गद्वेषरहितोपेक्षाबुद्धिर्वशीकारसञ्ज्ञा । कुतः पुनरियमित्यत्राऽऽह – प्रसङ्ख्यानबलादिति । तापत्रयपरीतता विषयाणां दोषस्तत्परिभावनया तत्साक्षात्कारः प्रसङ्ख्यानं तद्बलादित्यर्थः । यतमानसञ्ज्ञा, व्यतिरेकसञ्ज्ञा, एकेन्द्रियसञ्ज्ञा, वशीकारसञ्ज्ञा चेति चतस्रः सञ्ज्ञा इत्यागमिनः । रागादयः खलु कषायाश्चित्तवर्तिनस्तैरिन्द्रियाणि यथास्वं विषयेषु प्रवर्तन्ते, तन्मा प्रवर्तिषतेन्द्रियाणि तत्तद्विषयेष्विति तत्परिपाचनायाऽऽरम्भः प्रयत्नः सा यतमानसञ्ज्ञा । तदारम्भे सति केचित्कषायाः पक्वाः पच्यन्ते पक्ष्यन्ते च केचित् । तत्र पक्ष्यमाणेम्यः पक्वानां व्यतिरेकेणावधारणं व्यतिरेकसञ्ज्ञा । इन्द्रियप्रवर्तनासमर्थतया पक्वानामौत्सुक्यमात्रेण मनसि व्यवस्थानमेकेन्द्रियसञ्ज्ञा । औत्सुक्यमात्रस्यापि निवृत्तिरुपस्थितेष्वपि दिव्यादिव्यविषयेषूपेक्षाबुद्धिः सञ्ज्ञात्रयात्परा वशीकारसञ्ज्ञा । एतयैव च पूर्वासां चरितार्थत्वान्न ताः पृथगुक्ता इति सर्वमवदातम् ॥ १५ ॥ पातञ्जल-रहस्यम्

चेतनेति । चेतनाः = स्त्र्यादयः, अचेतनाः = वस्त्रादयः, करणेषु महत्तत्त्वादिमनोsन्तेषु, साधिकारायां = पुनर्जन्महेतुभूतायाम्, आगामिनः = पौराणिकाः, तत्तद्विषयेषु शब्दादिषु, परिपाचनाय = निरोधायेत्यर्थः, एकेन्द्रियसञ्ज्ञा = एकेन्द्रियं मनः तत्र सञ्ज्ञा = अवस्थितिः, अत एवोक्तं भगवता

“रसवर्जं रसोsप्यस्य परं दृष्ट्वा निवर्तते । ”

रसो नाम रागः, परम् = आत्मानम्, उत्तरसिद्धौ किं पूर्वेणेति न्यायमाश्रित्याह -एतयैवेति ॥ १५ ॥ तत्परं पुरुषख्यातेर्गुणवेतृष्ण्यम् ॥ १६ ॥ दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात्तच्छुद्धिप्रविवेकाप्यायितबुद्धिर्गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति। तद्वयं वैराग्यम्। तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम्। यस्योदये सति योगी प्रत्युदितख्यातिरेवं मन्यते – प्राप्तं प्रापणीयं, क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसङ्क्रमः, यस्याविच्छेदाज्जनित्वा म्रियते मृत्वा च जायत इति। ज्ञानस्यैव परा काष्ठा वैराग्यम्। एतस्यैव हि नान्तरीयकं कैवल्यमिति ॥ १६ ॥ टीका तत्त्व-वैशारदी

अपरं वैराग्यमुक्त्वा परमाह – तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् । अपरवैराग्यस्य परं वैराग्यं प्रति कारणत्वम् । तत्र च द्वारमादर्शयति – दृष्टानुश्रविकविषयदोषदर्शी विरक्त इति । अनेनापरं वैराग्यं दर्शितम् । पुरुषदर्शनाभ्यासादागमानुमानाचार्योपदेशसमधिगतस्य पुरुषस्य दर्शनं तस्याभ्यासः पौनःपुन्येन निषेवणं तस्मात्तस्य दर्शनस्य शुद्धी रजस्तमःपरिहाण्या सत्त्वैकतानता तया यो गुणपुरुषयोः प्रकर्षेण विवेकः पुरुषः शुद्धोऽनन्तस्तद्विपरीता गुणा इति, तेनाऽऽप्यायिता बुद्धिर्यस्य योगिनः स तथोक्तः । तदनेन धर्ममेघाख्यः समाधिरुक्तः । स तथाभूतो योगी गुणेभ्यो व्यक्ताव्यक्तधर्मकेम्यः सर्वथा विरक्तः सत्त्वपुरुषान्यताख्यातावपि गुणात्मिकायां यावद्विरक्त इति । तत्तस्माद्द्वयं वैराग्यम् । पूर्वं हि वैराग्यं सत्त्वसमुद्रेकविधूततमसि रजःकणकलङ्कसम्पृक्ते चित्तसत्त्वे । तच्च तौष्टिकानामपि समानम् । ते हि तेनैव प्रकृतिलया बभूवुः । यथोक्तम् – वैराग्यात्प्रकृतिलय इति । तत्र तयोर्द्वयोर्मध्ये यदुत्तरं तज्ज्ञानप्रसादमात्रम् । मात्रग्रहणेन निर्विषयतां सूचयति । तदेव हि तादृशं चित्तसत्त्वं रजोलेशमलेनाप्यपरामृष्टमस्याऽऽश्रयोऽत एव ज्ञानप्रसाद इत्युच्यते । चित्तप्तत्त्वं हि प्रसादस्वभावमपि रजस्तमःसम्पर्कान्मलिनतामनुभवति । वैराग्याभ्यासविमलवारिधाराधौतसमस्तरजस्तमोमलं त्वतिप्रसन्नं ज्ञानप्रसादमात्रपरिशेषं भवति । तस्य गुणानुपादेयत्वाय दर्शयति – यस्योदये सति योगी प्रत्युदितख्यातिः । ख्यातिविशेषे सति वर्तमानख्यातिमानित्यर्थः । प्रापणीयं कैवल्यं प्राप्तम् । यथा वक्ष्यति – जीवन्नेव विद्वान्मुक्तो भवति । संस्कारमात्रस्य च्छिन्नमूलस्य सिद्धत्वादिति भावः । कुतः प्राप्तं, यतः – क्षीणाः क्षेतव्याः क्लेशा अविद्यादयः सवासनाः । नन्वस्ति धर्माधर्मसमूहो भवस्य जन्ममरणप्रबन्धस्य सङ्क्रमः प्राणिनाम् । तत्कुतः कैवल्यमित्यत आह – छिन्न इति । श्लिष्टानि निःसन्धीनि पर्वाणि यस्य स तथोक्तः । धर्माधर्मसमूहस्य समूहिनः पर्वाणि तानि श्लिष्टानि । न हि जातु जन्तुर्मरणजन्मप्रबन्धेन त्यक्ष्यते । सोऽयं भवसङ्क्रमः क्लेशक्षये छिन्नः । यथा वक्ष्यति – “क्लेशमूलः कर्माशयः सति मूले तद्विपाकः” इति । नतु प्रसङ्ख्यानपरिपाकं धर्ममेघं च निरोधमन्तरा किं तदस्ति यज्ज्ञानप्रसादमात्रमित्यत आह – ज्ञानस्यैवेति । धर्ममेघभेद एव परं वैराग्यं नान्यत् । यथा वक्ष्यति –“प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः” इति । “तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम्” इति च । तस्मादेतस्य हि नान्तरीयकमविनाभावि कैवल्यमिति ॥ १६ ॥ पातञ्जल-रहस्यम्

कारणत्वं = उपायत्वं, आचार्यः = अनुभविता, “श्रोत्रियं ब्रह्मनिष्ठं” इति श्रुतेः, निषेवणं चेतसीति शेषः, एकतानता = एकाग्रता, शुद्धिरित्यन्वयः, यावदिति वाक्यालङ्कारे, तौष्ठिकानाम्प्रकृत्याद्यष्टस्वात्मबुद्ध्युपासनया तुष्टचित्तानां श्रुतानामिति यावत्, वर्तमानाख्यातिमान् = कृतसाक्षात्कार इत्यर्थः, छिन्नमूलस्य = अनधिकारस्य, अधिक्रियते जन्मानेनेति कूटस्थकर्म, सङ्क्रामद्भिरिति, संसारसङ्क्रमणहेतुक्लेशजः, तद्विपाक इति जात्यायुर्भोगाः, श्रीसत्यज्ञानादपरमहमस्मि ज्ञानप्रसादाख्यं तृतीयं नास्तीत्याशङ्कते – नान्विति । समाधत्ते – ज्ञानस्यैवेति । भेद इति । विषयभेदः = विशेषः, अकुसीदस्य = निरभिलाषस्य, विवेकख्यातेरिति पुरुषस्य विशेषणं समाधिर्भवतीति शेषः, ज्ञेयं पुरुषमात्रमिति शेषः ॥ १६ ॥ अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथमुच्यते सम्प्रज्ञातः समाधिरिति – वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः ॥ १७ ॥ वितर्कश्चित्तस्याऽऽलम्बने स्थूल आभोगः आनन्दो ह्लादः। सूक्ष्मो विचारः। एकात्मिका संविदस्मिता। तत्र प्रथमश्चतुष्टयानुगतः समाधिः सवितर्कः। द्वितीयो वितर्कविकलः सविचारः। तृतीयो विचारविकलः सानन्दः। चतुर्थस्तद्विकलोऽस्मितामात्र इति। सर्व एते सालम्बनाः समाधयः ॥ १७ ॥ टीका तत्त्व-वैशारदी

उपायभिधाय सप्रकारोपेयकथनाय पृच्छति – अथोपायद्वयेनेति । वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः । सम्प्रज्ञातपूरकत्वादसम्प्रज्ञातस्य प्रथमं सम्प्रज्ञातोपवर्णनम् । सम्प्रज्ञातसामान्यं वितर्कविचारानन्दास्मितानां रूपैः स्वरूपैरनुगमात्प्रतिपत्तव्यम् । वितर्कं विवृणोति – चित्तस्येति । स्वरूपसाक्षात्कारवती प्रज्ञाऽऽभोगः । स च स्थूलविषयत्वात्स्थूलः । यथा हि प्राथमिको धानुष्कः स्थूलमेव लक्ष्यं विध्यत्यथ सूक्ष्ममेवं प्राथमिको योगी स्थूलमेव पाञ्चभौतिकं चतुर्भुजादि ध्येयं साक्षात्करोत्यथ सूक्ष्ममिति । एवं चित्तस्याऽऽलम्बने सूक्ष्म आभोगः स्थूलकारणभूतसूक्ष्मपञ्चतन्मात्रलिङ्गालिङ्गविषयो विचारः । तदेवं ग्राह्यविषयं दर्शयित्वा ग्रहणविषयं दर्शयति – आनन्द इति । इन्द्रिये स्थूल आलम्बने चित्तस्याऽऽभोगो ह्लाद आनन्दः । प्रकाशशीलतया खलु सत्त्वप्रधानादहङ्कारादिन्द्रियाण्युत्पन्नानि । सत्त्वं सुखमिति तान्यपि सुखानीति तस्मिन्नाभोगो ह्लाद इति । ग्रहीतृविषयं सम्प्रज्ञातमाह – एकात्मिका संविदिति । अस्मिताप्रभवानीन्द्रियाणि । तेनैषामस्मिता सूक्ष्मं रूपम् । सा चाऽऽत्मना ग्रहीत्रा सह बुद्धिरेकात्मिका संवित् । तस्यां च ग्रहीतुरन्तर्भावाद्भवति ग्रहीतृविषयः सम्प्रज्ञात इति । चतुर्णामपरमप्यवान्तरविशेषमाह – तत्र प्रथम इति । कार्यं कारणानुप्रविष्टं न कारणं कार्येण तदयं स्थूल आभोगः स्थूलसूक्ष्मेन्द्रियास्मिताकारणचतुष्टयानुगतो भवति । उत्तरे तु त्रिद्व्येककारणकास्त्रिद्व्येकरूपा भवन्ति । असम्प्रज्ञाताद्भिनत्ति – सर्व एत इति ॥ १७ ॥ पातञ्जल-रहस्यम्

उपायद्वयेन = अभ्यासवैराग्याभ्याम्, अयं भावः – प्रमातृप्रमाणतन्मात्रस्थूलभूतानि चेमानि चत्वारि सवितर्के समाधौ सन्ति, सविचारे त्रयं तन्मात्रान्तम्, आनन्दे द्वयम्, इन्द्रियधारणायामानन्द इत्यत्र श्रुतिरेव मानम्, तथा हि “सर्वेपामानन्दानामुपस्थमेकायनमिति” उपस्थमिन्द्रियान्तराणामुपलक्षणम्, प्रमाणानां त्रयम्, अस्मितायां प्रमातृमात्रम्, तत्र दुग्धनिक्षिप्तमरकतवद् बुद्धिद्वाराsस्मितायां चैतन्यमप्यस्तीति निर्जडत्वमहङ्कारस्येति, कुतो नैयायिकानामात्मबुद्धिसमाधिचतुष्टयविभाग ; कार्यं कारणानुप्रविष्टमिति, अयमर्थः – उपादेयकार्यकाल उपादानसत्त्वं, न तूपादानसत्त्व उपादेयस्य कार्यस्यावश्यम्भावः, तदुक्तं – “आरोपे सति निमित्तानुसरणं न तु निमित्तमस्तीत्यारोप” इति ॥ १७ ॥ अथासम्प्रज्ञातः समाधिः किमुपायः किंस्वभावो वेति – विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥ सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः। तस्य परं वैराग्यमुपायः। सालम्बनो ह्यभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनी क्रियते। स चार्थशून्यः। तदभ्यासपूर्वकं हि चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः सभाधिरसम्प्रज्ञातः ॥ १८ ॥ टीका तत्त्व-वैशारदी

क्रमप्राप्तभसम्प्रज्ञातमवतारयितुं पृच्छति – अथेति । विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः । पूर्वपदेनोपायकथनमुत्तराभ्यां च स्वरूपकथनम् । मध्यमं पदं विवृणोति – सर्ववृत्तीति । प्रथमं पदं व्याचष्टे – तस्य परमिति । विरामो वृत्तीनामभावस्तस्य प्रत्ययः कारणं तस्याभ्यासस्तदनुष्ठानं पौनःपुन्यं तदेव पूर्वं यस्य स तथोक्तः । अथापरं वैराग्यं निरोधकारणं कस्मान्न भवतीत्यत आह – सालम्बनो हीति । कार्यसरूपं कारणं युज्यते न विरूपम् । विरूपं चापरं वैराग्यं सालम्बनं निरालम्बनसमाधिना कार्येण । तस्मान्निरालम्बनादेव ज्ञानप्रसादमात्रात्तस्योत्पत्तिर्युक्ता । धर्ममेघसमाधिरेव हि नितान्तविगलितरजस्तमोमलाद्बुद्धि-सत्त्वादुपजातस्तत्तद्विषयातिक्रमेण प्रवर्तमानोऽनन्तो विषयावद्यदर्शी समस्तविषयपरित्यागाच्च स्वरूपप्रतिष्ठः सन्निरालम्बनः संस्कारमात्रशेषस्य निरालम्बनस्य समाधेः कारणमुपपद्यते सारूप्यादिति । आलम्बनीकरणमाश्रयणमभावप्राप्तमिव वृत्तिरूपकार्याकरणान्निर्बीजो निरालम्बनः । अथवा बीजं क्लेशकर्माशयास्ते निष्क्रान्ता यस्मात्स तथा ॥ १८ ॥ पातञ्जल-रहस्यम्

मधयमं पदं = संस्कारशेष इति भावः, अथापरं वैराग्यं वशीकारसञ्ज्ञाssख्यम्, तद्विषयातिक्रमेणेति तद्विषया मधुमत्यादयः, अनन्तः, अनन्तमोक्षहेतुत्वात्, विषयावद्यदर्शी विषयदोषदर्शी, कारणं धर्ममेघ इति ॥ १८ ॥ स खल्वयं द्विविधः - उपायप्रत्ययो भवप्रत्ययश्च। तत्रोपायप्रत्ययो योगिनां भवति – भवप्रययो विदेहप्रकृतिलयानाम् ॥ १९ ॥ विदेहानां देवानां भवप्रत्ययः। ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्ति। तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति ॥ १९ ॥ टीका तत्त्व-वैशारदी

निरोधसमाधेरवान्तरभेदं हानोपादानाङ्गमादर्शयति – स खल्वयं निरोधसमाधिर्द्विविधः – उपायप्रत्ययो भवप्रत्ययश्च । उपायो वक्ष्यमाणः श्रद्धादिः प्रत्ययः कारणं यस्य निरोधसमाधेः स तथोक्तः । भवन्ति जायन्तेऽस्यां जन्तव इति भवोऽविद्या, भूतेन्द्रियेषु वा विकारेषु प्रकृतिषु वाऽव्यक्तमहदहङ्कारपञ्चतन्मात्रेष्वनात्मस्वात्मख्यातिस्तौष्टिकानां वैराग्यसम्पन्नानां, स खल्वयं भवः प्रत्ययः कारणं यस्य निरोधसमाधेः स भवप्रत्ययः । तत्र तयोर्मध्य उपायप्रत्ययो योगिनां मोक्ष्यमाणानां भवति । विशेषविधानेन शेषस्य मुमुक्षुसम्बन्धं निषेधति । केषां तर्हि भवप्रत्यय इत्यत्र सूत्रेणोत्तरमाह – भवप्रत्ययो विदेहप्रकृतिलयानाम् । विदेहाश्च प्रकृतिलयाश्च तेषामित्यर्थः । तद्व्याचष्टे – विदेहानां देवानां भवप्रत्ययः । भूतेन्द्रियाणामन्यतमदा(मा)त्मत्वेन प्रतिपन्नास्तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमिन्द्रियेषु भूतेषु वा लीनाः संस्कारमात्रावशेषमनसः षाट्कौशिकशरीररहिता विदेहाः । ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानुभवन्तः प्राप्नुवन्तो विदेहाः । अवृत्तिकत्वं च कैवल्येन सारूप्यं, साधिकारसंस्कारशेषता च वैरूप्यम् । संस्कारमात्रोपभोगेनेति क्वचित्पाठः । तस्यार्थः – संस्कारमात्रमेवोपभोगो यस्य न तु चित्तवृत्तिरित्यर्थः । प्राप्तावधयः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्त्यतिक्रामन्ति पुनरपि संसारे विशन्ति । तथा च वायुप्रोक्तम् -

“दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्णम्” इति ।

तथा प्रकृतिलयाश्चाव्यक्तमहृदहङ्कारपञ्चतन्मात्रेष्वन्यतमदा(मा)त्मत्वेन प्रतिपन्नास्तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमव्यक्तादीनामन्यतमस्मिल्ँलीनाः साधिकारेऽचरितार्थे । एवं हि चरितार्थं चेतः स्याद्यदि विवेकख्यातिमपि जनयेदजनितसत्त्वपुरुषान्यताख्यातेस्तु चेतसोऽचरितार्थस्यास्ति साधिकारतेति । साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति । प्रकृतिसाम्यमुपगतमप्यवधिं प्राप्य पुनरपि प्रादुर्भवति ततो विविच्यते । यथा वर्षातिपाते मृद्भावमुपगतो मण्डूकदेहः पुनरम्भोदवारिधारावसेकान्मण्डूकदेहभावमनुभवतीति । तथा च वायुप्रोक्तम् –

“सहस्रं त्वाभिमानिकाः । बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः ॥

पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः । पुरुषं निर्गुणं प्राप्य कालसङ्ख्या न विद्यते” इति ॥

तदस्य पुनर्भवप्राप्तिहेतुतया हेयत्वं सिद्धम् ॥ १९ ॥ पातञ्जल-रहस्यम्

भूतादिमनोsन्तेषु षोडशसु विकारेषु प्रकृत्यादितन्मात्रेश्वष्टसु तादात्म्याभिमानिनोsविद्येत्याह – भूतेति, तौष्टिकानाम् = उक्तेष्वेवात्मबुद्ध्या तुष्टाणाम्, वैराग्येति । वैराग्यात्प्रकृतिलय इत्युक्तेर्वैराग्यमत्रापरम्, साधिकारे चेतसि, यतः प्रकृतिलयः, विशेषविधानेन = उपायविधानेन, शेषस्य = अभवप्रत्ययस्य, भवति भावयति जन्मेति भवस्तस्य प्रत्ययोभवप्रत्ययः, विदेहत्वं = स्थूलदेहराहित्यम्, आविदेहमुक्तर्लिङ्गदेहस्य सत्त्वात्, अवृत्तिकत्वंवृत्तिमात्रशून्यत्वम्, विशन्तीति साधिकारत्वात्, प्राप्तावधय इत्युक्तं, तत्रावधिमाह – दशेति । अवधिं भोगोद्बोधं, विविच्यन्ते = भोगाय निष्क्रान्ता भवन्ति, एतत् स्पष्टयति – वर्षापाय इति । वर्षासमयेsतीत इत्यर्थः, अभिमानिकाः = अहङ्कारोपासकाः, एवम्बौद्धाः = बुद्ध्युपासकाः, पूर्णं मन्वन्तराणामिति शेषः तदस्य = भवप्रत्ययस्य ॥ १९ ॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥ उपायप्रत्ययो योगिनां भवति। श्रद्धा चेतसः सम्प्रसादः। सा हि जननीव कल्याणी योगिनं पाति। तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यमुपजायते। समुपजातवीर्यस्य स्मृतिरुपतिष्ठते। स्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते। समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते। येन यथार्थं वस्तु जानाति। तदभ्यासात्तत्तद्विषयाच्च वैराग्यादसम्प्रज्ञातः समाधिर्भवति ॥ २० ॥ टीका तत्त्व-वैशारदी

योगिनां तु समाधेरुपायक्रममाह – श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् । नन्विन्द्रियादिचिन्तका अपि श्रद्धावन्त एवेत्यत आह – श्रद्धा चेतसः सम्प्रसादः । स चाऽऽगमानुमानाचार्योपदेशसमधिगततत्त्वविषयो भवति हि चेतसः सम्प्रसादोऽभिरुचिरतीच्छा श्रद्धा नेन्द्रियादिष्वात्माभिमानिनामभिरुचिरसम्प्रसादो हि स व्यामोहमूलत्वादित्यर्थः । कुतोऽसावेव श्रद्धेत्यत आह – सा हि जननीव कल्याणी योगिनं पाति विमार्गपातजन्मनोऽनर्थात् । सोऽयमिच्छाविशेष इष्यमाणविषयं प्रयत्नं प्रसूत इत्याह – तस्य हि श्रद्दधानस्य । तस्य विवरणं – विवेकार्थिनो वीर्यमुपजायते । स्मृतिर्ध्यानमनाकुलमविक्षिप्तं, समाधीयते योगाङ्गसमाधियुक्तं भवति । यमनियमादिनान्तरीयकसमाध्युपन्यासेन च यमनियमादयोऽपि सूचिताः । तदेवमखिलयोगाङ्गसम्पन्नस्य सम्प्रज्ञातो जायत इत्याह – समाहितचित्तस्येति । प्रज्ञाया विवेकः प्रकर्ष उपजायते । सम्प्रज्ञातपूर्वमसम्प्रज्ञातोत्पादमाह – तदभ्यासात्तत्रैव तत्तभूमिप्राप्तौ तत्तद्विषयाच्च वैराग्यादसम्प्रज्ञातः समाधिर्भवति । स हि कैवल्यहेतुः सत्त्वपुरुषान्यताख्यातिपूर्वो हि निरोधश्चित्तमखिलकार्यकरणेन चरितार्थमधिकारादवसादयति ॥ २० ॥ पातञ्जल-रहस्यम्

“श्रद्धावित्तो भूत्वाssत्मन्येवात्मानं पश्येदिति” श्रुतोरात्मविज्ञानं तदुपादेये श्रद्धा, सैव श्रद्धेति वक्तुमाशङ्कते - नन्विति । सम्प्रसदः = चेतसः परिणामविशेषः, शिष्यमात्रविषयमात्मविषयं वीर्यं सामर्थ्यम्, उपजायत इत्यत्राग्रे विवरणपदं सम्बन्धनीयम्, ‘स्मृतिलाभे सर्वग्रन्धीनां विप्रमोख इति श्रुतेर्ध्यानमत्र निदिध्यासनम्, यमादीनां समाधेः पूर्वभावित्वात् तेsप्युदाहृता इत्याह – यमेति । नान्तरीयकं = अनन्यथासिद्धम्, यथाssमिक्षाsर्थ आनीयमाने दधानि बाजिनस्योत्पत्तिः, सत्त्वपुरुषान्यताख्यातिः = पुम्प्रकृतिभेदसाक्षात्कारः, ‘विज्ञाय प्रज्ञां कुर्वीत ब्राह्मण श्रुतेः’ एतन्मते ज्ञानानन्तरं व्युत्थानंविरोधी निरोधः, योगकरणेन = सम्पादनेन, अधिकारद् = पुनर्जन्महेतोः ॥ २० ॥ ते खलु नव योगिनो मृदुमध्याधिमात्रोपाया भवन्ति। तद्यथा - मृदूपायो मध्योपायोऽधिमात्रोपाय इति। तत्र मृदूपायस्त्रिविधः – मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेग इति। तथा मध्योपायस्तथाऽधिमात्रोपाय इति। तत्राधिमात्रोपायानां – तीव्रसंवेगानामासन्नः ॥ २१ ॥ समाधिलाभः समाधिफलं च भवतीति ॥ २१ ॥ टीका तत्त्व-वैशारदी

ननु श्रद्धादयश्चेद्योगोपायास्तर्हि सर्वेषामविशेषेण समाधितत्फले स्याताम् । दृश्यते तु कस्यचित्सिद्धिः कस्यचिदसिद्धिः कस्यचिच्चिरेण सिद्धिः कस्यचिच्चिरतरेण कस्यचित्क्षिप्रमित्यत आह – ते खलु नव योगिन इति । उपायाः श्रद्धादयो मृदुमध्याधिमात्राः प्राग्भवीयसंस्कारादृष्टवशाद्येषां ते तथोक्ताः । संवेगो वैराग्यं तस्यापि मृदुमध्यतीव्रता प्राग्भवीयवासनादृष्टवशादेवेति तेषु यादृशां क्षेपीयसी सिद्धिस्तान्दर्शयति सूत्रेण – तीव्रसंवेगानामासन्न इति सूत्रम् । शेषं भाष्यम् । समाधेः सम्प्रज्ञातस्य फलमसम्प्रज्ञातस्तस्यापि कैवल्यम् ॥ २१ ॥ मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥ मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति। ततोऽपि विशेषः। तद्विशेषादपि मृदुतीव्रसंवेगस्याऽऽसन्नः, ततो मध्यतीव्रसंवेगस्याऽऽसन्नतरः, तस्मादधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्यासन्नतमः समाधिलाभः समाधिफलं चेति ॥ २२ ॥ टीका तत्त्व-वैशारदी

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः । निगदव्याख्यातेन भाष्येण व्याख्यातमिति ॥ २२ ॥ पातञ्जल-रहस्यम्

इष्टापत्तिं धुनीते - दृष्यते त्विति ।

“योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः” ॥ इतिसमृतेः,

“न हि कल्याणकृत् कश्चिद् दुर्गतिं तात! गच्छति”-

इत्युक्तेर्नैकान्ततः सिद्ध्यभावः किन्तु विलम्बेनेत्याह – कस्य चिदिति । असिद्धिः = विलम्बेन सिद्धिः,

“बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यत” इतिस्मृतिम्;

‘मध्यतीव्रसंवेगस्यासन्न्तर इति’ भाषयोक्तिञ्चाश्रित्याह – कस्य चिच्चिरेणेति ।

“शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभि जायत”

इति स्मृतिं ‘ मृदुतीव्रसंवेगस्य आसन्न ’ इति भाष्योक्तञ्चाश्रित्याह-कस्यचिच्चिरतरेणेति ।

अधिमात्रः = उत्तमः, संस्कारः = वासना, अदृष्टं = निःश्रेयसहेतुःशुद्धो धर्मः, केषाञ्चिदधिमात्रतीव्रसंवेगानां क्षिप्रं सिद्धिः, क्षेपीयसी = शीघ्रा, कैवल्यं फलमित्यनुषङ्गः ॥ २१ ॥ ॥ २२ ॥ किमेतस्मादेवाऽऽसन्नतमः समाधिर्भवति। अथास्य लाभे भवत्यन्योऽपि कश्चिदुपायो न वेति – ईश्वरप्रणिधानाद्वा ॥ २३ ॥ प्रणिधानाद्भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णात्यभिध्यानमात्रेण। तदभिध्यानमात्रादपि योगिन आसन्नतमः समाधिलाभः समाधिफलं च भवतीति ॥ २३ ॥ टीका तत्त्व-वैशारदी

सूत्रान्तरं पातयितुं विमृशति – किमेतस्मादेवेति । न वा शब्दः संशयनिवर्तकः । ईश्वरप्रणिधानाद्वा । व्याचष्टे – प्रणिधानाद्भक्तिविशेषान्मानसाद्वाचिकात्कायिकाद्वाऽऽवर्जितोऽभिमुखीकृतस्तमनुगृह्णाति । अभिध्यानमनागतार्थेच्छा – इदमस्याभिमतमस्त्विति । तन्मात्रेण न व्यापारान्तरेण । शेषं सुगमम् ॥ २३ ॥ पातञ्जल-रहस्यम्

अव्ययानमनेकार्थत्वाद् निश्चयवाची नवाशब्दः, तेनोपायान्तरमाह – ईश्वरप्रनिधानाद्वेतिसूत्रेण, अनुगृह्णाति “यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा वृणुते तनुं स्वाम्” इतिश्रुतेः, यमधिकारिणमेष ईश्वरः भक्त्या वशीकृतौ वृणुते ‘मां जानात्विति’ तेनाधिकारिणा लभ्यः किञ्च स्वां तनुं स्वस्वरूपं वृणुते च प्रकाशयतीत्यर्थः, तन्मात्रेण = सङ्कल्पेनेत्यर्थः ॥ २३ ॥ अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति – क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥ अविद्यादय क्लेशाः। कुशलाकुशलानि कर्माणि। तत्फलं विपाकः। तदनुगुणा वासना आशयाः। ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते, स हि तत्फलस्य भोक्तेति। यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते। यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः। टीका तत्त्व-वैशारदी

ननु चेतनाचेतनाभ्यामेव व्यूढं नान्येन विश्वम् । ईश्वरश्चेदचेतनस्तर्हि प्रधानं प्रधानविकाराणामपि प्रधानमध्यपातात्तथा च न तस्याऽऽवर्जनमचेतनत्वादथ चेतनस्तथाऽपि चितिशक्तेरौदासीन्यादसंसारितया चास्मितादिविरहात्कुत आवर्जनम् । कुतश्चाभिध्यानमित्याशयवानाह – अथ प्रधानेति । अत्र सूत्रेणोत्तरमाह – क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः । अविद्यादयः क्लेशाः क्लिश्नन्ति खल्वमी पुरुषं सांसारिकं विविधदुःखप्रहारेणेति । कुशलाकुशलानीति धर्माधर्मास्तेषां च कर्मजत्वादुपचारात्कर्मत्वम् । विपाको जात्यायुर्भोगाः । विपाकानुगुणा वासनास्ताश्चित्तभूमावाशेरत इत्याशया । नहि करभजातिनिर्वर्तकं कर्म प्राग्भवीयकरभभोगभावितां भावनां न यावदभिव्यनक्ति तावत्करभोचिताय भोगाय कल्पते । तस्माद्भवति करभजात्यनुभवजन्मा भावना करभविपाकानुगुणेति । नन्वमी क्लेशादयो बुद्धिधर्मा न कथञ्चिदपि पुरुषं परामृशन्ति, तस्मात्पुरुषग्रहणादेव तदपरामर्शसिद्धेः कृतं क्लेशकर्मेत्यादिनेत्यत आह – ते च मनसि वर्तमानाः सांसारिके पुरुषे व्यपदिश्यन्ते । कस्मात्, स हि तत्फलस्य भोक्ता चेतयितेति । तस्मात्पुरुषत्वादीश्वरस्यापि तत्सम्बन्धः प्राप्त इति तत्प्रतिषेध उपपद्यत इत्याह – यो ह्यनेन बुद्धिस्थेनापि पुरुषमात्रसाधारणेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः । विशिष्यत इति विशेषः पुरुषान्तराद्व्यवच्छिद्यते । कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः। ते हि त्रीणि बन्धनानि च्छित्त्वा कैवल्यं प्राप्ता ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी। यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवमीश्वरस्य। यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः सम्भाव्यते नैवमीश्वरस्य। स तु सदैव मुक्तः सदैवेश्वर इति। टीका तत्त्व-वैशारदी

विशेषपदस्य व्यावर्त्यं दर्शयितुकामः परिचोदनापूर्वं परिहरति – कैवल्यं प्राप्तास्तर्हीति । प्रकृतिलयानां प्राकृतो बन्धः । वैकारिको बन्धो विदेहानाम् । दक्षिणादिबन्धो दिव्यादिव्यविषयभोगभाजाम् । तान्यमूनि त्रीणि बन्धनानि । प्रकृतिभावनासंस्कृतमनसो हि देहपातानन्तरमेव प्रकृतिलयतामापन्ना इतीतरेषां पूर्वा बन्धकोटिः प्रज्ञायते, तेनोत्तरकोटिविधानमात्रमिह तु पूर्वापरकोटिनिषेध इति । सङ्क्षिप्य विशेषं दर्शयति – स तु सदैव मुक्तः सदैवेश्वर इति । ज्ञानक्रियाशक्तिसम्पदैश्वर्यम् । योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विन्निर्निमित्त इति। तस्य शास्त्रं निमित्तम्। शास्त्रं पुनः किन्निमित्तं, प्रकृष्टसत्त्वनिमित्तम्। टीका तत्त्व-वैशारदी

अत्र पृच्छति – योऽसाविति । ज्ञानक्रिये हि न चिच्छक्तेरपरिणामिन्याः सम्भवत इति रजस्तमोरहितविशुद्धचित्तसत्त्वाश्रये वक्तव्ये । न चेश्वरस्य सदा मुक्तस्याविद्याप्रभवचित्तसत्त्वसमुत्कर्षेण सह स्वस्वामिभावः सम्बन्धः सम्भवतीत्यत उक्तं – प्रकृष्टसत्त्वोपादानादिति । नेश्वरस्य पृथग्जनस्येवाविद्यानिबन्धनश्चित्तसत्त्वेन स्वस्वामिभावः । किं तु तापत्रयपरीतान्प्रेत्यभावमहार्णवाज्जन्तूनुद्धरिष्यामि ज्ञानधर्मोपदेशेन । न च ज्ञानक्रियासामर्थ्यातिशयसम्पत्तिमन्तरेण तदुपदेशः । न चेयमपहतरजस्तमोमलविशुद्धसत्त्वोपादानं विनेत्यालोच्य सत्त्वप्रकर्षमुपादत्ते भगवानपरामृष्टोऽप्यविद्यया । अविद्याभिमानी चाविद्यायास्तत्त्वमविद्वान्भवति न पुनरविद्यामविद्यात्वेन सेवमानः । न खलु शैलूषो रामत्वमारोप्य तास्ताश्चेष्टा दर्शयन्भ्रान्तो भवति । तदिदमाहार्यमस्य रूपं न तात्त्विकमिति । स्यादेतत् । उद्दिधीर्षया भगवता सत्त्वमुपादेयं तदुपादानेन च तदुद्दिधीर्षा, अस्या अपि प्राकृतत्वात्तथा चान्योन्याश्रय इत्यत उक्तम् – शाश्वतिक इति । भवेदेतदेवं यदीदं प्रथमता सर्गस्य भवेदनादौ तु सर्गसंहारप्रबन्धे सर्गान्तरसमुत्पन्नसञ्जिहीर्षावधिसमये पूर्णे मया सत्त्वप्रकर्ष उपादेय इति प्रणिधानं कृत्वा भगवाञ्जगत्सञ्जहार । तदा चेश्वरचित्तसत्त्वं प्रणिधानवासितं प्रधानसाम्यमुपगतमपि परिपूर्णे महाप्रलयावधौ प्रणिधानवासनावशात्तथैवेश्वरचित्तसत्त्वभावेन परिणमते । यथा चैत्रः श्वः प्रातरेवोत्थातव्यं मयेति प्रणिधाय सुप्तस्तदैवोत्तिष्ठति प्रणिधानसंस्कारात् । तस्मादनादित्वादीश्वरप्रणिधानसत्त्वोपादानयोः शाश्वतिकत्वेन नान्योन्याश्रयः । न चेश्वरस्य चित्तसत्त्वं महाप्रलयेऽपि न प्रकृतिसाम्यमुपैतीति वाच्यम् । यस्य हि न कदाचिदपि प्रधानसाम्यं न तत्प्राधानिकं नापि चितिशक्तिरज्ञत्वादित्यर्थान्तरमप्रामाणिकमापद्येत । तच्चायुक्तं, प्रकृतिपुरुषव्यतिरकेणार्थान्तराभावात् । सोऽयमीदृश ईश्वरस्य शाश्वतिक उत्कर्षः । स किं सनिमित्तः सप्रमाणकं आहोस्विन्निर्निमित्तो निष्प्रमाणक इति । उत्तरं – तस्य शास्त्रं निमित्तम् । श्रुतिस्मृतीतिहासपुराणानि शास्त्रम् । एतयोः शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिः सम्बन्धः। एतस्मादेतद्भवति सदैवेश्वरः सदैव मुक्त इति। तच्च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम्। न तावदैश्वर्यान्तरेण तदतिशयते। यदेवातिशयि स्यात्तदेव तत्स्यात्। तस्माद्यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वर इति। न च तत्समानमैश्वर्यमस्ति। कस्मात्, द्वयोस्तुल्ययोरेकस्मिन्युगपत्कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्वित्येकस्य सिद्धावितरस्य प्राकाम्यविघातादूनत्वं प्रसक्तम्। द्वयोश्च तुल्ययोर्युगपत्कामितार्थप्राप्तिर्नास्ति। अर्थस्य विरुद्धत्वात्। तस्माद्यस्य साम्यातिशयैर्विनिर्मुक्तमैश्वर्यं स एवेश्वरः। स च पुरुषविशेष इति ॥ २४ ॥ टीका तत्त्व-वैशारदी

चोदयति – शास्त्रं पुनः किन्निमित्तम् । प्रत्यक्षानुमानपूर्वं हि शास्त्रम् । न चेश्वरस्य सत्त्वप्रकर्षे कस्यचित्प्रत्यक्षमनुमानं वाऽस्ति । न चेश्वरप्रत्यक्षप्रभवं शास्त्रमिति युक्तम् । कल्पयित्वाऽपि ह्ययं ब्रूयादात्मैश्वर्यप्रकाशनायेति भावः । परिहरति – प्रकृष्टसत्त्वनिमित्तम् । अयमभिसन्धिः - मन्त्रायुर्वेदेषु तावदीश्वरप्रणीतेषु प्रवृत्तिसामर्थ्यादर्थाव्यभिचारविनिश्चयात्प्रामाण्यं सिद्धम् । न चौषधिभेदानां तत्संयोगविशेषाणां च मन्त्राणां च तत्तद्वर्णावापोद्धारेण सहस्रेणापि पुरुषायुषैर्लौकिकप्रमाणव्यवहारी शक्तः कर्तुमन्वयव्यतिरेकौ । न चाऽऽगमादन्वयव्यतिरेकौ ताभ्यां चाऽऽगमस्तत्सन्तानयोरनादित्वादिति प्रतिपादयितुम् युक्तम् । महाप्रलये तत्सन्तानयोर्विच्छेदात् । न च तद्भावे प्रमाणाभावः । अभिन्नं प्रधानविकारो जगदिति हि प्रतिपादयिष्यते । सदृशपरिणामस्य च विसदृशपरिणामता दृष्टा । यथा क्षीरेक्षुरसादेर्दधिगुडादिरूपम् । विसदृशपरिणामस्य पूर्वं सदृशपरिणामता च दृष्टा । तदिह प्रधानेनापि महदहङ्कारादिरूपविसदृशपरिणामेन सता भाव्यं कदाचित्सदृशपरिणामेनापि । सदृशपरिणामश्चास्य साम्यावस्था । स च महाप्रलयः । तस्मान्मन्त्रायुर्वेदप्रणयनात्तावद्भगवतो विगलितरजस्तमोमलावरणतया परितः प्रद्योतमानं बुद्धिसत्त्वमास्थेयम् । तथा चाभ्युदयनिःश्रेयसोपदेशपरोऽपि वेदराशिरीश्वरप्रणीतस्तद्बुद्धिसत्त्वप्रकर्षादेव भवितुमर्हति । न च सत्त्वोत्कर्षे रजस्तमःप्रभवौ विभ्रमविप्रलम्भौ सम्भवतः । तत्सिद्धं प्रकृष्टसत्त्वनिमित्तं शास्त्रमिति ।

स्यादेतत् । प्रकर्षकार्यतया प्रकर्षं बोधयच्छास्त्रं शेषवदनुमानं भवेन्न त्वागम इत्यत आह – एतयोरिति । न कार्यत्वेन बोधयत्यपि त्वनादिवाच्यवाचकभावसम्बन्धेन बोधयतीत्यर्थः । ईश्वरस्य हि बुद्धिसत्त्वे प्रकर्षो वर्तते, शास्त्रमपि तद्वाचकत्वेन तत्र वर्तत इति । उपसंहरति – एतस्मादीश्वरबुद्धिसत्त्वप्रकर्षवाचकाच्छास्त्रादेतद्भवति ज्ञायते विषयेण विषयिणो लक्षणात्सदैवेश्वरः सदैव मुक्त इति । तदेवं पुरुषान्तराद्व्यवच्छिद्येश्वरान्तरादपि व्यवच्छिनत्ति – तच्च तस्येति । अतिशयविनिर्मुक्तिमाह – न तावदिति । कुतः – यदेवेति । कस्मात्सर्वातिशयविनिर्मुक्तं तदैश्वर्यमित्यत आह – तस्माद्यत्रेति । अतिशयनिष्ठामप्राप्तानामौपचारिकमैश्वर्यमित्यर्थः । साम्यविनिर्मुक्तिमाह – न च तत्समानमिति । प्राकाम्यमविहतेच्छता तद्विघातादूनत्वमनूनत्वे वा द्वयोरपि प्राकाम्यविघातः कार्यानुत्पत्तेरुत्पत्तौ वा विरुद्धधर्मसमालिङ्गितमेकदा कार्यमुपलभ्येतेत्याशयवानाह – द्वयोश्चेति । अविरुद्धाभिप्रायत्वे वा प्रत्येकमीश्वरत्वे कृतमन्यैरेकेनैवेशनायाः कृतत्वात् । सम्भूयकारित्वे वा न कश्चिदीश्वरः परिषद्वन्नित्येशनायोगिनां च पर्यायायोगात्कल्पनागौरवप्रसङ्गाच्चेति द्रष्टव्यम् । तस्मात्सर्वमवदातम् ॥ २४ ॥ पातञ्जल-रहस्यम्

“प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपी”ति

श्रुतिमाश्रित्याह – नान्विति, व्यूढं = व्याप्तम्, अस्मिता = अहङ्कारममकारौ, ईश्वरः = क्लेशादिचतुष्टयात्यन्ताभाववान्, प्रहारेण = संसर्गेण, जातिः = जन्म मनुष्यादियोनिसम्बन्धः, आयुः = शतवर्षादि ‘शतायुर्वै पुरुष इति श्रुतेः’ भोगः = सुखदुःखसाक्षात्कारः, “तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चेति”, श्रुतिमाश्रित्य, तत्रान्वयव्यतिरेकौ मानमाह – न हि करभेति । करभः = कण्टकाशनः, निर्वर्तकं = जनकं, भावनां = संस्कारं, न परामृशन्ति = न स्पृशन्ति ‘असङ्गो ह्ययं पुरुष इति श्रुतेश्च’, कृतं = व्यर्थं, ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति’ श्रुतिमाश्रित्याह – भोक्तेति, ‘अनश्नन्नन्यो अभिचाकशीतीति श्रुतिमाश्रित्याह – यो ह्यनेनेति । परिचोदना = पूर्वपक्षः, ‘बन्धत्रयात्यन्ताभावाधिकरणस्वरूपं विशेषपदसूचितमीश्वरतत्त्वं वक्तुं तदधिकरणान् जीवानाह – प्रकृतिलयानामिति । ‘ते धूममभिसम्भवन्ति ते अर्चिषमभिसम्भवन्ति जायस्व मृयस्वेत्यादिपदैः सूचितः श्रुतिसिद्धो बन्धो दक्षिणाबन्धः, प्रज्ञायते = प्रसिद्धाssद्या, ‘मुक्तानामुत्तरा कोटिर्नास्तीति भाष्ये प्रसिद्धमिति हृदयम्, इह तु = ईश्वरे,

“पराsस्य शक्तिः विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” इति

स्वाभाविकी = प्रवाहानादिरित्यर्थः,

“स ईशो यद्वशे माया स जीवो यस्तयाsर्दित” इति

स्मृतिमाश्रित्याह – प्रकृष्टसत्त्वेति, प्रेत्यभावः = संसारः, उपदेशस्य स्वाभाविकत्वं निषेधति – न चेति ।

“उत्पत्तिं च विनाशञ्च भूतानामागतिं गतिम् ।

वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति” इति

स्मृतेः भगवत्त्वं क्लेशापरामृष्टत्वे हेतुः, वेत्ति विद्यामविद्याञ्चेति स्मृत्या प्रतीकारज्ञानवत्त्वमविद्यासाक्षात्कारवत्त्वञ्च ध्वनितमित्याह – सेवमान इति । एवम्भूतो न मुह्यतीति दृष्टान्तेन परिहरति – न खल्विति । शैलषो = नर्तकः, आहार्यम् = ऐच्छिकं, शाश्वतिकं शाश्वन्निरन्तरम् प्रवाहेन भवतीति प्रवाहोsनादिः, अत उत्तरमेतदिति प्रबन्धः, सर्गान्तरे च समुत्पन्नं वार्तमानिकं एतस्याः सञ्जिहीर्षाया अवधिसमयो द्विपरार्धावसानकालः तस्मिन् पूर्वप्रणिधानसंस्कारविशेषस्य चित्ते सत्त्वात् प्रलयावधौ सृष्टिसमय आदावेव प्रधानमिति शेषः,

‘पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः’ इति श्रुतिमाश्रित्याह – यथेति । नैयायिकनां यथा भावाभवौ पदार्थौ, यथा वेदान्तिनां दृक्दृश्ये पदार्थौ, यथा च साङ्ख्यानां प्रकृतिपुरुषाविति तथा स्वमतेsपि लाघवात् पदार्थद्वयमपि वक्तुमुपक्रमते – न चेति । तृतीयं पदार्थान्तरं नास्तीति, इदम्प्रथमतेति समस्तं पदं, विकल्प्य दूषयति – नापीति । अज्ञत्वात् परिणामित्वाच्च, नाप्यर्थान्तरमप्रमाणिकतवाद्गौरवाच्चेत्याह - अयुक्तमित्यादिना, निमित्तं = ज्ञापकमित्यर्थः प्रतयक्षानुमेति । शक्तिमच्छब्दत्वादिति शेषः, सत्त्वप्रकर्षे चेति । सत्त्वे चित्ते प्रकर्षे तद्धर्मे चेति । कस्य चित्प्राणिमात्रस्य ‘नास्तीतिशेषः, शास्त्रस्येश्वरप्रत्यक्षप्रभवत्वे तु प्रतारकत्वमाशङ्कते – न चेत्यादि – भाव इत्यन्तेन, दृष्टान्वयव्यतिरेकावाश्रित्याह – परिहरतीति । प्रवृत्तिसामर्थ्यात् = फलासंवादाद् न प्रतारकत्वमित्यर्थः,

अत्र साङ्ख्यः शङ्कते – कृतमीश्वरेणजीवादेवादृष्टसहकृतात्सेत्स्यत्येतत् ; तत्राह – न चेति । अन्वयव्यतिरेकाविति । ताभ्यां हि दधिविषयोर्ज्वरमरणकारित्वेsपि गुडमन्त्रसंयोगेन यथा बलपुष्टिकारित्वं विरुद्धं दृष्यतेsतो न लौकिकप्रमाणव्यवहारिभिः तत्सिद्धिः कर्तुं शक्येत्यर्थः, तत्त्वीश्वरसाध्यम्, अत एवोक्तं –

“अचिन्तयाः खलु ये भावा न तांस्तर्केण योजयेत्” इति,

अत एव सर्वज्ञेश्वरसिद्धिः, अन्योन्याश्रयोsपि नास्तीत्याह – महाप्रलयेति । चस्त्वर्थे पूर्वपक्षनुत्, तद्भावे तयोर्विच्छेदसद्भावे, तथा हि – अभिन्नमित्यारभ्य महाप्रलय इत्यन्तं प्रमाणं, सदृशपरिणामाता = मधुररसतेत्यर्थः, एतद्वत् सृष्टिसमये महदहङ्कारादिरूपविसदृशपरिणामेन सता प्रधानेन कदाचित् सृष्टिसमये महदहङ्कारादिरूपविसदृशपरिणामेन भाव्यं तरङ्गितजलवदित्यन्वयः, तदेव निगमयति – सदृशपरिणामेति ।

‘रजतस्तमश्चाभिभूय सत्वं भवति भारतेति ’

भगवद्वाक्यमाश्रित्याह – तस्मदित्यरभ्य शास्त्रमित्यन्तेन, तत् = तस्मादित्यर्थे, विभ्रमविप्रलम्भौ न सम्भवत इत्युक्त्या पूर्वोक्तमैश्वर्यप्रकटनमितीश्वरगतचोद्यं निरस्तम् , शास्त्रमनुमानेनान्यथासिद्धमिति शङ्कते – स्यादेतदिति । शेषवदिति व्यतिरेकी, तद्यथा-प्रसक्तप्रतिषेधेsन्यत्राप्रसङ्गात् शिष्यमाने सम्प्रत्यय इति, तथा हि-शब्दो व्योमगुणः विशेषगुणत्वे सति भूम्याद्यष्टस्वसम्भाव्यमानत्वात्, अभावचतुष्टयेsप्यप्रसक्तेः, यन्नैवं तन्नैवं यथा गन्घः, एवं संसारिष्वबिद्यमानः अनुमानसिद्ध उत्कर्ष ईश्वराश्रितः स्यादिति, तदुदाहृत्य ते दूषयति – एतयोरीति । अभावे चाप्रसक्तो भवतीति सत्तावाचित्वेsपिज्ञाने लक्षनातोज्ञायत इति, तत्र हेतुमाह-विषयेति । यः सर्वज्ञः सर्वविदिति’शास्त्रादित्यन्वयः, न तत्समश्चाभ्यधिकश्च दृश्यत इति श्रुतिमाश्रित्याह – न चेति । वस्तुनि विकल्पासत्वमाश्रित्याह – नवेति । इतिकृत्वा कार्यानुपपततिः, विपक्षे बाधकमाह – उत्पताविति । कृतं = व्यर्थं, “ त्र्यवरा वा परिषदि ” ति मनूक्तेर्न कस्यापि स्वातन्त्र्यं परिषदि, स्वातन्त्र्यं नामेशस्य चेतनान्तराप्रयुक्तत्वे सति सर्वप्रयोकतृत्वं सार्वभौमवत्, खले कपोतन्यायेन युगापदुपस्थितानामेककार्यासिद्धिरित्याह – नित्येशनायोगिनामिति, द्रष्टव्यमिति । लाघवादेक एवास्त्विति भावः ॥ २४ ॥ किं च – तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥ यदिदमतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सर्वज्ञबीजमेतद्विवर्धमानं यत्र निरतिशयं स सर्वज्ञः। अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात्परिमाणवदिति। यत्र काष्ठाप्राप्तिर्ज्ञानस्य सु सर्वज्ञः। स च पुरुषविशेष इति। टीका तत्त्व-वैशारदी

एवमस्य क्रियाज्ञानशक्तौ शास्त्रं प्रमाणमभिधाय ज्ञानशक्तावनुमानं प्रमाणयति – किं च – तत्र निरतिशयं सर्वज्ञबीजम् । व्याचष्टे – यदिदमिति । बुद्धिसत्त्वावरकतमोपगमतारतम्येन यदिदमतीतानागतप्रत्युत्पन्नानां प्रत्येकं च समुच्चयेन च वर्तमानानामतीन्द्रियाणां ग्रहणं, तस्य विशेषणमल्पं बह्विति सर्वज्ञबीजं कारणम् । कश्चित्किञ्चिदेवातीतादि गृह्णाति कश्चिद्बहु कश्चिद्बहुतरं कश्चिद्बहुतममिति ग्राह्यापेक्षया ग्रहणस्याल्पत्वं बहुत्वं कृतम् । एतद्विवर्धमानं यत्र निष्क्रान्तमतिशयात्स सर्वज्ञ इति । तदनेन प्रमेयमात्रं कथितम् । अत्र प्रमाणयति – अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्येति । साध्यनिर्देशः । निरतिशयत्वं काष्ठा । यतः परमतिशयवत्ता नास्तीति । तेन नावधिमात्रेण सिद्धसाधनम् । सातिशयत्वादिति हेतुः । यद्यत्सातिशयं तत्तत्सर्वं निरतिशयं, यथा कुवलामलकबिल्वेषु सातिशयं महत्त्वमात्मनि निरतिशयमिति व्याप्तिं दर्शयति – परिमाणवत् । न च गरिमादिभिर्गुणैर्व्यभिचार इति साम्प्रतम् । न खल्ववयवगरिमातिशयी गरिमाऽवयविनः किन्त्वापरमाणुभ्य आऽन्त्यावयविभ्यो यावन्तः केचन तेषां प्रत्येकवर्तिनो गरिम्णः समाहृत्य गरिमा वर्धमानाभिमानः । ज्ञानं तु न प्रतिज्ञेयं समाप्यत इत्येकद्विबहुविषयतया युक्तं सातिशयमिति न व्यभिचारः । उपसंहरति – यत्र काष्ठेति । सामान्यमात्रोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थमिति। तस्य सञ्ज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या। तस्याऽऽत्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम्। ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामीति। तथा चोक्तम् – आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद्भगवान्परमर्षिरासुरये जिज्ञासमानाय तत्रं प्रोवाचेति ॥ २५ ॥ टीका तत्त्व-वैशारदी

ननु सन्ति बहवस्तीर्थकरा बुद्धार्हतकपिलर्षिप्रभृतयस्तत्कस्मात् एव सर्वज्ञा न भवन्त्यस्मादनुमानादित्यत आह – सामान्येति । कुतस्तर्हि तद्विशेषप्रतिपत्तिरित्यत आह – तस्येति । बुद्धादिप्रणीत आगमाभासो न त्वागमः, सर्वप्रमाणबाधितक्षणिकनैरात्म्यादिमार्गोपदेशकत्वेन विप्रलम्भकत्वादिति भावः । तेन श्रुतिस्मृतीतिहासपुराणलक्षणादागमत आगच्छन्ति बुद्धिमारोहन्ति अस्मादभ्युदयनिःश्रेयसोपाया इत्यागमः, तस्मात्सञ्ज्ञादिविशेषप्रतिपत्तिः । सञ्ज्ञाविशेषः शिवेश्वरादिः श्रुत्यादिषु प्रसिद्धः । आदिपदेन षडङ्गतादशाव्ययते सङ्गृहीते । यथोक्तं वायुपुराणे –

“सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाष्ठुरङ्गानि महेश्वरस्य ॥ ”

तथा –

“ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः । स्रष्टृत्वमात्मसम्बोधो ह्यधिष्ठातृत्वमेव च ॥ अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे । ” इति ।

स्यादेतत्, नित्यतृप्तस्य भगवतो वैराग्यातिशयसम्पन्नस्य स्वार्थे तृष्णासम्भवात्कारुणिकस्य च सुखैकतानजनसर्जनपरस्य दुःखबहुलजीवलोकजननानुपपत्तेरप्रयोजनस्य च प्रेक्षावतः प्रवृत्त्यनुपपत्तेः क्रियाशक्तिशालिनोऽपि न जगत्क्रियेत्यत आह – तस्याऽऽत्मानुग्रहाभावेऽपीति । भूतानां प्राणिनामनुग्रहः प्रयोजनं, शब्दाद्युपभोगविवेकख्यातिरूपकार्यकरणात्किल चरितार्थं चित्तं निवर्तते । ततः पुरुषः केवली भवति । अतस्तत्प्रयोजनाय कारुणुकि विवेकख्यात्युपायं कथयति । तेनाचरितार्थत्वाच्चित्तस्य जन्तूनीश्वरः पुण्यापुण्यसहायः सुखदुःखे भावयन्नपि नाकारुणिकः । विवेकख्यात्युपायकथनाय भूतानुग्रहं द्वारमाह – ज्ञानधर्मोपदेशेनेति । ज्ञानं च धर्मश्च ज्ञानधर्मौ तयोरुपदेशेन ज्ञानधर्मसमुच्चयाल्लब्धविवेकख्यातिपरिपाकात्कल्पप्रलये ब्रह्मणो दिनावसाने यत्र सत्यलोकवर्जं जगदस्तमेति । महाप्रलये ससत्यलोकस्य ब्रह्मणोऽपि निधने संसारिणः स्वकारणगामिनोऽतस्तदा मरणदुःखभाजः, कल्पेत्युपलक्षणमन्यदाऽपि स्वार्जितकर्मपाकवशेन जन्ममरणादिभाजः पुरुषानुद्धरिष्यामीति कैवल्यं प्राप्य पुरुषा उद्धृता भवन्तीत्यर्थः । एतच्च करुणाप्रयुक्तस्य ज्ञानधर्मोपदेशनं कापिलानामपि सिद्धमित्याह – तथा चोक्तं पञ्चशिखाचार्येण – आदिविद्वान्कपिल इति । आदिविद्वानिति पञ्चशिखाचार्यवचनमादिमुक्तस्वसन्तानादिगुरुविषयं न त्वनादिमुक्तपरमगुरुविषयम् । आदिमुक्तेषु कदाचिन्मुक्तेषु विद्वत्सु कपिलोऽस्माकमादिविद्वान्मुक्तः स एव च गुरुरिति । कपिलस्यापि जायमानस्य महेश्वरानुग्रहादेव ज्ञानप्राप्तिः श्रूयत इति । कपिलो नाम विष्णोरवतारविशेषः प्रसिद्धः । स्वयम्भूस्तु हिरण्यगर्भः । तस्यापि साङ्ख्ययोगप्राप्तिर्वेदे श्रूयत इति । स एवेश्वर आदिविद्वान्कपिलो विष्णुर्न स्वयम्भूरिति भावः । स्वायम्भुवानां त्वीश्वर इति भावः ॥ २५ ॥ पातञ्जल-रहस्यम्

भगवद्वाक्यमाश्रित्याह – तस्मदित्यरभ्य शास्त्रमित्यन्तेन, तत् = तस्मादित्यर्थे, विभ्रमविप्रलम्मौ न सम्भवत इत्युक्त्या पूर्वोक्तमैश्वर्यप्रकटनमितीश्वरगतचोघं निरस्तम, शास्त्रमनुमानोनान्यथासिद्धमिति शङ्कते – स्यादेतदिति । शेषवदिति व्यतिरेकी, तद्यथा-प्रसक्तप्रतिषेधेsन्यत्रापरसङ्गात् शिष्यमाने स्मप्रत्यय इति, तथा हि-शब्दो व्योमगुणः विशेषगुणत्वे सति भूम्याद्यष्टस्वम्भाव्यमानत्वात्, अभावचतुष्टयेsप्यप्रसक्तेः, यन्नैवं तन्नैवं यथा गन्घः, एवं संसारिष्वबिद्यमानः अनुमान्सिद्ध उत्कर्ष ईश्वराश्रितः स्यादिति, तदुताह्यत्य ते दूषयति – एतयोरीति । अभावे चाप्रसक्तो भवतीति सत्तावाचित्वेsपिज्ञाने लक्षनातोज्ञायत इति, तत्र हेतुमाहविषयेति । यः सर्वज्ञः सर्वविदिति’शास्त्रादित्यन्वयः, न तत्समश्चाभ्यघिकश्च दृश्यत इति श्रुतिमाश्रित्याह – न चेति । वस्तुनि विकल्पासत्वामाश्रित्याह – नवेति । इतिक्रुत्वा कार्यानुपपततिः, विपक्षे बाघकमाह – उत्पताविति । कृतं = व्यर्थं, “ त्र्यवरा वा परिषदि ” तिमनूक्तेर्न कस्यापि स्वातन्त्र्यं परिषदि, स्वातन्त्र्यं नामेशस्य चेतनान्तराप्रयुक्तत्वे सति सरवप्रयोकतृत्वं सार्वभोउमवत्, खले कपोतन्यायेन युगापदुपस्थितानामेककार्यासिद्धिरित्याह – नित्येशनायोगिनामिति, द्रष्टव्यमिति । लाघवादेक एवास्तिबतिब भावः ॥

अतीन्द्रियाणां = परमाणवा पद्दर्थानां; गृहणं = साक्षात्कारः, अल्पं बह्विति क्रियविशेषन्म सर्वज्ञतायां बीजं वर्त्तत इति, एकार्थसमवायितयाsनादिवाच्यवाचाकतेति भावः, उद्रिक्तसज्ञवेनरजस्तमसोरभिभवो यथा गगने विद्यमानयोश्चन्द्रसूर्योरभिभाव्याभिभावकता, सर्वज्ञबीजन्तत्कारणं ज्ञापकं निरतिशयैश्वर्यमित्यर्थः, एतत् स्पष्टयति-कश्चिदित्यादिना भाह्यं प्रमेयं ग्रहणस्यज्ञास्य, प्रमेयमात्रं कथितं-प्रमातुरीश्वरस्येत्यर्थः, एतद्विवृणोति-अत्रेत्यादि-परिमानवदित्यन्तेन, अवधिमात्रेण सहस्त्रादिना, वात्पिं दर्शयति-यद्यदिति । कुवलयं = वदरिइफलं, परिमानवत् = विभुत्ववत, शङ्कते-न चेति । अभिमान इत्यन्तग्रन्थस्तूत्तरम्, अवयविनि स्वारम्भकावयवगतगरिमातिरिक्तगरिभाभाव इति गरिमातिशये भ्रम इति भावः, द्रव्यत्वे सति द्रव्यान्तरानारम्भकत्वम् = अन्त्यावववित्वं, समूहलम्बनज्ञाने व्यबिचारादाह-जञानन्त्विति । तीर्थकराः = गुरवः, उपदेशिन इत्यर्थः, कृतोपक्ष्यमुनुमानमिति भाष्यम्, कृतः प्राप्तः सामान्यं बूधयित्वैवोपक्षयोविनिषू येन तत् कृतोपक्षयं धूमज्ञानद्वह्मिमत्त्वस्येव, तस्य = निरतिशयेश्वर्यस्येत्यर्थः, आगमतइति भाष्यं, “ऐश्वर्यं केवलश्रिप्रकाशः” “यः सर्वज्ञः सर्वविदिति”; “सत्यं ज्ञानमनन्तं ब्राह्मे” त्याद्यागमः स्यात्तत्राह-आगमाभास इति । आगमाभासत्वं सम्पादयति-सर्वेत्यादि-भावइत्यनतेन, तथा हि क्षणिकत्वं = स्वोत्तरक्षणवर्त्तित्वं, तच्च योsहं पुराssसं सोsहमद्य स्मरमीतिप्रत्यभिज्ञाबाधितन्नैरात्म्यं = नामात्मशून्यत्वं तत्कदा स्वसत्ताकाले वा ? आद्ये स्वप्रतियोगीकसंसर्गाभावाभावः स्वस्य विद्यमानत्वाद्, द्वितीये ग्रहीतुरभावः, आर्हतमतेतु जीवाः सावयवाः मध्यमपरिमाणाश्च, “निष्कलं निष्क्रियं शान्तम्” इतिश्रुतेः’ सावयवत्वमध्यमपरिमाणत्वयोरात्मन्यसङ्गतिरेवेति सर्वप्रमाणबाध उन्नेयः, प्रसिद्ध इति । “शिवमद्वैतं चातुर्थं मन्यन्ते” “सब्रह्मा स शिवः सेन्द्रः” इत्यादिश्रुतिभीरिति शेषः, “पुण्यो वै पुण्येन कर्मणा भवति पापः पापेने”- ति, “कृतप्रयत्नापेक्षस्तु विहितप्रतिषेधावैयर्थ्यात्” “लोकवत्तु लीलकैवल्यामि”ति चोक्तीराश्रितयाह – तस्यात्मनुग्रहाभावेsपीति । सृद्वयस्यायमर्थः – कृतप्रयत्नापेक्षो जीवकृतधर्माधर्माद्यपेक्षोयदीशः प्रवर्त्तन्ते तदा जीवकृतविहितप्रतिषेधवैयर्थम्, बलादीषस्य प्रवर्तकत्वे तस्य स्वप्रयोजनाभावेsपि लीलामात्रात् प्रवृत्तिरित्यर्थः, केवलीभवतीति । तदा द्रष्टुः स्वरूपेsवस्तानमित्यत्र सूक्ते चोक्तं, विवेकख्यात्युपायं = यसनियमासनादिसमाध्यन्तं, समुच्चयादिति । क्रमसमुच्चयात्, तथा च “धर्मेण पापमपनुददीति” श्रुतेरादौ चर्मोपदेशः, “ततस्तु नं पश्यति निष्कलं ध्यायमान” इति श्रुतेः पश्चाद जानं, अत एव आर्थिकः; पूर्वं धमौपदेशः, तस्मान्न समुच्चयः परे वैराग्ये धमान्नधिकारादि”ति हृदयम्, ब्रह्मणो दिनावसाने चातुर्युगसहस्रान्ते महाप्रलये द्विपरार्द्धावसाने,

“एकं दश शतं चैव सहस्रमयुतं तथा । लक्षञ्च नियुतञ्चैब कोटिरर्बुदमेव च ॥

वृन्दः खर्वो निखर्वश्च शङ्खः प्रझ सागरः । अन्त्यं मध्यं परार्धञ्ज सङ्ख्या नातः परा भवेत्” ॥ इति,

कल्पप्रलय इतिभाष्यं प्रायिकं ‘पश्यन् ऋषिर्वामदेवः प्रतिपेदे’ इतिश्रुतेः, ‘ज्ञानादेव तु कैल्वल्य’मितयापि, यदैव साक्षात्कारः तदैव मुक्तिरिति-आदिमुक्तस्वसन्तानादिगुरुविशयमित्यन्तेन जीवन्मुक्तवे सति सम्प्रदायप्रवर्त्तकत्वं ध्वनितं व्यासादेरिवः; अत एव “ऋषिं प्रसूतं कपिलामि”तयादि सङ्गतम् अत एव कदा चिन्मुक्तेष्वियुत्तरग्रन्थावतारे नियुमुक्तव्यावृत्यर्थम्, श्रूयत् इति ।

“यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै” इति श्रुतावित्यर्थः ॥ २५ ॥ स एषः – पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥ पूर्वे हि गुरवः कालेनावच्छिद्यन्ते। यत्रावच्छेदार्थेन कालो नोपावर्तते स एष पूर्वेषामपि गुरुः। यथाऽस्य सर्गस्याऽऽदौ प्रकर्षगत्या सिद्धस्तथाऽतिक्रान्तसर्गादिष्वपि प्रत्येतव्यः ॥ २६ ॥ टीका तत्त्व-वैशारदी

सम्प्रति भगवतो ब्रह्मादिभ्यो विशेषमाह – स एष इति । पातनिका – स एष इति । सूत्रम् – पूर्वेषामपि गुरुः कालेनानवच्छेदात् । व्याचष्टे – पूर्वे हीति । कालस्तु शतवर्षादिरवच्छेदार्थेनावच्छेदेन प्रयोजनेन नोपावर्तते न वर्तते । प्रकर्षस्य गतिः प्राप्तिः । प्रत्येतव्य आगमात् ॥ २६ ॥ पातञ्जल-रहस्यम्

नोपावर्तत इति । सर्वेषां पुरुषाणां देशकालकृतपरिच्छेदाभावेsपीश्वरो भोगापवर्गहेतुर्भवति; एष्वर्यं प्रति च शतवर्षादिरीति भावः, वस्तुतस्त्वीश्वरचित्तसन्तानयोरपतिच्छेदको द्विपरार्द्धकालोजीवानां देशकालकृतपरिच्छेदाभावsपि चित्तसन्तानयोः परिच्छेदकत्वात कालस्येत्यर्थः, ईश्वरः सदैव मुक्तोsपरिच्छेद्यश्च, यथाsस्येपि । विद्यमानस्य सर्गस्येत्यर्थः, प्रकर्षगतिः = प्रकृतेर्महान् महतोsहङ्कारोsहङ्कारात्पञ्च तन्मात्राणि, आगमादिति । “तदैइक्षत वहु स्यां प्रजायेये”त्यादेरिति शेषः,

अस्यार्थः – तदिति प्रकृतिः, ईक्षणं महान् बुद्धिः महानितुक्तेः, बहुस्यामित्यङ्कारः, प्रजायेयेति पञ्चतन्मात्राकारेणेति श्रुतेरर्थः ॥ २६ ॥ तस्य वाचकः प्रणवः ॥ २७ ॥ वाच्य ईश्वरः प्रणवस्य। किमस्य सङ्केतकृतं वाच्यवाचकत्वमथ प्रदीपप्रकाशवदवस्थितमिति। टीका तत्त्व-वैशारदी

तदनेन प्रबन्धेन भगवानीश्वरो दर्शितः । सम्प्रति तत्प्रणिधानं दर्शयितुं तस्य वाचकमाह – तस्य वाचकः प्रणवः । व्याचष्टे – वाच्य इति । तत्र परेषां मतं विमर्शद्वारेणोपन्यस्यति – किमस्येति । वाचकत्वं प्रतिपादकत्वमित्यर्थः । परे हि पश्यन्ति यदि स्वाभाविकः शब्दार्थयोः सम्बन्धः सङ्केतेनास्माच्छब्दादयमर्थः प्रत्येतव्य इत्येवमात्मकेनाभिव्यज्येत ततो यत्र नास्ति स सम्बन्धस्तत्र सङ्केतशतेनापि न व्यज्येत न हि प्रदीपव्यङ्ग्यो घटो यत्र नास्ति तत्र प्रदीपसहस्रेणापि शक्यो व्यङ्क्तुम् कृतसङ्केतस्तु करभशब्दो वारणे वारणप्रतिपादको दृष्टः । ततः सङ्केतकृतमेव वाचकत्वामिति । स्थितोऽस्य वाच्यस्य वाचकेन सह सम्बन्धः। सङ्केतस्त्वीश्वरस्य स्थितमेवार्थमभिनयति। यथाऽवस्थितः पितापुत्रयोः सम्बन्धः सङ्केतेनावद्योत्यते, अयमस्य पिता, अयमस्य पुत्र इति। सर्गान्तरेष्वपि वाच्यवाचकशक्त्यपेक्षस्तथैव सङ्केतः क्रियते। सम्प्रतिपत्तिनित्यतया नित्यः शब्दार्थसम्बन्ध इत्यागमिनः प्रतिजानते ॥ २७ ॥ टीका तत्त्व-वैशारदी

विमृश्याभिमतमवधारयति – स्थितोऽस्येति । अयमभिप्रायः – सर्व एव शब्दाः सर्वाकारार्थाभिधानसमर्था इति । स्थित एवैषां सर्वाकारैरर्थैः स्वाभाविकः सम्बन्धः । ईश्वरसङ्केतस्तु प्रकाशकश्च नियामकश्च । तस्येश्वरसङ्केतासङ्केतकृतश्चास्य वाचकापभ्रंशविभागः । तदिदमाह – सङ्केतस्त्वीश्वरस्येति । निदर्शनमाह – यथेति । ननु शब्दस्य प्राधानिकस्य महाप्रलयसमये प्रधानभावमुपगतस्य शक्तिरपि प्रलीना, ततो महदादिक्रमेणोत्पन्नस्यावाचकस्यैव माहेश्वरेण सङ्केतेन न शक्या वाचकशक्तिरभिव्यञ्जयितुं विनष्टशक्तित्वादित्यत आह – सर्गान्तरेष्वपीति । यद्यपि सह शक्त्या प्रधानसाम्यमुपगतः शब्दस्तथाऽपि पुनराविर्भवंस्तच्छक्तियुक्त एवाऽऽविर्भवति वर्षातिपातसमधिगतमृद्भाव इवोभिद्भिजो मेघविसृष्टवारिधारावसेकात् । तेन पूर्वसम्बन्धसङ्केतानुसारेण सङ्केतः क्रियते भगवतेति । तस्मात्सम्प्रतिपत्तेः सदृशव्यवहारपरम्पराया नित्यतया नित्यः शब्दार्थयोः सम्बन्धो न कूटस्थनित्य इत्यागमिकाः प्रतिजानते, न पुनरागमनिरपेक्षाः सर्गान्तरेष्वपि तादृश एव सङ्केत इति प्रतिपत्तुमीशत इति भावः ॥ २७ ॥ पातञ्जल-रहस्यम्


विमशमवाह – परे हीत्यारभ्य वाचकत्वमित्यन्तेन, ईश्वरकृतो जन्यः सम्बन्ध इति परमतमभिधाय ; “ औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध ” इत्यादिना जैमिनिसूत्रेण शब्दार्थयोर्नित्यसम्बन्ध इत्याह –स्थित इति । सप्राणवाग्र इति मनुस्मृतेः, ब्रह्मा स्वयम्भू “रनादिनिधना वेदा” इत्यादिश्रवनाद्वेदस्य नित्यत्वम् , ईश्वरत्वम् जातिरखन्डोपाधिर्वा , प्रतिकल्पम् ईशितव्यस्य भेदात्सम्बन्धोऽपि नित्यः, एतदेवाह – अयमभिप्राय इति । सर्वा सर्वगता जातिः सा यथा घटाश्वादिना व्यज्यते तथैवात्र सर्व एव शब्दाः सर्वकारा इति , ईश्वरसङ्केतेति़ । अस्य शब्दार्थसम्बन्धस्य नित्यस्येश्वरसङ्केतादेवाभिव्यक्तिर्निर्यमश्च, गोपिण्ड एव गोत्वं नान्यत्रेति, गवेतरावृत्तित्वे सति सकलगोवृत्ति गोत्वमिति लक्षणं प्रकृते विपक्षे बाधकं , गावीगोणेतलिकागोणीत्यादिषु शब्देषु विद्यमानेषु गोप्रतिपादकत्वेन च साधुतानियमौ स्तः, ईश्वरसङ्केताभावाद् एतेभ्यो गोत्वादिव्यवहारस्तु भ्रमादेवेति भाव इति स्मृतिपादे व्याकरनाधिकरणे भट्टैर्निरूपितम् , शक्तिशक्तिमतोर्भेदेन शक्तिमत्सु विद्यमानेषु शक्तेरप्यबोधकतेति शङ्कते – नन्विति । सिद्धान्तमाह – सर्गान्तरेश्वपीति भाष्यम् -

अस्यार्थः – यद्यपीत्यादि – आविर्भवतीत्यन्तेन , शक्तिशक्तिमतोस्तादात्म्यमस्तीति हृदयम् , वर्षातिपात इति । उद्भिज्जो = मण्डूकादिः, वर्षापाये प्राप्तमृद्भावानि मण्डूकशरीराणि घनाघनासारसहितानि प्रावृषि तथैवाविर्भवन्तीति वेदान्ते वाचास्पतिः, न कूटस्थनित्य इति । प्रवाहनित्य इति भावः, न पुनरागमनिरपेक्षा इति । “ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीञ्चान्तरिक्षम् ” इति ॥ २७ ॥ विज्ञातवाच्यवाचकत्वस्य योगिनः – तज्जपस्तदर्थभावनम् ॥ २८ ॥ प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम्। तदस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतश्चित्तमेकाग्रं सम्पद्यते। तथा चोक्तम् – स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत्। स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते ॥ इति ॥ २८ ॥ टीका तत्त्व-वैशारदी

वाचकमाख्याय प्राणधानमाह – तज्जपस्तदर्थभावनम् । व्याचष्टे – प्रणवस्येति । भावनं पुनः पुनश्चित्ते निवेशनम् । ततः किं सिध्यतीत्यत आह – प्रणवमिति । एकस्मिन्भगवत्यारमति चित्तम् । अथैव वैयासिकीं गाथामुदाहरति – तथा चेति । तत ईश्वरः समाधितत्फललाभेन तमनुगृह्णाति ॥ २८ ॥ पातञ्जल-रहस्यम्

प्रणवः = स्वाध्यायः , प्रणवशतरूद्रियादिस्वाध्यायेन विषयेण विषयिणमध्ययनं लक्षयति, तस्मादध्ययनाद् योगमासीत = उपासीत, तथा चोक्तं - स्वाध्ययादिति । वैयसिकीमिति । व्यासान्तरोक्तां,

द्वापरे द्वापरे विष्णुर्व्यासरूपी जनार्दनः । इति व्यासान्तरसिद्धिः , ईश्वरविशयिणीम् चित्तवृत्तिं कुर्यादित्यर्थः , तदुक्तम् –

“जपश्रान्तः शिवं ध्यायेद् ध्यानश्रान्तः शिवं जपेत् । जपध्यानसमायुक्तः परं ब्रह्माधिगच्छति” ॥

इत्यग्निपुराणवचनम् ॥ २८ ॥ किं चास्य भवति – ततः प्रत्यक्त्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥ ये तावदन्तराया व्याधिप्रभृतयस्ते तावदीश्वरप्रणिधानान्न भवन्ति। स्वरूपदर्शनमप्यस्य भवति। यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः केवलोऽनुपसर्गस्तथाऽयमपि बुद्धे प्रतिसंवेदी यः पुरुषस्तमधिगच्छति ॥ २९ ॥ टीका तत्त्व-वैशारदी

किञ्चापरमस्मात् – ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च । प्रतीपं विपरीतमञ्चेति विजानातीति प्रत्यक्स चासौ चेतनश्चेति प्रत्यक्चेतनोऽविद्यावान्पुरुषः । तदनेनेश्वराच्छाश्वतिकसत्त्वोत्कर्षसम्पन्नाद्विद्यावतो निवर्तयति । प्रतीचश्चेतनस्याधिगभो ज्ञानं स्वरूपतोऽस्य भवत्यन्तराया वक्ष्यमाणास्तदभावश्च । अस्य विवरणं – ये तावदिति । स्वमात्मा तस्य रूपम् । रूपग्रहणेनाविद्यासमारोपितान्धर्मान्निषेधति । नन्वीश्वरप्रणिधानमीश्वरविषयं कथमिव प्रत्यक्चेतनं साक्षात्करोत्यतिप्रसङ्गादित्यत आह – यथैवेश्वर इति । शुद्धः कूटस्थनित्यतयोदयव्ययरहितः प्रसन्नः क्लेशवर्जितः केवलो धर्माधर्मापेतः । अत एवानुपसर्गः । उपसर्गा जात्यायुर्भोगाः । सादृश्यस्य किञ्चिद्भेदाधिष्ठानत्वादीश्वराद्भिनत्ति – बुद्धेः प्रतिसंवेदीति । तदनेन प्रत्यग्ग्रहणं व्याख्यातम् । अत्यन्तविधर्मिणोरन्यतरार्थानुचिन्तनं न तदितरस्य साक्षात्काराय कल्पते । सदृशार्थानुचिन्तनं तु सदृशान्तरसाक्षात्कारोपयोगितामनुभवति एकशास्त्राभ्यास इव तत्सदृशार्थशास्त्रान्तरज्ञानोपयोगिताम् । प्रत्यासत्तिस्तु स्वात्मनि साक्षात्कारहेतुर्न परात्मनीति सर्वमवदातम् ॥ २९ ॥ पातञ्जल-रहस्यम्

प्रतीच इति । बुद्धयविवेकिनः, ज्ञानं = द्रष्टुः स्वरूपेणावस्थानम्, सत्त्वधर्मानास्कन्दितं रूपं, कथमिवेत्याक्षेपः, कस्मादिति भावः, समाधत्ते – यथैवेश्वर इति । उदयव्ययौ = जन्मविनाशौ, तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्वं सादृष्यमित्याह – बुद्धेः प्रतिसंवेदीति । कल्पत इति । घटपटयोरिवेत्यर्थः, सदृशयोस्तु भवेदेव गोगवययोरिवेत्यर्थः, दृष्टान्तान्तरमाह – एकशास्त्रेति । वैशेषिकशास्त्राभ्यासो यथा न्यायशास्ताभ्यसे, उपकरोतीति शेषः, प्रत्यासत्तिः = सम्बन्धः,

अयमर्थः – नगरेऽसकृद्दृष्टगोः पुरुषस्यारण्यप्रवेशे गवये चक्षुःप्रत्यासत्तौ यथा गवयधीः; एवं बहुधा भावितेश्वरस्यात्मनि मनः प्रत्यासत्तावात्मसाक्षात्कारः तत्रेश्वरभावना सहायतामवलम्बते, अत एवाह- न परात्मनीति । परात्मनः परप्रत्यक्षायोग्यत्वादित्युक्तेः ॥ २९ ॥ अथ केऽन्तराया ये चित्तस्य विक्षेपाः। के पुनस्ते कियन्तो वेति – व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चितविक्षेपास्तेऽन्तरायाः ॥ ३० ॥ नवान्तरायाश्चित्तस्य विक्षेपाः। सहैते चित्तवृत्तिभिर्भवन्ति। एतेषामभावे न भवन्ति पूर्वोक्ताश्चित्तवृत्तयः। व्याधिर्धातुरसकरणवैषम्यम्। स्त्यानमकर्मण्यता चित्तस्य। संशय उभयकोटिस्पृग्विज्ञानं स्यादिदमेवं नैवं स्यादिति। प्रमादः समाधिसाधनानामभावनम्। आलस्यं कायस्य चित्तस्य च गुरुत्वादप्रवृत्तिः। अविरतिश्चित्तस्य विषयसम्प्रयोगात्मा गर्धः। भ्रान्तिदर्शनं विपर्यज्ञानम्। अलब्धभूमिकत्वं समाधिभूमेरलाभः। अनवस्थितत्वं यल्लब्धायां भूमौ चित्तस्याप्रतिष्ठा। समाधिप्रतिलम्भे हि सति तदवस्थितं स्यादिति। एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इत्यभिधीयन्ते ॥ ३० ॥ टीका तत्त्व-वैशारदी

पृच्छति – अथ क इति । सामान्येनोत्तरम् – य इति । विशेषसङ्ख्ये पृच्छति – क इति । उत्तरं व्याधीत्यादिसूत्रम् । अन्तराया नव । एताश्चित्तवृत्तयो योगान्तराया योगविरोधिनश्चित्तस्य विक्षेपकाश्चित्तं खल्वमी व्याध्यादयो योगाद्विक्षिपन्त्यपनयन्तीति विक्षेपाः । योगप्रतिपक्षत्वे हेतुमाह – सहैत इति । संशयभ्रान्तिदर्शने तावद्वृत्तितया वृत्तिनिरोधप्रतिपक्षौ । येऽपि न वृत्तयो व्याधिप्रभृतयस्तेऽपि वृत्तिसाहचर्यात्तत्प्रतिपक्षा इत्यर्थः । पदार्थान्व्याचष्टे – व्याधिरिति । धातवो वातपित्तश्लेष्माणः शरीरधारणात् । अशितपीताहारपरिणामविशेषो रसः । करणानीन्द्रियाणि तेषां वैषम्यं न्यूनाधिकभाव इति । अकर्मण्यता कर्मानर्हता । संशय उभयकोटिस्पृग्विज्ञानम् । सत्यप्यतद्रूपप्रतिष्ठत्वेन संशयविपर्यासयोरभेदे, उभयकोटिस्पर्शास्पर्शरूपावान्तरविशेषविवक्षयाऽत्र भेदेनोपन्यासः । अभावनमकरणं तत्राप्रयत्न इति यावत् । कायस्य गुरुत्वं कफादिना, चित्तस्य गुरुत्वं तमसा । गर्धस्तृष्णा । मधुमत्यादयः समाधिभूमयः । लब्धभूमेर्यदि तावतैव सुस्थितमन्यस्य समाधिभ्रेषः स्यात्ततस्तस्या अपि भूमेरपायः स्यात् । यस्मात्समाधिप्रतिलम्भे तदवस्थितं स्यात्तस्मात्तत्र प्रयतितव्यमिति ॥ ३० ॥ पातञ्जल-रहस्यम्

अन्तरायाः विघ्नाः विक्षेपाः प्रतिकूला इत्यर्थः, वृत्तिनिरोधः समाधिः, न वृत्तय इति । वाक्काययोरेव व्याणरवात् , रसो = रेतआदि, न्यूनाधिकभाव इति । पटुमृदुते, कर्मानर्हता = अनुत्साहः, चित्तस्येति शेषः, उभयकोटीति । एककोटेरबाधितत्वात्, विपर्यये तु एककोटेरप्यभावः, तृष्णा = विषयलौल्यम्, सुस्थितम्मन्यस्य तुष्टस्येति यावत्, समाधिप्रतिलम्भे = लब्धे समाधौ, तदवस्थितं स्यात् चित्तमिति शेषः ॥ ३० ॥ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥ दुःखमाध्यात्मिकमाधिभौतिकमाधिदैविकं च। येनाभिहताः प्राणिनस्तदपघाताय प्रयतन्ते तद्दुःखम्। दौर्मनस्यमिच्छाविघाताच्चेतसः क्षोभः। यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम्। प्राणो यद्बाह्यं वायुमाचामति स श्वासः। यत्कौष्ठ्यं वायुं निःसारयति स प्रश्वासः। एते विक्षेपसहभुवो विक्षिप्तचित्तस्यैते भवन्ति। समाहितचित्तस्यैवे न भवन्ति ॥ ३१ ॥ टीका तत्त्व-वैशारदी

न केवलं नवान्तराया दुःखादयोऽप्यस्य तत्सहभुवो भवन्तीत्याह – दुःखेत्यादि । प्रतिकूलवेदनीयं दुःखमाध्यात्मिकं शारीरं व्याधिवशान्मानसं च कामादिवशात् । आधिभौतिकं व्याघ्रादिजनितम् । आधिदैविकं ग्रहपीडादिजनितम् । तच्चेदं दुःखं प्राणिमात्रस्य प्रतिकूलवेदनीयतया हेयमित्याह – येनाभिहता इति । अनिच्छतः प्राणो यद्बाह्यं वायुमाचामति पिबति प्रवेशयतीति यावत्स श्वासः समाध्यङ्गरेचकविरोधी । अनिच्छतोऽपि प्राणो यत्कौष्ठ्यं वायुं निश्चारयति निःसारयति स प्रश्वासः समाध्यङ्गपूरकविरोधी ॥ ३१ ॥ पातञ्जल-रहस्यम्

सहभुवः = सहजन्मानः, दुःखमिति । आध्यात्मिकम्,

आत्मा यत्नो धृतिर्बुद्धि स्वभावो ब्रह्म वर्ष्म चेत्यभिधानात्, प्रतिकूलतया जिहासिततया येन दुःखत्रयेणाभिहता सम्बद्धा इत्यर्थः, अनिच्छतः प्राणायामान्, अधिकृतमभ्यासपदं वैराग्योपलक्षकं तथा च ताभ्यामिति द्विवचनं सङ्गच्छते, षड्विम्शतितत्त्वेषु मध्ये एकं मुख्यं तत्त्वमीश्वरः,

“मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः” ॥

पुरुषविशेषश्चेति, षड्विम्शतेः प्रकृतत्वात् क्लेशकर्मसूत्रे पठितत्वात् ॥ ३१ ॥ अथैते विक्षेपाः समाधिप्रतिपक्षास्ताभ्यामेवाभ्यासवैराग्याभ्यां निरोद्धव्याः। तत्राभ्यासस्य विषयमुपसंहरन्निदमाह – तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥ विक्षेपप्रतिषेधार्थमेकतत्त्वावलम्बनं चित्तमभ्यसेत्। यस्य तु प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वमेव चित्तमेकाग्रं नास्त्येव विक्षिप्तम्। यदि पुनरिदं सर्वतः प्रत्याहृत्यैकस्मिन्नर्थे समाधीयते तदा भवत्येकाग्रमित्यतो न प्रत्यर्थनियतम्। टीका तत्त्व-वैशारदी

उक्तार्थोपसंहारसूत्रमवतारयति – अथैत इति । अथोक्तार्थानन्तरमुपसंहरन्निदं य-हेति सम्बन्धः । निरोद्धव्यत्वे हेतुरुक्तः – समाधिप्रतिपक्षा इति । यद्यपीश्वर दित्यभ्यासमात्रमुक्तं तथाऽपि वैराग्यमिह तत्सहकारितया ग्राह्यमित्याह – ग्लक्षणाभ्यामेवाभ्यासवैराग्याभ्यां निरोद्धव्याः । तत्र तयोरभ्यासवैराग्याभ्यासस्यानन्तरोक्तस्येति । तत्प्रतिषेधार्थमित्यादि । एकं तत्त्वमीश्वरः प्रकृतत्वादिति । वैनाशिकानां तत्सर्वमेकाग्रमेव चित्तं नास्ति किञ्चिद्विक्षिप्तमिति तदुपदेशानां तदर्थानां च प्रवृत्तीनां वैयर्थ्यमित्याह – यस्य त्विति । यस्य मते प्रत्यर्थेऽर्प्यमाण एकस्मिन्ननेकस्मिन्वा नियतं यावदर्थावभासमुत्पन्नं तत्रैव समाप्तमनन्यगामि । अर्थान्तरं तावत्प्रथमं गृहीत्वाऽर्थान्तरमपि पश्चात्कस्मान्न गृह्णातीत्यत आह – क्षणिकं च क्षणस्याभेद्यत्वेन पूर्वपश्चाद्भावस्याप्यभाव इति भावः । अस्मन्मते त्वक्षणिकं चित्तं स्वविषय एकस्मिन्ननेकस्मिन्वाऽनवस्थितं प्रतिक्षणं तत्तद्विषयोपादानपरित्यागाभ्यां विषयानियतं विक्षिप्तमतो विक्षेपपरिणाममपनीय शक्यैकाग्रताऽऽधातुमिति तदुपदेशप्रवृत्त्योर्नानर्थकत्वमित्याह – यदि पुनरिदमिति । उपसंहरति – अतो नेति । योऽपि सदृशप्रत्ययप्रवाहेन चित्तमेकाग्रं मन्यते तस्यैकाग्रता यदि प्रवाहचित्तस्य धर्मस्तदैकं नास्ति प्रवाहचित्तं क्षणिकत्वात्। अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः, स सर्वः सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्वादेकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः। तस्मादेकमनेकार्थमवस्थितं चित्तमिति। टीका तत्त्व-वैशारदी

वैनाशिकमुत्थापयपि – योऽपीति । भा मूदेकस्मिन्क्षणिके चित्त एकाग्रताधानप्रयत्नः । चित्तसन्ताने त्वनादावक्षणिके विक्षेपमपनीयैकाग्रताऽऽधास्यत इत्यर्थः । तदेतद्विकल्प्य दूषयति – तस्येति । तस्य दर्शन एकाग्रता यदि प्रवाहचित्तस्य चित्तसन्तानस्य वा धर्मः । तत्रैकं क्रमवदुत्पादेषु प्रत्ययेष्वनुगतं नास्ति प्रवाहचित्तम् । कुतः, यद्यावदस्ति तस्य सर्वस्य क्षणिकत्वादक्षणिकस्य चासत्त्वाद्भवतां दर्शन इति भावः । द्वितीयं कल्पं गृह्णाति – अथेति । सांवृतस्य प्रवाहस्यांशः प्रत्ययः परमार्थसंस्तस्य प्रत्ययस्यैकाग्रता प्रयत्नसाध्यो धर्मः । दूषयति – स सर्वः सांवृतप्रवाहापेक्षया सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा । अतः परमार्थसञ्ज्ञारूपेण प्रत्यर्थनियतत्वाद्यदर्थावभास उत्पन्नस्तत्र समाप्तत्वादेकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः, यदपनयेनैकाग्रताऽऽधीयत इति । उपसंहरति – तस्मादिति । (इतोऽपि किञ्चिदस्ति) यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जायेरन्नथ कथमन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत्। अन्यप्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत्। कथञ्चित्समाधीयमानमप्येतद्गोमयपायसीयन्यायमाक्षिपति। टीका तत्त्व-वैशारदी

इतोऽपि चित्तमेकमनेकार्थमवस्थितं चेत्याह – यदि चेति । यथा हि मैत्रेणाधीतस्य शास्त्रस्य न चैत्रः स्मरति । यथा वा मैत्रेणोपचितस्य पुण्यस्य पापस्य वा कर्माशयस्य फलं तदसम्बन्धी चैत्रो न भुङ्क्ते, एवं प्रत्ययान्तरदृष्टस्य प्रत्ययान्तरं न स्मरेत् । प्रत्ययान्तरोपचितस्य वा कर्माशयस्य फलं च न प्रत्ययान्तरमुपभुञ्जीतेत्यर्थः । ननु नातिप्रसज्यते कार्यकारणभावे सतीति विशेषणाच्छ्राद्धवैश्चानरीयेष्ट्यादावकर्तृमातृपितृपुत्रादिगामिफलदर्शनान्मधुररसभावितानां वाऽऽम्रबीजादीनां परम्परया फलमाधुर्यनियमादित्यत आह – समाधीयमानमप्येतदिति । अयमभिसन्धिः – कः खल्वेकसन्तानवर्तिनां प्रत्ययानां सन्तानान्तरवर्तिभ्यः प्रत्ययेभ्यो विशेषो येनैकसन्तानवर्तिना प्रत्ययेनानुभूतस्योपचितस्य च कर्माशयस्य तत्सन्तानवर्त्येव प्रत्ययः स्मर्ता भोक्ता च स्यान्नान्यसन्तानवर्ती । न हि सन्तानो नाम कश्चिदस्ति वस्तुसन् । य एनं सन्तानं सन्तानान्तरवर्तिभ्यो भिन्द्यात् । न च काल्पनिको भेदः क्रियायामुपपद्यते । न खलु कल्पिताग्निभावो माणवकः पचति । न च कार्यकारणभावसम्बन्धोऽपि वास्तवः । सहभुवोः सव्येतरविषाणयोरिवाभावादसहभुवोरपि प्रत्युत्पन्नाश्रयत्वायोगात् । नह्यतीतानागतौ व्यासज्य प्रत्युत्पन्नं वर्तितुमर्हतः । तस्मात्सन्तानेन वा कार्यकारणभावेन वा स्वाभाविकेनानुपहिताः परमार्थसन्तः प्रत्ययाः परस्परासंस्पर्शित्वेन स्वसन्तानवर्तिभ्यः परसन्तानवर्तिभ्यो वा प्रत्ययान्तरेभ्यो न भिद्यन्ते । सोऽयं गोमयं च पायसं चाधिकृत्य प्रवृत्तो न्यायो गोमयं पायसं गव्यत्वादुभयसिद्धपायसवदिति । तमाक्षिपति न्यायाभासत्वेन ततोऽप्यधिकत्वादिति । न चात्र कृतनाशाकृताभ्यागमं चोद्यम् । यतश्चित्तमेव कर्मणां कर्तृ तदेव तज्जनिताभ्यां सुखदुःखाभ्यां युज्यते । सुखदुःखे च चितिच्छायापन्नं चित्तं भुङ्क्त इति पुरुषे भोगाभिमानश्चितिचित्तयोरभेदग्रहादिति । स्वप्रत्ययं प्रतीत्य समुत्पन्नानां स्वभाव एवैषां तादृशो यत्त एव स्मरन्ति फलं चोपभुञ्जते न त्वन्ये । न च स्वभावा नियोगपर्यनुयोगावर्हन्ति एवं भवत मैवं भूतेति वा कस्मान्नैवमिति चेति । किं च स्वात्मानुभवापह्नवश्चित्तस्यान्यत्वे प्राप्नोति। कथं, यदहमद्राक्षं तत्स्पृशामि यच्चास्प्राक्षं तत्पश्यामीत्यहमिति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्यभेदेनोपस्थितः। एकप्रत्ययविषयोऽयमभेदात्माऽहमिति प्रत्ययः कथमत्यन्तभिन्नेषु चित्तेषु वर्तमानः सामान्यमेकं प्रत्ययिनमाश्रयेत्। स्वानुभवग्राह्यश्चायमभेदात्माऽहमिति प्रत्ययः। न च प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते। प्रमाणान्तरं च प्रत्यक्षबलेनैव व्यवहारं लभते। तस्मादेकमनेकार्थमवस्थितं च चित्तम् ॥ ३२ ॥ टीका तत्त्व-वैशारदी

यः पूर्वोक्ते न परितुष्यति तं प्रत्याह — किं च स्वात्मेति । उदयव्ययधर्माणामनुभवानामनुभवस्मृतीनां च नानात्वेऽपि तदाश्रयमभिन्नं चित्तमहमिति प्रत्ययः प्रतिसन्दधानः कथमत्यन्तभिन्नान्प्रत्ययानालम्बेत । ननु ग्रहणस्मरणरूपकारणभेदात्पारोक्ष्या-पारोक्ष्यरूपविरुद्धधर्मसंसर्गाद्वा न प्रत्यभिज्ञानं नामैकः प्रत्ययो यतः प्रत्ययिनश्चित्तकस्यैकता स्यादित्यत आह – स्वानुभवेति । ननु कारणभेदविरुद्धधर्मसंसर्गावेवात्र बाधकावुक्तावित्यत आह – न च प्रत्यक्षस्येति । प्रत्यक्षानुसारत एव सामग्र्यभेदः पारोक्ष्यापारोक्ष्यधर्माविरोधश्चोपपादितो न्यायकणिकायाम् । अक्षणिकस्य चार्थक्रिय न्यायकणिकाब्रह्मतत्त्वसमीक्षाभ्यामुपपादितेति सर्वमवदातम् ॥ ३२ ॥ यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निर्दिश्यते तत्कथम् – मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चितप्रसादनम् ॥ ३३ ॥ तत्र सर्वप्राणिषु सुखसम्भोगापन्नेषु मैत्रीं भावयेत्। दुःखितेषु करुणाम्। पुण्यात्मकेषु मुदिताम्। अपुण्यशीलेषूपेक्षाम्। एवमस्य भावयतः शुक्लो धर्म उपजायते। ततश्च चित्तं प्रसीदति। प्रसन्नमेकाग्रं स्थितिपदं लभते ॥ ३३ ॥ टीका तत्त्व-वैशारदी

अपरिकर्मितमनसोऽसूयादिमतः समाधितदुपायसम्पत्त्यनुपादाच्चित्तप्रसादनोपायानसूयादिविरोधिनः प्रतिपादयितुमुपक्रमते – यस्य चित्तस्यावस्थितस्येदमिति । मैत्रीकरुणेत्यादिप्रसादनान्तम् । सुखितेषु मैत्रीं सौहार्दं भावयत ईर्ष्याकालुष्यं निवर्तते चित्तस्य । दुःखितेषु च करुणामात्मनीव परस्मिन्दुःखप्रहाणेच्छां भावयतः परापकारचिकीर्षाकालुष्यं चेतसो निवर्तते । पुण्यशीलेषु प्राणिषु मुदितां हर्षं भावयतोऽसूयाकालुष्यं चेतसो निवर्तते । अपुण्यशीलेषु चोपेक्षां माध्यस्थ्यं भावयतोऽमर्षकालुष्यं चेतसो निवर्तते । ततश्चास्य राजसतामसधर्मनिवृत्तौ सात्त्विकः शुक्लो धर्म उपजायते । सत्त्वोत्कर्षसम्पन्नः सम्भवति वृत्तिनिरोधपक्षे । तस्य प्रसादस्वाभाव्याच्चित्तं प्रसीदति । प्रसन्नं च वक्ष्यमाणेभ्य उपायेभ्य एकाग्रं स्थितिपदं लभते । असत्यां पुनर्मैत्र्यादिभावनायां न त उपायाः स्थित्यै कल्पन्त इति ॥ ३३ ॥ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥ कौष्ठ्यस्य वायोर्नासिकापुटाभ्यां प्रयत्नविशेषाद्वमनं प्रच्छर्दनं, विधारणं प्राणायामस्ताभ्यां वा मनसः स्थितिं सम्पादयेत् ॥ ३४ ॥ टीका तत्त्व-वैशारदी

तानिदानीं स्थित्युपायानाह – प्रच्छर्दनविधारणाभ्यां वा प्राणस्य । वाशब्दो वक्ष्यमाणोपायान्तरापेक्षो विकल्पार्थः, न मैत्र्यादिभावनापेक्षया तया सह समुच्चयात् । प्रच्छर्दनं विवृणोति – कौष्ठ्यस्येति । प्रयत्नविशेषाद्योगशास्त्रविहिताद्येन कौष्ठ्यो वायुर्नासिकापुटाभ्यां शनै रेच्यते । विधारणं विवृणोति – विधारणं प्राणायामः । रेचितस्य प्राणस्य कौष्ठ्यस्य वायोर्यदायामो बहिरेव स्थापनं न तु सहसा प्रवेशनम् । तदेताभ्यां प्रच्छर्दनविधारणाभ्यां वायोर्लधुकृतशरीरस्य मनः स्थितिपदं लभते । अत्र चोत्तरसूत्रगतात्स्थितिनिबन्धनीतिपदात्स्थितिग्रहणमाकृष्य सम्पादयेदित्यर्थप्राप्तेन सम्बन्धनीयम् ॥ ३४ ॥ विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ ३५ ॥ नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित्सा गन्धप्रवृत्तिः। जिह्वाग्रे रससंवित्। तालुनि रूपसंवित्। जिह्वामध्ये स्पर्शसंवित्। जिह्वामूले शब्दसंविदित्येता वृत्तय उत्पन्नाश्चित्तं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधिप्रज्ञायां च द्वारी भवन्तीति। एतेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्यादिषु प्रवृत्तिरुत्पन्ना विषयवत्येव वेदितव्या। यद्यपि हि तत्तच्छास्त्रानुमानाचार्योपदेशैरवगतमर्थतत्त्वं सद्भूतमेव भवति, एतेषां यथाभूतार्थप्रतिपादनसामर्थ्यात् तथाऽपि यावदेकदेशोऽपि कश्चिन्न स्वकरणसंवेद्यो भवति तावत्सर्वं परोक्षमिवापवर्गादिषु सूक्ष्मेष्वर्थेषु न दृढां बुद्धिमुत्पादयति। तस्माच्छास्त्रानुमानाचार्योपदेशोपोद्बलनार्थमेवावश्यं कश्चिदर्थविशेषः प्रत्यक्षीकर्तव्यः। तत्र तदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयमपि आऽपवर्गाच्छ्रद्धीयते। एतदर्थमेवेदं चित्तपरिकर्म निर्दिश्यते। अनियतासु वृत्तिषु तद्विषयायां वशीकारसञ्ज्ञायामुपजातायां समर्थं स्यात्तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति। तथा च सति श्रद्धावीर्यस्मृतिसमाधयोऽस्याप्रतिबन्धेन भविष्यन्तीति ॥ ३५ ॥ टीका तत्त्व-वैशारदी

स्थित्युपायान्तरमाह - विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी । व्याचष्टे – नासिकाग्रे धारयत इति । धारणाध्यानसमाधीन्कुर्वतस्तज्जयाद्या दिव्यगन्धसंवित्तत्साक्षात्कारः । एवमन्यास्वपि प्रवृत्तिषु योज्यम् । एतच्चाऽऽगमात्प्रत्येतव्यं नोपपत्तितः । स्यादेतत्किमेतादृग्भिर्वृत्तिभिः कैवल्यं प्रत्यनुपयोगिनीभिरित्यत आह – एता वृत्तयोऽल्पेनैव कालेनोत्पन्नाश्चित्तमीश्वरविषयायां वा विवेकख्यातिविषयायां वा स्थितौ निबध्नन्ति । नन्वन्यविषया वृत्तिः कथमन्यत्र स्थितिं निबध्नातीत्यत आह – संशयं विधमन्ति अपसारयन्ति अत एव समाधिप्रज्ञायामिति । वृत्त्यन्तराणामप्यागमसिद्धानां विषयवत्त्वमतिदिशति – एतेनेति । नन्वागमादिभिरवगतेष्वर्थेषु कुतः संशय इत्यत आह – यद्यपि हीति । श्रद्धामूलो हि योग उपदिष्टार्थैकदेशप्रत्यक्षीकरणे च श्रद्धातिशयो जायते । तन्मूलाश्च ध्यानाद् योऽस्याप्रत्यूहं भवन्तीत्यर्थः ॥ ३५ ॥ विशोका वा ज्योतिष्मती ॥ ३६ ॥ प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनीत्यनुवर्तते। हृदयपुण्डरीके धारयतो या बुद्धिसंवित् बुद्धिसत्त्वं हि भास्वरमाकाशकल्पं, तत्र स्थितिवैशारद्यात्प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विकल्पते। तथाऽस्मितायां समापन्नं चित्तं निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति। यत्रेदमुक्तम् – “तमणुमात्रमात्मानमनुविद्यास्मीत्येवं तावत्सम्प्रजानीते” इति। एषा द्वयी विशोका विषयवती, अस्मितामात्रा च प्रवृत्तिर्ज्योतिष्मतीत्युच्यते। यया योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३६ ॥ टीका तत्त्व-वैशारदी

