श्रीमच्छान्दोग्योपनिषद्-भाष्यटीका-पदार्थकौमुदी

[[श्रीमच्छान्दोग्योपनिषद्-भाष्यटीका-पदार्थकौमुदी Source: EB]]

[

प्रथमोऽध्यायः

श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥
हरि ॐ ॥
पूर्णानन्दमहाविबोधतखिलंसम्भावयन्तंरुचासर्वत्रप्रभुमीश्ऱ्वरंगणनिधिंदिव्याकृतिंकेशवं ॥
जन्माद्यस्ययतोहिसर्वजगतोजन्मादिदोषोज्खितं ।
नित्यंपूर्णविबोधशर्वगुरुणोपास्यंभजेनित्यदा ॥ 1 ॥
वेदभेदसुशाखेतंबोधादिफलसंयुतम्‌ ॥
भगतामिष्यदंव्यासरद्रुममहंभजे ॥ 2 ॥
हृत्तमोनाशकं शास्त्रप्रभयातत्वभासकम्‌ ॥
फलदंपूर्णबोधाख्यचिन्तामणिमहंभजे ॥ 3 ॥
प्रणम्यचरणौवाणियाचयामितवान्वहम्‌ ॥
सन्निधिर्ममवाच्यस्तुमानसेचनिरन्तरम्‌ ॥ 4 ॥
यत्प्रसादंविनातत्वमार्गेनगमनंभुवि ॥
तंवन्देपद्मनाभाख्यगुरुंसज्जनसेवितम्‌ ॥ 5 ॥
वेददुग्धाब्धिमामथ्यसूत्रमन्दरभूभृता ॥
प्राप्तान्यायसुधायेनतंजयेन्द्रमहं भजे ॥ 6 ॥
श्रीमध्वकृतवेदान्तभाष्यं येनप्रकाशितम्‌ ॥
तं वन्दे व्यासतीर्थार्यं जयराजनिषेवक्तम्‌ ॥ 7 ॥
विद्याधिराजादिमहामुनीन्द्राहृद्येवसंचिंतितविष्णुतत्वाः ॥
उद्योगयुक्ताभगवत्कथायां सद्योममानुग्रहमेवकुर्युः ॥ 8 ॥
ब्रह्मण्यतीर्थवाद्धर्युत्थं व्यासतीर्थसुधाकरम्‌ ॥
तात्पर्यचन्द्रिकायुक्तं वन्देतापत्रयापहम्‌ ॥ 9 ॥
रघूत्तममुनीन्विद्यागुरून्परगुरूंस्तथा ॥
वन्दे श्रवमध्वशास्त्रोत्थविनिर्मलमतीनहम्‌ ॥ 10 ॥
निरस्तं हृत्तमोयेनप्रशस्तं सन्मनोंबुजम्‌ ॥
समस्तं भासितं वन्दे वेदव्यासदिवाकरम्‌ ॥ 11 ॥
अथतत्कृपयाश्रीमदाचार्यमुखनिःसृतम्‌ ॥
छान्दोग्योपनिषद्भाष्यं व्याकरिष्येयथामति ॥ 12 ॥
नमात्सर्यादिदोषेणनवाविद्यातिगर्वतः ॥
किन्तुवाचांविशुद्धयर्थं यत्नोयं नहि दोषभाक्‌ ॥ 13 ॥
इह हिनानाविधसांसारिकक्लेशसन्दर्शनेन कुपितफणिफणच्छायासमीकृतापरसुखानां शमदमादिमतामधिकारिणामात्यन्तिकानिष्यनिवृत्तीष्यप्राप्तिसाधनं भगवत्स्वरूपं यथावज्ज्ञापयितुं प्रवृत्तापिछान्दोग्योपनिषदविद्यापटलपिहितनयनैरन्यैरन्यथाव्याख्यातत्वेन न तज्ज्ञापनसमर्थेतिमन्यमानो भगवानानन्दतीर्थमुनिस्तांयथावद्वयाचिख्यासुः स्वयमन्तरायविधुरोप्यविगीतशिष्याचारपरम्पराप्राप्तं प्रारिप्सितपरिसमाप्त्यादिप्रयोजनमेतदुपनिषदुक्तगुणवद्भगवदुपास्तिलक्षणं मंगलं शिष्यशिक्षार्थं ग्रन्थादौ निबध्नाति ॥ अत्युद्रिक्तेति ॥ हरिमुपास्महइति कियाकारकयोजना । श्रुतावोमित्येतदक्षरमुद्गीथमुपासीतेतिप्रथमतोभगवदुपास्तिविधानादुपास्तिरूपं मंगलमादावनुष्ठितम्‌ । अत एवानेन श्ऱ्लोकेन तद्वाक्यं व्याख्यायते ॥ तथाहि । तत्र गुणपूर्णत्वार्थकोंकारार्थोत्युद्रिक्तेत्यादिप्रथमविशेषणेन विव्रियते । तत्रात्युद्रिक्तविदोषसत्त्वं सुखविशेषणम्‌ । सुखस्य सव्वं नामसाधुभावः । सद्भावेसाधुभावेचेदिति वचनात्‌ । तत्र हेतुरत्युद्रिक्तविदोषेति । साधुभावः शोभनत्वमिति न साध्याविशिष्यता । यद्वासत्त्वमुत्तमत्वम्‌ । सच्छब्दउत्तमं ब्रूयादित्युक्तेः । तत्र च पूर्वोक्तं हेतुद्वयम्‌ । अत्युद्रिक्तत्वं चातिपूर्णत्वम्‌ । नोत्तमत्वमतोनसाध्याविशिष्यता । एवंच विदोषसच्छब्दयोः भिन्नार्थत्वेन न पौनरुक्त्यम्‌ । यद्वा सदितिसुखस्यनित्यत्वमुच्यते । तद्यत्सत्तदमृतमिति श्रुतेः । विदोषपदेनानित्यत्वातिरिक्तादोषाव्यावर्त्यन्ते । एवंच कपुरुपाण्डवन्यायेन न पुनरुक्तिः । विदोषसत्‌ विदोषभूतमिति सुखविशेषणं वा । अत्युद्रिक्तविदोषेति सत्सुखमहाज्ञानयोरेकतानप्रभायावाविशेषणमित्यप्याहुः । सुखस्य विदोषत्वमुत्पत्त्यादिरहितत्वम्‌ । सत्त्वं(स)तत्स्वरूपत्वमित्यन्ये । ज्ञानस्यमहत्त्वं स्वपरगताखिलविशेषविषयत्वम्‌ । एकतानानन्यवृत्तिश्ऱ्चसाप्रभाचेति तथोक्तम्‌ । सर्वेतिप्राभवशक्तिभोगबलानां विशेषणम्‌ । सर्वस्मिन्विषयेप्राभवशक्तिभोगबलानीति तथोक्तानि । अत्र शक्तिशब्देन क्रियाशक्तिरिच्छाशक्तिश्ऱ्चग्राह्या । स्वाभाविकीज्ञानबलक्रियाचेति श्रुतौ इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिरिति त्रिधेतिस्मृतौ च त्रयाणामपि शक्तित्वोक्तेरत्र च ज्ञानबलयोः पृथग्ग्रहणात्‌ । अत्युद्रिक्तविदोषसत्सुखं च महाज्ञानंचैकतानप्रभाचसर्वप्राभवशक्तिभोगबलानिचेतिद्वन्द्वः । तैः सद्य्भब्रह्मादिभ्यः साराश्रेष्ठेति विग्रहः । अथवासुखादीन्येवसतीनिर्दुष्यासाराश्रेष्या आत्मास्वरूपभूतादिव्याकृतिर्यस्योति विग्रहः । प्रणवांशाकारोकारमकारार्थोवानेनविविच्यते । तथाहि । तत्र सुखमकारार्थः । आनन्दत्वाद इत्युक्त इति स्मृतेः । ज्ञानं मकारार्थः । माङ्मान इति धातोः । प्रभापिमकारार्थः । धातूनामनेकार्थत्वात्‌ । सर्वप्राभवशक्तिभोगा उशब्दार्थाः । उत्कृष्यत्वादुनामक इत्युक्तेः । बलंच मकारार्थः । मानं ज्ञानं लयश्ऱ्चैबमर्यादाचेति कथ्यते । उत्पादनंच