समाधिपादः यस्त्यक्त्वा रूपमाद्यं प्रभवति जगतोऽनेकधाऽनुग्रहाय प्रक्षीणक्लेशराशिर्विषमविषधरोऽनेकवक्त्रः सुभोगी। सर्वज्ञानप्रसूतिर्भुजगपरिकरः प्रीतये यस्य नित्यं देवोऽहीशः स वोऽव्यात्सितविमलतनुर्योगदो योगयुक्तः ॥ १ ॥ अथ योगानुशासनम् ॥ १ ॥ अथेत्ययमधिकारार्थः। योगानुशासनं शास्त्रमधिकृतं वेदितव्यम्। योगः समाधिः। स च सार्वभौमश्चित्तस्य धर्मः। क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तभूमयः। तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते। यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति क्षिणोति च क्लेशान्कर्मबन्धनानि श्लथयति निरोधमभिमुखं करोति स सम्प्रज्ञातो योग इत्याख्यायते। स च वितर्कानुगतो विचारानुगत आनन्दानुगतोऽस्मितानुगत इत्युपरिष्टान्निवेदयिष्यामः। सर्ववृत्तिनिरोधे त्वसम्प्रज्ञातः समाधिः ॥ १ ॥ व्याख्या भास्वती
मैत्रीद्रवान्तःकरणाच्छरण्यं कृपाप्रतिष्ठाकृतसौम्यमूर्तिम् । तथा प्रशान्तं मुदिताप्रतिष्ठं तं भाष्यकृद्व्यासमुनिं नमामि ॥ १ ॥
अयोगिनां दुरूहं यद् योगिनामिष्टकामधुक् । महोज्ज्वलमणिस्तूपो यच्छ्रेयः सत्यसंविदाम् ॥ २ ॥
रत्नाकरः प्रवादानां भाष्यं व्यासविनिर्मितम् । शिष्याणां सुखबोधार्थं टीकेयं तत्र भास्वती ॥ ३ ॥
उपोत्घातप्रधानेयं सङ्क्षिप्ता पदबोधिनी । शङ्काविकल्पहीनाऽस्तु मुदायै योगिनां सताम् ॥ ४ ॥
इह खलु भगवान् हिरण्यगर्भो योगस्यादिमो वक्ता, स्मर्यते च – “हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः” इति, हिरण्यगर्भोऽत्र परमर्षेः कपिलस्य सञ्ज्ञाभेदः, यथोक्तं –
“विद्यासहायवन्तमादित्यस्यं समाहितम् । कपिलं प्राहुराचार्याः साङ्ख्यनिश्चितनिश्चिताः ॥ हिरण्यगर्भो भगवानेष च्छन्दसि सुस्तुतः” । इति,
हिरण्यम् = अत्युज्ज्वलं प्रकाशशीलं ज्ञानं; गर्भः = अन्तःसारो यस्य स हिरण्यगर्भः पूर्वसिद्धो विश्वाधीशः, भगवतः कपिलस्यापि धर्मज्ञानादीनां सहजातत्वात् स श्रद्धावद्भिर्ऋषिभिर्हिरण्यगर्भाख्यया पूजित इति तस्यापि हिरण्यगर्भसञ्ज्ञा, भगवता कपिलेनैव प्रवर्त्तितः साङ्ख्ययोगः, तत्र साङ्ख्ये पञ्चविंशतिस्तत्वानि सम्यग् विवृतानि, योगे च तत्त्वनामुपलब्ध्युपायो विवृतः, अत उक्तं –
“साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः” इति ।
कालक्रमेण बहुसंवादादिषु वर्त्तमाना योगविद्या दुरधिगमा बभूव ततः परमकारुणिको भगवान् पतञ्जलिर्योगविद्यां सूत्रोपनिबद्धां कृत्वा सुग्मं चकार,
सूत्रलक्षणं यथा –
“स्वल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ॥ इति ।
एवं लक्षणानि पातञ्जलयोगसूत्राणि भगवान् व्यासो गम्भीरोदारेण सारप्रवादमयेन साङ्ख्यप्रवचनभाष्येण व्याचचक्षे,
उक्तञ्च –
“गङ्गाऽऽद्याः सरितो यद्वदब्धेरंशेषु संस्थिताः । साङ्ख्यादिदर्शनान्येव अस्यैवांशेषु कृत्स्नशः” ॥ इति ।
तत्र प्रारिप्सितस्य योगशास्त्रस्य प्रथमं सूत्रं – “अथ योगानुशासनम्” इति, शिष्टस्य शासनमनुशासनम्, अथेति शब्दोऽधिकारार्थः = आरम्भणार्थः, योगानुशासनं नाम योगशास्त्रं तदद्वारा योगोऽपीत्यर्थः, अधिकृतम् = आरब्धमिति वेदितव्यम्, योगः = समाधिः, न च संयोऽगाद्यर्थकोऽयं योगः “युज – समाधौ” इति शाब्दिकाः, तेषाञ्च समाधिश्चित्तसमाधानार्थकः, न च तदेवार्थमात्रादिसूत्रलक्षितः पारिभाषिकः समाधिः, सम्यगाधानमेव शाब्दिकानां समाधानमेतद्, युज्धातुनिष्पन्नोऽयं योगशब्दः, स च योगः = समाधानम्, सार्वभौमः = वक्ष्यमाणक्षिप्ताऽऽदिसर्वभूमिसाधारणश्चित्तधर्मः, क्षिप्तमिति । चित्तभूमयः = चित्तस्य सहजा अवस्थाः, संस्कारवशाद् यस्यामवस्थायां चित्तं प्रायशः सन्तिष्ठते सैव चित्तभूमिः, पञ्चविधाश्चित्तभूमयः – क्षिप्ता, मूढा, विक्षिप्ता, एकाग्रा, निरुद्धा चेति, क्षिप्तं चित्तं क्षिप्ता भूमिः, तथा मूढाऽऽदयः, तत्र यदा संस्कारप्रत्ययधर्मकं चित्तं तत्त्वसमाधानचिकीर्षाहीनं सदैवास्थिरं भ्रमति तदाऽस्य क्षिप्ता भूमिः, तादृशस्यापि च प्रबलरागादिमोहवशस्य चित्तस्य या मूढाऽवस्था सा मूढा भूमिः, क्षिप्ताद्विशिष्टं विक्षिप्तभूमिकं चित्तम्, तत्र कादाचित्कं चित्तसमाधानं, समाधानचिकीर्षा च तत्त्वज्ञानसमाधानञ्च दृश्यते, अभीष्टविषये सदैव स्थितिशीला चित्तावस्था एकाग्रभूमिः, सर्ववृत्तिनिरोधप्राया चित्तावस्था निरुद्धभूमिः, चित्तसमाधानमेव योगः, तस्य सार्वभौमत्वात् पञ्चस्वपि भूमिषु योगसम्भवः स्यात् तत्र प्रबललोभमोहादिवशात् कदा चित् क्षिप्तमूढयोर्भूम्योः कियच्चित्तसमाधानं भवति, न च तत् कैवल्याय भवति, यथा – जयद्रथस्य प्रबलद्वेषाधीनस्य, यस्तु विक्षिप्ते विक्षिप्तभूमिष्ठे चेतसि जातो विक्षेपोपसर्जनीभूत उपसर्जनभावेन = गौणभावेनोदित्वरसंस्काररूपेण यत्रानष्टो विक्षेपसंस्कारः स्थितः; तादृशस्य चित्तस्य विक्षिप्तभूमिकस्य समाधिरपि न सम्यग् योगपक्षे = कैवल्यपक्षे वर्तते, विक्षिप्तभूमिकस्य समाधानं सोपप्लवं, ततश्च तादृशः साधको यदा विक्षेपाभिभूतो भवति तदा प्रमत्तस्तत्त्वज्ञानहीनः पृथग्जन इवाचारति, यस्त्विति । एकाग्रभूमिके चेतसि जातः समाधिः सद्भूतमर्थे = पारमार्थिकं तत्त्वं प्रद्योतयति = प्रख्यापयति, यत्प्रज्ञया पारमार्थिकहानोपादानविषयेऽव्यर्थाध्यवसायो जायत इत्यर्थः, तथा च क्षिणोति क्लेशान् = तत्त्वज्ञानास्य चेतस्युपस्थानादविद्याऽऽदीन् क्लेशान्, स योगः क्रमतो बन्ध्यप्रसवान् करोति, क्लेशमूलानाञ्च कर्मणां निवर्त्त्यमानत्वात् कर्मबन्धनं श्लथयति, किञ्च – निरोधं सर्ववृत्तिहीनतामभिमुखं करोति; एष सम्प्रज्ञातो योगः = एकाग्रभूमिकस्य चेतसस्तत्त्वविषयिणी प्रज्ञा सम्प्रज्ञानम्, तदा ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता भवति, तादृशसम्प्रज्ञानवान् योगः सम्प्रज्ञात इत्यर्थः ।
स इति । वक्ष्यमाणलक्षणकवितर्कादिपदार्थानुगतः सम्प्रज्ञात इत्युपरिष्टात् प्रवेदयिष्यामः = वक्ष्यामः,
सर्वेति – सम्प्रज्ञातसिद्धौ सम्प्रज्ञानस्यापि निरोधे यः सर्ववृत्तिनिरोधः स ह्यसम्प्रज्ञातोयोग इति ॥ १ ॥ तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते- योगश्चित्तवृत्तिनिरोधः ॥ २ ॥ सर्वशब्दाग्रहणात्सम्प्रज्ञातोऽपि योग इत्याख्यायते। चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात्त्रिगुणम्। प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति। तदेव तमसाऽनुविद्धमधर्माज्ञानावैराग्यानैश्वयोपगं भवति। तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति। तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति। तत्परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः। चितिशक्तिरपरिणामिन्यप्रतिसङ्क्रमा दर्शितविषया शुद्धा चानन्ता च सत्त्वगुणात्मिका चेयमतोविपरीता विवेकख्यातिरिति। अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि। तदवस्थं संस्कारोपगं भवति। स निर्बीजः समाधिः। न तत्र किञ्चित्सम्प्रज्ञायत इत्यसम्प्रज्ञातः। द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥ २ ॥ व्याख्या भास्वती
तस्येति – अभिधित्सया = अभिधानेच्छया, “योगश्चित्तवृत्तिनिरोधः” इति योगलक्षणम्, अव्याप्त्यतिव्याप्तिदोषहीनं न्याय्यम् = अनवद्यम् प्रस्फुटञ्च, सर्वेति – सर्वशब्दाग्रहणात् = सर्वचित्तवृत्तिनिरोधो योग इत्यकथनात् सम्प्रज्ञातोऽप्युक्तयोगलक्षणान्तर्गतो भवति, सम्प्रज्ञाते योगे तत्त्वज्ञानरूपा वृत्तिर्न निरुद्धा भवेत्, तदन्याश्च निरुद्धा भवन्तीति, चित्तमिति – प्रख्याः = प्रकाशस्वभावाः प्रकाशाधिकाः सर्वे बोधाः, सा सत्त्वगुणस्य लिङ्गम्, प्रवृत्तिः = इच्छाऽदयः सर्वाश्चेष्टाः, सा च क्रियाशीलस्य रजसो लिङ्गम्, स्थितिः = आवृतस्वरूपाः सर्वे संस्काराः, सा हि स्थितिशीलस्य तमसः स्वालक्षणम्, चित्त एतेषां त्रिविधगुणधर्माणां लाभाच्चित्तं त्रिगुणम्, प्रख्येति । प्रख्यारूपं चित्तसत्त्वं चित्तरूपेण परिणतं सत्त्वं यदा राजस्तमोभ्यां संसृष्टं = सम्प्रयुक्तं विक्षेपमोहबहुलमित्यर्थः भवति; तदा तच्चित्तमैश्चर्यविषयप्रियम्, ऐश्वर्यं लौकिकी प्रभुता तच्च शब्दादिर्विषयश्च प्रियो यस्य तादृशं भवति, तदिति । चित्तसत्त्वं यदा तमसाऽनुविद्धं = तामसकर्मसंस्काराभिभूतं भवति तदाऽधर्मादीनाम् उपगम् = उपगतम्, अधर्मादीनां संस्कारविपाकवदित्यर्थः भवति, तदेव चित्तसत्त्वं यदा प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानं सम्प्रज्ञातवदित्यर्थः, तथा च रजोमात्रया रजसो मात्रा = कार्यकरं परिमाणं तयाऽनुविद्धं चित्तसत्त्वं धर्मज्ञानवैराग्यैश्वर्योपगं भवति, धर्मः = अहिंसाऽऽदिः, ज्ञानं = योगजा प्रज्ञा, वैराग्यं = वशीकाराख्यम्, ऐश्वर्यं = विभूतिः, एतद्धर्मकं भवति चित्तम्, तदेव चित्तसत्त्वं रजोलेशमलापेतं = रजोलेशकृताद् मलाद् विक्षेपरूपाद् अपेतं = निर्मुक्तम्, न हि त्रिगुणं चित्तं कदाऽपि रजोगुणहीनं भवति, तस्माद् मलस्यैवापगमनं विवक्षितं न रजस इति, रजस्तु तदा सदृशप्रवाहरूपं विवेकख्यातिगतविकारं जनयति, न च तदन्या विषयख्यातिमुत्पाद्य सत्त्वस्य विकारं मालिन्यञ्च सङ्घटयतीति विवेच्यम्, स्वरूपप्रतिष्ठं = सत्त्वमात्रप्रतिष्ठम्, सत्त्वस्योत्कर्षकाष्टैव विवेकख्यातिस्तन्मात्रप्रतिष्ठत्वाद् रजोमालिन्यहीनत्वाच्च सत्त्वं स्वरूपप्रतिष्ठमित्यर्थः, एवं बुद्धिसत्त्वपुरुषान्यताख्यातिमात्रं चित्तसत्त्वं धर्ममेघध्यानोपगं भवति, तत् परं प्रसङ्ख्यानमित्याख्यायते योगिभिः, विवेकजसिद्धिस्तु – अपरं प्रसङ्ख्यानम्,
बुद्धिपुरुषयोर्विवेकस्य स्वरूपमाह – चितीति । चितिशक्तिः = पौरुषचैतनयम्, अपरिणामिनी = सर्वविकारहीना, अप्रतिसङ्क्रमा = कार्यजननाय प्रतिसञ्चारहीना, दर्शितविषया = दर्शितः सदा ज्ञातो बुद्धिरूपः प्रकाश्यविषयो यया सा, शुद्धा = गुणमलरहिता, अनन्ता = अन्तत्वारोपणायोग्या च, इयं = विवेकख्यातिः सत्त्वगुणात्मिका, सत्त्वं प्रकाशशीलं तच्च चितोऽवभासोपग्रहणयोग्यं न तु स्वप्रकाशम्, तद्रूपा विवेकख्यातिः परिणामिनी जडा चेति, अतश्चितो विपरीता हेयेति, परेण वैराग्येण तामपि ख्यातिं निरिणद्धि चित्तम्, तदवस्थं हि चित्तं संस्कारोपगं = संस्कारमात्रशेषं प्रत्ययहीनं भवति, सोपप्लवे तु निरोधे व्युत्थानसंस्कारास्तिष्ठन्ति, तत एव निरोधभङ्गः, तस्माद् निरोधावस्थायां प्रत्ययहीनतवेऽपि चेतः संस्कारमात्रेणावतिष्ठते, कैवल्ये तु सर्वसंस्काराणां प्रविलयस्तदा चित्तं स्वकारेण प्रधाने विलीयते न च पुनरावर्त्तते, सम्प्रज्ञानं लब्ध्वा तदपि निरुध्य यदा प्रत्ययहीना निरुद्धावस्थाऽधिगम्यते तदा सोऽसम्प्रज्ञातयोग इति, ध्येयविषयरूपस्य बीजस्याभावाद् निरोधः समाधिर्निर्बीज इत्युच्यते ॥ २ ॥ तदवस्थे चेतसि विषयाभावाद्बुद्धिबोधात्मा पुरुषः किंस्वभाव इति – तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥ स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये। व्युत्थानचित्ते तु सति तथाऽपि भवन्ती न तथा ॥ ३ ॥ व्याख्या भास्वती
तदिति – सूत्रमवतारयितुं पृच्छति, तदवस्थे = सर्ववृत्तिनिरुद्ध इत्यर्थः, चेतसि सति विषयाभावात् = परुषविषयरूपात्मबुद्धेरप्यभावाद्, बुद्धिबोधात्मा = आत्मबुद्धेर्बोद्धेत्यर्थः, पुरुषः किंस्वभावः? उत्तरं – तदेति सूत्रम्, तदा निर्बीजसमाधौ चितिशक्तिः स्वरूपप्रतिष्ठा – औपचारिकवैरूप्यहीना भवति यथा कैवल्ये = चित्तस्य पुनरुत्थानहीनलये, निर्विकारायाश्चितिशक्तेः कथं पुनः स्वरूपप्रतिष्ठेत्याह – व्युत्थिते चित्ते सति स्वरूपप्रतिष्ठाऽपि चितीर्न तथेति प्रतीयते ॥ ३ ॥ कथं तर्हि, दर्शितविषयत्वात् – वृत्तिसारुप्यमितरत्र ॥ ४ ॥ व्युत्थाने याश्चित्तवृत्तयस्तदविशिष्टवृत्तिः पुरुषः। तथा च सूत्रम् – “एकमेव दर्शनं ख्यातिरेव दर्शनम्” इति। चित्तमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः। तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः सम्बन्धो हेतुः ॥ ४ ॥ व्याख्या भास्वती
कथं चितिशक्तिः स्वरूपाप्रतिष्ठेव प्रतिभासते? दर्शितविषयत्वाद् “वृत्तिसारूप्यमितरत्र”, पुरुषविषया बुद्धिवृत्तयः पौरुषप्रकाशेन प्रकाशिता भवन्ति, एवं दर्शितविषयत्वाद् वृत्तिस्वरूप इव प्रतीयते, व्युत्थान इति । व्युत्थाने = अनिरुद्धचित्ततायां या वृत्तयः तदविशिष्टवृत्तिः, ताभिर्वृत्तिभिः सहाविशिष्टा = एकवत् प्रतीयमाना वृत्तिः सत्ता यस्य तादृशो भवति पुरुषः, अत्रेदं पञ्चशिखाचार्यसूत्रम् – “एकमेव दर्शनं चैतन्यं ख्यातिर्बुद्धिरेव दर्शनमि”ति, चिद्रूपं पुरुषोपदर्शनं तथा बुद्धिरूपा ख्यातिश्च, एकमविभागापन्नं वस्त्विव प्रतीयत इत्यर्थः, चित्तमिति । अयस्कान्तमणिर्यथा सान्निध्यादसंस्पृश्याप्युपकरोति तथा चित्तं सान्निध्यादेव पुरुषस्य योगापवर्गावाचरति, सान्निध्यमत्रैकप्रत्ययगतत्वं, न च दैशिकं सान्न्निध्यं , देशकालातीतत्वात् पुरुषस्य प्रधानस्य च, तच्च चित्तं दृश्यत्वेन स्वभावेन पुरुषस्य स्वामिनः स्वं भवति, मम बुद्धिरित्यवबोध एव तत्स्वभावावधारणे प्रधानम्, द्रष्टृत्वदृश्यत्वे एव मौलिकस्वभावौ ततो न तयोर्हेतुरस्ति तत्स्वाभाव्याद् द्रष्ट्रा सह दृश्या बुद्धिः संयुञ्जीत, पुम्प्रधानयोर्नित्यत्वात् संयोगोऽनादिः, स च संयोगः प्रवाहरूपत्वाद् हेतुमानित्युपरिष्टाद् वक्ष्यति ॥ ४ ॥ ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य – वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५ ॥ क्लेशहेतुकाः कर्माशयप्रचये क्षेत्रीभूताः क्लिष्टाः। ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः। क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः। क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति। अक्लिष्टच्छिद्रेषु क्लिष्टा इति। तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते। संस्कारैश्च वृत्तय इति। एवं वृत्तिसंस्कारचक्रमनिशमावर्तते। तदेवम्भूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति। ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः ॥ ५ ॥ व्याख्या भास्वती
ता इति । वृत्तयः पञ्चतय्यः = पञ्चविधाः, तथा च ताः क्लिष्टास्तथा अक्लिष्टा इति द्विधा, क्लेशेति । क्लेशहेतुकाः क्लेशाः = अविद्याऽऽदयः, ये विपर्यस्तप्रत्ययाः क्लिश्नन्ति ते क्लेशाः, तन्मयास्तन्मूलाश्च वृत्तयः क्लिष्टाः, ताश्च कर्मसंस्कारसञ्चयस्य क्षेत्रीभूतास्तद्विपरीता अक्लिष्टावृत्तयो विवेकख्यातिविषयाः, विवेकेन चित्तस्य निवृत्तिस्ततस्तादृशा वृत्तयो गुणाधिकारविरोधिन्यो गुणप्रवृत्तेरेव क्लेशाः, अतो गुणनिर्वर्त्तिकाः ख्यातिविषया वृत्तयोऽक्लिष्टाः, विवेकविषया मुख्या अक्लिष्टा वृत्तयः, विवेकस्य निर्वर्त्तिका अन्यां अपि वृत्तयोऽक्लिष्टाः, ताश्च क्लिष्टप्रवाहपतिताः, अभ्यासवैराग्याभ्यां विच्छिन्ने क्लेशप्रवाहे परमार्थविषया वृत्तयो जायन्त इत्यर्थः, तथाऽक्लिष्टच्छिद्रेष्वपि क्लिष्टा वृत्त्य उत्पद्यन्ते, यथोक्तं – “तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्य” इति,
तथेति । तथाजातीयकाः = क्लिष्टजातीया अक्लिष्टजातीया वा संस्कारा वृत्तिभिरेव क्रियन्ते, वृत्तीनामपरिदृष्टावस्था संस्कारः, संस्कारस्य च बुद्धभावः स्मृतिवृत्तिः, तथा च प्रमाणादिवृत्तीनामपि निष्पादकाः संस्काराः, एवमिति । वृत्तिभिः संस्काराः, संस्कारेभ्यश्च वृत्तयः इत्येवं वृत्तिसंस्कारचक्रं निरन्तरमावर्तते, तदिति । अवसिताधिकारं = निष्पन्नकृत्यं चित्तसत्त्वं, शेषं दलद्वयं प्राग्व्याख्यातम्, धर्ममेघध्याने सत्त्वमात्मकल्पेन व्यवतिष्ठते, कैवल्ये च प्रलयं गच्छतीति ॥ ५ ॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतय ॥ ६ ॥ तत्र प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥ इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम्। फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः। प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः। अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम्। यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवत्, विन्ध्यश्चाप्राप्तिरगतिः। आप्तेन दृष्टोऽनुमितो वाऽर्थपरत्रस्वबोधसङ्क्रान्तये शब्देनोपदिश्यते, शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः। यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते। मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ॥ ७ ॥ व्याख्या भास्वती
इन्द्रियेति । चित्तस्य बाह्यवस्तूपरागाद् = इन्द्रियबाह्यवस्तुभिः कृतादुपरागात्, तद्विषया = बाह्यवस्तुविषया, बाह्यज्ञानाकारेत्यर्थः, इन्द्रियप्रणालिकयेति । इन्द्रियव्यवहितस्यापीन्द्रियप्रणालिक एवोपराग इत्यर्थः, या वृत्तिरुत्पद्यते तत् प्रत्यक्षं प्रमाणम्, सा हि प्रत्यक्षवृत्तिः सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना, सामान्यं = शब्दादिभिः कृतसङ्केतो जात्यादिर्बहुव्यक्तिसमवेतभूतो मानसो गुणवाचिपदार्थः, विशेषः = प्रतिव्यक्तिगतो वास्तवो गुणः, सामान्यपदार्थः शब्दादिसङ्केतमात्रगम्यः, विशेषस्तु – शब्दादिसङ्केतंविनाऽपि गम्यते, अर्थस्तु – सामान्यविशेषात्मा तादृशगुणसमवेतभूतं बाह्यं वस्त्वेव, तथाभूतस्यार्थस्य या विशेषावधारणप्रधाना वृत्तिस्तत् प्रत्यक्षं प्रमाणम्, प्रत्यक्षेण वास्तवगुणा एव प्रधानतो गृह्यन्ते, जातिसत्ताऽऽदिसामान्यगुणप्रतिपत्तीनां तत्राप्राधान्यमित्यर्थः, फलमिति । प्रमाणव्यापारस्य फलम्, द्रष्टा सह, अविशिष्टः = अविविक्तः, “अहं बोद्धा” इत्यात्मक इत्यर्थः, पौरुषेयः = पुरुषप्रकाश्यश्चित्तवृत्तिबोधः, यतः पुरुषो बुद्धेः प्रतिसंवेद्वी = प्रतिसंवेदनहेतुः, तत एवासङ्कीर्णेनापि पुरुषेण बुद्धिबोधः, पुरुषस्य प्रतिसंवेदित्वमुपरिष्टाद् द्वितीये पादे प्रतिपादयिष्यामः, अनुमेयस्येति । जिज्ञासितोऽगृह्यमाणो हेतुगम्यो विषयोऽनुमेयः, तस्य तुल्यजातीयेष्वनुवृत्तः = सपक्षेषु समानः, भिन्नजातीयेभ्यो व्यावृत्तः = असपक्षेष्वलब्ध इत्यर्थः, ईदृशानां धर्माणां ज्ञानमिति यावत् सम्बन्धो हेतुः, स यः सम्बन्धस्तद्विषया हेतुनिबन्धना या वृत्तिस्तदनुमानं प्रमाणम्, सा चानुमानवृत्तिः समान्यावधारणप्रधाना सामान्यधर्मद्योदकशब्दादिसङ्केतसाध्यत्वाद्, उदाहरणमाह – यथेति । चन्द्रतारकं गीतमद् देशान्तरप्राप्तेश्चैत्रवद्, अगतिमान् विन्ध्यश्च, ततस्तस्याप्राप्तिर्देशान्तरस्येति शेषः,
आगमं लक्षयति – यद्वाक्यात् श्रोतुरविचारसिद्धो निश्चयो जायते स तस्य श्रोतुराप्तः, तादृशेनाप्तेन दृष्टोऽनुमितो धर्मः = प्रत्यक्षानुमानाभ्यां ज्ञातो विषयः परत्र स्वबोधसङ्क्रान्तय आप्तस्य परत्र स्वबोधसङ्क्रान्तिकाम्यताऽऽगमाङ्गमिति द्रष्टव्यम्,
शब्देन = वाक्येन, अन्येनाकारादिना सङ्केतेनापीत्यर्थः, उपदिश्यते, शब्दात् = साक्षात् शब्दश्रवणात्, शब्दार्थविषया = शब्दार्थज्ञाननिबन्धना न तु ध्वनिज्ञाननिबन्धना, श्रोतुश्चेतसि या वृत्तिरुत्पद्यते स आगमः, वक्ता श्रोता चास्यागमप्रमाणस्य द्वे भावने इति विवेच्यम्, तस्मात् पाठजनिश्चयो नागमप्रमाणम्,
यथा प्रत्यक्षमिन्द्रियदोषादिना दूष्यते, अनुमानञ्च हेत्वाभासादिना दूष्यते, तथा तत्सजातीय आगमोऽपि प्लवते, कथन्तदाह – यस्येति । मूलवक्तरीति । दृष्टोऽनुमितश्चार्थोयेन, तादृशे मूलवक्तरि – आप्ते सति तज्ज्ञात आगमो निर्विप्लवः स्याद्, आगमप्रमाणमूला ग्रन्था अप्यागमशब्देन लक्ष्यन्ते, न च तदागमप्रमाणम्, अनधिगतयथार्थज्ञानम्प्रमा, प्रमायाः करणं प्रमाणमिति स्वप्रमाणानां साधारणं लक्षणम् ॥ ७ ॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥ स कस्मान्न प्रमाणम्? यतः प्रमाणेन बाध्यते। भूतार्थविषयत्वात्प्रमाणस्य। तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम्। तद्यथा – द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति। सेयं पञ्चपर्वा भवत्यविद्या, अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति। एत एव स्वसञ्ज्ञाभिस्तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति। एते चित्तमलप्रसङ्गेनाभिधास्यन्ते ॥ ८ ॥ व्याख्या भास्वती
प्रमाणं यथाऽर्थमनधिगतं ज्ञानम्, अस्ति चायतार्थज्ञानं चित्तदोषरूपम्, तद्धि विपर्ययज्ञानम्, तल्लक्षणम् – अतद्रूपप्रतिष्ठं ज्ञेयस्य यद् यथाऽर्थे रूपं न तद्रूपप्रतिष्ठम्, मिथ्याज्ञानमिति । सुगमं भाष्यम् ॥ ८ ॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥ स न प्रमाणोपारोही। न विपर्ययोपारोही च। वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते। तद्यथा – चैतन्यं पुरुषस्य स्वरूपमिति। यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते। भवति च व्यपदेशे वृत्तिः। यया चैत्रस्य गौरिति। तथा प्रतिषिद्धवस्तुधर्मो निष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति, गतिनिवृत्तौ धात्वर्थमात्रं गम्यते। तथाऽनुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमात्रमवगम्यते न पुरुषान्वयी धर्मः। तस्माद्विकल्पितः स धर्मस्तेन चास्ति व्यवहार इति ॥ ९ ॥ व्याख्या भास्वती
क्रमप्राप्तविकल्पस्य लक्षणमाह – शब्दज्ञानानुपाती = अवस्तुवाचकशब्दज्ञानास्यानुजातस्तज्ज्ञाननिबन्धनो वस्तुशून्यो वास्तवार्थशून्यो विकल्पः, स इति । स न प्रमाणोपारोही प्रमाणान्तर्भूतः, न च विपर्योपारोही, वस्तुशून्यत्वान्न प्रमाणं तथा शब्दज्ञानमाहात्म्यनिबन्धनाद् व्यवहारान्न विपर्ययः, प्रमाणस्य विषयो वास्तवः, विपर्ययस्य नास्ति व्यवहारः, यतो मिथ्येदमिति ज्ञात्वा न तद् व्यवह्रियते, विकल्पस्य विषयाणां चास्ति व्यवहारः, यथा – “वैकल्पिकं कालाद्यवस्तु” इति ज्ञात्वाऽपि तद् व्यवह्रियते, उदाहरनमाह – तद् यथेति । यदा यतश्चितिरेव पुरुषस्ततश्चैतन्यं पुरुषस्य स्वरूपमित्यत्र भेदवचनमवास्तवत्वाद्, वैकल्पिकम्, तद्वचननिबन्धनं यज्ज्ञानं स एव विकल्पः, किं विशेष्यं केन विशेषेण व्यपदिश्यते = विशेष्यते, न हि चितिशब्दः पुरुषं विशिनष्टि, अभिन्नत्वाद्, तस्मादयं वाक्यार्थः, अवास्तवो वैकल्पिकः, अवास्तवत्वेऽप्यस्त्यस्य व्यवहारः, चैत्रस्य गौरित्यत्रास्ति वास्तवोऽर्थस्तस्मात्तत्र भवति च व्यपदेशे विशेष्यविशेषणभावे वृत्तिः = वाक्यवृत्तिः, वाक्यस्य वास्तवोऽर्थः, तथेति । प्रतिसिद्धवस्तुधर्मा = प्रतिषिद्धा न सन्ति दृश्यवस्तुधर्मा यस्मिन् स क्रियाहीनः पुरुष इति पुरुषलक्षणे धर्माणामभावमात्रमेव विवक्षितं न कश्चिद् वास्तवो धर्मः, तस्मादेतद्वाक्यस्यार्थो वैकल्पिकः, तथा – तिष्ठति बाणः स्थास्यति स्थित इत्यत्रापि विकल्पवृत्तिर्जायते, यतः – “ष्ठागतिनिवृत्तौ” इति धात्वर्थः, तस्मात् तिष्ठत्यादिपदेन गत्यभावमात्रमवगम्यते न काचिद् वास्तवी क्रिया, “अनुत्पत्तिधर्मा पुरुष” इत्यत्रापि तथैव भवति, न च पुरुषान्वयी पुरुषगतः कश्चिद् धर्मोऽवगम्यते तस्मात् सोऽनुत्पत्तिपदवाच्यो धर्मो विकल्पितस्तेन = विकल्पेन चैतादृशवाक्यस्य व्यवहारोऽस्ति; अनिर्विचारध्यानसिद्धेः, यावद् भाषाऽनुगा चिन्ता तावद् विकल्पस्य व्यवहारो विद्यते ॥ ९ ॥ अभावप्रययालम्बना वृत्तिर्निद्रा ॥ १० ॥ सा च सम्प्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः। कथं, सुखमहमस्वाप्सम्। प्रसन्नं मे मनः प्रज्ञां मे विशारदी करोति। दुःखमहमस्वाप्सं स्त्यानं मे मनो भ्रमत्यनवस्थितम्। गाढं मूढोऽहमस्वाप्सम्। गुरूणि मे गात्राणि। क्लान्तं मे चित्तम्। अलसं मुषितमिव तिष्ठतीति। स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे तदाश्रिताः स्मृतयश्च तद्विषया न स्युः। तस्मात्प्रत्ययविशेषो निद्रा। सा च समाधावितरप्रत्ययवन्निरोद्धव्येति ॥ १० ॥ व्याख्या भास्वती
अभावप्रत्ययालम्बना वृत्तिर्निद्रेति । अभावः = जाग्रत्स्वप्नयोस्तिरोभावः, तस्य प्रत्ययः = कारणं तामसजडताविशेषरूपम्, तदालम्बना = तत्तमोविषया वृत्तिः = अत्यस्फुटं ज्ञानं निद्रा स्वप्नहीना सुषुप्तिरिति सूत्रार्थः, सेति – सा निद्रा प्रत्ययविशेषो वृत्तिरेव सम्प्रबोधे = जाग्रत्काले तस्याः प्रत्यवमर्शात् = स्मरणात्, न हि स्मरणं संस्कारमृते सम्भवेत् संस्कारश्चानुभवमन्त्रेण न सम्भवेत्, तस्माद् निद्राऽनुभूतिविशेषो यथाऽन्धकारोऽस्फुटरूपविशेषः सर्वरूपाणाञ्च तत्रैकीभावः, तथैव जाड्यमापन्नेषु शरीरेन्द्रियचित्तेषु यः सामान्यो जडताबोधो विद्यते सा निद्रावृत्तिः, इतरवद् निद्रायास्त्रिगुणत्वं = विवृणोति – उक्तञ्च -
“जाग्रत् स्वप्नः सुषुप्तञ्च गुणतश्चित्तवृत्तयः” इति,
सुखमिति । सात्विक्यां निद्रायां ‘सुखमहमस्वाप्सम्’ इत्यादिः प्रत्ययः; विशारदीकरोति = स्वच्छीकरोति, दुःखमिति । राजसनिद्रालक्षणं, स्त्यानम् = अकर्मण्यम्, भ्रमणरूपादस्थैर्यात्, गाढमिति तामसी निद्रा, मूढः – सुप्तस्य सम्प्रबोधेऽपि न द्राक् कुत्राहमित्यवधारणासामर्थ्यम् मूढत्वम्, चित्तम् अलसं = जडम्, मुषितम् = अपहृतमिव, वयतिरेकद्वारेण साध्यं साधयति – स इति । यदि प्रत्ययानुभवा न स्युस्तदा तज्जसंस्कारा अपि न स्युः, तथा च संस्कारबोधरूपाः स्मृतयोऽपि न स्युः, एवं निद्राया वृत्तित्वं सिद्धं समाधो च सा निरोद्धव्या, समाधिर्न बाह्यज्ञानहीना मोहवशाद्देहक्रियाकारिणी स्मृतिहीना चित्तावस्था किन्तु ध्येयस्मृतौ सम्यगवधाररणाद् रुद्धेन्द्रियादिक्रियारूपाऽवस्थेति ज्ञातव्यम् ॥ १० ॥ अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ ११ ॥ किं प्रत्ययस्य चित्तं स्मरति आहोस्विद्विषयस्येति। ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तज्जातीयकं संस्कारमारभते। स संस्कारः स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति। तत्र ग्रहणाकारपूर्वा बुद्धिः। ग्राह्याकारपूर्वा स्मृतिः। सा च द्वयी – भावितस्मर्तव्या चाभावितस्मर्तव्या च। स्वप्ने भावितस्मर्तव्या। जाग्रत्समये त्वभावितस्मर्तव्येति। सर्वाः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात्प्रभवन्ति। सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः। सुखदुःखमोहाश्च क्लेशेषु व्याख्येयाः। सुखानुशयी रागः। दुःखानुशयी द्वेषः। मोहः पुनरविद्येति। एताः सर्वा वृत्तयो निरोद्धव्याः। आसां निरोधे सम्प्रज्ञातो वा समाधिर्भवत्यसम्प्रज्ञातो वेति ॥ ११ ॥ व्याख्या भास्वती
अनुभूतविषयाणामसम्प्रमोषः = तावन्मात्रग्रहणं नाधिकस्मृतिः, असम्प्रमोषः = परस्वानपहरणम्, चित्तेन यद्विषयीकृतं तस्य चित्तस्वस्यैव न परस्वस्य ग्रहणात्मिका वृत्तिः स्मृतिरित्यर्थः । किमिति । किम् प्रत्ययस्य प्रत्ययमात्रमित्यर्थः? घटं जानामीत्यात्मकस्य ज्ञानस्येत्यर्थः आहोस्विद् विषयस्य = रूपादेश्चित्तं स्मरति? उत्तरमुभयस्येति, ग्राह्योपरक्तः = शब्दादिग्राह्यविषयैरुपरक्तोऽपि प्रत्ययः, ग्राह्यग्रहणेभयाकारनिर्भासः, प्रत्ययस्याप्यनुभवात्, तथाजातीयकम् = ग्राह्यग्रहाणोभयाकारं संस्कारम्, आरभते = जनयति, स संस्कारः स्वब्यञ्जकाञ्जनः = स्वस्य व्यञ्जकेनोद्बोधकेन, अञ्जनं व्यक्तीभवनं यस्य तादृशः, ग्राह्यग्रहणाकारामेव स्मृतिं जनयति, तत्र – ग्रहणाकारपूर्वा = ग्रहणमनधिगतविषयस्योपादानं तदाकारप्रधाना व्यवसायप्रधानेत्यर्थः, बुद्धिर्ग्रहणरूपा ज्ञानशक्तिः प्रमाणमिति यावद्, ग्राह्याकारपूर्वा = व्यवसेयविषयप्रधाना स्मृतिः, घटं जानामीत्यात्मिका घटग्रहणप्रधाना बुद्धिः, घट इति घटाकारा स्मृतिः, सोऽयं घट इति च प्रत्यभिज्ञा, एतदुक्तं भवति – सर्वासां वृत्तीनां बुद्धिवृत्तित्वेऽपि, अनाधिगतविषयं प्रमाणमियं बुद्धिः, बुद्धिर्ग्रहणरूपा, ग्रहणञ्च प्राधान्यादगृहीतस्योपादानम्, तस्योपादानस्याप्यस्त्यनुभवः संस्कारश्च, तादृशसंस्काराणां स्मृतिर्गौणभावेनोपादानरूपेऽनधिगतविषये प्रमाणे बुद्धौ वा तिष्ठति, प्रधानतश्च तत्रोपादानरूपो ग्रहणव्यापारस्तिष्ठत्ति, स्म्रुतौ पुनर्ग्राह्यरूपस्य घटाद्यधिगतविषयस्य प्राधान्यम्, ग्रहणव्यापारस्याप्राधन्यमिति दिक् ।
सा च स्मृतिर्द्वयी – भावितस्मर्त्तव्या = भावितानि कल्पितानि स्मर्त्त्वयानि यस्यां सा, स्वप्ने हि कल्पनया स्मृतविषया उद्भाव्यन्ते जागरे न तथा, सर्वासामेव वृतीनामनुभवात् संस्कारः, संस्काराच्च तद्बोधरूपा स्मृतिरिति क्रमः, सर्वाश्चेति । सुखदुःखमोहात्मिकाः = सुखादिभिरनुविद्धाः, सुखदुःखे प्रसिद्धे, मोहस्त्रिविधः – विचारमोहः-चेष्टामोहः-वेदनामोहश्चेति, विपर्य्यस्तविचारो विचारमोहः, अभिनिविष्टचेष्टा चेष्टामोहः, कायेन्द्रियचेतसाम् प्रमादादिरूपेणानेन व्यस्यते मूढा बुद्धिः सम्यग् ज्ञानात् सुखदुःखानुभवो यत्र न स्फुटः स वेदनामोहः, स्मर्यते च
“तत्र विज्ञानसंयुक्ता त्रिविधा वेदना ध्रुवा । सुखदुःखेति यामाहुरदुःखा स सुखेति च ॥ ” इति
हिताहितज्ञानविपर्ययस्वभावादविद्याऽन्तर्गत एव मोहः, शेषं सुगमम् ॥ ११ ॥ अथाऽऽसां निरोधे क उपाय इति – अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥ चित्तनदी नामोभयतोवाहिनी वहति कल्याणाय वहति पापाय च। या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा। संसारप्राग्भाराऽविवेकविषयनिम्ना पापवहा। तत्र वैराग्येण विषयस्रोतः खिलीक्रियते। विवेकदर्शनाभ्यासेन विवेकस्रोत उद्धाट्यत इत्युभयाधीनश्चित्तवृत्तिनिरोधः ॥ १२ ॥ व्याख्या भास्वती
अथेति । आसां चित्तवृतीनामभ्यासवैराग्याभ्यां निरोधः स्यात्, चित्तनदीति । चित्तं नदीव, सा च चित्तनदी कल्याणवहा पापवहा वा भवति, येति । या चित्तनदी कैवल्यप्राग्भारा = कैवल्यरूपस्य प्राग्भारस्योच्चप्रदेशरूपस्रोतःप्रबन्धस्य तलदेशपर्यन्तवाहिनी विवेकविषयनिम्ना = विवेकविषयरूपनिम्नमार्गवाहिनी सा कल्याणवहा तथा संसारप्राग्भारा = अविवेकनिम्नमार्गवाहिनी पापवहा, तत्र = अभ्यासवैराययोर्मध्ये वैराग्येण विषयस्रोतः खिलीक्रियते = अल्पीक्रियते निरुद्ध्यते, विवेकदर्शनाभ्यासेन विवेकस्रोत उद्घाट्यते = सम्प्रवर्तितं क्रियते, चित्तस्य निरोधः = निवृत्तिकता, एवमभ्यासवैराग्याधीनो विवेक एव मुख्योपायो निरोधस्य, अतस्तस्याभयास एवोक्तः, विवेकस्य साधनानामपि पुनः पुनरनुष्ठानमभ्यासः ॥ १२ ॥ तत्र स्थितौ यत्नाऽभ्यासः ॥ १३ ॥ चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः। तदर्थः प्रयत्नो वीर्यमुत्साहः। तत्सम्पिपादयिषया तत्साधनानुष्ठानमभ्यासः ॥ १३ ॥ व्याख्या भास्वती
तत्र स्थितौ स्थित्यर्थं यो यत्नः सोऽभ्यासः, चित्तस्येति । अवृत्तिकस्य = निरुद्धवृत्तिकस्य चित्तस्य या प्रशान्तवाहिता निरुद्धावस्थायाः प्रवाहः सा हि मुख्या स्थितिः, तदनुकूलैकाग्रावस्थाऽपि स्थितिः, स्थितिनिमित्तः प्रयत्नः तस्य पर्यायो वीर्यमुत्साहश्चेति, तत्सम्पिपादयिषया = स्थितिसम्पादनेच्छया तत्साधनस्यानुष्ठानमभ्यासः ॥ १३ ॥ स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥ दीर्घकालासेवितो निरन्तरासेवितः सत्कारासेवितः। तपसा ब्रह्मचर्येण विद्यया श्रद्धया च सम्पादितः सत्कारवान्दृढभूमिर्भवति। व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः ॥ १४ ॥ व्याख्या भास्वती
दीर्घेति । दीर्घकालं यावद् आसेवितः = अनुष्ठितः, निरन्तरं = प्रत्यहं प्रतिक्षणमासेवितः, तपसा ब्रह्मचर्येण श्रद्धया विद्यया च सम्पादितः सत्कारवानभ्यासः = सत्कारासेवितः, श्रूयते – “यद् यद् विद्यया श्रद्धयोपनिषदा वा तत्तद् वीर्यवत्तरं भवति” इति, तथा कृतोऽभ्यासो दृढभूमिर्भवति, व्युत्थानसंस्कारेण न द्राक् = सहसाऽभिभूयत इति ॥ १४ ॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् ॥ १५ ॥ स्त्रियोऽन्नपानमैश्वर्यमिति दृष्टविषये वितृष्णस्य स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तावानुश्रविकविषये वितृष्णस्य दिव्यादिव्यविषयसम्प्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसङ्ख्यानबलादनाभोगात्मिका हेयोपादेयशून्या वशीकारसञ्ज्ञा वैराग्यम् ॥ १५ ॥ व्याख्या भास्वती
वैराग्यमाह – दृष्टेति । दृष्टे = इहत्यविषये, आनुश्रविके = शास्त्रश्रुते पारलौकिके विषये, यद् वैतृष्ण्यम् = चित्तस्य वितृष्णभावेनावस्थितिस्तद् वशीकाराख्यं वैराग्यम्, वशीकारस्य तिस्रः पूर्वावस्थाः, तद् यथा-यतमानं-व्यतिरेकम्-एकेन्द्रियमिति; रागोत्पाटनाय चेष्टमानता यतमानम्, केषु चिद् विषयेषु विरागः सिद्धः केषुचिच्च साध्य इति यत्र व्यतिरेकेणावधारणं तद् व्यतिरेकसञ्ज्ञम्, ततः परं यदैकेन्द्रिये मनस्यौत्सुक्यमात्रेण क्षीणो रागस्तिष्ठति तादृशस्यापि रागस्य नाशाद् वशीकारः सिद्ध्यतीति,
स्रिय इति । ऐश्वर्यम् = प्रभुत्वं, स्वर्गः = इन्द्रत्वादिः, वैदेह्यम् = स्थूलसूक्ष्मदेहे विरागाद् विदेहस्य लीनावस्था भवेत्, तदवस्थाप्राप्तानां देवानां पदम्, प्रकृतिलयः = आत्मबुद्धिरपि हेयेति तत्रापि विरागमात्रात् पुरुषख्यातिहीन्स्याचरितार्थस्य चित्तस्य प्रकृतौ लयो भवेत् तत् पदम्, दिव्यादिव्यविषयैः सह संयोगेऽपि = योगलाभेऽपीत्यर्थः, विषयदोषः = त्रितापः, प्रसङ्ख्यानबलात् = प्रसङ्खयानं = सम्प्रन्ज्ञा, यया विषयहानायाविच्छिन्ना प्रत्यवेक्षा जायते, तदबलात् अनाभोगात्मिका = तुच्छताख्यातिमती, हेयोपादेयशून्येत्यर्थः, वैतृष्ण्यावस्था वशीकारसञ्ज्ञा, तच्चापरं वैराग्यम् ॥ १५ ॥ तत्परं पुरुषख्यातेर्गुणवेतृष्ण्यम् ॥ १६ ॥ दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात्तच्छुद्धिप्रविवेकाप्यायितबुद्धिर्गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति। तद्वयं वैराग्यम्। तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम्। यस्योदये सति योगी प्रत्युदितख्यातिरेवं मन्यते – प्राप्तं प्रापणीयं, क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसङ्क्रमः, यस्याविच्छेदाज्जनित्वा म्रियते मृत्वा च जायत इति। ज्ञानस्यैव परा काष्ठा वैराग्यम्। एतस्यैव हि नान्तरीयकं कैवल्यमिति ॥ १६ ॥ व्याख्या भास्वती
तद् वैराग्यं परम् = परसञ्ज्ञकम्, यदा पुरुषख्यातेः पुरुषतत्त्वोपलब्धेर्गुणवैतृष्ण्ये सार्वज्ञ्यादिष्वपि निखलगुणकार्येषु वैतृष्ण्यमिति सूत्रार्थः, दृष्टेति । दृष्टानुश्रविकदोषदर्शी विरक्तः = वशीकारवैराग्यवान् पुरुषदर्शनाभ्यासाद् = विवेकाभ्यासाद्, तच्छुद्धिप्रविवेकाप्यायितबुद्धिः = तस्य दर्शनस्य शुद्धिः, तस्याः प्रविवेकः = प्रकृष्टं वैशिष्ट्यमविवेकविविक्तापरा काष्ठेत्यर्थः, तेनाप्यायिता कृतकृत्या बुद्धिर्यस्य स योगी व्यक्ताव्यक्तधर्मकेभ्यः = लौकिकालौकिकज्ञानक्रियारूपेभ्यो व्यक्तधर्मकेभ्यः, तथा वेदेहप्रकृतिलयरूपाव्यक्तधर्मकेभ्यो गुणेभ्यो विरक्तो भवतीति तद् द्वयं वैराग्यम्,
तत्रेति । तत्र यदुत्तरं परवैराग्यं तज्ज्ञानप्रसादमात्रम् = ज्ञानस्य यः प्रसादश्चरमोत्कर्षो रजोलेशमलहीनता, अत एव सत्त्वपुरुषान्यताख्यातिसात्रता, तद्रूपं यस्येति, प्रत्युदिख्यातिः = अविप्लुतविवेकः, छिन्नः श्लिष्टपर्वा भवसङ्क्रमः = जन्मसङ्क्रमः, जन्मारम्भकः कर्माश्च इत्यर्थः, छिन्नः श्लिष्टपर्वा सन्धिहीनस्य सञ्जातः, यस्याविच्छेदेति = अविच्छिनात् कर्माशयादित्यर्थः, एवं ज्ञानस्य पराकाष्ठा वैराग्यं, नान्तरीयकम् = अविनाभावि ॥ १६ ॥ अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथमुच्यते सम्प्रज्ञातः समाधिरिति – वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः ॥ १७ ॥ वितर्कश्चित्तस्याऽऽलम्बने स्थूल आभोगः आनन्दो ह्लादः। सूक्ष्मो विचारः। एकात्मिका संविदस्मिता। तत्र प्रथमश्चतुष्टयानुगतः समाधिः सवितर्कः। द्वितीयो वितर्कविकलः सविचारः। तृतीयो विचारविकलः सानन्दः। चतुर्थस्तद्विकलोऽस्मितामात्र इति। सर्व एते सालम्बनाः समाधयः ॥ १७ ॥ व्याख्या भास्वती
“अथ” इति प्रश्नपूर्वकं सूत्रमवतारयति – अभ्यासवैराग्याभ्यां निरुद्धचित्तवृत्तेर्योगिनः कः सम्प्रज्ञातयोगः? वितर्कविचारानन्दास्मितापदार्थानां स्वरूपैरनुगताः साक्षात्कारभेदाः सम्प्रज्ञातस्य लक्षणम्, वितर्क इति व्याचष्टे – चित्तस्यालम्बने = ध्येयविषये यः स्थूल आभोगः = साक्षात् प्रज्ञया परिपूर्णता स वितर्कः, एकाग्रभूमिकस्य चेतसः समाधिजा प्रज्ञेव सम्प्रज्ञात इति प्रागुक्तः, निरन्तराभ्यासात् स्थितिप्राप्त एकाग्रभूमिके चित्ते याः प्रज्ञा जायेरन् ताः प्रतितिष्ठेयुः, ताभिश्च चित्तं परिपूर्णं तिष्ठेत् स एव सम्प्रज्ञातयोगो, न च स समाधिमात्रम्, तत्र षोडशस्थूलविकारविषया समाधिजा प्रज्ञा यदा चेतसि सदैव प्रतितिष्ठति तदा वितर्कानुगतः सम्प्रज्ञातः,
“विचारो ध्यायिनां युक्तिः सूक्ष्मार्थाधिगमो यत” –
इत्येवंलक्षणेन विचारेणाधिगतसूक्ष्मविषयया प्रज्ञया चेतसः परिपूर्णता विचारानुगतः सम्प्रज्ञातः, सूक्ष्मविषयाः = तन्मात्राण्यहङ्कारस्तथाऽस्मितामात्रं महत्तत्त्वञ्च, तदुक्तं भवति – आलम्बनविषयभेदात् सम्प्रज्ञातसमाधिश्चतुर्विधः – वितर्कानुगतः, विचारानुगतः, आनन्दानुगतः, अस्मिताऽनुगतश्चेति, विषयप्रकृतिभेदाच्चापि चातुर्विधः – सवितर्कः, निर्वितर्कः, सविचारः, निर्विचारश्चेति, आलम्बनञ्च स्थूलसूक्ष्मभेदाद् द्विधा, ग्रहीतृग्रहणग्राह्यभेदात् त्रिधा, एतञ्च समापत्तौ वक्ष्यति, तत्रेति । प्रथमो वितर्कानुगतः समाधिश्चतुष्टयानुगतः, तत्र विर्कविचारानन्दास्मिभावा इत्येते सर्वे वर्तन्त इत्यर्थः, द्वितीयो विचारानुगतो योगः स्थूलालम्बनहीनत्वाद् वितर्कविकलः = वितर्ककलाहीनः, तृतीयो वाच्यवाचकहीनकरणगतह्नादयुक्तप्रकाशालम्बी, एवञ्च स्थूलसूक्ष्मग्राह्यहीनत्वाद् वितर्कविचारविकलः, अत्र स्थूलेन्द्रियाणां स्थैर्यसहगतसात्त्विकप्रकाशजात आनन्दः प्रथममालम्बनीक्रियते, ततश्चान्तःकरणस्थैर्यजातस्य ह्लादस्याधिगमो भवति, स्मर्यते च –
“इन्द्रियाणि मनश्चैव यथा पिण्डीकरोत्ययम् । स्वयमेव मनश्चैवं पञ्चवर्गाञ्च भारत ! ॥
पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति । न तत् पुरुषकारेण न च दैवेन केन चिद् ॥
सुखमेष्यति तत्तस्य यथैवं संयतात्मनः । सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि ॥ ” इति,
चतुर्थे ध्यान आनन्दस्यापि “ज्ञाताऽहम्” इत्यस्मितामात्रा संविदेवालम्बनं ततस्तदानन्दादिविकलम् ॥ १७ ॥ अथासम्प्रज्ञातः समाधिः किमुपायः किंस्वभावो वेति – विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥ सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः। तस्य परं वैराग्यमुपायः। सालम्बनो ह्यभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनी क्रियते। स चार्थशून्यः। तदभ्यासपूर्वकं हि चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः सभाधिरसम्प्रज्ञातः ॥ १८ ॥ व्याख्या भास्वती
विरामस्य = सर्वप्रत्ययहीनतायाः प्रत्ययः कारणं परं वैराग्यं तस्याभ्यासः पूर्वः प्रथमो यस्य सः, अस्मीतिप्रत्ययमात्राया बुद्धेरपि हानाभ्यासपूर्वको निष्पन्न इत्यर्थः, संस्कारशेषः = संस्कारा न च प्रत्यया यत्राव्यक्तरूपेणावशिष्टास्तदवस्थः समाधिरसम्प्रज्ञात इति सूत्रार्थः, सर्वेति । सर्ववृत्तिप्रत्यस्तमये = प्रत्ययहीनत्वे प्राप्ते सति याऽवस्था सोऽसम्प्रज्ञातो निर्बीजः समाधिः, तस्योपायः परं वैराग्यम्, सालम्बनोऽभ्यासः = सम्प्रज्ञाताभ्यासः, न तस्य मुख्यं साधनम्, विरामप्र्त्ययः = परवैराग्यरूपो, निर्वस्तुकः = ध्येयविषयहीनः, ग्रहीतरिमहदात्मन्यप्यलम्बुद्धिरूपोऽव्यक्ताभिमुखो मुख्यो रोध इति यावद्, आलम्बनीक्रियते = आश्रीयते, असम्प्रज्ञातेच्छुना योगिनेति शेषः, तदिति । तदभ्यासपूर्वं = तदभ्यासेन हेतुनेत्यर्थः, चित्तमभावप्राप्तमिव = क्रियाहीनत्वाद् विनष्टमिव न तु वस्तुतोऽभावप्राप्तम्, “नाभावो विद्यते सत” इति नियमाद्, निरालम्बनं = ग्रहीतृग्रहणग्राह्यविषयहीनमेवासम्प्रज्ञाख्यो निर्बीजः = नास्ति बीजमालम्बनं यस्य स निरोधः समाधिः ॥ १८ ॥ स खल्वयं द्विविधः - उपायप्रत्ययो भवप्रत्ययश्च। तत्रोपायप्रत्ययो योगिनां भवति – भवप्रययो विदेहप्रकृतिलयानाम् ॥ १९ ॥ विदेहानां देवानां भवप्रत्ययः। ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्ति। तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति ॥ १९ ॥ व्याख्या भास्वती
अन्योऽपि निर्बीजः समाधिरस्ति न स कैवल्याय भवति, तद्विवरणमाह – स खल्विति । द्विविधो निर्बीजः – उपायप्रत्ययः, श्रद्धाऽऽद्युपायहेतुको विवेकपूर्व इत्यर्थः, भवप्रत्ययश्च, तत्र कैवल्यभाजां योगिनामुपायप्रत्ययः, विदेहप्रकृतिलयानाञ्च भवप्रत्ययो निर्बीजः स्याद्, विदेहानामिति । देहः = स्थूलसूक्ष्मशरीरं, तद्धीना विदेहा ये तु पुरुषख्यातिहीनाः किन्तु दोषदर्शनाद् देहधारणे विरागवन्तस्ते तद्वैराग्येण तद्विषयेण च समाधिना सर्वकारणकार्यं निरुन्धन्ति, कार्याभावात् करणशक्तयो न स्थातुमुत्सहन्ते, तसमात् ताः प्रकृतौ लीयन्ते स्वेषामधिष्ठानभूतेन स्थूलसूक्ष्मदेहेन सह न संयुञ्जन्ति, उक्तञ्च – “वैराग्यात् प्रकृतिलयः” इति, एवमेषामपि निर्बीजः समाधिः स्यात् किन्तु वैराग्यसंस्कारजातत्वात् तत् संस्कारबलक्षये स समाधिः प्लवते, न हि पुरुषख्यातिं विना संस्कारस्य सम्यग् नाशः स्याद् चित्तातिरिक्तस्य द्रव्यस्यानधिगतत्वात्, ततस्तदा यो वैराग्यसंस्कारस्तिष्ठति तद्बलक्षयाच्च पुनरुत्थानम्, उक्तञ्च – “मग्नवदुत्थानम्” इति, यथा विदेहानां देवानां तथा प्रकृतिलयानामपि वेदितव्यम्, ये तु पुरुषख्यातिहीनाः सञ्ज्ञामात्ररूपे ग्रहीतर्यपि विरागवन्तो न देहमात्रे, तद्विरागात्, तदनुरूपसमाधेश्च तेषां विवेकहीनत्वात् साधिकारं चित्तं प्रक्रुतौ लीयते, लीनञ्च तिष्ठति यावत् तद्वैराग्यहेतुकनिरोधसंस्कारस्य बलक्षयम्, विदेहप्रकृतिलयानां निरोधो भवप्रत्ययः = भवति जायतेऽनेनेति भवो = जन्महेतवः क्लेशमूलाः संस्काराः उक्तञ्च –
“विवेकख्यातिहीनस्य संस्कारश्चेतसो भवः । अशरीरि शारीरि वा प्लवं जन्म यतो भवेद् ॥ ” इति,
जन्म किल मरणान्तं, वैदेह्यादेर्विप्लुतिदर्शनात् तज्जन्मैव, जन्म त्वविद्यामूलात् संस्काराद् भवति, विदेहादीनां तत्तज्जन्म विवेकहीनात् सूक्ष्मास्मितामूलाद् वैराग्यसंस्कारात् सङ्घटते यथा क्लेशमूलात् कर्माशयाद् देहवतां जन्म, विदेहप्रकृतिलया महासत्त्वाः, ते हि पुनरावर्त्तने महर्द्धिसम्पन्ना भूत्वा प्रादुर्भवन्ति, एतेन भाष्यं व्याख्यातम्, विदेहानामिति । स्वसंस्कारमात्रोपयोगेन(१) = स्वस्य वैराग्यसंस्कारस्य, उपयोगेन = आनुकूल्येन, चित्तेनेति चित्तस्याप्रतिप्रसवत्त्वं सूचयति, कैवल्यपदमिवानुभवन्त इति, विदेहप्रकृतिलयास्तु मोक्षपदे वर्तन्त इति न लोकमध्ये न्यस्ता इति भाष्यात्, ते हि न लोकिनो भूताद्यभिमानिनो देवाः, नापि भूतादिध्यायिनो देवाः, तेषां हि चित्तमव्यक्ताप्राप्तं यथा, केवलिनाम्, स्वसंस्कारविपाकं = स्वेषां वैराग्यसंस्कारस्य विपाकभूतमवच्छिन्नकालं यावद् लीनचित्ततारूपं यदवस्थानं तथाजातीयकमतिवाहयन्ति, तथेति सुगमम् ॥ १९ ॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥ उपायप्रत्ययो योगिनां भवति। श्रद्धा चेतसः सम्प्रसादः। सा हि जननीव कल्याणी योगिनं पाति। तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यमुपजायते। समुपजातवीर्यस्य स्मृतिरुपतिष्ठते। स्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते। समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते। येन यथार्थं वस्तु जानाति। तदभ्यासात्तत्तद्विषयाच्च वैराग्यादसम्प्रज्ञातः समाधिर्भवति ॥ २० ॥ व्याख्या भास्वती
श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-इत्युपायेभ्यः कैवल्यार्थिनां योगिनामसम्प्रज्ञातो निर्बीजो भवति, ननु विदेहादीनामपि श्रद्धावीर्यादीनि विद्यन्ते स्म, अथ कोऽत्र योगिनां विशेष इत्यत आह – श्रद्दधानस्य विवेकार्थिन इति, तस्मात् श्रद्धाऽत्र विवेकविषये चेतसः सम्प्रज्ञातः = अभिरुचिमती बुद्धिः, अभिरुचिरूपायाः श्रद्धया वीर्यं प्रयत्नः, ततः स्मृतिः = सदा समनस्कतोपतिष्ठते, स्मृत्युपस्थाने = स्मृतावुपस्थितायाम्, अनाकुलम् = अविलोलं, चित्तम् समाधीयते = अश्तान्गयोगाद् भवति, समाधेः प्रज्ञाविवेकः = प्रज्ञाया विवेकः = वैशिष्ट्यं = विशदता = उत्कर्ष इति यावद्, उपावर्त्तते = समुपजायत इत्यर्थः, प्रज्ञाप्रकर्षेण यथावद् वस्तु = तत्त्वानीत्यर्थः, जानाति तदभ्यासाद् = व्युत्थानसंस्कारनाशे, उत्पन्ने च परवैराग्येऽसम्प्रज्ञातः समाधिर्भवतीति ॥ २० ॥ ते खलु नव योगिनो मृदुमध्याधिमात्रोपाया भवन्ति। तद्यथा - मृदूपायो मध्योपायोऽधिमात्रोपाय इति। तत्र मृदूपायस्त्रिविधः – मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेग इति। तथा मध्योपायस्तथाऽधिमात्रोपाय इति। तत्राधिमात्रोपायानां – तीव्रसंवेगानामासन्नः ॥ २१ ॥ समाधिलाभः समाधिफलं च भवतीति ॥ २१ ॥ व्याख्या भास्वती
त इति । स्पष्टं भाष्यम्, तीव्रसंवेगानां = तीव्रः संवेगः = शीघ्रलाभाय निरन्तरानुष्ठान इच्छाप्राबल्यं येषां तेषां समाधिलाभः कैवल्यञ्चासन्नं भवति ॥ २१ ॥ मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥ मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति। ततोऽपि विशेषः। तद्विशेषादपि मृदुतीव्रसंवेगस्याऽऽसन्नः, ततो मध्यतीव्रसंवेगस्याऽऽसन्नतरः, तस्मादधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्यासन्नतमः समाधिलाभः समाधिफलं चेति ॥ २२ ॥ व्याख्या भास्वती
मृदुतीव्र इति । सुगमं भाष्यम् अधिमात्रोपायः = अधिकप्रमाणकोपायः, तद् यथा समाधिसाधनोपायेष्वविचला श्रद्धेत्यादिः ॥ २२ ॥ किमेतस्मादेवाऽऽसन्नतमः समाधिर्भवति। अथास्य लाभे भवत्यन्योऽपि कश्चिदुपायो न वेति – ईश्वरप्रणिधानाद्वा ॥ २३ ॥ प्रणिधानाद्भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णात्यभिध्यानमात्रेण। तदभिध्यानमात्रादपि योगिन आसन्नतमः समाधिलाभः समाधिफलं च भवतीति ॥ २३ ॥ व्याख्या भास्वती