विशोका वा ज्योतिष्मती । विगतशोका दुःखरहिता ज्योतिष्मती ज्योतिरस्या अस्तीति ज्योतिष्मती प्रकाशरूपा । हृदयपुण्डरीक इति । उदरोरसोर्मध्ये यत्पद्ममऽधोमुखं तिष्ठत्यष्टदलं रेचकप्राणायामेन तदूर्ध्वमुखं कृत्वा तत्र चित्तं धारयेत् । तन्मध्ये सूर्यमण्डलमकारो जागरितस्थानं तस्योपरि चन्द्रमण्डलमुकारः स्वप्नस्थानम् । तस्योपरि वह्निमण्डलं मकारः सुषुप्तिस्थानम् । तस्योपरि परव्योमात्मकं ब्रह्मनादं तुरीयस्थानमर्धमात्रमुदाहरन्ति ब्रह्मवादिनः । तत्र कर्णिकायामूर्ध्वमुखी सूर्यादिमण्डलमध्यगा ब्रह्मनाडी । ततोऽप्यूर्ध्वं प्रवृत्ता सुषुम्ना नाम नाडी । तया खलु बाह्यान्यपि सूर्यादीनि मण्डलानि प्रोक्तानि । सा हि चित्तस्थानम् । तस्यां धारयतो योगिनश्चित्तसंविदुपजायते । उपपत्तिपूर्वकं बुद्धिसंविद आकारमादर्शयति – बुद्धिसत्त्वं हीति । आकाशकल्पमिति व्यापितामाह । सूर्यादीनां प्रभास्तासां रूपं तदाकारेण विकल्पते नानारूपा भवति । मनश्चात्र बुद्धिरभिमतं न तु महत्तत्त्वम् । तस्य च सुषुम्नास्थस्य वैकारिकाहङ्कारजन्मनः सत्त्वबहुलतया ज्योतीरूपता विवक्षिता । तत्तद्विषयगोचरतया च व्यापित्वमपि सिद्धम् । अस्मिताकार्ये मनसि समापत्तिं दर्शयित्वाऽस्मितासमापत्तेः स्वरूपमाह – तथेति । शान्तमपगतरजस्तमस्तरङ्गम् । अनन्तं व्यापि । अस्मितामात्रं न पुनर्नानाप्रभारूपम् । आगमान्तरेण स्वमतं समीकरोति – यत्रेदमुक्तं पञ्चशिखेन तमणुं दुरधिगमत्वादात्मानमहङ्कारास्पदमनुविद्यानुचिन्त्यास्मीत्येवं तावत्सञ्जानीत इति । स्यादेतत् । नानाप्रभारूपा भवतु ज्योतिष्मती कथमस्मितामात्ररूपा ज्योतिष्मतत्यित आह – एषा द्वयीति । विधूतरजस्तमोमलास्मितैव सत्त्वमयी ज्योतिरिति भावः । द्विविधाया अपि ज्योतिष्मत्याः फलमाह – ययेति ॥ ३६ ॥ पातञ्जल-रहस्यम्

उपदेशानाम् अर्यमाणे गृह्यमाणे, शङ्कते – अर्थान्तरमिति । अथ सिद्धान्तेन दूषयति – क्षणिकमिति । प्रवाहचित्तं प्रवाहिचित्तस्येत्यर्थः, चित्तसन्तानस्य, चित्तवृत्तिजातिमत्सन्तानस्य वेत्यर्थः – नाद्य इत्याह, तत्रैकमिति क्रमवदुत्पादेष्विति । क्रमेणोत्पद्यमानेषु प्रत्ययेषु मध्ये, अनुगतं नास्ति, पृच्छति – कुत इति । उत्तरयति – यद्यावदित्यादि – भावेत्यन्तेन, द्वितीयं निराह - द्वितीयमिति । अथेत्यादिविक्षिप्तचित्तनुपपत्तिरित्यन्तेन भाष्येण, सांवृतस्य प्रवाहस्य = अविद्याप्रदर्शितस्येत्यर्थः, धर्मो भविष्यतीति शेषः, सदृशप्रवाही प्रदीपकलिकावद् विसदृशप्रवाहि घटपटकुसूला इतिवत्, परमार्थसतारूपेण क्षनिकत्वेन प्रत्यर्थिनियतत्वात् = प्रतिस्वलक्षनियतत्वात् यदर्थावभासः यदाकारः, समाप्तात्वात् = स्वलक्षणान्तरवतित्वेनान्यान्याग्राहकत्वात्, यदिति = विक्षेपः, नान्यदृष्टं स्मरत्यन्य इति न्यायमाश्रित्याह – एवमिति । प्रत्ययान्तरदृष्टस्येव भोक्त्रन्तरदृष्टस्य प्रत्ययान्तरं न स्मरेत् भोक्त्रन्तरं न स्मरेत्, नातिप्रसज्यत इति = अतिप्रसङ्गो नास्ति, कार्यकारणभावे = जन्यजनकभाव एकसन्तानवर्तित्वेन, वस्तुतस्तु तत्र दृष्टान्तः श्राद्धेति । यस्मिन्जात एतामिष्टिनिर्वपति स पूतः; एवं तेजस्वी, अन्नदानो अनामयावीपशुमान् भवतीति वाचानीकं, यथा –

“ यन्नाम्ना पातयेत्पिण्डं तन्नयेद् ब्रह्म शाश्वतं” इत्यादि वाचनिकं न तु सन्तानकार्यकारणता, प्रकरणाद् यथावचनमन्वयः, किञ्च — मधुरसभावितानामित्यादि, अत्रापि नानुपमृद्य प्रादुर्भावादिति न्यायात् , अङ्कुरोत्पत्तिस्तु बीजावयवादेव न तु बीजात् , तवन् मते तु अवयवानामपि क्षणिकत्वं, गोविकारत्वात् गोमयमपि पायसं स्यादिति गोमयपायसीयन्यायः , इत्थमेवार्थं स्पष्टयति – अयमभिसन्धिरिति । विनिगमनाभावं शङ्कते - कः खल्विति । अनुभूतस्य = दृष्टस्य श्रुतस्य च, अपचितसग्र कर्माशयस्य जनितस्य पापपुण्यादेः, प्रत्ययः = आत्मा, नान्यसन्तानवर्तीत्यत्र दृष्टान्तः –सिक्थज्वलितदीपसन्तानस्य तैलवर्तिज्वलितदीपसन्तानस्यावस्तुत्वेनापि तथेत्याह – न हीति । कल्पनया क्रियासिद्धिर्न भवतीत्याह – न चेति । न हि गुञ्जापुञ्जारोपितवह्निर्दहति पचति वा, असहभुवोरतीतानागतयोः प्रत्युत्पन्नं वार्तमानिकं प्रत्युपादानत्वायोगात्, तदाह न हीति । व्यासज्य युगपद्भावेन, गोमयपायसन्यायस्तु कदाचित् सम्भाव्यते प्रायश्चित्तादावयन्तु न सम्भवतीत्याह - ततोऽपीति । स्वमतं समाधत्ते - न चात्रेति । स्वप्रत्ययं = प्रधानं प्रतीत्य द्विपरार्धवसाने संस्काराशेषत्वेन गत्वा समुत्पन्नानां सर्गकाले जातानां चित्तानां स्वभावः कार्यतत्संस्कारयोरन्यतरताः, अन्येन चित्तान्तरेण, नियोगो जलं दहत्विति, पर्यनुयोगः = अग्निः कुतो न क्लेदयत्विति, एतदेव विवृणोति – एवमिति – नानात्वेऽपीति । ज्ञाननिष्ठत्वेनाश्रयस्त्वेक एव सोऽहमितिदृडतरप्रत्यभिज्ञाविषयत्वात्, अहमिति प्रत्यय एकं चित्तं प्रति सन्दधान इत्यन्वयः, भिन्नान् प्रत्ययान् = क्षणिकज्ञानानि, शङ्कते – नन्विति । ग्रहणसामग्री = इन्द्रियार्थसन्निकर्षः स्मरणसामग्री = संस्कार तथा परोक्षं देशकालादिव्यवहितम् अपरोक्षं सन्निहितमित्यादिभेदात्, न चेत्यादि भाष्यं प्रमाणान्तरमनुमानं, तथा हि – आत्मा प्रतिक्षणं भिन्नः सेयम्दीपकलिकेतिवद् इत्याशङ्कानिराकरणं तु दृढतरप्रत्यक्षेण वह्नेः शैत्यानुमानवत् ॥ ३२ - ३६ ॥ वीतरागविषयं वा चित्तम् ॥ ३७ ॥ वीतरागचित्तालम्बनोपरक्तं वा योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३७ ॥ टीका तत्त्व-वैशारदी

वीतरागविषयं वा चित्तम् । वीतरागाः कृष्णद्वैपायनप्रभृतयस्तेषां चित्तं तदेवाऽऽलम्बनं तेनोपरक्तमिति ॥ ३७ ॥ पातञ्जल-रहस्यम्

“वीतरागविषयं वा चित्तं”, वीता गता रागद्वेषमोहा येभ्यस्ते वीतरागाः = कृष्णद्वैपायनादय इति ॥ ३७ ॥ स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥ स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३८ ॥ टीका तत्त्व-वैशारदी

स्वप्ननिद्राज्ञानालम्बनं वा । यदा खल्वयं स्वप्ने विविक्तवनसन्निवेशवर्तिनीमुत्कीर्णामिव चन्द्रमण्डलात्कोमलमृणालशकलानुकारिभिरङ्गप्रत्यङ्गैरुपपन्नामभिजातचन्द्रकान्तमणिमयीमतिसुरभि-मालतीमल्लिकामालाहारिणीं मनोहरां भगवतो महेश्वरस्य प्रतिमामाराधयन्नेव प्रबुद्धः प्रसन्नमनास्तदा तामेव स्वप्नज्ञानालम्बनीभूतामनुचिन्तयतस्तस्य तदेकाकारमनसस्तत्रैव चित्तं स्थितिपदं लभते । निद्रा चेह सात्त्विकी ग्रहीतव्या । यस्याः प्रबुद्धस्य सुखमहमस्वाप्समिति प्रत्यवमर्शो भवति । एकाग्रं हि तस्यां मनो भवति । तावन्मात्रेण चोक्तम् – एतदेव ब्रह्मविदो ब्रह्मणो रूपमुदाहरन्ति सुप्तावस्थेति । ज्ञानं च ज्ञेयरहितं न शक्यं गोचरयितुमिति ज्ञेयमपि गोचरीक्रियते ॥ ३८ ॥ पातञ्जल-रहस्यम्

“स्वप्नानिद्राज्ञानलम्बनं वा”, उत्कीर्णा = निःसृता, अङ्गानि = करचरणादीनि, प्रत्यङ्गानि = अन्गुल्यस्तैरुपेतां, मालतीमल्लिकागन्धेन मनोहारिणीमिति गन्धानुभावो दर्शितः, सुखमहमस्वाप्सं, प्रसन्नं मे मनो, लघूनि मे गात्राणि, इदमुक्तं रूपं = दृष्टान्तः, सर्वे प्रत्यया निरालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति बौद्धास्तान्निराह – ज्ञानञ्चेति । सर्वे प्रत्ययाः यथाऽर्थाः प्रत्ययत्वाद् जाग्रद्घतादिप्रत्ययवद्

“अर्थस्य व्यभिचारित्वे विश्वासः किन्निबन्धन”

इत्युक्तेः ॥ ३८ ॥ यथाभिमतध्यानाद्वा ॥ ३९ ॥ यदेवाभिमतं तदेव ध्यायेत्। तत्र लब्धस्थितिकमन्यत्रापि स्थितिपदं लभत इति ॥ ३९ ॥ टीका तत्त्व-वैशारदी

यथाभिमतध्यानाद्वा । किं बहुना यदेवाभिमतं तत्तद्देवतारूपमिति ॥ ३९ ॥ पातञ्जल-रहस्यम्

अभिमतं = शास्त्राविरुद्धं नग्नस्त्र्यादिवारणार्थम् ॥ ३९ ॥ परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥ सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति। स्थूले निविशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य। एवं तामुभयीं कोटिमनुधावतो योऽस्याप्रतीघातः स परो वशीकारः। तद्वशीकारात्परिपूर्णं योगिनश्चित्तं न पुनरभ्यासकृतं परिकर्मापेक्षत इति ॥ ४० ॥ टीका तत्त्व-वैशारदी

कथं पुनः स्थितिपदसात्मीभावोऽवगन्तव्य इत्यत आह – परमाणुपरममहत्त्वान्तोऽस्य वशीकारः । व्याचष्टे – सूक्ष्म इति । उक्तमर्थं पिण्डीकृत्य वशीकारपदार्थमाह – एवं तामुभयीमिति । वशीकारस्यावान्तरफलमाह – तद्वशीकारादिति ॥ ४० ॥ पातञ्जल-रहस्यम्

“परमानुपरममहत्वान्तोऽस्य वशीकारः” निरवयवत्वाविशेषेऽपि चित्तस्य व्यापित्वाव्यापित्वे विशेषः सम्प्रज्ञातसमाधेरिति शेषः ॥ ४० ॥ अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा समापत्तिरिति, तदुच्यते – क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१ ॥ क्षीणवृत्तेरिति प्रत्यस्तमितप्रत्ययस्येत्यर्थः। अभिजातस्येव मणेरिति दृष्टान्तोपादानम्। यथा स्फटिक उपाश्रयभेदात्तत्तद्रूपोपरक्त उपाश्रयरूपाकारेण निर्भासते तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते। भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपाभासं भवति। तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं भवति। तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति। टीका तत्त्व-वैशारदी

तदेवं चित्तस्थितेरुपाया दर्शिताः । लब्धस्थितिकस्य चित्तस्य वशीकारोऽपि दर्शितः । सम्प्रति लब्धस्थितिकस्य चेतसः किंविषयः किंरूपश्च सम्प्रज्ञातो भवतीति पृच्छति – अथेति । अत्रोत्तरं सूत्रमवतारयति – तदुच्यत इति । सूत्रं पठति – क्षीणवृत्तेरित्यादि समापत्त्यन्तम् । तद्व्याचष्टे – क्षीणेति । अभ्यासवैराग्याभ्यां क्षीणराजसतामसप्रमाणादिवृत्तेश्चित्तस्य । तस्य व्याख्यानं – प्रत्यस्तमितप्रत्ययस्येति । तदनेन चित्तसत्त्वस्य स्वभावस्वच्छस्य रजस्तमोभ्यामनभिभव उक्तः । दृष्टान्तं स्पष्टयति – यथेति । उपाश्रय उपाधिर्जपाकुसुमादिरुपरक्तस्तच्छायापन्नः । उपाश्रयस्य यदात्मीयं रूपं लोहितनीलादि तदेवाऽऽकारस्तेन लक्षितो निर्भासते । दार्ष्टान्तिके योजयति – तथा ग्राह्येति । ग्राह्यं च तदालम्बनं च तेनोपरक्तं तदनुविद्धं, तदनेन ग्रहीतृग्रहणाभ्यां व्यवच्छिनत्ति । आत्मीयमन्तःकरणरूपमपिधाय ग्राह्यसमापन्नं ग्राह्यतामिव प्राप्तमिति यावत् । अतो ग्राह्यस्वरूपाकारेण निर्भासते । ग्राह्योपरागमेव सूक्ष्मस्थूलताभ्यां विभजते – भूतसूक्ष्मेति । विश्वभेदश्चेतनाचेतनस्वभावो गवादिर्धटादिश्च द्रष्टव्यः । तदनेन वितर्कविचारानुगतौ समाधी दर्शितौ । तथा ग्रहणेष्वपीन्द्रियेष्वपि द्रष्टव्यम्। ग्रहणालम्बनोपरक्तं ग्रहणसमापन्नं ग्रहणस्वरूपाकारेण निर्भासते। तथा ग्रहीतृपुरुषालम्बनोपरक्तं ग्रहीतृपुरुषसमापन्नं ग्रहीतृपुरुषस्वरूपाकारेण निर्भासते। तथा मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुषसमापन्नं मुक्तपुरुषस्वरूपाकारेण निर्भासत इति। तदेवमभिजातमणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिरित्युच्यते ॥ ४१ ॥ टीका तत्त्व-वैशारदी

तथा ग्रहणेष्वपीन्द्रियेष्विति । गृह्यन्त एभिरर्था इति ग्रहणानीन्द्रियाणि । एतदेव स्पष्टयति – ग्रहणालम्बनेति । ग्रहणं चाऽऽलम्बनं च तदिति ग्रहणालम्बनं तेनोपरक्तमनुविद्धमात्मीयमन्तःकरणरूपमपिधाय ग्रहणमिव बहिष्करणमिवाऽऽपन्नमिति । तदनेनाऽऽनन्दानुगतमुक्त्वाऽस्मितानुगतमाह – तथा ग्रहीतृपुरुषेति । अस्मितास्पदं हि ग्रहीता पुरुष इति भावः । पुरुषत्वाविशेषादनेनैव मुक्तोऽपि पुरुषः शुकप्रह्लादादिः समाधिविषयतया सङ्ग्रहीतव्य इत्याह – तथा मुक्तेति । उपसंहरंस्तत्स्थतदञ्जनतापदं व्याचष्टे – तदेवमिति । तेषु ग्रहीतृग्रहणग्राह्येषु स्थितस्य धारितस्य ध्यानपरिपाकवशादपहतरजस्तमोमलस्य चित्तसत्त्वस्य या तत्स्थतदञ्जनता तदाकारता सा समापत्तिः सम्प्रज्ञातलक्षणो योग उच्यते । तत्र च ग्रहीतृग्रहणग्राह्येष्विति सौत्रः पाठक्रमोऽर्थक्रमविरोधान्नाऽऽदर्तव्यः । एवं भाष्येऽपि प्रथमं भूतसूक्ष्मोपन्यासोऽप्यनादरणीय इति सर्वं रमणीयम् ॥ ४१ ॥ पातञ्जल-रहस्यम्

“क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः”, उपाश्रयस्य = उप समीपे स्थापितस्य जपापुष्पादेः, अपिधाय = तिरस्कृत्य, मरकतक्षिप्तदुग्धस्येव मरकताकारवद्, अर्थाकारवदित्याह, स्थूलसूक्ष्मक्रमेण ग्राह्यमुक्त्वा ग्रहणमाह –सर्वेषामानन्दानामुपस्थमेकायनमिति श्रुतिमाश्रित्याह – आनन्दानुगतमिति । अस्मिताऽऽस्पदमहम्प्रत्ययवेद्यजीवन्मुक्तत्वं यस्य विवेकिनोऽस्तीत्याह – शुकेति । स्थितस्य = तदेकप्रवणस्य ॥ ४१ ॥ तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ ४२ ॥ तद्यथा गौरितिशब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टम्। विभज्यमानाश्चान्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये विज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः। तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा सङ्कीर्णा समापत्तिः सवितर्केत्युच्यते । यदा पुनः शब्दसङ्केतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरूपाकारमात्रतयैवावच्छिद्यते। सा च निर्वितर्का समापत्तिः। तत्परं प्रत्यक्षम्। तच्च श्रुतानुमानयोर्बीजम्। ततः श्रुतानुमाने प्रभवतः। न च श्रुतानुमानज्ञानसहभूतं तद्दर्शनम्। तस्मादसङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति ॥ ४२ ॥ टीका तत्त्व-वैशारदी

सामान्यतः समापत्तिरुक्ता । सेयमवान्तरभेदाच्चतुर्विधा भवति । तद्यथा सवितर्का निर्वितर्का सविचारा निर्विचारा चेति । तत्र सवितर्कायाः समापत्तेर्लक्षणमाह – तत्रेत्यादि । तासु समापत्तिषु मध्ये सवितर्का समापत्तिः प्रतिपत्तव्या । कीदृशी शब्दश्चार्थश्च ज्ञानं च तेषां विकल्पाः । वस्तुतो भिन्नानामपि शब्दादीनामितरेतराध्यासाद्विकल्पोऽप्येकस्मिन्भेदमादर्शयति भिन्नेषु चाभेदम् । तेन शब्दार्थज्ञानविकल्पैः सङ्कीर्णा व्यामिश्रेत्यर्थः । तद्यथा गौरिति शब्द इति । गौरित्युपात्तयोरर्थज्ञानयोः शब्दाभेदविकल्पो दर्शितः । गौरित्यर्थ इति । गौरित्युपात्तयोः शब्दज्ञानयोरर्थाभेदविकल्पः । गौरिति ज्ञानमिति । गौरित्युपात्तयोः शदार्थयोर्ज्ञानाभेदविकल्पः । तदेवमविनिर्भागेन(ण) विभक्तानामपि शब्दार्थज्ञानानां ग्रहणं लोके दृष्टं द्रष्टव्यम् । यद्यविभागेन ग्रहणं कुतस्तर्हि विभाग इत्यत आह – विभज्यमानाश्चान्वयव्यतिरेकाभ्यां परीक्षकैरन्ये शब्दधर्मा ध्वनिपरिणाममात्रस्य शब्दस्योदात्तादयो धर्मा अन्येऽर्थस्य जडत्वमूर्तत्वादयः, अन्ये प्रकाशमूर्तिविरहादयो ज्ञानस्य धर्मा इति । तस्मादेतेषां विभक्तः पन्थाः स्वरूपभेदोन्नयनमार्गः । तत्र विकल्पिते गवाद्यर्थे समापन्नस्येति । तदनेन योगिनोऽपरं प्रत्यक्षमुक्तम् । शेषं सुगमम् ॥ ४२ ॥ पातञ्जल-रहस्यम्

समापन्नमनुविद्धतया जलदुग्धयोरिव सङ्कीर्णतया सहभूतं साकल्यम्, असङ्कीर्णं श्रुतानुमानयोरविषयं ते प्रति कारणं योगिप्रत्यक्षमिति भाष्यार्थः, प्रथमविकल्पे शब्दधी, रन्तरा द्वितीयाऽर्थधीः, स्मृतिर्या सा तृतीया ज्ञानधीरिति समापत्तित्रयं, जलदुग्धयोः समापत्तावपि यथा हंसैर्विविच्यते तथात्र शब्दधर्मोदात्तादिः श्रोत्रेण, अर्थस्त्वक्चक्षुर्भ्यो, ज्ञानधर्मो मनसा, इत्याह – विभक्तः पन्था इति ॥ ४२ ॥ निर्वितर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते – स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३ ॥ या शब्दसङ्केतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्यस्वरूपोपरक्ता प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति सा तदा निर्वितर्का समापत्तिः। टीका तत्त्व-वैशारदी

सूत्रं योजयितुं प्रथमतस्तावन्निर्वितर्कां व्याचष्टे – यदा पुनरिति । परिशुद्धिरपनयः । शब्दसङ्केतस्मरणपूर्वे खल्वागमानुमाने प्रवर्तेते । सङ्केतश्चायं गोरिति शब्दार्थज्ञानानामितरेतराध्यासात्मा । ततश्चाऽऽगमानुमानज्ञानविकल्पौ भवतः । तेन तत्पूर्वा समाधिप्रज्ञा सवितर्का । यदा पुनरर्थमात्रप्रवणेन चेतसाऽर्थमात्रादृतेन तदभ्यासान्नान्तरीयकतामुपगता सङ्केतस्मृतिस्त्यक्ता, तत्त्यागे च श्रुतानुमानज्ञानविकल्पौ तन्मूलौ त्यक्तौ, तदा तच्छून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरूपमात्रतयैव न तु विकल्पितेनाऽऽकारेण परिच्छिद्यते । सा निर्वितर्का समापत्तिरिति । तद्योगिनां परं प्रत्यक्षमसदारोपगन्धस्याप्यभावात् । स्यादेतत्परेण प्रत्यक्षेणार्थतत्त्वं गृहीत्वा योगिन उपदिशन्त्युपपादयन्ति च । कथं चातद्विषयाभ्यामागमपरार्थानुमानाभ्यां सोऽर्थ उपदिश्यत उपपाद्यते च । तस्मादागमानुमाने तद्विषये ते च विकल्पाविति परमपि प्रत्यक्षं विकल्प एवेत्यत आह – तच्च श्रुतेति । यदि हि सवितर्कमिव श्रुतानुमानसहभूतं तदनुषक्तं स्याद्भवेत्सङ्कीर्ण तयोस्तु बीजमेवैतत्ततो हि श्रुतानुमाने प्रभवतः । न च यद्यस्य कारणं तत्तद्विषयं भवति । न हि धूमज्ञानं वह्निज्ञानकारणमिति वह्निविषयम् । तस्मादविकल्पेन प्रत्यक्षेण गृहीत्वा विकल्प्योपदिशन्ति उपपादयन्ति च । उपसंहरति – तस्मादिति । व्याख्येयं सूत्रं योजयति – निर्वितर्काया इति । स्मृतिपरिशुद्धावित्यादि सूत्रम् । शब्दसङ्केतश्च श्रुतं चानुमानं च तेषां ज्ञानमेव विकल्पस्तस्मात्स्मृतिस्तस्याः परिशुद्धिरपगमस्तस्याम् । तत्र च सङ्केतस्मृतिपरिशुद्धिर्हेतुः । श्रुतानुमानस्मृतिपरिशुद्धिश्च हेतुमती । अनुमानशब्दश्च कर्मसाधनोऽनुमेयवाचकः । स्वमिवेतीवकारो भिन्नक्रमस्त्यक्त्वेतिपदानन्तरं द्रष्टव्यः । तथा च व्याख्यातम् – तस्या एकबुद्ध्युपक्रमो ह्यर्थात्माऽणुप्रचयविशेषात्मा गवादिर्घटादिर्वा लोकः। टीका तत्त्व-वैशारदी

विषयविप्रतिपत्तिं निराकरोति – तस्या एकेति । एकां बुद्धिमुपक्रमत आरभत इत्येकबुद्ध्युपक्रमः । तदनेन परमाणवो नानात्मानो न निर्वितर्कविषया इत्युक्तं भवति । योग्यत्वेऽपि तेषां परमसूक्ष्माणां नानाभूतानां महत्त्वैकार्थसमवेतैकत्वनिर्भासप्रत्ययविषयत्वायोगात् । अस्तु तर्हि परमार्थसत्सु परमाणुषु सांवृतः प्रतिभासधर्मः । स्थौल्यमित्यत आह – अर्थात्मेति । नासति बाधके स्थूलमनुभवसिद्धं शक्यापह्नवमिति भावः । तत्र ये पश्यन्ति द्व्यणुकादिक्रमेण गोघटादय उपजायन्त इति तान्प्रत्याह – अणुप्रचयेति । अणूनां प्रचयः स्थूलरूपपरिणामः, स च विशिष्यतेऽन्यस्मात्परिणामान्तरात्स एवाऽऽत्मा स्वरूपं यस्य स तथोक्तः । गवादिर्भोगायतनम् । घटादिर्विषयः । तच्चैतदुभयमपि लोक्यत इति लोकः । स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्म आत्मभूतः फलेन व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रादर्भवति। धर्मान्तरस्य कपालादेरुदये च तिरो भवति। स एष धैर्मोऽवयवीत्युच्यते। योऽसावेकश्च महांश्चाणीयांश्च स्पर्शवांश्च क्रियाधर्मकश्चानित्यश्च तेनावयविना व्यवहाराः क्रियन्ते। टीका तत्त्व-वैशारदी

नन्वेष भूतसूक्ष्मेभ्यो भिन्नोऽभिन्नो वा स्याद्भिन्नश्चेत्कथं तदाश्रयः कथं च तदाकारः । न हि घटः पटादन्यस्तदाकारस्तदाश्रयो वा । अभिन्नश्चेत्तद्वदेव सूक्ष्मोऽसाधारणश्च स्यादत आह – स चेति । अयमभिप्रायः – नैकान्ततः परमाणुभ्यो भिन्नो घटादिरभिन्नो वा, भिन्नत्वे गवाश्ववद्धर्मधर्मिभावानुपपत्तेः । अभिन्नत्वे धर्मिरूपवदेव तदनुपपत्तेः । तस्मात्कथञ्चिद्भिन्नः कथञ्चिदभिन्नश्चाऽऽस्थेयस्तथा च सर्वमुपपद्यते । भूतसूक्ष्माणामितिषष्ठ्या कथञ्चिद्भेदं सूचयति आत्मभूत इति चाभेदम् । फलेन व्यक्तेन तदनुभवलक्षणेन तद्व्यवहारलक्षणेन च व्यक्तेन विप्रतिपन्नं प्रत्यनुमापितः । कारणाभेदे च कारणाकारतोपपन्नेत्याह – स्वव्यञ्जकाञ्जन इति । स किं तदात्मभूतो धर्मो नित्यो नेत्याह – धर्मान्तरस्य कपालादेरुदय इति । तस्यावयविनः परमाणुभ्यो व्यावृत्तं रूपमादर्शयति – स एष इति । परमाणुसाध्यायाः क्रियाया अन्या क्रिया मधूदकादिधारणलक्षणा तद्धर्मक इति । न केवलमनुभवादपि तु व्यवहारतोऽपि तन्निबन्धनत्वाल्लोकयात्राया इत्याह – तेनेति । यस्य पुनरवस्तुकः स प्रचयविशेषः सूक्ष्मं च कारणमनुपलभ्यमविकल्पस्य तस्यावयव्यभावादतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्तं मिथ्याज्ञानमिति। टीका तत्त्व-वैशारदी

स्यादेतदसति बाधकेऽनुभवोऽवयविनं व्यवस्थापयेत् । अस्ति च बाधकं यत्सत्तत्सर्वमनवयवं यथा विज्ञानम् । सच्च गोघटादीति स्वभावहेतुः । सत्त्वं हि विरुद्धधर्मसंसर्गरहितत्वेन व्याप्तं, तविरुद्धश्च विरुद्धधर्मसंसर्गः सावयव उपलभ्यमानो व्यापकविरुद्धोपलब्ध्या सत्त्वमपि निवर्तयति । अस्ति चावयविनि तद्देशत्वातद्देशत्वावृतत्वानावृतत्वरक्तत्वारक्तत्वचलत्वाचलत्वलक्षणो विरुद्धधर्मसंसर्ग इत्यत आह – यस्य पुनरिति । अयमभिप्रायः – अनुभवसिद्धं सत्त्वं हेतुः क्रियते यत्किल पांशुलपादुको हालिकोऽपि प्रतिपद्यते । अन्यद्वाऽनुभवसिद्धात् । तत्रान्यदसिद्धत्वादहेतुः । अनुभवसिद्धं तु घटादीनां सत्त्वमर्थक्रियाकारित्वरूपं न स्थूलादन्यत् । सोऽयं हेतुः स्थूलत्वमपाकुर्वन्नात्मानमेव व्याहन्ति । ननु न स्थूलत्वमेव सत्त्वमपि त्वसतो व्यावृत्तिः । अस्थौल्यव्यावृत्तिश्च स्थौल्यं, व्यावर्त्यभेदाच्च व्यावृत्तयो भिद्यन्ते । अतः स्थौल्याभावेऽपि न सत्त्वव्याहतिः । अन्यत्वात् । भवतु वा व्यावृत्तिभेदादवसायविषयभेदः । यत्पूर्वकास्त्ववसायास्तस्यानुभवस्याविकल्पस्य प्रमाणस्य को विषय इति निरूपयतु भवान्रूपपरमाणवो निरन्तरोत्पादा अगृहीतपरमसूक्ष्मतत्त्वा इति चेत्, हन्तैते गन्धरसस्पर्शपरमाणुभिरन्तरिता न निरन्तराः । तस्मादन्तरालाग्रह एकघनवनप्रत्ययवत्परमाण्वालम्बनः सन्नयं विकल्पो मिथ्येति तत्प्रभवविकल्पा न पारम्पर्येणापि वस्तुप्रतिबद्धा इति कुतस्तदवसितस्य सत्त्वस्यानवयवत्वसाधकत्वम् । तस्मादविकल्पस्य प्रत्यक्षस्य प्रामाण्यमिच्छता तदनुभूयमानस्थौल्यस्यैव सत्त्वमविकल्पावसेयमकामेनाप्यभ्युपेयम् । तथा च तद्बाधमानं सत्त्वमात्मानमेवापबाधेत । परमसूक्ष्माः परमाणवो विजातीयपरमाण्वनन्तरिता अनुभवविषया इति व्याहतमङ्गीकरणम् । तदिदमुक्तं – यस्य पुनरवस्तुकः स प्रचयविशेषो निर्विकल्पविषयः । सन्तु तर्हि सूक्ष्माः परमाणवो निर्विकल्पविषया इत्यत आह – सूक्ष्मं च कारणमनुपलभ्यमविकल्पस्येति । तस्यावयव्यभावाद्धेतोरतद्रूपप्रतिष्ठ मिथ्याज्ञानमिति लक्षणेन सर्वमेव प्राप्तं मिथ्याज्ञानं यत्स्थौल्यालम्बनं यच्च तदधिष्ठानसत्त्वालम्बनमित्यर्थः । नन्वेतावताऽपि न ज्ञानमात्मनि मिथ्या भवति तस्यावयवित्वेनाप्रकाशादित्यत आह – प्रायेणेति । तदा च सम्यग्ज्ञानमपि किं स्याद्विषयाभावात्। यद्यदुपलभ्यते तत्तदवयवित्वेनाऽऽम्नातम्। तस्मादस्त्यवयवी यो महत्त्वादिव्यवहारापन्नः समापत्तेर्निर्वितर्काया विषयी भवति ॥ ४३ ॥ टीका तत्त्व-वैशारदी

ननु किमेतावताऽपीत्यत आह – तदा चेति । सत्त्वादिज्ञानं चेन्मिथ्या तदा सत्त्वादिहेतुकमनवयवित्वादिज्ञानमपि मिथ्यैव तस्यापि हि निर्विकल्पगोचरस्थलमेवावसेयतया विषयः, स च नास्तीति तात्पर्यार्थः । विषयाभाव एव कुत इत्यत आह – यद्यदिति । विरोधश्च परिणामवैचित्र्येण भेदाभेदेन चोक्तोपपत्त्यनुसारेणोद्धर्तव्य इति सर्वं रमणीयम् ॥ ४३ ॥ पातञ्जल-रहस्यम्

परं प्रत्यक्षं ज्ञानाकरणकं, पूर्वव्यक्तिधीपूर्वत्वादागमपरार्थानुमानयोरिति भावः,

अध्यात्मं नामभेदेन वर्तमानेऽप्यभेदधीरिति परिच्छिद्यते न तु ज्ञानाद्यनुविद्धतयेत्यर्थः साकल्यभावेन समाधत्ते - तयोः = श्रुतानुमानयोः, बीजमेतदिति । योगजज्ञानेन केवलार्थं गृहीत्वोपपाद्यते च, अस्मिन्नर्थे दृष्टान्तमाह- न हीति –

स्मृत्यादि – वितर्कान्तं व्याख्येयं सूत्रं, समापत्तिः समाधिर्यस्यां ज्ञेयमात्रं भासते न ज्ञानहेतोशब्दसङ्केतत्वश्रुतत्वानुमेयत्वानि तेषां ज्ञानानि तत्र स्मृतयश्च परिशुद्धाः त्यक्ता न भासन्त इति समापत्तिस्त्रिवितर्केति कथ्यत इत्याह - येत्यादि – समापत्तिरित्यन्तेन भाष्येण, समाधिमुक्त्वा तस्याः समाधेयविषयमाह – तस्या इत्यादि – अवयवीत्यन्तेन, अवयव्यवयेषु परमाण्वादिषु भूतसूक्ष्मेषु सङ्ख्याऽऽदिवद् व्यासज्य वर्तते न त्ववयवारब्धः कश्चित् स्वतन्त्रः सत्वादे तादात्म्यस्वीकारादत एव जन्माहिषड्वर्गात्मा, तेनावयविना तादृशेन धर्मिणोदकाहरणादिक्रियाः स्युरिति, स्वमतमुक्त्वा पुञ्जात् पुञ्जोत्पत्तिरिति बौद्धमतं निराह – यस्येत्यादि-किंस्यादित्यन्तेन, सम्यक्मिथ्याधियोर्भावाभावयोरिव नित्यं सापेक्षत्वात् संयग्धीरप्यपेक्ष्यैवेत्यभिप्रायः, स्वमतमुपसंहरति – तस्मादिति भाष्यार्थः, तर्ह्येवं बुद्धिभ्रमः स्यादिति शङ्कते – अस्त्विति । धियामौत्सर्गिकं प्रामाण्यमितिन्यायेनाह – असतीति ।

नैययिकमतमुत्थापयति - तत्र य इति । परमाणुद्वयसंयोगात् द्वयणुकमुत्पद्यते द्वयणुकत्रयेण त्रसरेणुरेवं क्रमेण भूम्यादिघटान्तो जायते, तान्प्रत्याह – अनुप्रचय इति । भोगायतनं = शरीरं, विषयो यो नामाचेतनः स किमवयवी अवयवान्तरविशिष्टः स्वारम्भकावयवविषिष्टो वा ? आद्येसोऽप्येवमित्यनवस्था, द्वितीये त्वात्माश्रयोन्योन्याश्रयो वा, तृतीये चक्रकं, किञ्च व्यासज्यवृत्तित्वे चाश्रयप्रत्यक्षमन्तरेण बहुत्वादिवत्तदग्रहः समाप्यवृत्तित्वा एकैकावयवे घटादिव्यवहारो जाताविव, किञ्चायं घट एतदारम्भकावयवनिष्ठात्यन्ताभावप्रतियोगी घटत्वाद्घटान्तरवद्, न च प्रत्यक्षविरोधः शुक्तिरजतादिवदुपपत्तेः, न चैको घट इतिप्रत्ययविरोधः, ग्रहकरकादिवत्तदुपपत्तेः, अस्मत्पक्षे च तादात्म्याद् भेदाभेदाभ्यां सर्वं समञ्जसं, धर्मोऽवयवीति । आश्रितत्वसाम्यादिति भाष्यार्थः, स्वव्यञ्जका ये परमाणवः तदञ्जनस्तत्तादात्म्यापन्नोऽपि न नित्यः; उदयव्ययशालित्वात् प्रत्येकं परमाणवोऽर्थक्रियाऽसमर्था अपि त्रिदण्डादिवत् समर्था इत्याह – तेनेति । बौद्धः शङ्कते – स्यादेतदिति । सहोपलम्भनियमादभेदे ज्ञानादनुमेयादतिरिक्तो नार्थस्तथा च ज्ञानं सत्त्वेन व्याप्तं सावयवत्वेन घटादौ सत्त्वं व्यावर्तमानं सावयवत्वमपि व्यावर्तयति, घटादौ सावयवत्वमेवाशुद्धमित्याशङ्क्याह – अस्ति चावयवीति । सर्वजनीनानुभवमादाय देषयति – यस्यपुनरिति । स्थूलात् = सावयवात्, आत्मानं = सत्त्वं, अपोहवादमाशङ्कते – नन्विति । व्यावृत्तिरभावः सप्रतियोगिकत्वात् स्थौल्यप्रतियोगितयाऽऽपतति स्थौल्याभावो ज्ञाने, सत्त्वमङ्गीकृत्य तस्य कारणं निर्विकल्पकं ज्ञानं विषयाभावेन दूषयति – भवत्विति । अवसायविषयेति । ज्ञानस्य प्रमेयरूपाः त्वक्चक्षुषाऽगृह्यमाणा रूपपरमाणव इत्युक्ते दोधूयमाना रूपरसादिपरमाणवस्तैरन्तरिता एव ते कथं निरन्तरा इति भेदाग्रहनिबन्धनो भ्रम एवेत्याह - तस्मादिति । अयं = कारणीभूताविकल्पस्तस्य अधीने च ज्ञानेऽनन्तरित्वासिद्धेरनुभवविषययासिद्धिरित्याह - एतद्रूपेति । सत्वालम्बनं = निर्विकल्पकं, तर्ह्यात्मज्ञानं प्रमा स्यादित्यत्राह – प्रायेणेति । सूत्रार्थमुपसम्हरति – तस्मादिति । क्षणमपरिणम्य न तिष्ठन्ति गुणा इत्याह - परिणामवैचित्र्येणेति ॥ ४३ ॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥ तत्र भूतसूक्ष्मकेष्वभिव्यक्तधर्मकेषु देशकालनिमित्तानुभवावच्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते। तत्राप्येकबुद्धिनिर्ग्राह्यमेवोदितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते। टीका तत्त्व-वैशारदी

एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता । अभिव्यक्तं घटादिर्धर्मो यैस्ते तथोक्ताः । घटादिधर्मोपगृहीता इति यावत् । देश उपर्यधः पार्श्वादिः । कालो वर्तमानः । निमित्तं पार्थिवस्य परमाणोर्गन्धतन्मात्रप्रधानेम्यः पञ्चतन्मात्रेम्य उत्पत्तिः । एवमाप्यस्य परमाणोर्गन्धतन्मात्रवर्जितेभ्यो रसतन्मात्रप्रधानेभ्यश्चतुर्भ्यः । एवं तैजसस्य गन्धरसतन्मात्ररहितेभ्यो रूपतन्मात्रप्रधानेभ्यस्त्रिभ्यः । एवं वायवीयस्य गन्धादितन्मात्ररहिताभ्यां स्पर्शप्रधानाभ्यां स्पर्शशब्दतन्मात्राभ्याम् । एवं नाभसस्य शब्दतन्मात्रादेवैकस्मात्तदिदं निमित्तं भूतसूक्ष्माणामेतेषां देशकालनिमित्तानामनुभवः, तेनावच्छिन्नेषु नाननुभूतविशेषणा विशेष्ये बुद्धिरुपजायत इत्यर्थः । ननु सवितर्कया सह किं सारूप्यं सविचाराया इत्यत आह – तत्रापीति । पार्थिवो हि परमाणुः पञ्चतन्मात्रप्रचयात्मैकबुद्धिनिर्ग्राह्यः । एवमाप्यादयोऽपि चतुस्त्रिद्व्येकतन्मात्रात्मान एकबुद्धिनिर्ग्राह्या वेदितव्याः । उदितो वर्तमानो धर्मस्तेन विशिष्टम् । एतावता चात्र सङ्केतस्मृत्यागमानुमानविकल्पानुवेधः सूचितः । नहि प्रत्यक्षेण स्थूले दृश्यमाने परमाणवः प्रकाशन्ते । अपि त्वागमानुमानाभ्याम् । तस्मादुपपन्नमस्याः सङ्कीर्णत्वमिति । या पुनः सर्वथा सर्वतः शान्तोदिताव्यपदेश्यधर्मानवच्छिन्नेषु सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारेत्युच्यते। एवं स्वरूपं हि तद्भूतसूक्ष्ममेतेनैव स्वरूपेणाऽऽलम्बनीभूतमेव समाधिप्रज्ञास्वरूपमुपरञ्जयति। टीका तत्त्व-वैशारदी

निर्विचारामाह – या पुनरिति । सर्वथा सर्वेण नीलपीतादिना प्रकारेण । सर्वत इति सार्वविभक्तिकस्तसिः । सर्वैर्देशकालनिमित्तानुभवैरित्यर्थः । तदनेन स्वरूपेण कालानवच्छेदः परमाणूनामिति दर्शितम् । नापि तदारब्धधर्मद्वारेणेत्याह – शान्ता अतीता उदिता वर्तमाना अव्यपदेश्या भविष्यन्तो धर्मास्तैरनवच्छिन्नेषु । अनवच्छिन्ना धर्मैः परमाणवः किमसम्बद्धा एव तैरित्यत आह – सर्वधर्मानुपातिष्विति । कतमेन सम्बन्धेन धर्माननुपतन्ति परमाणव इत्यत आह – सर्वधर्मात्मकेषु । कथञ्चिद्भेदः कथञ्चिदभेदो धर्माणां परमाणुभ्य इत्यर्थः । कस्मात्पुनरियं समापत्तिरेतद्विषयेत्यत आह – एवं स्वरूपं हीति । वस्तुतत्त्वग्राहिणी नाक्षत्त्वे प्रवर्तत इत्यर्थः । प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारेत्युच्यते। तत्र महद्वस्तुविषया सवितर्का निर्वितर्का च, सूक्ष्मवस्तुविषया सविचारा निर्विचारा च। एवमुभयोरेतयैव निर्वितर्कया विकल्पहानिर्व्याख्यातेति ॥ ४४ ॥ टीका तत्त्व-वैशारदी

विषयमभिधायास्याः स्वरूपमाह – प्रज्ञा चेति । सङ्कलय्य स्वरूपभेदोपयोगिविषयमाह – तत्रेति । उपसंहरति – एवमिति । उभयोरात्मनश्च निर्विचारायाश्चेति ॥ ४४ ॥ पातञ्जल-रहस्यम्

एतयेत्यादि - व्याख्यताऽन्तं सूत्रं, यैः = परमाणुभिर्निमित्तैः, उपादानैः गुणैः, गन्धः पर्थिव्याञ्चेति स्मृतिमाश्रित्याह - पार्थिवस्य परमाणोः, पृथिवीरूपः परिणामा यस्य पञ्चारब्धत्वेन स्थूला पृथिवी, तथा च मोक्षधर्मवाक्यं-

सूक्ष्मताव्यापिते ज्ञेये भूम्यादेरुत्तरोत्तरमिति ,

उपादानोपचय उपादेयस्थूलता, एवमाप्यस्येति । देशादिप्रतीतौ किम्मानमित्याशङ्क्याह – नाननुभूतेति । सारूप्यमाह – तत्रापीति । एकबुद्धिनिर्ग्राह्यत्वं सारूप्यमित्यर्थः, गन्धतन्मात्रादुपादेयानां यत्कालनवच्छेद्यत्वं तत्परमतमादायान्यथा पञ्चतन्मात्रस्य पार्थिवस्य परमाणोरुत्पत्तिरिति विरोधः, एवमतीतवर्तमानानागतानां, भाष्यान्तरमाह शान्तेत्यादि । एकतमेन परिणामेन सर्वधर्मानुपातित्वे कथं तदात्मकत्वमिति चेत्तत्राह – कथञ्चिद्भेद इति । जात्युत्तरेण समाधत्ते वस्तुतत्वेति ॥ ४४ ॥ सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥ पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः। आप्यस्य रसतन्मात्रम्। तैजसस्य रूपतन्मात्रम्। वायवीयस्य स्पर्शतन्मात्रम्। आकाशस्य शब्दतन्मात्रमिति। तेषामहङ्कारः। अस्यापि लिङ्गमात्रं सूक्ष्मो विषयः। लिङ्गमात्रस्याप्यलिङ्गं सूक्ष्मो विषयः। न चालिङ्गात्परं सूक्ष्ममस्ति। नन्वस्ति पुरुषः सूक्ष्म इति। सत्यम्। यथा लिङ्गात्परमलिङ्गस्य सौक्ष्म्यं न चैवं पुरुषस्य। किन्तु, लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति। अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥ टीका तत्त्व-वैशारदी

किं भूतसूक्ष्म एव ग्राह्यविषया समापत्तिः समाप्यते । न । किन्तु – सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् । पार्थिवस्य परमाणोः सम्बन्धिनी या गन्धतन्मात्रता सा समापत्तेः सूक्ष्मो विषयः । एवमुत्तरत्रापि योज्यम् । लिङ्गमात्रं महत्तत्त्वं तद्धि लयं गच्छति प्रधान इति । अलिङ्गं प्रधानं तद्धि न क्वचिल्लयं गच्छतीत्यर्थः । अलिङ्गपर्यवसानत्वमाह - न चालिङ्गात्परमिति । चोदयति – ननु पुरुषोऽपि सूक्ष्मो नालिङ्गमेवेत्यर्थः । परिहरति – सत्यमिति । उपादानतया सौक्ष्म्यमलिङ्ग एव नान्यत्रेत्यर्थः । तत्र पुरुषार्थनिमित्तत्वान्महदहङ्कारादेः पुरुषोऽपि कारणमलिङ्गवदिति । कुत एवं लक्षणमलिङ्गस्यैव सौक्ष्म्यमित्याशयवान्पृच्छति – किं त्विति । उत्तरमाह – लिङ्गस्येति । सत्यं कारणं न तूपादानम् । यथा हि, प्रधानं महदादिभावेन परिणमते न तथा पुरुषस्तद्धेतुरपीत्यर्थः । उपसंहरति – अतः प्रधान एव सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥ पातञ्जल-रहस्यम्

निर्विचारायाः समापत्तेरुपादानविषयपर्यवसानमाह – “सूक्ष्मविषयत्वं चालिङ्गपर्यवसानमिति” अलिङ्गं न कुत्रापि लीयत इत्यलिङ्गं प्रकृतिः तद्व्यापिकैषा समापत्तिरित्याह-पार्थिवस्याणोरित्यादि –अलिङ्गसूक्ष्मो विषय इत्यन्तेन भाष्येन , पुरुषस्य ततः सूक्ष्मत्वेऽपि नोपादानत्वेन समापत्तेर्विषयो , हेतुः = प्रवर्तको भोगापवर्गद्वारेणेति भाष्यार्थः , सम्बन्धिन्युपादानतयेत्युपादेयः परमाणुरित्यर्थः , प्रधानं प्रधीयते घटान्तं कार्यमत्रेति , ननु पुरुषोऽपि प्रधानमस्त्वलिङ्गत्वादित्याशङ्क्याह-सत्यमिति । प्रधानस्य परिणामिनित्यत्वेऽपि पुंसःकूटस्थनित्यत्वादसंहतत्वाच्च नोपादानतेत्यर्थः ॥ ४५ ॥ ता एव सबीजः समाधिः ॥ ४६ ॥ ताश्चतस्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिरपि सबीजः। तत्र स्थूलेऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मेऽर्थे सविचारो निर्विचार इति चतुर्धोपसङ्ख्यातः समाधिरिति ॥ ४६ ॥ टीका तत्त्व-वैशारदी

चतसृणामपि समापत्तीनां ग्राह्यविषयाणां सम्प्रज्ञातत्वमाह – ता एव सबीजः समाधिः । एवकारो भिन्नक्रमः सबीज इत्यस्यानन्तरं द्रष्टव्यः । ततश्चतस्रः समापत्तयो ग्राह्यविषयाः सबीजतया नियम्यन्ते । सबीजता त्वनियता ग्रहीतुग्रहणगोचरायामपि समापत्तौ विकल्पाविकल्पभेदेनानिषिद्धा व्यवतिष्ठते । तेन ग्राह्ये चतस्रः समापत्तयो ग्रहीतृग्रहणयोश्चतस्र इत्यष्टौ सिद्धा भवन्तीति । निगदव्याख्यातं भाष्यम् ॥ ४६ ॥ पातञ्जल-रहस्यम्

एकतत्वाभ्यास इत्यत्रोक्ता पुरुषविशयिण्यभ्यस्यमानैव सम्प्रज्ञाततेति स्मारयन्नाह – सम्प्रज्ञातत्वमिति । “ ता एव सबीजः समाधिः ” सूत्रं, प्रधानान्त इति भाष्यार्थः , व्रीहीनवहन्तीति चतुरो मुष्टीन्निर्वपतीति प्रत्येकं व्रीहिष्ववघातयोगो नियम्यते न त्वन्येषु निषिध्यते तद्वद् ग्राह्यविषये नियम्येऽपि न ग्रहीतृग्रहाणयोः समापत्तेः सबीजता निषिध्यत इत्याह- सबीजतात्विति । तेनाष्टौ सिद्धा भवन्तीति भाष्यहृदयं प्रकटीकृतम् ॥ ४६ ॥ निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥ अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम्। यदा निर्विचारस्य समाधेर्वैशारद्यमिदं जायते तदा योगिनो भवत्यध्यात्मप्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः। तथा चोक्तम् – प्रज्ञाप्रसादमारुह्य अशोच्यः शोचतो जनान्। भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति ॥ ४७ ॥ टीका तत्त्व-वैशारदी

चतसृष्वपि समापत्तिषु ग्राह्यविषयासु निर्विचारायाः शोभनत्वमाह – निर्विचारवैशारद्येऽध्यात्मप्रसादः । वैशारद्यपदार्थमाह – अशुद्धीति । रजस्तमसोरुपचयोऽशुद्धिः सैवाऽऽवरणलक्षणो मलस्तस्मादपेतस्य प्रकाशात्मनः प्रकाशस्वभावस्य बुद्धिसत्त्वस्यात एवानभिभूत इति । स्यादेतद्ग्राह्यविषया चेत्समापत्तिः कथमात्मविषयः प्रसाद इत्यत आह – भूतार्थविषय इति । नाऽऽत्मविषयः किन्तु तदाधार इत्यर्थः । क्रमाननुरोधी युगपदित्यर्थः । अत्रैव पारमर्षीं गाथामुदाहरति – तथा चेति । ज्ञानालोकप्रकर्षेणाऽऽत्मानं सर्वेषामुपरि पश्यन्दुःखत्रयपरीताञ्शोचतो जनाञ्जानाति ॥ ४७ ॥ पातञ्जल-रहस्यम्

शोभनत्वमुपादेयत्वमित्याह , निर्विचारादि – प्रसादान्तं , सूत्रं विशारदो निर्मल इत्याह न विभुमिति , अनेन व्यधिकरणत्वं कार्यकारणता नास्तित्त्याशङ्क्याह - किन्त्विति । प्रसादोनाम निष्कलुषता स आत्मन्येव घटते, असङ्गत्वादात्मनः , “ असङ्गो ह्ययं पुरुष” इति श्रुतेः उच्चतरनिर्मलस्थलाधिष्ठितस्याबिलाधस्थलस्थिते पुंसि चोक्ता धीरनुभवसिद्धेत्याह-प्रज्ञा-प्रासादमिति । अशोच्यः = कृतकृत्यः, शोचनं शोकान्वयात् ॥ ४७ ॥ ऋतम्भरा तत्र प्रज्ञा ॥ ४८ ॥ तस्मिन्समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतम्भरेति सञ्ज्ञा भवति। अन्वर्था च सा, सत्यमेव बिभर्ति न च तत्र विपर्यासज्ञानगन्धोऽप्यस्तीति। तथा चोक्तम् – आगमेनानुमानेन ध्यानाभ्यासरसेन च। त्रिधा प्रकल्पयन्प्रज्ञा लभत योगमुत्तमम् ॥ इति ॥ ४८ ॥ टीका तत्त्व-वैशारदी

अत्रैव योगिजनप्रसिद्धान्वर्थसञ्ज्ञाकथनेन योगिसम्मतिमाह – ऋतम्भरा तत्र प्रज्ञा । सुगमं भाष्यम् । आगमेनेति वेदविहितं श्रवणमुक्तम् । अनुमानेनेति मननम् । ध्यानं चिन्ता । तत्राभ्यासः पौनःपुन्येनानुष्ठानम् । तस्मिन्रस आदरः । तदनेन निदिध्यासनमुक्तम् ॥ ४८ ॥ पातञ्जल-रहस्यम्

अन्वर्थसञ्ज्ञाकथनं-ऋतं सत्यं आत्मतत्वं बिभर्तीति, श्रोतव्यो मन्तव्यो निदिध्यासितव्य – इति श्रुतिमाश्रित्याह – आगमेनेति । तत्र श्रवणं = मीमाम्सापारम्पर्ययोर्गुरुमुकाच्छ्रवनं तस्य प्रथमाध्ययन विधि सिद्धेः ,

“ प्रज्ञां कुर्वीत ब्राह्मणः ” इति श्रुतिमाश्रित्याह- प्रकल्पयन् = दृढीकुर्वन् ॥ ४८ ॥ सा पुनः – श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥ श्रुतमागमविज्ञानं तत्सामान्यविषयम्। न ह्यागमेन शक्यो विशेषोऽभिधातुं, कस्मात्, न हि विशेषेण कृतसङ्केतः शब्द इति। तथाऽनुमानं सामान्यविषयमेव। यत्र प्राप्तिस्तत्र गतिर्यत्राप्राप्तिस्तत्र न भवति गतिरित्युक्तम्। अनुमानेन च सामान्येनोपसंहारः। तस्माच्छ्रुतानुमानविषयो न विशेषः कश्चिदस्तीति। टीका तत्त्व-वैशारदी

स्यादेतत् । आगमानुमानगृहीतार्थविषया भावना प्रकर्षलब्धजन्मा निर्विचाराऽऽगमानुमानविषयमेव गोचरयेत् । न खल्वन्यविषयानुभवजन्मा संस्कारः शक्तोऽन्यत्र ज्ञानं मनयितुमतिप्रसङ्गात् । तस्मान्निर्विचारा चेदृतम्भराऽऽगमानुमानयोरपि तत्प्रसङ्ग इत्यत आह – श्रुतानुमानेत्यादि । बुद्धिसत्त्वं हि प्रकाशस्वभावं सर्वार्थदर्शनसमर्थमपि तमसाऽऽवृतं यत्रैव रजसोद्घाट्यते तत्रैव गृह्णाति । यदा त्वभ्यासवैराग्याभ्यामपास्तरजस्तमोमलमनवद्यवैशारद्यमुद्योतते तदाऽस्यातिपतितसमस्तमानमेयसीम्नः प्रकाशानन्त्ये सति किं नाम यन्न गोचर इति भावः । व्याचष्टे – श्रुतमागमविज्ञानं तत्सामान्यविषयम् । कस्मात् । न ह्यागमेन शक्यो विशेषोऽभिधातुम् । कुतो यस्मादानन्त्याद्व्यभिचाराच्च न विशेषेण कृतसङ्केतः शब्दः । यस्मादस्य विशेषेण सह वाच्यवाचकसम्बन्धः प्रतीयते । न च वाक्यार्थोऽपीदृशो विशेषः सम्भवति । अनुमानेऽपि लिङ्गलिङ्गिसम्बन्धग्रहणाधीनजन्मनि गतिरेषैवेत्याह – तथाऽनुमानमिति । यत्र प्राप्तिरित्यत्र यत्रतत्रशब्दयोः स्थानपरिवर्तनेन व्याप्यव्यापकभावोऽवगमयितव्यः । अतोऽत्रानुमानेन सामान्येनोपसंहारः । उपसंहरति – तस्मादिति । न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणमस्ति। न चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति समाधिप्रज्ञानिर्ग्राह्य एव स विशेषो भवति भूतसृऽक्ष्मगतो वा पुरुषगतो वा। तस्माच्छ्रतानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वादिति ॥ ४९ ॥ टीका तत्त्व-वैशारदी

अस्तु तर्हि सम्बन्धग्रहानपेक्षं लोकप्रत्यक्षं न तत्सामान्यविषयमित्यत आह – न चास्येत्यादि । मा भूत्सम्बन्धग्रहाधीनं लोकप्रत्यक्षम् । इन्द्रियाधीनं तु भवत्येव । न चेन्द्रियाणामस्मिन्नस्ति योग्यतेत्यर्थः । ननु च यद्यागमानुमानप्रत्यक्षागोचरो विशेषस्तर्हि नास्ति प्रमाणविरहादित्यत आह – न चेति । न हि प्रमाणं व्यापकं कारणं वा प्रमेयस्य येन तन्निवृत्तौ निवर्तेत । नो खलु कलावतश्चन्द्रस्य परभागवर्तिहरिणसद्भावं प्रति न सन्दिहते प्रामाणिका इत्यर्थः । इति तस्मात्समाधिप्रज्ञानिर्ग्राह्य एवेति । अत्र च विवादाध्यासिताः परमाणव आत्मानश्च प्रातिस्विकविशेषशालिनो द्रव्यत्वे सति परस्परं व्यावर्तमानत्वाद्ये द्रव्यत्वे सति परस्परं व्यावर्तन्ते ते प्रातिस्विकविशेषशालिनो यथा खण्डमुण्डादय इत्यनुमानेनाऽऽगमेन च ऋतम्भरप्रज्ञोपदेशपरेण यद्यपि विशेषो निरूप्यते तदनिरूपणे संशयः स्यान्न्यायप्राप्तत्वात्तथाऽप्यदूरविप्रकर्षेण तत्सत्त्वं कथञ्चिद्गोचरयतः श्रुतानुमाने न तु साक्षाच्चार्थमिव समुच्चयादिपदानि लिङ्गसङ्ख्यायोगितया । तस्मात्सिद्धं श्रुतानुमानप्रज्ञाभ्यामन्यविषयेति ॥ ४९ ॥ पातञ्जल-रहस्यम्

श्रुतानुमानेत्युत्तरसूत्रमवतारयितुं शङ्कते – स्यादिति । आकृतिस्तु क्रियाऽर्थत्वान्नागृहीतविशेषणा बुद्धिर्विशेष्य उपजायत इति सूत्रन्यायाभ्यां सामान्ये जातावेव शक्तिः , अनुमानं तु सामान्यविषयमेवान्यथाकृतत्वे सिषाधयिषाविरह इति सामान्यविषयकस्तज्जसंस्कार इत्युद्देश्यानुरोधेनोद्देशयोरपि न विशेषविषयतेति न योगिप्रत्यक्षमाहात्म्यं केनापि तावद् गृह्यते , “ सर्वे समाः सर्वेऽनन्ता ” इति श्रुतिमाश्रित्याह -बुद्धिसत्त्वं हीति ।

“रजस्तमश्चाभिभूय सत्त्वं भवति भारत ” ! इति-

भगवदुक्तेरुद्रिक्तसत्त्वस्यानतिक्रमणीयो विषयो नास्तीत्याह – अतिपतितेत्यादि-भाव इत्यन्तेन , “ अथ यदा वाक् मृत्युनाऽत्यमुच्यत साऽग्निरभवदि ” इति श्रुतेः पापकृतपरिच्छिन्नत्वशून्यत्वेनानन्त्यं सर्वग्राहकत्वं बुद्ध्यादेरित्यर्थः , शब्दानुमानयोर्न विशेषो विषय इति युक्त्या स्थापयति - न हीत्यादि-उपसंहार इत्यन्तेन,

“ यत्राप्यतिशयो दृष्टो दूरसूक्ष्मादिदर्शने ।

स स्वार्थानतिलङ्नाघेनुरूपे श्रोत्रवृत्तिते ” ति –

न्यायमतिक्रम्याह-अस्तु तर्हीति । तथा-

“ ऋषीणाम् पुनराद्यानां वाचमर्थोनुधावति ” – एतदपि सङ्कल्पादुपस्थीयत इति भावः , “प्राणा वै सत्यं तेषामेष सत्यमि”ति श्रुतिमाश्रित्याह – न हि प्रमाणमिति । सति प्रमेये प्रमाणं व्यवच्छेदकमन्यथैतदप्रमेयं तत्र मानं न तु यत्र मानं तत्रैव मेयं ; मेयस्य मानव्याप्यत्वाद् इत्याह – तन्निवृत्ताविति । मृगाङ्कश्चन्द्रः , शशवत्वेऽपि सन्दिहानो यतो, बुद्धिसत्त्वस्य विषयोऽप्यात्मा ; इन्द्रियाविषयः सिद्ध इत्याह –समाधिप्रज्ञानिर्ग्राह्य इति । आत्मा शब्दैकगम्य इत्युक्तमुद्योतकारेणापि, वैशेषिकस्य विशेषपदार्थमादायानुमानमाह- विवादेति । आगमेन = “ सत्यस्य सत्यं ”दूरस्थञ्चान्तिकेऽपितत् ” “सर्वमावृत्यतिष्ठति ” इत्यादिना , अदूरविप्रकर्षं सामान्यतो बोधयतः विशेषतो न बोधयत इति , अदूरविप्रकर्षो नाम सम्भावना , तदेवाह-चार्थमिवेति । देवदत्त्श्च यज्ञदत्तश्च तावित्यत्र चो लिन्नसङ्ख्ये बोधयति न तु चार्थानि समुच्चयादिपदानि तयोः समुच्चय इत्युक्तेः , एवं योगिप्रत्यक्षतेति भावः ॥ ४९ ॥ समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवो जायते – तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥ समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते। व्युत्थानसंस्काराभिभवात्तत्प्रभवाः प्रत्यया न भवन्ति। प्रत्ययनिरोधे समाधिरुपतिष्ठते। ततः समाधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो जायते। ततश्च प्रज्ञा, ततश्च संस्कारा इति। कथमसौ संस्कारातिशयश्चित्तं साधिकारं न करिष्यतीति। न ते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतुत्वाच्चित्तमधिकारविशिष्टं कुर्वन्ति। चित्तं हि ते स्वकार्यादवसादयन्ति। ख्यातिपर्यवसानं हि चित्तचेष्टितमिति ॥ ५० ॥ टीका तत्त्व-वैशारदी

स्यादेतत् । भवतु परमार्थविषयः सम्प्रज्ञातो यथोक्तोपायाभ्यासादनादिना तु व्युत्थानसंस्कारेण निरूढनिबिडतया प्रतिबन्धनीया समाधिप्रज्ञा सा वात्यावर्तमध्यवर्तिप्रदीपपरमाणुरिवेति शङ्कामपनेतुं सूत्रमवतारयति – समाधिप्रज्ञेति । सूत्रं पठति – तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी । तदिति निर्विचारां समापत्तिं परामृशति । अन्येति व्युत्थानमाह । भूतार्थपक्षपातो हि धियां स्वभावस्तावदेवेयमनवस्थिता भ्राम्यति न यावत्तत्त्वं प्रतिलभते । तत्प्रतिलम्भे तत्र स्थितपदा सती संस्कारबुद्धिः संस्कारबुद्धिचक्रक्रमेणाऽऽवर्तमानाऽनादिमप्यतत्त्वसंस्कारबुद्धिक्रमं बाधत एवेति । तथा च बाह्या अप्याहुः –

“निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । न बाधोऽनादिमत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥ ” इति ।

स्यादेतत्समाधिप्रज्ञातोऽस्तु व्युत्थानजस्य संस्कारस्य निरोधः । समाधिजस्तु संस्कारातिशयः समाधिप्रज्ञाप्रसवहेतुरस्त्यविकल इति तदवस्थैव चित्तस्य साधिकारतेति चोदयति – कथमसाविति । परिहरति – न त इति । चित्तस्य हि कार्यद्वयं शब्दाद्युपभोगो विवेकख्यातिश्चेति । तत्र क्लेशकर्माशयसहितं शब्दाद्युपभोगे वर्तते । प्रजाप्रभवसंस्कारोन्मूलितनिखिलक्लेशकर्माशयस्य तु चेतसोऽवसितप्रायाधिकारभावस्य विवेकख्यातिमात्रमवशिष्यते कार्यम् । तस्मात्समाधिसंस्काराश्चित्तस्य न भोगाधिकारहेतवः प्रत्युत तत्परिपन्थिन इति । स्वकार्याद्भोगलक्षणादवसादयन्ति असमर्थं कुर्वन्तीत्यर्थः । कस्मात्ख्यातिपर्यवसानं हि चित्तचेष्टितं, तावद्विभोगाय चित्तं चेष्टते न यावद्विवेकख्यातिमनुभवति । सञ्जातविवेकख्यातिनस्तु क्लेशनिवृत्तौ न भोगाधिकार इत्यर्थः ॥ ५० ॥ पातञ्जल-रहस्यम्

“पूर्वं परमजातत्वादबाधित्वैव जायते ।

परस्य नान्यथोत्पादो न त्वबाधेन जीवनम्” –

इति न्यायेनानादिरपि सादिना बाध्यत इत्याह – “ तज्जः संस्कारोऽन्यसम्स्कारप्रतिबन्धी”ति , समाधिजसंस्कारो व्युत्थानसंस्कारविरोधीत्यर्थः , बाधत एवेति । तत्र पूर्वपक्षो भाष्ये , विषयः तत्वज्ञानस्य सहायो , निःसहाया भ्रान्तिरत आह – निरूपद्रवेति । उपद्रवा समनान्तरप्रत्ययसहकारिप्रत्ययाधिपतिप्रत्ययालम्बनप्रत्ययाः त एव विपर्ययाः तेषामनादित्वेऽपि न बाधो बुद्धेः प्रमाबुद्धेरित्यर्थः – समाधौ विद्यमाने कथं निरधिकारिता चित्तस्येत्याक्षिप्य समाधत्ते-कथमसावित्यादि-परिहरतीत्यन्तेन , भोगापवर्गौ = पुमर्थस्तयोर्भोगे क्लेशकर्माशयःसहकारी ; अपवर्गहेतावन्यथाख्यातौ तु समाधिसंस्कारः सहकारी , चित्तस्य हीत्यदि कुर्वन्तीत्यन्तेनोक्तं - यक्षानुरूपो बलिरितिन्यायेन, अवसितोऽधिकारभावो यस्य तस्यावशिष्यते कर्तव्यतवेति शेषःपरिपन्थिनो = विरोधिन इति, दावाग्निरिव वेत्रवीजस्येत्यवसादनमित्यर्थः , चेष्ठते = क्लेशकर्माद्यारभत इत्यर्थः ॥ ५० ॥ किं चास्य भवति – तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ ५१ ॥ स न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृतानामपि संस्काराणां प्रतिबन्धी भवति। कस्मात्, निरोधजः संस्कारः समाधिजान्संस्कारान्बाधत इति। निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्तित्वमनुमेयम्। व्युत्थाननिरोध-समाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैश्चित्तं स्वस्यां प्रकृताववस्थितायां प्रविलीयते। तस्मात्ते संस्काराश्चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति। टीका तत्त्व-वैशारदी

तदत्र भोगाधिकारप्रशान्तिः प्रयोजनं प्रज्ञासंस्काराणामित्युक्तम् । पृच्छति – किं चेति । किं चास्य भवति प्रज्ञासंस्कारवच्चित्तं प्रज्ञासंस्कारप्रवाहजनकतया तथैव साधिकारमित्यधिकारापनुत्तयेऽन्यदपि किञ्चिदपेक्षणीयमस्तीत्यर्थः । सूत्रेणोत्तरमाह – तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः । परेण वैराग्येण ज्ञानप्रसादमात्रलक्षणेन संस्कारोपजननद्वारा तस्यापि प्रज्ञाकृतसंस्कारस्य निरोधे, न केवलं प्रज्ञाया इत्यपिशब्दार्थः । सर्वस्योत्पद्यमानस्य संस्कारप्रज्ञाप्रवाहस्य निरोधात्कारणाभावेन कार्यानुत्पादात्सोऽयं निर्बीजः समाधिर्भवति । व्याचष्टे – स निर्बीजः समाधिः समाधिप्रज्ञाविरोधिनः परस्माद्वैराग्यादुपजायमानः स्वकारणद्वारेण न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृतानामप्यसौ संस्काराणां परिपन्थी भवति । ननु वैराग्यजं विज्ञानं सद्विज्ञानं प्रज्ञामात्रं बाधतां संस्कारं त्वविज्ञानरूपं कथं बाधते । दृष्टा हि जाग्रतोऽपि स्वप्नदृष्टार्थस्मृतिरित्याशयवान्पृच्छति – कस्मादिति । उत्तरं – निरोधज इति । निरुध्यतेऽनेन प्रज्ञेति निरोधः परं वैराग्यम् । ततो जातो निरोधजः संस्कारः । संस्कारादेव दीर्घकालनैरन्तर्यसत्कारासेवितपरवैराग्यजन्मनः प्रज्ञासंस्कारबाधो न तु विज्ञानादित्यर्थः ।

स्यादेतत् । निरोधजसंस्कारसद्भावे किं प्रमाणं स हि प्रत्यक्षेण वाऽनुभूयेत स्मृत्या वा कार्येणानुमीयेत । न च सर्ववृत्तिनिरोधे प्रत्यक्षमस्ति योगिनः । नापि स्मृतिः । तस्य वृत्तिमात्रनिरोधतया स्मृतिजनकत्वासम्भवादित्यत आह – निरोधेति । निरोधे स्थितिश्चित्तस्य निरुद्धावस्थेत्यर्थः । तस्याः कालक्रमो मुहूर्तार्धयामयामाहोरात्रादिस्तदनुभवेन । एतदुक्तं भवति – वैराग्याभ्यासप्रकर्षानुरोधी निरोधप्रकर्षो मुहूर्तार्धयामादिव्यापतयाऽनुभूयते योगिना । न च वैराग्यक्षणाः क्रमनियततया परस्परमसम्भवन्तस्तत्तत्कालव्यापितया सातिशयं निरोधं कर्तुमीशत इति तत्तद्वैराग्यक्षणप्रचयजन्यः स्थायी संस्कारप्रचय एषितव्य इति भावः । ननूच्छिद्यन्तां प्रज्ञासंस्काराः । निरोधसंस्कारास्तु कुतः समुच्छिद्यन्ते । अनुच्छेदे वा साधिकारत्वमेवेत्यत आह – व्युत्थानेति । व्युत्थानं च तस्य निरोधसमाधिश्च सम्प्रज्ञातस्तत्प्रभवाः संस्काराः कैवल्यभागीया निरोधजाः संस्कारा इत्यर्थः । व्युत्थानप्रज्ञासंस्काराश्चित्ते प्रलीना इति भवति चित्तं व्युत्थानप्रज्ञासंस्कारवत् । निरोधसंस्कारस्तु प्रत्युदित एवाऽऽस्ते चित्ते । निरोधसंस्कारे सत्यपि चित्तममधिकारवत् । पुरुषार्थजनकं चित्तं हि साधिकारं शब्दाद्युपभोगविवेकख्याती च तथा पुरुषार्थः । संस्कारशेषतायां तु न बुद्धेः प्रतिसंवेदी पुरुष इति नासौ पुरुषार्थः । विदेहप्रकृतिलयानां न निरोधभागितया साधिकारं चित्तम् । यस्मादवसिताधिकारं सह कैवल्यभागीयैः संस्कारैश्चित्तं निवर्तते, तस्मिन्निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठोऽतः शुद्धः केवलो मुक्त इत्युच्यत इति ॥ ५१ ॥ टीका तत्त्व-वैशारदी

अपि तु क्लेशवासिततयेत्याशयवानाह – यस्मादिति । शेषं सुगमम् ॥ ५१ ॥

योगस्योद्देशनिर्देशौ तदर्थं वृत्तिलक्षणम् । योगोपायाः प्रभेदाश्च पादेऽस्मिन्नुपवर्णिताः ॥ १ ॥ पातञ्जल-रहस्यम्

किञ्चास्यभवतीतिप्रश्नस्योत्तरम् सूत्रं – “ तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः” , निर्बीजो निरधिकार इत्यर्थः , धर्ममेघनाम्ना परवैराग्येण तदेव ज्ञानप्रसादरूपं , तेन विरोधिज्ञानयोरेव बाध्यबाधकता , न पुनः संस्कारयोः प्रतिबुद्धस्यापि स्वप्नसंस्कारदर्शनादित्याशङ्कते – कस्मादिति । वैराग्यस्य नास्ति कृत्यं प्रियां त्यजत्यग्निं प्रविशतीति तदेवात्र बाधकं , न तु ज्ञानमित्युत्तरमाह- निरोधज इत्यादिना न तु विज्ञानादित्यन्तेन , प्रमाणभावं द्विधा विकल्प्यानुमानमादाय समाधत्ते – निरोधस्थितीति । विनश्यदवस्थस्यापि कार्यकारित्वसम्भवः, वाक्यार्थं कथयति – एतदुक्तमिति । पयसि क्षिप्तलवणवद्धि प्रकृतौ लीनमित्याह – नेत्यादि – भाष्येण , व्युत्थानञ्च निरोधसमाधिश्च तत्प्रभव इति विग्रहः , कैवल्यभागीयैर्मोक्षजनकैरित्यर्थः , न बुद्धेः प्रतिसम्बेदी = बुद्धिसाक्षात्कारवानित्यर्थे निरधिकारमेव चित्तं निवर्तते न साधिकारम् ,

“ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतङ्कर्म शुभाशुभम्” ॥

इति स्मृतेः , ज्ञानातिरिक्तनाशकानाश्यस्यावश्यं भोग इत्याह – विदेहेति । पादार्थं सङ्कलय्याह – योगेति । उद्देशो नाम्ना कीर्तनमथ योगानुशासनं , निर्द्देर्शो योगश्चित्तवृत्तिनिरोधः , वृत्तिलक्षणं वृत्तय इत्यादि ॥ ५१ ॥ साधनपादः उद्दिष्टः समाहितचित्तस्य योगः। कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादित्येतदारभ्यते – तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १ ॥ नातपस्विनो योगः सिध्यति। अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर्नान्तरेण तपः सम्भेदमापद्यत इति तपस उपादानम्। तच्च चित्तप्रसादनमबाधमानमनेनाऽऽसेव्यमिति मन्यते। स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा। ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं तत्फलसन्न्यासो वा ॥ १ ॥ टीका तत्त्व-वैशारदी

ननु प्रथमपादेनैव सोपायः सावान्तरप्रभेदः सफलो योग उक्तस्तत्किमपरमवशिष्यते यदर्थं द्वितीयः पादः प्रारभ्येतेत्यत आह – उद्दिष्ट इति । अभ्यासवैराग्ये हि योगोपायौ प्रथमे पाद उक्तौ । न च तौ व्युत्थितचित्तस्य द्रागित्येव सम्भवत इति द्वितीयपादोपदेश्यानुपायानपेक्षते सत्त्वशुद्ध्यर्थम् । ततो हि विशुद्धसत्त्वः कृतरक्षासंविधानोऽभ्यासवैराग्ये प्रत्यहं भावयति । समाहितत्वमविक्षिप्तत्वम् । कथं व्युत्थानचित्तोऽप्युपदेक्ष्यमाणैरुपायैर्युक्तः सन्योगी स्यादित्यर्थः । तत्र वक्ष्यमाणेषु नियमेष्वाकृष्य प्राथमिकं प्रत्युपयुक्ततरतया प्रथमतः क्रियायोगमुपदिशति सूत्रकारः – तपःस्वाध्यायेत्यादि । क्रियैव योगः क्रियायोगो योगसाधनत्वात् । अत एव विष्णुपुराणे खाण्डिक्यकेशिध्वजसंवादे –

“योगयुक्प्रथमं योगी युञ्जमानोऽभिधीयते । ”

इत्युपक्रम्य तपःस्वाध्यायादयो दर्शिताः । व्यतिरेकमुखेन(ण) तपस उपायत्वमाह – नातपस्विन इति । तपसोऽवान्तरव्यापारमुपायतोपयोगिनं दर्शयति – अनादीति । अनादिभ्यां कर्मक्लेशवासनाभ्यां चित्राऽत एव प्रत्युपस्थितमुपनतं विषयजालं यस्यां सा तथोक्ता । अशुद्धी रजस्तमःसमुद्रेको नान्तरेण तपः सम्भेदमापद्यते । सान्द्रस्य नितान्तविरलता सम्भेदः । ननूपादीयमानमपि तपो धातुवैषम्यहेतुतया योगप्रतिपक्ष इति कथं तदुपाय इत्यत आह – तच्चेति । तावन्मात्रमेव तपश्चरणीयं न यावता धातुवैषम्यमापद्यत इत्यर्थः ।

प्रणवादयः पुरुषसूक्तरुद्रमण्डलब्राह्मणादयो वैदिकाः, पौराणिकाश्च ब्रह्मपारायणादयः । परमगुरुर्भगवानीश्वरस्तस्मिन् ।

यत्रेदमुक्तम् –

“कामतोऽकामतो वाऽपि यत्करोमि शुभाशुभम् । तत्सर्वं त्वयि सन्न्यस्तं त्वत्प्रयुक्तः करोम्यहम् ॥ ” इति ।

तत्फलसन्न्यासो वा फलानभिसन्धानेन कार्यकरणम् ।

यत्रेदमुक्तम् –

“कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ” इति ॥ १ ॥ पातञ्जल-रहस्यम्

द्वितीये दीयते पादे स्वागताख्यं सदुत्तरम् । योगोपायात्मके शम्भोः प्रसादाय कृतीश्वरैः ॥

“तपःस्वाध्यायेश्वरप्रनिधानानि क्रियायोगः”, इत्यादिसूत्रम्, “तपसा कल्मषं हन्ति स्वाध्यायेन योगमाप्नोति”

“यज्ञायाचारतः कर्म समग्रं प्रविलीयत”—

इत्यादिश्रुतिस्मृतिभ्यां क्रियायोगस्य समाधावुपकारकतामाह-नातपस्विनो योगः सिध्यतीत्यादि-क्रियायोग इत्यन्तेन भाष्येण, ततो हि विशुद्धसत्त्व इति, उपायानुष्ठानस्य फलमाह-योगी स्यादिति । विषयजालं, जालं नाम मत्स्यस्येव बन्धनम्, सम्भेदं प्रथितं, तपोऽत्रयुक्ताहारता न तु कृछ्रचान्द्रायणादि तस्य धातुवैषम्यहेतुत्वात, तदुक्तम्-

“द्वौ भागौ पूरयेददन्नैस्तोयेनैकञ्च पूरयेत् । मारुतस्य प्रचारार्थं चतुर्थमवशेषयेत्” ॥ इति,

“युक्ताहारविहारास्ये”ति,

“परञ्चापरञ्च ब्रह्म यदोङ्कारः”,

“युज्जीत प्रणवे चित्तं प्रणवं ब्रह्म निर्भयम्”—

इत्यादि श्रुतिस्मृती आश्रित्याह-प्रणवादय इति । सर्वशब्दस्यासङ्कुचितवृत्तित्वे पापापणमपि प्राप्तं? नायं दोषो वाचनिकत्वात्, “यत् करोपि यदश्नासि”ति भगवतोक्तेः, शुभाशुभमित्युक्तेश्च, फलसन्न्यासस्चेत्कथं कर्मकृतिः? अत्रापि वाचनिकत्वाददोष इत्याह - “मा कर्मफलहेतुर्भूरि”ति कर्मफलमेव हेतुः प्रवर्तको यस्य तथाविधो मा भूस्त्वमर्जुन!, तर्हि कष्टं कर्मेत्यनुभवादकृतिरेवास्त्विति चेत्तत्राह-“मा ते सङ्गोस्त्वकर्मणि” कर्माकृतौ फले च सक्तिर्मा भूदथ च कर्म कुर्वित्यर्थः ॥ १ ॥ स हि क्रियायोगः – समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २ ॥ स ह्यासेव्यमानः समाधिं भावयति क्लेशांश्च प्रतनू करोति। प्रतनूकृतान्क्लेशान्प्रसङ्ख्यानाग्निना दग्धबीजकल्पानप्रसवधर्मिणः करिष्यतीति। तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति ॥ २ ॥ टीका तत्त्व-वैशारदी

तस्य प्रयोजनाभिधानाय सूत्रमवतारयति – स हीति । सूत्रं – समाधिभावनार्थः क्लेशतनूकरणार्थश्च । ननु क्रियायोग एव चेत्क्लेशान्प्रतनूकरोति कृतं तर्हि प्रसङ्ख्यानेनेत्यत आह – प्रतनूकृतानिति । क्रियायोगस्य प्रतनूकरणमात्रे व्यापारो न तु वन्ध्यत्वे क्लेशानां प्रसङ्ख्यानस्य तु तद्वन्ध्यत्वे । दग्धबीजकल्पानिति वन्ध्यत्वेन दग्धकलमबीजसारूप्यमुक्तम् । स्यादेतत् । प्रसङ्ख्यानमेव चेत्क्लेशानप्रसवधर्मिणः करिष्यति, कृतमेषां प्रतनूकरणेनेत्यत आह – तेषामिति । क्लेशानामतानवे हि बलवद्विरोधिग्रस्ता सत्त्वपुरुषान्यताख्यातिरुदेतुमेव नोत्सहते । प्रागेव तद्वन्ध्यभावं कर्तुं प्रविरलीकृतेषु तु क्लेशेषु दुर्बलेषु तद्विरोधिन्यपि वैराग्याभ्यासाभ्यामुपजायते । उपजाता च तैरपरामृष्टाऽनभिभूता नैव यावत्परामृश्यत इति । सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञाऽतीन्द्रियतया सूक्ष्मोऽस्या विषय इति सूक्ष्मा प्रज्ञा प्रतिप्रसवाय प्रविलयाय कल्पिष्यते । कुतः, समाप्ताधिकारा यतः समाप्तोऽधिकारः कार्यारम्भणं गुणानां यया हेतुभूतया सा तथोक्तेति ॥ २ ॥ पातञ्जल-रहस्यम्

क्रियायोगस्य फलद्वयं सूत्रेणाह-“समाधिभावनार्थः क्लेशतनूकरणार्थश्च”, धर्मेण पापमपनुदतीतिश्रुतेः समाधिप्रतिबन्धकीभूतपापनिरसनेन समाधिं दृढीकुर्वन् रागद्वेषाभिभवार्थ इति सूत्रार्थे गौरवाहतिरिति शङ्कते-नन्विति । प्रसङ्ख्यानेन वैराग्येण कृतं = विफलता, तरणिकिरणतनूकृतस्यापि धान्यादेः प्ररोहसामर्थ्यं दृष्टं न तु दग्धेष्वित्यनुभवमाश्रित्याह-प्रतनूकृतानित्यादि-उक्तमित्यन्तेन, वन्ध्यत्वं = प्रसवाजनकत्वं, वैराग्ये विद्यमानेऽपि छर्दितान्ने दुर्भिक्षादौ क्षुधाऽऽर्त्तस्य प्रवृत्तिः सम्भाव्येत्याशङ्कते-स्यादेतदित्यादिना-परामृष्यतइत्यन्तेन, अतानवे = अतनूकरणे, उदेतुमिति । “नाशान्तो नासमाहितः नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयाद्” इति श्रुतेः, तस्य प्रज्ञैव न जायत इति श्रुतेरर्थः, तामिस्नेषु नो रूपधीर्विरलीकृतेषु मन्दप्रदीपैः सन्तमसेषु रूपमुपलभ्यत इति, क्लेशतनूकरणस्योपकारितेति भावः,

“दृश्यते त्वग्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः” इति—

श्रुतिमाश्रित्याह-सूक्ष्मेति ।

“सैव चा विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्ममि”ति

साङ्ख्योक्तेश्च ॥ २ ॥ अथ के क्लेशाः कियन्तो वेति – अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ ३ ॥ क्लेशा इति पञ्च विपर्यया इत्यर्थः। ते स्पन्दमाना गुणाधिकारं द्रढयन्ति, परिणाममवस्थापयन्ति, कार्यकारणस्रोत उन्नमयन्ति, परस्परानुग्रहतन्त्री भूत्वा कर्मविपाकं चाभिनिर्हरन्तीति ॥ ३ ॥ टीका तत्त्व-वैशारदी

पृच्छति – अथेति । अविद्येति सूत्रेण परिहारः । अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः । व्याचष्टे – पञ्च विपर्यया इति । अविद्या तावद्विपर्यय एव । अस्मितादयोऽप्यविद्योपादानास्तदविनिर्भागवर्तिन इति विपर्ययाः । ततश्चाविद्यासमुच्छेदे तेषामपि समुच्छेदो युक्त इति भावः । तेषामुच्छेत्तव्यताहेतुं संसारकारणत्वमाह – ते स्पन्दमानाः समुदाचरन्तो गुणानामधिकारं द्रढयन्ति बलवन्तं कुर्वन्त्यत एव परिणाममवस्थापयन्ति अव्यक्तमहदहङ्कारपरम्परया हि कार्यकारणस्रोत उन्नमयन्त्युद्भावयन्ति । यदर्थं सर्वमेतत्कुर्वन्ति तद्दर्शयति – परस्परेति । कर्मणां विपाको जात्यायुर्भोगलक्षणः पुरुषार्थस्तममी क्लेशा अभिनिर्हरन्ति निष्पादयन्ति । किं प्रत्येकं नेत्याह – परस्परानुग्रहेति । कर्मभिः क्लेशाः क्लेशैश्च कर्माणीति ॥ ३ ॥ पातञ्जल-रहस्यम्

“पञ्चाषड्भेदां पञ्चपर्वामविद्याम्” इति श्रुतिमाश्रित्य के क्लेशाः कियन्तो वेत्यस्योत्तरमाह- “अविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशा” इति,

तमो मोहो महामोहस्तामिस्नश्चान्धसञ्ज्ञक” इति

विष्णुपुराणवचनात्, पञ्चपर्वा पञ्चाशद्भेदा वर्णरूपेणेति श्रुतेरथः, उन्नमयन्ति = उद्घाटयन्ति, अविनिर्भागवर्तिनः कृत्तिकोदये रोहिण्युदयवदविनाभाविन इत्यर्थः, इन्द्रियाणाञ्च स्वातन्त्र्यं निराह-परस्परेति ॥ ३ ॥ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४ ॥ अत्राविद्या क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां चतुर्विधविकल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम्। तत्र का प्रसुप्तिः। चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः। तस्य प्रबोध आलम्बने सम्मुखीभावः। प्रसङ्ख्यानवतो दग्धक्लेशबीजस्य सम्मुखीभूतेऽप्यालम्बने नासौ पुनरस्ति, दग्धबीजस्य कुतः प्ररोह इति। अतः क्षीणक्लेशः कुशलश्चरमदेह इत्युच्यते। तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति। सतां क्लेशानां तदा बीजसामर्थ्यं दग्धमिति विषयस्य सम्मुखीभावेऽपि सति न भवत्येषां प्रबोध इत्युक्ता प्रसुप्तिर्दग्धबीजानामप्ररोहश्च। टीका तत्त्व-वैशारदी

हेयानां क्लेशानामविद्यामूलत्वं दर्शयति – अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् । तत्र का प्रसुप्तिरिति । स्वोचितामर्थक्रियामकुर्वतां क्लेशानां सद्भावे न प्रमाणमस्तीत्यभिप्रायः पृच्छतः । उत्तरं – चेतसीति । मा नामार्थक्रियां कार्षुः क्लेशा विदेहप्रकृतिलयानां बीजभावं प्राप्तास्तु ते शक्तिमात्रेण सन्ति क्षीर इव दधि । न हि विवेकख्यातेरन्यदस्ति कारणं तद्वन्ध्यतायाम् । अतो विदेहप्रकृतिलया विवेकख्यातिविरहिणः प्रसुप्तक्लेशा न यावत्तदवधिकालं प्राप्नुवन्ति । तत्प्राप्तौ तु पुनरावृत्ताः सन्तः क्लेशास्तेषु तेषु विषयेषु सम्मुखी भवन्ति । शक्तिमात्रेण प्रतिष्ठा येषांस्ते तथोक्ताः । तदनेनोत्पत्तिशक्तिरुक्ता । बीजभावोपगम इति च कार्यशक्तिरिति । ननु विवेकख्यातिमतोऽपि क्लेशाः कस्मान्न प्रसुप्ता इत्यत आह – प्रसङ्ख्यानवत इति । चरमदेहो न तस्य देहान्तरमुत्पत्स्यते यदपेक्षयाऽस्य देहः पूर्व इत्यर्थः । नान्यत्र विदेहादिष्वित्यर्थः । ननु सतो नात्यन्तविनाश इति किमिति तदीययोगर्द्धिबलेन विषयसम्मुखीभावे न क्लेशाः प्रबुध्यन्त इत्यत आह – सतामिति । सन्तु क्लेशा दग्धस्त्वेषां प्रसङ्ख्यानाग्निना बीजभाव इत्यर्थः । तनुत्वमुच्यते – प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति। तथा विच्छिद्य विच्छिद्य तेन तेनाऽऽत्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः। कथं, रागकाले क्रोधस्यादर्शनात्। न हि रागकाले क्रोधः समुदाचरति। रागश्च क्वचिदृश्यमानो न विषयान्तरे नास्ति। नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्तः किन्तु तत्र रागो लब्धवृत्तिरन्यत्र तु भविष्यद्वृत्तिरिति। स हि तदा प्रसुप्ततनुविच्छिन्नो भवति। टीका तत्त्व-वैशारदी

क्लेशप्रतिपक्षः क्रियायोगस्तस्य भावनमनुष्ठानं तेनोपहतास्तनवः । अथवा सम्यग्ज्ञानमविद्यायाः प्रतिपक्षो भेददर्शनमस्मिताया माध्यस्थ्यं रागद्वेषयोरनुबन्धबुद्धिनिवृत्तिरभिनिवेशस्येति । विच्छित्तिमाह – तथेति । क्लेशानामन्यतमेन समुदाचरताऽभिभवाद्वाऽत्यन्तविषयसेवया वा विच्छिद्य विच्छिद्य तेन तेनाऽऽत्मना समुदाचरन्त्याविर्भवन्ति वाजीकरणाद्युपयोगेन वाऽभिभावकदौर्बल्येन वेति । वीप्सया विच्छेदसमुदाचारयोः पौनःपुन्यं दर्शयता यथोक्तात्प्रसुप्ताद्भेद उक्तः । रागेण वा समुदाचरता विजातीयः क्रोधोऽभिभूयते सजातीयेन वा विषयान्तरवर्तिना रागेणैव विषयान्तरवर्ती रागोऽभिभूयत इत्याह – रागेति । भविष्यद्वृत्तेस्त्रयी गतिर्यथायोगं वेदितव्येत्याह – स हीति । भविष्यद्वृत्तिक्लेशमात्रपरामर्शि सर्वनाम न चैत्ररागपरामर्शि तस्य विच्छिन्नत्वादेवेति । विषये यो लब्धवृत्तिः स उदारः। सर्व एवैते क्लेशविषयत्वं नातिक्रामन्ति। कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारो वा क्लेश इति, उच्यते – सत्यमेवैतत्, किन्तु विशिष्टानामेवैतेषां विच्छिन्नादित्वम्। यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति। सर्व एवामी क्लेशा अविद्याभेदाः। कस्मात्, सर्वेष्वविद्यैवाभिप्लवते। यदविद्यया वस्त्वाकार्यते तदेवानुशेरते क्लेशा विपर्यासप्रत्ययकाल उपलभ्यन्ते क्षीयमाणां चाविद्यामनु क्षीयन्त इति ॥ ४ ॥ टीका तत्त्व-वैशारदी

उदारमाह – विषय इति । ननूदार एव पुरुषान्क्लिश्नातीति भवतु क्लेशोऽन्ये त्वक्लिश्नन्तः कथं क्लेशा इत्यत आह – सर्व एवैत इति । क्लेशविषयत्वं क्लेशपदवाच्यत्वं नातिक्रामन्त्युदारतामापद्यमानाः । अत एव तेऽपि हेया इति भावः । क्लेशत्वेनैकतां मन्यमानश्चोदयति – कस्तर्हीति । क्लेशत्वेन समानत्वेऽपि यथोक्तावस्थाभेदाद्विशेष इति परिहरति – उच्यते सत्यमिति । स्यादेतत् । अविद्यातो भवन्तु क्लेशाः, तथाऽप्यविद्यानिवृत्तौ कस्मान्निवर्तन्ते । न खलु पटः कुविन्दनिवृत्तौ निवर्तत इत्यत आह – सर्व एवेति । भेदा इव भेदास्तदविनिर्भागवर्तिन इति यावत् । पृच्छति – कस्मात् । उत्तरं – सर्वेष्विति । तदेव स्फुटयति – यदिति । आकार्यते समारोप्यते । शेषं सुगमम् ।

“प्रसुप्तास्तत्त्वलीनानां तन्ववस्थाश्च योगिनाम् । विच्छिन्नोदाररूपाश्च क्लेशा विषयसङ्गिनाम् ॥ ” इति सङ्ग्रहः ॥ ४ ॥ पातञ्जल-रहस्यम्

यतो ज्ञानमज्ञानस्यैव निवर्तकमित्युक्तिमाश्रित्य तत्त्वधीनिवर्त्यत्वसूचनायाविद्योपादानकत्वमाह चतुर्णामिति, सूत्रारूढं करोत्य “विद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणामि”ति, तदेषामस्मिताऽऽदिचतुणार्मविद्या = अज्ञानमसुरामित्रवद् भावभूतं क्षेत्रं गर्भस्येव योनिरविद्योपादानकत्वातेषामिति, प्रसुप्तादिविशेषणमुपादेयानां चतुर्णां न तूपादानस्येत्यर्थः, कालान्तरे फलवत्वेन सर्वदा मन्थरं जनकत्वेन, कादाचित्कजनकत्वेन सर्वदा जनकत्वेन प्रसुप्तादिवाच्यास्ते क्लेशा इति सूत्रार्थः, अविद्योपादानत्वे तेषामन्वयव्यतिरेकामाह-भाष्यं, यदविद्यया वस्त्वाकार्यते तदेवानुसरन्ति क्लेशा इत्यन्वयः, क्षीयमाणामनु क्षीयन्त इति व्यातिरेकः,

“कर्मणा जायते जन्तुः कर्मणैव प्रलीयते”

सुखदुःखे इत्यादिस्मृतेः, कृतं विवेकख्यात्येत्याशङ्कयाह-न हीति । ततः किं फलितमित्याह-अतो विदेहेत्यादि कार्यशक्तिरित्यन्तेन, अवधिकालं “पूर्णं शतं सहस्रं त्वि”त्यादि, कल्पानामिति शेषः, प्रसङ्ख्यानवतो ध्यायिनश्चानेनानीश्वरान् गुणान् इति श्रुतेर्जहातीति शेषः, “तस्य तावदेव चिरं यावन्न बिमोक्ष्ये” इति श्रुतिमाश्रित्याह – चरमदेह इति । चरमत्त्वंः देहोत्तरसम्बन्धाभावः, “नाभावो विद्यते सत” इति स्मृतेः कथं न बुध्यन्ते सतां न नाशः किन्तु कार्याक्षमत्वं-

ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन!” इति

स्मृत्यन्तरादित्याह-सतामित्यादि-तनवइत्यन्तेन, “तरति शोकमात्मविद्” “यतो ज्ञानमज्ञानस्य निवर्तकमि”ति श्रुतिस्मृती प्रमाणीकृत्याह-अथ वेति । यथाक्रमं तमआदिपञ्चानां प्रतिपक्षानाह-सम्यक्ज्ञानमित्यादि-अभिनिवेशस्येत्यन्तेन, माध्यस्थ्यम् = औदासीन्यम्, अनुबन्धबुद्धिः = उपकारकधीः, समुदाचरता = आबिर्भवता, अन्यतमेनास्मिताऽऽदीनां चतुर्णां मध्ये, वाजीकरणम् = शुक्रस्थैर्यलिङ्गविवृद्ध्यादिहेतुः दधिगुडादिरसायनं, तस्योपयोगो = भक्षणम्, अभिभावकदौर्वल्येनाभिभाव्यस्य प्रबलता = यथा मन्दप्रदीपे तमस इत्यर्थः, विच्छेदसमुदाचारयोस्तिरोभावाविर्भावयोरनादिप्रवाहत्वेन पौनरुक्त्यम्, उत्कटरागेऽनुत्कटरागस्य क्रोधस्य वाऽभिभवो दृष्ट इत्याह-रोगेनेत्यादि-अभिभूयतइत्यन्तेन, रागकाल इत्यादि; विच्छिन्नं भवतीत्यस्य व्याख्या, सुखानुशयी रागः रञ्चनात्मकत्वाद्विषयप्रसक्त्या सह समपरिणामत्रयभागीत्याह-तदेति । उदारलक्षणमाह-विषय-इति । शब्दाद्याश्रयविषये साधारणे कथं विच्छिन्नत्वाद्यवान्तरभेदः तद्विना पर्यायत्वापत्तिरिति शङ्कते-सर्व इत्यादिना, “हृदि श्रिताः-कामा”इत्ति श्रुत्याश्रयणेन समाधत्ते-उच्यत इत्यादिना, आत्मोपादानकत्वं निरस्यन्नविद्योपादानकत्वमाह-अविद्यवाभिप्लवते, उपादानत्वेनेति शेषः, आकार्यते शब्दस्पर्षादि, अनुशेरते = विषयीकुर्वन्ति, अमीषामविद्याऽन्वयव्यतिरेकेणाविद्याकारणकत्वमाह- विपर्यासेत्यादिना, अविद्यामनु क्षीयन्ते = तिरोभवन्तीत्यर्थः ॥ ४ ॥ तत्राविद्यास्वरूपमुच्यते – अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५ ॥ अनित्ये कार्ये नित्यख्यातिः। तद्यथा - ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकस इति। तथाऽशुचौ परमबीभत्से काये – स्थानाद्बीजादुपष्टम्भान्निःस्यन्दान्निधनादपि। कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ॥ इति अशुचौ शुचिख्यातिर्दृश्यते। नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेवचन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेति कस्य केनाभिसम्बन्धः। भवति चैवमशुचौ शुचिविपर्यासप्रत्यय इति। एतेनापुण्ये पुण्यप्रत्ययस्तथैवानर्थे चार्थप्रत्ययो व्याख्यातः। टीका तत्त्व-वैशारदी

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या । अनित्यत्वोपयोगिविशेषणं – कार्य इति । केचित्किल भूतानि नित्यत्वेनाभिमन्यमानास्तद्रूपमभीप्सवस्तान्येवोपासते । एवं धूमादिमार्गानुपासते चन्द्रसूर्यतारकाद्युलोकान्नित्यानभिमन्यमानास्तत्प्राप्तये । एवं दिवौकेसो देवानमृतानभिमन्यमानास्तद्भावाय सोमं पिबन्ति । आम्नायते हि – “अपाम सोमममृता अभूम” इति । सेयमनित्येषु नित्यख्यातिरविद्या । तथाऽशुचौ परमबीभत्से काये । अर्धोक्त एव कायबीभत्सतायां वैयासिकीं गाथां पठति – स्थानादिति । मातुरुदरं मूत्राद्युपहतं स्थानं, पित्रोर्लोहितरेतसी बीजम् । अशितपीताहाररसादिभाव उपष्टम्भस्तेन शरीरं धार्यते । निःस्यन्दः प्रस्वेदः । निधनं च श्रोत्रियशरीरमप्यपवित्रयति तत्स्पर्शे स्नानविधानात् । ननु यदि शरीरमशुचि कृतं तर्हि मृज्जलादिक्षालनेनेत्यत आह – आधेयशौचत्वादिति । स्वभावेनाशुचेरपि शरीरस्य शौचमाधेयं सुगन्धितेव कामिनीनामङ्गरागादिभिः । अर्धोक्तं पूरयति – इत्युक्तेभ्यो हेतुभ्योऽशुचौ शरीर इति । शुचिख्यातिमाह – नवेति । हावः शृङ्गारजा लीला । कस्य स्त्रीकायस्य परमबीभत्सस्य केन मन्दतमसादृश्येन शशाङ्कलेखादिना सम्बन्धः । एतेनाशुचौ स्त्रीकाये शुचिख्यातिप्रदर्शनेन । अपुण्ये हिंसादौ संसारमोचकादीनां पुण्यप्रत्ययः । एवमर्जनरक्षणादिदुःखबहुलतयाऽनर्थे धनादावर्थप्रत्यया व्याख्याताः सर्वेषां जुगुप्सितत्वेनाशुचित्वात् । तथा दुःखे सुखख्यातिं वक्ष्यति - परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः इति। तत्रसुखख्यातिरविद्या। तथाऽनात्मन्यात्मख्यातिर्बाह्योपकरणेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनस्यनात्मन्यात्मख्यातिरिति। तथैतदत्रोक्तम् - व्यक्तमव्यक्तं वा सत्त्वमात्मत्वेनाभिप्रतीत्य तस्य सम्पदमनु नन्दत्यात्मसम्पदं मन्वानस्तस्य व्यापदमनु शोचत्यात्मव्यापदं मन्वानः स सर्वोऽप्रतिबुद्धः इति। एषा चतुष्पदा भवत्यविद्या मूलमस्य क्लेशसन्तानस्य कर्माशयस्य च सविपाकस्येति। टीका तत्त्व-वैशारदी

तथा दुःख इति । सुगमम् । तथाऽनात्मनीति । सुगमम् । तथैतदत्रोक्तं पञ्चशिखेन । व्यक्तं चेतनं पुत्रदारपश्वादि । अव्यक्तमचेतनं शय्यासनाशनादि । सर्वोऽप्रतिबुद्धो मूढः । चत्वारि पदानि स्थानान्यस्या इति चतुष्पदा । नन्वन्याऽपि दिङ्मोहालातचक्रादिविषयाऽनन्तपदाऽविद्या तत्किमुच्यते चतुष्पदेत्यत आह – मूलमस्येति । सन्तु नामान्या अप्यविद्याः संसारबीजं तु चतुष्पदैवेति । तस्याश्चामित्रागोष्पदवद्वस्तुसतत्त्वं विज्ञेयम्। यथा नामित्रो मित्राभावो न मित्रमात्रं किं तु तद्विरुद्धः सपत्नः। यथा वाऽगोष्पदं न गोष्पदाभावो न गोष्पदमात्रं किन्तु देश एव ताभ्यामन्यद्वस्त्वन्तरम्, एवमविद्या न प्रमाणं न प्रमाणाभावः किन्तु विद्याविपरीतं ज्ञानान्तरमविद्येति ॥ ५ ॥ टीका तत्त्व-वैशारदी

नन्वविद्येति नञ्समासः पूर्वपदार्थप्रधानो वा स्याद्यथाऽमक्षिकमिति । उत्तरपदार्थप्रधानो वा यथाऽराजपुरुष इति । अन्यपदार्थप्रधानो वा यथाऽमक्षिको देश इति । तत्र पूर्वपदार्थप्रधानत्वे विद्यायाः प्रसज्यप्रतिषेधो गम्येत । न चास्याः क्लेशादिकारणत्वम् । उत्तरपदार्थप्रधानत्वे वा विद्यैव कस्यचिदभावेन विशिष्टा गम्येत । सा च क्लेशादिपरिपन्थिनी न तु तद्बीजम् । न हि प्रधानोपघाती प्रधानगुणो युक्तः । तदनुपघाताय गुणे त्वन्यायकल्पना । तस्माद्विद्यास्वरूपानुपघाताय नञोऽन्यथाकरणमध्याहारो वा निषेध्यस्येति । अन्यपदार्थप्रधानत्वे त्वविद्यमानविद्या बुद्धिर्वक्तव्या । न चासौ विद्याया अभावमात्रेण क्लेशादिबीजम् । विवेकख्यातिपूर्वकनिरोधसम्पन्नाया अपि तथात्वप्रसङ्गात् । तस्मात्सर्वथैवाविद्याया न क्लेशादिमूलतेत्यत आह – तस्याश्चेति । वस्तुनो भावो वस्तुसतत्त्वं वस्तुत्वमिति यावत् । तदनेन न प्रसज्यप्रतिषेधः । नापि विद्यैवाविद्या, न तदभावविशिष्टा बुद्धिरपि तु विद्याविरुद्धं विपर्ययज्ञानमविद्येत्युक्तम् । लोकाधीनावधारणो हि शब्दार्थयोः सम्बन्धः । लोके चोत्तरपदार्थप्रधानस्यापि नञ उत्तरपदाभिधेयोपमर्दकस्य तल्लक्षिततद्विरुद्धपरतया तत्र तत्रोपलब्धेरिहापि तद्विरुद्धे वृत्तिरिति भावः । दृष्टान्तं विभजते – यथा नामित्र इति । न मित्राभावो नापि मित्रमात्रमित्यस्यानन्तरं वस्त्वन्तरं किन्तु तद्विरुद्धः सपत्न इति वक्तव्यम् । तथाऽगोष्पदमिति न गोष्पदाभावो न गोष्पदमात्रं किं तु देश एव विपुलो गोष्पदविरुद्धस्ताभ्यामभावगोष्प- दाभ्यामन्यद्वस्त्वन्तरम् । दार्ष्टान्तिके योजयति – एवमिति ॥ ५ ॥ पातञ्जल-रहस्यम्

प्रमाप्रागभाववद्विद्याविरोघित्वे विद्यानाशत्वमविद्यात्वमिति सूत्रारूढं करोति-अनीति ।

“अनित्याशुचिदुःखानात्मसु नित्यषुचिसुखातमख्यातिरविद्ये”ति, अनित्यादिषु विभ्रमघीरविद्येति सूत्रार्थः, अविर्भूतघर्मादिपरिणामकेऽध्रुवादौ नित्यख्यातिः = ध्वंसाप्रतियोगित्वधीः, एषु भ्रमज्ञानं परमबीभत्से देहे रेतःशोनितयोरियं परिनतिर्यद्योषेत्यादि, “अपाम सोमममृताअभूमे”त्यादिश्रुतिमाश्रित्याह-नित्यानाभिमन्यमाना इति, अपवित्रयतीति-

“नारं स्पृष्ट्वाऽस्थि सस्नेहं सवासा जलमाविशे”दि-

त्यादिना नरास्थिवद् यदषुद्धं तदषुद्धमेव कृतं क्षालनादिना तत्राह-आदेयशौचत्वादिति । गोमयद्वाचनिकशौचत्वादिति भावः, अर्धाक्तमति । अशुचित्वे हेतुर्नोक्तः स्थानादिपञ्चहेतुभिः पूर्यत इत्यर्थः, शुचिताभ्रमकारणमाह-नवेति । मध्वमृतेति । मधुवदवयवसुधापानास्यदत्वेनामृतवदवयवस्पर्शेन व्यामोहकत्वेन,

“अमेध्यक्लेदार्द्रे पथि च रमते स्पर्षरसिक” इति,

कस्य = पाटितपाठीनतुल्यस्य, केन = मध्ववयवादिना, तदत्यन्ताभाववति तद्बुद्धेर्भ्रमत्वमिति भावः, एतेन दिग्दर्शरनमात्रं—

“सोमस्तासां ददौ सोचं गन्धर्वाश्च शुभां गिरम् । पावकः सर्वमेध्यत्वं शुद्धा वै योषितः सदा” ॥

इत्यादीनां; नञश्चैष स्वभावो यत् स्वसम्बन्धिनोऽभावं बोधयतीति न्यायेनाह-यथाऽमक्षिकमिति ।

“ब्राह्मणार्थो यथा नास्ति नित्यं ब्राह्मणकम्बल-

इत्युत्तरपदप्राधान्ये विद्यैव विलक्षणा क्लेशादिविरोधिनी, तृतीये बुद्धिरेव स्यात् तथा च विद्याऽपि क्लेशहेतुः स्यादिति भावः, बाह्ययधर्मानात्मन्यध्यस्यतीति श्रीमच्छङ्करोक्तिमाश्रित्याह-तस्य सम्पदमनु नन्दतीत्यादि-इत्येषेत्यन्तेन, अविद्येति । नञः—

“तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः”, ॥

इति षोढात्वमुपलक्षणीकृत्य सप्रिदियोगिकाभावकल्पनाद्वरं भावकल्पनं लघ्विति विरोध्यर्थमाह-वस्तुसतत्वं, ज्ञेयमित्याह-एवामित्यादि-ज्ञानानन्तरमविद्येत्यन्तेन, विपुलो देशोगोचर्माख्यः, तत्र भट्टोऽप्याह-

“भावान्तरमभावो हि कया चित्तु व्यपेक्षया”

इति ॥ ५ ॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६ ॥ पुरुषो दृक्शक्तिर्बुद्धिर्दर्शनशक्तिरित्येतयोरेकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते। भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तासङ्कीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्पते। स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति कुतो भोग इति। तथा चोक्तम् – ‘बुद्धितः परं पुरुषमाकारशीलविद्यादिभिर्विभक्तमपश्यन्कुर्यात्तत्राऽऽत्मबुद्धिं मोहेन’ इति ॥ ६ ॥ टीका तत्त्व-वैशारदी

अविद्यामुक्त्वा तस्याः कार्यमस्मितां रागादिवर्षिष्ठामाह – दृग्दर्शनशक्त्योरेकात्मतेवास्मिता । दृक्च दर्शनं च ते एव शक्ती तयोरात्मानात्मनोरनात्मन्यात्मज्ञानलक्षणाऽविद्यापादिता यैकात्मतेव न तु परमार्थत एकात्मता साऽस्मिता । दृग्दर्शनयोरिति वक्तव्ये तयोर्भोक्तृभोग्ययोर्योग्यतालक्षणं सम्बन्धं दर्शयितुं शक्तिग्रहणम् । सूत्रं विवृणोति – पुरुष इति । नन्वनयोरभेदप्रतीतेरभेद एव कस्मान्न भवति कुतश्चैकत्वं क्लिश्नाति पुरुषमित्यत आह – भोक्तृभोग्येति । भोग्यशक्तिर्बुद्धिर्भोक्तृशक्तिः पुरुषस्तयोरत्यन्तविभक्तयोः कुतोऽत्यन्तविभक्तत्वमित्यत आह – अत्यन्तासङ्कीर्णयोः । अपरिणामित्वादिधर्मकः पुरुषः परिणामित्वादिधर्मिका बुद्धिरित्यसङ्कीर्णता । तदनेन प्रतीयमानोऽप्यभेदो न पारमार्थिक इत्युक्तम् । अविभागेति क्लेशत्वमुक्तम् । अन्वयं दर्शयित्वा व्यतिरेकमाह – स्वरूपेति । प्रतिलम्भो विवेकख्यातिः । परस्याप्येतत्सम्मतमित्याह – तदुक्तं (तथाचोक्तं) पञ्चशिखेन बुद्धित इति । आकारः स्वरूपं सदा विशुद्धिः, शीलमौदासीन्यं, विद्या चैतन्यं, बुद्धिरविशुद्धाऽनुदासीना जडा चेति तत्राऽऽत्मबुद्धिरविद्या । मोहः पूर्वाविद्याजनितः संस्कारस्तमो वाऽविद्यायास्तामसत्वादिति ॥ ६ ॥ पातञ्जल-रहस्यम्

“दृग्दर्शनशक्त्योरेकात्मतेवास्मिता”, द्वन्द्वात्परं यत् श्रूयते प्रत्येकमभिसम्बध्यत इति न्यायेन दृक्शक्तिः पुरुषः, दर्शनं दृश्यत इति कर्माणि ल्युट् दर्शनशक्तिर्बुद्धिस्तयोरेकात्मता जलदुग्धयोः मिश्रणमिव चिदचिदात्मकोऽस्मिताऽहङ्कार इति क्लेश इति सूत्रार्थः, लाघवादेकस्यैवक्लेशहेतुताऽस्तिवति तत्राह-अत्यन्तविविक्तयोरीति । तादात्म्यमुपलभ्यमानं भ्रमं दृढयतीत्याह अत्यन्तेति । फलितमाह-स्वरूप इति । प्रतिलम्भः = विवेकख्यातिः, ध्यायतीब लेलायतीवेति श्रुतिमाश्रित्याह-तथा चोक्तमिति भाष्यार्थः, अत एवोद्योतकरवार्तिकेऽतस्मिंस्तदिति प्रत्ययोऽध्यास इति ॥ ६ ॥ सुखानुशयी रागः ॥ ७ ॥ सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धस्तृष्णा लोभः स राग इति ॥ ७ ॥ टीका तत्त्व-वैशारदी

विवेकदर्शने रागादीनां विनिवृत्तेरविद्यापादिताऽस्मिता रागादीनां निदानमित्यस्मितानन्तरं रागादील्लँक्षयति – सुखानुशयी रागः । अनभिज्ञस्य स्मृतेरभावात्सुखाभिज्ञस्येत्युक्तम् । स्मर्यमाणे सुखे रागः सुखानुस्मृतिपूर्वकः । अनुभूयमाने तु सुखे नानुस्मृतिमपेक्षते । तत्साधने तु स्मर्यमाणे दृश्यमाने वा सुखानुस्मृतिपूर्व एव रागः । दृश्यमानमपि हि सुखसाधनं तज्जातीयस्य सुखहेतुतां स्मृत्वा तज्जातीयतया वाऽस्य सुखहेतुत्वमनुमायेच्छति । अनुशयिपदार्थमाह – य इति ॥ ७ ॥ पातञ्जल-रहस्यम्

अस्मिताऽनन्तरं रागं लक्षयति- “सुखानुशयी रागः” अननुभूतसुखस्य तज्जातीये सुखे तत्साधननजातीये वा रागपर्यायो न दृष्ट इत्याह-अनुशयीति । दृश्यमानेऽपि स्त्र्यादौ सुखहेतुतामनुमायैव प्रवर्त्तते नान्यथेत्याह-दृष्यमानस्यापीति ॥ ७ ॥ दुःखानुशयी द्वेषः ॥ ८ ॥ दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिघो मन्युर्जिघांसा क्रोधः स द्वेषः ॥ ८ ॥ टीका तत्त्व-वैशारदी

दुःखानुशयी द्वेषः । दुःखाभिज्ञस्येति पूर्ववद्व्याख्येयम् । अनुशयिपदार्थमाह – यः प्रतिघ इति । प्रतिहन्तीति प्रतिघः । एतदेव पर्यायैर्विवृणोति – मन्युरिति ॥ ८ ॥ पातञ्जल-रहस्यम्

“दुःखानुशयी द्वेषः”, सुगमम्, अत्रापि पर्यायतामाह-मन्युरित्यादि ॥ ८ ॥ स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥ ९ ॥ सर्वस्य प्राणिन इयमात्माशीर्नित्या भवति मा न भूवं भूयासमिति। न चाननुभूतमरणधर्मकस्यैषा भवत्यात्माशीः। एतया च पूर्वजन्मानुभवः प्रतीयते। स चायमभिनिवेशः क्लेशः स्वरसवाही कृमेरपि जातमात्रस्य प्रत्यक्षानुमानागमैरसम्भावितो मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूऽतं मरणदुःखमनुमापयति। टीका तत्त्व-वैशारदी

स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः । अभिनिवेशपदार्थं व्याचष्टे – सर्वस्य प्राणिन इति । इयमात्माशीरात्मनि प्रार्थना मा न भूवं माऽभावी भूवं भूयासं नीव्यासमिति । न चाननुभूतमरणधर्मकस्य, अननुभूतो मरणधर्मो येन जन्तुना न तस्यैषा भवत्यात्माशीरभिनिवेशो मरणभयम् । प्रसङ्गतो जन्मान्तरं प्रत्याचक्षाणं नास्तिकं निराकरोति – एतया चेति । प्रत्युदितस्य शरीरस्य ध्रियमाणत्वात्पूर्वजन्मानुभवः प्रतीयते । निकायविशिष्टाभिरपूर्वाभिर्देहेन्द्रियबुद्धिवेदनाभिरभिसम्बन्धो जन्म तस्यानुभवः प्राप्तिः सा प्रतीयते कथमित्यत आह – स चायमभिनिवेशः । अर्धोक्तावेवास्य क्लेशत्वमाह – क्लेश इति । अयमहितकर्मादिना जन्तून्क्लिश्नाति दुःखा करोतीति क्लेशः । वक्तुमुपक्रान्त परिसमापयति – स्वरसवाहीति । स्वभावेन वासनारूपेण वहनशीलो न पुनरागन्तुकः । कृमेरपि जातमात्रस्य दुःखबहुलस्य निकृष्टतमचैतन्यस्यानागन्तुकत्वे हेतुमाह – प्रत्यक्षानुमानागमैः प्रत्युदिते जन्मन्यसम्भावितोऽसम्पादितो मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूतं मरणदुःखमनुमापयति । अयमभिसन्धिः – जातमात्र एव हि बालको मारकवस्तुदर्शनाद्वेषमानः कम्पविशेषादनुमितमरणप्रत्यासत्तिस्ततो बिभ्यदुपलभ्यते । दुःखाद्दुःखहेतोश्च भयं दृष्टम् । न चास्मिञ्जन्मन्यनेन मरणमनुभूतमनुमितं श्रुतं वा, प्रागेवास्य दुःखत्वं तद्धेतुत्वं वाऽवगम्येत, तस्मात्तस्य तथाभूतस्य स्मृतिः परिशिष्यते । न चेयं संस्कारादृते । न चायं संस्कारोऽनुभवं विना । न चास्मिञ्जन्मन्यनुभव इति प्राग्भवीयः परिशिष्यत इत्यासीत्पूर्वजन्मसम्बन्ध इति । यथा चायमत्यन्तमूढेषु दृश्यते क्लेशस्तथा विदुषोऽपि विज्ञातपूर्वापरान्तस्य रूढः। कस्मात्। समाना हि तयोः कुशलाकुशलयोर्मरणदुःखानुभवादियं वासनेति ॥ ९ ॥ टीका तत्त्व-वैशारदी

तथापदं यथापदमाकाङ्क्षतीत्यर्थप्राप्ते यथापदे सति यादृशो वाक्यार्थो भवति तादृशं दर्शयति – यथा चायमिति । अत्यन्तमूढेषु मन्दतमचैतन्येषु । विद्वत्तां दर्शयति - विज्ञातपूर्वापरान्तस्य । अन्तः कोटिः । पुरुषस्य हि पूर्वा कोटिः संसार उत्तरा च कैवल्यं सैव विज्ञाता श्रुतानुमानाभ्यां येन स तथोक्तः । सोऽयं मरणत्रास आकृमेरा च विदुषो रूढः प्रसिद्ध इति । नन्वविदुषा भवतु मरणत्रासो विदुषस्तु न सम्भवति विद्ययोन्मूलितत्वात् । अनुन्मूलने वा स्यादत्यन्तसत्त्वमित्याशयवान्पृच्छति – कस्मादिति । उत्तरमाह – समाना हीति । न सम्प्रज्ञातवान्विद्वानपि तु श्रुतानुमितविवेक इति भावः ॥ ९ ॥ पातञ्जल-रहस्यम्

“स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः”-

“न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम्” ॥

इतिस्मृतेरनादिरात्मेत्याह-निकायविशिष्टाभिदवत्वादिजातिविशिष्टाभिरस्याभिसम्बन्धः पूर्वा कोटिः अनादित्वात्संसारस्य, उत्तरा कोटिः पुनर्बन्धाभावेन सान्ता मुक्तस्येति भावः, “पश्चादिभिश्चाविशेषादि”ति शाङ्करं भाष्यमादायाह - समाना हीति । सम्प्रज्ञातवान् कृतविवेकसाक्षात्कारः, इयं = वासना; मा न भूवमित्यादिका ॥ ९ ॥ ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ १० ॥ ते पञ्च क्लेशा दग्धबीजकल्पा योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति ॥ १० ॥ टीका तत्त्व-वैशारदी

तदेवं क्लेशा लक्षितास्तेषां च हेयानां प्रसुप्ततनुविच्छिन्नोदाररूपतया चतस्रोऽवस्था दर्शिताः । कस्मात्पुनः पञ्चमो क्लेशावस्था दग्धबीजभावतया सूक्ष्मा न सूत्रकारेण कथितेत्यत आह – ते प्रतिप्रसवहेयाः सूक्ष्माः । यत्किल पुरुषप्रयत्नगोचरस्तदुपदिश्यते । न च सूक्ष्मावस्थाहानं प्रयत्नगोचरः किन्तु प्रतिप्रसवेन कार्यस्य चित्तस्यास्मितालक्षणकारणभावापत्त्या हातव्येति । व्याचष्टे – त इति । सुगमम् ॥ १० ॥ पातञ्जल-रहस्यम्

प्रतिप्रसवेन = कारणभावापत्त्या हेया इति सूत्रार्थः, न तस्य प्राणा उत्क्रामन्ति इहैव समवलीयन्त इति श्रुतिमाश्रित्याह-चरिताधिकारे चेतसीति भाष्यं, न हि नाऽऽकाशहनने नियुज्यते किन्तु घटादावित्याह-न चेति । अस्मितालक्षणं यत् कारणं तदाकारताऽऽपत्त्यैव, मृलोच्छेदे पुरुषस्य व्यापाराद् या हि कपालस्थानीया; नाविद्यायामिति भावः ॥ १० ॥ स्थितानां तु बीजभावोपगतानाम् – ध्यानहेयास्तद्वृत्तयः ॥ ११ ॥ क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तत्कृताः सत्यः प्रसङ्ख्यानेन ध्यानेन हातव्या यावत्सूक्ष्मीकृता यावद्दग्धबीजकल्पा इति। यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते पश्चात्सूक्ष्मो यत्नेनोपायेन चापनीयते तथा स्वल्पप्रतिपक्षाः स्थूला वृत्तयः क्लेशानां, सूक्ष्मास्तु महाप्रतिपक्षा इति ॥ ११ ॥ टीका तत्त्व-वैशारदी

अथ क्रियायोगतनूकृतानां क्लेशानां किंविषयात्पुरुषप्रयत्नाद्धानमित्यत आह – स्थितानां तु बीजभावोपगतानामिति वन्ध्येभ्यो व्यवच्छिनत्ति । सूत्रं पठति – ध्यानहेयास्तद्वृत्तयः । व्याचष्टे – क्लेशानामिति । क्रियायोगतनूकृता अपि हि प्रतिप्रसवहेतुभावेन कार्यतः स्वरूपतश्च शक्या उच्छेत्तुमिति स्थूला उक्ताः । पुरुषप्रयत्नस्य प्रसङ्ख्यानगोचरस्यावधिमाह – यावदिति । सूक्ष्मीकृता इति विवृणोति – दग्धेति । अत्रैव दृष्टान्तमाह – यथा वस्त्राणामिति । यत्नेन क्षालनादिनोपायेन क्षारसंयोगादिना स्थूलसूक्ष्ममात्रतया दृष्टान्तदार्ष्टान्तिकयोः साम्यं न पुनः प्रयत्नापनेयतया प्रतिप्रसवहेयेषु तदसम्भवात् । स्वल्पः प्रतिपक्ष उच्छेदहेतुर्यासां तास्तथोक्ताः । महान्प्रतिपक्ष उच्छेदहेतुर्यासां तास्तथोक्ताः । प्रतिप्रसवस्य चाधस्तात्प्रसङ्ख्यानमित्यवरतया स्वल्पत्वमुक्तम् ॥ ११ ॥ पातञ्जल-रहस्यम्

“ध्यानेनानीश्वरान् गुणानि”ति श्रुतिमाश्रित्याह - “ध्यानहेयास्तद्वृत्त्य”, इति ननूक्तं प्रतिप्रसवहेयत्वं तत्कुतो ध्यानहेयत्वादिति? सत्यं - यथा वस्त्रादेर्विविधो मलः स्वल्पास्वल्पप्रयत्नाभ्यां नाश्यते तथाऽत्र ध्याननाश्याः स्थूलमलस्थानीया वृत्तयः, सूक्षमास्तु प्रतिप्रसवनाश्याः

“विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते” ॥

तथा स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक इति श्रुतिस्मृतिभ्यां ज्ञाननाश्यत्वं सूक्ष्माणां – दग्धबीजकल्पनामाह - यावद्दग्धेति ॥ ११ ॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥ तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधप्रभवः। स दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च। तत्र तीव्रसंवेगेन मन्त्रतपःसमाधिभिर्निर्वर्तित ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति। तथा तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनरपकारः स चापि पापकर्माशयः सद्य एव परिपच्यते। यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः। तथा नहुषोऽपि देवानामिन्द्रः स्वकं परिणामं हित्वा तिर्यक्त्वेन परिणत इति। तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः। क्षीणक्लेशानामपि नास्त्यदृष्टजन्मवेदनीयः कर्माशय इति ॥ १२ ॥ टीका तत्त्व-वैशारदी

स्यादेतज्जात्यायुर्भोगहेतवः पुरुषं क्लिश्नन्तः क्लेशाः कर्माशयश्च तथा, न त्वविद्यादयस्तत्कथमविद्यादयः क्लेशा इत्यत आह - क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । क्लेशा मूलं यस्योत्पादे च कार्यकरणे च स तथोक्तः । एतदुक्तं भवति – अविद्यादिमूलो हि कर्माशयो जात्यायुर्भोगहेतुरित्यविद्यादयोऽपि तद्धेतवोऽतः क्लेशा इति । व्याचष्टे – तत्रेति । आशेरते सांसारिकाः पुरुषा अस्मिन्नित्याशयः कर्मणामाशयो धर्माधर्मौ । कामात्काम्यकर्मप्रवृत्तौ स्वर्गादिहेतुर्धर्मो भवति । एवं लोभात्परद्रव्यापहारादावधर्मः । मोहादधर्मे हिंसादौ धर्मबुद्धेः प्रवर्तमानस्याधर्म एव । न त्वस्ति मोहजो धर्मः । अस्ति क्रोधजो धर्मः । तद्यथा ध्रुवस्य जनकापमानजन्मनः क्रोधात्तज्जिगीषया चितेन कर्माशयेन पुण्येनान्तरिक्षलोकवासिनामुपरिस्थानम् । अधर्मस्तु क्रोधजो ब्रह्मवधादिजन्मा प्रसिद्ध एव भूतानाम् । तस्य द्वैविध्यमाह स दृष्टजन्मेति । दृष्टजन्मवेदनीयमाह – तीव्रसंवेगेनेति । यथासङ्ख्यं दृष्टान्तावाह – यथा नन्दीश्वर इति । तत्र नारकाणामिति । येन कर्माशयेन कुम्भीपाकादयो नरकभेदाः प्राप्यन्ते तत्कारिणो नारकास्तेषां नास्ति दृष्टजन्मवेदनीयः कर्माशयः । न हि मनुष्यशरीरेण तत्परिणामभेदेन वा सा तादृशी वत्सरसहस्रादिनिरन्तरोपभोग्या वेदना सम्भवतीति । शेषं सुगमम् ॥ १२ ॥ पातञ्जल-रहस्यम्

“योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्ये तु संयन्ति यथाकर्म यथाश्रुतम्” ॥ इति

श्रुतेर्जात्यायुर्भोगाः कर्मजाः; कृतमत्र क्लेशैरित्याशङ्क्य सूत्रेण समाधत्ते – “क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः” क्लेशा रागद्वेषमोहलोभक्रोधास्ते मूलमस्य कृतकारितानुमोदितरूपस्य कर्माशयस्य स चापि दृष्टादृष्टजन्मवेदनीय इति सूत्रार्थः, तत्र –

“अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते” इति

श्रुतिमाश्रित्याह-तत्र तीव्रेति । संवेगो विषयानभिष्वङ्गरूपं वैराग्यं, मन्त्राद्यैस्त्रिभिर्जनित ईश्वरादिचतुर्णामाराधनाद्वा परिनिष्पन्नोऽपि जनितपुण्याशयः, एवं पापञ्ज परपीडनादित्याह - तथा तीव्रेति । यथासङ्ख्यमुदाहरणमाह - नन्दीश्वरः = शिलादपुत्रः, महुषश्च राजा; अगस्त्यशापात् प्राप्ताजगरत्वः, नारकाणां तिरश्चां च यत्नाद्यभावेनानधिकारितया तथा ज्ञानिनान्नास्तीत्याह - क्षीणेति । हिंसा धर्मजनिका हिंसात्वादग्निषोमीयपशुहिंसावदिति हिंसाऽऽदिर्मोहादिति, धर्मस्तु क्रोधजोऽपीत्याह - अस्ति क्रोधज इति । आहितेन = क्रोधनेन, दृष्टभस्मदादिभिर्जन्म यस्य शरीरस्य तद् दृष्टजन्म शरीरं तेन वेदनीयः कर्माशयो भोगोऽत एव नारकिणां नास्ति दृष्टजन्मवेदनीय इत्याह-न हीति ॥ १२ ॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३ ॥ सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूलः। यथा तुषावनद्धाः शालितण्डुला अदग्धबीजभावाः प्ररोहसमर्था भवन्ति नापनीततुषा दग्धबीजभावा वा, तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति नापनीतक्लेशो न प्रसङ्ख्यानदग्धक्लेशबीजभावो वेति। स च विपाकस्त्रिविधो जातिरायुर्भोग इति। टीका तत्त्व-वैशारदी

स्यादेतदविद्यामूलत्वे कर्माशयस्य विद्योत्पादे सत्यविद्याविनाशान्मा नाम कर्माशयान्तरं चैषीत् । प्राचां तु कर्माशयानामनादिभवपरम्परासञ्चितानामसङ्ख्यातानामनियतविपाककालानां भोगेन क्षपयितुमशक्यत्वादशक्योच्छेदः संसारः स्यादित्यत आह – सति मूले तद्विपाको जात्यायुर्भोगाः । एतदुक्तं भवति – सुखदुःखफलो हि कर्माशयस्तादर्थ्येन तन्नान्तरीयकतया जन्मायुषी अपि प्रसूते । सुखदुःखे च रागद्वेषानुषक्ते तदविनिर्भागवर्तिनी तदभावे न भवतः । न चास्ति सम्भवो न च तत्र यस्तुष्यति वोद्विजते वा तच्च तस्य सुखं वा दुःख वेति । तदियमात्मभूमिः क्लेशसलिलावसिक्ता कर्मफलप्रसवक्षेत्रमित्यस्ति क्लेशानां फलोपजननेऽपि कर्माशयसहकारितेति क्लेशसमुच्छेदे सहकारिवैकल्यात्सन्नप्यनन्तोऽप्यनियतविपाक-कालोऽपि प्रसङ्ख्यानदग्धबीजभावो न फलाय कल्पत इति । उक्तमर्थं भाष्यमेव द्योतयति – सत्स्विति । अत्रैव दृष्टान्तमाह - यथा तुषेति । सतुषा अपि दग्धबीजभावाः स्वेदादिभिः । दार्ष्टान्तिके योजयति – तथेति । ननु न क्लेशाः शक्या अपनेतुं नहि सतामपनय इत्यत आह – न प्रसङ्ख्यानदग्धक्लेशबीजभाव इति । विपाकस्य त्रैविध्यमाह – स चेति । विपच्यते साध्यते कर्मभिरिति विपाकः । तत्रेदं विचार्यते – किमेकं कर्मैकस्य जन्मनः कारणमथैकं कर्मानेकं जन्माऽऽक्षिपतीति। द्वितीया विचारणा – किमनेकं कर्मानेकं जन्म निर्वर्तयति अथानेकं कर्मैकं जन्म निर्वर्तयतीति। न तावदेकं कर्मैकस्य जन्मनः कारणम्। कस्मात्, अनादिकालप्रचितस्यासङ्ख्येयस्यावशिष्टस्य कर्मणः साम्प्रतिकस्य च फलक्रमानियमादनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति। न चैकं कर्मानेकस्य जन्मनः कारणम्। कस्मात्, अनेकेषु कर्मसु एकैकमेव कर्मानेकस्य जन्मनः कारणमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः, स चाप्यनिष्ट इति। न चानेकं कर्मानेकस्य जन्मनः कारणम्। कस्मात्, तदनेकं जन्म युगपन्न सम्भवतीति क्रमेणैव वाच्यम्। तथा च पूर्वदोषानुषङ्गः। टीका तत्त्व-वैशारदी

कर्मैकत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्वगोचरा प्रथमा विचारणा । द्वितीया तु कर्मानेकत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्वगोचरा । तदेवं चत्वारो विकल्पाः । तत्र प्रथमं विकल्पमपाकरोति – न तावदेकं कर्मैकस्य जन्मनः कारणम् । पृच्छति – कस्मादिति । उत्तरम् - अनादिकालैकैकजन्मप्रचितस्यात एवासङ्ख्येयस्यैकैकजन्मक्षपितादेकैकस्मात्कर्मणोऽवशिष्टस्य कर्मणः साम्प्रतिकस्य च फलक्रमानियमादनाश्वासो लोकस्य प्रसक्तः स चानिष्ट इति । एतदुक्तं भवति – कर्मक्षयस्य विरलत्वात्तदुत्पत्तिबाहुल्याच्चान्योन्यसम्पीडिताः कर्माशया निरन्तरोत्पत्तयो निरुच्छ्वासाः स्वविपाकं प्रतीति न फलक्रमः शक्योऽवधारयितुं प्रेक्षावतेत्यनाश्वासः पुण्यानुष्ठानं प्रति प्रसक्त इति । द्वितीयं विकल्पं निराकरोति – न चैकं कर्मानेकस्य जन्मनः कारणम् । पृच्छति – कस्मादिति । उत्तरम् – अनेकस्मिञ्जन्मन्याहितमेकैकमेव कर्मानेकस्य जन्मलक्षणस्य विपाकस्य निमित्तमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः स चाप्यनिष्टः कर्मवैफल्येन तदननुष्ठानप्रसङ्गात् । यदैकजन्मसमुच्छेद्ये कर्मण्येकस्मिन्फलक्रमानियमादनाश्वासस्तदा कैव कथा बहुजन्मसमुच्छेद्ये कर्मण्येकस्मिंस्तत्र ह्यवसराभावाद्विपाककालाभाव एव साम्प्रतिकस्येति भावः । तृतीयं विकलां निराकरोति – न चानेकं कर्मानेकस्य जन्मनः कारणम् । तत्र हेतुमाह – तदनेकं जन्म युगपन्न सम्भवत्ययोगिन इति क्रमेण वाच्यम् । यदि हि कर्मसहस्रं युगपज्जन्मसहस्रं प्रसुवीत तत एव कर्मसहस्रप्रक्षयादवशिष्टस्य विपाककालः फलक्रमनियमश्च स्याताम् । न ह्यस्ति जन्मनां यौगपद्यम् । एवमेव प्रथमपक्षोक्तं दूषणमित्यर्थः । तस्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त एकप्रघट्टकेन मरणं प्रसाध्य सम्मूर्छित एकमेव जन्म करोति। तच्च जन्म तेनैव कर्मणा लब्धायुष्कं भवति। तस्मिन्नायुषि तेनैव कर्मणा भोगः सम्पद्यत इति। असौ कर्माशयो जन्मायुर्भोगहेतुत्वात्त्रिविपाकोऽभिधीयत इति। अत एकभविकः कर्माशय उक्त इति। टीका तत्त्व-वैशारदी

तदेवं पक्षत्रये निराकृते पारिशेष्यादनेकं कर्मैकस्य जन्मनः कारणमिति पक्षो व्यवतिष्ठत इत्याह – तस्माज्जन्मेति । जन्म च प्रायणं च जन्मप्रायणे तयोरन्तरं मध्यं तस्मिन्विचित्रसुखदुःखफलोपहारेण विचित्रः, यदत्यन्तमुद्भूतमनन्तरमेव फलं दास्यति तत्प्रधानं, यत्तु किञ्चिद्विलम्बेन तदुपसर्जनं, प्रायणं मरणं तेनाभिव्यक्तः स्वकार्यारम्भणाभिमुखमुपनीत एकप्रघट्टकेन युगपत्सम्मूर्छितो जन्मादिलक्षणे कार्ये कर्तव्य एकलोलीभावमापन्न एकमेव जन्म करोति नानेकम् । तच्च जन्म मनुष्यादिभावस्तेनैव कर्मणा लब्धायुष्कं कालभेदान्नियतजीवितं भवति । तस्मिन्नायुषि तेनैव कर्मणा भोगः सुखदुःखसाक्षात्कारः स्वसम्बन्धितया सम्पद्यत इति । तस्मादसौ कर्माशयो जात्यायुर्भोगहेतुत्वात्त्रिविपाकोऽभिधीयते । औत्सर्गिकमुपसंहरति – अत एकभविकः कर्माशय उक्त इति । एको भव एकभवः । पूर्वकालेत्यादिना समासः । एकभवोऽस्यास्तीति मत्वर्थीयष्ठन् । क्वचित्पाठ ऐकभविक इति । तत्रैक – भवशब्दाद्भवार्थे ठक्प्रत्ययः । एकजन्मावच्छिन्नमस्य भवनमित्यर्थः । दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी भोगहेतुत्वाद्द्विविपाकारम्भी वा आयुर्भोगहेतुत्वात् नन्दीश्वरवन्नद्वुषवद्वेति। क्लेशकर्मविपाकानुभवनिर्वर्तिताभिस्तु वासनाभिरनादिकालसम्मूर्छितमिदं चित्तं विचित्रीकृतमिव सर्वतो मत्स्यजालं ग्रन्थिभिरिवाऽऽततमित्येता अनेकभवपूर्विका वासनाः। यस्त्वयं कर्माशय एष एवैकभविक उक्त इति। ये संस्काराः स्मृतिहेतवस्ता वासनास्ताश्चानादिकालीना इति। टीका तत्त्व-वैशारदी

तदेवमौत्सर्गिकस्यैकभविकस्य त्रिविपाकत्वमुक्त्वा दृष्टजन्मवेदनीयस्यैहिकस्य कर्मणस्त्रिविपाकत्वं व्यवच्छिनत्ति – दृष्टेति । नन्दीश्वरस्य खल्वष्टवर्षावच्छिन्नायुषो मनुष्यजन्मनस्तीव्रसंवेगाधिमात्रोपायजन्मा पुण्यभेद आयुर्भोगहेतुत्वाद्द्विपाकम् । नहुषस्य तु पार्ष्णिप्रहारविरोधिनाऽगस्त्यस्येन्द्रपदप्राप्तिहेतुनैव कर्मणाऽऽयुषो विहितत्वादपुण्यभेदो भोगमात्रहेतुः । ननु यथैकभविकः कर्माशयस्तथा किं क्लेशवासना भोगानुकूलाश्च कर्मविपाकानुभववासनास्तथा च मनुष्यस्तिर्यग्योनिमापन्नो न तज्जातीयोचितं भुञ्जीतेत्यत आह – क्लेशेति । सम्मूर्छितमेकलोलीभावमापन्नम् । धर्माधर्माभ्यां व्यवच्छेत्तुं वासनायाः स्वरूपमाह – ये संस्कारा इति । यस्त्वसावेकभविकः कर्माशयः स नियतविपाकश्चानियतविपाकश्च। तत्र दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य। कस्मात्। यो ह्यदृष्टजन्मवेदनीयोऽनियतविपाकस्तस्य त्रयी गतिः – कृतस्याविपक्वस्य नाशः, प्रधानकर्मण्यावापगमनं वा, नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानमिति। टीका तत्त्व-वैशारदी

औत्सर्गिकमेकभविकत्वं क्वचिदपवदितुं भूमिकामारचयति – यस्त्वसाविति । तु शब्देन वासनातो व्यवच्छिनत्ति । दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायमेकभविकत्वनियमो न त्वदृष्टजन्मवेदनीयस्य । किम्भूतस्यानियतविपाकस्येति । हेतुं पृच्छति – कस्मादिति । हेतुमाह – यो हीति । एकां तावद्गतिमाह – कृतस्येति । द्वितीयामाह – प्रधानेति । तृतीयामाह – नियतेति । तत्र कृतस्याविपक्वस्य नाशो यथा शुक्लकर्मोदयादिहैव नाशः कृष्णस्य। यत्रेदमुक्तम् –“द्वे द्वे ह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतोऽपहन्ति तदिच्छस्व कर्माणि सुकृतानि कर्तुमिहैव ते कर्म कवयो वेदयन्ते।” टीका तत्त्व-वैशारदी

तत्र प्रथमां विभजते – तत्र कृतस्येति । सन्न्यासिकर्मभ्योऽशुक्लाकृष्णेभ्योऽन्यानि त्रीण्येव कर्माणि कृष्णकृष्णशुक्लशुक्लानि । तदिह तपःस्वाध्यायादिसाध्यः शुक्लः कर्माशय उदित एवादत्तफलस्य कृष्णस्य नाशकोऽविशेषाच्च शबलस्यापि कृष्णभागयोगादिति मन्तव्यम् । अत्रैव भगवानाम्नायमुदाहरति – यत्रेदमिति । द्वे द्वे ह वै कर्मणी कृष्णकृष्णशुक्ल अपहन्तीति सम्बन्धः । वीप्सया भूयिष्ठता सूचिता । कस्येत्यत आह – पापकस्य पुंसः । कोऽसावपहन्तीत्यत आह – एको राशिः पुण्यकृतः । समूहस्य समूहिसाध्यत्वात् । तदनेन शुक्लः कर्माशयस्तृतीय उक्तः । एतदुक्तं भवति – ईदृशो नामायं परपीडादिरहितसाधनसाध्यः शुक्लः कर्माशयो यदेकोऽपि सन्कृष्णान्कृष्णशुक्लांश्चात्यन्तविरोधिनः कर्माशयान्भूयसोऽप्यपहन्ति । तत्तस्मादिच्छस्वेति च्छान्दसत्वादात्मनेपदम् । शेषं सुगमम् । अत्र च शुक्लकर्मोदयस्यैव स कोऽपि महिमा यत इतरेषामभावो न तु स्वाध्यायादिजन्मनो दुःखात् । नहि दुःखमात्रविरोध्यधर्मोऽपि तु स्वकार्यदुःखविरोधी । न च स्वाध्यायादिजन्यं दुःखं तस्य कार्यं तत्कार्यत्वे स्वाध्यायादिविधानानर्थक्यात्तद्बलादेव तदुत्पत्तेः । अनुत्पत्तौ वा कुम्भीपाकाद्यपि विधीयेत । अविधाने तु तदनुत्पत्तेरिति सर्वं चतुरस्रम् । प्रधानकर्मण्यावापगमनम्। यत्रेदमुक्तं – “स्यात्स्वल्पः सङ्करः सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षायालम्। कस्मात्, कुशलं हि मे वह्वन्यदस्ति यत्रायमावापं गतः स्वर्गेऽप्यपकर्षमल्पं करिष्यति” इति। टीका तत्त्व-वैशारदी

द्वितीयां गतिं विभजते - प्रधाने कर्मणि ज्योतिष्टोमादिके तदङ्गस्य पशुहिंसादेरावापगमनम् । द्वे खलु हिंसादेः कार्ये – प्रधानाङ्गत्वेन विधानात्तदुपकारः, “न हिंस्यात्सर्वा भूतानि” इति हिंसायाः प्रतिषिद्धत्वादनर्थश्च । तत्र प्रधानाङ्गत्वेनानुष्ठानादप्रधानतैवेत्यतो न द्रागित्येव प्रधाननिरपेक्षा सती स्वफलमनर्थं प्रसोतुमर्हति, किन्त्वारब्धविपाके प्रधाने साहायकमाचरन्ती व्यवतिष्ठते । प्रधानसाहायकमाचरन्त्याश्च स्वकार्ये बीजमात्रतयाऽवस्थानं प्रधाने कर्मण्यावापगमनम् । यत्रेदमुक्तं पञ्चशिखेन स्वल्पः सङ्करो ज्योतिष्टोमादिजन्मनः प्रधानापूर्वस्य पशुहिंसादिजन्मनाऽनर्थहेतुनाऽपूर्वेण सपरिहारः शक्यो हि कियता प्रायश्चित्तेन परिहर्तुम् । अथ प्रमादतः प्रायश्चित्तमपि नाऽऽचरितं प्रधानकर्मविपाकसमये च विपच्येत तथाऽपि यावन्तमसावनर्थं प्रसूते तावान्सप्रत्यवमर्षो मृष्यन्ते हि पुण्यसभारोपनीतसुखसुधामहाह्रदावगाहिनः कुशलाः पापमात्रोपपादितां दुःखवह्निकणिकाम् । अतः कुशलस्य सुमहतः पुण्यस्य नापकर्षाय प्रक्षयाय पर्याप्तः । पृच्छति – कस्मात् । पुष्पवत उत्तरं – कुशलं हि मे बह्वन्यदस्ति प्रधानकर्म परिकरतया व्यवस्थितं दीक्षणीयादिदक्षिणान्तम् । यत्रायं सङ्करः स्वल्पः स्वर्गेऽप्यस्य फले सङ्कीर्णपुण्यलब्धजन्मनः स्वर्गात्सर्वथा दुःखेनापरामृष्टादपकर्षमल्पमल्पदुःखसम्भेदं करिष्यतीति । नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानम्। कथमिति, अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं मरणमभिव्यक्तिकारणमुक्तम् न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य। यत्त्वदृष्टजन्मवेदनीयं कर्मानियतविपाकं तन्नश्येदावापं वा गच्छेदभिभूतं वा चिरमप्युपासीत, यावत्समानं कर्माभिव्यञ्जकं निमित्तमस्य न विपाकाभिमुखं करोतीति। तद्विपाकस्यैव देशकालनिमित्तानवधारणादियं कर्मगतिश्चित्रा दुर्विज्ञाना चेति। न चोत्सर्गस्यापवादान्निवृत्तिरित्येकभविकः कर्माशयोऽनुज्ञायत इति ॥ १३ ॥ टीका तत्त्व-वैशारदी

तृतीयां गतिं विभजते - नियतेति । बलीयस्त्वेनेह प्राधान्यमभिमतं न त्वङ्गितया । बलीयस्त्वं च नियतविपाकत्वेनान्यदाऽनवकाशत्वात् । अनियतविपाकस्य तु दुर्बलत्वमन्यदा सावकाशत्वात् । चिरमवस्थानं बीजभावमात्रेण न पुनः प्रधानोपकारितया तस्य स्वतन्त्रत्वात् । ननु प्रायणेनैकदैव कर्माशयोऽभिव्यज्यत इत्युक्तमिदानीं च चिरावस्थानमुच्यते तत्कथं परं पूर्वेण न विरुध्यत इत्याशयवान्पृच्छति – कथमिति । उत्तरम् – अदृष्टेति । जात्यभिप्रायमेकवचनम् । तदितरस्य गतिमुक्तामवधारयति – यत्त्वदृष्टेति । शेषं सुगमम् ॥ १३ ॥ पातञ्जल-रहस्यम्

“कदा चित्सुकृतं कर्म कूटस्थमिव तिष्ठति”,

इति स्मृतेः किञ्चित् कर्म शतजन्मभोग्यं किञ्चित्करिभोग्यं मनुष्यभोग्यमिति विरुद्धजातिभोग्यमिति तेषां का गतिरिति शङ्कते - स्यादेतदित्यादिसंसारइत्यन्तेन, । अत्रार्थे सूत्रं पठति - “सति मूले तद्विपाका जात्यायुर्भोगाः” मूलं क्लेशादि तस्मिन् सति विद्यमाने तद्विपाकः परिपाकः, स कः? जात्यायुर्भोगा इति, जातिर्जन्म स तु कुलादिषु, आयुः शताब्दादि, भोगः सुखदुःखसाक्षात्कार इति सूत्रार्थः, व्यतिरेकमाह - नोच्छिन्नक्लेशमूलः, उच्छिन्नं क्लेशलक्षणं मूलं यस्य कर्माशयस्य स न विपाकारम्भीत्यर्थः, दावदग्धत्वेऽसत्यपि नष्टबीजभावस्य नास्त्यङ्करोत्पत्तिरिति समुच्चयार्थो वाशब्दः, व्यतिरेकमाह - नापनीतेति । दार्ष्टान्तिकमाह -तथेति । अत्रापि व्यतिरेकमाह - नापनीतक्लेश इति । अत्र चातुर्द्धा विप्रतिपत्तिं दर्शयन् क्रमेण कस्मिन् पक्षे किं दूषणमित्याह - कस्मादित्यादि, अवशिष्टस्यानारब्धभोगस्य, साम्प्रतिकस्य = वर्त्तमानस्य, किं कदा भोक्ष्यत इति नियामकाभावादनाश्वासः कर्मणि प्रवृत्तावित्येकं - कर्मैकजन्महेतुरिति दुर्घटः,

“श्वशृगालखरोष्ट्राणां ब्रह्महा योनिमृच्छति” इति,

एकस्या ब्रह्मत्यायाः विरुद्धानेकदेहभोग्यत्वेनावशिष्टो भोगः स चाप्यनिष्टोऽनिर्मोक्षापत्तेः, त्रृतीयविकल्पमाह - न चानेकमिति । युगापन्न भवति; एकदा विरुद्धानेकदेहासम्भवात्, पूर्वदोषः = भोगकालानियमः, तस्मादनाद्यनन्तकर्मभिरेकं जन्मेति परिशिष्यते; तस्माज्जन्म च प्रायणं मरणं तयोरन्तराले मध्ये, एकप्रघट्टकेन = युगपत्कालेन, यथाऽपवरकस्थो दीपोघटपटादिस्थूलसूक्ष्मादिनैको व्यज्यत इत्यर्थमनिच्छतो यथाऽमेकैः सूत्रैरेका रज्जुरारभ्यते, ततः किं तत्राह - तच्चेति । काकशाल्मल्यादिवद्बहुकालव्यापीत्याह - लब्धायुष्कमिति । एकद्विविपाकत्वं विवृणोति – एकविपाकारम्भीत्यादि उक्त इत्यन्तेन, यस्त्वसावेकभविक उक्तः; तस्य त्रित्वंविभजते - कृतेत्यादिना, ‘धर्मेण पापपमपनुदति, इति श्रुतिमाश्रित्याह - तत्र कृतस्येत्यादिना, पुण्यो वै पुण्येन कर्मणा भवतीति श्रुतेः पुण्यवता कृतः शुक्लो राशिः = शर्मकुलं, पञ्चशिखाचार्यस्य वचनं - स्यादिति । स्वल्पः = स्वल्पकालाविच्छन्नभगोदः, शङ्करो नान्तरीयकदुरदृष्टेन मिश्रणं, सपरिहारः प्रायश्चित्तनिरस्यः, अकृतप्रायश्चित्तेन मृष्यते सहनीयमनुषङ्गिकन्दुःखं यथा मत्स्यभक्षेण कण्टकं,

“कदा चित्सुकृतं कर्म कूटस्थमिव तिष्ठती” –

तिस्मृतिमाश्रित्याह - नियतेति । कथं त्रित्वमिति शङ्कते - कथमिति । उत्तरमदृष्टजन्मेतयादि, अनियतविपाकस्यानारब्धफलस्य तटस्थस्येत्यर्थः,

“नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरापि”-

इत्यादिश्रुतिमाश्रित्याः यावदिति ।

“त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिण” -

इति श्रुतिमाश्रित्याह - उत्सर्गस्यापवादान्न निवृत्तिः, उत्सर्गस्य हिंसाजनितपापस्याग्निषोमीयचनकृता न निवृत्तिरिति, पुण्यापुण्यैरेकभविकोऽनुज्ञायत इति भाष्यार्थः, तादर्थ्येन भोगनिर्वाहकतया, क्षीनायुषो जन्मत; कुतो भोगः, तदविनिर्भागवर्त्तिनी = अविनाभूते, एतदेवान्वयेन द्रढयति - न चास्तीत्यादिसहकारितेत्यन्तेन, व्यतिरेकमाह - क्लेशेत्यादिकल्पतइत्यन्तेन, नाभावो विद्यते सत इति स्मृतिमाश्रित्य शङ्कते - नान्विति । सत्यं - न नाशः किन्तु ज्ञानाग्निना दग्धप्ररोहसामर्थ्या इत्याह - नेति । ध्रुवं = पक्षं, धिया जनयति पुरुषीवा क्षितिरीति श्रुतिमाश्रित्याह - साम्प्रतिकस्य भोगकालेऽपि जनितस्य, अक्षयत्वं स्पष्टयति - एकदुक्तमिति । व्रह्यहत्याऽऽदिवदेकैकहत्याऽऽदिना जनितं तस्यानन्तजन्महेतुत्वादेकेन बहुकालव्यापिना कर्मणाऽवरुद्धमन्यकर्मजातस्य फलायापर्याप्तमित्याह - वैकल्येनेति । तत्रैव कैमुतिकत्वमाह - यदैवेति । बहुजन्मसमुच्छेद्यं = बहुजन्मभोगनाश्यं –

“श्वशृगालखरोष्ट्राणां ब्रह्महा योनिमृच्छति”

इत्यादेरित्यर्थः, अयोगिनः = कायव्यूहं कर्त्तुमशक्तस्येत्यर्थः, जन्मोक्तं कायादिभिः सम्बन्ध इति, प्रथमपक्षेाक्तावशिष्टस्य स्थितिरिति । कर्माशयवद्वासना एकरूपा नेत्याह - क्लेशेति । ननु वासना कर्मणः सूक्ष्मरूपविशेषोक्तेत्याशङ्क्याह - य इति । स्तनपानादिप्रवृत्तौ ये स्मृतिहेतवः ते वासनाः, कर्मणि तु नैवं किन्तु विपाकहेतुमात्रम्, विनाशो धर्मेण पापमपनुदतीति श्रुत्युक्तः, सहन्ते वन्हिकणिकामियुक्तं, -

“कदा चित्सुकृतं कर्म कूटस्थमिव तिष्टति”,

इत्युक्तिमाश्रित्याह - चिरमवस्थानमिति । त्रित्वं विभजते - शुक्लः परपीडारहितत्वात्, सर्वस्य पुण्यसंवलितस्यापि पापस्य तन्मध्यपतितानां तद्ग्रहणेन ग्रहणादिति न्यायेनाह - कृष्णभोगयोगादिति । इतरेषां पापानामभावः विनाशः, ननु कष्टं कर्मेत्यनुभवात्स्वाध्यायाध्ययनजनितदुःखभोगात् तन्नाशोऽस्तु कृतं पुण्योदयमहिम्नेत्याशङ्क्याह - न हीति । स्वजन्युदुःखभोगनाश्यो न तु दुःखभोगमात्रनाश्य इत्याह - अपि त्विति । वाक्कायमनःक्षोभादिरूपं स्वाध्यायार्थं जातं दुःखं तत्पापान्तरजं, तस्याध्ययनस्य धर्ममात्रकार्यता, विपक्षे बाधकमाह - तत्कार्यत्व इति । अधर्मस्तत्कार्यं वा दुःखं न विधीयते शास्त्रेनेत्याह - तद्वलादिति । पापः पापेनेति श्रुतेः, पापसंस्कारबलादेवे पापोत्पत्तिस्ततो दुःखं न तु तद्द्वयं विधीयते, अतिप्रसङ्गेनेष्टापत्तिन्धुनीते - यागादिविधाने यथा धर्मः तत्फलञ्च सुखं जायते तद्वत्कुम्भीपाकः तज्जन्यं दुःखं बलाज्जयते इति न सर्वे सुखिनः स्युरिति भावः,

“त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः”

इति स्मृतिमाश्रित्य पुनराह - प्रधान इत्यादिपर्याप्तइत्यन्तेन, तदुपकारः = प्रधानोपकारः तर्हि स्वातन्त्र्येण फलदातृ स्यादिति चेत्तत्राह - तत्र प्रधानेति । न द्रागिति । तत्क्षणात्, आरब्धविपाके फलरूपेण परिणते साहायकमग्नीषोमीयपशुजन्याङ्गापूर्वेण स्वकार्ये दुरितापूर्वजदुःखार्थमिदमेवावापगमनं न्यग्भाव इत्यर्थः, असौ = अग्नीषोमीयजा हिंसा, अनर्थं = दुःखं, सम्भेदं = मिश्रणं, प्राधान्यं बलीयसो दृष्टं यथा भीमस्य युधिष्टिरादिपञ्चानां नयने, अङ्गितयेति । तथा दर्शनस्य प्रारब्धभोक्तृज्ञानिन इव नियतविपाकत्वेन कालान्तरे भोगसिद्धेः, तदुक्तं-

“प्रारब्धस्य फले ह्यन्ते भोगो ज्ञानं च कर्मणः । अविरोधस्तयोर्युक्तो विरोधस्त्वितरस्य हि” ॥ इति,

अनियतविपाकस्य बलीयसा बाधितत्वेन दुर्बलत्वात् कूटस्थतया स्थितिरित्याह - चिरमवस्थानमिति ॥ १३ ॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४ ॥ ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफला अपुण्यहेतुका दुःखफला इति। यथा चेदं दुःखं प्रतिकूलात्मकमेवं विषयमुखकालेऽपि दुःखमस्त्येव प्रतिकूलात्मकं योगिनः ॥ १४ ॥ टीका तत्त्व-वैशारदी

उक्तं क्लेशमूलत्वं कर्मणाम् । कर्ममूलत्वं च विपाकानामथ विपाकाः कस्य मूलं येनामी त्यक्तव्या इत्यत आह – ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् । व्याचष्टे – ते जन्मायुर्भोगा इति । यद्यपि जन्मायुषोरेव ह्रादपरितापपूर्वभावितया तत्फलत्वं न तु भोगस्य ह्लादपरितापोदयानन्तरभाविनस्तदनुभवात्मनस्तथाऽप्यनुभाव्यतया भोग्यतया भोगकर्मतामात्रेण भोगफलत्वमिति मन्तव्यम् । नन्वपुण्यहेतुका जात्यायुर्भोगाः परितापफला भवन्तु हेयाः प्रतिकूलवेदनीयत्वात् । कस्मात्पुनः पुण्यहेतवस्त्यज्यन्ते सुखफला अनुकूलवेदनीयत्वात् । न चैषां प्रत्यात्मवेदनीयानुकूलता शक्या सहस्रेणाप्यनुमानागमैरपाकर्तुम् । नच ह्लादपरितापौ परस्पराविनाभूतौ यतो ह्लाद उपादीयमाने परितापोऽप्यवर्जनीयतयाऽऽपतेत् । तयोर्भिन्नहेतुकत्वाद्भिन्नरूपत्वाच्चेत्यत आह – यथा चेदमिति ॥ १४ ॥ पातञ्जल-रहस्यम्

यथा क्लेशकर्मणोर्हेतुकार्यते कर्मविपाकयोरापि तथा विपाकस्य किं मूलमस्तीति येन त्यक्तव्यास्ते तत्राह - ‘ते ह्लादतापरितापफलाः पुण्यापुण्यहेतुत्वात्’, तत्र जात्यायुर्भोगा ये पुण्यास्ते सुखहेतवोऽपुण्या दुःखहेतव इति सूत्रार्थः, तत्र भोगस्याकिञ्चित्करत्वमाशङ्क्य सुखदुःखसाक्षात्काररूपस्य भोगस्यानुभाव्येन भोग्येन विषये यः सम्बन्धोऽसतीति तस्य भोगफलत्वमित्यर्थः पुण्यमुदर्कानर्थ हेतुः कार्यत्वादपुण्यवदिति चेत्तत्र सर्वजनीनानुभवविरोध इत्याह न चैषामिति । ननु मधुविषसम्पृक्तदुःखानुविद्धत्वात् सुखमपि हेयमिति चेतत्राह - न चाह्लादेति । भिन्नरूपत्वमनुकूलप्रतिकूलवेदनीयत्वेन विशेषः, पृथग्जनैः भ्रान्तैः, अहिस्पर्षे यथा वालानां सुखधीस्तथाऽत्यन्तमनुरागिणामिति भावः ॥ १४ ॥ कथं, तदुपपाद्यते – परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ १५ ॥ सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः। तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः। तथा चोक्तम् – “नानुपहत्य भूतान्युपभोगः सम्भवतीति हिंसाकृतोऽप्यस्ति शारीरः कर्माशयः” इति। विषयसुखं चाविद्येत्युक्तम्। टीका तत्त्व-वैशारदी

यद्यपि न पृथग्जनैः प्रतिकूलात्मतया विषयसुखकाले संवेद्यते दुःखं तथाऽपि संवेद्यते योगिभिरिति प्रश्नपूर्वकं तदुपपादनाय सूत्रमवतारयति - कथं, तदुपप(पा)द्यत इति । परिणामेत्यादिसूत्रम् । परिणामश्च तापश्च संस्कारश्चैतान्येव दुःखानि तैरिति । परिणामदुःखतया विषयसुखस्य दुःखतामाह – सर्वस्यायमिति । न खलु सुखं रागानुवेधमन्तरेण सम्भवति । न ह्यस्ति सम्भवो न तत्र तुष्यति तच्च तस्य सुखमिति । रागस्य च प्रवृत्तिहेतुत्वात्प्रवृत्तेश्च पुण्यापुण्योपचयहेतुत्वात्तत्रास्ति रागजः कर्माशयोऽसतोऽनुपजननात् । तदा(था) च सुखं भुञ्जानस्तत्र सक्तोऽपि विच्छिन्नावस्थेन द्वेषेण द्वेष्टि दुःखसाधनानि, तानि परिहर्तुमशक्तो मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः । द्वेषवन्मोहस्यापि विपर्ययापरनाम्नः कर्माशयहेतुत्वमविरुद्धम् । ननु कथं रक्तो द्वेष्टि मुह्यति वा रागसमये द्वेषमोहयोरदर्शनादित्यत आह – तथा चोक्तं विच्छिन्नावस्थान्क्लेशानुपपादयद्भिरस्माभिः । तदनेन वाङ्मनसप्रवृत्तिजन्मनी पुण्यापुण्ये दर्शिते । रागादिजन्मनः कर्तव्यमिदमिति मानसस्य सङ्कल्पस्य साभिलाषत्वेन वाचनिकत्वस्याप्यविशेषात् ।

यथाऽऽहुः – “साभिलाषश्च सङ्कल्पो वाच्यार्थान्नातिरिच्यते” इति ।

शाररिमपि कर्माशयं दर्शयति – नानुपहत्येति । अत एव धर्मशास्त्रकाराः “पञ्च सूना गृहस्थस्य” इत्याहुः । स्यादेतन्न प्रत्यात्मवेदनीयस्य विषयसुखस्य प्रत्याख्यानमुचितं योगिनामनुभवविरोधादित्यत आह – विषयसुखं चाविद्येत्युक्तं चतुर्विधविपर्यासलक्षणामविद्यां दर्शयद्भिरिति । नाऽऽपातमात्रमाद्रियन्ते वृद्धाः । अस्ति खल्वापाततो मधुविषसम्पृक्तान्नोपभोगेऽपि सुखानुभवः प्रत्यात्मवेदनीयः किन्त्वायत्यात्मसुखम् । इयं च दर्शिता भगवतैव –

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ इति । या भोगेष्विन्द्रियाणां तृप्तेरुपशान्तिस्तत्सुखम्। या लौल्यादनुपशान्तिस्तद्दुःखम्। न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम्। कस्मात्, यतो भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति। तस्मादनुपायः सुखस्य भोगाभ्यास इति। स खल्वयं वृश्चिकविषभीत इवाऽऽशीविषेण दष्टो यः सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति। एषा परिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि योगिनमेव क्लिश्नाति। टीका तत्त्व-वैशारदी

चोदयति – या भोगेष्विति । न वयं विषयह्लादं सुखमातिष्ठामहे किन्तु तृप्यतां पुंसाम् । तत्तद्विषयप्रार्थनापरिक्लिष्टचेतसां तृष्णैव महद्दुःखम् । न चेयमुपभोगमन्तरेण शाम्यति । न चास्याः प्रशमो रागाद्यनुविद्ध इति नास्य परिणामदुःखतेति भावः । तृप्तेस्तृष्णाक्षयाद्धेतोरिन्द्रियाणामुपशान्तिरप्रवर्तनं विषयेष्वित्यर्थः । एतदेव व्यतिरेकेमुखेन(ण) स्पष्टयति – या लौल्यादिति । परिहरति – न चेन्द्रियाणामिति । हेतावनोः प्रयोगः । सत्यं तृष्णाक्षयः सुखमनवद्यं तस्य तु न भोगाभ्यासो हेतुरपि तु तृष्णाया एव तद्विरोधिन्याः ।

यथाऽऽहुः –

न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ इति ।

शेषमतिरोहितम् । अथ का तापदुःखता, सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति तत्रास्ति द्वेषजः कर्माशयः। सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते ततः परमनुगृह्णात्युपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति। स कर्माशयो लोभान्मोहाच्च भवतीत्येषा तापदुःखतोच्यते। का पुनः संस्कारदुःखता, सुखानुभवात्सुखसंस्काराशयो दुःखानुभवादपि दुःखसंस्काराशय इति। एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दुःखे वा पुनः कर्माशयप्रचय इति। टीका तत्त्व-वैशारदी

तापदुःखतां पृच्छति – अथ केति । उत्तरम् – सर्वस्येति । सर्वजनप्रसिद्धत्वेन तत्स्वरूपप्रपञ्चमकृत्वा तापदुःखताऽपि परिणामदुःखतासमतया प्रपश्चितेति । संस्कारदुःखतां पृच्छति – केति । उत्तरम् – सुखेति । सुखानुभवो हि संस्कारमाधत्ते । स च सुखस्मरणं तच्च रागं स च मनःकायवचनचेष्टां सा च पुण्यापुण्ये ततो विपाकानुभवस्ततो वासनेत्येवमनादितेति । अत्र च सुखदुःखसंस्कारातिशयात्तत्स्मरणं तस्माच्च रागद्वेषौ ताभ्यां कर्माणि कर्मभ्यो विपाक इति योजना । एवमिदमनादि दुःखस्रोतो विप्रसृतं योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति। कस्मात्, अक्षिपात्रकल्पो हि विद्वानिति। यथोर्णातन्तुरक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति न चान्येषु गात्रावयवेषु, एवमेतानि दुःखान्यक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति नेतरं प्रतिपत्तारम्। इतरं तु स्वकर्मोपहृतं दुःखमुपात्तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानमनादिवासनाविचित्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिवाविद्यया हातव्य एवाहङ्कारममकारानुपातिनं जातं जातं बाह्याध्यात्मकोभयनिमित्तास्त्रिपर्वाणस्तापा अनुप्लवन्ते। तदेवमनादिना दुःखस्रोतसा व्युह्यमानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यत इति। टीका तत्त्व-वैशारदी

तदेवं दुःखस्रोतः प्रसृतं योगिनमेव क्लिश्नाति नेतरं पृथग्जनमित्याह – एवमिदमनादीति । इतरं तु त्रिपर्वाणस्तापा अनुप्लवन्त इति सम्बन्धः । आधिभौतिकाधिदैविकयोस्तापयोर्बाह्यत्वेनैकत्वं विवक्षितम् । चित्ते वृत्तिरस्या इत्यविद्या चित्तवृत्तिस्तया हातव्य एव बुद्धीन्द्रियशरीरादौ दारापत्यादौ चाहङ्कारममकारानुपातिनमिति । तदत्र न सम्यग्दर्शनादन्यत्परित्राणमस्तीत्याह – तदेवमिति । गुणवृत्तिविरोधाच्च दुःरवमेव सर्वं विवेकिनः। प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्री भूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेवाऽऽरभन्ते। चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम्। रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते, सामान्यानि त्वतिशयैः सह प्रवर्तन्ते। एवमेते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः सर्वे सर्वरूपा भवन्तीति, गुणप्रधानभावकृतस्त्वेषां विशेष इति। तस्माद्दुःखमेव सर्वं विवेकिन इति। टीका तत्त्व-वैशारदी

तदेवमौपाधिकं विषयसुखस्य परिणामतः संस्कारतस्तापसंयोगाच्च दुःखत्वमभिधाय स्वाभाविकमादर्शयति – गुणवृत्तिविरोधाच्चेति । व्याचष्टे – प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिरूपेण परिणता गुणाः सत्त्वरजस्तमांसि परस्परानुग्रहतन्त्राः शान्तं सुखात्मकं घोरं दुःखात्मकं मूढं विषादात्मकमेव प्रत्ययं सुखोपभोगरूपमपि त्रिगुणमारभन्ते । न च सोऽपि तादृशप्रत्ययरूपोऽस्य परिणामः स्थिर इत्याह – चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम् । नन्वेकः प्रत्ययः कथं परस्परविरुद्धशान्तघोरमूढत्वान्येकदा प्रतिपद्यत इत्यत आह – रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते । रूपाणि अष्टौ भावा धर्मादयो वृत्तयः सुखाद्यास्तदिह धर्मेण विपच्यमानेनाधर्मस्तादृशो विरुध्यते । एवं ज्ञानवैराग्यैश्वर्यैः सुखादिभिश्च तादृशान्येव तद्विपरीतानि विरुध्यन्ते । सामान्यानि त्वसमुदाचरद्रूपाण्यतिशयैः समुदाचरद्भिः सहाविरोधात्प्रवर्तन्त इति । ननु गृह्णीम एतत्तथाऽपि विषयसुखस्य कुतः स्वाभाविकी दुःखतेत्यत आह – एवमेत इति । उपादानाभेदादुपादानात्मकत्वाच्चोपादेयस्याप्यभेद इत्यर्थः । तत्किमिदानीमात्यन्तिकमेव तादात्म्यं तथा च बुद्धिव्यपदेशभेदौ न कल्पेते इत्यत आह – गुणप्रधानेति । सामान्यात्मना गुणभावोऽतिशयात्मना च प्राधान्यम् । तस्मादुपाधितः स्वभावतश्च दुःखमेव सर्वं विवेकिन इति । तदस्य महतो दुःखसमुदायस्य प्रभवबीजमविद्या। तस्याश्च सम्यग्दर्शनमभावहेतुः। यथा चिकित्साशास्त्रं चतुर्व्यूहम् – रोगो रोगहेतुरारोग्यं भैषज्यमिति, एवमिदमपि शास्त्रं चतुर्व्यूहमेव। तद्यथा – संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति। तत्र दुःखबहुलः संसारो हेयः। प्रधानपुरुषयोः संयोगो हेयहेतुः। संयोगस्याऽऽत्यन्तिकी निवृत्तिर्हानम्। हानोपायः सम्यग्दर्शनम्। टीका तत्त्व-वैशारदी

दुःखं च हेयं प्रेक्षावता । न च तन्निदानहानमन्तरेण तद्धेयं भवितुमर्हति । न चापरिज्ञातं निदानं शक्यं हातुमिति मूलनिदानमस्य दर्शयति - तदस्येति । दुःखसमुदायस्य प्रभव उत्पत्तिर्यतस्तद्बोनमित्यर्थः । तदुच्छेदहेतुं दर्शयति – तस्याश्चेति । इदानीमस्य शास्त्रस्य सर्वानुग्रहार्थं प्रवृत्तस्य तद्विधेनैव शास्त्रेण सादृश्यं दर्शयति – यथेति । चत्वारो व्यूहाः सङ्क्षिप्तावयवरचना यस्य तत्तथोक्तम् । ननु दुःखं हेयमुक्त्वा संसारं हेयमभिदधतः कुतो न विरोध इत्यत आह – तत्र दुःखबहुल इति । यत्कृत्वाऽविद्या संसारं करोति तदस्या अवान्तरव्यापारं संसारहेतुमाह – प्रधानपुरुषयोरिति । मोक्षस्वरूपमाह – संयोगस्येति । मोक्षोपायमाह – हानोपाय इति । केचित्पश्यन्ति, हातुः स्वरूपोच्छेद एव मोक्षः ।

यथाऽऽहुः – “प्रदीपस्थेव निर्वाणं विमोक्षस्तस्य चेतसः” इति । तत्र हातुः स्वरूपमुपादेयं वा हेयं वा न भवितुमर्हतीति हाने तस्योच्छेदवादप्रसङ्ग उपादाने च हेतुवादः। उभयप्रत्याख्याने शाश्वतवाद इत्येतत्सम्यग्दर्शनम् ॥ १५ ॥ टीका तत्त्व-वैशारदी

अन्ये तु सवासनक्लेशसमुच्छेदाद्विशुद्धविज्ञानोत्पाद एव मोक्ष इत्याचक्षते तान्प्रत्याह – तत्रेति । तत्र हानं तावद्दूषयति – हाने तस्येति । न हि प्रेक्षावान्कश्चिदात्मोच्छेदाय यतते । ननु दृश्यन्ते तीव्रगदोन्मूलितसकलसुखं दुःखमयीमिव मूर्तिमुद्धहन्तः स्वोच्छेदाय यतमानाः । सत्यम् । केचिदेव ते, न त्वेवं संसारिणो विविधविचित्रदेवाद्यानन्दभोगभागिनस्तेऽपि च मोक्षमाणा दृश्यन्ते तस्मादपुरुषार्थत्वप्रसक्तेर्न हातुः स्वरूपोच्छेदो मोक्षोऽभ्युपेयः । अस्तु तर्हि हातुः स्वरूपमुपादेयमित्यत आह – उपादाने च हेतुवादः । उपादाने हि कार्यत्वेनानित्यत्वे सति मोक्षत्वादेव च्यवेत । अमृतत्वं हि मोक्षः । नापि विशुद्धो विज्ञानसन्तानो भवत्यमृतः । सन्तानिभ्यो व्यतिरिक्तस्य सन्तानस्य वस्तुतोऽभावात् । सन्तानिनां चानित्यत्वात् । तस्मात्तथा यतितव्यं यथा शाश्वतवादो भवति । तथा च पुरुषार्थताऽपवर्गस्येत्याह – उभयप्रत्याख्यान इति । तस्मात्स्वरूपावस्थानमेवाऽऽत्मनो मोक्ष इति । एतदेव सम्यग्दर्शनम् ॥ १५ ॥ पातञ्जल-रहस्यम्

पृच्छति - कथमिति । उत्तरयति - तदित्यादिना-“परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिन” इति, द्वन्द्वान्ते श्रूयतमाणः प्रत्येकमभिसम्बध्यत इति न्यायेनाह - एतान्येव दुःखानीति ।

“रमणान्ते च या मतिः,

सा यदि स्थिरतां याति को न मुच्येत बन्धनाद्” इति-

स्मृतेर्यत्र स्त्रीरतिसुखं परिणामे दुःखं तत्र किमन्यत्, कष्टं कर्मेत्यनुभवादाह - प्रवृत्तेश्चेति । “यन्मनसा ध्यायति तद्वाचाऽभिलषति कर्मणा चोपपादयती”ति श्रुतिमाश्रित्याह - मानसस्येति ।

“शरीरजैः कर्सदोषैर्याति स्थावरतां नरः” इति

मनूक्तिमाश्रित्याह - शारीरमपि “चुल्लीकण्डनीपेषणीमार्जनीचोदकुम्भीतिपञ्चसूनेति श्रुतिमाश्रित्याह - नानुपहत्येति । बहूनामनुग्रहो न्याय्य इत्याशङ्कते - स्यादेतदित । शतमप्यन्धा न पश्यन्तीति न्यायमाश्रित्याह - विषयसुकञ्चेते । नापातमात्रमुदर्कानर्थस्तदेवाह - अस्तीति ।

“यत्तदये विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तं आत्मबुद्धिप्रसादजम्” इति

भगवदुक्तिमाश्रित्य - अस्ति निरुपधिसुखमित्याह - तृप्तेरीति ।

“तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्”-

इत्युक्तेः, लौल्यादासक्तेः अनुवर्द्धते इत्यत्राव्ययानामनेकार्थत्वमिति न्यायादाह - हेतावनोरिति । ज्ञानिनो नित्यवैरिणेति भगवदुक्तिमाश्रित्याह - सुखावस्थायामपीति । चेतनं = स्त्र्यादि, अचेतनं = वस्त्रालङ्कारादि, परिस्पन्दते चेष्टते मित्रमनुगृह्णात्यनुकूले शत्रुमपहन्ति प्रतिकूल - इत्यर्थः, अहो कष्टं हि संस्कारः प्रलयेऽपि न क्षयीत्याह - सुखानुभवो हीत्यादि-अनादितेत्यन्तेन, पृथग्जनानाम् परिणामतापसंस्कारभेदेन त्रिपर्वाणश्चाध्यात्मिकादिभेदेन, चित्तवृत्तिविवृतस्य स्वातन्त्र्यं निराह - चित्ते वृत्तिरिति, अहङ्कारममकारयोर्विषयभेदं दर्शयति - बुद्धीत्यादिना, “निचाय्य तं मृत्युमुखात् प्रमुच्यते” “तरति शोकमात्मवित्” “तमेव विदित्वाऽतिमृत्युमेति”त्यादिश्रुतिमाश्रित्याह - तदेवमति स्वाभाविकं = निरुपाधिकमिति,

“यावदेतानतीत्य त्रीन् ब्रह्मभूयाय कल्पत”-

इत्युक्तिमाश्रित्याह - गुणेति । त्रिगुणानां सत्त्वरजस्तमसां वृत्तयोऽपि दुःखरूपा आविर्भावतिरोभावाभ्यां सुखदुःखमोहात्मकतया चेत्याह - गुणवृत्तिविरोधाच्चेति । प्रख्या = प्रकाशः, प्रवर्तकञ्च रज इत्युक्ते रजसः प्रवृत्तिः, गुरु वरणकमेव तम इतुयुक्ते गुरुत्वं स्थितिः, रूपशब्दः स्वभावपरः, एवंस्वभावास्ते क्षणमपरिणम्य न तिष्टन्ति,

“अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्र गामिन”—

इत्युक्तिमाश्रित्याह - परस्परेणेति । प्रत्ययो = बुद्धिः धर्मादिभावाष्टकप्रतीतिहेतुत्वाद्, यथा धानुष्कादयः परस्परविरूद्धा अपि शत्र्वभिभवायैकवाक्यतां गच्छन्ति तद्वदित्याह - सामान्यानि त्विति । समुदाचरद्रूपाणि स्वस्वकार्याभिमुखान्यपि निदानमुपादानकारणमविद्याख्येयं तस्या हानमभिभवो न तु नाशः ज्ञानस्य प्रकाशत्वेन सूर्यादेरन्धकाराद्यभिभावकता दृष्टेति भावः, तस्य हेतुर्विवेकख्यातिरूपं तद्वद ज्ञानं तस्योपायो योगशास्त्रमित्यादीति कृत्वा शास्त्रं प्रवृत्तमथ योगानुशासन्मिति सङ्क्षेपार्थः, तत्र हेयहानहानोपायाधिगन्तव्यमिति पूर्वोक्तं स्वभाष्यं प्रमाणयन्नाह - इदमिति शास्त्रमित्यादिना, तत्राधिगन्तव्यो मोक्ष इति, सम्यग्दर्शनं योगशास्त्रजमित्यर्थः, व्यक्ताव्यक्तज्ञविज्ञानदिति साङ्ख्योक्तेः सम्प्रज्ञातासम्प्रज्ञातसमाधिजन्यमविरूपं परवैराग्यसहकृतमात्मप्रतियोगिकवुद्ध्यनुयोगीकविवेकस्सक्षात्काररूपं सम्यग्दर्शनं ततो मुक्तिरिति भावः, तयोरनादिः संयोगश्चेन्न स्यात् कुतः क्लेशपरम्परा कुतो वा जन्ममरणादिप्रवाहः, तथा च प्राप्ताप्राप्तविवेकेन संयोगस्य योग्यतायां सत्यामपि फलानुत्पादनलक्षणस्तिरोभावो मोक्ष इत्याह - मोक्षे मुक्तस्य स्वरूपमुपादेयं चेद् जन्यत्वेन हेतुवादः, हाने तु विनाश उच्छेदवाद इति विमृश्य अविनाशीवा अरेअयमात्मा अनुच्छित्तिधर्मा इति श्रुतिमाश्रित्याह - शाश्वतवाद इति । सम्यग्दर्शनं वेदार्थः, न ह्यात्मनः स्वरूपतो नाशोऽस्तीत्यविनाशी, वै अवधारणे, दृक्शक्तिः पुरुष इति सिद्धान्ते शक्तेरपि नाशो नास्तीत्यनुच्छितिधर्मेति धर्मतो दृष्टः पाकेन परमाणोरीति भाष्यार्थः, तत्र मतान्याह - के चिदिति ।

ते ब्रह्मलोकेषु परान्तकाले परामृतात् परिमुच्यन्ते सर्वे—

इति श्रुतिमाश्रित्याह - अमृतत्वं हीति । तस्य सन्तानस्य क्षणिकसन्तानिभ्योऽन्यत्वे निराश्रयत्वाद् भ्रमत्वापत्तिस्तदभिन्नत्वे तेषां क्षणिकत्वेन सन्ततेर्विनाशात् सन्तानस्यापि तथा त्वं नापीशसन्तानापत्तिर्मोक्षः आपत्तेः संयोगत्वे तस्य वियोगावसानत्वात्पुनर्बाधापत्तिस्तादात्म्ये चेशकोटौ प्रबेशे स्वाभावः स्वस्मिन्नीशस्य प्रवेश ईशाभाव इति न प्रकारान्तरस्थितिरिति समनन्तरप्रत्ययसहकारिप्रत्यायाधिप्रतिप्रत्ययालम्बनप्रत्ययैश्चतुर्भिर्मनआलोकेन्द्रियविषयनामभिः प्रवृत्तिज्ञानैरनास्कन्दितत्वम् विशुद्धत्वमित्यर्थः, उक्तोऽविनाशी इत्यादिश्रुत्या अनादिर्नाम प्रागभावाप्रतियोगिनी सती ध्वंसाप्रतियोगिनीत्यर्थः ॥ १५ ॥ तदेतच्छास्त्रं चतुर्व्यूहमित्यभिधीयते – हेयं दुःखमनागतम् ॥ १६ ॥ दुःखमतीतमुपभोगेनातिवाहितं न हेयपक्षे वर्तते। वर्तमानं च स्वक्षणे भोगारुढमिति न तत्क्षणान्तरे हेयतामापद्यते। तस्माद्यदेवानागतं दुःखं तदेवाक्षिपात्रकल्पं योगिनं क्लिश्नाति नेतरं प्रतिपत्तारम्। तदेव हेयतामापद्यते ॥ १६ ॥ टीका तत्त्व-वैशारदी

तदेतच्छास्त्रं चतुर्व्यूहमित्यभिधीयते – हेयं दुःखमनागतम् । अनागतमित्यतीतवर्तमाने व्यवच्छिन्ने । तत्रोपपत्तिमाह – दुःखमतीतमिति । ननु वर्तमानमुपभुज्यमानं न भोगेनातिवाहितमिति कस्मान्न हेयमित्यत आह – वर्तमानं चेति सुगमम् ॥ १६ ॥ पातञ्जल-रहस्यम्

चतुर्व्यूहतां सूत्रारूढां करोति - “हेयं दुःखमनागतम्” अतीतवर्तमानयोर्दुःखायोर्भोगौकनाश्यत्वादनागतमेवाक्षिकृष्णशारकल्पं योगिनमेवाक्षिपतीति योगिना तत्प्रतीकरे यतितव्यमिति, अतिवाहितं = नाशितमिति, प्रतिपत्तारं भोक्तारमिति सूत्रभाष्ययोरर्थः ॥ १६ ॥ तस्माद्यदेव हेयमित्युच्यते तस्यैव कारणं प्रतिनिर्दिश्यते – द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥ द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः। दृश्या बुद्धिसत्त्वोपारूढाः सर्वे धर्माः। तदेतद्दृश्यमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारिदृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः, अनुभवकर्मविषयतामापन्नं यतः। अन्यस्वरूपेण प्रतिलब्धात्मकं स्वतन्त्रमपि परार्थत्वात्परतन्त्रम्। तयोर्दृग्दर्शनशक्त्योरनादिरर्थकतः संयोगो हेयहेतुर्दुःखस्य कारणमित्यर्थः। तथा चोक्तम् – तत्संयोगहेतुविवर्जनात्स्यादयमात्यन्तिको दुःखप्रतीकारः। कस्मात्, दुःखहेतोः परिहार्यस्य प्रतीकारदर्शनात्। टीका तत्त्व-वैशारदी

हेयमुक्तं तस्य निदानमुच्यते – द्रष्टृदृश्ययोः संयोगो हेयहेतुः । द्रष्टुः स्वरूपमाह – द्रष्टेति । चितिच्छायापत्तिरेव बुद्धेर्बुद्धिप्रतिसंवेदित्वमुदासीनस्यापि पुंसः । नन्वेतावताऽपि बुद्धिरेवानेन दृश्येत, न दृश्येरञ्शब्दादयोऽत्यन्तव्यवहिता इत्यत आह – दृश्या बुद्धिसत्त्वेति । इन्द्रियप्रणालिकया बुद्धौ शब्दाद्याकारेण परिणतायां दृश्यायां भवन्ति शब्दादयोऽपि धर्मा दृश्या इत्यर्थः । ननु तदाकारापत्त्या बुद्धिः शब्दाद्याकारा भवतु पुंसस्तु बुद्धिसम्बन्धेऽभ्युपगम्यमाने परिणामित्वमसम्बन्धे वा कथं तेषां बुद्धिसत्त्वोपारूढानामपि शब्दादीनां दृश्यत्वम् । नहि दृशिनाऽसंस्पृष्टं दृश्यं दृष्टमित्यत आह – तदेतद्दृश्यमिति । प्रपञ्चितमिदमस्माभिः प्रथमपाद एव यथा चित्याऽसम्पृक्तमपि बुद्धिसत्त्वमत्यन्तस्वच्छतया चितिबिम्बोद्ग्राहितया समापन्नचैतन्यमिव शब्दाद्यनुभवतीति । अत एव च शब्दाद्याकारपरिणतबुद्धिसत्त्वोपनीताञ्शब्दादीन्भुञ्जानः स्वामी भवति द्रष्टा तादृशं चास्य बुद्धिसत्त्वं स्वं भवति । तदेतद्बुद्धिसत्त्वं शब्दाद्याकारवद्दृश्यमयस्कान्तमणिकल्पं पुरुषस्य स्वं भवति दृशिरूपस्य स्वामिनः । कस्मात्, अनुभवकर्मविषयतामापन्नं यतः । अनुभवो भोगः पुरुषस्य कर्म क्रिया तद्विषयतां भुज्यमानतामापन्नं यस्मादतः स्वं भवति । ननु स्वयं प्रकाशं बुद्धिसत्त्वं कथमनुभवविषय इत्यत आह – अन्यस्वरूपेणेति । यदि हि चैतन्यरूपं वस्तुतो बुद्धिसत्त्वं स्याद्भवेत्स्वयं प्रकाशं किन्तु स्वं चैतन्यादन्यज्जडरूपं तेन प्रतिलब्धात्मकं तस्मात्तदनुभवविषयः । ननु यस्य हि यत्र किञ्चिदायतते तत्तदधीनम् । न च बुद्धिसत्त्वस्य पुरुषमुदासीनं प्रति किञ्चिदायतत इति कथं तत्तन्त्रम् । तथा च न तस्य कर्मेत्यत आह – स्वतन्त्रमपि परार्थत्वात्पुरुषार्थत्वात्परतन्त्रं पुरुषतन्त्रम् । तद्यथा – पादतलस्य भेद्यता, कण्टकस्य भेत्तृत्वं, परिहारः कण्टकस्य पादाऽनधिष्ठानं पादत्राणव्यवहितेन वाऽधिष्ठानम्, एतत्त्रयं यो वेद लोके स तत्र प्रतीकारमारभमाणो भेदजं दुःखं नाऽऽप्नोति। कस्मात्, त्रित्वोपलब्धिसामर्थ्यादिति। अत्रापि तापकस्य रजसः सत्त्वमेव तप्यम्। कस्मात्, तपिक्रियायाः कर्मस्थत्वात्, सत्त्व क्रिया नापरिणामिनि निष्क्रिये क्षेत्रज्ञे, दर्शितविषयत्वात्। सत्त्वं तु तप्यमाने तदाकारानुरोधी पुरुषोऽप्यनुतप्यत इति ॥ १७ ॥ टीका तत्त्व-वैशारदी

नन्वयं दृग्दर्शनशक्त्योः सम्बन्धः स्वाभाविको वा स्यान्नैमित्तिको वा । स्वाभाविकत्वे सम्बन्धिनोर्नित्यत्वादशक्योच्छेदः सम्बन्धस्तथा च संसारनित्यत्वम् । नैमित्तिकत्वे तु क्लेशकर्मतद्वासनानामन्तःकरणवृत्तितया सत्यन्तःकरणे भावादन्तःकरणस्य च तन्निमित्तत्वे परस्पराश्रयप्रसङ्गादनादित्वस्य च सर्गादावसम्भवादनुत्पाद एक संसारस्य स्यात् ।

यथोक्तम् –

पुमानकर्ता येषां तु तेषामपि गुणैः क्रिया । कथमादौ भवेत्तत्र कर्म तावन्न विद्यते ॥

मिथ्याज्ञानं न तत्रास्ति रागद्वेषादयोऽपि वा । मनोवृत्तिर्हि सर्वेषां न चोत्पन्नं मनस्तदा ॥

इति शङ्कामपनयति - तयोऽर्दृग्दर्शनशक्त्योरनादिरर्थकृतः संयोगो हेयहेतुः । सत्यम् । न स्वाभाविकः सम्बन्धो नैमित्तिकस्तु । न चैवमादिमाननादिनिमित्तप्रभवतया तस्याप्यनादित्वात् । क्लेशकर्मतद्वासनासन्तानश्चायमनादिः प्रतिसर्गावस्थायां च सहान्तःकरणेन प्रधानसाम्यमुपगतोऽपि सर्गादौ पुनस्तादृगेव प्रादुर्भवति वर्षापाय इवोद्भिज्जभेदो मृद्भावमुपगतोऽपि पुनर्वर्षासु पूर्वरूप इत्यसकृदावेदितम् । प्राग्भावितया संयोगस्याविद्या कारणं स्थितिहेतुतया पुरुषार्थः कारणं तद्वशेन तस्य स्थितेस्तदिदमुक्तमर्थकृत इति । तथाचोक्तं पञ्चशिखेन तत्संयोगो बुद्धिसंयोगः स एव हेतुर्दुःखस्य, तस्य विवर्जनात्स्यादयमात्यन्तिको दुःखप्रतीकारः । अर्थात्तदपरिवर्जने दुःखमित्युक्तं भवति । तत्रैवात्यन्तप्रसिद्धं निदर्शनमाह – तद्यथेति । पादत्राणमुपानत् । स्यादेतत् । गुणसंयोगस्तापहेतुरित्युच्यमाने गुणानां तापकत्वमभ्युपेतम् । न च तपिक्रियाया अस्त्यादेरिव कर्तृस्थो भावो येन तप्यमन्यन्नापेक्षेत । न चास्यास्तप्यतया पुरुषः कर्म तस्यापरिणामितया क्रियाजनितफलशालित्वायोगात् । तस्मात्तपेस्तप्यव्याप्तस्य तन्निवृत्तौ निवृत्तिमवगच्छामो ज्वलनविरहेणेव धूमाभावमित्यत आह – अत्रापि तापकस्येति । गुणानामेव तप्यतापकभावस्तत्र मृदुत्वात्पादतलवत्सत्त्वं तप्यं रजस्तु तीव्रतया तापकम् । पृच्छति – कस्मात्सत्त्वमेव तप्यं न तु परुषः । उत्तरं – तपिक्रियाया इति । तत्किमिदानीं पुरुषो न तप्यते । तथा चाचेतनस्यास्तु सत्त्वस्य तापः किं नश्छिन्नमित्यत आह – दर्शितविषयत्वात्सत्त्वे तु तप्यमाने तदाकारानुरोधी पुरुषोऽप्यनुतप्यत इति । दर्शितविषयत्वमनुतापहेतुस्तच्च प्राग्व्याख्यातम् ॥ १७ ॥ पातञ्जल-रहस्यम्

निदानं = निमित्तकारणं, सूत्रारूढं करोति - द्रष्ट्टदृष्ययोः संयोगो हेयहेतुरिति, बुद्धेः प्रतिसंवेदी बुद्धिगतधर्माधर्मादिभावाभिमानी चितिच्छायापत्तेरिति भ्रमः तत्संसर्गात्यन्ताभाववत्पुंसः, न हि जपालौहित्यं स्फटिके वास्तवमिति भावः, ननु पुंसो बुद्धिमात्रसंवेदिता तु कुतस्त्या न हि स्फटिके जपारुण्ये भात्यपि जपागतरसपरिमाणादिरस्तीति चेत्तत्राह - दृश्याबुद्धीति । तत्रानुभवाभावेऽपि न हि दृष्टेऽनुपपन्नं नामेति न्यायेनाह - इन्द्रियेन्त्यादिना, ननु मरकतक्षिप्ते दुग्धे मरकतच्छायं दृष्टं न तु तदाधारं पात्रं मरकताकारमिति शङ्कते - नन्विति । तदाकारा - शब्दाद्याकारा, परिणाम्यसम्बन्धे परिणतानां शब्दादीनां कथं भानमित्याक्षेपं विवृणोति - न हीत्यादिना, चितिसम्बन्धो नास्ति अथ च दृष्टं चिद्भास्यमित्यतिप्रसङ्ग इत्याक्षेपः, भ्रान्तेः पुरुषधर्मत्वान्न हि दुर्घटं किमपि दृश्यते, असङ्क्रान्ता अपरिणामिनी चितिरित्युक्तं स्मारयन्नाह - चित्याऽसम्प्रुक्तमपीतयादि-द्रष्टेत्यन्तेन,

“अहङ्कारविमूढात्मा कर्ताहमितिमन्यते”

इतिभगवुतुक्तेः, तादृशं = चितिच्छायापन्नशब्दाद्याकारमित्यर्थः, चुम्बकं यथा लौहभ्रमणहेतुस्तथा पुङ्गतकर्तृत्वाद्याकारारोपे बुद्धिसत्त्वम्, अकर्ता कर्तेवावस्थित इति श्रुतेः, तस्य भासा सरमिदं विभातीति श्रुतेराह - यदि हीति । तेन = चैतन्येन, प्रतिलब्धात्मकं = लब्धचैतन्यं, उपसंहरति - तस्मात्तदिति । सर्वश्चासावनुभवश्चेत्यात्मा सर्वानुभूरिति श्रुतेस्तस्य विषयो भास्यइति प्रधानकार्यत्वेन स्वतो जडत्वादिति भावः, असङ्गो ह्ययं पुरूष इति श्रुतेरसङ्गे पुंसि बुद्धिकृतोपकाराभावात् कथं परार्थतेति चेत्? समाधत्ते - स्वतन्त्रमपीति । वस्तुतोऽनुपकार्येऽपि स्वतोजडस्य स्वार्थाभावात् परार्थतेत्यर्थः, सम्बन्धस्य कार्याकार्यत्वे विकल्प्यानादित्वेन समाधातुंशङ्कते - नन्विति । कस्मिन्सति किं स्यादित्याह - स्वाभाविकत्व इति । ततः किं? तत्राह - तथा चेति । कार्यत्वपक्षमादत्ते - नैमित्तिकत्वइति । क्लेशदिनिमित्तत्वे त्वाह - परस्परेति । सर्गादाविति । सर्गः सृष्टिः, तस्य स्वीकारे कृतोऽनादितेत्यर्थः, अनुत्पादः कारणाभावादिति भावः, सम्मतिमाह - यथोक्तमति । कर्तृकर्माधीनत्वात् क्रियायाः तदभावे कथं क्रियेति, हेयहेतुः संसारस्य हेयत्वे स एव कारणं संयोगः, अद्भिज्जभेदो मण्डूकादिः, अपवर्गे विज्ञानहेतुके द्वयोरपि पुमर्थयोर्नाशे केवली पुमान् “विमुक्तश्च विमुच्यत” इति श्रुतेः सवतो विमुक्तोऽप्यविद्यावशादमुक्त इवेत्यर्थः, आत्यन्तिक इति । शरीरं षडिन्द्रयाणि षड् विषया षड् बुद्धयः सुखदुःखे इत्युद्द्योतकरोक्तैकविंशादिदुःखस्य प्रहाणिरिति भावः, तत्र शरीरं दुःखायतनत्वात् दुःखम्, इन्द्रियादीनि त्वष्टादश दुःखसाधनत्वात् दुःखं, सुखं दुःखानुषङ्गात्, दुःखञ्च स्वरूपत इति, अत एवोक्तं सर्वं दुःखं विवेकिन इति, अहं दुःखीत्यनुभवमादाय पृच्छति - कस्मादिति । उत्तरमाह - तपीति ।

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारते –

तिस्मृतेः का गतिरिति शङ्कते - तत् किमिति । गुणातीतः स उच्यत इति स्मृतिमाश्रित्य समाधत्ते - दर्शतविषयत्वादिति । तद्गतं तापमनुसन्धत्ते ध्यायतीव लेलायतीवेति श्रुतेः; वुद्धौ ध्यायन्त्यामात्मा ध्यायतीव बुद्धौ लेलायन्त्यां चेष्टमानायामात्मा चेष्टते भजत इत्यर्थः, तथा च शाङ्करं पुत्रे सकलेऽहमेव सकल इत्याद्यशेषस्वप्रचारसाक्षिण्यारोपयतीत्यनतं भाष्यम् ॥ १७ ॥ दृश्यस्वरूपमुच्यते – प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ १८ ॥ प्रकाशशीलं सत्त्वम्। क्रियाशीलं रजः। स्थितिशीलं तम इति। एते गुणाः परस्परोपरक्तप्रविभागाःपरिणामिनः संयोगवियोगधर्माण इतरेतरोपाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वेऽप्यसम्भिन्नशक्तिप्रविभागास्तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः प्रधानवेलायाम् उपर्दशितसन्निधाना गुणत्वेऽपि च व्यापारमात्रेण प्रधानान्तर्णीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः सन्निधिमात्रोपकारिणोऽयस्कान्तमणिकल्पाः प्रत्ययमन्तरेणैकतमस्य वृत्तिमनु वर्तमानाः प्रधानशब्दवाच्या भवन्ति। एतद्दृश्यमित्युच्यते। टीका तत्त्व-वैशारदी

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् । व्याचष्टे – प्रकाशेति । सत्त्वस्य हि भागः प्रकाशस्तामसेन भागेन दैन्येन वा राजसेन वा दुःखेनानुरज्यते । एवं राजसादिष्वपि द्रष्टव्यम् । तदिदमुक्तम् – परस्परोपरक्त प्रविभागा इति । पुरुषेण सह संयोगवियोगधर्माणः । यथाऽऽम्नायते –

अजामेकां लोहितशुक्लकृष्णां बह्वी प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ इति ।

इतरेतरोपाश्रयेणोपार्जिता मूर्तिः पृथिव्यादिरूपा यैस्ते तथोक्ताः । स्यादेतत्सत्त्वेन शान्तप्रत्यये जनयितव्ये रजस्तमसोरपि सत्त्वाङ्गत्वेन तत्र हेतुभावादस्ति सामर्थ्यमिति यदाऽपि च रजस्तमसोरङ्गित्वं तदाऽपि शान्त एव प्रत्यय उदीयेत न घोरो मूढो वा सत्त्वप्राधान्य इवेत्यत आह - परस्पराङ्गाङ्गित्वेऽप्यसम्भिन्नशक्तिप्रविभागाः । भवतु शान्ते प्रत्यये जनयितव्ये रजस्तमसोरङ्गभावस्तथाऽपि नैषां शक्तयः सङ्कीर्यन्ते कार्यासङ्करोन्नेयो हि शक्तीनामसङ्करः । असङ्कीर्णेन च समुदाचरता रूपेण शान्तघोरमूढरूपाणि कार्याणि दृश्यन्त इति सिद्धं शक्तीनामसम्भेद इति । स्यादेतत् । असम्भेदश्चेच्छक्तीनां न सम्भूयकारित्वं गुणानाम् । न जातु भिन्नशक्तीनां सम्भूयकारित्वं दृष्टम् । न हि तन्तुमृत्पिण्डवीरणादीनि घटादीन्सम्भूय कुर्वत इत्यत आह – तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः । यद्यपि तुल्यजातीय उपादानशक्तिर्नान्यत्र सहकारिशक्तिस्त्वतुल्यजातीये । पटे तु जनयितव्ये न वीरणानामस्ति सहकारिशक्तिरपीति न तैस्तन्तूनां सम्भूयकारितेति भावः । तुल्यजातीयातुल्यजातीयेषु शक्येषु ये शक्तिभेदास्ता ननु पतितुं शीलं येषां ते तथोक्ताः । प्रधानवेलायामिति । दिव्यशरीरे जनयितव्ये सत्त्वगुणः प्रधानम् । अङ्गे रजस्तमसी । एवं मनुष्यशरीरे जनयितव्ये रजः प्रधानमङ्गे सत्त्वतमसी । एवं तिर्यक्शरीरे जनयितव्ये तमः प्रधानमङ्गे सत्त्वरजसी । तेनैते गुणाः प्रधानत्ववेलायामुपदर्शितसन्निधानाः कार्योपजननं प्रत्युद्भूतवृत्तय इत्यर्थः । प्रधानशब्दश्च भावप्रधानः । यथा द्व्येकयोर्द्विवचनैकवचने इत्यत्र द्वित्वैकत्वयोरिति । अन्यथा द्व्येकेष्विति स्यात् । ननु तदा प्रधानमुद्भूततया शक्यमस्तीति वक्तुमनुद्भूतानां तु तदङ्गानां सद्भावे किं प्रमाणमित्यत आह – गुणत्वेऽपि चेति । यद्यपि नोद्भूतास्तथाऽपि गुणानामविवेकित्वात्सम्भूयकारित्वाच्च व्यापारमात्रेण सहकारितया प्रधानेऽन्तर्णीतं सदनुमितमस्तित्वं येषां ते तथोक्ताः । ननु सन्तु गुणाः सम्भूयकारिणः समर्थाः कस्मात्पुनः कुर्वन्ति न हि समर्थमित्येव कार्यं जनयति । मा भूदस्य कार्योपजननं प्रति विराम इत्यत आह – पुरुषार्थकर्तव्यतयेति । ततो निर्वर्तितनिखिलपुरुषार्थानां गुणानामुपरमः कार्यानारम्भणमित्युक्तं भवति । ननु पुरुषस्यानुपकुर्वतः कथं पुरुषार्थेन प्रयुज्यत इत्यत आह – सन्निधिमात्रेति । ननु धर्माधर्मवृक्षणमेव निमित्तं प्रयोजकं गुणानां तत्किमुच्यते पुरुषार्थप्रयुक्ता इत्यत आह – प्रत्ययमन्तरेणेति । एकतमस्य सत्त्वस्य रजस्तमसो वा प्रधानस्य स्वकार्ये प्रवृत्तस्य वृत्तिमितरे प्रत्ययं निमित्तं धर्मादिकं विनैवानुवर्तमानाः । यथा च वक्ष्यति – “निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्” इति । एते गुणाः प्रधानशब्दवाच्या भवन्तीति सम्बन्धः । प्रधीयत आधीयते विश्वं कार्यमेभिरिति व्युत्पत्त्यैतद्दृश्यमुच्यते । तदेतद्भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते। तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति। तत्तु नाप्रयोजनमपि तु प्रयोजनमुररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तद्दृश्यं पुरुषस्येति। तत्रेष्टानिष्टगुणस्वरूपावधारणमविभागापन्नं भोगो भोक्तुः स्वरूपावधारणमपवर्ग इति। द्वयोरतिरिक्तमन्यद्दर्शनं नास्ति। तथा चोक्तम् – अयं तु खलु त्रिषु गुणेषु कर्तृष्वकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे तत्क्रियासाक्षिण्युपनीयमानान्सर्वभावानुपपन्नाननुपश्यन्नदर्शनमन्यच्छङ्कत इति। टीका तत्त्व-वैशारदी

तदेवं गुणानां शीलमभिधाय तस्य कार्यमाह – तदेतदिति । सत्कार्यवादसिद्धौ यद्यदात्मकं तत्तेन रूपेण परिणमत इति भूतेन्द्रियात्मकत्वं दीपयति – भूतभावेनेत्यादिना । भोगापवर्गार्थमितिसूत्रावयवमवतारयति – तत्तु नाप्रयोजनमपि तु प्रयोजनमुररीकृत्य प्रवर्तते । भोगं विवृणोति – तत्रेति । सुखदुःखे हि त्रिगुणाया बुद्धेः स्वरूपे तस्यास्तथात्वेन परिणामात्तथाऽपि गुणगततयाऽवधारणे न भोग इत्यत आह – अविभागापन्नमिति । एतच्चासकृद्विवेचितम् । अपवर्गं विवृणोति – भोक्तुरिति । अपवृज्यतेऽनेनेत्यपवर्गः । प्रयोजनान्तरस्याभावमाह – द्वयोरिति । तथा चोक्तं पञ्चशिखेन – अयं तु खल्विति । तावेतौ भोगापवर्गौ बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति। यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तत्फलस्य भोक्तेति, एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुषे व्यपदिश्येते, स हि तत्फलस्य भोक्तेति। बुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्धस्तदर्थावसायो मोक्ष इति। एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः। स हि तत्फलस्य भोक्तेति ॥ १८ ॥ टीका तत्त्व-वैशारदी

ननु वस्तुतो भोगापवर्गौ बुद्धिकृतौ बुद्धिवर्तिनौ च कथं तदकारणे तदनधिकरणे च पुरुषे व्यपदिश्येते इत्यत आह – तावेताविति । भोक्तृत्वं च पुरुषस्योपपादितमग्रे च वक्ष्यते । परमार्थतस्तु – बुद्धेरेव पुरुषार्थापरिसमाप्तिरिति । एतेन भोगापवर्गयोः पुरुषसम्बन्धित्वकथनमार्गेण ग्रहणादयोऽपि पुरुषसम्बन्धिनो वेदितव्याः । तत्र स्वरूपमात्रेणार्थज्ञानं ग्रहणं, तत्र स्मृतिर्धारण, तद्गतानां विशेषाणामूहनमूहः, समारोपितानां च युक्त्याऽपनयोऽपोहः । ताभ्यामेवोहापोहाभ्यां तदवधारणं तत्त्वज्ञानम् । तत्त्वावधारणपूर्वं हानोपादानज्ञानमभिनिवेशः ॥ १८ ॥ पातञ्जल-रहस्यम्