किमिति । एतस्माद् = ग्रहीतृग्रहणग्राह्याणां सम्प्रज्ञानलाभाय तीव्रसंवेगादेवासन्नतमः समाधिर्भवति न वेति? ईश्वरप्रणिधानाद् वाऽपि स भवति, प्राणिधानादिति । सर्वकर्मार्पणपूर्वं भावनारूपं प्राणिधानं न तु कर्मार्पणमाञम्, तच्च भक्तिविशेषः, तस्माद् भक्तिविशेषाद् = हृदि ब्रह्मपुरे व्योम्नि प्रतिष्ठितमात्मनीश्वरसत्त्वमनुभवतः परमप्रेमास्पदे तस्मिन् निवेदितात्मनो निश्चिन्तस्य योगिनः सदैवावस्थानमियं समाधिसाधिनी भक्तिः, तादृशभक्त्याऽऽबर्जितः = अभिमुखीकृतः, ईश्वरस्तं योगिनमनुगृह्णाति, अभिध्यानमात्रेणेच्छामात्रेण नान्येन व्यापारेणेत्यर्थः, कल्पप्रलयमहाप्रलयेषु संसारिण: पुरुषानुद्धरिष्यामीति वाक्यादीश्वरः प्रलयकाल एव निर्माणचित्तेनाभिध्यानं करोतीति गम्यते, अन्यदा सगुणब्रह्मणो हिरण्यगर्भस्यैवाभिध्यानं लभ्यम्, किञ्च – ईश्वराभिध्यानालाभेऽपि तत् प्रणिधानादेवासन्नतमः समाधिलाभो भवति, समाहितपुरुषे प्रवतर्त्तिता भावना शीघ्रं समाधिमानयेदिति, उक्तञ्च सूत्रकृता – “ततः प्रत्यक्चेतनाधिगमोऽन्तरायाभावश्च” इति ॥ २३ ॥ अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति – क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥ अविद्यादय क्लेशाः। कुशलाकुशलानि कर्माणि। तत्फलं विपाकः। तदनुगुणा वासना आशयाः। ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते, स हि तत्फलस्य भोक्तेति। यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते। यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः। कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः। ते हि त्रीणि बन्धनानि च्छित्त्वा कैवल्यं प्राप्ता ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी। यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवमीश्वरस्य। यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः सम्भाव्यते नैवमीश्वरस्य। स तु सदैव मुक्तः सदैवेश्वर इति। योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विन्निर्निमित्त इति। तस्य शास्त्रं निमित्तम्। शास्त्रं पुनः किन्निमित्तं, प्रकृष्टसत्त्वनिमित्तम्। एतयोः शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिः सम्बन्धः। एतस्मादेतद्भवति सदैवेश्वरः सदैव मुक्त इति। तच्च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम्। न तावदैश्वर्यान्तरेण तदतिशयते। यदेवातिशयि स्यात्तदेव तत्स्यात्। तस्माद्यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वर इति। न च तत्समानमैश्वर्यमस्ति। कस्मात्, द्वयोस्तुल्ययोरेकस्मिन्युगपत्कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्वित्येकस्य सिद्धावितरस्य प्राकाम्यविघातादूनत्वं प्रसक्तम्। द्वयोश्च तुल्ययोर्युगपत्कामितार्थप्राप्तिर्नास्ति। अर्थस्य विरुद्धत्वात्। तस्माद्यस्य साम्यातिशयैर्विनिर्मुक्तमैश्वर्यं स एवेश्वरः। स च पुरुषविशेष इति ॥ २४ ॥ व्याख्या भास्वती
अथेति । ननु पञ्चविंशतितत्त्वान्येव विश्वस्य निमित्तोपादानं कारणं, तत्र प्रधानं मूलमुपादानं पुरुषस्तु मूलं निमित्तं, यत् किञ्चिद् विद्यते कल्पनीयञ्च यद् भवेत् तत्सर्वं प्रधानपुरुषात्मकमिति साङ्ख्ययोगनयः, ईश्वरस्तु न प्रधानं नापि पुरुषमात्र इत्यतः स कः? स हि – एशचित्तव्यपदिष्टो मुक्तपुरुषविशेषो यस्य चित्तं सदैव मुक्तमित्यस्य प्रधानपुरुषव्यतिरिक्ता, तस्य लक्षणमाह सूत्रकारः – क्लेशेति । अविद्येति । अविद्याऽऽदयः पञ्च क्लेशाः = दुःखकराणि विपर्ययज्ञानानि, कर्माणि = धर्माधर्मसंस्काररूपाणि, वासनाः = आशयाः, तद् यथा-जातिवासना-आयुर्वासना-सुखदुःखवासना-चेति, तत्र मनसि वर्त्तमानाः पुरुषे साक्षिणि व्यपदिश्यन्ते = उपचर्यन्ते, स हि पुरुषस्तत्फलस्य = उपचारफलस्य वृत्तिरोधरूपस्य भोक्ता बोद्धा, दृष्टान्तमाह – यथेति । यो हीति । अनेन भोगेन = क्लेशमूलकर्मफलस्य भोक्तृभावेनेत्यर्थः, योऽपरामृष्टः = अव्यपदिष्टः,किन्तु – विद्यामूलनिर्माणचित्तेन कदा चित् परामृष्टः; स पुरुषविशेष ईश्वरः, तस्य विशेषत्वं विवृणोति – कैवल्यमिति । त्रीणि बन्धनानि = प्राकृतिकं, वैकृतिकं, दाक्षिणञ्चेति, प्राकृतिकं बन्धनं प्रकृतिलयानाम्, वैकृतिकं विदेहलयानाम् अन्येषाञ्च भूततन्मात्रादिध्यायिनाम्, दाक्षिणबन्धनं दक्षिणादिनिष्पाद्यकर्मकृताम्, पूर्वा बन्धकोटिः = पूर्वबन्धनरूपो मोक्षप्रान्तः, उत्तरा बन्धकोटिः सम्भाव्यते = सम्भवतीति ज्ञायते, स हि सदैव मुक्तः सदैवेश्वरः, अत्रायं न्यायः – वस्तूर्ना जातिरनादिर्धर्मिणां नित्यत्वात्, तस्माद् बद्धजातीयकं तथा मुक्तजातीयकं चित्तमनादि, यस्तु – अनादिमुक्तचित्तेन व्यपदिष्टः पुरुषविशेषः स ईश्वरः, अतः स सदैव मुक्तः सदैवेश्वर इति, नन्वनेनासङ्ख्याता एव नित्यमुक्तपुरुषाः सम्भावयन्त इति, सत्यं, किन्तु – तत्र सर्वेषां द्रष्टृणां तथा मुक्तचित्तानामेकरूपत्वप्रसङ्गाद् नास्ति पृथग् व्यापदेशोपयः, अतो मोक्षतत्त्वरूपो नित्यमुक्त ईश्वर एकस्वरूपेणोपासनीय एवेति न्याय्या विचारणा, य इति । प्रकृष्टसत्त्वोपादानात् = प्रकृष्टं सार्वज्ञ्ययुक्तं सत्त्वं-बुद्धिः, तस्योपादानात् = तद्रूपादुपाधेर्योगाद्, ईश्वरस्य योऽसौ शाश्वतिकः = नित्यः, उत्कर्षः स किंसनिमित्तः = सप्रमाणकः, आहोस्विद् निर्निमित्तः? इति, प्रत्युत्तरमाह – तस्येति । ईश्वरस्य सत्त्वोत्कर्षस्य शास्त्रम् = मोक्षविद्यैव, निमित्तम् = प्रमाणम्, मोक्षविद्या पुनरधिगतमोक्षधर्मेण सिद्धचित्तेनैव देशनीया, श्रूयते च –
“ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति” इति,
एतयोरिति । एवमनादिप्रवर्त्तिन्यां सर्गपरम्परायामीश्वरसत्त्वे = ईश्वरचित्ते, वर्त्तमानयोः शास्त्रोत्कर्षयोः = शासनीयमोक्षविद्यायास्तथा विवेकरूपस्योत्कर्षस्य चेति द्वयोरनादिसम्बन्धः, विनिगमयति - एतस्मादिति । तच्चेति । अस्य प्रयोगो यथा – अस्ति सातिशयमैश्वर्य सातिशयत्वदर्शनादैश्वर्यसय, यस्मिन् परुषे सातिशयस्यैश्वर्यस्य काष्ठाप्राप्तिः स एवेश्वरः साम्यातिशयनिर्मुक्तैश्वर्यवान्, तत्समानं तदधिकञ्चैश्वर्यं नास्ति कस्य चित्, न चेति । एतदुक्तं भवति – सन्ति बहव ऐश्वर्यवन्तः पुरुषाः, ईश्वरोऽपि तादृशः पुरुषः, किन्तु - तत्तुल्ये तदधिके वा ऐश्वर्येऽविद्यमाने तस्येश्वरत्वसिद्धिर्न स्याद्, अतो निरतिशयत्वात् साम्यातिशयशून्यं यस्यैश्वर्य स पुरुषविशेष एवेश्वरपदवाच्य इति वयं ब्रूमः, प्राकाम्यविघातादूनत्वम् = प्राकाम्यमहतेच्छा तस्यविघातादवरत्वम् ॥ २४ ॥ किं च – तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥ यदिदमतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सर्वज्ञबीजमेतद्विवर्धमानं यत्र निरतिशयं स सर्वज्ञः। अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात्परिमाणवदिति। यत्र काष्ठाप्राप्तिर्ज्ञानस्य सु सर्वज्ञः। स च पुरुषविशेष इति। सामान्यमात्रोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थमिति। तस्य सञ्ज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या। तस्याऽऽत्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम्। ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामीति। तथा चोक्तम् – आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद्भगवान्परमर्षिरासुरये जिज्ञासमानाय तत्रं प्रोवाचेति ॥ २५ ॥ व्याख्या भास्वती
किञ्चेतीश्वरसिद्धावनुमानप्रमाणमाह – यत्र सातिशयं सर्वज्ञबीजं निरतिशयत्वं प्राप्तं स एवेश्वरः, यदित्यनुमितिं विवृणोति – अतीतानागतप्रत्युत्पन्नानामतीन्द्रियविषयाणां प्रत्येकं समुच्चयेन च = एकस्य बहूनाञ्चेत्यर्थः, यदिदमल्पं वा बहु वा ग्रहणं दृश्यते तत् सर्वज्ञबीजंसार्वज्ञ्यस्यानुमापकम्, एतद् विवर्धमानं यत्र चित्ते निरतिशयत्वं प्राप्तं तच्चित्तवान् पुरुषः सर्वज्ञः, अस्य न्यायस्य प्रयोगमाह – अस्तीति । ससीमानां पदार्थानामुपादानं चेदमेयं तदातेऽसङ्ख्याः स्युः, तादृशामेयपदार्थाः क्रमशो विवर्धमानाः सातिशया इत्युच्यन्ते, अमेयोपादानकानां सातिशयानां पदार्थानां विवर्धमानता निरवधिः स्यात्, तद् निरवधिबृहत्वमेव निरतिशयत्वम्, यथाऽमेयदेशोपादानका वितस्तिहस्तव्यामक्रोशगव्यूतियोजनादयः परिमाणा विवर्धमाना असङ्ख्ययोजनरूपं निरतिशयबृहत्त्वं प्राप्नुयुः, ज्ञानशक्तय-आकृमेर्मानवस्थिताः सातिशया दृश्यन्ते, तासाञ्चोपादानममेयं प्रधानम्, तस्मात् सातिशयास्ता निरतिशयत्त्वं प्राप्नुयुः, यत्र चेतसि ज्ञानशक्तेर्निरतिशयत्त्वं तच्चित्तवान् सर्वज्ञपुरुष ईश्वर इत्यनुमानसिद्धिः, स च भगवान् परमेश्वरो जगद्व्यापारलिप्तो नित्यमुक्तत्वाद्, मुक्तपुरुषस्य जगत्सर्जनमनुपन्नं शास्त्रव्याकोपकञ्च जगत्सर्जनपालनादिकार्यमक्षरब्रह्मणो हिरण्यगर्भस्य , श्रूयते च –
“हिरण्यगर्भः समवर्त्तताग्रे विश्वस्य जातः पतिरेक आसीद” इति,
“ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता” इति च,
न हि जगतः स्रष्टा ब्रह्मा मुक्तपुरुषः तस्यापि मुक्तिस्मरणात्, उक्तञ्च –
“ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्” इति,
सर्ववित् – सर्वाधिष्ठाता – जगदन्तरात्मा ब्रह्मविष्णुरुद्रस्वरूपो भगवान् हिरण्यगर्भः, स हि पूर्वसर्गे सास्मितसमाधिसिद्धेरिह सर्गे सर्वज्ञः सर्वाधिष्ठाता भूत्वा प्रादुर्भूतः, तस्यैशसंस्कारादेव सृष्टिः प्रवर्त्तते, विवेकबलाद् यदा स परं पदं प्रविशति तदा ब्रह्माण्डस्य लय इत्येव श्रुतिस्मृतिसाङ्ख्ययोगानां समीचीनो सिद्धान्तः, सामान्येति । सामान्यमात्रोपसंहारः ईदृशेश्वरोऽस्तीति सामान्यमात्रनिश्चयं जनयित्वा कृतोपक्षयं = निवृत्तमनुमानम्, न तद्विशेषप्रतिपत्तौ = विशेषज्ञानजनने समर्थमिति हेतोरीश्वरस्य सञ्ज्ञाऽऽदिविशेषप्रतिपत्तिः = प्रणवादिसञ्ज्ञायाः प्रणिधानोपायस्य च ज्ञानं, शास्त्रतः पर्यन्वेष्या = शिक्षणीयेत्यर्थः, तस्येति । ईश्वरस्यात्मानुग्रहाभाषेऽपि = स्वोपकाराय प्रवर्त्तनाभावेऽपि, भूतानुग्रहः प्रयोजनम् = तत्कर्मणः प्रयोजकम्, तस्य नित्यमुक्तस्य भगवतः किं कार्य्यनयाय्यं तदाह – तस्य नित्यमुक्तस्य नित्यकालं यावद् जगज्जननसंहारादिकार्यं न न्यायेन सङ्गतम्, ईश्वाराणां कार्यं ज्ञानधर्मोपदेशेन संसारिणां पुरुषाणामुद्धरणम्, भूतोपघातहीनं परमपदप्रापणं कार्यं कारुणिकस्य सर्वज्ञस्य भवितुमर्हतीति, ईश्वरस्तथा च सगुणेश्वरो भगवान् हिरण्यगर्भः सर्गकाले स्वात्मन्यवस्थाथ प्रलयकाले जनिष्यमाणेन निर्माणचित्तेन भूतानुग्रहं करोतीति योगानां मतम्, अधिगतकैवल्यस्यापि योगिनो निर्माणचित्ताधिष्ठानं कुर्वतो देशनाविषये “पञ्चशिखाचार्यस्य” वचनं प्रमाणयति - तथेति । आदिविद्वान् भगवान् परमर्षिः कपिलः, निर्माणचित्तं = नष्टे संस्कारे योगिनां चित्तम् न स्वयमेव व्युत्तिष्ठति किन्तु स्वेच्छापरिणतयाऽस्मितया योगिनश्चित्तं निर्मियते भूतानुग्रहाय, तादृशं निर्माणचित्तमधिष्ठाय जिज्ञासमानाय “आसुरये” कारुण्यात् तन्त्र = साङ्ख्ययोगविद्यां प्रोवाच, एवमीश्वरो नित्यमुक्तोऽपि निर्माणचित्तमधिष्ठाय तदेकशरणानप्रतिपन्नविवेकान् योगिनो विवेकोपदेशेन निःश्रेयसं प्रापयतीति सर्वमवदातम, ईश्वर एक एव ब्रह्मादयो देवा असङ्ख्याताः, ब्रह्माण्डानामसङ्ख्येयत्वाद्, उक्तञ्च –
“कोटिकोट्ययुतानीशे चाण्डानि कथितानि तु । तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥
असङ्ख्याताश्च रुद्राद्या असङ्ख्याताः पितामहाः । हरयश्चाप्यसङ्ख्याता एक एव महेश्वरे ॥ इति ॥ २५ ॥ स एषः – पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥ पूर्वे हि गुरवः कालेनावच्छिद्यन्ते। यत्रावच्छेदार्थेन कालो नोपावर्तते स एष पूर्वेषामपि गुरुः। यथाऽस्य सर्गस्याऽऽदौ प्रकर्षगत्या सिद्धस्तथाऽतिक्रान्तसर्गादिष्वपि प्रत्येतव्यः ॥ २६ ॥ व्याख्या भास्वती
पूर्व इति । पूर्वे गुरवो हिरण्यगर्भादयः कालेनावच्छेद्यन्ते न नित्यमुक्ता इत्यर्थः, यथेति । यथा – एतत्सर्गस्यादावीश्वरस्य प्रकर्षगत्या = प्रकर्षस्य = मोक्षस्य गतिः = अवगतिस्तया ईश्वरः सिद्धस्तथाऽअतिक्रान्तसर्गेष्वपि स सिद्धः, आदिशब्देनानागतसर्गेष्वपि तत्सिद्धिरिति प्रत्येतव्या ॥ २६ ॥ तस्य वाचकः प्रणवः ॥ २७ ॥ वाच्य ईश्वरः प्रणवस्य। किमस्य सङ्केतकृतं वाच्यवाचकत्वमथ प्रदीपप्रकाशवदवस्थितमिति। स्थितोऽस्य वाच्यस्य वाचकेन सह सम्बन्धः। सङ्केतस्त्वीश्वरस्य स्थितमेवार्थमभिनयति। यथाऽवस्थितः पितापुत्रयोः सम्बन्धः सङ्केतेनावद्योत्यते, अयमस्य पिता, अयमस्य पुत्र इति। सर्गान्तरेष्वपि वाच्यवाचकशक्त्यपेक्षस्तथैव सङ्केतः क्रियते। सम्प्रतिपत्तिनित्यतया नित्यः शब्दार्थसम्बन्ध इत्यागमिनः प्रतिजानते ॥ २७ ॥ व्याख्या भास्वती
तस्येति । ईश्वरस्य वाचकः = नाम प्रणव ओङ्कार इति सूत्रार्थः, किमिति । सन्ति पदार्थ ये साङ्केतिकवाचकपादमन्तरेणापिबुध्यन्ते, यथा – नीलः पीतो गौरित्यादयः, के चित् पदार्था न तथा, ते हि वाचाकैः पदैरवावगम्यन्ते, यथा – पिता पुत्र इत्यादयः, येनोत्पादितः पुत्रः स पितेति वाक्यार्थः पितृशब्देनं सङ्केतीकृतः, तत्सङ्केतंविना न पितृपदार्थस्यावगतिः, अत्र हि वाच्यवाचाकसम्बन्धः प्रदीपप्रकाशवदवस्थितः, यथा – प्रदीपप्रकाशावविनाभाविनौ तथा पित्रादिशब्दतदर्थौ, एवं स्थित एव वाच्येन सह वाचाकस्य सम्बन्धः, ईश्वरवाचाकप्रणवशब्दस्तमर्थमभिनयति – प्रकाशयति, एतदुक्तं भवति – यः क्लेशादिभिरपरामृष्टो नित्यमुक्तः कारुणिकः स ईश्वर इत्यादिरर्थो न वाचाकशब्दं विना बोद्धव्यः, अतः केन चिद् वाचकेन सह तद्वाच्यस्य सम्बन्धोऽविनाभावित्वान्नित्यस्थित एव, सङ्केतीकृतेन प्रणवेन वाचकेन तदर्थस्यावद्योतनम्, सर्गान्तरेष्वपीदृशो वाच्यवाचकशक्त्यपेक्षः सङ्केतः क्रियते नान्यथा, तद्वैपरीत्यस्याकल्पनीयत्वादिति, एवं सम्प्रतिपत्तेः = सदृशव्यवहारपरम्परायाः, प्रणवरूपेण नित्यत्वान्नित्यः शब्दार्थसम्बन्धः = केन चिच्छब्देन सह कस्य चिदर्थस्य सम्बन्ध इत्यागमिनः प्रतिजानते = आतिष्ठते ॥ २७ ॥ विज्ञातवाच्यवाचकत्वस्य योगिनः – तज्जपस्तदर्थभावनम् ॥ २८ ॥ प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम्। तदस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतश्चित्तमेकाग्रं सम्पद्यते। तथा चोक्तम् – स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत्। स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते ॥ इति ॥ २८ ॥ व्याख्या भास्वती
विज्ञातेति । विज्ञातवाच्यवाचकत्वस्य = प्रणवस्मरणेन सह सार्वज्ञ्यादिगुणयुक्तस्येवरस्य स्मृतिरूपतिष्ठते स एव विज्ञातवाच्यवाचको योगी, तस्य तज्जपः प्रणवजपस्तदर्थभावनञ्चेश्वरप्राणिधानं चित्तस्थितिकरम्, प्रणवस्येति । सुगमम्, तथेति । स्वाध्यायाद् = निरन्तरप्रणवजपाद्, योगम् = ऐकाग्र्यम्, आसीत् = सम्पादयेदित्यर्थः, योगाद् = ऐकाग्र्यलब्धायाऽन्तर्दृष्ट्या सूक्ष्मस्यार्थस्याअधिगमात्, स्वाध्यायमामनेद् = अभ्यसेत्, तमर्थं लक्षीकृत्य जञ्जभूको भवेदित्यर्थः, एवं स्वाध्याययोगसम्पत्त्या= स्वाध्यायेन योगोत्कर्षस्य योगेन च स्वाध्यायोत्कर्षस्य सम्पादनमित्यनेनोपायेन परमात्मा प्रकाशते ॥ २८ ॥ किं चास्य भवति – ततः प्रत्यक्त्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥ ये तावदन्तराया व्याधिप्रभृतयस्ते तावदीश्वरप्रणिधानान्न भवन्ति। स्वरूपदर्शनमप्यस्य भवति। यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः केवलोऽनुपसर्गस्तथाऽयमपि बुद्धे प्रतिसंवेदी यः पुरुषस्तमधिगच्छति ॥ २९ ॥ व्याख्या भास्वती
किञ्चेति । किञ्ज – ईश्वरप्राणिधानादस्य योगिनः प्रत्यक्चेतनाधिगमोऽन्तरायाभाव्श्च भवति, प्रत्यङ् = प्रतिव्यक्तिगतः, चेतनः = चैतन्यम्, आत्मगतस्य = द्रष्टृचैतन्यस्य , अधिगमः = उपलब्धिर्भवति योगान्तारायाभावश्च भवति, कथं? स्वरूपदर्शनं प्रत्यक्चेतनाधिगमः? तदाह – यथेति । यथैवेश्वरः शुद्धः = गुणातीतः, प्रसन्नः = अविद्याऽऽदिहीनः, केवलः = कैवल्यं प्राप्तः, अनुपसर्गः = कर्मविपाकहीनः =, तथाऽयमप्यात्मा बुद्धेः प्रतिसंवेदी यः पुरुष इत्येवं मुक्तपुरुषप्राणिधानान्निर्गुणस्वात्माचैतन्यस्याधिगमो भवति ॥ २९ ॥ अथ केऽन्तराया ये चित्तस्य विक्षेपाः। के पुनस्ते कियन्तो वेति – व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चितविक्षेपास्तेऽन्तरायाः ॥ ३० ॥ नवान्तरायाश्चित्तस्य विक्षेपाः। सहैते चित्तवृत्तिभिर्भवन्ति। एतेषामभावे न भवन्ति पूर्वोक्ताश्चित्तवृत्तयः। व्याधिर्धातुरसकरणवैषम्यम्। स्त्यानमकर्मण्यता चित्तस्य। संशय उभयकोटिस्पृग्विज्ञानं स्यादिदमेवं नैवं स्यादिति। प्रमादः समाधिसाधनानामभावनम्। आलस्यं कायस्य चित्तस्य च गुरुत्वादप्रवृत्तिः। अविरतिश्चित्तस्य विषयसम्प्रयोगात्मा गर्धः। भ्रान्तिदर्शनं विपर्यज्ञानम्। अलब्धभूमिकत्वं समाधिभूमेरलाभः। अनवस्थितत्वं यल्लब्धायां भूमौ चित्तस्याप्रतिष्ठा। समाधिप्रतिलम्भे हि सति तदवस्थितं स्यादिति। एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इत्यभिधीयन्ते ॥ ३० ॥ व्याख्या भास्वती
अथेति सूत्रमवतारयति – नवेति । पूहप नोजगोगप, रसः = आहारपरिपाकजातरसः, करणानि = चक्षुरादीनि, एषां वैषम्यं वैरूप्यं व्याधिः, अकर्मण्या = भरमणात् उभयकोटिसपृक् = इदं वाऽदो वेत्युभयप्रान्तस्पर्शी, गुरुत्वाद् = जाड्याद्, निद्रातन्द्राऽऽदितामसावस्थायाया कायचित्तयोः साधनऽप्रवृत्तिः, विषयसम्प्रयोगात्मा गर्धः = विषयसंस्थारूपातृष्णा, भ्रान्तिदर्शनं = तत्त्वानामतद्रूपपरतिष्ठं गणानां, समाधिभूमिः = मधुमती मधुप्रतीका प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति चातस्रोऽवस्था ॥ ३० ॥ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥ दुःखमाध्यात्मिकमाधिभौतिकमाधिदैविकं च। येनाभिहताः प्राणिनस्तदपघाताय प्रयतन्ते तद्दुःखम्। दौर्मनस्यमिच्छाविघाताच्चेतसः क्षोभः। यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम्। प्राणो यद्बाह्यं वायुमाचामति स श्वासः। यत्कौष्ठ्यं वायुं निःसारयति स प्रश्वासः। एते विक्षेपसहभुवो विक्षिप्तचित्तस्यैते भवन्ति। समाहितचित्तस्यैवे न भवन्ति ॥ ३१ ॥ व्याख्या भास्वती
दुःखमिति । सुगमम् । अभिहिता = अभिघातप्राप्ताः, उपघाताय = निरासाय ॥ ३१ ॥ अथैते विक्षेपाः समाधिप्रतिपक्षास्ताभ्यामेवाभ्यासवैराग्याभ्यां निरोद्धव्याः। तत्राभ्यासस्य विषयमुपसंहरन्निदमाह – तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥ विक्षेपप्रतिषेधार्थमेकतत्त्वावलम्बनं चित्तमभ्यसेत्। यस्य तु प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वमेव चित्तमेकाग्रं नास्त्येव विक्षिप्तम्। यदि पुनरिदं सर्वतः प्रत्याहृत्यैकस्मिन्नर्थे समाधीयते तदा भवत्येकाग्रमित्यतो न प्रत्यर्थनियतम्। योऽपि सदृशप्रत्ययप्रवाहेन चित्तमेकाग्रं मन्यते तस्यैकाग्रता यदि प्रवाहचित्तस्य धर्मस्तदैकं नास्ति प्रवाहचित्तं क्षणिकत्वात्। अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः, स सर्वः सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्वादेकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः। तस्मादेकमनेकार्थमवस्थितं चित्तमिति। यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जायेरन्नथ कथमन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत्। अन्यप्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत्। कथञ्चित्समाधीयमानमप्येतद्गोमयपायसीयन्यायमाक्षिपति। किं च स्वात्मानुभवापह्नवश्चित्तस्यान्यत्वे प्राप्नोति। कथं, यदहमद्राक्षं तत्स्पृशामि यच्चास्प्राक्षं तत्पश्यामीत्यहमिति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्यभेदेनोपस्थितः। एकप्रत्ययविषयोऽयमभेदात्माऽहमिति प्रत्ययः कथमत्यन्तभिन्नेषु चित्तेषु वर्तमानः सामान्यमेकं प्रत्ययिनमाश्रयेत्। स्वानुभवग्राह्यश्चायमभेदात्माऽहमिति प्रत्ययः। न च प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते। प्रमाणान्तरं च प्रत्यक्षबलेनैव व्यवहारं लभते। तस्मादेकमनेकार्थमवस्थितं च चित्तम् ॥ ३२ ॥ व्याख्या भास्वती
अथेति । चित्तनिरोधेन सह विक्षेपा निरुद्धा भवन्ति, अभ्यासवैराग्याभ्यां निरोधः साव्यः, तयोर्मध्येऽभ्यासस्य विषयमुपसंहरन् = सङ्क्षिपन्, इदमाह = ईश्वरप्रनिधानादीनां सर्वेषामभ्यासानां साधारणविषयं सारभूतं समासत आह – तदिति सूत्रेण, विक्षेपप्रतिषेधार्थमेकतत्त्वालम्बनं = यस्मिन् ध्येयविषय एकतत्त्वात्मकं नानेकभावेषु विचरणस्वभावकं तादृशविषयकं वित्तमभ्यसेत्, ईश्वरओरनिधान आदौ चित्तमनेकविषयेषु विचरति, यथा – यः क्लेशादिरहितो यः सर्वज्ञो यः सर्वव्यापीतयादिभावेषुसञ्चरणं नैकतत्त्वालम्बनता चेतसः, अभ्यासबलात्तान् सर्वान् समाहृत्य यदैकस्वरूपध्येयालम्बनं चित्तङ्क्रियते तदा तादृशादभ्यासात् कायेन्द्रियस्थैर्यं क्षिप्रं प्रवर्त्तते ततश्च विक्षेपा दूरीभवन्ति, एकतत्त्वालम्बनायाहम्भावः श्रेष्टो विषयः, ईश्वरप्रणिधानेऽप्यात्मानमीश्वरस्थं कृत्वा ईश्वरवदहमिति ध्यायेद्, उक्तञ्च –
“एकं ब्रह्ममयं ध्यायेत् सर्वं विप्र! चराचरम् । चराचरविभागञ्च त्यजेदहमिति स्मरन् ॥ इति,
सर्वेष्वभ्यासेष्वेकतत्त्वालम्बनस्य चेतसोऽभ्यासः श्रेष्ठः, चित्तमेकाग्रं कार्यमित्युपदेशो न तु योगानामेव किन्तु क्षणिकवादिनोऽपि चित्तस्य निरोधाय तस्यैकग्र्यमुपदिशन्ति, तेशाञ्च दृष्ट्या चित्तस्यिकाग्रयं निरर्थकं वाङ्मात्रमित्युपपादयति – अतोऽत्र तदुपन्यासोनाप्रस्तुतइति, क्षणिकवादिनां नये चित्तं प्रत्यर्थनित्यं = प्रत्येकमर्थः उद्भूतं समाप्तञ्चन किञ्चिद् वस्त्वेकक्षणिकचित्तात् क्षणान्तरभाविनि चित्ते गच्छति, तच्च प्रत्ययमात्रम् = तेषान्नये संस्कारा अपि प्रत्ययाः, नास्ति प्रत्ययातिरिक्तं किञ्चिच्छूनयोपादानत्वात्, तथा च तेषां चित्तम् क्षणिकं = प्रत्येकं क्षणमात्रव्यापि निरन्वयत्वात्, क्षणक्रमेणोदयमानानि चित्तानि पृथक् , पूर्वक्षणिकं चित्तमुत्तरस्य प्रत्ययरूपं निमित्तकारणं पूर्वस्यात्यन्तनाशरूपे निरोध उत्तरं शून्यादेवोत्पद्यते, उक्तञ्च –
“सर्वे संस्कारा अनित्या उत्पादव्यधर्मिणः । उत्पाद्य च निरुद्ध्यन्ति तेषां व्युपशमः सुखः ॥ ” इति,
तस्येति । एतन्नये सर्वमेव चित्तमेकाग्रं स्याद् निरर्था तेषां विक्षिप्तं चित्तमित्युक्तिः, क्षणिके प्रत्येकं चित्त एकस्यैवार्थस्य वर्त्तमानत्वाद्, यदीति । सर्वतः प्रत्याहृतयैकस्मिन्नर्थे समाधानमेवैकाग्रतेति चेद् वदति भवांस्तदा चित्तं प्रत्यर्थनियतमिति भवदुक्तिर्बाधिता भवेत्, योऽपीति । उदयमानानां प्रत्ययानां समानरूपतैवैकाग्र्यमितयापि भवतां दृष्टिर्न न्याय्या, सुगमं, तस्मादिति । चित्तमेकमनेकार्थमवस्थितमिति दर्शनमेवन्याय्यम्, एकं = प्रवाहरूपेषु सर्वेषु प्रत्ययेष्वन्वितमेकं वस्तु, अनेकार्थं = न प्रत्यर्थम्, अवस्थितम् = अस्मिताऽऽत्मधर्मिरूपेण स्थितमित्यर्थः, क्षणिकमते स्मृतिभोगयोरापि विप्लवः स्यादित्याह – यदीति । एकेन चित्तेन, अनन्विताः = असम्बद्धाः, स्वभावभिन्नाः = भिन्नसत्ताकाः प्रत्यया यदि जायेरंस्तदाऽअसम्बदधानां पूर्वपूर्वप्रत्ययानुभवानां स्मृतिः कथं सङ्गच्छते कर्मफलभोगो वा कथमिति? कथञ्चित् समाधीयमानमप्येतद् गोमयपायसीयन्यायमाक्षिपति = गोमयं गव्यं पायसमपि गव्यमतो गोमयमेव पायसमिति न्यायाभासमप्यतिक्रामति, प्रत्यभिज्ञाऽसङ्गत्याऽपि क्षणिकमतननास्थेयमित्याह – किञ्चेति । प्रतिक्षणिकस्य चित्तस्य भिन्नत्वे सति स्वात्मानुभापह्नवः प्राप्नोति = स्वानुभवमपह्नुवातत्यथेः, अनुभूतये सर्वैर्यत् सर्वेषां विभिन्नानामपि प्रत्ययानां ग्रहीताऽहमित्येकः प्रत्ययः, यदित्यव्ययं य इत्यर्थः, योऽहमद्राक्षं सोऽहं स्पृशामीत्यनुभवरूपमत्र प्रत्यक्षं प्रमाणम्, अपि च सोऽहम्प्रत्ययः प्रत्ययिनि चेतस्यभेदेन= अविभाज्यैकत्वेन पूर्वाहम्प्रत्ययेन सहाभिन्नोऽहमित्यात्मकत्वेनोपतिष्ठते, एकेति । अयमभेदात्माऽभिन्नस्वरूपोऽहमितिप्रत्ययः, एकप्रत्ययविषयः = एकचित्तविषयः इत्यनुभूयते, यदि बहुभिन्नचित्तस्य स विषयस्तदा न तस्य सामान्यस्यैकचित्तस्याश्रयः सङ्घटेत, एवामनुभवापलापः क्षाणिकवादिनां नास्त्यत्र किञ्चित् प्रमाणम्, ते हि प्रदीपदृष्टान्तबलेनेदं स्थापयितुमिच्छन्ति न हि दृष्टान्तः प्रमाणं नात्रापि प्रदीपो दृष्टान्तः, तन्मते प्रतिक्षणं हि प्रदीपशिखायां दह्यमानं तैलं भिन्नं तथाऽपि सैकेति प्रतीयते तद्वदुत्पादनिरोधधर्मकाणां चित्तानां प्रवाह – एक इव प्रतीयते, नेदं युक्तम्; प्रदीपशिखायाः पृथग् भ्रान्तो द्रष्टाऽस्ति, अत्र को नाम चित्तैकत्वस्य भ्रान्तो द्रष्टा, न हि प्रदीपशिखा प्रतिक्षणं शून्यादेवोत्पद्यते किन्तु दःयमानात् तैलादेव वास्तवात् कारणात् तथा चित्तरूपात् प्रत्ययिन एव प्रत्ययधर्मा उत्पद्यते, ते च सर्व एकचित्तान्वयाः, एकमहमिति सक्षादनुभूयते तच्च प्रत्यक्षं प्रमाणम्, न तदपलापः शक्यः कर्तुं दृष्टानतादिभिरीति, उपसंहरति – तस्मादिति ॥ ३२ ॥ यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निर्दिश्यते तत्कथम् – मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चितप्रसादनम् ॥ ३३ ॥ तत्र सर्वप्राणिषु सुखसम्भोगापन्नेषु मैत्रीं भावयेत्। दुःखितेषु करुणाम्। पुण्यात्मकेषु मुदिताम्। अपुण्यशीलेषूपेक्षाम्। एवमस्य भावयतः शुक्लो धर्म उपजायते। ततश्च चित्तं प्रसीदति। प्रसन्नमेकाग्रं स्थितिपदं लभते ॥ ३३ ॥ व्याख्या भास्वती
यस्येति । उक्तस्य चित्तस्य योगशास्त्रेण स्थित्यर्थं यदिदं परिकर्म = परिष्कृतिर्निर्दिश्यते तत् कथम्? अस्योत्तरम् – मैत्र्यादिति सूत्रम्, सुखविषया मैत्री, दुःखविषया करुणा, पुण्यविषया मुदिता, अपुण्यविषयोपेक्षा येषाममैत्र्यादयश्चित्तविक्षेपका आसां भावनया तेषां चित्तप्रसादः स्यात् ततः स्थितिलाभः, स्थित्युपाय एवात्र प्रस्तुत इति द्रष्टव्यं, तत्रेति । सुखसम्पन्नेषु सर्वप्राणिष्वपकारिष्वपि मैत्रीं भावयेत्, स्वमित्रस्य सुखे जाते यथा सुखी भवेस्तथा भावयेः , मात्सर्येर्ष्याऽऽदीनि चेदुपतिष्ठेरन् मैत्रीभावनया तदुत्पादयेत्, सर्वेषु दुःखितेष्वमित्रमित्रेषु करुणां भावयेत् = तेषां दुःख उपजाते तान् प्रत्यनुकम्यां भावयेद्, न च पैशुन्यनैर्धृण्यहर्षादीन्, समानसमान् वा पुण्यकृतः प्रति मुदितां भावयेत्, सर्वेषां परद्रोहहीनपुण्याचारणं दृष्ट्वा स्मृत्वा वा प्रमुदितो भवेद् यथा सर्ववर्गीयाणाम् पापकृतामाचरणमुपेक्षेत न विद्विष्यान्नानुमोदयेदिति, एवमिति । अस्य योगिन एवं भावयतः शुक्लो धर्मः = अविमिश्रं पुण्यं जायते, बाह्योपकरणसाध्येन धर्मेण भूतोपघातादिदोषाः सम्भाव्यन्ते मैत्र्यादिना चावदातं पुण्यमेव, प्रकृतमुपसंहरन्नाह – तत इति ।
आभिर्भावनाऽदिभिश्चित्तप्रसादस्तत ऐकाग्र्यभूमिरूपा स्थितिरिति ॥ ३३ ॥ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥ कौष्ठ्यस्य वायोर्नासिकापुटाभ्यां प्रयत्नविशेषाद्वमनं प्रच्छर्दनं, विधारणं प्राणायामस्ताभ्यां वा मनसः स्थितिं सम्पादयेत् ॥ ३४ ॥ व्याख्या भास्वती
स्थितेरुपायान्तरमाह – प्रच्छर्द्दनेति । व्याचष्टे – कोष्ठ्यस्येति । कोष्ठगतस्य वायोः प्रयत्नविशेषात् = प्रश्वासप्रयत्नेन सह धारणीये देशे तिष्ठेत् तादृशप्रयत्नाद् बमनं प्रच्छर्द्दनं, ततो विधारणं = यथाशक्ति कियत्कालं यावद् वायोरग्रहणं, ततः प्रयत्नेन सह चित्तस्यापि धारणीये देशे स्थापनमन्यचिन्तापरिहाराश्च, ततः पुनर्ध्येयगतचित्तस्तिष्ठन् वायुं लीलयाऽऽचम्य पुनः प्रच्छर्द्दनमित्यस्य निरन्तराभ्यासेन चित्तमेकाग्रभूमिकं कुर्यात् ॥ ३४ ॥ विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ ३५ ॥ नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित्सा गन्धप्रवृत्तिः। जिह्वाग्रे रससंवित्। तालुनि रूपसंवित्। जिह्वामध्ये स्पर्शसंवित्। जिह्वामूले शब्दसंविदित्येता वृत्तय उत्पन्नाश्चित्तं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधिप्रज्ञायां च द्वारी भवन्तीति। एतेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्यादिषु प्रवृत्तिरुत्पन्ना विषयवत्येव वेदितव्या। यद्यपि हि तत्तच्छास्त्रानुमानाचार्योपदेशैरवगतमर्थतत्त्वं सद्भूतमेव भवति, एतेषां यथाभूतार्थप्रतिपादनसामर्थ्यात् तथाऽपि यावदेकदेशोऽपि कश्चिन्न स्वकरणसंवेद्यो भवति तावत्सर्वं परोक्षमिवापवर्गादिषु सूक्ष्मेष्वर्थेषु न दृढां बुद्धिमुत्पादयति। तस्माच्छास्त्रानुमानाचार्योपदेशोपोद्बलनार्थमेवावश्यं कश्चिदर्थविशेषः प्रत्यक्षीकर्तव्यः। तत्र तदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयमपि आऽपवर्गाच्छ्रद्धीयते। एतदर्थमेवेदं चित्तपरिकर्म निर्दिश्यते। अनियतासु वृत्तिषु तद्विषयायां वशीकारसञ्ज्ञायामुपजातायां समर्थं स्यात्तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति। तथा च सति श्रद्धावीर्यस्मृतिसमाधयोऽस्याप्रतिबन्धेन भविष्यन्तीति ॥ ३५ ॥ व्याख्या भास्वती
स्तितेरुपायान्तरं विषयवतीति । प्रवृत्तिः = प्रकृष्टा वृत्तिः, नासिकाऽग्र इति । योगिजनप्रसिद्धेयं विषयवती प्रवृत्तिः, ताः प्रवृत्तयो नासाऽग्रादौ चित्तधारणात् प्रादुर्भवन्ति, दिव्यसंविद् = दिव्यविषयो ह्लादयुक्तोऽन्तर्बोधः, एता इति । केषाञ्चिदधिकारिणामेताः प्रवृत्तय उत्पन्नाश्चित्तस्थितिं निष्पादयेयुः, ह्लादकरे विषये दिघ्यासायाः स्वत एव प्रवर्त्तनात्, एताः संशयं विघमन्ति = निर्दहन्ति, छिन्दनतीत्यर्थः, समाधिप्रज्ञायाश्च ताः पूर्वाभासाः , एतेनेति । चन्द्रादिष्वपि विषयवती प्रवृत्तिरुत्पद्यते तत्र तत्र चित्तधारणाद्, यद्यपीति । यावत् कश्चिदेकदेशो योगस्य न स्वकरणवेद्यः = साक्षात्कृतो भवति तावत् सर्वं परोक्षमिव भवति, तस्मादिति । उपोद्वलनं = दृढीकरणम् अनियतास्विति । अनियतासु = अव्यस्थितासु वृत्तिषु सतीषु यदा दिव्यगन्धादिप्रवृत्तय उत्पन्नास्तदा तासामुत्पत्तौ, तथा च तद्विषयायां वशीकारसञ्ज्ञायां जातायां = गन्धादिविषयेषु वशीकारवैराग्ये जाते चित्तम् समर्थं स्यात् तस्य तस्यार्थस्य गन्धादिविषयस्य प्रत्यक्षीकराणाय सम्प्रज्ञानोयेति, तथा च सत्यस्य योगिनः कैवल्याभिमुखाः श्रद्धावीर्यस्मृतिसमाधयः, अप्रतिबन्धेन = अप्रत्यूहा इत्यर्थः, भविष्यन्तीति, अत्रेदं शास्त्रम् –
“ज्योतिष्मती स्पर्शवती तथा रसवती पुरा । गन्धवत्यपरा प्रोक्ताश्चतस्रस्तु प्रवृत्तयः ॥
आसां योगप्रवृत्तीनां यद्येकाऽपि प्रवर्त्तते । प्रवृत्तयोगं तम् प्राहुर्योगिनो योगचिन्तकाः ॥ ” इति ॥ ३५ ॥ विशोका वा ज्योतिष्मती ॥ ३६ ॥ प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनीत्यनुवर्तते। हृदयपुण्डरीके धारयतो या बुद्धिसंवित् बुद्धिसत्त्वं हि भास्वरमाकाशकल्पं, तत्र स्थितिवैशारद्यात्प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विकल्पते। तथाऽस्मितायां समापन्नं चित्तं निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति। यत्रेदमुक्तम् – “तमणुमात्रमात्मानमनुविद्यास्मीत्येवं तावत्सम्प्रजानीते” इति। एषा द्वयी विशोका विषयवती, अस्मितामात्रा च प्रवृत्तिर्ज्योतिष्मतीत्युच्यते। यया योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३६ ॥ व्याख्या भास्वती
विशोकेति । विशोका = ब्रह्मानन्दोद्रेकाच्छोकदुःखहीना, ज्योतिष्मती = ज्योतिर्मयबोधप्रचुरा, ह्रुदयेति । हृदयपुण्डरीके = हृत्पदेशस्थे ध्यानगम्ये बोधस्थाने न तु मांसादिमये, धारयतो योगिनो बुद्धिसंवित् = व्यवसायमात्रप्रधानोऽनतर्बोधो ज्ञानव्यापारः स्मृतिरूपो जायते, तत्स्वरूपं भास्वरं = प्रकाशशीलम्, आकाशकल्पम् = आकाशवद् निरावरणमबाधमिति यावत्, तत्र स्थितिवैशारद्यात् = स्वच्छस्थितिप्रवाहान्नतु तदुपलब्धिमात्रात्, प्रकृष्टा वृत्तिर्जायते, सा च प्रवृत्तिः प्रथमन्तावत् सूर्यन्दुग्रहमणिप्रभारूपाकारेण विकल्पते, दिगवपवहीनं ग्रहणरूपं बुद्धिसत्त्वम्, न च सूक्ष्मत्वात् तत्तादृशस्वरूपेण प्रथममुपलभ्यते, तद्धयानेन सह च ज्तोतिर्व्याप्तिधारणाऽपि सम्युक्ता वर्त्तते, तस्मात् सूर्यादेः प्रभा तस्य वैकल्पिकं रूपं = काल्पनिकं नानात्वं न स्वरूपम्, तथा = ततः परमित्यर्थः, अस्मितायाम् = अस्मितामात्रे समापन्नं चित्तं निस्तरङ्गमहोदधिकल्पं = वितर्कतरङ्गरहितत्वादसङ्गचित्तवृत्तिमत्त्वाद्, अतः शान्तमनन्तम् = आबाधं = सीमाज्ञानहीनं न तु बर्हद्देशव्याप्यम्, अस्मितामात्रं = सूर्यप्रभाऽऽदिवैकल्पकभावहीनमहाम्बोधरूपम् भवति, एषा स्वरूपास्मिताया उपलब्धिः, “पञ्चशिखाचार्यस्य” सूत्रेणैतत् स्वच्छीकरोति – तमिति । तमणुमात्रम् = अणुवद्व्याप्तिहीनमभेद्यम्, आत्मानम् = महान्तमात्मानम्, अहम्बोधस्य तत्राहङ्कृतिरूपायाः सङ्कुचितवृत्तेरभावात् तस्य महदिति सञ्ज्ञा न तु बृहत्त्वात्, अनुविद्य = नानाऽहङ्कतिहीनेन रूपादिविषयहीनेन चान्तरतमेन वेदनेनोपलभ्य, अस्मीत्येवमस्मितामात्रमन्यविकारहीनं तावत् सम्प्रजानीत इति, एतच्च सास्मितसम्प्रज्ञातस्य लक्षणं, एषेति । अत एषा विशोका द्वयी – एका विषयवती = प्रभाऽऽदिभिर्विकल्पतास्मितारूपा, अन्या चास्मितामात्रा = व्याप्तिप्रभाऽऽदिग्राह्यभावहीनाऽनुवत् सूक्ष्माऽभेद्या ग्रहणमात्ररूपा याऽस्मिता तद्विषयेत्यर्थेः, ते उभे ज्योतिष्मतीत्युच्येते योगिभिः सात्विकप्रकाशप्राचुर्य्यात्, तया च ज्योतिष्मत्या प्रवृर्त्त्या केषाञ्चिदधिकारिणां चित्तस्थितिर्भवतै ॥ ३६ ॥ वीतरागविषयं वा चित्तम् ॥ ३७ ॥ वीतरागचित्तालम्बनोपरक्तं वा योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३७ ॥ व्याख्या भास्वती
वीतरागेति । रागहीनं चित्तमवधार्य तदालम्बनोपरक्तं योगिनश्चित्तमेकाग्रभूमिकम्भवति ॥ ३७ ॥ स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥ स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३८ ॥ व्याख्या भास्वती
स्वप्नेति । स्वष्नज्ञानालम्बनम् = अन्तःप्रज्ञं बहिरुद्धं स्वप्ने ज्ञानं भवति भावितस्मर्त्तव्यबिषयकम्, तादृशकल्पितविषयालम्बनं चित्तं कुर्यात् तदभ्यासाच्वकेषाञ्चित्स्थितिर्भवति, तथा निद्राज्ञानालम्बनेऽप, निद्रा = सुषुप्तिः स्वप्नहीना, नान्तःप्रज्ञं न बहिःप्रज्ञं तत्रास्फुटं ज्ञानं तदवलम्बनचित्ताभ्यासादपि केषाञ्चित् स्थितिः ॥ ३८ ॥ यथाभिमतध्यानाद्वा ॥ ३९ ॥ यदेवाभिमतं तदेव ध्यायेत्। तत्र लब्धस्थितिकमन्यत्रापि स्थितिपदं लभत इति ॥ ३९ ॥ व्याख्या भास्वती
यदिति । ईस्चरादीनि यान्यालम्बनान्युक्तानि ततोऽन्यद् यत् कस्य चिद्भिमतं योगमुद्दिश्य तस्यापि ध्यानात् स्थितिः, एवं स्थितिं लब्ध्वा पश्चादप्यत्र = तत्त्वविषय इत्यर्थः स्थितिं लभते, तत्त्वेषु स्थितिरेव सम्प्रज्ञातो योगो नान्यत्रेति विवेच्यम्, सम्प्रज्ञातसिद्धावेवासम्प्रज्ञातो नान्यथा ॥ ३९ ॥ परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥ सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति। स्थूले निविशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य। एवं तामुभयीं कोटिमनुधावतो योऽस्याप्रतीघातः स परो वशीकारः। तद्वशीकारात्परिपूर्णं योगिनश्चित्तं न पुनरभ्यासकृतं परिकर्मापेक्षत इति ॥ ४० ॥ व्याख्या भास्वती
स्थितेश्चरमोत्कर्यमाह – अस्य = स्थितिप्राप्तस्य चित्तस्य परमाण्वन्तः परममहात्वान्तश्च यदाऽव्याहतप्रारस्तदा वशीकारः = सम्यगधीनात्वादभ्याससमाप्तिरित्यर्थ इति सूत्रार्थः । सूक्ष्म इति । परमण्वन्तम् = परमाणुस्तन्मात्रं यस्यावायवोऽभेद्यस्तत्पर्यन्तम्, स्थूले = सूक्ष्मप्रतिपक्षे महत्त्वे न तु स्थौल्ययुक्ते द्रव्ये, परममत्त्वम् = अनन्तास्मितारूपमान्तरम्, ब्रह्माण्डादिरूपं बाह्यम्, उभयीं कोटिम् = उभयं प्रान्तम्, अप्रतिघातः = अव्याहतप्रसारः, तदिति । सबीजाभ्यासस्यात्र परिसमाप्तिः परिष्कारकार्यस्याभावात्, वक्षमाणायाः समापत्तेर्विषय एव ग्रहीतृग्रहणग्राह्याणाम् महान् भावोऽणुर्भावश्चेति ॥ ४० ॥ अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा समापत्तिरिति, तदुच्यते – क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१ ॥ क्षीणवृत्तेरिति प्रत्यस्तमितप्रत्ययस्येत्यर्थः। अभिजातस्येव मणेरिति दृष्टान्तोपादानम्। यथा स्फटिक उपाश्रयभेदात्तत्तद्रूपोपरक्त उपाश्रयरूपाकारेण निर्भासते तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते। भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपाभासं भवति। तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं भवति। तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति। तथा ग्रहणेष्वपीन्द्रियेष्वपि द्रष्टव्यम्। ग्रहणालम्बनोपरक्तं ग्रहणसमापन्नं ग्रहणस्वरूपाकारेण निर्भासते। तथा ग्रहीतृपुरुषालम्बनोपरक्तं ग्रहीतृपुरुषसमापन्नं ग्रहीतृपुरुषस्वरूपाकारेण निर्भासते। तथा मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुषसमापन्नं मुक्तपुरुषस्वरूपाकारेण निर्भासत इति। तदेवमभिजातमणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिरित्युच्यते ॥ ४१ ॥ व्याख्या भास्वती
समापत्तिस्वरूपमाह –
अथेति । अथ लब्धस्थिकस्य = एकाग्रभूमिकस्य चेतसः किंस्वरूपा = किम्प्रकृतिका, किंविषया वा समापत्तिरिति? तदुच्यते – क्षीणवृत्तेः = एकाग्रभूमिकस्य चित्तस्य, अभिजातस्य = स्वच्छस्य मणेरिव, ग्रहीतृग्रहणग्राह्याणि समापत्तेर्विषयाः, तत्स्थतदञ्जनता तस्याः सामान्यं स्वरूपम्, ग्राह्यादिविषयेषु सदैव या स्थितता तद्धिषयैश्च योपरक्तता यथा स्वच्छस्य मणेः चाञ्चकेनोपरागः सैव समापत्तिः सम्प्रज्ञातस्य योगस्यापरपर्याय इति सूत्रार्थः, क्षीणेति । ऐकाग्र्यसंस्कारप्रचयात् प्रत्यस्तमितप्रत्ययस्य = ध्येयादन्यप्रत्ययैर्हीनस्य, तथेति । ग्राह्यालम्बनं द्विधा – भूतसूक्ष्मं = तन्मात्राणि; तथा स्थूलं = पञ्चमहाभूतानि, स्थूलतत्त्वान्तर्गतो विश्वभेदो घटपटादिभौतिकवस्तूनीत्यर्थः, ग्रहणालम्बनं = ग्रहणं = करणं तदालम्बनम्, न त्विन्द्रियाणां गोलका ग्रहणविषयास्ते हि स्थूलभूतान्तर्गता एव, इन्द्रियशक्तय एव ग्रहणम्, तच्च रूपादिविषयाणां ग्रहणव्यापार इन्द्रियाधिनिष्ठानेषु चित्तधारणादुपलब्धव्यम्,ग्रहीता पुरुषकारा बुद्धिर्माहानात्मा, स चास्मीतिमात्रबोधो ग्नात्रुतवकर्तृत्त्वधर्तृत्त्वबुद्धेराश्रयो मूलं सर्वचित्तव्यापारस्य, द्रष्टृपुरुषसारूपयात् सग्रहीतृपुरुष इत्युच्यते ॥ ४१ ॥ तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ ४२ ॥ तद्यथा गौरितिशब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टम्। विभज्यमानाश्चान्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये विज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः। तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा सङ्कीर्णा समापत्तिः सवितर्केत्युच्यते । यदा पुनः शब्दसङ्केतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरूपाकारमात्रतयैवावच्छिद्यते। सा च निर्वितर्का समापत्तिः। तत्परं प्रत्यक्षम्। तच्च श्रुतानुमानयोर्बीजम्। ततः श्रुतानुमाने प्रभवतः। न च श्रुतानुमानज्ञानसहभूतं तद्दर्शनम्। तस्मादसङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति ॥ ४२ ॥ व्याख्या भास्वती
समापत्तेः सामान्यलक्षणमुक्त्वा तद्विषेशमह – विषयप्रकृतिभेदात् समापत्त्यश्चतुर्विधाः – तद्यथा – सवितर्का, निर्वितर्का, सचिचारा, निर्विचारा चेति, सवितर्काया लक्षणमाह – तत्रेति । स्थूलविषयेत्याध्याहार्थं सविचारनिर्विचारयोः सूक्ष्मविषयत्वाद् , व्याचाष्टे तद्यथेति । गौरितिशब्दः कर्णग्राह्यो वागिन्द्रियस्थितः , गोउरित्यर्थः चाक्षुस्त्वगिन्द्रियगराह्यो गोष्ठादोउस्थितः , गौरितिज्ञानं चेतसि स्थितमिति विभक्तानामपि=पृथग्भूतानामपि,अविभागेन सङ्रकीर्णैकरूपेण ग्रहणं विकल्पज्ञानात्मकं दृश्यते ,विभज्यमाना इति । तादृशस्य सङ्कीर्ण विषयस्य धर्मा विभज्यमानाः = विविच्यमाना अन्ये शब्दधर्माः = वर्णात्मात्वादि रूपाः, अन्ये अर्थधर्माः = काठिन्यादयः, अन्ये विज्ञानधर्मः = दिवयवहीनत्वादय इत्येतेषां विभक्तः पन्थाः स्वरूपावधारणमार्गः, तत्रेति । तत्र = शब्दार्थज्ञानानां भिन्नानां अन्योन्यं यद् मिश्रणं तादृशे सविकल्पे विषये, समापन्नस्य योगिनो यो गवाद्यर्थः = स्थूलभूतविषय इत्यर्थः, समाधिजातायां प्रज्ञायां समारूढः स चेत् शब्दारथज्ञानविकल्पानुविद्धः भाषासहाय उपावर्तते तदा सा सङकीर्णा समापत्तिः सवितर्के इत्युच्यते, उदाहरणेनैतद् स्पष्टीक्रियते – भूतानि स्थूलग्राह्यम्, भौतिकेषु समाधानात् तेषां शब्दस्पर्शादिमत्वस्य साक्षात्कारौ भूततत्त्वप्रज्ञा उक्तञ्च –
“शब्दस्पर्शा रूपरसाश्च गन्ध इत्येव बाह्यं खलु धर्ममात्रम्” इति,
एकाग्रभूमिकेचित्ते सा प्रज्ञा सदैवोपतिष्ठते न तस्या विप्लवो यथा विक्षिप्तभूमिकस्य चेतसः प्रज्ञायाः, तत् प्रज्ञा समापन्नस्य चित्तस्य प्रथमं तावद् वागनुविद्धा चिन्तोपावर्त्तते तद् यथा – इदं खभूतमिदं तेजोभूतं, भौतिकं वस्तु कदलीकाण्डवन्निःसारं = भूतमात्रं तत्कृता सुखदुःखमोहा वैराग्येणत्याज्या इत्यादिः, गोशब्दस्यास्ति वाक्यवृत्तिस्तद् यथा – गोशब्दो, गोवाच्योऽर्थो, गोज्ञानञ्चैकमेवेति, अलीकस्यापि तादृशस्य गोशब्दानुपातिनो ज्ञानस्य विषयस्यास्ति व्यवहार्यता ततस्तद्विकल्प इति विवेच्यं स्थूलविषययेदृश्या प्रज्ञाया परिपूर्णस्य चेतसो या समापन्नता सा सवितर्केति ॥ ४२ ॥ निर्वितर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते – स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३ ॥ या शब्दसङ्केतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्यस्वरूपोपरक्ता प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति सा तदा निर्वितर्का समापत्तिः। तथा च व्याख्यातम् – तस्या एकबुद्ध्युपक्रमो ह्यर्थात्माऽणुप्रचयविशेषात्मा गवादिर्घटादिर्वा लोकः। स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्म आत्मभूतः फलेन व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रादर्भवति। धर्मान्तरस्य कपालादेरुदये च तिरो भवति। स एष धैर्मोऽवयवीत्युच्यते। योऽसावेकश्च महांश्चाणीयांश्च स्पर्शवांश्च क्रियाधर्मकश्चानित्यश्च तेनावयविना व्यवहाराः क्रियन्ते। यस्य पुनरवस्तुकः स प्रचयविशेषः सूक्ष्मं च कारणमनुपलभ्यमविकल्पस्य तस्यावयव्यभावादतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्तं मिथ्याज्ञानमिति। तदा च सम्यग्ज्ञानमपि किं स्याद्विषयाभावात्। यद्यदुपलभ्यते तत्तदवयवित्वेनाऽऽम्नातम्। तस्मादस्त्यवयवी यो महत्त्वादिव्यवहारापन्नः समापत्तेर्निर्वितर्काया विषयी भवति ॥ ४३ ॥ व्याख्या भास्वती
निर्वितर्का व्याचाष्टे – यदेति । यदा नामवाक्यरहितध्यानाभ्यासाद् वास्तवो ध्येयविषयो वाग्वियुक्तो ज्ञायते तदा शब्दसङ्केतस्मृतिपरिशुद्धिः, न तदा तत् प्रत्यक्षं विज्ञानं शब्दानुविद्धे सविकल्पेन श्रुतानुमानज्ञानेन सलिनं भवति, तदाऽर्थः समाधिप्रज्ञायां निर्विकल्पेन स्वरूपमात्रेणावतिष्ठते, तादृशस्वरूपमात्रतयैवावच्छिद्यते = वास्तवं रूपमात्रमेव तदा निर्भासते, न च कश्चिदसत्पदार्थस्तदन्तर्गतो वर्त्तते, सा हि निर्वितर्का समापत्तिः, तत् परं प्रत्यक्षं समाधिजातत्वादन्यप्रमाणामिश्रत्वात्, तच्च तत्त्वज्ञानविषयकयोः श्रुतानुमानयोर्बीजं = मूलम्, तादृशसाक्षात्कारवद्भिर्योगिभिरेव तत्त्वविषयकश्रुतानुमानप्रवर्त्तितमित्यर्थः, शब्दसङ्केतहीनत्वान्न च श्रुतानुमानज्ञानसहभूतं तद्दर्शनम्, शेषं सुगमम्, स्मृतीति । श्रुतिपरिशुद्धौ = वाग्रहितार्थचिनतनसामर्थ्ये जात इत्यर्थः, स्वरूपशून्यमिव = अहं जानामीति प्रज्ञा = स्वरूपशून्येव न तु वस्तुतच्छून्या; अर्थमात्रनिर्भासा नामादिहीनध्येयविषयमात्रद्योतिनी समापत्तिर्निर्वितर्का स्थूलविशयेति सूत्रार्थः, व्याचाष्टे – येति । श्रुतानुमानज्ञाने शब्दसङ्केतसहाये ततो विकल्पानुविद्धे शब्दहीनत्वाद् विकल्पादिस्मृतिः शुद्धा भवति, यदा नार्थज्ञानाकाले तत्तत्स्मृतिरुपतिष्ठते तदा केवलग्राह्योपरक्ता = ग्राह्यनिर्भासा भवति, ग्राह्यमत्र ध्येयविशयो न तु भूतानि, स्थूलग्रहणस्यापि वितर्कानुगतत्वात्, स्वं प्रज्ञारूपं ग्रहाणात्मकं तयक्त्वेवाहं जानामीत्यात्मस्मृतिहीनो विषयमात्रावगाहीत्यर्थः, तथा च व्याख्यातं = सूत्रपातनिकायामस्माभिरित्यर्थः, तस्या इति । तस्याः = निर्बितर्कायाः, विषय एकबुद्ध्युपक्रमः, न नानापरमाणुरूपः, स ध्येयविषयः किन्त्वेकोऽयमित्यात्मक इत्यर्थः, अर्थात्मा = बाह्ययवस्तुरूपो न तु विज्ञानमात्रः, अणुप्रचयविशेषात्मा = अणूनां शब्दादितन्मात्राणामणुशब्दादिज्ञानानामिति यावद् यः, प्रचयविशेषः = स्थूलपरिणामरूपसमाहारविशेषः स एवात्मा स्वरूपं यस्य तादृशो गवादिर्घटादिर्वा लोकश्चेतनाचेतनलौकिकविषय इत्यर्थः, स चेति । स च घटादिरूपः परमाणु संस्थानविशेषो भूतसूक्ष्माणां = तन्मात्राणां साधारणो धर्मः = प्रत्येकं तन्मात्राणां धर्मस्तत्र साधारण एकीभूतः, एवं कारणेभयस्तन्मात्रेभ्यस्तस्य कार्यस्य विशेषस्य कथञ्चित् भेदः, आत्मभूतः = तन्मात्रधर्मशब्दादेरनुगतः शब्दादिमानेव न अन्यधर्मवानेवं कारणादभेदः, फलेन व्यक्तेनानुमितः = व्यक्तं फलं द्रव्याणां ज्ञानं तद्व्यवहारश्च तेनानुमितः, अणुप्रचयोऽप्यणुभ्योऽभिन्नोऽयं घट इति स व्यक्तो घतव्यवहारोऽनुमापयतीत्यर्थः, किञ्च सस्वव्यञ्जकाञ्जनः = स्वव्यञ्जनहेतुना निमित्तेनाभिव्यक्तः, एवम्भूतः संस्थानविशेषः प्रादुर्भवति तिरोभवति च, धर्मान्तरोदये = अनेन निमित्तेन संस्थानस्यान्यथाभावो भवति स एव तिरोभावो नाभावः, स एव संस्थानविशेषरूपो धर्मोऽवयवीत्युच्यते, अतो योऽसावेकः = एकत्वबुद्धिनिष्ठः, महान् = बहून् वा, अणीयान् = क्षुद्रो वा, स्पर्शवान् = इन्द्रियग्राह्यः शब्दादिधर्माश्रय इति यावत्, क्रियाधर्मकः = जलधारणादिक्रियाधर्मकः, अनित्यः = आगामापायी च सोऽवयवीति व्यवह्रियते, अनेकेन्द्रियग्राह्यत्वम् व्यवहार्यत्वम्, अत्र वैनाशिकानामुयुक्तानं दर्शयति – यस्येति । यस्य नये स स्थूलविकाररूपः प्रचयविषेषः, अवस्तुकः = शून्यमूलको धर्मस्कन्धमात्रः, तस्य रचायस्य सूक्ष्मं वास्तवं कारणं = भूतादि कार्याणां तन्मात्रादि रूपं कारणं, अविकल्पस्य = विकल्पहीनस्य समाधेर्निर्वितर्कनिविचायोरित्यर्थः, अत्र तु सूक्षम विषया निर्विचारा विवक्षिता, अनुपलभ्यं = साक्षात्कारायोग्यं, तस्य नये प्रायेण सर्वं मिथ्याज्ञानं इत्येतदायातं कथं अवयविनामभावात्, तत् समाधिजं ज्ञानमतद्रूपप्रतिष्ठामनवयविन्यवयविप्रतिष्ठम्, अतो मिथ्याज्ञानं भवेत्, एवं प्रायेण सर्वमेव मिथ्याज्ञानत्वं प्राप्नुयात्, तदा चेत्येवं सर्वस्मिन् मिथ्यात्वे प्राप्ते भवदीयं सम्यक् दर्शनं किं स्यात्? विषयाभावात् ज्ञानाभाव एव सम्यक् दर्शनमिति भवन्नये स्यादित्यर्थः यद् यदुपलभ्यते तत्तदवयवित्वेनाघ्रातं = समायुक्तं, अतो नास्ति भवत्सम्मतोऽनवयविविषयो यो निर्वितर्काया विषयः स्यात्, तस्मादस्ति निर्वितर्काया विषयोऽवयविरूपि वस्तु यत् सत्यज्ञानस्य विषय इति, सत्यपदार्थोऽत्र विचार्यो वाग्विषयस्तथा ज्ञानविषयश्चेद् यथाऽर्थस्तदा तद्वाक्यं ग्नानञ्च सत्यमुच्यते, द्विविधं सत्यं – व्यावहारिकविषयं व्यवहाररसत्यं, मोक्षविषयञ्च परमार्थसत्यमिति तद्द्व्यञ्चापि आपेक्षिकानापेक्षिकभेदेन द्विधा – काञ्चित् अवस्थाम् अपेक्ष्य यज्ज्ञानम् उत्पद्यते तदवस्थाsपेक्षं तज्ज्ञानं तद्भाषनञ्चापेक्षिकं सत्यं, उक्तञ्च –