अजामेकामितिश्रुतिमाश्रित्य सूत्रं पठति - “प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यमि”ति, प्रकाशक्रियास्थितिशीलं त्रिगुणात्मकं प्रधानं भूतानि पृर्थिव्यादिपञ्चकन्तन्मात्रपञ्चकम् इन्द्रियाणि त्रयोदश तदात्मकं तदुपादानं दृश्यमिति सूत्रार्थः, तत् किमर्थं पुंसो भोगापवर्गार्थं भोगकाले संयोगो हेतुः मोक्षे च वियोगः, एवन्धर्माणो गुणा इत्यर्थः, अन्ये त्वेतद्विदुरमृतास्तेये भवन्तीतरेदुःखमेवापयन्तीति पुंसो बहुत्वश्रुतिरन्योन्यात्मजातय इत्यर्थः, समर्थस्य क्षेपायोगादिति न्यायेन शङ्कते - स्यादेतदिति । सति सामर्थ्येऽपि —

पुरुषार्थ एव हेतुर्न केन चित् कार्यते करणमि —

त्युक्तेः पुंसा पुमर्थविघातापत्तेः, न वरोपघाताय कन्योद्वाह्येतिन्यायादिति भावः, असम्भिन्नशक्तिप्रविभागाः क्षितिसलिलादयः तत्सहकारिणो न तु त्रिदण्डवत् स्वातन्त्र्यं, - नन्वेवं सुन्दोपसुन्दवद् नश्येद् दूरे कार्यमित्याह - तथाऽपीति । धानुष्ककार्यात्मकादिवदसम्भेदोऽसङ्करः इत्यर्थः, तथा चेत्सम्भूयकारिताविरोध इति शङ्कते - स्यादेतदिति । न हि दृष्टेऽनुपपन्नमित्याह -यद्यपीति । यद्यपि ते गुणाः प्रकाशप्रवृत्तिस्थितिशीलतयाऽन्योन्यविरुद्धशक्तयोऽपि प्रधानान्तर्भावेणाविरुद्धशक्तयोऽनुमीयन्त इत्याह - प्रधानबेलायामित्यादि-उच्यत-इत्यन्तेन, प्रत्ययमन्तरेणेति । सर्वप्रत्ययनिमित्तत्वाददृष्टस्य, प्रत्ययोऽदृष्टमिति । भूतभावेनेत्यादि व्याख्यातं मया पूर्वमिति, भोगस्तु सुखसाक्षात्कार इत्याह – तत्रेष्टेति — सर्वं दुःखंविवेकिनः इत्युक्तिमाश्रित्याह - अविभागापन्नमिति भाष्यार्थः,

पुरुषार्थ एव हेतुर्न केन चित् कार्यते करणमि,

त्युक्तिं स्मारयन्नाह - ततो निर्वर्तितेति । न तूपकार्यं विकृत्यैवोपकारकः कृतकृत्यो बीजमिव क्षितिसलिलादि, अविकार्योऽयमुच्यत इति स्मृतेः कथं पुरुषार्थेन प्रमुच्यत इति तत्राह -सन्निधिमात्रेणेति । वस्तुतस्तु चुम्बकसन्निधाने लोहस्यैव भ्रमणं दृष्टं तदत्र विपरीतमतो राजवदेवदृष्टान्तः साधुरिति भावः, उपपादितं परार्थत्वात् प्रधानादेरित्यत्र ॥ १८ ॥ दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते – विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९ ॥ तत्राऽऽकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः। तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि, एकादशं मनः सर्वार्थम्, इत्येतान्यस्मितालक्षणस्याविशेषस्य विशेषाः। गुणानामेष षोडशको विशेषपरिणामः। टीका तत्त्व-वैशारदी

दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते – विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि । येषामविशेषाणां शान्तघोरमूढलक्षणविशेषरहितानां ये विशेषा विकारा एव न तु तत्त्वान्तरप्रकृतयस्तेषां तानाह – तत्राऽऽकाशेति । उत्पादक्रमानुरूप एवोपन्यासक्रमः । अस्मितालक्षणस्याविशेषस्य सत्त्वप्रधानस्य बुद्धीन्द्रियाणि विशेषाः । राजसस्य कर्मेन्द्रियाणि । मनस्तूभयात्भकमुभयप्रधानस्येति मन्तव्यम् । अत्र च पञ्चतन्मात्राणि बुद्धिकारणकान्यविशेषत्वादस्मितावदिति । विकारहेतुत्वं चाविशेषत्वं तन्मात्रेषु चास्मितायां चाविशिष्टम् । सङ्कलय्य विशेषान्परिगणयति – गुणानामेष इति । षडविशेषाः। तद्यथा – शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति एकद्वित्रिचतुःपञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः, षष्ठश्चाविशेषोऽस्मितामात्र इति। एते सत्तामात्रस्याऽऽत्मनो महतः षडविशेषपरिणामाः। यत्तत्परमविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वं तस्मिन्नेते सत्तामात्रे महत्यात्मन्यवस्थाय विवृद्धिकाष्ठामनुभवन्ति। टीका तत्त्व-वैशारदी

अविशेषानपि गणयति – षडिति । सङ्कलय्योदाहरति – तद्यथेति । विशिष्टं ह्यपरं परेणेति गन्ध आत्मना पञ्चलक्षणो रस आत्मना चतुर्लक्षणो रूपमात्मना त्रिलक्षणं स्पर्श आत्मना द्विलक्षणः शब्दः शब्दलक्षण एवेति । कस्य पुनरमी षडविशेषाः कार्यमित्यत आह – एते सत्तामात्रस्याऽऽत्मन इति । पुरुषार्थक्रियाक्षमं सत्तस्य भावः सत्ता तन्मात्रं तन्महत्तत्त्वम् । यावती काचित्पुरुषार्थक्रिया शब्दादिभोगलक्षणा सत्त्वपुरुषान्यताख्यातिलक्षणा वाऽस्ति सा सर्वा महति बुद्धौ समाप्यत इत्यर्थः । आत्मन इति स्वरूपोपदर्शनेन तुच्छत्वं निषेधति । प्रकृतेरयमाद्यः परिणामो वास्तवो न तु तद्विवर्त इति यावत् । यत्तत्परं विप्रकृष्टकालमविशेषेभ्यस्तदपेक्षया सन्निकृष्टकालेभ्यो लिङ्गमात्रं महत्तत्त्वं तस्मिन्नेते षडविशेषाः सत्तामात्रे महत्यात्मन्यवस्थाय सत्कार्यवादसिद्धेर्विवृद्धिकाष्ठामनुभवन्ति प्राप्नुवन्ति । ये पुनरविशेषाणां विशेषपरिणामास्तेषां च धर्मलक्षणावस्थाः परिणामा इति । सेयमेषां विवृद्धिकाष्ठा परिणामकाष्ठेति । प्रतिसंसृज्यमानाश्च तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय यत्तन्निःसत्तासत्तं निःसदसन्निरसदव्यक्तमलिङ्गं प्रधानं तत्प्रतियन्ति। एष तेषां लिङ्गमात्रः परिणामो निःसत्तासत्तं चालिङ्गपरिणाम इति। टीका तत्त्व-वैशारदी

तदेवमुत्पत्तिक्रममभिधाय प्रलयक्रममाह - प्रतिसंसृज्यमानाः प्रलीयमानाः स्वात्मनि लीनविशेषा अविशेषास्तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय विलीय सहैव महता तेऽविशेषा अव्यक्तमन्यत्र लयं न गच्छतीत्यलिङ्गं प्रतियन्ति । तस्यैव विशेषणं निःसत्तासत्तं सत्ता पुरुषार्थक्रियाक्षमत्वम् असत्ता तुच्छता निष्क्रान्तं सत्ताया असत्तायाश्च यत्तत्तथोक्तम् । एतदुक्तं भवति - सत्त्वरजस्तमसां साम्यावस्था न क्वचित्पुरुषार्थ उपयुज्यत इति न सती नापि गगनकमलिनीव तुच्छस्वभावा तेन नासत्यपीति । स्यादेतत् । अव्यक्तावस्थायामप्यस्ति महदादि तदात्मना, न हि सतो विनाशो विनाशे वा न पुनरुत्पादो न ह्यसत उत्पाद इति महदादिसद्भावात्पुरुषार्थक्रिया प्रवर्तेत तत्कथं निःसत्त्वमव्यक्तमित्यत आह - निःसदसदिति । निष्क्रान्तं कारणं सतः कार्यात् । यद्यपि कारणावस्थायां सदेव शक्त्यात्मना कार्यं तथाऽपि स्वोचितामर्थक्रियामकुर्वदसदित्युक्तम् । न चैतत्कारणं शशविषाणायमानकार्यमित्याह - निरसदिति । निष्क्रान्तमसतस्तुच्छरूपात्कार्यात्तथा सति हि व्योमारविन्दमिवास्मान्न कार्यमुत्पद्येतेति भावः । प्रतिसर्गमुक्तमुपसंहरति - एष तेषामिति । एष इत्यनन्तरोक्तात्पूर्वस्य परामर्शः । अलिङ्गावस्थायां न पुरुषार्थो हेतुर्नालिङ्गावस्थायामादौ पुरुषार्थता कारणं भवतीति। न तस्याः पुरुषार्थता कारणं भवतीति। नासौ पुरुषार्थकृतेति नित्याऽऽख्यायते। त्रयाणां त्ववस्थाविशेषाणामादौ पुरुषार्थता कारणं भवति। स चार्थो हेतुर्निमित्तं कारणं भवतीत्यनित्याऽऽख्यायते। गुणास्तु सर्वधर्मानुपातिनो न प्रत्यस्तमयन्ते नोपजायन्ते। व्यक्तिभिरेवातीतानागतव्ययागमवतीभिर्गुणान्वयिनीभिरुपजननापायधर्मका इव प्रत्यवभासन्ते। यथा देवदत्तो दरिद्राति। कस्मात्। यतोऽस्य म्रियन्ते गाव इति, गवामेव मरणात्तस्य दरिद्राणं न स्वरूपहानादिति समः समाधिः। टीका तत्त्व-वैशारदी

लिङ्गमात्राद्यवस्थाः पुरुषार्थकृतत्वादनित्या अलिङ्गावस्था तु पुरुषार्थेनाकृतत्वान्नित्येत्यत्र हेतुमाह - अलिङ्गावस्थायामिति । कस्मात्पुनर्न पुरुषार्थो हेतुरित्यत आह - नालिङ्गावस्थायामिति । भवतिना विषयेण विषयिज्ञानमुपलक्षयति । एतदुक्तं भवति - एवं हि पुरुषार्थता कारणमलिङ्गावस्थायां ज्ञायेत । यद्यलिङ्गावस्था शब्दाद्युपभोगं वा सत्त्वपुरुषान्यताख्यातिं वा पुरुषार्थं निर्वर्तयेत्तन्निर्वर्तने हि न साम्यावस्था स्यात् । तस्मात्पुरुषार्थकारणत्वमस्यां न ज्ञायत इति नास्याः पुरुषार्थता हेतुः । उपसंहरति - नासाविति । इतिस्तस्मादर्थे । अनित्यामवस्थामाह - त्रयाणां लिङ्गमात्राविशेषविशेषाणामिति । पर्वस्वरूपं दर्शयित्वा गुणस्वरूपमाह – गुणास्त्विति । निदर्शनमाह - यथा देवदत्त इति । यत्रात्यन्तभिन्नानां गवामुपचयापचयौ देवदत्तोपचयापचयहेतू तत्र कैव कथा गुणेभ्यो भिन्नाभिन्नानां व्यक्तीनामुपजनापाययोरित्यर्थः । लिङ्गमात्रमलिङ्गस्य प्रत्यासन्नं, तत्र तत्संसृष्टं विविच्यते क्रमानतिवृत्तेः। तथा षडविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते परिणामक्रमनियमात्। तथा तेष्वविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते। तथा चोक्तं पुरस्तात्। न विशेषेभ्यः परं तत्त्वान्तरमस्तीति विशेषाणां नास्ति तत्त्वान्तरपरिणामः। तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते ॥ १९ ॥ टीका तत्त्व-वैशारदी

ननु सर्गक्रमः किमनियतो नेत्याह - लिङ्गमात्रमिति । न खलु न्यग्रोधधाना अह्रायैव न्यग्रोधशिखिनं सान्द्रशाद्वलदलजटिलशाखाकाण्डनिपीलमार्तण्डचण्डातपमण्डलमारभन्ते किन्तु क्षितिसलिलतेजसम्पर्कात् परम्परयोपजायमानाङ्कुरपत्रकाण्डनालादिक्रमेण । एवमिहापि युक्त्यागमसिद्धः क्रम आस्थेय इति । कथं भतेन्द्रियाण्यविशेषसंसृष्टानीत्यत आह - तथा चोक्तं पुरस्तादिदमेव सूत्र प्रथमं व्याचक्षाणैः । अथ विशेषाणां कस्मान्न तत्त्वान्तरपरिणाम उक्त इत्यत – न विशेषेभ्य इति । तत्किमिदानीमपरिणामिन एव विशेषास्तथा च नित्याः प्रसज्येरन्नित्यत आह - तेषां त्विति ॥ १९ ॥ पातञ्जल-रहस्यम्

“विशेषाविशेषलिङ्गमात्रालिङ्गानिगुणपर्वाणि”, अविशेषाणां पञ्चतन्मात्राणां विशेषा भूम्यादयः, तथा मेनाऽन्तान्येकादर्शेन्द्रियाण्यविशेषस्याहङ्कारस्य विशेषाः, अलिङ्गमात्रस्य महदहङ्कारौ विशेषौ, प्रकतौ सर्वेषां लयादिलिङ्गं प्रधानमिति चतुविंशतिपर्वा गुणावस्था इति सूत्रार्थः, साङ्ख्यमते सर्वाणीन्द्रियाणि सात्विकानीति प्रतितन्त्रसिद्धान्तेनतन्मतं व्यवच्छिन्नमत आह - अस्मितालक्षणस्येति तत्र तामसाहङ्कारात्तन्मात्राण्यत्र महत्तत्वोपादानानीत्याह - बुद्धीति । युक्तिमप्याह - अविशेषत्वादिति । हेत्वन्तरमाह - विकारेति । विकारः षोडशको गणः तत्र यथा पञ्चभ्यः पञ्चभूतानीति तन्मात्राणि महाभूतानां कारणं तथाऽहङ्कारोऽपीन्द्रियाणाम् इत्याह - नीति । अहङ्कारोऽप्यविशेष इत्याह - षष्ठश्चेति । युक्तिमप्याह – एत इति । बुद्धिसत्त्वं पुरुषश्चेतयते साहङ्कारा बुद्धिः पुरुषमुपभोजयति, सैव च विशिनाष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्ममिति ।

साङ्ख्योक्तिमाश्रित्याह - यावतीति । धर्मलक्षणावर्थापरिणामित्वे विशेषाणां तत्त्वान्तराकारपरिणामो नास्त्येवेति कृत्वोक्तं षोडशकस्तु विकार एवेति स्मारयन्नाह - तथा चोक्तं पुरेति । अलिङ्गमिति यौगिकमित्याह - अव्यक्तमिति । शङ्कते - स्यादेतदिति । समाधत्ते - निरिति । योग्यतासत्त्वेऽपि वह्नेरिवास्तु दाहकत्वं न भोगहेतुः प्रलयकालप्रतिबन्धादित्याह -न चैतदिति । यदौपाधिकं तदनित्यं दृष्टं यथा प्रतिबिम्बादीत्याह - लिङ्गमात्रेति । अलिङ्गावस्था त्वनौपाधिकत्वाद्विम्बवन्नित्येत्याह - अलिङ्गेति । तर्हि माऽस्त्वलिङ्गावस्था, अकिञ्चित्करत्वात्तस्या इति चेन्न - कार्योन्नेया सेत्याह - भवतिनेति । स्वरूपे सति इति वर्तत एवान्यथा कदाऽपि पुमर्थादि न स्यान्नासतो भाव इत्युक्तेः का तर्ह्यनित्यावस्थेति चेदाविर्भावतिरोभावाख्येत्याह - त्रयाणामिति । एतान्येव पर्वाणि शक्तीनां महत्वादीनामाविर्भावतिरोभावावेवोपजननापायशब्दार्थौ, अचेतनं जलादि प्रवर्त्तमानं क्रमापेक्षां न करोतीति दृष्टं, तद्वदत्रापि स्यादिति चेत् न - प्रकृतेर्महानू महतोऽहङ्कारः—

“भूमिरापोनलो वायुः खम्मनो बुद्धिरेव च”—

इत्यादिप्रमाणकत्वात् इत्याह - न खल्वित्यादि - युक्त्यागमसिद्धत्वादित्यन्तेन, सान्द्रोनिविडशाद्बलः हरिद्वर्णपत्रः जटिलः शिफायुक्तः निपीतः स्वच्छायया मार्तण्डः सूर्यः तस्य चण्डाः प्रचण्डाः तीक्ष्णा ये आतपचया समूहा निपीना इव येन वटशाखिना तमारभते जनयति अन्हाय झटित्येव, न किन्तु क्षित्यादिभिरुपकृता न्यग्रोधधाना, वटबीजैकदेशदार्ष्टान्तिकमाह - एवमिहेति । कथमिति प्रश्ने, इदमेव सूत्रं विशेषादि - पवाँणीत्यन्तं, ननु परिणामत्वाविशेषात् किमिति तत्त्वान्तरं नारभन्ते भूम्यादयः तनुविस्तार इत्यस्य रूपं तत्त्वं जगन्मण्डलव्यापित्वरूपं, ते त्वष्टौ गन्धतन्मात्रान्ता एवारम्भकाः षोडशकस्तु गणस्तत्त्वान्तरत्वेऽपि नारम्भको विकृतिरूपत्वादेवं पुरुषस्तु न प्रकृतिरपरिणामित्वादसम्भूयकारित्वाच्च, तर्हि विशेषाणामनारम्भकत्वे गोघटादीर्ना जन्यजनकताऽनापत्तिरिति चेत्? तत्राह - तेषां त्विति । धर्मो घटादिः, लक्षणपरिणामोऽतीतवर्तमानभविष्यत्ता, अवस्था नूतननूतनतमत्वादीत्यर्थः ॥ १९ ॥ व्याख्यातं दृश्यमथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते – द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २० ॥ दृशिमात्र इति दृक्शक्तिरेव विशेषणापरामृष्टेत्यर्थः। स पुरुषो बुद्धेः प्रतिसंवेदी। स बुद्धेर्न सरूपो नात्यन्तं विरूप इति। न तावत्सरूपः। कस्मात्। ज्ञाताज्ञातविषयत्वात्परिणामिनी हि बुद्धिः। तस्याश्च विषयो गवादिर्घटादिर्वा ज्ञातश्चाज्ञातश्चेति परिणामित्वं दर्शयति। सदाज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति। कस्मात्। नहि बुद्धिश्च नाम पुरुषविषयश्च स्यादगृहीता गृहीता चेति सिद्धं पुरुषस्य सदाज्ञातविषयत्वं ततश्चापरिणामित्वमिति। टीका तत्त्व-वैशारदी

व्याख्यातं दृश्यं द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते - द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः । व्याचष्टे - दृशिमात्र इति । विशेषणानि धर्मास्तैरपरामृष्टा । तदनेन मात्रग्रहणस्य तात्पर्यं दर्शितम् । स्यादेतत् । यदि सर्वविशेषणरहिता दृक्शक्तिर्न तर्हि शब्दादयो दृश्येरन् । नहि दृशिनाऽसंस्पृष्टं दृश्यं भवतीत्यत आह - स पुरुष इति । बुद्धिदर्पणे पुरुषप्रतिबिम्बसङ्क्रान्तिरेव बुद्धिप्रतिसंवेदित्वं पुंसः । तथा च दृशिच्छायापन्नया बुद्ध्या संसृष्टाः शब्दादयो भवन्ति दृश्या इत्यर्थः । स्यादेतत् । पारमार्थिकमेव बुद्धिचैतन्ययोः कस्मादैक्यं नोपेयते किमनया तच्छायापत्त्येत्यत आह - बुद्धेर्न सरूप इति । तथाऽसरूपस्य तच्छायापत्तिरपि दुर्घटेत्यत आह - नात्यन्तं विरूप इति । तत्र सारूप्यं निषेधति - तावदिति । हेतुं पृच्छति - कस्मात् । सहेतुकं वैरूप्ये हेतुमाह - ज्ञातेति । परिणामिनी बुद्धिर्यस्मात्तस्माद्विरूपा । यदा खल्वियं शब्दाद्याकारा भवति तदा ज्ञातोऽस्याः शब्दादिलक्षणो भवति विषयस्तदनाकारत्वे त्वज्ञातस्तथा च कदाचिदेव तदाकारतां दधती परिणामिनीति । प्रयोगश्च भवति - बुद्धिः परिणामिनी ज्ञाताज्ञातविषयत्वाच्छ्रोत्रादिवदिति । तद्वैधर्म्यं पुरुषस्य तद्विपरीताद्धेतोः सिध्यतीत्याह - सदेति । स्यादेतत् । सदाज्ञातविषयश्चेत्पुरुषो न तर्हि केवली स्यादित्याशयवान्पृच्छति - कस्मादिति । उत्तरम् – न हि बुद्धिश्च नामेति । बुद्ध्यग्रहणयोरस्ति सहसम्भवो निरोधावस्थायामत उक्तं विरोधसूचनाय पुरुषविषयश्चेति । तेनाऽऽद्यश्चकारो बुद्धिं विषयत्वेन समुच्चिनोति । परिशिष्टौ तु विरोधद्योतकौ चकाराविति । प्रयोगस्तु पुरुषोऽपरिणामी सदासम्प्रज्ञातव्युत्थानावस्ययोर्ज्ञातविषयत्वात् । यस्तु परिणामी नासौ सदाज्ञातविषयो यथा श्रोत्रादिरिति व्यतिरेकी हेतुः । किं च परार्था बुद्धिः संहत्यकारित्वात्, स्वार्थः पुरुष इति। तथा सर्वार्थाध्यवसायकत्वात्त्रिगुणा बुद्धिस्त्रिगुणत्वादचेतनेति। गुणानां तूपद्रष्टा पुरुष इत्यतो न सरूपः। टीका तत्त्व-वैशारदी

अपरमपि वैधर्म्यमाह - किं च परार्थेति । बुद्धिः खलु क्लेशकर्मवासनादिभिर्विषयेन्द्रियादिभिश्च संहृत्य पुरुषार्थमभिनिर्वर्तयन्ती परार्था । प्रयोगश्च परार्था बुद्धिः संहत्यकारित्वाच्छयनासनाभ्यङ्गवदिति । पुरुषस्तु न तथेत्याह - स्वार्थः पुरुष इति । सर्वं पुरुषाय कल्पते । पुरुषस्तु न कस्मैचिदित्यर्थः । वैधर्म्यान्तरमाह - सर्वेति । सर्वानर्थाञ्शान्तघोरमूढांस्तदाकारपरिणता बुद्धिरध्यवस्यति सत्त्वरजस्तमसां चैते परिणामा इति सिद्धा त्रिगुणा बुद्धिरिति । न चैवं पुरुष इत्याह - गुणानामिति । तत्प्रतिबिम्बितः पश्यति न तु तदाकारपरिणत इत्यर्थः । उपसंहरति - अत इति । अस्तु तर्हि विरूप इति। नात्यन्तं विरूपः। कस्मात्, शुद्धोऽप्यसौ प्रत्ययानुपश्यो यतः। प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन्नतदात्माऽपि तदात्मक इव प्रत्यवभासते। तथा चोक्तम् - अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङ्क्रमा च परिणामिन्यर्थे प्रतिसङ्क्रान्तेव तद्वृत्तिमनुपतति, तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायते ॥ २० ॥ टीका तत्त्व-वैशारदी

अस्तु तर्हि विरूप इति - नात्यन्तं विरूपः कस्माद्यतः शुद्धोऽपि प्रत्ययानुपश्यः । यथा चैतत्तथोक्तं “वृत्तिसारूप्यमितरत्रः” इत्यत्र । तथा चोक्तं पञ्चशिखेनापरिणामिनी हि भोक्तृशक्तिरात्मा । अत एव बुद्धावप्रतिसङ्क्रमा च परिणामिनि बुद्धिरूपेऽर्थे सङ्क्रान्तेव तद्वृत्तिं बुद्धिवृत्तिमनु पतति । नन्वसङ्क्रान्ता कथं सङ्क्रान्तेव कथं वा वृत्तिं विनाऽनुपततीत्यत आह - तस्याश्चेति । प्राप्तश्चैतन्योपग्रह उपरागो येन रूपेण तत्तथा प्राप्तचैतन्योपग्रहं रूपं यस्याः सा तथोक्ता । एतदुक्तं भवति - यथा निर्मले जलेऽसङ्क्रान्तोऽपि चन्द्रमाः सङ्क्रान्तप्रतिबिम्बतया सङ्क्रान्त इव, एवमत्राप्य - सङ्क्रान्ताऽपि सङ्क्रान्तप्रतिबिम्बा चितिशक्तिः सङ्क्रान्तेव । तेन बुद्ध्यात्मत्वमापन्ना बुद्धिवृत्तिमनु पततीति । तदनेनानुपश्य इति व्याख्यातं तामनुकारेण पश्यतीत्यनुपश्य इति ॥ २० ॥ पातञ्जल-रहस्यम्

सङ्गतिमाह - व्याख्यातमिति । “द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्य” इति, दृशिमात्रः दृक्शक्तिः शक्तिशक्तिमतोरभेदात् दृगेवेत्यर्थः, शुद्धोऽपि कुतः यतः प्रत्ययानुपश्यः प्रत्ययं प्रतीयत इति बुद्धिस्थमर्थं शब्दादिकमनुपश्यतीति बुद्धिदर्पणे चितिच्छायाऽऽपत्त्या तद्गतधर्माद्यष्ठौ स्वात्मनि मन्यमानेव शुक्लेऽपि स्फटिके लौहित्यवदिति सूत्रार्थः, परबुद्धौ प्रतिबिम्बद्वारा विशतीव, नीरूपस्य प्रतिबिम्बायोगादत एव दुग्धक्षिप्तमरकतमणिर्यथा दुग्धं स्वच्छायं करोति तद्वदत एव बुद्धावेवात्मबुद्धिर्बाह्यानामिति भावः, बुद्ध्यात्मनोः सम्बन्धः सत्यः सम्बन्धत्वाद् दुग्धमरकतयोरिवेति शङ्कते - स्यादेतदिति । तत्र सावयवत्वमुपाधिरित्याह - स बुद्धेरिति । अपरिणामिनः पुंसः परिणामिनी बुद्धिः विरूपाऽपि स्फोटवत् शब्दा अर्थाकाराः, पुश्रवती जायेवेत्युच्यते, आत्मा वा इदमग्र आसीत् पुरुषविधः सोऽकामयत जाया मे स्यादथ प्रजायेयेतिश्रुतेः, तद्यथा एक एवात्भाऽविद्यावशात् स्वं पुत्रः जायेति त्रित्वं तद्वत् साङ्ख्यपुरुषोऽपि प्रत्ययानुपश्यइति, प्रयोगप्यनुमानमस्मिन्नर्थ इत्याह - बुद्धिरित्यादि, यस्तु परिणामी स कदा चित् परिणमते कदा चिन्नेति ज्ञाताज्ञातविषयो, यस्तवपरिणामः स सदाज्ञातविषय एव ततश्च न तस्योपरमः क्रियाया इति, ज्वलन्तीव प्रभा मणेरिति मोक्षधर्ममाश्रित्य तदा पुंसो विषयोपरमाख्यकैवल्यकत्वमिति शङ्कते - स्यादेतदिति । परिदीपयति द्रढयति, दुःखाभावोऽपि नाज्ञातः पुरुषार्थतयेष्यत इति न्यायेनाह - बुद्धिश्च नामेति । बुद्धिश्च भविष्यत्यज्ञाता चेति दुर्घटमित्यर्थः, निरोधावस्थायां प्रलयसमाध्योः सम्प्रज्ञातः सविकल्पकसमाधिव्युत्थानंसंसारावस्था तयोरिति शेषः, परार्थ इति न्यायेनाह - किञ्चेति । परार्थं घिवृणोति - बुद्धिरित्यादिना, सन्धातस्य परार्थत्वादिति न्यायं स्मारयति - प्रयोगश्चेत्यादिना, पुंसि तद्वैलक्षण्यमाह – पुरुषस्त्विति । इतोऽपि तयोर्वैलक्षण्यमित्याह – वैधर्म्येति - बुद्धेस्त्रैगुण्ये हेतुमाह – सर्वेत्यादि - बुद्धिरित्यन्तेन ,

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।

प्रमादमोहौ तमसा—

इति स्मृतेः, सर्वेऽनर्था बुद्धिधर्मास्तेषां विकारा इत्यर्थः, असङ्गो ह्ययं पुरुष निर्गुणश्चेति श्रुतेरात्मा न तथा इत्याह - न चैवमिति । कथं तर्हि बुद्धेः संवेदी पुरुष इति तत्राह - तदिति । निरवयवत्वसावयवत्वेन जडाजडयोः संयोगतादात्म्याभावादहं सुखीत्यादिभ्रम इत्याह - प्रत्ययानुपश्य इति । प्रत्ययं बौद्धमिति प्रत्येतव्यान् बुद्धिधर्मान् धर्मादीनित्यर्थः, केवलमुत्पद्यते ज्ञानमित्याह - तथा चोक्तमित्यादि - आख्यायत इत्यन्तेन ॥ २० ॥ तदर्थ एव दृश्यस्याऽऽत्मा ॥ २१ ॥ दृशिरूपस्य पुरुषस्य कर्मरूपतामापन्नं दृश्यमिति तदर्थ एव दृश्यस्याऽऽत्मा भवति। स्वरूपं भवतीत्यर्थः। स्वरूपं तु पररूपेण प्रतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति। स्वरूपहानादस्य नाशः प्राप्तो न तु विनश्यति ॥ २१ ॥ टीका तत्त्व-वैशारदी

द्रष्टृदृश्ययोः स्वरूपमुक्त्वा स्वस्वामिलक्षणसम्बन्धाङ्गं दृश्यस्य द्रष्ट्रर्थत्वमाह - तदर्थ एव दृश्यस्याऽऽत्मा । व्याचष्टे - दृशिरूपस्य पुरुषस्य भोक्तुः कर्मरूपतां भोग्यतामापन्नं दृश्यमिति तस्मात्तदर्थ एव द्रष्ट्रर्थ एव दृश्यस्याऽऽत्मा भवति न तु दृश्यार्थः । ननु नाऽऽत्माऽऽत्मार्थ इत्यत आह - स्वरूपं भवतीति । एतदुक्तं भवति - सुखदुःखात्मकं दृश्यं भोग्यम् । सुखदुःखे चानुकूलयितृप्रतिकूलयितृणी तत्त्वेन तदर्थे एव व्यवतिष्ठेते । विषया अपि हि शब्दादयस्तादात्म्यादेव चानुकूलयितारः प्रतिकूलयितारश्च । न चाऽऽप्मैवैषामनुकूलनीयः प्रतिकूलनीयश्च स्वात्मनि वृत्तिविरोधादतः पारिशेष्याच्चितिशक्तिरेवानुकूलनीया प्रतिकूलनीया च । तस्मात्तदर्थमेव दृश्यं न तु दृश्यार्थम् । अतश्च तदर्थ एव दृश्यस्याऽऽत्मा न दृश्यार्थो यत्स्वरूपमस्य यावत्पुरुषार्थमनुवर्तते । निर्वर्तिते च पुरुषार्थे निवर्तत इत्याह - स्वरूपमिति । स्वरूपं तु दृश्यस्य जडं पररूपेणाऽऽत्मरूपेण चैतन्येन प्रतिलब्धात्मकमनुभूतस्वरूपं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यते । भोगः सुखाद्याकारः शब्दाद्यनुभवोऽपवर्गः सत्त्वपुरुषान्यतानुभवस्तच्चैतदुभयमप्याजानतो जडाया बुद्धेः पुरुषच्छायापत्त्येति पुरुषस्यैव । तथा च पुरुषभोगापवर्गयोः कृतयोर्दृश्यस्य भोगापवर्गार्थता समाप्यत इति भोगापवर्गार्थतायां कृतायामित्युक्तम् । अत्रान्तरे चोदयति - स्वरूपहानादिति । परिहरति - न तु विनश्यतीति ॥ २१ ॥ पातञ्जल-रहस्यम्

तदर्थं एव दृश्यस्य बुद्ध्यादेरात्मा स्वरूपमुत्पत्त्यादि वा तदर्थः = द्रष्ट्रर्थ इति सूत्रार्थः, सङ्गतिमाह - द्रष्टृदृश्ययोरिति । ननु स्त्रीपुंसयोरन्योन्यार्थता दृष्टा तद्वत् किं न स्यात्तत्राह - नन्विति । तत्रोभयस्य चेतनतयाऽस्तु, अत्र तु बुद्ध्यादेरचेतनत्वान्न तथा परार्थता; स्वात्मनि क्रियाविरोधान्न स्वार्थताऽपीति भावः, एतदेव विवृणोति - एतदुक्तमित्यादिना, न वै सांशस्यांशानामात्मायत्ततेत्यर्थः, भूम्याद्यष्टस्वसम्भावितत्वादभावादप्रसक्तेर्यथा शब्दे व्योमैकगुणे; तथाऽत्राभावादसम्भवात् स्वात्मन्यप्रसक्तपुमर्थतैवेत्याह - पारिशेष्यादिति । तत्रैवान्वयव्यतिकारेवाह – यदिति - समाप्यत इत्यन्तेन, आजानतः = अनादितः ॥ २१ ॥ कस्मात् – कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २२ ॥ कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि नाशं प्राप्तमप्यनष्टं तदन्यपुरुषसाधारणत्वात्। कुशलं पुरुषं प्रति नाशं प्राप्तमप्यकुशलान्पुरुषान्प्रति न कृतार्थमिति तेषां दृशेः कर्मविषयतामापन्नं लभत एव पररूपेणाऽऽत्मरूपमिति। अतश्च दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यात इति। तथा चोक्तम् –र्धमिणामनादिसंयोगाद्धर्ममात्राणामप्यनादिः संयोग इति ॥ २२ ॥ टीका तत्त्व-वैशारदी

नन्वत्यन्तानुपलभ्यं कथं न विनश्यतीत्याशयवान्पृच्छति - कस्मादिति । सूत्रेणोत्तरमाह - कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् । कृतोऽर्थो यस्य पुरुषस्य स तथा । तं प्रति नष्टमप्यनष्टं तद्दृश्यं कुतः सर्वान्पुरुषान्कुशलानकुशलान्प्रति साधारणत्वात् । व्याचष्टे - कृतार्थमेकमिति । नाशोऽदर्शनम् । अनष्टं तु दृश्यमन्यपुरुषसाधारणत्वात् । तस्मद्दृश्यात्परस्याऽऽत्मनश्चैतन्यं रूपं तेन तदिह श्रुतिस्मृतीतिहासपुराणप्रसिद्धमव्यक्तमनवयवमेकमनाश्रयं व्यापि नित्यं विश्वकार्यशक्तिमत् । यद्यपि कुशलेन तं प्रति कृतकार्यं न दृश्यते तथाऽप्यकुशलेन दृश्यमानं न नास्ति । न हि रूपमन्धेन न दृश्यत इति चक्षुष्मताऽपि दृश्यमानमभावप्राप्तं भवति । न च प्रधानवदेक एव पुरुषस्तन्नानात्वस्य जन्ममरणसुखदुःखोपभोगमुक्तिसंसारव्यवस्थया सिद्धेः । एकत्वश्रुतीनां च प्रमाणान्तरविरोधात् कथञ्चिद्देशकालविभागाभावेन भक्त्याऽप्युपपत्तेः । प्रकृत्येकत्वपुरुषनानात्वयोश्च श्रुत्यैव साक्षात्प्रतिपादनात् ।

अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ इति श्रुतिः ।

अस्या अव सूत्रेणार्थोऽनूदित इति । यतो दृश्यं नष्टमप्यनष्टं पुरुषान्तरं प्रत्यस्ति अतो दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यातः । अत्रैवाऽऽगमिनामनुमतिमाह - तथा चोक्तमिति । धर्मिणां गुणानामात्मभिरनादिसंयोगाद्धर्ममात्राणां महदादीनामप्यनादिः संयोग इति । एकैकस्य महदादेः संयोगोऽनादिरप्यनित्य एव यद्यपि तथाऽपि सर्वेषां महदादीनां नित्यः पुरुषान्तराणां साधारणत्वादत उक्तं धर्ममात्राणामिति । मात्रग्रहणेन व्याप्तिं गमयति । अत एतद्भवति - यद्यप्येकस्य महतः संयोगोऽतीततामापन्नस्तथाऽपि महदन्तरस्य पुरुषान्तरेण संयोगो नातीत इति नित्य उक्तः ॥ २२ ॥ पातञ्जल-रहस्यम्

कृतं तु यावत् कर्तव्यं स्मर्तव्यमवशिष्यत इतिन्यायेनाशङ्कय सूत्रेण समाधत्ते —

“कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्”, कृतार्थं कृतसाक्षात्कारं नरं प्रति पृथिव्यभिभूतसुवर्णभास्वरत्वादिवद् न व्यक्तमेव स्याद्दर्शनं गतमप्यन्यस्य दृश्यत्वे न वर्तते कुतः तस्य दृश्यस्य बुद्ध्यादेरप्राप्तकवल्यमकृतार्थं प्रति भोगदत्वेनसाधारणत्वात्सम नत्वादग्नौ यथा विस्फुलिङ्गाः प्रभवन्ति स्वरूपस्तथा सर्वे प्राणा इति श्रुतेरिति सूत्रार्थः, नष्टमदर्शनमपि तत् तिरोभावमात्रं—

‘महतः परमव्यक्तं बुद्धिरव्यक्तमेव च,

इत्यादि तत्र मानमित्याह - तदिहेति । अनवयवं त्रिगुणावयवत्वेऽप्यनारब्धत्वात्

एक एव भूतात्मा भूते भूते व्यवस्थितः,

इतिश्रुतेरेक एवात्मेति चेन्नेत्याह—

न चेति - सिद्धेरित्यन्तेन, सर्वजनीनपुरुषबहुत्वानुभवविरोधात् श्रुतेरर्थवादत्वमित्याह - एकत्वेति । नित्यविभूनामात्मनां देशकालकृतविभागाभावे वनसेनाऽऽदिवदेकत्वमुपचरितमित्याह - कथञ्चिदिति । तयोरेकत्वानेकत्वे श्रुतिमाह - अजामिति । एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्तीतिश्रुत्यन्तरात्, सा चान्या प्रकृतेरिति व्याख्या न साध्वीति भावः, प्रासङ्गिकमाह - अतो दृगिति । धर्ममात्राणां धर्मलक्षणावस्थापरिणतत्वेन शास्त्रेषु व्याख्यानमुपपन्नमित्याह - अतश्चेति । विनाशित्वेऽपि भावरूपाणां गुणानामनादित्वं न घटेत ततश्च तत्कार्यबुद्धेः ततश्च पुरुषसंयोगस्येति भावः, बुद्धिपुरुषसंयोगस्य प्राहरूपेणानादित्वे पञ्चशिखाचार्यसंवादमाह - तथा चोक्तमिति । धर्मिणां गुणानां पुरुषैः सहानादिसंयोगादिति तु गुणनित्यत्वं विना धर्मसामान्यानां बुद्ध्यादीनां संयोगानादित्वं न घटत इति प्रतिपादनाय प्रदर्शितम्, तदेवं प्रकाशप्रवृतीत्यादिसूत्रैः पञ्चविंशतितत्त्वान्यत्र सङ्क्षेपतो विधर्मपदावाच्यता ॥ २२ ॥ संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते- स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥ पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः। तस्मात्संयोगादृश्यस्योपलब्धिर्या स भोगः। या तु द्रषुः स्वरूपोपलब्धिः सोऽपवर्गः। दर्शनकार्यावसानः संयोग इति दर्शनं वियोगस्य कारणमुक्तम्। दर्शनमदर्शनस्य प्रतिद्वन्द्वीत्यदर्शनं संयोगनिमित्तमुक्तम्। नात्र दर्शनं मोक्षकारणमदर्शनाभावादेव बन्धाभावः स मोक्ष इति। दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्यतो दर्शनं ज्ञानं कैवल्यकारणमुक्तम्। टीका तत्त्व-वैशारदी

तदेवं तादर्थ्ये संयोगकारण उक्ते प्रासङ्गिके प्रधाननित्यत्वे संयोगसामान्यनित्यत्वे हेतौ चोक्ते संयोगस्य यत्स्वरूपमसाधारणो विशेष इति यावत्तदभिधित्सयेदं सूत्रं प्रववृते - स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः । यतो दृश्यं तदर्थमतस्तज्जनितमुपकारं भजमानः पुरुषस्तस्य स्वामी भवति । भवति च तद्दृश्यमस्य स्वं स चानयोः संयोगः शक्तिमात्रेण व्यवस्थितस्तत्स्वरूपोपलब्धिहेतुस्तदेतद्भाष्यमवद्योतयति - पुरुषः स्वामी योग्यतामात्रेण दृश्येन स्वेन योग्यतयैव दर्शनार्थं संयुक्तः । शेषं सुगमम् । स्यादेतत् । द्रष्टुः स्वरूपोपलब्धिरपवृज्यतेऽनेनेत्यपवर्ग उक्तो न च मोक्षः साधनवांस्तथा सत्ययं मोक्षत्वादेव च्यवेतेत्यत आह - दर्शनकार्यावसानो बुद्धिविशेषेण सह पुरुषविशेषस्य संयोग इति दर्शनं वियोगकारणमुक्तम् । कथं पुनर्दर्शनकार्यावसानत्वं संयोगस्येत्यत आह - दर्शनमिति । ततः किमित्यत आह - अदर्शनमविद्या संयोगनिमित्तमित्युक्तम् । उक्तमर्थं स्पष्टयति - नात्रेति । ननु दर्शनमदर्शनं विरोधि निवर्तयतु बन्धस्य कुतो निवृत्तिरित्यत आह - दर्शनस्येति । बुद्ध्यादिविविक्तस्याऽऽत्मनः स्वरूपावस्थानं मोक्ष उक्तो न तस्य साधनं दर्शनमपि त्वदर्शननिवृत्तेरित्यर्थः । किं चेदमदर्शनं नाम, किं गुणानामधिकार आहोस्विद्दृशिरूपस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्यानुत्पादः। स्वस्मिन्दृश्ये विद्यमाने यो दर्शनाभावः। टीका तत्त्व-वैशारदी

असाधारणं संयोगहेतुमदर्शनविशेषं ग्रहीतुमदर्शनमात्रं विकल्पयति - किं चेदमिति । पर्युदासं गृहीत्वाऽऽह - किं गुणानामधिकारः कार्यारम्भणसामर्थ्यं ततो हि संयोगः संसारहेतुरुपजायते । प्रसज्यप्रतिषेधं गृहीत्वा द्वितीयं विकल्पमाह - आहोस्विदिति । दर्शितो विषयः शब्दादिः सत्त्वपुरुषान्यता च येन चित्तेन तस्य तद्विषयस्यानुत्पादः । एतदेव स्फोटयति - स्वस्मिन्दृश्ये शब्दादौ सत्त्वपुरुषान्यतायां चेति । तावदेव प्रधानं विचेष्टते न यावद्द्विविधं दर्शनमभिनिर्वर्तयति । निष्पादितोभयदर्शनं तु निवर्तत इति । किमर्थवत्ता गुणानाम्। अथाविद्या स्वचित्तेन सह निरुद्धा स्वचित्तस्योत्पत्तिबीजम्। किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः। यत्रेदमुक्तं प्रधानं स्थित्यैव वर्तमानं विकाराकरणादप्रधानं स्यात्। टीका तत्त्व-वैशारदी

पर्युदास एव तृतीय विकल्पमाह - किमर्थवत्ता गुणानाम् । सत्कार्यवादसिद्धौ हि भाविनावपि भोगापवर्गार्थावव्यपदेश्यतया स्त इत्यर्थः । पर्युदास एव चतुर्थं विकल्पमाह - अथाविद्या प्रतिसर्गकाले स्वचित्तेन सह निरुद्धा प्रधानसाम्यमागता वासनारूपेण स्वचित्तोत्पत्तिबीजम् । तेन दर्शनादन्याऽविद्यावासनैवादर्शनमुक्ता । पर्युदास एव पञ्चमं विकल्पमाह - किं स्थितिसंस्कारस्य प्रधानवर्तिनः साम्यपरिणामपरम्परावाहिनः क्षये गतिर्महदादिविकारारम्भस्तद्धेतुः संस्कारः प्रधानस्य गतिसंस्कारस्तस्याभिव्यक्तिः कार्योन्मुखत्वम् । तदुभयसंस्कारसद्भावे मतान्तरानुमतिमाह - यत्रेदमुक्तमैकान्तिकत्वं व्यासेधद्भिः, प्रधीयते जन्यते विकारजातमनेनेति प्रधानं तच्चेत्स्थित्यैव वर्तेत न कदाचिद्गत्या ततो विकाराकरणान्न प्रधीयते तेन किञ्चिदित्यप्रधानं स्यात् । तथा गत्यैव वर्तमानं विकारनित्यत्वादप्रधानं स्यात्। उभयथा चास्य वृत्तिः प्रधानव्यवहारं लभते नान्यथा। कारणान्तरेष्वपि कल्पितेष्वेव समानश्चर्चः। दर्शनशक्तिरेवादर्शनमित्येके, “प्रधानस्याऽऽत्मख्यापनार्था प्रवृत्तिः” इतिश्रुतेः। सर्वबोध्यबोधसमर्थः प्राक्प्रवृत्तेः पुरुषो न पश्यति सर्वकार्यकरणसमर्थं दृश्यं तदा न दृश्यत इति। उभयस्याप्यदर्शनं धर्म इत्येके। तत्रेदं दृश्यस्य स्वात्मभूतमपि पुरुषप्रत्ययापेक्षं दर्शनं दृश्यधर्मत्वेन भवति। तथा पुरुषस्यानात्मभूतमपि दृश्यप्रत्ययापेक्षं पुरुषधर्मत्वेनेवादर्शनमवभासते। दर्शनं ज्ञानमेवादर्शनमिति केचिदभिदधति। इत्येते शास्त्रगता विकल्पाः। तत्र विकल्पबहुत्वमेतत्सर्वपुरुषाणां गुणानां संयोगे साधारणविषयम् ॥ २३ ॥ टीका तत्त्व-वैशारदी

अथ गत्यैव वर्तेत न कदाचिदपि स्थित्या तत्राऽऽह - तथा गत्यैवेति । क्वचित्पाठः “स्थित्यै गत्यै” इति । तादर्थ्ये चतुर्थी, एवकारश्च द्रष्टव्यः । स्थित्यै चेन्न वर्तेत न क्वचिद्विकारो विनश्येत् । तथा च भावस्य सतोऽविनाशिनो नोत्पत्तिरपीति विकारत्वादेव च्यवेत । एवं च न प्रधीयतेऽत्र किञ्चिदित्यप्रधानं स्यात्तदुभयथा स्थित्या गत्या चास्य वृत्तिः प्रधानव्यवहारं लभते नान्यथैकान्ताभ्युपगमे । न केवलं प्रधाने कारणान्तरेष्वपि परब्रह्मतन्मायापरमाण्वादिषु कल्पितेषु समानश्चर्चो विचारः । तान्यपि हि स्थित्यैव वर्तमानानि विकाराकरणादकारणानि स्युः, गत्यैव वर्तमानानि विकारनित्यत्वादकारणानि स्युरिति च । पर्युदास एव षष्ठं विकल्पमाह - दर्शनशक्तिरेवेति । यथा प्रजापतिव्रते नेक्षेतोद्यन्तमादित्यमित्यनीक्षणप्रत्यासन्नः सङ्कल्पो गृह्यत एवमिहापि दर्शननिषेधे तत्प्रत्यासन्ना तन्मूला शक्तिरुच्यते । सा च दर्शनं भोगादिलक्षणं प्रसोतुं द्रष्टारं दृश्येन योजयतीति । अत्रैव श्रुतिमाह - प्रधानस्येति ।

स्यादेतत् । आत्मख्यापनार्थं प्रधानं प्रवर्तत इति श्रुतिराह न त्वात्मदर्शनशक्तेः प्रवर्तत इत्यत आह - सर्वबोध्यबोधसमर्थ इति । प्राक्प्रवृत्तेः प्रधानस्य नाऽऽत्मखख्यापनमात्रं प्रवृत्तौ प्रयोजकमसामर्थ्ये तदयोगात्तस्मात्सामर्थ्य प्रवृत्तेः प्रयोजकमिति श्रुत्याऽर्थादुक्तमित्यर्थः । दर्शनशक्तिः प्रधानाश्रयेत्यङ्गीकृत्य षष्ठः कल्पः । इमामेवोभयाश्रयामास्थाय सप्तमं विकल्पमाह - उभयस्य पुरुषस्य च दृश्यस्य चादर्शनं दर्शनशक्तिर्धर्म इत्येके ।

स्यादेतन्मृष्यामहे दृश्यस्येति, तस्य सर्वशक्त्याश्रयत्वान्न द्रष्टुरिति पुनर्मृष्यामः । न हि तदाधारा ज्ञानशक्तिस्तत्र ज्ञानस्यासमवायादन्यथा परिणामापत्तिरित्यत आह - तत्रेदमिति । भवतु दृश्यात्मकं तथाऽपि तस्य जडत्वेन तद्गतशक्तिकार्यं दर्शनमपि जडमिति न शक्यं तद्धर्मत्वेन विज्ञातुं जडस्य स्वयमप्रकाशत्वादतो दृशेरात्मनः प्रत्ययं चैतन्यच्छायापत्तिमपेक्ष्य दर्शनं तद्धर्मत्वेन भवति ज्ञायते विषयेण विषयिणो लक्षणात् । नन्वेतावताऽपि दृश्यधर्मत्वमस्य ज्ञानस्य भवति न तु पुरुषधर्मत्वमपीत्यत आह - तथा पुरुषस्येति । सत्यं पुरुषस्यानात्मभूतमेव तथाऽपि दृश्यबुद्धिसत्त्वस्य यः प्रत्ययश्चैतन्यच्छायापत्तिस्तमपेक्ष्य पुरुषधर्मत्वेनेव न तु पुरुषधर्मत्वेन । एतदुक्तं भवति - चैतन्य बिम्बोद्ग्राहितया बुद्धिचैतन्ययोरभेदाद्बुद्धिर्धर्माश्चैतन्यधर्मा इव चकासतीति । अष्टमं विकल्पमाह - दर्शनं ज्ञानमेव शब्दादीनामदर्शनं न तु सत्त्वपुरुषान्यताया इति केचित् । यथा चक्षू रूपे प्रमाणमपि रसादावप्रमाणमुच्यते । एतदुक्तं भवति - सुखाद्याकारशब्दादिज्ञानानि स्वसिद्ध्यनुगुणतया द्रष्टदृश्यसंयोगमाक्षिपन्तीति । तदेवं विकल्प्य चतुर्थं विकल्पं स्वीकर्तुमितरेषां विकल्पानां साङ्ख्यशास्त्रगतानां सर्वपुरुषसाधारण्येन भोगवैचित्र्याभावप्रसङ्गेन दूषयति - इत्येते शास्त्रगता इति ॥ ॥ २३ ॥ पातञ्जल-रहस्यम्

महत्तत्वादीनामभिधित्सया वक्तुमिच्छयेति,

स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः, आत्मात्मीयधनज्ञातिषु स्वमित्यभिधानात् स्वमात्मीयं प्रधानादि तेन दृश्यशक्त्या प्रधानादिस्वामिनः पुंसोऽनादिसंयोगः स दृश्यस्यानात्मनो जडस्योपलब्धिर्मोगाख्या स्वरूपोपलब्धिश्च मोक्षाख्या तयार्हेतुरनादिसंयोगः संयोगस्य वियोगावसानत्वाद् भोगाय संयुक्तोऽपि पुमानपवृज्यते चेति सूत्रार्थः, अकर्ता कतेवानवस्थ इति श्रुतेः यथा जपागतलौहित्यासंसर्ग्यपि स्फटिको लोहितः स्फटिक इति तदुपकार्यत्वेनैवोपलभ्यते तद्वदसङ्गोऽप्यात्मा तद्धर्मवानिवोपलभ्यत इत्याह - यत इत्यादि - हेतुरित्यन्तेन, तदर्थः पुमर्थः, हेतुमात्रेण कार्योन्नेयत्वेन यज्जन्यं तदनित्यमिति तर्कसहकृतायाः; नास्त्यकृतः कृतेनेति श्रुतेश्चेत्याशङ्कते - न चेति । मुचेः बन्धविश्लेषात्मकत्वमादायाह - दर्शनेति । संयोगस्य वियोगावधित्वमुक्तमत्रोपपत्तिमाकाङ्क्षति कथमिति - आलोकान्धकारयोरिव विद्याऽविद्ययोर्नित्यविरोधिन्योर्नैवोपपत्तिरिति, अस्यानर्थ हेतोः प्रहाणायेति शाङ्करभाष्यमादायाह - अदर्शनस्यैव दर्शनान्निवृत्तेर्यतो ज्ञानमज्ञानस्यैव निवर्त्तकमिति स्मृतेः, यथा यजतिषु येयजामहे कुर्यान्नानुयाजेष्विति यजातिष्वनुयाजभिन्नेषु येयजामहे कुर्यादिति पर्युदासः द्विविधभोगापवर्गौ निवर्त्तेते दग्धपटस्येव प्रावरणायासमर्थता, भाविनावनागतावस्थौ, अव्यपदेष्यतया = अनागततया, चतुर्थे विकल्पे वासनैव दर्शनमित्याह - चतुर्थमिति ।

“भावन्तरमभावो हि कया चित्तु व्यपेक्षया”

इतिन्यायात्, प्रतिसर्गकाले प्रलये बीजाङ्कुरन्यायेनाह - स्वं = चित्तोत्पत्तिबीजमिति, तदन्यत्वं नञर्थ इत्याह - अन्येति । सर्वदा सत्त्वं सत्त्वतया रजो रजस्तया तमस्तमस्तयेति साम्यावस्थाक्ता स्थितिः संस्कारः तस्य क्षये विमर्दे गतिः संस्कारोन्मुखत्वं यथा दुग्धस्य मधुररसरूपान भिभवेऽपि दधनि रूपरसान्तरत्वमित्यर्थः, तत्र मतान्तरमाह - यत्रेदमिति । प्रधानं यौगिकं प्रधीयतेऽस्मिन् विश्वविकारः, विश्वविकारहेतुत्वात् स्थित्यैव वर्तमानं न विकरोति, प्रकरोति इति प्रधानं प्रकृतिरिति व्युत्पत्त्यङ्गीकारादित्याह - प्रधानमिति । गत्यैव चेत् सर्वदा कुर्वदेव वर्त्तते तथा च साम्यावस्था न गतिरित्याह - न कदाचिदिति । विकारो विनश्येन्न प्रलयः स्यादित्यनकान्तिकः पक्षः;

“यत्रावयोः समो दोषः परिहारोऽपि वा समः । नैकस्तत्रानुयोक्तव्यस्तादृगर्थविचारण” —

इतिन्यायेनाह - ब्रह्मवादे मायावादे परमाणुवादेऽपीति - परेति । ब्रह्म नित्य करोति चेन्मुक्तिप्रलयानुपपत्तिः, न करोति चेत् सृष्ट्याद्यनुपपत्तिरेवं मायावादेऽपि, परमाणुवादे तु ते नित्याः संयोगसहकृताः सदा कुर्वन्ति चेत् प्रलयाभावो न चेत् सृष्ट्यभावो नियमानुपपत्तेरव्यवस्थेति, षष्ठं पक्षमाह - दर्शनशक्तिरिति । ज्ञानेच्छाकृतीनां परस्परान्वयाद् अज्ञातस्य कृत्यसाध्यत्वेनेच्छैव लक्ष्यत इत्याह - सङ्कल्प इति । ब्रह्मचारिव्रतस्यानुष्टेयत्वेनाभावापर्यवसानादिति भावः, असुरामित्रादिवद्भावकार्योपादानत्वाद्भावभूतेत्याह - सा चेति । जामातरमिव कन्ययेत्याह - द्रष्टारमिति । सोऽकामयत बहु स्यामितिवत् प्रधानप्रवृत्तिरात्मार्थेत्याह - प्रधानस्येति । पश्यन्वैतन्न पश्यति, न हि द्रष्टदृष्टंर्विपरिलोपो विद्यते न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत् पश्येद् इति श्रुतिमाश्रित्याह - सर्ववोध्येति । एक्यनिवृत्त्यर्था प्रवृत्तिरित्युक्तं तत्प्रवृत्त्यनुसारेण, दृश्यत इति । तस्मात्सामर्थ्यमिति । समर्थस्य क्षेपायोगात् सर्वदा सृष्टेरनुपरमप्रसङ्ग इति चेन्न- प्रलयकालप्रतिबन्धादिति भावः, इमां = शक्तिं, उभये = पुम्प्रकृती, तदन्यत्वमादायाह - अदर्शनं दर्शनशक्तिर्धर्म इति । अनधीनत्वसामान्यादित्यर्थः, परिणामित्वात् प्रकृतेधर्मवत्त्वेऽपि पुंसोऽपरिणामित्यात् कुतः तस्य धर्मवत्तेति शङ्कते - स्यादेतदिति । औपाधिकतादात्म्यसम्बन्धमादाय समाधत्ते - दृष्यस्येति । यथाऽस्मन्मते भूतलस्वरूपोऽप्यभावः प्रतियोग्यपेक्षया धर्मत्वेन भासते घटाभावावद् भूतलमिति यथा बुद्धेः सम्बेदी पुरुषइत्युक्त्याऽदर्शनं दृष्यशक्तिः पुङ्गतचितिरूपप्रत्ययापेक्षया धर्मत्वेन भासते; तथाऽदर्शनं दृक्शक्तिः दृश्यप्रत्ययापेक्षया दुश्यभावकतया धर्मत्वेन पुरुषस्य चैतन्यमिति योजना, तदन्यत्वं नञर्थोऽत्रेति, सङ्गतिमाह - दर्शनमिति । अस्य पुंसो यज् ज्ञानं तस्य दृश्यविषयकत्वाद् दृश्यधर्मतैवोचिता न तु पुन्धर्मात्मा तत् कथं पुन्धर्मतोच्यत इति शङ्कते - नन्वेतावतेति । औपचारिकस्वेन समाधत्ते - सत्यमित्यादिना, जडत्वाद् बुद्धिसत्वस्य चितिच्छायापत्त्या यद्भानं तत्पुन्धर्मः स्वतोऽपरिणामित्वात् दूरदोषादाकाशे नीलिमेव नीलं नभ इति प्रतीतेः, एतदेव स्वहस्तयति - एतदुक्तं भवतीति, एतेऽष्टौ ॥ २३ ॥ यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः – तस्य हेतुरविद्या ॥ २४ ॥ विपर्ययज्ञानवासनेत्यर्थः। विपर्ययज्ञानवासनावासिता च न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति साधिकारा पुनरावर्तते। सा तु पुरुषख्यातिपर्यवसानां कार्यनिष्ठां प्राप्नोति, चरिताधिकारा निवृत्तादर्शना बन्धकारणाभावान्न पुनरावर्तते। टीका तत्त्व-वैशारदी

चतुर्थं विकल्पं निर्धारयितुं सूत्रमवतारयति - यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोग योग इति । प्रतीपमञ्चति प्राप्नोतीति प्रत्यगसाधारणस्तु संयोग एकैकस्य पुरुषस्यैकैकया बुद्ध्या वैचित्र्यहेतुः । सूत्रं पठति - तस्येति । नन्वविद्या विपर्ययज्ञानं तस्य भोगापवर्गयोरिव स्वबुद्धिसंयोगो हेतुः । असंयुक्तायां बुद्वौ तदनुत्पत्तेस्तकथमविद्या संयोगभेदस्य हेतुरित्यत आह - विपर्ययज्ञानवासनेति । सर्गान्तरीयाया अविद्यायाः स्वचित्तेन सह निरुद्धाया अपि प्रधानेऽस्ति वासना तद्वासनावासितं च प्रधानं तत्तत्पुरुषसंयोगिनीं तादृशीमेव बुद्धिं सृजति । एवं पूर्वपूर्वसर्गेष्वित्यनादित्वाददोषः । अत एव प्रतिसर्गावस्थायां न पुरुषो मुच्यत इत्याह - विपर्ययज्ञानेति । यदा पुरुषख्यातिं कार्यनिष्ठां प्राप्ता तदा विपर्ययज्ञानवासनाया बन्धकारणस्याभावान्न पुनरावर्तत – इत्याह - सा त्विति । अत्र कश्चित्पण्डकोपाख्यानेनोद्धाटयति - मुग्धया भार्ययाऽभिधीयते - पण्डकाऽऽर्यपुत्र, अपत्यवती मे भगिनी किमर्थं नाम नाहमिति, स तामाह - मृतस्तेऽहमपत्यमुत्पादयिष्यामीति। तथेदं विद्यमानं ज्ञानं चित्तनिवृत्तिं न करोति, विनष्टं करिष्यतीति का प्रत्याशा। तत्राऽऽचार्यदेशीयो वक्ति – ननु बुद्धिनिवृत्तिरेव मोक्षोऽदर्शनकारणाभावाद्बुद्धिनिवृत्तिः। टीका तत्त्व-वैशारदी

अत्र कश्चिन्नास्तिकः कैवल्यं पण्डकोपाख्यानेनोपहसति । पण्डकोपाख्यानमाह - मुग्धयेति । किमर्थमित्यर्थशब्दो निमित्तमुपलक्षयति प्रयोजनस्यापि निमित्तत्वात् । पण्डकोपाख्यानेन सास्यमापादयति - तथेदं विद्यमानं गुणपुरुषान्यताज्ञानं चित्तनिवृत्तिं न करोति, परवैराग्येण ज्ञानप्रसादमात्रेण ससंस्कारं निरुद्धं विनष्टं करिष्यतीति का प्रत्याशा । यस्मिन्सत्येव यद्भवति तत्तस्य कार्यम् । न तु यस्मिन्नसतीति भावः । अत्रैकदेशिमतेन परिहारमाह - तत्रेति । ईषदपरिसमाप्त आचार्य आचार्यदेशीयः । आचार्यस्तु वायुप्रोक्ते कृतलक्षणः -

आचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि । स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते ॥ इति । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते। तत्र चित्तनिवृत्तिरेव मोक्षः, किमर्थमस्थान एवास्य मतिविभ्रः ॥ २४ ॥ टीका तत्त्व-वैशारदी

भोगविवेकख्यातिरूपपरिणतबुद्धिनिवृत्तिरेव मोक्षः । न च बुद्धिस्वरूपनिवृत्तिः । सा च धर्ममेघान्तविवेकख्यातिप्रतिष्ठाया अनन्तरमेव भवति सत्यपि बुद्धिस्वरूपमात्रावस्थान इत्यर्थः । एतदेव स्फोटयति - अदर्शनस्य बन्धकारणस्याभावाद्बुद्धिनिवृत्तिः । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते । दर्शननिवृत्तिस्तु परवैराग्यसाध्या । सत्यपि बुद्धिस्वरूपावस्थाने मोक्ष इति भावः । एकदेशिमतमुपन्यस्य स्वमतमाह - तत्र चित्तनिवृत्तिरेव मोक्षः । ननूक्तं दर्शने निवृत्तेऽचिराच्चित्तस्वरूपनिवृत्तिर्भवतीति कथं दर्शनकार्येत्यत आह - किमर्थमस्थाने मतिविभ्रम इति । अयमभिसन्धिः - यदि दर्शनस्य साक्षाच्चित्तनिवृत्तौ कारणभावमङ्गीकुर्वीम हि तत एवमुपालभ्येमहि । किं तु विवेकदर्शनं प्रकर्षकाष्ठां प्राप्तं निरोधसमाधिभावनाप्रकर्षक्रमेण चित्तनिवृत्तिमत्पुरुषस्वरूपावस्थानोपयोगीत्यातिष्ठामहे तत्कथमुपालभ्येमहीति ॥ २४ ॥ पातञ्जल-रहस्यम्

“तस्य हेतुरविद्या”, तस्य बुद्धिचैतन्ययोर्यः संयोगः तद्धेतुः विपर्ययज्ञानसंस्कारसहिताऽविद्येति सूत्रार्थः, न स पुनरावर्तते न स पुनरावर्तत इति श्रुतिमाश्रित्याह - चरिताधिकारेति । सकार्याविद्याध्वंसो मोक्ष इति मतान्तरप्रसिद्धमादायाह - भोगेति । प्रलये व्यभिचारादित्याह - न च बुद्धीति । सा तादृशी निवृत्तिः, विवेकख्यातिपर्यन्तं चित्तचेष्टितमिति दर्शयन्नाह - सत्यपीति । “प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वच्छ”इति स्मारयन्नाह - दर्शननिवत्तिस्त्विति । तावदेवास्य चिरं यावन्न विमोक्षऽथ सम्पत्स्य इति श्रुतिमाश्रित्याह - अयमभिसन्धिरिति । प्रारब्धक्षयापेक्षा सम्प्रज्ञातसमाधेरुपलक्षणमिति, विज्ञाय प्रज्ञां कुर्वीत ब्राह्मण इति श्रुत्यन्तराद्, उपालम्भमपि उपहासास्पदमित्यर्थः ॥ २४ ॥ हेयं दुःखं हेयकारणं च संयोगाख्यं सनिमित्तमुक्तमतः परं हानं वक्तव्यम् – तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ २५ ॥ तस्यादर्शनस्याभावाद्बुद्धिपुरुषसंयोगाभाव आत्यन्तिको बन्धनोपरम इत्यर्थः। एतद्धानम्। तद्दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनरसंयोगो गुणैरित्यर्थः। दुःखकारणनिवृत्तौ दुःखोपरमो हानं, तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम् ॥ २५ ॥ टीका तत्त्व-वैशारदी

तदेवं व्यूहद्वयमुक्त्वा तृतीयव्यूहाभिधानाय सूत्रमवतारयति - हेयं दुःखमिति । तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम् । व्याचष्टे - तस्येति । अस्ति हि महाप्रलयेऽपि संयोगाभावोऽत उक्तमात्यन्तिक इति । दुःखापरमो हानमिति पुरुषार्थता दर्शिता । शेषमतिरोहितम् ॥ २५ ॥ पातञ्जल-रहस्यम्

“तदभावात्संयोगाभावो हानं तत् दृशेः कैवल्यं”, तस्या अदर्शनरूपाया अविद्याया अभावादभिभवात् सुवर्णे पृतिव्यभिभूततेजसभास्वरत्दवदिति, संयोगाभावे त्वात्यन्तिकबन्धोपरमो हानं तदेव हानं दृषेरात्मनः कैवल्यं गुणैः पुनरसङ्गत्वं चेति सूत्रार्थः, व्यूहद्वयं संसारोऽविद्या चेति । तृतीयो मोक्षः, हेयञ्च दुःखमिति, यावद्वासनाराहित्यमात्यन्तिकता ॥ २५ ॥ अथ हानस्य कः प्राप्त्युपाय इति – विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥ सत्त्वपुरुषान्यताप्रत्ययो विवेकख्यातिः। सा त्वनिवृत्तमिथ्याज्ञाना प्लवते। यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं सम्पद्यते तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसञ्ज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति। सा विवेकख्यातिरविप्लवा हानोपायः। ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश्चाप्रसव इत्येष मोक्षस्य मार्गो हानस्योपाय इति ॥ २६ ॥ टीका तत्त्व-वैशारदी

हानोपायलक्षणं चतुर्थं व्यूहमाख्यातुं सूत्रमवतारयति - अथेति । विवेकख्यातिरविप्लवा हानोपायः । आगमानुमानाभ्यामपि विवेकख्यातिरस्ति । न चासौ व्युत्थानं तत्संस्कारं वा निवर्तयति तद्वतोऽपि तदनुवृत्तेरिति तन्निवृत्त्यर्थमविप्लवेति । विप्लवो मिथ्याज्ञानं तद्रहिता । एतदुक्तं भवति - श्रुतमयेन ज्ञानेन विवेकं गहीत्वा युक्तिपयेन च व्यवस्थाप्य दीर्घकालनैरन्तर्यसत्कारासेविताया भावनायाः प्रकर्षपर्यन्तं समधिगता साक्षात्कारवती विवेकख्यातिर्निवर्तितसवासनमिथ्याज्ञाना निर्विप्लवा हानोपाय इति । शेषं सुगमं भाष्यम् ॥ २६ ॥ पातञ्जल-रहस्यम्

“विवेकख्यातिरविप्लवा हानोपायः” विवेकख्यातिः सत्त्वपुरुषान्यताधीः, तस्या अविप्लवतादग्धबीजस्येव पुनर्वासनाऽजनकता दृशेर्मोक्षोपाय इति सूत्रार्थः, श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति श्रुतिमाश्रित्याह - आगमेति । निदिध्यासनान्तानि पुम्प्रकृतिसाध्यत्वेनात्मतत्त्वाविषयकाणीति तद्विषयकाविद्यानिवर्तकत्वात् प्रमाणप्रमेयमात्राधीनस्य ज्ञानस्यैवैकचन्द्रसाक्षात्कारनिवर्तकतावदित्याह - अविप्लवेति ॥ २६ ॥ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥ तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः। सप्तधेति अशुद्ध्यावरणमलापगमाच्चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति। टीका तत्त्व-वैशारदी

विवेकख्यातिनिष्ठायाः स्वरूपमाह सूत्रेण - तस्य सप्तधा प्रान्तभूमिः प्रज्ञा । व्याचष्टे - तस्येति प्रत्युदितख्यातेर्वर्तमानख्यातेर्योगिनः प्रत्याम्नायः परामर्शः । अशुद्धिरेवाऽऽवरणं चित्तसत्त्वस्य तदेव मलं तस्यापगमाच्चित्तस्य प्रत्ययान्तरानुत्पादे तामसराजसव्युत्थानप्रत्ययानुत्पादे निर्विप्लवविवेकख्यातिनिष्ठामापन्नस्य सप्तप्रकारैव प्रज्ञा विवेकिनो भवति । विषयभेदात्प्रज्ञाभेदः । प्रकृष्टोऽन्तो यासां भूमीनामवस्थानां तास्तथोक्ताः । यतः परं नास्ति स प्रकर्षः । प्रान्ता भूमयो यस्याः प्रज्ञाया विवेकख्यातेः सा तथोक्ता । तद्यथा – परिज्ञातं हेयं नास्य पुनः परिज्ञेयमस्ति। क्षीणा हेयहेतवो न पुनरेतेषां क्षेतव्यमस्ति। साक्षात्कृतं निरोधसमाधिना हानम्। भावितो विवेकख्यातिरूपो हानोपाय इति। एषा चतुष्टयी कार्या विमुक्तिः प्रज्ञायाः। चित्तविमुक्तिस्तु त्रयी चरिताधिकारा बुद्धिः। गुणा गिरिशिखरतटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति। न चैषां प्रविलीनानां पुनरस्त्युत्पादः प्रयोजनाभावादिति। एतस्यामवस्थायां गुणसम्बन्धातीतः स्वरूपमात्रज्योतिरमलः केवली पुरुष इति। एतां सप्तविधां प्रान्तभूभिप्रज्ञामनुपश्यन्पुरुषः कुशल इत्याख्यायते। प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वादिति ॥ २७ ॥ टीका तत्त्व-वैशारदी

ता एव सप्तप्रकाराः प्रान्तभूमीरुदाहरति - तद्यथेति । तत्र पुरुषप्रयत्ननिष्पाद्यासु चतसृषु भूमिषु प्रथमामुदाहरति - परिज्ञातं हेयम् । यावत्किल प्राधानिकं तत्सर्वं परिणामतापसंस्कारैर्गुणवृत्तिविरोधाद्दुःखमेवेति हेयं तत्परिज्ञातम् । प्रान्ततां दर्शयति - नास्य पुनः किञ्चिदपरिज्ञातं परिज्ञेयमस्ति । द्वितीयामाह – क्षीणा इति । प्रान्ततामाह - न पुनरिति । तृतीयामाह - साक्षात्कृतं प्रत्यक्षेण निश्चितं मया सम्प्रज्ञातावस्थायामेव निरोधसमाधिसाध्यं हानं, न पुनरस्याः परं निश्चेतव्यमस्तीति शेषः । चतुर्थीमाह - भावितो निष्पादितो विवेकख्यातिरूपो हानोपायो नास्याः परं भावनीयमस्तीति शेषः । एषा चतुष्टयी कार्या विमुक्तिः समाप्तिः, कार्यतया प्रयत्नव्याप्यता दर्शिता । क्वचित्पाठः कार्याविमुक्तिरिति । कार्यान्तरेण विमुक्तिः प्रज्ञाया इत्यर्थः । प्रयत्ननिष्पाद्यानुनिष्पादनीयामप्रयत्नसाध्यां चित्तविमुक्तिमाह - चित्तविमुक्तिस्तु त्रयी । प्रथमामाह - चरिताधिकारा बुद्धिः । कृतभोगापवर्ग कार्येत्यर्थः । द्वितीयामाह - गुणा इति । प्रान्तनामाह - न चैषामिति । तृतीयामाह - एतस्यामवस्थायामिति । एतस्यामवस्थायां जीवन्नेव पुरुषः कुशलो मुक्त इत्युच्यते चरमदेहत्वादित्याह - एतामिति । अनौपचारिकं मुक्तामाह - प्रतिप्रसवे प्रधानलयेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीततवादिति ॥ २७ ॥ पातञ्जल-रहस्यम्

विषयनिष्ठतायास्तस्याः स्वरूपमाह - “तस्य सप्तधा प्रान्तभूमिः प्रज्ञा”, तस्य विवेकसाक्षात्कारयोगिनो योगिनः चित्तस्य प्रत्ययान्तरानुत्पादे सति प्रज्ञा ज्ञानमुत्पद्यते सा सप्तप्रकारिकेति सूत्रार्थः, ननु प्रज्ञा ज्ञानं तस्यैकरूपत्वात् कथं सप्तधात्वं – तत्राह - विषयभेदादिति । तास्वपि प्रकृतिसाध्याः चतस्र उदाहरति —

“तं विद्याद् दुःखसंयोगवियोगं योगसञ्ज्ञितम्”,

इत्युक्तिमाश्रित्याह - यावदिति । प्रामाणिकं प्रधानमारभ्यान्त्यावयविघटपर्यन्तं प्रान्तपदं सर्वत्रानुषज्याह - प्रान्ततामिति । चरिताधिकारः कर्माशयः तद्रहितः,

“यो गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते”,

इत्युक्तिमाश्रित्याह – एतस्यामित्यादि - गुणातीतत्वादित्यन्तेन, सर्वे जीवाः भोगलम्पटत्वादकुशलाः, अयं तु कुशलो बोभत्सेभ्य आगमापायिदेहेन्द्रियादिभ्यः सक्तिव्यतिरिक्तो भवतीति कुशलो; भगवदुक्तं योगः कर्मसु कौशलमिति कथं हेतुषु कर्मसु फलासङ्गरहितत्वान्न बुद्धो भवतीति कुशलतेत्यर्थः, गोदोहनादिति । गोदोहनेन पशुकामः प्रणयेदित्यत्र सिद्धेनैव गोदोहेन यथा प्रणयनं तथा प्रसिद्धस्यैव विवेकख्यातिरूपस्य ज्ञानस्य मुक्तिहेतुतेति भावः ॥ २७ ॥ सिद्धा भवति विवेकख्यातिर्हानोपाय इति, न च सिद्धिरन्तरेण साधनमित्येतदारभ्यते – योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥ २८ ॥ योगाङ्गान्यष्टावभिधायिष्यमाणानि। तेषामनुष्ठानात्पञ्चपर्वणो विपर्ययस्याशुद्धिरूपस्य क्षयो नाशः। तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः। यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते। यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते। सा खल्वेषा विवृद्धिः प्रकर्षमनुभवत्या विवेकख्यातेः, आगुणपुरुषस्वरूपविज्ञानादित्यर्थः। योगाङ्गानुष्ठानमशुद्धेर्वियोगकारणम्। यथा परशुश्छेद्यस्य। विवेकख्यातेस्तु प्राप्तिकारणं यथा धर्मः सुखस्य नान्यथा कारणम्। कति चैतानि कारणानि शास्त्रे भवन्ति। नवैवेत्याह। टीका तत्त्व-वैशारदी

तदेवं चतुरो व्यूहानुक्त्वा तन्मध्यपतितस्य हानोपायस्य विवेकख्यातेर्गोदोहनादिवत्प्रागसिद्धेरसिद्धस्य चोपायत्वाभावात्सिध्द्युपायान्वक्तुमारभत इत्याह - सिद्धेति । तत्राभिधास्यमानानां साधनानां येन प्रकारेण विवेकख्यात्युपायत्वं तद्दर्शयति सूत्रेण - योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः । योगाङ्गानि हि यथा योगं दृष्टादृष्टद्वारेणाशुद्धिं क्षिण्वन्ति । पञ्चपर्वणो विपर्ययस्येत्युपलक्षणं पुण्यापुण्ययोरपि जात्यायुर्भोगहेतुत्वेनाशुद्धिरूपत्वादिति । शेषं सुगमम् । नानाविधस्य कारणभावस्य दर्शनाद्योगाङ्गानुष्ठानस्य कीदृशं कारणत्वमित्यत आह - योगाङ्गानुष्ठानमिति । अशुद्ध्या वियोजयति बुद्धिसत्त्वमित्यशुद्धेर्वियोगकारणम् । दृष्टान्तमाह - यथा परशुरिति । परशुश्छेद्यं वृक्षं मूलेन वियोजयति । अशुद्ध्या वियोजयद्बुद्धिसत्त्वं विवेकख्यातिं प्रापयति यथा धर्मः सुखम् । तथा योगाङ्गानुष्ठानं विवेकख्यातेः प्राप्तिकारणं नान्येन प्रकारेणेत्याह - विवेकख्यातेस्त्विति । नान्यथेति प्रतिषेधश्रवणात्पृच्छति - कति चैतानीति । उत्तरम् - नवैवेति । तानि दर्शयति कारिकया – तद्यथा उत्पत्तीति । तद्यथा – उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः। वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥ इति। तत्रोत्पत्तिकारणं मनो भवति विज्ञानस्य, स्थितिकारणं मनसः पुरुषार्थता, शरीरस्येवाऽऽहार इति। अभिव्यक्तिकारणं यथा रूपस्याऽऽलोकस्तथा रूपज्ञानं, विकारकारणं मनसो विषयान्तरम्। यथाऽग्निः पाकस्य। प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्य। प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः। टीका तत्त्व-वैशारदी

अत्रोदाहरणान्याह - तत्रोत्पत्तिकारणमिति । मनो हि विज्ञानमव्यपदेश्यावस्थातोऽपनीय वर्तमानावस्थामापादयदुत्पत्तिकारणं विज्ञानस्य । स्थितिकारणं मनसः पुरुषार्थता । अस्मिताया उत्पन्नं मनस्तावदवतिष्ठते न यावद्द्विविधं पुरुषार्थमभिनिर्वर्तयति । अथ निर्वर्तितपुरुषार्थद्वयं स्थितेरपैति । तस्मात्स्वकारणादुत्पन्नस्य मनसोऽनागतपुरुषार्थता स्थितिकारणम् । दृष्टान्तमाह - शरीरस्येवेति । प्रत्यक्षज्ञाननिमित्तमिन्द्रियद्वारा वा स्वतो वा विषयस्य संस्क्रियाऽभिव्यक्तिस्तस्याः कारणं यथा रूपस्याऽऽलोकः । विकारकारणं मनसो विषयान्तरम् । यथा हि कण्डोः समाहितमनसो वल्लकीविपञ्च्यमानपञ्चमस्वरश्रवणसमनन्तरमुन्मीलिताक्षस्य स्वरूपलावण्ययौवनसम्पन्नामप्सरसं प्रम्लोचामक्षिमाणस्य समाधिमपहाय तस्यां सक्तं मनो बभूवेति । अत्रैव निदर्शनमाह - यथाऽग्निः पाक्यस्य तण्डुलादेः कठिनावयवसन्निवेशस्य प्रशिथिलावयवसंयोगलक्षणस्य विकारस्य कारणम् । सत एव विषयस्य प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्येति । ज्ञायत इति ज्ञानमग्निश्चासौ ज्ञानं चेत्यग्निज्ञानं तस्य । एतदुक्तं भवति - वर्तमानस्यैवाग्नेर्ज्ञेयस्य प्रत्ययकारणतया कारणमिति । औत्सर्गिकी निरपेक्षाणां कारणानां कार्यक्रिया प्राप्तिस्तस्याः कुतश्चिदपवादोऽप्राप्तिः । यथा निम्नोपसर्पणस्वभावानामपां प्रतिबन्धः सेतुना तथेहापि बुद्धिसत्त्वस्य सुखप्रकाशशीलस्य स्वाभाविकी सुखविवेकख्यातिजनकता प्राप्तिः । सा कुतश्चिदधर्मात्तमसो वा प्रतिबन्धान्न भवति । धर्माद्योगाङ्गानुष्ठानाद्वा तदपनये तदप्रतिबद्धवृत्तिस्वभावत एव तज्जनकतया तदाप्नोति । यथा वक्ष्यति - निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवदिति । वियोगकारणं तदेवाशुद्धेः। अन्यत्वकारणं यथा सुवर्णस्य सुवर्णकारः। एवमेकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे द्वेषो दुःखत्वे रागः सुखत्वे तत्त्वज्ञानं माध्यस्थ्ये। धृतिकारणं शरीरमिन्द्रियाणाम्। तानि च तस्य। महाभूतानि शरीराणां, तानि च परस्परं सर्वेषां तैर्यग्यौनमानुषदैवतानि च परस्परार्थत्वादित्येवं नव कारणानि। तानि च यथासम्भवं पदार्थान्तरेष्वपि योज्यानि। योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति ॥ २८ ॥ टीका तत्त्व-वैशारदी

तदेवं विवेकख्यातिलक्षणकार्यापक्षेया प्राप्तिकारणमुक्तम् । अवान्तरकार्यापेक्षया तु तदेव वियोगकारणमित्याह - वियोगकारणमिति । अन्यत्वकारणमाह - अन्यत्वकारणं यथा सुवर्णकारः सुवर्णस्य, कटककुण्डलकेयूरादिभ्यो भिन्नाभिन्नस्य भेदविवक्षया कटकादिभिन्नस्याभेदविवक्षया कटकाद्यभिन्नस्य सुवर्णस्य कुण्डलादन्यत्वम् । तथाच कटककारी सुवर्णकारः कुण्डलादभिन्नात्सुवर्णादन्यत्कुर्वन्नन्यत्वकारणम् । अग्निरपि पाक्यस्यान्यत्वकारणं यद्यपि तथाऽपि धर्मिणो धर्मयोः पुलाकत्वतण्डुलत्वयोर्भेदाविवक्षया धर्मयोरुपजनापायेऽपि धर्म्यनुवर्तत इति न तस्यान्यत्वं शक्यं वक्तुमिति विकारमात्रकारणत्वमुक्तमिति न सङ्करः । न च संस्थानभेदो धर्भिणोऽन्यत्वकारणमिति व्याख्येयम् । सुवर्णकार इत्यस्यासङ्गतेः । बाह्यमन्यत्वकारणमुपन्यस्याऽऽध्यात्मिकमुदाहरति - एवमेकस्येति । अविद्या कमनीयेयं कन्यकेत्यादिज्ञानम् । तन्मोहयोगात्स एव स्त्रीप्रत्ययो मढो विषण्णो भवति चैत्रस्य मैत्रस्य पुण्यवतो बत कलत्ररत्नमेतन्न तु मम भाग्यहीनस्येति । एवं सपत्नीजनस्य तस्यां द्वेषः स्त्रीप्रत्ययस्य दुःखत्वे । एवं मैत्रस्य तस्या भर्तू रागस्तस्यैव स्त्रीप्रत्ययस्य सुखत्वे । तत्त्वज्ञानं त्वङ्मांसमेदोस्थिमज्जासमूहः स्त्रीकायः स्थानबीजादिभिरशुचिरिति विवेकिनां माध्यस्थ्ये वैराग्ये कारणमिति । धृतिकारणं शरीरमिन्द्रियाणां विधारकमिन्द्रियाणि च शरीरस्य सामान्या करणवृत्तर्हि प्राणाद्या वायवः पञ्च तदभावे शरीरपातात् । एवं मांसादिकायाङ्गानामपि परस्परविधार्यविधारकत्वम् । एवं महाभूतानि पृथिव्यादीनि मनुष्यवरुणसूर्यगन्धर्वशशिलोकनिवासिनां शरीराणां, तानि च परस्परं, पृथिव्यां हि गन्धरसरूपस्पर्शशब्दगुणायां पञ्चमहाभूतानि परस्परं विधार्यविधारकभावेनावस्थितान्यप्सु चत्वारि तेजसि त्रीणि द्वे च मातरिश्वनीति । तैर्यग्यौनमानुषदैवतादीनि च विधार्यविधारकभावेनावस्थितानि । नन्वाधाराधेयभावरहितानां कुतस्तत्त्वमित्यत आह - परस्परार्थत्वादिति । मनुष्यशरीरं हि पशुपक्षिमृगसरीसृपस्थावरशरीरपयोगेन ध्रियते । एवं व्याघ्रादिशरीरमपि मनुष्यपशुमृगादिशरीरोपयोगेन । एवं पशुमृगादिशरीरमपि स्थावराद्युपयोगेन । एवं दैवशरीरमपि मनुष्योपहृतच्छागमृगकपिञ्जलमांसाज्यपुरोडाशसहकारशाखाप्रस्तरादिभिरिज्यमानं तदुपयोगेन । एवं देवताऽपि वरदानवृक्षादिभिर्मनुष्यादीनि धारयतीत्यस्ति परस्परार्थत्वमित्यर्थः । शेषं सुगमम् ॥ २८ ॥ पातञ्जल-रहस्यम्

“योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरविवेकख्यातेः”,

“ज्ञानमुत्पद्यते पुंसाङ्क्षयात्पापस्य कर्मणः” ।

धमण पापमपनुदतीतिश्रुतिमाश्रित्याह - अशुद्धिक्षये सति दीप्तिः बुद्धिपराकाष्ठा, तस्या-अवधिमाह - आविवेकख्यातेः साक्षात्कारपर्यन्तायाः, तरति शोकमात्मविद् इति श्रुतेरिति, तत्र धर्मो द्विविधः – योगनुष्ठानजो यागाद्यनुष्ठानजन्मेति, उभयमपि तत्त्वधीहेतुः,

“सर्वं कर्माखिलं पार्थ ! ज्ञाने परिसमाप्यते”,

इति भगवतोक्तेः, —

“पूर्वं परमजातत्वादबाधित्वैव जायते । परस्य नान्यथोत्पादान्न त्वबाधेन जीवनम्” ॥

इति न्यायेनाह - पञ्चपर्वणः, —

“तमो मोहो महामोहस्तामिश्रो ह्यन्धसञ्ज्ञकः –

इत्यस्य विपर्ययस्य तत्त्वधीप्रतिबन्धकस्य पूर्वभाविनो योगानुष्ठानेनालोकेनेव तमोऽभिभवे रूपसाक्षात्कारो नान्येष्विति, अशुद्धिरूपे नष्टे ज्ञानाभिव्यक्तिरित्यनुभवारूढं करोति - यथा यथेति । तत्त्वमापद्यते क्षीणत्वात्प्राप्तिकारणं धर्ममेघवैराग्यं तद्द्वारा तद्विना न कारणमित्याह - नान्यथा कारणमिति । साक्षात्कारणं आत्ममनःसंयोगस्य ज्ञानासमवायिकारणतया ह्रीधीधीरेतत्सर्वं मन एवेतिश्रुतिरुपादानकारणतया च ज्ञानं मनःकारणमित्याह - तत्रोत्पत्तीति । उपादानत्वेन स्थितिहेतुरपीत्याह - स्थितीति । आलोकवद् यथाऽऽलोकोऽसन्तमसि रूपरेवं व्यक्तिहेतुविवेकख्यातेरुत्पादकमशुद्धेर्वियोगकारणम्, एकस्यां प्रमदातनौ कुणपः कामिनीभक्ष्य इति तिस्रो विकल्पना इत्युक्तिमाश्रित्याह - एवामेकस्येति । कामुकस्य पुरुषान्तरस्य विषादो मोहः सपत्न्या द्वेषः स्वपत्यू रागः, रेतःशोनितयोरियं परिणतिरिति तत्त्वधीर्माध्यस्थ्ये औदासीन्ये इति । इन्द्रियाश्रषं शरीरमित्युक्तिमाश्रित्याह - महाभूतानीति । तानि च शरीराणि सवस्य कार्यं स्यात्, सर्वं सर्वस्य कारणमित्युक्तिमाश्रित्याह - परस्परार्थत्वादिति! उत्पादकाशुद्धिक्षयत्वेन द्विधेत्यथः ॥ २८ ॥ तत्र योगाङ्गान्यवधार्यन्ते – यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २९ ॥ यथाक्रममेषामनुष्ठानं स्वरूपं च वक्ष्यामः ॥ २९ ॥ टीका तत्त्व-वैशारदी

सम्प्रति न्यूनाधिकसङ्ख्याव्यवच्छेदार्थं योगाङ्गान्यवधारयति - तत्र योगाङ्गान्यवधार्यन्त इति । यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि । अभ्यासवैराग्यश्रद्धावीर्यादयोऽपि यथायोगमेतेष्वेव स्वरूपतो नान्तरीयकतया चान्तर्भावयितव्याः ॥ २९ ॥ पातञ्जल-रहस्यम्

अष्टावङ्गानीतिप्रसिद्धिमाश्रित्याह - यमेति । सप्ष्टं ॥ २९ ॥ तत्र – अहिंसासत्यस्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३० ॥ तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोहः। उत्तरे च यमनियमास्तन्मूलास्तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते। तदवदातरूपकरणायेवोपादीयन्ते। तथा चोक्तम् – स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस्तामेवावदातरूपामहिंसां करोति। टीका तत्त्व-वैशारदी

यमनियमाद्यङ्गान्युद्दिश्य यमनिर्देशकं सूत्रमवतारयति - तत्रेति । अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः । योगाङ्गमहिंसामाह - सर्वथेति । ईदृशीमहिंसां स्तौति - उत्तरे चेति । तन्मूला इत्यहिंसामपरिपाल्य कृता अप्यकृतकल्पा निष्फलत्वादित्यर्थः । तत्सिद्धिपरतयैवानुष्ठानम् । अहिंसा चेन्मूलमुत्तरेषां कथं तेऽहिंसासिद्धिपरा इत्यत आह - तत्प्रतिपादनायेति । सिद्धिर्ज्ञानं नोत्पत्तिरित्यर्थः । स्यादेतत् । अहिंसाज्ञानार्था यद्युत्तरे कृतं तैरन्यत एव तदवगमादित्यत आह - तदवदातेति । यद्युत्तरे नानुष्ठीयेरन्नहिंसा मलिना स्यादसत्यादिभिरित्यर्थः । अत्रैवाऽऽगमिकानां समतिमाहे - तथा चेति । सुगमम् । सत्यं यथार्थे वाङ्मनसे। यथा दृष्टं यथाऽनुमितं तथा वाङ्मनश्चेति। परत्र स्वबोधसङ्क्रान्तये वागुक्ता, सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिवन्ध्या वा भवेदिति। एषा सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय। यदि चैवमप्यभिधीयमाना भूतोपघातपरैव स्यान्न सत्यं भवेत्पापमेव भवेत्तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात्। तस्मात्परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात्। टीका तत्त्व-वैशारदी

सत्यलक्षणमाह - यथार्थे वाङ्मनसे इति । यथाशब्दं साकाङ्क्षं पूरयति - यथा दृष्टमिति । प्रतिसम्बन्धिनं तथाशब्दं प्रतिक्षिपति - तथा वाङ्मनश्च विवक्षायां कर्तव्यायामिति । अन्यथा तु न सत्यमेतत्सोपपत्तिकमाह - परत्र पुरुषे स्वबोसङ्क्रान्तये स्वबोधसदृशबोधजननाय वागुक्तोच्चारिता, अतः सा यदि न वञ्चिता वञ्चिका यथा द्रोणाचार्येण स्वतनयाश्वत्थाममरणमायुष्मन्सत्यधनाश्वत्थामा हत इति पृष्टस्य युधिष्ठिरस्य प्रतिवचनं हस्तिनमभिसन्धाय सत्यं हतोऽश्वत्थामेति तदिदमुक्तस्योत्तरं न युधिष्ठिरस्य स्वबोधं सङ्क्रामयति । स्वबोधो ह्यस्य हस्तिहननविषय इन्द्रियजन्मा, न चासौ सङ्क्रान्तः किं त्वन्य एव तस्य तनयवधबोधो जात इति । भ्रान्ता वा भ्रान्तिजा वा, भ्रान्तिश्च विवक्षासमये वा ज्ञेयार्थावधारणसमये वा । प्रतिपत्त्या वन्ध्या प्रतिपत्तिवन्ध्या यथाऽर्थान्प्रति म्लेच्छभाषा प्रतिपत्तिवन्ध्या, निष्प्रयोजना वा स्यादिति यथाऽनपेक्षिताभिधाना वाक्तत्र हि परत्र स्वबोधस्य सङ्क्रान्तिरप्यसङ्क्रान्तिरेव निष्प्रयोजनत्वादिति । एवंलक्षणमपि सत्यं परापकारफलं सत्याभासं न तु सत्यमित्याह - एषेति । तद्यथा सत्यतपसस्तस्करैः सार्थगमनं पृष्टस्य सार्थगमनाभिधानमिति । अभिधीयमानोच्चार्यमाणा । शेषं सुगमम् । स्तेयमशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणं, तत्प्रतिषेधः पुनरस्पृहारूपमस्तेयमिति। ब्रह्मचर्यं गुप्तेन्द्रियस्योपस्थस्य संयमः। विषयाणामर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणमपरिग्रह इत्येते यमाः ॥ ३० ॥ टीका तत्त्व-वैशारदी

अभावस्य भावाधीननिरूपणतया स्तेयलक्षणमाह - स्तेयमशास्त्रपूर्वकमिति । विशेषेण सामान्यं लक्ष्यत इत्यर्थः । मानसव्यापारपूर्वकत्वाद्वाचनिककायिकव्यापारयोः प्राधान्यान्मनोव्यापार उक्तोऽस्पृहारूपमिति । ब्रह्मचर्यस्वरूपमाह - गुप्तेति । संयतोपस्थोऽपि हि स्त्रीप्रेक्षणतदालापकन्दर्पायतनतङ्गर्स्पशनसक्तो न ब्रह्मचर्यवानिति तन्निरासायोक्तं गुप्तेन्द्रियस्येति । इन्द्रियान्तराण्यपि तत्र लोलुपानि रक्षणीयानीति । अपरिग्रहस्वरूपमाह - विषयाणामिति । तत्र सङ्गदोष उक्तो भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति, हिंसालक्षणश्च दोषो नानुपहत्य भूतान्युपभोगः सम्भवतीति । अशास्त्रीयाणामयत्नोपनतानामपि विषयाणां निन्दितप्रतिग्रहादिरूपार्जनदोषदर्शनात् शास्त्रीयाणामप्युपार्जितानां च रक्षणादिदोषदर्शनादस्वीकरणमपरिग्रहः ॥ ३० ॥ पातञ्जल-रहस्यम्

यम उपरम इत्यस्य रूपं यमा इति, उपरम्यन्ते निवर्त्यन्ते विषयेभ्यो मनसेन्द्रियाणीति यमास्ते चाहिंसाऽऽदयः पञ्चेत्याह - तत्रेति । उत्तरे च नव, तन्मूलऽहिंसा, एतदेव करोत्यन्तेन स्पष्टयतीत्यर्थः, यथाऽर्थे अर्थाव्यभिचारिणी प्रत्यक्षमनुमानं च शास्त्रञ्चेति त्रयाणामविप्लवो यत्र तत्सत्यम्, एतदेव द्रढयति – परत्रेत्यादि - ब्रूयादित्यन्तेन, मलेच्छो वा यदपशब्द इयुक्तेः, आर्यं प्रति मलेच्छभाषा प्रतिपत्तिबन्ध्या ज्ञानाजननी यथाऽङ्गुल्यग्रे हस्तियूथशतमास्त इति, अस्तेयं सप्रतियोगिकमाह - स्तेयमिति । गुप्तेन्द्रियस्य जुगुप्सितस्य सर्वदा गोपनीयस्य वस्त्रादिना वा, तच्चाष्टधा —

“श्रवणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च” इति,

स्त्रीविषयेन्द्रियाणि लोलुपानि रक्षणीयानीति भावः ॥ ३० ॥ ते तु – जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ ३१ ॥ तत्राहिंसा जात्यवच्छिन्ना मत्स्यवधकस्य मत्स्येष्वेव नान्यत्र हिंसा। सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति। सैव कालावच्छिन्ना न चतुर्दश्यां न पुण्येऽहनि हनिष्यामीति। सैव त्रिभिरुपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे नान्यथा हनिष्यामीति। यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति। एभिर्जाति देशकालसमयैरनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः। सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यन्ते ॥ ३१ ॥ टीका तत्त्व-वैशारदी

सामान्यत उक्ता यादृशाः पुनर्योगिनामुपादेयास्तादृशान्वक्तुं सूत्रमवतारयति - ते त्विति । जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् । सर्वासु जात्यादिलक्षणासु भूमिषु विदिताः सार्वभौमाः । अहिंसादय इत्यन्यत्राप्यवच्छेद ऊहनीयः । सुगमं भाष्यम् ॥ ३१ ॥ पातञ्जल-रहस्यम्

जात्याद्यवच्छिन्नासु चतसृषु हिंसासु योगिनामत्यन्ता प्रवृत्तिः सा महाव्रतमिति परिभाषितमिति परिभाषासूत्रम्, एवं सत्यं यत्र त्रैवर्णिकानां वधस्तत्र मिथ्या प्रवक्तव्यमिति, तदपि योगिनां निषिद्धमिति, तत्र समाध्यादिना निर्वहति चेत् तदा महाव्रतमिति भावः ॥ ३१ ॥ शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२ ॥ तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यम्। आभ्यन्तरं चित्तमलानामाक्षालनम्। सन्तोषः सन्निहितसाधनादधिकस्यानुपादित्सा। तपो द्वन्द्वसहनम्। द्वन्द्वाश्च जिघत्सापिपासे शीतोष्णे स्थानासने काष्ठमौनाकारमौने च। व्रतानि चैषां यथायोगं कृच्छ्रचान्द्रायणसान्तपनादीनि। स्वाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा। ईश्वरप्रणिधानं तस्मिन्परमगुरौ सर्वकर्मार्पणम्। शय्यासनस्थोऽथ पथि व्रजन्वा स्वस्थः परिक्षीणवितर्कजालः। संसारबीजक्षयमीक्षमाणः स्यान्नित्ययुक्तोऽमृतभोगभागी ॥ यत्रेदमुक्तं ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्चेति ॥ ३२ ॥ टीका तत्त्व-वैशारदी

शौचादिनियमानाचष्टे - शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः । व्याचष्टे - शौचमिति । आदिशब्देन गोमयादयो गृह्यन्ते । गोमूत्रयावकादि मेध्यं तस्याभ्यवहरणादि । आदिशब्दाद्ग्रासपरिमाणसङ्ख्यानियमादयो ग्राह्याः । मेध्याभ्यवहरणादिजनितमिति वक्तव्ये मेध्याभ्यवहरणादि चेत्युक्तं कार्ये कारणोपचारात् । चित्तमला मदमानासूयादयस्तदपनयो मनःशौचम् । प्राणत्राणमात्रहेतोरभ्यधिकस्या नुपादित्सा सन्तोषः प्रागेव स्वीकरणपरित्यागादिति शेषः । काष्ठमौनमिङ्गितेनापि स्वाभिप्रायाप्रकाशनम् । अवचनमात्रमाकारमौनम् । परिक्षीणवितर्कजाल इति वितर्को वक्ष्यमाणः संशयविपर्ययौ वेति । एतावता शुद्धोऽभिसन्धिरुक्तः । एते च यमनियमा विष्णुपुराण उक्ताः –

ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् । सेवेत योगी निष्कामो योग्यतां स्वमनो नयन् ॥

स्वाध्यायशौचसन्तोषतपांसि नियतात्मवान् । कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणं मनः ॥

एते यमाः सनियमाः पञ्च पञ्च प्रकीर्तिताः । विशिष्टफलदाः काम्या निष्कामाना(णां) विमुक्तिदाः ॥ इति ॥ ३२ ॥ पातञ्जल-रहस्यम्

नियम्यन्ते कर्त्तव्यतया बुद्धौ निश्चीयन्तेऽमी इति नियमास्तान् सर्वान् हि सूत्रारूढान् करोति,

“मृज्जलाभ्यां स्मृतं बाहयं भावशुद्धिस्तथाऽऽन्तरामि”ति,

द्विविधं शौचमिति । गोमूत्रयावकं = गोमूत्रसिद्धं यवान्नम्, अभ्यवहरणं = भक्षणम् तथा प्राणयात्रावतां देहे प्राणास्तिष्ठन्ति, ननु सन्तोषापरिग्रहयोः को विशेषस्तत्राह - प्रागिति । अर्जनादिदोषदर्शनादस्वीकरणे यदृच्छालाभसन्तोषोऽपरिग्रहः, अत्र निर्वाहानतिरिक्तः परिग्रहः प्रोक्त इत्यंशतः परिग्रहोऽस्तीति भेदः, एते काष्ठमौनाकारमौने कर्तव्ये इति शेषः, तत्र ईश्वरप्रणिधानादिति भाष्याथः, निष्कामानां विमुक्तिदा;, अशुद्धिपरिक्षयादिति शेषः, धर्मेण पापमपनुदतीति श्रुतेः ॥ ३२ ॥ एतेषां यमनियमानाम् – वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३ ॥ यदाऽस्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन्हनिष्याम्यहमपकारिणमनृतमपि वक्ष्यामि क्रयमप्यस्य स्वीकरिष्यामि दारेषु चास्य व्यवायी भविष्यामि परिग्रहेषु चास्य स्वामी भविष्यामीति। एवमुन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन बाध्यमानस्तत्प्रतिपक्षान्भावयेत्। घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणमुपागतः सर्वभूताभयप्रदानेन योगधर्मः। स खल्वहं त्यक्त्वा वितर्कान्पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति भावयेत्। टीका तत्त्व-वैशारदी

“श्रेयांसि बहुविघ्नानि” इत्येषामपवादसम्भवे तत्प्रतीकारोपदेशपरं सूत्रमवतारयति - एतेषां यमनियमानामिति । सूत्रं - वितर्कबाधने प्रतिपक्षभावनम् । वितर्काणां भाष्ये नास्ति तिरोहितमिव किञ्चन ॥ ३३ ॥ यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनराददान इति मादि सूत्रान्तरेष्वपि योज्यम् ॥ ३३ ॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ ३४ ॥ तत्र हिंसा तावत् – कृता कारिताऽनुमोदितेति त्रिधा। एकैका पुनस्त्रिधा लोभेन मांसचर्मार्थेन क्रोधेनापकृतमनेनेति मोहेन धर्मो मे भविष्यतीति। लोभक्रोधमोहाः पुनस्त्रिविधा मृदुमध्याधिमात्रा इति। एवं सप्तविंशतिर्भेदा भवन्ति हिंसायाः। मृदुमध्याधिमात्राः पुनस्त्रिधा - मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरिति। तथा मृदुमध्यो मध्यमध्यस्तीव्रमध्य इति। तथा मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति। एवमेकाशीतिभेदा हिंसा भवति। सा पुनर्नियमविकल्पसमुच्चयभेदादसङ्ख्येया, प्राणभृद्भेदस्यापरिसङ्ख्येयत्वादिति। एवमनृतादिष्वपि योज्यम्। टीका तत्त्व-वैशारदी