“अतिदूरात् पयोदवददूरादश्मसङ्घातः । लक्ष्यतेsद्रिः सदा भिन्नं सामीप्याच्छर्करामयः ॥ ” इति,
अल्पाधिकधूरावस्थानमपेक्ष्य पर्वतज्ञानं तज्ज्ञानभाषणञ्च सत्यमेव, करणोत्कर्षमपेक्ष्य जातं ज्ञानमूत्कृष्टसत्यज्ञानं, तत्रापि तत्त्वानां ज्ञानं चरमसत्यज्ञानं, समाधौ करणानां चरमस्थैर्यं स्वच्छता च तत एकाग्रभूमिकासमाधिजा प्रज्ञा चरमोत्कर्ष सम्पन्ना, एवं सवितर्कनिर्वितर्कसमाधौ तदालम्बनविषयस्य चरमा स्थूलविषया सत्यप्रज्ञा, सविचारनिर्विचारसमाधौ च सूक्ष्मविषया सत्यप्रज्ञा, सा च योगिभिर्ऋतम्भरेत्यभिधीयते, तत्र तत्त्वविषयाण्यापेक्षिकसत्यानि परमार्थस्योपायभूतानीत्यतस्तानि परमार्थसत्यमुच्यते, परमार्थसत्येषु यदुपेयभूतं स कूटस्थो द्रष्टा पुरुषस्तस्मात् तद्विषयकमनापेक्षिकं नित्यवस्तुविषयकं ज्ञानं कूटस्थसत्यज्ञानं, तेन च कोकौटस्थ्यदिगमः कैवल्यं वा भवतीति, नित्यवस्तुविषयकं सत्यमनापेक्षिकं, तच्चापि द्विधा – परिणामिनित्यवस्तुविषयकं त्रैगुण्यं, तथाsपरिणामिनित्यवस्तुविषयकं कूटस्थवस्तुविषयकञ्चेति ॥ ४३ ॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥ तत्र भूतसूक्ष्मकेष्वभिव्यक्तधर्मकेषु देशकालनिमित्तानुभवावच्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते। तत्राप्येकबुद्धिनिर्ग्राह्यमेवोदितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते। या पुनः सर्वथा सर्वतः शान्तोदिताव्यपदेश्यधर्मानवच्छिन्नेषु सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारेत्युच्यते। एवं स्वरूपं हि तद्भूतसूक्ष्ममेतेनैव स्वरूपेणाऽऽलम्बनीभूतमेव समाधिप्रज्ञास्वरूपमुपरञ्जयति। प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारेत्युच्यते। तत्र महद्वस्तुविषया सवितर्का निर्वितर्का च, सूक्ष्मवस्तुविषया सविचारा निर्विचारा च। एवमुभयोरेतयैव निर्वितर्कया विकल्पहानिर्व्याख्यातेति ॥ ४४ ॥ व्याख्या भास्वती
सूक्ष्मविषये सविचारनिर्विचारे व्याचष्टे – तत्रेति । तत्र भूतसूक्ष्मेश्वभिव्यक्तधर्मकेषु = साक्षात् गृह्यमाणेषु न चागमानुमानविषयेषु, देशकालनिमित्तानुभवावच्छिन्नेषु देश उपर्यध आदिः, तादृशदेशव्याप्तं नीलपीतादिध्येयं गृहीत्वा तत्कारणं तन्मात्रं तत्रोपलभ्यतेऽतोदेशानुभवावच्छिन्नः, न हि परमाणोः स्फुटा देशव्याप्तिप्रतीतिस्तस्मात् तज्ज्ञानेऽस्फुटा, उपर्यधःपार्श्वानुभवसम्प्रयुक्तेति विवेच्यम्, कालः = वर्त्तमानादिः, त्रिकालानुभवेषु वर्त्तमानमात्रानुभवावच्छिन्नः सविचारः, निमित्तानुभवावच्छिन्नः = निमित्तमुद्घाटकं कारणं तद् यथा – रूपतन्मात्रज्ञानस्य निमित्तं तेजोभूतसाक्षात्कारपूर्वकं तेजःकारणानुसन्धित्सोः सविचारं ध्यानमेतन्निमित्तसापेक्षः, एवं देशकालनिमितानुभवावच्छिन्नेषु सूक्ष्मविशयेषु शब्दसहाया या समापत्तिर्जायते सा सविचारा, तत्रेति । तत्रापि निर्वितर्कवदत्र सविचारोऽप्येकबुद्धिनिर्ग्राह्यम् = एकमिदमनुभूयमानं रूपतन्मात्रमित्यादिरूपम्, उदितधर्मविशिष्टम् = अतीतानागतानां धर्माणामनवगाहीत्यर्थः, भूतसूक्ष्मं = ग्राह्यं तन्मारमस्मिताऽऽदयो ग्रहणतत्त्वान्यपीत्यर्थः आलम्बनीभूतं समाधिप्रज्ञामुपतिष्ठते, येति । या पुनः सर्वथा = सम्यगनवच्छिन्ना, सर्वत इत्यादिभिस्त्रिभिर्दलैः सर्वथा शब्दो व्याख्यातः, सर्वत इति । देशानुभवानवच्छिन्नत्वं शान्तोदिताव्यपदेश्यधर्मानवच्छिन्नेष्विति विषयस्य कालानुभवानवच्छिन्नत्वं सर्वधर्मानुपातिषु, सर्वधर्मात्मकेष्विति निमित्तानुभानवच्छिन्नत्वम्, एवंविधावच्छेदरहिता शब्दादिविकल्पहीना प्रज्ञासमापन्नता निर्विचारा समापत्तिरिति, समापत्तिद्वयमुदाहरणेन विवृणोति – एवमिति । सविचाराया उदाहरणम्, विचारानुगतसमाधिना साक्षात्कृतं भूतसूक्ष्ममेवंस्वरूपम्, एतेनैव स्वरूपेण = देशाद्यनुभवमपेक्ष्यतेत्यर्थः, आलम्बनीभूतम्, एवं सवितर्क्वच्छब्दसहायः प्रज्ञेयविषयः समाधिप्रज्ञामुपरञ्जयति सविचारायामिति शेषः, निर्विचारस्वरूपं विवृणोति – प्रज्ञेति । समाधिप्रज्ञा यदा शब्दव्यवहारजविकल्पशून्या स्वरूपशून्येवार्थमात्रनिर्भासा भवति तदा निर्विचारेत्युच्यते, तत्रेति । किञ्च तत्र महावस्तुविषया = स्थूलभूतेन्द्रियविषया, सूक्ष्मविषया = तन्मात्रादिविषया, एवमुभायोर्निर्वितर्कनिर्विचारयोरेतया निर्वितर्कया विकल्पहानिः = शब्दार्थज्ञानविकल्पशून्यता व्याख्याता ॥ ४४ ॥ सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥ पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः। आप्यस्य रसतन्मात्रम्। तैजसस्य रूपतन्मात्रम्। वायवीयस्य स्पर्शतन्मात्रम्। आकाशस्य शब्दतन्मात्रमिति। तेषामहङ्कारः। अस्यापि लिङ्गमात्रं सूक्ष्मो विषयः। लिङ्गमात्रस्याप्यलिङ्गं सूक्ष्मो विषयः। न चालिङ्गात्परं सूक्ष्ममस्ति। नन्वस्ति पुरुषः सूक्ष्म इति। सत्यम्। यथा लिङ्गात्परमलिङ्गस्य सौक्ष्म्यं न चैवं पुरुषस्य। किन्तु, लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति। अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥ व्याख्या भास्वती
किं सूक्ष्मविषयत्वमित्याह – सूक्ष्मविशयत्वमलिङ्गपर्यवसानम् = अलिङ्गे प्रधाने सूक्ष्मविषयत्वं पर्यवसितं तदावधिस्थितमित्यर्थः, व्याचष्टे – पार्थिवस्येति । लिङ्गमात्रं महत्तत्त्वमस्तीतिमात्रबोधस्वरूपं यत् स्वकारणयोः पुम्प्रकृत्योर्लिङ्गमात्रम्, न कस्य चित् स्वकारणस्य लिङ्गमित्यलिङ्गम्, तच्च महत उपादानकारणं ततस्तत् सूक्ष्मतमं दृश्यम्, अपि च लिङ्गस्य महतः पुरुषोऽपि सूक्ष्मं कारणमिति, सत्यं किन्तु नोपादानरूपेण सूक्ष्मं यतः स हेतुः = निमित्तकारणं लिङ्गमात्रस्य, तद्रूपेणैव सूक्ष्मतमं नोपादानरूपेण, अतः प्रधान उपादानस्य निरतिशयं सौक्ष्म्यम् ॥ ४५ ॥ ता एव सबीजः समाधिः ॥ ४६ ॥ ताश्चतस्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिरपि सबीजः। तत्र स्थूलेऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मेऽर्थे सविचारो निर्विचार इति चतुर्धोपसङ्ख्यातः समाधिरिति ॥ ४६ ॥ व्याख्या भास्वती
ता इति । बहिर्वस्तुबीजाः = बहिर्वस्तु = ध्येयरूपेण पृथग् ज्ञायमानं वस्तु, तदेव बीजमालम्बनं यासां ताः, सुगममन्यत् ॥ ४६ ॥ निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥ अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम्। यदा निर्विचारस्य समाधेर्वैशारद्यमिदं जायते तदा योगिनो भवत्यध्यात्मप्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः। तथा चोक्तम् – प्रज्ञाप्रसादमारुह्य अशोच्यः शोचतो जनान्। भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति ॥ ४७ ॥ व्याख्या भास्वती
अशुद्ध्येति । अशुद्धावरणमलापेतस्य = अस्थैर्यजाड्यरूपमावरनमलं तदपेतस्य प्रकाशस्वभावस्य बुद्धिसत्त्वस्य रजस्तमोभ्यां = राजसतामससंस्कारैरित्यर्थः, अनभिभूतोऽतः स्वच्छः = अनाबिलः, स्थितिप्रवाहः = एकाग्रभूमिजातत्वादित्यर्थः, वैशारद्यमित्यर्थः, तदेति अध्यात्मप्रसादः = अध्यात्मं करणं बुद्धिरित्यर्थः, तस्य प्रसादः परमनैर्मल्यं ततो भूतार्थविषयः = यथाऽर्थविषयः, क्रमाननुरोधी = क्रमहीनो युगपत् सर्वभासकः ॥ ४७ ॥ ऋतम्भरा तत्र प्रज्ञा ॥ ४८ ॥ तस्मिन्समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतम्भरेति सञ्ज्ञा भवति। अन्वर्था च सा, सत्यमेव बिभर्ति न च तत्र विपर्यासज्ञानगन्धोऽप्यस्तीति। तथा चोक्तम् – आगमेनानुमानेन ध्यानाभ्यासरसेन च। त्रिधा प्रकल्पयन्प्रज्ञा लभत योगमुत्तमम् ॥ इति ॥ ४८ ॥ व्याख्या भास्वती
तस्मिन् = निर्विचारस्य वैशारद्ये जाते सति या प्रज्ञा जायते तस्या ऋतम्भरेति सञ्ज्ञा ऋतं = सत्यं बिभर्तीति ऋतम्भरा, अन्वर्था = नामानुरूपार्थयुक्ता, तथेति । आगमेन = श्रवणेन, अनुमानेन = उपपत्तिभिर्मननेन, ध्यानाभ्यासनेन = ध्यानस्याभ्यासरसेन संस्कारोपचयेनैवं प्रज्ञां त्रिधा प्रकल्पयन् साधयन्नुत्तमं योगं लभत इति ॥ ४८ ॥ सा पुनः – श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥ श्रुतमागमविज्ञानं तत्सामान्यविषयम्। न ह्यागमेन शक्यो विशेषोऽभिधातुं, कस्मात्, न हि विशेषेण कृतसङ्केतः शब्द इति। तथाऽनुमानं सामान्यविषयमेव। यत्र प्राप्तिस्तत्र गतिर्यत्राप्राप्तिस्तत्र न भवति गतिरित्युक्तम्। अनुमानेन च सामान्येनोपसंहारः। तस्माच्छ्रुतानुमानविषयो न विशेषः कश्चिदस्तीति। न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणमस्ति। न चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति समाधिप्रज्ञानिर्ग्राह्य एव स विशेषो भवति भूतसृऽक्ष्मगतो वा पुरुषगतो वा। तस्माच्छ्रतानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वादिति ॥ ४९ ॥ व्याख्या भास्वती
श्रुतेति । विशेषः = अनन्तवैचित्र्यात्मकः, तस्मान्न शक्यः शब्दैरभिधातुमतः शब्दैः सामन्यविशयाः सङ्केतीकृताः, तस्माच्छब्दजन्यमागमविज्ञानं सामान्यविषयकम्, अनुमानमपि तादृशं तत्र हेतुज्ञानाद् यदंशस्य प्राप्तिस्तस्यैबावगतिस्तस्मान्न शक्या अनन्तविशेषास्तेनावगन्तुम्, असङ्ख्यहेतुज्ञानास्यासम्भवत्वात्, प्रायेण चानुमानस्य शब्दजन्यत्वाद्, एवमनुमानेन सामान्यमात्रस्योपसंहारः = सामान्यधर्माश्रयबुद्धिः, न चेति । तथा लोकप्रत्यक्षेणापि सूक्ष्मव्यवहितविप्रकृष्टवस्तुना न ग्रहणं दृश्यते, एवामप्रामाणिकस्य श्रुतानुमानलोकप्रत्यक्षाणीति त्रिविधपरमाणैरग्राह्यस्य विशेषस्य रूपस्य सूक्ष्मविशेषप्रमेयस्याभावोऽस्तीति न शङ्कनीयं; यतः सूक्ष्मभृतगतो वा पुरुषगतः = ग्रहीतृपुरुषगतः, करणगत इति यावत् स विशेषः समाधिप्रज्ञानिर्ग्राह्यः, तस्मादित्युपसंहरति ॥ ४९ ॥ समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवो जायते – तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥ समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते। व्युत्थानसंस्काराभिभवात्तत्प्रभवाः प्रत्यया न भवन्ति। प्रत्ययनिरोधे समाधिरुपतिष्ठते। ततः समाधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो जायते। ततश्च प्रज्ञा, ततश्च संस्कारा इति। कथमसौ संस्कारातिशयश्चित्तं साधिकारं न करिष्यतीति। न ते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतुत्वाच्चित्तमधिकारविशिष्टं कुर्वन्ति। चित्तं हि ते स्वकार्यादवसादयन्ति। ख्यातिपर्यवसानं हि चित्तचेष्टितमिति ॥ ५० ॥ व्याख्या भास्वती
समाधिप्रज्ञालाभे योगिनः प्रज्ञाजातः संस्कारो जायते, स च संस्कारोऽन्यसंस्कारप्रतिबन्धी = विक्षिप्तव्युत्थानसंस्कारप्रतिपक्षः, समाधीति । प्रज्ञाऽनुभवात् प्रज्ञासंस्कारस्ततः प्रज्ञाप्रत्ययः, प्रज्ञासंस्कारस्य विवर्धमानतैव विक्षेपसंस्कारस्य च क्षीयमाणता विरुद्धत्वाद्, सुगममन्यत्, संस्कारातिशयः = प्रज्ञासंस्कारबाहुल्यम्, प्रज्ञया हेयताख्यातिस्ततो वैराग्यं, ततः कार्यावसानम्, चित्तचेष्टितं ख्यातिपर्यवसानम् = विवेकख्यातौ जातायां न किञ्चिञ्चेष्टिटमवशिष्यते, विवेकस्तु सम्प्रज्ञातस्य शिरोमणिः ॥ ५० ॥ किं चास्य भवति – तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ ५१ ॥ स न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृतानामपि संस्काराणां प्रतिबन्धी भवति। कस्मात्, निरोधजः संस्कारः समाधिजान्संस्कारान्बाधत इति। निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्तित्वमनुमेयम्। व्युत्थाननिरोध-समाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैश्चित्तं स्वस्यां प्रकृताववस्थितायां प्रविलीयते। तस्मात्ते संस्काराश्चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति। यस्मादवसिताधिकारं सह कैवल्यभागीयैः संस्कारैश्चित्तं निवर्तते, तस्मिन्निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठोऽतः शुद्धः केवलो मुक्त इत्युच्यत इति ॥ ५१ ॥ व्याख्या भास्वती
किञ्चास्य भवति – तस्यापि निरोधे परेण वैराग्येण सम्प्रज्ञातफलस्य विवेकस्यापि निरोधे सर्वप्रत्ययनिरोधाद् निर्बीजः समाधिः = असम्प्रज्ञातः कैवल्यभागीयो निर्बीजसमाधिरित्यर्थः इति सूत्रार्थः, स नेति । स निर्बीजो न तु केवलं समाधिप्रज्ञाविरोधी = प्रज्ञारूपप्रत्ययनिरोधकृत्, किन्तु प्रज्ञाकृतानां संस्काराणामपि प्रतिबन्धी = क्षयकृद् भवति, कस्मादिति । निरोधजः संस्कारः = परवैराग्यरूपनिरोधप्रयत्नानुभवकृतः संस्कारः समाधिजान् संस्कारान् = प्रज्ञासंस्कारान् बाधते निष्प्रत्ययीकरणात्, प्रत्ययजननमेव संस्कारस्य कार्यम्, प्रत्ययानुभवे संस्कारस्य क्षयः प्रत्येतव्यः, निरोधस्याप्यस्ति संस्कारो निरोधस्य विवर्द्धमानतादर्शनात् तदवगम्यते, ननु निरोधो न प्रत्ययोऽतः कथं तस्य संस्कारः प्रत्ययस्यैव संस्कारजनननियमादिति? सत्यम् – तत्रापि प्रत्ययकृत एव संस्कारः, प्राग्निरोधात् प्रत्ययप्रवाहो विद्यते, ततस्तद्भेदरूपस्य प्रत्ययस्य संस्कारो जायेत, सप्रत्ययनिरोधनसंस्कारस्तथा निरोधभङ्गसंस्कारः, येन वैराग्यबलेन प्रत्ययप्रवाहभङ्गस्तस्य प्राबल्यान्निरोधसंस्कारस्य विवर्धमानता, सम्प्रज्ञातसंस्कारनाशे निष्प्रत्यूहेन परवैराग्येण शाश्वतः प्रत्ययप्रवाहभेदः स्यात् तदेव कैवल्यं, प्रत्ययप्रवाहभङ्गो यदाऽवच्छिन्नकालव्यापी तदा स निरोषसंस्कार इति वक्तव्यः, यदा तु तस्य शाश्वत उपरमस्तदा तत्संस्कारस्यापि प्रणाश इति विवेच्यम्, व्युत्थानेति । व्युत्थानस्य = विक्षेपस्य निरोधस्तद्रूपः समाधिः सम्प्रज्ञातसमाधिः, तद्भवैः सह कैवल्यभागीयैर्निरोधजैर्निरोधकृद्भिः परवैराग्यजैः संस्कारैश्चित्तं स्वस्यामवस्थितायां = नित्यायां प्रकृतौ प्रविलीयते = पुनरुत्थानहीनं लयं प्राप्नोति, तस्मादिति । अधिकारविरोधिनः = चेष्टापरिपन्थिनः, चेष्टितमेव चित्तस्य स्थितिहेतुः चित्तस्य शास्वतविनिवर्त्तमानः पुरुषः स्वरूपप्रतिष्ठितः शुद्धो गुणातीतो मुक्तः = दुःखोपचारहीन इत्युच्यत इति ॥ ५१ ॥ साधनपादः उद्दिष्टः समाहितचित्तस्य योगः। कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादित्येतदारभ्यते – तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १ ॥ नातपस्विनो योगः सिध्यति। अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर्नान्तरेण तपः सम्भेदमापद्यत इति तपस उपादानम्। तच्च चित्तप्रसादनमबाधमानमनेनाऽऽसेव्यमिति मन्यते। स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा। ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं तत्फलसन्न्यासो वा ॥ १ ॥ व्याख्या भास्वती
पादेऽस्मिन् समाहितचित्तस्य योगस्तत्साधनसामान्यञ्चोक्तम्, समाधिदृशा च कैवल्यमुपपादितमिति ।
इति श्रीपातञ्जलसाङ्ख्यप्रवचनभाष्यस्य तीकायां भास्वत्यां प्रथमः पादः ।
उद्दिष्टः समाहितेति । मनःप्रधानसाधनानि तथाभ्यसेन वैराग्येण च सिद्धस्य समाधेरवान्तरभेदास्तत्फलभूतं कैवल्यञ्चेति योगः प्रथमे पादे उद्दिष्टः, कथं व्युत्थितेति । व्युत्थितस्य निरन्तरध्यानाभ्यासवैराग्यभावनासमर्थस्य चेतसः कथं कैः योगानुकूलक्रियाचरणैर्योगः सम्भवेदिति । अनादीति । कर्म कर्मफलानुभवः क्लेशःदुःखमूलज्ञानं ताभ्यां जातानादिवासना स्मृतिफलसंस्काररूपा तया चित्रा, तथा विषयजालसम्प्रयुक्ताशुद्धिर्योगान्तरायभूतं रजस्तमोमलमित्यर्थः । अयोघनाभिहतः पाषाण इव साशुद्धिस्तपसा विरलावयवा भवतीति । तपस्तु चित्तप्रसादकराणामासनप्राणायामोपोषणादीनां क्लेशसहनं सुखत्यागश्च कायसंयमस्तपः । वाक्संयमः स्वाध्ययः । ईश्वरप्रणीधानन्तु मानसः संयम इति । एभिर्बाह्यकर्मविरतः शान्ति दान्त उपरतस्तितिक्षुर्भूत्वा समाध्यभ्याससमर्थो भवेत् । कर्मविरतये योगमुद्दिश्य कर्माचरणं क्रियायोगः । स च कण्टकेन कण्टकोद्धारवत् योगाङ्गभूतेन कर्मणा योगप्रतिपक्षकर्मणामुन्मूलनम् ॥ १ ॥ स हि क्रियायोगः – समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २ ॥ स ह्यासेव्यमानः समाधिं भावयति क्लेशांश्च प्रतनू करोति। प्रतनूकृतान्क्लेशान्प्रसङ्ख्यानाग्निना दग्धबीजकल्पानप्रसवधर्मिणः करिष्यतीति। तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति ॥ २ ॥ व्याख्या भास्वती
क्रियायोगोऽतनूनविद्यादीन् क्लेशांस्तनून् करोति । प्रतनूकृता क्लेशाः प्रसङ्ख्यानरूपेणाग्निना विवेकेनेत्यर्थः । भृष्टबीजकल्पा भवन्ति । भृष्टानि मुद्गादिबीजानि बीजाकाराण्यपि न प्ररोहन्ति तथा विवेकख्यातिमच्चेतसि स्थिताः । सूक्ष्माः क्लेशाः अप्रसवधर्मिणो भवन्ति क्लेशसन्तानं न वर्द्धेयुरित्यर्थः । किन्तु तदा बुद्धिपुरुषविवेकख्यातिरेव चेतसि प्रवर्त्तेत । सा च ख्यातिरूपा सूक्ष्मा प्रज्ञा क्लेशैरपरामृष्टानभिभूतेत्यर्थः । प्रान्तभूमिर्लब्ध्वा परिपूर्णा सती प्रज्ञेयस्यार्थस्याभावात् समाप्ताधिकाराऽऽरम्भहीना लब्धपर्यवसानेत्यर्थः । प्रतिप्रसवाय कल्पिष्यते प्रलीना भविष्यतीत्यर्थः । इन्धनं दग्ध्वा यथाग्निः स्वयं लीयते तद्वत् । एवं क्रियारूपाण्यपि तपआदीनि सर्ववृत्तिनिरोधस्य ज्ञानसाध्यस्य योगस्य बहिरङ्गतां लभन्ते ॥ २ ॥ अथ के क्लेशाः कियन्तो वेति – अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ ३ ॥ क्लेशा इति पञ्च विपर्यया इत्यर्थः। ते स्पन्दमाना गुणाधिकारं द्रढयन्ति, परिणाममवस्थापयन्ति, कार्यकारणस्रोत उन्नमयन्ति, परस्परानुग्रहतन्त्री भूत्वा कर्मविपाकं चाभिनिर्हरन्तीति ॥ ३ ॥ व्याख्या भास्वती
दुःखमूलाः परमार्थप्रतिपक्षाः विपर्यया एव पञ्च क्लेशाः ते स्यन्दमानाः संस्कारप्रत्ययरूपेण तन्वाना विवर्धमाना इत्यर्थः । गुणानामधिकारं कार्यारम्भणसामर्थ्यमित्यर्थः । द्रढयन्ति , अत एव महदादिरूपं चित्तवृत्तिरूपं संसृतिरूपं परिणाममवस्थापयन्ति परिणामस्यावस्थितेः प्रवर्त्तमानायाः या हेतवो भवन्तीत्यर्थः । यथापत्यार्थः पित्रोः प्रवर्त्तनं तथा क्लेशकारणानां महदादीनामपि कार्यकारणस्रोतोरूपेणोन्नमनं प्रवर्त्तनमित्यर्थः । ते च क्लेशाः परस्परसहाया जात्यायुर्भोगरूपं कर्मविपाकमभिनिर्हरन्ति निर्वर्त्तयन्तीति ॥ ३ ॥ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४ ॥ अत्राविद्या क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां चतुर्विधविकल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम्। तत्र का प्रसुप्तिः। चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः। तस्य प्रबोध आलम्बने सम्मुखीभावः। प्रसङ्ख्यानवतो दग्धक्लेशबीजस्य सम्मुखीभूतेऽप्यालम्बने नासौ पुनरस्ति, दग्धबीजस्य कुतः प्ररोह इति। अतः क्षीणक्लेशः कुशलश्चरमदेह इत्युच्यते। तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति। सतां क्लेशानां तदा बीजसामर्थ्यं दग्धमिति विषयस्य सम्मुखीभावेऽपि सति न भवत्येषां प्रबोध इत्युक्ता प्रसुप्तिर्दग्धबीजानामप्ररोहश्च। तनुत्वमुच्यते – प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति। तथा विच्छिद्य विच्छिद्य तेन तेनाऽऽत्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः। कथं, रागकाले क्रोधस्यादर्शनात्। न हि रागकाले क्रोधः समुदाचरति। रागश्च क्वचिदृश्यमानो न विषयान्तरे नास्ति। नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्तः किन्तु तत्र रागो लब्धवृत्तिरन्यत्र तु भविष्यद्वृत्तिरिति। स हि तदा प्रसुप्ततनुविच्छिन्नो भवति। विषये यो लब्धवृत्तिः स उदारः। सर्व एवैते क्लेशविषयत्वं नातिक्रामन्ति। कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारो वा क्लेश इति, उच्यते – सत्यमेवैतत्, किन्तु विशिष्टानामेवैतेषां विच्छिन्नादित्वम्। यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति। सर्व एवामी क्लेशा अविद्याभेदाः। कस्मात्, सर्वेष्वविद्यैवाभिप्लवते। यदविद्यया वस्त्वाकार्यते तदेवानुशेरते क्लेशा विपर्यासप्रत्ययकाल उपलभ्यन्ते क्षीयमाणां चाविद्यामनु क्षीयन्त इति ॥ ४ ॥ व्याख्या भास्वती
चतुर्विधकल्पितानामस्मितारागद्वेषाभिनिवेशानामित्यर्थः, तत्रेति । शक्तिः क्रियाया जननी तन्मात्रप्रतिष्ठानां क्लेशानां प्रसुप्तिर्द्वितयी भविष्यक्रियाजननी च दग्धबीजोपमा क्रियाजननसामर्थ्यहीना वन्ध्या चेति । आद्या विषये प्राप्ते विबुध्यते न तथान्त्येति विवेच्यम् । प्रसङ्ख्यानवतो विवेकख्यातिमतः चरमदेह इति । मनःप्राणेन्द्रियक्रियां रुन्धतो विवेकमात्रे चित्तसमाधानसामर्थ्याद् न तस्य योगिनः पुनः शरीरधारणं स्यात् । ततश्चरमदेहो जीवन्मुक्त इति । सतामिति । विवेकः प्रत्ययविशेषः । प्रत्ययस्तु द्रष्टृदृश्यसंयोगमन्तरेण न सम्भवेत् । तस्माद् विवेककालेऽप्यस्ति चित्तोपादानभूतास्मिता सा च विवेकादन्यं सांसारिकं प्रत्ययं न जनयतीति सत्यपि सास्मिता दग्धबीजोपमा बीजसामर्थ्यहीना । उक्तञ्च -
बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥ इति ॥
प्रतिपक्षेति । अस्मितायाः प्रतिपक्ष आत्मनः करणव्यतिरिक्ता भावना । रागस्य वैराग्यभावना । द्वेषस्य मैत्रीभावना अभिनिवेशस्य चाजरोहममरोहमित्यादिभावना तपःस्वाध्यायसहगतया प्रतिपक्षभावनया क्लेशास्तनवो भवन्ति । सर्व इति । चतसृष्वप्यवस्थास्ववस्थिताः क्लेशाः क्लिश्नति सम्प्रति वोत्तरकाले वेति क्लेशविषयत्त्वं नातिक्रामन्ति । विशिष्टानामिति । अवस्थाविशेषादिति प्रसुप्त्यादिभेद इत्यर्थः । अभिप्लवते व्याप्नोतीति । सर्व एव अविद्यालक्षणान्तर्गता इत्यर्थः । यदिति । अविद्यया वस्तु अतद्रूपेणाकार्यते, आकारितं क्रियते । इतरे च क्लेशास्तन्मिथ्याज्ञानानुगामिन इति तेऽविद्यामनुशेरते अविद्यामपेक्ष्यवर्तन्ते इत्यर्थः । क्षीयमाणाविद्यामनु क्षीयमाणायामविद्यायामित्यर्थः, ते क्षीयन्ते ॥ ४ ॥ तत्राविद्यास्वरूपमुच्यते – अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५ ॥ अनित्ये कार्ये नित्यख्यातिः। तद्यथा - ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकस इति। तथाऽशुचौ परमबीभत्से काये – स्थानाद्बीजादुपष्टम्भान्निःस्यन्दान्निधनादपि। कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ॥ इति अशुचौ शुचिख्यातिर्दृश्यते। नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेवचन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेति कस्य केनाभिसम्बन्धः। भवति चैवमशुचौ शुचिविपर्यासप्रत्यय इति। एतेनापुण्ये पुण्यप्रत्ययस्तथैवानर्थे चार्थप्रत्ययो व्याख्यातः। तथा दुःखे सुखख्यातिं वक्ष्यति - परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः इति। तत्रसुखख्यातिरविद्या। तथाऽनात्मन्यात्मख्यातिर्बाह्योपकरणेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनस्यनात्मन्यात्मख्यातिरिति। तथैतदत्रोक्तम् - व्यक्तमव्यक्तं वा सत्त्वमात्मत्वेनाभिप्रतीत्य तस्य सम्पदमनु नन्दत्यात्मसम्पदं मन्वानस्तस्य व्यापदमनु शोचत्यात्मव्यापदं मन्वानः स सर्वोऽप्रतिबुद्धः इति। एषा चतुष्पदा भवत्यविद्या मूलमस्य क्लेशसन्तानस्य कर्माशयस्य च सविपाकस्येति। तस्याश्चामित्रागोष्पदवद्वस्तुसतत्त्वं विज्ञेयम्। यथा नामित्रो मित्राभावो न मित्रमात्रं किं तु तद्विरुद्धः सपत्नः। यथा वाऽगोष्पदं न गोष्पदाभावो न गोष्पदमात्रं किन्तु देश एव ताभ्यामन्यद्वस्त्वन्तरम्, एवमविद्या न प्रमाणं न प्रमाणाभावः किन्तु विद्याविपरीतं ज्ञानान्तरमविद्येति ॥ ५ ॥ व्याख्या भास्वती
स्थानादिति । देहस्य बीजमशुचि तथा स्थानं मातुरुदरं लालादिमिश्रभुक्तान्नपानम् । उपष्टम्भः सङ्घातः । घर्मसिङ्घाणादिर्निष्यन्द इत्येतत् सर्वमशुचि । किञ्च निधनात् तथाधेयशौचत्वात् पुनः पुनः शौचस्य विधेयत्वात् कायोऽशुचिरित्यर्थः । रागादशुचौ शुचिख्यातिः । द्वेषाद् दुःखे सुखख्यातिः यतो द्वेषमीर्ष्यादिकं सन्तापकरमप्यनुकूलतयोपनह्यन्ति द्वेषिणो जनाः । अस्मितानात्मन्यात्मख्यातिः । तथाभिनिवेशादनित्ये नित्यख्यातिः । बाह्येति । चेतने पुत्रपश्वादिषु, अचेतने धनादिषु, उपकरणेषु भोग्यद्रव्येष्वित्यर्थः । सुखदुःखभोगाधिष्ठाने च शरीरे, तथा पुरुषीभूते चोपकरणे मनसि इत्येतेष्वनात्मद्रव्येष्वात्मख्यातिः, तथेति । पञ्चशिखाचार्येणोक्तं व्यक्तं चेतनं पुत्रादि , अव्यक्तमचेतनं गृहादि, सत्त्वं द्रव्यम् आत्मत्वेन अहन्ताममतास्पदत्वेनेत्यर्थः । सः सर्वः तादृशः सर्वोजनः अप्रतिबुद्धः मूढः । तस्या इति । वासोऽस्यास्तीति वस्तु तस्य सतत्त्वं वस्तुत्त्वं भावत्त्वं नाभावत्त्वमित्यर्थः । विज्ञेयममित्रादिवद् । न मित्रमात्रमिति । न मित्रमित्यनिर्दिष्टं किञ्चिद् द्रव्यमात्रमपि नेत्यर्थः । किन्तु शत्रुरेवामित्रः । तथाऽगोष्पदं विस्तृतो देश एव न तद् गोष्पदस्याभावमात्रं नाप्यन्यद् वस्तु । एवमविद्या न विद्याया अभावमात्रं नापि वस्त्वन्तरं किन्तु अतद्रूपप्रतिष्ठं मिथ्याज्ञानरूपं वस्त्वेवाविद्या । सर्वमेव मिथ्याज्ञानं विपर्ययः । तत्र ये तु विपर्ययाः संसृतिहेतवस्तेऽविद्येति वेदितव्यम् । न चाविद्यानिर्वचनीया किन्त्वदद्रूपप्रतिष्ठं मिथ्याज्ञानममित्यस्या निर्वचनम् । सा न प्रमाणं नापि स्मृतिः, अतद्रूपप्रतिष्ठत्वात् । तस्मात् सा तदन्यो ज्ञानभेद एव । सा च पूर्वोत्तरवृत्तिप्रवाहरूपत्त्वात् प्रमाणादिवद् बीजवृक्षन्यायेनानादिरिति ॥ ५ ॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६ ॥ पुरुषो दृक्शक्तिर्बुद्धिर्दर्शनशक्तिरित्येतयोरेकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते। भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तासङ्कीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्पते। स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति कुतो भोग इति। तथा चोक्तम् – ‘बुद्धितः परं पुरुषमाकारशीलविद्यादिभिर्विभक्तमपश्यन्कुर्यात्तत्राऽऽत्मबुद्धिं मोहेन’ इति ॥ ६ ॥ व्याख्या भास्वती
दृक्शक्तिः स्वबोधः स्वतो बोधः वा । दर्शनशक्तिस्तु दृशेः स्वाभसेन स्वाभासभूत इव बौद्धबोधः । ज्ञाताहमित्यत्र प्रत्यये विशुद्धो ज्ञाता दृक् । तत्र च प्रत्यये दृश्याभिमानरूपेणाहंवाच्येन जडेन प्रत्ययेन सह ज्ञातुरेकत्वं प्रतीयते । स एकत्वप्रतिभासः एवास्मिता । तयात्यन्तविभक्ता अत्यन्तविभिन्ना अत्यन्तासङ्कीर्णा अत्यन्ताविमिश्रा भोक्तृशक्तिर्भोग्यशक्तिश्च दृग्दर्शनशक्ती इत्यर्थः । अभिन्ना विमिश्रा इव प्रतीयते । तस्मिन् मिश्रीभावे सत्यहं सुखी, अहं दुःखीत्यादयो विपर्यस्ताः प्रत्यया जायेरन् । ततो द्रष्टुर्भोग इति कल्पते । दृग्दर्शनशक्त्योः स्वरूपप्रतिलम्भे स्वरूपोपलब्धौ सत्यामस्मीतिप्रत्ययतोखण्डैकरूपो निर्विकारः स्वाभासश्चेतिता पुरुषोऽभिमानेनारोपितात् सर्वास्मिप्रत्ययरूपाद् दृश्यादत्यन्तविधर्मा इति विवेकख्यातौ जातायामित्यर्थः । तस्मिन् सत्यहं सुखीत्यादिभोगप्रत्यया न जायेरन् विवेकज्ञानविरोधादिति । यथा रागकाले द्वेषस्यानवकाशः पञ्चशिखाचार्येणेदमुक्तं - बुद्धितः परं पुरुषं द्रष्टारम्, आकारः शुद्धस्वरूपता, शीलं साक्षित्त्वरूपमाध्यस्थ्यस्वभावः । विद्या चिद्रूपता इत्यादिलक्षणैर्विभक्तं बुद्धितोऽत्यन्ताभिन्नमपश्यन् न पश्यन् अविवेकी जनो बुद्धिरेवात्मेति मतिं कुर्यादिति ॥ ६ ॥ सुखानुशयी रागः ॥ ७ ॥ सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धस्तृष्णा लोभः स राग इति ॥ ७ ॥ व्याख्या भास्वती
सुखेति । सुखाभिज्ञस्य सुखाशयरूपः सुखसांस्कारःसुखाशयस्यानिस्मरणपूर्विकाऽनुकूलप्रवृत्तिरूपा चित्तावस्था रागः, तत्पर्यायाः “गर्धस्तृष्णा लोभः” इति । गर्धः अभिकाङ्क्षा । अनुभूयमाने विषयाभावे या प्रवृत्तिः सा तृष्णा । लोभः लोलुपता । उदरपूरं भुक्त्वापि लोभात् पुनर्भुङ्क्ते ॥ ७ ॥ दुःखानुशयी द्वेषः ॥ ८ ॥ दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिघो मन्युर्जिघांसा क्रोधः स द्वेषः ॥ ८ ॥ व्याख्या भास्वती
दुःखेति । दुःखानुस्मरणाद् दुःखस्य दुःखसाधनस्य च प्रहाणाय या प्रवृत्तिः स द्वेषः । तत्पर्यायाः “प्रतिघो जिघांसा क्रोधो मन्युः” इति । प्रतिघातात् प्राप्तस्य दुःखस्य प्रतिहन्तुमिच्छा प्रतिघः । जिघांसा हन्तुमिच्छा । मन्युः बद्धमूलो मानसो द्वेषः । क्रोधस्य पूर्वावस्था सा ॥ ८ ॥ स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥ ९ ॥ सर्वस्य प्राणिन इयमात्माशीर्नित्या भवति मा न भूवं भूयासमिति। न चाननुभूतमरणधर्मकस्यैषा भवत्यात्माशीः। एतया च पूर्वजन्मानुभवः प्रतीयते। स चायमभिनिवेशः क्लेशः स्वरसवाही कृमेरपि जातमात्रस्य प्रत्यक्षानुमानागमैरसम्भावितो मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूऽतं मरणदुःखमनुमापयति। यथा चायमत्यन्तमूढेषु दृश्यते क्लेशस्तथा विदुषोऽपि विज्ञातपूर्वापरान्तस्य रूढः। कस्मात्। समाना हि तयोः कुशलाकुशलयोर्मरणदुःखानुभवादियं वासनेति ॥ ९ ॥ व्याख्या भास्वती
सर्वस्येति । आत्माशीः आत्मप्रार्थना, नित्या अव्यभिचारिणीत्यर्थः । मा न भूवम् । किन्तु भूयासमित्याशीः सदा सर्वप्राणिषु दर्शनात् सा नित्येति । कुत इयमात्माशीर्जाता? तदाह - नेति । इयमात्माशीरनुस्मृतिपूर्वा । स्मृतिस्तु संस्काराज्जायते । संस्कारः पुनरनुभवाज्जायते । मा न भूवं भूयासमित्याशिषोऽनुभूतिर्मरणकाल एव भवतीत्येतया पूर्वजन्मानुभवः पूर्वजनमनि मरणानुभव इत्यर्थः । उपेयते, स्वरसमावहतीति । स्वसंस्कारेण वहनशीलः स्वाभाविक इव जातमात्रस्याप्यभिनिवेशदर्शनाद् । न स मरणभयरूपो ऽभिनिवेशः प्रत्यक्षादिप्रमाणैः सम्भावितः निष्पादितः प्रमितः इत्यर्थः । तस्मात् स स्मृतिरेव भवितुमर्हतीति । उच्छेददृष्ट्यात्मक उच्छेदो मे भविष्यतीति तन्मा भूदितिज्ञानात्मको मरणत्रासः । एतदुक्तं भवति - मरणत्रासो न प्रमाणप्रमितप्रत्ययः । ततः सा स्मृतिः । स्मृतिस्तु पूर्वानुभवाज्जायते । तस्मान्मरणत्रासः पूर्वानुभूत इत्येवं पूर्वजन्मानुमानम् । विदुष इति । विदुष आगमानुमानज्ञानवतो न तु सम्प्रज्ञानवतः । आगमानुमानाभ्यां येन पूर्वापरान्तो विज्ञातस्तादृशस्य विदुषः । अनादिः पुरुषः “पुराणः स्वयम्भूः पुरुषः” इति पूर्वान्तविज्ञानम् ।
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि । "
तथा देहान्तरप्राप्तिरित्येवं पुरुषस्यामरत्त्वविज्ञानमेवापरान्तविज्ञानम् ।
यैः श्रुतानुमानाभ्यामेतन्निश्चितं तादृशानां विदुषामपि तथारूढः तथाप्रसिद्धो भयरूपः क्लेशोऽभिनिवेशः । श्रुतानुमानप्रज्ञाभ्यामेव न क्षीयन्ते क्लेशास्तस्मात् समाना क्लेशवासना तादृशविदुषामविदुषाञ्चेति, सम्यग्ज्ञानवतां क्षीणक्लेशानां योगिनां क्षीणा भवेदभिनिवेशक्लेशवासनेति -
आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेतीति श्रुतेः ॥ ९ ॥ ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ १० ॥ ते पञ्च क्लेशा दग्धबीजकल्पा योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति ॥ १० ॥ व्याख्या भास्वती
प्रतिप्रसवः प्रसवाद् विरुद्धः प्रलयः । पुनरुत्पत्तिहीनलय इत्यर्थः । सूक्ष्मीभूता विवेकख्यातिमच्चितस्योपादानरूपा इत्यर्थः । क्लेशा एव प्रतिप्रसवेन हेयास्त्याज्या इति सूत्रार्थः । त इति । ज्ञानेच्छादिरूपं चित्तकार्यं परिसमाप्यते विवेकेन । अतस्तेन समाप्ताधिकारस्य चित्तस्य क्लेशा दग्धबीजकल्पा भवन्ति । ततः पुनः परेण वैरग्येण विवेकस्यापि निरोधः कार्यः । तदात्यन्तवृत्तिनिरोधात् क्लेशानामत्यन्तप्रहाणं भवतीत्यर्थः ॥ १० ॥ स्थितानां तु बीजभावोपगतानाम् – ध्यानहेयास्तद्वृत्तयः ॥ ११ ॥ क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तत्कृताः सत्यः प्रसङ्ख्यानेन ध्यानेन हातव्या यावत्सूक्ष्मीकृता यावद्दग्धबीजकल्पा इति। यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते पश्चात्सूक्ष्मो यत्नेनोपायेन चापनीयते तथा स्वल्पप्रतिपक्षाः स्थूला वृत्तयः क्लेशानां, सूक्ष्मास्तु महाप्रतिपक्षा इति ॥ ११ ॥ व्याख्या भास्वती
स्थूला इति । जात्यायुर्भोगमूला क्लेशावस्था स्थूला । निर्धूयते अपनीयते । स्वल्पेति । स्वल्पाः प्रतिपक्षाः नाशोपाया यासां ता अवस्था । सूक्ष्माः क्लेशवृत्तयो महाप्रतिपक्षाश्चित्तप्रलयहेत्त्वात् । चित्तप्रलयस्तु परवैराग्यमन्तरेण न भवति ॥ परवैराग्यञ्च निर्गुणपुरुषख्यातेरेवोत्पद्यते । तच्च सम्यग् दर्शनं सुदुर्लभम् । उक्तञ्च - “यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः” इति ।
केचिल्लपन्ति शून्यमात्मेति, यथोक्तं -
शून्यमाध्यात्मिकं पश्येत् पश्येच्छून्यं बहिर्गतम् । न विद्यते सोऽपि कश्चिद् यो भावयति शून्यताम् ॥ " इति ।
केचिच्चिदानन्दमय आत्मेति । केचिच्चिन्मयः सर्वज्ञः सर्वेश्वर आत्मेति । न ते सम्यग्दर्शिनः शून्यत्वानन्दमयत्वसर्वज्ञत्वादयो दृश्यधर्माः । न ते निर्गुणस्यौपनिषदपुरुषस्य लक्षणानि । सुदुर्लभेन सम्यग्दर्शनेनासम्प्रज्ञातेन च योगेन सूक्ष्मक्लेशानां ग्रहणं ततस्तु महाप्रतिपक्षा इति ॥ ११ ॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥ तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधप्रभवः। स दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च। तत्र तीव्रसंवेगेन मन्त्रतपःसमाधिभिर्निर्वर्तित ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति। तथा तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनरपकारः स चापि पापकर्माशयः सद्य एव परिपच्यते। यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः। तथा नहुषोऽपि देवानामिन्द्रः स्वकं परिणामं हित्वा तिर्यक्त्वेन परिणत इति। तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः। क्षीणक्लेशानामपि नास्त्यदृष्टजन्मवेदनीयः कर्माशय इति ॥ १२ ॥ व्याख्या भास्वती
जात्यायुर्भोगहेतवः संस्काराः आशयाः । कर्म चित्तेन्द्रियप्राणानां व्यापारः । तदनुभवजाता ये संस्कारा पुनरविभक्ताः सन्तः स्वानुगुणाश्चेष्टा जनयेरंस्तथा च चेष्टासहभावीनि शरीरेन्द्रियसुखदुःखादीन्याविर्भावयेयुः स एव कर्माशयः । कर्माशयः पुण्यापुण्यरूपः । पुण्यापुण्ये कामक्रोधाधिभ्यो जायेते । कामाद् यज्ञादिकं परपीडादिकं च कुर्वन्ति । तथा लोभा क्रोधात् मोहाच्चापि ।
अविद्यायामन्तरे बहुधावर्तमानाः स्वयं धीराः पण्डितम्मन्यमानाः ये कर्मणस्तेषां तेषां मोहमूलो धर्मोऽधर्मश्चेति । स इति । कर्माशयो दॄष्टादॄष्टजन्मवेदनीयः । यज्जन्मन्युपचितः कर्माशयः तत्रैव जन्मनि स चेत् विपक्वो भवेत् तदा दृष्टजन्मवेदनीयः । अन्यस्मिन् जन्मनि वेदनीयः अदृष्टजन्मवेदनीयः । एतयोरुदाहरणे आह - तत्रेति । सुगमम् । सद्य एव अचिरादेवेत्यर्थः । नन्दीश्वरो नहुषश्चात्र यथाक्रमं दृष्टान्तः । तत्रेति । नारकाणामुपभोगदेहानां निरयदुःखभाजां सत्त्वानां नास्ति दृष्टजन्मवेदनीयः कर्माशयः यतस्ते प्राग्भवीयकर्मणः फलमेव भुञ्जते । मनःप्रधानत्त्वात् तन्निकायस्य । यथा स्वप्ने स्मृतिरूपे नास्ति कर्माशयप्रचयस्तथा प्रेतानां सत्त्वानामिति । ननु कस्मादुक्तं नारकाणामिति? सन्तु तु दिव्यदेहा अपि प्रेताः सत्त्वास्तेऽप्युपभोगदेहाः कस्मात्तेनोक्ता इति? उच्यते - दिव्यसत्त्वेषु य उपभोगप्रधानदेहास्तेषामपि स्वल्पो स्वल्पो दृष्टजन्मवेदनीयः कर्माशयः । तत्र ये ध्यानबलसम्पन्ना वशिनोऽस्ति तेषां दृष्टजन्मवेदनीयः कर्माशयः यतस्ते दिव्यदेहेनैव निष्पन्नकृत्याः परं पदं विशन्ति । यथोक्तम् -
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविश्यन्ति परं पदम्" ॥ इति ।
पुनर्जन्माभावात् क्षीणक्लेशानां नास्त्यदृष्टजन्मवेदनीयः कर्माशयः । तस्मिन्नेव जन्मनि तेषां संस्कारक्षयः स्यादिति ॥ १२ ॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३ ॥ सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूलः। यथा तुषावनद्धाः शालितण्डुला अदग्धबीजभावाः प्ररोहसमर्था भवन्ति नापनीततुषा दग्धबीजभावा वा, तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति नापनीतक्लेशो न प्रसङ्ख्यानदग्धक्लेशबीजभावो वेति। स च विपाकस्त्रिविधो जातिरायुर्भोग इति। तत्रेदं विचार्यते – किमेकं कर्मैकस्य जन्मनः कारणमथैकं कर्मानेकं जन्माऽऽक्षिपतीति। द्वितीया विचारणा – किमनेकं कर्मानेकं जन्म निर्वर्तयति अथानेकं कर्मैकं जन्म निर्वर्तयतीति। न तावदेकं कर्मैकस्य जन्मनः कारणम्। कस्मात्, अनादिकालप्रचितस्यासङ्ख्येयस्यावशिष्टस्य कर्मणः साम्प्रतिकस्य च फलक्रमानियमादनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति। न चैकं कर्मानेकस्य जन्मनः कारणम्। कस्मात्, अनेकेषु कर्मसु एकैकमेव कर्मानेकस्य जन्मनः कारणमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः, स चाप्यनिष्ट इति। न चानेकं कर्मानेकस्य जन्मनः कारणम्। कस्मात्, तदनेकं जन्म युगपन्न सम्भवतीति क्रमेणैव वाच्यम्। तथा च पूर्वदोषानुषङ्गः। तस्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त एकप्रघट्टकेन मरणं प्रसाध्य सम्मूर्छित एकमेव जन्म करोति। तच्च जन्म तेनैव कर्मणा लब्धायुष्कं भवति। तस्मिन्नायुषि तेनैव कर्मणा भोगः सम्पद्यत इति। असौ कर्माशयो जन्मायुर्भोगहेतुत्वात्त्रिविपाकोऽभिधीयत इति। अत एकभविकः कर्माशय उक्त इति। दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी भोगहेतुत्वाद्द्विविपाकारम्भी वा आयुर्भोगहेतुत्वात् नन्दीश्वरवन्नद्वुषवद्वेति। क्लेशकर्मविपाकानुभवनिर्वर्तिताभिस्तु वासनाभिरनादिकालसम्मूर्छितमिदं चित्तं विचित्रीकृतमिव सर्वतो मत्स्यजालं ग्रन्थिभिरिवाऽऽततमित्येता अनेकभवपूर्विका वासनाः। यस्त्वयं कर्माशय एष एवैकभविक उक्त इति। ये संस्काराः स्मृतिहेतवस्ता वासनास्ताश्चानादिकालीना इति। यस्त्वसावेकभविकः कर्माशयः स नियतविपाकश्चानियतविपाकश्च। तत्र दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य। कस्मात्। यो ह्यदृष्टजन्मवेदनीयोऽनियतविपाकस्तस्य त्रयी गतिः – कृतस्याविपक्वस्य नाशः, प्रधानकर्मण्यावापगमनं वा, नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानमिति। तत्र कृतस्याविपक्वस्य नाशो यथा शुक्लकर्मोदयादिहैव नाशः कृष्णस्य। यत्रेदमुक्तम् –“द्वे द्वे ह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतोऽपहन्ति तदिच्छस्व कर्माणि सुकृतानि कर्तुमिहैव ते कर्म कवयो वेदयन्ते।” प्रधानकर्मण्यावापगमनम्। यत्रेदमुक्तं – “स्यात्स्वल्पः सङ्करः सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षायालम्। कस्मात्, कुशलं हि मे वह्वन्यदस्ति यत्रायमावापं गतः स्वर्गेऽप्यपकर्षमल्पं करिष्यति” इति। नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानम्। कथमिति, अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं मरणमभिव्यक्तिकारणमुक्तम् न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य। यत्त्वदृष्टजन्मवेदनीयं कर्मानियतविपाकं तन्नश्येदावापं वा गच्छेदभिभूतं वा चिरमप्युपासीत, यावत्समानं कर्माभिव्यञ्जकं निमित्तमस्य न विपाकाभिमुखं करोतीति। तद्विपाकस्यैव देशकालनिमित्तानवधारणादियं कर्मगतिश्चित्रा दुर्विज्ञाना चेति। न चोत्सर्गस्यापवादान्निवृत्तिरित्येकभविकः कर्माशयोऽनुज्ञायत इति ॥ १३ ॥ व्याख्या भास्वती
जात्यायुर्भोग इति त्रिविधो विपाकः फलं कर्माशयस्य । जातिः देहः । आयुः देहस्थितिकालः । भोगः सुखं दुःखं मोहश्च । देहमाश्रित्यायुर्भोगौ सम्भवतः । अभिमानं विना न देहधारणम् । तथा रागादि विना न सुखादि सम्भवेद्, अतोऽस्मितारागादिक्लेशमूल एव कर्माशयो जात्यादेः कारणम् । तस्मादुक्तम् - सत्स्विति । सुगमम् । तुषावनद्धाः सतुषाः । केचिदातिष्ठन्ते - एकं कर्मैकस्य जन्मनः कारणम् । अन्ये वदन्ति - एकं पशुहननादिकर्मानेकं जन्म निर्वर्तयतीति । इत्यादींस्त्रीनसमीनान् पक्षान् निरस्य समीचीनं सिद्धान्तमाह - तस्माज्जन्मेति । बहूनि कर्माणि मिलित्वैकमेव जन्म निर्वर्तयन्तीति सिद्धान्त एव न्याय्यः । यतो नास्ति किञ्चिदेकं कर्म तेन देहधारणं स्यात् । देहभृताञ्च बहवः सुखभोगाः नैकस्मात् कर्मणः सङ्घटेरन्निति कथं कर्माशयप्रचयः? तदाह - तस्मादिति । प्रायणं मरणम् । प्रचयः सञ्चयः । विचित्रः सर्वकरणानां नानाविधचेष्टानां संस्कारात्मकत्वादतिविचित्रः, तीव्रानुभवाज्जातः पुनः पुनः कृतेभ्यः कर्मभ्यः वा जातः संस्कारः । प्रधानं ततोऽन्य उपसर्जनो अमुख्य इत्यर्थः । तत्तद्रूपेणावस्थितः सञ्चित इत्यर्थः । प्रायेण लिङ्गस्य स्थूलदेहत्यागरूपेण मरणेनाभिव्यक्तः । प्रायणकाले यस्मिन् क्षणे क्षीणीन्द्रियवृत्ति सत् संस्काराधारं चित्तं स्वाधिष्ठानद् वियुक्तं भवति तस्मिन्नेव क्षण आजीवनकृतानां सर्वेषां कर्मणां संस्काररूपेणावस्थितानां स्मृतयोऽजडस्वभावे चेतस्युद्यन्ति । चेतसोऽधिष्ठानभूतेभ्यो मर्मस्थानेभ्यो विच्छिन्नभवनरूपादुद्रेकादेव युगपत् सर्वस्मृतिसमुद्भवः स्याद्, देहसम्बन्धशून्येऽजडीभूते चेतसीति । उक्तञ्च -
“शरीरं त्यजते जन्तुः छिद्यमानेषु मर्मसु” इति ।
तदा क्षणावच्छिन्ने काले सर्वासां स्मृतीनां यः समुदयः स एव एकप्रघट्ट्केन एकप्रयत्नेन मिलित्वोत्थानम् । सम्मूर्छितः पिण्डीभूत एकघन इव । स्थूलदेहत्यागानन्तरमेवम्भूतात् कर्माशयादेकं दिव्यं वा नरकं वा जन्म भवति । स हि उपभोगदेहो मनःप्रधानत्वात् स्वप्नवत् । श्रूयते च - “स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणी"ति । न हि तस्मिन् प्रेतनिकाये स्थूलदेहारम्भकः कर्माशयो विपच्येत । नापि कर्माशयप्रचयो भवेत् । तत्र च चेतोमात्राधीनानां पूर्वकर्मणां फलभूतः सुखदुःखभोगस्तद्वासनाप्रचयश्च स्याद् । यथा स्वप्ने मनःप्रधाने चित्तक्रिया च तद्भवः सुखदुःखभोगश्च तद्वत् । तदनन्तरमवशिष्टात् स्थूलदेहारम्भकात् कर्माशयात् स्थूलकर्मदेहधारणं स्यात् । स्थूलसूक्ष्मदेहानामायुः तथायुषि सुखदुःखमोहभोगाश्च तत्कर्माशयादेव भवति । स्थूलजन्मन्युत्कटैः पुण्यपापैः दृष्टजन्मवेदनीयावायुर्भोगावपि स्याताम् ।
एवमुत्तरजन्मारम्भकस्य कर्माशयस्य तत्पूर्वस्थूलजन्मानि निर्वर्तनादेकभविकः कर्माशय इत्युत्सर्गोऽनुज्ञातः । एको भवो जन्म एकभवः । एकभवे निष्पन्नः सञ्चितः वैकभविकः । तत्रादृष्टजन्मवेदनीय कर्माशयः एव त्रिविपाकः । दृष्टजन्मवेदनीयो न तथा । कस्मात्तदाह - दृष्टेति । दृष्टजन्मकृतस्य कर्मणाश्चेत्तज्जन्मनि विपाकस्तदा जातिरूपो विपाको न स्यात् तस्मात् तस्यायूरूपो भोगरूपो वा एको विपाकः, आयुर्भोगरूपौ वा द्वौ विपाकौ भवेताम् । एकविपाकस्य दृष्टान्तो नहुषः । द्विविपाकस्य च नन्दीश्वरः । नहुषनदीश्वरयोर्न जन्मरूपो विपाकः जातः । नहुषस्य च दिव्यायुरपि न नष्टं, किन्तु तस्मिन्नायुषि सर्पत्त्वप्राप्तिजन्यो दुःखभोगः सञ्जातः । नन्दीश्वरस्य पुनर्दिव्यावायुर्भोगौ जातौः ।
कर्माशय एकभविको वासनात्वनेकभवपूर्विका । चित्तमनादि प्रवर्त्तमानं , तस्मात्तस्य जात्यायुर्भोगा असङ्ख्येयाः । ततश्च चित्तस्य क्लेशकर्मादिसंस्कारा असङ्ख्याताः । क्लेशाश्च कर्मविपाकाश्च क्लेशकर्मविपाकाः तेषामनुभवरूपान्निमित्ताज्जाताः स्मृतिफलाः वासनाः । क्लेशकर्मविपाकौ चेतरेतरसहायौ तस्मात् प्राधान्यात् कर्मविपाकानुभववज्जन्यत्वेऽपि वासनानां ता हि क्लेशैः परामृष्टाः सत्योऽपि प्रचीयन्ते । ताभिर्वासनाभिरनादिकालं यावत् सम्मूर्छितम् एकलोलीभूतमेकघनं भूत्त्वाप्रवर्तमानमित्यर्थः । चित्तं चित्रीकृतमिव सर्वतो ग्रन्थिभिराततं मत्स्यजालमिव ।
उत्सर्गाः सापवादाः ततः कर्माशयः एकभविक इत्युत्सर्गस्यापि सन्त्यपवादाः । तान् वक्तुमुपक्रमते - यस्त्विति । नियतोऽबाधितो निमित्तान्तरेणासङ्कुचित इति यावत्, विपाको यस्य सः नियतविपाकः कर्माशयः । कर्माशयश्चेन्नियतविपाकः तथादृष्टजन्मवेदनीयः स्यात्तदैव स सम्यगेकभविकः स्यात् । अन्यथैकभविकस्यापवादः कथम्? तद् दर्शयति - य इति ।
कृतस्याविपक्वस्य नाश इति इत्यस्योदाहरणं क्षमया क्रोधसंस्कारनाशः । द्वितीया गतिर्बलवता प्रधानकर्मणा सहावापगमनम् । एकत्र फलीभाव इत्यर्थः । दुर्बलस्य कर्मणो धान्यप्राये क्षेत्रे धान्येन सहोप्तमुद्गादिवत् । तृतीयगर्नियतविपाकेन प्रधानकर्मणाभिभवः । ततश्च विपाककालालाभाच्चिरमवस्थानम् । एतास्तिस्रो गतिरुदाहरणैर्द्योतयति - तत्रेति । श्रुतिमुदाहरति - द्वे द्वे इति । पुरुषाणां कर्म द्वे द्वे द्विविधं पाप पुण्यञ्चेति । तत्र पापस्यैको राशिः, तदन्यः पुण्यकृतः शुक्लकर्मणः एको राशिः पा(त?)पकमुपहन्ति, तत् तस्मात् सुकॄतानि कर्माणि कर्तुमिच्छस्व इच्छेत्यर्थः । छान्दसमात्मनेपदम् । इहैव ते तुभ्यं कर्म इहलोक एव पुरुषकारभूमिरिति कवयो योगाक्रान्तप्रज्ञा वेदयन्ते पश्यन्तीति । द्वे द्वे इत्यभ्यासो बहुपुरुषाणां विचित्रकर्मराशिसूचनार्थः । द्वितीयगतेरुदाहरम् - यत्रेति । उक्तं “पञ्चशिखाचार्येण” अकुशलमिश्रपुण्यकारिणोऽयं प्रत्यवमर्शः । ममाकुशलः स्वल्पः सङ्करः पुण्येन सङ्कीर्णेन बहुपुण्यमिश्र इत्यर्थः, सपरिहारः प्रायश्चित्तादिना । स प्रत्यवमर्शोऽनुशोचनीय इत्यर्थः । मम भूयिष्ठकुशलस्यापकर्षायामिभवाय नालमसमर्थ इत्यर्थः । यतो मे बह्वन्यत् कुशलं कर्मास्ति । यत्र येन सह इत्यर्थः, अयमकुशः आवापं गतः विपक्वः स्वर्गेऽप्यपकर्षमल्पं करिष्यतीति ।