तत्र वितर्काणां स्वरूपप्रकारकारणधर्मफलभेदान्प्रतिपक्षभावनाविषयान्प्रतिपक्षभावना-स्वरूपाभिधित्सया सूत्रेणाऽऽह - वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपतिक्षभावनम् । व्याचष्टे - तत्र हिंसेति । ते खल्वमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्। दुःखमज्ञानं चानन्तं फलं येषामिति प्रतिपक्षभावनम्। तथा च हिंसकस्तावत्प्रथमं वध्यस्य वीर्यमाक्षिपति। ततश्च शस्त्रादिनिपातेन दुःखयति। ततो जीवितादपि मोचयति। ततो वीर्याक्षेपादस्य चेतनाचेतनमुपकरणं क्षीणवीर्यं भवति। दुःखोत्पादान्नरकतिर्यक्प्रेतादिषु दुःखमनुभवति, जीवितव्यपरोपणात्प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नपि दुःखविपाकस्य नियतविपाकवेदनीयत्वात्कथञ्चिदेवोच्छ्वसिति। यदि च कथञ्चित्पुण्यावापगता हिंसा भवेत्तत्र सुखप्राप्तौ भवेदल्पायुरिति। एवमनृतादिष्वपि योज्यं यथासम्भवम्। एवं वितर्काणां चामुमेवानुगतं विपाकमनिष्टं भावयन्न वितर्केषु मनः प्रणिदधीत ॥ ३४ ॥ टीका तत्त्व-वैशारदी

प्राणभृद्भेदस्यापरिसङ्ख्येयत्वान्नियमविकल्पसमुच्चयाः सम्भविनो हिंसादिषु । तत्राधर्मतस्तमःसमुद्रेके सति चतुर्विधविपर्ययलक्षणस्याज्ञानस्याप्युदय इत्यज्ञानफलत्वमयेतेषामिति । दुःखाज्ञानानन्तफलत्वमेव हि प्रतिपक्षभावनं तद्वशादैम्यो निवृत्तेरिति । तदेव प्रतिपक्षभावनं स्फोटयति - वध्यस्य पश्वादेर्वीर्यं प्रयत्नं कायव्यापारहेतुं प्रथममाक्षिपति यूपनियोजनेन । तेन हि पशोरप्रागल्भ्यं भवति । शेषमतिस्फुटम् ॥ ३४ ॥ पातञ्जल-रहस्यम्

वितर्का इति । स्वाभीष्टसाधनत्वेनानुष्ठीयन्ते हिंसाऽऽदयः ते मृदुमध्याधिमात्रान्ता एकाशीतिः, किम्प्रयोजना इत्यत्राह - दुःखाज्ञानानन्तफला इति, एषां प्रतिपक्षभावनं - हिंसा न कर्तव्या न कारयितव्या नानुमोदयितव्या इति प्रतिकूलभावनं, तत्र पक्षिलस्वामिभाष्यमुदाहरति - प्राणभृद्भेदस्यापरिसङ्ख्येयत्वादिति, अस्य = हिंसकस्य, चेतनं = पुत्रादि, अचेतनं = धनादि, क्षीणवीर्यम् = असमर्थं स्यादित्यर्थः, जीवितस्य व्यपरोक्षणात् = जीवितस्यायुषः व्यपरोपनणात् तयाजनाद्, दुःखविपाकस्य नियतत्वेन वेदनीयस्य भोगैकनाश्यत्वाद्, उच्छवसिति = जीवति, पुण्येषु ज्योतिष्ठोमादिजनितधर्मेष्वावापगता = जातप्रवेशा दुःखाजनकत्वेऽप्यायुःक्षयकारिणीति भाष्यार्थः ॥ ३३ - ३४ ॥ प्रतिपक्षभावनाद्धेतोर्हेया वितर्का यदाऽस्य स्युरप्रसवधर्माणस्तदा तत्कृतमैश्वर्यं योगिनः सिद्धिसूचकं भवति। तद्यथा – अहिंसाप्रतिष्ठायां तत्सन्निधा वैरत्यागः ॥ ३५ ॥ सर्वप्राणिनां भवति ॥ ३५ ॥ टीका तत्त्व-वैशारदी

उक्ता यमनियमास्तदपवादकानां च वितर्काणां प्रतिपक्षभावनातो हानिरुक्ता, सम्प्रत्यप्रत्यूहं यमनियमाभ्यासात्तत्सिद्धिपरिज्ञानसूचकानि चिह्नान्युपन्यस्यति यत्परिज्ञानाद्योगी तत्र तत्र कृतकृत्यः कर्तव्येषु प्रवर्तत इत्याह(ति) – यदेति (प्रतिपक्षेति) । अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः । शाश्वतिकविरोधा अप्यश्वमहिषमूषक - मार्जाराहिनकुलादयोऽपि भगवतः प्रतिष्ठिताहिंसस्य सन्निधानात्तच्चित्तानुकारिणो वैरं परित्यजन्तीति ॥ ३५ ॥ पातञ्जल-रहस्यम्

यमादिदशानां सिद्धिसूचकानि तावदभिः सूत्रैराह - तत्रहिंसायां सिद्धायां तत्सन्निधौ वैरत्यागः, सर्वप्राणिनामिति शेषः, प्रशान्तश्वापदाकीर्णमित्युक्तेः ॥ ३५ ॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६ ॥ धार्मिको भूया इति भवति धार्मिकः, स्वर्गं प्राप्नुहीति स्वर्गं प्राप्नोति। अमोघाऽस्य वाग्भवति ॥ ३६ ॥ टीका तत्त्व-वैशारदी

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् । क्रियासाध्यौ धर्माधर्मौ क्रिया तत्फलं च स्वर्गनरकादि ते एवाऽऽश्रयतीत्याश्रयस्तस्य भावस्तत्त्वं तदस्य भगवतो वाचो भवतीति । क्रियाश्रयत्वमाह - धार्मिक इति । फलाश्रयत्वमाह - स्वर्गमिति । अमोघाऽप्रतिहता ॥ ३६ ॥ पातञ्जल-रहस्यम्

सत्यवागस्य सङ्कल्प इति श्रुतिमाश्रित्याह - अप्रतिहता न कदा चिदर्थव्यभिचारिणीति शेषः ॥ ३६ ॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७ ॥ सर्वदिक्स्थान्यस्योपतिष्ठन्ति रत्नानि ॥ ३७ ॥ टीका तत्त्व-वैशारदी

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् । सुबोधम् ॥ ३७ ॥ पातञ्जल-रहस्यम्

अस्तेयसिद्धौ किं स्यात्तत्राह - स्तेयमिति । सर्वदिक्कानि सर्वासु दिक्षूत्पन्नानि केनापि प्रकारेनाप्रार्थितानीति शेषः ॥ ३७ ॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८ ॥ यस्य लाभादप्रतिघान्गुणानुत्कर्षयति। सिद्धश्च विनेयेषु ज्ञानमाधातुं समर्थो भवतीति ॥ ३८ ॥ टीका तत्त्व-वैशारदी

ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः । वीर्यं सामर्थ्यं यस्य लाभादप्रतिघातप्रतिघातान्यूणानणिमादीनुत्कर्षयत्युपचिनोति । सिद्धश्च तारा(तर्का)दिभिरष्टाभिः सिद्धिभिरूहाद्यपरनामभिरुपेतो विनेयेषु शिष्येषु ज्ञानं येगेतदङ्गविषयमाधातुं समर्थो भवतीति ॥ ३८ ॥ पातञ्जल-रहस्यम्

ब्रह्मचर्यसिद्धौ किं स्यात्तत्राह - ब्रह्मेति । तारादिभिः तत्त्वकौमुद्यां तार-सुतार-तारतार-रम्यक-सदामुदित-प्रमोद-प्रमुदित-प्रमोदमानाख्याभिरष्टाभिः सिद्धिभिर्विनेयेषु शिष्यादिषु ज्ञानं योगादिविषयकमित्यर्थः ॥ ३८ ॥ अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ ३९ ॥ अस्य भवति। कोऽहमासं कथमहमासं किंस्विदिदं कथं स्विददं के वा भविष्यामः कथं वा भविष्याम इत्येवमस्य पूर्वान्तपरान्तमध्येष्वात्मभावजिज्ञासा स्वरूपेणोपावर्तते। एता यमस्थैर्ये सिद्धयः ॥ ३९ ॥ टीका तत्त्व-वैशारदी

अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः । निकायविशिष्टैर्देहेन्द्रियादिभिरभिसम्बन्धो जन्म तस्य कथन्ता किम्प्रकारता तस्याः सम्बोधः साक्षात्कारः सम्बोधः साक्षात्कारः सप्रकारातीन्द्रियशान्तोदिताव्यपदेश्यजन्मपरिज्ञानमिति यावत् । अतीतं जिज्ञासते - कोऽहमासमिति । तस्यैव प्रकारभेदमुत्पादे स्थितौ च जिज्ञासते - कथमहमासमिति । वर्तमानस्य जन्मनः स्वरूपं जिज्ञासते - किंस्विदिति । शरीरं भौतिकं किं भूतानां समूहमात्रमाहोस्वित्तेभ्योऽन्यदिति । अत्रापि कथंस्विदित्यनुषञ्जनीयम् । क्वचित्तु पठ्यत एव । अनागतं जिज्ञासते - के वा भविष्याम इति । अत्रापि कथंस्विदित्यनुषङ्गः । एवमस्येति । पूर्वान्तोऽतीतः कालः परान्तो भविष्यन्भध्यो । वर्तमानस्तेष्वात्मनो भावः शरीरादिसम्बन्धस्तस्मिञ्जिज्ञासा ततश्च ज्ञानं, यो हि यदिच्छति स तत्करोतीति न्यायात् ॥ ३९ ॥ पातञ्जल-रहस्यम्

अपरिग्रहे सिद्धे किं स्यादित्याह - अपरीति । निकायविशिष्टैर्देवत्वादिजातिविशिष्टैः प्रकारः = विशेषणता कोहऽमनुष्यादिषु, उत्पादे कथं जातोऽस्मि स्थितौ केन भोगादिना जन्मवान्, ज्ञानेच्छाकृतीनां साहित्यमाह - ततश्चेति । इति यमाः पञ्च ॥ ३९ ॥ नियमेषु वक्ष्यामः – शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४० ॥ स्वाङ्गे जुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर्भवति। किं च परैरसंसर्गः कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृज्जलादिभिराक्षालयन्नपि कायशुद्धिमपश्यन्कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्येत ॥ ४० ॥ टीका तत्त्व-वैशारदी

शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः । अनेन बाह्यशौचसिद्धिसूचकं कथितम् ॥ ४० ॥ पातञ्जल-रहस्यम्

नियमान्सूत्रारूढान् कृत्वा तत्फलं च प्रथमतः शौचमाह - शौचादित्यादि, देहवित्तात् प्रमाद्यतीत्युक्तिमाश्रित्यानभिष्तङ्गी अनासक्तः, किञ्च परैरिति । काय आधेयशौचत्वादित्यादिस्मरणेन यस्य स्वकाये जुगुप्सा तस्य पराकाये त्वर्थत इति, कथामित्याक्षेपे ॥ ४० ॥ किं च – सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ ४१ ॥ भवन्तीति वाक्यशेषः। शुचेः सत्त्वशुद्धिस्ततः सौमनस्यं तत ऐकाग्र्यं तत इन्द्रियजयस्ततश्चाऽऽत्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीत्येतच्छौचस्थैर्यादधिगम्यत इति ॥ ४१ ॥ टीका तत्त्व-वैशारदी

आन्तरशौचसिद्धिसूचकमाह - किञ्चेति । सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च । चित्तमलानामाक्षालने चित्तसत्त्वममलं प्रादुर्भवति वैमल्यात्सौमनस्यं स्वच्छता स्वच्छं तदेकाग्रं ततो मनस्तन्त्राणामिन्द्रियाणां तज्जयाज्जयस्तत आत्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीति ॥ ४१ ॥ पातञ्जल-रहस्यम्

शौचस्थैय किं स्यात्तत्राह - सत्त्वेति । एतानि पञ्चानुभवारूढानि करोति – शुचेरित्यादि -गम्यत इत्यन्तेन ॥ ४१ ॥ सन्तोषादनुत्तमः सुखलाभः ॥ ४२ ॥ तथा चोक्तम् – यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ इति ॥ ४२ ॥ टीका तत्त्व-वैशारदी

सन्तोषादनुत्तमः सुखलाभः । न विद्यतेऽस्मादुत्तम इत्यनुत्तमः । यथा चोक्तं ययातिना पूरौ यौवनमर्पयता –

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यताम् । तां तृष्णां सन्त्यजन्प्राज्ञः सुखेनैवाभिपूर्यते ॥ इति ।

तदेतद्दर्शयति - यच्च कामसुखं लोक इत्यादिना ॥ ४२ ॥ पातञ्जल-रहस्यम्

सन्तोषे सति किं स्यात्तत्राह - सन्तोषादिति । तत्र विष्णुपुराणे वचनमाह - यच्चेति । तृष्णाराहित्यं सन्तोष इति ॥ ४२ ॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥ ४३ ॥ निर्वर्त्यमानमेव तपो हिनस्त्यशुद्ध्यावरणमलं तदावरणमलापगमात्कायसिद्धिरणिमाद्या। तथेन्द्रियसिद्धिर्दूराच्छ्रवणदर्शनाद्येति ॥ ४३ ॥ टीका तत्त्व-वैशारदी

तपःसिद्धिसूचकमाह - कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः । अशुद्धिलक्षणमावरणं तामसमधर्मादि । अणिमाद्या महिमा लघिमा प्राप्तिश्च । सुगमम् ॥ ४३ ॥ पातञ्जल-रहस्यम्

तपस्थैर्ये किं स्यात्तत्राह - कायेति । तपःकारणको शुद्धिक्षयः ततः कायेन्द्रियादिसिद्धिरित्यर्थः, निर्वर्त्यमानं क्रियामाणम् अणिमा लघिमा महिमा प्राप्तिः प्राकाम्यं चैव पञ्चमम् ईशित्वञ्च वशित्वं च तथा कामावसायितेत्यष्टौ सिद्धयः ॥ ४३ ॥ स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥ ४४ ॥ देवा ऋषयः सिद्धाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति,कार्ये चास्य वर्तन्त इति ॥ ४४ ॥ टीका तत्त्व-वैशारदी

स्वाध्यायसिद्धिसूचकमाह - स्वाध्यायादिष्टदेवतासम्प्रयोगः । सुगमम् ॥ ४४ ॥ पातञ्जल-रहस्यम्

स्वाध्यायसिद्धावाह - स्वाध्यायादिति । ईशनं साक्षात्कारं कार्थे = अनुग्रहादौ ॥ ४४ ॥ समाधिसिद्विरीश्वरप्रणिधानात् ॥ ४५ ॥ ईश्वरार्पितसर्वभावस्य समाधिसिद्धिर्यया सर्वमीप्सितमवितथं जानाति देशान्तरे देहान्तरे कालान्तरे च। ततोऽस्य प्रज्ञा यथाभूतं प्रजानातीति ॥ ४५ ॥ टीका तत्त्व-वैशारदी

समाधिसिद्धिरीश्वरप्रणिधानात् । न च वाच्यमश्विरप्रणिधानादेव चेत्सम्प्रज्ञातस्य समाधेरङ्गिनः सिद्धिः कृतं सप्तभिरङ्गैरिति । ईश्वरप्रणिधानसिद्धौ दृष्टादृष्टावान्तरव्यापारेण तेषामुपयोगात् । सम्प्रज्ञातसिद्धौ च संयोगपृथक्त्वेन दध्न इव क्रत्वर्थता पुरुषार्थता च । न चैवमनन्तरङ्गता धारणाध्यानसमाधीनां सम्प्रज्ञातसिद्धौ । सम्प्रज्ञातसमानगोचरतयाऽङ्गान्तरेभ्योऽतद्गोचरेभ्योऽस्यान्तरङ्गत्वप्रतीतेः । ईश्वरप्रणिधानमपि हीश्वरगोचरं न सम्प्रज्ञेयगोचरमिति बहिरङ्गमिति सर्वमवदातम् । प्रजानातीति प्रज्ञापदव्युत्पत्तिर्दर्शिता ॥ ४५ ॥ पातञ्जल-रहस्यम्

ईश्वरप्राणिधानात्किं स्यात्तत्राह - समाधीति । सप्तभिर्यमनियमाद्यैः दृष्टव्यापार “आसनेन रुजं हन्ती”त्यादिना रोगनिवृत्तिः शरीरदृढीकरणं मनस्थैर्यं चेत्यदृष्टं प्राणायामेन पातकमिति द्वयं यथा दधीति । क्रत्वर्थता दध्ना जुहोतीति होमनिर्वाहकपुरुषार्थता दध्नेन्द्रियकामस्य जुदुयादिति, अङ्गान्तरेभ्यः यमादिपञ्चकेभ्यः साक्षात् मनस्थैयंहेतुत्वात् ॥ ४५ ॥ उक्ताः सह सिद्धिभिर्यमनियमाः। आसनादीनि वक्ष्यामः। तत्र – स्थिरसुखमासनम् ॥ ४६ ॥ तद्यथा पद्मासनं भद्रासनं स्वस्तिकं दण्डासनं सोपाश्रयं पर्यङ्कं क्रौञ्चनिषदनं हस्तिनिषदनमुष्ट्रनिषदनं समसंस्थानं स्थिरसुखं यथासुखं चेत्येवमादीनि ॥ ४६ ॥ टीका तत्त्व-वैशारदी

उत्तरसूत्रमवतारयति - उक्ताः सह सिद्धिभिर्यमनियमाः । आसनादीनि वक्ष्यामः । तत्र – स्थिरसुखमासनम् । स्थिरं निश्चलं यत्सुखं सुखावहं तदासनमिति सूत्रार्थः । आस्यत आस्ते वाऽनेनेत्यासनम् । तस्य प्रभेदानाह - तद्यथेति । पद्मासनं प्रसिद्धम् । स्थितस्यैकतरः पादो भून्यस्त एकतरश्चाऽऽकुञ्चितजानोरुपार न्यस्त इत्येतद्वीरासनम् । पादतले वृषणसमोपे सम्पुटीकृत्य तस्योपरि पाणिकच्छपिकां कुर्यात्तद्भद्रासनम् । सव्यमाकुञ्चितं चरणं दक्षिणजङ्घोर्वन्तरे दक्षिणं चाऽऽकुञ्चितं वामजङ्घोर्वन्तरे निक्षिपेदेतत्स्वस्तिकम् । उपविश्य श्लिष्टाङ्गुलिकौ श्लिष्टगुल्फौ भूमिश्लिष्टजङ्घोरुपादौ प्रसार्य दण्डासनमभ्यसेत् । योगपट्टकयोगात्सोपाश्रयम् । जानुप्रसारितबाहोः शयनं पर्यङ्कः । क्रौञ्चनिषदनादीनि क्रौञ्चादीनां निषण्णानां संस्थानदर्शनात्प्रत्येतव्यानि । पार्ष्ण्यग्रपादाभ्यां द्वयोराकुञ्चितयोरन्योन्यसम्पीडनं समसंस्थानं, येन संस्थानेनावस्थितस्य स्थैर्यं सुखं च सिध्यति तदासनं स्थिरमुखम् । तदेतद्भगवतः सूत्रकारस्य सम्मतं, तस्य विवरणं यथासुखं चेति ॥ ४६ ॥ पातञ्जल-रहस्यम्

आसनेन रुजं हन्तीत्युक्तं; तत् किमात्मकं किंलक्षणकं चेत्याह - स्थिरेति । पाणिकच्छपिकामनीरन्ध्रमङ्गुलिप्रसारितवामहस्तोपरि तथैव प्रसारितदक्षिणहस्तः किं बहुना येन केनापि संस्थानेनावस्थितस्य स्थैर्यं सुखं चेत् सिध्यति तदासनं स्थिरं सुखञ्चेति ॥ ४६ ॥ प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ ४७ ॥ भवतीति वाक्यशेषः। प्रयत्नोपरमात्सिध्यत्यासनं येन नाङ्गमेजयो भवति। अनन्ते वा समापन्नं चित्तमासनं निर्वर्तयतीति ॥ ४७ ॥ टीका तत्त्व-वैशारदी

आसनस्वरूपमुक्त्वा तत्साधनमाह - प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् । सांसिद्धिको हि प्रयत्नः शरीरधारको न योगाङ्गस्योपदेष्टव्यासनस्य कारणं तस्य तत्कारणत्व उपदेशवैयर्थ्यात्स्वरसत एव तत्सिद्धेः । तस्मादुपदेष्टव्यस्याऽऽसनस्यायमसाधको विरोधी च स्वाभाविकः प्रयत्नस्तस्य च यादृच्छिकासनहेतुतयाऽऽसननियमोपहन्तृत्वात् । तस्मादुपदिष्टनियमासनमभ्यस्यता स्वाभाविकप्रयत्नशैथिल्याय प्रयत्न आस्थेयो नान्यथोपदिष्टमासनं सिध्यतीति स्वाभाविकप्रयत्नशैथिल्यमासनसिद्धिहेतुः । अनन्ते वा नागनायके स्थिरतरफणासहस्रविधृतविश्वम्भरामण्डले समापन्नं चित्तमासनं निर्वर्तयतीति ॥ ४७ ॥ पातञ्जल-रहस्यम्

ततः किं तत्राह - प्रेति । असञ्जातविरोधित्वेनाश्रितस्य निवर्तकः शास्त्रीयप्रयन्तः, अनधिगतगन्तृत्वात् शास्त्रस्येत्याह - उपदेशवैयर्थ्यादिति । नागनायके नागानां प्रभौ, प्रभुत्वमेवाह - स्थिरेत्यादिना, विश्वम्भरा = धरित्री ॥ ४७ ॥ ततो द्वन्द्वानभिघातः ॥ ४८ ॥ शीतोष्णादिभिर्द्वन्द्वैरासनजयान्नाभिभूयते ॥ ४८ ॥ टीका तत्त्व-वैशारदी

आसनविजयसृचकमाह – ततो द्वन्द्वानभिघातः । निगदव्याख्यातं भाष्यम् । आसनमप्युक्तं विष्णुपुराणे –

एवं भद्रासनादीनां समास्थाय गुणैर्युतम् ॥ इति ॥ ४८ ॥ पातञ्जल-रहस्यम्

आसनसिद्धौ किं स्यात्तत्राह - तत इति । द्वन्द्वानि शीतोष्णादीनि तैरासनजयान्नाभिभूयते, “आसनेन रुजं हन्ती”त्युक्तेः ॥ ४८ ॥ तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ ४९ ॥ सत्यासनजये बाह्यस्य वायोराचमनं श्वासः, कौष्ठ्यस्य वायोर्निःसारणं प्रश्वासः, तयोर्गतिविच्छेद उभयाभावः प्राणायामः ॥ ४९ ॥ टीका तत्त्व-वैशारदी

आसनानन्तरं तत्पूर्वकतां प्राणायामस्य दर्शयंस्तल्लक्षणमाह - तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः । रेचकपूरककुम्भकेष्वस्ति श्वासप्रश्वासयोर्गतिविच्छेद इति प्राणायामसामान्यलक्षणमेतदिति । तथाहि - यत्र बाह्यो वायुराचम्यान्तर्धार्यते पूरके तत्रास्ति श्वासप्रश्वासयोर्गतिविच्छेदः । यत्रापि कौष्ठ्यो वायुविरेच्य बहिर्धार्यते रेचके तत्रास्ति श्वासप्रश्वासयोर्गतिविच्छेदः । एवं कुम्भकेऽपीति । तदेतद्भाष्येणोच्यते - सत्यासनेति ॥ ४९ ॥ स तु – बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ ५० ॥ यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः। यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः। तृतीयः स्तम्भवृत्तिर्यत्रोभयाभावः सकृत्प्रयत्नाद्भवति। यथा तप्ते न्यस्तमुपले जलं सर्वतः सङ्कोचमापद्यते तथा द्वयोर्युगपद्गत्यभाव इति। त्रयोऽप्येते देशेन परिदृष्टा इयानस्य विषयो देश इति। कालेन परिदृष्टाः क्षणानामियत्तावधारणेनावच्छिन्ना इत्यर्थः। सङ्ख्याभिः परिदृष्टा एतावद्भिः श्वासप्रश्वासैः प्रथम उद्धातस्तद्वन्निगृहीतस्यैतावद्भिर्द्वितीय उद्धात एवं तृतीयः। एवं मृदुरेवं मध्य एवं तीव्र इति सङ्ख्यापरिदृष्टः। स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः ॥ ५० ॥ टीका तत्त्व-वैशारदी

प्राणायामविशेषत्रयलक्षणपरं सूत्रमवतारयति – स त्विति । बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः । वृत्तिशब्दः प्रत्येकं सम्बध्यते । रचेकमाह - यत्र प्रश्वासेति । पूरकमाह - यत्र श्वासेति । कुम्भकमाह - तृतीय इति । तदेव स्फुटयति - यत्रोभयोः श्वासप्रश्वासयोः सकृदेव विधारकात्प्रयत्नादभावो भवति न पुनः पूर्ववदापूरणप्रयत्नौघविधारकप्रयत्नो नापि रेचकप्रयत्नौघविधारकप्रयत्नोऽपेक्ष्यते । किन्तु यथा तप्त उपले निहितं जलं परिशुष्यत्सर्वतः सङ्कोचमापद्यत एवमयमपि मारुतो वहनशीलो बलवद्विधारकप्रयत्ननिरुद्धक्रियः शरीर एव सूक्ष्मीभूतोऽवतिष्ठते नतु पूरयति येन पूरकः । न तु रेचयति येन रेचक इति । इयानस्य देशो विषयः प्रादेशवितस्तिहस्तादिपरिमितो निवातप्रदेश ईषीकातूलादिक्रियानुमितो बाह्य एवमान्तरोऽप्यापादतलमामस्तकं पिपीलिकास्पर्शसदृशेनानुमितः स्पर्शेन । निमेषक्रियावच्छिन्नस्य कालस्य चतुर्थो भागः क्षणस्तेषामियत्तावधारणेनावच्छिन्नः । स्वजानुमण्डलं पाणिना त्रिः परामृश्य च्छोटिकावच्छिन्नः कालो मात्रा ताभिः षटत्रिंशता मात्राभिः परिमितः प्रथम उद्धातो मृदुः । स एव द्विगुणीकृतो द्वितीयो मध्यमः । स एव त्रिगुणीकृतस्तृतोयस्तीव्रः । तमिमं सङ्ख्यापरिदृष्टं प्राणायाममाह - सङ्ख्याभिरिति । स्वस्थस्य हि पुंसः श्वासप्रश्वासक्रियावच्छिन्नेन कालेन यथोक्तच्छोटिकाकालः समानः । प्रथमोद्धातकर्मतां नति उद्धातो विजितो वशीकृतो निगृहीतः । क्षणानामियत्ता कालो विवक्षितः । श्वासप्रश्वासेयत्ता सङ्ख्येति कथञ्चिद्भेदः । स खल्वयं प्रत्यहमभ्यस्तो दिवसपक्षमासादिक्रमेण देशकालप्रचयव्यापितया दीर्घः । परमनैपुण्यसमधिगमनीयतया च सूक्ष्मो न तु मन्दतया ॥ ५० ॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१ ॥ देशकालसङ्ख्याभिर्बाह्यविषयपरिदृष्ट आक्षिप्तः। तथाऽऽभ्यन्तरविषयपरिदृष्ट आक्षिप्तः। उभयथा दीर्घसूक्ष्मः। तत्पूर्वको भूमिजयात्क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः। तृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः। चतुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात्क्रमेण भूमिजयादुभयाक्षेपपूर्वको गत्यभावश्चतुर्थः प्राणायाम इत्ययं विशेष इति ॥ ५१ ॥ टीका तत्त्व-वैशारदी

एवं त्रयो विशेषा लक्षिताः । चतुर्थं लक्षयति - बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः । व्याचष्टे - देशकालसङ्ख्याभिरिति । आक्षिप्तोऽभ्यासवशीकृताद्रूपादवरोपितः सोऽपि दीर्घसूक्ष्म एव तत्पूर्वको बाह्याभ्यन्तरविषयप्राणायामो देशकालसङ्ख्यादर्शनपूर्वकः । न चासौ चतुर्थस्तृतीय इव सकृत्प्रयत्नादहाय जायते किं त्वभ्यस्यमानस्तां तामवस्थामापन्नस्तत्तदवस्थाविजयानुक्रमेण भवतीत्याह - भूमिजयादिति । ननूभयोर्गत्यभावः स्तम्भवृत्तावप्यस्तीति कोऽस्मादस्य विशेष इत्यत आह - तृतीय इति । अनालोचनपूर्वः सकृत्प्रयत्ननिर्वर्तितस्तृतीयः । चतुर्थस्त्वालोचनपूर्वो बहुप्रयत्ननिर्वर्तनीय इति विशेषः । तयोः पूरकरेचकयोर्विषयोऽनालोचितोऽयं तु देशकालसङ्ख्याभिरालोचित इत्यर्थः ॥ ५१ ॥ पातञ्जल-रहस्यम्

प्राणायामस्य विभागमादर्शयन् प्राणायामलक्षणमाह - तस्मिन्निति । आचमनं पानम्, एवम् उदर्यस्य वायोर्निस्सरणं प्राणयामः, श्वासश्च प्रश्वासश्व श्वासप्रश्वासौ तौ चासेवयेदित्याह -रेचकेति । त्रिष्वपि तयोरेव विच्छेदो विरोध इत्याह - तथा हीति । आचमने प्रश्वासस्य गत्युपरमोऽन्तर्णयने श्वासस्य गत्युपरम इत्यर्थः, यथाऽधरां मूमिं पदाऽऽक्रंयोत्तरान्द्वितीयसोपानस्थानीयामधितिष्ठति तद्वदुत्तरोत्तरं यावच्चतुर्थम् ॥ ४९ - ५१ ॥ ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥ प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म। यत्तदाचक्षते – महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वमावृत्य तदेवाकार्ये नियुङ्क्त इति। तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद्दुर्बलं भवति प्रतिक्षणं च क्षीयते। तथा चोक्तम् – “तपो न परं प्राणायामात्ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्य” इति ॥ ५२ ॥ टीका तत्त्व-वैशारदी

प्राणायामस्यावान्तरप्रयोजनमाह - ततः क्षीयते प्रकाशावरणम् । आव्रियतेऽनेन बुद्धिसत्त्वप्रकाश इत्यावरणं क्लेशः पाप्मा च । व्याचष्टे - प्राणायामानिति । ज्ञायतेऽनेनेति ज्ञानं बुद्धिसत्त्वप्रकाशो विवेकस्य ज्ञानं विवेकज्ञानम् । विवेकज्ञानमावृणोतीति विवेकज्ञानावरणीयम् । भव्यगेयप्रवचनीयादीनां कर्तरि निपातनस्य प्रदर्शनार्थत्वात्कोपनीयरञ्जनीयवदत्रापि कर्तरि कृत्यप्रत्ययः । कर्मशब्देन तज्जन्यमपुण्यं तत्कारणं क्लेशं च लक्षयति । अत्रैवाऽऽगमिनामनुमतिमाह - यत्तदाचक्षत इति । महामोहो रागः, तदविनिर्भागवर्तिन्यविद्याऽपि तद्ग्रहणेन गृह्यते । अकार्यमधर्मः । ननु प्राणायाम एव चेत्पाप्मानं क्षिणोति कृतं तर्हि तपसेत्यत आह - दुर्बलं भवतीति । न तु सर्वथा क्षीयतेऽतस्तत्प्रक्षयाय तपोऽपेक्ष्यत इति । अत्राप्यागमिनामनुमतिमाह - तथा चोक्तमिति । मनुरप्याह – “प्राणायामैर्दहेद्दोषान्” इति ।

प्राणायामस्य योगाङ्गता विष्णुपुराणोक्ता –

प्राणाख्यमनिलं वश्यमभ्यासात्कुरुते तु यः । प्राणायामः स विज्ञेयः सबीजोऽबीज एव च ॥

परस्परेणाभिभवं प्राणापानौ यदाऽऽनिलौ । कुरुतस्तद्विधानेन तृतीयं संयमात्तयोः ॥ इति ॥ ५२ ॥ पातञ्जल-रहस्यम्

प्राणायामेन पातकमित्युक्तिमाश्रित्याह - तत इति । प्रकाशशीलस्य ज्ञानस्यावराणम्प्रदीपस्येव घठादिरित्यर्थः, अपाने जुह्वति प्राणान् इत्यभिभवशब्दार्थः ॥ ५२ ॥ किं च – धारणासु च योग्यता मनसः ॥ ५३ ॥ प्राणायामाभ्यासादेव। प्रच्छर्दनविधारणाभ्यां वा प्राणस्य इति वचनात् ॥ ५३ ॥ टीका तत्त्व-वैशारदी

किं च - धारणासु च योग्यता मनसः । प्राणायामो हि मनः स्थिरीकुर्वन्धारणासु योग्यं करोति ॥ ५३ ॥ पातञ्जल-रहस्यम्

प्राणायामस्य फलान्तरमाह - धारणासु चेति । योग्यं वाहानादिष्वश्वमिव दान्तमित्यर्थः, प्रच्छर्दनं पूरकरेचकौ, विधारणं कुम्भकम् ॥ ५३ ॥ अथ कः प्रत्याहारः – स्वविषयासम्प्रयोगे चितस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४ ॥ स्वविषयसम्प्रयोगाभावे चित्तस्वरूपानुकार इवेति, चित्तनिरोधे चित्तवन्निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवदुपायान्तरमपेक्षन्ते। यथा मधुकरराजं मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनु निविशन्ते तथेन्द्रियाणि चित्तनिरोधे नीत्येष प्रत्याहारः ॥ ५४ ॥ टीका तत्त्व-वैशारदी

तदेवं यमादिभिः संस्कृतः संयमाय प्रत्याहारमारभते । तस्य लक्षणसूत्रमवतारयितुं पृच्छति - अथेति । स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः । चित्तमपि मोहनीयरञ्जनीयकोपनीयैः शब्दादिभिर्विषयैर्न सम्प्रयुज्यते तदसम्प्रयोगाच्चक्षुरादीन्यपि न सम्प्रयुज्यन्त इति सोऽयमिन्द्रियाणां चित्तस्वरूपानुकारः । यत्पुनस्तत्त्वं चित्तमभिनिविशते न तदिन्द्रियाणि बाह्यविषयाणीत्यननुकारोऽपि । अत उक्तमनुकार इवेति । स्वविषयासम्प्रयोगस्य साधारणस्य धर्मस्य चित्तानुकारनिमित्तत्वं सप्तम्या दर्शयति - स्वेति । अनुकारं विवृणोति - चित्तनिरोध इति । द्वयोर्निरोधहेतुश्च प्रयत्नस्तुल्य इति सादृश्यम् । अत्रैव दृष्टान्तमाह - यथा मधुकरराजमिति । दार्ष्टान्तिके योजयति - तथेति । अत्रापि विष्णुपुराणवाक्यम् -

शब्दादिष्वनुषक्तानि निगृह्याक्षाणि योगवित् । कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ॥

तस्य प्रयोजनं तत्रैव दर्शितम् -

वश्यता परमा तेन जायते निश्चलात्मनाम् । इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ इति ॥ ५४ ॥ पातञ्जल-रहस्यम्

पाठक्रमेण प्राप्तस्य प्रत्याहारस्य प्रश्नपूर्वकलक्षणमाह - स्वविषयाः शब्दादयो दश तैः सहेन्द्रियाणां च कृत्स्नानामेकादशानामश्रोतव्यताऽस्प्रष्टव्यताऽऽदिप्रकारेणासम्प्रयुक्तानामसम्प्रयोगेऽसंसर्गे सति यच्चित्तस्य स्वरूपानुकारे विषयाग्रहे तन्निमित्तावस्थाविषयकोपरमह परिणामराहित्यम् —

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । इति;

स एव प्रत्याहारो विषयेभ्यः प्रत्याहृतान्यसंयुक्तानीन्द्रियाणि भवन्तीत्यर्थः, एतदेवानुभवारूढं करोति - यया मधुकरराजो मुधुमक्षिकाश्रेष्ठो भ्रमरविशेषः स यत्रागत्य पतति तत्रैव सर्वे गत्वा पतन्तीति दृष्टचर इत्यर्थः ॥ ५४ ॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ॥ शब्दादिष्वव्यसनमिन्द्रियजय इति केचित्। सक्तिर्व्यसनं व्यस्यत्येनं श्रेयस इति। अविरुद्धा प्रतिपत्तिर्न्याय्या। शब्दादिसम्प्रयोगः स्वेच्छयेत्यन्ये। रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित्। चित्तैकाग्र्यादप्रतिपत्तिरेवेति जैगीषव्यः। ततश्च परमा त्वियं वश्यता यच्चित्तनिरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत्प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिन इति ॥ ५५ ॥ टीका तत्त्व-वैशारदी

अस्यानुवादकं सूत्रम् - ततः परमा वश्यतेन्द्रियाणाम् । ननु सन्ति किमन्या अपरमा इन्द्रियाणां वश्यता या अपेक्ष्य परमेयमुच्यते, अद्धा ता दर्शयति - शब्दादिष्विति । एतदेव विवृणोति - सक्ती रागो व्यसनम् । कया व्युपत्त्या व्यस्यति क्षिपति निरस्यत्येनं श्रेयस इति । तदभावोऽव्यसनं वश्यता । अपरामपि वश्यतामाह - अविरुद्धा श्रुत्याद्यविरुद्धशब्दादिसेवनं तद्विरुद्धेष्वप्रवृत्तिः सैव न्याय्या न्यायादनपेता यतः । अपरामपि वश्यतामाह - शब्दादिसम्प्रयोग इति । शब्दादिष्विन्द्रियाणां सम्प्रयोगः स्वेच्छया भोग्येषु खल्वयं स्वतन्त्रो न भोग्यतन्त्र इत्यर्थः । अपरामपि वश्यतामाह - रागद्वेषाभावे सुखदुःखशून्यं माध्यस्थ्येन शब्दादिज्ञानमित्येके । सूत्रकाराभिमतां वश्यतां परमर्षिसम्मतामाह - चितस्यैकाग्र्यात्सहेन्द्रियैरप्रवृत्तिरेव शब्दादिष्विति जैगीषव्यः । अस्याः परमतामाह - परमा त्विति । तु शब्दो वश्यतान्तरेभ्यो विशिनष्टि । वश्यतान्तराणि हि विषयाशीविषसम्प्रयोगशालितया क्लेशविषसम्पर्कशङ्कां नापक्रामन्ति । न हि विषविद्यावित्प्रकृष्टोऽपि वशीकृतभुजङ्गमो भुजङ्गममङ्के निधाय स्वपिति विश्रब्धः । इयं तु वश्यता विदूरीकृतनिखिलविषयव्यतिषङ्गा निराशङ्कतया परमेत्युच्यते । नेतरेन्द्रियजयवदिति । यथा यतमानसञ्ज्ञायामेकेन्द्रियजयेऽपीन्द्रियान्तरजयाय प्रयत्नान्तरमपेक्षन्ते नचैवं चित्तनिरोधे बाह्येन्द्रियनिरोधाय प्रयत्नान्तरापेक्षेत्यर्थः ॥ ५५ ॥

क्रियायोगं जगौ क्लेशान्विपाकान्कर्मणामिह । तद्दुःखत्वं तथा व्यूहान्पादे योगस्य पञ्चकम् ॥ इति । पातञ्जल-रहस्यम्

विषया विनिवर्तन्ते निराहारस्य देहिनः ।

रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्त्तत इति –

भगवद्वाक्यार्थः, वश्यतायां मतभेदानाह - शब्दादिष्विति । यदेच्छति तदा भुङ्क्ते, उपस्थिते भोग्येऽनातुरोऽपि च प्रवर्तत इति स्वातन्त्र्यं माध्यस्थ्यमिति,

“विश्वासश्च न कर्तव्यः स्त्रीषु राजकुलेषु च” इति न्यायेनाह - न हीत्यादि - विश्रब्धइत्यन्तेन

इन्द्रियाणां ह्रि चरतां यद्येकं क्षरतीन्द्रियम् ।

तेनास्य क्षरति प्रज्ञा दृतेः पादादिवैकास

मित्युक्तेश्च योगी यथेन्द्रियान्तरनिग्रहे यतत इत्याह - न चैवं चित्तेति । द्वितीयपादार्थ सङ्कलयति तृतीयपादार्थ वक्तुं क्रियायोगमिति ॥ ५५ ॥ विभूतिपादः उक्तानि पञ्च बहिरङ्गानि साधनानि। धारणावक्तव्या – देशबन्धश्चित्तस्य धारणा ॥ १ ॥ नाभिचक्रे हृदयपुण्डरीके मूर्ध्नि ज्योतिषि नासिकाग्रे जिह्वाग्र इत्येवमादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा ॥ १ ॥ टीका तत्त्व-वैशारदी

प्रथमद्वितीयपादाभ्यां समाधिस्तत्साधनं चोक्तम् । तृतीयपादे तत्प्रवृत्त्यनुगुणाः श्रद्धोत्पादहेतवो विभूतयो वक्तव्याः । ताश्च संयमसाध्याः । संयमश्च धारणाध्यानसमाधिसमुदाय इति विभूतिसाधनतया पञ्चभ्यश्च योगाङ्गेम्यो बहिरङ्गेभ्योऽस्याङ्गत्रयस्यान्तरङ्गतया विशेषज्ञापनार्थमत्र त्रयस्योपन्यासः । तत्रापि च धारणाध्यानसमाधीनां कार्यकारणभावेन नियतपौर्वापर्यत्वात्तदनुरोधेनोपन्यासे क्रम इति प्रथमं धारणा लक्षणीयेत्याह - उक्तानीति । देशबन्धश्चित्तस्य धारणा । आध्यात्मिकदेशमाह - नाभिचक्रे इति । आदिशब्देन ताल्वादयो ग्राह्याः । बन्धः सम्बन्धः । बाह्यदेशमाह - बाह्य इति । बाह्ये च न स्वरूपेण चित्तस्य सम्बन्धः सम्भवतीत्युक्तं वृत्तिमात्रेण ज्ञानमात्रेणेति ।

अत्रापि पुराणम् –

प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् । वशीकृत्य ततः कुर्याच्चित्तस्थानं शुभाश्रये ॥

शुभाश्रया बाह्या हिरण्यगर्भवासवप्रजापतिप्रभृतयः ।

इदं च तत्रोक्तम् –

मूर्तं भगवतो रूपं सर्वोपाश्रयनिस्पृहम् । एषा वै धारणा ज्ञेया यच्चित्तं तत्र धार्यते ॥

तच्च मूर्तं हरे रूपं यद्विचिन्त्य नराधिप । तच्छ्रूयतामनाधारा धारणा नोपपद्यते ॥

प्रसन्नवदनं चारुपद्मपत्रनिभेक्षणम् । सुकपोलं सुविस्तीर्णललाटफलकोज्ज्वलम् ॥

समकर्णान्तविन्यस्तचारुरकुण्डलभूषणम् । कम्बुग्रीवं सुविस्तीर्णश्रीवत्साङ्कितवक्षसम् ॥

वलीविभङ्गिना मग्ननाभिना चोदरेण च । प्रलम्बाष्टभुजं विष्णुमथ वाऽपि चतुर्भुजम् ॥

समस्थितोरुजङ्घं च स्वस्तिकाङ्घ्रिवराम्बुजम् । चिन्तयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम् ॥

किरीटचारुकेयूरकटकादिविभूषितम् । शार्ङ्गचक्रगदाखड्गशङ्खाक्षवलयान्वितम् ॥

चिन्तयेत्तन्मयो योगी समाधायाऽऽत्ममानसम् । तावद्यावद्दृढीभूता तत्रैव नृप धारणा ॥

एतदातिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः ।

नापयाति यदा चित्तं सिद्धां मन्येत तां तदा ॥ इति ॥ १ ॥ पातञ्जल-रहस्यम्

तृतीये दीयते पादे तस्मै चार्घ्यं सुपुष्कलम् । यद्दानैरिह चामुत्र योगी सिद्धिमवाप्नुयात् ॥

“देशबन्धश्चित्तस्य धारणा”, सङ्गतिमाह – उक्तानीति । प्रत्याहारान्तानि, पञ्वेति, उपादेये विषये चित्तं ध्रियतेऽनयेति धारणा न चलति चित्तमुद्धिष्टातिरिक्ते, देशानाह –नाभीति । अनाधारा = निर्विषयेति । समकर्णान्तेति । समौ यौ कर्णौ तयोरन्ते प्रान्ते विन्यस्ते युक्ते ये चारुकुण्डले भूषणे यत्र मूर्तौ मूर्छितावयवे हस्तपादादिपरिच्छिन्नावयवप्राये, अत एवोक्तं – ब्रह्मभूतं अस्त्रानुरोधेन षड्भुजत्वमभिमतमिति शेषः ॥ १ ॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ २ ॥ तस्मिन्देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृशः प्रवाहः प्रत्त्ययान्तरेणापरामृष्टो ध्यानम् ॥ २ ॥ टीका तत्त्व-वैशारदी

धारणासाध्यं ध्यान लक्षयति - तत्र प्रत्ययैकतानता ध्यानम् । एकतानतैकाग्रता । सुगमं भाष्यम् । अत्रापि पुराणम् –

तद्रूपप्रत्ययैकाग्र्यसन्ततिश्चान्यनिःस्पृहा । तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ॥ इति ॥ २ ॥ पातञ्जल-रहस्यम्

कार्यकारणभावसङ्गतिं प्रदर्शयन् क्रमप्राप्तं ध्यानमाह – “तत्र प्रत्ययकतानता ध्यानम्” अनुद्दिष्टाविषयकत्वे सत्युद्दिष्टविषयकप्रत्ययप्रवाहो ध्यानमित्यर्थः ॥ २ ॥ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३ ॥ ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति ध्येयस्वभावावेशात्तदा समाधिरित्युच्यते ॥ ३ ॥ टीका तत्त्व-वैशारदी

ध्यानसाध्यं समाधिं लक्षयति - तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः । व्याचष्टे - ध्यानमेवेति । ध्येयाकारनिर्भासमिति । ध्येयाकारस्यैव निर्भासो न ध्यानाकारस्येति । अत एवाऽऽह - शून्यमिति । ननु शून्यं चेत्कथं ध्येयं प्रकाशेतेत्यत आह - इवेति । अत्रैव हेतुमाह - ध्येयस्वभावावेशादिति ।

अत्रापि पुराणम् –

तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥ इति ।

ध्येयाद्ध्यानस्य भेदः कल्पना तद्धीनमित्यर्थः । अष्टाङ्गयोगमुक्त्वा खाण्डिक्याय केशिध्वज उपसञ्जहार–

क्षेत्रज्ञः करणो ज्ञानं करणं तदचेतनम् । निष्पाद्य मुक्तिकार्यं वै कृतकृत्यं निवर्तते ॥ इति ॥ ३ ॥ पातञ्जल-रहस्यम्

क्रमप्राप्तं समाधिमाह – तदेवार्थमात्रेति । ध्यानस्य चित्तवृत्तिरूपस्याभाने सति तद्ग्राह्यविशयमात्रस्य स्फूर्तिरित्यत उक्तं स्वरूपशून्यमिति ॥ ३ ॥ त्रयमेकत्र संयमः ॥ ४ ॥ तदेतद्धारणाध्यानसमाधित्रयमेकत्र संयम। एकविषयाणि त्रीणि साधनानि संयम इत्युच्यते। तदस्य त्रयस्य तान्त्रिकी परिभाषा संयम इति ॥ ४ ॥ टीका तत्त्व-वैशारदी

धारणाध्यानसमाधिरित्येतत्त्रयस्य तत्र तत्र नियुज्यमानस्य प्रातिस्विकसञ्ज्ञोच्चारणे गौरवं स्यादिति लाघवार्थं परिभाषासूत्रमवतारयति - त्रयमेकत्र संयमः । व्याचष्टे - एकविषयाणीति (तदेतदिति) । वाचकत्वशङ्कामपनयति - तदस्येति । तन्त्र्यते व्युत्पाद्यते योगो येन शास्त्रेण तत्तन्त्रं तद्भवा तान्त्रिकी । संयमप्रदेशाः परिणामत्रयसंयमादित्येवमादयः ॥ ४ ॥ पातञ्जल-रहस्यम्

यथा धर्माधर्मयोरदृष्टमिति परिभाषा लाघवाय तथाऽत्र धारनाध्यानसमाधीनामेकविषयकाणां संयम इति परिभाषा ॥ ४ ॥ तज्जयात्प्रज्ञालोकः ॥ ५ ॥ तस्य संयमस्य जयात्ससमाधिप्रज्ञाया भवत्यालोको यथा यथा संयमः स्थिरपदो भवति तथा तथा समाधिप्रज्ञा विशारदी भवति ॥ ५ ॥ टीका तत्त्व-वैशारदी

संयमविजयस्याभ्याससाधनस्य फलमाह - तज्जयात्प्रज्ञालोकः । प्रत्ययान्तरानभिभूतस्य निर्मलप्रवाहेऽवस्थानमालोकः प्रज्ञायाः । सुगमं भाष्यम् ॥ ५ ॥ पातञ्जल-रहस्यम्

तस्याः फलमाह - तज्जयादिति । आलोको = विशदीभावः ॥ ५ ॥ तस्य भूमिषु विनियोगः ॥ ६ ॥ तस्य संयमस्य जितभूमेर्याऽनन्तरा भूमिस्तत्र विनियोगः। न ह्यजिताधरभूमिरनन्तरभूमिं विलङ्घ्यप्रान्तभूमिषु संयमं लभते। तदभावाच्च कुतस्तस्य प्रज्ञालोकः। ईश्वरप्रसादाज्जितोत्तरभूमिकस्य च नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः। कस्मात्, तदर्थस्यान्यत एवावगतत्वात्। भूमेरस्या इयमनन्तरा भूमिरित्यत्र योग एवोपाध्यायः। कथम्। एवं ह्युक्तम् – योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्तते। योऽप्रमत्तस्तु योगेन स योगे रमते चिरम् ॥ इति ॥ ६ ॥ टीका तत्त्व-वैशारदी

क्व पुनर्विनियुक्तस्य संयमस्य फलमेतदित्यत आह - तस्य भूमिषु विनियोगः । भूमिं विशेषयति भाष्यकारः - तस्येति । जिताया भूमेर्याऽनन्तरा भूमिरवस्थाऽजिता तत्र विनियोगः । स्थूलविषये सवितर्के समाधौ वशीकृते संयमेन संयमस्याविजिते निर्वितर्के विनियोगः । तस्मिन्नपि वशीकृते सविचारे विनियोगः । एवं निर्विचारे विनियोग इत्यर्थः । अत एव स्थूलविषयसमापत्तिसिद्धौ सत्यां पुराणे तत्तदायुधभूषणापनयेन सूक्ष्मविषयः समाधिरवतारितः –

ततः शङ्खगदाचक्रशार्ङ्गादिरहितं बुधः । चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥

यदा च धारणा तस्मिन्नवस्थानवती ततः । किरीटकेयूरमुखैर्भूषणै रहितं स्मरेत् ॥

तदैकावयवं देवं सोऽहं चेति पुनर्बुधः ।

कुर्यात्ततो ह्यहमिति प्रणिधानपरो भवेत् ॥ इति ।

कस्मात्पुनरधरां भूमिं विजित्योत्तरां विजयते विपर्ययः कस्मान्न भवतीत्यत आह - न ह्यजिताधरभूमिरिति । न हि शिलाह्रदाद्गङ्गां प्रति प्रस्थितोऽप्राप्य मेधवनं गङ्गां प्राप्नोति । ईश्वरप्रसादाज्जितोत्तरभूमिकस्य चेति कस्मात्तदर्थस्योत्तरभूमिविजयस्थ प्रत्यासन्नस्यान्यत एवेश्वरप्रणिधानादेवावगतत्वात् । निष्पादितक्रिये कर्मण्यविशेषाधारिनः साधनस्य साधनन्यायातिपातादिति । स्यादेतदागमतः सामान्यतोऽवगतानामप्यवान्तरभूमिभेदानां कुतः पौर्वापर्यावगतिरित्यत आह - भूमेरस्या इति । जितः पूर्वो योग उत्तरस्य योगस्य ज्ञानप्रवृत्त्यधिगमहेतुः । अवस्थैवावस्थावानित्यभिप्रेत्यैतद्द्रष्टव्यम् ॥ ६ ॥ पातञ्जल-रहस्यम्

नियुक्तस्य तस्य क्व फलमित्याकाङ्क्षां पूरयति – तस्येति । विजितस्थूलभूमिकस्यानन्तराभूमिराह – स्थूलेत्यादि - विचारेत्यर्थमित्यन्तेन, अस्मिन्नर्थे पुराणसम्मतिमाह - पुराण इति । शिलाहदात् स्थालविशेषाद् मेघवनमपि तथैव, कारणं हि कार्यं साधयत् कारकं भवेद् नान्यथेत्याह – निष्पादितेति । अविशेषाधायिनः = अकुर्वाणस्य, साधयतीति साधनं यौगिकपदमिति न्यायः तस्यापतनमापातः ॥ ६ ॥ त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ७ ॥ तदेतद्धारणाध्यानसमाधित्रयमन्तरङ्गं सम्प्रज्ञातस्य समाधेः पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्य इति ॥ ७ ॥ टीका तत्त्व-वैशारदी

कस्मात्पुनर्योगाङ्गत्वाविशेषेऽपि संयमस्य तत्र तत्र विनियोगो नेतरेषां पञ्चानामित्यत आह - त्रयमन्तरङ्गं पूर्वेभ्यः । तदिदं साधनत्रयं साध्यसमानविषयत्वेनान्तरङ्गं न त्वेवं यमादयस्तस्मात्ते बहिरङ्गा इत्यर्थः ॥ ७ ॥ पातञ्जल-रहस्यम्

ज्ञानकर्मणोर्यथा मुक्तिं प्रत्यन्तरङ्गत्वं ज्ञानस्य, तथाऽत्र संयम इत्याह -त्रयमन्तरङ्गमिति । एकविषयत्वादन्तरङ्गत्वं बहिरङ्गेभ्यः; प्रत्याहारान्तेभ्यो विभिन्नविषयेभ्य इत्यर्थः ॥ ७ ॥ तदपि बहिरङ्गं निर्बीजस्य ॥ ८ ॥ तदप्यन्तरङ्गं साधनत्रयं निर्बीजस्य योगस्य बहिरङ्गं भवति। कस्मात्, तदभावे भावादिति ॥ ८ ॥ टीका तत्त्व-वैशारदी

साधनत्रयस्य सम्प्रज्ञात एवान्तरङ्गत्वं न त्वसम्प्रज्ञाते तस्य निर्बीजतया तैः सह समानविषयत्वाभावात्तेषु चिरनिरुद्धेषु सम्प्रज्ञातपरमकाष्ठापरनामज्ञानप्रसादरूपपरवैराग्यानन्तरम् उत्पादाच्चेत्याह - तदिति । तदपि बहिरङ्गं निर्बीजस्य । समानविषयत्वमन्तरङ्गत्वप्रयोजकमिह न तु तदनन्तरभावस्तस्य बहिरङ्गेश्वरप्रणिधानवर्तितया सव्यभिचारत्वादिति स्थिते सव्यभिचारमप्यन्तरङ्गलक्षणं तदनन्तरभावित्वमस्य नास्ति । तस्माद्दूरापेताऽन्तरङ्गता संयमस्यासम्प्रज्ञात इति दर्शयितुं तदभावे भावादित्युक्तम् ॥ ८ ॥ पातञ्जल-रहस्यम्

निर्बीजस्यासम्प्रज्ञातस्यसमाधेरित्याह – तदपीति - बहिरङ्गत्वे युक्तिमाह - ईश्वरप्रणिधानस्य नियमपक्षनिविष्टत्वेनान्तरङ्गत्वादित्याह – अन्तस्येत्यादि - तदनन्तरभावित्वमस्य नास्तीत्यन्तेन, तदभावे भावादिति भाष्यं, यमाद्यष्टनामभावेऽपि केवलात् परमवैराग्यादेव भावादस्येति भावः ॥ ८ ॥ अथ निरोधचित्तक्षणेषु चलं गुणवृत्तमिति कीदृशस्तदा चित्तपरिणामः – व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचितान्वयो निरोधपरिणामः ॥ ९ ॥ व्युत्थानसंस्काराश्चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्ययनिरोधे न निरुद्धा निरोधसंस्कारा अपि चित्तधर्मास्तयोरभिभवप्रादुर्भावौ व्युत्थानसंस्कारा हीयन्ते निरोधसंस्कारा आधीयन्ते। निरोधक्षणं चित्तमन्वेति तदेकस्य चित्तस्य प्रतिक्षणमिदं संस्कारान्यथात्वं निरोधपरिणामः। तदा संस्कारशेषं चित्तमिति निरोधसमाधौ व्याख्यातम् ॥ ९ ॥ टीका तत्त्व-वैशारदी

परिणामत्रयसंयमादित्यत्रोपयोक्ष्यमाणपरिणामत्रयं प्रतिपिपादयिषुर्निर्बीजप्रसङ्गेन पृच्छति - अथेति । व्युत्थानसम्प्रज्ञातयोश्चित्तस्य स्फुटतरपरिणामभेदप्रचयानुभवान्न प्रश्नावतारो निरोधे तु नानुभूयते परिणामः । न चाननुभूयमानो नास्ति चित्तस्य त्रिगुणतया चलत्वेन गुणानां क्षणमप्यपरिणामस्यासम्भवादित्यर्थः । प्रश्नोत्तरं सूत्रम् - व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः । असम्प्रज्ञातं समाधिमपेक्ष्य सम्प्रज्ञातो व्युत्थानम् । निरुध्यतेऽनेनेति निरोधो ज्ञानप्रसादः परं वैराग्यं तयोर्व्युत्थाननिरोधसंस्कारयोरभिभवप्रादूर्भावौ । तत्र व्युत्थानसंस्कारस्याभिभवो निरोधसंस्कारस्य आविर्भावश्चित्तस्य धर्मिणो निरोधक्षणस्य निरोधावसरस्य द्वयोरवस्थयोरन्वयः । नहि चित्तं धर्मि सम्प्रज्ञातावस्थायामसम्प्रज्ञातावस्थायां च संस्काराभिभवप्रादुर्भावयोः स्वरूपेण भिद्यत इति । ननु यथोत्तरे क्लेशा अविद्यामूला अविद्यानिवृत्तौ निवर्तन्त इति न तु तन्निवृत्तौ पृथक्प्रयत्नान्तरमास्थीयत एवं व्युत्थानप्रत्ययमूलाः संस्कारा व्युत्थानप्रत्ययनिवृत्तावेव निवर्तन्त इति तन्निवृत्तौ न निरोधसंस्कारोऽपेक्षितव्य इत्यत आह - व्युत्थानसंस्कारा इति । न कारणमात्रनिवृत्तिः कार्यनिवृत्तिहेतुर्मा भूत्कुविन्दनिवृत्तावपि पटस्य निवृत्तिरपि तु यत्कारणात्मकं यत्कार्यं तत्कारणनिवृत्तौ तत्कार्यनिवृत्तिः । उत्तरे च क्लेशा अविद्यात्मान इत्युक्तमतस्तन्निवृत्तौ तेषां निवृत्तिरुपपन्ना । न त्वेवं प्रत्ययात्मानः संस्काराश्चिरनिरुद्धे प्रत्यये सम्प्रति स्मरणदर्शनात् । तस्मात्प्रत्ययनिवृत्तावपि तन्निवृत्तौ निरोधसंस्कारप्रचय एवोपासनीय इत्यर्थः । सुगममन्यत् ॥ ९ ॥ पातञ्जल-रहस्यम्

निरोधेऽभावात्तदा चित्तपरिणामोऽस्ति न वेति सन्दिहानः पृच्छति – अथेति सूत्रारूढङ्करोति – व्युत्थानेति । व्युत्थाननिरोधसंस्कारयोः सम्प्रज्ञातसंस्कारपरवैराग्यसंस्कारयोर्मध्ये पूर्वस्याभिभव उत्तरस्याविर्भावो बाधकतया स्थितिरिति निरोधं व्याप्यपि चित्तं धर्मि अन्वेत्यनुगच्छतीत्यतो निरोधपरिणामो वैराग्यसंस्कार एवानुवर्तत इति सूत्रार्थः, प्रत्ययात्मकाः = वृत्त्युपादानकारणकाः संस्काराः किन्तु चित्तपक्षनिक्षिप्तत्वेन विद्यन्त इत्यत आह – प्रत्ययनिरोधे न निरुद्धाः, एतदेव विवृणोति भाष्यकारो निरोधेत्यादि – व्याख्यातमित्यन्तेन, अन्वयपदस्य व्याख्या संस्कारशेषमिति ॥ ९ ॥ तस्य प्रशान्तवाहिता संस्कारात् ॥ १० ॥ निरोधसंस्काराभ्यासपाटवापेक्षा प्रशान्तवाहिता चित्तस्य भवति। तत्संस्कारमान्द्ये व्युत्थानधर्मिणा संस्कारेण निरोधधर्मसंस्कारोऽभिभूयत इति ॥ १० ॥ टीका तत्त्व-वैशारदी

सर्वथा व्युत्थानसंस्काराभिभवे तु बलवता । निरोधसंस्कारेण चित्तस्य कीदृशः परिणाम इत्यत आह - तस्य प्रशान्तवाहिता संस्कारात् । व्युत्थानसंस्कारमलरहितनिरोधसंस्कारपरम्परामात्रवाहिता प्रशान्तवाहिता । कस्मात्पुनः संस्कारपाटवमपेक्षते न तु संस्कारमात्रमित्यत आह - तत्संस्कारमान्द्य इति । तदिति निरोधं परामृशति । ये तु नाभिभूयत इति पठन्ति ते तदा व्युत्थानं परामृशन्ति ॥ १० ॥ पातञ्जल-रहस्यम्

तत्त्वपक्षपातो हि धियां स्वभाव इति न्यायेनाह – “तस्यप्रशान्तवाहिता संस्कारात्”, क्षणमप्यपरिणम्य गुणा न तिष्ठन्तीति वैराग्यसंस्कारमान्द्यं कदाचित् व्युत्थानसंस्कारः प्रबलः स्यादतः सूत्रस्यार्थवादत्वपरिहाराय कर्तव्यपदमध्याहार्यं तेन प्रशान्तवाहिप्रत्ययान्तरवत्त्वमनुष्ठेयमिति शेषः ॥ १० ॥ सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ११ ॥ सर्वार्थता चित्तधर्मः। एकाग्रताऽपि चित्तधर्मः। सर्वार्थतायाः क्षयस्तिरोभाव इत्यर्थः। एकाग्रताया उदय आविर्भाव इत्यर्थः। तयोर्धमित्वेनानुगतं चित्तं, तदिदं चित्तमपायोपजनयोः स्वात्मभूतयोर्धर्मयोरनुगतं समाधीयते स चित्तस्य समाधिपरिणामः ॥ ११ ॥ टीका तत्त्व-वैशारदी

सम्प्रज्ञातसमाधिपरिणामावस्थां चित्तस्य दर्शयति - सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः । विक्षिप्तता सर्वार्थता । सन्न विनश्यतीति क्षयस्तिरोभावो नासदुत्पद्यत इति उदय आविर्भावः । स्वात्मभूतयोः सर्वार्थतैकाग्रतयोर्धर्मयोर्यावपायोपजनौ सर्वार्थताया अपाय एकाग्रताया उपजनस्तयोरनुगतं चित्तं समाधीयते पूर्वापरीभूतसाध्यमानसमाधिविशेषणं भवतीति ॥ ११ ॥ पातञ्जल-रहस्यम्

सूत्रं सर्वार्थता - समाधिपरिणाम इति । धर्माद्यकारता हि सर्वार्थता सा निरोध्या योगविरोधित्वादेकाग्रताया योगानुकूलत्वादनुष्ठेयतेत्युपदिश्यत इति तात्पर्यमित्यर्थः ॥ ११ ॥ ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥ समाहितचित्तस्य पूर्वप्रत्ययः शान्त उत्तरस्तत्सदृश उदितः, समाधिचित्तमुभयोरनुगतं पुनस्तथैवाऽऽसमाधिभ्रेषादिति। स खल्वयं धर्मिणश्चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥ टीका तत्त्व-वैशारदी

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः । पुनः समाधेः पूर्वापरीभूताया अवस्थायाः समाधिनिष्पत्तौ सत्यां शान्तोदितावतीतवर्तमानौ, तुल्यौ च तौ प्रत्ययौ चेति तुल्यप्रत्ययौ । एकाग्रतायां तु द्वयोः सादृश्यम् । समाहितचित्तस्येति समाधिनिष्पत्तिर्दर्शिता । तयैवैकाग्रमेव । अवधिमाह - आसमाधिभ्रेषाद् भ्रंशाद् इति ॥ १२ ॥ पातञ्जल-रहस्यम्

क्षयोदयौ व्याख्यातौ, कदाचिदतीतवर्तमानप्रत्ययौ चित्ते धर्मिणि सति सदृशौ भवतस्तावप्येकाग्रता कथ्यते योगाविरुद्धत्वादित्याह – तत इति । तयोरवधिमाह –समाधिभ्रंशान्नाशाद्, व्युत्थाने सति तौ न स्त इति शेषः ॥ १२ ॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ १३ ॥ एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः। तत्र व्युत्थाननिरोधयोर्धर्मयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः। लक्षणपरिणामश्च। निरोधस्त्रिलक्षणस्त्रिभिरध्वभिर्युक्तः। स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः। यत्रास्य स्वरूपेणाभिव्यक्तिः। एषोऽस्य द्वितीयोऽध्वा। न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः। टीका तत्त्व-वैशारदी

प्रासङ्गिकं च वक्ष्यमाणौपयिकं च भूतेन्द्रियपरिणामं विभजते - एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः । व्याचष्टे - एतेनेति । ननु चित्तपरिणतिमात्रमुक्तं न तु तत्प्रकारा धर्मलक्षणावस्थापरिणामास्तत्कथं तेषामतिदेश इत्यत आह - तत्र व्युत्थाननिरोधयोरिति । धर्मलक्षणावस्थाशब्दाः परं नोच्चारिता नतु धर्मलक्षणावस्थापरिणामा नोक्ता इति सङ्क्षेपार्थः । तथाहि व्युत्थाननिरोधसंस्कारयोरित्यत्रैव सूत्रे धर्मपरिणाम उक्तः । इमं च धर्मपरिणामं दर्शयता तेनैव धर्माधिकरणो लक्षणपरिणामोऽपि सूचित एवेत्याह - लक्षणपरिणाम इति । लक्ष्यतेऽनेनेति लक्षणं कालभेदः । तेन हि लक्षितं वस्तु वस्त्वन्तरेभ्यः कालान्तरयुक्तेभ्यो व्यवच्छिद्यत इति । निरोधस्त्रिलक्षणः । अस्यैव व्याख्यानं त्रिभिरध्वभिर्युक्तः । अध्वशब्दः कालवचनः । स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा, तत्किमध्ववद्धर्मत्वमप्यतिपतति नेत्याह - धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः । य एव निरोधोऽनागत आसीत्स एव सम्प्रति वर्तमानो नतु निरोधोऽनिरोध इत्यर्थः । वर्तमानतास्वरूपव्याख्यानम् - यत्रास्य स्वरूपेण स्वोचितार्थक्रियाकारिणा रूपेणाभिव्यक्तिः समुदाचारः । एषोऽस्य प्रथममनागतमध्वानमपेक्ष्य द्वितीयोऽध्वा । स्यादेतदनागतमध्वानं हित्वा चेद्वर्तमानतामापन्नस्तां च हित्वाऽतीततामापत्स्यते हन्त भोरध्वनामुत्पादविनाशौ स्याताम् । न चेष्येते, न ह्यसत उत्पादो नापि सतो विनाश इत्यत आह – न चातीतानागताभ्यां सामान्यात्मनाऽवस्थिताम्यां वियुक्त इति । तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्नम्। एषोऽस्य तृतीयोऽध्वा। न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम्। एवं पुनर्व्युत्थानमुपसम्पद्यमानमनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम्। यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः। एषोऽस्य द्वितीयोऽध्वा। न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तमिति। एवं पुनर्निरोध एवं पुनर्व्युत्थानमिति। तथाऽवस्थापरिणामः। तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इति। एष धर्माणामवस्थापरिणामः। तत्र धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानामप्यवस्थाभिः परिणाम इति। एवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणमपि गुणवृत्तमवतिष्ठते। चलं च गुणवृत्तम्। गुणस्वाभाव्यं तु प्रवृत्तिकारणमुक्तं गुणानामिति। एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात्त्रिविधः परिणामो वेदितव्यः। टीका तत्त्व-वैशारदी

अनागतस्य निरोधस्य वर्तमानतालक्षणं दर्शयित्वा वर्तमानव्युत्थानस्यातीततां तृतीयमध्वानमाह - तथा व्युत्थानमिति । तत्किं निरोध एवानागतो न व्युत्थानं नेत्याह - एवं पुनर्व्युत्थानमिति । व्युत्थानजात्यपेक्षया पुनर्भावो न व्यक्त्यपेक्षया । न ह्यतीतं पुनर्भवतीति । स्वरूपाभिव्यक्तिरर्थक्रियाक्षमस्याऽऽविर्भावः । स चैवं लक्षणपरिणाम उक्तस्तज्जातीयेषु पौनःपुन्येन वर्तत इत्यत आह – एवं पुनरिति । धर्मपरिणामसूचितमेवावस्थापरिणाममाह - तथेति । धर्माणां वर्तमानाध्वनां बलवत्त्वाबलवत्त्वे अवस्था तस्याः प्रतिक्षणं तारतम्यं परिणामः । उपसंहरति - एष इति । परिणामभेदानां सम्बन्धिभेदान्निर्धारयति - तत्रानुभवानुसाराद्धर्मिण इति । तत्किमेष परिणामो गुणानां कादाचित्को नेत्याह - एवमिति । कस्मात्पुनरयं परिणामः सदातन इत्यत आह - चलं चेति । चो हेत्वर्थः । वृत्तं प्रचारः । एतदेव कुत इत्यत आह - गुणस्वाभाव्यमिति । उक्तमत्रैव पुरस्तात् । सोऽयं त्रिविधोऽपि चित्तपरिणामो भूतेन्द्रियेषु सूत्रकारेण निर्दिष्ट इत्याह - एतेनेति । एष धर्मपरिणामभेदो धर्मधर्भिणोर्भेदमालक्ष्य । तत्र भूतानां पृथिव्यादीनां धर्मिणां गवादिर्घटादिर्वा धर्मपरिणामः । धर्माणां चातीतानागतवर्तमानरूपता लक्षणपरिणामः । वर्त- मानलक्षणापन्नस्य गवादेर्बाल्यकौमारयौवनवार्धक्यमवस्थापरिणामः । घटादीनामपि नवपुरातनताऽवस्थापरिणामः । एवमिन्द्रियाणामपि धर्मिणां तत्तन्नीलाद्यालोचनं धर्मपरिणामो धर्मस्य वर्तमानतादिलक्षणपरिणामो वर्तमानलक्षणस्य रत्नाद्यालोचनस्य स्फुटत्वास्फुटत्वादिरवस्थापरिणामः । सोऽयमेवंविधो भूतेन्द्रियपरिणामो धर्मिणो धर्मलक्षणावस्थानां भेदमाश्रित्य वेदितव्यः । परमार्थतस्त्वेक एव परिणामः। धर्मिस्वरूपमात्रो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति। तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वं भवति नतु द्रव्यान्यथात्वम्। यथा सुवर्णभाजनस्य भित्त्वाऽन्यथाक्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वमिति। टीका तत्त्व-वैशारदी

अभेदमाश्रित्याऽऽह - परमार्थतस्त्विति । तु शब्दो भेदपक्षाद्विशिनष्टि । पारमार्थिकत्वमस्य ज्ञाप्यते न त्वन्यस्य परिणामत्वं निषिध्यते । कस्मात् - धर्मिस्वरूपमात्रो हीति । ननु यदि धर्मविक्रियैव धर्मः कथमसङ्करप्रत्ययो लोके परिणामेष्वित्यत आह – धर्मद्वारेति । धर्मशब्देन धर्मलक्षणावस्था परिगृह्यन्ते । तद्वारेण धर्मिण एव विक्रियेत्येका चासङ्कीर्णा च । तद्वाराणामभेदेऽपि धर्मिणः परस्परासङ्करात् । ननु धर्माणामभिन्नत्वे धर्मिणोऽध्वनां च भेदे धर्मिणोऽनन्यत्वेन धर्मेणापीह धर्मिवद्भवितव्यमित्यत आह - तत्र धर्मस्येति । भावः संस्थानभेदः । सुवर्णादेर्यथा भाजनस्य रुचकस्वस्तिकव्यपदेशभेदो भवति तन्मात्रमन्यथा भवति न तु द्रव्यं सुवर्णमसुवर्णतामुपैति अत्यन्तभेदाभावादिति । अपर आह – धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात्। पूर्वापरावस्थाभेदमनुपतितः कौटस्थ्येनैव परिवर्तेत यद्यन्वयी स्यादिति। अयमदोषः। कस्मात्। एकान्ततानभ्युपगमात्। तदेतत्त्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात्। अपेतमप्यस्ति विनाशप्रतिषेधात्। संसर्गाच्चास्य सौक्ष्म्यं, सौक्ष्म्याच्चानुपलब्धिरिति। टीका तत्त्व-वैशारदी

वक्ष्यमाणाभिसन्धिरेकान्तवादिनं बौद्धमुत्थापयति - अपर आहेति । धर्मा एव हि रुचकादयस्तथोत्पन्नाः परमार्थसन्तो न पुनः सुवर्णं नाम किञ्चिदेकमनेकेष्वनुगतं द्रव्यमिति । यदि पुनर्निवर्तमानेष्वपि धर्मेषु द्रव्यमनुगतं भवेत्ततो न चितिशक्तिवत्परिणमेतापि तु कौटस्थ्येनैव परिवर्तेत । परिणामात्मकं रूपं परिहाय रूपान्तरेण कौटस्थ्येन परिवर्तनं परिवृत्तिः । यथा चितिशक्तिरन्यथान्यथाभावं भजमानेष्वपि गुणेषु स्वरूपादप्रच्युता कूटस्थनित्यैवं सुवर्णाद्यपि स्यान्न चेष्यते । तस्मान्न द्रव्यमतिरिक्तं धर्मेभ्य इति ।

परिहरति - अयमदोष इति । कस्मात् । एकान्ततानभ्युपगमात् । यदि चितिशक्तेरिव द्रव्यस्यैकान्तिकीं नित्यतामभ्युपगच्छेम तत एवमुपालभ्येमहि । नत्वैकान्तिकीं नित्यतामातिष्ठामहे किन्तु तदेतत्त्रैलोक्यं न तु द्रव्यमात्रं व्यक्तेरर्थक्रियाकारिणो रूपादपैति । कस्मान्नित्यत्वप्रतिषेधात्प्रमाणेन । यदि हि घटो व्यक्तेर्नापेयात्कपालशर्कराचूर्णादिष्ववस्थास्वपि व्यक्तो घट इति पूर्ववदुपलब्ध्यर्थक्रिये कुर्यात्तस्मादनित्यं त्रैलोक्यम् । अस्तु तर्ह्यनित्यमेवोपलब्ध्यर्थक्रियारहितत्वेन गगनारविन्दवदतितुच्छत्वादित्यत आह - अपेतमप्यस्ति, नात्यन्ततुच्छता येनैकान्ततोऽनित्यं स्यादित्यर्थः । कस्माद्विनाशप्रतिषेधात्प्रमाणेन । तथाहि यत्तुच्छं न तत्कदाचिदप्युपलब्ध्यर्थक्रिये करोति । यथा गगनारविन्दम् । करोति चैतत्त्रैलोक्यं कदाचिदुपलब्ध्यर्थक्रिये इति । तथोत्पत्तिमद्द्रव्यत्वधर्मलक्षणावस्थायोगित्वादयोऽप्यत्यन्ततुच्छगगननलिन-नरविषाणादिव्यावृत्ताः सत्त्वहेतव उदाहार्याः । तथाच धर्मी नात्यन्तं नित्यो येन चितिशक्तिवत्कूटस्थनित्यः स्यात्किन्तु कथञ्चिन्नित्यः । तथाच परिणामीति सिद्धम् । एतेन मृत्पिण्डाद्यवस्थासु कार्याणां घटादीनामनागतानां सत्त्वं वेदितव्यम् । स्यादेतत् । अपेतमपि चेदस्ति कस्मात्पूर्ववन्नोपलभ्यत इत्यत आह - संसर्गात्स्वकारणलयात्सौक्ष्म्यं दर्शनानर्हत्वं ततश्चानुपलब्धिरिति । लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतवर्तमानाभ्यां लक्षणाभ्यामवियुक्तः। तथाऽनागतोऽनागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः। तथा वर्तमानो वर्तमानलक्षणयुक्तोऽतीतानागताभ्यां लक्षणाभ्यामवियुक्त इति। यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति। टीका तत्त्व-वैशारदी

तदेवं धर्मपरिणामं समर्थ्य लक्षणपरिणाममपि लक्षणानां परस्परानुगमनेन समर्थयते - लक्षणपरिणाम इति । एकैकं लक्षणं लक्षणान्तराभ्यां समनुगतमित्यर्थः । नन्वेकलक्षणयोगे लक्षणान्तरे नानुभूयेते तत्कथं तद्योग इत्यत आह - यथा पुरुष इति । नह्यनुभवाभावः प्रमाणसिद्धमपलपति, तदुत्पाद एव तत्र तत्सद्भावे प्रमाणमसत उत्पादासम्भवान्नरविषाणवदिति । अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगादध्वसङ्करः प्राप्नोतीति परैर्दोषश्चोद्यत इति। तस्य परिहारः – धर्माणां धर्मत्वमप्रसाध्यम्। सति च धर्मत्वे लक्षणभेदोऽपि वाच्यो न वर्तमानसमय एवास्य धर्मत्वम्। एवं, हि न चित्तं रागधर्मकं स्यात्क्रोधकाले रागस्यासमुदाचारादिति। टीका तत्त्व-वैशारदी

परोक्तं दोषमुत्थापयति - अत्र लक्षणपरिणाम इति । यदा धर्मो वर्तमानस्तदैव यद्यतीतोऽनागतश्च तदा त्रयोऽप्यध्वानः सङ्कीर्येरन्ननुक्रमेण चाध्वनां भावेऽसदुत्पादप्रसङ्ग इति भावः । परिहरति - तस्य परिहार इति । वर्तमानतैव हि धर्माणामनुभवसिद्धा ततः प्राक्पश्चात्कालसम्बन्धमवगमयति । न खल्वसदुत्पद्यते न च सद्विनश्यति । तदिदमाह - एवं हि न चित्तमिति । क्रोधोत्तरकालं हि चित्तं रागधर्मकमनुभूयते । यदा च रागः क्रोधसमयेऽनागतत्वेन नाऽऽसीत्कथमसावुत्पद्येतानुत्पन्नश्च कथमनुभूयेतेति । किञ्च त्रयाणां लक्षणानां युगपदेकस्यां व्यक्तौ नास्ति सम्भवः। क्रमेण तु स्वव्यञ्जकाञ्जनस्य भावो भवेदिति। उक्तं च रूपातिशया वृत्त्यतिशयाश्च विरुध्यन्ते, सामान्यानि त्वतिशयैः सह प्रवर्तन्ते। तस्मादसङ्करः। यथा रागस्यैव क्वचित्समुदाचार इति न तदानीमन्यत्राभावः किन्तु केवलं सामान्येन समन्वागत इत्यस्ति तदा तत्र तस्य भावः। तथा लक्षणस्येति। टीका तत्त्व-वैशारदी

भवत्वेवं तथाऽपि कुतोऽध्वनामसङ्कर इति पृच्छति - किञ्ञ्चेति । किं कारणमसङ्करे । चः पुनरर्थे । उत्तरमाह - त्रयाणां लक्षणानां युगपन्नास्ति सम्भवः । कस्मिन्नेकस्यां चित्तवृत्तौ । क्रमेण तु लक्षणानामेकतमस्य स्वव्यञ्जकाञ्जनस्य भावो भवेत्सम्भवेल्लक्ष्याधीननिरूपणतया लक्षणानां लक्ष्याकारेण तद्वत्ता । अत्रैव पञ्चशिखाचार्यसम्मतिमाह - उक्तं चेति । एतच्च प्रागेव व्याख्यातम् । उपसंहरति - तस्मादिति । आविर्भावतिरोभावरूपविरुद्धधर्मसंसर्गादसङ्करोऽध्वनामिति । दृष्टान्तमाह - यथा रागस्येति । पूर्वं क्रोधस्य रागसम्बन्धावगमो दर्शित इति । इदानीं तु विषयान्तरवर्तिनो रागस्य विषयान्तरवर्तिना रागान्तरेण सम्बन्धावगम इति । दार्ष्टान्तिकमाह - तथा लक्षणस्येतीति । न धर्मी त्र्यध्वा धर्मास्तु त्र्यध्वानस्ते लक्षिता अलक्षितास्तत्र लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः। यथैका रेखा शतस्थाने शतं दशस्थाने दशैका चैकस्थाने। यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति। टीका तत्त्व-वैशारदी

ननु सत्यप्यनेकान्ताभ्युपगमेऽभेदोऽस्तीति धर्मलक्षणावस्थान्यत्वे तदभिन्नस्य धर्मिणोऽप्यन्यत्वप्रसङ्गः । स एव च नेष्यते तदनुगमानुभवविरोधादित्यत आह - न धर्मी त्र्यध्वा यतस्तदभिन्ना धर्मास्त्र्यध्वानः । धर्माणामध्वत्रययोगमेव स्फोटयति - ते लक्षिता अभिव्यक्ता वर्तमाना इति यावत् । अलक्षिता अनभिव्यक्ता अनागता अतीता इ(श्चे)ति यावत् । तत्र लक्षितास्तां तामवस्थां बलवत्त्वदुर्बलत्वादिकां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः । अवस्था शब्देन धर्मलक्षणावस्था उच्यन्ते । एतदुक्तं भवति - अनुऽभव एव हि धर्मिणो धर्मादीनां भेदाभेदौ व्यवस्थापयति न ह्येकान्तिकेऽभेदे धर्मादीनां धर्मिणो धर्मिरूपवद्धर्मादित्वम् । नाप्यैकान्तिके भेदे गवाश्ववद्धर्मादित्वम् । स चानुभवोऽनैकान्तिकत्वमवस्थापयन्नपि धर्मादिषूपजनापायधर्मकेष्वपि धर्मिणमेकमनुगमयन्धर्मांश्च परस्परतो व्यावर्तयन्प्रत्यात्ममनुभूयत इति तदनुसारिणो वयं न तमतिवर्त्य स्वेच्छया धर्मानुभवान्व्यवस्थापयितुमीश्मह इति । अत्रैव लौकिकं दृष्टान्तमाह - यथैका रेखेति । यथा तदेव रेखास्वरूपं तत्तत्स्थानापेक्षया शतादित्वेन व्यपदिश्यत एवं तदेव धर्मिरूपं तत्तद्धर्मलक्षणावस्थाभेदेनान्यत्वेन प्रतिनिर्दिश्यत इत्यर्थः । दार्ष्टान्तिकार्थं दृष्टान्तान्तरमाह - यथा चैकत्वेऽपीति । अवस्थापरणामे कौटस्थ्यप्रसङ्गदोषः कैश्चिदुक्तम्। कथम्। अध्वनो व्यापारेण व्यवहितत्वात्। यदा धर्मः स्वव्यापारं न करोति तदाऽनागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तस्तदाऽतीत इत्येवं धर्मधर्मिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते। टीका तत्त्व-वैशारदी

अत्रान्तरे परोक्तं दोषमुत्थापयति - अवस्थेति । अवस्थापरिणामे धर्मलक्षणावस्थापरिणामे कौटस्थ्यदोषप्रसङ्ग उक्तो धर्मिधर्मलक्षणावस्थानाम् । पृच्छति - कथमिति । उत्तरम् - अध्वनो व्यापारेणेति । दध्नः किल योऽनागतोऽध्वा तस्य व्यापारः क्षीरस्य वर्तमानत्वं तेन व्यवहितत्वाद्धेतोः । यदा धर्मो दधिलक्षणः स्वव्यापारं दाधिकाद्यारम्भं क्षीरे सन्नपि न करोति तदाऽनागतः । यदा करोति तदा वर्तमानः । यदा कृत्वा निवृत्तः सन्नेव स्वव्यापाराद्दाधिकाद्यारम्भात्तदाऽतीत इति । एवं त्रैकाल्येऽपि सत्त्वाद्धर्मधर्मिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोति । सर्वदा सत्ता हि नित्यत्वं, चतुर्णामपि च सर्वदा सत्त्वेऽसत्त्वे वा नोत्पादः, तावन्मात्रं च लक्षणं कूटस्थनित्यतायाः । नहि चितिशक्तेरपि कूटस्थनित्यायाः कश्चिदन्यो विशेष इतिभावः । नासौ दोषः। कस्मात्। गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात्। यथा संस्थानमादिमद्धर्ममात्रं शब्दादीनां गुणानां विनाश्यविनाशिनामेवं लिङ्गमादिमद्धर्ममात्रं सत्त्वादीनां गुणानां विनाश्यविनाशिनां तस्मिन्विकारसञ्ज्ञेति। टीका तत्त्व-वैशारदी

परिहरति - नासौ दोषः, कस्माद्गुणिनित्यत्वेऽपि गुणानां विमर्दोऽन्योन्याभिभाव्याभिभावकत्वं तस्य वैचित्र्यात् । एतदुक्तं भवति - यद्यपि सर्वदा सत्त्वं चतुर्णामपि गुणिगुणानां तथाऽपि गुणविमर्दवैचित्र्येण तदात्मभूततद्विकाराविर्भावतिरोभावभेदेन परिणामशालितया न कौटस्थ्यम् । चितिशक्तेस्तु न स्वात्मभूतविकाराविर्भावतिरोभाव इति कौटस्थ्यम् ।

यथाऽऽहुः – “नित्यं तमाहुर्विद्वांसो यत्स्वभावो न नश्यति” इति ।

विमर्दवैचित्र्यमेव चिकारवैचित्र्ये हेतुं प्रकृतौ विकृतौ च दर्शयति - यथा संस्थानं पृथिव्यादिपरिणामलक्षणमादिमद्धर्ममात्रं विनाशि तिरोभावि शब्दादीनां शब्दस्पर्शरूपरसगन्धतन्मात्राणां स्वकार्यमपेक्ष्याविनाशिनामतिरोभाविनाम् । प्रकृतौ दर्शयति - एवं लिङ्गमिति । तस्मिन्विकारसञ्ज्ञा न त्वेवं विकारवती चितिशक्तिरिति भावः । तत्रेदमुदाहरणं मृद्धर्मी पिण्डाकाराद्धर्माद्धर्मान्तरमुपसम्पद्यमानो धर्मतः परिणमते घटाकार इति। घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते। घटो नवपुराणतां प्रतिक्षणमनुभवन्नवस्थापरिणामं प्रतिपद्यत इति। धर्भिणोऽपि धर्मान्तरमवस्था धर्मस्यापि लक्षणान्तरमवस्थेत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति। एवं पदार्थान्तरेष्वपि योज्यमिति। त एते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक एव परिणामः सर्वानमून्विशेषानभिप्लवते। अथ कोऽयं परिणामः। अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परणाम इति ॥ १३ ॥ टीका तत्त्व-वैशारदी

तदेवं परीक्षकसिद्धां विकृतिं प्रकृतिं चोदाहृत्य विकृतावेव लोकसिद्धायां गुणविमर्दवैचित्र्यं धर्मलक्षणावस्थापरिणामवैचित्र्यहेतुमुदाहरति - तत्रेदमुदाहरणमिति । न चायं नियमो लक्षणानामेवावस्थापरिणाम इति । सर्वेषामेव धर्मलक्षणावस्थाभेदानामवस्थाशब्दवाच्यत्वादेक एवावस्थापरिणामः सर्वसाधारण इत्याह - धर्मिणोऽपीति । व्यापकं परिणामलक्षणमाह - अवस्थितस्य द्रव्यस्येति । धर्मशब्द आश्रितत्वेन धर्मलक्षणावस्थावाचकः ॥ १३ ॥ पातञ्जल-रहस्यम्

अतिदेशसूत्रमेतेनेति । किमतिदिशति? परिणामत्रयं क्षणमपरिणम्य न तिष्ठन्तीत्युक्तिमाश्रित्यैव “प्रकृतेर्विभुत्वयोगात्परिणामोऽयमद्भुत” इत्युक्तिः, क्रमप्राप्तभूतानाम्परिणाममाह – तत्र व्युत्थानेति । सति धर्मिणि धर्माणां परस्परमन्यथाभावः यथा सुवर्णे विद्यमाने हि कटककुण्डलानामाविर्भावतिरोभावौ धर्मपरिणामः, परिणतस्य घटादेरतीतवर्तमानानागतकालसम्बन्धो लक्षणपरिणामः - अतीतो घट इत्यादि, जलाहरणाद्यर्थक्रियाचक्षुरिन्द्रियादिविषयते अत्रातीते अतिक्रान्तत्वाद् न स्त एव, उदितो वर्त्तमानो घटस्ते प्रति समर्थः, एवं स एवाव्यपदेश्योऽनागतश्चेदसमर्थः ते प्रति योग्यताऽभावादिति, अवस्थापरिणामो नाम नूतननूतनतमत्वादि स्थावरे; जङ्गमे तु बाल्ययौवनवृद्धत्वादि, परिणामपदमन्त्ये पठितत्वात् त्रिषु सम्बध्यत इत्याह – तथा हीत्यादि - अवस्थापरिणाम इत्यन्तेन, इन्द्रियाणां परिणामत्रयमाह - एवमिन्द्रियाणामिति । धर्मस्यालोचानादेः – आलोचितमिदमालोच्यत आलोचयिष्यत इति, रत्नतत्त्वस्यैकालोचानेन निर्णेतुमशक्यत्वात् प्राचीनालोचनं वर्तमानोपकारीत्याह – रत्नाद्यालोचनस्येति । त्रिविधपरिणतिमुपसंहरति - सोऽयमिति । तत्रायोगपरिच्छेद इत्याह – नात्वन्यस्य परिणामित्वं निषिध्यते, क्षणिकाः सर्वभावा नानुगतं किञ्चिदस्तीति यद्यस्ति चितिरिव न परिणमेत इत्याशङ्कां निराह – एकान्तानभ्युपगमात् = भेदाभेदस्वीकाराद्, व्यक्तेरपैति इत्युपलब्ध्यर्थक्रियाऽऽदानादयो न स्युः, कूटस्थनित्यत्वप्रतिषेधाद्विपरिणम्योपलब्ध्यादयः स्युः, एतदेव सोपपत्तिकमाह संसर्गादिति । अस्य = लोकस्य, संसर्गात् कारणे लीनत्वादनुपलब्धिरिति, कारणलय एव कार्यस्यानामव्यक्तिशक्तितेत्युक्तम्, अभिभवानभिभवाभ्यां नासदुत्पद्यते किञ्चिन्नक्षत्रादेर्नवनीतादेरिवेति शेषः, एतदेवानुभवारूढं करोति – लक्षणेत्यादि – अवियुक्त इत्यन्तेन, तत्र दृष्टान्तमाह - यथा पुरुष इति । विरक्तोऽनुरागात्यन्ताभावाद् इति भाष्यं, टीकायां परिहरतीत्यस्यायमर्थः - प्रधानस्य त्रयाणां गुणानाञ्च साम्यावस्थाया अविच्युतेरित्यर्थः, अथ वा चित्ततदध्वनामत एवोक्तम् अतीतिलक्षणयुक्तम् अनागतवर्तमानाभ्यामित्यादि, न धर्मी त्र्यध्वाधर्माश्च स्युः एको वाऽऽगन्तुकैकविन्द्वपक्षया दश, विन्दुद्वयापेक्षया शतमित्यादि परिणाम इत्युच्यते ॥ १३ ॥ तत्र – शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥ योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः। स च फलप्रसवभेदानुमित एकस्यान्योऽन्यश्च परिदृष्टः। तत्र वर्तमानः स्वव्यापारमनुभवन्धर्मी धर्मान्तरेभ्यः शान्तेभ्यश्चाव्यपदेश्येभ्यश्च भिद्यते। यदा तु सामान्येन समन्वागतो भवति तदा धर्मिस्वरूपमात्रत्वात्कोऽसौ केन भिद्येत। तत्र ये खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्या श्चेति, तत्र शान्ता ये कृत्वा व्यापारानुपरताः सव्यापारा उदितास्ते चानागतस्य लक्षणस्य समनन्तरा वर्तमानस्यानन्तरा अतीताः। किमर्थमतीतस्यानन्तरा न भवन्ति वर्तमानाः, पूर्वपश्चिमताया अभावात्। यथाऽनागतवर्तमानयोः पूर्वपश्चिमता नैवमतीतस्य। तस्मान्नातीतस्यास्ति समनन्तरः। तदनागत एव समनन्तरो भवति वर्तमानस्येति। टीका तत्त्व-वैशारदी

यस्यैष त्रिविधः परिणामस्तं धर्मिणं सूत्रेण लक्षयति – तत्र – शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी । धर्मोऽस्यास्तीति धर्मीति नाविज्ञाते धर्मे स शक्यो ज्ञातुमिति धर्म दर्शयति - योग्यतेति । धर्मिणो द्रव्यस्य मृदादेः शक्तिरेव चूर्णपिण्डघटाद्युत्पत्तिशक्तिरेव धर्मस्तेषां तत्राव्यक्तत्वेन भाव इति यावत् । नन्वेवमव्यक्ततया सन्तस्ते ततः प्रादुर्भवन्तु । उदकाहरणादयस्तु तैः स्वकारणादनासादिताः कुतः प्राप्ता इत्यत उक्त - योग्यतावच्छिन्नेति । याऽसौ घटादीनामुत्पत्तिशक्तिः सोदकाहरणादियोग्यतावच्छिन्ना, तेनोदकाहरणादयोऽपि घटादिभिः स्वकारणादेव प्राप्ता इति नाऽऽकस्मिका इति भावः । अथवा के धर्मिण इत्यत्रोत्तरं - योग्यतावच्छिन्ना धर्मिण इति । को धर्म इत्यत्रोत्तरं शक्तिरेव धर्मस्तेषां योग्यतैव धर्म इत्यर्थः । अतस्तद्वान्धर्मीति सिद्ध भवति । तत्सद्भावे प्रमाणमाह – स च फलप्रसवभेदानुमित एकस्य धर्मिणोऽन्यश्चान्यश्च चूर्णपिण्डघटादिरूप इत्यर्थः । कार्यभेददर्शनाच्च भिन्न इति यावत् । परिदृष्ट उपलब्धः । तत्रानुभवारोहिणो वर्तमानस्य मृत्पिण्डस्य शान्ताव्यपदेश्याभ्यां मृच्चूर्णमृद्धटाभ्यां भेदमाह - तत्र वर्तमान इति । यदि न भिद्येत पिण्डवच्चूर्णघटयोरपि तद्वदेव स्वव्यापारव्याप्तिप्रसङ्ग इति भावः । अव्यक्तस्य तु पिण्डस्य नोक्तं भेदसाधनं सम्भवतीत्याह - यदा त्विति । कोऽसौ केन भेदसाधनेन भिद्येतेति ।

तदेवं धर्माणां भेदसाधनमभिधाय तं भेदं विभजते - तत्र ये खल्विति । उदिता इति वर्तमाना इत्यर्थः । अध्वनां पौर्वापर्यं नियमयति - ते चेति । चोदयति - किमर्थमिति । किं निमित्तमतीतस्यानन्तरा न भवन्ति वर्तमानाः । हेतुमाह सिद्धान्ती - पूर्वपश्चिमताया आभावाद् । विषयेण विषयिणीमनुपलब्धिं सूचयति । अनुपलम्भमेवोपलम्भवैधर्म्येण दर्शयति - यथाऽनागतवर्तमानयोरिति । उपसंहरति - तत्तस्मादनागत एव समनन्तरः पूर्वत्वेन भवति वर्तमानस्य नातीतः । अतीतस्य वर्तमानः पूर्वत्वेन समनन्तरो नाव्यपदेश्यः । तस्मादध्वनां यविष्ठोऽतीत इति सिद्धम् । अथाव्यपदेश्याः के। सर्वं सर्वात्मकमिति। यत्रोक्तम् – जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम्। तथा स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्वित्येवं जात्यनुच्छेदेन सर्वं सर्वात्मकमिति। टीका तत्त्व-वैशारदी

स्यादेतदनुभूयमानानुभूततयोदितातीतौ शक्यावुन्नेतुमव्यपदेश्यास्तु पुनर्धर्मा अव्यपदेश्यतयैवं शक्या नोन्नेतुमित्याशयवान्पृच्छति - अथाव्यपदेश्याः के केषु समीक्षामहे । अत्रोत्तरमाह - सर्वं सर्वात्मकमिति । यत्रोक्तमिति । तदेवोपपादयति - जलभूम्योरिति । जलस्य हि रसरूपस्पर्शशब्दवतो भूमेश्च गन्धरसरूपस्पर्शशब्दवत्याः पारिणामिकं वनस्पतिलतागुल्मादिषु मूलफलप्रसवपल्लवादिगतरसादिवैश्वरूप्यं दृष्टम् । सोऽयमनेवमात्मिकाया भूमेरनीदृशस्य वा जलस्य न परिणामो भवितुमर्हति । उपपादितं हि नासदुत्पद्यत इति । तथा स्थावराणां पारिणामिकं जङ्गमेषु मनुष्यपशुमृगादिषु रसादिवैचित्र्यं दृष्टम् । उपयुञ्जाना हि ते फलादीनि रूपादिभेदसम्पदमासादयन्ति । एवं जङ्गमानां पारिणामिकं स्थावरेषु दृष्टम् । रुधिरावसेकात्किल दाडिमीफलानि तालफलमात्राणि भवन्ति । उपसंहरति - एवं सर्वं जलभूम्यादि सर्वरसाद्यात्मकम् । तत्र हेतुमाह - जात्यनुच्छेदेन जलत्वभूमित्वादिजातेः सर्वत्र प्रत्यभिज्ञायमानत्वेनानुच्छेदात् । देशकालाकारनिमित्तापबन्धान्न खलु समानकालमात्मनामभिव्यक्तिरिति। य एतेष्वभिव्यक्तानभिव्यक्तेषु धर्मेष्वनुपाती सामान्यविशेषात्मा सोऽन्वयी धर्मी। यस्य तु धर्ममात्रमेवेदं निरन्वयं तस्य भोगाभावः। कस्मात्, अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत्कथं भोक्तृत्वेनाधिक्रियेत। तत्स्मृत्यभावश्च नान्यदृष्टस्य स्मरणमन्यस्यास्तीति। वस्तुप्रत्यभिज्ञानाच्च स्थितोऽन्वयी धर्मी यो धर्मान्यथात्वमभ्युपगतः प्रत्यभिज्ञायते। तस्मान्नेदं धर्ममात्रं निरन्वयमिति ॥ १४ ॥ टीका तत्त्व-वैशारदी

ननु सर्वं चेत्सर्वात्मकं हन्त भोः सर्वस्य सर्वदा सर्वत्र सर्वथा सन्निधानात्समानकालं भावानां व्यक्तिः प्रसज्येत, न खलु सन्निहिताविकलकारणं कार्यं विलम्बितुमर्हतीत्यत आह - देशकालेति । यद्यपि कारणं सर्वं सर्वात्मकं तथाऽपि यो यस्य कार्यस्य देशो यथा कुङ्कुमस्य काश्मीरः । तेषां सत्त्वेऽपि पाञ्चालादिषु न समुदाचार इति न कुङ्कुमस्य पाञ्चालादिष्वभिव्यक्तिः । एवं निदाधे न प्रावृषः समुदाचार इति न तदा शालीनाम् । एवं न मृगी मनुष्यं प्रसूते न तस्यां मनुष्याकारसमुदाचार इति । एवं नापुण्यवान्सुखरूपं भुङ्क्ते न तस्मिन्पुण्यनिमित्तस्य समुदाचार इति । तस्माद्देशकालाकार - निमित्तानामपबन्धादपगमान्न समानकालमात्मनां भावानामभिव्यक्तिरिति । तदेवं धर्मान्विभज्य तेषु धर्मिणोऽनुगमं दर्शयति – य एतेष्विति । सामान्यं धर्मिरूपं विशेषो धर्मस्तदात्मोभयात्मक इत्यर्थः । तदेवमनुभवसिद्धमनुगतं धर्मिणं दर्शयित्वा तमनिच्छतो वैनाशिकस्य क्षणिकं विज्ञानमात्रं चित्तमिच्छतोऽनिष्टप्रसङ्गमुक्तं स्मारयति – यस्य त्विति । वस्तुप्रत्यभिज्ञानाच्चेति । नहि देवदत्तेन दृष्टं यज्ञदत्तः प्रत्यभिजानाति । तस्माद्यश्चानुभविता स एव प्रत्यभिज्ञातेति ॥ १४ ॥ पातञ्जल-रहस्यम्

तस्य स्वरूपं पृच्छति - कोऽयमिति । अवस्थितेत्याद्युत्तरं, तं सूत्रारूढं करोति – तत्रेति । अतीतवर्तमानागतानां नामानि शान्तोदिताव्यपदेश्यानि तास्ववस्थासु परस्परविलक्षणत्वानुगतो धर्मी चित्ताख्यः, अनुरूपोपादानं विनोपादेया एते न तिष्ठन्ति शरीरं विना यथा बाल्ययौवनवृद्धत्वानि न स्युः, योग्यतैव शक्तिरिति धर्म इति च कथ्यते, शक्तौ प्रमाणं कार्योन्नतिरित्याह – स चेति । शान्तादयश्च परस्परं भिद्यन्ते न तु धर्मीत्याह – एकस्येति । अन्वयमुक्त्वा व्यतिरेकमाह – यदा त्विति । समनन्तरः कार्यं वर्तमानस्य तं प्रति पूर्वत्वाद् न त्वतीतोऽतीतत्वादेवेति भावः, यविष्टो = निकृष्टः, के चिन्नास्तिका इति प्रश्नार्थः, आपोमयः पृथिवीमय इति श्रुतेः, समर्थस्य क्षेपायोगादिति न्यायमाश्रित्याह – ननु सर्वं चेदिति । समाधत्ते-यद्यपीति । तेषां शब्दादिगुणपञ्चाकानां सत्त्वेऽपि देशवैगुण्येन पञ्चालादौ न समुदाचारः = सामग्रीसत्त्वमतस्तत्र कुङ्कुमस्य न जन्मेत्याह – नेति । देशव्यभिचारमुक्त्वा कालव्यभिचारमाह – एवं निदाघश्रुतिमाश्रित्याह – जलभूम्योरिति । जलस्य जतुगुणस्य पारिणामिकं करकादि तत्र रसान्ताश्चत्वारो गुणा उपलभ्यन्ते, गन्ध एकोऽधिको भूमौ पञ्चगुणायां, तर्कमाह – नासदिति । अन्नाद्रेतः रेतसः पुरुष इति श्रुतिमाश्रित्याह – उपभुञ्जाना इति । रुधिरं जङ्गमेष्वेवेति भावः, समर्थस्य क्षेपाथोगादिति न्यायमाश्रित्याह – ननु सर्वं चेदिति । समाधत्ते – यद्यपीति । तेषां शब्दादिगुणपञ्चकानां पञ्चालादौ सत्त्वेऽपि देशवैगुण्ये न समुदाचारः सामग्रीसत्त्वमतस्तत्र न कुङ्कुमस्य जन्मेत्याह –नेति । देशव्यभिचारमुक्त्वा कालव्यभिचारमाह –एवं निदाघ इति । समुदाचारः = प्रकटता, योनिगतवैजात्यमाह – न मृगीति ।