तृतीयां गतिं व्याचष्टे - कथमिति । ते ह्यदृष्टजन्मवेदनीया नियतविपाकाः कर्मसंस्कारास्तेषामेव मरणं समानं साधारणं सर्वेषां तादृशसंस्काराणामेकं मरणमेवेत्यर्थः । अभिव्यक्तिकारणम् । न त्वदृष्टजन्मवेदनीयोऽनियतविपाक इत्येवञ्जातीयकस्य कर्मसंस्कारस्येति । यतः स संस्कारो नश्येद् वा आवापं वा गच्छेद् । अथो वा चिरमप्यासीत सञ्चितस्तिष्ठेत् । यावन्न सरूपं किञ्चित् कर्म तं संस्कारं विपाकाभिमुखं करोति । समानमभिव्यञ्जकमस्य निमित्तं निमित्तभूतं कर्मेत्यन्वयः । कुत्र देशे कस्मिन् काले कैर्वा निमित्तैः किञ्चन कर्म विपक्वं भवेद्, तद्विशेषावधारणं दुस्साध्यं योगजप्रज्ञापेक्षत्वात् । कर्माशय एकभविक इत्युत्सर्गो य आचार्यैः प्रतिज्ञातः न स उक्तेभ्योऽपवादेभ्यो निवर्तेत, यतः उत्सर्गाः सापवादा इति ॥ १३ ॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४ ॥ ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफला अपुण्यहेतुका दुःखफला इति। यथा चेदं दुःखं प्रतिकूलात्मकमेवं विषयमुखकालेऽपि दुःखमस्त्येव प्रतिकूलात्मकं योगिनः ॥ १४ ॥ व्याख्या भास्वती
त इति । पुण्यं यमनियमदयादानानि तद्देह्तुका जन्मायुर्भोगाः सुखफला अनुकूलवेदनीया भवन्ति । सुखात्मभोगाज्जन्मायुषी प्रार्थनीये भवत इत्यर्थः । तद्विपरीता अपुण्यहेतुकाः । अनुकूलात्मसुखमपि विवेकिभिर्योगिभिर्दुःखपक्षे निःक्षिप्यते वक्ष्यमाणेन हेतुना ॥ १४ ॥ कथं, तदुपपाद्यते – परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ १५ ॥ सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः। तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः। तथा चोक्तम् – “नानुपहत्य भूतान्युपभोगः सम्भवतीति हिंसाकृतोऽप्यस्ति शारीरः कर्माशयः” इति। विषयसुखं चाविद्येत्युक्तम्। या भोगेष्विन्द्रियाणां तृप्तेरुपशान्तिस्तत्सुखम्। या लौल्यादनुपशान्तिस्तद्दुःखम्। न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम्। कस्मात्, यतो भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति। तस्मादनुपायः सुखस्य भोगाभ्यास इति। स खल्वयं वृश्चिकविषभीत इवाऽऽशीविषेण दष्टो यः सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति। एषा परिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि योगिनमेव क्लिश्नाति। अथ का तापदुःखता, सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति तत्रास्ति द्वेषजः कर्माशयः। सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते ततः परमनुगृह्णात्युपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति। स कर्माशयो लोभान्मोहाच्च भवतीत्येषा तापदुःखतोच्यते। का पुनः संस्कारदुःखता, सुखानुभवात्सुखसंस्काराशयो दुःखानुभवादपि दुःखसंस्काराशय इति। एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दुःखे वा पुनः कर्माशयप्रचय इति। एवमिदमनादि दुःखस्रोतो विप्रसृतं योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति। कस्मात्, अक्षिपात्रकल्पो हि विद्वानिति। यथोर्णातन्तुरक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति न चान्येषु गात्रावयवेषु, एवमेतानि दुःखान्यक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति नेतरं प्रतिपत्तारम्। इतरं तु स्वकर्मोपहृतं दुःखमुपात्तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानमनादिवासनाविचित्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिवाविद्यया हातव्य एवाहङ्कारममकारानुपातिनं जातं जातं बाह्याध्यात्मकोभयनिमित्तास्त्रिपर्वाणस्तापा अनुप्लवन्ते। तदेवमनादिना दुःखस्रोतसा व्युह्यमानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यत इति। गुणवृत्तिविरोधाच्च दुःरवमेव सर्वं विवेकिनः। प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्री भूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेवाऽऽरभन्ते। चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम्। रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते, सामान्यानि त्वतिशयैः सह प्रवर्तन्ते। एवमेते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः सर्वे सर्वरूपा भवन्तीति, गुणप्रधानभावकृतस्त्वेषां विशेष इति। तस्माद्दुःखमेव सर्वं विवेकिन इति। तदस्य महतो दुःखसमुदायस्य प्रभवबीजमविद्या। तस्याश्च सम्यग्दर्शनमभावहेतुः। यथा चिकित्साशास्त्रं चतुर्व्यूहम् – रोगो रोगहेतुरारोग्यं भैषज्यमिति, एवमिदमपि शास्त्रं चतुर्व्यूहमेव। तद्यथा – संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति। तत्र दुःखबहुलः संसारो हेयः। प्रधानपुरुषयोः संयोगो हेयहेतुः। संयोगस्याऽऽत्यन्तिकी निवृत्तिर्हानम्। हानोपायः सम्यग्दर्शनम्। तत्र हातुः स्वरूपमुपादेयं वा हेयं वा न भवितुमर्हतीति हाने तस्योच्छेदवादप्रसङ्ग उपादाने च हेतुवादः। उभयप्रत्याख्याने शाश्वतवाद इत्येतत्सम्यग्दर्शनम् ॥ १५ ॥ व्याख्या भास्वती
सर्वस्येति । रागेणानुविद्धः सम्प्रयुक्तः चेतनानि पुत्रादीनि अचेतनानि गृहादीनि साधनानि उपकरणानि तेषामधीनः सुखानुभवस्तथा द्वेषमोहजोऽप्यस्ति कर्माशय इत्येवं रागद्वेषमोहजो मानसः कर्माशयः इत्यस्माभिरुक्तम् । ततः शारीरोऽपि कर्माशयो भवति । यतो भूतानि प्राणिनोऽनुपहत्य नोपहत्य अस्माकमुपभोगो न सम्भवति । तस्मात् कायिककर्मजातः शारीरः कर्माशयोऽप्युत्पद्यत उपभोगरतस्य । रागादिमनोभावमात्राज्जातो मानसः कर्माशयः । तथा मिलितेन मानसेन शारीरेण च कर्मणा निष्पन्नः शारीरः कर्माशयः । विषयेति । एतत्पादस्य पञ्चमसूत्रभाष्ये विषयसुखमविद्येत्युक्तमस्माभिरित्यर्थः । येति । न केवलं विषयसुखमेव सुखं, किन्तु अस्ति निरवद्यपारमार्थिकसुखं यद् भोगेष्विन्द्रियाणां तृप्तेर्वैतृष्ण्याज्जातायाः उपशान्तेः अप्रवर्तनायाः जायते । दुःखं च लौल्याद् यानुपशान्तिस्तद्रूपम् । किन्तु नेदं पार्थमार्थिकं सुखं भोगाभ्यासाल्लभ्यमित्याह - न चेति । यद्वा सर्वसुखस्य लक्षणं भोगेष्विन्द्रियाणां तृप्तिस्तर्पणम् । तज्जा या सामयुक्त्युपशान्तिः सा । दुःखं च तद्विपरीतमिति ।
यत इति । रागा भोगाभ्यासं तथेन्द्रियाणां कौशलं विषयलोलतामनु विवर्धन्ते, अनुक्षणं विवर्धितां कुर्वन्ति । स इति । विषयानिवासितो विषयेषु प्रवर्त्तनकारिण्या रागादिवासनया वासितः समापन्नः । एषेति । विवेकिनः वश्यात्मनो योगिनः भोगसुखस्यैवं परिणामदुःखतां विचिन्त्य सौखसम्पन्ना अपि भोगसुखं प्रतिकूलमेव मन्यन्ते । एवं रागकाले सत्यपि सुखानुभवे पश्चात् परिणामदुःखता । द्वेषकाले तु तोषानुभूतये । परिस्पन्दते चेष्टते । तापानुभवात् परानुग्रहपीडे ततश्च धर्माधर्मौ । किञ्च द्वेषमूलोऽपि स धर्माधर्मकर्माशयो लोभमोहसम्प्रयुक्त एवोत्पद्यते । एवं तापादावन्ते च दुःखसन्ततिः ।
एवमिति । एवं कर्मभ्यो जाते सुखावहे वा विपाके ततद्वासनाः प्रचीयन्ते । वासनायाः पुनः कर्माशयप्रचय इति । इतरन्त्विति । इतरमयोगिनं प्रतिपत्तारं तापा अनुप्लवन्त इत्यन्वयः । किम्भूतं प्रतिपत्तारम्? येन स्वकर्मणिपहृतम् उपार्जितं दुःखं तथा च दुःखमुपात्तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानं तादृशं प्रतिपत्तरम् । तथा चानादिवासनाविचित्रया चित्तवृत्त्या चित्तस्थतयेत्यर्थः । अविद्यया समन्ततोऽनुविद्धं प्रतिपत्तारम् । अपि च हातव्य एव देहादौ धनादौ च यावहङ्कारममकारौ तयोरनुपातिनम्, अनुगतं ततश्च जातं जातं पुनः पुनः जायमानमित्यर्थः । प्रतिपत्तारमाध्यात्मिकादयस्त्रिपर्वाणास्तापा अनुप्लवन्त इति । न केवलं दुःखमौपाधिकमपि तु वस्तुस्वाभाव्यादपि दुःखमवश्यम्भावीत्याह - गुणेति । गुणां या वृत्तयः सुखदुःखमेहास्तेषां विरोधादभिभाव्याभिभावकस्वभावाच्चापि विवेकिनः सर्वेम दुःखम् । कथम्? तदाह प्रख्येति । प्रकाशक्रियास्थितिस्वभावा बुद्धिरूपेण परिणतास्त्रयो गुणा इतरेतरसहायाः । सुखं दुःखं मूढं वा प्रत्ययं जनयन्ति । तस्मात् सर्वे सुखादिप्रत्ययास्त्रिगुणात्मानः । तथा च गुणावृत्तेश्चलत्त्वात् सत्त्वप्रधानं सुखचित्तं परिणममानं रजःप्रधानं दुःखचित्तं भवतीति दुःखमवश्यम्भावि । यथोक्तं -“सुखस्यानन्तरं दुःखमिति” । एतदेव व्याचष्टे - रूपेति । धर्मादयोऽष्टौ बुद्धे रूपाणि । सुखदुःखमोहाश्च बुद्धेर्वृत्तयः । तत्र किञ्चिद् अतिशयि बुद्धिवृत्तिर्वा विरुद्धेनान्येन बुद्धे रूपेण वृत्त्या वाभिभूयते । एतस्मादेव धर्मरूपस्य यमनियमस्य सुखरूपस्य वा प्रत्ययस्य नास्त्येकतानता । किञ्च धर्मसुखादयो ऽधर्मदुःखादिभिर्विरुद्धाभिर्बुद्धे रूपवृत्तिभिः सम्भिद्यन्ते । सामान्यानीति । तथा च सामान्यान्यप्रबलानि वृत्तिरूपाणि त्वतिशयैः समुदाचरद्भिर्वृत्तिरूपैः सह प्रवर्तन्ते वृत्तिं लभन्ते । सुखेन सहोपसर्जनीभूतं दुःखमपि प्रवर्तत इत्यर्थः । एवमित्युपसंहरति । सुखञ्च सत्त्वप्रधानं, न तद् रजस्तमोभ्यां वियुक्तं सर्वेषा प्राकृतभावानां त्रिगुणात्मकत्त्वात् । एवं वस्तुस्वभावादपि दुःखमोहवियुक्तं ताभ्यां वा अग्रसिष्यमाणं सुखं नास्तीति विवेकिनः सर्वमेव दुःखमिति सम्प्रज्ञा जायते ।
तदिति । महतो दुःखसमूहस्याविद्याप्रभवबीजमुत्पत्तेर्बीजम् । शेषमतिरोहितम् । तत्रेति । हातुर्ग्रहीतुः स्वरूपं प्रकृतं रूपं चिद्रूपत्वमित्यर्थः । नोपादेयं न बुद्ध्यादीनामुपादानत्तेन ग्राह्यम् । नापि स्वप्रकाशो द्रष्टा सम्यग् हेयः । अपलाप्यो बुद्ध्यादिसर्गाय दृष्टृसत्ताया निमित्तता न त्याजेत्यर्थः । न हि स्वप्रकाशद्रष्टुरुपदर्शनं विनात्मभावः प्रवर्तेत । तस्माद् द्रष्टृनिर्विकारनिमित्ततानुपादानकारणता च ग्राह्य । स एव सम्यग्दर्शनरूपः शाश्वतवातः निर्विकारः शाश्वतू द्रष्टाऽऽत्मस्वभावस्य मूलं निमित्तमिति वाद इत्यर्थः । द्रष्टुरपलाप उच्छेदवादः । तद्वादस्तु हेयो यतः स्वेन स्वस्योच्छेदरूपो मोक्षो न न्यायेन सङ्गतः । द्रष्टुरुपादानवादे तु तस्य विकारशीलतारूपो हेतुवादः । उपादानकारणतावाद इत्यर्थः । सोऽपि हेय इति दिक् ॥ १५ ॥ तदेतच्छास्त्रं चतुर्व्यूहमित्यभिधीयते – हेयं दुःखमनागतम् ॥ १६ ॥ दुःखमतीतमुपभोगेनातिवाहितं न हेयपक्षे वर्तते। वर्तमानं च स्वक्षणे भोगारुढमिति न तत्क्षणान्तरे हेयतामापद्यते। तस्माद्यदेवानागतं दुःखं तदेवाक्षिपात्रकल्पं योगिनं क्लिश्नाति नेतरं प्रतिपत्तारम्। तदेव हेयतामापद्यते ॥ १६ ॥ व्याख्या भास्वती
तदिति । हेयहेयहेतुहानहानोपाया इत्येतच्छास्त्रं चतुर्व्यूहम् । तत्र हेयं तावन्निरूपयति । सुगमम् । ननु सौकुमार्यमधिकतरदुःखाय भवतीत्यक्षिपात्रकल्पस्वान्तानां योगिनां किन्नु श्लेशाः पृथग्जनेभ्यो भूयिष्ठा इति शङ्का व्यर्था । दृश्यते तु लोक आयतिचिन्ताहीना मूढा अशेषदुःखभागो भवन्ति । प्रेक्षावन्तः पुनरनागतं विधास्यमाना बहुसौख्यभाजो भवन्तीति । तथैवानागतदुःखस्य प्रतीकारेच्छवो योगिनो दुःखस्यान्तं गच्छन्तीति ॥ १६ ॥ तस्माद्यदेव हेयमित्युच्यते तस्यैव कारणं प्रतिनिर्दिश्यते – द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥ द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः। दृश्या बुद्धिसत्त्वोपारूढाः सर्वे धर्माः। तदेतद्दृश्यमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारिदृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः, अनुभवकर्मविषयतामापन्नं यतः। अन्यस्वरूपेण प्रतिलब्धात्मकं स्वतन्त्रमपि परार्थत्वात्परतन्त्रम्। तयोर्दृग्दर्शनशक्त्योरनादिरर्थकतः संयोगो हेयहेतुर्दुःखस्य कारणमित्यर्थः। तथा चोक्तम् – तत्संयोगहेतुविवर्जनात्स्यादयमात्यन्तिको दुःखप्रतीकारः। कस्मात्, दुःखहेतोः परिहार्यस्य प्रतीकारदर्शनात्। तद्यथा – पादतलस्य भेद्यता, कण्टकस्य भेत्तृत्वं, परिहारः कण्टकस्य पादाऽनधिष्ठानं पादत्राणव्यवहितेन वाऽधिष्ठानम्, एतत्त्रयं यो वेद लोके स तत्र प्रतीकारमारभमाणो भेदजं दुःखं नाऽऽप्नोति। कस्मात्, त्रित्वोपलब्धिसामर्थ्यादिति। अत्रापि तापकस्य रजसः सत्त्वमेव तप्यम्। कस्मात्, तपिक्रियायाः कर्मस्थत्वात्, सत्त्व क्रिया नापरिणामिनि निष्क्रिये क्षेत्रज्ञे, दर्शितविषयत्वात्। सत्त्वं तु तप्यमाने तदाकारानुरोधी पुरुषोऽप्यनुतप्यत इति ॥ १७ ॥ व्याख्या भास्वती
तस्मादिति । हेयस्य दुःखस्य कारणं द्रष्टॄदृश्ययोस्संयोगः । यतः स्वप्रकाशकेन द्रष्ट्रा सह संयोगाद् बुद्धिस्थमचेनं दृश्यं दुःखं वृत्तितां लभते । द्रष्टेति । द्रष्टा बुद्धेः आत्मबुद्धेरस्मीतिभावस्येत्यर्थः प्रतिसंवेदी प्रतिवेत्त । कारणादिजडभावयुक्तोऽचतेनात्मविज्ञानांशो येन स्वप्रकाशेन प्रतिसंवेत्रा मामहं जानामीति स्वप्रकाशवद् भूयत इति । स एव बुद्धिप्रतिसंवेदी स च पुरुषः ।
दृश्या इति । बुद्धिसत्त्वोपारूढाः सत्तामात्र आत्मनि बुद्धावुपारूढा अभिमानेनोपनीता इत्यर्थः । भोगरूपा विवेकरूपधर्मा दृश्याः । तदिति । सन्निधिमात्रोपकारि परस्परासङ्कीर्णमपि सनिकर्षादेव यदुपकरोति । न चात्र सान्निध्यं दैशिकम् । द्रष्टुर्देशातीतत्त्वात् । देशस्तु दृश्योऽतः स द्रष्टुर्विषयिणोऽत्यन्तविभिन्नः । श्रूयते च - अनणु, अह्स्रस्वम्, अदीर्घ, अबाह्यम्, अननतरमित्यादि । तादृशेन द्रष्ट्रा सह दैशिकसंयोगो मूढैरेव कल्प्यते नाभियुक्तैः । सान्निध्यन्त्वेकप्रत्ययगतत्त्वमेव यदनुभूयते ज्ञाताहमिति प्रत्यये । एकक्षण एव ज्ञातुर्ज्ञेयस्य च या सङ्कीर्णोपलब्धिस्तदेव सान्निध्यं स एव संयोगः ।
प्रकाश्यप्रकाशकत्त्वाद् द्रष्ट्रुदृश्ययोः स्वस्वमिरूपसम्बन्धः । दृश्यं स्वं स्वकीयं, द्रष्टा च स्वामीति । अनुभूयते च - बोद्धाहं मम बुद्धिरिति । अनुभवेति । द्रष्टुरनुभवविषयः ज्ञाताहमित्यनुभाव्यता प्रकाश्यतेत्यर्थः । तथा च कार्यविषयः कर्ताहमिति कार्यता । इत्येवंविषयतामापन्नं दृश्यमन्यस्वरूपेण पौरुषभासा चेतनवद्भवनाद् पुरुषस्योपमयेत्यर्थः । प्रतिलब्धात्मकं प्रतिभासमानं लब्धसत्ताकमित्यर्थः । स्वतन्त्रमिति । दृश्यं त्रिगुणस्वरूपेण स्वतन्त्रं , तथा च परार्थत्त्वात् । पुरुषोपदर्शनवशाद् बुद्ध्यादिरूपेण परिणतत्त्वात्, परतन्त्रं द्रष्टृतन्त्रम् । अर्थौ भोगापवर्गौ ताभ्यं बुद्ध्यादेर्वृत्तिता । तौ च पुरुषोपदर्शनसापेक्षौ । तस्माद् बुद्ध्यदिदृश्यं परार्थम् । यथा गगादयः स्वतन्त्रा अपि मनुजाधीनत्त्वात् मनुजतन्त्रास्तद्वत् ।
तयोरिति । दुखं दृश्यमचेतनम् । तच्च द्रष्ट्रा सह संयोगमन्तरेण न ज्ञातं स्यात् । तस्माद् दृग्दर्शनशक्त्योः संयोग एव हेयस्य दुःखस्य कारणम् । संयोगस्त्वनादिर्बीजवृक्षवद् । विवेकेन वियोगदर्शनादविवेकः संयोगस्य कारणम् । अविवेकः पुनरनादिस्तस्माद्धेयस्य दुःखस्य हेतुभूतः संयोगोऽप्यनादिरिति । तथेति । तदित्यत्र “पञ्चशिखाचार्यसूत्रम्” । तत्संयोगस्य द्रष्ट्रा सह बुद्धेः संयोगस्य हेतुरविवेकाख्यस्तस्य विवर्जनत्, दुःखप्रतीकारमुदाहरणेन स्फोटायति । सुगमम् । अत्रापीति । परमार्थपक्षेऽपि कण्टकरूपस्य तापकस्य रजसोऽनुभवयुक्तपादतलवत् प्रकाशशीलं सत्त्वं तप्यम् । कस्मात्? तपिक्रियायाः कर्मस्थत्त्वात् , विकारयोग्यद्रव्यस्थत्त्वादित्यर्थः । सत्त्वरूपे कर्मण्येव तपिक्रिया सम्भवेन्न निष्क्रिये द्रष्टरि । यतो द्रष्टा दर्शितविषयः सर्वविषयस्य प्रकशकस्ततः स न परिणमते । यथा जलस्य चाञ्चल्यात् तद्भासको बिम्बभूतः सूर्यो द्विरूप इव प्रतिभासते, न च तेन सूर्यस्य वास्तवं द्वैरूप्यम् । तथा सुखदुःखयोर्भासकः पुरुषः सुखी दुःखी चेति प्रतीयत इति । तदाकारानुरोधी बुद्धिवत् प्रतीयमान इत्यर्थः ॥ १७ ॥ दृश्यस्वरूपमुच्यते – प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ १८ ॥ प्रकाशशीलं सत्त्वम्। क्रियाशीलं रजः। स्थितिशीलं तम इति। एते गुणाः परस्परोपरक्तप्रविभागाःपरिणामिनः संयोगवियोगधर्माण इतरेतरोपाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वेऽप्यसम्भिन्नशक्तिप्रविभागास्तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः प्रधानवेलायाम् उपर्दशितसन्निधाना गुणत्वेऽपि च व्यापारमात्रेण प्रधानान्तर्णीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः सन्निधिमात्रोपकारिणोऽयस्कान्तमणिकल्पाः प्रत्ययमन्तरेणैकतमस्य वृत्तिमनु वर्तमानाः प्रधानशब्दवाच्या भवन्ति। एतद्दृश्यमित्युच्यते। तदेतद्भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते। तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति। तत्तु नाप्रयोजनमपि तु प्रयोजनमुररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तद्दृश्यं पुरुषस्येति। तत्रेष्टानिष्टगुणस्वरूपावधारणमविभागापन्नं भोगो भोक्तुः स्वरूपावधारणमपवर्ग इति। द्वयोरतिरिक्तमन्यद्दर्शनं नास्ति। तथा चोक्तम् – अयं तु खलु त्रिषु गुणेषु कर्तृष्वकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे तत्क्रियासाक्षिण्युपनीयमानान्सर्वभावानुपपन्नाननुपश्यन्नदर्शनमन्यच्छङ्कत इति। तावेतौ भोगापवर्गौ बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति। यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तत्फलस्य भोक्तेति, एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुषे व्यपदिश्येते, स हि तत्फलस्य भोक्तेति। बुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्धस्तदर्थावसायो मोक्ष इति। एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः। स हि तत्फलस्य भोक्तेति ॥ १८ ॥ व्याख्या भास्वती
दृश्येति सूत्रमवतारयति । प्रकाशशीलमिति । पौरुषचैन्तन्येन चेतनावद्भवनं प्राकशस्तदेव शीलं स्वभावो यस्य तद् द्रव्यं सत्त्वम् । चित्तेन्द्रियेषुः यः सामान्यबोधरूपो भावो ग्राह्ये वस्तुनि च यः प्रकाशधर्मः स एव प्रकाशः । अवस्थान्तरताप्राप्तिः क्रिया तच्छीलं रजसः । प्रकाशक्रिययो रुद्धावस्था स्थितिस्तच्छीलं तमसः । एत इति । एते सत्त्वादयो गुणाः पुरुषस्य बन्धनरज्जव इत्यर्थः । सत्त्वादीनि द्रव्याणि । न तानि द्रव्याश्रया गुणाः । तेभ्यो व्यतिरिक्तस्य गुणिनोऽभावदिति वेदितव्यम् । ते गुणाः परस्परोपरक्तप्रविभागाः । सत्त्वादीनां सात्त्विकराजसादिप्रविभागाः परस्परोपरक्ताः सात्त्विको भावो रजस्तमोभ्यामनुरञ्जितः । तथा राजसास्तामसाश्च भावाः । ते च गुणा द्रष्ट्रा च सा संयोगवियोगधर्माणः । तथा चेतरेतरेषामुपाश्रयेण सहायतयेत्यर्थः । उपार्जिता मूर्त्तयो भूतेन्द्रियाणि द्रव्याणि यैस्ते । गुणाः परस्परसहाया एव भूतेन्द्रियरूपेण परिणमन्ते । ते च नित्यं परस्पराङ्गाङ्गिनो प्रत्येकं पृथग्विधा इत्यर्थः । यथा श्वेतरक्तकृष्णवर्णमय्यां रज्जौ श्वेतादीनि सूत्राणि पृथग् वर्तन्ते तद्वत् । तुल्येति । असङ्ख्यसात्त्विकभावानामुपादानभूता प्रकाशशक्तिस्तेषां तुल्यजातीया तेषाञ्चातुल्यजातीयशक्ती क्रियास्थिती । एवं राजसतामसयोर्भावयोः असङ्कीर्णा अपि ताः सम्भूयकारिण्यस्त्रिगुणशक्तयः परस्परमनुपतन्ति सहकारिरूपेण वर्तन्त इत्यर्थः । गुणकार्याणां तुल्यजातीयाश्चातुल्यजातीयाश्च याः शक्तयः प्रकाशक्रियास्थितयस्तासां येऽशेषा भेदास्तेषामनुपातिनो गुणा सहकारिणः समन्विताः भूत्वाऽसमन्विताभूत्वा वेत्यर्थः । तद्युक्तं भवति । गुणानां शक्तिप्रविभागा असङ्कीर्णा अपि शक्यभावोत्पादनविषये ते सर्वे सम्भूयकारिणः । प्रधानवेलायां कस्यचिद् गुणस्य प्राधान्यकाले स कार्यजननोमुख इतरयोः प्रधानगुणयोः पृष्ठत एव वर्त्तते । अतस्ते गुणा स्वस्वप्राधान्यवेलायामुपदर्शितसन्निधानाः उपदर्शितं स्वानुभवेन ख्यापितं सन्निधानं निरन्तरावस्थानं यैस्तथाविधाः । गुणत्त्व इति । गुणत्त्वेऽप्राधान्येऽपि च व्यापारमात्रेण सहकारितया प्रधानगुण इतरयोरस्तित्त्वमनुमीयते । सत्त्वकार्येषु बोधेष्वप्रधानयो रजस्तमसोः सत्ता बोधान्तर्गतक्रियाजाड्याभ्यामनुमीयत इत्यर्थः । पुरुषेति । पुरुषार्थता पुरुषसाक्षितेत्यर्थः । कार्यसमर्था अपि गुणाः पुरुषसाक्षितां विना महदादिकार्याणि न निर्ववर्त्तयन्ति । तस्मात् पुरुषसाक्षितया ते प्रयुक्तसामर्थ्या अधिकारवन्तः । ते च द्रष्ट्रा सहालिप्ता अपि तत्सान्निध्यादेवोपकारिणॊऽयस्कान्तमणिवत् ।
प्रत्ययेति । प्रत्ययः स्वस्योद्भूतवृत्तितायाः कारणम् । तदभाव एकतमस्योद्भूतवृत्तिकस्य वृत्तिमनुवर्त्तमानाःअनुवर्त्तनशीला । एवंशीला दृश्या गुणाः प्रधानशब्दवाच्या भवन्तीति ।
गुणानां कार्यरूपेण व्यवस्थितिमाह -तदिति । गुणप्रवर्त्तनस्य प्रयोजनमाह - तत्त्विति । भोगायापवर्गाय वा गुणानां प्रवृत्तिः । निष्पन्नयोश्च तयोस्तेषामव्यक्ततारूपा निवृत्तिः । तत्रेति । भोग इष्टानिष्टगुणस्वरूपावधारणम् । “अहं सुखी अहं दुःखीति” गुणकार्यस्वरूपस्यावधारणम् । तत्र भोगे द्रष्ट्रा सह सुखदुःखबुद्धेरविभागापत्तिः सङ्कीर्णताऽविवेको वेति । अहं सुखी अहं दुःखीत्यात्मबुद्धेरपि यो द्रष्टा स भोक्ता । तस्य भोक्तुः स्वरूपावधारणं गुणेभ्यः पृथक्त्वावधारणं विवेकख्यातिरित्यर्थः । अपवर्गः अपवृज्यते मुच्यते गुणाधिकारस्त्यज्यते वाऽऽनेनेत्यपवर्गः । विवेकाविवेकरूपयोर्ज्ञानयोरतिरिक्तन्यज्ज्ञानं नास्तीत्यत्र “पञ्चशिखाचार्येणोक्तं” - अयमिति । अयं मूढो जनस्त्रिषु गुणेषु कर्तृषु सत्सु तत्त्रयापेक्षया चतुर्थेऽकर्तरि गुणकार्यरूपाया आत्मबुद्धेस्तुल्यातुलजातीये । उक्तञ्च - “न स बुद्धेस्सरूपो नात्यन्तं विरूप” इति ।
गुणक्रियारूपवृत्तिसाक्षिणि पुरुषे उपनीयमानान् बुद्ध्यासमर्प्यमाणान् सर्वभावान् सुखदुःखादीनित्यर्थः । उपसन्नान् सांसिद्धिकान् स्वाभाविकानित्यर्थः । अनुपश्यन् जानंस्ततोऽन्यत् महदात्मनः परं दर्शनं ज्ञमात्रमस्तीति न शङ्कते न जानाति । भोगमेव जानाति नापवर्गम् ।
तदिति । व्यपदिश्यते अध्यारोपितौ भवतः । अवसायः समाप्तिः । सुगमन्यत् । एतेनेति । ग्रहणं स्वरूपमात्रेण बाह्यान्तरविषयज्ञानम् । धारणं गृहीतविषयस्य चेतस्य स्थितिः । ऊहनं धृतविषयस्योत्थापनं स्मरणं वा । अपोहः स्मरणारूढविषयेषु कियतामपनयनम् । तत्त्वज्ञानम् ऊहापोहपूर्वकं नामजात्यादिभिः सह पदार्थविज्ञानम् । अभिनिवेशः तत्त्वज्ञानानन्तरं हेयोपादेयत्त्वनिश्चयपूर्वकं प्रवर्त्तनं निवर्त्तनं वा । एते बुद्धिभेदा एव । अतो बुद्धौ वर्तमानाः पुरुषे चैतन्येऽध्यारोपितसद्भावाः अध्यारोपितः उपचरितः सद्भावोऽस्तित्त्वं येषां ते । पुरुषो हि तत्फलस्य अध्यारोपफलस्य वृत्तिबोधस्य भोक्ता बोद्धेति ॥ १८ ॥ दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते – विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९ ॥ तत्राऽऽकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः। तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि, एकादशं मनः सर्वार्थम्, इत्येतान्यस्मितालक्षणस्याविशेषस्य विशेषाः। गुणानामेष षोडशको विशेषपरिणामः। षडविशेषाः। तद्यथा – शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति एकद्वित्रिचतुःपञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः, षष्ठश्चाविशेषोऽस्मितामात्र इति। एते सत्तामात्रस्याऽऽत्मनो महतः षडविशेषपरिणामाः। यत्तत्परमविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वं तस्मिन्नेते सत्तामात्रे महत्यात्मन्यवस्थाय विवृद्धिकाष्ठामनुभवन्ति। प्रतिसंसृज्यमानाश्च तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय यत्तन्निःसत्तासत्तं निःसदसन्निरसदव्यक्तमलिङ्गं प्रधानं तत्प्रतियन्ति। एष तेषां लिङ्गमात्रः परिणामो निःसत्तासत्तं चालिङ्गपरिणाम इति। अलिङ्गावस्थायां न पुरुषार्थो हेतुर्नालिङ्गावस्थायामादौ पुरुषार्थता कारणं भवतीति। न तस्याः पुरुषार्थता कारणं भवतीति। नासौ पुरुषार्थकृतेति नित्याऽऽख्यायते। त्रयाणां त्ववस्थाविशेषाणामादौ पुरुषार्थता कारणं भवति। स चार्थो हेतुर्निमित्तं कारणं भवतीत्यनित्याऽऽख्यायते। गुणास्तु सर्वधर्मानुपातिनो न प्रत्यस्तमयन्ते नोपजायन्ते। व्यक्तिभिरेवातीतानागतव्ययागमवतीभिर्गुणान्वयिनीभिरुपजननापायधर्मका इव प्रत्यवभासन्ते। यथा देवदत्तो दरिद्राति। कस्मात्। यतोऽस्य म्रियन्ते गाव इति, गवामेव मरणात्तस्य दरिद्राणं न स्वरूपहानादिति समः समाधिः। लिङ्गमात्रमलिङ्गस्य प्रत्यासन्नं, तत्र तत्संसृष्टं विविच्यते क्रमानतिवृत्तेः। तथा षडविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते परिणामक्रमनियमात्। तथा तेष्वविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते। तथा चोक्तं पुरस्तात्। न विशेषेभ्यः परं तत्त्वान्तरमस्तीति विशेषाणां नास्ति तत्त्वान्तरपरिणामः। तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते ॥ १९ ॥ व्याख्या भास्वती
दृश्येति । स्वरूपं कार्यस्वरूपम् । भेदः कार्यभेदः । तत्रेति । तन्मात्रपञ्चकमस्मिता चेति षट् पदार्थाः अविशेषा इत्यस्मिन् शास्त्रे परिभाषिताः । तथा च ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि सङ्कल्पकं मनः, पञ्चभूतानि चेति षोडश विशेषाः । एत इति । एते षोडश विशेषाः परिणामाः सत्तामात्रस्यात्मनः अस्मीति ज्ञानमात्रस्येत्यर्थः । सत्ताज्ञानयोरविनाभावित्त्वाद्, आत्मसत्तामात्र आत्मबोधमात्रश्चेति पदद्वयं समानार्थकम् । तादृशश्चात्मभावो महान् । अभिमानैरनियत इत्यर्थः । अहमेवमहमेवमित्यभिमानैरात्मभावः सङ्गोचमापद्यते । अस्मीति प्रत्ययमात्रे तदभावात् स महानबाधितस्वभावः सङ्कोचहीन इति । तस्य अस्य महतः आत्मनः षडविशेष परिणामाः । महतोऽहङ्कारः अहङ्कारात् पञ्चतन्मात्राणीति क्रमेणेति । यदिति । यदविशेषेभ्यः परं पूर्वोत्पन्नं तल्लिङ्गमात्रं स्वकारणयोः पुम्प्रधानयोर्लिङ्गमात्रं ज्ञापकमित्यर्थः । महत्तत्त्वं पुरुषस्य लिङ्गं चेतनत्त्वं ग्रहीतृत्वं वा प्रधानस्य लिङ्गं त्रिगुणात्मख्यातिरिति । स्मर्यते च -
अलिङ्गां प्रकृतिं त्वाहुर्लिङ्गैरनुमिमीमहे । तथैव पौरुषं लिङ्गमनुमानाधि मन्यते ॥ इति ॥
लिग्ङमात्रो महानात्मा यथोक्तलिङमात्रस्वभावः, तस्मिन् महदात्मन्यवस्थाय सूक्ष्मरूपेण कारणसंसृष्टा अहङ्कारादयोऽवस्थाय, ततः परं तेऽविशेषविशेषरूपां विवृद्धिकाष्टां चरमां विबृद्धिम् , अनुभवन्ति प्राप्नुवन्तीतयर्थः , प्रतिसंसृज्यमाना विलोमपरिणामक्रमेण च लीयमाना महदात्मन्यवस्थाय = महत्त्वरूपतां प्राप्याव्यक्ततां प्रतियन्तीति । गुणानामव्यक्ततायाः किं स्वरूपं ? तदाह - यदिति । निःसत्ताऽसत्तं निष्क्रान्ताः सत्ता असत्ता च यस्मात्तत्, सत्ता = पुरुषार्थक्रियाभिरनुभूतता, असत्ता = पुरुषार्थक्रियाऽयोग्यता, महदादिवत् सत्त्वाहीनत्वेऽपि नालिङस्य तद्योग्यताया भावादसत्ता, निःसदसत् तत्र सद् महदादिवदनुभवयोग्यो भावः, नाप्यसत् शक्तिरूपत्वान्नाविद्यमानः पदार्थः, निरसद् भावपदार्थविशेषः, अव्यक्तं सर्वव्यक्तिहीनम् , एष इति । एष महानात्भा तेषां विशेषाविशेषाणां लिङमात्रः परिणामोऽव्यक्तता चालिङ्गपरिणामः, अलिङगेति । अलिङ्गावस्थाऽवस्थितानां गुणानां सत्ताविषये न पुरुषार्थो हेतुः कारणम्, यतोऽलिङ्गावस्थायां स्थितानां गुणानामादौ उत्पत्तिविषये न पुरुषार्थता कारणम्, ततस्तस्या अव्यक्तावस्थाया न पुरुषार्थः कारणम् , पुरुषार्थता बुद्धिभेद एव, बुद्धिस्तु गुणपुरुषसंयोगजाता, अतो न पुरुषार्थतया गुणकारणम्, पुरुषार्थताऽकृतत्वादसावलिङ्गावस्था नित्या त्रयाणां गुणानां या विशेषाविशेषालिङ्गमात्रा अवस्थास्तासामादौ उत्पत्तावित्यर्थः पुरुषार्थता कारणम्, सा च पुरुषार्थता हेतुर्निमित्तकारणं विशेषादीनाम्, तस्माद्धेतुप्रभवास्ते विशेषादयोऽनित्या इति । गुणा इति । सर्वधर्मानुपातिन इति हेतुगर्भविशेषणमिदम्, महदादिसर्वव्यक्तीनां मूलस्वभावाद् गुणाः सर्वधर्मानुपातिनस्तस्मात्ते न प्रत्यस्तमयन्ते लयं गच्छन्ति न चोपजायन्ते, अतीतानागताभिस्तथा व्ययागमवतीभिः क्षयोदयवतीभिस्तथा च गुणान्वयिनीभिः प्रकाशक्रियास्थितिमतीभिर्महदादिव्यक्तिभिर्गुणा उपजनापायधर्मका इव लयोदयशीला इव प्रत्यवभासन्ते, दृष्टान्तमाह - यथेति । यथा देवदत्तस्य दरिद्राणं = दुर्गतत्वं तस्य गवामेव मरणान्न तु स्वरूपहानात् तथा गुणानामप्युदयव्ययौ, समः समाधिः सङ्गतिरिति । लिङ्गेति । लिङ्गमात्रमलिङ्गस्य प्रधानस्य प्रत्यासन्नम् = अव्यवहितकार्यम्, तन्न प्रधाने तल्लिङ्गमात्रं संसृष्टमविभक्तं सद् विविच्यते पृथग् भवति, क्रमस्यानतिवृत्तेः वस्तुस्वाभाव्याद् यथा भवितव्यं तदनतिक्रमाद् यथायोग्यक्रमत एवोत्पद्यत इत्यर्थः, एवञ्च परिणामक्रमनियता अविशेषविशेषभावा उत्पद्यन्ते, तथा चोक्तमिति, पुरस्ताद् = एतत्सूत्रभाष्यस्यादौ, नेति । विशेषेभ्यः परं तदुत्पन्नं - तत्त्वान्तरं न दृश्यते ततस्तेषां नास्ति तत्त्वान्तरपरिणामः, सन्ति च तेषां धर्मलक्षणावस्थापरिणामाः प्रभूताख्याः, न हि भौतिकद्रव्येषु षड्जर्षभनीलपीतादेरन्यथात्वं दृश्यते तस्मात्तानि न भूतेभ्यस्तत्त्वान्तराणीति ॥ १९ ॥ व्याख्यातं दृश्यमथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते – द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २० ॥ दृशिमात्र इति दृक्शक्तिरेव विशेषणापरामृष्टेत्यर्थः। स पुरुषो बुद्धेः प्रतिसंवेदी। स बुद्धेर्न सरूपो नात्यन्तं विरूप इति। न तावत्सरूपः। कस्मात्। ज्ञाताज्ञातविषयत्वात्परिणामिनी हि बुद्धिः। तस्याश्च विषयो गवादिर्घटादिर्वा ज्ञातश्चाज्ञातश्चेति परिणामित्वं दर्शयति। सदाज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति। कस्मात्। नहि बुद्धिश्च नाम पुरुषविषयश्च स्यादगृहीता गृहीता चेति सिद्धं पुरुषस्य सदाज्ञातविषयत्वं ततश्चापरिणामित्वमिति। किं च परार्था बुद्धिः संहत्यकारित्वात्, स्वार्थः पुरुष इति। तथा सर्वार्थाध्यवसायकत्वात्त्रिगुणा बुद्धिस्त्रिगुणत्वादचेतनेति। गुणानां तूपद्रष्टा पुरुष इत्यतो न सरूपः। अस्तु तर्हि विरूप इति। नात्यन्तं विरूपः। कस्मात्, शुद्धोऽप्यसौ प्रत्ययानुपश्यो यतः। प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन्नतदात्माऽपि तदात्मक इव प्रत्यवभासते। तथा चोक्तम् - अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङ्क्रमा च परिणामिन्यर्थे प्रतिसङ्क्रान्तेव तद्वृत्तिमनुपतति, तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायते ॥ २० ॥ व्याख्या भास्वती
दृशीति । विशेषणैः स्वरूपद्यितकैः लयोदयशीलैः धर्मैरपरामृष्टा दृक्शक्तिः ज्ञमात्रोऽन्यबोद्धृनिरपेक्षः स्वबोधमात्र एव द्रष्टा पुरुषः, स च बुद्धेः आत्मबुद्धेरस्मीतिमात्रविज्ञानस्य प्रतिसंवेदी प्रतिसंवेदनहेतुः, यथा दर्पणः, प्रतिबिम्बहेतुस्तथास्मीति बोधस्य मामहं जानामीत्यात्मको य उत्तरक्षणे दृशिबोधस्तस्य हेतुभूतः पूर्णः स्वबोध एव प्रतिसंवेदिशब्देन लक्ष्यते । द्रष्टुः प्रत्ययानुपश्यत्वेन साक्षित्वेन बुद्धिर्लब्धसत्ताका, कस्माद्? द्रष्टा बुद्धेर्विरूपोऽपि नात्यन्तं विरूपः बुद्धिवत् प्रतीयमानत्वात् किञ्चित् सारूप्यमपरिणामित्वादेर्वैरूप्यमित्याह नेति । ज्ञाताज्ञातविषयत्वाद् बुद्धिः परिणामिनी, गोविषयाकारा गोज्ञानरूपा बुद्धिर्गोज्ञाना घटाकारा घटज्ञानरूपा भवतीति दृश्यते, एवं ज्ञाताज्ञातविषयत्वं ततश्च परिणामित्वम्, सदेति । पुरुषविषयात्मौद्धिः सदा ज्ञातस्वभावा यतोऽज्ञातात्मवुद्धिर्न कल्पनीया, किञ्च स्वस्या भासकं पौरूषं प्रकाशं विषित्योत्पन्ना बुद्धिः सदैव ज्ञाताऽहमितिरूपा न तद्विपरीता, पुरुषस्य विषयभूता बुद्धिस्तथा च स्वस्याः प्रकाशकं पुरुषं विषित्योत्पन्ना पुरुषविषया बुद्धिरभेदेनैवात्र व्यवहृतेति वेदितव्यम्, सदैव पुरुषाज् ज्ञाताऽहमेतन्मात्रप्राप्तेः पुरुषोऽपरिणामी ज्ञस्वरूपः, श्रूयते च न हि विज्ञातुविज्ञातेर्विपरिलोपोविद्यत इति,
कस्मादिति । बुद्धिस्तथा या च भवति पुरुषविषयः तादृशी बुद्धिगृहीताऽगृहीता, द्रष्टा ज्ञाता, तेन चाज्ञाता न स्यात् सदैव पुरुषदृष्ट्या ज्ञाता वा स्यादित्यर्थः, इति हेतोः पुरुषस्य सदा ज्ञातविषयत्वं सिद्धम्, कदाचिद् ज्ञाता कदा चिदज्ञाता इति चेद् बुद्धिरभविष्यत् तदा तत्प्रकाशकोऽपि कदाचिद् ज्ञः कदा चिदज्ञ इत्येवं परिणामी अभविष्यत् ननु निरोधकाले बुद्धिर्न गृहीता भवति, व्युत्थाने च भवति, अतो भवत्वात्मा ज्ञाता चाज्ञाता चेति शङ्का निस्सारा, कस्माद् ? निरोधे बुद्धेरप्यभावाद् नास्ति तस्या ग्रहणम्, एवं गृहीताऽऽप्यबुद्धिरज्ञातेति न सिध्येद्, बुद्धिपुरुषयोर्वैरूप्ये युक्त्यन्तरमाह - किञ्चेति । ज्ञानेच्छाकृतिसंस्कारादीनां संहत्य कारित्वोत्पन्ना बुद्धयादयः परार्थाः परस्यैकस्य विज्ञातुरुपदर्शनाद् एकप्रयत्नेन मिलित्वा भोगापवर्गकार्यकारिणः, विज्ञातृपुरुषस्तु स्वार्थो न कस्य चिदर्थोः; द्रष्टारमाश्रित्य भोगापवर्गौ चरितौ भवत इति दर्शनात्,तथेति तथा सर्वेषां प्रकाशक्रियास्थितिस्वभावानामर्थानामध्यवसायकत्वात् अर्थाकारपरिणता सती निश्चयकरणादित्यर्थः, बुद्धिस्त्रिगुणा ततश्चाचेतना दृश्या, पुरुषस्तु गुणानामुपद्रष्टा स्वबोधरूप इत्यतः पुरुषो न बुद्धेः स्वरुपः , अस्त्विति । नाप्यत्यन्तं विरूपो यतः स शुद्धोऽपि परिणामित्वादिशून्योऽपि प्रत्ययानुपश्यो बौद्धं = बुद्धिविकारं प्रत्ययं ज्ञानवृत्तिम्, अनुपश्यति उपद्रष्टा सन् प्रकाशयति, ततो बुद्धयात्मक इव प्रत्यवभासते प्रतीयते, यथा राज्ञा सह सम्बन्धात् कश्चित् पुरुषो राजपुरुषो भवति, तथा पुरुषोपदर्शनाल्लब्धसत्ताका बुद्धिरपि पौरुषेयी भवतीति बुद्धिः कथञ्चित् पुरुषसदृशी, अनुभूयते च- द्रष्टाऽहं ज्ञाताऽहमित्यादि, एवमचेतनाऽपि बुद्धिर्मामहं जानामीत्यध्यवस्यति, ततः स्वबोधस्वरूपः पुरुष इव प्रतीयते, तथा चोक्तं " पञ्चशिखाचार्येण - अपरिणामिनी हि भोक्तृशक्तिर्भोक्ता सुखदु:खभोगभूतबुद्धेर्द्रष्टेत्यर्थः, ततोऽप्रतिसङ्क्रमा बुद्धेरुपादानरूपेण प्रतिसङ्क्रमशून्या प्रतिसञ्चारशून्येत्यर्थः, परिणामिन्यर्थे बुद्धिवृत्तौ प्रतिसङ्क्रान्ता इव तद्वृत्तिं बुद्धिवृत्तिम्, अनुपतति तस्या अनुरूप इव प्रतीयत इत्यर्थः, एवं पुरुषस्य बुद्धिसारूपप्यम्, बुद्धेः पुरुषसारूप्यमाह = तस्याश्च बुद्धिवृत्तेः प्राप्तचैतन्योपग्रहरूपायाः प्राप्तश्चैतन्योपग्रहश्चिदवभासः प्राप्तचैतन्योपग्रहस्तदेव स्वरूपं यस्यास्तस्या अचेतनाऽपि चैतन्यवतीव प्रतिभासमाना या बुद्धिवृत्तिस्तस्या इत्यर्थः, अनुकारमात्रतया नीलमणिव्यवहितस्य तत्प्रकाशकसूर्यादेर्यथा नीलिमा तथा बुद्धेरनुकारमात्रता प्रकाशकतेत्यर्थः, तथा बुद्धिवृत्त्यविशिष्टा चित्तवृत्तिभिः सहाविशिष्टाऽभिन्नेव ज्ञानवृत्तिः यद्वा चितिशशक्त्या सहाविशिष्टा बुद्धिवृत्तिरेव ज्ञानवृत्तिरित्याख्यायते चिद्वृत्तिरित्याख्यायतेऽविवेकिभिरिति, ज्ञानशब्दो ज्ञमात्रवाची, चितिशक्तिरेवात्र ज्ञानवृत्तिः ॥ २० ॥ तदर्थ एव दृश्यस्याऽऽत्मा ॥ २१ ॥ दृशिरूपस्य पुरुषस्य कर्मरूपतामापन्नं दृश्यमिति तदर्थ एव दृश्यस्याऽऽत्मा भवति। स्वरूपं भवतीत्यर्थः। स्वरूपं तु पररूपेण प्रतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति। स्वरूपहानादस्य नाशः प्राप्तो न तु विनश्यति ॥ २१ ॥ व्याख्या भास्वती
पुरुषस्य भोगापवर्गरूपार्थमन्तरेण नास्ति दृश्यस्यान्यत् साक्षाज्जायमानं रूपं कार्ये वा तस्मात् पुरुषार्थ एव दृश्यस्यात्मा = स्वरूपमिति सूत्रार्थः, भोगरूपेण वा गुणा दृश्या भवन्तीत्यर्थः, दृशीति । कर्मरूपतां भोगापवर्गरूपताम्, तदिति । तत्स्वरूपं दृश्यस्वरूपं भोगापवर्गरूपा बुद्धिरित्यर्थः, परस्वरूपेण विज्ञातृस्वरूपेण प्रतिलब्धात्मकं लब्धसत्ताकम्, एतदुक्तं भवति सुखदुःखबोधः, अहं सुखी-अहं दुःखीत्याद्याकारेणात्मबुद्धिगतेन द्रष्ट्रैवप्रतिसंवेद्यते, तत्प्रतिसंवेदनाच्च तेषां ज्ञानं सत्ता वा ततस्ते पररूपेण लब्धसत्ताका विज्ञातावा, चरिते भोगापवर्गार्थे चित्तवृत्तीनां निरोधान्न भोगापवर्गरूपा वृत्त्यः पौरुषभासा प्रकाशिता भवन्ति, ननु तदा सतीनां वृत्तीनां किमत्यन्तनाशा इत्येतस्योत्तरमाह - स्वरूपहानाद् सुखदु़ःखादिग्रमाणादिमहदादिस्वरुपनाशात् ते नश्यन्ति न च विनश्यन्ति न तेषामत्यन्तनाशः, ते च तदा गुणस्वरूपेण तिष्ठन्ति, अन्यैरकृतार्थपुरुषैर्दृश्यन्त इति ॥ २१ ॥ कस्मात् – कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २२ ॥ कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि नाशं प्राप्तमप्यनष्टं तदन्यपुरुषसाधारणत्वात्। कुशलं पुरुषं प्रति नाशं प्राप्तमप्यकुशलान्पुरुषान्प्रति न कृतार्थमिति तेषां दृशेः कर्मविषयतामापन्नं लभत एव पररूपेणाऽऽत्मरूपमिति। अतश्च दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यात इति। तथा चोक्तम् –र्धमिणामनादिसंयोगाद्धर्ममात्राणामप्यनादिः संयोग इति ॥ २२ ॥ व्याख्या भास्वती
कृतार्थमिति । एकं पुरुषमित्यनेन पुरुषबहुत्वमातिष्ठते, नाशाः पुरुषार्थहीनाऽव्यक्तावस्था, यौगपदिकस्य वहुज्ञानस्यैको द्रष्टेति मतं सर्वेषामनुभवविरुद्वत्वादकल्पनीयं युक्तिहीनत्वादनास्थेयम्, अनुभूयते च सर्वैर्वर्त्तमानस्यैकज्ञानस्यैक एव द्रष्टेति, अतः प्रवर्त्ततेऽयंयुक्तः प्रवादः, यदेकदा बहुक्षेत्रेषु वर्त्तमानानां बहुज्ञानानां बहवो ज्ञातार इति, “पुरुष एवेदं सर्वम् " इति, “एकस्तथा सर्वभूतान्तरात्मा रूपं प्रतिरुपो बहिश्च " इत्यादिश्रुतीनामात्मा पुरुषश्च न द्रष्टृमात्रवाची किन्तु प्रजापतिवाची, श्रूयते च -
“ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्त्ता भुवनस्य गोप्ता” इति, स्मर्यते च -
संहृत्य सर्वे निजदेहसंस्थं कृत्वाऽप्सु शेते जगदन्तरात्मा " इति,
ब्रह्मा तस्यान्तरात्मभूतो देव एक इति वादः साङ्ख्यसम्मतः श्रुतिस्मृतिप्रतिपादितश्चेति दिक्, " अजामेकाम् " इत्यादिश्रुतौ पुरुषबहुत्वमुक्तम्, कुशलमिति, सुगमम् । अतश्चेति । अकुशलानां दृश्यदर्शनं स्यात् तच्च संयोगमन्तरेण न स्यादत:, अनाद्या: सनिमित्ता भावाः प्रवाहरूपेणैवानादयः स्युर्बीजवृक्षवद्, द्रष्टृदृश्ययोः संयोगोऽप्यविद्यानिमित्तकत्वात् प्रवाहरूपेणैवानादयः स्युर्बीजवृक्षवद्, द्रष्टृदृश्ययोः संयोगोऽप्यविद्या निमित्तकत्वात् प्रवाहरूपेणानादिर्न चैकव्यक्तिकानादिः, दृश्यते च परिणामिन्या बुद्धेर्वृत्तिरूपेण लयोदयशीलता, यदा सा लीना तदा वियोगो यदा विपर्ययसंस्कारवशात्तु पुनरुदिता तदा संयोगः, एवं बीजवृक्षवदनेकव्यक्तिकस्य संयोगस्यानादिप्रवाहः, विद्यारूपनिमित्ताद विद्यानाश आत्यन्तिको वियोग इत्युपरिष्टात् प्रतिपादितः, तथा चोक्तं “पञ्चशिखाचार्येण” - धर्मिणामिति । धर्मिणां सत्त्वादिगुणानां परिणामिनित्यानां कूटस्थनित्यैः क्षेत्रज्ञैः पुरुषैः सहानादिसंयोगाद् धर्ममात्राणां सर्वेषां महदादीनां द्रष्ट्रा सह संयोगोऽनादिः, अनादिरपि संयोगो न नित्यः प्रवाहरूपत्वान्निमित्तजन्यत्वाच्च, संयोगस्तु न भावस्तस्मात्तस्याभावो वियोगरूपः स्यात् संयोगकारणस्य नाशे सति, भावस्यैवाभावः सत्कार्यवादविरुद्धो न सम्बन्धपदार्थस्येत्यवगन्तव्यम् ॥ २२ ॥ संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते- स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥ पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः। तस्मात्संयोगादृश्यस्योपलब्धिर्या स भोगः। या तु द्रषुः स्वरूपोपलब्धिः सोऽपवर्गः। दर्शनकार्यावसानः संयोग इति दर्शनं वियोगस्य कारणमुक्तम्। दर्शनमदर्शनस्य प्रतिद्वन्द्वीत्यदर्शनं संयोगनिमित्तमुक्तम्। नात्र दर्शनं मोक्षकारणमदर्शनाभावादेव बन्धाभावः स मोक्ष इति। दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्यतो दर्शनं ज्ञानं कैवल्यकारणमुक्तम्। किं चेदमदर्शनं नाम, किं गुणानामधिकार आहोस्विद्दृशिरूपस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्यानुत्पादः। स्वस्मिन्दृश्ये विद्यमाने यो दर्शनाभावः। किमर्थवत्ता गुणानाम्। अथाविद्या स्वचित्तेन सह निरुद्धा स्वचित्तस्योत्पत्तिबीजम्। किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः। यत्रेदमुक्तं प्रधानं स्थित्यैव वर्तमानं विकाराकरणादप्रधानं स्यात्। तथा गत्यैव वर्तमानं विकारनित्यत्वादप्रधानं स्यात्। उभयथा चास्य वृत्तिः प्रधानव्यवहारं लभते नान्यथा। कारणान्तरेष्वपि कल्पितेष्वेव समानश्चर्चः। दर्शनशक्तिरेवादर्शनमित्येके, “प्रधानस्याऽऽत्मख्यापनार्था प्रवृत्तिः” इतिश्रुतेः। सर्वबोध्यबोधसमर्थः प्राक्प्रवृत्तेः पुरुषो न पश्यति सर्वकार्यकरणसमर्थं दृश्यं तदा न दृश्यत इति। उभयस्याप्यदर्शनं धर्म इत्येके। तत्रेदं दृश्यस्य स्वात्मभूतमपि पुरुषप्रत्ययापेक्षं दर्शनं दृश्यधर्मत्वेन भवति। तथा पुरुषस्यानात्मभूतमपि दृश्यप्रत्ययापेक्षं पुरुषधर्मत्वेनेवादर्शनमवभासते। दर्शनं ज्ञानमेवादर्शनमिति केचिदभिदधति। इत्येते शास्त्रगता विकल्पाः। तत्र विकल्पबहुत्वमेतत्सर्वपुरुषाणां गुणानां संयोगे साधारणविषयम् ॥ २३ ॥ व्याख्या भास्वती
संयोगेति । स्वरूपस्यासामान्यविशेषष्याभिधित्सया अभिधानेच्छया पुरुष इति पुरुषोपदर्शनान्महत्तत्त्वानां व्यक्तत्वं तथा च पुरुषविषया बुद्धिर्ज्ञाताऽहं भोक्ताऽहमित्याद्याकारोत्पद्यते, ततः पुरुषः स्वामी बुद्धिश्च स्वमिति, दर्शनार्थे संयुक्तो दर्शनफलकः संयोग इत्यर्थः, तच्च दर्शनं द्विविधं भोगोऽपवर्गश्चेति, दर्शनकार्येति । दर्शनकार्यावसानः संयोगः विवेकेन दर्शनस्य परिसमाप्त्या संयोगस्याप्यवसानं स्यात्, तस्माद् विवेकदर्शनं वियोगस्य कारणम्, नात्रेति । अदर्शनप्रतिद्वन्द्विना दर्शनेनादर्शनं नाश्यते, ततश्चित्तवृत्तिनिरोधस्ततो मोक्ष इत्यतो न दर्शनं मोक्षस्याव्याव्यवहितं कारणं यदा नोपादानकारणम्, दर्शनस्यापि नाशे मोक्षसम्भवात्, किन्तु तन्निर्वर्त्तकत्वाद् दर्शनं व्यवहितकारणङ्कैवल्यस्य, किञ्चेति । किंलक्षणकमदर्शनमित्यत्र शास्त्रगतानष्टौ विकल्पानुत्थाप्य निरुपयति -
(१) किं गुणानामधिकारः कार्यारम्भणसामर्थ्यमदर्शनम्? नेदमदर्शनस्य सम्यग् लक्षणम्, यदा गुणकार्यं विद्यते तदाऽदर्शनमपि विद्यते, एतावन्मात्रमत्र याथार्थ्यम्, नेदमदर्शनं सम्यग् लक्षयति, “यावद्दाहस्तावज्ज्वर” इत्युक्तिर्यथा न सम्यग् ज्वरलक्षणं तद्वद्,
(२) आहोस्विदिति द्वितीयं विकल्पमाह - दृशिरुपस्य स्वमिनो यो दर्शितविषयस्य दर्शितः शब्दादिरूपो विवेकरूपश्च विषयो येन चित्तेन तादृशस्य प्रधानचित्तस्यापवर्गरूपस्यानुत्पादः, विवेकस्यानुत्पाद एवादर्शनमित्यर्थः, तद्धि स्वस्मिश्चित्ते भोगापवर्गरूपे दृश्ये विद्यमानेऽपि न दर्शनं नोपलब्धिरपवर्गस्येत्यर्थः, इदमपि न सम्यग् लक्षणम् यथा - " स्वास्थ्यस्याभाव एव ज्वरः” इति ज्वरलक्षणं न सम्यक् समीचीनम्,
(३) किमिति । गुणानामर्थवत्ताऽदर्शनमिति तृतीयो विकल्पः , अत्र यद्दर्शनस्यानागतरूपेणावस्थानं स्वस्य कारणे त्रैगुणये तदेवादर्शनम्, इदमपि न सम्यग् लक्षणमद्ार्शनस्य, गुणानामर्थवत्त्वं तथा दर्शनञ्चाविनाभावीति वाक्यं यथाऽर्थमपि न तदुल्लेखमात्रमेव सम्यग् लक्षणम्, यद् व्यपकं तद्रूपमित्यत्र व्यप्ते रुपस्य चविनाभावित्वेऽपि न तत्कथनादेव रूपं लक्षितं भवेदिति,
(४) अथेति । अविद्या प्रतिक्षणं प्रलयेच स्वचित्तेन स्वधारभूतचित्तस्य प्रत्ययेन सह निरुद्धा संस्काररूपेण स्थिति स्वचिन्त्तस्य साऽविद्या प्रत्ययस्योत्पत्तिर्बीजमिति चतुर्थोविकल्प एव समीचीनः, सनिमित्तस्य संयोगस्य च सम्यगवधारणसमर्थः,
(५) पञ्चमं विकल्पमाह-किमिति । स्थितिसंस्कारक्षये या गतिसंस्कारस्याभिव्यक्तिः, यस्यां परिणामप्रवाहः प्रवर्ततेऽदर्शनञ्च दृश्यते तदेवादर्शनम्, अत्रेदं शास्त्रवचनम्- उदाहरन्त्येतद्वादिनः प्रधानमित्यादि, प्रधीयते जन्यते महदादिविकारसमूहोऽनेऽनेति प्रधानं चेत् स्थित्या वर्त्तमानमव्यतरूपेणावस्थानस्वभावकं स्यात् अभविष्यत्, तदा विकाराकरणादप्रधानं स्यान्मूलकारणं नाभविष्यत्, तथा गत्यैव वर्त्तमानं विकारावस्थायां यदैव वर्त्तमानस्वभावकं चेदभविष्यत्तदा विकारनित्यत्वादप्रधानमभवविष्यत्, तस्मादुभयथा स्थित्या गत्या चेत्यर्थः, प्रधानस्य प्रवृत्तिस्ततश्च प्रधानव्यवहारं मूलकारणत्वव्यवहारं लभते नान्यथा, अन्यद् यद् यद् वस्तु कारणरूपेण कल्पितं भवति, तत्र तत्र एष समानश्चर्चः विचार इति । अस्मिन् विकल्पे मूलकारणस्य स्वभावमात्रोक्तं न च तन्मात्रकथनं व्यवहितकार्यस्य संयोगस्य स्वरूपं लक्षयेदिति, यथा विकारशीलायाः मृत्तिकायाः परिणामविशेषो घटत इति, न चैतद्घटद्रव्यस्य सम्यग् विवरणम् ।
(६) षष्ठं विकल्पमाह - दर्शनेति । एके वदन्ति दर्शनशक्तिरेवादर्शनम्, ते हि प्रधानस्यात्मख्यापनार्था प्रवृत्तिरिति, ख्यापनं दर्शनम्, तदर्था चेद्दर्शनरूपा प्रवृत्तिस्तदा प्रवृत्तेः शक्तिरूपावस्थैवादर्शनमित्येषां नयः अस्मिंल्लक्षणेऽपि पूर्वदोषप्रसङ्गः, आतपज्जातं शस्यमित्युक्तिर्न तण्डुलस्य सम्यग् बोधाय भवति, अदर्शनं चित्तधर्मस्तस्य व्यवहितमूलकारणस्य प्रधानस्य स्वभावकथनमेव नानवद्यं तल्लक्षणम्
(७) सप्तमं विकल्पमाह - उभयस्येति, उभयस्य द्रष्टिर्दृश्यस्य च धर्मोऽदर्शनमित्येके आतिष्ठन्ते, तत्र तन्मते इदम् अदर्शनं तैरेव सङ्गतं क्रियते, तद्यथा -दर्शनं ज्ञानं द्रष्टृदृश्यसापेक्षं तस्मात्तद्दर्शनं तद्भेदोऽदर्शनं चापि तदुभयस्य धर्म इति, द्रष्तृदृश्यसापेक्षमदर्शनमित्युक्तिर्यथार्थापि न तु तादृशा दृशा दर्शनं व्याकर्तव्यम् ।
(८) अष्टमं विकल्पमाह - दर्शनेति । केचिद्वदन्ति - विवेकव्यतिरिक्तं यद्दर्शनज्ञानं शब्दादिरूपं तदेवादर्शनम्, ज्ञानकाले द्रष्टृदृश्ययोः संयोगस्यावश्यम्भावित्वेऽपीन्द्रियादावभिमानरूपस्य विपर्ययस्य फलमेव ज्ञानं तस्मान्न ज्ञानं संयोगहेतोरदर्शनस्य स्वरूपं भवितुमर्हतीति ।
एषु विकल्पेषु द्वितीय एवाभावमात्रस्तस्मात् स एव प्रसज्यप्रतिषेधं गृहीत्वा व्याकृतः, इतरे तु पर्युदासं गृहीत्वेति विवेच्यम्, इत्येत इति । एते साङ्ख्यशास्त्रगत विकल्पाः मतभेदाः तत्र अदर्शनविषये सर्वपुरुषाणां गुणसंयोग एतद् विकल्पबहुत्वं साधारामित्यन्वयः, एतदुक्तं भवति - पुरुषैः सह गुणसंयोग इति यथार्थे सामान्यविषयं प्रकल्प्य सर्वेषु विकल्पेषु, अदर्शनमभिहितम्, न च तेनैव हेयहेतुदर्शनं सम्यग् निरूपितं स्याद्, यादृशान्निरूपणाद् दुःखहानोपायो निरूपितो भवेत्, तच्च प्रत्येकं पुरुषेण सह तद्बुद्धेः संयोगस्य हेतुनिरूपणादेव साध्यम्, चतुर्थे विकल्पे तथैवादर्शनं लक्षितमिति ॥ २३ ॥ यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः – तस्य हेतुरविद्या ॥ २४ ॥ विपर्ययज्ञानवासनेत्यर्थः। विपर्ययज्ञानवासनावासिता च न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति साधिकारा पुनरावर्तते। सा तु पुरुषख्यातिपर्यवसानां कार्यनिष्ठां प्राप्नोति, चरिताधिकारा निवृत्तादर्शना बन्धकारणाभावान्न पुनरावर्तते। अत्र कश्चित्पण्डकोपाख्यानेनोद्धाटयति - मुग्धया भार्ययाऽभिधीयते - पण्डकाऽऽर्यपुत्र, अपत्यवती मे भगिनी किमर्थं नाम नाहमिति, स तामाह - मृतस्तेऽहमपत्यमुत्पादयिष्यामीति। तथेदं विद्यमानं ज्ञानं चित्तनिवृत्तिं न करोति, विनष्टं करिष्यतीति का प्रत्याशा। तत्राऽऽचार्यदेशीयो वक्ति – ननु बुद्धिनिवृत्तिरेव मोक्षोऽदर्शनकारणाभावाद्बुद्धिनिवृत्तिः। तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते। तत्र चित्तनिवृत्तिरेव मोक्षः, किमर्थमस्थान एवास्य मतिविभ्रः ॥ २४ ॥ व्याख्या भास्वती
यस्त्विति । यस्तु प्रत्यक्चेतनस्य प्रतीपमात्मविपरीतमनात्मभावमञ्चति विजानातीति प्रत्यक्, यद्वा प्रति प्रतिबुद्धिमञ्चत्यनिपश्यतीति प्रत्यङ्, तद्रूपचेतनस्य प्रत्येकं पुरुषस्येत्यर्थः, स्वबुद्धिसंयोगस्तस्य हेतुरविद्या, अविद्यात्र विपर्ययज्ञानवासना अतद्रूपख्यातिप्रवणचित्तप्रकृतिरूपा, तादृश्य एव वासना विपर्यस्तप्रत्ययस्य मूलहेतवस्ततस्ता एव स्वानुरूपान् प्रत्ययान् जनयेरन् , ततः प्रतिक्षणं बुद्धिपुरुषसंयोगः प्रवर्तते, यतो विपर्यस्तज्ञानवासनावासिता बुद्धिर्न पुरुषख्यातिरूपां कार्यनिष्ठां कार्यावसानं प्राप्नुयात् पुरुषख्यातौ सत्यां परवैराग्येण निरुद्धा बुद्धिर्न पुनरावर्तते, अत्रेति । कश्चिदुपहासक एतत् षण्डकोपाख्यानेनोद्घाटयति , सुगमम्, तत्रेति । आचार्यदेशीयः आचार्यकल्पो वक्ति बुद्धिनिवृत्तिः ज्ञाननिवृत्तिरेव मोक्षः न च ज्ञानस्य विद्यमानतेत्यर्थः, यतोऽदर्शनात् बुद्धिप्रवृत्तिस्ततोऽदर्शनकारणाभावाद् अदर्शनरूपं कारणं तस्याभावाद् बुद्धिनिवृत्तिः, अदर्शनं बन्धकारणं दृश्यसंयोगकारण, तच्च दर्शान्द् विवेकान्निवर्तते । यथाग्निः स्वाश्रयं दग्ध्वा स्वयमेव नश्यति तथा दर्ह्स्नमदर्शनम् विनाश्य स्वयमेव निवर्तते, उपसंहरति - तत्रेति । तत्र मोक्षविषये, या चित्तस्य निवृत्तिः स एव मोक्ष, अतोऽस्योपहासकस्यास्थाने अयुक्त एव मतिविभ्रम इति ॥ २४ ॥ हेयं दुःखं हेयकारणं च संयोगाख्यं सनिमित्तमुक्तमतः परं हानं वक्तव्यम् – तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ २५ ॥ तस्यादर्शनस्याभावाद्बुद्धिपुरुषसंयोगाभाव आत्यन्तिको बन्धनोपरम इत्यर्थः। एतद्धानम्। तद्दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनरसंयोगो गुणैरित्यर्थः। दुःखकारणनिवृत्तौ दुःखोपरमो हानं, तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम् ॥ २५ ॥ व्याख्या भास्वती
सूत्रमवतारयति । हेयमिति । तस्येति । अदर्शनस्याभावः दर्शनेन नाशः सत्यज्ञानस्यैव जनिष्यमाणता, ततः संयोगस्याप्यभावोऽत्यन्ताभावः साततिकोऽसंयोगो न पुनः संयोग इत्यर्थः, पुरुषस्य बुद्ध्या सहामिश्रीभावः महदादेरव्यक्तताप्राप्तिरित्यर्थः, ततश्च दृशेः कैवल्यं केवलता द्वैतहीनता स्पष्टमन्यत् ॥ २५ ॥ अथ हानस्य कः प्राप्त्युपाय इति – विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥ सत्त्वपुरुषान्यताप्रत्ययो विवेकख्यातिः। सा त्वनिवृत्तमिथ्याज्ञाना प्लवते। यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं सम्पद्यते तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसञ्ज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति। सा विवेकख्यातिरविप्लवा हानोपायः। ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश्चाप्रसव इत्येष मोक्षस्य मार्गो हानस्योपाय इति ॥ २६ ॥ व्याख्या भास्वती
अथेति हानोपायमाह सत्त्वेति । अस्मीतिप्रत्ययमात्रं बुद्धिसत्त्वमधिगम्य ततोऽन्यतस्तस्यापि साक्षी पुरुष इत्येतन्मात्रानुभूतिर्विवेकख्यातिः, तन्मयत्त्वात्तदा तद्विवेकस्य चेतसस्तन्मयत्वात्, तदा तद्विवेकस्य प्रख्यातिः सा तु ख्यातिरनिवृत्त मिथ्याज्ञाना अहम्बुद्धिममत्त्वबुद्ध्यस्मीतिबुद्धिरूपेभ्यो विपर्यस्तप्रत्ययेभ्य इत्यर्थः । प्लवते, यदा विपर्ययसंस्कारक्षयान्मिथ्याज्ञानं वन्ध्यप्रसवं भवति विपर्ययप्रत्ययान् न प्रसूत इत्यर्थः, तथा च परवशीकारसञ्ज्ञायां वशीकारवैराग्यस्य परावस्थायामित्यर्थः, वर्तमानस्य योगिनस्तदा विवेकख्यातिरविप्लवा भवति, सा तु दुःखहानस्य प्राप्त्युपायः, शेषमतिरोहितम् ॥ २६ ॥ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥ तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः। सप्तधेति अशुद्ध्यावरणमलापगमाच्चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति। तद्यथा – परिज्ञातं हेयं नास्य पुनः परिज्ञेयमस्ति। क्षीणा हेयहेतवो न पुनरेतेषां क्षेतव्यमस्ति। साक्षात्कृतं निरोधसमाधिना हानम्। भावितो विवेकख्यातिरूपो हानोपाय इति। एषा चतुष्टयी कार्या विमुक्तिः प्रज्ञायाः। चित्तविमुक्तिस्तु त्रयी चरिताधिकारा बुद्धिः। गुणा गिरिशिखरतटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति। न चैषां प्रविलीनानां पुनरस्त्युत्पादः प्रयोजनाभावादिति। एतस्यामवस्थायां गुणसम्बन्धातीतः स्वरूपमात्रज्योतिरमलः केवली पुरुष इति। एतां सप्तविधां प्रान्तभूभिप्रज्ञामनुपश्यन्पुरुषः कुशल इत्याख्यायते। प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वादिति ॥ २७ ॥ व्याख्या भास्वती
तस्येति । तस्य सप्तधा प्रान्तभूमिः प्रान्ता भूमयो यस्याः सा, प्रज्ञेति । प्रत्युदितख्यातेः उपलब्धविवेकस्य योगिनः प्रयाम्नायः तादृशं योगिनं परामृशतीत्यर्थः, प्रज्ञेयाभावात्, यदा प्रज्ञा परिसमाप्ता भवति तदा सा प्रान्तभूमिप्रज्ञेत्युच्यते, सा च चित्तस्याशुद्धिरूपमलापगमात् अविवेकप्रत्ययानुत्पादे सति च विषयभेदाद् विवेकिनः सप्त प्रकारा भवति, तद् यथा -
(१) परिज्ञातमिति । हेयस्य सम्यग्ज्ञानात् तद्विषयायाः प्रज्ञायाः निवृत्तिरित्येतद्रूपख्यातिः
(२) क्षीणेति । क्षेतव्यताविषयायाः प्रज्ञायाः या निवृत्तिः तस्या उपलब्धिः
(३) साक्षादिति । निरोधाधिगमात् परगतिविषयायाः प्रज्ञायाः समाप्तिः
(४) भावितो निष्पादितो विवेकख्यातिरूपो हानोपायः, न पुनर्भावनीयमन्यदस्तीति प्रज्ञायाः प्रान्तता, एषा चतुष्टयी कार्या प्रयत्ननिष्पाद्या विमुक्तिः, कार्यविमुक्तिरिति पाठे तु कार्यात् प्रयत्नात् विमुक्तिरित्यर्थः , त्रयी चित्तविमुक्तिः चित्तात् प्रत्ययसंस्काररूपात् विमुक्तिः आभिः प्रज्ञाभिश्चित्तस्य प्रतिप्रसव इत्यर्थः, एता अप्रयत्नसाध्या ः कार्यविमुक्तिसिद्धौ स्वयमेवोत्पद्यन्ते
(५) तत्राद्यायाः स्वरूपं बुद्धिश्चरिताधिकारा मदीया बुद्धिर्निष्पन्नार्थेत्युपलब्धिः
(६) द्वितीयां चित्तविमुक्तिप्रज्ञामाह - गुणा इति । बुद्धेर्गुणाः सुखाद्याः स्वकारणे बुद्धौ प्रलयाभिमुखास्तेन कारणेन चित्तेन सास्तङ्गच्छन्ति, अस्याः प्रान्तभूमितामाह - न चैषामिति । प्रयोजनाभावाद् बुद्ध्या मे प्रयोजनं नास्तीति परवैराग्येण ख्यातेरित्यर्थः, अस्यां प्रलीयमाना मे बुद्धिर्न पुनरुदेतीति ख्यातिः स्यात् ।
(७) तृतीयामाह - एतस्यामिति । सप्तम्यां प्रान्तप्रज्ञायां पुरुषो गुणासम्बन्धातीत्त्वादिस्वभावः इतीदृशख्यातिमच्चित्तं भवति, ततः परतरस्य प्रज्ञेयस्याभावादस्याः प्रान्तता करावलकवदायत्ता भवति । तथा लीलया च दुःखातीतायामवस्थायामवस्थानसामर्थयान्न सा दुःखेन स्पृश्यतेऽतो जीवन्नपि मुक्तो भवति, उक्तञ्च -
“यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते” इति ।
चित्तस्य प्रतिप्रसवे पुनरुत्थानहीने प्रलये मुक्तः कुशलः विदेहमुक्तो भवति गुणातीतत्वात् त्रिगुणसम्बन्धाभावादिति ॥ २७ ॥ सिद्धा भवति विवेकख्यातिर्हानोपाय इति, न च सिद्धिरन्तरेण साधनमित्येतदारभ्यते – योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥ २८ ॥ योगाङ्गान्यष्टावभिधायिष्यमाणानि। तेषामनुष्ठानात्पञ्चपर्वणो विपर्ययस्याशुद्धिरूपस्य क्षयो नाशः। तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः। यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते। यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते। सा खल्वेषा विवृद्धिः प्रकर्षमनुभवत्या विवेकख्यातेः, आगुणपुरुषस्वरूपविज्ञानादित्यर्थः। योगाङ्गानुष्ठानमशुद्धेर्वियोगकारणम्। यथा परशुश्छेद्यस्य। विवेकख्यातेस्तु प्राप्तिकारणं यथा धर्मः सुखस्य नान्यथा कारणम्। कति चैतानि कारणानि शास्त्रे भवन्ति। नवैवेत्याह। तद्यथा – उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः। वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥ इति। तत्रोत्पत्तिकारणं मनो भवति विज्ञानस्य, स्थितिकारणं मनसः पुरुषार्थता, शरीरस्येवाऽऽहार इति। अभिव्यक्तिकारणं यथा रूपस्याऽऽलोकस्तथा रूपज्ञानं, विकारकारणं मनसो विषयान्तरम्। यथाऽग्निः पाकस्य। प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्य। प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः। वियोगकारणं तदेवाशुद्धेः। अन्यत्वकारणं यथा सुवर्णस्य सुवर्णकारः। एवमेकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे द्वेषो दुःखत्वे रागः सुखत्वे तत्त्वज्ञानं माध्यस्थ्ये। धृतिकारणं शरीरमिन्द्रियाणाम्। तानि च तस्य। महाभूतानि शरीराणां, तानि च परस्परं सर्वेषां तैर्यग्यौनमानुषदैवतानि च परस्परार्थत्वादित्येवं नव कारणानि। तानि च यथासम्भवं पदार्थान्तरेष्वपि योज्यानि। योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति ॥ २८ ॥ व्याख्या भास्वती
हानस्योपायो या विवेकख्यातिः सा सिद्धा भवतीत्युक्ता, न सिद्धिरन्तरेण साधनम् । अतस्तत्साधनमभिधास्यते, सुगमम्, क्षयक्रमानुरोधी क्रमतः क्षीयमाणायामशुद्धौ क्रमतश्च विवर्धमाना ज्ञानस्य भवतीत्यर्थः । योगाङ्गेति । यैरुपादननिमित्तैः कश्चित् पदार्थो जात इति ज्ञायते, तानि तस्य कारणानि, तच्च कारणं नवधा - तत्रोत्पत्तिकारणमुपादानाख्यम् । अन्यच्च निमित्तकारणम्, तत्रेति । विज्ञानस्योपादानं मनः, मन एव परिणतं विज्ञानमुत्पादयतीति । अभिव्यक्तिः उद्घाटकेन प्रकशः आलोको रूपज्ञानं चाभिव्यक्तिकारणं द्रव्याणां प्रातिस्विकरूपज्ञानस्येति शेषः । विकारकारणं विकारो नात्र धर्मान्तरोदयमात्रः किन्त्विष्टोऽनिष्टो वा प्रकटविकारः । प्रत्ययकारणं हेतुरूपमनुमापकं कारणम् । अन्यरूपेण बुभुत्सा यत्रेप्सिता तत्रान्यत्वसाधकानि निमित्तानि अन्यत्त्वकारणम् । तत्रैव धृतिकारणम् । उदाहरणैः स्पष्टमन्यत् ॥ २८ ॥ तत्र योगाङ्गान्यवधार्यन्ते – यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २९ ॥ यथाक्रममेषामनुष्ठानं स्वरूपं च वक्ष्यामः ॥ २९ ॥ व्याख्या भास्वती
यमादीन्यष्टौ योगाङ्गान्यवधारयति - तत्रेति । अङ्गसमष्टिरेवाङ्गी । न चाङ्गेभ्यः पृथगङ्गी अस्ति । यमादीनां सर्वेषां चित्तस्थौर्यकरत्वाच्चित्तनिरोधरूपस्य योगस्य तान्यङ्गानि । तत्राप्यस्त्यन्तरङ्गबहिरङ्गरूपो भेद इति । यथा - पञ्चाङ्गस्य प्राणस्याद्यमङ्गं प्राणसञ्ज्ञयाभिहितं तथा योगाख्यस्य समाधेरपि चरमाङ्गं समाधिशब्देन सञ्ज्ञितमिति ॥ २९ ॥ तत्र – अहिंसासत्यस्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३० ॥ तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोहः। उत्तरे च यमनियमास्तन्मूलास्तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते। तदवदातरूपकरणायेवोपादीयन्ते। तथा चोक्तम् – स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस्तामेवावदातरूपामहिंसां करोति। सत्यं यथार्थे वाङ्मनसे। यथा दृष्टं यथाऽनुमितं तथा वाङ्मनश्चेति। परत्र स्वबोधसङ्क्रान्तये वागुक्ता, सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिवन्ध्या वा भवेदिति। एषा सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय। यदि चैवमप्यभिधीयमाना भूतोपघातपरैव स्यान्न सत्यं भवेत्पापमेव भवेत्तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात्। तस्मात्परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात्। स्तेयमशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणं, तत्प्रतिषेधः पुनरस्पृहारूपमस्तेयमिति। ब्रह्मचर्यं गुप्तेन्द्रियस्योपस्थस्य संयमः। विषयाणामर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणमपरिग्रह इत्येते यमाः ॥ ३० ॥ व्याख्या भास्वती
तत्रेति । सर्वथा कायेन मनसा वाचा सर्वदा प्राणात्ययादिसङ्कटकालेऽपीत्यर्थः, स्थावरजङ्गमादिसर्वप्राणिनामनभिद्रोहः, पीडनबुद्धिराहित्यमिर्थः । योगाङ्गभूताहिंसा ,उत्तरे च यमनियमास्तन्मूलाः । साहिंसा मूलं येषां ते, तत्सिद्धिपरतया तस्या अहिंसाया सिद्धिपरता तया सिद्धिपरत्वेन हेतुनेत्यर्थः, अहिंसानिष्पत्तये, प्रतिपाद्यन्ते गृह्यन्ते, तदवदातकरणायैव, अहिंसायाः निर्मलीकरणायैव, उपादीयन्ते योगिभिरिति शेषः । तथा चोक्तं स इति । ब्रह्मविद् यथा यथा बहूनि व्रतानि समादित्सते समादातुमिच्छति, तथा तथा प्रमादकृतेभ्यः क्रोधलोभमोहकृत्येभ्यः, हिंसादिनिदानेभ्यः कर्मभ्यो निवर्तमानः सः तामेवाहिंसामवदातरूपां निर्मलां करोतीति । सत्यमिति । यथार्थे वाङ्मनसे प्रमाणप्रमितविषयाणामेव मनसोपादानं नाप्रमितस्येति यथार्थं मनः, यन्मनसि स्थितं तस्यैवाभिधानं नान्यस्येति यथार्था वाक्, परत्रेति । परत्रस्वबोधसङ्क्रान्तये या वाक् प्रयुज्यते सा वाग् यदि वञ्चिता , वञ्चनाय प्रयुक्ता, भ्रान्ता भ्रान्तिजननाय सत्याच्छादनाय प्रयुक्ता, तथा प्रतिपत्तिवन्ध्या अस्पष्टार्थपदैरुच्यमानत्वात् स्वबोधाच्छादिका न स्यात्तदा सत्यं भवेन्नान्यथा, मनसि तत्त्विकसत्यसाधानमित्यर्थः । एषेति । किञ्च - एषा यथार्थापि वाग् न परोपघाताय प्रयोक्तव्या, स्मर्यते च -
“सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मस्सनतनः” इति ।
हिंसादूषितं सत्यं पुण्याभासमेव । तेन पुण्यप्रतिरूपेण पुण्यवत् प्रतीयमानेन सत्येन कष्टं तमः, कष्टबहुलं निरयं प्राप्नुयात् । स्तेयमिति । न हि चौर्यविरतिमात्रमस्तेयं किन्तु - अग्रहणीयविषयेऽस्पृहारूपं तत् । ब्रह्मचर्यम् । गुप्तानि रक्षितानि संयतानि चक्षुरादीन्द्रियाणि येन तादृशस्य स्मरणकीर्तनादिरहितस्य यमिन उपस्थेन्द्रिय संयमो ब्रह्मचर्यम् । विषयाणामिति । अर्जनरक्षणादिषु दोषो दुःखं तद्दर्शनात् देहरक्षातिरिक्तस्य विषयस्यास्वीकरणमपरिग्रहः । स्मर्यते च - “प्राणयात्रिकमात्रः स्यात्” इति ॥ ३० ॥ ते तु – जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ ३१ ॥ तत्राहिंसा जात्यवच्छिन्ना मत्स्यवधकस्य मत्स्येष्वेव नान्यत्र हिंसा। सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति। सैव कालावच्छिन्ना न चतुर्दश्यां न पुण्येऽहनि हनिष्यामीति। सैव त्रिभिरुपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे नान्यथा हनिष्यामीति। यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति। एभिर्जाति देशकालसमयैरनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः। सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यन्ते ॥ ३१ ॥ व्याख्या भास्वती
ते त्विति । यमानुष्ठानस्य विशेषमाह - सार्वभौमा यमा महाव्रतमित्युच्यते । सुगमम् । समयः नियमः । अविदितव्यभिचाराः स्खलनशून्याः ॥ ३१ ॥ शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२ ॥ तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यम्। आभ्यन्तरं चित्तमलानामाक्षालनम्। सन्तोषः सन्निहितसाधनादधिकस्यानुपादित्सा। तपो द्वन्द्वसहनम्। द्वन्द्वाश्च जिघत्सापिपासे शीतोष्णे स्थानासने काष्ठमौनाकारमौने च। व्रतानि चैषां यथायोगं कृच्छ्रचान्द्रायणसान्तपनादीनि। स्वाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा। ईश्वरप्रणिधानं तस्मिन्परमगुरौ सर्वकर्मार्पणम्। शय्यासनस्थोऽथ पथि व्रजन्वा स्वस्थः परिक्षीणवितर्कजालः। संसारबीजक्षयमीक्षमाणः स्यान्नित्ययुक्तोऽमृतभोगभागी ॥ यत्रेदमुक्तं ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्चेति ॥ ३२ ॥ व्याख्या भास्वती
नियमान् व्याचष्टे - तत्रेति । मेध्याभ्यवहरणादि मेध्यानां पवित्राणां पर्युषितपूतिवर्जितानामभ्यवहरणमाहारः । आदिशब्देनामेध्यसंसर्गविवर्जनमपि ग्राह्यम् । बाह्यशौचादपि चित्तमालिन्यम्, ततो बाह्यशौचमपि विहितम्, चित्तमलानां मदमानमात्सर्येष्यासूयादीनां क्षालनम् । सन्तोषः सन्निहितसाधनाद् प्राप्तविषयाद् अधिकस्यानुपादित्सा तुष्टिमूला ग्रहणेच्छाशून्यता । उक्तञ्च -
सर्वतः सम्पदस्तस्य सन्तुष्टं यस्य मानसम् । उपानद्दूढपादस्य ननु चर्मावृतेव भूः इति ॥
तपः द्वन्द्वजदुःखसहनम् । स्थानं निश्चलावस्थानम्, तज्जमासनजञ्च यद्न् दुःखं तस्य सहनम्, काष्ठमौनम्, सर्वविज्ञप्तित्यागः, आकारमौनम् , वाग्विज्ञप्तित्यागः । ईश्वरप्रणिधानम्, ईश्वरे सर्वकर्मार्पण, कर्मफलाभिसन्धिशून्यता । सन्न्यस्यतफलस्य निष्कामस्य योग्निनो लक्षणमाह - शय्येति । सर्वावस्थावस्थितो योगी स्वस्थः आत्मस्मृतिमान् । परिक्षीणावितर्कजालः चिन्ताजालहीनः, संसारबीजस्य अविद्यामूलकर्मणः, क्षयं निवृत्ति, ईक्षमाणः क्षीयमाणं ससंस्कारकर्म ईक्षमाण इत्यर्थः, नित्यतृप्तः सदा निष्कामतानिस्सङ्कल्पताजनितात्मवृत्तियुक्तः, अतोऽमृतभोगभोगी अमृतस्यात्मनः प्रत्यक्चेतस्याधिगमात् प्रमादरहिताच्चामृतभोगभाक् स्यात् ॥ ३२ ॥ एतेषां यमनियमानाम् – वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३ ॥ यदाऽस्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन्हनिष्याम्यहमपकारिणमनृतमपि वक्ष्यामि क्रयमप्यस्य स्वीकरिष्यामि दारेषु चास्य व्यवायी भविष्यामि परिग्रहेषु चास्य स्वामी भविष्यामीति। एवमुन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन बाध्यमानस्तत्प्रतिपक्षान्भावयेत्। घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणमुपागतः सर्वभूताभयप्रदानेन योगधर्मः। स खल्वहं त्यक्त्वा वितर्कान्पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति भावयेत्। यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनराददान इति मादि सूत्रान्तरेष्वपि योज्यम् ॥ ३३ ॥ व्याख्या भास्वती
वक्ष्यमाणैर्वितर्कैयदाहिंसादयो बाधिताः भवेयुस्तदा प्रतिपक्षभावनया वितर्कान् निवारयेत्, सुगमं भाष्यम्, तुल्यः श्ववृत्तेन कुक्कुरचरितेन तुल्यचरितोऽहम्, श्वेव वान्तावलेही वान्तस्य भक्षकः । तपसो वितर्कः सौकुमार्यम्, स्वाध्यायस्य वृथा वाक्यम । ईश्वरप्रणीधानस्य अनीश्वरगुणयुक्तपुरुषचारित्रभावना ॥ ३३ ॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ ३४ ॥ तत्र हिंसा तावत् – कृता कारिताऽनुमोदितेति त्रिधा। एकैका पुनस्त्रिधा लोभेन मांसचर्मार्थेन क्रोधेनापकृतमनेनेति मोहेन धर्मो मे भविष्यतीति। लोभक्रोधमोहाः पुनस्त्रिविधा मृदुमध्याधिमात्रा इति। एवं सप्तविंशतिर्भेदा भवन्ति हिंसायाः। मृदुमध्याधिमात्राः पुनस्त्रिधा - मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरिति। तथा मृदुमध्यो मध्यमध्यस्तीव्रमध्य इति। तथा मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति। एवमेकाशीतिभेदा हिंसा भवति। सा पुनर्नियमविकल्पसमुच्चयभेदादसङ्ख्येया, प्राणभृद्भेदस्यापरिसङ्ख्येयत्वादिति। एवमनृतादिष्वपि योज्यम्। ते खल्वमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्। दुःखमज्ञानं चानन्तं फलं येषामिति प्रतिपक्षभावनम्। तथा च हिंसकस्तावत्प्रथमं वध्यस्य वीर्यमाक्षिपति। ततश्च शस्त्रादिनिपातेन दुःखयति। ततो जीवितादपि मोचयति। ततो वीर्याक्षेपादस्य चेतनाचेतनमुपकरणं क्षीणवीर्यं भवति। दुःखोत्पादान्नरकतिर्यक्प्रेतादिषु दुःखमनुभवति, जीवितव्यपरोपणात्प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नपि दुःखविपाकस्य नियतविपाकवेदनीयत्वात्कथञ्चिदेवोच्छ्वसिति। यदि च कथञ्चित्पुण्यावापगता हिंसा भवेत्तत्र सुखप्राप्तौ भवेदल्पायुरिति। एवमनृतादिष्वपि योज्यं यथासम्भवम्। एवं वितर्काणां चामुमेवानुगतं विपाकमनिष्टं भावयन्न वितर्केषु मनः प्रणिदधीत ॥ ३४ ॥ व्याख्या भास्वती
वितर्कान् व्याचाष्टे - तत्रेति । सुगमम् । सा पुनरिति । नियमो यथा क्षत्रियाणां संयुगे हिंसेति । विकल्पो यथा पितृणां तृप्त्यर्थं शूकरं गवयं वार्ध्रीणं वालभेत । समुच्च्यो यथा - एकाहे स्थावरजङ्गमबलिः, तथा चेति । वध्यस्य बन्धादिना वीर्यं कायचेष्टाम्, आक्षिपति अभिभावयति । ततः तत्र वीर्याक्षेपात्, अस्य घातकस्य चेतनं कारणरूपम्, अचेतनं शरीररूपम्, उपकरणं भोगसाधनं क्षीणवीर्यं भवति । जीवितस्य प्राणानां व्यपरोपणात् वियोगकरणाद्, प्रतिक्षणं जीवितात्यये मुमूर्षादुरवस्थायां वर्त्तमानो मरणमिच्छन्नपि दुःखविपाकस्य नियतविपाकस्यारब्धत्त्वात् दुःखभोगस्यानुकूलं यत् कर्म, तद् विपाकस्यारब्धत्त्वात् कष्टमस्यायुषो वेदनीयत्वं नियतं स्यात्तस्मादेवोच्छ्वसिमीति न प्राणानाञ्जहाति । यदिति । कथञ्चित् पुण्यात् पश्चादाचरितया हिंसयेत्यर्थः, हिंसापगाभिभूता भवेत्, तदा सुखप्राप्तावप्यल्पायुर्भवेत् । एवं वितर्काणामनुगतमनुगच्छन्तमनुमिष्टं(?) विपाकं भावयन् न वितर्केषु हिंसादिषु मनः प्रणिदधीत । हेयाः त्याज्या वितर्काः ॥ ३४ ॥ प्रतिपक्षभावनाद्धेतोर्हेया वितर्का यदाऽस्य स्युरप्रसवधर्माणस्तदा तत्कृतमैश्वर्यं योगिनः सिद्धिसूचकं भवति। तद्यथा – अहिंसाप्रतिष्ठायां तत्सन्निधा वैरत्यागः ॥ ३५ ॥ सर्वप्राणिनां भवति ॥ ३५ ॥ व्याख्या भास्वती
यदेति । अप्रसवधर्माणो वितर्का इति शेषः । तदाहिंसादीनां प्रतिष्ठेति । अहिंसाप्रतिष्ठायां हिंसासंस्कारनाशात् तत्प्रत्ययस्य संयग् नाश इत्यर्थः । तत्सन्निधौ सान्निध्यात् योगिनः सङ्कल्पप्रभवानुभाविताः सर्वे प्राणिनो वैरभावं त्यजन्तीत्यर्थः ॥ ३५ ॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६ ॥ धार्मिको भूया इति भवति धार्मिकः, स्वर्गं प्राप्नुहीति स्वर्गं प्राप्नोति। अमोघाऽस्य वाग्भवति ॥ ३६ ॥ व्याख्या भास्वती
धार्मिक इति । सत्यप्रतिष्ठायां क्रियया कर्माचरणेन यत् स्वर्गगमनादि फलं लभ्यते, योगिनो वाचैव श्रोतुर्मनसि समुदितसंस्कारात् तत्सिद्धिः । ततः “धार्मिको भूयाः” इत्याशीर्वचनादभिभूतोऽधर्ममतिः धार्मिको भवतीति योगिनो वाचोऽमोघत्वम् ॥ ३६ ॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७ ॥ सर्वदिक्स्थान्यस्योपतिष्ठन्ति रत्नानि ॥ ३७ ॥ व्याख्या भास्वती
सर्वेति । सर्वासु दिक्षु भ्रमतो योगिनः सकाशे चेतनाचेतनानि रत्नानि, जातौ जातावुत्कृष्टवस्तूयुपतिष्ठन्ते उपस्थास्यन्ते च ॥ ३७ ॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८ ॥ यस्य लाभादप्रतिघान्गुणानुत्कर्षयति। सिद्धश्च विनेयेषु ज्ञानमाधातुं समर्थो भवतीति ॥ ३८ ॥ व्याख्या भास्वती
यस्येति । ब्रह्मचर्यप्रतिष्ठाजातवीर्यलाभात् तद्वीर्यमप्रतिघान् गुणान् प्रतिघातरहिता ज्ञानादिशक्तिरुत्कर्षयति, तथा - ऊहाध्ययनादिभिर्ज्ञानसिद्धौ योगी विनेयेषु शिष्येषु ज्ञानमाधातुं हृदयङ्गमं कारयितुं समर्थो भवतीति ॥ ३८ ॥ अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ ३९ ॥ अस्य भवति। कोऽहमासं कथमहमासं किंस्विदिदं कथं स्विददं के वा भविष्यामः कथं वा भविष्याम इत्येवमस्य पूर्वान्तपरान्तमध्येष्वात्मभावजिज्ञासा स्वरूपेणोपावर्तते। एता यमस्थैर्ये सिद्धयः ॥ ३९ ॥ व्याख्या भास्वती
अस्येति । देहेन सह सम्बन्धो जन्म, तस्य कथन्ता किम्प्रकारता, अपरिग्रहस्थैर्ये त्यक्तबाह्यपरिग्रहस्य योगिनो देहोऽपि हेयः परिग्रहः इत्यनुभवस्थैर्ये जन्मकथन्ताबोधो भवति । तत्स्वरूपं - कोऽहमसमित्यादि । एवमिति । पूर्वान्तापरान्तमध्येषु अतीतभविष्यवर्तमानेषु, आत्मभावजिज्ञासा आत्मभावे अहम्भावविषये शरीरसम्बन्धविषय इत्यर्थः, या जिज्ञासा तत्र स्वरूपज्ञानं भवतीत्यर्थः ॥ ३९ ॥ नियमेषु वक्ष्यामः – शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४० ॥ स्वाङ्गे जुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर्भवति। किं च परैरसंसर्गः कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृज्जलादिभिराक्षालयन्नपि कायशुद्धिमपश्यन्कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्येत ॥ ४० ॥ व्याख्या भास्वती
शौचादिति । बाह्यशौचफलम्, स्वशरीरे जुगुप्सायां जातायां तस्य शौचमारभमाणो यतिः कायस्यावद्यदर्शी दोषदर्शी, कायनभिष्वङ्गी कायरागहीनो भवति । किञ्चेति । जिहासुस्त्यागेच्छुः स्वकायशुद्धिमदृष्ट्वा कथमत्यन्तमेवाप्रयतैः मलिनैः जुगिप्सिततमैरित्यर्थः परकायैः सह संसृज्येत संसर्गमिच्छेदित्यर्थः ॥ ४० ॥ किं च – सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ ४१ ॥ भवन्तीति वाक्यशेषः। शुचेः सत्त्वशुद्धिस्ततः सौमनस्यं तत ऐकाग्र्यं तत इन्द्रियजयस्ततश्चाऽऽत्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीत्येतच्छौचस्थैर्यादधिगम्यत इति ॥ ४१ ॥ व्याख्या भास्वती
अभ्यन्तरशौचफलमाह - सत्त्वेति । शुचेरिति । शुचेः मदमात्सर्येर्ष्यादीनामाक्षालनकृतः सत्त्वशुद्धिः विक्षेपकमलहीनता अन्तर्निष्ठता च ततः सौमनस्यं मानसं सौख्यमात्मप्रीतिरित्यर्थः, सौमनस्ययुक्तस्यैकाग्र्यं सुकरं, ततो बुद्धिस्थैर्ये मनाअदीन्द्रियजयः, ततो निर्मलस्य बुद्धिसत्त्वस्यात्मदर्शने पुरुषस्वरूपावधारणे योग्यता भवति ॥ ४१ ॥ सन्तोषादनुत्तमः सुखलाभः ॥ ४२ ॥ तथा चोक्तम् – यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ इति ॥ ४२ ॥ व्याख्या भास्वती
तथेति । सन्तोषफलं व्याचष्टे - कामसुखं काम्यविषयप्राप्तिजनितं यत् सुखम् ॥ ४२ ॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥ ४३ ॥ निर्वर्त्यमानमेव तपो हिनस्त्यशुद्ध्यावरणमलं तदावरणमलापगमात्कायसिद्धिरणिमाद्या। तथेन्द्रियसिद्धिर्दूराच्छ्रवणदर्शनाद्येति ॥ ४३ ॥ व्याख्या भास्वती
निर्वर्त्त्यमानमिति । तपःसिद्धिफलं व्याचष्टे - निर्वर्त्त्यमानं निष्पाद्यमानम्, आवरणमलं सिद्धप्रकृतेरापूरणस्य प्रतिबन्धकभूता ये शरीरधर्मास्तेषां वश्यतारूपं मलम्, सामान्यतः सत्यब्रह्मचर्यादीन्यपि तपः, अत्र च योगानुकूलं द्वन्द्वसहनमेव तपःशब्देन सञ्ज्ञितम् ॥ ४३ ॥ स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥ ४४ ॥ देवा ऋषयः सिद्धाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति,कार्ये चास्य वर्तन्त इति ॥ ४४ ॥ व्याख्या भास्वती
देवा इति । स्वाध्यायशीलस्य निरन्तरं भावनायुक्तजपशीलस्य, सम्प्रयोगः सम्पर्को गोचर इत्यर्थः ॥ ४४ ॥ समाधिसिद्विरीश्वरप्रणिधानात् ॥ ४५ ॥ ईश्वरार्पितसर्वभावस्य समाधिसिद्धिर्यया सर्वमीप्सितमवितथं जानाति देशान्तरे देहान्तरे कालान्तरे च। ततोऽस्य प्रज्ञा यथाभूतं प्रजानातीति ॥ ४५ ॥ व्याख्या भास्वती
ईश्वरेति । ईश्वरार्पितसर्वभावस्य = तत्प्राणिधानपरस्य सुखेनैव समाधिसिद्धिः, यया समाधिसिद्धया सम्प्रज्ञानलाभो भवति, अहिंसाऽऽदिशीलसम्पन्न एवेश्वरप्रनिधानसमर्था भवति नान्यथा,
अहिंसाऽऽदिप्रतिष्ठायां याः सिद्धयस्तास्तपोजा मन्त्रजाश्च, प्रकृतिवैशिष्टयात् केषाञ्चिदहिंसाऽऽदिषु किञ्चित् साधनमत्यनुकूलं भवति, तस्य च सम्यगुनष्ठानात् तत्प्रतिष्ठाजाता सिद्धिराविर्भवति, ये तु सामान्यत एव यमनियमानुष्ठानं संरक्षन्तः समाधिसिद्धये प्रयतन्ते, तेषान्ताः सिद्धयो नाविर्भवन्तीति द्रष्टव्यं
अहिंसासत्यादयस्तप एव, स्मर्यते च-
“तथाऽहिंसा परं तपः” इति,
“नास्ति सत्यसमं तपः” इति,
“ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते” इति,
तस्मात्तज्जाः सिद्धयस्तपोजा एव, जपरूपस्वाध्यायाद् मन्त्रजा सिद्धिः, शान्तस्य समाहितस्येश्वरस्य प्रणिधानाद् धारणध्यानोत्कर्षस्ततश्च प्राणिधानं समाधिं भावयेत्, अहिंसाऽऽदयः सर्वे क्लिष्टकर्मणः प्रतनूकरणायानुष्टेयाः, यथैकस्मादपि च्छिद्रात् पूर्णघटोवारिहीनो भवति, तथाऽहिंसाऽऽदिशीलानामेकतमस्यापि सम्भेदादितरे निर्बीर्या भवन्तीति, उक्तञ्च –
“ब्रह्मचर्यमहिंसा च क्षमा शौचं तपो दमः । सन्तोषः सत्यमास्तिक्यं व्रताङ्गानि विशेषतः ॥
एकेनाप्यर्थहीनेन व्रतमस्य तु लुप्यते” । इति ॥ ४५ ॥ उक्ताः सह सिद्धिभिर्यमनियमाः। आसनादीनि वक्ष्यामः। तत्र – स्थिरसुखमासनम् ॥ ४६ ॥ तद्यथा पद्मासनं भद्रासनं स्वस्तिकं दण्डासनं सोपाश्रयं पर्यङ्कं क्रौञ्चनिषदनं हस्तिनिषदनमुष्ट्रनिषदनं समसंस्थानं स्थिरसुखं यथासुखं चेत्येवमादीनि ॥ ४६ ॥ व्याख्या भास्वती
उक्ता इति । पद्मासनादि यदा स्थिरसुखं = स्थिरं सुखं सुखावहञ्च यथासुखमित्यर्थः, भवति तदा योगाङ्गमासनं भवति ॥ ४६ ॥ प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ ४७ ॥ भवतीति वाक्यशेषः। प्रयत्नोपरमात्सिध्यत्यासनं येन नाङ्गमेजयो भवति। अनन्ते वा समापन्नं चित्तमासनं निर्वर्तयतीति ॥ ४७ ॥ व्याख्या भास्वती
भवतीति । प्रयत्नोपरमात् = पद्मासनादिगतस्त्रिरुन्नतस्थापनप्रयत्नादन्यप्रयत्नशौथिल्यङ्कुर्यादित्यर्थः, मृतवत् स्थितिरेव प्रयत्नशौथिल्यम्, आनन्त्ये = परममहत्त्वे व समापन्नोभवेदासनसिद्धये ॥ ४७ ॥ ततो द्वन्द्वानभिघातः ॥ ४८ ॥ शीतोष्णादिभिर्द्वन्द्वैरासनजयान्नाभिभूयते ॥ ४८ ॥ व्याख्या भास्वती
आसनसिद्धिफलमाह – तत इति । शरीरस्य स्थैर्यादभिभूतस्पर्शादिबोधो योगी द्राक् न शीतोष्णक्षुत्पिपासाऽध्दिद्वन्द्वैरभिभूयते ॥ ४८ ॥ तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ ४९ ॥ सत्यासनजये बाह्यस्य वायोराचमनं श्वासः, कौष्ठ्यस्य वायोर्निःसारणं प्रश्वासः, तयोर्गतिविच्छेद उभयाभावः प्राणायामः ॥ ४९ ॥ व्याख्या भास्वती
सतीति । सुगमं भाष्यम्, श्वासप्रश्वासप्रयत्नेन सह यच्चित्तबन्धनं तदेव योगाङ्ग प्राणायामो योगस्य चित्तवृत्तिनिरोधस्वरूपत्वादिति वेदितव्यं ॥ ४९ ॥ स तु – बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ ५० ॥ यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः। यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः। तृतीयः स्तम्भवृत्तिर्यत्रोभयाभावः सकृत्प्रयत्नाद्भवति। यथा तप्ते न्यस्तमुपले जलं सर्वतः सङ्कोचमापद्यते तथा द्वयोर्युगपद्गत्यभाव इति। त्रयोऽप्येते देशेन परिदृष्टा इयानस्य विषयो देश इति। कालेन परिदृष्टाः क्षणानामियत्तावधारणेनावच्छिन्ना इत्यर्थः। सङ्ख्याभिः परिदृष्टा एतावद्भिः श्वासप्रश्वासैः प्रथम उद्धातस्तद्वन्निगृहीतस्यैतावद्भिर्द्वितीय उद्धात एवं तृतीयः। एवं मृदुरेवं मध्य एवं तीव्र इति सङ्ख्यापरिदृष्टः। स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः ॥ ५० ॥ व्याख्या भास्वती
यत्रेति । प्रश्वासपूर्वकः = चित्ताधानप्रयत्नसहितरेचनपूर्वको गत्यभावः = यो वायोर्बहिरेव धारणं तथा वायुधारणप्रयत्नेन सह चित्तस्यापि बन्धः स बाह्यवृत्तिः प्राणायामः, नायं रेचनमात्रः किन्तु रेचकान्तनिरोधः, उक्तञ्च -
“निष्क्राम्य नासाविवरादशेषं प्राणं बहिः शून्यमिवानिलेन । निरुध्य सन्तिष्ठति रुद्धवायुः स रेचको नाम महानिरोधः ॥ ” इति,
यत्र श्वासपूर्वकः = पूर्ववत् प्रयत्नविशेषात् पूरणपूर्वको गत्यभावः = वायोरन्तर्धारणं चित्तस्यापि बन्धः स आभ्यन्तरवृत्तिः प्राणायामः पूरकान्तप्राणरोधो न पूरणमात्रः, यथोक्तम् –
“बाह्यस्थितं घ्राणपुटेन वायुमाकृष्य तेनैव शनैः समन्तात् । नाडीश्च सर्वाः परिपूरयेद् यः स पूरको नाम महानिरोधः ॥ ” इति,
पूरयित्वा निरुद्धवायुर्भूत्वाऽवस्थानमेवायं पूरक इत्यर्थः,
यत्र रेचनपूरणप्रयत्नमकृत्वा पूरणदेचने अनपेक्ष्य यथाऽवस्थितवायौ सकृद् विधारणप्रयत्नाद् श्वासप्रश्वासगत्यभावः तथा च चित्तस्य वायुधारणप्रयत्नेन सह ध्येयविषये बन्धः स एव तृतीयः स्तम्भवृत्तिः प्राणायामः, अत्र स्तम्भवृत्तौ सर्वतः परिशुष्यत्तप्तोपलन्यस्तजलवद् वायुः सर्वशरीरेषु विशेषतः प्रत्येक्षेषु सङ्कोचमापद्यत इत्यनुभूयते, न चायंरेचकपूरकसहकारी कुम्भकः, उक्तञ्च –
“न रेचको नैव च पूरकोऽत्र नासापुटे संस्थितमेव वायुम् । सुनिश्चलं धारयति क्रमेण कुम्भाख्यमेतत् प्रवदन्ति तज्ज्ञाः ॥ ” इति,
त्रय इति । देशेन कालेन सङ्ख्यया च परिदृष्टा बाह्यभ्यन्तरस्तन्भवृत्तिप्राणायामा दीर्घाः सूक्ष्माश्च भवन्ति, देशेन परिदृष्टिर्यथा – इयानस्य विषयः = इयत्परिमाणदेशव्यवहितं तूलं न प्रश्वासवायुश्चालयति सूक्ष्मीभूतत्वादिति, देहाभ्यन्तरदेशेऽपि स्पर्शवेशेषानुभवो देशपरिदर्शनम्, कालपरिदृष्टिर्यथा – इयतः क्षणान् यावद् धारयितव्यमिति, सङ्ख्यापरिदृष्टिर्यथा – एतावद्भिः श्वासप्रश्वासैः = तदवच्छिन्नकालेनेत्यर्थः, प्रथम उद्घातः, एतावद्भिर्द्वितीय इत्यादिः, श्वासाय प्रश्वासाय च य उद्वेगः स उद्घातः, उक्तञ्च –
“नीचो द्वादशमात्रस्तु सकृदुद्घात ईरितः । मध्यमस्तु द्विरुद्घातश्चतुर्विंशतिमात्रकः ॥
मुख्यस्तु यस्त्रिरुद्घातः षट्त्रिशन्मात्र उच्यते । ” गूग,
श्वासप्रश्वासाविच्छिन्नकालो मात्रा, द्वादशमात्रकः प्राणायामः प्रथम उद्घातो मतः, अभ्यासेन निगृहीतस्य = वशीकृतस्य प्रथमोद्घातस्यैतावद्भिः श्वासप्रश्वासैः = तदवच्छिन्नकालव्यापीत्यर्थः, द्वितीयश्चतुर्विंशतिमात्रक उद्घातो मध्यः, एवं तृतीय उद्घातस्तीव्रः शट्त्रिंशन्मात्रकः, स इति । स प्राणायाम एवमभ्यस्तो दीर्घः = दीर्घकालव्यापी, तथा सूक्ष्मः = सुसाधितत्वात् श्वासप्रश्वासयोः सूक्ष्मतया सूक्ष्म इति, सङ्ख्यापरिदृष्टिः श्वासप्रश्वाससङ्ख्याभिः कालपरिदृष्टिरेवेति द्रष्टव्यम् ॥ ५० ॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१ ॥ देशकालसङ्ख्याभिर्बाह्यविषयपरिदृष्ट आक्षिप्तः। तथाऽऽभ्यन्तरविषयपरिदृष्ट आक्षिप्तः। उभयथा दीर्घसूक्ष्मः। तत्पूर्वको भूमिजयात्क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः। तृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः। चतुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात्क्रमेण भूमिजयादुभयाक्षेपपूर्वको गत्यभावश्चतुर्थः प्राणायाम इत्ययं विशेष इति ॥ ५१ ॥ व्याख्या भास्वती
देशेति । चतुर्थं प्राणायामं व्याचष्टे – देशकालसङ्ख्याभिः परिदृष्टो बाह्यविषयः = बाह्यवृत्तिः प्राणायामः, आक्षिप्तः = अभ्यासेन दीर्घसूक्ष्मभूतत्वाद् देशाद्यालोचनत्याग आक्षेपः, तथा कृत इत्यर्थः, तथा – आभ्यन्तरवृत्तिः प्राणायामोऽप्याक्षिप्तः, उभयथा = बाह्यत आभ्यन्तरतश्चोभयथा दीर्घसूक्ष्मीभूतः, तत्पूर्वकः = दीर्घसूक्ष्मतापूर्वको भूमिजयाद् = दीर्घसूक्ष्मीभवनस्य भूमिजयात्, क्रमेण = क्रमतः, न तु तृतीयस्तम्भवृत्तिवदह्नाय, उभयोः = बाह्याभ्यन्तरयोः, गत्यभावः = स्तन्भवृत्तिविशेषरूपः, चतुर्थः प्राणायाम इति शेषः, तृतीयचतुर्थयोर्भेदं विवृणोति, सुगमम्, प्रथमांशव्याख्यानेन च व्याख्यातम् ॥ ५१ ॥ ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥ प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म। यत्तदाचक्षते – महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वमावृत्य तदेवाकार्ये नियुङ्क्त इति। तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद्दुर्बलं भवति प्रतिक्षणं च क्षीयते। तथा चोक्तम् – “तपो न परं प्राणायामात्ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्य” इति ॥ ५२ ॥ व्याख्या भास्वती
प्राणायामस्य योगानुकूलं फलमाह – तत इति । व्याचष्टे – प्राणायामानिति । विवेकज्ञानरूपस्य प्रकाशस्यावरणमलं = क्लेशमूलं कर्म, प्राणायामेन प्राणानां स्थैर्य्याद् देहस्यापि स्थैर्यं ततश्च कर्मनिवृत्तिः, तन्निवृत्तौ तत्संस्काराणामपि क्षयः = दौर्बल्यम्, ततो ज्ञानस्य दीप्तिः, पूर्वाचार्यसम्मतिमाह – यदिति । महामोहमयेन = अविद्यया तन्मूलकर्मणा चारोपितेनान्यथाख्यातिरूपेणेन्द्रजालेन प्रकाशशीलं ययाऽर्थख्यातिस्वभावकं सत्त्वम् = बुद्धिसत्त्वमावृत्य = तदेव सत्त्वमकार्ये संसृतिहेतुभूतकार्ये नियुङ्क्ते, तदस्येति । स्पष्टम्, स्मर्यते च –
“दह्यन्ते ध्मायमानानां धातूनां हि यथा मलम् । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहाद् ॥ ” इति,
तथेति । सुगमम् ॥ ५२ ॥ किं च – धारणासु च योग्यता मनसः ॥ ५३ ॥ प्राणायामाभ्यासादेव। प्रच्छर्दनविधारणाभ्यां वा प्राणस्य इति वचनात् ॥ ५३ ॥ व्याख्या भास्वती
किञ्च – धारणासु हृदादौ चित्तबन्धनकारिणीषु योग्यता = सामर्थ्यं मनसो भवतीति प्राणायामाभ्यासादेव ॥ ५३ ॥ अथ कः प्रत्याहारः – स्वविषयासम्प्रयोगे चितस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४ ॥ स्वविषयसम्प्रयोगाभावे चित्तस्वरूपानुकार इवेति, चित्तनिरोधे चित्तवन्निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवदुपायान्तरमपेक्षन्ते। यथा मधुकरराजं मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनु निविशन्ते तथेन्द्रियाणि चित्तनिरोधे नीत्येष प्रत्याहारः ॥ ५४ ॥ व्याख्या भास्वती
स्वेति । स्वानां स्वविषये सम्प्रयोगाभावः = चित्तानुकारसामर्थ्याद् विषयसंयोगाभावः तस्मिन् सति तदा चित्तस्वरूपानुकारवन्तीवेन्द्रियाणि भवन्ति स एव प्रत्याहारः, तदा चित्ते निरुद्ध इन्द्रियाण्यपि निरुद्धानि = विषयज्ञानहीनानि भवन्ति, अपि च – चित्तंयदन्तर्मनुते रूपं वा शब्दं वा स्पर्शादि वा, चाक्षुर्ग्राह्यादीन्यापि तस्य तस्य दर्शनश्रवणादिमन्तीव भवन्ति, दृष्टान्तमाह – यथेति ॥ ५४ ॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ॥ शब्दादिष्वव्यसनमिन्द्रियजय इति केचित्। सक्तिर्व्यसनं व्यस्यत्येनं श्रेयस इति। अविरुद्धा प्रतिपत्तिर्न्याय्या। शब्दादिसम्प्रयोगः स्वेच्छयेत्यन्ये। रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित्। चित्तैकाग्र्यादप्रतिपत्तिरेवेति जैगीषव्यः। ततश्च परमा त्वियं वश्यता यच्चित्तनिरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत्प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिन इति ॥ ५५ ॥ व्याख्या भास्वती
प्रत्याहारफलमाह – तत इति । शब्दादीति । केषाञ्चिन्मते शब्दादिषु विषयेष्वव्सनमेवेन्द्रियजयः, व्यसनं = सक्तिः आसक्तिः = रागः, तेन श्रेयसः = कुशलाद् व्यस्यते क्षिप्यत इति, अन्ये वदन्ति अविरुद्धा = शास्त्रविहिता, प्रतिपत्तिः = विषयभोगः, न्याय्या इति स एवेन्द्रियजय इत्यर्थः, इतरे वदन्ति – स्वेच्छया शब्दादिसम्प्रयोगः = शब्दादिभोग इत्यर्थः, एवेन्द्रियजयः,
अपरमिन्द्रियजयमाह – रागेति । चित्तैकाग्र्यादप्रतिपत्तिः इन्द्रियज्ञानरोध एवेन्द्रियजय इति भगवतो जैगीषव्यस्य मतम्, एषैव परमा वश्यता, अन्येषु च प्रच्छन्नलौल्यं विद्यत इति ॥ ५५ ॥ विभूतिपादः उक्तानि पञ्च बहिरङ्गानि साधनानि। धारणावक्तव्या – देशबन्धश्चित्तस्य धारणा ॥ १ ॥ नाभिचक्रे हृदयपुण्डरीके मूर्ध्नि ज्योतिषि नासिकाग्रे जिह्वाग्र इत्येवमादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा ॥ १ ॥ व्याख्या भास्वती
देशेति । बाह्य आध्यात्मिके वा देशे यश्चित्तबन्धः = चेतसः; समास्थापनं सा धारणा, नाभिचक्राधिराध्यात्मिको देशः, तत्र साक्षादनुभवद्वारेण चित्तबन्धः, बाह्ये तु देशे वृत्तिमात्रेण बन्धः = तद्विषयया वृत्त्या चित्तं बध्यते ॥ १ ॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ २ ॥ तस्मिन्देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृशः प्रवाहः प्रत्त्ययान्तरेणापरामृष्टो ध्यानम् ॥ २ ॥ व्याख्या भास्वती
तस्मिन्निति । धारणाऽऽयत्ते देशे ध्येयालम्बनस्य प्रत्ययस्य = वृत्तेर्या एकतानता तैलधारावदेकतानप्रवाहः प्रत्ययान्तरेणापरामृष्टः = अन्यया वृत्याऽसम्मिश्रः प्रवाहस्तद्ध्यानम्, एकैव वृत्तिरुदितेत्त्यनुभूतिरेकतानता ॥ २ ॥ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३ ॥ ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति ध्येयस्वभावावेशात्तदा समाधिरित्युच्यते ॥ ३ ॥ व्याख्या भास्वती
ध्यानमिति । ध्यानमेव यदा ध्येयाकारनिर्भासं = ध्येयज्ञानादन्यज्ञानहीनम्, प्रत्ययात्मकेन स्वरूपेण शून्यमिव = ध्येयविषयस्य प्रख्यातौ तद्विषय एवास्ति नान्यद् ग्रहणादि किञ्चिदितीव ध्येयस्वभावावेशाद् भवति तदा तद्ध्यानं समाधिरित्युच्यते, विस्मृतग्रहीतृग्रहणभावो यदा ध्यायति तस्य तदा समाधिरित्यर्थः, पारिभाषिकोऽयं समाधिशब्दो ध्येयविषये चित्तस्थैर्यस्य काष्ठावाचाकः, यत्र क्व चन एव सम्यक् समाधानादन्यवृत्तिनिरोध एव सामान्यतः समाधिः, समाधिरूपमिदं चित्तस्थैर्यं लब्ध्वा गृहीतृग्रहणग्राह्यविषयकं सम्प्रज्ञानं साधयेत्, तस्मिन् सिद्धे सम्प्रज्ञातः, समाधिर्भवति, ततः सम्प्रज्ञानस्यापि निरोधात्, सर्ववृत्तिनिरोधरूपोऽसम्प्रज्ञातः समाधिः, यत्र कुत्र चित् सम्यक् चित्तस्थैर्यं, तथा च सम्प्रज्ञातरूपं चित्तस्थैर्यमसम्प्रज्ञातरूपमत्यन्तचित्तनिरोधञ्चेति सर्व एव समाधय इति ॥ ३ ॥ त्रयमेकत्र संयमः ॥ ४ ॥ तदेतद्धारणाध्यानसमाधित्रयमेकत्र संयम। एकविषयाणि त्रीणि साधनानि संयम इत्युच्यते। तदस्य त्रयस्य तान्त्रिकी परिभाषा संयम इति ॥ ४ ॥ व्याख्या भास्वती
एकेति । एकविषयान्येकविषये क्रियमाणानि त्रीणि साधनानि संयम इत्युच्यते, ननु समाधौ धारणाध्यानयोरन्तर्भावस्तस्मात् समाधिरेव संयमः, त्रयाणां समुल्लेखो व्यर्थ इति शङ्का एवमपनेया; ध्येयविषयस्य सर्वतः पुनः पुनः क्रियमाणानि धारणाऽऽदीनि संयम इति परिभाषितः, अतो नायं समाधिमात्रार्थकः ॥ ४ ॥ तज्जयात्प्रज्ञालोकः ॥ ५ ॥ तस्य संयमस्य जयात्ससमाधिप्रज्ञाया भवत्यालोको यथा यथा संयमः स्थिरपदो भवति तथा तथा समाधिप्रज्ञा विशारदी भवति ॥ ५ ॥ व्याख्या भास्वती
तस्येति । आलोकः = प्रज्ञाऽऽलोकस्योत्कर्ष इत्यर्थः, विशारदीभवति = स्वच्छीभवति, ज्ञानशक्तेश्वरमस्थैर्य्यात् सम्यक् च ध्येयनिष्ठत्वात् प्रज्ञाऽऽलोकः संयमाद् भवति ॥ ५ ॥ तस्य भूमिषु विनियोगः ॥ ६ ॥ तस्य संयमस्य जितभूमेर्याऽनन्तरा भूमिस्तत्र विनियोगः। न ह्यजिताधरभूमिरनन्तरभूमिं विलङ्घ्यप्रान्तभूमिषु संयमं लभते। तदभावाच्च कुतस्तस्य प्रज्ञालोकः। ईश्वरप्रसादाज्जितोत्तरभूमिकस्य च नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः। कस्मात्, तदर्थस्यान्यत एवावगतत्वात्। भूमेरस्या इयमनन्तरा भूमिरित्यत्र योग एवोपाध्यायः। कथम्। एवं ह्युक्तम् – योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्तते। योऽप्रमत्तस्तु योगेन स योगे रमते चिरम् ॥ इति ॥ ६ ॥ व्याख्या भास्वती
तस्येति । व्याचष्टे – अजिताधरभूमिः = अनायत्तनिम्नभूमिः योगी, तदिति । तदभावात् प्रान्तभूमिषु संयमाभावात् कुतस्तस्य योगिनः प्रज्ञोत्कर्षः, सुगममन्यत् ॥ ६ ॥ त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ७ ॥ तदेतद्धारणाध्यानसमाधित्रयमन्तरङ्गं सम्प्रज्ञातस्य समाधेः पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्य इति ॥ ७ ॥ व्याख्या भास्वती
तदिति । सुगमं भाष्यम् ॥ ७ ॥ तदपि बहिरङ्गं निर्बीजस्य ॥ ८ ॥ तदप्यन्तरङ्गं साधनत्रयं निर्बीजस्य योगस्य बहिरङ्गं भवति। कस्मात्, तदभावे भावादिति ॥ ८ ॥ व्याख्या भास्वती
तदपीति । तदभावे भावाद्, धारणाऽऽदिसबीजाभ्यासस्याभावे निवृत्तौ निर्बीजस्य प्रादुर्भावात्, परवैराग्यमेव तस्यान्तरङ्गमुक्तम् ॥ ८ ॥ अथ निरोधचित्तक्षणेषु चलं गुणवृत्तमिति कीदृशस्तदा चित्तपरिणामः – व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचितान्वयो निरोधपरिणामः ॥ ९ ॥ व्युत्थानसंस्काराश्चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्ययनिरोधे न निरुद्धा निरोधसंस्कारा अपि चित्तधर्मास्तयोरभिभवप्रादुर्भावौ व्युत्थानसंस्कारा हीयन्ते निरोधसंस्कारा आधीयन्ते। निरोधक्षणं चित्तमन्वेति तदेकस्य चित्तस्य प्रतिक्षणमिदं संस्कारान्यथात्वं निरोधपरिणामः। तदा संस्कारशेषं चित्तमिति निरोधसमाधौ व्याख्यातम् ॥ ९ ॥ व्याख्या भास्वती
अथेति । परिणामान् व्याचष्टे – अथ निरोधचित्तक्षनेषु = निरोधचित्तं = प्रत्ययशून्यं चित्तं, तदा शून्यमिव भवति चित्तं परिणामश्च तस्य न लक्ष्यते तदवस्था चित्तस्य परिणामः स्यात्, गुणवृत्तस्य = गुणकार्यस्य चलत्वात् = परिणामशीलत्वात्, कथं? तदाह – व्युत्थानेति । व्युत्थानसंस्काराः = प्रत्ययरूपेण चेतस उत्थानं व्युत्थानं, विक्षिप्तैकाग्र्यावस्थेति यावद्, अत्र हि –सम्प्रज्ञातरूपं व्युत्थानम्, तस्य संस्काराश्चित्तधर्माः, चित्तस्य संस्कारप्रत्ययधर्मकत्वात्, न ते संस्कारा न निरुद्धाः = नष्टाः, निरोधसंस्काराः = निरोधजसंस्काराः परवैराग्यरूपनिरोधप्रयत्नसंस्कारा इत्यर्थः ; अपि चित्तधर्मा तयोरभिभवप्रादुर्भावरूपोऽन्यथाभावः चित्तस्य निरोधपरिणामः = निरोधवृद्धिरूपः परिणामः, स च निरोधक्षणचित्तान्वयः = तदा निरोधक्षणम् = निरोध एव क्षणोऽवसरस्तदात्मकं चित्तं स निरोधपरिणामः, अन्वेति = अनुगच्छति, तादृशचित्तस्यैव धर्मिणः स परिणाम इत्यर्थः, निरोधे प्रत्ययाभावात् संस्कारधर्माणामेवात्र परिणाम एकस्य धर्मिणश्चित्तस्येति दिक् ॥ ९ ॥ तस्य प्रशान्तवाहिता संस्कारात् ॥ १० ॥ निरोधसंस्काराभ्यासपाटवापेक्षा प्रशान्तवाहिता चित्तस्य भवति। तत्संस्कारमान्द्ये व्युत्थानधर्मिणा संस्कारेण निरोधधर्मसंस्कारोऽभिभूयत इति ॥ १० ॥ व्याख्या भास्वती