आत्मा यत्नो धृतिर्बुद्धिः स्वभावो बर्ष्म एव च –

इत्यभिधानादाह – आत्मनां भावानामिति, बौद्धमतमुत्थाप्य दूषयति – यस्येति । “नान्यदृष्टं स्मरत्यन्य ” इति न्यायमाश्रित्याह – न - हीति ॥ १४ ॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥ एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर्भवतीति। तद्यथा चूर्णमृत्पिण्डमृद्घटमृत्कपालमृत्कणमृदिति च क्रमः। यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः। पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः। लक्षणपरिणामक्रमो घटस्यानागतभावाद्वर्तमानभावः क्रमः। तथा पिण्डस्य वर्तमानभावादतीतभावः क्रमः। नातीतस्यास्ति क्रमः। कस्मात्। पूर्वपरतायां सत्यां समनन्तरत्वं, सा तु नास्त्यतीतस्य। तस्माद्द्वयोरेव लक्षणयोः क्रमः। तथाऽवस्थापरिणामक्रमोऽपि घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते। सा च क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिमापद्यत इति। धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति। टीका तत्त्व-वैशारदी

क्रमान्यत्वं परिणामान्यत्वे हेतुः । किमेकस्य धर्भिण एक एव धर्मलक्षणावस्थालक्षणः परिणाम उत बहवो धर्मलक्षणावस्थालक्षणाः परिणामा । तत्र किं प्राप्तमेकत्वाद्धर्मिण एक एव परिणामः । नहि एकरूपात्कारणात्कार्यभेदो भवितुमर्हति तस्याऽऽकस्मिकत्वप्रसङ्गादित्येवं प्राप्त उच्यते - क्रमान्यत्वात्परिणामान्यत्वम् । एकस्या मृदश्चूर्णपिण्डघटकपालकणाकारा परिणतिपरम्परा क्रमवती लौकिकपरीक्षकैरध्यक्षं समीक्ष्यते । अन्यच्चेदं चूर्णपिण्डयोरानन्तर्यमन्यच्च पिण्डघटयोरन्यच्च घटकपालयोरन्यच्च कपालकणयोरेकत्र परस्यान्यत्र पूर्वत्वात् । सोऽयं क्रमभेदः परिणाम एकस्मिन्नवकल्पमानः परिणामभेदमापादयति । एकोऽपि च मृद्धर्मी क्रमोपनिपातितत्तत्सहकारिसमवधानक्रमेण क्रमवती परिणामपरम्परामुद्वहन्नैनामाकस्मिकयतीति भावः । धर्मपरिणामान्यत्ववल्लक्षणपरिणामान्यत्वेऽवस्थापरिणामान्यत्वे च समानं क्रमान्यत्वं हेतुरिति । तदेतद्भाष्येणावद्योत्यते - एकस्य धर्मिण इति । क्रमक्रमवतोरभेदमास्थाय स तस्य क्रम इत्युक्तम् । तथाऽवस्थापरिणामक्रम इति । तथाहि - कीनाशेन कोष्ठागारे प्रयत्नसंरक्षिता अपि हि व्रीहयो हायनैरतिबहुभिः पाणिस्पर्शमात्रविशीर्यमाणावयवसंस्थानाः परमाणुभावमनुभवन्तो दृश्यन्ते । न चायमभिनवानामकस्मादेव प्रादुर्भवितुमर्हति । तस्मात्क्षणपरम्पराक्रमेण सूक्ष्मसूक्ष्मतरसूक्ष्मतमबृहद्बृहत्तरबृहत्तमादिक्रमेण प्राप्तेषु विशिष्टोऽयं लक्ष्यत इति । त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः। धर्मोऽपि धर्मी भवत्यन्यधर्मस्वरूपापेक्षयेति। यदा तु परमार्थतो धर्मिण्यभेदोपचारस्तद्द्वारेण स एवाभिधीयते धर्मस्तदाऽयमेकत्वेनैव क्रमः प्रत्यवभासते। टीका तत्त्व-वैशारदी

तदिदं क्रमान्यत्वं धर्मधर्मिभेदपक्ष एवेत्याह – त एत इति । आविकारेभ्य आचालिङ्गादापेक्षिको धर्मधर्मिभावो मृदादेरपि तन्मात्रापेक्षया धर्मत्वादित्याह - धर्मोऽपीति । यदा परमार्थधर्मिण्यलिङ्गेऽभेदोपचारप्रयोगस्तद्द्वारेण सामानाधिकरण्यद्वारेण धर्म्येव धर्म इति यावत् । तदैक एव परिणामो धर्मिपरिणाम एवेत्यर्थः । धर्मलक्षणावस्थानां धर्मिस्वरूपाभिनिवेशात् । तदनेन धर्मिणो दूरोत्सारितं कूटस्थनित्यत्वमित्युक्तप्रायम् । चित्तस्य द्वये धर्माः परिदृष्टाश्चापरिदृष्टाश्च। तत्र प्रत्ययात्मकाः परिदृष्टा वस्तुमात्रात्मका अपरिदृष्टाः। ते च सप्तैव भवन्त्यनुमानेन प्रापितवस्तुमात्रसद्भावाः । निरोधधर्मसंस्काराः परिणामोऽथ जीवनम् । चेष्टा शक्तिश्च चित्तस्य धर्मा दर्शनवर्जिताः ॥ इति ॥ १५ ॥ टीका तत्त्व-वैशारदी

धर्मपरिणामं प्रतिपादयन्प्रसङ्गेन चित्तधर्माणां प्रकारभेदमाह - चित्तस्येति । परिदृष्टाः प्रत्यक्षा अपरिदृष्टाः परोक्षास्तत्र प्रत्ययात्मकाः प्रमाणादयो रागादयश्च । वस्तुमात्रा इत्यप्रकाशरूपतामाह । स्यादेतदपरिदृष्टाश्चेन्न सन्त्येवेत्यत आह - अनुमानेन प्रापितो वस्तुमात्रेण सद्भावो येषां ते तथोक्ताः । पश्चान्मानसाधर्म्यादागमोऽप्यनुमानम् । सप्तापरिदृष्टान्कारिकया सङ्गृह्णाति - निरोधेति । निरोधो वृत्तीनामसम्प्रज्ञातावस्था चित्तस्याऽऽगमतः संस्कारशेषभावोऽनुमानतश्च समधिगम्यते । धर्मग्रहणेन पुण्यापुण्ये उपलक्षयति । क्वचित्कर्मेति पाठस्तत्रापि तज्जनिते पुण्यापुण्ये एव गृह्येते । ते चाऽऽगमतः सुखदुःखोपभोगदर्शनाद्वाऽनुमानतो गम्येते । संस्कारस्तु स्मृतेरनुमीयते । एवं त्रिगुणत्वाच्चित्तस्य चलं च गुणवृत्तमिति प्रतिक्षणं परिणामोऽनुमीयते । एवं जविनं प्राणधारणं प्रयत्नभेदोऽसंविदितश्चित्तस्य धर्मः श्वासप्रश्वासाभ्यामनुमीयते । एवं चेतसश्चेष्टा क्रिया यथा यथा तैस्तैरिन्द्रियैः शरीरप्रदेशैर्वा सम्प्रयुज्यते । साऽपि तत्संयोगादेवानुमीयते । एवं शक्तिरप्युद्भूतानां कार्याणां सूक्ष्मावस्था चेतसो धर्मः स्थूलकार्यानुभवादेवानुमीयत इति ॥ १५ ॥ पातञ्जल-रहस्यम्

एकस्या सामग्र्या एकं कार्यं दृष्टमित्याशङ्क्य समाधत्ते – “क्रमान्यत्वं परिणामान्यत्वे हेतुः” तदेवानुभवारूढं करोति - तद्यथाऽऽदि – क्रम इत्यन्तेन, क्रमः = आनन्तर्यमित्यर्थः, सः = पदार्थधर्मः, न तु पदार्थः, पिण्डः प्रच्यवते घट उपजायते जन्मवान् स्यात्, एवञ्च जायते अस्ति वर्द्धते परिणमत इति चतुष्टयं स्थिते धर्मिणि धर्मचिन्तेति न्यायात् तृतीयः = अवस्थेति, धर्मधर्मिता हि सापेक्षा प्रतियोग्यनुयोगिवदित्याह - धर्मोऽपीति = द्वये = द्विप्रकाराः, परिदृष्टा प्रत्ययात्मकाः प्रत्यक्षा इति; अपरिदृष्टा अनुमेयाः, नाभावो विद्यते सत -इत्युक्तिमाश्रित्याह – ते च सप्तैव सप्तप्रकाराः ताननुगमयति – निरोध इत्यादिना, ननु कथमागमोऽनुमानं प्रत्यक्षानुमानयोः पश्चादित्याह – पश्चादिति ।

सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्चेति —

साङ्ख्योक्तेः, जीवनं प्राण इत्यन्तःकरणत्रयस्य धर्म इत्यर्थः, दशनवर्जिता ज्ञानवर्जिता बध्नाति सप्तमी रूपैर्मोचयत्येकरूपेणेति साङ्ख्योक्तेः ॥ १५ ॥ अतो योगिन उपात्तसर्वसाधनस्य बुभुत्सितार्थप्रतिपत्तये संयमस्य विषय उपक्षिप्यते – परिणामत्रयसंयमादतीतानागतज्ञानम् ॥ १६ ॥ धर्मलक्षणावस्थापरिणामेषु संयमाद्योगिनां भवत्यतीतानागतज्ञानम्। धारणाध्यानसमाधित्रयमेकत्र संयम उक्तः। तेन परिणामत्रयं साक्षात्क्रियमाणमतीतानागतज्ञानं तेषु सम्पादयति ॥ १६ ॥ टीका तत्त्व-वैशारदी

अतः परमा पादपरिसमाप्तेः संयमविषयस्तद्वशीकारसूचनी विभूतिश्च वक्तव्या । तत्रोक्तप्रकारं परिणामत्रयमेव तावत्प्रथममुपात्तसकलयोगाङ्गस्य योगिनः संयमविषयतयोपक्षिपति - परिणामत्रयसंयमादतीतानागतज्ञानम् । ननु यत्र संयमस्तत्रैव साक्षात्करणं तत्कथं परिणामत्रयसंयमोऽतीतानागतं साक्षात्कारयेदित्यत आह - तेन परिणामत्रयं साक्षात्क्रियमाणं तेषु परिणामेष्वनुगते ये अतीतानागते तद्विषयं ज्ञानं सम्पादयति । परिणामत्रयसाक्षात्करणमेव तदन्तर्भूतातीतानागतसाक्षात्करणात्मकमिति न विषयभेदः संयमसाक्षात्कारयोरित्यर्थः ॥ १६ ॥ पातञ्जल-रहस्यम्

अष्टाङ्गे संयतस्य योगिनः पादावधि संयमसाध्या विभूतय इति दर्शयितुमाह – परीति । तेषु परिणामेषु धारणादित्रयेण विवक्षितार्थसिद्धिः संयमसाक्षात्कारयोर्न भिन्नविषयता यथा घटं – करोमीत्यत्र ज्ञानेच्छाकृतीनामित्यर्थः ॥ १६ ॥ शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ १७ ॥ तत्र वाग्वर्णेष्वेवार्थवती। श्रोत्रं च धवनिपरिणाममात्रविषयम्। पदं पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यमिति। टीका तत्त्व-वैशारदी

अयमपरः संयमस्य विषय उपक्षिप्यते - शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् । अत्र वाचकं शब्दमाचिख्यासुः प्रथमं तावद्वाग्व्यापारविषयमाह - तत्र वाग्वागिन्द्रियं वर्णव्यञ्जकमष्टस्थानम् । यथाऽऽह –

अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥ इति ।

सा वाग्वर्णेष्वेवं यथालोकप्रतीतिसिद्धेष्वर्थवती न च वाचक इत्यर्थः । श्रोत्रव्यापार विषयं निरूपयति - श्रोत्रं पुनर्ध्वनेरुदानस्य वागिन्द्रियाभिघातिनो यः परिणतिभेदो वर्णात्मा तेनाऽऽकारेण परिणतं तन्मात्रविषयं नतु वाचकविषयमित्यर्थः । यथालोकप्रतीतिसिद्धेभ्यो वर्णेभ्यो वाचकं भिनत्ति – पदं पुनर्वाचकं पुनर्नादानसंहारबुद्धिनिग्राह्यं यथाप्रतीतिसिद्धान्नादान्वणान्प्रत्येकं गृहीत्वाऽनुपश्चाद्या संहरत्येकत्वमापादयति गौरित्येतदेकं पदमिति तया पदं गृह्यते । यद्यपि प्राच्योऽपि बुद्धयो वर्णाकारं पदमेव प्रत्येकं गोचरयन्ति तथाऽपि न विशदं प्रथते । चरमे तु विज्ञाने तदतिविशदमिति नादानुसंहारबुद्धिनिर्ग्राह्यमुक्तम् । वर्णा एकसमयासम्भवित्वात्परस्परनिरनुग्रहात्मानस्ते पदमसंस्पृश्यानुपस्थाप्याऽऽविर्भूता-स्तिरोभूताश्चेति प्रत्येकमपदस्वरूपा उच्यन्ते। टीका तत्त्व-वैशारदी

यस्तु वैजात्यादेकपदानुभवमविज्ञाय वर्णानेव वाचकानातिष्ठते तं प्रत्याह - वर्णा इति । ते खल्वमी वर्णाः प्रत्येकं वाच्यविषयां धियमादधीरन्नागदन्तुका इव शिक्यावलम्बनं संहता वा ग्रावाण इव पिठरधारणम् । न तावत्प्रथमः कल्पः । एकस्मादर्थप्रतीतेरनुत्पत्तेरुत्पत्तौ वा द्वितीयादीनामनुच्चारणप्रसङ्गो निष्पादितक्रिये कर्मणि विशेषानाधायिनः साधनस्य साधनन्यायातिपातात् । तस्माद्द्वितीयः परिशिष्यते । सम्भवति हि ग्राव्णां संहतानां पिठरधारणमेकसमयभावित्वात् । वर्णानां तु यौगपद्यासम्भवोऽतः परस्परमनुग्राह्यानुग्राहकत्वायोगात्सम्भूयापि नार्थधियमादधते । ते पदरूपमेकमसंस्पृशन्तस्तादात्म्येनात एवानुपस्थापयन्त आविर्भूतास्तिरोभूता अयःशलाकाकल्पाः प्रत्येकमपदस्वरूपा उच्यन्ते । वर्णः पुनरेकैकः पदात्मा सर्वाभिधानशक्तिप्रचितःसहकारिवर्णान्तर-प्रतियोगित्वाद्वैश्वरूप्यमिवाऽऽपन्नः पूर्वश्चोत्तरेणोत्तरश्च पूर्वेण विशेषेऽवस्थापित इत्येवं बहवो वर्णाः क्रमानुरोधिनोऽर्थसङ्केतेनावच्छिन्ना इयन्त एते सर्वाभिधानशक्तिपरिवृता गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थं द्योतयन्तीति। टीका तत्त्व-वैशारदी

यदि पुनः पदमेकं तादात्म्येन स्पृशेयुर्वर्णास्ततो नोक्तदोषप्रसङ्ग इत्याह - वर्णः पुनरेकैकः पदात्मा सर्वाभिधानशक्तिप्रचितः सर्वाभिरभिधानशक्तिभिर्निचितो गोगणगौरनगेत्यादिषु हि गकारो गोत्वाद्यर्थाभिधायिषु दृष्ट इति तत्तदभिधानशक्तिः । एवं सोमशोचिरित्यादिष्वीश्वराद्यर्थाभिधायिषु पदेष्वोवर्णो दृष्ट इति सोऽपि तत्तदभिधानशक्तिः । एवं सर्वत्रोहनीयम् । स चैकैको वर्णो गकारादिः सहकारि यद्वर्णान्तरमोकारादि तदेव प्रतियोगि प्रतिसम्बन्धि यस्य स तथोक्तस्तस्य भावस्तत्त्वं तस्माद्वैश्वरूप्यं नानात्वमिवाऽऽपन्नो नतु नानात्वमापन्नस्तस्य तत्त्वादेव पूर्वो वर्णो गकार उत्तरेणौकारेण गणादिपदेभ्यो व्यावर्त्योत्तरश्चौकारो गकारेण शोचिरादिपदेभ्यो व्यावर्त्यविशेषे गोत्ववाचके गोपदस्फोटेऽवस्थापितोऽनुसंहारबुद्धौ । अयमभिसन्धिः – अर्थप्रत्ययो हि वर्णैर्नियतक्रमतया परस्परमसम्भवद्भिरशक्यः कर्तुम् । न च संस्कारद्वाराऽऽग्नेयादीनामिव परमापूर्वे वा स्वर्गे वा जनयितव्येऽनियतक्रमाणामपि साहित्यमर्थबुद्ध्युपजनने वर्णानामिति साम्प्रतं विकल्पासहत्वात् । स खल्वयं वर्णानुभवजन्यः संस्कारः स्मृतिप्रसवहेतुरन्यो वाऽऽग्नेयादिजन्य इवापूर्वाभिधानो न तावदनन्तरः कल्पनागौरवापत्तेः । स एव तावददृष्टपूर्वः कल्पनीयस्तस्य च क्रमवद्भिर्वर्णानुभवैरेकस्य जन्यत्वं न सम्भवतीति तज्जातीयानेकावान्तरसंस्कारकल्पनेति गौरवम् । न चैष ज्ञापकहेत्वङ्गमज्ञातस्तदङ्गतामनुभवतीति । न खलु सम्बन्धोऽर्थप्रत्यायनाङ्गमज्ञातोऽङ्गतामुपैति । स्मृतिफलप्रसवानुमितस्तु संस्कारः स्वकारणानुभवविषयनियतो न विषयान्तरे प्रत्ययमाधातुमुत्सहते । अन्यथा यत्किञ्चिदेवैकैकमनुभूय सर्वः सर्वं जानीयादिति । न च प्रत्येकवर्णानुभवजनितसंस्कारपिण्डलब्धजन्मस्मृतिर्दर्पणसमारोहिणो वर्णाः समधिगतसहभावा वाचका इति साम्प्रतम् । क्रमाक्रमविपरीतक्रमानुभूतानां तत्राविशेषेणार्थधीजननप्रसङ्गात् । न चैतत्स्मरणज्ञानं पूर्वानुभववर्तिनीं परापरतां गोचरयितुमर्हति । तस्माद्वर्णेभ्यो सम्भवन्नर्थप्रत्यय एकपदानुभवमेव स्वनिमित्तमुपकल्पयति । न चैष पदेऽपि प्रसङ्गः । तद्धि प्रत्येकमेव प्रयत्नभेदभिन्ना ध्वनयो व्यञ्जयन्तः परस्परविसदृशतत्तत्पदव्यञ्जकध्वनिभिस्तुल्यस्थानकरणनिष्पन्नाः सदृशाः सन्तोऽन्योन्यविसदृशैः पदैः पदमेकं सदृशमापादयन्तः प्रतियोगिभेदेन तत्तत्सादृश्यानां भेदात्तदुपधानादेकमप्यनवयवमपि सावयवमिवानेकात्मकमिवावभासयन्ति, यथा नियतवर्णपरिमाणसंस्थानं मुखमेकमपि मणिकृपाणदर्पणादयो विभिन्नवर्णपरिमाणसंस्थानमनेकमादर्शयन्ति न परमार्थतः । सादृश्योपधानभेदकल्पिता भागा एव निर्भागस्य पदस्य वर्णास्तेन तद्बुद्धिर्वर्णात्मनापदभेदे स्फोटमभेदमेव निर्भागमेव सभेदमिव सभागमिवाऽऽलम्बते । अतो गोपदस्फोटभेदस्यैकस्य गकारभागो गौरादिपदस्फोटसादृश्येन न निर्धारयति स्वभागिनमित्योकारणे विशिष्टो निर्धारयत्येवमोकारोऽपि भागः शोचिरादिपदसदृशतया न शक्तो निर्धारयितुं स्वभागिनं गोपदस्फोटमिति गकारेण विशिष्टो निर्धारयति । असहभाविनामपि चु संस्कारद्वारेणास्ति सहभाव इति विशेषणविशेष्यभावोपपत्तिः । न च भिन्नविषयत्वं संस्कारयोर्भागद्वयविषययोरनुभवयोस्तज्जन्मनश्च संस्कारयोरेकपदविषयत्वात् । केवलभागानुभवेन पदमव्यक्तमनुभूयतेऽनुसंहारधिया तु भागानुभवयोनिसंस्कारलब्धजन्मना व्यक्तमिति विशेषः । अव्यक्तानुभवाश्च प्राञ्चः संस्काराधानक्रमेण व्यक्तमनुभवमादधाना दृष्टा यथा दूराद्वनस्पतावस्तिप्रत्यया अव्यक्ता व्यक्तवनस्पतिप्रत्ययहेतवः । न चेयं विधा वर्णानामर्थप्रत्यायने सम्भाविनी । नो खलु वर्णाः प्रत्येकमव्यक्तमर्थप्रत्ययमादधत्यन्ते व्यक्तमिति शक्यं वक्तुम् । प्रत्यक्षज्ञान एव नियमाद्व्यक्ताव्यक्तत्वस्य । वर्णाधेयस्त्वर्थप्रत्ययो न प्रत्यक्षस्तदेष वर्णेभ्यो जायमानः स्फुट एव जायेत । न वा जायेत न त्वस्फुटः । स्फोटस्य तु ध्वनिव्यङ्ग्यस्य प्रत्यक्षस्य सतः स्फुटास्फुटत्वे कल्प्येते इत्यसमानम् । एवं प्रत्येकवर्णानुभवजनितसंस्कारसहितश्रोत्रलब्धजन्मन्यनुसंहारबुद्धौ संहता वर्णा एकपदस्फोटभावमापन्नाः प्रयत्नविशेषव्यङ्ग्यतया प्रयत्नविशेषस्य च नियतक्रमापेक्षतया क्रमस्यान्यत्वे तदभिव्यञ्जकप्रयत्नविशेषाभावेन तदभिव्यक्त्यभावप्रसङ्गात्क्रमानुरोधिनोऽर्थसङ्केतेनावच्छिन्नाः सङ्केतावच्छेदमेव लौकिकं सभागपदविषयं दर्शयन्ति इयन्तो द्वित्रास्त्रिचतुराः पञ्चषा वा एते सर्वाभिधानशक्तिपरिवृता गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थमवद्योतयन्तीति । तदेतेषामर्थसङ्केतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस्तत्पदं वाचकं वाच्यस्य सङ्केत्यते। तदेकं पदमेकबुद्धिविषय एकप्रयत्नाक्षिप्तमभागमक्रममवर्णं बौद्धमन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्णैरेवाभिधीयमानैः श्रूयमाणैश्च श्रोतृभिरनादिवाग्व्यवहारवासनानुविद्धया लोकबुद्ध्या सिद्धवत्सम्प्रतिपत्त्या प्रतीयते। टीका तत्त्व-वैशारदी

तत्किमिदानीं सङ्केतानुसारेण वर्णानामेव वाचकत्वं तथा च न पदं नाम किञ्चिदेकमित्यत आह - तदेतेषामिति । ध्वनिनिमित्तः क्रमो ध्वनिक्रमः । उपसंहृतो ध्वनि - क्रमो येषु ते तथोक्ताः । बुद्ध्या निर्भास्यते प्रकाश्यत इति बुद्धिनिर्भासः । सङ्केतावच्छिन्नाः स्थूलदर्शिलोकाशयानुरोधेन गकारौकारविसर्जनीया इत्युक्तम् । गकारादीनामपि तद्भागतया तादात्म्येन वाचकत्वात्प्रतीत्यनुसारतस्त्वेकमेव पदं वाचकमित्यर्थः । एतदेव स्पष्टयति - तदेकं पदं लोकबुद्ध्याप्रतीयत इति सम्बन्धः । कस्मादेकमित्यत आह - एकबुद्धिविषयो गौरित्येकं पदमित्येकाकाराया बुद्धेर्विषयो यतस्तस्मादेकम् । तस्य व्यञ्जकमाह - एकप्रयत्नाक्षिप्तमिति । रस इति पदव्यञ्जकात्प्रयत्नाद्विलक्षणः सर इति पदव्यञ्जकः प्रयत्नः । स चोपक्रमतः सर इति पदव्यक्तिलक्षणफलावच्छिन्नः पूर्वापरीभूत एकस्तदाक्षिप्तं भागानां सादृश्योपधानभेदकल्पितानां परमार्थसतामभावादभागम् । अत एव पूर्वापरीभूतभागाभावादक्रमम् । ननु वर्णाः पूर्वापरीभूतास्ते चास्य भागा इति कथमक्रममभागं चेत्यत आह - अवर्णम् । न ह्यस्य वर्णा भागाः किन्तु सादृश्योपधानभेदात्पदमेव तेन तेनाऽऽकारेणापरमार्थसता प्रथते । न हि मणिकृपाणदर्पणादिवर्तीनि मुखानि मुखस्य परमार्थसतोऽवयवा इति । बौद्धमनुसंहारबुद्धौ विदितमन्त्यवर्णप्रत्ययस्य व्यापारः संस्कारः पूर्ववर्णानुभवजनितसंस्कारसहितस्तेनोपस्थापितं विषयीकृतम् । वर्णानुभवतत्तत्संस्काराणां च पदविषयत्वमुपपादितमधस्तात् । स्यादेतदभागमक्रममवर्णं चेत्पदतत्त्वं कस्मादेवं विधं कदाचिन्न प्रथते न हि लाक्षारसावसेकोपधानापादितारुणभावः स्फटिकमणिस्तदपगमे स्वच्छधवलो नानुभूयते तस्मात्पारमार्थिका एव वर्णा इत्यत आह - परत्रेति । प्रतिपिपादयिषया वर्णैरेवाभिधीयमानैरुच्चार्यमाणैः श्रूयमाणैश्च श्रोतृभिरनादिर्योऽयं वाग्व्यवहारो विभक्तवर्णपदनिबन्धनस्तज्जनिता वासना साऽप्यनादिरेव । तदनुविद्धया तद्वासितया लोकबुद्ध्या विभक्तवर्णरूषितपदावगाहिन्या सिद्धवत्परमार्थवत्सम्प्रतिपत्त्या संवादेन वृद्धानां पदं प्रतीयते । एतदुक्तं भवति - अस्ति कश्चिदुपाधिर्य उपधेयेन संयुज्यते वियुज्यते च । यथा लाक्षादिस्तत्र तद्वियोगे स्फटिकः स्वाभाविकेन स्वच्छधवलेन रूपेण प्रकाशत इति युज्यते । पदप्रत्ययस्य तु प्रयत्नभेदोपनीतध्वनिभेदादन्यतोऽनुत्पादात्तस्य च सदा सादृश्यदोषरूषिततया वर्णात्मनैव प्रत्ययजनकत्वमिति कुतो निरुपाधिनः पदस्य प्रथा । यथाऽऽहुः –

ध्वनयः सदृशात्मानो विपर्यासस्य हेतवः । उपलम्भकमेतेषां विपर्यासस्य कारणम् ॥

उपायत्वाच्च नियतः पददर्शितदर्शिनाम् । ज्ञानस्यैव च बाधेयं लोके ध्रुवमुपप्लवः ॥ इति । तस्य सङ्केतबुद्धितः प्रविभाग एतावतामेवं जातीयकोऽनुसंहार एकस्यार्थस्य वाचक इति। सङ्केतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मको योऽयं शब्दः सोऽयमर्थो योऽयमर्थः सोऽयं शब्द इति। एवमितरेतराध्यासरूपः सङ्केतो भवतीति। एवमेते शब्दार्थप्रत्यया इतरेतराध्यासात्सङ्कीर्णा गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानम्। य एषां प्रविभागज्ञः स सर्ववित्। टीका तत्त्व-वैशारदी

यतः पदात्मा विभक्तवर्णरूषितः प्रकाशतेऽतः स्थूलदर्शी लोको वर्णानेव पदमभिमन्यमानस्तानेव प्रकारभेदभाजोऽर्थभेदे सङ्केतयतीत्याह - तस्येति । तस्य पदस्याजानत एकस्यापि सङ्केतबुद्धितः स्थूलदर्शिलोकहिताय वर्णात्मना विभागः । विभागमाह - एतावतां न न्यूनानामधिकानां वा, एवं जातीयको नैरन्तर्यक्रमविशेषोऽनुसंहार एकबुद्ध्युपग्रह एकस्यार्थस्य गोत्वादेर्वाचक इति । ननु यद्येकस्यार्थस्यायं शब्दो वाचक इति सङ्केतो हन्त भोः शब्दार्थयोर्नेतरेतराध्यासस्तर्हीत्यत आह - सङ्केतस्त्विति । स्मृतावात्मा स्वरूपं यस्य स तथोक्तः । न हि कृत इत्येव सङ्केतोऽर्थमवधारयत्यपि तु स्मर्यमाणः । एतदुक्तं भवति - अभिन्नाकार एव सङ्केते कथञ्चिद्भेदं विकल्प्य षष्ठी प्रयुक्तेति । य एषां प्रविभागज्ञः स तत्र संयमे भवति सर्ववित्सर्वभूतरुतज्ञ इति । सर्वपदेषु चास्ति वाक्यशक्तिर्वृक्ष इत्युक्तेऽस्तीति गम्यते। न सत्तां पदार्थो व्यभिचरतीति। तथा न ह्यसाधना क्रियाऽस्तीति। तथाच पचतीत्युक्ते सर्वकारकाणामाक्षेपो नियमार्थोऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानामिति। दृष्टं च वाक्यार्थे पदरचनं श्रोत्रियश्छन्दोऽधीते, जीवति प्राणान्धारयति। तत्र वाक्ये पदार्थाभिव्यक्तिस्ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा। अन्यथा भवत्यश्वोऽजापय इत्येवमादिषु नामाख्यातसारूप्यादनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेतेति। टीका तत्त्व-वैशारदी

तदेवं विकल्पितवर्णभागमेकमनवयवं पदं व्युत्पाद्य कल्पितपदविभागं वाक्यमेकमनवयवं व्युत्पादयितुमाह - सर्वपदेषु चास्ति वाक्यशक्तिः । अयमभिसन्धिः - परप्रत्यायनाय शब्दः प्रयुज्यते तत्र तदेव च परं प्रति प्रतिपादयितव्यं यत्तैः प्रतिपित्सितं, तदेव तैः प्रतिपित्सितं यदुपादानादिगोचरः । न च पदार्थमात्रं तद्गोचरः किन्तु वाक्यार्थ इति वाक्यार्थपरा एव सर्वे शब्दास्तेन स एव तेषामर्थः । अतो यत्रापि केवलस्य पदस्य प्रयोगस्तत्रापि पदान्तरेण सहैकीकृत्य ततोऽर्थो गम्यते, न तु केवलात्कस्मात्तन्मात्रस्यासामर्थ्यात्तथा च वाक्यमेव तत्र तत्र वाचकं न तु पदानि । तद्भागतया तु तेषामप्यस्ति वाक्यार्थवाचकशक्तिः पदार्थ इव पदभागतया वर्णानाम् । तेन यथा वर्ण एकैकः सर्वपदार्थाभिधानशक्तिः प्रचित एवं पदमप्येकैकं सर्ववाक्यार्थाभिधानशक्तिप्रचितम् । तदिदमुक्तम् - सर्वपदेषु चास्ति वाक्यशक्तिर्वृक्ष इत्युक्तेऽस्तीति गम्यते । अध्याहृतास्तिपदसहितं वृक्ष इति पदं वाक्यार्थे वर्तत इति तद्भागत्वाद्वृक्षपदं तत्र वर्तते । कस्मात्पुनरस्तीति गम्यत इत्यत आह - न सत्तां पदार्थो व्यभिचरतीति । लोक एव हि पदानामर्थावधारणोपायः । स च केवलं पदार्थमस्त्यर्थेनाभिसमस्य सर्वत्र वाक्यार्थी करोति सोऽयमव्यभिचारः सत्तया पदार्थस्यात एव शब्दवृत्तिविदां व्यवहारो यत्रान्यत्क्रियापदं नास्ति तत्रास्तिर्भवन्तीपरः प्रयोक्तव्य इति ।

क्रियाभेदाव्यभिचारि प्रातिपदिकमुक्त्वा क्रियाभेदं कारकाव्यभिचारिणं दर्शयति - तथा च पचतीत्युक्त इति । पचतीत्युक्ते हि कारकमात्रस्य तदन्वययोग्यस्यावगमादन्यव्यावृत्तिपरस्तद्भेदानामनुवादः । तदेवं भेद एव वाक्यार्थ इति । तथाऽनपेक्षमपि पदं वाक्यार्थे वर्तमानं दृश्यत इति सुतरामस्ति वाक्यशक्तिः पदानामित्याह - दृष्टं चेति । न चैतावताऽपि श्रोत्रियादिपदस्य स्वतन्त्रस्यैवविधार्थप्रत्यायनं न यावदस्त्या- दिभिरभिसमासोऽस्य भवति । तथा चास्यापि वाक्यावयवत्वात्कल्पितत्वमेवेति भावः । स्यादेतत्पदानामेव चेद्वाक्यशक्तिः कृतं तर्हि वाक्येन तेभ्य एव तदर्थावसायादित्यत आह - तत्र वाक्य इति । उक्तमेतन्न केवलात्पदात्पदार्थः प्रतिपित्सितः प्रतीयते न यावदेतत्पदान्तरेणाभिसमस्यत इति । तथा च वाक्यात्पदान्यपोद्धृत्य कल्पितानि वाक्यार्थाच्चापोद्धृत्य तदेकदेशं कारकं वा क्रियां वा तत्पदं प्रकृत्यादिविभागकल्पनया व्याकरणीयमन्वाख्येयम् । किमर्थं पुनरेतावता क्लेशेनान्वाख्यायत इत्यत आह - अन्यथेति । घटो भवति भवति भिक्षां देहि भवति तिष्ठतीति नामाख्यातयोश्च साम्यात् । एवमश्वस्त्वमश्वो यातीति । एवमजापयः पिब, अजापयः शत्रूनिति नामाख्यातसारूप्यादनिर्ज्ञातं नामत्वे - नाऽऽख्यातत्वेन वाऽन्वाख्यानाभावे निष्कृष्याज्ञातं कथं क्रियायां कारके वा व्याक्रियेत । तस्माद्वाक्यात्पदान्यपोद्धृत्य व्याख्यातव्यानि । न त्वन्वाख्यानादेव पारमार्थिको विभागः पदानामिति । तेषां शब्दार्थप्रत्ययानां प्रविभागः। तद्यथा श्वेतते प्रासाद इति क्रियार्थः, श्वेतः प्रासाद इति कारकार्थः शब्दः, क्रियाकारकात्मा तदर्थः प्रत्ययश्च। कस्मात्। सोऽयमित्यभिसम्बन्धादेकाकार एव प्रत्ययः सङ्केत इति। टीका तत्त्व-वैशारदी

तदेवं शब्दरूपं व्युत्पाद्य शब्दार्थप्रत्ययानां सङ्केतापादितसङ्कराणामसङ्करमाख्यातुमुपक्रमते - तेषां शब्दार्थप्रत्ययानां प्रविभागस्तद्यथा श्वेतते प्रासाद इति क्रियार्थः शब्दः । स्फुटतरो ह्यत्र पूर्वापरीभूतायाः क्रियायाः साध्यरूपायाः सिद्धरूपः क्रियार्थः श्वेतत इति भिन्नः शब्दः । यत्रापि शब्दार्थयोः सिद्धरूपत्वं तत्राप्यर्थादस्ति शब्दस्य भेद इत्याह - श्वेतः प्रासाद इति कारकार्थः शब्दः । अभिहितत्वाच्च कारकविभक्तेरभावः । अर्थं विभजते - क्रियाकारकात्मा तदर्थस्तयोः शब्दयोरर्थः क्रियात्मा कारकात्मा च । प्रत्ययं विभजते - प्रत्ययश्चेति । चशब्देन तदर्थ इत्येतत्पदमत्रानुकृष्यते । तदत्रान्यपदार्थप्रधानं सम्बध्यते । स एव क्रियाकारकात्माऽर्थो यस्य स तथोक्तः । नन्वभेदेन प्रतीतेः शब्दार्थप्रत्ययानां सकंरात्कुतः प्रविभाग इत्याशयवान्पृच्छति - कस्मादिति । उत्तरमाह - सोऽयमित्यभिसम्बन्धादिति । सङ्केतोपाधिरेकाकारप्रत्ययो न तु तात्त्विक इत्यर्थः । सङ्केतस्य निमित्तता दर्शिता सङ्केत इति सप्तम्या । यस्तु श्वेतोऽर्थः स शब्दप्रत्यययोरालम्बनीभूतः। स हि स्वाभिरवस्थाभिर्विक्रियमाणो न शब्दसहगतो न बुद्धिसहगतः। एवं शब्द एवं प्रत्ययो नेतरेतरसहगत इत्यन्यथा शब्दोऽन्यथाऽर्थोऽन्यथा प्रत्यय इति विभागः। एवं तत्प्रविभागसंयमाद्योगिनः सर्वभूतरुतज्ञानं सम्पद्यत इति ॥ १७ ॥ टीका तत्त्व-वैशारदी

परमार्थमाह - यस्तु श्वेतोऽर्थ इति । अवस्था नवपुराणत्वादयः । सहगतः सङ्कीर्णः । एवं च प्रविभागसंयमाद्योगिनः सर्वेषां भूतानां पशुमृगसरीसृपवयःप्रभृतीनां यानि रुतानि तत्राप्यव्यक्तं पदं तदर्थस्तत्प्रत्ययश्चेति । तदिह मनुष्यवचनवाच्यप्रत्ययेषु कृतः संयमः समानजातीयतया तेष्वपि कृत एवेति । तेषां रुतं तदर्थभेदं तत्प्रत्ययं च योगी जानातीति सिद्धम् ॥ १७ ॥ पातञ्जल-रहस्यम्

तत्र गौरित्यादिशब्दः श्रोत्रैकग्राह्यः, अर्थो द्रव्यं त्वक्चक्षुर्ग्राह्यं, शेषाणि पञ्चविषयाणीत्युकतेः स्वमते पृथिव्यादिसमूहे शब्दार्थप्रत्ययानामितरेतराध्यासो घटाद्यर्थः, तथा च पाण्यादिचतुष्टयग्राह्यः, शब्दादयः पञ्च प्रत्येकं श्रोत्रादिपञ्चेन्द्रियग्राह्याः, ज्ञानं मानसम्बौद्धं साक्षिग्राह्यञ्चेति पदपदार्थज्ञानानि अयःशलाकासदृशानि परस्परमसङ्गीनि यद्यपि पदवृत्तौ तादात्म्याध्यासवशादेकपात्रस्थजलदुग्धयोरिव सङ्कीर्णानि तेष्वेकैकसंयमत्रयधारणात् पिपीलिकादिमनुष्यान्तेषु ये परप्रत्ययार्थाः शब्दाः तेषां पिपीलिकाशब्दोऽयं मनुष्यशब्दोऽयमिति योगिनां ज्ञानं भवतीति सूत्रार्थः, उच्चरितप्रध्वंसिनां वर्णानां समसमयवर्त्तित्वं नास्तीत्याह – वर्णा इति । एकस्मिन्तिष्ठति तदन्यस्य स्थितिरनुग्रहः ते वर्णाः पदं स्फोटाख्यं व्यङ्ग्यं नित्यञ्च पद्यतेऽर्थोऽनेनेति, नित्यानित्ययोः सम्बन्धो नास्तीत्याह – असंस्पृश्येति । जन्मविनाशशालिन इत्याह – आविरिति । अत एवाह –अपदस्वरूपा इति । वर्णस्वरूपमाह - वर्ण इति । पदात्मा गकारादिरोकारादिसहकारेण पदस्फोटं व्यञ्जन् निर्वाहकत्वेन पदात्मा सर्वस्य गो गणगमनगन्धादेर्योऽभिधायकशाक्तिबोधकता तया प्रतीतो युक्तः वर्णान्तरमोकारादिः प्रतियोगी द्वितीयोऽनुयोगिनो गकारस्य तत्त्वादिति, जराराजादिष्वेवमेवेत्याह - पूव इति । सास्नाऽऽदिमन्तं गोपिण्डम्, एकनिर्भासः एकया बुद्ध्या निर्भास्यते, एकं पदमिति प्रत्यक्षे सति यदेकार्थपरिच्छेदकत्वाद्वर्णानां पदैकत्वबुद्धिरुपचार इति न कल्पनेति भावः, उक्तामभिधानशक्तिं सोपपत्तिकामाह – सर्वपदेष्विति । यत्रापि क्रियापदं नास्ति तत्राप्यस्तिर्भवन्तीपरः प्रयुज्यते, कृम्वस्तयः क्रियासामान्यवाचिन इति, फणिमतमाश्रित्याह - न सत्तामिति । आक्षेपलब्धस्यानुबादमाह - वाक्यार्थे पदरचना यथाऽयं श्रोत्रिय इति, श्रोत्रियत्वं छन्दोऽध्ययनकर्तृत्वं, व्याकरणाभावेऽबोधकतैवेत्याह अन्यथेति । फलितमाह – एवमिति – भाष्यार्थः, वागिन्द्रियमष्टगोलकं यथाऽऽह-अष्टौ स्थानानीति, न च वाचकं, वाचकस्तु शब्द एवेत्यर्थः, स चाकाशवायुप्रभवशरीरात् समुच्चारयितुर्वक्त्रमुपैति, नादस्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागच्छति यः स शब्दः, स्थानान्तरे “वैखरीशब्दजन्मबूरि”त्युक्तेः, परापश्यन्तीमध्यमावैखरीति स्थानानीत्यर्थः, तया = बुद्ध्या, नागदन्ताः = भित्तिष्वारोपित तिर्यग्दण्डाः, शिक्यं नाम रज्जुनिर्मितं घटादिधारकं, त्रयो ग्रावणाः वर्त्तुलाकाराः पाषाणाः, पिठरं अदनादिपाकपात्रं, उच्चरितप्रध्वंसित्त्वाद् वर्णानां कुतो यौगपद्यमित्याह – वर्णानां त्विति । असम्भवद्भिरसहावस्थितिभिः, आग्नेयादीनां यदाग्नेयोऽष्टकपालो भवत्यमावस्यायां पौर्णमास्यां चाच्युतो भवति उपांशुयाजमन्तरा, एवमग्नीषोर्मीयमेकादशकपाले पौर्णमासे प्रायच्छदिति पौर्णमासे यागत्रयं क्रमेण भवति, तेषाञ्चाशुतरविनाशेन प्रत्येकं पूर्वं विना परमापूर्वारम्भकत्वायोगात् क्रमेण स्थाय्येवोत्पत्त्यपूर्वत्रयं स्वीकृतं तद्वन्नेत्याह – न चेति । कुतो नेत्याह – स खल्विति । गौरवं व्यनक्ति – स एवेति । धूमादिरिव नाज्ञातः प्रत्यायने हेतुरित्याह - न चैष इति । स्मृतिजनकसंस्कारस्तु समानविषय एवेति, खले कपोतन्यायेन, दूषणमाह - क्रर्मेति । एकपदानुभवं एकत्वधीविषयं पदस्फोटं, पदस्फोटेऽप्युपपत्तिमाह - तद्धीति तत् स्फोटाख्यम्पदं, न चानित्यवर्णव्यङ्ग्यत्वेऽनित्यत्वं पदस्येति वाच्यं? न हि घटपटादिव्यङ्ग्यत्वे घटत्वादेरनित्यत्त्वं, तुल्यस्थानकरणनिष्पन्ना गकारादयाऽन्योन्यविशदृशैरोकारादिभिः पदैः पदव्यञ्जकैः, एकमनवयवपदस्फोटं, मणौ वर्तुलं कृपाणे दीर्घं दर्पणे स्वच्छं समग्रस्थानञ्चेत्यनुभवसिद्धं, सभागादि तु बुद्धेर्दुर्वचमित्याह – तेनेति । गोपदस्फोटभेदस्य गोपदविशेषस्य गकारेण विशिष्ट ओकार इति शेषः, सन्देह एव किं न स्यादिति चेत्तत्राह – प्रत्यक्षज्ञान एवेति । ततः किं? तत्राह – तदेष इति । उपसंहरति – एवं प्रत्येकवर्णे इति । यथा रत्नतत्त्वनिश्चये प्राञ्चः प्रत्यक्षप्रत्यया एकैकांशं व्यञ्जयन्ति तथाऽत्र गृहीतैकैकवर्णस्फोटस्थानसङ्ख्याऽपि षडवयवा परमाणव इतिवत् कल्पितावयवव्यञ्जकत्वेनान्त्यवर्णप्रत्यक्षसहकृताः पदस्फोटं व्यञ्जयन्ति सभागमिव व्यञ्जयन्तीत्यर्थः, घटादौ घोत्तरत्वेन यः सङ्केतः घट इति तेनावच्छिन्ना बोधयन्तीत्यर्थः, सर्वाबिधानशक्तिप्रचितो गकारो गोचरगोगणगगनादौ शक्तः, ओकारः सोमशोचिःसोपानादौ शक्त इति, तर्हि पूर्वपूर्ववर्णानुभवसंस्कारसहितान्त्यवर्णप्रत्ययाः सन्तु बोधकाः कृतं स्फोटात्मना तत्राह – तदेकमित्यादि – प्रतीयत इत्यन्तेन भाष्येण, न हि घटाः सहस्रं घटत्वमेकं व्यञ्जयन्तो घटत्वं नानेति व्यञ्जयन्ति; एवं व्यङ्ग्यं लाघवादेकमेवेत्याह - न हीति । व्यञ्जकमाण्यादिभेदात्तद्व्यद्वयं मुखं नानेति भावः, एतन्मते संस्कार एव बोधको नानुभव इत्याह – अन्त्यवर्णेति । पदविषयत्वं स्फोटविषयत्वमिति, सर्वत्र हि लोहितस्फटिकादावुपाधिविनिर्मोकेस्फटिकः स्वच्छो दृश्यते पदं वर्णोपलब्धिं विना कदाऽपि नोपलभ्यत इति नास्त्येवेत्याशङ्क्य समाधत्ते – परत्रेत्यादि - प्रतीयतइत्यन्तेन, अङ्गारद्रव्यं यथा कालिमदोषदुष्टत्वेनोपलब्धमिति तस्य स्वरूपं नास्तीति तथा लाघवसहकृतैकत्वप्रमाप्रत्ययवेद्यस्य कुतो नास्तित्वं नित्यानुमेयपदार्थवन्नैयायिकानां विशेषवद् भट्टानां श्रुत्यर्थापत्तिगम्यापूर्ववद् गुरूणां नियोगवद्वेदान्तिनां ज्ञानवदत उक्तं चन्द्रमसि शशशावके ब्रह्म निपुणतरैरनुपलभ्यमानोऽपि सन्दिहाना, इति सन्देहस्यैकेककोटिपर्यवसायित्वेऽपि लाघवाद्भावकोटाविति भावः, सर्वं हि वाक्यं क्रियया समाप्यते “क्रिया वा कारकान्वितेत्युक्तिमाश्रित्याह – तदेवमित्यादि - क्रियाभदाव्यभिचारीत्यन्तेन, भवतीति प्रथमपुरुषः तिप्त्स्झीति, वाक्ये शक्तिः वाक्यस्य वाचितोपादानादिविषयपदार्थप्रतिपादकता सा पदानामस्ति क्रियाकारकार्थप्रतिपादनसमर्थपदान्तराव्यभिचारादिति भावः, विशिष्टार्थप्रयुक्ता हि समभिव्याहृतिर्ज्ञानाशक्तेः पदमात्रप्रयोगस्य निरर्थकत्वादिति, अभिसमासः = समभिव्याहारः, उपसंहरति - तथा चेति । अस्यापि पदस्येत्यर्थः, शङ्कते – लाघवाय पदमान्नं प्रयोक्तव्यं न पदसमुदाय इति – स्यादेतदिति, समाधत्ते – उक्तं पदमात्रप्रयोगस्य व्यर्थत्वादिति, लाघवं विशदयति – किमर्थमिति । साधारणो धर्मो व्यामोहाय केवलं न पुरुषार्थायेत्याह - अन्यथेति । भवतिपदमुत्पत्तौ सम्बोधने सप्तंयर्थे च साधारणं किं बोधयतीति व्यामोहोऽतःपदान्तराविनाभूतमिति प्रयोजनाय पदान्तरमाक्षिपतीति, वाक्यमेव शक्तं न पदं निरर्थकत्वादिति, तद्यथेति । श्वेतते! प्रसाद इति, चेतनेतरप्रसादः श्वेतते श्वेतक्रियायुक्त इत्याह - पूर्वापरीभूताया इति क्रियारूपोऽर्थः साध्यो धात्वर्थ इति, भावनैव हि वाक्यार्थः स्वकरणविशेषितेति भट्टोक्तेः, यथा वर्णेष्वेकं पदमिति भ्रमोऽर्थोपाधिकः शब्दार्थप्रत्ययानां त्रयाणामेकत्वभ्रमः इत्यर्थः, संयमस्तु मनुष्यशब्दे एवेत्याह - तदिह मनुष्येति ॥ १७ ॥ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ १८ ॥ द्वये खल्वमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपा विपाकहेतवो धर्माधर्मरूपाः। ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्मवदपरिदृष्टाश्चित्तधर्माः। तेषु संयमः संस्कारसाक्षात्क्रियायै समर्थः। न च देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणम्। तदित्थं संस्कारसाक्षात्करणात्पूर्वजातिज्ञानपुत्पद्यते योगिनः। परत्राप्येवमेव संस्कारसाक्षात्करणात्परजाति-संवेदनम्। टीका तत्त्व-वैशारदी

संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् । ज्ञानजा हि संस्काराः स्मृतेर्हेतवोऽविद्यादिसंस्कारा अविद्यादीनां क्लेशानां हेतवः । विपाको जात्यायुर्भोगरूपस्तस्य हेतवो धर्माधर्मरूपाः । पूर्वेषु भवेष्वभिसंस्कृता निष्पादिता स्वकारणैर्यथासंस्कृतं व्यञ्जनं कृतमिति गम्यते । परिणामचेष्टानिरोधशक्तिजीवनान्येव धर्माश्चित्तस्य तद्वदपरिदृष्टाश्चित्तधर्मास्तेषु श्रुतेष्वनुमितेषु सपरिकरेषु संयमः संस्काराणां द्वयेषां साक्षात्क्रियायै समर्थः । अस्तु तत्र संयमात्तत्साक्षात्कारः पूर्वजातिसाक्षात्कारस्तु कुत इत्यत आह – न च देशेति । निमित्तं पूर्वशरीरमिन्द्रियादि च । सानुबन्धसंस्कारसाक्षात्कार एव नान्तरीयकतया जात्यादिसाक्षात्कारमाक्षिपतीत्यर्थः । स्वसंस्कारसंयमं परकीयेष्वतिदिशति - परत्राप्येवमिति । अत्रेदमाख्यानं श्रूयते – भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणाद्दशसु महासर्गेषु जन्मपरिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभूत्। अथ भगवानावट्यस्तनुधरस्तमुवाच – दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसम्भवं दुःखं सम्पश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन सुखदुःखयोः किमधिकमुपलब्धमिति। भगवन्तमावट्यं जैगीषव्य उवाच – दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवं दुःखं सम्पश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन यत्किञ्चिदनुभूतं तत्सर्वं दुःखमेव प्रत्यवैमि। भगवानावट्य उवाच - यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च सन्तोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति। भगवाञ्जैगीषव्य उवाच – विषयसुखापेक्षयैवेदमनुत्तमं सन्तोषसुखमुक्तम्। कैवल्यसुखापेक्षया दुःखमेव। बुद्धिसत्त्वस्यायं धर्मस्त्रिगुणस्त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति। दुःखरूपस्तृष्णातन्तुः। तृष्णादुःखसन्तापापगमात्तु प्रसन्नमबाधं सर्वानुकूलं सुखमिदमुक्तमिति ॥ १८ ॥ टीका तत्त्व-वैशारदी

अत्र श्रद्धोत्पादे हेतुमनुभवत आवट्यस्य जैगीषव्येण संवादसुपन्यस्यति - अत्रेदमाख्यानं श्रूयत इति । महाकल्पो महासर्गः । तनुधर इति निर्माणकायसम्पदुक्ता । भव्यः शोभनो विगलितरजस्तमोमल इत्यर्थः । प्रधानवशित्वमैश्वर्यं तेन हि प्रधानं विक्षोभ्य यस्मै यादृशीं कापेन्द्रियसम्पदं दित्सति तस्मै तादृशीं दत्ते । स्वकीयानि च कायेन्द्रियसहस्राणि निर्मायान्तरिक्षे दिवि भुवि च यथेच्छं विहरतीति । सन्तोषो हि तृष्णाक्षयो बुद्धिसत्त्वस्य प्रशान्तता धर्मः ॥ १८ ॥ पातञ्जल-रहस्यम्

संस्कारो द्विविधोऽनुभवजः क्रियाजश्चेत्याह-द्वय इति । फलानुमेयाः प्रारम्भा इति न्यायेन-ते पूर्वजन्मानुभवसंस्कृता अतो नित्यानुमेयाः सन्तोऽपि योगिना प्रत्यक्षीकृताः जातिस्मरनहेतव इत्याह – संस्कारेति । तेषां तत्र देशादिसाक्षात्कारं विना साक्षात्कारो न भवतीत्याह-न चेति । निमित्तकारणं देहेन्द्रियादि येन येन कायेनोत्पादितं इत्याह-ननुधर इति ॥ १८ ॥ प्रत्ययस्य परचित्तज्ञानम् ॥ १९ ॥ प्रत्यये संयमात्प्रत्ययस्य साक्षात्करणात्ततः परचित्तज्ञानम् ॥ १९ ॥ टीका तत्त्व-वैशारदी

प्रत्ययस्य परचित्तज्ञानम् । परप्रत्ययस्य चित्तमात्रस्य साक्षात्करणादिति ॥ १९ ॥ न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ २० ॥ रक्तं प्रत्यय जानात्यमुष्मिन्नालम्बने रक्तमिति न जानाति। परप्रत्ययस्य यदालम्बनं तद्योगिचित्तेन नाऽऽलम्बनीकृतं परप्रत्ययमात्रं तु योगिचित्तस्याऽऽलम्बनीभूतमिति ॥ २० ॥ टीका तत्त्व-वैशारदी

यथा संस्कारसाक्षात्कारस्तदनुबन्धपूर्वजन्मसाक्षात्कारमाक्षिपत्येवं परचित्तसाक्षात्कारोऽपि तदालम्बनसाक्षात्कारमाक्षिपेदिति प्राप्त आह – न च तत्सालम्बनं तस्याविषयीभूतत्वात् । सानुबन्धसंस्कारविषयोऽसौ संयमोऽयं तु परचित्तमात्रविषय इत्यभिप्रायः ॥ २० ॥ पातञ्जल-रहस्यम्

प्रत्ययेतिसूत्रं । प्रत्ययस्य परिचित्तस्य तस्य ज्ञाने

अर्थेनैव विशेषो हि निराकारतया धियामि -

इत्युक्तिमाश्रित्याह –परप्रत्ययमात्रं त्विति भाष्यार्थः, टीकामते तु प्रतीयतेऽर्थोऽनेनेतिप्रत्ययश्चित्तं-तत्र संयमात् यादृशो हि संयमस्तादृगेव साक्षात्कारहेतुताऽधिकस्यातिप्रसङ्गादित्याह –न चेति । ज्ञानस्य प्रत्ययो द्विविधः सामान्यो देशकालाद्यवच्छिन्नो विशेषश्च तत्राद्यो योगिधीविषय इत्याह – रक्तमिति । भोजवृत्तिमत इदं सूत्रम् ॥ १९ - २० ॥ कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासम्प्रयोगेऽन्तर्धानम् ॥ २१ ॥ कायस्य रूपे संयमाद्रूपस्य या ग्राह्या शक्तिस्तां प्रतिष्टभ्राति। ग्राह्यशक्तिस्तम्भे सति चक्षुष्प्रकाशासम्प्रयोगेऽन्तर्धानमुत्पद्यते योगिनः। एतेन शब्दाद्यन्तर्धानमुक्तं वेदितव्यम् ॥ २१ ॥ टीका तत्त्व-वैशारदी

कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासम्प्रयोगेऽन्तर्धानम् । पञ्चात्मकः कायः । स च रूपवत्तया चाक्षुषो भवति । रूपेण हि कायश्च तद्रूपं च चक्षुर्ग्रहणकर्मशक्तिमनुभवति । तत्र यदा रूपे संयमविशेषो योगिना क्रियते तदा रूपस्य ग्राह्यशक्ती रूपवत्कायप्रत्यक्षताहेतुः स्तम्भ्यते । तस्माद्ग्राह्यशक्तिस्तम्भे सत्यन्तर्धानं योगिनस्ततः परकीयचक्षुर्जनितेन प्रकाशेन ज्ञानेनासम्प्रयोगश्चक्षुर्ज्ञानाविषयत्वं योगिनः कायस्येति यावत् । तस्मिन्कर्तव्येऽन्तर्धानं कारणमित्यर्थः । एतेनेति । कायशब्दस्पर्शरसगन्धसंयमात्तद्ग्राह्यशक्तिस्तम्भे श्रोत्रत्वग्रसनघ्राणप्रकाशासम्प्रयोगेऽन्तर्धानमिति सूत्रमूहनीयम् ॥ २१ ॥ पातञ्जल-रहस्यम्

अन्तर्धानस्योपायमाह-कायेति, सूत्रं रूप्यते गृह्यते धर्मीं येन धर्मेण तद्रूपं न तस्य संयमकृतप्रतिबन्धे सत्यन्तर्धानं योगिनः सिध्यति सुतरां रूपाग्रहे रूपवतोऽग्रहणं नक्तञ्चराणां यथाऽऽदित्यादेरग्रह इत्यर्थः ॥ २१ ॥ सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ २२ ॥ आयुर्विपाकं कर्म द्विविधं सोपक्रमं निरुपक्रमं च। तत्र यथाऽऽर्द्रं वस्त्रं वितानितं लघीयसा कालेन शुष्येत्तथा सोपक्रमम्। यथा च तदेव सम्पिण्डितं चिरेण संशुष्येदेवं निरुपक्रमम्। यथा वाऽग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तः क्षेपीयसा कालेन दहेत्तथा सोपक्रमम्। यथा वा स एवाग्निस्तृणराशौ क्रमशोऽवयवेषु न्यस्तश्चिरेण दहेत्तथा निरुपक्रमम्। तदैकभविकमायुष्करं कर्म द्विविधं सोपक्रमं निरुपक्रमं च। तत्संयमादपरान्तस्य प्रायणस्य ज्ञानम्। टीका तत्त्व-वैशारदी

सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा । आयुर्विपाकं च कर्म द्विविधं सोपक्रमं निरुपक्रमं च । यत्खल्वैकभविकं कर्म जात्यायुर्भोगहेतुस्तदायुर्विपाकम् । तच्च किञ्चित्कालानपेक्षमेव भोगदानाय प्रस्थितं दत्तबहुभोगमल्पावशिष्टफलं प्रवृत्तव्यापारं केवलं तत्फलस्य सहसा भोक्तुमेकेन शरीरेणाशक्यत्वाद्विलम्बते तदिदं सोपक्रमम् । उपक्रमो व्यापारस्तत्सहितमित्यर्थः । तदेव तु दत्तस्तोकफलं तत्कालमपेक्ष्य फलदानाय व्याप्रियमाणं कादाचित्कमन्दव्यापारं निरुपक्रमम् । एतदेव निदर्शनाभ्यां विशदयति - तत्र यथेति । अत्रैवातिवैशद्याय निदर्शनान्तरं दर्शयति - यथा वाऽग्निरिति । परस्तं महाप्रलयमपेक्ष्यापरान्तो मरणम् । तस्मिन्कर्मणि धर्माधर्मयोः संयमादपरान्तज्ञानम् । ततश्च योगी सोपक्रममात्मनः कर्म विज्ञाय बहून्कायान्निर्माय सहसा फलं भुक्त्वा स्वेच्छया म्रियते । अरिष्टेभ्यो वेति। त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमाधिदैविकं चेति। तत्राऽऽध्यात्मिकं घोषं स्वदेहे पिहितकर्णो न शृणोति, ज्योतिर्वा नेत्रेऽवष्टब्धे न पश्यति। तथाऽऽधिभौतिकं यमपुरुषान्पश्यति, पितॄनतीतानकस्मात्पश्यति। तथाऽऽधिदैविकं स्वर्गमकस्मात्सिद्धान्वा पश्यति। विपरीतं वा सर्वमिति। अनेन वा जानात्यपरान्तमुपस्थितमिति ॥ २२ ॥ टीका तत्त्व-वैशारदी

प्रासङ्गिकमाह - अरिष्टेभ्यो वा । अरिवत्त्रासयन्तीत्यरिष्टानि त्रिविधानि मरणचिह्नानि । विपरीतं वा सर्वं माहेन्द्रजालादिव्यतिरेकेण ग्रामनगरादि स्वर्गमभिमन्यते, मनुष्यलोकमेव देवलोकमिति ॥ २२ ॥ पातञ्जल-रहस्यम्

परलोकाय कथं शीघ्रं यतेत तदर्थसम्यमविशेषमाह-सोपक्रमं निरूपक्रमञ्चेति सूत्रं, वितानितं शोषणाय विस्तीर्य दत्तं, तद्यथा लघीयसा कालेनाल्पेन शुष्यति तद्वत्, यत्पिण्डीकृतं तद्विलम्बेन शुष्यति तद्वत् तयीः संयमे क्रियमाणे, “परीतकाले परिमुच्येत सर्वे ” इति श्रुतिमाश्रित्याह – परीतः प्रलयः, परस्य ब्रह्मणो लयकालत्वात्तद्भिन्नोऽपरान्तो मरणं तस्य ज्ञानं निश्रयः, सोपक्रमावशिष्टं कायव्यूहं कृत्वा शीघ्रं तदवशिष्टं भुक्त्वा स्वेच्छया म्रियते योगीति फलम्, एवं निरूपक्रममिति, एवामस्यैषा दृष्टिः –यत् शरीरे उष्माणं, विजानाति, अस्यैषा श्रुतिर्यत् पिहितकर्णः शब्दं श्रृणोति तयोरनुपलब्धावनिष्टं भविष्यतीति, अवष्टब्धे पीडितेऽपरान्तमुपस्थितम् ॥ २२ ॥ मैत्र्यादिषु बलानि ॥ २३ ॥ मैत्री करुणा मुदितेति तिस्रो भावनास्तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीबलं लभते। दुःखितेषु करुणां भावयित्वा करुणाबलं लभते। पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते। भावनातः समाधिर्यः स संयमस्ततो बलान्यवन्ध्यवीर्याणि जायन्ते। पापशीलेषूपेक्षा न तु भावना। ततश्च तस्यां नास्ति समाधिरित्यतो न बलमुपेक्षातस्तत्र संयमाभावादिति ॥ २३ ॥ टीका तत्त्व-वैशारदी

मैत्र्यादिषु बलानि । मैत्र्यादिषु संयमान्मैत्र्यादिबलान्यस्य भवन्ति । तत्र मैत्रीभावनातो बलं येन जीवलोकं सुखीकरोति ततः सर्वहितो भवति । एवं करुणाबलात्प्राणिनो दुःखाद्दुःखहेतोर्वा समुद्धरति । एवं मुदिताबलाज्जीवलोकस्य माध्यस्थ्यमाधत्ते । वक्ष्यमाणौपयिकं भावनाकारणत्वं समाधेराह - भावनातः समाधिर्यः स संयमः । यद्यपि धारणाध्यानसमाधित्रयमेव संयमो न समाधिमात्रं तथाऽपि समाध्यनन्तरं कार्योत्पादात्समाधेः प्राधान्यात्तत्र संयम उपचरितः । क्वचिद्भावना समाधिरिति पाठः । तत्र भावनासमाधी समूहस्य संयमस्यावयवौ हेतू भवतः । वीर्यं प्रयत्नः, तेन मैत्र्यादिबलवतः पुंसः सुखितादिषु परेषां कर्तव्येषु प्रयत्नोऽबन्ध्यो भतीति । उपेक्षौदासीन्य, न तत्र भावना नापि सुखादिवद्भाव्यं किञ्चिदस्तीति ॥ २३ ॥ पातञ्जल-रहस्यम्

विभूत्यन्तरमाह-मैत्र्यादिष्विति सूत्रं, कस्य किं फलमित्यपेक्षायामाह-तत्र मैत्रीति । एवं सर्वत्र भावनातः समाधिर्यः सः संयम इति, धारणाध्यानयोः, समाधिफलकत्वात् समाधेरेव कार्योत्पादे प्राधान्यादियर्थः, अबन्ध्यप्रयत्नं फलाव्यभिचारीत्यर्थः ॥ २३ ॥ बलेषु हस्तिबलादीनि ॥ २४ ॥ हस्तिबले संयमाद्धस्तिबलो भवति। वैनतेयबले संयमाद्वैनतेयबलो भवति। वायुबले संयमाद्वायुबलो भवतीत्येवमादि ॥ २४ ॥ टीका तत्त्व-वैशारदी

बलेषु हस्तिबलादीनि । यस्य बले संयमस्तस्य बलं लभत इति ॥ २४ ॥ पातञ्जल-रहस्यम्

मानसबलमुक्त्वा शारीरमाह-बलेष्विति सूत्रं, वैनतेयबले गरुडस्य बल इति ॥ २४ ॥ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ २५ ॥ ज्योतिष्मती प्रवृत्तिरुक्ता मनसस्तस्या य आलोकस्तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वाऽर्थे विन्यस्य तमर्थमधिगच्छति ॥ २५ ॥ टीका तत्त्व-वैशारदी

प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् । सूक्ष्मे व्यवहिते विप्रकृष्टे वाऽर्थे संयमेन विन्यस्य तमधिगच्छति ॥ २५ ॥ पातञ्जल-रहस्यम्

आध्यात्मिकमुक्त्वाऽधिभूतविषयमाह-प्रवृत्येति । सूत्रसङ्गतिमाह-ज्योतिष्मतीति । ज्योतिष्मत्याः प्रवृतेः य आलोकः स प्रवृत्यालोकः तस्मिन् न्यासात् संयमात् सूक्ष्मादिज्ञानं साक्षात्कार इत्यर्थः ॥ २५ ॥ भुवनज्ञानं सूर्ये संयमात् ॥ २६ ॥ तत्प्रस्तारः सप्त लोकाः। तत्रावीचेः प्रभृति मेरुपृष्ठं यावदित्येवं भूर्लोकः। मेरुपृष्ठादारभ्य आध्रुवाद्ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः। ततः परः स्वर्लोकः पञ्चविधो माहेन्द्रस्तृतीयो लोकः। चतुर्थः प्राजापत्यो महर्लोकः। त्रिविधो ब्राह्मः। तद्यथा – जनलोकस्तपोलोकः सत्यलोक इति। ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान्। माहेन्द्रश्च स्वरित्युक्तो दिवि तारा भुवि प्रजाः ॥ इति सङ्ग्रहश्लोकः। टीका तत्त्व-वैशारदी

भुवनज्ञानं सूर्ये संयमात् । आध्रुवादितो मेरुपृष्ठात् । तदेवमनेन सङ्ग्रहश्लोकान्तेन सङ्क्षेपतः सप्त लोकानुपन्यस्य विस्तरेणाऽऽह - तत्रावीचेरिति । घनशब्देन पृथिव्युच्यते । भूमिः स्थानमित्यर्थः । एते महानरका अनेकोपनरकपरिवारा बोद्धव्याः । एतानेव नामान्तरेणोपसंहरति - महेति । तत्रावीचेरुपर्युपरि निविष्टाः षण्महानरकभूमयो घनसलिलानलानिलाकाशतमःप्रतिष्ठा महाकालाम्बरीषरौरवमहारौरवमहारौरवकालसूत्रान्धतामिस्राः। यत्र स्वकर्मोपार्जितदुःखवेदनाः प्राणिनः कष्टमायुर्दीर्घमाक्षिप्य जायन्ते। ततो महातलरसातलातलसुतलवितलतलातलपातालाख्यानि सप्त पातालानि। भूमिरियमष्टमी सप्तद्वीपा वसुमती, यस्याः सुमेरुर्मध्ये पर्वतराजः काञ्चनः। तस्य राजतवैदूर्यस्फटिकहेममणिमयानि शृङ्गाणि। तत्र वैदूर्यप्रभानुरागान्नीलोत्पलपत्रश्यामो नभसो दक्षिणो भागः, श्वेतः पूर्वः, स्वच्छः पश्चिमः, कुरण्टकाभ उत्तरः। दक्षिणपार्श्वे चास्य जम्बूर्यतोऽयं जम्बूद्वीपः। तस्य सूर्यप्रचाराद्रात्रिं दिवं लग्नमिव वर्तते। तस्य नीलश्वेतशृङ्गवन्त उदीचीनास्त्रयः पर्वता द्विसाहस्रायामाः। तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि रमणकं हिरण्मयमुत्तराः कुरव इति। निषधहेमकूटहिमशैला दक्षिणतो द्विसाहस्रायामाः। तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि हरिवर्ष किम्पुरुषं भारतमिति। सुमेरोः प्राचीना भद्राश्वमाल्यवत्सीमानः प्रतीचीनाः केतुमाला गन्धमादनसीमानः। मध्ये वर्षमिलावृतम्। तदेतद्योजनशतसाहस्रं सुमेरोर्दिशि दिशि तदर्धेन व्यूढम्। टीका तत्त्व-वैशारदी

तस्य सूर्यप्रचाराद्रात्रिं दिवं लग्नमिव वर्तते । यमेवास्य भागं सूर्यस्त्यजति तत्र रात्रिः । यमेव भागमलं करोति तत्र दिनमिति । सकलजम्बूद्वीपपरिमाणमाह - तदेतद्योजनशतसाहस्रम् । किम्भूतं योजनानां शतसाहस्रमित्याह - सुमेरोर्दिशि दिशि तदर्धेन पञ्चाशद्योजनसहस्रेण व्यूढं सङ्क्षिप्तम् । स खल्वयं शतसाहस्रायामो जम्बूद्वीपस्ततो द्विगुणेन लवणोदधिना वलयाकृतिना वेष्टितः। ततश्च द्विगुणा द्विगुणाः शाककुशक्रौञ्चशाल्मलगोमेध(प्लक्ष)पुष्करद्वीपाः, समुद्राश्च सर्षपराशिकल्पाः सविचित्रशैलावतंसा इक्षुरससुरासर्पिर्दधिमण्डक्षीरस्वादूदकाः। सप्त समुद्रपरिवेष्टिता वलयाकृतयो लोकालोकपर्वतपरिवाराः पञ्चाशद्योजनकोटिपरिसङ्ख्याताः। तदेतत्सर्वं सुप्रतिष्ठितसंस्थानमण्डमध्ये व्यूढम्। अण्डं च प्रधानस्याणुरयवयवो यथाऽऽकाशे खद्योत इति। टीका तत्त्व-वैशारदी

यतोऽस्य मध्यस्थः सुमेरुः समुद्राश्च सर्षपराशिकल्पा इति द्विगुणा द्विगुणा इति सम्बन्धः । यथा सर्षपराशिर्न व्रीहिराशिरिवोच्छ्रितो नापि भूमिसमस्तथा समुद्रा अपीत्यर्थः । विचित्रैः शैलैरवतसैरिव सह वर्तन्त इति सविचित्रशैलावतंसा द्वीपाः । तदेतत्सर्वं सद्वीपविपिननगनगरनीरधिमालावलयं लोकालोकपरिवृतं विश्वम्भरामण्डलं ब्रह्माण्डमध्ये व्यूढं सङ्क्षिप्तं सुप्रतिष्ठितं संस्थानं सन्निवेशो यस्य तत्तथोक्तम् । तत्र पाताले जलधौ पर्वतेष्वेतेषु देवनिकाया असुरगन्धर्वकिन्नरकिम्पुरुषयक्षराक्षसभूतप्रेत-पिशाचापस्मारकाप्सरोब्रह्मराक्षसकूष्माण्डविनायकाः प्रतिवसन्ति। सर्वेषु द्वीपेषु पुण्यात्मानो देवमनुष्याः। टीका तत्त्व-वैशारदी

ये यत्र प्रतिवसन्ति तत्र तान्दर्शयति - तत्र पाताल इति । सुमेरुस्त्रिदशानामुद्यानभूमिः। तत्र मिश्रवनं नन्दनं चैत्ररथं सुमानसमित्युद्यानानि। सुधर्मा देवसभा। सुदर्शनं पुरम्। वैजयन्तः प्रासादः। ग्रहनक्षत्रतारकास्तु ध्रुवे निबद्धा वायुविक्षेपनियमेनोपलक्षितप्रचाराः सुमेरोरुपर्युपरि सन्निविष्टा दिवि विपरिवर्तन्ते। टीका तत्त्व-वैशारदी

सुमेरोः सन्निवेशमाह - सुमेरुरिति । तदेवं भूर्लोकं सप्रकारमुक्त्वा सप्रकारमेवान्तरिक्षलोकमाह - ग्रहेति । विक्षेपो व्यापारः । माहेन्द्रनिवासिनः षड्देवनिकायाः - त्रिदशा अग्निष्वात्ता याम्यास्तुषिता अपरिनिर्मितवशवर्तिनः परिनिर्मितवशवर्तिनश्चेति। सर्वे सङ्कल्पसिद्धा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः कामभोगिन औपपादिकदेहा उत्तमानुकूलाभिरप्सरोभिः कृतपरिचाराः। टीका तत्त्व-वैशारदी

स्वर्लोकमादर्शयति - माहेन्द्रनिवासिन इति । देवनिकाया देवजातयः । षण्णामपि देवनिकायानां रूपोत्कर्षमाह - सर्वे सङ्कल्पसिद्धा इति । सङ्कल्पमात्रादेवैषां विषया उपनमन्ति । वृन्दारकाः पूज्याः । कामभोगिनो मैथुनप्रियाः । औपपादिकदेहाः पित्रोः संयोगमन्तरेणाकस्मादेव दिव्यं शरीरमेषां धर्मविशेषातिसंस्कृतेभ्योऽणुभ्यो भूतेभ्यो भवतीति । महति लोके प्राजापत्ये पञ्चविधो देवनिकायः – कुमुदा ऋभवः प्रतर्दना अञ्जनाभाः प्रचिताभा इति। एते महाभूतवशिनो ध्यानाहाराः कल्पसहस्रायुषः। प्रथमे ब्रह्मणो जनलोके चतुर्विधो देवनिकायो ब्रह्मपुरोहिता ब्रह्मकायिका ब्रह्ममहाकायिका अमरा इति। ते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्तरायुषः। टीका तत्त्व-वैशारदी

महर्लोकमाह - महतीति । महाभूतवशिनः । यद्यदेतेम्यो रोचते तत्तदेव महाभूतानि प्रयच्छन्ति । तदिच्छातश्च महाभूतानि तेन तेन संस्थानेनावतिष्ठन्ते । ध्यानाहारा ध्यानमात्रतृप्ताः पुष्टा भवन्ति ।

जनलोकमाह - प्रथम इत्युक्तक्रमेण । भूतेन्द्रियवशिन इति । भूतानि पृथिव्यादोनीन्द्रियाणि श्रोत्रादीनि यथा नियोक्तुमिच्छन्ति तथैव नियुज्यन्ते । द्वितीये तपसि लोके त्रिविधो देवनिकायः – आभास्वरा महाभास्वराः सत्यमहाभास्वरा इति। ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्विगुणोत्तरायुषः सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वमप्रतिहतज्ञाना अधरभूमिष्वनावृतज्ञानविषयाः। तृतीये ब्रह्मणः सत्यलोके चत्वारो देवनिकाया अकृतभवनन्यासाः स्वप्रतिष्ठा उपर्युपरिस्थिताः प्रधानवशिनो यावत्सर्गायुषः। टीका तत्त्व-वैशारदी

उक्तक्रमापेक्षया द्वितीयं ब्रह्मणस्तपोलोकमाह - द्वितीय इति । भूतेन्द्रियप्रकृतिवशिन इति । प्रकृतिः पञ्चतन्मात्राणि तद्वशिनस्तदिच्छातो हि तन्मात्राण्येव कायाकारेण परिणमन्त इत्यागमिनः । द्विगुणेत्याभास्वरेभ्यो द्विगुणायुषो महाभास्वरास्तेभ्योऽपि द्विगुणायुषः सत्यमहाभास्वरा इत्यर्थः । ऊर्ध्वमित्यूर्ध्वं सत्यलोकेऽप्रतिहतज्ञाना अवीचेस्तु प्रभृत्या तपोलोकं सूक्ष्मव्यवहितादि सर्वं विजानन्तीत्यर्थः । तृतीयं ब्रह्मणः सत्यलोकमाह - तृतीय इति । अकृतो भवनस्य गृहस्य न्यासो यैस्ते आधाराभावादेव स्वप्रतिष्ठाः । स्वेषु शरीरेषु प्रतिष्ठा येषां ते तथोक्ताः । प्रधानवशिनस्तदिच्छातः सत्त्वरजस्तमांसि प्रवर्तन्ते यावत्सर्गायुषः ।

तथाच श्रूयते –

ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ इति । तत्राच्युताः सवितर्कध्यानसुखाः, शुद्धनिवासाः सविचारध्यानसुखाः, सत्याभा आनन्दमात्रध्यानसुखाः, सञ्ज्ञासञ्ज्ञिनश्चास्मितामात्रध्यानसुखाः। तेऽपि त्रैलाक्यमध्ये प्रतितिष्ठन्ति। त एते सप्त लोकाः सर्व एव ब्रह्मलोकाः। विदेहप्रकृतिलयास्तु मोक्षपदे वर्तन्त इति न लोकमध्ये न्यस्ता इति। एतद्योगिना साक्षात्करणीयं सूर्यद्वारे संयमं कृत्वा, ततोऽन्यत्रापि एवं तावदभ्यसेद्यावदिदं सर्व दृष्टमिति ॥ २६ ॥ टीका तत्त्व-वैशारदी

तदेवं चतुर्णां देवनिकायानां साधारणधर्मानुक्त्वा नामविशेषग्रहणेन धर्मविशेषानाह - तत्रेति । अच्युता नाम देवाः स्थूलविषयध्यानसुखास्तेन ते तृप्यन्ति । शुद्धनिवासा नाम देवाः सूक्ष्मविषयध्यानसुखास्तेन ते तृप्यन्ति । सत्याभा नाम देवा इन्द्रियविषयध्यानसुखास्तेन ते तृप्यन्ति । सञ्ज्ञासञ्ज्ञिनो नाम देवा अस्मितामात्रध्यानसुखास्तेन ते तृप्यन्ति । त एते सर्वे सम्प्रज्ञातसमाधिमुपासते । अथासम्प्रज्ञातसमाधिनिष्ठा विदेहप्रकृतिलयाः कस्मान्न लोकमध्ये न्यस्यन्त इत्यत आह - विदेहप्रकृतिलयास्त्विति । बुद्धिवृत्तिमन्तो हि दर्शितविषया लोकयात्रां वहन्तो लोकेषु वर्तन्ते । न चैवं विदेहप्रकृतिलयाः सत्यपि साधिकारत्व इत्यर्थः । तदेतदासत्यलोकमा चावीचेर्योगिना साक्षात्करणीयं, सूर्यद्वारे सुषुम्नायां नाड्याम् । न चैतावताऽपि तत्साक्षात्कारो भवतीत्यत आह - एवं तावदन्यत्रापि सुषुम्नाया अन्यत्रापि योगोपाध्यायोपदिष्टेषु यावदिदं सर्वं जगद्दृष्टमिति । बुद्धिसत्त्वं हि स्वभावत एव विश्वप्रकाशनसमर्थं तमोमलावृतं यत्रैव रजसोद्धाट्यते तदेव प्रकाशयति । सूर्यद्वारसंयमोद्धाटितं तु भुवनं प्रकाशयति । न चैवमन्यत्रापि प्रसङ्गस्तत्संयमस्य तावन्मात्रोद्धाटनसामर्थ्यादिति सर्वमवदातम् ॥ २६ ॥ पातञ्जल-रहस्यम्

आधिदैविकमाह-भुवनेति । सूर्य आत्मा जगतः तस्थुशश्चेति श्रुतेः, सूर्ये संयमात् स्थावरजङ्गमानां ज्ञानसिद्धिरित्याह-तदिति । तत्प्रस्तारः सप्त लोकभुवनानि तानि सन्निवेशविशेषेण गणयति-ब्राह्म इति । दिवि = अन्तरिक्षे तारा इति, भुवि प्रजेति । पातालमारभ्य भूरन्ता अष्टौ भूर्लोकः, माहेन्द्रः स्वरित्यर्थः प्राजापत्यो महः, सत्यं तपो जन इति ब्रह्मणः त्रिविधा इति भुवनानि, सूर्ये संयमादेषां साक्षात्कार इति सङ्क्षेपः, वैराग्यार्थमाह –तत्र मणिमयानीति राजतादि चातुर्णां विशेषणं, वैदूर्यं नीलं कुरुण्डकं रक्तमिति, श्वेतः पूर्वः रजतप्रतिबिम्बत्वात् स्वच्छः स्फटिकप्रतिबिम्बत्वाद् अतः प्रतिबिम्बः चातुर्णां विशेषणं, इदानीं भूसंस्थानमाह –दक्षिणपार्श्वइत्यादियावत् सर्वं दृष्टमित्यन्तेन, उदीचीना उत्तरस्थाः, एवं प्रतीचीनाः पाश्चात्याः, सर्वपराशिऋल्पाः किञ्चिदुन्नत्ताः ; तथापि द्वीपान्न प्लावयन्ति इत्यत्रेश्वरशासनादिति भावः, लवणोदव्यापकानां षण्णां समुद्राणां सप्तद्वीपाणां नामान्याह – शाकमित्यादिना ।

पञ्चाशत्कोटिविस्तीर्णा सेयमुर्वी महामते !!

इति विष्णुपुराणमाश्रित्याह-पञ्चाशदिति । अणुरवयव एकदेशः, देवनिकाया देवजातयः, भूतोऽमी देवयोनय इत्यभिधानाद्, त्रिदशानामुद्यानभूमयो विहारभूमयः वातप्रचारा इत्याह –वायुष्विति । षण्णां गुणान्तरमाह-सर्व इति । औपपादिकदेहाः = ऐच्छिकशरीराः कृतपरिवाराः, परिवारः कलत्रम्, एषां देवनिकायाः, किञ्च परापरलोकविद इत्याह –ऊर्द्र्ध्वमिति । सत्यलोकवादिनश्चत्वारो गृहरहिता इत्याह- अकृतेति । तर्हि किमाधारा इति चेत्तन्नाह –स्वप्रतिष्ठा स्वमिहिम्नीतिश्रुतेः, चातुर्णां ध्यानविशेषमाह-तत्राच्युता इत्यादिना, वितर्कविचारानन्दास्मिता इत्यत्र मूलादि ध्येयमुक्तमत्र तद्वयापिन आह - सवितर्केति । उपसंहरति - त इति । ब्रम्हलॊकावधित्वाद् ब्रम्हलोका इति, एते सर्वे जन्ममरणशालिनः आब्रम्हभुवनाल्लोकाः पुनरावर्तिनॊऽर्जुन ! इतिस्मृतेः प्रकृतिलयास्तु साधिकारिणोऽप्यवश्यम्मोक्षभागिन इत्याह-विदेहप्रकृतीति । प्रकृतमुपसंहरति -एतदिति । साक्षात्करणीयमित्यर्थः ॥ २६ ॥ चन्द्रे ताराव्यूहज्ञानम् ॥ २७ ॥ चन्द्रे संयमं कृत्वा ताराणां व्यूहं विजानीयात् ॥ २७ ॥ ध्रुवे तद्गतिज्ञानम् ॥ २८ ॥ ततो ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात्। ऊर्ध्वं विमानेषु कृतसंयमस्तानि विजानीयात् ॥ २८ ॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ २९ ॥ नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात्। वातपित्त श्लेष्माणस्त्रयो दोषाः। धातवः सप्त त्वग्लोहितमांसस्नाय्वस्थिमज्जाशुक्राणि। पूर्वं पूर्वमेषां बाह्यमित्येष विन्यासः ॥ २९ ॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥ जिह्वाया अधस्तात्तन्तुस्तन्तोरधस्तात्कण्ठस्ततोऽधस्तात्कूपस्तत्र संयमात्क्षुत्पिपासे न बाधेते ॥ ३० ॥ कूर्मनाड्यां स्थैर्यम् ॥ ३१ ॥ कूपादध उरसि कूर्माकारा नाडी, तस्यां कृतसंयमः स्थिरपदं लभते। यथा सर्पो गोधा वेति ॥ ३१ ॥ टीका तत्त्व-वैशारदी

चन्द्रे ताराव्यूहज्ञानम् । ध्रुवे तद्गतिज्ञानम् । नाभिचक्रे कायव्यूहज्ञानम् । कण्ठकूपे क्षुत्पिपासानिवृत्तिः । कूर्मनाड्यां स्थैर्यम् । तत्र तत्र जिज्ञासायां योगिनस्तत्र तत्र संयमः । एवं क्षुत्पिपासानिवृत्तिहेतुः संयमः स्थैर्यहेतुश्च सूत्रपदैरुपदिष्टो भाष्येण च निगदव्याख्यातेन व्याख्यात इति न व्याख्यातः ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ पातञ्जल-रहस्यम्

सिद्धयन्तरमाह - कूर्मेति । स्थिरपदं स्थिरां चित्तवृत्तिं लभत इत्यर्थः ॥ ३० - ३१ ॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३२ ॥ शिरःकपालेऽन्तश्छिद्रं प्रभास्वरं ज्योतिस्तत्र संयमं कृत्वा सिद्धानां द्यावापृथिव्योरन्तरालचारिणां दर्शनम् ॥ ३२ ॥ टीका तत्त्व-वैशारदी

मूर्धज्योतिषि सिद्धदर्शनम् । मूर्धशब्देन सुषुम्ना नाडी लक्ष्यते तत्र संयम इति ॥ ३२ ॥ पातञ्जल-रहस्यम्

विभूत्यन्तरमाह – मूर्द्धेति । शतं चैका हृदयस्य नाड्यस्तासाम्मूर्द्धानमभिनिःसृतैकेति श्रुतिमाश्रित्याह - मूर्द्धशब्देनेति टीका ॥ ३२ ॥ प्रातिभाद्वा सर्वम् ॥ ३३ ॥ प्रातिभं नाम तारकं तद्विवेकजस्य ज्ञानस्य पूर्वरूपम्। यथोदये प्रभा भास्करस्य। तेन वा सर्वमेव जानाति योगी प्रातिभस्य ज्ञानस्योत्पत्ताविति ॥ ३३ ॥ टीका तत्त्व-वैशारदी

प्रातिभाद्वा सर्वम् । प्रतिभोहस्तद्भवं प्रातिभम् । प्रसङ्ख्यानहेतुसंयमवतो हि तत्प्रकर्षे प्रसङ्ख्यानोदयपूर्वलिङ्गं यदूहजं ज्ञानं तेन सर्वं विजानाति योगी । तच्च प्रसङ्ख्यानसन्निधापनेन संसारात्तारयतीति तारकम् ॥ ३३ ॥ पातञ्जल-रहस्यम्

अन्तरङ्गसिद्धिमाह - प्रातीति । ऊहजम् ज्ञानं विवेकसाक्षात्कारे ज्ञानस्योपकारितया तारकं कथ्यते, तथा दृष्टान्तमाह - यथोदये प्रभाया निरस्ते तमसि सम्यग् भास्करोदय इत्यर्थः, ततः किं तत्राह – प्रातिभस्येति ॥ ३३ ॥ हदये चित्तसंवित् ॥ ३४ ॥ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म तत्र विज्ञानं तस्मिन्संयमाच्चित्तसंवित् ॥ ३४ ॥ टीका तत्त्व-वैशारदी

हृदये चित्तसंवित् । हृदयपदं व्याचष्टे - यदिदमस्मिन्ब्रह्मपुरे । बृहत्त्वादात्मा ब्रह्म तस्य पुरं निलयस्तद्धि तत्र विजानाति स्वमिति । दहरं गर्तं तदेव पुण्डरीकमधोमुखं वेश्म मनसः । चित्तसंवेदनत्वे हेतुमाह - तत्र विज्ञानं तत्र संयमाच्चित्तं विजानाति स्ववृत्तिविशिष्टम् ॥ ३४ ॥ पातञ्जल-रहस्यम्

हृदय इति, चित्तमतीतानागतवर्तमानवृत्तिकम् तस्य संवित् सम्यग्वेत्ता साक्षात् कर्त्तेति सूत्रार्थः, अत एव भाष्यं तस्मिन् संयमात चित्तसंवित पुरुष इति शेषः, स्वमिति, स्वीयमिति किमाश्वर्यं तत्राह - स्ववृत्तिविशिष्टमिति ॥ ३४ ॥ सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३५ ॥ बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम्। तस्माच्च सत्त्वात्परिणामिनोऽत्यन्तविधर्मा विशुद्धोऽन्यश्चितिमात्ररूपः पुरुषः। तयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य दर्शितविषयत्वात्। स भोगप्रत्ययः सत्त्वस्य परार्थत्वाद्दृश्यः। टीका तत्त्व-वैशारदी

सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम् । यत्र प्रकाशरूपस्यातिस्वच्छस्य नितान्ताभिभूतरजस्तमस्तया विवेकख्यातिरूपेण परिणतस्य बुद्धिसत्त्वस्याऽऽत्यन्तिकश्चैतन्यादसङ्करस्तत्र कैव कथा रजस्तमसोर्जडस्वभावयोरित्याशयवान्सूत्रकारः सत्त्वपुरुषयोरित्युवाच । इममेवाभिप्रायं गृहीत्वा भाष्यकारोऽप्याह - बुद्धिसत्त्वं प्रख्याशीलमिति । न प्रख्याशीलमात्रमपि तु विवेकख्यातिरूपेण परिणतमतो नितान्तशुद्धप्रकाशतयाऽत्यन्तसारूप्यं चैतन्येनेति सङ्कर इत्यत आह - समानेति । सत्त्वेनोपनिबन्धनमविनाभावः सम्बन्धः, समानं सत्त्वोपनिबन्धनं ययो रजस्तमसोस्ते तथोक्ते । वशीकारोऽभिभवः । असङ्करमाह - तस्माच्चेति । चकारोऽप्यर्थः । न केवलं रजस्तमोभ्यामित्यर्थः । परिणामिन इति वैधर्म्यमपरिणामिनः पुरुषादुक्तम् । प्रत्ययाविशेषः शान्तघोरमूढरूपाया बुद्धेश्चैतन्यबिम्बोद्ग्राहेण चैतन्यस्य शान्ताद्याकाराध्यारोपश्चन्द्रमस इव स्वच्छसलिलप्रतिबिम्बितस्य तत्कम्पात्कम्पनारोपः । भोगहेतुमाह - दर्शितविषयत्वादिति । असकृद्व्याख्यातम् । ननु बुद्धिसत्त्वमस्तु पुरुषभिन्नं भोगस्तु पुंसः कुतो भिद्यत इत्यत आह - भोगप्रत्ययो भोगरूपः प्रत्ययः सत्त्वस्यातः परार्थत्वाद्दृश्यो भोग्यः । सत्त्वं हि परार्थं संहतत्वात्तद्धर्मश्च भोग इति सोऽपि परार्थः । यस्मै च परस्मा असौ तस्य भोक्तुर्भोग्यः । अथवाऽनुकूलप्रतिकूलवेदनीयस्तु सुखदुःखानुभवो भोगः । न चायमात्मानमेवानुकूलयति प्रतिकूलयति वा, स्वात्मनि वृत्तिविरोधादतोऽनुकूलनीयप्रतिकूलनीयार्थो भोगः । स भोक्ताऽऽत्मा तस्य दृश्यो भोग्य इति । यस्तु तस्माद्विशिष्टश्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययस्तत्र संयमात्पुरुषविषया प्रज्ञा जायते। न च पुरुषप्रत्ययेन बुद्धिसत्त्वात्मना पुरुषो दृश्यते। पुरुष एव तं प्रत्ययं स्वात्मावलम्बनं पश्यति। तथा ह्युक्तम् - विज्ञातारमरे केन विजानीयात् इति ॥ ३५ ॥ टीका तत्त्व-वैशारदी

यस्तु तस्मात्परार्थाद्विशिष्ट इति । परार्थादिति पञ्चम्यन्यपदाध्याहारेण व्याख्याता । स्यादेतत्पुरुषविषया चेत्प्रज्ञा हन्त भोः पुरुषः प्रज्ञायाः प्रज्ञेय इति प्रज्ञान्तरमेव तत्र तत्रेत्यनवस्थापात इत्यत आह – न च पुरुषप्रत्ययेनेति । अयमभिसन्धिः - चित्या जडः प्रकाश्यते । न जडेन चितिः । पुरुषप्रत्ययस्त्वचिदात्मा कथं चिदात्मानं प्रकाशयेत् । चिदात्मा त्वपराधीनप्रकाशो जडं प्रकाशयतीति युक्तम् । बुद्धिसत्त्वात्मनेत्यचिद्रूपतादात्म्येन जडत्वमाह । बुद्धिसत्त्वगतपुरुषप्रतिबिम्बालम्बनात्पुरुषालम्बनं न तु पुरुषप्रकाशनात्पुरुषालम्बनम् । बुद्धिसत्त्वमेव तु तेन प्रत्ययेन सङ्क्रान्तपुरुषप्रतिबिम्बं पुरुषच्छायापन्नं चैतन्यमालम्बत इति पुरुषार्थः । अत्रैव श्रुतिमुदाहरति - तथा ह्युक्तमीश्वरेण विज्ञातारमिति । न केनचिदित्यर्थः ॥ ३५ ॥ पातञ्जल-रहस्यम्

स वेत्ति वेद्यं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्, इत्यादि श्रुतिमाश्रित्याह - सत्त्वेति । सत्त्वपुरुशयोरत्यन्तबैलक्षण्येऽपि जवास्फटिकयोरिव सान्निध्याद् भोगः; तत्र पुरुषे संयमात् पुरुषसाक्षात्कार इति ज्ञानं सूत्रारूढम् करोति - सत्त्वपुरुषयोरिति, त्रिगुणप्रधानकार्यत्बाद् बुद्धिरपि त्रिगुणात्मिका तथाऽपि तस्याः परिणामशीलत्वात् सत्त्वरूपेण पुरुषान्यताप्रत्ययरूपेण परिणतं चित्तं, चितिशक्तिरपरिणामिनीत्याह - तस्माञ्चेति । एष प्रत्ययसर्ग इत्यत्रोक्तः प्रत्ययो बुद्धिः, तेन सहाविशेषाच्चिति तद्गतशान्तघोराध्यारोपः यथा जलगतकम्पाध्यारोपश्वन्द्रमसि तस्मिन्चन्द्रमसः स्थानीये स्वार्थे पुंसि संयमात् पुरुषसाक्षात्कार इति सूत्रार्थः, स च साक्षात्कारो - बुद्ध्युपादानको बुद्धिविषयकश्वेत्याह - न चेति । जडत्वेन प्रत्ययस्यापि पुम्भास्यत्वमित्याह - पुरुष इति । पदार्थत्वाविशेषात् पुरुषोऽपि तद्भास्यः स्यात्तत्र स वेत्ति वेद्यं न हि तस्य वेत्ता इत्यादिश्रुतिर्वाधिकेत्याह - तथा ह्युक्तमिति । तेन स्वात्मनि क्रियाविरोधान्नापि परेण सर्वस्य जडत्वात् परात्मनः परसाक्षात्काराविषयत्वाच्चेति भाष्यार्थः जलपयसोरिव पुम्बुद्ध्योरसङ्कर इत्यत्र कैमुतिकन्यायमाह - यत्रेत्यादि - उवाचेत्यन्तेन, अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्र गामिनः - इत्युक्तिमाश्रित्याह - परार्थत्वादिति । भोक्ताऽपि परार्थो दृष्ट स्त्रीणां वरमनुस्मरन्निति श्रुतेरित्यपरितोषादाह - अथ वेति । अनुकूलनीयः पुमान् तदर्थं सर्वाशेषत्वे सति सर्वशेषित्वं – भोक्तृत्वमित्यर्थः ॥ ३५ ॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३६ ॥ प्रातिभात्सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम्। श्रावणाद्दिव्यशब्दश्रवणम्। वेदनाद्दिव्य-स्पर्शाधिगमः। आदर्शाद्दिव्यरूपसंवित्। आस्वादाद्दिव्यरससंवित्। वार्तातो दिव्यगन्धविज्ञानमित्येतानि नित्यं जायन्ते ॥ ३६ ॥ टीका तत्त्व-वैशारदी

स च स्वार्थसंयमो न यावत्प्रधानं स्वकार्यं पुरुषज्ञानमभिनिर्वर्तयति तावत्तस्य पुरस्ताद्या विभूतीराधत्ते ताः सर्वा दर्शयति - ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते । तदनेन योगजधर्मानुगृहीतानां मनःश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां यथासङ्ख्यं प्रातिभज्ञानदिव्यशब्दाद्यपरोक्षहेतुभावा उक्ताः । पञ्चानां दिव्यशब्दाद्युपलम्भकानां तान्त्रिक्यः सञ्ज्ञाः श्रावणाद्याः । सुगमं भाष्यम् ॥ ३६ ॥ पातञ्जल-रहस्यम्

पुरुषज्ञानादेते षडिन्द्रियानादिविषयाः साक्षात्कृताः स्युरित्याह - तत इति । प्रातिभेत्यादिकरणानां परिभाषा ततः प्रातिभात्सूक्ष्मादिपञ्चसाक्षात्कारात्मकं मानसं, एवं श्रावणादिपञ्चकं, श्रवणादिपञ्चबाह्येन्द्रियादिजन्यसाक्षात्कारो योगिमनुष्याणां देवानां तु भवत्येव, वार्त्ता इति परिभाषिकी सञ्ज्ञा टीकायामपि श्रावणाध्या तान्त्रिकीत्युक्तम् ॥ ३६ ॥ ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३७ ॥ ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गास्तद्दर्शनप्रत्यनीकत्वात्। व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः ॥ ३७ ॥ टीका तत्त्व-वैशारदी

कदाचिदात्मविषयसंयमे प्रवृत्तस्तत्प्रभावादमूरर्थान्तरसिद्धीरधिगम्य कृतार्थमन्यः संयमाद्विरमेदत आह - ते समाधावुपसर्गा व्युत्थाने सिद्धयः । व्युत्थितचित्तो हि ताः सिद्धिरभिमन्यते । जन्मदुर्गत इव द्रविणकणिकामपि द्रविणसम्भारम् । योगिना तु समाहितचित्तेनोपनताभ्योऽपि ताभ्यो विरन्तव्यम् । अभिसंहिततापत्रयात्यन्तिकोपशमरूपपरमपुरुषार्थः स खल्वयं कथं तत्प्रत्यनीकासु सिद्धिषु रज्येतेति सूत्रभाष्ययोरर्थः ॥ ३७ ॥ पातञ्जल-रहस्यम्

“अथ वा यॊगिनामेव कुले भवति धीमताम् - नाशान्तो नासमाहितः नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयाद्, इत्यादिस्मृतिश्रुती आश्रित्य सूत्रेणाह - ते समाघावुपसर्गा व्युत्थाने सिद्धयः, उपसर्गा अविद्यामुमुक्षोः, व्युत्थाने बुभुक्षोरुतु सिद्धयः भोगसाधनत्वादिति तस्मात्तेभ्य अपसर्तव्यमिति तात्पर्यम् ॥ ३७ ॥ बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ ३८ ॥ लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयवशाद्बन्धः प्रतिष्ठेत्यर्थः। तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिबलाद्भवति। प्रचारसंवेदनं च चित्तस्य समाधिजमेव। कर्मबन्धक्षयात्स्वचित्तस्य प्रचारसंवेदनाच्च योगी चित्तं स्वशरीरान्निष्कृष्य शरीरान्तरेषु निक्षिपति। निक्षिप्तं चित्तं चेन्द्रियाण्यनुपतन्ति। यथा मधुकरराजानं मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनुनिविशन्ते तथेन्द्रियाणि परशरीरावेशे चित्तमनुविधीयन्त इति ॥ ३८ ॥ टीका तत्त्व-वैशारदी

तदेवं ज्ञानरूपमैश्वर्यं पुरुषदर्शनान्तं संयमफलमुक्त्वा क्रियारूपमैश्वर्यं संयमफलमाह - बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः । समाधिबलादिति । बन्धकारणविषयसंयमबलात्प्राधान्यात्समाधिग्रहणम् । प्रचरत्यनेनास्मिन्निति प्रचारः । चित्तस्य गमागमाध्वानो नाड्यस्तस्मिन्प्रचारे संयमात्तद्वेदनं, तस्माच्च बन्धकारणशैथिल्यान्न तेन प्रतिबध्यते । अप्रतिबद्धमप्युन्मार्गेण गच्छन्न स्वशरीरादप्रत्यूहं निष्क्रामति । न च परशरीरमाविशति । तस्मात्तत्प्रचारोऽपि

ज्ञातव्यः । इन्द्रियाणि च चित्तानुसारीणि परशरीरे यथाधिष्ठानं निविशन्त इति ॥ ३८ ॥ पातञ्जल-रहस्यम्

विभूतिपाद इतिसमाख्याबलाद्वैराग्यमुक्त्वा पुनर्विभूतिमाह - बन्धकारणेतिसूत्रम् । चञ्चलं हि मनः कृष्ण! प्रमाथि वलवद् दृढम्, इति स्मृत्यनुभवावाश्रित्याह - लोलोति । इच्छतो ह्यन्यतश्वित्तं पुनरप्येति योगिनः । यत्र मनो विलीयते पवनस्तत्र लीयत - इत्युक्तिमाश्रित्याह - निक्षिप्तं चित्तमित्यादि - अनुविधीयतइत्यन्तेन ॥ ३८ ॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३९ ॥ समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनं, तस्य क्रिया पञ्चतयी प्राणो मुखनासिकागतिराहृदयवृत्तिः। समं नयनात्समानश्चाऽऽनाभिवृत्तिः। अपनयनादपान आपादतलवृत्तिः। उन्नयनादुदान आशिरोवृत्तिः। व्यापी व्यान इति। एषां प्रधानं प्राणः। उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च प्रायणकाले भवति। तां वशित्वेन प्रतिपद्यते ॥ ३९ ॥ टीका तत्त्व-वैशारदी

उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च । समस्तेन्द्रियवृत्तिर्जीवनं प्राणादिलक्षणा प्राणादयो लक्षणं यस्याः सा तथोक्ता । द्वयीन्द्रियाणां वृत्तिर्बाह्याऽऽभ्यन्तरी च । बाह्या रूपाद्यालोचनलक्षणा । आभ्यन्तरी तु जीवनं, सा हि प्रयत्नभेदः शरीरोपगृहीतमारुतक्रियाभेदहेतुः सर्वकरणसाधारणः ।

यथाऽऽहुः –

सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ इति ।

तैरस्य लक्षणीयत्वात्तस्य प्रयत्नस्य क्रिया कार्यं पञ्चतयी । प्राण आनासिकाग्रादा च हृदयादवस्थितः । अशितपीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने सममनुरूपं नयन्समानः । आहृदयादा च नाभेरस्यावस्थानम् । मूत्रपुरीषगर्भादीनामपनयनहेतुरपानः । आनाभेरा च पादतलादस्य वृत्तिः । उन्नयनादूर्ध्वं नयनाद्रसादीनामुदानः । आ नाप्तिकाग्रादा च शिरसो वृत्तिरस्य । व्यापी व्यानः । एषामुक्तानां प्रधानं प्राणस्तदुत्क्रमे सर्वोत्क्रमश्रुतेः “प्राणमुत्क्रामन्तमनु सर्वे प्राणा उत्क्रामन्ति” इति । तदेवं प्राणादीनां क्रियास्थानभेदेन भेदं प्रतिपाद्य सूत्रार्थमवतारयति - उदानजयादिति । उदाने कृतसंयमस्तज्जयाज्जलादिभिर्न प्रतिहन्यते । उत्क्रान्तिश्चार्चिरादिमार्गेण भवति प्रायणकाले । तस्मात्तामुत्क्रान्तिं वशित्वेन प्रतिपद्यते । प्राणादिसंयमात्तद्विजये भूतजय एताः क्रियाः स्थानविजयादिभेदात्प्रतिपत्तव्याः ॥ ३९ ॥ पातञ्जल-रहस्यम्

सिद्ध न्तरमाह - उदानेतिसूत्रम्, तत्र कृतसंयमस्य तज्जयात् तदुत्क्रान्तिः प्राणिमात्रस्य साधारणी तत्र क्व संयमापेक्षेति चेत्तत्तु तपो येनामृतत्वमेतीत्याश्रित्याह - तां - बषित्वेन प्रतिपध्यत इति संयमादर्चिरादिमार्गेण गच्छतीति शेषः ॥ ३९ ॥ समानजयाज्ज्वलनम् ॥ ४० ॥ जितसमानस्तेजस उपध्मानं कृत्वा ज्वलयति ॥ ४० ॥ टीका तत्त्व-वैशारदी

समानजयाज्ज्वलनम् । तेजसः शारीरस्योपध्मानमुत्तेजनम् ॥ ४० ॥ पातञ्जल-रहस्यम्

उदानजयात् सुखोत्क्रान्तिः तथा समानजयादिच्छया देहभस्मीकरणमित्याह - समानमित्याह – समानेति ॥ ४० ॥ श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ४१ ॥ सर्वश्रोत्राणामाकाशं प्रतिष्ठा सर्वशब्दानां च। यथोक्तम् – तुल्यदेशश्रवणानामेकदेशश्रुतित्वं सर्वेषां भवतीति। तच्चैतदाकाशस्य लिङ्गम्। टीका तत्त्व-वैशारदी

स्वार्थसंयमादन्वाचयशिष्टं श्रावणाद्युक्तं सम्प्रति श्रावणाद्यर्थादेव संयमाच्छ्रावणादि भवतीत्याह - श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् । संयमविषयं श्रोत्राकाशयोः सम्बन्धमाधाराधेयभावमाह - सर्वश्रोत्राणामाहङ्कारिकाणामप्याकाशं कर्णशष्कुलीविवरं प्रतिष्ठा तदायतनं श्रोत्रं तदुपकारापकाराभ्यां श्रोत्रस्योपकारापकारदर्शनात् । शब्दानां च श्रोत्रसहकारिणां पार्थिवादिशब्दग्रहणे कर्तव्ये कर्णशष्कुलीसुषिरवर्ति श्रोत्रं स्वाश्रयनभोगतासाधारणशब्दमपेक्षते । गन्धादिगुणसहकारिभिर्घ्राणादिभिर्बाह्यं पृथिव्यादिवर्ति गन्धाद्यालोचने कार्ये दृष्टम् । आहङ्कारिकमपि घ्राणरसनत्वक्चक्षुःश्रोत्रं भूताधिष्ठानमेव भूतोपकारापकाराभ्यां घ्राणादीनामुपकारापकारदर्शनादित्युक्तम् । तच्चेदं श्रोत्रमाहङ्कारिकमयःप्रतिममयस्कान्तमणिकल्पेन वक्तृवक्रसमुत्पन्नेन वक्रस्थेन शब्देनाऽऽकृष्टं स्ववृत्तिपरम्परया वक्तृवक्रमागतं शब्दमालोचयति । तथाच दिग्देशवर्तिशब्दप्रतीतिः प्राणभृन्मात्रस्य नासति बाधकेऽप्रमाणीकृता भविष्यतीति । तथाच पञ्चशिखस्य वाक्यम् - तुल्यदेशश्रवणानामेकदेशश्रुतित्वं सर्वेषां भवतीति । तुल्यदेशानि श्रवणानि श्रोत्राणि येषां चैत्रादीनां ते तथोक्ताः । सर्वेषां श्रवणान्याकाशवर्तीनीत्यर्थः । तच्च श्रोत्राधिष्ठानमाकाशं शब्दगुणतन्मात्रादुत्पन्नं शब्दगुणकं येन शब्देन सहकारिणा पार्थिवादीञ्शब्दान्गृह्णाति । तस्मात्सर्वेषामेकजातीया श्रुतिः शब्द इत्यर्थः । तदनेन श्रोत्राधिष्ठानत्वमाकाशस्य शब्दगुणत्वं च दर्शितमिति । तच्चैकदेशश्रुतित्वमाकाशस्य लिङ्गम् । सा ह्येकजातीया शब्दव्यञ्जिका श्रुतिर्यदाश्रया तदेवाऽऽकाशशब्दवाच्यम् । न हीदृशीं श्रुतिमन्तरेण शब्दव्यक्तिः । न चेदृशी श्रुतिः पृथिव्यादिगुणस्तस्य स्वात्मनि व्यङ्ग्यव्यञ्जकत्वानुपपत्तेरिति । अनावरणं चोक्तम्। तथाऽमूर्तस्यानावरणदर्शनाद्विभुत्वमपि प्रख्यातमाकाशस्य। शब्दग्रहणानुमितं श्रोत्रम्। बधिराबधिरयोरेकः शब्दं गृह्णात्यपरो न गृह्णातीति। तस्माच्छ्रोत्रमेव शब्दविषयम्। श्रोत्राकाशयोः सम्बन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते ॥ ४१ ॥ टीका तत्त्व-वैशारदी

अनावरणं चाऽऽकाशलिङ्गम् । यद्याकाशं नाभविष्यदन्योन्यसम्पिण्डितानि मूर्तानि न सूचीभिरप्यभेत्स्यन्त । ततश्च सर्वैरेव सर्वमावृतं स्यात् । न च मूर्तद्रव्याभावमात्रादेवानावरणमस्याभावस्य भावाश्रितत्वेन तदभावेऽभावात् । न च चितिशक्तिस्तदाश्रया भवितुमर्हति । अपरिणामितयाऽवच्छेदकत्वाभावात् । न च दिक्कालादयः पृथिव्यादिद्रव्यव्यतिरिक्ताः सन्ति । तस्मात्तादृशः परिणतिभेदो नभस एवेति सर्वमवदातम् । अनावरणे चाऽऽकाशलिङ्गे सिद्धे यत्र यत्रानावरणं तत्र तत्र सर्वत्राऽऽकाशमिति सर्वगतत्वमप्याकाशस्य सिद्धमित्याह - तथाऽमूर्तस्येति । श्रोत्रसद्भावे प्रमाणमाह - शब्दग्रहणेति । क्रिया हि करणसाध्या दृष्टा । यथा छिदादिर्वास्यादिसाध्या । तदिह शब्दग्रहणक्रिययाऽपि करणसाध्यया भवितव्यं, यच्च करणं तच्च श्रोत्रमिति । अथास्याश्चक्षुरादय एव कस्मात्करणं न भवन्तीत्यत आह - बधिराबधिरयोरिति । अन्वयव्यतिरेकाभ्यामवधारणम् । उपलक्षणं चैतत्त्वग्वातयोश्चक्षुस्तेजसो रसनोदकयोर्नासिकापृथिव्योः सम्बन्धसंयमाद्दिव्यत्वगाद्यप्यूहनयिम् ॥ ४१ ॥ पातञ्जल-रहस्यम्

प्रातिभेतिसूत्रादेवेत्युक्तम् किमर्थमिदं सूत्रमित्याशङ्कय सङ्गतिमाह - स्वाथन्ति । श्रावणादिश्रोत्रशब्दयोः सम्बन्धः स एवार्थो विषयो यस्य संयमस्य स तथा तस्मादित्यर्थः, श्रोत्रेति, श्रोत्रस्य दिव्यत्वं दूरसूक्ष्मशब्दग्राहित्वं तेन हस्तिनापुरे स्थितेन सञ्जयेन व्यासदत्तदिव्यश्रोत्रेण कुरुक्षेत्रनिवासिनाम् मन्त्रणादिकं श्रुत्वा धृतराष्ट्राय कथितमिति सङ्गच्छते, श्रोत्रस्याह - श्रोत्रस्याङ्कारिकत्वेन जगन्मण्डलव्यापित्वेऽपि कर्णशष्कुल्यवच्छिन्नतवेन ग्राहकत्वमित्याह – सर्वश्रोत्राणामिति, वृत्तिलाभस्तु तत्र तत्रेत्युक्ते; शब्दगुणमाकाशमित्युक्तिमाश्रित्याह – शब्दानां त्विति । तत आकाशनिष्ठत्वे श्रोत्रस्य लिङ्गान्तरमाह - तदुपकारेति, रूपग्रहे बहिरालोकसहकारिवत् शब्दग्रहेऽपि श्रोत्रस्य तदस्तीत्याह - स्वाश्रयगतेति, इन्द्रियस्यावच्छिन्नस्यैव स्वविषयग्राहकत्वमित्याह - अहङ्कारिकत्वमपीति । विषय एवेन्द्रियादेराकर्षक इति प्रणालिकामाह - तच्चेदमिति, निश्वलमिति, लौहं चुम्बकेन मणिनाऽऽकृष्टं व्यापारवद् दृष्टं तद्वत् श्रोत्रादीन्द्रियमपीत्याह - तेन पलितमाह - तच्चेति । उपपत्तिमाह - सा हीत्यादि - अनुपपत्तेरित्यन्तेन, श्रुतिरत्र श्रवणेन्द्रियम्, उक्तद्रव्याभाव आकाश इति मतं निरसितुमाह - असाधारणमिति । अवच्छेदकाभावादुपादानत्वाभावादिति भावः, तन्मात्रस्य शब्दतन्मात्रस्य नभः परिणामः कार्यमित्यर्थः दिशः श्रोत्रमजायत इति श्रुतौ सत्यामप्यनुमानमाह, श्रोत्रसद्भाव इति । अन्यथासिद्धमन्वयव्यतिरेकाभ्यां निराह – बधिराबधिरयोरिति । श्रोत्रस्य दिव्यत्वसिद्धिस्त्वगादावप्युपलक्षणमित्याह - उपलक्षणमिति ॥ ४१ ॥ कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाऽऽकाशगमनम् ॥ ४२ ॥ यत्र कायस्तत्राऽऽकाशं तस्यावकाशदानात्कायस्य तेन सम्बन्धः प्राप्तिस्तत्र कृतसंयमो जित्वा तत्सम्बन्धं लघुषु वा तूलादिष्वा परमाणुभ्यः समापत्तिं लब्ध्वा जितसम्बन्धो लघुर्भवति। लघुत्वाच्च जले पादाभ्यां विहरति। ततस्तूर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति। ततो यथेष्टमाकाशगतिरस्य भवतीति ॥ ४२ ॥ टीका तत्त्व-वैशारदी

कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाऽऽकाशगमनम् । कायाकाशसम्बन्धसंयमाद्वा लघुनि वा तूलादौ कृतसंयमात्समापत्तिं चेतसस्तत्स्थतञ्जनतां लब्ध्वेति । सिद्धिक्रममाह - जल इति ॥ ४२ ॥ पातञ्जल-रहस्यम्

अणिमा लघिमेत्यत्रोक्तलघिमसिद्धेरुकपायान्तरमाह - कायेतिसूत्रम्, आकाशद्रव्यस्य सर्वत्र शब्दोपलम्भेन सर्वगतत्वादाह -परकाय इति । समापत्तिश्चेतसस्तदाकारतेत्यर्थः, सूत्र-स्थाचकारो विशयसमुच्चायथः ; इत्याह -लघुषु वेति ॥ ४२ ॥ बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ ४३ ॥ शरीराद्बहिमर्नसो वृत्तिलाभो विदेहा नाम धारणा। सा यदि शरीरप्रतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति सा कल्पितेत्युच्यते। या तु शरीरनिरपेक्षा वहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्वकल्पिता। तत्र कल्पितया साधयन्त्यकल्पिता महाविदेहामिति। यया परशरीराण्याविशन्ति योगिनः। ततश्च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेशकर्म विपाकत्रयं रजस्तमोशूलं तस्य च क्षयो भवति ॥ ४३ ॥ टीका तत्त्व-वैशारदी

अपरमपि परशरीरावेशहेतुं संयमं क्लेशकर्मविपाकक्षयहेतुं चाऽऽह - बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः । विदेहामाह - शरीरादिति । अकल्पिताया महाविदेहाया य उपायस्तत्प्रदर्शनाय कल्पितां विदेहामाह - सा यदीति । वृत्तिमात्रं कल्पनाज्ञानमात्रं तेन । महाविदेहामाह - या त्विति । उपायोपेयते कल्पिताकल्पितयोराह - तत्रेति । किं परशरीरावेशमात्रमितो नेत्याह - ततश्चेति । ततो धारणातो महाविदेहाया मनःप्रवृत्तेः सिद्धिः । क्लेशश्च कर्म च ताभ्यां विपाकत्रयं जात्यायुर्भोगाः । तदेतद्रजस्तमोमूलं विगलितरजस्तमसः सत्त्वमात्राद्विवेकख्यातिमात्रसमुत्पादात् । तदेतद्विपाकत्रयं रजस्तमोमूलतया तदात्मकं सद्बुद्धिसत्त्वमावृणोति । तत्क्षयाच्च निरावरणं योगिचित्तं यथेच्छं विहरति विजानाति चेति ॥ ४३ ॥ पातञ्जल-रहस्यम्

स्वच्छन्दविहार उपायान्तरमाह-बहिरिति । कल्पिता आहार्येत्युच्यते तामाह - विदेहा नामेति, अस्याः फलद्वयमाह - परदेहावेशः क्लेशकर्मेविपाकानां क्षयश्चा ॥ ४३ ॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ४४ ॥ तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहाऽऽकारादिभिर्धर्मैः स्थूलशब्देन परिभाषिताः। एतद्भूतानां प्रथमं रूपम्। द्वितीयं रूपं स्वसामान्यं मूर्तिर्भूमिः स्नेहो जलं वह्निरुष्णता वायुः प्रणामी सर्वतोगतिराकाश इत्येतत्स्वरूपशब्देनोच्यते। टीका तत्त्व-वैशारदी

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः । स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश्चार्थवत्त्वं चेति स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वानि तेषु संयमात्तज्जयः । स्थूलमाह - तत्रेति । पार्थिवाः पाथसीयास्तैजसा वायवीया आकाशीयाः शब्दस्पर्शरूपरसगन्धा यथासम्भवं विशेषाः षड्जगान्धारादयः शीतोष्णादयो नीलपीतादयः कषायमधुरादयः सुरभ्यादयः । एते हि नामरूपप्रयोजनैः परस्परतो भिद्यन्त इति विशेषाः । एतेषां पञ्च पृथिव्यां गन्धवर्जं चत्वारोऽप्सु गन्धरसवर्जं त्रयस्तेजसि गन्धरसरूपवर्जं द्वौ नभस्वति शब्द एवाऽऽकाशे । त एत ईदृशा विशेषाः सहाऽऽकारादिभिर्धर्मैः स्थूलशब्देन परिभाषिताः शास्त्रे । तत्रापि पार्थिवास्तावद्धर्माः –

आकारो गौरवं रौक्ष्यं वरणं स्थैर्यमेव च । वृत्तिभेदः क्षमा कार्ष्ण्यं काठिन्यं सर्वभोग्यता ॥

अपां धर्माः –

स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत् । शैत्यं रक्षा पवित्रत्वं सन्धानं चौदका गणाः ॥

तैजसा धर्माः –

ऊर्ध्वभाक्पाचकं दग्धृ पावकं लघु भास्वरम् । प्रध्वंस्योजस्वि वै तेजः पूर्वाभ्यां भिन्नलक्षणम् ॥

वायवीया धर्माः –

तिर्यग्यानं पवित्रत्वमाक्षेपो नोदनं बलम् । चलमच्छायता रौक्ष्यं वायोर्धर्माः पृथग्विधाः ॥

आकाशीया धर्माः –

सर्वतोगतिरव्यूहोऽविष्टम्भश्चेति ते त्रयः । आकाशधर्मा व्याख्याताः पूर्वधर्मविलक्षणाः ॥ इति ।

त एत आकारप्रभृतयो धर्मास्तैः सहेति । आकारश्च सामान्यविशेषो गोत्वादिः । द्वितीयं रूपमाह - द्वितीयं रूपं स्वसामान्यम् । मूर्तिः सांसिद्धिकं काठिन्यम् । स्नेहो जल मृजापुष्टिबलाधानहेतुः । वह्निरुष्णतोदर्ये सौर्ये भौमे च सर्वत्रैव तेजसि समवेतोष्णतेति । सर्वं चैतद्धर्मर्धमिणोरभेदविवक्षयाऽभिधानम् । वायुः प्रणामी वहनशीलः ।

तदाह –

चलनेन तृणादीनां शरीरस्याटनेन च । सर्वगं वायुसामान्यं नामित्वमनुमीयते ॥ अस्य सामान्यस्य शब्दादयो विशेषाः। तथा चोक्तम् – एकजातिसमन्वितानामेषां धर्ममात्रव्यावृत्तिरिति। टीका तत्त्व-वैशारदी

सर्वतोगतिराकाशः सर्वत्र शब्दोपलब्धिदर्शनात् । श्रोत्राश्रयाकाशगुणेन हि शब्देन पार्थिवादिशब्दोपलब्धिरित्युपपादितमधस्तात् । एतत्स्वरूपशब्देनोक्तम् । अस्यैव मूर्त्यादिसामान्यस्य शब्दादयः षड्जादय उष्णत्वादयः शुक्लत्वादयः कषायत्वादयः सुरभित्वादयो मूर्त्यादीनां सामान्यानां भेदाः । सामान्यान्यपि मूर्त्यादीनि जम्बीरपनसामलकफलादीनि रसादिभेदात्परस्परं व्यावर्तन्ते । तेनैतेषामेते रसादयो विशेषाः । तथा चोक्तम् - एकजातिसमन्वितानां प्रत्येकं पृथिव्यादीनामेकैकया जात्या मूर्तिस्नेहादिना समन्वितानामेषां षड्जादिधर्ममात्रव्यावृत्तिरिति । तदेवं सामान्यं मूर्त्याद्युक्तं विशेषाश्च शब्दादय उक्ताः । सामान्यविशेषसमुदायोऽत्र द्रव्यम्। द्विष्ठो हि समूहः प्रत्यस्तमितभेदावयवानुगतः शरीरं वृक्षो यूथं वनमिति। टीका तत्त्व-वैशारदी

ये चाऽऽहुः सामान्यविशेषाश्रयो द्रव्यमिति तान्प्रत्याह - सामान्यविशेषसमुदायोऽत्र दर्शने द्रव्यम् । येऽपि तदाश्रयो द्रव्यमास्थिषत तैरपि तत्समुदायोऽनुभूयमानो नापह्नोतव्यः । न च तदपह्नवे तयोराधारो द्रव्यमिति भवति । तस्मात्तदेवास्तु द्रव्यम् । न तु ताभ्यां तत्समुदायाच्च तदाधारमपरं द्रव्यमुपलभामहे । ग्रावभ्यो ग्रावसमुदायादिव च तदाधारमपरं पृथग्विधं शिखरम् । समूहो द्रव्यमित्युक्तं तत्र समूहमात्रं द्रव्यमितिभ्रमापनुत्तये समूहविशेषो द्रव्यमिति निर्धारयितुं समूहप्रकारानाह - द्विष्ठो हीति । यस्मादेवं तस्मान्न समूहमात्रं द्रव्यमित्यर्थः । द्वाभ्यां प्रकाराभ्यां तिष्ठतीति द्विष्ठः । एकं प्रकारमाह - प्रत्यस्तमितेति । प्रत्यस्तमितो भेदो येषामवयवानां ते तथोक्ताः । प्रत्यस्तमितभेदा अवयवा यस्य स तथोक्तः । एतदुक्तं भवति - शरीरवृक्षयूथवनशब्देभ्यः समूहः प्रतीयमानोऽप्रतीतावयवभेदस्तद्वाचकशब्दाप्रयोगात्समूह एकोऽवगम्यत इति । युतायुतसिद्धावयवत्वेन चेतनाचेतनत्वेन चोदाहरणचतुष्टयम् । युतायुतसिद्धावयवत्वं चाग्रे वक्ष्यते । शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्याः। समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस्ताभ्यामेवाभिधीयते समूहः। टीका तत्त्व-वैशारदी

द्वितीयं प्रकारमाह - शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्या इति । देवमनुष्या इति हि शब्देनोभयशब्दवाच्यस्य समूहस्य भागौ भिन्नावुपात्तौ । ननूभयशब्दात्तावदवयवभेदो न प्रतीयते तत्कथमुपात्तभेदावयवानुगत इत्यत आह - ताभ्यां भागाभ्यामेव समूहोऽभिधीयते । उभयशब्देन भागद्वयवाचिशब्दसहितेन समूहो वाच्यः वाक्यस्य वाक्यार्थवाचकत्वादिति भावः । स च भेदाभेदविवक्षितः। आम्राणां वनं ब्राह्मणानां सङ्घ आम्रवणं ब्राह्मणसङ्घ इति। टीका तत्त्व-वैशारदी

पुनर्द्वैविध्यमाह - स चेति । भेदेन चाभेदेन च विवक्षितः । भेदविवक्षितमाह - आम्राणां वनं ब्राह्मणानां सङ्घ इति । भेद एव षष्ठीश्रुतेः, यथा गर्गाणां गौरिति । अभेदविवक्षितमाह - आम्रवणं ब्राह्मणसङ्घ इति । आम्राश्च ते वनं चेति समूहसमूहिनोरभेदं विवक्षित्वा सामानाधिकरण्यमित्यर्थः । स पुनर्द्विविधो युतसिद्धावयवोऽयुतसिद्धावयवश्च। युतसिद्धावयवः समूहो वनं सङ्घ इति। अयुतसिद्धावयवः सङ्घातः शरीरं वृक्षः परमाणुरिति। अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः। एतत्स्वरूपमित्युक्तम्। टीका तत्त्व-वैशारदी

विधान्तरमाह - स पुनर्द्विविधः । युतसिद्धावयवः समूहः । युतसिद्धाः पृथक्सिद्धाः सान्तराला अवयवा यस्य स तथोक्तः, यूथं वनमिति । सान्तराला हि तदवयवा वृक्षाश्च गावश्च । अयुतसिद्धावयवश्च समूहो वृक्षो गौः परमाणुरिति । निरन्तरा हि तदवयवाः सामान्यविशेषा वा सास्नादयो वेति । तदेतेषु समूहेषु द्रव्यभूतं समूहं निर्धारयति - अयुतसिद्धेति । तदेवं प्रासङ्गिकं द्रव्यं व्युत्पाद्य प्रकृतमुपसंहरति – एतत्स्वरूपमित्युक्तमिति । अथ किमेषां सूक्ष्मरूपं, तन्मात्रं भूतकारणं, तस्यैकोऽवयवः परमाणुः सामान्यविशेषात्माऽयुतसिद्धावयवभेदानुगतः समुदाय इत्येवं सर्वतन्मात्राण्येतत्तृतीयम्। अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावानुपातिनोऽन्वय शब्देनोक्ताः। अथैषां पश्चमं रूपमर्थवत्त्वं, भोगापवर्गार्थता गुणेष्वेवान्वयिनी, गुणास्तन्मात्रभूतभौतिकेष्विति सर्वमर्थवत्। तेष्विदानीं भूतेषु पञ्चसु पञ्चरूपेषु संयमात्तस्य तस्य रूपस्य दर्शनं जयश्च प्रादुर्भवति। तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति। तज्जयाद्वत्सानुसारिण्य इव गावोऽस्य सङ्कल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥ ४४ ॥ टीका तत्त्व-वैशारदी

तृतीयं रूपं विवक्षुः पृच्छति - अथेति । उत्तरमाह - तन्मात्रमिति । तस्यैकोऽवयवः परिमाणभेदः परमाणुः, सामान्यं मूर्तिः, शब्दादयो विशेषास्तदात्मा अयुतसिद्धा निरन्तरा येऽवयवाः सामान्यविशेषास्तद्भेदेष्वनुगतः समुदायः । यथा च परमाणुः सूक्ष्मं रूपमेवं सर्वतन्मात्राणि सूक्ष्मं रूपमिति । उपसंहरति - एतदिति । अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावमनुपतितुमनुगन्तुं शीलं येषां ते तथोक्ताः । अत एवान्वयशब्देनोक्ताः । अथैषां पञ्चमं रूपमर्थवत्त्वं विवृणोति - भोगेति । नन्वेवमपि सन्तु गुणा अर्थवन्तस्तत्कार्याणां तु कुतोऽर्थवत्त्वमित्यत आह - गुणा इति । भौतिका गोघटादयः । तदेवं संयमविषयमुक्त्वा संयमं तत्फलं चाऽऽह - तेष्विति । भूतप्रकृतयो भूतस्वभावाः ॥ ४४ ॥ पातञ्जल-रहस्यम्

वशित्वं भूतभौतिकान् वशयतीत्युक्तं, तस्योपायान्तरमाह –स्थूलेति । पृथिव्यादि स्थूलस्वरूपम्मूर्त्यादि, सूक्ष्मं तन्मात्रं, कार्यस्वभावानुपातित्वमन्वयः , अथवत्त्वं भोगापवर्गकारिताऽर्थक्रिया चेति पञ्चकं, तत्र स्थूलत्वम् तद्गुणविशिष्टत्वेनोपलभ्यमानत्वमित्याह -तत्रेत्यादि-गोत्वादिरित्यन्तेन-टीकाकृत्, स्वरूपत्वं तत्तत्देहधारणादिकार्योन्नीतधर्मवत्त्वमित्याह - द्वितीयमित्यादि-एवत्स्वरूपमित्युक्तमित्यन्तेन, तत्र मूतित्वं परिच्छिन्नपारिमाणवत्त्वम् , उदर्ये –जाठरानले, अहं वैश्वानरो भूत्वा पचाम्यन्नञ्चतुर्विधं -इत्युक्तेः, अधस्तात् पूर्वमित्यर्थः, ये चाहुरिति । सामान्यं विशेषस्तयोराश्रायः, घटोद्रव्यमिति वा प्रतीतेरिति नैयायिकादयस्तानित्यर्थेः, ग्रावभ्यः = पाषाणेभ्यः , समूहो हि व्यासज्यवृत्तित्याह -द्विष्ठो हीति । प्रत्यस्तमितो निरस्तो भेदोऽनेन दर्शितः, वनमिति वृक्षा-इति भेदः, एवं मृदि घट इति भेदो मृद्घटः इत्यभेदः, एवं सर्वत्र, उभये देवमनुष्या इति उभयशब्देन समूहवाचिनाऽभेदः कथितः , देवमनुष्याः द्वौमागाविति भेद इत्येतदेवोपपादयति- ताभ्यामिति । उपपत्त्यन्तरमाह - वाक्यस्येति ।

‘संसर्गो वा विशिष्टो वा वाक्यार्थो विदुषां मत-

इत्युक्तेरुभयथा वाक्यार्थः , संसर्गस्य पदार्थद्वयघटितत्वादेतन्मते क्रियाकारकयोर्नित्यसम्बन्धः, नास्ति क्रियामात्रे शक्तिर्नास्ति कारकमात्रे चेत्युक्तम्, उदाहरणान्तरमाह - प चेत्यादि, युतसिद्धावृक्षास्तेऽवयवा यस्य वनरूपस्य, अत एव सान्तरालगृहीतभेदो, निरन्तरालो गौर्वृक्ष- इत्यादि, तृतीयम् सूक्ष्मं तन्मात्रं, चतुर्थं प्रकाशप्रवृत्तिनियमार्था गुणा इत्याह - ख्यातिरिति । सात्विकानामूर्ध्वगतिः, राजसानामस्थिरता तामसानां मादकता, अथ वा- ऊर्द्धवं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसा अधो गच्छन्ति तामसा, इत्यादि, पञ्चमं भोगापवर्गौ ॥ ४४ ॥ ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ ४५ ॥ तत्राणिमा भवत्यणुः। लघिमा लघुर्भवति। महिमा महाभवति। प्राप्तिरङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम्। प्राकाम्यमिच्छानभिघातः। भूमावुन्मज्जति निमज्जति यथोदके। वशित्वं भूतभौतिकेषु वशी भवत्यवश्यश्चान्येषाम्। ईशितृत्वं तेषां प्रभवाप्ययव्यूहानामीष्टे। यत्र कामावसायित्वं सत्यसङ्कल्पता यथा सङ्कल्पस्तथा भूतप्रकृतीनामवस्थानम्। न च शक्तोऽपि पदार्थविपर्यासं करोति। कस्मात्। अन्यस्य यत्र कामावसायिनः पूर्वसिद्धस्य तथा भूतेषु सङ्कल्पादिति। एतान्यष्टावैश्वर्याणि। टीका तत्त्व-वैशारदी

सङ्कल्पानुविधाने भूतानां किं योगिनः सिध्यतीत्यत आह - ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च । स्थूलसंयमजयाच्चतस्रः सिद्धयो भवन्तीत्याह - तत्राणिमा महानपि भवत्यणुः । लघिमा महानपि लघुर्भूत्वेषीकातूल इवाऽऽकाशे विहरति । महिमाऽल्पोऽपि नागनगगगनपरिमाणो भवति । प्राप्तिः सर्वे भावाः सन्निहिता भवन्ति योगिनः । तद्यथा भूमिष्ठ एवाङ्गुल्यग्रेण स्पृशति चन्द्रमसम् । स्वरूपसंयमविजयात्सिद्धिमाह - प्राकाम्यमिच्छानभिघातो नास्य रूपं भूतस्वरूपैर्मूर्त्यादिभिर्हन्यते । भूमावुन्मज्जति निमज्जति च यथोदके । सक्ष्मविषयसंयमजयात्सिद्धिमाह - वशित्वं भूतानि पृथिव्यादीनि भौतिकानि गोघटादीनि तेषु वशी स्वतन्त्रो भवति, तेषां त्ववश्यस्तत्कारणतन्मात्रपृथिव्यादिपरमाणुवशीकारात्तत्कार्यवशीकारस्तेन यानि यथाऽऽवस्थापयति तानि तथाऽवतिष्ठन्त इत्यर्थः । अन्वयविषयसंयमजयात्सिद्धिमाह - ईशितृत्वं तेषां भूतभौतिकानां विजितमूलप्रकृतिः सन्यः प्रभव उत्पादो यश्चाप्ययो विनाशो यश्च व्यूहो यथावदवस्थापनं तेषाभीष्टे । अर्थवत्त्वसंयमात्सिद्धिमाह - यत्र कामावसायित्वं सत्यसङ्कल्पता । विजितगुणार्थवत्त्वो हि योगो यद्यदर्थतया सङ्कल्पयति तत्तस्मै प्रयोजनाय कल्पते । विषमप्यमृतकार्ये सङ्कल्प्य भोजयञ्जीवयतीति । स्यादेतद्यथा शक्तिविपर्यासं करोत्येवं पदार्थविपर्यासमपि कस्मान्न करोति । तथाच चन्द्रमसमादित्यं कुर्यात्कुहूं च सिनीवालीमित्यत आह – न च शक्तोऽपीति । न खल्वेते यत्र कामावसायिनस्तत्रभवतः परमेश्वरस्याऽऽज्ञामतिक्रमितुमुत्सहन्ते । शक्तयस्तु पदार्थानां जातिदेशकालावस्थाभेदेनानियतस्वभावा इति युज्यते तासु तदिच्छानविधानमिति । एतान्यष्टावैश्वर्याणि । कायसम्पद्वक्ष्यमाणा। तद्धर्मानभिघातश्च पृथिवी मूर्त्या न निरुणद्धि योगिनः शरीरादिक्रियां, शिलामप्यनुविशतीति। नाऽऽपः स्निग्धाः क्लेदयन्ति। नाग्निरूष्णो दहति। न वायुः प्रणामी वहति। अनावरणात्मकेऽप्याकाशे भवत्यावृतकायः सिद्धानामप्यदृश्यो भवति ॥ ४५ ॥ टीका तत्त्व-वैशारदी

तद्धर्मानभिघात इति । अणिमादिप्रादुर्भाव इत्यनेनैव तद्धर्मानभिघातसिद्धौ पुनरुपादानं कायसिद्धिवदेतत्सूत्रोपबद्धसकलविषयसंयमफलवत्त्वज्ञापनाय । सुगममन्यत् ॥ ४५ ॥ पातञ्जल-रहस्यम्

उत्तरसूत्रावतारिकामाह-तेष्विति, स्थूलस्वरूपसूक्ष्मान्वयार्थवत्वरूपपञ्चरूपेषु एकैकस्य साक्षात्कारो जयस्तस्माद् भावा वशे भवन्ति, ततः किं तत्राह –ततोऽणिमेत्यादि । तत्र व्यवस्थितिमाह टीकाकृत् स्थूलेषु संयमाच्चतस्रः-अणिमा लघिमा महिमा प्राप्तिरित्यादि –चन्द्रमसमित्यन्तेन, एतच्चतुष्टयं स्थूलभूतकार्यदेहधर्म इति भावः, स्वरूपसंयमविजयादिच्छाऽनभिघातात्मा सिद्धिस्तामाह-यथोदक इत्यन्तेन, स्वरूपज्ञानस्य फलं वशीकारः, सूक्ष्मसंयमजयाद्वशित्वमाह-सूक्ष्मेत्याद्यवतिष्ठन्त इत्यन्तेन, यथा राजनि वशीजाते तदमात्या वश्याः स्युरित्याह-तत् कारणेति । अन्वयसंयमजन्यफलमाह- ईशित्वमिति । स्थूलस्वरूपसूक्ष्मेष्वनुगच्छन्तीत्यन्वयास्रयो गुणास्तेषु संयमाद् गुणकार्याणां स्थूलादीनामाशित्वमं सुतरामित्याह –विजितमूलप्रकृतिरीति । अर्थवत्त्वसंयमजयात् सिद्धिमाह –यत्रेति-गुणानामर्थवत्त्वं भोगापवर्गौ, ननु विश्वामित्रवत् सृष्ट्यन्तरं कुर्वन् योगी जलस्पाग्नित्वमग्नेर्वा जलत्वं सम्पादयेत्तत्राह –न च शक्तोऽपीति । आत्मना आकाशः सम्भूत आकाशाद्वायुः वायोरग्निरिति श्रुतिसिद्धार्थविपर्यासे न कोऽपि शक्त ईश्वरानन्त्यप्रससङ्गादिति भावः, विश्वामित्रोऽपि न भूतसृष्टौ शक्तः किन्तु भौतिकसृष्टाविति माभूज्जलेषु दाहः वह्नौ क्लेदनमिति भावः, शरीरादिक्रियां मूर्त्या न विरुणद्धीति कृत्वा शिलां पाषाणमनुप्रविशतीत्यन्वयः ॥ ४५ ॥ रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ ४६ ॥ दर्शनीयः कान्तिमानतिशयबलो वज्रसंहननश्चेति ॥ ४६ ॥ टीका तत्त्व-वैशारदी

कायसम्पदमाह - रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् । वज्रस्येव संहननमवयवव्यूहो दृढो निबिडो यस्य स तथोक्तः ॥ ४६ ॥ पातञ्जल-रहस्यम्

सूत्रं रूपेति । तामाह –चत्वार्येव कायसम्पदित्यर्थः तानि क्रमेण व्याकरोति दर्शयति अनेकेषु सत्सु यो रूपवान् स रमणीयो यथा राजकुमारशरीरम् ॥ ४६ ॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ४७ ॥ सामान्यविशेषात्मा शब्दादिर्ग्राह्यः। तेष्विन्द्रियाणां वृत्तिर्ग्रहणम्। न च तत्सामान्यमात्रग्रहणाकारं कथमनालोचितः स विषयविशेष इन्द्रियेण मनसाऽनुव्यवसीयेतेति। स्वरूपं पुनः प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्यविशेषयोरयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिन्द्रियम्। तेषां तृतीयं रूपमस्मितालक्षणोऽहङ्कारः। तस्य सामान्यस्येन्द्रियाणि विशेषाः। चतुर्थं रूपं व्ययवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणा येषामिन्द्रियाणि साहङ्काराणि परिणामः। पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थवत्त्वमिति। पञ्चस्वेतेष्विन्द्रियरूपेषु यथाक्रमं संयमस्तत्र तत्र जयं कृत्वा पञ्चरूपजयादिन्द्रियजयः प्रादुर्भवति योगिनः ॥ ४७ ॥ टीका तत्त्व-वैशारदी

जितभूतस्य योगिन इन्द्रियजयोपायमाह - ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः । ग्रहणं च स्वरूपं चास्मिता चान्वयश्चार्थवत्त्वं च तेषु संयमस्तस्मादित्यर्थः । गृहीतिर्ग्रहणं, तच्च ग्राह्याधीननिरूपणमिति ग्राह्यं दर्शयति - सामान्यविशेषात्मेति । ग्राह्यमुक्त्वा ग्रहणमाह - तेष्विति । वृत्तिरालोचनं विषयाकारा परिणतिरिति यावत् । ये त्वाहुः - सामान्यमात्रगोचरेन्द्रियवृत्तिरिति तान्प्रत्याह - न चेति । गृह्यत इति ग्रहणम् । न सामान्यमात्रगोचरं ग्रहणम् । बाह्येन्द्रियतन्त्रं हि मनो बाह्ये प्रवर्तते । अन्यथाऽन्वबधिराद्यभावप्रसङ्गात् । तदिह यदि न विशेषविषयमिन्द्रियं तेनासावनालोचितो विशेष इति कथं मनसाऽनुव्यवसीयेत । तस्मात्सामान्यविशेषविषयमिन्द्रियालोचनमिति । तदेतद्ग्रहणमिन्द्रियाणां प्रथमं रूपम् । द्वितीयं रूपमाह - स्वरूपं पुनरिति । अहङ्कारो हि सत्त्वभागेनाऽऽत्मीयेनेन्द्रियाण्यजीजनत् । अतो यत्तत्र करणत्वं सामान्यं यच्च नियतरूपादिविषयत्वं विशेषस्तदुभयमपि प्रकाशात्मकमित्यर्थः । तेषां तृतीयं रूपमिति । अहङ्कारो हीन्द्रियाणां कारणमिति यत्रेन्द्रियाणि तत्र तेन भवितव्यमिति सर्वेन्द्रियसाधारण्यात्सामान्यमिन्द्रियाणामित्यर्थः । चतुर्थं रूपमिति । गुणानां हि द्वैरूप्यं व्यवसेयात्मकत्वं व्यवसायात्मकत्वं च । तत्र व्यवसेयात्मकतां ग्राह्यतामास्थाय पञ्च तन्मात्राणि भूतभौतिकानि निर्मिमीते । व्यवसायात्मकत्वं तु ग्रहणरूपमास्थाय साहङ्काराणीन्द्रियाणीत्यर्थः । शेषं सुगमम् ॥ ४७ ॥ पातञ्जल-रहस्यम्

सिद्ध्यन्तरमाह-ग्रहणेति सूत्रं, तेषु पञ्चसु संयमादिन्द्रियजय इत्यर्थः, संयुक्तसमवायेन संयुक्तादात्म्येन वा जातिर्गुणेन वेन्द्रियेण गृह्यते द्रव्यं साक्षात्, सूत्रे ग्रहणं नामेन्द्रियालोचानं न च विशेषद्रव्याग्रहे सा ग्रहीतुं शक्यत इत्याह – सामान्येत्यादि – अध्यवसीयत इत्यन्तेन, तत्र न चेत्याद्युपपत्तिं बुद्धिस्थमर्थं पुरुषश्चेतयतीत्युक्तिमाश्रित्याह—स्वरूपमिति । युतसिद्धावयवो वनसेनाऽऽदिसमूहस्तद्व्यावृत्त्यर्थमाह-अयुतेति-अवयवेष्वेव कपालादिषु वर्तमानोघटोऽवयवान् व्युदस्य गृह्यत इन्द्रियमपि द्रव्यग्रहणहेतुरस्मिताऽहङ्कारः स च सात्त्विकराजसतामस इति त्रितयात्मकं तत्र सत्त्वं लघुप्रकाशकमित्युक्तेः सात्त्विकाहङ्कारादिन्द्रियाणि श्रोत्रादीनि दश, तामसाहन्कारात्तन्मात्राणि पञ्च तेभ्यो महाभूतानि पञ्च, पञ्चाभ्यः पञ्च भूतानि इति साङ्ख्योक्तेः , रजस उपष्टम्भकत्वमात्रं, उक्तेषु त्रिषु पटेषु तन्तव इवानुगच्छन्तीत्यन्वया गुणा इत्युक्तं सत्त्वरजस्तमांसि प्रकाशप्रवृत्तिस्थितिशीलानि पुरुषार्थं एव हेतुर्न केन चित् कार्यते कारणमिति इन्द्रियजय इति । योगवृत्तिमाश्रित्याह-इन्द्रियरूपेष्विति । गुणानां द्वैरूप्यमिति । व्यवसेयात्मकत्वं = ग्राह्यत्वमित्यर्थः ॥ ४७ ॥ ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ४८ ॥ कायस्यानुत्तमो गतिलाभो मनोजवित्वम्। विदेहानामिन्द्रियाणामभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः। सर्वप्रकृतिविकारवशित्वं प्रधानजय इत्येतास्तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते। एताश्च करणपञ्चरूपजयादधिगम्यन्ते ॥ ४८ ॥ टीका तत्त्व-वैशारदी

पञ्चरूपेन्द्रियजयात्सिद्धीराह - ततो मनोजवित्वं विकरणभावः प्रधानजयश्च । विदेहानामिन्द्रियाणां करणभावो विकरणभावः । देशः काश्मीरादिः । कालोऽतीतादिः । विषयः सूक्ष्मादिः । सान्वयेन्द्रियजयात्सर्वप्रकृतिविकारवशित्वं प्रधानजयः । ता एताः सिद्धयो मधुप्रतीका इत्युच्यन्ते योगशास्त्रनिष्णातैः । स्यादेतदिन्द्रियजयादिन्द्रियाणि सविषयाणि वश्यानि भवन्तु, प्रधानादीनां तत्कारणानां किमायातमित्यत आह - एताश्चेति । करणानामिन्द्रियाणां पञ्च रूपाणि ग्रहणादीनि तेषां जयात् । एतदुक्तं भवति - नेन्द्रियमात्रजयस्यैताः सिद्धयोऽपि तु पञ्चरूपस्य तदन्तर्गतं च प्रधानादीति ॥ ४८ ॥ पातञ्जल-रहस्यम्

ततः किं तत्राह-ततः पञ्चरूपपरिभाषितकरणजयादिभिः सिद्धयः स्युरिति सूत्रार्थः, यावन्मनः क्षिप्यते तावद् गच्छतीति । श्रुतिमाश्रित्याह- कायस्येति । विकरणभावोऽचिराय स्थूलदेहकरणभावः देशान्तरादावापि विशयग्राहकत्वमित्याह –अभिप्रेतेति, यद्यप्यस्मदादिचक्षुरादीनां देशान्तरस्थसूर्यादिग्राहकत्वं शरिरसंयुक्तार्ना योगिनां तेषां शरीरवियुक्तानामपीति विशेषः, सुलभा ब्रह्मवादिनी स्वशरीरम् विहाय जनकं प्रविश्य विवादं कृतवतीतिहासः, ग्रहणादीनि पूर्वसूत्रोक्तानि पञ्च तदन्तर्गतम् अन्वयगुणानां साम्यावस्था प्रधानमिति भावः ॥ ४८ ॥ सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ४९ ॥ निर्धूतरजस्तमोमलस्य बुद्धिसत्त्वस्य परे वैशारद्ये परस्यां वशीकारसञ्ज्ञायां वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम्। सर्वात्मानो गुणा व्यवसायव्यवसेयात्मकाः स्वामिनं क्षेत्रज्ञं प्रत्यशेषदृश्यात्मत्वेनोपस्थिता इत्यर्थः। सर्वज्ञातृत्वं सर्वात्मनां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानामक्रमोपारूढं विवेकजं ज्ञानमित्यर्थः। इत्येषा विशोका नाम सिद्धिर्यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरति ॥ ४९ ॥ टीका तत्त्व-वैशारदी

त एते ज्ञानक्रियारूपैश्वर्यहेतवः संयमाः साक्षात्पारम्पर्येण च स्वसिद्ध्युपसंहारसम्पादितश्रद्धाद्वारेण यदर्थास्तस्याः सत्त्वपुरुषान्यताख्यतेरवान्तरविभूतीर्दर्शयति - सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च । निर्धूतरजस्तमोमलतया वैशारद्यं ततः परा वशीकारसञ्ज्ञा रजस्तमोभ्यामुपप्लुवं हि चित्तसत्त्वमवश्यमासीत्तदुपशमे तु तद्वश्यं योगिनो वशिनस्तस्मिन्वश्ये योगिनः सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम् । एतदेव विवृणोति - सर्वात्मान इति । व्यवसायव्यवसेयात्मानो जडप्रकाशरूपा इत्यर्थः । तदनेन क्रियैश्वयर्मुक्तम् । ज्ञानैश्वर्यमाह - सर्वज्ञातृत्वमिति । अस्या अपि द्विविधायाः सिद्धेर्वैराग्याय योगिजनप्रसिद्धां सञ्ज्ञामाह - एषा विशोकेति । क्लेशाश्च बन्धनानि च कर्माणि तानि क्षीणानि यस्य स तथा ॥ ४९ ॥ पातञ्जल-रहस्यम्

सत्त्वेति सूत्रस्यावतारिकमाह –त एतदिति । स्वसिध्युपसंहारः नासिकायां गन्धसंविदितेन सम्पादिता या यागशास्रे श्रद्धा यदर्थं सत्त्वपुरुषान्यत्वख्यात्यर्थात् संयमात्तस्या एव परमपुरुषार्थसाधनत्वादित्यार्थः, सत्त्वेति सूत्रं, वर्तमानस्य पुंसः व्यवसाया करणानि व्यवसेया विषयाबुद्धेः संवेदी दर्शितविषयत्वादितयादि स्मारयन्निराह –शेषेति । सर्वभावाधिष्ठातृत्वं मदर्था एत इत्यभिमान इत्यात्मिकां मधुप्रतीकामुक्त्वा विशोकमाह –इत्येवेति । फलमाह-यामिति । वशी जीवन्मुक्तः ॥ ४९ ॥ तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ५० ॥ यदाऽस्यैवं भवा क्लेशकर्मक्षये सत्त्वस्यायं विवेकप्रत्ययो धर्मः सत्त्वं च हेयपक्षे न्यस्तं पुरुषश्चापरिणामी शुद्धोऽन्यः सत्त्वादिति। एवमस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पान्यप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति। तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं न भुङ्क्ते। तदेतेषां गुणानां मनसि कर्मक्लेशविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्याऽऽत्यन्तिको गुणवियोगः कैवल्यं, तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुष इति ॥ ५० ॥ टीका तत्त्व-वैशारदी

संयमान्तराणां पुरुषार्थाभासफलत्वाद्विवेकख्यातिसंयमार्थतां दर्शयितुं विवेकख्यातेः परवैराग्योपजननद्वारेण कैवल्यं फलमाह - तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् । यदाऽस्य योगिनः क्लेशकर्मक्षय एवं ज्ञानं भवति । किम्भूतमित्याह - सत्त्वस्यायं विवेकप्रत्ययो धर्मः । शेषं तत्र तत्र व्याख्यातत्वात्सुगमम् ॥ ५० ॥ पातञ्जल-रहस्यम्

ततः कैवल्यमित्याह – यद्वैराग्यादपीति । विवेकख्यातिरपि सत्त्वपरिणामत्वात् सत्त्व तुल्येत्याह – सत्त्वस्यायमिति । प्रतिप्रसवे विलयइत्याह – लये सतीति शेषः, द्रष्टुः स्वरूपेनावथानमित्युक्तं स्मारयन्नाह – तदिति ॥ ५० ॥ स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ५१ ॥ चत्वारः खल्वमी योगिनः प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति। तत्राभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः। ऋतम्भरप्रज्ञो द्वितीयः। भूतेन्द्रियजयी तृतीयः सर्वेषु भावितेषु भावनीयेषु कृतरक्षाबन्धः कर्तव्यसाधनादिमान्। चतुर्थो यस्त्वतिक्रान्तभावनीयस्तस्य चित्तप्रतिसर्ग एकोऽर्थः। सप्तविधाऽस्य प्रान्तभूमिप्रज्ञा। टीका तत्त्व-वैशारदी

सम्प्रति कैवल्यसाधने प्रवृत्तस्य योगिनः प्रत्यूहसम्भवे तन्निराकरणकारणमुपदिशति - स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् । स्थानानि येषां सन्ति ते स्थानिनो महेन्द्रादयस्तैरुपनिमन्त्रणं तस्मिन्सङ्गश्च स्मयश्च न कर्तव्यः पुनरनिष्टप्रसङ्गात् । तत्र यं देवाः स्थानैरुपमन्त्रयन्ते तं योगिनमेकं निर्धारयितुं यावन्तो योगिनः सम्भवन्ति तावत एवाऽऽह - चत्वार इति । तत्र प्राथमकल्पिकस्य स्वरूपमाह - तत्राभ्यासीति । प्रवृत्तमात्रं न पुनर्वशीकृतं ज्योतिर्ज्ञानं परचित्तादिविषयं यस्य स तथा । द्वितयिमाह - ऋतम्भरप्रज्ञ इति । यत्रेदमुक्तम् – “ऋतम्भरा तत्र प्रज्ञा” इति । स हि भूतेन्द्रियाणि जिगीषुः । तृतीयमाह - भूतेन्द्रियजयीति । तेन हि स्थूलादिसंयमेन ग्रहणादिसंयमेन च भूतेन्द्रियाणि जितानि । तमेवाऽऽह - सर्वेषु भावितेषु निष्पादितेषु भूतेन्द्रियजयात्परचित्तादिज्ञानादिषु कृतरक्षाबन्धो यतस्तेभ्यो न च्यवते भावनीयेषु निष्पादनीयेषु विशोकादिषु परवैराग्यपर्यन्तेषु कर्तव्यसाधनवान्पुरुषप्रयत्नस्य साधनविषयस्यैव साध्यनिष्पादकत्वात् । चतुर्थमाह - चतुर्थ इति । तस्य हि भगवतो जीवन्मुक्तस्य चरमदेहस्य चित्तप्रतिसर्ग एकोऽर्थः । तत्र मधुमतीं भूमिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्त्वविशुद्धिमनुपश्यन्तः स्थानैरुपनिमन्त्रयन्ते भो इहाऽऽस्यतामिह रम्यतां कमनीयोऽयं भोगः कमनीयेयं कन्या रसायनमिदं जरामृत्युं बाधते वैहायसविदं यानममी कल्पद्रुमाः पुण्या मन्दाकिनी सिद्धा महर्षय उत्तमा अनुकूला अप्सरसो दिव्ये श्रोत्रचक्षुषी वज्रोपमः कायः स्वगुणैः सर्वमिदमुपार्जितमायुष्मता प्रतिपद्यतामिदमक्षयमजरममरस्थानं देवानां प्रियमिति। एवमभिधीयमानः सङ्गदोषान्भावयेद्घोरेषु संसाराङ्गारेषु पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथञ्चिदासादितः क्लेशतिमिरविनाशी योगप्रदीपस्तस्य चैते तृष्णायोनयो विषववायवः प्रतिपक्षाः। स खल्वहं लब्धालोकः कथमनया विषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसाराग्नेरात्मानमिन्धनी कुर्यामिति। स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्येवं निश्चितमतिः समाधिं भावयेत्। टीका तत्त्व-वैशारदी

तदेतेषु योगिषूपनिमन्त्रणविषयं योगिनमवधारयति - तत्र मधुमतीमिति । प्राथमकल्पिके तावन्महेन्द्रादीनां तत्प्राप्तिशङ्कैव नास्ति । तृतीयोऽपि तैर्नोपनिमन्त्रणीयो भूतेन्द्रियवशित्वेनैव तत्प्राप्तेः । चतुर्थेऽपि परवैराग्यसम्पत्तेरासङ्गशङ्का दूरोत्सारितैवेति पारिशेष्याद्द्वितीय एव ऋतम्भरप्रज्ञस्तदुपनिमन्त्रणविषय इति । वैहायसमाकाशगामि, अक्षयमविनाशि, अजरं सदाऽभिनवम् । सङ्गमकृत्वा स्मयमपि न कुर्यादेवमहं देवानामपि प्रार्थनीय इति। स्मयादयं सुस्थितम्मन्यतया मृत्युना केशेषु गृहीतमिवाऽऽत्मानं न भावयिष्यति। तथा चास्य च्छिद्रान्तरप्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशानुत्तम्भयिष्यति ततः पुनरनिष्टप्रसङ्गः। एवमस्य सङ्गस्मयावकुर्वतो भावितोऽर्थो दृढी भविष्यति। भावनीयश्चार्थोऽभिमुखी भविष्यतीति ॥ ५१ ॥ टीका तत्त्व-वैशारदी

स्मयकरणे दोषमाह - स्मयादयमिति । स्मयात्सुस्थितम्मन्यो नानित्यतां भावयिष्यति, न तस्यां प्रणिधास्यतीत्यर्थः । सुगममन्यत् ॥ ५१ ॥ पातञ्जल-रहस्यम्

न विस्मयेत तपसेति मूनुक्तेः गर्वासक्ती अनर्थायेति सूत्रारूढं कुर्वन्नाह – स्थानीति । स्थानममरावत्यादि तद्येषामिन्द्रादीनामस्ति ते स्थानिनो देवाः तैरपि क्षणं स्वान्तस्थानादिसमर्पणमात्रमस्येति तस्मिन् कृते सङ्गः भोक्ष्य एतदित्यासक्तिर्न कार्या त एतेमामृतम्भरप्रज्ञयोगिनं स्थानादि समर्पयन्ति, विस्मयो गर्वः सोऽपि न कर्तव्यः कुतोऽनिष्टप्रसङ्गाद् भुञ्जानस्य भोगलम्पटतानिष्ठस्य ततश्च साधनाभ्यासेऽलम्प्रत्ययः कदा चित्स्यादिति सूत्रार्थः, अतिक्रान्तभावनीयत्वाद्विगतभावनीयत्वाच्चित्त प्रतिसर्गः चित्तलय एवैको मुख्योऽर्थो प्रयोजनीयतयेति शेषः, चातुर्षु सिद्धेषु देवनिमन्त्रणीयो द्वितीय इति वक्तुं विशिनष्टि - प्रथमकल्पिके तावदिति । तस्यासिद्धत्वेन देवसाक्षात्कारानर्हत्वात्, तत्प्राप्तेः स्थानादिप्रासेरित्यर्थः, विरक्तस्य च बुधस्य र्च्छदितान्नतुल्यविषयेऽप्रवृत्तेरिति भावः ॥ ५१ ॥ क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२ ॥ यथाऽपकर्षपर्यन्तं द्रव्यं परमाणुरेवं परमापकर्षपर्यन्तः कालः क्षणो यावता वा समयेन चलितः परमाणुः पूर्वदेशं जह्यादुत्तरदेशमुपसम्पद्येत स कालः क्षणः। तत्प्रवाहाविच्छेदस्तु क्रमः। क्षणतत्क्रमयोर्नास्ति वस्तुसमाहार इति बुद्धिसमाहारो मुहूर्ताहोरात्रादयः। स खल्वयं कालो वस्तुशून्योऽपि बुद्धिनिर्माणः शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवावभासते। टीका तत्त्व-वैशारदी

उक्ता क्वचित्क्वचित्संयमात्सर्वज्ञता, सा च न निःशेषज्ञता अपि तु प्रकारमात्रविवक्षया, यथा सर्वैर्व्यञ्जनैर्भुक्तमिति । अत्र हि यावन्तो व्यञ्जनप्रकारास्तैर्भुक्तमिति गम्यते न तु निःशेषैरिति । अस्ति च निःशेषवचनः सर्वशब्दो यथोपनीतमन्नं सर्वमशितं प्राशकेनेति । तत्र हि निःशेषमिति गम्यते । तदिह निःशेषज्ञतालक्षणस्य विवेकजज्ञानस्य साधनं संयममाह - क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् । क्षणपदार्थं निदर्शनपूर्वकमाह - यथेति । लोष्टस्य हि प्रविभज्यमानस्य यस्मिन्नवयवेऽल्पत्वतारतम्यं व्यवतिष्ठते सोऽपकर्षपर्यन्तः परमाणुर्यथा तथाऽपकर्षपर्यन्तः कालः क्षणः, पूर्वापरभागविकलकालकलेति यावत् । तमेव क्षणं प्रकारान्तरेण दर्शयति - यावता वेति । परमाणुमात्रं देशमतिक्रामेदित्यर्थः । क्रमपदार्थमाह - तत्प्रवाहेति । तत्पदेन क्षणः परामृश्यते । न चेदृशः क्रमो वास्तवः किन्तु काल्पनिकस्तस्य समाहाररूपस्यायुगपदुपस्थितेषु वास्तवत्वेन विचारासहत्वादित्याह - क्षणतत्क्रमयोरिति । अयुगपद्भाविक्षणधर्मत्वात्क्रमस्य क्षणसमाहारस्यावास्तवत्वात्क्षणतत्क्रमयोरप्यवास्तवत्वं समाहारस्य नैसर्गिकवैतण्डिकबुद्ध्यतिशयरहिता लौकिकाः प्रतिक्षण एव व्युत्थितदर्शना भ्रान्ता ये कालमीदृशं वास्तवमभिमन्यन्त इति । क्षणस्तु वस्तुपतितः क्रमावलम्बी। क्रमश्च क्षणानन्तर्यात्मा तं कालविदः काल इत्याचक्षते योगिनः। नच द्वौ क्षणौ सह भवतः। क्रमश्च न द्वयोः सहभुवोरसम्भवात्। पूर्वस्मादुत्तरभाविनो यदानन्तर्यं क्षणस्य स क्रमः। तस्माद्वर्तमान एवैकः क्षणो न पूर्वोत्तरक्षणाः सन्तीति। तस्मान्नास्ति तत्समाहारः। ये तु भूतभाविनः क्षणास्ते परिणामान्विता व्याख्येयाः। तेनैकेन क्षणेन कृत्स्नो लोकः परिणाममनुभवति। तत्क्षणोपारूढाः खल्वमी सर्वे धर्माः। तयोः क्षणतत्क्रमयोः संयमात्तयोः साक्षात्करणम्। ततश्च विवेकजं ज्ञानं प्रादुर्भवति ॥ ५२ ॥ टीका तत्त्व-वैशारदी

तत्किं क्षणोऽप्यवास्तवो नेत्याह - क्षणस्तु वस्तुपतितो वास्तव इत्यर्थः । क्रमस्यावलम्बनमवलम्बः सोऽस्यास्तीति क्रमेणावलम्ब्यते वैकल्पिकेनेत्यर्थः । क्रमस्य क्षणावलम्बनत्वे हेतुमाह - क्रमश्चेति । क्रमस्यावास्तवत्वे हेतुमाह – न चेति । चो हेत्वर्थे । यस्तु वैजात्यात्सहभावमुपेयात्तं प्रत्याह - क्रमश्च न द्वयोरिति । कस्मादसम्भव इत्यत आह - पूर्वस्मादिति । उपसंहरति - तस्मादिति । तत्किमिदानीं शशविषाणायमाना एव पूर्वोत्तरक्षणा नेत्याह – ये त्विति । अन्विताः साम्येन समन्वागता इत्यर्थः । उपसंहरति - तेनेति । वर्तमानस्यैवार्थक्रियासु स्वोचितासु सामर्थ्यादिति ॥ ५२ ॥ पातञ्जल-रहस्यम्

स कालः परमानुको यो भुङ्क्ते परमाणुतामिति भागवतोक्तिमाश्रित्याह – सिद्ध्यन्तरमह - क्षणेतिसूत्रम् । तयोरप्रवाहिणोर्युगयदसम्बन्धिनोर्मध्यपातां क्रमस्तयोः क्षनरूपपदार्तयोर्धर्म अत एवाह प्रवाहाविच्छेदभूतपूर्वप्रतियोगिकोत्तरानुयोगिकः कालद्वयधर्मः क्रमो न वास्तवः; नित्यं सापेक्षत्वादित्यर्थः, नास्ति समाहारः सह भावितेत्यर्थः, क्षणमपरिणम्य न तिष्ठति भाव इत्याह – एकेनेति । प्रतिक्षणं परिणमन्ते भावा अत एव पुराणपुराणतरत्वादीति ॥ ५२ ॥ तस्य विषयविशेष उपक्षिप्यते – जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३ ॥ तुल्ययोर्देशलक्षणसारूप्ये जातिभेदोऽन्यताया हेतुः, गौरियं वडवेयमिति। तुल्यदेशजातीयत्वे लक्षणमन्यत्वकरं कालाक्षी गौः स्वस्तिमती गौरिति। द्वयोरामलकयोर्जातिलक्षणसारूप्याद्देशभेदोऽन्यत्वकर इदं पूर्वमिदमुत्तरमिति। यदा तु पूर्वमामलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेश उपावर्त्यते तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदितिप्रविभागानुपपत्तिः। असन्दिग्धेन च तत्त्वज्ञानेन भवितव्यमित्यत इदमुक्तं ततः प्रतिपत्तिर्विवेकजज्ञानादिति। टीका तत्त्व-वैशारदी

यद्यप्येतद्विवेकजं ज्ञानं निःशेषभावविषयमित्यग्रे वक्ष्यते तथाऽप्यतिसूक्ष्मत्वात्प्रथमं तस्य विषयविशेष उपक्षिप्यते – जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः । लौकिकानां जातिभेदाऽन्यताया ज्ञापकहेतुः । तुल्या जातिर्गोत्वं तुल्यश्च देशः पूर्वादिः । कालाक्षीस्वस्तिमत्योर्लक्षणभेदः परमिति । द्वयोरामलकयोस्तुल्याऽऽमलकत्वजातिर्वर्तुलादि लक्षणं तुल्यं देशभेदः परमिति । यदा तु योगिज्ञानं जिज्ञासुना केनचित्पूर्वामलकमन्यव्यग्रस्य योगिनो ज्ञातुरुत्तरदेश उपावर्त्यत उत्तरदेशमामलकं ततोऽपसार्य पिधाय वा तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदितिप्रविभागानुपपत्तिः प्राज्ञस्य लौकिकस्य त्रिप्रमाणीनिपुणस्यासन्दिग्धेन च तत्त्वज्ञानेन भवितव्यं विवेकजज्ञानवतो योगिनः सन्दिग्धत्वानुपपत्तेः । अत उक्तं सूत्रकृता - ततः प्रतिपत्तिः । तत इति व्याचष्टे - विवेकजज्ञानादिति । कथं, पूर्वामलकसहक्षणो देश उत्तरामलकसहक्षणाद्देशाद्भिन्नः। ते चाऽऽमलके स्वदेशक्षणानुभवभिन्ने। अन्यदेशक्षणानुभवस्तु तयोरन्यत्वे हेतुरिति। एतेन दृष्टान्तेन परमाणोस्तुल्यजातिलक्षणदेशस्य पूर्वपरमाणुदेशसहक्षणसाक्षात्करणादुत्तरस्य परमाणोस्तद्देशा-नुपपत्तावुत्तरस्य तद्देशानुभवो भिन्नः सहक्षणभेदात्तयोरीश्वरस्य योगिनोऽन्यत्वप्रत्ययो भवतीति। टीका तत्त्व-वैशारदी

क्षणतत्क्रमसंयमाज्जातं ज्ञानं कथमामलकं तुल्यजातिलक्षणदेशादामलकान्तराद्विवेचयतीति पृच्छति - कथमिति । उत्तरमाह - पूर्वामलकसहक्षणो देशः पूर्वामलकेनैकक्षणो देशस्तेन सह निरन्तरपरिणाम इति यावत् । उत्तरामलकसहक्षणाद्देशादुत्तरामलकनिरन्तरपरिणामाद्भिन्नो भवतु देशयोर्भेदः किमायातमामलकभेदस्येत्यत आह - ते चाऽऽमलके स्वदेशक्षणानुभवभिन्ने, स्वदेशसहितो यः क्षणस्तस्याऽऽमलकस्य कालकला स्वदेशेन सहौत्तराधर्यरूपपरिणामलक्षिता सा स्वदेशक्षणस्तस्यानुभवः प्राप्तिर्वा ज्ञानं वा तेन भिन्ने आमलके ययोरामलकयोः पूर्वोत्तराभ्यां देशाभ्यामौत्तराधर्यपरिणामक्षण आसीत्तयोर्देशान्तरौत्तराधर्यपरिणामक्षणविशिष्टत्वमनुभवन्संयमी ते भिन्ने एव प्रत्येति । सम्प्रति तद्देशपरिणामेऽपि पूर्वभिन्नदेशपरिणामाद्विशिष्टस्य चैतदेशपरिणामक्षणस्य संयमतः साक्षात्करणात् । तदिदमुक्तम् - अन्यदेशक्षणानुभवस्तु तयोरन्यत्वे हेतुरिति । अनेनैव निदर्शनेन लौकिकपरीक्षकसंवादादिना परमाणोरपीदृशस्य भेदो योगीश्वरबुद्धिगम्यः श्रद्धेय इत्याह - एतेनेति । अपरे तु वर्णयन्ति – येऽन्त्या विशेषास्तेऽन्यताप्रत्ययं कुर्वन्तीति। तत्रापि देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश्चान्यत्वे हेतुः। क्षणभेदस्तु योगिबुद्धिगम्य एवेति। अत उक्तं मूर्तिव्यवधिजातिभेदाभावान्नास्ति मूलपृथक्त्वमिति वार्षगण्यः ॥ ५३ ॥ टीका तत्त्व-वैशारदी

अपरे तु वर्णयन्ति । वर्णनमुदाहरति - य इति । वैशेषिका हि नित्यद्रव्यवृत्तयोऽन्त्या विशेषा इत्याहुः । तथाहि - योगिनो मुक्तास्तुल्यजातिदेशकालान्व्यवधिरहितान्परस्परतो भेदेन प्रत्येकं तत्त्वेन च प्रतिपद्यन्ते । तस्मादस्ति कश्चिदन्त्यो विशेष इति । तथाच स एव नित्यानां परमाण्वादीनां द्रव्याणां भेदक इति । तदेतद्दूषयति - तत्रापीति । जातिदेशलक्षणान्युदाहृतानि । मूर्तिः संस्थानं, यथैकं विशुद्धावयवसंस्थानोपपन्नमपसार्य तस्मिन्नेव देशेऽन्यव्यग्रस्य द्रष्टुः कुत्सितावयवसन्निवेश उपावर्त्यते तदा तस्य संस्थानभेदेन भेदप्रत्ययः, शरीरं वा मूर्तिस्तत्सम्बन्धेनाऽऽत्मनां संसारिणां मुक्तात्मनां वा भूतचरेण यादृशतादृशेन भेद इति सर्वत्र भेदप्रत्ययस्यान्यथासिद्धेर्नान्त्यविशेषकल्पना । व्यवधिर्भेदकारणम् । यथा कुशपुष्करद्वपियोर्देशस्वरूपयोरिति । यतो जातिदेशादिभेदा लोकबुद्धिगम्या अत उक्तं - क्षणभेदस्तु योगिबुद्धिगम्य एवेति । एवकारः क्षणभेदमवधारयति न योगिबुद्धिगम्यत्वं, तेन भूतचरेण देहसम्बन्धेन मुक्तात्मनामपि भेदो योगिबुद्धिगम्य उन्नेय इति । यस्य तूक्ता भेदहेतवो न सन्ति तस्य प्रधानस्य भेदो नास्तीत्याचार्यो मेने । यस्याग्रे “कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्” इति । तदाह - मूर्तिव्यवधीति । उक्तभेदहेतूपलक्षणमेतत् । जगन्मूलस्य प्रधानस्य पृथक्त्वं भेदो नास्तीत्यर्थः ॥ ५३ ॥ पातञ्जल-रहस्यम्

सर्वज्ञः सर्वविदिति श्रुतेः विवेकजज्ञानस्य विशेषविशेषयं सूत्रारूढं कुर्वन्नाह – जातीति । जात्यादिभिर्येशामन्यताऽवच्छेदो भेदधीर्न स्यात्तेषां ततो विवेकजज्ञानाद्भेदप्रतिपत्तिरिति सूत्रार्थः, तल्लक्षनमपि भेदधीहेतुरित्याह - कालाक्षीति । कालीं कनीनिकां विहायापि कृष्णवर्णमक्षि यस्याः, एवं स्वस्तिमती, देशकृतपौर्वापर्यमपि भेदहेतुरित्याह - देशेति । प्रविभागानुपपत्तिरयोगिनामिति शेषः, तर्हि नित्यद्रव्यभेदधीहेतोर्विशेषस्य भेदकान्तारापेक्षा स्यादिति – तत्राह - तत्रापिइति । भवतु वा तथा, तत्र क्षणभेदार्था योगिसिद्धिरित्याह - क्षणेति । मूलप्रकृतेरभेदधीरपि तज्ज्ञानसाध्येत्याह - मूलेति । अत एवार्षजं ज्ञानं साङ्ख्यैरुक्तमिति भावः ॥ ५३ ॥ तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥ ५४ ॥ तारकमितिस्वप्रतिभोत्थमनौपदेशिकमित्यर्थः। सर्वविषयं नास्य किञ्चिदविषयीभूतमित्यर्थः। सर्वथाविषयमतीतानागतप्रत्युत्पन्नं सर्वं पर्यायैः सर्वथा जानातीत्यर्थः। अक्रममित्येकक्षणोपारूढं सर्वं सर्वथा गृह्णातीत्यर्थः। एतद्विवेकजं ज्ञानं परिपूर्णम्। अस्यैवांशो योगप्रदीपो मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिरिति ॥ ५४ ॥ टीका तत्त्व-वैशारदी

तदेवं विषयैकदेशं विवेकजज्ञानस्य दर्शयित्वा विवेकजं ज्ञानं लक्षयति - तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् । विवेकजं ज्ञानमिति लक्ष्यनिर्देशः । शेषं लक्षणम् । संसारसागरात्तारयतीति तारकम् । पूर्वस्मात्प्रातिभाद्विशेषयति - सर्वथाविषयमिति । पर्याया अवान्तरविशेषाः । अत एव विवेकजं ज्ञानं परिपूर्णं नास्य क्वचित्किञ्चित्कथञ्चित्कदाचिदगोचर इत्यर्थः । आस्तां तावज्ज्ञानान्तरं सम्प्रज्ञातोऽपि तावदस्यांशः । तस्मादतः परं किं परिपूर्णमित्याह - अस्यैवांशो योगप्रदीपः सम्प्रज्ञातः । किमुपक्रमः किमवसानश्चासावित्याह - मधुमतीमिति । ऋतम्भरा प्रज्ञैव मधु मोदकारणत्वात् । यथोक्तं प्रज्ञाप्रासादमारुह्येति । तद्वती मधुमती धियोऽवस्था तामुपादाय यावदस्य परिसमाप्तिः सप्तधा प्रान्तभूमिः प्रज्ञा । अत एव विवेकजं ज्ञानं तारकं भवति । तदंशस्य योगप्रदीपस्य तारकत्वादिति ॥ ५४ ॥ पातञ्जल-रहस्यम्

ऊहः शब्दोऽधययनमिति साङ्ख्ये य ऊहशब्देनोक्तः स एवात्र तारकमिति योगिकं सर्वेभ्यस्तारणात्, सम्प्रज्ञातगुरुशास्त्राद्यनपेक्षमित्याह - अनौपदेशिकमिति, प्रातिभज्ञानादस्य सर्वविषयमित्यादिविशेषणत्रयेण श्रेष्ठतवमसूच ॥ ५४ ॥ प्राप्तविवेकजज्ञानस्याप्राप्तविवेकजज्ञानस्य वा – सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५ ॥ यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषस्यान्यताप्रतीतिमात्राधिकारं दग्धक्लेशबीजं भवति तदा पुरुषस्य शुद्धिसारूप्यमिवाऽऽपन्नं भवति, तदा पुरुषस्योपचरितभोगाभावः शुद्धिः। एतस्यामवस्थायां कैवल्यं भवतीश्वरस्यानीश्वरस्य वा विवेकजज्ञानभागिन इतरस्य वा। नहि दग्धक्लेशबीजस्य ज्ञाने पुनरपेक्षा काचिदस्ति। सत्त्वशुद्धिद्वारेणैतत्समाधिजमैश्वर्यं ज्ञानं चोपक्रान्तम्। परमार्थतस्तु ज्ञानाददर्शनं निवर्तते तस्मिन्निवृत्ते न सन्त्युत्तरे क्लेशाः। क्लेशाभावात्कर्मविपाकाभावः। चरिताधिकाराश्चैत्तस्यामवस्थायां गुणा न पुरुषस्य पुनर्दृश्यत्वेनोपतिष्ठन्ते। तत्पुरुषस्य कैवल्यं, तदा पुरुषः स्वरूपमात्रज्योतिरमलः केवली भवति ॥ ५५ ॥ टीका तत्त्व-वैशारदी

तदेवं परम्परया कैवल्यस्य हेतून्सविभूतीन्संयमानुक्त्वा सत्त्वपुरुषान्यताज्ञानं साक्षात्कैवल्यसाधनमित्यत्र सूत्रमवतारयति - प्राप्तेति । विवेकजं ज्ञानं भवतु मा वा भूत्सत्त्वपुरुषान्यताख्यातिस्तु कैवल्यप्रयोजिकेत्यर्थः । सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति । इति सूत्रसमाप्तौ । ईश्वरस्य पूर्वोक्तैः संयमैर्ज्ञानक्रियाशक्तिमतोऽनीश्वरस्य वा समनन्तरोक्तेन संयमेन विवेकजज्ञानभागिन इतरस्य वाऽनुत्पन्नज्ञानस्य न विभूतिषु काचिदपेक्षाऽस्तीत्याह - न हीति । ननु यद्यनपेक्षिता विभूतयः कैवल्ये व्यर्थस्तर्हि तासामुपदेश इत्यत आह - सत्त्वशुद्धिद्वारेणेति । इत्थम्भूतलक्षणे तृतीया । नात्यन्तमहेतवः कैवल्ये विभूतयः किन्तु न साक्षादित्यर्थः । ज्ञानं विवेकजमुपक्रान्तं यच्च पारम्पर्येण कारणं तदौपचारिकं न तु मुख्यं, परमार्थस्तु ख्यातिरेव मुख्यमित्यर्थः । ज्ञानादिति प्रसङ्ख्यानादित्यर्थः ॥ ५५ ॥

अत्रान्तरङ्गाण्यङ्गानि परिणामा प्रपञ्चिताः । संयमाद्भूतसंयोगस्तासु ज्ञानं विवेकजम् ॥ इति । (पदार्थसङ्ग्रहश्लोकः) पातञ्जल-रहस्यम्

तरतिशोकमात्मविदिति, तमेव विदित्वाऽति मृत्युमेतीति श्रुतेः कैवल्यप्रत्यासत्तेः सर्वाभ्यो विभूतिभ्योऽप्यन्तरङ्गं सत्त्वपुरुशान्यताज्ञानमित्याह – सत्त्वेति । शुद्धिसाम्ये रजस्तमोविगमे, कैवल्यमिति सूत्रार्थः, अनयताप्रत्ययः भेदाज्ञानं, तत्रैव साधिकारं तज्जननसमर्थम् ईश्वरस्येवानीश्वरस्यापि योगिन इत्यर्थः ॥ ५५ ॥

आद्ये पादेसमाधिर्हि द्वितीये साधनान्तथा । तृतीये भूतयो ज्ञाता इति पादार्थवर्णना ॥

इतिश्रीविश्वेश्वरभगवत्पादशिष्याद्वयभगवत्पादशिष्यराघवानन्दसरस्वतीविरचिते योगतत्त्ववैशारद्याख्यायाः व्यख्ययाष्टीकारूपे पाञ्जलरहस्ये पञ्चपञ्चाशत्सूत्रात्मकस्तृतीयो विभूतिपादः समाप्तः ॥ ३ ॥ कैवल्यपादः जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १ ॥ देहान्तरिता जन्मना सिद्धिः। ओषीधिभिरसुरभवनेषु रसायनेनेत्येवमादिः। मन्त्रैराकाशगमनाणिमादिलाभः। तपसा सङ्कल्पसिद्धिः, कामरूपी यत्र तत्र कामग इत्येवमादि। समाधिजाः सिद्धयो व्याख्याताः ॥ १ ॥ टीका तत्त्व-वैशारदी

तदेवं प्रथमद्वितीयतृतयिपादैः समाधितत्साधनतद्विभूतयः प्राधान्येन व्युत्पादिताः । इतरत्तु प्रासङ्गिकमौपोद्धातिकं चोक्तमिहेदानीं तद्धेतुकं कैवल्यं व्युत्पादनीयम् । नचैतत्कैवल्यभागीयं चित्तं परलोकं च परलोकिनं विज्ञानातिरिक्तं चित्तकरणकसुखाद्यात्मकशाब्दाद्युपभोक्तारमात्मानं च प्रसङ्ख्यानपरमकाष्ठां च विना व्युत्पाद्य शक्यं वक्तुमिति तदेतत्सर्वमत्र पादे व्युत्पादनीयमितरश्च प्रसङ्गादुपोद्धाताद्वा । तत्र प्रथमं सिद्धचित्तेषु कैवल्यभागीयं चित्तं निर्धारयितुकामः पञ्चतयीं सिद्धिमाह – जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः । व्याचष्टे - देहान्तरितेति । स्वर्गापभोगभागीयात्कर्मणो मनुष्यजातीयाचरितात्कृतश्चिन्निमित्ताल्लब्धपरिपाकात्क्वचिद्देवनिकाये जातमात्रस्यैवदिव्यदेहान्तरिता सिद्धिरणिमाद्या भवतीति । ओषधिसिद्धिमाह - असुरभवनेष्विति । मनुष्यो हि कुतश्चिन्निमित्तादसुरभवनमुपसम्प्राप्तः कमनीयाभिरसुरकन्याभिरुपनीतं रसायनमुपयुज्याजरामरणत्वमन्याश्च सिद्धीरासादराति । इहैव वा रसायनोपयोगेन यथा माण्डव्यो मुनौ रसोपयोगाद्विन्ध्यवासीति । मन्त्रसिद्धिमाह - मन्त्रैरिति । तपःसिद्धिमाह - तपसेति । सङ्कल्पसिद्धिमाह - कामरुपीति । यदेव कामयतेऽणिमादि तदेकपदेऽस्य भवतीति । यत्र कामयते श्रोतुं वा मन्तुं वा तत्र तदेव शृणोति मनुते वेति । आदिशब्दाद्दर्शनादयः सङ्गृहीता इति ॥ १ ॥ पातञ्जल-रहस्यम्

योगाणवसमुद्भूतैः फलरत्नैर्विविच्यते । महेश्वरस्य पादार्ध्ये चतुर्थे चरणेऽधुना ॥

वृत्तवर्त्तिष्यमाणयोः सम्बन्धं वक्तुं वृत्तं कीर्तयति –तदेवमित्यादि-व्युत्पादनीयमित्यन्तेन, अविनाशी वा अरे अयमात्मा अनुच्छितिधर्मा इति श्रुतिमाश्रित्य चित्ततिरिक्तं नित्यमात्मानं वक्तुमाह-न चैतदित्यादि-वक्तुमित्य़न्तेन, पारलौकिकं स्वर्गादिसम्बन्धिनं भोक्तारं चित्तमतसुखदुःखसाक्षात्कारवन्तं, प्रसन्ख्यानपरमकाष्ठां चेति, प्रसङ्ख्यानं ध्यानं तीव्रवैराग्यं वा तस्य परमकाष्ठा निरतिशयतेत्यर्थः, जन्मादिसूत्रमवतारयितुमाह – तदेतदिति, पञ्चतयीमिति, जन्म चौषधिश्च मन्त्रश्च तपश्च समाधिश्च तेभ्यो जाता पञ्चतयी, मनुष्याधिकारिकं – शास्त्रमिति न्यायेनाह –मनुष्याजातीयाचरितादित्यर्थः, देवनिकाये देवत्वजातौ, अणिमाद्या उक्ताकान्तिं प्राप्तो यथा भीम इहैव कल्पलताऽऽद्युपयोगेनेति ॥ १ ॥ तत्र कायेन्द्रियाणामन्यजातीयपरिणतानाम् – जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ २ ॥ पूर्वपरिणामापाय उत्तरपरिणामोपजनस्तेषामपूर्वावयवानुप्रवेशाद्भवति। कायेन्द्रियप्रकृतयश्च स्वं स्वं विकारमनुगृह्णन्त्यापूरेण धर्मादिनिमित्तमपेक्षमाणा इति ॥ २ ॥ टीका तत्त्व-वैशारदी

समाधिजाः सिद्धयो व्याख्याता अधस्तने पादे । अप चतसृषु सिद्धिष्वौषधादिव साधनासु तेषामेव कायेन्द्रियाणां जात्यन्तरपरिणतिरिष्यते । सा पुनर्न तावदुपादानमात्रात् । न हि तावन्मात्रमुपादानं न्यूनाधिकदिव्यादिव्यभावेऽस्य भवति । नो खल्वविलक्षणं कारणं कार्यवैलक्षण्यायालम् । माऽस्याऽऽकस्मिकत्वं भूदित्याशङ्क्य पूरयित्वा सूत्रं पठति - तत्र कायेन्द्रियाणामन्यजातीयपरिणतानां जात्यन्तरपरिणामः प्रकृत्यापूरात् । मनुष्यजातिपरिणतानां कायेन्द्रियाणां यो देवतिर्यग्जातिपरिणामः स खलु प्रकृत्यापूरात् । कायस्य हि प्रकृतिः पृथिव्यादीनि भूतानि । इन्द्रियाणां च प्रकृतिरस्मिता, तदवयवानुप्रवेश आपूरस्तस्माद्भवति । तदिदमाह - पूर्वपरिणामेति । ननु यद्यापूरेणानुग्रहः कस्मात्पुनरसौ न सदातन इत्यत आह - धर्मादीति । तदनेन तस्यैव शरीरस्य बाल्यकौमारयौवनवार्धकादीनि च न्यग्रोधधानायां न्यग्रोधतरुभावश्च वह्निकणिकायास्तृणराशिनिवेशिताया वा प्रोद्भवज्ज्वालासहस्रसमालिङ्गितगगनमण्डलत्वं च व्याख्यातम् ॥ २ ॥ पातञ्जल-रहस्यम्

तत्र सूत्रान्तरमाह –जातीति । अन्यजातीयपरिणतानां शिलादपुत्रस्यनन्दीश्वरस्य देवत्वप्राप्तिरित्याह—जात्यन्तरेति, प्रकृति पदं विवेचयति – कायस्येति, अस्मिता = सात्त्विकाहङ्कारः ॥ २ ॥ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ ३ ॥ न हि धर्मादि निमित्तं तत्प्रयोजकं प्रकृतीनां भवति। न कार्येण कारणं प्रवर्त्यत इति। कथं तर्हि, वरणभेदस्तु ततः क्षेत्रिकवत्। यथा क्षेत्रिकः केदारादपां पूर्णात्केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनाऽपकर्षत्यावरणं त्वासां भिनत्ति तस्मिन्भिन्ने स्वयमेवाऽऽपः केदारान्तरमाप्लावयन्ति तथा धर्मः प्रकृतीनामावरणमधर्मं भिनत्ति तस्मिन्भिन्ने स्वयमेव प्रकृतयः स्वं स्वं विकारमाप्लावयन्ति। यथा वा स एव क्षेत्रिकस्तस्मिन्नेव केदारे न प्रभवत्यौदकान्भौमान्वा रसान्धान्यमूलान्यनुप्रवेशयितुं, किं तर्हि मुद्गगवेधुकश्यामाकादींस्ततोऽपकर्षति। अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रविशन्ति, तथा धर्मो निवृत्तिमात्रे कारणमधर्मस्य, शुद्ध्यशुद्ध्योरत्यन्तविरोधात्, न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति। अत्र नन्दीश्वरादय उदाहार्याः। विपर्ययेणाप्यधर्मो धर्मं बाधते। ततश्चाशुद्धिपरिणाम इति। तत्रापि नहुषाजगरादय उदाहार्याः ॥ ३ ॥ टीका तत्त्व-वैशारदी

प्रकृत्यापूरादित्युक्तं तत्रेदं सन्दिह्यते - किमापूरः प्रकृतीनां स्वाभाविको धर्मादिनिमित्तो वेति । किं प्राप्तं सतीष्वपि प्रकृतिषु कदाचिदापूराद्धर्मादिनिमित्तश्रवणाच्च तन्निमित्त एवेति प्राप्तम् । एवं प्राप्त आह - निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् । सत्यं धर्मादयो निमित्तं न तु प्रयोजकास्तेषामपि प्रकृतिकार्यत्वात् । न च कार्यं कारणं प्रयोजयति तस्य तदधीनोत्पत्तितया कारणपरतन्त्रत्वात् । स्वतन्त्रस्य च प्रयोजकत्वात् । न खलु कुलालमन्तरेण मृद्दण्डचक्रसलिलादय उत्पित्सितेनोत्पन्नेन वा घटेन प्रयुज्यन्ते । किं तु स्वतन्त्रेण कुलालेन । न च पुरुषार्थोऽपि प्रवर्तकः । किं तु तदुद्देशेनेश्वरः । उद्देश्यतामात्रेण पुरुषार्थः प्रवर्तक इत्युच्यते । उत्पित्सोस्त्वस्य पुरुषार्थस्याव्यक्तस्य स्थितिकारणत्वं युक्तम् । न चैतावता धर्मादीनामनिमित्तता प्रतिबन्धापनयनमात्रेण क्षेत्रिकवदुपपत्तेरीश्वरस्यापि धर्माधिष्ठानार्थं प्रतिबन्धापनय एव व्यापारो वेदितव्यः तदेतन्निगदव्याख्यातेन भाष्येणोक्तम् ॥ ३ ॥ पातञ्जल-रहस्यम्

धर्मात् सुखं च ज्ञानं चेति स्मृतेर्धर्मादेः कारनत्वमाशङ्क्य प्रतिबन्धकोत्सारकत्वेन सूत्रमवतारयति-निमित्तमिति, न प्रयोजकं तस्य धर्माधर्मयोः तधेनोत्पत्तिकत्वाद्, एतदेव स्वहस्तयति—न खल्विति, पुरुषार्थौ भोगावपर्गावापि तर्ह्यजागलस्तनन्यायेनाकिञ्चित्काराविति चेत तत्राह—न चैतावतेति, ईश्वरस्यापीति, कृतप्रयत्नापेक्षस्तु विहित्तप्रतिषिद्धावैयर्थ्यादिभ्य इति वैयासिकसूत्रात् अधिष्ठानात्वं चेतनान्तराप्रयुक्तत्वे सति स्वप्रयुक्तत्वं तेन धर्मादीनामकिञ्चित्करत्वादिति भावः ॥ ३ ॥ यदा तु योगी बहून्कायान्निर्मिमीते तदा किमेकमनस्कास्ते भवन्त्यथानेकमनस्का इति – निर्माणचित्तान्यस्मितामात्रात् ॥ ४ ॥ अस्मितामात्रं चित्तकारणमुपादाय निर्माणचित्तानि करोति, ततः सचित्तानि भवन्तीति ॥ ४ ॥ टीका तत्त्व-वैशारदी

प्रकृत्यापूरेण सिद्धीः समर्थ्य सिद्धिविनिर्मितनानाकायवर्तिचित्तैकत्वनानात्वे विचारयति - यदा त्विति । तत्र नानामनस्त्वे कायानां प्रतिचित्तमभिप्रायभेदादेकाभिप्रायानुरोधश्च परस्परप्रतिसन्धानं च न स्यातां पुरुषान्तरवत् । तस्मादेकमेव चित्तं प्रदीपवद्विसारितया बहूनपि निर्माणकायान्व्याप्नोतीति प्राप्त आह - निर्माणचित्तान्यस्मितामात्रात् । यद्यावज्जीवच्छरीरं तत्सर्वमेकैकासाधारणचित्तान्वितं दृष्टम् । तद्यथा चैत्रमैत्रादिशरीरम् । तथा च निर्माणकाया इति सिद्धं तेषामपि प्रातिस्विकं मन इत्यभिप्रायेणाऽऽह - अस्मितामात्रमिति ॥ ४ ॥ पातञ्जल-रहस्यम्

योगी यान् देहान् करोति तान् प्रत्येकं चित्तसहितानेव करोत्यन्यथा तत्तदेहेऽसाधारणभोगासिद्धिरित्याह-निर्माणेति, विचारान्तरमाह-प्रकृत्येति, प्रदीपवदावेश इतिन्यायेनाह-स यथा वर्तिभेदेनानेकगृहमाविशति, एवं निर्माणकाया तदूदृष्ट्याकृष्टयावन्ति शरीराणि-एकैकं चित्तमाविशतीत्यर्थः ॥ ४ ॥ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५ ॥ बहूनां चित्तानां कथमेकचित्ताभिप्रायपुरःसरा प्रवृत्तिरिति सर्वचित्तानां प्रयोजकं चित्तमेकं निर्मिमीते, ततः प्रवृत्तिभेदः ॥ ५ ॥ टीका तत्त्व-वैशारदी

यदुक्तमनेकचित्तत्व एकाभिप्रायानुरोधश्च प्रतिसन्धानं च न स्यातामिति तत्रोत्तरं सूत्रम् - प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् । अभविष्यदेष दोषो यदि चित्तमेकं नानाकायवर्ति मनोनायकं न निरमास्यत्, तन्निर्माणे त्वदोषः । न चैकं गृहीत्वा कृतं प्रातिस्विकैर्मनोभिः कृतं वा नायकनिर्माणेन निजस्यैव मनसो नायकत्वादिति वाच्यम् । प्रमाणसिद्धस्य नियोगपर्यनुयोगानुपपत्तेरिति । अत्र पुराणं भवति –

एकस्तु प्रभुशक्त्या वै बहुधा भवतीश्वरः ।

भूत्वा यस्मात्तु बहुधा भवत्येकः पुनस्तु सः ॥

तस्माच्च मनसो भेदा जायन्ते चैत एव हि ।

एकधा स द्विधा चैव त्रिधा च बहुधा पुनः ॥

योगीश्वरः शरीराणि करोति विकरोति च । प्राप्नुयाद्विषयान्कैश्चित्कैश्चिदुग्रं तपश्चरेत् ॥

संहरेच्च पुनस्तानि सूर्यो रश्मिगणानिव इति ॥

तदेतेनाभिप्रायेणाऽऽह - बहूनां चित्तानामिति ॥ ५ ॥ पातञ्जल-रहस्यम्

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च, इति श्रुतिमाश्रित्याह-योगिनिर्मितानाम्, आहन्कारिकमनोवत्त्वेन मनोवत्त्वमित्याह-प्रवृत्तिभेद इति, तेषां प्रकृतेर्विभुत्वयोगादकं मनो नायकमिति भावः, मधुकरराज इव मक्षिकाणामिति भावः,

अस्मिन्नर्थे मानमाह-पुराणमिति । बहुधा कृतौ प्रयोजनमाह-प्राप्नुयादिति, प्रयोजकं भाष्यस्थपदं प्रवर्तकमित्यर्थकम् ॥ ५ ॥ तत्र ध्यानजमनाशयम् ॥ ६ ॥ पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धय इति। तत्र यदेव ध्यानजं चित्तं तदेवानाशयं तस्यैव नास्त्याशयो रागादिप्रवृत्तिर्नातः पुण्यपापाभिसम्बन्धः क्षीणक्लेशत्वाद्योगिन इति। इतरेषां तु विद्यते कर्माशयः ॥ ६ ॥ टीका तत्त्व-वैशारदी

तदेवमुदितेषु पञ्चसु सिद्धचित्तेष्वपवर्गभागीयं चित्तं निर्धारयति - तत्र ध्यानजमनाशयम् । आशेरत इत्याशयाः कर्मवासनाः क्लेशवासनाश्च । त एते न विद्यन्ते यस्मिंस्तदनाशयं चित्तमपवर्गभागीयं भवतीत्यर्थः । यतो रागादिनिबन्धना प्रवृत्तिर्नास्त्यतो नास्ति पुण्यपापाभिसम्बन्धः । कस्मात्पुना रागादिजनिता प्रवृत्तिर्नास्तीत्यत आह - क्षीणक्लेशत्वादिति । ध्यानजस्यानाशयस्य मनोन्तरेभ्यो विशेषं दर्शयितुमितरेषामाशयवत्तामाह - इतरेषां त्विति ॥ ६ ॥ पातञ्जल-रहस्यम्

तदेवमुपसंहृत्य मोक्षदं विवक्षुराह-तत्रेति ॥ ६ ॥ यतः – कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ७ ॥ चतुष्पदी खल्वियं कर्मजातिः। कृष्णा शुक्लकृष्णा शुक्लाऽशुक्लाकृष्णा चेति। तत्र कृष्णा दुरात्मनाम्। शुक्लकृष्णा बहिःसाधनसाध्या। तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः। शुक्ला तपःस्वाध्यायध्यानवताम्। सा हि केवले मनस्यायत्तत्वादबहिःसाधनाधीना न परान्पीडयित्वा भवति। अशुक्लाकृष्णा सन्न्यासिनां क्षीणक्लेशानां चरमदेहानामिति। तत्राशुक्लं योगिन एव फलसन्न्यासादकृष्णं चानुपादानात्। इतरेषां तु भूतानां पूर्वमेव त्रिविधमिति ॥ ७ ॥ टीका तत्त्व-वैशारदी

तत्रैव च हेतुपरं सूत्रमवतारयति - यत इति । कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् । पदं स्थानम् । चर्तुषु समवेता चतुष्पदी । यद्यावद्बहिःसाधनसाध्यं तत्र सर्वत्रास्ति कस्यचित्पीडा । न हि व्रीह्यादिसाधनेऽपि कर्मणि परपीडा नास्त्यवघातादिसमयेऽपि पिपीलिकादिवधसम्भवात् । अन्ततो बीजादिवधेन स्तम्बादिभेदोत्पत्तिप्रतिबन्धात् । अनुग्रहश्च दक्षिणादिना ब्राह्मणादेरिति । शुक्ला तपःस्वाध्यायध्यानवतामसन्न्यासिनाम् । शुक्लत्वमुपपादयति - सा हीति । अशुक्लाकृष्णा सन्न्यासिनाम् । सन्न्यासिनो दर्शयति - क्षीणेति । कर्मासम्भवात् । कर्मसन्न्यासिनो हि न क्वचिद्बहिःसाधनसाध्ये कर्मणि प्रवृत्ता इति न चैषामस्ति कृष्णः कर्माशयः । योगानुष्ठानसाध्यस्य कमार्शयफलस्येश्वरे समर्पणान्न शुक्लः कर्माशयः । निरत्ययफलो हि शुक्ल उच्यते । यस्य फलमेव नास्ति कुतस्तस्य निरत्ययफलत्वमित्यर्थः । तदेवं चतुष्टयीं कर्मजातिमुक्त्वा कतमा कस्येत्यवधारयति - तत्राशुक्लमिति ॥ ७ ॥ पातञ्जल-रहस्यम्

चतुष्यादित्यस्य भाष्यस्य व्याख्या पदं स्थानमिति, तदेव विवृणोति –यद्यावदिति, तस्मात्पश्यन्ति पादपा इति श्रुतिमाश्रित्याह –अन्तत इति

“यो दत्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् । तस्य तेजोमया लोका भवन्ति ब्रह्मवेदिनः ॥

इत्युक्तिमाश्रित्याह –सन्न्यासिनो हीति, कृष्णं पापं –

नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥

इति स्मृतेः, फलं दत्वा कर्म नश्यतीति चेत्-तत्राह-योगानुष्ठान इति,

यज्ञायाचारतः कर्म समग्रं प्रविलीयत-

इत्युक्तिमाश्रित्याह-यस्येति, वृत्तवर्तिष्यमाणयोः सम्बन्धं वक्तुं कीर्तयति – तदेवमिति ॥ ७ ॥ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ८ ॥ तत इति त्रिविधात्कर्मणः, तद्विपाकानुगुणानामेवेति यज्जातीयस्य कर्मणो यो विपाकस्तस्यानुगुणा या वासनाः कर्मविपाकमनुशेरते तासामेवाभिव्यक्तिः। न हि दैवं कर्म विपच्यमानं नारकतिर्यङ्मनुष्यवासनाभिव्यक्तिनिमित्तं सम्भवति। किन्तु दैवानुगुणा एवास्य वासना व्यज्यन्ते। नारकतिर्यङ्मनुष्येषु चैवं समानश्चर्चः ॥ ८ ॥ टीका तत्त्व-वैशारदी

कर्माशयं विविच्य क्लेशाशयगतिमाह - ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् । यज्जातीयस्य पुण्यजातीयस्यापुण्यजातीयस्य वा कर्मणो यो विपाको दिव्यो वा नारको वा जात्यायुर्भोगस्तस्य विपाकस्यानुगुणाः । ता एवाऽऽह - या वासनाः कर्मविपाकमनुशेरतेऽनुकुर्वन्ति । दिव्यभोगजनिता हि दिव्यकर्मविपाकानुगुणा वासनाः । नहि मनुष्यभोगवासनाभिव्यक्तौ दिव्यकर्मफलोपभोगसम्भवः । तस्मात्स्वविपाकानुगुणा एव वासनाः कर्माभिव्यञ्जनीया इति भाष्यार्थः ॥ ८ ॥ पातञ्जल-रहस्यम्

पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति सूत्रारूढं करोति –तत इति, एतदेव विविच्य दर्शयति भाष्यकारः –न हि दैवमिति । विपच्यमानं = फलमारभमाणं, व्यतिरेकमाह –नारकेति भाष्यं, समानश्चर्चः समानन्यायः ॥ ८ ॥ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९ ॥ वृषदंशविपाकोदयः स्वव्यञ्जकाञ्जनाभिव्यक्तः। स यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहितः पुनश्च स्वव्यञ्जकाञ्जन एवोदियाद्द्रागित्येवं पूर्वानुभूतवृषदंशविपाकाभिसंस्कृता वासना उपादाय व्यज्येत। कस्मात्। यतो व्यवहितानामप्यासां सदृशं कर्माभिव्यञ्जकं निमित्तीभूतमित्यानन्तर्यमेव। कुतश्च, स्मृतिसंस्कारयोरेकरूपत्वात्। यथाऽनुभवास्तथा संस्काराः। ते च कर्मवासनानुरूपाः। यथा च वासनास्तथा स्मृतिरिति जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतिः। स्मृतेश्च पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशाद्व्यज्यन्ते। अतश्च व्यवहितानामपि निमित्तनैमित्तिकभावानुच्छेदादानन्तर्यमेव सिद्धमिति ॥ ९ ॥ टीका तत्त्व-वैशारदी

स्यादेतत् । मनुष्यस्य प्रायणानन्तरमधिगतमार्जारभावस्यानन्तरतया मनुष्यवासनाया एवाभिव्यक्त्या भवितव्यम् । न खल्वस्ति सम्भवो यदनन्तरदिवसानुभूतं न स्मर्यते व्यवहितदिवसानुभूतं च स्मर्यत इत्यत आह - जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् । भवतु वृषदंशवासनाया जात्यादिव्यवधिस्तथाऽपि तस्याः फलत आनन्तर्यं वृषदंशविपाकेन कर्मणा तस्या एव स्वविपाकावुगुणाया अभिव्यक्तौ तत्स्मरणसमुत्पादादित्याह - वृषदंशविपाकोदय इति । उदेत्यस्मादित्युदयः कर्माशयः । पुनश्च स्वव्यञ्जकाञ्जन एवोदियात् अभिव्यज्येत विपाकारम्भाभिमुखः क्रियेतेत्यर्थः । अभिसंस्कारक्रिया उपादाय गृहीत्वा व्यज्येत । यदि व्यज्येत स्वविपाकानुगुणा एव वासना गृहीत्वा व्यज्येतेत्यर्थः । आनन्तर्यमेव फलतः कारणद्वारकमुपपाद्य कार्यद्वारकमुपपादयति - कुतश्च स्मृतीति । एकरूपता सादृश्यम् । तदेवाऽऽह - यथेति । नन्वनुभवसरूपाश्चेत्संस्कारास्तथा सत्यनुभवा विशरारव इत्येतेऽपि विशरारवः कथं चिरभाविनेऽनुभवाय कल्पेरन्नित्यत आह - ते च कर्मज वासनानुरूपाः । यथाऽपूर्वं स्थायि क्षणिककर्मनिमित्तमप्येवं क्षणिकानुभवनिमित्तोऽपि संस्कारः स्थायी किञ्चिद्भेदाधिष्ठानं च सारूप्यमन्यथाऽभेदे तत्त्वेन सादृश्यानुपपत्तेरित्यर्थः । सुगममन्यत् ॥ ९ ॥ पातञ्जल-रहस्यम्

आनन्तर्यमचोदनेति जैमिनिसूत्रमाश्रित्याह –जातीतिसूत्रं, तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चेति श्रुतिमाश्रित्याह-अनुशेरत इति, पूर्वप्रज्ञाऽत्र वासना संस्कार इति पर्य्यायाः यथा हि शालीबीजमङ्कुरपत्रकाण्डपुष्पपरम्परया तद्बीजमारभते ; एवं संस्कारो बहुव्यवधानेन स्वानुरूपं फलमारभते, वृषदंशो मार्जारः, अत्र शङ्कते –स्यदित्यादि –स्मयत इत्यन्तेन, प्रायणानन्तरं मरणानान्तरम्, इष्टापत्ति धुनीते-न खल्वस्तीति, जातिदेशेति सूत्रे जातिर्धर्मः, एतदेव स्पृष्टयति –वृषदंश इति, फलानुमेयाः प्रारम्भाः इति न्यायेनानन्तर्यमाप्रयोजकं फलभोग –एव प्रयोजक इत्याह –वृषदंश इति, न हि दृष्टेऽनुपपन्नं नामेति न्यायात्, स्वव्यञ्जकाञ्जनः स्वं संस्कार एव व्यञ्जकं कारणं यस्य भोगस्य तेनाभिव्यक्तो भोग इत्यर्थः, एतदेव कार्यपरम्परया स्पष्टयति –यथाऽनुभवा इति, अनुभवजातीयसम्स्कारस्तज्जातीयं स्मरणं, विशरारवोविरला विनाशिन इति यावत्, भावार्था यागपदवाच्या यद्यपि क्षनिकास्तथाऽपि तेभ्य एवापूर्वं स्थायि चिरभाविने फलाय, तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वमिति लक्षणं सूचयन्नाह –किञ्चिदिति ॥ ९ ॥ तासामनादित्वं चाऽऽशिषो नित्यत्वात् ॥ १० ॥ तासां वासनानामाशिषो नित्यत्वादनादित्वम्। येयमात्माशीर्मा न भूवं भूयासमिति सर्वस्य दृश्यते सा न स्वाभाविकी। कस्मात्। जातमात्रस्य जन्तोरननुभूतमरणधर्मकस्य द्वेषदुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत्। न च स्वाभाविकं वस्तु निमित्तमुपादत्ते। तस्मादनादिवासनानुविद्धमिदं चित्तं निमित्तवशात्काश्चिदेव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपावर्तत इति। टीका तत्त्व-वैशारदी