निरोधेति । निरोधसंस्कारस्याभ्यासपाटवम् = अभ्यासेन तदाधानमित्यर्थः, तदपेक्षय जाता प्रशान्तवाहिता चित्तस्य भवति, प्रशान्तवाहिता = प्रशान्तरूपेण प्रत्ययहीनतया वाहिता प्रवहणशीलता, निरोधसंस्कारोपचयात् सा भवतीत्यर्थः ॥ १० ॥ सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ११ ॥ सर्वार्थता चित्तधर्मः। एकाग्रताऽपि चित्तधर्मः। सर्वार्थतायाः क्षयस्तिरोभाव इत्यर्थः। एकाग्रताया उदय आविर्भाव इत्यर्थः। तयोर्धमित्वेनानुगतं चित्तं, तदिदं चित्तमपायोपजनयोः स्वात्मभूतयोर्धर्मयोरनुगतं समाधीयते स चित्तस्य समाधिपरिणामः ॥ ११ ॥ व्याख्या भास्वती
सर्वार्थता = युगपदिव सर्वेन्द्रियेषु विषयग्रहणाय सञ्चरणशीलता, एकाग्रता = एकविषयता, अनयोर्धर्मयोः क्षयोदयरूपः परिणामः समाधिपरिणामः, तदिति । इदं चित्तम्; अपायोपजननयोः = क्षयोदयशीलयोः, स्वात्मभूतयोः स्वकीययोर्धर्मयोः = सर्वार्थतैकाग्रतयोरनुगतं भूत्वा समाधीयते = तद्धर्मपरिणामस्यानुगामी सम्प्रज्ञातसमाधिरित्यर्थः, अत्र प्रत्ययधर्माणां संस्कारधर्माणाञ्चान्यथाभावः, सर्वार्थताहीनसमाधिस्वभावेन समाधिप्रज्ञया च चित्तस्याभिसंस्कारः सम्प्रज्ञाताख्यः समाधिधरिणाम इति दिक् ॥ ११ ॥ ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥ समाहितचित्तस्य पूर्वप्रत्ययः शान्त उत्तरस्तत्सदृश उदितः, समाधिचित्तमुभयोरनुगतं पुनस्तथैवाऽऽसमाधिभ्रेषादिति। स खल्वयं धर्मिणश्चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥ व्याख्या भास्वती
तत इति । ततः = तदा समाधिकाले पुनरन्यो यः परिणामस्तल्लक्षणमाह – शान्तोदितौ = अतीतवर्त्तमानौतुल्यप्रत्ययौ = तुल्यौ च तौ प्रत्ययौ चेति, एतदुक्तं भवति – समाधिकाले पूर्वोत्तरकालभाविनौ प्रत्ययौ सदृशौ भवतः, अयं चित्तस्य धर्मिण एकाग्रतापरिणामः = विसदृशप्रत्ययोत्पादधर्मस्य क्षयः सदृशप्रत्ययोत्पादधर्मस्योपजन इत्ययं चित्तस्यान्यथाभावः, अस्मिन् प्रत्ययधर्माणामेवान्यथाभावः, तत्रादौ - विसदृशप्रत्ययानां सदृशीकरणं तादृश एकाग्रतापरिणामरूपः समाधिर्भवति, ततः समाधिसंस्काराधानात् सर्वार्थतारूपा ये प्रत्ययसंस्कारास्ते क्षीयन्ते, एकाग्रतारूपाश्च प्रत्ययसंस्कारा वर्धन्ते, ततः पुनर्निरोधप्रतिलम्भे निरोधसंस्कारः प्रचीयते, व्युत्थानसंस्काराः क्षीयन्ते, एवं चित्तस्य परिणामः ॥ १२ ॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ १३ ॥ एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः। तत्र व्युत्थाननिरोधयोर्धर्मयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः। लक्षणपरिणामश्च। निरोधस्त्रिलक्षणस्त्रिभिरध्वभिर्युक्तः। स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः। यत्रास्य स्वरूपेणाभिव्यक्तिः। एषोऽस्य द्वितीयोऽध्वा। न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः। तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्नम्। एषोऽस्य तृतीयोऽध्वा। न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम्। एवं पुनर्व्युत्थानमुपसम्पद्यमानमनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम्। यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः। एषोऽस्य द्वितीयोऽध्वा। न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तमिति। एवं पुनर्निरोध एवं पुनर्व्युत्थानमिति। तथाऽवस्थापरिणामः। तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इति। एष धर्माणामवस्थापरिणामः। तत्र धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानामप्यवस्थाभिः परिणाम इति। एवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणमपि गुणवृत्तमवतिष्ठते। चलं च गुणवृत्तम्। गुणस्वाभाव्यं तु प्रवृत्तिकारणमुक्तं गुणानामिति। एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात्त्रिविधः परिणामो वेदितव्यः। परमार्थतस्त्वेक एव परिणामः। धर्मिस्वरूपमात्रो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति। तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वं भवति नतु द्रव्यान्यथात्वम्। यथा सुवर्णभाजनस्य भित्त्वाऽन्यथाक्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वमिति। अपर आह – धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात्। पूर्वापरावस्थाभेदमनुपतितः कौटस्थ्येनैव परिवर्तेत यद्यन्वयी स्यादिति। अयमदोषः। कस्मात्। एकान्ततानभ्युपगमात्। तदेतत्त्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात्। अपेतमप्यस्ति विनाशप्रतिषेधात्। संसर्गाच्चास्य सौक्ष्म्यं, सौक्ष्म्याच्चानुपलब्धिरिति। लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतवर्तमानाभ्यां लक्षणाभ्यामवियुक्तः। तथाऽनागतोऽनागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः। तथा वर्तमानो वर्तमानलक्षणयुक्तोऽतीतानागताभ्यां लक्षणाभ्यामवियुक्त इति। यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति। अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगादध्वसङ्करः प्राप्नोतीति परैर्दोषश्चोद्यत इति। तस्य परिहारः – धर्माणां धर्मत्वमप्रसाध्यम्। सति च धर्मत्वे लक्षणभेदोऽपि वाच्यो न वर्तमानसमय एवास्य धर्मत्वम्। एवं, हि न चित्तं रागधर्मकं स्यात्क्रोधकाले रागस्यासमुदाचारादिति। किञ्च त्रयाणां लक्षणानां युगपदेकस्यां व्यक्तौ नास्ति सम्भवः। क्रमेण तु स्वव्यञ्जकाञ्जनस्य भावो भवेदिति। उक्तं च रूपातिशया वृत्त्यतिशयाश्च विरुध्यन्ते, सामान्यानि त्वतिशयैः सह प्रवर्तन्ते। तस्मादसङ्करः। यथा रागस्यैव क्वचित्समुदाचार इति न तदानीमन्यत्राभावः किन्तु केवलं सामान्येन समन्वागत इत्यस्ति तदा तत्र तस्य भावः। तथा लक्षणस्येति। न धर्मी त्र्यध्वा धर्मास्तु त्र्यध्वानस्ते लक्षिता अलक्षितास्तत्र लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः। यथैका रेखा शतस्थाने शतं दशस्थाने दशैका चैकस्थाने। यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति। अवस्थापरणामे कौटस्थ्यप्रसङ्गदोषः कैश्चिदुक्तम्। कथम्। अध्वनो व्यापारेण व्यवहितत्वात्। यदा धर्मः स्वव्यापारं न करोति तदाऽनागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तस्तदाऽतीत इत्येवं धर्मधर्मिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते। नासौ दोषः। कस्मात्। गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात्। यथा संस्थानमादिमद्धर्ममात्रं शब्दादीनां गुणानां विनाश्यविनाशिनामेवं लिङ्गमादिमद्धर्ममात्रं सत्त्वादीनां गुणानां विनाश्यविनाशिनां तस्मिन्विकारसञ्ज्ञेति। तत्रेदमुदाहरणं मृद्धर्मी पिण्डाकाराद्धर्माद्धर्मान्तरमुपसम्पद्यमानो धर्मतः परिणमते घटाकार इति। घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते। घटो नवपुराणतां प्रतिक्षणमनुभवन्नवस्थापरिणामं प्रतिपद्यत इति। धर्भिणोऽपि धर्मान्तरमवस्था धर्मस्यापि लक्षणान्तरमवस्थेत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति। एवं पदार्थान्तरेष्वपि योज्यमिति। त एते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक एव परिणामः सर्वानमून्विशेषानभिप्लवते। अथ कोऽयं परिणामः। अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परणाम इति ॥ १३ ॥ व्याख्या भास्वती
परिणामस्तु व्यवहारभेदात् त्रिविधः – धर्मलक्षणावस्था इति । यथा चित्तस्य परिणामस्तथा भूतेन्द्रियाणामपि, तत्र धर्मपरिणामः = धर्माणामन्यथात्वम्, लक्षणपरिणामः = लक्षणं कालः, अतीतानागतवर्त्तमानकालैर्लक्षित्वा यद् भेदेन मननम् अवस्थापरिणामः = नवत्वादिरवस्थाभेदः, यत्र धर्मलक्षणभेदयोर्विवक्षा नास्ति, एष धर्मपरिणाम एव वास्तवो लक्षणावस्थापरिणामौ च काल्पनिकौ, निरोधं गृहीत्वा लक्षणपरिणाममुदाहरति – निरोधस्त्रिलक्षणः त्रिभिरध्वभिरतीतानागतादिकालभेदैर्युक्तः, अनागतो निरोधोऽनागतलक्षणम् अध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तः = प्राग् यो निरोधोऽनागतो धर्म आसीत् स एव वर्त्तमानधर्मो भूत इत्यर्थः, यत्रास्य स्वरूपेण = व्याप्रियमाणविशेष स्वरूपेणाभिव्यक्तिः, नेति । अनागतो निरोधरूपो धर्मो वर्त्तमानभूतोऽतीतो भविष्यतीति त्रिलक्षणावियुक्तः, निरोधकाले तु व्युत्थानमतीतम्, एषः = अतीतत्वम् अस्य = धर्मस्य तृतीयोऽध्वा, अतः परं व्युत्थानमित्यन्तमतिरोहितम्, उपसम्पद्यमानं = जायमानम्, तथेति । निरोधक्षणे वर्त्तमान एव निरोधधर्मो बलवानित्यत्र नास्त्यध्वभेदस्य वर्धमानत्वस्य च विवक्षा; किन्तु काञ्चिदवस्थामपेक्ष्य भेदवचनं कृतं भवति, ईदृशो भेदोऽवस्थापरिणामः, तत्र भूतेन्द्रियादिधर्मिणो नीलपीतान्ध्यादिधर्मैः परिणमन्ते, नीलादिधर्माः पुनरतीतादिलक्षणैः परिणता इति मन्यन्ते, बलवानयं वर्त्तमानो दुर्बलोऽयमतीत इत्येवं लक्षणान्यवस्थाभिर्भिन्नानीति व्यवह्रियन्ते, एवमिति । गुणवृत्तम् = महादादिगुणविकारः, सदैव परिणामि, गुणवृत्तस्य चलत्वे हेतुर्गुणस्वभाव्यम्, क्रियाशीलं रज इत्यनेन तत्तूक्तं, क्रियारूपा प्रवृत्तिर्दृश्यस्यान्यतमो मूलस्वभावः, एतेनेति । धर्मधर्मिभेदभिन्नेषु भूतेन्द्रियेषूक्तस्त्रिविधः परिणामो व्यवहारप्रतिपन्नः, परमार्थतस्तु = यथाऽर्थत एक एव धर्मपरिणामोऽस्त्यन्यौ काल्पनिकावित्यर्थः, कथं? तदाह – धर्मः = ज्ञातगुणः, धर्मी = ज्ञातगुणानामाश्रयः, कारणस्य धर्मः कार्यस्य धर्मी, अतो धर्मो धर्मिस्वरूपमात्रः = घटत्वादिधर्मास्तद्धर्मिमृत्स्वरूपा एवेत्यर्थः, धर्मिणो विक्रिया परिणामः, धर्मद्वारा धर्मान्तरोदयद्वारा प्रपञ्चते व्यज्यते, तत्रेति । धर्मिणि वर्त्तमानस्य धर्मस्य त्रिष्वध्वसु भावान्यथात्वं = अवस्थाऽन्यत्वं भवति न द्रव्यान्यथात्वं = एकरूप एव धर्मोऽतीतोऽनागतो वा वर्त्तमानो वा भवतीत्यर्थः, यथा – सुवर्णभाजनस्य भित्त्वाऽन्यथाक्रियमाणस्य = मुद्गरादिना भित्त्वा कुन्डलादिरूपेणानयथा क्रियमास्य, भावान्यथात्वं = संस्थानान्यथात्वं –धर्मान्तरोदयेनेत्यर्थो भवति न सुवर्णद्रव्यस्यान्यथात्वम्,
अपर आह – इति । धर्मेभ्योऽनाभ्यधिकः = अनतिरिक्तोऽभिन्न इत्यर्थः, धर्मी, पूर्वतत्त्वस्य = पूर्वस्य प्रत्ययरूपस्य धर्मिणस्तत्त्वानतिक्रमात् = स्वभावानतिक्रमाद्, यो भवतां धर्मी सोऽस्माकं प्रत्ययधर्मो यस्तु भवतां धर्मः सोऽस्माकं प्रतीत्यधर्मः, अतः सर्वे धर्म एवेत्येकान्ताभेदवादिना मतं, ते च वदन्ति – यदि धर्मी धर्मेभ्यो भिन्नः स्यात् तदा स कूटस्थः स्ताद् यतो धर्मा एव परिणमन्ते तर्हि तेषु सामान्यतोऽनुगतो धर्मी परिणामहीनः स्यादिति, एतत् विवृणोति – पूर्वेति । पूर्वापरावस्थाभेदं = धर्मान्यत्वरूपम्, अनुपतितोऽनुपातिमात्रः सन् भवतां धर्मी कौटस्थ्येन = निर्विकार नित्यत्वेन, विपरिवर्त्तेत = परिणामस्वरूपं हित्त्वा कूटस्थरूपेण परिवर्त्तेत, यदि स धर्मी अन्वयी = सर्वधर्मानुगत एकः स्यात्,
उत्तरमाह - अयमदोषः = एषा शङ्का निःसारा, कस्माद् एकानतानभ्युपगमात् = एकान्तनित्यं दृश्यद्रव्यमिति वादस्यानभ्युपगमाद् = अस्मन्मतेऽस्वीकारात्, तदेतदिति । अस्मन्मते - दृश्यद्रव्यं परिणामनित्यं न कूटस्थनित्यम्, तदेतत् त्रैलोक्यम् व्यक्ताभावः व्यक्तेः = व्यक्तावस्थायाः, अपैति = अपगच्छति लीयत इति यावत्, कस्य चिद् व्यक्त्भावस्यैकस्वरूपेण नित्यत्वप्रतिषेधात्, अपेतः = लीनः, अप्यस्ति कस्य चिद् विनाशप्रतिषेधात् = अत्यन्तनाशास्वीकारात् संसर्गात् = कारणाविविक्तरूपेणावस्थानाच्चास्य सूक्ष्मता ततश्चानुपलब्धिर्नात्यन्तनाशादिति । लक्षणेति । भविष्यरागो वर्त्तमानो भूत्वाऽतीतो भवतीति त्र्यध्वयोगरूपः परिणामभेदो वाच्यो भवति, एतदेव स्फोरयति – यथेति । अत्रेति । एतत् परे एवं दूषयन्ति – सर्वस्यैकदा सर्वलक्षणयोगेऽध्वसङ्करः = त्रिकालसङ्करः प्राप्नोतीति, अस्य परिहारो रागकाले द्वेषोऽपि विद्यते, उभययोर्वर्त्तमानत्वेऽपि न सङ्करः, तदाऽनभिव्यक्तो द्वेषो भविष्यो भूतो वेति वाच्यो भवत्येवं व्यवहारसिद्धिरेव लक्षणपरिणामः, धर्माणां धर्मत्वं विकारशीलगुणत्वमित्यर्थः, अप्रसाध्यम् = असाधनीयम् प्राक् साधितत्वादित्यर्थः, सति च = सिद्धे धर्मत्वे लक्षणभेदोऽपि वाच्यो भवति, अन्यथा व्यवहारासिद्धेः, यतो न वर्त्तमानकाल एवास्य धर्मस्य धर्मत्वं = क्रोधकाले रागस्यावर्त्तमानत्वेऽपि चित्तं भविष्यरागधर्मकमिति वाच्यं भवतीत्यर्थः, कस्य चिद् धर्मस्य समुदाचारात् = व्यक्तीभावात्, तद्धर्मवानयं धर्मी इति वाच्यो भवति नाधुनाऽन्यधर्मवानिति च, एवं क्रोधकाले क्रोधधर्मवच्चित्तम् न रागधर्मकमित्युच्यते, न च तद्वचनाच्छित्तं भविष्यराग धर्महीनमित्युक्तम् भवतीत्यर्थः,
किञ्चेति । अतीतानागतवध्वानाववर्त्तमानौ, अतीतश्च बभूवान् अनागतश्च व्यङ्ग्यः, एवं त्रयाणां भेदः, तद्भेदस्य च वाचकत्वेनातीतादिशब्दा व्यवह्रियन्ते, अतो युगपदेकस्याव्यक्तौ तेषां सम्भव इत्युक्तिर्विरुद्धा, स्वव्यञ्जकाञ्जनो धर्मोऽनागतत्वम् हित्वा वर्त्तमानत्वं प्राप्नोति ततोऽतीतो भवतीति क्रम एवास्मिन् लक्षणपरिणामवचनेऽध्याहार्योऽस्तीत्यर्थः,उक्तञ्च पञ्चशिखाचार्येण = रूपेति । प्राग्व्याख्यातम्, अतिशयिनां समुदाचरतां रूपादीनां वर्त्तमानलक्षणत्वं, तद्विरुद्धानाञ्चातीतादिलक्षणत्वमित्यस्मादसङ्करत्वं सिद्धमित्यर्थः नेति । न धर्मी त्र्यध्वा = यद् द्रव्यं धर्मीति मन्यते न तत् त्र्यध्वा, ते धर्मास्ते तु = त्र्यध्वानः, ते लक्षिताः = अभिव्यक्ता वर्त्तमानाः, अलक्षिताः = अवर्त्तमाना अनभिव्यक्ताः, तान्ताम् = अभिव्यक्तिमनभिव्यक्तिमवस्थां प्राप्नुवन्तोऽन्यत्वेन = अतीतादिलक्षणेन प्रतिनिर्दिष्यन्ते, तत्तदवस्थाऽन्तरता न द्रव्यान्तरतः, अवस्थेति । परोक्तं दोषमुत्थापयति अध्वनो व्यापारेण = वर्त्तमानाध्वलक्षितस्यान्यस्य धर्मस्य व्यापारेण यदा व्यवहितः कश्चिद् धर्मः स्वव्यापारं न करोति तदाऽनागतः, तद्व्यवधानरहितो यदा व्याप्रियते तदा वर्त्तमानः, यदा कृत्वा निवृत्तस्तदाऽतीत इति प्राप्ते शङ्कको वक्ति भवन्नय एवं धर्मधर्मिलक्षणावस्थानां सदा सत्त्वात् तेषां नित्यताऽऽयायात् ततश्च चितिवत् कौटस्थ्यमिति, अस्य परिहारः – नासौ दोषः कस्माद्? नित्यत्वमेव कौटस्थ्यमिति न वयं सङ्गिरामहे, अस्मन्नये नित्यत्वमेव न कौटस्थ्यम्, नित्यता सदा सत्ता, तादृगपि द्रव्यं परिणमते यथा त्रैगुण्यं, गुणिनित्यत्वेऽपि = गुणमपेक्ष्य गुणिनो नित्यत्वेऽपि = अविनाशित्वेऽपि, गुणानां = धर्माणां विमर्द्दवैचित्र्यात् = विमर्दाल्लयोदयारूपविकारशीलत्वाद् वैचित्र्यम् = आनन्त्यम्, अनन्तपरिणामोऽकौटस्थ्यमित्यर्थः, इत्यस्माकमभ्युपगमः, तस्मान्नित्यत्वेऽप्यकौटस्थ्यं गुणिगुणानाम्, गुणिषु प्रधानमेव नित्यं किन्तु परिणामस्वभावकमितरेषु कार्यमपेक्ष्य कारणस्य नित्यत्वमविनाशित्वं वा उदाहरणैरेतत् स्फोरयति – यथेति । यथासंस्थानम् = आकाशादिभूतात्मकं संस्थानमादिमत् परोत्पन्नं धर्ममात्रं विनाशी शब्दादीनां = तत्कारणानां शब्दादितन्मात्राणामविनाशिनां = स्वकार्याणि भूतान्यपेक्ष्याविनाशिनां, तथा लिङ्गमात्रं महत्तत्त्वमादिमद् विनाशि धर्ममात्रं स्वकारणानामविनाशिनां सत्त्वादिगुणानां, सत्त्वादिगुणानामविनाशित्वं सम्यगेव निष्कारणत्वाद् न तेषामस्ति कारणं यदपेक्षया ते विनाशिनः स्युः, तस्मिन् महादादिद्रव्ये विकारसञ्ज्ञा, तात्त्विकमुदाहरणमुक्त्वा लौकिकमुदाहरणमाह – तत्रेति । सुगमम्, घटो नवपुराणतां = नवपुराणताऽऽख्यं वैकल्पिकं कालज्ञानजन्यमवस्थानम्, न त्वत्र कश्चिद् धर्मभेदो विवक्षितोऽस्ति, अनुभवन् = न हि वस्तुतो घटो वैकल्पिकं तदवस्थाभेदमनुभवति किन्तु घटज्ञः कश्चित् पुरुष एव तमनुभवन् मन्यते नवोऽयं घटः पुराणोऽयमित्यादि, घटस्य जीर्णताऽऽदयो नात्र विवक्षितास्ते हि धर्मपरिणामान्तर्गता इति विवेच्यम्, धर्मिण इति । अवस्था = देशकालभेदेनावस्थानम्, न चावस्थापरिणामः, अतः कस्य चिद्धर्मस्य वर्त्तमानता कस्यचिदवर्त्तमानता वा कालिकावस्थानभेद एव, एवं व्यक्ताव्यक्तस्थौल्यसौक्ष्म्यव्यवहिताव्यवहितसन्निकृष्टविप्रकृष्टाः सर्वे परिणामरूपा भेदा अवस्थानभेद एवेति वक्तव्यम्, अतश्चावस्थानभेदरूप एक एव परिणामो धर्मादिभेदेनोपदशितः, एवमिति । उदाहरणान्तरेष्वपि समानो विचारः, एत इति । पूर्वोक्तमुत्थापयन्नुपसंहरति – अवस्थितस्येति । न च शून्यताप्राप्तस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोदय इति सामान्यं परिणामलक्षणम्, स च परिणामो न धर्मिस्वरूपमतिक्रामति किन्तु धर्म्याश्रयो धर्म्यनुगत एवं व्यवह्रियते, एवं धर्म्यनुगतो धर्मान्यथारूप एक एव परिणामः सर्वानमून् = धर्मलक्षणावस्थारूपान् विशेषान् = परिणामभेदानभिप्लवते = व्याप्नोतीत्यर्थः ॥ १३ ॥ तत्र – शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥ योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः। स च फलप्रसवभेदानुमित एकस्यान्योऽन्यश्च परिदृष्टः। तत्र वर्तमानः स्वव्यापारमनुभवन्धर्मी धर्मान्तरेभ्यः शान्तेभ्यश्चाव्यपदेश्येभ्यश्च भिद्यते। यदा तु सामान्येन समन्वागतो भवति तदा धर्मिस्वरूपमात्रत्वात्कोऽसौ केन भिद्येत। तत्र ये खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्या श्चेति, तत्र शान्ता ये कृत्वा व्यापारानुपरताः सव्यापारा उदितास्ते चानागतस्य लक्षणस्य समनन्तरा वर्तमानस्यानन्तरा अतीताः। किमर्थमतीतस्यानन्तरा न भवन्ति वर्तमानाः, पूर्वपश्चिमताया अभावात्। यथाऽनागतवर्तमानयोः पूर्वपश्चिमता नैवमतीतस्य। तस्मान्नातीतस्यास्ति समनन्तरः। तदनागत एव समनन्तरो भवति वर्तमानस्येति। अथाव्यपदेश्याः के। सर्वं सर्वात्मकमिति। यत्रोक्तम् – जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम्। तथा स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्वित्येवं जात्यनुच्छेदेन सर्वं सर्वात्मकमिति। देशकालाकारनिमित्तापबन्धान्न खलु समानकालमात्मनामभिव्यक्तिरिति। य एतेष्वभिव्यक्तानभिव्यक्तेषु धर्मेष्वनुपाती सामान्यविशेषात्मा सोऽन्वयी धर्मी। यस्य तु धर्ममात्रमेवेदं निरन्वयं तस्य भोगाभावः। कस्मात्, अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत्कथं भोक्तृत्वेनाधिक्रियेत। तत्स्मृत्यभावश्च नान्यदृष्टस्य स्मरणमन्यस्यास्तीति। वस्तुप्रत्यभिज्ञानाच्च स्थितोऽन्वयी धर्मी यो धर्मान्यथात्वमभ्युपगतः प्रत्यभिज्ञायते। तस्मान्नेदं धर्ममात्रं निरन्वयमिति ॥ १४ ॥ व्याख्या भास्वती
योग्यतेति । धर्मिणो योग्यताऽवच्छिन्ना = योग्यता = प्रकाशयोग्यता, क्रियायोग्यता स्थितियोग्यता चेति, एताभिर्ज्ञेययोग्यताभिरवच्छिन्ना = तत्तद्योग्यतामात्रस्य या प्रातिस्विकी जनानशक्तिरित्यर्थः, स एव धर्मः तस्य च धर्मस्य यथायोग्यफलप्रसवभेदात् सद्भावः = पूर्वपरास्तितत्वमनुमानप्रमाणेन ज्ञायते, एकस्य च धर्मिणोऽन्योन्यश्च बह्वसङ्ख्यात इति यावद् धर्मः परिदृश्यते, अत्रेदमूहनीयम् – पदार्थनिष्ठो ज्ञातभावो धर्मः, धर्मेणैव पदार्था ज्ञायन्ते, अतो धर्माः, प्रमाणादिसर्ववृत्तिविषयाः, ते च मूलतस्त्रिविधः – प्रकाशधर्माः, क्रियाधर्माः, स्थितिधर्माश्चेति, ते पुनस्त्रितया वास्तवाश्चारोपिताश्च तथाऽवास्त्ववैकल्पिकाश्चेति, सर्व एते पुनर्लक्षणभेदाच्छान्ता वा उदिता वा अव्यपदेश्या वेति विभज्यते, तत्र कति चिद् धर्माउदिताः शान्ता अव्यपदेश्याश्चासङ्ख्याता इति, तत्रेति । वर्त्तमानधर्मा अव्यापारकृताः, अतीतानागता धर्मा धर्मिणि सामान्येन = अभिन्नभावेन समन्वागताः, तदा ते धर्मिस्वरूपमात्रेण तिष्ठन्ति, यथा घटत्वधर्म उदिते पिण्डत्वचूर्णात्वादयो मृत्स्वरूपेणैव तिष्ठन्ति तत्र त्रयमिति । सुगमम्, तदिति । तत् = तस्मात् ॥ १४ ॥
अथेति । अव्यपदेश्या धर्मा असङ्ख्याताः, तैः सर्ववस्तूनां सर्वसम्भवयोग्यता, अत्रोक्तं पूर्वाचार्यैः – जलभूम्योः परिणामभूतं रसादि वैश्वरूप्यं विचित्ररसादिस्वरूपं स्थावरेषूद्भिज्जेषु दृष्टं, तथा स्थावराणां विचित्रपरिणामो जङ्गमप्राणिषूद्भिज्जेषु, जङ्गमानामपि तथा स्थावरपरिणामः, एवं जात्यनुच्छेदेन = जलभूम्यादिजातेरनुच्छेदेन, धर्मिरूपेण जलादिजातेर्वर्त्तमानत्वं तेनेत्यर्थः, सर्वे सर्वात्मकमिति । देशेति । सर्वस्य सर्वात्मकत्वेऽपि न हि सर्वपरिणामोऽकस्माद् भवति स तु देशादिनियमितो भवति, देशकालाकारनिमित्तापबन्धाद् = अयोग्यदेशादिप्रतिबन्धकाद् न समानकालमेकदा आत्मनाम् = भावानामभिव्यक्तिः,देशकालापबन्धो नैकस्मिन् देशे नीलपीतयोर्धर्मयोर्युगपदभिव्यक्तिः, आकारापबन्धः = न हि चतुरस्रमुद्रया त्रिकोणलाञ्छनम्, निमित्तम् = अन्यदुद्भवकारणं, यथाऽभ्यासादेव चित्तस्थितिरित्यादि, अभ्यासरूपनिमित्तापबन्धाद् चित्तस्य स्थितिः स्यात्, अभिव्यक्तेः प्रतिबन्धभूतादयोग्यदेशादेरपगमादेवाभिव्यक्तिर्नाकस्माद्,
य इति । यः पदार्थ एतेषूक्तलक्षनेष्वभिव्यक्तानभिव्यक्तेषु धर्मेश्वनुपाती = तादृशाः सर्वे धर्मा यन्निष्ठा इति बुध्यते स सामान्यविशेषात्मा = सामान्यरूपेण स्थिता अतीतानागता धर्माः, विशेषरूपेणाभिव्यक्ता वर्त्तमानधर्मस्तदात्मा = तत्स्वरूपः, अन्वयी = बहुधर्माणामाश्रयरूपो व्यवह्रियमाणः पदार्थो धर्मी,
यस्य त्विति । “एकतत्त्वाभ्यास” इति सूत्रव्याख्याने यत् कृतं वैनाशिकदर्शनखण्डनं तत् सङ्क्षेपतो वक्ति, सुगमं, वैनाशिकनये = भोगाभावः, स्मृत्यभावः, तथा च – योऽहमद्राक्षं सोऽहं स्प्रुशामीति प्रत्यभिज्ञाऽसङ्गतिरिति प्रसज्येत, तस्मात् स्थितः = अस्त्यन्वयी धर्मी यो धर्मान्यथात्वमभ्युपगतः = यो धर्मेश्वेकरूपेण स्थितो यस्य च धर्मोऽन्यथात्वं प्राप्नोतीत्यनुभूयमानः प्रत्यभिज्ञायते, तस्मान्नेदं विश्वं धर्ममात्रं, प्रतीतिमात्रम् निरन्वयं =शून्यमूलकमित्यर्थः ॥ १४ ॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥ एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर्भवतीति। तद्यथा चूर्णमृत्पिण्डमृद्घटमृत्कपालमृत्कणमृदिति च क्रमः। यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः। पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः। लक्षणपरिणामक्रमो घटस्यानागतभावाद्वर्तमानभावः क्रमः। तथा पिण्डस्य वर्तमानभावादतीतभावः क्रमः। नातीतस्यास्ति क्रमः। कस्मात्। पूर्वपरतायां सत्यां समनन्तरत्वं, सा तु नास्त्यतीतस्य। तस्माद्द्वयोरेव लक्षणयोः क्रमः। तथाऽवस्थापरिणामक्रमोऽपि घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते। सा च क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिमापद्यत इति। धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति। त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः। धर्मोऽपि धर्मी भवत्यन्यधर्मस्वरूपापेक्षयेति। यदा तु परमार्थतो धर्मिण्यभेदोपचारस्तद्द्वारेण स एवाभिधीयते धर्मस्तदाऽयमेकत्वेनैव क्रमः प्रत्यवभासते। चित्तस्य द्वये धर्माः परिदृष्टाश्चापरिदृष्टाश्च। तत्र प्रत्ययात्मकाः परिदृष्टा वस्तुमात्रात्मका अपरिदृष्टाः। ते च सप्तैव भवन्त्यनुमानेन प्रापितवस्तुमात्रसद्भावाः । निरोधधर्मसंस्काराः परिणामोऽथ जीवनम् । चेष्टा शक्तिश्च चित्तस्य धर्मा दर्शनवर्जिताः ॥ इति ॥ १५ ॥ व्याख्या भास्वती
एकस्येति । एकस्य धर्मिण एकस्मिन्नेव क्षण एक एव परिणाम इति प्रसके = प्राप्त इत्यर्थः, परिणामान्यत्वस्य गोचरीभूतस्य कारणं क्षणिकान्यत्वक्रमः, य इति । क्रमलक्षणमाह – कस्य चिद् धर्मस्य समनन्तरधर्मः = अव्यवहितपरवर्त्ती धर्मः,पूर्वस्य क्रम इत्यर्थः,यथा=पिण्डेत्यस्य धर्मपरिणामक्रमस्तत्पश्चाद्भावी घटधर्मः, तथाऽवस्थेति । न च घटस्य पुराणताऽत्र जीर्णता,जीर्णता हि धर्मपरिणामः, एकधर्मलक्षणाक्रान्तस्य घटस्योत्पत्तिकालमपेक्ष्य भेदविवक्षयोच्यते ऽभिनवोऽयं पुराणोऽयमिति, घटस्य देशान्तरावस्थानमप्यवस्थापरिणामः,उदाहरणमिदं घठस्वरूपामेकामुदितधर्मसमष्टिं गृहीत्वोक्तं, तत्र वर्त्तमानलक्षणकघटत्वधर्मस्य नास्ति धर्मान्तरत्वं नास्ति च लक्षणान्यत्वं,तथापि च यः परिणामो वक्तव्यः भवति सोऽवस्थापरिणाम इति दिक्, धर्मिरूपेण मतस्य घटधर्मिणः परिणामो यत्र वक्तव्यो भवेत् तत्र विवर्णताजीर्णताऽऽदयोऽपि धर्मपरिणामः स्यात्, सा चेति । सा च पुराणता =तत्कालावच्छिन्नाः सर्वेऽवस्थापरिणामा इत्यर्थः, क्षणपरम्पराऽनुपातिना = क्षणपरम्पराऽनुगामिना , क्रमेण =क्षणव्यापिपरिणतिक्रमेणेतियर्थः, अभिव्यज्यमाना परां व्यक्तिं=लोकगोचरत्वमित्यर्थः, आपाद्यतइति । धर्मलक्षणाभ्यां विशिष्टः=धर्मलक्षणभेदविवक्षाऽसत्त्वेऽपि तदन्यो यदवस्थाऽपेक्षया भेदवचनं स तृतीयोऽयं परिणामः, त एत इति । एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपा न्यायेनानुचिन्तनीयाः कथं तद् व्याख्यातप्रायं, धर्मोऽपि धर्मी भवत्यन्यधर्मापेक्षया, यथा-घटो धर्मी जीर्णताऽऽदयस्तस्य धर्माः,मृद् धर्मी पिण्डत्वघटत्वादयस्तस्य धर्माः, भूतधर्मा धर्मिणस्तेषां भौतिकानि धर्माः, तन्मात्रधर्मा धर्मिणस्तेषां भूतधर्मास्तु धर्माः, अभिमानो धर्मी तन्मत्रेन्द्रियाणि तस्य धर्माः, लिङ्गमात्रस्य धर्मोऽहङ्कारः,प्रधानं धार्मि लिङ्गं तस्य धर्मः, न च त्रैगुण्यं कस्य चिद् धर्मः, अतः परमार्थतो मूलधर्मिणि प्रधाने धर्मधर्मिणोरभेदोपचार एकत्वप्रतीतिस्तद्द्वारेण=अभेदोपचारद्वारेण सः=मूलधर्मी एवाभिधीयते धर्म इति, तदाऽयं क्रमः-एकत्वेन = परिणामक्रमेणैव प्रत्यवभासते, गुणानामभिभाव्याभिभावकरूपा तदैका विक्रिया वक्तव्या भवतीत्यर्थः, चित्तस्येति । चित्तस्य द्वये =द्विधा धर्माः परिदृष्टाः = अनुभूयमानाः प्रमाणादिप्रत्ययरूपाः, अपरिदृष्टाः=वस्तुमात्रात्मकाः संस्काररूपेण स्थितिस्वभावास्तत्कार्येण लिङ्गेन तत्सत्ताऽनुमीयते, ते यथा निरोधः=संस्कारशेषः, धर्मः=धर्माधर्मकर्माशयः, संस्कारः=वासनारूपः, परिणामः=असंविदितविक्रिया, जीवनम्=चित्तेन प्राणप्रेरणा,
श्रूयते च –
“मनः कृतेनायात्यस्मिच्छरीरे” इति,
चेष्टाः=अविदिता क्रिया, शक्तिः=क्रियाजननी, इत्येते सप्त दशनवर्जिताश्चित्तधर्माः ॥ १५ ॥ अतो योगिन उपात्तसर्वसाधनस्य बुभुत्सितार्थप्रतिपत्तये संयमस्य विषय उपक्षिप्यते – परिणामत्रयसंयमादतीतानागतज्ञानम् ॥ १६ ॥ धर्मलक्षणावस्थापरिणामेषु संयमाद्योगिनां भवत्यतीतानागतज्ञानम्। धारणाध्यानसमाधित्रयमेकत्र संयम उक्तः। तेन परिणामत्रयं साक्षात्क्रियमाणमतीतानागतज्ञानं तेषु सम्पादयति ॥ १६ ॥ व्याख्या भास्वती
अतइति । अतोऽतः परमुपात्तसर्वसाधनस्य=संयमसिद्धस्य बुभुत्सितार्थप्रतिपत्तये=जिज्ञासितविषयबोधाय संयमस्य विषय उपक्षिप्यते उपदिश्यत इत्यर्थः, धर्मेति । क्षणव्यापी परिणाम एव सूक्ष्मतमो विशेषो विषयस्य, संयमेन तस्य तत्क्रमस्य च साक्षात्करणात् सर्वभावानां निमित्तोपादानं साक्षात् कृतं भवति ततश्चातीतानागतज्ञानम्, धारणेति । तेन=संयमेन परिणामत्रयं साक्षात् क्रियमाणं सर्वतो विषयस्य क्रमतो धारणां प्रयोज्य ततो ध्यायेत् ततः समाहितो भूत्वा साक्षात् कुर्याद्, एवं क्रियमाणे तेषु विषयेष्वतीतानागतं ज्ञानं सम्पादयति ॥ १६ ॥ शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ १७ ॥ तत्र वाग्वर्णेष्वेवार्थवती। श्रोत्रं च धवनिपरिणाममात्रविषयम्। पदं पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यमिति। वर्णा एकसमयासम्भवित्वात्परस्परनिरनुग्रहात्मानस्ते पदमसंस्पृश्यानुपस्थाप्याऽऽविर्भूता-स्तिरोभूताश्चेति प्रत्येकमपदस्वरूपा उच्यन्ते। वर्णः पुनरेकैकः पदात्मा सर्वाभिधानशक्तिप्रचितःसहकारिवर्णान्तर-प्रतियोगित्वाद्वैश्वरूप्यमिवाऽऽपन्नः पूर्वश्चोत्तरेणोत्तरश्च पूर्वेण विशेषेऽवस्थापित इत्येवं बहवो वर्णाः क्रमानुरोधिनोऽर्थसङ्केतेनावच्छिन्ना इयन्त एते सर्वाभिधानशक्तिपरिवृता गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थं द्योतयन्तीति। तदेतेषामर्थसङ्केतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस्तत्पदं वाचकं वाच्यस्य सङ्केत्यते। तदेकं पदमेकबुद्धिविषय एकप्रयत्नाक्षिप्तमभागमक्रममवर्णं बौद्धमन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्णैरेवाभिधीयमानैः श्रूयमाणैश्च श्रोतृभिरनादिवाग्व्यवहारवासनानुविद्धया लोकबुद्ध्या सिद्धवत्सम्प्रतिपत्त्या प्रतीयते। तस्य सङ्केतबुद्धितः प्रविभाग एतावतामेवं जातीयकोऽनुसंहार एकस्यार्थस्य वाचक इति। सङ्केतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मको योऽयं शब्दः सोऽयमर्थो योऽयमर्थः सोऽयं शब्द इति। एवमितरेतराध्यासरूपः सङ्केतो भवतीति। एवमेते शब्दार्थप्रत्यया इतरेतराध्यासात्सङ्कीर्णा गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानम्। य एषां प्रविभागज्ञः स सर्ववित्। सर्वपदेषु चास्ति वाक्यशक्तिर्वृक्ष इत्युक्तेऽस्तीति गम्यते। न सत्तां पदार्थो व्यभिचरतीति। तथा न ह्यसाधना क्रियाऽस्तीति। तथाच पचतीत्युक्ते सर्वकारकाणामाक्षेपो नियमार्थोऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानामिति। दृष्टं च वाक्यार्थे पदरचनं श्रोत्रियश्छन्दोऽधीते, जीवति प्राणान्धारयति। तत्र वाक्ये पदार्थाभिव्यक्तिस्ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा। अन्यथा भवत्यश्वोऽजापय इत्येवमादिषु नामाख्यातसारूप्यादनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेतेति। तेषां शब्दार्थप्रत्ययानां प्रविभागः। तद्यथा श्वेतते प्रासाद इति क्रियार्थः, श्वेतः प्रासाद इति कारकार्थः शब्दः, क्रियाकारकात्मा तदर्थः प्रत्ययश्च। कस्मात्। सोऽयमित्यभिसम्बन्धादेकाकार एव प्रत्ययः सङ्केत इति। यस्तु श्वेतोऽर्थः स शब्दप्रत्यययोरालम्बनीभूतः। स हि स्वाभिरवस्थाभिर्विक्रियमाणो न शब्दसहगतो न बुद्धिसहगतः। एवं शब्द एवं प्रत्ययो नेतरेतरसहगत इत्यन्यथा शब्दोऽन्यथाऽर्थोऽन्यथा प्रत्यय इति विभागः। एवं तत्प्रविभागसंयमाद्योगिनः सर्वभूतरुतज्ञानं सम्पद्यत इति ॥ १७ ॥ व्याख्या भास्वती
शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करः = यो वाचकः शब्दः स एवार्थस्तदेव च ज्ञानमिति सङ्कीर्णता, तत्प्रविभागसंयमात्=प्रत्येकं विभज्य संयमात् सर्वभूतानां रुतज्ञानम्=उच्चारतशब्दार्थज्ञानं भवेदिति सूत्रार्थः, तत्रेति । व्याचाष्टे-तत्रैतद्विषये वागिन्द्रियं वर्णात्मकशब्दोच्चारणरूपकार्यवत् , श्रोत्रविषयः =ध्वनिमात्रः, न तु तदर्थः, पदम्=वर्णात्मकं यदर्थाभिधानं यथा = घटादि,नादानुसंहारबुद्धिनिर्ह्ग्राह्यम्=नादानां वर्नानामनुसंहारबुद्धिः =एकत्वापादनुबुद्धिः तथा निर्ग्राह्यं वर्णानेकतः कृत्वा बुद्ध्या पदं गृह्यत इत्यर्थः, वर्णा इति । एकसमयासम्भवित्वाद् = पूर्वोत्तरकालक्रमेणोच्चार्यमानात्वाद्, न चैकसमयभाविनो वर्णाः ततस्ते परस्परनिरणुग्रहात्मानः =परस्परासङ्कीर्णाः, तत्समाहाररूपं पदम् असंस्पृश्य=अनुपस्थाप्य ; अनिर्मायेत्यर्थः, आविर्भूतास्तिरोभूताश्च भवन्तः प्रत्येकमपदरूपा उच्यन्ते, वर्ण इति । एकैकवर्णाः=प्रत्येकं वर्णः, पदात्मा=पदानामुपादानभूतः सर्वाभिधानशक्तिप्रचितः= सर्वाभिनशक्तिः प्रचिता सञ्चिता यस्मिन् सः =सर्वाभिधानशक्तिसम्पन्नः, सहयोगिवर्णान्तरप्रति सम्बन्धी भूत्वा वैश्वरूप्यमिवापन्नः=असङ्ख्यपदरूपमापन्नमिव, पूर्वोत्तररूपविशेषणावस्थापित इत्येवंरूपा बहवो वर्णाः क्रमानुरोधिनः =पूर्वोत्तरक्रमसापेक्षाः, अर्थसङ्केतेनावच्छिन्नाः = सङ्केतीकृतार्थमात्रवाचकाः, इयन्त एते = एतत्सङ्ख्यकाः, सर्वाभिधानसमर्था अपि गकारादिवर्णाः, तन्निर्मितं गौरीति पदं सङ्केतीकृतं सास्नाऽऽदिमन्तमर्थे द्योतयन्तीति,
तदेतेषां वर्णानामर्थसङ्केतेनावच्छिन्नानामुपसंहृताः = एकीकृता ध्वनिक्रमा येषां तादृशानां य एको बुद्धिनिर्भासः = बुद्धावेकत्वाख्यातिस्तत् पदम्,तच्च वाच्यस्य वाचाकं कृत्वा सङ्केत्यते
तदेकमिति । गौरित्येकः स्फोट इति, एकबुद्धिविषयत्वात् पदमेकं, तच्च एकप्रयत्नोत्थापितम्, अभागम्, अक्रमम्,अवर्णं,क्रमत उच्चार्यमाणानां वर्णानामयौगपदिकत्वात् बौद्धं =बुद्धिनिर्माणम्, अन्त्यवर्णस्य शेपोच्चारितस्य वर्णस्य प्रत्ययव्यापारेण स्मृतावुपस्थापितं, तच्च पदं परत्र प्रतिपिपादयिषया=प्रज्ञापनेच्छयावक्त्तृभिर्वर्णैरवाभिधीयमानैः श्रूयमानैश्च श्रोत्रुभिरनादिवाग्व्यवहारवसनाऽनुविद्धया लोकबुद्ध्या सिद्धवत्=शब्दार्थप्रत्यया एकवत् सम्प्रतिपत्या=व्यवहारपरम्परया प्रतीयते, तस्य पदस्य पदानामित्यर्थः, सङ्केतबुद्धेः प्रविभागः =भेदः, तद् यथा-एतावतां वर्णानामेवञ्जातीयकोऽनुसंहारः=समाहारः, एकस्य सङ्केतीकृतस्यार्थस्य वाचक इति ।
सङ्केतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मकः=स्मृतावात्मा यस्य तादृशस्तत्स्मृतिस्वरूपः, तद् यथा –“योऽयं शब्दः सोयमर्थः योऽर्थः स शब्दः” इति,य एषां-प्रविभागज्ञः प्रविभागेणैकैकस्मिन् समाधानसमर्थः , स सर्ववित् = सर्वाणि = रुतानि यदर्थेनोञ्चारितानि तदर्थवित्,
सर्वेति । वाक्यशक्ति=वाक्यं क्रियाकारकसम्बन्धबोधकः पदप्रयोगस्तच्छक्तिः, उदाहरणं वृक्ष इति,न सत्तां पदार्थो व्यभिचरति =अन्यक्रियाऽभावेऽपि सत्त्वक्रियया सहाभिधीयमान पदार्थो योज्यो भवेत्, तथा हि – असाधना कारकहीना क्रिया नास्ति, तथा च पचतीत्युक्ते सर्वकारकाणामाक्षेपः=अध्याहारः स्यात्, अपि च तत्र नियमार्थः =अन्यव्यावर्त्तनार्थोsनुवादः = पुनः कथनं कर्त्तव्यः केषामनुवादस्तदाह-कर्तृकर्म करणानां चैत्रतण्डुलाग्नीनामिति, पचतीत्यत्र चैत्रोऽग्निना तण्डुलान् पचतीति कारकपदक्रियापदसमस्ता वाक्यशक्तिस्तत्रास्तीत्यर्थः, दृष्ठमिति । यश्छन्दोsधीत इति वाक्यार्थे श्रोत्रियपदरचनम्, तथा–प्राणान् धारयतीत्यर्थे जीवति,तत्रेति । वाक्ये=वाक्यार्थे, पदार्थाभिव्यक्तिः= पदार्थोप्यभिव्यक्तो भवत्यतो बोधसौकर्यार्थं पदं प्रविभज्य व्याख्येयम्, अन्यथा-भवति=तिष्ठति पूज्ये चेति, अश्वः=घोटकः गमनमकार्षीश्चेति, अजापयः = छगीदुग्धं तथा हिंसां कारितवाम्स्त्वमित्यादिद्वयर्थकपदेषु नामाख्यातसारूप्याद्=नाम = विशेष्यविशेषणपदानि, आख्यातं=क्रियापदानि,
तेषामिति । क्रियाऽर्थः= साध्यरूपोऽर्थः , कारकार्थः = सिद्धरूपोsर्थः ,तदर्थः = सोऽर्थः श्वेतवर्ण इति,क्रियाकारकात्मा=क्रियारूपः कारकरूपश्वेत्युभयथा व्यवहार्यः, प्रत्ययोऽपि तथाविधो यतः सोsयमित्यभिसम्बन्धात्, एकाकारः = अर्थप्रत्यययोरेकाकारता सङ्केतेन प्रतीयते, यस्त्विति । स श्वेतोsर्थः स्वाभिरवस्थाभिर्विक्रियमाणो न शब्दसहगतः=शब्दसङ्कीर्णः,न प्रत्ययसहगतः , एवं शब्दार्थप्रत्यया नेतरेतरसङ्कीर्णा , शब्दो वागिन्द्रिये वर्त्तते, गवाध्यर्थो गोष्ठादौ वर्त्तते प्रत्ययश्च मनसीत्यसङ्कीर्णत्वम्,अन्यथेति । अर्थसङ्केतं परिह्रुत्योञ्चारितं च शब्दमात्रमालम्ब्य, तत्र च संयमं कृत्वा येनार्थेर्नसुभृता शब्द उञ्चारितस्तदर्थे बुभुत्सुर्योगी तमर्थे जानातीति ॥ १७ ॥ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ १८ ॥ द्वये खल्वमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपा विपाकहेतवो धर्माधर्मरूपाः। ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्मवदपरिदृष्टाश्चित्तधर्माः। तेषु संयमः संस्कारसाक्षात्क्रियायै समर्थः। न च देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणम्। तदित्थं संस्कारसाक्षात्करणात्पूर्वजातिज्ञानपुत्पद्यते योगिनः। परत्राप्येवमेव संस्कारसाक्षात्करणात्परजाति-संवेदनम्। अत्रेदमाख्यानं श्रूयते – भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणाद्दशसु महासर्गेषु जन्मपरिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभूत्। अथ भगवानावट्यस्तनुधरस्तमुवाच – दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसम्भवं दुःखं सम्पश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन सुखदुःखयोः किमधिकमुपलब्धमिति। भगवन्तमावट्यं जैगीषव्य उवाच – दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवं दुःखं सम्पश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन यत्किञ्चिदनुभूतं तत्सर्वं दुःखमेव प्रत्यवैमि। भगवानावट्य उवाच - यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च सन्तोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति। भगवाञ्जैगीषव्य उवाच – विषयसुखापेक्षयैवेदमनुत्तमं सन्तोषसुखमुक्तम्। कैवल्यसुखापेक्षया दुःखमेव। बुद्धिसत्त्वस्यायं धर्मस्त्रिगुणस्त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति। दुःखरूपस्तृष्णातन्तुः। तृष्णादुःखसन्तापापगमात्तु प्रसन्नमबाधं सर्वानुकूलं सुखमिदमुक्तमिति ॥ १८ ॥ व्याख्या भास्वती
द्वय इति । स्मृतिक्लेशहेतवः= क्लिष्टां स्मृतिं या जनयन्ति तादृश्यो वासनाः सूक्ष्मादिविपाकानुभवजाताः, जात्यायुर्भोगविपाकहेतवो धर्माधर्मरूपाः संस्काराः, पूर्वभवाभिसम्स्कृताः = पूर्वजन्मन्यभिसंस्कृताः प्रचिता इत्यर्थः, ते परिणामादिचित्तधर्मवदपरिदृष्टाश्चित्तधर्माः, संस्कारसाक्षात्कारस्तु देशकालनिमित्तानुभवसहगतः,ततः कस्मिन् देशे काले च किन्निमित्तको जात इत्यवगम्यते,निमित्तं=प्राग्भवीया देहेन्द्रियादयो ययिर्निमित्तैर्भोगाधिः सिद्धः,अत्रेति । महासर्गेषु = महाकल्पेषु,विवेकजं ज्ञानं=तारकं सर्वविषयं सर्वथाविषयमक्रमं विवेकस्य बाह्यसिद्धिरूपम्, तनुधरः= निर्माणतनुधरः,भव्यत्वात्=रजस्तमोमलहीनतया स्वच्छचित्तत्वात्,प्रधानवशित्वम्=प्रकृतिजयः,त्रिगुणश्च प्रत्ययः=सत्वाधिकोऽपि सुखरूपप्रत्ययस्त्रिगुणः,दुःखस्वरूपः=दुखात्मकः,तृष्णातन्तुः तृष्णारज्जुः, तृष्णाबन्धनजातदुःखसन्तापापगमात्तुप्रसन्नं=निर्मलम्,आबाधं=प्रतिघातरहितम्, सर्वानुकूलं सर्वेषामनुकूलं यद्वा-सर्वावस्थास्वनुकूलमिदं सन्तोषसुखमनुत्तमं कामसुखापेक्षयेत्यर्थः ॥ १८ ॥ प्रत्ययस्य परचित्तज्ञानम् ॥ १९ ॥ प्रत्यये संयमात्प्रत्ययस्य साक्षात्करणात्ततः परचित्तज्ञानम् ॥ १९ ॥ व्याख्या भास्वती
प्रत्यय इति । प्रत्यये रक्तद्विष्टादिचित्तमात्रे संयमात् परचित्तमात्रस्य ज्ञानम् ॥ १९ ॥ न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ २० ॥ रक्तं प्रत्यय जानात्यमुष्मिन्नालम्बने रक्तमिति न जानाति। परप्रत्ययस्य यदालम्बनं तद्योगिचित्तेन नाऽऽलम्बनीकृतं परप्रत्ययमात्रं तु योगिचित्तस्याऽऽलम्बनीभूतमिति ॥ २० ॥ व्याख्या भास्वती
रक्तमिति । सुगमम् ॥ २० ॥ कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासम्प्रयोगेऽन्तर्धानम् ॥ २१ ॥ कायस्य रूपे संयमाद्रूपस्य या ग्राह्या शक्तिस्तां प्रतिष्टभ्राति। ग्राह्यशक्तिस्तम्भे सति चक्षुष्प्रकाशासम्प्रयोगेऽन्तर्धानमुत्पद्यते योगिनः। एतेन शब्दाद्यन्तर्धानमुक्तं वेदितव्यम् ॥ २१ ॥ व्याख्या भास्वती
कायरूप इति । ग्राह्या=ग्रहणयोग्या शक्तिस्तां प्रतिबध्नाति=स्तम्नाति,चक्षुप्रकाशासम्प्रयोगे =चाक्षुर्गतप्रकाशनशक्तया सहसंयोगेऽन्तार्धानं = अदृष्यता ॥ २१ ॥ सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ २२ ॥ आयुर्विपाकं कर्म द्विविधं सोपक्रमं निरुपक्रमं च। तत्र यथाऽऽर्द्रं वस्त्रं वितानितं लघीयसा कालेन शुष्येत्तथा सोपक्रमम्। यथा च तदेव सम्पिण्डितं चिरेण संशुष्येदेवं निरुपक्रमम्। यथा वाऽग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तः क्षेपीयसा कालेन दहेत्तथा सोपक्रमम्। यथा वा स एवाग्निस्तृणराशौ क्रमशोऽवयवेषु न्यस्तश्चिरेण दहेत्तथा निरुपक्रमम्। तदैकभविकमायुष्करं कर्म द्विविधं सोपक्रमं निरुपक्रमं च। तत्संयमादपरान्तस्य प्रायणस्य ज्ञानम्। अरिष्टेभ्यो वेति। त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमाधिदैविकं चेति। तत्राऽऽध्यात्मिकं घोषं स्वदेहे पिहितकर्णो न शृणोति, ज्योतिर्वा नेत्रेऽवष्टब्धे न पश्यति। तथाऽऽधिभौतिकं यमपुरुषान्पश्यति, पितॄनतीतानकस्मात्पश्यति। तथाऽऽधिदैविकं स्वर्गमकस्मात्सिद्धान्वा पश्यति। विपरीतं वा सर्वमिति। अनेन वा जानात्यपरान्तमुपस्थितमिति ॥ २२ ॥ व्याख्या भास्वती
आयुरिति । आयुर्विपाकम् = आयूरूपो विपाको यस्य तत् कर्म द्विविधम्,सोपक्रमं =फलोपक्रमयुक्तम्,दृष्टान्तमाह – यथा - आर्द्रं वस्त्रं विस्तारितं स्वल्पेन कालेन शुष्येत्,अनुकूलावस्थाप्राप्तौ शुद्धतारूपं फलमचिरेणारब्धं भवेत्, तथा यत् कर्म विपाकोन्मुखं तदेव सोपक्रमं तद्विपरीतं निरुपक्रमं दृष्टान्तान्तरमाह-यथा चाग्निरिति । कक्षे=तृणगुच्छे, भुक्तः=न्यस्तः, क्षेपीयसा कालेन=अचिरेण, तृणाराशौ=आर्द्रे तृणराशौ,एकभविकम्= अव्यवहितपूर्वजन्मनि सञ्चितमायुष्करम् =आयूरूपविपाककरम्,अरिष्टेभ्य-इति । घोषं=शब्दम्,पिहितकर्ण=अङ्गुल्यादिना रुद्ध्कर्णः, नेत्रेऽवष्टत्धे = अङ्गुल्यादिना सम्पीडिते नेत्रे, अपरान्तः=मृत्युः ॥ २२ ॥ मैत्र्यादिषु बलानि ॥ २३ ॥ मैत्री करुणा मुदितेति तिस्रो भावनास्तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीबलं लभते। दुःखितेषु करुणां भावयित्वा करुणाबलं लभते। पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते। भावनातः समाधिर्यः स संयमस्ततो बलान्यवन्ध्यवीर्याणि जायन्ते। पापशीलेषूपेक्षा न तु भावना। ततश्च तस्यां नास्ति समाधिरित्यतो न बलमुपेक्षातस्तत्र संयमाभावादिति ॥ २३ ॥ व्याख्या भास्वती
मैत्रीति । स्पष्टम्,भावनात इति । मैत्र्यादिभावनातस्तत्तद्भावेषु स्वरूपशून्यमिव तत्तद्भावनिर्भासं ध्यानं यदा भवेत्तदा तत्र समाधिः, स एव तत्र संयम,ततो मैत्र्यादिबलानि, अबन्ध्यवीर्याणि = अव्यर्थवीर्याणि जायन्ते स्वचेतस्यमैत्रयादीनि नोत्पध्यन्ते,परैरपि मित्रादिभावेन च योगी विश्वस्यते ॥ २३ ॥ बलेषु हस्तिबलादीनि ॥ २४ ॥ हस्तिबले संयमाद्धस्तिबलो भवति। वैनतेयबले संयमाद्वैनतेयबलो भवति। वायुबले संयमाद्वायुबलो भवतीत्येवमादि ॥ २४ ॥ व्याख्या भास्वती
हस्तिबल इति । सुगमम् ॥ २४ ॥ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ २५ ॥ ज्योतिष्मती प्रवृत्तिरुक्ता मनसस्तस्या य आलोकस्तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वाऽर्थे विन्यस्य तमर्थमधिगच्छति ॥ २५ ॥ व्याख्या भास्वती
ज्योतिष्मतीति । आलोकः = अबाधः प्रकाशभावो येन ; सर्वेन्द्रियशक्तयो गोलकनिरपेक्षा विषयगता इव भूत्वा विषयं गृह्णन्ति ॥ २५ ॥ भुवनज्ञानं सूर्ये संयमात् ॥ २६ ॥ तत्प्रस्तारः सप्त लोकाः। तत्रावीचेः प्रभृति मेरुपृष्ठं यावदित्येवं भूर्लोकः। मेरुपृष्ठादारभ्य आध्रुवाद्ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः। ततः परः स्वर्लोकः पञ्चविधो माहेन्द्रस्तृतीयो लोकः। चतुर्थः प्राजापत्यो महर्लोकः। त्रिविधो ब्राह्मः। तद्यथा – जनलोकस्तपोलोकः सत्यलोक इति। ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान्। माहेन्द्रश्च स्वरित्युक्तो दिवि तारा भुवि प्रजाः ॥ इति सङ्ग्रहश्लोकः। तत्रावीचेरुपर्युपरि निविष्टाः षण्महानरकभूमयो घनसलिलानलानिलाकाशतमःप्रतिष्ठा महाकालाम्बरीषरौरवमहारौरवमहारौरवकालसूत्रान्धतामिस्राः। यत्र स्वकर्मोपार्जितदुःखवेदनाः प्राणिनः कष्टमायुर्दीर्घमाक्षिप्य जायन्ते। ततो महातलरसातलातलसुतलवितलतलातलपातालाख्यानि सप्त पातालानि। भूमिरियमष्टमी सप्तद्वीपा वसुमती, यस्याः सुमेरुर्मध्ये पर्वतराजः काञ्चनः। तस्य राजतवैदूर्यस्फटिकहेममणिमयानि शृङ्गाणि। तत्र वैदूर्यप्रभानुरागान्नीलोत्पलपत्रश्यामो नभसो दक्षिणो भागः, श्वेतः पूर्वः, स्वच्छः पश्चिमः, कुरण्टकाभ उत्तरः। दक्षिणपार्श्वे चास्य जम्बूर्यतोऽयं जम्बूद्वीपः। तस्य सूर्यप्रचाराद्रात्रिं दिवं लग्नमिव वर्तते। तस्य नीलश्वेतशृङ्गवन्त उदीचीनास्त्रयः पर्वता द्विसाहस्रायामाः। तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि रमणकं हिरण्मयमुत्तराः कुरव इति। निषधहेमकूटहिमशैला दक्षिणतो द्विसाहस्रायामाः। तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि हरिवर्ष किम्पुरुषं भारतमिति। सुमेरोः प्राचीना भद्राश्वमाल्यवत्सीमानः प्रतीचीनाः केतुमाला गन्धमादनसीमानः। मध्ये वर्षमिलावृतम्। तदेतद्योजनशतसाहस्रं सुमेरोर्दिशि दिशि तदर्धेन व्यूढम्। स खल्वयं शतसाहस्रायामो जम्बूद्वीपस्ततो द्विगुणेन लवणोदधिना वलयाकृतिना वेष्टितः। ततश्च द्विगुणा द्विगुणाः शाककुशक्रौञ्चशाल्मलगोमेध(प्लक्ष)पुष्करद्वीपाः, समुद्राश्च सर्षपराशिकल्पाः सविचित्रशैलावतंसा इक्षुरससुरासर्पिर्दधिमण्डक्षीरस्वादूदकाः। सप्त समुद्रपरिवेष्टिता वलयाकृतयो लोकालोकपर्वतपरिवाराः पञ्चाशद्योजनकोटिपरिसङ्ख्याताः। तदेतत्सर्वं सुप्रतिष्ठितसंस्थानमण्डमध्ये व्यूढम्। अण्डं च प्रधानस्याणुरयवयवो यथाऽऽकाशे खद्योत इति। तत्र पाताले जलधौ पर्वतेष्वेतेषु देवनिकाया असुरगन्धर्वकिन्नरकिम्पुरुषयक्षराक्षसभूतप्रेत-पिशाचापस्मारकाप्सरोब्रह्मराक्षसकूष्माण्डविनायकाः प्रतिवसन्ति। सर्वेषु द्वीपेषु पुण्यात्मानो देवमनुष्याः। सुमेरुस्त्रिदशानामुद्यानभूमिः। तत्र मिश्रवनं नन्दनं चैत्ररथं सुमानसमित्युद्यानानि। सुधर्मा देवसभा। सुदर्शनं पुरम्। वैजयन्तः प्रासादः। ग्रहनक्षत्रतारकास्तु ध्रुवे निबद्धा वायुविक्षेपनियमेनोपलक्षितप्रचाराः सुमेरोरुपर्युपरि सन्निविष्टा दिवि विपरिवर्तन्ते। माहेन्द्रनिवासिनः षड्देवनिकायाः - त्रिदशा अग्निष्वात्ता याम्यास्तुषिता अपरिनिर्मितवशवर्तिनः परिनिर्मितवशवर्तिनश्चेति। सर्वे सङ्कल्पसिद्धा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः कामभोगिन औपपादिकदेहा उत्तमानुकूलाभिरप्सरोभिः कृतपरिचाराः। महति लोके प्राजापत्ये पञ्चविधो देवनिकायः – कुमुदा ऋभवः प्रतर्दना अञ्जनाभाः प्रचिताभा इति। एते महाभूतवशिनो ध्यानाहाराः कल्पसहस्रायुषः। प्रथमे ब्रह्मणो जनलोके चतुर्विधो देवनिकायो ब्रह्मपुरोहिता ब्रह्मकायिका ब्रह्ममहाकायिका अमरा इति। ते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्तरायुषः। द्वितीये तपसि लोके त्रिविधो देवनिकायः – आभास्वरा महाभास्वराः सत्यमहाभास्वरा इति। ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्विगुणोत्तरायुषः सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वमप्रतिहतज्ञाना अधरभूमिष्वनावृतज्ञानविषयाः। तृतीये ब्रह्मणः सत्यलोके चत्वारो देवनिकाया अकृतभवनन्यासाः स्वप्रतिष्ठा उपर्युपरिस्थिताः प्रधानवशिनो यावत्सर्गायुषः। तत्राच्युताः सवितर्कध्यानसुखाः, शुद्धनिवासाः सविचारध्यानसुखाः, सत्याभा आनन्दमात्रध्यानसुखाः, सञ्ज्ञासञ्ज्ञिनश्चास्मितामात्रध्यानसुखाः। तेऽपि त्रैलाक्यमध्ये प्रतितिष्ठन्ति। त एते सप्त लोकाः सर्व एव ब्रह्मलोकाः। विदेहप्रकृतिलयास्तु मोक्षपदे वर्तन्त इति न लोकमध्ये न्यस्ता इति। एतद्योगिना साक्षात्करणीयं सूर्यद्वारे संयमं कृत्वा, ततोऽन्यत्रापि एवं तावदभ्यसेद्यावदिदं सर्व दृष्टमिति ॥ २६ ॥ व्याख्या भास्वती