स्यादेतद्व्यज्येरन्पूर्वपूर्वतरजन्माभिसंस्कृता वासनाः । यदि पूर्वपूर्वतरजन्मसद्भाक् प्रमाणं स्यात्तदेव तु नास्ति । न च जातमात्रस्य जन्तोर्हर्षशोकदर्शनमात्रं प्रमाणं भवितुमर्हति, पद्मादिसङ्कोचविकासवत्स्वाभाविकत्वेन तदुपपत्तेरित्यत आह - तासामनादित्वं चाऽऽशिषो नित्यत्वात् । तासां वासनानामनादित्वं च न केवलमानन्तर्यमिति चार्थः । आशिषो नित्यत्वात् । आत्माशिषो वासनानामनादित्वे नित्यत्वाव्यभिचारादिति । ननु स्वाभाविकत्वेनाप्युपपत्तेरसिद्धमाशिषो नित्यत्वमित्यत आह - येयमिति । नास्तिकः पृच्छति - कस्मात् । उत्तरं - जातमात्रस्य जन्तोरिति । अत एवैतस्मिञ्जन्मन्यननुभूतमरणधर्मकस्य मरणमेव धर्मः सोऽननुभूतो येन स तथोक्तस्तस्य मातुरङ्कात्प्रस्खलतः कम्पमानस्य माङ्गल्यचक्रादिलाञ्छितं तदुरःसूत्रमतिगाढं पाणिग्राहमवलम्बमानस्य बालकस्य कम्पभेदानुमिता द्वेषानुषक्ते दुःखे या स्मृतिस्तन्निमित्तो मरणत्रासः कथं भवेदिति । ननूक्तं स्वभावादित्यत आह – न च स्वाभाविकं वस्तु निमित्तमुपादत्ते गृह्णाति स्वोत्पत्तौ । एतदुक्तं भवति - बालकस्येदृशो दृश्यमानः कम्पो भयनिबन्धन ईदृशकम्पत्वादस्मदादिकम्पवत् । बालकस्य भयं द्वेषदुःखस्मृतिनिमित्तं भयत्वादस्मदादिभयवत् । आगामिप्रत्यवायोत्प्रेक्षालक्षणं च भयं न दुःखस्मृतिमात्राद्भवति, अपि तु यतो बिभेति तस्य प्रत्यवायहेतुभावमनुमाय सम्प्रत्यपि प्रत्यवायं भयं च विदध्यादिति शङ्कते । तस्माद्यज्जातीयादनुभूतचराद्द्वेषानुषक्तं दुःखमुपपादितं तस्य स्मरणात्तज्जातीयस्यानुभूयमानस्य तद्दुःखहेतुत्वमनुमाय ततो बिभेति । न च बालकेनास्मिञ्जन्मनि स्खलनस्यान्यत्र दुःखहेतुत्वमवगतम् । न च तादृशं दुःखमुपलब्धम् । तस्मात्प्राग्भवीयोऽनुभवः परिशिष्यते । तच्चैतदेवं प्रयोगमारोहति - जातमात्रस्य बालस्य स्मृतिः पूर्वानुभवनिबन्धना स्मृतित्वादस्मदादिस्मृतिवदिति । न च पद्मसङ्कोचविकासावपि स्वाभाविकौ । न हि स्वाभाविकं कारणान्तरमपेक्षते, वह्नेरौष्ण्यं प्रत्यपि कारणान्तरापेक्षाप्रसङ्गात् । तस्मादागन्तुकमरुणकरसम्पर्कमात्रमेव कमलिनीविकासकारणम् । सङ्कोचकारणं च संस्कारः स्थितिस्थापक इति । एवं स्मिताद्यनुमितहर्षादयोऽपि प्राचि भवे हेतवो वेदितव्याः । तदास्तां तावत्प्रकृतमुपसंहरति - तस्मादिति । निमित्तं लब्धविपाककालं कर्म । प्रतिलम्भोऽभिव्यक्तिः । घटप्रासादप्रदीपकल्पं सङ्कोचविकासि चित्तं शरीरपरिमाणाकारमात्रमित्यपरे प्रतिपन्नाः। तथा चान्तराभावः संसारश्च युक्त इति। वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकासिनीत्याचार्यः। टीका तत्त्व-वैशारदी

प्रसङ्गतश्चित्तपरिमाणविप्रतिपत्तिं निराचिकीर्षुर्विप्रतिपत्तिमाह - घटप्रासादेति । देहप्रदेशवर्तिकार्यदर्शनाद्देहाद्बहिः सद्भावे चित्तस्य न प्रमाणमस्ति । न चैतदणुपरिमाणं दीर्घशष्कुलीभक्षणादावपर्यायेण ज्ञानपञ्चकानुत्पादप्रसङ्गात् । न चाननुभूयमानक्रमकल्पनायां प्रमाणमस्ति । न चैकमणु मनो नानादेशैरिन्द्रियैरपर्यायेण सम्बन्धुमर्हति । तत्पारिशेष्यात्कायपरिमाणं चित्तं घटप्रासादवर्तिप्रदीपवत् । सङ्कोचविकासौ पुत्तिकाहस्तिदेहयोरस्योत्पत्स्येते । शरीरपरिमाणमेवाऽऽकारः परिमाणं यस्येत्यपरे प्रतिपन्नाः । नन्वेवं कथमस्य क्षेत्रबीसंयोगः । न खल्वेतदनाश्रय मृतशरीरान्मातृपितृदेहवर्तिनी लोहितरेतसी प्राप्नोति परतन्त्रत्वात् । न हि स्थाण्वादिष्वगच्छत्सु तच्छाया गच्छति । न चागच्छति पटे तदाश्रयं चित्रं गच्छति । तथा च न संसारः स्यादित्यत आह - तथा चान्तराभावः संसारश्च युक्त इति । तथा च शरोरपरिमाणत्वे देहान्तरप्राप्तये पूर्वदेहत्यागो देहान्तरप्राप्तिश्चान्तराऽस्याऽऽतिवाहिकशरीरसंयागोद्भवतस्तनं खल्वयं देहान्तरे सञ्चरेत् ।

तथा च पुराणम् –

“अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्” इति ।

सोऽयमन्तराभावः । अत एव संसारश्च युक्त इति ।

तदेतदमृष्यमाणः स्वमतमाह - वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकासिनीत्याचार्यः स्वयम्भूः प्रतिपेदे । इदमत्राऽऽकूतं - यद्यनाश्रयं चित्तं न देहान्तरसञ्चारि कथमेतदातिवाहिकमाश्रयते, तत्रापि देहान्तरकल्पनायामनवस्था । न चास्य देहान्निष्कर्षः सातिवाहिकस्य सम्भवति । निष्कृष्टस्य चेतसस्तत्सम्बन्धात् । अस्तु तर्हि सूक्ष्मशरीरमेवाऽऽसर्गादा च महाप्रलयान्नियतं चित्तानामधिष्ठानं षाट्कौशिकशरीरमध्यवर्ति । तेन हि चित्तमासत्यलोकादाचावीचेस्तत्र तत्र शरीरे सञ्चरति । निष्कर्षश्चास्योपपन्नः षाट्कौशिकात्कायात् । तत्र हि तदन्तराभावस्तस्य नियतत्वात् । न चास्यापि सद्भावे प्रमाणमस्ति । न खल्वेतदध्यक्षगोचरः । न च संसारोऽस्यानुमानम् । आचार्यमतेनाप्युपपत्तेः । आगमस्तु पुरुषस्य निष्कर्षमाह । न च चित्तं वा सूक्ष्मशरीरं वा पुरुषः किन्तु चितिशक्तिरप्रतिसङ्क्रमा । न चास्या निष्कर्षः सम्भवतीत्यौपचारिको व्याख्येयः । तथाच चितेश्चित्तस्य च तत्र तत्र वृत्त्यभाव एव निष्कर्षार्थः । यच्च स्मृतीतिहासपुराणेषु मरणानन्तरं प्रेतशरीरप्राप्तिस्तद्विमोकश्च सपिण्डीकरणादिभिरित्युक्तं तदनुजानीमः । आतिवाहिकत्वं तस्य न मृष्यामहे । न चात्रास्ति कश्चिदागमः । लब्धशरीर एव च यमपुरुषैरपि पाशबद्धो नीयते । न त्वातिवाहिकशरीरः । तस्मादाहङ्कारिकत्वाच्चेतसोऽहङ्कारस्य च गगनमण्डलवत्त्रैलोक्यव्यापित्वाद्विभुत्वं मनसः । एवं चेदस्य वृत्तिरपि विम्वीति सर्वज्ञतापत्तिरित्यत उक्तं वृत्तिरेवास्येति । तच्च धर्मादिनिमित्तापेक्षम्। निमित्तं च द्विविधम् – बाह्यमाध्यात्मिकं च। शरीरादिसाधनापेक्षं बाह्यं स्तुतिदानाभिवादनादि, चित्तमात्राधीनं श्रद्धाद्याध्यात्मिकम्। तथा चोक्तम् – ये चैते मैत्र्यादयो ध्यायिनां विहारास्ते बाह्यसाधननिरनुग्रहात्मानः प्रकृष्टं धर्ममभिनिर्वर्तयन्ति। तयोर्मानसं बलीयः। कथं, ज्ञानवैराग्ये केनातिशय्येते, दण्डकारण्यं च चित्तबलव्यतिरेकेण शारीरेण कर्मणा शून्यं कः कर्तुमुत्सहेत समुद्रमगस्त्यवद्वा पिबेत् ॥ १० ॥ टीका तत्त्व-वैशारदी

स्यादेतत् । चित्तमात्राधीनाया वृत्तेः सङ्कोचविकासौ कुत कादाचित्कावित्यत आह - तच्च चित्तं धर्मादिनिमित्तापेक्षम् । वृत्तौ निमित्तं विभजते - निमित्तं चेति । आदिग्रहणेनेन्द्रियधनादयो गृह्यन्ते । श्रद्धादीत्यत्रापि वीर्यस्मृत्यादयो गृह्यन्ते । आन्तरत्वे सम्मतिमाचार्याणामाह - तथा चोक्तम् । विहारो व्यापारः । प्रकृष्टं शुक्लं, तयोर्बाह्याभ्यन्तरयोर्मध्ये । ज्ञानवैराग्ये तज्जनितो(तौ) धर्मः(र्मौ) केन बाह्यसाध्येन धर्भेणातिशय्येते अभिभूयेते । ज्ञानवैराग्यजावेव धर्मौ तमभिभवतः, बीजभावादपनयत इत्यर्थः । अत्रैव सुप्रसिद्धमुदाहरणमाह - दण्डकारण्यमिति ॥ १० ॥ पातञ्जल-रहस्यम्

मा न भूवमपि तु भूयासमित्याशीर्जातमात्रस्यादृष्यमानजन्मान्तरसम्बन्धम् आत्मना नित्यत्वं गमयन्ती तासां वासनानामपि नित्यत्वमाहेति सूत्रार्थः, पद्मादीति यदुक्तं तन्निराकरोति-नेति, अत्र लौकायतिकः शङ्कते-स्यादेतदिति, ”एक आत्मनः शरिरे भावादिति बादरायनसूत्रमाश्रित्याह-तदेव तु नास्तीति, एके चार्वाकाः शरिर एवात्मनो भावात् अहम्त्वाधिकरणत्वात् तदतिरिक्त आत्मा नास्तीति सूत्रार्थः, किन्च-अहं त्वं भौतिक भातिकमान्नवृत्तिधर्मत्वाद् घटादिवत् इत्यनुमानाच्च, स्वाभाविकं देहस्य जन्मादीत्याह-पद्मादिवद् भूतधर्मवत्त्वादिति भावः, ’नान्ती न चादिर्न च सम्प्रतिष्ठेति श्रुतिमाश्रित्यैतन्मतं सूत्रेण दूषयति –तासां स्वाभाविकत्वं नामौष्ण्यप्रकाशवन्निनिर्मित्तकतेत्याह-जातमत्रस्येति-उपावर्तत इत्यन्तेन, चित्तमित्यन्वयः, तच्चित्तं पटवत्, प्रदीपवद्वा सङ्कोचविकाशशालीति दिगम्बवरास्तान् दूषयति –वृत्तिरेवास्येति, प्रकृतेर्विभुत्वयोगादित्युक्तिमाश्रित्याह-विभुन इति, आहङ्कारिकत्वाज्जगन्मण्डलव्यापिन इत्यर्थः, तपः परमिहोच्यते तपो हि दुरतिक्रममिति मनूक्तिमाश्रित्याह –तयोरिति । तत्रैव कैमुतिकन्यायेनाह –दण्डकारण्यमिति भाष्यं, तदुरःसूत्रं मातुर्हारादिकमस्मिन्नर्थेऽनुमानद्वयमाह एतदुक्तमिति, आगामि प्रत्यवायं भविष्यदनिष्टं तस्योत्प्रेक्षा, तज्ज्ञानं दुःखस्मरणमात्रं चेद् ज्ञानिनोऽपि स्याद् अत उकतं यतो बिभेति व्याघ्रादेः तस्य प्रातिकूल्यं निश्चित्य, ततः किं तत्राह—न च बालेति, अतो वासनेवात्मास्तित्वं नासिद्धमित्याह –तस्मादिति, अस्मिन्नर्थेऽप्यनुमाह-तच्चैतदेवमिति, पद्मादेः सङ्कोचाविकाशावपि सवित्रुकिरणान्वयव्यतिरेकौ न स्वाभाविकावित्याह – न चेति स्थितिस्थापक इत्यन्तेन, मनसो स्थितिवहिरस्वातन्त्र्यमित्युक्तिमाश्रित्याह – देहादिति, मनोऽणुस्थितिन्निराह –न चैतदिति । शतपत्रवेधन्यायेनाह –न चाननुभूयेति, गौरवापत्तेरिति भावः, क्षेत्रबीजसम्योगशोणितशुक्रसंयोगसंसारोऽनुमानप्रमाणक इत्यर्थः, घटाकाशादिवद् वृत्तिलाभः तत्रेत्याचार्यमतं, न तु स्थूलशरीरातिरिक्तसूक्षमदेहे मानमस्तीत्याह-तथा चितेरीति ॥ १० ॥ हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः ॥ ११ ॥ हेतुर्धर्मात्सुखमधर्माद्दुःखं, सुखाद्रागो दुःखाद्द्वेषस्ततश्च प्रयत्नस्तेन मनसा वाचा कायेन वा परिस्पन्दमानः परमनुगृह्णात्युपहन्ति वा ततः पुनर्धर्माधर्मौ सुखदुःखे रागद्वेषाविति प्रवृत्तमिदं षडरं संसारचक्रम्। अस्य च प्रतिक्षणमावर्तमानस्याविद्या नेत्री मूलं सर्वक्लेशानामित्येष हेतुः। फलं तु यमाश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, न ह्यपूर्वोपजनः। मनस्तु साधिकारमाश्रयो वासनानाम्। न ह्यवसिताधिकारे मनसि निराश्रया वासनाः स्थातुमुत्सहन्ते। यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदालम्बनम्। एवं हेतुफलाश्रयालम्बनैरेतैः सङ्गृहीताः सर्वा वासनाः। एषामभावे तत्संश्रयाणामपि वासनानामभावः ॥ ११ ॥ टीका तत्त्व-वैशारदी

अथैताश्चित्तवृत्तयो वासनाश्चानादयश्चेत्कथमासामुच्छेदः । न खलु चितिशक्तिरनादिरुच्छिद्यत इत्यत आह - हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदन्त भावः । अनादेरपि समुच्छेदो दृष्टः । तद्यथाऽनागतत्वस्येति सव्यभिचारत्वादसाधनम् । चितिशक्तिस्तु विनाशकारणाभावान्न विनश्यति, न त्वनादित्वात् । उक्तं च वासनानामनादीनामपि समुच्छेदे कारणं सूत्रेणेति । अनुग्रहोपघातावपि धर्माधर्मादिनिमित्तमुपलक्षयतः । तेन सुरापानादयोऽपि सङ्गृहीता भवन्ति । नेत्री नाय्रिका । अत्रैव हेतुमाह - मूलमिति । प्रत्युत्पन्नता वर्तमानता न तु धर्मस्वरूपोत्पादः । अत्रैव हेतुमाह – न हीति । यदभिमुखीभूतं वस्तु कामिनीसम्पर्कादि । व्यापकाभावे व्याप्यस्याभाव इति सूत्रार्थः ॥ ११ ॥ पातञ्जल-रहस्यम्

चितेरनुच्छेदेऽपिवासनोच्छेदान्मुक्तिरित्याह-हेत्विति, धर्माधर्मौ रागद्वेषौ सुखदुःखे इति षडरा अविद्या, तदाह –प्रवृत्तमिदं षडरं संसारचक्रमिति, हेतुपदं व्याख्याय फलमाचष्टे-फलमिति, पुण्यो वै पुण्येन कर्मणा भवतीति श्रुतिमाश्रित्याह – नहीति, सर्वस्य शशविषाणादेरिवासतो नोपजनो जन्मेत्यर्थः, हेतुफले व्याख्याय कामः सङ्कल्पो विचिकित्साश्रद्धा धृतिरधृतिरेतत्सर्वं मन एवेति श्रुतिमाश्रित्याश्रयपदं व्याकरोति –मनस्त्विति, उपपत्तिमाह –न हीति, अवसिताधिकारे भोगजनक इत्यर्थः, उपसंहरति –एवमिति, हेत्वादिचातुर्भिः सङ्गृहीतो व्याप्तः, एषां चातुर्णां जनकानामभावे तदभावो वासनाऽभाव इति सूत्रार्थः ॥ ११ ॥ नास्त्यसतः सम्भवः, न चास्ति सतो विनाश इति द्रव्यत्वेन सम्भवन्त्यः कथं निवर्तिष्यन्ते वासना इति। अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ १२ ॥ भविष्यद्व्यक्तिकमनागतमनुभूतव्यक्तिकमतीतं स्वव्यापारोपारुढं वर्तमानं, त्रयं चैतद्वस्तु ज्ञानस्य ज्ञेयम्। यदि चैतत्स्वरूपतो नाभविष्यन्नेदं निर्विषयं ज्ञानमुदपत्स्यत। तस्मादतीतानागतं स्वरूपतोऽस्तीति। किञ्च भोगभागीयस्य वाऽपवर्गभागीयस्य वा कर्मणः फलमुत्पित्सु यदि निरुपाख्यमिति तदुद्देशेन तेन निमित्तेन कुशलानुष्ठानं न युज्येत। सतश्च फलस्य निमित्तं वर्तमानीकरणे समर्थं नापूर्वोपजनने। सिद्धं निमित्तं नैमित्तिकस्य विशेषानुग्रहणं कुरुते नापूर्वमुत्पादयतीति। टीका तत्त्व-वैशारदी

उत्तरसूत्रमवतारयितुं शङ्कते - नास्तीति । असत इति तु सम्पातायातं निदर्शनाय वा । अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् । नासतामुत्पादो न सतां विनाशः किन्तु सतामेव धर्माणामध्वभेदपरिणाम एवोदयव्ययाविति सूत्रार्थः । अनुभूता प्राप्ता येन व्यक्तिस्तत्तथा । सम्प्रति व्यक्तिर्नास्तीति यावत् । इतश्च त्रैकाल्येऽपि धर्मः सन्नित्याह - यदि चेति । न ह्यसञ्ज्ञानविषयः सम्भवतीति निरुपाख्यत्वाद्विषयावभासं हि विज्ञानं नासति विषये भवति । त्रैकाल्यविषयं च विज्ञानं योगिनामस्मदादीनां च विज्ञानमसति विषये नोत्पन्नं स्यात् । उत्पद्यते च । तस्मादतीतानागते सामान्यरूपेण समनुगते स्त इति । एवमनुभवतो ज्ञानं विषयसत्त्वे हेतुरुक्तम् । उद्देश्यत्वादप्यनागतस्य विषयत्वेन सत्त्वमेवेत्याह - किञ्च भोगभागीयस्येति । कुशलो निपुणः । अनुष्ठेयेऽपि च यद्यन्निमित्तं तत्सर्वं नैमित्तिके सत्येव विशेषमाधत्ते । यथा काण्डलाववेदाध्यायादयः । न खल्वेते काण्डलावादयोऽसन्तमुत्पादयन्ति । सत एव तु तत्प्राप्तिविकारौ कुर्वन्ति । एवं कुलालादयोऽपि सत एव धटस्य वर्तमानीभावहेतव इत्याह - सतश्चेति । धर्मी चानेकधर्मस्वभावस्तस्य चाध्वभेदेन धर्माः प्रत्यवस्थिताः। न च यथा वर्तमानं व्यक्तिविशेषापन्नं द्रव्यतोऽस्त्येवमतीतमनागतं च। कथं तर्हि, स्वेनैव व्यङ्ग्येन स्वरूपेणानागतमस्ति। स्वेन चानुभूतव्यक्तिकेन स्वरूपेणातीतमिति। वर्तमानस्यैवाध्वनः स्वरूपव्यक्तिरिति न सा भवत्यतीतानागतयोरध्वनोः। एकस्य चाध्वनः समये द्वावध्वानौ धर्मिसमन्वागतौ भवत एवेति नाभूत्वा भावस्त्रयाणामध्वनामिति ॥ १२ ॥ टीका तत्त्व-वैशारदी

यदि तु वर्तमानत्वाभावादतीतानागतयोरसत्त्वं हन्त भो वर्तमानस्याप्यभावोऽतीतानागतत्वाभावात् । अध्वविशिष्टतया तु सत्त्वं त्रयाणामप्यविशिष्टमित्यभिप्रायेणाऽऽह - धर्मी चेति । प्रत्येकमवस्थानं प्रत्यवस्थितिरिति । द्रव्यत इति द्रव्ये धर्मिणि सार्वविभक्तिकस्तसिः । यद्यतीतानागतावतीतानागतत्वे न स्तस्तर्हि वर्तमानसभये तत्त्वाभावान्न स्यातामित्यत आह - एकस्य चेति । प्रकृतमुपसंहरति - इति नाभूत्वा भाव इति ॥ १२ ॥ पातञ्जल-रहस्यम्

अर्थेनैव विशेषो हि निराकारतया धिया – मित्युक्तेः ज्ञानं व निर्विषयं चेति दुर्घटमिति,

तेषां विषयान् सूत्रारूढान् करोति, - अतीतेति, पदकृत्यमाह – भविष्यदिति, ज्ञानज्ञेययोरविनाभावमाह - फलमिति, कार्ये हि कारणाधीनं तन्निरूपाख्यं गगनकमलिनीकल्पं चेदभ्रान्तानामनुष्ठानं क्रिया कुतस्तेत्यर्थः, निमित्तं यदि धर्मी, नापूर्वमुत्पद्यतेऽसतोनरविषाणादेरुपजनप्रसक्तेः, एतदेवाह – निमित्तमिति, सति धर्मिणि धर्मचिन्तेति न्ययादाह - धर्मी चेति, यदि क्षणिकं वार्तमानिकं सर्वं तदा तद्भेदाभावः प्राप्त इत्याह - तस्य चेति, इष्तापत्ति धुनीते – न सेति, इत्युपसंहारे नाभावो विद्यते सत इति स्मृतेः ॥ १२ ॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥ ते खल्वमी त्र्यध्वानो धर्मा वर्तमाना व्यक्तात्मानोऽतीतानागताः सूक्ष्मात्मानः षड्विशेषरूपाः। सर्वमिदं गुणानां सन्निवेशविशेषमात्रमिति परमार्थतो गुणात्मानः। तथा च शास्त्रानुशासनम् – गुणानां परमं रूपं न दृष्टिपथमृच्छति। यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम् ॥ इति ॥ १३ ॥ टीका तत्त्व-वैशारदी

स्यादेतत् । अयं तु नानाप्रकारो धर्मिधर्मावस्थापरिणामरूपो विश्वभेदप्रपञ्चो न प्रधानादेकस्माद्भवितुमर्हति । न ह्यविलक्षणात्कारणात्कार्यभेदसम्भव इत्यत आह - ते व्यक्तसूक्ष्मा गुणात्मानः । ते त्र्यध्वानो धर्मा व्यक्ताश्च सूक्ष्माश्च गुणात्मानो न त्रैगुण्यातिरिक्तमेषामस्ति कारणम् । वैचित्र्यं तु तदाहितानादिक्लेशवासनानुगताद्वैचित्र्यात् ।

यथोक्तं वायुपुराणे –

“वैश्वरूप्यात्प्रधानस्य परिणामोऽयमद्भुतः” इति ।

व्यक्तानां पृथिव्यादीनामेकादशेन्द्रियाणां च वर्तमानानामतीतानागतत्वं षड्विशेषा यथायोगं भवन्ति । सम्प्रति विश्वस्य नित्यानित्यरूपे विभजन्नित्यरूपमाह - सर्वमिदमिति । दृश्यमानं सन्निवेशः संस्थानभेदवान्परिणाम इत्यर्थः । अत्रैव षष्टितन्त्रशास्त्रस्यानुशिष्टिः । मायेव न तु माया । सुतुच्छकं विनाशि । यथा हि मायाऽह्रायैवान्यथा भवति एवं विकारा अप्याविर्भावतिरोभावधर्माणः प्रतिक्षणमन्यथा । प्रकृतिर्नित्यतया मायाविधर्मिणी परमार्थेति ॥ १३ ॥ पातञ्जल-रहस्यम्

यथा वारिदमुक्तमुदकं सहकारिभेदान्ननारसं तथा प्रधानमिति सूत्रारूढं कुर्वन्नाह – ते व्यक्तेति, गुणानां सन्निवेशः साम्यावस्था प्रधानं तस्य विशेषो भेदमातरं बीजस्याङकुरादीत्यर्थे सम्मतिमाह – न दृष्टिपथमृच्छति, न साक्षात्; यदपि तत्कार्यं साक्षात्कृतं तदपि मरीच्युदकवदलीकमित्याह – सुतुच्छकमिति, षष्टितन्त्रस्य सान्ख्यशास्त्रस्य, मायेव न तु मायेत्यते न लक्षणपरिणामित्वं दर्शितम् एतदेवाह – यथेति, एवं विश्वस्याकृयाकारित्वेन मायातो वैलक्षण्यमाह – मायविधर्मेणेति ॥ १३ ॥ यदा तु सर्वे गुणाः कथमेकः शब्द एकमिन्द्रियमिति – परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४ ॥ प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणात्मकानां करणभावेनैकः परिणामः श्रोत्रमिन्द्रियं, ग्राह्यात्मकानां शब्दतन्मात्रभावेनैकः परिणामः शब्दो विषय इति, शब्दादीनां मूर्तिसमानजातीयानामेकः परिणामः पृथिवीपरमाणुस्तन्मात्रावयवस्तेषां चैकः परिणामः पृथिवी गौर्वृक्षः पर्वत इत्येवमादिर्भूतान्तरेष्वपि स्नेहौष्ण्यप्रणामित्वावकाशदानान्युपादाय सामान्यमेकविकारारम्भः समाधेयः। टीका तत्त्व-वैशारदी

भवतु त्रैगुण्यस्येत्थं परिणामवैचित्र्यमेकस्तु परिणामः पृथिवीति वा तोयमिति वा कुत आत्मन एकत्वविरोधादित्याशङ्क्य सूत्रमवतारयति - यदा तु सर्वे गुणा इति । परिणामैकत्वाद्वस्तुतत्त्वम् । बहूनामप्येकः परिणामो दृष्टः । तद्यथा - गवाश्वमहिषमातङ्गानां रुमानिक्षिप्तानामेको लवणत्वजातीयलक्षणः परिणामो वर्तितैलानलानां च प्रदीप इति । एवं बहुत्वेऽपि गुणानां परिणामैकत्वं, ततस्तन्मात्रभूतभौतिकानां प्रत्येकं तत्त्वमेकत्वम् । ग्रहणात्मकानां सत्त्वप्रधानतया प्रकाशात्मनामहं - कारावान्तरकार्याणां करणभावेनैकः परिणामः श्रोत्रमिन्द्रियम् । तेषामेव गुणानां तमःप्रधानतया जडत्वेन ग्राह्यात्मकानां शब्दतन्मात्रभावेनैकः परिणामः शब्दो विषयः । शब्द इति शब्दतन्मात्रम् । विषय इति जडत्वमाह न तु तन्मात्रस्य श्रोत्रविषयत्वसम्भव इति । शेषं सुगमम् । नास्त्यर्थो विज्ञानविसहचरः, अस्ति तु ज्ञानमर्थविसहचरं स्वप्नादौ कल्पितमित्यनया दिशा ये वस्तुस्वरूपमपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमं न परमार्थतोऽस्तीति य आहुस्ते तथेति प्रत्युपस्थितमिदं स्वमाहात्म्येन वस्तु कथमप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तुस्वरूपमुत्सृज्य तदेवापलपन्तः श्रद्धेयवचनाः स्युः ॥ १४ ॥ टीका तत्त्व-वैशारदी

अथ विज्ञानवादिनं वैनाशिकमुत्थापयति - नास्त्यर्थो विज्ञानविसहचर इति । यदि हि भूतभौतिकानि विज्ञानमात्राद्भिन्नानि भवेयुस्ततस्तदुत्पत्तिकारणमीदृशं प्रधानं कल्प्येत, न तु तानि विज्ञानातिरिक्तानि सन्ति परमार्थतः । तत्कथं प्रधानकल्पनं कथं च ग्रहणानामिन्द्रियाणामहङ्कारविकाराणां कल्पनेति । तथाहि - जडस्यार्थस्य स्वयमप्रकाशत्वान्नास्त्यर्थो विज्ञानविसहचरः । साहचर्यं सम्बन्धः । तदभावो विसहचरत्वम् । विरभावार्थः । विज्ञानासम्बन्धो नास्ति व्यवहारयोग्य इत्यर्थः । अस्ति तु ज्ञानमर्थविसहचरं तस्य स्वयम्प्रकाशत्वेन स्वगोचरास्तिताव्यवहारे कर्तव्ये जडमर्थं प्रत्यपेक्षाभावात् । तदनेन वेद्यत्वसहोपलम्भनियमौ सूचितौ विज्ञानवादिना । तौ चैवं प्रयोगमारोहतः - यद्वेद्यते येन वेदनेन तत्ततो न भिद्यते । यथा ज्ञानस्याऽऽत्मा । वेद्यन्ते च भूतभौतिकानीति विरुद्धव्याप्तोपलब्धिर्निषेध्यभेदविरुद्धेनाभेदेन व्याप्तं वेद्यत्वं दृश्यमानं स्वव्यापकमभेदमुपस्थापयत्तद्विरुद्धं भेदं प्रतिक्षिपतीति । तथा यद्येन नियतसहोपलम्भं तत्ततो न भिद्यते । यथैकस्माच्चन्द्राद्वितीयश्चन्द्रः । नियतसहोपलम्भश्चार्थो ज्ञानेनेति व्यापकविरुद्धोपलब्धिः । निषेध्यभेदव्यापकानियमविरुद्धो नियमोऽनियमं निवर्तयस्तद्व्याप्तं भेदं प्रतिक्षिपतीति । स्यादेतत् । अर्थश्चेन्न भिन्नो ज्ञानात्कथं भिन्नवत्प्रतिभासत इत्यत आह - कल्पितमिति ।

यथाऽऽहुर्वैनाशिकाः –

सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैदृश्य इन्दाविवाद्वये ॥ इति ॥

कल्पितत्वं विशदयति - ज्ञानपरिकल्पनेति । निराकरोति - त इति । ते कथं श्रद्धेयवचनाः स्युरिति सम्बन्धः । प्रतिज्ञानमुपस्थितं प्रत्युपस्थितम् । कथम् - तथेति । यथा यथाऽवभासत इदङ्कारास्पदत्वेन तथा तथा स्वयमुपस्थितं न तु कल्पनोपकल्पितं विज्ञानविषयतापन्नम् । स्वमाहात्म्येनेति विज्ञानकारणत्वमर्थस्य दर्शयति । यस्मादर्थेन स्वकीयया ग्राह्यशक्त्या विज्ञानमजनि तस्मादर्थस्य ग्राहकं तदेवंऽभूतं वस्तु कथमप्रमाणात्मकेन विकल्पविज्ञानबलेन विकल्पस्याप्रामाणिकत्वात्तद्बलस्यापि तदात्मनोऽप्र- माणात्मकत्वं, तेन वस्तुस्वरूपमुत्सृज्योपप्लुतं कृत्वा । उपगृह्येति क्वचित्पाठः । तत्रापि स एवार्थः । तदेवापलपन्तः श्रद्धातव्यवचनाः स्युरिति । इदमत्राऽऽकूतम् - सहोपलम्भनियमश्च वेद्यत्वं च हेतू सन्दिग्धव्यतिरेकतया नैकान्तिकौ । तथाहि - ज्ञानाकारस्य भूतभौतिकादेर्यदेतद्बाह्यत्वं स्थूलत्वं च भासेते न ते ज्ञाने सम्भवतः । तथाहि नानादेशव्यापिता स्थौल्यं विच्छिन्नदेशता च बाह्यत्वम् । न चैकविज्ञानस्य नानादेश व्यापिताविच्छिन्नदेशता चोपपद्यते । तद्देशत्वातद्देशत्वलक्षणविरुद्धधर्मसंसर्गस्यैकत्रासम्भवात्सम्भवे वा त्रैलोक्यस्यैकत्वप्रसङ्गात् । अत एवास्तु विज्ञानभेद इति चेत् । हन्त भोः परमसूक्ष्मगोचराणां प्रत्ययानां परस्परवार्तानभिज्ञानां स्वगोचरमात्रजागुरुकाणां कुतस्त्योऽयं स्थूलावभासः । न च विकल्पगोचरोऽभिलापः संसर्गाभावाद्विशदप्रतिभासत्वाच्च । न च स्थूलमालोचितं यतस्तदुपाधिकस्य विशदता भवेत्तत्पृष्ठभाविनः । न चाविकल्पवद्विकल्पोऽपि स्वाकारमात्रगोचरस्तस्य चास्थूलत्वान्न स्थूलगोचरो भवितुमर्हति । तस्माद्बाह्ये च प्रत्यये स्थूलस्य बाह्यस्य चासम्भवादलीकमेतदास्थातव्यम् । न चालीकं विज्ञानादभिन्नं विज्ञानस्य तद्वतुच्छत्वप्रसङ्गात् । तथा च वेद्यत्वस्याभेदव्याप्यत्वाभावात्कुतो भेदप्रतिपक्षत्वम् । सहोपलम्भनियमश्च सदसतोरिव विज्ञानस्थौल्ययोः सतोरपि स्वभावाद्वा कुतश्चित्प्रतिबन्धाद्वोपपत्स्यते । तस्मादनैकान्तिकत्वादेतौ हेत्वाभासौ विकल्पमात्रमेव बाह्याभावे प्रसुवाते । न च प्रत्यक्षमाहात्म्यं विकल्पमात्रेणापोद्यते । तस्मात्साधूक्तं कथमप्रमाणात्मकेन विकल्पज्ञानबलेनेति । एतेन प्रत्ययत्वमपि स्वप्नादिप्रत्ययदृष्टान्तेन निरालम्बनत्वसाधनमपास्तम् । प्रमेयविकल्पस्त्ववयविव्यवस्थापनेन प्रत्युक्तः । विस्तरस्तु न्यायकणिकायामनुसरणीय इति तदिह कृतं विस्तरेणेति ॥ १४ ॥ पातञ्जल-रहस्यम्

न हि तृणसूत्रकपालानामेककार्यं दृष्टमपि तु त्रितयं तद्वद् गुनानामेकं कार्यं कथं स्यादित्याशन्क्य सूत्रेण समाधत्ते-परिनामैकत्वाद्वस्तुतत्त्वमिति, रुमा लवणभूमिस्तत्र क्षिप्तानां गवादोनां विजातीयानामेकजातीयो लवणरसः, एवं प्रकाशादिगुणत्रयाणां ग्रहनात्मनेन्द्रियेण श्रोत्रं ग्राह्यात्मना विषयरूपेण शब्दः रजोऽत्र प्रवृत्तिहेतुः, एवं गन्धादितन्मात्रपञ्चकस्य भूमिरेकं कार्यम्, एवमन्यत्रोदाहरणीम्,

सहोपलम्भनियमादभेदो नीलतद्धियो – रित्युक्तेः-

सर्वे प्रत्यया निरालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवदित्यादितर्माकर्दाय बौद्धः, शङ्कते-नास्त्यर्थो विज्ञानविसहचरः विज्ञानातिरिक्तः, अनया दिशा प्रकारेण, क्षनमात्रवर्तिनां प्रत्ययानां परस्य वार्ताऽनभिज्ञत्वेन संवादकाभावात् सोऽयमिति प्रत्यभिज्ञाऽनुपपत्तिरित्याह-हन्तेत्यादि-अर्हतीत्यन्तेन, स्थौल्यं नाम बहुदेशव्यापित्वं जलाहरणादिसामर्थ्यं वा तत्राद्यं दुर्घटं बहुदेशग्राहकाणि यानि विज्ञानानि क्षणिकत्वेन तेषामयुगपदनुपस्थितेः, कथं बहुत्वं नाम सङ्ख्याविशेषः तस्य व्यासज्यवृत्तित्वात् शक्यभावः, स्वयमसिद्धत्वात्, कथं बहुदेशव्यापित्वग्रहः , द्वितीयस्त्वनुपपन्नः-आदौ घट इति धीस्तत्र तदिष्टसाधनताधीस्ततो जलाहरणे प्रवृत्तिरिति क्रमवर्तिनामेकस्थाय्यभावे कथं सिद्धिरिति, उपसंहरति –तस्मादिति, किञ्चालीकविषयादभिन्नविज्ञानं कथमलीकं न स्यादित्याह-न चालीकमिति, पूर्वं वेद्यं वनसेनाऽऽदिदृष्टान्तेन साधितमित्याह –प्रमेयेति ॥ १४ ॥ कुतश्चैतदन्याय्यम् – वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ १५ ॥ बहुचित्तालम्बनीभूतमेकं वस्तु साधारणं, तत्खलु नैकचित्तपरिकल्पितं नाप्यनेकचित्तपरिकल्पितं किन्तु स्वप्रतिष्ठम्। कथं, वस्तुसाम्ये चित्तभेदात्। धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि सखज्ञानं भवत्यधर्मापेक्षं तत एव दुःखज्ञानमविद्यापेक्षं तत एव मूढज्ञानं सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानमिति। कस्य तच्चित्तेन परिकल्पितम्। न चान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः। तस्माद्वस्तुज्ञानयोर्ग्राह्यग्रहणभेदभिन्नयोर्विभक्तः पन्थाः। नानयोः सङ्करगन्धोऽप्यस्तीति। टीका तत्त्व-वैशारदी

तदेवमुत्सूत्रं भाष्यकृद्विज्ञानातिरिक्तस्थापने युक्तिमुक्त्वा सौत्रीं युक्तिमवतारयति - कृतश्चैतदिति । वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः । यन्नानात्वे यस्यैकत्वं तत्ततोऽत्यन्तं भिद्यते । यथा चैत्रस्य ज्ञानमेकं भिन्नेभ्यो देवदत्तविष्णुमित्रमैत्रप्रत्ययेभ्यो भिद्यते । ज्ञाननानात्वेऽपि चार्थो न भिद्यत इति भवति विज्ञानेभ्योऽन्यः । अभेदश्चार्थस्य ज्ञानभेदेऽपि प्रमातॄणां परस्परप्रतिसन्धानादवसीयते । अस्ति हि रक्तद्विष्टविमूढमध्यस्थानामेकस्यां योषिति प्रतीयमानायां प्रतिसन्धानं या त्वया दृश्यते सैव मयाऽपीति । तस्माद्वस्तुसाम्ये चित्तभेदाज्ज्ञानभेदात्तयोरर्थज्ञानयोर्विभक्तः पन्थाः स्वरूपभेदोपायः । सुखज्ञानं कान्तायां कान्तस्य, सपत्नीनां दुःखज्ञानं चैत्रस्य तु तामविन्दतो मूढज्ञानं विषादः । स्यादेतत् । य एकस्य चित्तेन परिकल्पितः कामिनीलक्षणोऽर्थस्तेनैवान्येषामपि चित्तमुपरज्यत इति साधारणमुपपद्यत इत्यत आह - न चान्येति । तथा सत्येकस्मिन्नीलज्ञानवति सर्व एव नीलज्ञानवन्तः स्युरिति । साङ्ख्यपक्षे पुनर्वस्तु त्रिगुणं चलं च गुणवृत्तमिति धर्मादिनिमित्तापेक्षं चित्तैरभिसम्बध्यते। निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनाऽऽत्मना हेतुर्भवति। केचिदाहुः – ज्ञानसहभूरेवार्थो भोग्यत्वात्सुखादिवदिति। त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु वस्तुरूपमेवापह्नुवते ॥ १५ ॥ टीका तत्त्व-वैशारदी

नन्वर्थवादिनामप्येकोऽर्थः कथं सुखादिभेदभिन्नविज्ञानहेतुः । न ह्यविलक्षणात्कारणात्कार्यभेदो युक्त इत्यत आह - साङ्ख्यपक्ष इति । एकस्यैव बाह्यस्य वस्तुनस्त्रैगुण्यपरिणामस्य त्रैरूप्यमुपपन्नम् । एवमपि सर्वेषामविशेषेण सुखदुःखमोहात्मकं विज्ञानं स्यादित्यत आह - धर्मादिनिमित्तापेक्षं रजःसहितं सत्त्वं धर्मापेक्षं सुखज्ञानं जनयति । सत्त्वमेव तु विगलितरजस्कं विद्यापेक्षं माध्यस्थ्यज्ञानमिति । ते च धर्मादयो न सर्वे सर्वत्र पुरुषे सन्ति किन्तु कश्चित्क्वचिदित्युपपन्ना व्यवस्थेति । अत्र केचिदाहुः प्रावादुका ज्ञानसहभूरेवार्थो भोग्यत्वात्सुखादिवदिति । एतदुक्तं भवति - भवत्वर्थो ज्ञानाद्व्यतिरिक्तस्तथाऽप्यसौ जडत्वान्न ज्ञानमन्तरेण शक्यः प्रतिपत्तुम् । ज्ञानेन तु भासनीयः । तथाच ज्ञानसमय एवास्ति नान्यदा प्रमाणाभावादिति । तदेतदुत्सूत्रं तावद्दूषयति भाष्यकारः – त एतया द्वारेति । वस्तु खलु सर्वचित्तसाधारणमनेकक्षणपरम्परोह्यमानं परिणामात्मकमनुभूयते लौकिकपरीक्षकैः । तच्चेद्विज्ञानेन सह भवेन्नूनमेवंविधमेवं चेदिदमशस्योपरि कोऽयमनुरोधो येन सोऽपि नापह्नूयेतेत्यर्थः ॥ १५ ॥ पातञ्जल-रहस्यम्

वस्तुसाम्य इति, वस्तुत्वाधिकरणे स्त्रीपिण्डे स्थायिनि सेयं कमनीयेति प्रत्यभिज्ञासिद्धेश्चित्तभेदो ज्ञानभेदो दृश्यते धर्मापेक्षं सुखज्ञानं भर्तुस्तत एवाधर्मापेक्षा दुःखधीः सपत्नीनां तस्मादेव तामलभमानस्य कामुकस्य मोहः सम्यक्ज्ञानापेक्षस्तत्रैव साम्यज्ञानमिति ; तायोरर्थज्ञानयोः स्थायित्वात् स्थायिधर्मिणोर्ग्राह्यग्रहणात्मा विभक्तः पन्था इति न ज्ञानस्वरूपोऽर्थो नाप्यर्थ स्वरूपं ज्ञानमिति सूत्रार्थः, साङ्ख्यमतेऽपि ग्राह्यग्रहणयोर्भेद इत्याह –साङ्ख्यपक्ष इति, अनुमानेनाभेदं साधयन्तो निरस्या इति ॥ १५ ॥ न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ १६ ॥ एकचित्ततन्त्रं चेद्वस्तु स्यात्तदा चित्ते व्यग्रे निरुद्धे वाऽस्वरूपमेव तेनापरामृष्टमन्यस्याविषयीभूतमप्रमाणकमगृहीतस्वभावकं केनचित्तदानीं किं तत्स्यात्। सम्बध्यमानं च पुनश्चित्तेन कुत उत्पद्येत। ये चास्यानुपस्थिताभागास्ते चास्यन स्युरेवं नास्ति पृष्ठमित्युदरमपि न गृह्येत। तस्मात्स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते। तयोः सम्बन्धादुपलब्धिः पुरुषस्य भोग इति ॥ १६ ॥ टीका तत्त्व-वैशारदी

मा वा भूदिदमंशस्यापह्नवो ज्ञानसहभूरेवास्त्वर्थस्तत्राप्याह - न चैकचित्ततन्त्रं वस्तु तदप्रमाणक तदा किं स्यात् । यद्धि घटग्राहि चित्तं तद्यदा पटद्रव्यव्यग्रतया न घटे वर्तते । यद्वा विवेकविषयमासीत्तदेव च निरोधं समापद्यते तदा घटज्ञानस्य वा विवेकज्ञानस्य वाऽभावाद्विवेको वा घटो वा ज्ञानभेदमात्रजीवनस्तन्नाशान्नष्ट एव स्यादित्याह - एकचित्तेति । किं तत्स्यान्न स्यादित्यर्थः । सम्बध्यमानं च चित्तेन तद्वस्तुविवेको वा घटो वा कुत उत्पद्यत । नियतकारणान्वयव्यतिरेकानुविधायिभावानि हि कार्याणि न स्वकारणमतिवर्त्य कारणान्तराद्भवितुमीशते । मा भूदकारणत्वे तेषां कादाचित्कत्वव्याघातः । न च तज्ज्ञानकारणत्वमेव तत्कारणत्वमिति युक्तम् । आशामोदकस्य मोदकस्य चोपयुज्यमानस्य रसवीर्यविपाकादिसाम्यप्रसङ्गात् । तस्मात्सादुक्तं सम्बध्यमानं वा (च) पुनश्चित्तेनेति । अपि च यो योऽर्वाग्भागः स सर्वो मध्यपरभागव्याप्तः । ज्ञानाधीने सद्भावे त्वस्याननुभूयमानत्वान्मध्यपरभागौ न स्त इति व्यापकाभावादर्वाग्भागोऽपि न स्यादित्यर्थाभावात्कुतो ज्ञानसहभूरर्थ इत्याह - ये चास्येति । अनुपस्थिता अज्ञाताः । उपसंहरति - तस्मादिति । सुगमं शेषम् ॥ १६ ॥ पातञ्जल-रहस्यम्

ननु प्रतियोगित्वानुयोगित्ववत् ज्ञानस्यम्षोऽर्थो नातिरिक्त इत्याशङ्क्य सूत्रेण समाधत्ते न चैकचित्तेति, एकचित्ततन्त्रमेकस्य ज्ञानस्यंशः तत्प्रमानकं तदेकग्राह्यं तदा किं स्याद् ज्ञानोत्पत्तिसामग्र्यभावात् तन्नास्त्येवेति सूत्रार्थः, तथा हि –तच्चित्ते तद्ग्राहिणि व्यग्रे विषयान्तरग्राहके तस्य पूर्वस्यांशस्य सिद्धिः कुतस्त्या ? अन्यज्ञातव्यांशज्ञानात्तस्य व्यग्रत्वान्नापि परकीयात् तेनाविषयीकृतत्वादित्याह –अन्याविषयीभूत इत्यादि – केनाचिदित्यन्तेन, एवं तदंशस्योत्पत्तिसामग्र्यभावाच्च न सिद्धिरित्याह-सम्बध्यमानं चेति, पूर्वोक्तं दूषणं स्मारयति –ये चास्येति, ज्ञानार्थयोः विभक्तः पन्था इत्युक्तमुपसंहरति –तस्मादिति ॥ १६ ॥ तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७ ॥ अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तमभिसम्बन्ध्योपरञ्जयन्ति। येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातस्ततोऽन्यः पुनरज्ञातः। वस्तुनो ज्ञाताज्ञातस्वरूपत्वात्परिणामि चित्तम् ॥ १७ ॥ टीका तत्त्व-वैशारदी

स्यादेतदर्थश्चेत्स्वतन्त्रः, स च जडस्वभाव इति न कदाचित्प्रकाशेत । प्रकाशने वा जडत्वमप्यस्यापगतमिति भावोऽप्यपगच्छेत् । न जातु स्वभावमपहाय भावो वर्तितुमर्हति । न चेन्द्रियाद्याधेयो जडस्वभावस्यार्थस्य धर्मः प्रकाशत इति साम्प्रतम् । अर्थधर्मत्वे नीलत्वादिवत्सर्वपुरुषसाधारण इत्येकः शास्त्रार्थ इति सर्व एव विद्वांसः प्रसज्जेरन्न जाल्मः कश्चिदस्ति । न चातीतानागतयोर्धर्मः प्रत्युत्पन्नो युक्तः । तस्मात्स्वतन्त्रोऽर्थ उपलम्भविषय इति मनोरथमात्रमेतदित्यत आह - तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् । जडस्वभावोऽप्यर्थ इन्द्रियप्रणाडिकया चित्तमुपरञ्जयति । तदेवम्भूतं चित्तदर्पणमुपसङ्क्रान्तप्रतिबिम्बा चितिशक्तिश्चित्तमर्थोपरक्तं चेतयमानार्थमनुभवति, न त्वर्थे किञ्चित्प्राकट्यादिकमाधत्ते । नाप्यसम्बद्धा चित्तेन तत्प्रतिबिम्बसङ्क्रान्तेरुक्तत्वादिति । यद्यपि च सर्वगतत्वाच्चित्तस्य चेन्द्रियस्य चाऽऽहङ्कारिकस्य विषये नास्ति सम्बन्धस्तथाऽपि यत्र शरीरे वृत्तिमच्चित्तं तेन सह सम्बन्धो विषयाणामित्ययस्कान्तमणिकल्पा इत्युक्तम् । अयःसधर्मकं चित्तमिति । इन्द्रियप्रणाडिकयाऽभिसम्बन्ध्योपरञ्जयन्ति । अत एव चित्तं परिणामीत्याह - वस्तुन इति ॥ १७ ॥ पातञ्जल-रहस्यम्

इतोऽपि ज्ञानार्थयोर्भेद इत्याह –तदुपरागेति, अयस्कान्तमणिकल्पैर्विषयैरुपरागात् संयोगात्संयुक्तादात्म्याद्वा लोहकल्पस्य चित्तस्य विषयो ज्ञातस्तादृशसम्बन्धाभावादज्ञात इत्यनुभवसिद्धमिति सूत्रार्थः, एतदेवाह –अयस्कान्तेत्यादि –चित्तमित्यन्तेन ॥ १७ ॥ यस्य तु तदेव चित्तं विषयस्तस्य – सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १८ ॥ यदि चित्तवत्प्रभुरपि पुरुषः परिणमेत्ततस्तद्विषयाश्चित्तवृत्तयः शब्दादिविषयवज्ज्ञाताज्ञाताः स्युः। सदाज्ञातत्वं तु मनसस्तत्प्रभोः पुरुषस्यापरिणामित्वमनुमापयति ॥ १८ ॥ टीका तत्त्व-वैशारदी

तदेवं चित्तव्यतिरेकिणमर्थमवस्थाप्य तेभ्यः परिणतिधर्मकेभ्यो व्यतिरिक्तमात्मानमादर्शयितुं तद्वैधर्म्यमपरिणामित्वमस्य वक्तुं पूरयित्वा सूत्रं पठति - यस्य तु तदेव चित्तं विषयस्तस्य - सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् । क्षिप्तमूढविक्षिप्तैकाग्रतावस्थितं चित्तमानिरोधात्सर्वदा पुरुषेणानुभूयते वृत्तिमत्तत्कस्य हेतोर्यतः पुरुषोऽपरिणामी परिणामित्वे चित्तवत्पुरुषोऽपि ज्ञाताज्ञातविषयो भवेत् । ज्ञातविषय एव त्वयम् । तस्मादपरिणामी । ततश्च परिणामिभ्योऽतिरिच्यत इति । तदेतदाह - यदि चित्तवदिति । सदा ज्ञातत्वं तु मनसः सवृत्तिकस्य तस्य यः प्रभुः स्वामी भोक्तेति यावत् । तस्य प्रभोः पुरुषस्यापरिणामित्वमनुमापयति । तथा चापरिणामिनस्तस्य पुरुषस्य परिणामिनश्चित्ताद्भेद इति भावः ॥ १८ ॥ पातञ्जल-रहस्यम्

चित्तविषययोरभेदं दूषयित्वा चित्तात्मनोर्भेदमाह –सदा ज्ञाता इति, पुमान् यदा परिणामी स्यात् तदा विषयत्वाद् चित्तमपि ज्ञाताज्ञातं स्याद् –नैवं दृश्यते ; इतः सततञ्ज्ञानत्वात् तत् कुतः –तस्य चित्तस्य प्रकाशकत्वात् पुरुषस्यापरिणामित्वादिति सूत्रार्थः, एतदेव भाष्यकारो दृढयति-यदीत्यादिना, प्रभुपदं व्याकरोति –भोक्तेति । फलितमाह –तथा चेति ॥ १८ ॥ स्यादाशङ्का चित्तमेव स्वाभासं विषयाभासं च भविष्यतीत्यग्निवत् – न तत्स्वाभासं दृश्यत्वात् ॥ १९ ॥ यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान्न स्वाभासानि तथा मनोऽपि प्रत्येतव्यम्। टीका तत्त्व-वैशारदी

अत्र वैनाशिकमुत्थापयति - स्यादाशङ्केति । अयमर्थः - स्यदेतदेवं यदि चित्तमात्मनो विषयः स्यात्, अपि तु स्वप्रकाशमेतद्विषयाभासं पूर्वचित्तं प्रतीत्य समुत्पन्नं तत्कुतः पुरुषस्य सदाज्ञातविषयत्वं कुतस्तरां वाऽपरिणामितया परिणामिनश्चित्ताद्भेद इति । न तत्स्वाभासं दृश्यत्वात् । भवेदेतदेवं यदि स्वसंवेदनं चित्तं स्यान्न त्वेतदस्ति । तद्धि परिणामितया नीलादिवदनुभवव्याप्यं यच्चानुभवव्याप्यं न तत्स्वाभासं भवितुमर्हति स्वात्मनि वृत्तिविरोधात् । न हि तदेव क्रिया च कर्मकारकं च । नहि पाकः पच्यते । छिदा वा छिद्यते । पुरुषस्त्वपरिणामी नानुभवकर्मेति नास्मिन्स्वयम्प्रकाशता न युज्यते । अपराधीनप्रकाशता ह्यस्य स्वयम्प्रकाशता नानुभवकर्मता । तस्माद्दृश्यत्वाद्दर्शनकर्म चित्तं न स्वाभासम् । आत्मप्रकाशप्रतिबिम्बतयैव चित्तस्य तद्वृत्तिविषयाः प्रकाशन्त इति भावः । न चाग्निरत्र दृष्टान्तः। न ह्यग्निरात्मस्वरूपमप्रकाशं प्रकाशयति। प्रकाशश्चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः। न च स्वरूपमात्रेऽस्ति संयोगः। किं च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः। तद्यथा स्वात्मप्रतिष्ठमाकाशं न परप्रतिष्ठमित्यर्थः। स्वबुद्धिप्रचारप्रतिसंवेदनात्सत्त्वानां प्रवृत्तिर्दृश्यते – क्रुद्धोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति। एतत्स्वबुद्धेरग्रहणे न युक्तमिति ॥ १९ ॥ टीका तत्त्व-वैशारदी

ननु दृश्योऽग्निः स्वयम्प्रकाशश्च । नहि यथा घटादयोऽग्निना व्यज्यन्त एवमग्निरग्न्यन्तरेणेत्यत आह - न चाग्निरत्रेति । कस्मात् । नहीति । मा नामाग्निरग्न्यन्तरात्प्रकाशिष्ट विज्ञानात्तु प्रकाशत इति न स्वयं प्रकाशत इति न व्यभिचार इत्यर्थः । प्रकाशश्चायमिति । अयमिति पुरुषस्वभावात्प्रकाशाद्व्यवच्छिनत्ति, क्रियारूपः प्रकाश इति यावत् । एतदुक्तं भवति - या या क्रिया सा सा सर्वा कर्तृकरणकर्मसम्बन्धेन दृष्टा । यथा पाको दृष्टश्चैत्राग्नितण्डुलसम्बन्धेन यथा वा प्रकाशनम् । तथा च प्रकाशोऽपि क्रियेति तयाऽपि तथा भवितव्यम् । सम्बन्धश्च भेदाश्रयो नाभेदे सम्भवतीत्यर्थः । किं च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः । स्यादेतत् । मा भूद्ग्राह्यं चित्तम् । न हि ग्रहणस्याकारणस्याव्यापकस्य च निवृत्तौ चित्तनिवृत्तिरित्यत आह - स्वबुद्धीति । बुद्धिश्चित्तं, प्रचारा व्यापाराः, सत्त्वाः प्राणिनः, चित्तस्य वृत्तिभेदाः क्रोधलोभादयः स्वाश्रयेण चित्तेन स्वविषयेण च सह प्रत्यात्ममनुभूयमानाश्चित्तस्याग्राह्यतां विघटयन्तीत्यर्थः । स्वबुद्धिप्रचारप्रतिसंवेदनमेव विशदयति - क्रुद्धोऽहमिति ॥ १९ ॥ पातञ्जल-रहस्यम्

यत्तु स्वप्रकाशं चित्तं तद्भासकं च शक्त्यात्मनेति तद् निराकुर्वन सूत्रमाह – न तत्स्वाभासन्दृश्यत्वात्, तच्चित्तं न स्वाभासं स्वग्राहकं घटादिवद् दृश्यत्वात् जडत्वेन वेद्यत्वानुभवादिति सूत्रार्थः, अग्नेः प्रकाश्यत्वप्रकाशकत्ववदयं व्यवहार स्यादित्याह-प्रकाशश्चायमिति । किञ्च प्राणिनामेवं व्यवहारो दृश्यते क्रुद्धोऽहमिति, क्रोधेन चित्तधर्मेण सह चित्तस्यानुभाविनी तथाऽपरिणामिनी चितिरित्याह – एतदिति ॥ १९ ॥ एकसमये चोभयानवधारणम् ॥ २० ॥ न चैकस्मिन्क्षणे स्वपररूपावधारणं युक्तं, क्षणिकवादिनो यद्भवनं सैव क्रिया तदेव च कारकमित्यभ्युपगमः ॥ २० ॥ टीका तत्त्व-वैशारदी

एकसमये चोभयानवधारणम् । स्वाभासं विषयाभासं चित्तमिति ब्रुवाणो न तावद्येनैव व्यापारेणाऽऽत्मानमवधारयति तेनैव विषयमपीति वक्तुमर्हति । न ह्यविलक्षणो व्यापारः कार्यभेदाय पर्याप्तस्तस्माद्व्यापारभेदोऽङ्गीकर्तव्यः । न च वैनाशिकानामुत्पत्तिभेदातिरिक्तोऽस्ति व्यापारः । न चैकस्या एवोत्पत्तेरविलक्षणायाः कार्यवैलक्षण्यसम्भवः । तस्याऽऽकस्मिकत्वप्रसङ्गात् । न चैकस्योत्पत्तिद्वयसम्भवः । तस्मादर्थस्य च ज्ञानरूपस्य चावधारणं नैकस्मिन्समय इति । तदेतद्भाष्येणोच्यते - न चैकस्मिन्क्षण इति । तथाचोक्तं वैनाशिकैः –

“भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते” इति ।

तस्माद्दृश्यत्वमेतच्चित्तस्य सदातनं स्वाभासत्वमपनयद्रष्टारं च द्रष्टुरपरिणामित्वं च दर्शयतीति सिद्धम् ॥ २० ॥ पातञ्जल-रहस्यम्

अशक्यानुष्ठानं चेत्याह सूत्रकृत् - एकसमये चोभयानवथारणं स्वोत्तरक्षनावर्तित्वं क्षणिकत्वं तस्मिन्नेव प्रकाशक्रियामेकां प्रति दृश्यत्वेन प्रधानं कर्म प्राकाशकश्च कर्ता गुणभूत इति प्रकाशक्रिया च भेदगर्भेति कथमेकस्मिन्क्षणे कर्तृकर्मणोर्भिन्नयोरवधारणमित्याक्षेप इति सूत्रार्थः, भेदस्वीकारो त्वपसिद्धान्त इत्याह –

‘भूतिर्येषा क्रिया सैव कारकं सैव चोच्यते इति भेदास्वीकारात्तथा सति स्वस्मिन् वृत्तिविरोध इति भावः ॥ २० ॥ स्यान्मतिः स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति – चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ २१ ॥ अथ चित्तं चेच्चित्तान्तरेण गृह्येत बुद्धिबुद्धिः केन गृह्यते, साऽप्यन्यया साऽप्यन्ययेत्यतिप्रसङ्गः। स्मृतिसङ्करश्च, यावन्तो बुद्धिबुद्धीनामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्ति। तत्सङ्कराच्चैकस्मृत्यनवधारणं च स्यादित्येवं बुद्धिप्रतिसंवेदिनं पुरुषमपलपद्भिर्वैनाशिकैः सर्वमेवाऽऽकुलीकृतम्। ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन सङ्गच्छन्ते। केचित्तु सत्त्वमात्रमपि परिकल्प्यास्ति स सत्त्वो य एतान्पञ्च स्कन्धान्निक्षिप्यान्यांश्च प्रतिसन्दधातीत्युक्त्वा तत एव पुनस्त्रस्यन्ति। तथा स्कन्धानां महन्निर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरिष्यामीत्युक्त्वा सत्त्वस्य पुनः सत्त्वमेवापह्नुवते। साङ्ख्ययोगादयस्तु प्रवादाः स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमुपयन्तीति ॥ २१ ॥ टीका तत्त्व-वैशारदी

पुनर्वैनाशिकमुत्थापयति - स्यान्मतिः । मा भूद्दृश्यत्वेन स्वसंवेदनम् । एवमप्यात्मा न सिध्यति । स्वसन्तानवर्तिना चरमचित्तक्षणेन स्वरसनिरुद्धस्वजनकचित्तक्षणग्रहणादित्यर्थः । समं च तज्ज्ञानत्वेनानन्तरं चाव्यवहितत्वेन समनन्तरं तेन । चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च । बुद्धिरिति चित्तमित्यर्थः । नागृहीता चरमा बुद्धिः पूर्वबुद्धिग्रहणसमर्था । नहि बुद्ध्याऽसम्बद्धा पूर्वबुद्धिर्बुद्धा भवितुमर्हति । न ह्यगृहीतदण्डो दण्डिनमवगन्तुमर्हति । तस्मादनवस्थेति । विज्ञानवेदनासञ्ज्ञारूपसंस्काराः स्कन्धाः । साङ्ख्ययोगादयः प्रवादाः साङ्ख्याश्च योगाश्च त एवाऽऽदयो येषां वैशेषिकादिप्रवादानां ते साङ्ख्ययोगादयः प्रवादा । सुगममन्यत् ॥ २१ ॥ पातञ्जल-रहस्यम्

आत्माश्रयादिदोषेण स्वग्राह्यत्वं निराकृत्यान्यग्राह्यत्वं निराह – चित्तान्तरेण स्वग्राह्यत्व आत्माश्रयता चित्तान्तरग्राह्यत्वेऽन्योन्याश्रयता तृतीयग्राह्यत्वे चक्रकता चतुर्थेऽनवस्थेतयादि, अतिप्रसङ्ग इति, किञ्चास्थायिनः स्मर्तुरभावाद् बुद्धीनाम् परस्परग्राहकत्वे बुद्धिरनुभवः तज्जन्मा संस्कारस्तज्जन्मा स्मृतिरिति नान्यदृष्टं स्मरत्यन्य इति न्यायाद्योऽहमद्राक्षं सोऽहं स्मरामीति यदेकाश्रयत्वधीः सा न स्यादित्याह – स्मृतिसङ्करः स्यादिति, रूपं विज्ञानं सञ्ज्ञा संस्कारो वेदना चेति बौद्धाः मन्यन्ते स्कन्धपञ्चकमित्युक्तिस्तेषामित्याह - स्कन्धानिति ॥ २१ ॥ कथम् – चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ २२ ॥ अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङ्क्रमा च परिणामिन्यर्थे प्रतिसङ्क्रान्तेव तद्वृत्तिमनुपतति। तस्याश्च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तेरनुकारिमात्रतया वुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिराख्यायते। तथा चोक्तम् – न पातालं न च विवरं गिरीणां नैवान्धकारं कुक्षयो नोदधीनाम्। गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिमविशिष्टां कवयो वेदयन्ते ॥ इति ॥ २२ ॥ टीका तत्त्व-वैशारदी

स्यादेतत् । यदि चित्तं न स्वाभासं नापि चित्तान्तरवेद्यमात्मनाऽपि कथं भोक्ष्यते चित्तम् । न खल्वात्मनः स्वयम्प्रकाशस्याप्यस्ति काचित्क्रिया । न च तामन्तरेण कर्ता न चासम्बद्धश्चित्तेन कर्मणा तस्य भोक्ताऽतिप्रसङ्गादित्याशयवान्पृच्छति कथमिति । सूत्रेणोत्तरमाह - चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् । यत्तदवोचद्वृत्तिसारूप्यमितरत्रेति तदितः समुत्थितम् । चितेः स्वबुद्धिसंवदेन बुद्धेस्तदाकारापत्तौ चितिप्रतिबिम्बाधारतया तद्रूपतापत्तौ सत्याम् । यथा हि चन्द्रमसः क्रियामन्तरेणापि सङ्क्रान्तचन्द्रप्रतिबिम्बममलं जलमचलं चलमिवाऽऽलवालमरालमिव चन्द्रमसमवभासयति एवं विनाऽपि चितिव्यापारमुपसङ्क्रान्तचितिप्रतिबिम्बं चित्तं स्वगतया क्रियया क्रियावतीमसङ्गतामपि सङ्गतां चितिशक्तिमवभासयद्भोग्यभावमासादयद्भोक्तृभावमापादयति तस्या इति सूत्रार्थः । भाष्यमप्येतदर्थमसकृत्तत्र तत्र व्याख्यातमिति न व्याख्यातमत्र । बुद्धिवृत्त्यविशिष्टत्वे ज्ञानवृत्तेरागममुदाहरति - तथा चोक्तं - न पातालमिति । शाश्वतस्य शिवस्य ब्रह्मणो विशुद्धस्वभावस्य चितिच्छायापन्नां मनोवृत्तिमेव चितिच्छायापन्नत्वाच्चितेरप्यवशिष्टां गुहां वेदयन्ते । तस्यामेव गुहायां तद्गुह्यं ब्रह्म तदपनये तु स्वयम्प्रकाशमनावरणमनुपसर्गं प्रद्योतते चरमदेहस्य भगवत इति ॥ २२ ॥ पातञ्जल-रहस्यम्

अतश्चित्तातिरिक्तात्माऽस्तीति सूत्रारूढं करोति – चित्तेरीति । व्युत्थानदशायां बुद्धिसारूप्यमुक्तं तदेवाह – स्वबुद्धिसंवेदनमिति । बुद्धेश्चित्तस्य चिति प्रतिबिम्बाधारतया स्फटिकस्य जपालौहित्याग्राहितावत् पुरुषाकारापत्तौ स्वार्थक्रिया चितिश्च सङ्क्रमक्रियावतीति सूत्रार्थं, गुहाऽऽहितङ्गह्वरेष्ठं पुराणमिति श्रुतिमाश्रित्याह - न पातालमित्यादि, पातालादिचतुर्भिः स्थूलैरविशिष्टा विलक्षणवृत्तिमती बुद्धेरेव गुहेति ॥ २२ ॥ अतश्चैतदभ्युपगम्यते – द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥ मनो हि मन्तव्येनार्थेनोपरक्तं, तत्स्वयं च विषयत्वाद्विषयिणा पुरुषेणाऽऽत्मीयया वृत्त्याऽभिसम्बद्धं, तदेतच्चित्तमेव द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते। टीका तत्त्व-वैशारदी

तदेवं दृश्यत्वेन चित्तस्य परिणामिनस्तदतिरिक्तः पुमानपरिणतिधर्मोपपादितः सम्प्रति लोकप्रत्यक्षमप्यत्र प्रमाणयति - अतश्चैतदिति । अवश्यं चैतदित्यर्थः । द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् । यथा हि नीलाद्यनुरक्तं चित्तं नीलाद्यर्थं प्रत्यक्षेणैवावस्थापयति एवं द्रष्टृच्छायापत्त्या तदनुरक्तं चित्तं द्रष्टारमपि प्रत्यक्षेणावस्थापयति । अस्ति हि त्र्याकारं ज्ञानं नीलमहं सम्प्रत्येमीति । तस्माज्ज्ञेयवत्तज्ज्ञाताऽपि प्रत्यक्षसिद्धोऽपि न विविच्यावस्थापितो यथा जले चन्द्रमसो बिम्बम् । न त्वेतावता तदप्रत्यक्षम् न चास्य जलगतत्वे तदप्रमाणमिति चन्द्ररूपेऽप्यप्रमाणं भवितुमर्हति । तस्माच्चित्तप्रतिबिम्बतया चैतन्यगोचराऽपि चित्तवृत्तिर्न चैतन्यागोचरेति । तदिदं सर्वार्थत्वं चित्तस्येति । तदेत दाह - मनो हीति । न केवलं तदाकारापत्त्या मन्तव्येनार्थेनोपरक्तं मनोऽपि तु स्वयं चेति । चकारो भिन्नक्रमः पुरुषेणेत्यस्यानन्तरं द्रष्टव्यः तच्छायापत्तिः पुरुषस्य वृत्ति । तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः। अपरे चित्तमात्रमेवेदं सर्वं नास्ति खल्वयं गवादिर्घटादिश्च सकारणो लोक इति। अनुकम्पनीयास्ते। कस्मात्, अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति। समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतस्तस्याऽऽलम्बनीभूतत्वादन्यः। स चेदर्थश्चित्तमात्रं स्यात्कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत। तस्मात्प्रतिबिम्बीभूतोऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति। एवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात्त्रयमप्येतज्जातितः प्रविभजन्ते ते सम्यग्दर्शिनस्तैरधिगतः पुरुषः ॥ २३ ॥ टीका तत्त्व-वैशारदी

इयं च चैतन्यच्छायापत्तिश्चित्तस्य वैनाशिकैरभ्युपेतव्या । कथमन्यथा चित्ते चैतन्यमेत आरोपयाम्बभूवुरित्याह - तदनेनेति । केचिद्वैनाशिका बाह्यार्थवादिनः । अपरे विज्ञानमात्रवादिनः । ननु यदि चित्तमेव द्रष्ट्राकारं दृश्याकारं चानभूयते हन्त चित्तादभिन्नावेवाऽऽस्तां द्रष्टृदृश्यौ । यथाऽऽहुः –

अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति ।

तत्कथमेतेऽनुकम्पनीया इत्यत आह - समाधिप्रज्ञायामिति । ते खलूक्ताभिरूपपत्तिभिश्चित्तातिरिक्तं पुरुषमभ्युपगम्याप्यष्टाङ्गयोगोपदेशेन समाधिप्रज्ञायामात्मगोचरायामवतार्य बोधयितव्याः । तद्यथा - समाधिप्रज्ञायां प्रज्ञेयोऽर्थ आत्मा प्रतिबिम्बीभूतोऽन्यः कस्मात्तस्याऽऽत्मन आलम्बनीभूतत्वात् । अथ चित्तादभिन्नमेव कस्मान्नाऽऽलम्बनं भवतीति यदि युक्तिबोधितोऽपि वैयात्याद्वदेत्तत्र हेतुमाह – स चेदात्मरूपोऽर्थश्चित्तमात्रं स्यान्न तु ततो व्यतिरिक्तस्ततः कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत स्वात्मनि वृत्तिविरोधात् । उपसंहरति - तस्मादिति । समीचीनोपदेशेनानुकम्पिता भवन्तीत्याह - एवमिति । जातितः स्वभावत इत्यर्थः ॥ २३ ॥ पातञ्जल-रहस्यम्

“इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिरेतत्क्षेत्रज्ञ” इति भगवद्वाक्यमाश्रित्याह सूत्रकृत् - द्रष्ट्रिति । सर्वार्थमेव सर्वेषां नास्तिकानामात्मभ्रान्तत्वे हेतुरिति तात्पर्यार्थः सूत्रस्येति, दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः, इति श्रुतिमाश्रित्याह - समाधिप्रज्ञायां प्रज्ञेयोऽर्थ इति ॥ २३ ॥ कुतश्च – तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ २४ ॥ तदेतच्चित्तमसङ्ख्येयाभिर्वासनाभिरेव चित्रीकृतमपि परार्थं परस्य भोगापवर्गार्थं न स्वार्थं संहत्यकारित्वाद्गृहवत्। संहत्यकारिणा चित्तेन न स्वार्थेन भवितव्यं, न सुखचित्तं सुखार्थं न ज्ञानं ज्ञानार्थमुभयमप्येतत्परार्थम्। यश्च भोगेनापवर्गेण चार्थेनार्थवान्पुरुषः स एव परो न परः सामान्यमात्रम्। यत्तु किञ्चित्परं सामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकस्तत्सर्वं संहत्यकारित्वात्परार्थमेव स्यात्। यस्त्वसौ परो विशेषः स न संहत्यकारी पुरुष इति ॥ २४ ॥ टीका तत्त्व-वैशारदी

चित्तातिरिक्तात्मसद्भावे हेत्वन्तरमवतारयति - कुतश्चेति । तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् । यद्यप्यसङ्ख्येयाः कर्मवासनाः क्लेशवासनाश्च चित्तमेवाधिशेरते नतु पुरुषम् । तथा च वासनाधीना विपाकाश्चित्ताश्रयतया चित्तस्य भोक्तृतामावहन्ति, भोक्तुरर्थे च भोग्यमिति सर्वं चित्तार्थं प्राप्तं, तथाऽपि तच्चित्तमसङ्ख्येवासनाविचित्रमपि परार्थम् । कस्मात् । संहत्यकारित्वादिति सूत्रार्थः । व्याचष्टे - तदेतदिति । स्यादेतच्चित्तं संहत्यापि करिष्यति स्वार्थं च भविष्यति कः खलु विरोध इति यदि कश्चिद्ब्रूयात्तं प्रत्याह - संहत्यकारिणेति । सुखचित्तमिति भोगमुपलक्षयति । तेन दुःखचित्तमपि द्रष्टव्यम् । ज्ञानमित्यपवर्ग उक्तः । एतदुक्तं भवति - सुखदुःखे चित्ते प्रतिकूलानुकूलात्मके नाऽऽत्मनि सम्भवतः । स्वात्मनि वृत्तिविरोधात् । न चान्योऽपि संहत्यकारी साक्षात्परम्परया वा सुखदुःखे विदधानस्ताभ्यामनुकूलनीयः प्रतिकूलनीयो वा । तस्माद्यः साक्षात्परम्परया वा न सुखदुःखयोर्व्याप्रियते स एवाऽऽभ्यामनुकूलनीयः प्रतिकूलनीयो वा । स च नित्योदासीनः पुरुष एवमपवृज्यते येन ज्ञानेन तस्यापि ज्ञेयतन्त्रत्वात्स्वात्मनि च वृत्तिविरोधान्न ज्ञानार्थत्वम् । न बाह्यविषयादस्मादपवर्गसम्भवो विदेहप्रकृतिलयानामपवर्गासम्भवात् । तस्मात्तज्ज्ञानमपि पुरुषार्थमेव न तत्स्वार्थं नापि परमात्रार्थम् । संहतपरार्थत्वे चानवस्थाप्रसङ्गादसंहतपरार्थसिद्धिरिति ॥ २४ ॥ पातञ्जल-रहस्यम्

‘स वेत्ति वेद्यं न च तस्यास्ति वेत्ता’ ‘विज्ञातारमारे केन विजानीयाद्’ आत्मनस्तुकामाय सर्वेप्रियं भवती’ तिश्रुतीराश्रित्यातिरिक्तमात्मानं सूत्रारूढं करोति – तदिति, सर्वात्मकमपि चित्तपरार्थं न क्व चिदपि स्वार्थं जडत्वं न संहतत्वात् शयनासनादिवदिति सूत्रार्थः, न परः सामान्यमात्रं दृश्य इत्यर्थः, तथात्वे सृष्टेरपुरुषार्थताप्रसङ्गः, न हि सुक्षितो नटवटुः स्वस्कन्धमारोदुं शकोतीति न्यायेन –

रूपै सप्तभिरेवं बध्नात्यात्मानमात्मनाप्रकृतिः । सैव च पुरुषार्थं प्रति विमोचयत्येकरूपेण — त्युक्तिमाश्रित्याह –सर्वात्कृष्टस्यापि ज्ञानस्य परार्थत्वं किमन्येशामित्यादि – परार्थसिद्धि - रित्यन्तेनोक्तं ॥ २४ ॥ विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ २५ ॥ यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्ताऽनुमीयते तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्राप्यस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिर्वर्तितमित्यनुमीयते। तस्याऽऽत्मभावभावना स्वाभाविकी प्रवर्तते। यस्याभावादिदमुक्तं स्वभावं मुक्त्वा दोषाद्येषां पूर्वपक्षे रुचिर्भवत्यरुचिश्च निर्णये भवति। तत्राऽऽत्मभावभावना कोऽहमासं कथमहमासं किंस्विदिदं कथंस्विदिदं के भविष्यामः कथं वा भविष्याम इति। सा तु विशेषदर्शिनो निवर्तते। कुतः। चित्तस्यैवैष विचित्रः परिणामः, पुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इति। ततोऽस्याऽऽत्मभावभावना कुशलस्य निवर्तत इति ॥ २५ ॥ टीका तत्त्व-वैशारदी

तदेवं कैवल्यमूलबीजं युक्तिमयमात्मदर्शनमुक्त्वा तदुपदेशाधिकृतं पुरुषमनधिकृतपुरुषान्तराद्व्यावृत्तमाह - विशेषदर्शिन आत्मभावभावनानिवृत्तिः । यस्याऽऽत्मभावे भावनाऽस्ति तस्याष्टाङ्गयोगोपदेशादनुतिष्ठतो युञ्जानस्य तत्परिपाकाच्चित्तसत्त्वपुरुषयोर्विशेषदर्शनादात्मभावभावना निवर्तते । यस्याऽऽत्मभावभावनैव नास्ति नास्तिकस्य तस्योपदेशानधिकृतस्यापरिनिश्चितात्मतत्परलोकभावस्य नोपदेशो न विशेषदर्शनं नाऽऽत्मभावभावनानिवृत्तिरिति सूत्रार्थः । नन्वात्मभावभावनायाश्चित्तवर्तिन्याः कुतोऽवगम इत्यत आह - यथा प्रावृषीति । प्राग्भवीयं तत्त्वदर्शनबीजमपवर्गभागीय यत्कर्माष्टाङ्गयोगानुष्ठानं तदेकदेशानुष्ठानं वा तदभिनिर्वर्तितमस्तीत्यनुमीयते । तस्य चाऽऽत्मभावभावनाऽवश्यमेव स्वाभाविकी वस्त्वभ्यासं विनाऽपि प्रवर्तते । अनधिकारिणमागमिनां वचनेन दर्शयति - यस्याभावादिदमिति । पूर्वपक्षो नास्ति कर्मफलं परलोकिनोऽभावात्परलोकाभाव इति, तत्र रुचिररुचिश्च निर्णये पञ्चविंशतितत्त्वविषये । आत्मभावभावना प्राग्व्याख्याता । विशेषदर्शिनः परामर्शमाह - चित्तस्यैवेति । तस्य विशेषदर्शनकुशलस्याऽऽत्मभावभावना निवर्तत इति ॥ २५ ॥ पातञ्जल-रहस्यम्

‘देवोऽहं राजा चाहं सर्वोस्मीति मन्यते सोस्य परमो लोक’ इति श्रुतिमाश्रित्य पुरुषधौरयं सूत्रारूढं करोति – विशेषदर्शिन इति । आत्म्भावे भावना निवर्तत इति सूत्रार्थः, “यत्करोषि यदश्नासि यज्जुहोषी”त्युक्तम् कर्मार्पणं कैवल्यभागीयं कर्म यस्य विशेष-दशन्नबीजं तादृशहर्षादिना तामेतस्यानुमापयति, निर्गुणश्व न लिप्यते पापकर्मणा पापकेनेति श्रुतिमाश्रित्याह – पुरूषस्त्विति ॥ २५ ॥ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६ ॥ तदानीं यदस्य चित्तं विषयप्राग्भारमज्ञाननिम्नमासीत्तदस्यान्यथा भवति कैवल्यप्राग्भारं विवेकजज्ञाननिम्नमिति ॥ २६ ॥ टीका तत्त्व-वैशारदी

अथ विशेषदर्शिनः कीदृशं चित्तमित्यत आह - तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् । निगदव्याख्यातम् ॥ २६ ॥ पातञ्जल-रहस्यम्

“यदा सर्वे प्रमुच्यन्ते कामा ह्यस्य हृदि स्थिता इति श्रुतिमाश्रित्याह – तदेति । कैवल्यस्य मोक्षस्य प्राग्भारोजनकत्ता यत्र चिते विवेकसाक्षात्कारप्रवलतेति सूत्रार्थः ॥ २६ ॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७ ॥ प्रत्ययविवेकनिम्नस्य सत्त्वपुरुषान्यताख्यातिमात्रप्रवाहिणश्चित्तस्य तच्छिद्रेषु प्रत्ययान्तराण्यस्मीति वा ममेति वा जानामीति वा न जानामीति वा। कुतः, क्षीयमाणबीजेभ्यः पूर्वसंस्कारेभ्य इति ॥ २७ ॥ टीका तत्त्व-वैशारदी

स्यादेतद्विशेषदर्शनं चेद्विवेकनिष्ठं, न जातु चित्तं व्युत्थितं स्यात् । दृश्यते चास्य भिक्षामटतो व्युत्थितमित्यत आह - तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः । प्रत्ययेति । प्रतीयते येन स प्रत्ययश्चित्तसत्त्वं तस्माद्विवेकश्चितेः । तेन निम्नस्य जानामीति साक्षान्मोक्षो विविच्य दर्शितो न जानामीति मोहस्तन्मूलावहङ्कारममकारावहमस्मीति वा ममेति वा दर्शितौ । क्षीयमाणानि च तानि बीजानि चेति समासः । पूर्वसंस्कारेभ्यो व्युत्थानसंस्कारेभ्यः ॥ २७ ॥ पातञ्जल-रहस्यम्

वीतरागस्य व्यासादेः विचित्रवीर्यक्षेत्रे पुत्रोत्पादनादेः का गतिस्तत्राह –तच्चिद्रेश्विति, संस्कारो नान्यथा भवेदिति न्यायेन यानि प्रत्ययान्तराणि तानि पूर्वव्युत्थानसंस्कारेभ्यो जायन्ते न तु समाधेः परमवैराग्यादिति सूत्रार्थः ॥ २७ ॥ हानमेषां क्लेशवदुक्तम् ॥ २८ ॥ यथा क्लेशा दग्धबीजभावा न प्ररोहसमर्था भवन्ति तथा ज्ञानाग्निना दग्धबीजभावः पूर्वसंस्कारो न प्रत्ययप्रसूर्भवति। ज्ञानसंस्कारास्तु चित्ताधिकारसमाप्तिमनुशेरत इति न चिन्त्यन्ते ॥ २८ ॥ टीका तत्त्व-वैशारदी

स्यादेतत्सत्यपि विवेकविज्ञाने व्युत्थानसंस्कारा यदि प्रत्ययान्तराणि प्रसुवते कस्तर्हि हानहेतुरेतेषां यतः प्रत्ययान्तराणि न पुनः प्रसुवीरन्नित्यत आह - हानमेषां क्लेशवदुक्तम् । अपरिपक्वविवेकज्ञानस्याक्षीयमाणा व्युत्थानसंस्काराः प्रत्ययान्तरं प्रसुवते न तु परिपक्वविवेकज्ञानस्य क्षणाः प्रत्ययान्तराणि प्रसोतुमर्हन्ति । यथा विवेकच्छिद्रसमुत्पन्ना अपि क्लेशा न संस्कारान्तरं प्रसुवते तत्कस्य हेतोस्तदेते क्लेशा विवेकज्ञानवह्निदग्धबीजभावा इति । एवं व्युत्थानसंस्कारा अपीति । अथ व्युत्थानसंस्कारा विवेकज्ञानसंस्कारैर्निरोद्धव्या विवेकसंस्काराश्च निरोधसंस्कारैर्निरोधसंस्काराणां त्वबाह्यविषयत्वं दर्शितं निरोधोपायः प्रायश्चिन्तनयि इत्यत आह - ज्ञानसंस्कारास्त्विति । परवैराग्यसंस्कारा इत्यर्थः ॥ २८ ॥ पातञ्जल-रहस्यम्

“प्रसरं न लभन्ते स्म यावत् क्व चन मर्कटाः । नाभिद्रवन्ति ते तावत्विरोघा वा स्वगोचर - इति न्यायेन प्रसरनिरोघार्थमुपायं सूत्रारूदं करोति – हानमेषां क्लेशवदुक्तम्, यथा दग्धबीजभावा धाना न रोहन्ति प्रतिपक्षभावनया तथा ज्ञानाग्निदग्धबीजभावाः संस्कारा अपीति सूत्रार्थः ॥ २८ ॥ प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥ २९ ॥ यदाऽयं ब्राह्मणः प्रसङ्ख्यानेऽप्यकुसीदस्ततोऽपि न किञ्चित्प्रार्थयते। तत्रापि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्कारबीजक्षयान्नास्प प्रत्ययान्तराण्युत्पद्यन्ते। तदाऽस्य धर्ममेघो नाम समाधिर्भवति ॥ २९ ॥ टीका तत्त्व-वैशारदी

तदेवं सूत्रकारो व्युत्थाननिरोधोपायप्रंसख्यानमुक्त्वा प्रसङ्ख्याननिरोधोपायमाह - प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः । ततः प्रसङ्ख्यानान्न किञ्चित्सर्वभावाधिष्ठातृत्वादि प्रार्थयते । प्रत्युत तत्रापि क्लिश्नाति परिणामित्वदोषदऽनेन विरक्तः सर्वथा विवेकख्यातिरेव भवति । एतदेव विवृणोति - तत्रापीति । यदा व्युत्थानप्रत्यया भवेयुस्तदा नायं ब्राह्मणः सर्वथा विवेकख्यातिर्यतस्तस्य न प्रत्ययान्तराणि भवन्ति ततः सर्वथा विवेकख्यातिरिति । तदाऽस्य धर्ममेधः समाधिर्भवति । एतदुक्तं भवति - प्रसङ्ख्याने विरक्तस्तन्निरोधमिच्छन्धर्ममेघं समाधिमुपासीत । तदुपासने च सर्वथा विवेकख्यातिर्भवति । तथा च तं निरोद्धुं पारयतीति ॥ २९ ॥ पातञ्जल-रहस्यम्

दग्धबीजता कुतस्तत्राह – प्रसङ्ख्यान इति, कुसीदं लब्यमुच्यते प्रसङ्ख्यानं तत्त्वज्ञानाभ्यासः तस्माध्यध्यधिकफलं न प्रार्थयते यः कुसीदलाभेऽपि विरक्तस्तस्यानवरतज्ञानं ततो धर्ममेघः समाधिः परवैराग्यं स्यात् तथा व्युत्थानसंस्कारक्षयात् प्रत्ययान्तराणि नोत्पद्यन्ते किन्तर्हि ज्ञानमेव सुदृढमिति शेषः ॥ २९ ॥ ततः क्लेशकर्मनिवृत्तिः ॥ ३० ॥ तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति। कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति।क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान्विमुक्तो भवति। कस्मात्, यस्माद्विपर्ययो भवस्य कारणम्। न हि क्षीणविपर्ययः कश्चित्केनचित्क्वचिज्जातो दृश्यत इति ॥ ३० ॥ टीका तत्त्व-वैशारदी

तस्य च प्रयोजनमाह – ततः क्लेशकर्मनिवृत्तिः । कस्मात्पुनर्जीवन्नेव विद्वान्विमुक्तो भवति । उत्तरं – यस्मादिति । क्लेशकर्मवासनेद्धः किल जात्यादिनिदानम् । न चासति निदाने निदानी भवितुमर्हति । यथाऽऽहात्र भगवानक्षपादः - वीतरागजन्मादर्शनादिति ॥ ३० ॥ पातञ्जल-रहस्यम्

“क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावर -

इति श्रुतिमाश्रित्याह – तत इति सूत्रं, कुशलाकुशलाः पुण्यपापा इति ॥ ३० ॥ तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम् ॥ ३१ ॥ सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्याऽऽनन्त्यं भवति। आवरकेण तमसाऽभिभूतमावृतमनन्तं ज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्धाटितं ग्रहणसमर्थं भवति। तत्र यदा सर्वैरावरणमलैरपगतं भवति तदा भवत्यस्याऽऽनन्त्यम्। ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पं सम्पद्यते। यथाऽऽकाशे खद्योतः। यत्रेदयुक्तम् – अन्धो मणिमविध्यत्तमनङ्गुलिरावयत्। अग्रीवस्तं प्रत्यमुञ्चत्तमजिह्वोऽभ्यपूजयत् ॥ इति ॥ ३१ ॥ टीका तत्त्व-वैशारदी

अथैवं धर्ममेघे सति कीदृशं चित्तमित्यत आह - तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम् । आव्रियते चित्तसत्त्वमेभिरित्यावरणानि मलाः क्लेशकर्माणि सर्वे च त आवरणमलाश्चेति सर्वावरणमलास्तेभ्योऽपेतस्य चित्तसत्त्वस्य ज्ञानस्य ज्ञायतेऽनेनेत्यनया व्युत्पत्त्याऽऽनन्त्यादपरिमेयत्वाज्ज्ञेयमल्पम् । यथा हि शरदि घनपटलमुक्तस्य चण्डार्चिषः परितः प्रद्योतमानस्य प्रकाशानन्त्यात्प्रकाश्या घटादयोऽल्पाः प्रकाशन्ते, एवमपगतरजस्तमसश्चित्तसत्त्वस्य प्रकाशानन्त्यादल्पं प्रकाश्यमिति । तदेतदाह - सर्वैरिति । एतदेव व्यतिरेकमुखेन स्फोटयति - आवरकेण तमसाऽभिभूरतमिति । क्रियाशीलेन रजसा प्रवर्तितमत एवोद्धाटितं प्रदेशादपनीतं तम इत्यर्थः । अत एव सर्वान्धर्माञ्ज्ञेयान्मेघति वर्षति प्रकाशनेनेति धर्ममेघ इत्युच्यते । नन्वयमस्तु धर्ममेघः समाधिः सवासनक्लेशकर्माशयप्रशमहेतुः । अथ सत्यप्यस्मिन्कस्मान्न जायते पुनर्जन्तुरित्यत आह - यत्रेदमुक्तमिति । कारणसमुच्छेदादपि चेत्कार्यं क्रियते हन्त भो मणिवेधादयोऽन्धादिभ्यो भवेयुः प्रत्यक्षाः । तथा चानुपपन्नार्थतायामाभाणको लौकिक उपपन्नार्थः स्यात् - अविध्यदन्धो मणिमिति । आवयद्ग्रथितवान् । प्रत्यमुञ्चत्पिनद्धवानभ्यपूजयत्स्तुत वानिति ॥ ३१ ॥ पातञ्जल-रहस्यम्

जीवनन्मुक्तस्य चित्तं व्याचिकिर्षुः तत् सूत्रारूढं करोति – तदेति , ज्ञातस्य चित्तस्य स्वतो – जगन्मण्डलव्यापिनः सर्वेऽनन्ता इति श्रुतेरपेतावरणे विद्यत इव सर्वावभासकस्य ज्ञेयमल्पम्,

“आश्चर्यवत् पश्यति कश्चिदेतमाश्चर्यवद्वदति, तथैव चान्य – इतिस्मृतिमाश्रित्याह – अन्धो मणिमविध्यदिति, मणिं सरन्ध्रं कृत्वानित्यर्थः­ ॥ ३१ ॥ ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ३२ ॥ तस्य धर्ममेघस्योदयात्कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते। न हि कृतभोगापवर्गाः परिसमाप्तक्रमाः क्षणमप्यवस्थातुमुत्सहन्ते ॥ ३२ ॥ टीका तत्त्व-वैशारदी

ननु धर्ममेघस्य पराकाष्ठा ज्ञानप्रसादमात्रं परं वैराग्यं समूलघातमपहन्तु व्युत्थानसमाधिसंस्कारान्सक्लेशकर्माशयान्गुणास्तु स्वत एव विकारकरणशीलाः कस्मात्तादृशमपि पुरुषं प्रति देहेन्द्रियादीन्नाऽऽरभन्त इत्यत आह - ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् । शीलमिदं गुणानां यदमी यं प्रति कृतार्थास्तं प्रति न प्रवर्तन्त इति भावः ॥ ३२ ॥ पातञ्जल-रहस्यम्

कृतयावत्कर्तव्यस्य नावशिष्यत इति न्यायात् तस्य तावदेव चिरं यावन्न विमाक्ष्येऽथ सम्पत्स्य इति श्रुतेश्वाह – तत इति, ततः सर्वान् धर्मान् मेहति प्रवर्तयत इति कृतकृत्यतया पूर्णतांसम्पादयतीति धर्ममेघः परवैराग्यं तस्योदियात्, गुणानां यावत् कर्तव्यता गुणानां परिणामक्रमः सृष्ट्याद्यारम्भकस्तत्समाप्तिः पुनरप्रवृत्तिरिति सूत्रार्थः ॥ ३२ ॥ अथ कोऽयं क्रमो नामेति – क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ३३ ॥ क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः। न ह्यननुभूतक्रमक्षणा पुराणता वस्त्रस्यान्ते भवति। नित्येषु च क्रमो दृष्टः। टीका तत्त्व-वैशारदी

अत्रान्तरे परिणामक्रमं पृच्छति - अथ कोऽयमिति । क्षणप्रतियोगी परिणामापरान्तनिग्रार्ह्यः क्रमः । परिणामक्रमः क्षणप्रतियोगी क्षणः प्रतिसम्बन्धी यस्य स तथोक्तः । क्षणप्रचयाश्रय इत्यर्थः । न जातु क्रमः क्रमवन्तमन्तरेण शक्यो निरूपयितुम् । न चैकस्यैव क्षणस्य क्रमः । तस्मात्क्षणप्रचयाश्रयः परिशिष्यते । तदिदमाह - क्षणानन्तर्येति । परिणामक्रमे प्रमाणमाह - परिणामस्येति । नवस्य हि वस्त्रस्य प्रयत्नसंरक्षितस्यापि चिरेण पुराणता दृश्यते । सोऽयं परिणामस्यापरान्तः पर्यवसानं, तेन हि परिणामस्य क्रमः । ततः प्रागपि पुराणतायाः सूक्ष्मसूक्ष्मतरसूक्ष्मतमस्थूलस्थूलतरस्थूलतमत्वादीनां पौर्वापर्यमनुमीयते । एतदेव व्यतिरेकमुखेन दर्शयति - न हीति । अननुभूतोऽप्राप्तः क्रमक्षणो यया सा तथोक्ता । नन्वेष क्रमः प्रधानस्य न सम्भवति तस्य नित्यत्वादित्यत आह - नित्येषु चेति । बहुवचनेन सर्वनित्यव्यापितां क्रमस्य प्रतिजानीते । द्वयी चेयं नित्यता कूटस्थनित्यता परिणामिनित्यता च। तत्र कूटस्थनित्यता पुरुषस्य। परिणामिनित्यता गुणानाम्। यस्मिन्परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यम्। उभयस्य च तत्त्वानभिघातान्नित्यत्वम्। तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः। कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियामुपादाय कल्पित इति। टीका तत्त्व-वैशारदी

तत्र नित्यानां प्रकारभेदं दर्शयित्वा नित्यव्यापितां क्रमस्योपपादयति - द्वयीति । ननु कूटस्थं स्वभावादप्रच्युतमस्तु नित्यं परिणामि सदैव स्वरूपाच्च्यवमानं कथं नित्यमित्यत आह - यस्मिन्निति । धर्मलक्षणावस्थानामुदयव्ययधर्मत्वं धर्मिणस्तु तत्त्वादविघात एवेति । अथ किं परिणामापरान्तनिर्ग्राह्यता सर्वत्र क्रमस्य नेत्याह - तत्र गुणधर्मेषु बुद्ध्यादिष्विति । यतो लब्धपर्यवसानो धर्माणां विनाशात्प्रधानस्य तु परिणामक्रमो न लब्धपर्यवसानः । ननु प्रधानस्य धर्मरूपेण परिणामादस्तु परिणामक्रमः । पुरुषस्य त्वपरिणामिनः कुतः परिणामक्रम इत्यत आह - कूटस्थेति । तत्र बद्धानां चित्ताव्यतिरेकाभिमानात्तत्परिणामेन परिणामाध्यासः । मुक्तानां चास्तिक्रियामुपादायावास्तवोऽपि परिणामो मोहकल्पितः शब्दस्य पुरःसरतया तत्पृष्ठो विकल्पोऽस्तिक्रियामुपादत्त इति । अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वेति। अवचनीयमेतत्। कथम्। अस्ति प्रश्न एकान्तवचनीयः सर्वो जातो मरिष्यतीति। ओं भो इति। टीका तत्त्व-वैशारदी

गुणेष्वलब्धपर्यवसानः परिणामक्रम इत्युक्तम् । तदसहमानः पृच्छति - अथेति । स्थित्येति महाप्रलयावस्थायाम् । गत्येति सृष्टौ । एतदुक्तं भवति - यद्यानन्त्यान्न परिणामसमाप्तिः संसारस्य हन्त भोः कथं महाप्रलयसमये सर्वेषामात्मनां सहसा समुच्छिद्येत कथं च सृष्ट्यादौ सहसोत्पद्येत संसारः । तस्मादेकैकस्याऽऽत्मनो मुक्तिक्रमेण सर्वेषां विमोक्षादुच्छेदः सर्वेषां संसारस्य क्रमेणेति प्रधानपरिणामक्रमपरिसमाप्तिः । एवं च प्रधानस्याप्यनित्यत्वप्रसङ्गः । न चापूर्वसत्त्वप्रादुर्भाव इष्यते येनाऽऽनन्त्य स्यात् । तथा सत्यनादित्वव्याहतेः सकलशास्त्रार्थभङ्गप्रसङ्ग इति भावः । उत्तरमाह - अवचनीयमनुत्तरार्हमेतत् । एकान्तत एतस्यावचनीयतां दर्शयितुमेकान्तवचनीयं प्रश्नं दर्शयति - अस्ति प्रश्न इति । सर्वो जातो मरिष्यतीतिप्रश्नोत्तरम्- ओं भो इति । सत्यं भो इत्यर्थः । अथ सर्वो मृत्वा जनिष्यत इति। विभज्यवचनीयमेतत्। प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यत इतरस्तु जनिष्यते। तथा मनुष्यजातिः श्रेयसी न वा श्रेयसीत्येवं परिपृष्टे विभज्य वचनीयः प्रश्नः पशूनधिकृत्य श्रेयसी देवानृषींश्चाधिकृत्य नेति। अयं त्ववचनीयः प्रश्नः संसारोऽयमन्तवानथानन्त इति। कुशलस्यास्ति संसारक्रमसमाप्तिर्नेतरस्येति अन्यतरावधारणे दोषः।तस्माद्व्याकरीय एवायं प्रश्न इति ॥ ३३ ॥ टीका तत्त्व-वैशारदी

अविभज्य वचनीयमुक्त्वा प्रविभज्यवचनीयं प्रश्नमाह - अथ सर्व इति । विभज्य वचनीयतामाह - विभज्येति । विभज्य वचनीयमेव प्रश्नान्तरं विस्पष्टार्थमाह - तथा मनुष्येति । अयं त्ववचनीय एकान्ततः । न हि सामान्येन कुशलाकुशलपुरुषसंसारस्यान्तवत्त्वमनन्तवत्त्वं वा शक्यमेकान्ततो वक्तुम् । यथा प्राणभृन्मात्रस्य श्रेयस्त्वमश्रेयस्त्वं वा नैकान्ततः शक्यमवधारयितुम् । यथा जातमात्रस्य मरणमेकान्ततः । विभज्य पुनः शक्यावधारणमित्याह - कुशलस्येति । अयमभिसन्धिः - क्रमेण मोक्षे सर्वेषां मोक्षात्संसारोच्छेद इत्यनुमानं, तच्चाऽऽगमसिद्धमोक्षाश्रयं, तथा चाभ्युपगतमोक्षप्रतिपादकागमप्रमाणभावः कथं तमेवाऽऽगमं प्रधानविकारनित्यतायामप्रमाणी कुर्यात् । तस्मादागमबाधितविषयमेतदनुमानं न प्रमाणम् । श्रूयते हि श्रुतिस्मृतीतिहासपुराणेषु सर्गप्रतिसर्गपरम्पराया अनादित्वमनन्तत्वं चेति । अपि च सर्वेषामेवाऽऽत्मनां संसारस्य न तावद्युगपदुच्छेदः सम्भवी । न हि पण्डितरूपाणामप्यनेकजन्मपरम्पराभ्यासपरिश्रमसाध्या विवेकख्यातिप्रतिष्ठा । किं पुनः प्राणभृन्मात्रस्य स्थावरजङ्गमादेरेकदाऽकस्माद्भवितुमर्हति । न च कारणायौगपद्ये कार्ययौगपद्यं युज्यते । कमेण त विवेकख्यातावसङ्ख्येयानां क्रमेण मुक्तौ न संसारोच्छेदोऽनन्तत्वाज्जन्तूनामसङ्ख्येयत्वादिति सर्वमवदातम् ॥ ३३ ॥ पातञ्जल-रहस्यम्

परिणामक्रमेत्युक्तं तत्स्वरूपं वक्तुमाह – क्षणाप्रतीति, क्षणे क्षणेऽन्यथा भवतीति क्षणप्रतियोगी तथात्वेऽप्यपरान्तो विरामस्तेन निर्ग्राह्यः परिणाम इति सूत्रार्थः, सत्यमप्यसत्यमिति श्रुतिमाश्रित्याह – द्वयी चेयं नित्यतेति, तत्र तत्र व्यवहारादाद्यं सत्यं द्वितीयं परिणामिनित्यमित्याह - यस्मिन्निति, “क्षणमपरिणम्य गुणा न तिष्ठनतीत्युक्तेः प्रलयेऽपि समानाकारपरिणामस्तेषां गुणानामिति भावः, मनुष्याधिकारिकं शास्त्रमित्याह – तथामनुष्येति ॥ ३३ ॥ गुणाधिकारक्रमसमाप्तौ कैवल्यमुक्तं तत्स्वरूपमवधार्यते – पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४ ॥ कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मकानां गुणानां तत्कैवल्यं, स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वानभिसम्बन्धात्पुरुषस्य चितिशक्तिरेव केवला, तस्याः सदा तथैवावस्थानं कैवल्यमिति ॥ ३४ ॥ टीका तत्त्व-वैशारदी

कैवल्यरूपावधारणपरस्य सूत्रस्यावान्तरसङ्गतिमाह - गुणाधिकारेति । पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति । कृतकरणीयतया पुरुषार्थशून्यानां यः प्रतिप्रसवः स्वकारणे प्रधाने लयस्तेषां कार्यकारणात्मकानां गुणानां व्युत्थानसमाधिनिरोधसंस्कारा मनसि लीयन्ते मनोऽस्मितायामस्मिता लिङ्गे लिङ्गमलिङ्ग इति । योऽयं गुणानां कार्यकारणात्मकानां प्रतिसर्गस्तरकैवल्यम् । यं कञ्चित्पुरुषं प्रति प्रधानस्य मोक्षः स्वरूपप्रतिष्ठा वा पुरुषस्य मोक्ष इत्याह - स्वरूपेति । अस्ति हि महाप्रलयेऽपि स्वरूपप्रतिष्ठा चितिशक्तिः । न चासौ मोक्ष इत्यत आह - पुनरिति । सौत्र इतिशब्दः शास्त्रपरिसमाप्तौ ॥ ३४ ॥

मुक्त्यर्हचित्तं परलोकमेयज्ञसिद्धये धर्मघनः समाधिः । द्वयी च मुक्तिः प्रतिपादिताऽस्मिन्पादे प्रसङ्गादपि चान्यदुक्तम् ॥

निदानं तापानामुदितमथ तापाश्च कथिताः सहाङ्गैरष्टाभिर्विहितमिह योगद्वयमपि । कृतो मुक्तेरध्वा गुणपुरुषभेदः स्फुटतरो विविक्तं कैवल्यं परिगलिततापा चितिरसौ ॥ २ ॥ पातञ्जल-रहस्यम्

विमुक्तश्व विमुच्यत इति, स आत्मा कस्मिन् प्रतिष्ठित इति श्रुतिस्म्रुती आश्रित्य मुक्तिस्वरूपं वक्तुं पातनिकामाइ – गुणाधिकारेति, अधिकारफलं भोगापवर्गौ तदर्थानां क्रम आरम्भः सृष्टिः तस्य समाप्तावत्यन्तभावे कैवल्यमिति, पुरुषार्थ एव हेतुर्न केन चित् कार्यते करणम्, इत्युक्तिमाश्रित्याह — पुरुषार्थशून्यानामिति, प्रतिप्रसवो बन्ध्यता यस्तदीयात्मादृष्ठाकृष्टानां गुणानां स एव कैवल्यं भोगात्यन्ताभावः महत्तत्वाद्युपाधिनिवृत्तौ स्फटिकस्येव स्वच्छतेत्याह – स्वरूपप्रतिष्ठेति । अविद्याकृता बुद्ध्यादौ भोगादिहेतुका चितिच्छायापत्तिलक्षणा तन्निवृत्तौ या चितिरिति सूत्रार्थः, तत्कैवल्यमिति, अविद्योच्छित्तौ पुनर्दुःखात्यन्ताभावः ।

हरिहरपदकञ्जेष्वर्पितेयं सुवृत्तिः सुरतरुसुमनोभिर्गुम्फिता मालिकेव । तदुभयमकरन्दैः पीतपातन्जलानां- विधमतु पुरुदुःखं पुण्यदा श्रीकृतिर्नः ॥ ३४ ॥