तदिति । तत्प्रस्तारः = भुवनविन्यासः, अवीचेः प्रभृति = अवीचिर्निम्नतमो निरयः,तत ऊर्ध्वमित्यर्थः,तृतीयो माहेन्द्रलोकः स्वर्लोकेषु प्रथमः,तत्रेति । धनः =संहतः पार्थिवधातुः स्वकर्मोपार्जितं दुःखवेदनं येषामस्ति ते, दीर्घमायुराक्षिप्य = सङ्ग्रृह्य, कुरण्डकं सुवर्णवर्णपुष्पविशेषः, द्विसहस्रायामाः = द्विसहस्रयोजनविस्ताराः, माल्यवत्सीमानो देशा - भद्राश्वनामकाः तदर्धेन व्यूढम् = पञ्चाशद्योजनसहस्त्रविस्तारः सुमेरुं संवेष्ट्य स्तिथः, सुप्रति, ष्टितसंस्थानम् = सुसन्निविष्टं, अण्डमध्ये ब्रह्माण्डमध्ये व्यूढम् = असङ्कीकर्ण्भावेन स्थितम्, सर्वेषु द्वीपेषु पुण्यात्मानो देवमनुष्याः = देवस्तथा देवत्वं प्राप्ता मनुष्याः प्रतिवसन्तीत्यतो - द्वीपाः परलोकविशेषा न च तेऽमरलोक इत्यवगन्तव्यं, अत्रापुण्यात्मनामपि वासदर्शनात्, देवनिकायाः = देवयोनयः, बृन्दारकाः = पूज्याः, कामभोगिनः = काम्यविषयथभोगिनः, औपपादिकदेहाः = पितरौ विनैषां देहोत्पत्तिर्भवति, स्वसंस्कारेण सूक्ष्मावस्थाम् भौतिकम्गृहीत्वा ते शरीरमुत्पादयन्ति, भूतेन्द्रियप्रक्रुतिवशिनः = भूतेन्द्रियतन्मात्रवशिनः, ध्यानाहाराः = ध्यानमात्रोपजीविनो न कामभोगिनः, ऊर्ध्वे सत्यलोकस्येत्यर्थः, ज्ञानमेषामप्रतिहतम्, अधरभूमिषु निम्न्नस्थजनादिलोकेषु, अक्रृतभवनन्यासाः स्वप्रतिष्ठाः = निराधाराः देहाभिमानातिक्रमणात् विदेहप्रकृतिलया निर्बीजसमाध्यधिगमान्न लोकमध्ये प्रतीतिष्ठन्ति चित्तं तेषां तावत्कालं प्रधाने लीनं तिष्ठति, अतो न बाह्यसञ्ज्ञा तेषां स्यात्, सूर्यद्वारे = सुषुम्णाद्वारे ॥ २६ ॥ चन्द्रे ताराव्यूहज्ञानम् ॥ २७ ॥ चन्द्रे संयमं कृत्वा ताराणां व्यूहं विजानीयात् ॥ २७ ॥ व्याख्या भास्वती
चन्द्रे = चन्द्रद्वारे, उक्तञ्च – “तालुमूले च चन्द्रमाः” इति, चक्षुरादिबाह्येन्द्रियाधिष्ठानेषु संयमादिन्द्रियोत्कर्षस्तत आलोकितवस्तुज्ञानं न च सूर्यद्वारवत् स्वालोकेन विज्ञानम् ॥ २७ ॥ ध्रुवे तद्गतिज्ञानम् ॥ २८ ॥ ततो ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात्। ऊर्ध्वं विमानेषु कृतसंयमस्तानि विजानीयात् ॥ २८ ॥ व्याख्या भास्वती
ध्रुवे कस्मिश्विन्निश्वलतारके, ऊर्धवविमानेषु = आकाशे ज्योतिष्कनिलये ॥ २८ ॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ २९ ॥ नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात्। वातपित्त श्लेष्माणस्त्रयो दोषाः। धातवः सप्त त्वग्लोहितमांसस्नाय्वस्थिमज्जाशुक्राणि। पूर्वं पूर्वमेषां बाह्यमित्येष विन्यासः ॥ २९ ॥ व्याख्या भास्वती
कायव्यूहः = कायधातुनां विन्यासः ॥ २९ ॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥ जिह्वाया अधस्तात्तन्तुस्तन्तोरधस्तात्कण्ठस्ततोऽधस्तात्कूपस्तत्र संयमात्क्षुत्पिपासे न बाधेते ॥ ३० ॥ व्याख्या भास्वती
तन्तुः = घ्वन्युत्पादकं कण्ठाग्रस्थं वितानिततन्तुरूपम् वागिन्द्रियाङ्गम्, कण्ठः = श्वासनाड्या उर्ध्वभागः, कूपस्तदधः ॥ ३० ॥ कूर्मनाड्यां स्थैर्यम् ॥ ३१ ॥ कूपादध उरसि कूर्माकारा नाडी, तस्यां कृतसंयमः स्थिरपदं लभते। यथा सर्पो गोधा वेति ॥ ३१ ॥ व्याख्या भास्वती
स्थिरपदं = कायस्थैर्यजनितं चित्तस्थैर्यं ज्ञानरूपसिद्धीनामन्तर्गतत्वात्, यथा – सर्पोगोधा वा स्थाणुवन्निश्वलशरीरः स्वेच्छया तिष्ठति तथा योग्यपि निश्वलस्तिष्ठन्नङ्गमेजयत्वसहभाविना चित्तस्थैर्येण नामिभूयत इत्यर्थः ॥ ३१ ॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३२ ॥ शिरःकपालेऽन्तश्छिद्रं प्रभास्वरं ज्योतिस्तत्र संयमं कृत्वा सिद्धानां द्यावापृथिव्योरन्तरालचारिणां दर्शनम् ॥ ३२ ॥ व्याख्या भास्वती
शिरः कपालेऽन्तश्च्छिद्रं = आकाशवदनावराणं प्रभास्वरं शुभ्रं ज्योतिः, सिद्धः = देवयोनिविशेषः ॥ ३२ ॥ प्रातिभाद्वा सर्वम् ॥ ३३ ॥ प्रातिभं नाम तारकं तद्विवेकजस्य ज्ञानस्य पूर्वरूपम्। यथोदये प्रभा भास्करस्य। तेन वा सर्वमेव जानाति योगी प्रातिभस्य ज्ञानस्योत्पत्ताविति ॥ ३३ ॥ व्याख्या भास्वती
प्रातिभं = स्वप्रतिभोत्थं नान्यतो लब्धमित्यर्थः - तच्च विवेकजसार्वज्ञस्य पूर्वरूपंयथा सूर्योदयात्प्राक् सूर्यस्य प्रभा ॥ ३३ ॥ हदये चित्तसंवित् ॥ ३४ ॥ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म तत्र विज्ञानं तस्मिन्संयमाच्चित्तसंवित् ॥ ३४ ॥ व्याख्या भास्वती
यदिति । अस्मिन् हृदये ब्रह्मपुरे यद् दहरम् = अन्तःसुशिरं क्षुद्रं पुण्डरीकं ब्रह्मणो यद् वेश्म तत्र विज्ञानं = चित्तं तस्मिन् संयमाच्चित्तस्य संविद् ह्लादकरं ज्ञानम्, न हि विज्ञानेन विज्ञानं साक्षाद् ग्राह्यं भवेद्, तर्हि ग्रहणस्मृतेर्यदवस्थायां प्राधान्यं सैव चित्तसंविद् ॥ ३४ ॥ सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३५ ॥ बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम्। तस्माच्च सत्त्वात्परिणामिनोऽत्यन्तविधर्मा विशुद्धोऽन्यश्चितिमात्ररूपः पुरुषः। तयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य दर्शितविषयत्वात्। स भोगप्रत्ययः सत्त्वस्य परार्थत्वाद्दृश्यः। यस्तु तस्माद्विशिष्टश्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययस्तत्र संयमात्पुरुषविषया प्रज्ञा जायते। न च पुरुषप्रत्ययेन बुद्धिसत्त्वात्मना पुरुषो दृश्यते। पुरुष एव तं प्रत्ययं स्वात्मावलम्बनं पश्यति। तथा ह्युक्तम् - विज्ञातारमरे केन विजानीयात् इति ॥ ३५ ॥ व्याख्या भास्वती
बुद्धिसत्त्वमिति । बुद्धिसत्त्वं = विशुद्धा ज्ञानशक्तिरित्यर्थः,प्रख्याशीलम् = प्रकाशनस्वभावकं, सा च प्रख्या विक्षेपावरणाभ्यां विमृष्टा नोत्कर्षमापध्यते, समानसत्त्वोपनिबन्धने= समानं सत्वोपनिबन्धनम् =अविनाभाविसत्त्वं ययोस्ते तदविनाभाविनी रजस्तमसी वशीकृत्य=अभिभूय, चरमोत्कर्षप्राप्तं सत्यपुरुषान्यताप्रत्ययेन = विवेकप्रख्यारूपेण परिणतं भवति,चित्तसत्वमिति शेषः,परिणामिनो विवेकचित्तदपरिणामी चितिमात्ररूपः पुरुषोऽत्यन्तविधर्माः इत्येतयोरत्यन्तासङ्कीर्णयोः = अत्यन्तविभिन्नयोः, यः प्रत्ययाविशेषः=अभिन्नताप्रत्ययः = विज्ञाताऽहमित्येकप्रत्ययान्तर्गतता,स भोगः पुरुषस्य भोक्तुः दर्षितविषयत्वादेव पुरुषेऽयं भोगोपचार इत्यर्थः,भोगरूपः प्रत्ययः परार्थत्वाद् भोक्तुरर्थत्वाद् दृश्यः,यस्तु तस्माद्विशिष्टश्चितिमात्ररूपोऽन्यो द्रष्टा तद्विषयः पौरूषेयः प्रस्ययः = पुरुषस्वभावख्यातिमती चित्तवृत्तिः ; तत्र संयमात् तन्मात्रे समाधानात् पुरुषविषया चरमाप्रज्ञा जायते, न च द्रष्टा बुद्धेः साक्षाद्विषयः स्यात् रूपरसादिवत् किन्तु-आत्मबुद्धिं साक्षात्कृत्य ततोऽन्य एवं स्वाभावः पुरुष इत्येवं पुरुषस्वभावविषया चरमा प्रज्ञा विज्ञात्रा तदवस्थायां प्रकाश्यते, अत्रोक्तं श्रुतौ - “विज्ञातारमि” त्यादि
एतदुक्तं भवति - यस्य स्वभूतोऽर्थॊऽस्ति स स्वार्थः स्वामिस्वरूपः पुरुषः, पुरुषाकारद्वाद् ग्रहीताऽपि स्वार्थ इव प्रतीयते, तादृशः स्वार्थो ग्रहीता हि संयमस्य विषयः,ग्रहीतृबुद्धिरपि यस्य स्वभूता स हि सम्यक् स्वार्थः स्वामी द्रष्टृपुरुषः ॥ ३५ ॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३६ ॥ प्रातिभात्सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम्। श्रावणाद्दिव्यशब्दश्रवणम्। वेदनाद्दिव्य-स्पर्शाधिगमः। आदर्शाद्दिव्यरूपसंवित्। आस्वादाद्दिव्यरससंवित्। वार्तातो दिव्यगन्धविज्ञानमित्येतानि नित्यं जायन्ते ॥ ३६ ॥ व्याख्या भास्वती
प्रातिभादिति । श्रावनाध्या योगिजनप्रसिद्धा आख्याः, भाष्येण निगदव्याख्यातं एताः सिद्धयो नित्यं भूमिविनियोगमन्तरेणेत्यर्थः प्रादुर्भवन्ति ॥ ३६ ॥ ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३७ ॥ ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गास्तद्दर्शनप्रत्यनीकत्वात्। व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः ॥ ३७ ॥ व्याख्या भास्वती
त इति । तदर्शनप्रत्यनीकत्वात् = समाहितोचितसो यत्पुरुषदर्शनं तस्य प्रत्यनीकत्वात् =प्रतिपक्षत्वाद् ॥ ३७ ॥ बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ ३८ ॥ लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयवशाद्बन्धः प्रतिष्ठेत्यर्थः। तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिबलाद्भवति। प्रचारसंवेदनं च चित्तस्य समाधिजमेव। कर्मबन्धक्षयात्स्वचित्तस्य प्रचारसंवेदनाच्च योगी चित्तं स्वशरीरान्निष्कृष्य शरीरान्तरेषु निक्षिपति। निक्षिप्तं चित्तं चेन्द्रियाण्यनुपतन्ति। यथा मधुकरराजानं मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनुनिविशन्ते तथेन्द्रियाणि परशरीरावेशे चित्तमनुविधीयन्त इति ॥ ३८ ॥ व्याख्या भास्वती
लोलीति । ज्ञानरूपाः सिद्धीरुक्त्वा क्रियारूपा आह - लोलीभूतस्य = चञ्चलस्य यत्र क्व चन गामिनो मनसः कर्माशयवशाद् = मनसः स्वङ्गभूतात् संस्काराद् शरीरधारणादि मनसः कार्ये वश्यता, तत्कर्मणः सातत्यात् शरीरे चित्तस्य बन्धः प्रतिष्ठा नान्यत्र गतिः, समाधिना सुनिश्चले शरीरे; रुद्धे च प्राणादौ शरीरधारणादेः कर्माशयमूलाया मनःक्रियाया अभावात् शैथिल्यम् जायते शरीरेण सह मनसो बन्धस्य, प्रचारसंवेदनं = नाडी - मार्गेषु चेतसो यः प्रचारस्तस्य साक्षादनुभवः सग्नाधिबलादेव भवति, परशरीरे निक्षिप्तं-चित्तमिन्द्रियाण्यनुगच्छन्ति, मक्षिका इव मधुकरप्रधानम् ॥ ३८ ॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३९ ॥ समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनं, तस्य क्रिया पञ्चतयी प्राणो मुखनासिकागतिराहृदयवृत्तिः। समं नयनात्समानश्चाऽऽनाभिवृत्तिः। अपनयनादपान आपादतलवृत्तिः। उन्नयनादुदान आशिरोवृत्तिः। व्यापी व्यान इति। एषां प्रधानं प्राणः। उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च प्रायणकाले भवति। तां वशित्वेन प्रतिपद्यते ॥ ३९ ॥ व्याख्या भास्वती
समस्त इति । ऊर्ध्वस्रोता = उदानः तस्योर्ध्वगधारारूपस्य संयमेन जयाद्, लघु भवति शरीरं ततो जलपङ्ककण्टकादिष्वसङ्गः = कण्टकाद्युपरिस्थतूलादिवद्, उत्क्रान्तिः = स्वेच्छयाऽर्चिरादिमार्गेषूत्क्रान्तिर्भवति प्रायणकाले, एवं तामुत्क्रान्तिं वशित्वेन प्रतिपद्यते = लभत इत्यर्थः ॥ ३९ ॥ समानजयाज्ज्वलनम् ॥ ४० ॥ जितसमानस्तेजस उपध्मानं कृत्वा ज्वलयति ॥ ४० ॥ व्याख्या भास्वती
जितेति । समानः = समनयनकारिणि प्राणशक्तिः, सोऽशितपीताघ्रतमाहार्ये शरीरत्वेन परणिमयति, उक्तञ्च —
“समं नयति गात्राणि समानो नाम मारुतः"इति,
तज्जयात्तेजसः = छ्टाया उपध्मानम् = उकत्तम्भनमुत्तेजनं ततश्व प्रज्ज्वलन्निव लक्ष्यते योगी ॥ ४० ॥ श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ४१ ॥ सर्वश्रोत्राणामाकाशं प्रतिष्ठा सर्वशब्दानां च। यथोक्तम् – तुल्यदेशश्रवणानामेकदेशश्रुतित्वं सर्वेषां भवतीति। तच्चैतदाकाशस्य लिङ्गम्। अनावरणं चोक्तम्। तथाऽमूर्तस्यानावरणदर्शनाद्विभुत्वमपि प्रख्यातमाकाशस्य। शब्दग्रहणानुमितं श्रोत्रम्। बधिराबधिरयोरेकः शब्दं गृह्णात्यपरो न गृह्णातीति। तस्माच्छ्रोत्रमेव शब्दविषयम्। श्रोत्राकाशयोः सम्बन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते ॥ ४१ ॥ व्याख्या भास्वती
सर्वेति । सर्वश्रोत्राणामाकाशं = शब्दगुणकं निरावरणं बाह्यद्रव्यं प्रतिष्ठा = कर्णेन्द्रियशक्तिरूपेण परिणतयाऽस्मितया व्यूहितमाकाशभूतमेव श्रोत्रं तस्मादाकाशप्रतिष्ठं श्रोत्रेन्द्रियं, सर्वशब्दानामप्याकाशं प्रतिष्ठा, एतत् “पञ्चशिखाचार्यस्य” सूत्रेण प्रमाणयति - तुल्येति । तुल्यदेशश्रवणानां = तुल्यदेश आकाशे प्रतिष्ठितानि श्रवणानि येषां तादृशां सर्वेषां प्राणिनाम्, एकदेशश्रुतित्वम् = आकाशस्यैकदेशावच्छिन्नश्रुतित्वं भवतीति, आकाशप्रतिष्ठकर्णेन्द्रियाणां सर्वेषां कर्णेन्द्रियमाकाशैकदेशवर्त्तीत्यर्थः, तदेतदाकाशस्य लिङ्गम् = स्वरूपं, अनावरणं = अबाध्ययानताऽवकाशस्वरूपत्वमिति यावद्, उक्तन्तथा अमूर्त्तस्य = असंहतस्यानावरणदर्शनात् = सर्वत्रावस्थानयोग्यतादर्शनाद् विभुत्वं = सर्वग-तत्वमप्याकाशस्यप्रख्यातम्, “मूर्त्तस्ये"ति पाठोऽसमीचीनः, श्रोत्राकाशयोः सम्बन्धे = अभिमानाभिमेयरूपे संयमात् कर्णोपादानवशित्त्वं ततश्च दिव्यश्रुतिः = सूक्ष्माणां दिव्यशब्दानां ग्रहणसामर्थ्यम्, न च तन्मात्रग्रहकत्वं दिव्यश्रुतित्वं; दिव्यविषयस्यापि सुखदुःखमोहजनकत्वात् ॥ ४१ ॥ कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाऽऽकाशगमनम् ॥ ४२ ॥ यत्र कायस्तत्राऽऽकाशं तस्यावकाशदानात्कायस्य तेन सम्बन्धः प्राप्तिस्तत्र कृतसंयमो जित्वा तत्सम्बन्धं लघुषु वा तूलादिष्वा परमाणुभ्यः समापत्तिं लब्ध्वा जितसम्बन्धो लघुर्भवति। लघुत्वाच्च जले पादाभ्यां विहरति। ततस्तूर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति। ततो यथेष्टमाकाशगतिरस्य भवतीति ॥ ४२ ॥ व्याख्या भास्वती
यत्रेति । तेनावकाशदानेन कायाकाशयोः प्राप्तिः = व्यापनरूपः सम्बन्धः, देहव्यापिनाऽनाहतनादध्यानद्वारेण तत्सम्बन्धे कृतसंयम आकशवदनावरणात्वाभिमानम्, ततश्च लघुत्वमप्रतिहतगतित्वं, लघुतूलादिश्वपि समापत्तिं लब्ध्वा लघुर्भवतीति ॥ ४२ ॥ बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ ४३ ॥ शरीराद्बहिमर्नसो वृत्तिलाभो विदेहा नाम धारणा। सा यदि शरीरप्रतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति सा कल्पितेत्युच्यते। या तु शरीरनिरपेक्षा वहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्वकल्पिता। तत्र कल्पितया साधयन्त्यकल्पिता महाविदेहामिति। यया परशरीराण्याविशन्ति योगिनः। ततश्च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेशकर्म विपाकत्रयं रजस्तमोशूलं तस्य च क्षयो भवति ॥ ४३ ॥ व्याख्या भास्वती
शरीरादिति । शरीराद्बहिरस्मीति भावना मनसो वहिर्वृत्तिः तत्र शरीर इव बहिर्वस्तुन्यस्मिताप्रतिष्ठा भावस्तादृशी बहिर्वृत्तिः कल्पिता वा - अकल्पिता वा भवति समाधिबलाद् यदा शरीरं विहाय मनो ध्यायमाने बहिरधिष्ठाने वृत्तिं लभते तदाऽकल्पिता बहिर्वृत्तिर्महाविदेहाख्या, ततः प्रकाशावरणक्षयः शरीराभिमानापनोदनात् = क्लेश - कर्म - विपाका इत्येतत् त्रयं बुद्धिसत्त्वस्यावरणमलं क्षीयते ॥ ४३ ॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ४४ ॥ तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहाऽऽकारादिभिर्धर्मैः स्थूलशब्देन परिभाषिताः। एतद्भूतानां प्रथमं रूपम्। द्वितीयं रूपं स्वसामान्यं मूर्तिर्भूमिः स्नेहो जलं वह्निरुष्णता वायुः प्रणामी सर्वतोगतिराकाश इत्येतत्स्वरूपशब्देनोच्यते। अस्य सामान्यस्य शब्दादयो विशेषाः। तथा चोक्तम् – एकजातिसमन्वितानामेषां धर्ममात्रव्यावृत्तिरिति। सामान्यविशेषसमुदायोऽत्र द्रव्यम्। द्विष्ठो हि समूहः प्रत्यस्तमितभेदावयवानुगतः शरीरं वृक्षो यूथं वनमिति। शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्याः। समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस्ताभ्यामेवाभिधीयते समूहः। स च भेदाभेदविवक्षितः। आम्राणां वनं ब्राह्मणानां सङ्घ आम्रवणं ब्राह्मणसङ्घ इति। स पुनर्द्विविधो युतसिद्धावयवोऽयुतसिद्धावयवश्च। युतसिद्धावयवः समूहो वनं सङ्घ इति। अयुतसिद्धावयवः सङ्घातः शरीरं वृक्षः परमाणुरिति। अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः। एतत्स्वरूपमित्युक्तम्। अथ किमेषां सूक्ष्मरूपं, तन्मात्रं भूतकारणं, तस्यैकोऽवयवः परमाणुः सामान्यविशेषात्माऽयुतसिद्धावयवभेदानुगतः समुदाय इत्येवं सर्वतन्मात्राण्येतत्तृतीयम्। अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावानुपातिनोऽन्वय शब्देनोक्ताः। अथैषां पश्चमं रूपमर्थवत्त्वं, भोगापवर्गार्थता गुणेष्वेवान्वयिनी, गुणास्तन्मात्रभूतभौतिकेष्विति सर्वमर्थवत्। तेष्विदानीं भूतेषु पञ्चसु पञ्चरूपेषु संयमात्तस्य तस्य रूपस्य दर्शनं जयश्च प्रादुर्भवति। तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति। तज्जयाद्वत्सानुसारिण्य इव गावोऽस्य सङ्कल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥ ४४ ॥ व्याख्या भास्वती
तत्रेति । पार्थिवाद्याः शब्दादयः = पार्थिवाः शब्दस्पर्शादयः, आप्याः शब्दस्पर्शादयइत्याद्याः, विशेषाः = अशेषवैचित्र्यसम्पन्नानि भौतिकद्रव्याणीत्यर्थः, आकारकाठिन्यतारल्यादिधर्मयुक्ताः स्थूलशब्देन परिभाषिताः, द्वितीयमिति । स्वसामान्यं = प्रातिस्विकम्, मूर्त्तिः = संहतत्वम्, स्नेहः = तारल्यम्, प्रणामी = वहनशीलत्वं, सदाऽस्थैर्यमिति यावत्, सर्वतोगतिः = सर्वगतत्वं शब्दगुणस्य सर्वभेदकत्वाद्, अस्य सामान्यस्य शब्दादयः = पार्थिवादिशब्दस्पर्शरूपरसगन्धा विशेषाः, तथेति । तथा चोक्तम् पूर्वाचार्यैः - स्वजातिसमान्वितानां = भूतत्वजातिसमन्वितानां यद्वा - मूर्त्त्यादिजातिसमन्वितानामेषां पृथिव्यादीनां - धर्ममात्रेण = शब्दादिना व्यावृत्तिः = विशेषत्वं जातिभेदस्तथा षड्जर्षभादिनाऽवान्तरभेदश्च, अत्र सामान्यविशेषसमुदायः = सामान्यं धर्मी, विशेषो धर्मास्तेषां समुदायो द्रव्यं, द्विष्ठः = प्रकारद्वयेन स्थितो हि समूहः, प्रत्यस्तमितभेदा अवयवा यस्य सः तादृशावयवस्यानुगतः, शब्देनोपात्तः = प्राप्तः स्थापित इत्यर्थः भेदो येषामवयवानां ते तादृशावयवानुगतः,
स पुनरपि । युतसिद्धाः = अन्तरालयुक्ता अवयवा यस्य स युतसिद्धावयवः, निरन्तरालावयवोयुतसिद्धावयवः, एतद् मूर्त्यादिभूतानां द्वितीयं रूपं यस्य तान्त्रिकी परिभाषा स्वरूपमिति अथेति । तृतीयं सूक्ष्मरूपं तन्मात्रम्, तस्यैकोऽवयवः परमाणुः = परमाणुरेवतन्मात्रस्यैकश्वरमोवयवः, परमसूक्ष्मत्वात् परमाणोरवयवभेदो न विवेक्तव्यस्ततश्च यथा कालिकधाराक्रमेण शब्दाज्ञानं तन्मात्राणामपि तथा क्षणधाराक्रमेण ज्ञानम्, तच्च सामान्यविशेषात्मकं = सामान्यं = शब्दादिमात्रं, विशेषाः = षड्जादयः, तदात्मकं = तत्स्वरूपम् तत्काराणमित्यर्थः, अथ भूतानामिति । कार्यस्वभावानुपातिनः = स्वकार्याणां भूत्तानां प्रकाशादिस्त्वभावानाम्; अनुपातिनः = अनुगुणशीलसम्पन्नाः, कारणस्वभावस्य कार्येऽनुवर्त्तमानत्वाद्, अथैषामिति । भोगापवर्गार्थता गुणेषु ; अन्वयिनी = त्रिगुणनिष्ठेत्यर्थः, गुणाः पुनस्तन्मात्रभूतभौतिकेश्वन्वयिन इति हेतोस्तत् सर्वम् अर्थवद् = भोगापवर्गयोः साधनम् । तेष्विति । इदानीम्भूतेषु = शेषोत्पन्नेषु महाभूतेषु तेषाञ्च पञ्चरूपेषु संयमात्, स्वरुपदर्शनं = तस्य तस्य रूपस्योपलब्धिः, तेषां भूतानां जयश्च-अणिमादिलक्षणः, भूतप्रक्रुतयः = भूतानि तत्प्रकृतयस्तन्मात्राणि चेति ॥ ४४ ॥ ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ ४५ ॥ तत्राणिमा भवत्यणुः। लघिमा लघुर्भवति। महिमा महाभवति। प्राप्तिरङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम्। प्राकाम्यमिच्छानभिघातः। भूमावुन्मज्जति निमज्जति यथोदके। वशित्वं भूतभौतिकेषु वशी भवत्यवश्यश्चान्येषाम्। ईशितृत्वं तेषां प्रभवाप्ययव्यूहानामीष्टे। यत्र कामावसायित्वं सत्यसङ्कल्पता यथा सङ्कल्पस्तथा भूतप्रकृतीनामवस्थानम्। न च शक्तोऽपि पदार्थविपर्यासं करोति। कस्मात्। अन्यस्य यत्र कामावसायिनः पूर्वसिद्धस्य तथा भूतेषु सङ्कल्पादिति। एतान्यष्टावैश्वर्याणि। कायसम्पद्वक्ष्यमाणा। तद्धर्मानभिघातश्च पृथिवी मूर्त्या न निरुणद्धि योगिनः शरीरादिक्रियां, शिलामप्यनुविशतीति। नाऽऽपः स्निग्धाः क्लेदयन्ति। नाग्निरूष्णो दहति। न वायुः प्रणामी वहति। अनावरणात्मकेऽप्याकाशे भवत्यावृतकायः सिद्धानामप्यदृश्यो भवति ॥ ४५ ॥ व्याख्या भास्वती
तत्रेति । सुगमम्, तेषामिति । प्रभावाप्ययव्यूहानाम् = उत्पत्तिलयसन्निवेशानाम्; ईष्टे= नियमितुं प्रभवति, यथा सङ्कल्प इति । सङ्कल्पितरूपेण भूतप्रकृतीनामवस्थासामर्थ्ये चिरं वा स्वल्पकालं वा,न चेति । शक्तोऽपि =शक्तिसम्पन्नोऽपि; न च पदार्थविपर्यासं=लोकलोक्यव्यतस्थापनं ; करोति = तत्करणावकाशः सिद्धस्यात्र नास्तीति न करोति, कस्माद् १ अन्यस्य पूर्वसिद्धस्य यत्र कामावसायिनो भगवतो जगतां पातुर्हिरण्यगर्भस्य तथाभूतेषू =दृष्यमानव्यवस्थापनेषू सङ्कल्पाद्, यथा - शक्तोऽपि कश्चिद् राजा परराष्ट्रे न किञ्चित् करोति तद्वत्, तद्धर्मेति । सुगमम् । आकाशेऽप्यावृतकाय इत्यस्यार्थः सिद्धानामप्यदृष्यता ॥ ४५ ॥ रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ ४६ ॥ दर्शनीयः कान्तिमानतिशयबलो वज्रसंहननश्चेति ॥ ४६ ॥ व्याख्या भास्वती
वज्रसंहननत्वं = वज्रवद् दृढसंहतिः, कायस्य सम्यगभेध्यत्वमित्यर्थः ॥ ४६ ॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ४७ ॥ सामान्यविशेषात्मा शब्दादिर्ग्राह्यः। तेष्विन्द्रियाणां वृत्तिर्ग्रहणम्। न च तत्सामान्यमात्रग्रहणाकारं कथमनालोचितः स विषयविशेष इन्द्रियेण मनसाऽनुव्यवसीयेतेति। स्वरूपं पुनः प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्यविशेषयोरयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिन्द्रियम्। तेषां तृतीयं रूपमस्मितालक्षणोऽहङ्कारः। तस्य सामान्यस्येन्द्रियाणि विशेषाः। चतुर्थं रूपं व्ययवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणा येषामिन्द्रियाणि साहङ्काराणि परिणामः। पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थवत्त्वमिति। पञ्चस्वेतेष्विन्द्रियरूपेषु यथाक्रमं संयमस्तत्र तत्र जयं कृत्वा पञ्चरूपजयादिन्द्रियजयः प्रादुर्भवति योगिनः ॥ ४७ ॥ व्याख्या भास्वती
सामान्येति । तेषु शब्दादिश्विन्द्रियाणां वृत्तिः = आलोचनप्रक्रिया नामजात्यादि -विज्ञानाविप्रयुक्ता शब्दाध्येकैकविषयाकारमात्रेण परिणम्यमानतेति यावद्,ग्रहणम् प्रत्यक्षविज्ञानस्य मूलत्वान्न तदालोचनं ज्ञानं सामान्याकारमात्रमपि चेन्द्रियेण सामान्यविषयमात्रग्रहणे सति विशेषविषयः कथं मनसाsनुव्यवसीयते=अनुचिन्त्यते, दृश्यते तु विषेशविषयस्यापि स्मरणकपनादिकम्, स्वरूपमिति । प्रकाशात्मनो बुद्धिसत्त्वस्य सम्स्थानभेदश्चेन्द्रियरूपमेकं द्रव्यं जातम्,
तदिन्द्रियद्रव्यन्तु - सामान्यविशेषयोः प्रकाशसामान्यस्य कर्णादिरूपविशेषव्यूहनस्य च समूहरूपं निरन्तरालावयववद्,इन्द्रियगता या प्रकाशशीलता या च शब्दस्पर्षाध्याकारैः परिणता शब्दाध्यालोचनज्ञानाकारा भवति तत्कारणभूतः प्रकाशगुणस्य कर्णादिरूप एकैक; संस्थितिभेद एवेन्द्रियाणां स्वरूपम्,तेषां तृतीयं रूपमस्मिताः तस्याः सामान्यो पादानभूताया इन्द्रियाणि विशेषाः व्यवसायात्मका न व्यवसेय्ग्राह्यात्मकास्त्रिगुणायेषां - प्रकाशक्रियास्थितिरूपाः स्वभावा ज्ञानचेश्टासम्स्काररूपेणेन्द्रियेश्वन्वितास्तदिन्द्रियाणामन्वयित्वरूपम्, पञ्चमं रूपमिन्द्रियेषु यद् गुणानुगतं गुणानुवर्त्तमानं पुरुषार्थवत्त्वम्, पञ्च-सविति । इन्द्रियजयः = बाह्यान्तरेन्द्रियाणामभीष्टाकारेण परिणमनसामर्थ्यम् ॥ ४७ ॥ ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ४८ ॥ कायस्यानुत्तमो गतिलाभो मनोजवित्वम्। विदेहानामिन्द्रियाणामभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः। सर्वप्रकृतिविकारवशित्वं प्रधानजय इत्येतास्तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते। एताश्च करणपञ्चरूपजयादधिगम्यन्ते ॥ ४८ ॥ व्याख्या भास्वती
कायस्येति । मनोबज्जवो गतिवेगो मनोजवस्तत्त्वम्, विदेहानां = शरीरनिरपेक्षाणामिन्द्रियाणामभिप्रेते देशे काले विषये च वृत्तिलाभो ज्ञानचेश्टाssदिकरणसामर्थ्यं विकरणभावः = विदेहानामपीन्द्रियाणां करणभाव इत्यर्थेः,” अष्टौ प्रकृत्यः षोडश विकारा” इत्येतेषां जयः प्रधानजयः, मधुप्रतीकसञ्ज्ञा एतास्तिस्त्रः सिद्धयः करणपञ्चकरूपजयात् = पञ्चानां करणानां ग्रहणादिरूपञ्चकजयादित्त्यर्थः ॥ ४८ ॥ सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ४९ ॥ निर्धूतरजस्तमोमलस्य बुद्धिसत्त्वस्य परे वैशारद्ये परस्यां वशीकारसञ्ज्ञायां वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम्। सर्वात्मानो गुणा व्यवसायव्यवसेयात्मकाः स्वामिनं क्षेत्रज्ञं प्रत्यशेषदृश्यात्मत्वेनोपस्थिता इत्यर्थः। सर्वज्ञातृत्वं सर्वात्मनां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानामक्रमोपारूढं विवेकजं ज्ञानमित्यर्थः। इत्येषा विशोका नाम सिद्धिर्यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरति ॥ ४९ ॥ व्याख्या भास्वती
ज्ञानक्रियारूपाः सिद्धीरुक्त्वा सर्वाभिप्लाविनो विवेकजसिद्धिमाह – सच्चेति । व्याचष्टे -निर्धूतेति । परे वैशारध्ये = रजस्तमोहीने स्क्च्छे स्थितिप्रवाहे जाते, वशीकारवैराग्याद् विषयप्रवृत्तिहीनं चेतो विवेकख्यातिमात्रप्रतिष्ठं भवति ततः सर्वभावाधिष्ठातृत्वं - सर्वोपादानभूता ग्रहणग्राह्यरूपाः सत्त्वादिगुणाः क्षेत्रज्ञं स्वामिनं प्रत्यशेषदृश्यात्मकत्वेन = सर्वविधग्रहणशक्तिरूपेण तद्ग्राह्यरूपेण चोपतिष्ठन्ते, तदा सर्वभूतस्थमात्मानं योगी पश्यति, सर्वज्ञातृत्वमिति । अक्रमोपारूढम्=युगपदुपस्थितम्,विवेकजसञ्ज्ञा सार्वज्ञ्यसिद्धिः, एषा योगप्रसिद्धा विशोकानाम्नी सिद्धिः ॥ ४९ ॥ तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ५० ॥ यदाऽस्यैवं भवा क्लेशकर्मक्षये सत्त्वस्यायं विवेकप्रत्ययो धर्मः सत्त्वं च हेयपक्षे न्यस्तं पुरुषश्चापरिणामी शुद्धोऽन्यः सत्त्वादिति। एवमस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पान्यप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति। तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं न भुङ्क्ते। तदेतेषां गुणानां मनसि कर्मक्लेशविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्याऽऽत्यन्तिको गुणवियोगः कैवल्यं, तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुष इति ॥ ५० ॥ व्याख्या भास्वती
विवेकस्यावन्तरसिद्धिमुक्त्वा मुख्यां सिद्धिमाह - तदिति । तद्वैराग्ये = विवेकज-सार्वज्ञ्ये सर्वाधिष्ठातृत्वे च वैराग्ये जाते, यदेति । यदाऽस्य योगिन एवंविवेकस्यापि हेयताख्यातिर्भवति, क्लेशकर्मक्षये = विवेकज्ञानस्य विद्यारूपस्य प्रतिष्ठाया अविद्याऽऽदि क्लेशानां तन्मूलककर्मणाञ्च दग्धबीजभावत्वं क्षयः, तेषां क्षयाच्चाविप्लवा विषेकख्यातिर्भवति, ततो विवेकोऽपि हेय इति परं वैराग्यमुत्पद्यते, अथ दग्धबीजकल्पाः क्लेशाः परेण वैराग्येण सह चित्तेन प्रलीना भवन्ति, ततः पुरुषः पुनस्तापतत्रयं न भुङ्क्ते = तापात्मकचित्तवृत्तेर्वा ग्रहीतृबुद्धिस्तस्याः प्रतिसंवेदी न भवतीत्यर्थः, शेषमतिरोहितम्, चितिशक्तिरेवेति । एवेशब्देन शाश्वतीम् स्वरूपप्रतिष्ठां द्योतयति ॥ ५० ॥ स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ५१ ॥ चत्वारः खल्वमी योगिनः प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति। तत्राभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः। ऋतम्भरप्रज्ञो द्वितीयः। भूतेन्द्रियजयी तृतीयः सर्वेषु भावितेषु भावनीयेषु कृतरक्षाबन्धः कर्तव्यसाधनादिमान्। चतुर्थो यस्त्वतिक्रान्तभावनीयस्तस्य चित्तप्रतिसर्ग एकोऽर्थः। सप्तविधाऽस्य प्रान्तभूमिप्रज्ञा। तत्र मधुमतीं भूमिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्त्वविशुद्धिमनुपश्यन्तः स्थानैरुपनिमन्त्रयन्ते भो इहाऽऽस्यतामिह रम्यतां कमनीयोऽयं भोगः कमनीयेयं कन्या रसायनमिदं जरामृत्युं बाधते वैहायसविदं यानममी कल्पद्रुमाः पुण्या मन्दाकिनी सिद्धा महर्षय उत्तमा अनुकूला अप्सरसो दिव्ये श्रोत्रचक्षुषी वज्रोपमः कायः स्वगुणैः सर्वमिदमुपार्जितमायुष्मता प्रतिपद्यतामिदमक्षयमजरममरस्थानं देवानां प्रियमिति। एवमभिधीयमानः सङ्गदोषान्भावयेद्घोरेषु संसाराङ्गारेषु पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथञ्चिदासादितः क्लेशतिमिरविनाशी योगप्रदीपस्तस्य चैते तृष्णायोनयो विषववायवः प्रतिपक्षाः। स खल्वहं लब्धालोकः कथमनया विषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसाराग्नेरात्मानमिन्धनी कुर्यामिति। स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्येवं निश्चितमतिः समाधिं भावयेत्। सङ्गमकृत्वा स्मयमपि न कुर्यादेवमहं देवानामपि प्रार्थनीय इति। स्मयादयं सुस्थितम्मन्यतया मृत्युना केशेषु गृहीतमिवाऽऽत्मानं न भावयिष्यति। तथा चास्य च्छिद्रान्तरप्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशानुत्तम्भयिष्यति ततः पुनरनिष्टप्रसङ्गः। एवमस्य सङ्गस्मयावकुर्वतो भावितोऽर्थो दृढी भविष्यति। भावनीयश्चार्थोऽभिमुखी भविष्यतीति ॥ ५१ ॥ व्याख्या भास्वती
तत्रेति । प्रवृत्तमात्रज्योतिः = संयमजा प्रज्ञा प्रवुत्तैव न वशीभूता यस्य सः, सर्वेष्विति । भूतेन्द्रियजयादिषु भावितेषु कृतरक्षाबन्धः = निष्पादितत्वात् कर्तव्यताहीनः, भावनीयेषु = विवेकादिषु यत्कर्त्तव्यमस्ति तत्साधनभावनावान्, चतुर्थ इति । चित्तप्रतिसर्गश्वित्तस्य प्रत्यय एकोऽवशिष्टोर्थः = साध्यः, तत्रेति । स्थानैः = स्वर्गलोकस्य प्रशंसाऽऽदिभिः, तस्य योगप्रदीपस्य तृष्णासम्भूता विषयवायवः प्रतिपक्षा निर्वाणक्रुत इत्यर्थः, कृपणजनः = कृपाऽर्हजनः छिद्रान्तरप्रेक्षी = छिद्ररूपोऽन्तरोऽवकाशस्तद्गवेषकः, नित्यं यत्नोपचर्यः = यत्नेन प्रतिकाय एवम्भूतः प्रमादो लब्धविवरः = लब्धप्रवेशः क्लेशानुत्तम्भयिष्यति = प्रबलीकरिष्यति, शेषं सुगमम् ॥ ५१ ॥ क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२ ॥ यथाऽपकर्षपर्यन्तं द्रव्यं परमाणुरेवं परमापकर्षपर्यन्तः कालः क्षणो यावता वा समयेन चलितः परमाणुः पूर्वदेशं जह्यादुत्तरदेशमुपसम्पद्येत स कालः क्षणः। तत्प्रवाहाविच्छेदस्तु क्रमः। क्षणतत्क्रमयोर्नास्ति वस्तुसमाहार इति बुद्धिसमाहारो मुहूर्ताहोरात्रादयः। स खल्वयं कालो वस्तुशून्योऽपि बुद्धिनिर्माणः शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवावभासते। क्षणस्तु वस्तुपतितः क्रमावलम्बी। क्रमश्च क्षणानन्तर्यात्मा तं कालविदः काल इत्याचक्षते योगिनः। नच द्वौ क्षणौ सह भवतः। क्रमश्च न द्वयोः सहभुवोरसम्भवात्। पूर्वस्मादुत्तरभाविनो यदानन्तर्यं क्षणस्य स क्रमः। तस्माद्वर्तमान एवैकः क्षणो न पूर्वोत्तरक्षणाः सन्तीति। तस्मान्नास्ति तत्समाहारः। ये तु भूतभाविनः क्षणास्ते परिणामान्विता व्याख्येयाः। तेनैकेन क्षणेन कृत्स्नो लोकः परिणाममनुभवति। तत्क्षणोपारूढाः खल्वमी सर्वे धर्माः। तयोः क्षणतत्क्रमयोः संयमात्तयोः साक्षात्करणम्। ततश्च विवेकजं ज्ञानं प्रादुर्भवति ॥ ५२ ॥ व्याख्या भास्वती
विवेकजज्ञानस्योपायान्तरमाह - क्षणेति । क्षणे तत्क्रमे च = पूर्वोत्तररूपप्रवाहे च संयमात् सूक्ष्मतमपरिणामसाक्षात्कारः स्यात् ततश्चाप्युक्तं विवेकजं ज्ञानं = अपरप्रसङ्ख्याननामकं सार्वज्ञम् भवतीति सूत्रार्थः, यथेति । यथा - अपकर्षपर्यन्तं द्रव्यं = सूक्ष्मतमं रूपदिद्रव्यम् परमाणुस्तथा कालस्य परमाणुः क्षणः, यावतेति । परमाणोर्देशावस्थानस्यान्यथाभावो यावता कालेन भवति स एव वा क्षणः, विक्रियाया अधिकरणमेव कालः, परमाणोर्देशावस्थानभेदस्तु सूक्ष्मतमा विक्रिया, तदधिकरणं तस्मात् कालस्याणुरवयवः क्ष्णसम्ज्ञकः ततप्रवाहाविच्छेदस्तु = निरन्तरः क्ष्णप्रवाहः क्रमः क्षणानाम्,कालज्ञानतत्वं विवृणोति - क्षणतत्क्रमयोरिति । वस्तुसमाहारः = यथा घटादिवस्तूनां समाहारे सर्वाणि वस्तूनि वर्मानानीति लभ्यन्ते न तथा क्षणसमाहारे अतीतानागतक्षणानामवर्त्तमानत्वात्, तस्माद्, मुहूर्ताहोरात्रादयः क्षणसमाहारो बुद्धिनिर्माणः = शब्दज्ञानानुपाती वैकल्पिक एव पदार्थो न वास्तवः, व्युत्थितदृग्भिर्लौकिकैः स कालो वस्तुस्वरूप इव व्यवह्रियते मन्यते च, क्षणस्तु वस्तुपतितः = वस्तुनोऽधिकरणं न तु किञ्चिद्वस्तु, वस्तुरूपेण कल्पितस्यावस्तुनोऽप्यधिकरणं क्षणः, क्रमावलम्बी = क्रमरूपेणालम्ब्यते गृह्यत इत्यर्थः, यतः क्रमः क्षणानन्तर्यात्मा = निरन्तरक्षणज्ञानरूपः, ततस्तत्क्षणनैरन्तर्यं कालविदो योगिनः काल इति वदन्ति, न चेति । क्षणानाम् कथं नास्ति वस्तुसमाहारस्तदर्थयति - य इति । ये भूतभाविनः क्षणास्ते परिणामान्विताः = परिणामैः सहान्विता वैकल्पिकपदार्था न च वास्तवपदार्था इति व्याख्येयाः = मन्तव्याः, तस्मादिति । तस्मादेक एव क्षणो वर्त्तमानः = वर्त्तमान्ख्यकाल इत्यर्थः, तेनेति । तेनैकेन वर्त्तमानक्षणेन कृत्स्नो लोको महदादिव्यक्तवस्तु परिणाममनुभवति, तत्क्षणोपारूढाः = वर्त्तमानैकक्षणाधिकरणकाः खल्वमी धर्माः = सर्वस्य सर्वेऽतीतानागतवर्त्तमाना धर्माः, अतीतानागतानां धर्मणामपि सूक्ष्मरूपेण वर्त्तमानत्वाद्, उपसंहरति - तयोरिति । क्षणतत्क्रमयोः = क्षणव्यापिपरिणामस्य साक्षात्कारस्तथा च तत्क्रमसाक्षात्कारः, परिणामस्य किम्प्रकारः प्रवाहः क्रमक्षात्कारत्तदधिगमो विवेकजं ज्ञानं वक्ष्यमाण लक्षणकम् ॥ ५२ ॥ तस्य विषयविशेष उपक्षिप्यते – जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३ ॥ तुल्ययोर्देशलक्षणसारूप्ये जातिभेदोऽन्यताया हेतुः, गौरियं वडवेयमिति। तुल्यदेशजातीयत्वे लक्षणमन्यत्वकरं कालाक्षी गौः स्वस्तिमती गौरिति। द्वयोरामलकयोर्जातिलक्षणसारूप्याद्देशभेदोऽन्यत्वकर इदं पूर्वमिदमुत्तरमिति। यदा तु पूर्वमामलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेश उपावर्त्यते तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदितिप्रविभागानुपपत्तिः। असन्दिग्धेन च तत्त्वज्ञानेन भवितव्यमित्यत इदमुक्तं ततः प्रतिपत्तिर्विवेकजज्ञानादिति। कथं, पूर्वामलकसहक्षणो देश उत्तरामलकसहक्षणाद्देशाद्भिन्नः। ते चाऽऽमलके स्वदेशक्षणानुभवभिन्ने। अन्यदेशक्षणानुभवस्तु तयोरन्यत्वे हेतुरिति। एतेन दृष्टान्तेन परमाणोस्तुल्यजातिलक्षणदेशस्य पूर्वपरमाणुदेशसहक्षणसाक्षात्करणादुत्तरस्य परमाणोस्तद्देशा-नुपपत्तावुत्तरस्य तद्देशानुभवो भिन्नः सहक्षणभेदात्तयोरीश्वरस्य योगिनोऽन्यत्वप्रत्ययो भवतीति। अपरे तु वर्णयन्ति – येऽन्त्या विशेषास्तेऽन्यताप्रत्ययं कुर्वन्तीति। तत्रापि देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश्चान्यत्वे हेतुः। क्षणभेदस्तु योगिबुद्धिगम्य एवेति। अत उक्तं मूर्तिव्यवधिजातिभेदाभावान्नास्ति मूलपृथक्त्वमिति वार्षगण्यः ॥ ५३ ॥ व्याख्या भास्वती
तस्येति । विवेकजज्ञानस्य विषयविशेषः = विषयस्य विशेष उपन्यस्यते, जात्यादीनां तदेकधर्माणां यत्र साध्यं तद्विषयोऽपि विवेकजज्ञानेन विविच्यत इति सूत्रार्थः, तुल्ययोरिति । यत्र मोजातीया गौर्दृष्टाऽधुना तत्र वडवेति जात्या भेदः, लक्षणैरन्यता जात्यादिसाम्येऽपि तदुदाहरणं - कालाक्षीति । इदं पूर्वं= पूर्वेदेशस्थमित्यर्थः, यदेति । उपावर्त्त्यते = उपास्थाप्यत इत्त्यर्थः, लौकिकानां प्रविभागानुपपत्तिरविवेकस्तच्च विवेकजज्ञानमसन्दिग्धेन विवेकजतत्त्वज्ञानेन भवितव्यम्, कथमिति । पूर्वामलकसहक्षणो देशः = यस्मिन् क्षणे पूर्वामलकं यद्देश आसीत् तद्दशसहितो यश्व क्षण आसीत् तत्क्षणव्यापि परिणामयुक्तं तदामलकम्, एवमुत्तरामलकम्, ततस्ते स्वदेशक्षणानुभवमिन्ने, एवं तयोरन्यत्वमिति । पारमार्थिकमुदाहरणम् - परमाणोरिति । द्वयोः परमाण्वोरपि पूर्वोक्तरीत्या भेदसाक्षात्कारो योगीश्वरस्य भवति, अपर इति । सन्ति केचिदन्त्याः = अगोचराः सूक्ष्मा इत्थेः, विशेषा भेदकगुणा ये भेदज्ञानं जनयन्तीति येषां मतं तत्रापि देशलक्षणभेदस्तथा च मूर्त्तिव्यवधिजातिभेदोऽन्यत्वहेतुः, मूर्त्तिः = वस्तूनां प्रातिस्विका गुणा व्यवधिः = अवच्छिन्नदेशकालव्यापकता, जातिः = बहुव्यक्तीनां साधारणधर्मवाची वाचकः, यतो जात्यादिभेदो लोकबुद्धिगम्योऽत उक्तं क्षणभेदास्तु योगिबुद्धिगम्या एवेति विकारेष्वेव भेदो न तु सर्वमूले प्रधाने तत्राचार्यो वार्षमण्यो वक्ति मूर्त्तिव्यवधिजातिभेदानामभावान्नास्ति वस्तूनां मूलावस्थायां प्रधान इत्यर्थः पृथक्त्वम् ॥ ५३ ॥ तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥ ५४ ॥ तारकमितिस्वप्रतिभोत्थमनौपदेशिकमित्यर्थः। सर्वविषयं नास्य किञ्चिदविषयीभूतमित्यर्थः। सर्वथाविषयमतीतानागतप्रत्युत्पन्नं सर्वं पर्यायैः सर्वथा जानातीत्यर्थः। अक्रममित्येकक्षणोपारूढं सर्वं सर्वथा गृह्णातीत्यर्थः। एतद्विवेकजं ज्ञानं परिपूर्णम्। अस्यैवांशो योगप्रदीपो मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिरिति ॥ ५४ ॥ व्याख्या भास्वती
तारकमिति । प्रतिभा = ऊहः, स्वबुद्ध्युत्कर्षादूहित्वा सिद्धमित्यर्थः, ततोऽनौपदेशिकम्, पर्यायैः = अवान्तरभेदैः, एकक्षणोपारूढम् युगपत् सर्वे सर्वथा गृह्णाति, सर्वमेव वर्त्तमानं नास्त्यस्य किञ्चिदतीतमनागतञ्चेति, तारकाख्यमेतद् विवेकजं ज्ञानम् परिपूर्णं = नातः परं ज्ञानोत्कर्षः साध्य इत्यर्थः, अस्याम्शो योगप्रदीपः = ज्ञानदीप्तिमान् सम्प्रज्ञातः, मधुमर्तीभूमिम् = ऋतम्भरां प्रज्ञामुपादाय ततः प्रभृति यावदस्य परिसमाप्तिः प्रान्तभूमिविवेकरूपा तावद् योगप्रदीप इत्यर्थः ॥ ५४ ॥ प्राप्तविवेकजज्ञानस्याप्राप्तविवेकजज्ञानस्य वा – सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५ ॥ यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषस्यान्यताप्रतीतिमात्राधिकारं दग्धक्लेशबीजं भवति तदा पुरुषस्य शुद्धिसारूप्यमिवाऽऽपन्नं भवति, तदा पुरुषस्योपचरितभोगाभावः शुद्धिः। एतस्यामवस्थायां कैवल्यं भवतीश्वरस्यानीश्वरस्य वा विवेकजज्ञानभागिन इतरस्य वा। नहि दग्धक्लेशबीजस्य ज्ञाने पुनरपेक्षा काचिदस्ति। सत्त्वशुद्धिद्वारेणैतत्समाधिजमैश्वर्यं ज्ञानं चोपक्रान्तम्। परमार्थतस्तु ज्ञानाददर्शनं निवर्तते तस्मिन्निवृत्ते न सन्त्युत्तरे क्लेशाः। क्लेशाभावात्कर्मविपाकाभावः। चरिताधिकाराश्चैत्तस्यामवस्थायां गुणा न पुरुषस्य पुनर्दृश्यत्वेनोपतिष्ठन्ते। तत्पुरुषस्य कैवल्यं, तदा पुरुषः स्वरूपमात्रज्योतिरमलः केवली भवति ॥ ५५ ॥ व्याख्या भास्वती
सत्त्वेति । बुद्धिसत्त्वस्य शुद्धौ पुरुषसाम्ये च, तथा पुरुषस्योपचरितभोगाभावरूपशुद्धौ स्वसाम्ये च कैवल्यमिति सूत्रार्थः, यदेति । व्याचष्टे - विवेकेनाधिकृतं दग्धक्लेशबीजं बुद्धिसत्वं पुरुषस्य स्वरूपं पुरुषवच्च शुद्धं गुणमलरहितमिव भवतीति सत्त्वस्य शुद्धिसाम्यम्, तदा पुरुषस्य शुद्धस्य गौणी शुद्धिरपचारहीनता वृत्तिसारूप्याप्रतीतिस्तता स्वेन सह च साम्यम्, एतस्यामवस्थायां कैवल्यं भवति, ईश्वरस्य = लब्धयोगैश्वर्यस्य वाऽनीश्वरस्य वा, सम्यग् विरक्तानां ज्ञानयोगिनामैश्वर्यालिप्सूनां विभूत्यप्रकाशेऽपि कैवल्यं भवतीत्यर्थः, न हीति । दग्धक्लेशबीजस्य ज्ञाने = ज्ञानस्य परिपूर्णतायां न का चिदपेक्षा स्यात्, सत्त्वेति । सत्त्वशुद्धिद्वारेण = सत्त्वशुद्धिलक्षणकमन्यद् यत्फलम् ज्ञानैश्वर्यरूपं तदेवोपक्रान्तम् = उक्तमित्यर्थः, परमार्थतस्तु = मोक्षदृशा तु विवेकज्ञानादविवेकरूपाऽविद्या निवर्त्तते, तन्निवृत्तौ न सन्ति पुनः क्लेशाः = क्लेशसन्ततिश्छिन्ना भवतीत्यर्थः, तदिति । तत् पुरुषस्य कैवल्यं = केवलीभावः, दृश्यानां विलयाद् द्रष्टुः केवलावस्थानम्, तदा पुरुषः स्वरूपमात्रज्योतिः = स्वप्रकाशोऽमलः केवलीति वक्तव्यस्तथाभूतोऽपि तदा तथैव वाच्यो भवति वृत्तिसारूप्यप्रतीतेरभावादिति ॥ ५५ ॥ कैवल्यपादः जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १ ॥ देहान्तरिता जन्मना सिद्धिः। ओषीधिभिरसुरभवनेषु रसायनेनेत्येवमादिः। मन्त्रैराकाशगमनाणिमादिलाभः। तपसा सङ्कल्पसिद्धिः, कामरूपी यत्र तत्र कामग इत्येवमादि। समाधिजाः सिद्धयो व्याख्याताः ॥ १ ॥ व्याख्या भास्वती
इति श्रीपातञ्जलयोगभाष्यस्य टीकायाम् भास्वत्यां तृतीयः पादः ।
पादेऽस्मिन् योगस्य मुख्यं फलं कैवल्यं व्युत्पादितम् । कैवल्यरूपां सिद्धिं व्याचिख्यासुरादौ सिद्धिभेदं दर्शयति - - कायचित्तेन्द्रियाणामभीष्ट उत्कर्षः सिद्धिः । सा च सिद्धिः जन्मादिः पञ्चविधा । देहान्तरिता - कर्मविशेषादन्यस्मिन् जन्मनि प्रादुर्भूता देहवैशिष्ट्यजान्ता जन्मना सिद्धिः, यथा केषाञ्चित् विनापि दृष्टसाधनं शरीरप्रकृतिविशेषात् परचित्तज्ञतादिः दूराच्छ्रवणदर्शनादिर्वा प्रादुर्भवति , तथा ओषदिमन्त्रैस्तपसा च केषाञ्चित् सिद्धिः, संयमजाः सिद्धयः व्याख्याताः ताश्च सिद्धिष्वनियता अबन्ध्यवीर्याः ॥ १ ॥ तत्र कायेन्द्रियाणामन्यजातीयपरिणतानाम् – जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ २ ॥ पूर्वपरिणामापाय उत्तरपरिणामोपजनस्तेषामपूर्वावयवानुप्रवेशाद्भवति। कायेन्द्रियप्रकृतयश्च स्वं स्वं विकारमनुगृह्णन्त्यापूरेण धर्मादिनिमित्तमपेक्षमाणा इति ॥ २ ॥ व्याख्या भास्वती
तत्रेति । तत्र - सिद्धौ कायेन्द्रियाणामन्यजातीयः परिणामि दृश्यते, स च जात्यन्तरपरिणामः प्रकृत्यापूरादेव भवति, प्रकृतिः कायेन्द्रियाणां प्रत्येकजात्यवच्छिन्नं यद् वैशिष्ट्यं तस्य मूलीभूता शक्तियर्या तत्तत्कायेन्द्रियाणां स्मृत्यभिव्यक्तिः, ताश्च द्विधा प्रकृतयः कर्माशयव्यङ्ग्या अनुभूतपूर्वा वासनारूपास्तथाननुभूतपूर्वा अव्यवपदेश्याश्च, दैवादिविपाकानुभवजाता वासनारूपा प्रकृतिरनुभूतपूर्वा, ध्यानजसिद्धिप्रकृतिस्तु - अननुभूतपूर्वाऽनुभूयमानस्य विक्षेपस्य प्रहाणरूपान्निमित्तात् साऽभिव्यक्ता भवति । आपूरः - अनुप्रवेशः । पूर्वेति । अपूर्वावयवानुप्रवेशात् यथा मानुषप्रकृतिके चक्षुषि दैवप्रकृतिकचक्षुःसंस्काररूपस्यापूर्वावयवानुप्रवेशाद् मानुषचक्षुर्दैवं व्यवहितदर्शनप्रकृतिकं भवति, एवं कायेन्द्रियप्रकृतयः स्वं स्वं विकारं स्वाधिष्ठानं कायं करणञ्चापूरेणानुगृह्णन्ति अनुगृह्याभिव्यञ्जयन्ति, धर्मादिनिमित्तमपेक्ष्यैव वक्ष्यमाणरीत्या तत् कुर्वन्ति ॥ २ ॥ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ ३ ॥ न हि धर्मादि निमित्तं तत्प्रयोजकं प्रकृतीनां भवति। न कार्येण कारणं प्रवर्त्यत इति। कथं तर्हि, वरणभेदस्तु ततः क्षेत्रिकवत्। यथा क्षेत्रिकः केदारादपां पूर्णात्केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनाऽपकर्षत्यावरणं त्वासां भिनत्ति तस्मिन्भिन्ने स्वयमेवाऽऽपः केदारान्तरमाप्लावयन्ति तथा धर्मः प्रकृतीनामावरणमधर्मं भिनत्ति तस्मिन्भिन्ने स्वयमेव प्रकृतयः स्वं स्वं विकारमाप्लावयन्ति। यथा वा स एव क्षेत्रिकस्तस्मिन्नेव केदारे न प्रभवत्यौदकान्भौमान्वा रसान्धान्यमूलान्यनुप्रवेशयितुं, किं तर्हि मुद्गगवेधुकश्यामाकादींस्ततोऽपकर्षति। अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रविशन्ति, तथा धर्मो निवृत्तिमात्रे कारणमधर्मस्य, शुद्ध्यशुद्ध्योरत्यन्तविरोधात्, न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति। अत्र नन्दीश्वरादय उदाहार्याः। विपर्ययेणाप्यधर्मो धर्मं बाधते। ततश्चाशुद्धिपरिणाम इति। तत्रापि नहुषाजगरादय उदाहार्याः ॥ ३ ॥ व्याख्या भास्वती
न हीति । धर्मादि निमित्तं न प्रकृतिं कार्यान्तरजननाय प्रयोजयति विकारस्थत्वात्, स्वोपयोगिनिमित्तात् स्वानुप्रवेशस्यानिमित्तभूता गुणास्तोरोभवन्ति ततः प्रकृतिः स्वयमेवानुप्रविशति, यथा व्यवहितदर्शनं दिव्यचक्षुः प्रकृतिधर्मः, तत्प्रकृतिर्न मानुषचक्षु:कार्यादुत्पादनीयम्, मानुषचक्षु:कार्यनिरोधे सा स्वयमेव चक्षुःशक्तिमनुप्रविश्य दिव्यदृष्टिमच्चक्षुराविर्भावयति, दृष्टान्तोऽत्र “वरणभेदः ततः क्षेत्रिकवत्” ततः निमित्ताद् वरणभेदोऽनुप्रवेशस्यान्तरायापनोदनं क्षेत्रिकाणामालिभेदवत्, यथेति, अपां पूरणात् जलपूरणात्, पिप्लावयिषुः प्लावनेच्छुः , तथेति । धर्मः स्वप्रवर्तनस्य निमित्तभूतो धर्मः स्पष्टमन्यत् ॥ ३ ॥ यदा तु योगी बहून्कायान्निर्मिमीते तदा किमेकमनस्कास्ते भवन्त्यथानेकमनस्का इति – निर्माणचित्तान्यस्मितामात्रात् ॥ ४ ॥ अस्मितामात्रं चित्तकारणमुपादाय निर्माणचित्तानि करोति, ततः सचित्तानि भवन्तीति ॥ ४ ॥ व्याख्या भास्वती
यदेति । अस्मितामात्रात् अप्रलीनस्य दग्धक्लेशबीजस्य चेतसो विक्षेपसंस्कारप्रत्ययक्षये चित्तकार्यं न्यग्भूतं भवति, अतश्चास्मितामात्रस्य प्रख्यातत्वाद् अस्मितामात्रेणावस्थानं भवति तदस्मितामात्रात्, अविवेकरूपचित्तकार्यहीनाया एवास्मिताया इत्यर्थः । तदा संस्कारवशान्न चित्तस्येन्द्रियादिप्रवर्तनरूपं स्वारसिकमुत्थानम् , योगी तु परानुग्रहार्थाय तदस्मितामात्रं दग्धबीजकल्पमुपादात स्वेच्छयैकमनेकं वा चित्तं कायं च निर्मिमीते सुगमं भाष्यम्, स्वेच्छयास्योत्थानं निरोधश्च ततो न निर्माणचित्तं बन्धहेतुः ॥ ४ ॥ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५ ॥ बहूनां चित्तानां कथमेकचित्ताभिप्रायपुरःसरा प्रवृत्तिरिति सर्वचित्तानां प्रयोजकं चित्तमेकं निर्मिमीते, ततः प्रवृत्तिभेदः ॥ ५ ॥ व्याख्या भास्वती
बहूनामिति । बहुचित्तानां प्रवृत्तिभेदेऽपि सर्वेषां यथा प्रवृत्तिप्रयोजकमेकं प्रधानचित्तं निर्मिमीते तच्चितं युगपदिव तदङ्गभूतेष्वप्रधानचित्तेषु सञ्चरत् तानि स्वस्वविषयेषु प्रवर्तयति, यथा मनो ज्ञानेन्द्रियकर्मेन्द्रियप्राणेषु युगपदिव सञ्चरत् तान् प्रयोजयति तद्वत् ॥ ५ ॥ तत्र ध्यानजमनाशयम् ॥ ६ ॥ पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धय इति। तत्र यदेव ध्यानजं चित्तं तदेवानाशयं तस्यैव नास्त्याशयो रागादिप्रवृत्तिर्नातः पुण्यपापाभिसम्बन्धः क्षीणक्लेशत्वाद्योगिन इति। इतरेषां तु विद्यते कर्माशयः ॥ ६ ॥ व्याख्या भास्वती
पञ्चेति । निर्माणाचित्तमत्र सिद्धचित्तम्, ध्यानजं समाधिजं सिद्धचित्तम् अनाशयम्, तस्य नास्त्याशयः । तस्मात् तत्प्रकृतिर्यस्यानुप्रवेशात् समाधिसिद्धेरभिव्यक्तिः, न सानुभूतपूर्वा वासनारूपा कैवल्यभागीयसमाधेरननुभूतपूर्वत्वात् न तन्निवर्तनकरी प्रकृतिः संस्काररूपा, अव्यपदेश्यप्रकृतेरनुप्रवेशादेव समाधिसिद्धिर्यमादिभिर्निवृत्तेषु तत्तत्प्रयनीकधर्मेषु ॥ ६ ॥ यतः – कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ७ ॥ चतुष्पदी खल्वियं कर्मजातिः। कृष्णा शुक्लकृष्णा शुक्लाऽशुक्लाकृष्णा चेति। तत्र कृष्णा दुरात्मनाम्। शुक्लकृष्णा बहिःसाधनसाध्या। तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः। शुक्ला तपःस्वाध्यायध्यानवताम्। सा हि केवले मनस्यायत्तत्वादबहिःसाधनाधीना न परान्पीडयित्वा भवति। अशुक्लाकृष्णा सन्न्यासिनां क्षीणक्लेशानां चरमदेहानामिति। तत्राशुक्लं योगिन एव फलसन्न्यासादकृष्णं चानुपादानात्। इतरेषां तु भूतानां पूर्वमेव त्रिविधमिति ॥ ७ ॥ व्याख्या भास्वती
चतुष्पादिति । चतुष्पदा खल्वियं कर्मणां जातिः, शुल्ककृष्णा जातिर्बहिस्साधनसाध्या , सा हि पुण्यापुण्यमिश्रा, बाह्यकर्मणि परपीडाया अवश्यं भावित्वात् । सन्न्यासिनां त्यक्तकामानाम्, क्षीणक्लेशानां विवेकवताम् ,चरमदेहानां - जीवन्मुक्तानां, विवेकमनस्कारपूर्वं तेषां कर्माकरणं ततो विवेकमूल एव संस्कारप्रचयो नाविद्यामूल इति, तत्रेति । तत्र कर्मजातिषु योगिनः कर्म अशुक्लाकृष्णम्, अशुक्लं कर्म फलसन्न्यासात् बाह्यसुखकरफलाकाङ्क्षाहीनत्वात् तथा चाकृष्णमनुपादानात् पापस्याकरणादित्यर्थः यमनियमशीलतैव कृष्णकर्मविरतिः, इतरेषामन्यत् त्रिविधं कर्म ॥ ७ ॥ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ८ ॥ तत इति त्रिविधात्कर्मणः, तद्विपाकानुगुणानामेवेति यज्जातीयस्य कर्मणो यो विपाकस्तस्यानुगुणा या वासनाः कर्मविपाकमनुशेरते तासामेवाभिव्यक्तिः। न हि दैवं कर्म विपच्यमानं नारकतिर्यङ्मनुष्यवासनाभिव्यक्तिनिमित्तं सम्भवति। किन्तु दैवानुगुणा एवास्य वासना व्यज्यन्ते। नारकतिर्यङ्मनुष्येषु चैवं समानश्चर्चः ॥ ८ ॥ व्याख्या भास्वती
तत इति । जात्यायुर्भोगानां कर्मविपाकानां संस्कारा वासनाः, यथा गोशरीरगतानां सर्वेषां विशेषाणामनुभूतिजाताः संस्कारा असङ्ख्यगोजात्यनुभवनिर्वर्तिता गोजातिवासना, एवं सुखदुःखवासना, आयुर्वासना चेति, वासनया स्वानुरूपा स्मृतिः, वासनाभिव्यक्तिस्तु स्वानुग्ण्येन स्वानुरूपेण कर्माशयेन भवति, वासनां गृहीत्वा कर्माशयो विपाकारम्भी भवतीति, निगदव्याख्यातं भाष्येण, कर्मविपाकमनुशेरते कर्मविपाकस्यानुयायिन्यः कर्मविपाकमपेक्षमाणा वासनास्तिष्ठन्तीत्यर्थः, चर्चः विचारः ॥ ८ ॥ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९ ॥ वृषदंशविपाकोदयः स्वव्यञ्जकाञ्जनाभिव्यक्तः। स यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहितः पुनश्च स्वव्यञ्जकाञ्जन एवोदियाद्द्रागित्येवं पूर्वानुभूतवृषदंशविपाकाभिसंस्कृता वासना उपादाय व्यज्येत। कस्मात्। यतो व्यवहितानामप्यासां सदृशं कर्माभिव्यञ्जकं निमित्तीभूतमित्यानन्तर्यमेव। कुतश्च, स्मृतिसंस्कारयोरेकरूपत्वात्। यथाऽनुभवास्तथा संस्काराः। ते च कर्मवासनानुरूपाः। यथा च वासनास्तथा स्मृतिरिति जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतिः। स्मृतेश्च पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशाद्व्यज्यन्ते। अतश्च व्यवहितानामपि निमित्तनैमित्तिकभावानुच्छेदादानन्तर्यमेव सिद्धमिति ॥ ९ ॥ व्याख्या भास्वती
जातीति । न हि दूरदेशे बहुपूर्वकालेऽनुभूतस्य विषयस्य स्मृतिस्तावता कालेनोत्तिष्ठति किन्तु निमित्तयोगे तत्क्षणमेवाविर्भवति देशकालजातिव्यवधानेऽपीति सूत्रार्थः । वृषदंशेति । वृषदंषविपाकोदयः मार्जारजातिरूपस्य विपाकस्योदयः स्वव्यञ्जकेन कर्माशयेनाभिव्यक्तो भवति, सः विपाकः पूर्वमार्जारदेहरूपपरिपाकानुभवाज्जातास्तत्संस्काररूपा या वसनास्ता उपादाय द्राग् व्यज्यते मार्जारजातिविपाककृद् मार्जारकर्माशयः, व्यवधान्न तस्य चिरेणाभिव्यक्तिः, वासनाभिव्यक्तेः स्मृतिरूपत्वात्, कर्माशयवृत्तिलाभवशात् कर्माशयस्य विपाकरूपो वृत्तिलाभस्तद्वशात् तन्निमित्तेनेत्यर्थः निमित्तनैमित्तिकभावानुच्छेदात् कर्माशयो निमित्तम्, वासनास्मृतिः नैमित्तिकम्, यद्वा वासना निमित्तं तत्स्मृतिः नैमित्तिकं तद्भावस्यानुच्छेदाद् वर्तमानत्वाद् आनन्त्यम् निरन्तरालता ॥ ९ ॥ तासामनादित्वं चाऽऽशिषो नित्यत्वात् ॥ १० ॥ तासां वासनानामाशिषो नित्यत्वादनादित्वम्। येयमात्माशीर्मा न भूवं भूयासमिति सर्वस्य दृश्यते सा न स्वाभाविकी। कस्मात्। जातमात्रस्य जन्तोरननुभूतमरणधर्मकस्य द्वेषदुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत्। न च स्वाभाविकं वस्तु निमित्तमुपादत्ते। तस्मादनादिवासनानुविद्धमिदं चित्तं निमित्तवशात्काश्चिदेव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपावर्तत इति। घटप्रासादप्रदीपकल्पं सङ्कोचविकासि चित्तं शरीरपरिमाणाकारमात्रमित्यपरे प्रतिपन्नाः। तथा चान्तराभावः संसारश्च युक्त इति। वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकासिनीत्याचार्यः। तच्च धर्मादिनिमित्तापेक्षम्। निमित्तं च द्विविधम् – बाह्यमाध्यात्मिकं च। शरीरादिसाधनापेक्षं बाह्यं स्तुतिदानाभिवादनादि, चित्तमात्राधीनं श्रद्धाद्याध्यात्मिकम्। तथा चोक्तम् – ये चैते मैत्र्यादयो ध्यायिनां विहारास्ते बाह्यसाधननिरनुग्रहात्मानः प्रकृष्टं धर्ममभिनिर्वर्तयन्ति। तयोर्मानसं बलीयः। कथं, ज्ञानवैराग्ये केनातिशय्येते, दण्डकारण्यं च चित्तबलव्यतिरेकेण शारीरेण कर्मणा शून्यं कः कर्तुमुत्सहेत समुद्रमगस्त्यवद्वा पिबेत् ॥ १० ॥ व्याख्या भास्वती
तासामिति । मा न भूवम् अभूवं किन्तु भूयासमिति आशिषो नित्यत्वात् सर्वत्राव्यभिचारात् सर्वेषु जातेषु जायामानेषु दर्शनाज्जनिष्यमानेष्वपि सा स्यादेवं सर्वकालेषु सर्वप्राणिनामाशीरुपेयते, सा चाशीर्न स्वाभाविकी मरणदुःखानुस्मृतिनिमित्तत्त्वात् स्मृतिः संस्काराज्जायते, संस्कारः पुनरनुभवात्, तस्मात् सर्वैः प्राणिभिरनुभूतं मरणदुःखम्, इदानीमिव सर्वदा चेत् सर्वैमरणदुःखमनुभूतं तर्हि सर्वेषामाशिषो मूलभूता वासनानादिरिति, न चेति । न च स्वाभाविकं किञ्च निमित्तमुपादत्ते निमित्तादुत्पद्यत इत्यर्थः । यथा कायस्य रूपं स्वाभाविकं काये विद्यमाने न तदुत्पद्यते, अनुत्पन्नः सहोत्पन्नो वा धर्मरूपो भाव एव स्वभावः, घटेति । निर्ग्रन्थमतमुपन्यस्यते , घटप्रासादातिमध्यस्थः प्रदीपो यथा घटप्रासादातिपरिमाणः सङ्केचविकाशी च तथा चित्तमपि गृह्यमाणापुत्तिकाहस्त्यादिशरीरपरिमाणम्, तथा च सति चित्तस्यान्तराभावः पूर्वोत्तरशरीरग्रहणयोर्यदन्तरा तत्र भाव आतिवाहिकभाव इत्यर्थः, संसारश्च युक्तः सङ्गच्छत इति निर्ग्रन्थनयः, नायं समीचीनः, चित्तं न दिगधिकरणं वस्तु कालमात्रव्यापिक्रियारूपत्वात्, न ह्यमूर्तं चित्तं हस्तादिभिः परिमेयम्, तस्मात् तस्य दीर्घत्वह्रस्वत्वादीनि न कल्पनीयानि, दिगवयवहरितत्त्वाच्चितं विभु सर्वभावैः सह सम्बन्धवत्, न च विभुत्वं सर्वदेशव्यापित्वं व्यवसायरूपत्वाच्चेतसः,तस्य वृत्तिरेव सङ्केचविकाशिनीति योगाचार्यमतम्, यथा दृष्टिस्तिले न्यस्ता तिलं गृह्णाति सा चाकाशे न्यस्ता महान्तमाकाशं गृह्णाति न तेन दृष्टिशक्तेः क्षुद्रं वा महद् वा परिमाणं भवेत्तथा चित्तमपि विवेकज्ञानप्राप्तं सर्वज्ञं सर्वसम्बन्धि विभु भवति, तच्चापि मलिनं सङ्कुचितवृत्त्यल्पज्ञं भवति । श्रद्धावीर्यस्मृतिसमाधिप्रज्ञा इत्याध्यात्मिकं मनोमात्राधीनं निमित्तम् उक्तं साङ्ख्याचार्यैः, य इति । मैत्रीकरुणामुदितोपेक्षारूपा ये ध्यायिनां विहाराः चर्या इत्यर्थः, ते बाह्यसाधननिरनुग्रहात्मानः बाह्यसाधननिरपेक्षाः, ते च प्रकृष्टं शुक्लं धर्ममभिनिर्वर्तयन्ति निष्पादयन्ति स्मर्यते च -
सर्वधर्मान् परित्यज्य मोक्षधर्मं समाश्रयेत् । सर्वे धर्माः सदोषाः स्युः पुनरावृत्तिकारकाः ॥ इति
दण्डकारण्यं शुक्राचार्यस्याभिसम्पातात् पांशुवर्षेण शून्यमभवत् ॥ १० ॥ हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः ॥ ११ ॥ हेतुर्धर्मात्सुखमधर्माद्दुःखं, सुखाद्रागो दुःखाद्द्वेषस्ततश्च प्रयत्नस्तेन मनसा वाचा कायेन वा परिस्पन्दमानः परमनुगृह्णात्युपहन्ति वा ततः पुनर्धर्माधर्मौ सुखदुःखे रागद्वेषाविति प्रवृत्तमिदं षडरं संसारचक्रम्। अस्य च प्रतिक्षणमावर्तमानस्याविद्या नेत्री मूलं सर्वक्लेशानामित्येष हेतुः। फलं तु यमाश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, न ह्यपूर्वोपजनः। मनस्तु साधिकारमाश्रयो वासनानाम्। न ह्यवसिताधिकारे मनसि निराश्रया वासनाः स्थातुमुत्सहन्ते। यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदालम्बनम्। एवं हेतुफलाश्रयालम्बनैरेतैः सङ्गृहीताः सर्वा वासनाः। एषामभावे तत्संश्रयाणामपि वासनानामभावः ॥ ११ ॥ व्याख्या भास्वती
हेतुरिति । धर्मादिहेतुभिर्वासनाः सङ्गृहीता उपचीयमानास्तिष्ठन्ति न विलीयन्ते सुगमम् । फलं वासनानां स्मृतिः, यं वासनास्मृतिरूपं प्रत्युत्पादकमाश्रित्य यस्य धर्मादेः त्युत्पन्नता वर्तमान्ता स्मृतिरूपं तत्फलं वासनानाम्, स्मृत्युद्भवस्तु सत एव व्यक्तता नासत उपजनः, एवं स्मृतिरूपफलाद् वसनासङ्ग्रहः, आलम्बनं वासनानां विषयाः, शब्दादिविषयाभिमुखा एव वासना व्यञ्जन्ति, एवं हेत्वादिभिर्वासनासङ्ग्रहस्तदभावे व वासनानामभावः ॥ ११ ॥ नास्त्यसतः सम्भवः, न चास्ति सतो विनाश इति द्रव्यत्वेन सम्भवन्त्यः कथं निवर्तिष्यन्ते वासना इति। अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ १२ ॥ भविष्यद्व्यक्तिकमनागतमनुभूतव्यक्तिकमतीतं स्वव्यापारोपारुढं वर्तमानं, त्रयं चैतद्वस्तु ज्ञानस्य ज्ञेयम्। यदि चैतत्स्वरूपतो नाभविष्यन्नेदं निर्विषयं ज्ञानमुदपत्स्यत। तस्मादतीतानागतं स्वरूपतोऽस्तीति। किञ्च भोगभागीयस्य वाऽपवर्गभागीयस्य वा कर्मणः फलमुत्पित्सु यदि निरुपाख्यमिति तदुद्देशेन तेन निमित्तेन कुशलानुष्ठानं न युज्येत। सतश्च फलस्य निमित्तं वर्तमानीकरणे समर्थं नापूर्वोपजनने। सिद्धं निमित्तं नैमित्तिकस्य विशेषानुग्रहणं कुरुते नापूर्वमुत्पादयतीति। धर्मी चानेकधर्मस्वभावस्तस्य चाध्वभेदेन धर्माः प्रत्यवस्थिताः। न च यथा वर्तमानं व्यक्तिविशेषापन्नं द्रव्यतोऽस्त्येवमतीतमनागतं च। कथं तर्हि, स्वेनैव व्यङ्ग्येन स्वरूपेणानागतमस्ति। स्वेन चानुभूतव्यक्तिकेन स्वरूपेणातीतमिति। वर्तमानस्यैवाध्वनः स्वरूपव्यक्तिरिति न सा भवत्यतीतानागतयोरध्वनोः। एकस्य चाध्वनः समये द्वावध्वानौ धर्मिसमन्वागतौ भवत एवेति नाभूत्वा भावस्त्रयाणामध्वनामिति ॥ १२ ॥ व्याख्या भास्वती
नेति । द्रव्यत्वेन सम्भवन्त्यः सत्यो वासनाः, निर्वर्तिष्यन्ते अभावं प्राप्नुयुः, अभावोऽवर्तमानत्वम्, अतीतानागतत्त्वेन व्यवहारः इति यावद्, अतीतानागतलक्षणं वस्तु स्वरूपतः स्वविशेषरूपतोऽश्ति, अध्वभेदात् काललक्षणभेदाद् धर्माणां कारणसंसृष्टरूपेण वर्तमानानामेव तथा व्यवहार इति सूत्रार्थः, भविष्यदिति । निर्विषयं ज्ञानं न भवेदिति सर्वे ज्ञानस्य विषयः स्यात्, तस्मादतीतानागातसाक्षात्कारस्यास्ति विशेषविषयः, तद्विषयस्यागोचरत्वाल्लौकिकैरध्वभेदेन लक्षित्वा व्यवह्रियते, किञ्चेति कर्मणा उत्पित्सु फलमुत्पत्स्यमानं फलमित्यर्थः, यदि निरुपाख्यमसत् तदा तदुद्देशेन कुशलस्यानुष्ठानं न युक्तियुक्तं भवेत्, सिद्धं वर्तमानत्त्वं निमित्तं नैमित्तिकस्य विशेषानुग्रहणम् अभिव्यक्तिरूपविशेषावस्थाप्रापणां कुरुते, धर्मीति । धर्माः प्रत्यवस्थिताः प्रत्येकं धर्मा अवस्थिताः, वर्तमानत्वं व्यक्तिविशेषापन्नं धर्मिणो विशिष्टा या व्यक्तिस्तत्सम्पन्नं द्रव्यतः गृह्यमाणास्वरूपतोश्ति तथातीतवमनागतं वा द्रव्यं न व्यक्तिविशेषापन्नम्, एकस्य वर्तमानाध्वनः समये, धर्मिसमन्वागतौ धर्मिणि संसृष्टौ, नाभूत्वा सत्त्वादेवेत्यर्थः, भावरूपाणामध्वनां नासत्त्वादित्यर्थः ॥ १२ ॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥ ते खल्वमी त्र्यध्वानो धर्मा वर्तमाना व्यक्तात्मानोऽतीतानागताः सूक्ष्मात्मानः षड्विशेषरूपाः। सर्वमिदं गुणानां सन्निवेशविशेषमात्रमिति परमार्थतो गुणात्मानः। तथा च शास्त्रानुशासनम् – गुणानां परमं रूपं न दृष्टिपथमृच्छति। यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम् ॥ इति ॥ १३ ॥ व्याख्या भास्वती
त इति । सूक्ष्मात्मानः अतीतानागतानां षोडशविकारधर्माणां सूक्ष्मस्वरूपाणि षडविशेषास्तन्मात्रास्मितारूपाः, षष्टितन्त्रानुशासनमत्र गुणानामिति, परमं रूपं मूलरूपमभिव्यक्तावस्था न दृष्टिपथमृच्छति गच्छति, व्यक्तं दृष्टिपथं प्राप्तं यद् गुणारूपं तद् मायेव सतुच्छकं मायया प्रदर्शितं प्रपञ्चं यथा तुच्छं तथेति ॥ १३ ॥ यदा तु सर्वे गुणाः कथमेकः शब्द एकमिन्द्रियमिति – परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४ ॥ प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणात्मकानां करणभावेनैकः परिणामः श्रोत्रमिन्द्रियं, ग्राह्यात्मकानां शब्दतन्मात्रभावेनैकः परिणामः शब्दो विषय इति, शब्दादीनां मूर्तिसमानजातीयानामेकः परिणामः पृथिवीपरमाणुस्तन्मात्रावयवस्तेषां चैकः परिणामः पृथिवी गौर्वृक्षः पर्वत इत्येवमादिर्भूतान्तरेष्वपि स्नेहौष्ण्यप्रणामित्वावकाशदानान्युपादाय सामान्यमेकविकारारम्भः समाधेयः। नास्त्यर्थो विज्ञानविसहचरः, अस्ति तु ज्ञानमर्थविसहचरं स्वप्नादौ कल्पितमित्यनया दिशा ये वस्तुस्वरूपमपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमं न परमार्थतोऽस्तीति य आहुस्ते तथेति प्रत्युपस्थितमिदं स्वमाहात्म्येन वस्तु कथमप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तुस्वरूपमुत्सृज्य तदेवापलपन्तः श्रद्धेयवचनाः स्युः ॥ १४ ॥ व्याख्या भास्वती
यदेति । सर्वे त्रय इत्यर्थः, गुणाः त्रयः कथं तेषां परिणाम एकत्वव्यवहारः परस्पराङ्गाङ्गित्वेन परिणामजननस्वभावात् परिणामभूतानां वस्तूनां तत्त्वमेकमिति व्यवहारः, प्रख्येति । ग्रहणात्मकानां ग्रहणतत्त्वोपादानभूतानां, शब्दानीनामिति शब्दादीनां प्रत्येकं शब्दादितन्मात्राणां तत्र मूर्तिसमानजातीयानां पृथिवीत्वसजातीयानाम्,एकः परिणामस्तन्मात्रावयवः गन्धतन्मात्राख्यो गन्धपरमाणुः, गन्धतन्मात्रावयवो यस्य तादृशावयवः पृथिवीपरमाणुः भूतरूपस्य पृथिवीतत्त्वस्य गन्धतन्मात्रजाता अणवो येषां समष्टिः क्षितिभूततत्त्वम्, तात्त्विकक्षितिभूताणूनां तेषां गन्धधर्मकाणामेकः परिणामः, भौतिकी संहता पृथिवी यथा तथा गौर्वृक्षः पर्वतः इत्येवमादिः, अन्येषामपि भूतानां स्नेहादिधर्मानुपादाय गृहीत्वा, अनेकेषां धर्मभूतं सामान्यम् एकत्वमित्यर्थः, तथा चैकारम्भ एवं समाधेयः उपपादनीयः , यथा रसपरमाणूनामेको विकारो रसलक्षणमब्भूतं तस्य च स्नेहधर्मकं पानीयं जलमित्यादि, नास्तीति । विज्ञानविसहचरः विज्ञानविसंयुक्तः वस्तुस्वरूपमपह्नुवते अपलपन्ति, ज्ञानेति । वस्तु न परमार्थतोऽस्तीति ते वदन्ति तेषां तद्वचनादेव वस्तु स्वमाहात्म्येन प्रत्युपतिष्ठते, परमार्थतस्तु बाह्यवैराग्यात् सिद्ध्यतीति सर्वसम्मतिः, बाह्यवस्तु चेन्नास्ति तर्हि कथं तत्र वैराग्यं कार्यम्, तच्चेदतद्रूपप्रतिष्ठं तत्राप्यस्ति किञ्चिद् वस्तु यस्य तदतद्रूपम्, एवं वस्तु स्वमाहात्म्येन प्रत्युपतिष्ठते, किञ्च न स्वप्नविषयश्चित्तमात्रादेवोत्पद्यते पूर्वानुभूतरूपादिविषयाणामेव तदा कल्पनं स्मरणञ्च, शब्दाद्यनुभवस्त्विन्द्रियद्वारेणोपस्थितबाह्यवस्तुत एव निवर्तते, न हि जन्माधस्य रूपज्ञानत्मकः स्वप्नो भवति । तस्माद्विषयज्ञानं न चित्तमात्राधीनं किन्तु चित्तव्यतिरिक्तबाह्यवस्तूपरागाच्चेतस्य तदुत्पद्यते, वैनाशिकानामप्रमाणात्मकं वाङ्मात्रसहायं विकल्पज्ञानमेव प्रमाणम्, अतः कथं ते श्रेद्धेयवचनाः स्युरिति ॥ १४ ॥ कुतश्चैतदन्याय्यम् – वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ १५ ॥ बहुचित्तालम्बनीभूतमेकं वस्तु साधारणं, तत्खलु नैकचित्तपरिकल्पितं नाप्यनेकचित्तपरिकल्पितं किन्तु स्वप्रतिष्ठम्। कथं, वस्तुसाम्ये चित्तभेदात्। धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि सखज्ञानं भवत्यधर्मापेक्षं तत एव दुःखज्ञानमविद्यापेक्षं तत एव मूढज्ञानं सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानमिति। कस्य तच्चित्तेन परिकल्पितम्। न चान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः। तस्माद्वस्तुज्ञानयोर्ग्राह्यग्रहणभेदभिन्नयोर्विभक्तः पन्थाः। नानयोः सङ्करगन्धोऽप्यस्तीति। साङ्ख्यपक्षे पुनर्वस्तु त्रिगुणं चलं च गुणवृत्तमिति धर्मादिनिमित्तापेक्षं चित्तैरभिसम्बध्यते। निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनाऽऽत्मना हेतुर्भवति। केचिदाहुः – ज्ञानसहभूरेवार्थो भोग्यत्वात्सुखादिवदिति। त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु वस्तुरूपमेवापह्नुवते ॥ १५ ॥ व्याख्या भास्वती
कुत इति । वस्तुज्ञानपरिकल्पनामित्रमित्येवंवादी वैनाशिकः प्रष्टव्यः कस्य नु चित्तस्य तत् परिकल्पनम्, न कस्यापीति वक्तव्यम्, यतो वस्तुसाम्ये चित्तभेदात्तयोर्वस्तुज्ञानयोर्विभक्तऽत्यन्तभिन्नः पन्थाः मार्गोऽवस्थितिरित्यर्थः, सुगमं भाष्यम् । साङ्ख्यपक्ष इति । बाह्यं वस्तु त्रिगुणं गुणवृत्तस्य चलत्वात् स्वपथिभिस्तेषां परिणामो न कस्यचित् कल्पनया, धर्मादिनिमित्तापेक्षं वस्तु चित्तैरभिसम्बध्यते विषयीक्रियते, उत्पद्यमानस्य सुखादिप्रत्ययस्य धर्मादि निमित्तं तेन तेनात्मना धर्मात् सुखमित्यादिना स्वरूपेण हेतुर्भवति ॥ १५ ॥ न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ १६ ॥ एकचित्ततन्त्रं चेद्वस्तु स्यात्तदा चित्ते व्यग्रे निरुद्धे वाऽस्वरूपमेव तेनापरामृष्टमन्यस्याविषयीभूतमप्रमाणकमगृहीतस्वभावकं केनचित्तदानीं किं तत्स्यात्। सम्बध्यमानं च पुनश्चित्तेन कुत उत्पद्येत। ये चास्यानुपस्थिताभागास्ते चास्यन स्युरेवं नास्ति पृष्ठमित्युदरमपि न गृह्येत। तस्मात्स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते। तयोः सम्बन्धादुपलब्धिः पुरुषस्य भोग इति ॥ १६ ॥ व्याख्या भास्वती
केचिदिति । साधारणत्वं बाधमानाः वस्तु बहूनां चित्तनां साधारणो विषय इत्येतत् सम्यग्दर्शनं बाधमानाः, ज्ञानसहभूरेव वस्तुरूपतोऽर्थस्ततः पूर्वोत्तरक्षणेषु स नास्तीति, नैतन्न्याय्यम्, वस्तुन एकचित्ततन्त्रत्वे सति यदा तद्वस्तु न तेन चित्तेन प्रमीयते तदा तत् किं स्यात्, चैत्रचित्तेन प्रमितोऽर्थश्चैत्रेण यदा न प्रमीयते तदा मैत्रादिभिरपि तज्ज्ञायतेऽतो न वस्तु कस्यचित् चित्ततन्त्रमित्यर्थः, एकेति । व्यग्रे अन्यत्र गते, तेन चित्तेनापरामृष्टम्, अनालिचितमित्यर्थः, ये चेति । ये चास्य वस्तुनोऽनुपस्थिता अगृह्यमाणा भागास्ते न स्युः तस्मात् स्वतन्त्रोऽथः साधारणः, चित्तानि चार्थेभ्यः पृथक् प्रतिपुरुषं प्रवर्तन्त इत्येतदत्र सम्यग्दर्शनम्, तयोरिति । तयोः अर्थचित्तयोः सम्बन्धात् उपरागात् योपलब्धिः विषयज्ञानं स एव पुरुषस्य द्रष्टुर्भोगः इष्टानिष्टविषयज्ञानम् ॥ १६ ॥ तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७ ॥ अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तमभिसम्बन्ध्योपरञ्जयन्ति। येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातस्ततोऽन्यः पुनरज्ञातः। वस्तुनो ज्ञाताज्ञातस्वरूपत्वात्परिणामि चित्तम् ॥ १७ ॥ व्याख्या भास्वती
ग्राह्यग्रहणयोः स्वतन्त्रत्वं संस्थाप्य तयोः सम्बन्धं विवृणोति - तदिति सूत्रेण । स्वतन्त्रेण विषयेण चित्तस्योपरागस्ततश्चित्तस्य ज्ञानम्, अनुपरागे त्वज्ञातता, अयस्कान्तेति । इन्द्रियद्वारा चित्ताधिष्ठानगता विषयाश्चित्तमाकृष्योपरञ्जयन्ति स्वाकारतया परिणयमयन्तीत्यर्थः, उपरागापेक्षं चित्तं विषयाकारं भवति न भवति वा, अतो ज्ञानान्यत्वं प्राप्यमाणं चित्तं परिणामीत्यनुभूयते । ज्ञाताज्ञातस्वरूपत्वात् ज्ञानान्तराप्रापणाद्, चेतस इत्यर्थः ॥ १७ ॥ यस्य तु तदेव चित्तं विषयस्तस्य – सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १८ ॥ यदि चित्तवत्प्रभुरपि पुरुषः परिणमेत्ततस्तद्विषयाश्चित्तवृत्तयः शब्दादिविषयवज्ज्ञाताज्ञाताः स्युः। सदाज्ञातत्वं तु मनसस्तत्प्रभोः पुरुषस्यापरिणामित्वमनुमापयति ॥ १८ ॥ व्याख्या भास्वती
चित्तस्य परिणामित्वमनुभवगम्यं पुरुषस्य तु येनानुमानप्रमाणेनापरिणामित्वं सिद्ध्येत् तदाह - सदेति । व्याचष्टे - यदिति । यदि चित्तवत् तत्प्रभुः तद्द्रष्टा पुरुषः परिणमेत कदाचित् द्रष्टा कदाचिदद्रष्टा वाभवविष्यत्, तदा वृत्तयो ज्ञातवृत्तयोऽज्ञातवृत्तयो वाभविष्यन्, न हि ज्ञानं नाम अद्रष्टृदृष्टोऽज्ञातः पदार्थः कल्पनयोग्यः, ज्ञाततेव वृत्तिता द्रष्टृप्रकाश्यता वा, द्रष्ट्रा ज्ञातानां वृत्तीनां ज्ञातत्वस्वभावस्याव्यभिचारात् तासां द्रष्टा सदैव द्रष्टा ततोऽपरिणामी, एतदुक्तं भवति - पुरुषेण सह योगात् वृत्तयो ज्ञाताभवन्तीति दृश्यते, पुरुषयोगेऽपि यदि वर्तमाना वृत्तिरदृष्टाभविष्यत् तदा पुरुषः कदाचित् द्रष्टा कदाचिद्वाऽद्रष्टेति परिणाम्यभविष्यदिति ॥ १८ ॥ स्यादाशङ्का चित्तमेव स्वाभासं विषयाभासं च भविष्यतीत्यग्निवत् – न तत्स्वाभासं दृश्यत्वात् ॥ १९ ॥ यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान्न स्वाभासानि तथा मनोऽपि प्रत्येतव्यम्। न चाग्निरत्र दृष्टान्तः। न ह्यग्निरात्मस्वरूपमप्रकाशं प्रकाशयति। प्रकाशश्चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः। न च स्वरूपमात्रेऽस्ति संयोगः। किं च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः। तद्यथा स्वात्मप्रतिष्ठमाकाशं न परप्रतिष्ठमित्यर्थः। स्वबुद्धिप्रचारप्रतिसंवेदनात्सत्त्वानां प्रवृत्तिर्दृश्यते – क्रुद्धोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति। एतत्स्वबुद्धेरग्रहणे न युक्तमिति ॥ १९ ॥ व्याख्या भास्वती
स्यादिति शङ्कते । यथेति व्याचष्टे । स्वाभासं स्वप्रकाशम् । प्रत्येतव्यम्, न चाग्निरिति । स्वप्रकाशास्तुन उदाहरणं नास्ति दृश्यवर्गे यतो दृश्यत्वमेव जडत्वं परप्रकाश्यत्वं न स्वाभासत्वम्, ततोऽग्निर्नात्र दृष्टान्तः स्वभासस्योदाहरणम्, शब्दादिवदग्ने रूपधर्मोऽग्निनिष्ठो वा घटाद्यापतितो वा चक्षुषैव प्रकाश्यते, न ह्यग्निनिष्ठरूपं तेत्जोधर्मभूतमात्मस्वरूपप्रकाशं प्रकाशयति, रूपज्ञानात्मकः प्रकाशः प्रकाश्यप्रकाशकयोगादेव प्रकाशते शब्दस्पर्शादिवत्, न चाग्निदृष्टान्तेऽग्नेः स्वरूपेण सह संयोगः सम्बधोऽऽस्ति, अग्निस्वरूपं स्वप्रकाशमप्रकाशं वेति नानेन दृष्टान्तेनावद्योत्यते, अग्नेर्जडः प्रकाश्यो धर्म एवात्र लभ्यते न च कश्चित् स्वाभास धर्म इति, किञ्चेति । न कस्यचित् ग्राह्य इति स्वाभासशब्दस्यार्थः स्वात्मप्रतिष्ठमाकाशं न परप्रतिष्ठमित्यादिवत्, अतश्चित्तं स्वाभासमिति सिद्धान्ते सत्त्वानां स्वानुभवो बाधते कथं तदाह - स्वबुद्धिप्रचारप्रतिसंवेदनात् स्वचित्तव्यापारस्यानुभवादनुव्यवसायादिति यावत्, सत्त्वानां प्राणिनां प्रवृत्तिर्दृश्यते । , क्रुद्धोऽहमित्यादि स्वचित्तस्य ग्रहणं ततश्चित्तं कस्यचिद् ग्रहीतुर्ग्राह्यमिति सिद्धम्, ग्राह्यं वस्तु जडत्वान्न स्वाभासमित्यर्थः ॥ १९ ॥ एकसमये चोभयानवधारणम् ॥ २० ॥ न चैकस्मिन्क्षणे स्वपररूपावधारणं युक्तं, क्षणिकवादिनो यद्भवनं सैव क्रिया तदेव च कारकमित्यभ्युपगमः ॥ २० ॥ व्याख्या भास्वती
एकेति । स्वाभासे विषयाभासे च सति चित्ते तस्य स्वरूपस्य विषयस्य चावधारणमेकक्षणे स्यात् किन्तु तन्न भवति, येन व्यापारेण चित्तरूपस्यावधारणं न तेन विषयस्यावधारणम्, शब्दज्ञानं शब्धमहं जानामीत्यनुभवस्यानुव्यवसायश्च नैकक्षणे सम्भवेत्, ततो विषयाभासं चित्तं न स्वाभासम्, नेति । स्वपररूपं चित्तरूपं विषयरूपञ्च, न युक्तं स्वानुभवविरुद्धत्वात्, क्षणिकवादिनश्चित्तं क्षणस्थायि, तस्मात् तन्नये कारकक्रिया भूतिरूपा ज्ञातृ-ज्ञान-ज्ञेया एकक्षणभाविनस्ततश्चैकक्षण एव तत् त्रयाणां ज्ञानं भवेदिति, तच्चानुभूतिविरुद्धमित्यनास्थेयं तन्मतम् ॥ २० ॥ स्यान्मतिः स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति – चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ २१ ॥ अथ चित्तं चेच्चित्तान्तरेण गृह्येत बुद्धिबुद्धिः केन गृह्यते, साऽप्यन्यया साऽप्यन्ययेत्यतिप्रसङ्गः। स्मृतिसङ्करश्च, यावन्तो बुद्धिबुद्धीनामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्ति। तत्सङ्कराच्चैकस्मृत्यनवधारणं च स्यादित्येवं बुद्धिप्रतिसंवेदिनं पुरुषमपलपद्भिर्वैनाशिकैः सर्वमेवाऽऽकुलीकृतम्। ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन सङ्गच्छन्ते। केचित्तु सत्त्वमात्रमपि परिकल्प्यास्ति स सत्त्वो य एतान्पञ्च स्कन्धान्निक्षिप्यान्यांश्च प्रतिसन्दधातीत्युक्त्वा तत एव पुनस्त्रस्यन्ति। तथा स्कन्धानां महन्निर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरिष्यामीत्युक्त्वा सत्त्वस्य पुनः सत्त्वमेवापह्नुवते। साङ्ख्ययोगादयस्तु प्रवादाः स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमुपयन्तीति ॥ २१ ॥ व्याख्या भास्वती
स्यादिति । स्यान्मतिः मतिः सम्मतिः, मा भूत् चित्तं स्वाभासमित्यर्थः, तथापि स्वरसनिरुद्धं स्वभावतो निरुद्धं लीनं चित्तं समनन्तरभूतेन चित्तान्तरेण गृह्यते न चिद्रूपेणा द्रष्ट्रेति , पुनः शङ्कको वदेत् तच्छङ्का चित्तान्तरेति सूत्रेण निरसिता, अथेति । बुद्धिबुद्धिः बुद्धेर्ग्राहिका बुद्धिः, अतिप्रसङ्गः अनवस्था, ततश्च स्मृतिसङ्करः स्मृतीनां व्यामिश्रीभावः, पूर्वचित्तरूपात् प्रत्ययादुत्तरप्रतीत्यचित्तोत्पाद इत्येषां सिद्धान्तः, चित्तं यदि पूर्वचित्तस्य द्रष्टृ स्यात् तदा तदसङ्ख्यातपूर्वचित्तगतस्मृतीनामपि युगपद् द्रष्टृ स्याद्, एवं स्मृतिसङ्करः इत्येवमिति । एवं द्रष्टृपुरुषमपलपद्भिर्वैनाशिकैः सर्वे न्यायसङ्गतं दर्शनमित्यर्थः, आकुलीकृतं विपर्यस्तम्, यत्र क्वचन आलयविज्ञानरूपे विज्ञानस्कन्धे वा नैव सञ्ज्ञानन्त्यायतनरूपे सञ्ज्ञास्कन्धे वा सञ्ज्ञावेदयिता इत्याख्ये वेदनस्कन्धे वा, केचिदिति । केचिच्छुद्धसन्तानवादिनः सत्त्वमात्रं देहसत्त्वं परिकल्प्य तं सत्त्वमभ्युपगम्य वदन्त्यस्ति कश्चित् सत्त्वे य एतान् सांस्कारिकान् पञ्चस्कन्धान् विज्ञान-सञ्ज्ञा-वेदना-संस्काररूप-समूहान्, निक्षिप्य परित्यज्य अन्याञ्छुद्धस्कन्धान् परिगृह्णाति, शून्यरूपस्याभ्युपगतस्य निर्वाणस्य तद्दृष्ट्याऽसङ्गतिमुपलभ्य ततस्तु पुनस्त्रस्यन्ति, तथेति । तथाऽपरे शून्यवादिनः स्कन्धानां शाश्वतोपशमाय गुरोरन्तिके तदर्थं ब्रह्मचर्यचरणस्य महतीं प्रतिज्ञां कुर्वन्तो यदर्थे सा प्रतिज्ञा कृता तस्य स्वस्य सत्त्वमप्यपलपन्ति पवादाः प्रकृष्टाः वादाः, वादः स्वपक्षस्थापनात्मको न्यायः ॥ २१ ॥ कथम् – चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ २२ ॥ अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङ्क्रमा च परिणामिन्यर्थे प्रतिसङ्क्रान्तेव तद्वृत्तिमनुपतति। तस्याश्च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तेरनुकारिमात्रतया वुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिराख्यायते। तथा चोक्तम् – न पातालं न च विवरं गिरीणां नैवान्धकारं कुक्षयो नोदधीनाम्। गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिमविशिष्टां कवयो वेदयन्ते ॥ इति ॥ २२ ॥ व्याख्या भास्वती
कथमिति । कथं साङ्ख्या स्वशब्देन भोक्तारं पुरुषमुपयन्ति उपपादयन्तीति, उक्तं चितेरिति सूत्रम् ’अप्रतिसङ्क्रमायाश्चितेः चैतन्यस्य तदाकारापत्तौ बुद्ध्याकारापत्तौ तदनुपातित्वान्न तु प्रतिसञ्चारात् स्वबुद्धेः अस्मीतिबुद्धेः संवेदनम्, प्रतिसंवेदनमिति सूत्रार्थः, अपरिणामिनीति प्राग्व्याख्यातम्, तथेति । यस्यां गुहायां गुहाहितं गह्वरेष्ठं शाश्वतं ब्रह्म चिद्रूपमाहितं न सा गुहा पातालं गरिविवरमन्धकारं न वोदधीनां कुक्षयः किन्तु साऽविशिष्टा चिदिव प्रतीयमाना बुद्धिवृत्तिरेवेति कवयो वेदयन्ते सम्पश्यन्तीति ॥ २२ ॥ अतश्चैतदभ्युपगम्यते – द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥ मनो हि मन्तव्येनार्थेनोपरक्तं, तत्स्वयं च विषयत्वाद्विषयिणा पुरुषेणाऽऽत्मीयया वृत्त्याऽभिसम्बद्धं, तदेतच्चित्तमेव द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते। तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः। अपरे चित्तमात्रमेवेदं सर्वं नास्ति खल्वयं गवादिर्घटादिश्च सकारणो लोक इति। अनुकम्पनीयास्ते। कस्मात्, अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति। समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतस्तस्याऽऽलम्बनीभूतत्वादन्यः। स चेदर्थश्चित्तमात्रं स्यात्कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत। तस्मात्प्रतिबिम्बीभूतोऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति। एवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात्त्रयमप्येतज्जातितः प्रविभजन्ते ते सम्यग्दर्शिनस्तैरधिगतः पुरुषः ॥ २३ ॥ व्याख्या भास्वती
अत इति । अतश्च तदभ्युपगम्यते स्वीक्रियते चित्तं सर्वार्थं द्रष्ट्रूपरक्तं ज्ञाताहमित्यात्मिका बुद्धिरेव द्रष्ट्रूपरक्तं चितम्, तथा च दृश्योपरक्तत्वात् चित्तं सर्वार्थम्, मन इति । मन्तव्येनार्थेन शब्दाद्यर्थेन, अपि च मनः स्वयं विषयत्वात् प्रकाश्यत्वाद् विषयिणा पुरुषेणात्मीयया वृत्त्या स्वकीयया चिद्रूपया वृत्त्याभिसम्बद्धमेकप्रत्ययगतत्वरूपसान्निध्याद् न हि स्वरूपपुरुषश्चित्तस्य विषयः किन्तु चित्तं स्वस्य हेतुभूतत्वादभिसम्बद्धं वृत्तिसरूपं द्रष्टारं ग्रहीतृरूपत्वेनैव विषयीकरोतीत्यसकृद् दर्शितमतश्चित्तं द्रष्टृदृश्यनिर्भासम्, शब्दाद्याकारमचेतनं विषयात्मकं तथा ज्ञाताहमित्यविषयात्मकं विषयिसरूपं चेतनाकारञ्चापीति सर्वार्थम्, तदिति । चित्तसारूप्येण पुरुषस्य चित्तसारूप्येण भ्रान्ताः, कस्मादिति । वैनाशिकानां भ्रान्तिबीजं सर्वरूपख्यापकं चित्तमस्ति, समाधिरपि तेषामस्ति, समाधौ च प्रतिबिम्बीभूत आगन्तुक इत्यर्थः, प्रज्ञेयः ग्राह्योऽर्थः समाहितचित्तस्यालम्बनीभूतः स चेदर्थश्चित्तमात्रः स्यात्तदा प्रज्ञयैव प्रज्ञारूपमवधार्यत इति किञ्चित् स्वाभासं वस्त्वभ्युपगन्तव्यं भवतीत्यर्थः, चित्तं तु न स्वाभासं ततोऽस्ति स्वाभासः पुरुषः, येन जडे चेतसि प्रतिबिम्बीभूतोऽथोऽवधार्येत प्रकाश्येतेत्यर्थः, एवमिति । ग्रहीतृग्रहणाग्राह्यस्वरूपचित्तभेदाद् ग्रहीतृस्वरूपस्य ग्रहणस्वरूपस्य ग्राह्यस्वरूपस्य चेति चित्तभेदात् ज्ञानभेदाद्, एतत् त्रयमपि ये प्रेक्षावन्तो जातितः वस्तुतः प्रविभजन्ते ते सम्यग्दर्शिनः,तैः पुरुषोऽधिगतः सम्यक् श्रवणमननाभ्यामित्यर्थः ॥ २३ ॥ कुतश्च – तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ २४ ॥ तदेतच्चित्तमसङ्ख्येयाभिर्वासनाभिरेव चित्रीकृतमपि परार्थं परस्य भोगापवर्गार्थं न स्वार्थं संहत्यकारित्वाद्गृहवत्। संहत्यकारिणा चित्तेन न स्वार्थेन भवितव्यं, न सुखचित्तं सुखार्थं न ज्ञानं ज्ञानार्थमुभयमप्येतत्परार्थम्। यश्च भोगेनापवर्गेण चार्थेनार्थवान्पुरुषः स एव परो न परः सामान्यमात्रम्। यत्तु किञ्चित्परं सामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकस्तत्सर्वं संहत्यकारित्वात्परार्थमेव स्यात्। यस्त्वसौ परो विशेषः स न संहत्यकारी पुरुष इति ॥ २४ ॥ व्याख्या भास्वती
कुत इति । कुतः पुरुषस्य चित्तात् पृथक्त्वं सिद्ध्येत् तद्युक्तिमाह तच्चित्तमसङ्ख्येयवासनाभिर्विचित्रमपि न तेन स्वार्थेन भवितव्यम्, संहत्यकारिवात् तत् परार्थं तस्मादस्ति कश्चित् परो विषयी यस्य तच्चित्तं विषय इति, तदेतदिति परस्य भोगापवर्गार्थं परस्य चित्तातिरिक्तस्य चेतनस्य द्रष्टृरूपदर्शनेन चित्तस्य भोगापवर्गरूपव्यापारः सिद्ध्यति, संहत्यकारित्वाद् नानाङ्गसाध्यत्वाच्चित्तकार्यस्य, यदा बहून्यचेतनानि साधनान्येकप्रयत्नेन मिलित्वा सचेतनवत् कार्यं कुर्वन्ति तदा तद्व्यतिरिक्तस्तत्प्रयोजकः कश्चिच्चेतनः परार्थः स्यात्, कर्माशयवासनाप्रमाणादीनि बहूनि साधनानि मिलित्वा सुखादिप्रत्ययं निर्वर्तयन्ति, कस्यचिदेकस्य चेतनस्य भोक्तुरधिष्ठानादेव तानि तत् कुर्युः, यश्चेति । अर्थवान् उपदर्शनवान्, परः अन्यश्चित्तात् सामान्यमात्रम् अहंशब्दवाच्यानां क्षणिकप्रत्ययानां साधारणनाममात्रं स्वरूपेणोदाहरत् भोक्त्रितिनाम्ना प्रदर्शयेद् यस्त्वसौ परो विज्ञेयः भावः, नामादिवियोगेऽपि यस्य सत्तानुभूयते तादृशश्चित्तातिरिक्तः सत्पदार्थो न स संहत्यकारी स हि पुरुषः, वैनाशिका विज्ञानादिस्कन्धान्तर्गतं सामान्यमात्रं यद् वदेयुस्तत् संहत्यकारि स्यात् पञ्चस्कन्धान्तर्गतत्त्वात् ॥ २४ ॥ विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ २५ ॥ यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्ताऽनुमीयते तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्राप्यस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिर्वर्तितमित्यनुमीयते। तस्याऽऽत्मभावभावना स्वाभाविकी प्रवर्तते। यस्याभावादिदमुक्तं स्वभावं मुक्त्वा दोषाद्येषां पूर्वपक्षे रुचिर्भवत्यरुचिश्च निर्णये भवति। तत्राऽऽत्मभावभावना कोऽहमासं कथमहमासं किंस्विदिदं कथंस्विदिदं के भविष्यामः कथं वा भविष्याम इति। सा तु विशेषदर्शिनो निवर्तते। कुतः। चित्तस्यैवैष विचित्रः परिणामः, पुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इति। ततोऽस्याऽऽत्मभावभावना कुशलस्य निवर्तत इति ॥ २५ ॥ व्याख्या भास्वती
चित्तात् पुरुषस्यान्यतां संस्थाप्याधुना कैवल्यभागीयं चित्तं विवृणोति सूत्रकारः - विशेषेति । द्रष्टृदृश्ययोर्भेदरूपो यो विशेषस्तद्दर्शिन आत्मभावभावना वक्ष्यमाणा वर्तमानाविनिवर्तेतेति सूत्रार्थः, यथेति । विशेषदर्शनबीजं विवेकदर्शनबीजं पूर्वपूर्वजन्मसु श्रवणमननादिभिरभिसंस्कृतम्, स्वाभाविकी स्वरतसः, दृष्टाभ्यासं विनापीत्यर्थः, आत्मभावभावना प्रवर्तते, उक्तमाचार्यैः, स्वभावम् - आत्मभावम् आत्मसाक्षात्कारविषयमिति यावत्, मुक्त्वा त्यक्त्वा दोषात् पूर्वसंस्कारदोषात् येषां पूर्वपक्षे संसृतिहेतुभूते कर्मणि रुचिर्भवति, निर्णये तत्त्वनिर्णये चारुचिर्भवतीति, आत्मभावभावनानिवृत्तेः स्वरूपमाह - पुरुषस्त्विति ॥ २५ ॥ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६ ॥ तदानीं यदस्य चित्तं विषयप्राग्भारमज्ञाननिम्नमासीत्तदस्यान्यथा भवति कैवल्यप्राग्भारं विवेकजज्ञाननिम्नमिति ॥ २६ ॥ व्याख्या भास्वती
तदेति । तदा कैवल्यपर्यन्तगामिनि विवेकमार्गे निम्नमार्गगजलवच्चित्तं प्रवहति, विवेकजज्ञाननिम्नं प्रबलविवेकज्ञानवदित्यर्थः ॥ २६ ॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७ ॥ प्रत्ययविवेकनिम्नस्य सत्त्वपुरुषान्यताख्यातिमात्रप्रवाहिणश्चित्तस्य तच्छिद्रेषु प्रत्ययान्तराण्यस्मीति वा ममेति वा जानामीति वा न जानामीति वा। कुतः, क्षीयमाणबीजेभ्यः पूर्वसंस्कारेभ्य इति ॥ २७ ॥ व्याख्या भास्वती
तच्छिद्रेषु । विवेकान्तरालेषु अस्मीति अहमहमिति, सुगममन्यत् ॥ २७ ॥ हानमेषां क्लेशवदुक्तम् ॥ २८ ॥ यथा क्लेशा दग्धबीजभावा न प्ररोहसमर्था भवन्ति तथा ज्ञानाग्निना दग्धबीजभावः पूर्वसंस्कारो न प्रत्ययप्रसूर्भवति। ज्ञानसंस्कारास्तु चित्ताधिकारसमाप्तिमनुशेरत इति न चिन्त्यन्ते ॥ २८ ॥ व्याख्या भास्वती
एषाम् अविवेकप्रत्ययानां पूर्ववदभ्यासवैराग्याभ्यामित्यर्थः, हानमित्युक्तम्, न प्रत्ययप्रसूर्भवति विवेकप्रत्ययेनाधिकृतत्वात् प्रत्ययान्तरस्य नावकाशः, ज्ञानसंस्काराः विवेकसंस्काराश्चित्ताधिकारसमाप्तिं सर्वसंस्कारनाशाज्जनयिष्यमाणं चित्तस्य प्रतिप्रसवमनुशेरते तावत्कालं स्थास्यन्तश्चित्तेन सह प्रविलीयन्त इत्यर्थः, तस्मात् तेषां हानं न चिन्तनीयमिति ॥ २८ ॥ प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥ २९ ॥ यदाऽयं ब्राह्मणः प्रसङ्ख्यानेऽप्यकुसीदस्ततोऽपि न किञ्चित्प्रार्थयते। तत्रापि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्कारबीजक्षयान्नास्प प्रत्ययान्तराण्युत्पद्यन्ते। तदाऽस्य धर्ममेघो नाम समाधिर्भवति ॥ २९ ॥ व्याख्या भास्वती
प्रसङ्ख्याने विवेकजसिद्धावप्यकुसीदस्य कुत्सितेषु सीदतीति कुसीदो रागः, तद्रहितस्य विरक्तस्य अतो बाह्यसञ्चारहीनत्वात् सर्वथा विवेकख्यातिस्तद्रूपो यः समाधिः स धर्ममेघ इत्याख्यायते योगिभिः, कैवल्यधर्मं स वर्षति, वर्षालब्धं वारीव धर्ममेघादप्रयत्नलभ्यं कैवल्यं भवतीति सूत्रार्थः, यदायमिति, सुगामं भाष्यम्,
श्रूयते च -
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक्पश्यंस्तानेवानुविधावति ॥
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेर्वि(ज्ञा)जानत आत्मा भवति गोतम! इति ,
अस्यार्थः - यथा दुर्गमे पर्वतशिखरे वृष्टमुदकं पर्वतगात्रेषु विधावति, एवं धर्मान् बुद्धिधर्मान् पुरुषतः पृथक् पश्यन्, तानेवानुविधावति, बुद्धिशिखरे विवेकाम्बुवृष्टिजातो विवेकौघो बुद्धिधर्मानाप्लावयतीत्यर्थः, यथा च शुद्धे प्रसन्न उदके वृष्टमुदकं शुद्धोदकतामापद्यते तथा विज्ञानतो विवेकतो मुनेरात्मात्मन्तरात्मा शुद्धो विवेकाप्यायितो भवतीति विवेकमात्रसमाधानाद् ॥ २९ ॥ ततः क्लेशकर्मनिवृत्तिः ॥ ३० ॥ तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति। कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति।क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान्विमुक्तो भवति। कस्मात्, यस्माद्विपर्ययो भवस्य कारणम्। न हि क्षीणविपर्ययः कश्चित्केनचित्क्वचिज्जातो दृश्यत इति ॥ ३० ॥ व्याख्या भास्वती
तदिति । समूलकाषं कषिताः समूलोत्पाटिताः, जीवन्नेव विद्वान् विमुक्तः दुःखत्रयातीतो भवति, विवेकप्रत्ययप्रतिष्ठा दुःप्रत्यया नोत्पद्येरन्नतो विमुक्तो देहवानपि, न च तस्य विमुक्तेः पुनरावृत्तिः समाधेः क्षीणविपर्ययस्य विवेकप्रतिष्ठस्य जन्मासम्भवाद्, देहेन्द्रियाद्यभिमानवशादेव जातिस्तदभावान्न पुनरावृत्तिः, उक्तञ्च -
विनिष्पन्नसमाधिस्तु उक्तिं तत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ॥
इति ॥ ३० ॥ तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम् ॥ ३१ ॥ सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्याऽऽनन्त्यं भवति। आवरकेण तमसाऽभिभूतमावृतमनन्तं ज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्धाटितं ग्रहणसमर्थं भवति। तत्र यदा सर्वैरावरणमलैरपगतं भवति तदा भवत्यस्याऽऽनन्त्यम्। ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पं सम्पद्यते। यथाऽऽकाशे खद्योतः। यत्रेदयुक्तम् – अन्धो मणिमविध्यत्तमनङ्गुलिरावयत्। अग्रीवस्तं प्रत्यमुञ्चत्तमजिह्वोऽभ्यपूजयत् ॥ इति ॥ ३१ ॥ व्याख्या भास्वती
तदा सर्वावरणामलापगमात् ज्ञानस्यानन्त्यं भवति । ततश्च ज्ञेयमल्पं भवति । सर्वैरिति । चित्तसत्त्वं प्रकाशस्वभावकम् । तच्च सर्वं प्रकाशयेदसति बाधके । बाधकं च चित्ततम आवरणशीलं चित्ततमो यदा रजसा क्रियास्वभावेनापसार्यते तदोद्घाटितं सत्त्वं प्रकाशयति । तदेव ज्ञानम् । अतस्तमसः सत्त्वमूलभूतस्यापगमाद्रजसोऽपि कार्याभावेस्वल्पीभावात् सत्त्वं निरावरणं भूत्वा सर्वं सम्यक् प्रकाशयेदिति ज्ञानस्यानन्त्यम् । यत्रेदमिति । अत्र परमज्ञानालाभात् पुनर्जातेरसम्भवित्त्वविषये वक्ष्यमाणायाः श्रुतेरर्थः प्रयोज्यः । तद्यथा - अन्धो मणिमविध्यद्, वेधनं सच्छिद्रं कृतवान् । अनङ्गुलिः कश्चित् तान् मणीनावयद् ग्रथितवान् । अग्रीवस्तं मणिहारं प्रत्यमुञ्चद् अपिनद्धवान् कण्ठे । अजिह्वस्तमभ्यपूजयत् स्तुतवान् । इमाः क्रियाः यथासम्भवाः तथा विवेकिनो जातिरित्यर्थः ॥ ३१ ॥ ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ३२ ॥ तस्य धर्ममेघस्योदयात्कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते। न हि कृतभोगापवर्गाः परिसमाप्तक्रमाः क्षणमप्यवस्थातुमुत्सहन्ते ॥ ३२ ॥ व्याख्या भास्वती
तस्येति । ततः - धर्ममेघोदयात् चरितार्थानां गुणानां गुणवृत्तीनां बुद्ध्यादीनां परिणामक्रमः समाप्तो भवति तं कुशलं पुरुषं प्रतीति ॥ ३२ ॥ अथ कोऽयं क्रमो नामेति – क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ३३ ॥ क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः। न ह्यननुभूतक्रमक्षणा पुराणता वस्त्रस्यान्ते भवति। नित्येषु च क्रमो दृष्टः। द्वयी चेयं नित्यता कूटस्थनित्यता परिणामिनित्यता च। तत्र कूटस्थनित्यता पुरुषस्य। परिणामिनित्यता गुणानाम्। यस्मिन्परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यम्। उभयस्य च तत्त्वानभिघातान्नित्यत्वम्। तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः। कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियामुपादाय कल्पित इति। अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वेति। अवचनीयमेतत्। कथम्। अस्ति प्रश्न एकान्तवचनीयः सर्वो जातो मरिष्यतीति। ओं भो इति। अथ सर्वो मृत्वा जनिष्यत इति। विभज्यवचनीयमेतत्। प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यत इतरस्तु जनिष्यते। तथा मनुष्यजातिः श्रेयसी न वा श्रेयसीत्येवं परिपृष्टे विभज्य वचनीयः प्रश्नः पशूनधिकृत्य श्रेयसी देवानृषींश्चाधिकृत्य नेति। अयं त्ववचनीयः प्रश्नः संसारोऽयमन्तवानथानन्त इति। कुशलस्यास्ति संसारक्रमसमाप्तिर्नेतरस्येति अन्यतरावधारणे दोषः।तस्माद्व्याकरीय एवायं प्रश्न इति ॥ ३३ ॥ व्याख्या भास्वती
अथेति । क्षणप्रतियोगी क्षणानां सत्प्रतिपक्षः क्षणावसरव्यापीत्यर्थः, प्रत्येकं क्षणप्रतियोगिनः परिणामस्याविरलप्रवाहः क्रम इत्यर्थः । स चापरान्तनिर्ग्राह्यः अपरान्तेन गृह्यते । नवस्य वस्त्रस्य पुराणातापरान्तः, तेन तद्वस्त्रपरिणामक्रमो ग्राह्यः । तथा गुणावृत्तीनां बुद्ध्यादीनां परिणामक्रमस्यापरान्तो बुद्धेः प्रतिप्रसवः । अप्रतिप्रसवानां बुद्ध्यादीनां परिणामक्रमो निर्ग्राह्यस्तिष्ठतीत्यर्थः । क्षणेति । क्षणानन्तर्यात्मा क्षणव्यापिनां परिणामानां नैरन्तर्यमेव क्रम इत्यर्थः । अननुभूतक्रमक्षणा अननुभूतः अलब्धः क्रमः यैः क्षणैः तादृशाः क्षणा यस्या निर्वर्त्तकाः साननुभूतक्रमक्षणा तादृशी पुराणता नास्ति । क्रमतः परिणामानुभवादेव पुराणता भवतीत्यर्थः, अपरान्तस्तु कस्याश्चिद् विवक्षितावस्थायाः अपरान्तो यथा - नवतायाः पुराणता, व्यक्तायाश्चाव्यक्तता, इत्याद्या, तत्रानित्यानां भावानां प्रतिप्रसवरूपोऽपरान्तोऽस्ति यत्र क्रमो लब्धपर्यवसानः, न च तथा नित्यानां, नित्यानां तु भावानां काञ्चिदवस्थापमपेक्ष्य परिणामापरान्तो वक्तव्यः । नित्यपदार्थानामप्यस्ति परिणामक्रम इत्याह - नित्येष्विति । प्रकृतो वा काल्पनिको वा क्रमोऽस्तीत्यर्थः । कूटस्थनित्यता निर्विकारनित्यता । परिणामिनित्यता नित्यं विक्रियमाणता । विवारस्वभावान्निष्कारणानां गुणानां परिणामनित्यता । कूटस्थपदार्थोऽपि तस्थौ, तिष्ठति, स्थास्यतीति वक्तव्यम् । ततस्तस्यापि परिणामो वाच्यः । किन्तु स परिणामो वैकल्पिकः, तस्मात् साधूक्तमिदं नित्यतालक्षणम्, यद् यस्मिन् परिणम्यमाने तत्त्वं स्वभावो न विहन्यतेऽन्यथा भवति तन्नित्यमिति । गुणस्य पुरुषस्य चोभयस्य तत्त्वानभिघातात् तत्त्वाव्यभिचारान्नित्यत्वम् । तत्रेति । क्रमो लब्धपर्यवसानः प्रतिप्रसव इति शेषः । अलब्धपर्यवसानः प्रकाशक्रियास्थितिस्वभावानां नित्यत्वात्, कूटस्थनित्येष्विति । अनन्तकालं यावत् स्थास्यतीति वक्तव्यत्वादसङ्ख्यक्रमेण स्थितिक्रियारूपपरिणामो व्युत्थितदर्शनैर्मन्तव्यो भवति, किञ्च शब्दपृष्ठेन शब्दानुपातिना विकल्पज्ञानेन, अस्तीतिशब्दानुपातिना
विकल्पेनास्तिक्रियामुपादाय तत्क्रियावान् पुरुष इति तत्र स परिणामो विकल्पित इत्यर्थः । एवं वाङ्मात्रात् विकल्पितपरिणामात् न च पुरुषस्य कौटस्थ्यहानिरित्यर्थः, अथेति । लीयमानस्योद्भूयमानस्य च संसारस्य गुणेषु तत्तदवस्थायां वर्तमानस्य क्रमसमाप्तिर्भवेन्नवेति प्रश्नस्योत्तरमवचनीयमेतत्, सुगमम्, कुशलस्येति । कुशलस्य संस्कारक्रमसमाप्तिरस्ति नेतरस्येत्येवं व्याकृत्यायं प्रश्नो वचनीयोऽतोऽत्रैकतरस्यावधारणं कुशलस्य समाप्तिरित्यवधारणमदोषः न दोषायेत्यर्थः असङ्ख्यत्वात् देहिनां संसारस्यान्तवत्तास्तीति वा नास्तीति वा प्रश्नोऽन्याय्यो यथासङ्ख्यक्षणात्मकस्य कालस्य यथा वापरिमेयस्य देशस्यान्तोऽस्ति न वेति प्रश्नो ऽन्याय्यत्वादवचनीयः तथासङ्ख्यानां संसारिणां निश्शेषताकल्पनं तद्विषकश्च प्रश्नोऽन्य्यायः, असङ्ख्येयेभ्यः पदार्थेभ्योऽसङ्ख्यशो वियोगे कृतेऽपि सदैवासङ्ख्याः पदार्थास्तिष्ठेयुः । उक्तञ्च - “इदानीमिव सर्वत्र नात्यन्तोच्छेदः " इति ।
श्रूयते च - “पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते” इति ।
स्मर्यते च -
अत एव हि विद्वत्सु मुच्यमानेषु सर्वदा । ब्रह्माण्डजीवलोकानामनन्तत्वादशूनियता ॥ इति ॥ ३३ ॥ गुणाधिकारक्रमसमाप्तौ कैवल्यमुक्तं तत्स्वरूपमवधार्यते – पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४ ॥ कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मकानां गुणानां तत्कैवल्यं, स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वानभिसम्बन्धात्पुरुषस्य चितिशक्तिरेव केवला, तस्याः सदा तथैवावस्थानं कैवल्यमिति ॥ ३४ ॥ व्याख्या भास्वती
गुणेति । कृतकृत्यानां गुणानां गुणकार्याणां प्रतिप्रसवः स्वकारणे शाश्वतः प्रलयः कैवल्यम् , कृतेति । कार्यकारणात्मनां गुणानां महदादिप्रकृतिविकृतीनां त्रिगुणोपादानानाम्, स्वरूपप्रतिष्ठापि चितिशक्तिर्बुद्धिसम्बन्धात् सद्वैता बुद्धिप्रतिष्ठेव प्रतिभासते बुद्धिप्रतिप्रसवाद् यदाद्वैता केवला वेति वाच्या भवति न पुनर्बुद्ध्युत्थानादकेवलेति च वाच्या स्तात्तदा कैवल्यं पुरुषस्येति ॥ ३४ ॥