संख्यानं बलं च क्वचिदुच्यत इत्युक्तेः । प्रणवोपास्यस्य सूर्यस्थेदेहस्थेवावायौविद्यमानस्य भगवतो य एषोन्तरादित्येहिरण्मयः पुरुषोदृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः । इति तस्यैतस्यैतदेवरूपं यदमुष्यरूपमिति चाप्राकृतविग्रहत्वोक्तेः सत्सारात्मदिव्याकृतिमित्युक्तम्‌ । एतेन हरेर्देहित्वेदुःखित्वापत्तिरदेहत्वेसृष्ययादिकर्तृत्वानुपपत्तिरित्यपि परास्तम्‌ । प्राकृतदेहस्यैवदुःखादिहेतुत्वेन हरेस्तदभावेन तदभावात्‌ । एवं प्रथमार्धेन प्रणवार्थमुक्त्योद्गीथशब्दार्थमाह ॥ सृष्यीत्यादिना ॥ अत्र सृष्यिप्रदत्वमुदित्यस्यार्थः । तथाहि वक्ष्यति । प्राण एवोत्‌ प्राणेन ह्युत्तिष्ठतीति । स्थानप्रदत्वं थशब्दार्थः । अन्नं थमन्नेहीदं सर्वं स्थितमिति श्रुतेः । निरोधदत्वंगीत्यस्यार्थः । गृनिगरण इति धातोः । नित्यं नियतिर्निर्नित्यं नियमनम्‌ । स्यादनित्यपदार्थस्य नियमनं भगवता तस्य स्वरूपलाभादौ परापेक्षत्वात्‌ । नतु नित्यस्य । तस्य परानपेक्षत्वादित्याशंकापरिहारायनित्यानामपि नियतिर्नित्यनियतिरिति वा । नित्यं नित्यात्मनायत इत्यादि श्रुतेरिति भावः । उन्नयतीति व्युत्पव्याऽयमप्युच्छशब्दार्थः । उद्गमयत्युद्गासयतीति व्युत्पत्त्याज्ञानप्रकाशदत्वमपि । आवृतिरज्ञानम्‌ । ध्वान्तबाह्यतमः । अमोक्षःसंसारः । एतत्रितयप्रदत्वं थशब्दार्थः । ष्ठागतिनिवृत्तावितिधातुः । अज्ञानसंसारदानेच मोक्षगतिनिवृत्तेः । ध्वान्तदानेच प्रसिद्धगतिनिरोधात्‌ । उद्गमयतिसंसारादितिव्युत्पत्त्याविमोक्षदत्वमप्युच्छब्दार्थः । सर्वसृष्ययादिप्रदत्वोक्त्यासर्वसन्निहितत्वलाभादेतच्छाब्दार्थोप्यनेनोक्तः । अजमित्युपलक्षणयोत्पत्तिप्रभृतिदोषशून्यत्वमुक्तम्‌ । अयमप्युच्छब्दार्थः । त(स्यवाएर)स्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित इति श्रुतेः । नित्यमित्यक्षरशब्दार्थकथनम्‌ । सदोपास्मह इत्यनेन नममनारायणोपासनं प्रत्यूहविरहादिप्रयोजनोद्देशेनेति सूचयति । श्रुतावुपासीतेति विधिश्रवणेप्युपास्मह इत्युत्तमपुरुषं प्रयुंजानः स्वोपासनस्य स्वेच्छानियतत्वं सूचयति । भविष्यद्भाह्मणः स्वस्यमनुष्यवत्‌ विधिनियतत्वाभावात्‌ । तथाहि श्रुतिः । विधिनियतामनुष्याः अनियतादेवाः ब्रह्मैवस्वेच्छनियत इति ॥ 1 ॥ यो हवा अविदितार्षछन्दोदैवतब्राह्मणेन मन्त्रेण यजति याजयति वा ध्यापयति वा स्थाणुं वर्च्छति गर्तेवापद्यते प्रवामीयत इति श्रुतेः देवतादिज्ञान एव विद्याफलतीति ज्ञायते । तत्र ब्राह्मणपदोपलक्षितार्थज्ञानं व्याख्यानादेवभविष्यति ॥ प्रायश्छन्दोबद्धत्वं नास्त्येव ॥ क्वचित्तदुपनिबद्धत्वेत्वक्षरपरिगणनेन तज्ज्ञानं सुकरमेव । अतः ऋषिदेवते ज्ञापयन्नाहभगवान्भाष्यकारः ॥ हयग्रीवेति ॥ विस्तृतया अप्यस्या उपनिषदोभगवत्परत्वं नानुपपन्नमिति भावेन विस्तृतगुणमित्युक्तम्‌ । एतदुपनिषत्प्रतिपाद्यमूर्तिविशेषमाह ॥ भोगीति ॥ अनेनास्याहयग्रीवोमुख्य ऋषिः । रमात्ववान्तर ऋषिः । शेषशायीदेवतेत्युक्तं भवति । एतेनाद्वैतज्ञानं संसारहेतूपमर्देन वक्तव्यमित्युपनिषदारभ्यत इति परोक्तमसदित्युक्तं भवति । यथाचैतत्तथाग्रेवक्ष्यते । देवसवितःप्रसुव । यज्ञं प्रसुव । यज्ञपतिं भगायेत्यादिपूर्वाध्यायद्वयेन्तःकरणशुद्धिद्वाराब्रह्मविद्याधिकारार्थं कर्मस्वरूपं निरूपितम्‌ । इदानीं कर्मणाशुद्धान्तःकरणस्य सुविरक्तस्य ब्रह्मस्वरूपं निरूपयति ॥ ओमित्येतदक्षरमित्यादिकयासमग्रोपनिषदा ॥ ननु तदप्यध्यायद्वयं कुतोनव्याख्यातमिति चेत्‌ । न । तस्य कमर्काण्डत्वेनाब्रह्मविद्यात्वात्‌ । परैरव्याख्यातत्वेन विप्रतिपत्त्यभावाच्च । तत्रोद्गीथलक्षणसामैकदेशप्रतिपाद्यस्य सर्ववेदाथर्प्रणवप्रतिपाद्यस्य च भगवत उपास्तिमादावाह ॥ ओमित्येतदक्षरमित्यादिना ॥ तदिं वाक्यं परेणैवं व्याख्यातम्‌ । ओमित्येतदक्षरं वर्णात्मकमुद्गीथभक्त्यवयवत्वादुद्गीथशब्दवाच्यमुपासीतेति । तदसत्‌ । प्रणवस्य जडत्वेन तदुपासवैयर्थ्यस्य वक्ष्यमाणत्वात्‌ । नच परमात्मप्रतीकत्वेन तदुपासनं विधीयत इति वाच्यम्‌ । परमात्मप्रधानकेवेदान्ते आदौ तदुपास्ति मनभिधायतत्प्तीकोपास्ति विधानायोगात्‌ । नचैतान्युपासनानिसत्त्वशुद्धिकरत्वेन वस्तुतत्वावभासकत्वादद्वैतज्ञानोपकारकाणीतिपूर्वमुपन्यस्यत इति वाच्यम्‌ । तथासति कर्मकलापस्यापि सत्त्वशुद्धिसम्पाकत्न तत्परपूर्वाध्यायद्वयस्यापि व्याख्येयत्वापातात्‌ । नच तत्र साक्षादद्वैताप्रतिपादनात्तदव्याख्यातमिति वाच्यम्‌ । तह्येतस्यापि त्वन्मेसाक्षादद्वैताप्रतिपादकत्वेनायाख्येयत्वापातादिति भावेन तद्वाक्यं भगवत्परतयैव व्याचष्ये ॥ ओमितिनामकमिति ॥ अक्षरशब्दव्याख्यानं करिष्यति । सन्निकृष्यतरवस्तुवाचकोह्येतच्छब्दः । अतो भगवान्सर्वसन्निहितत्वादेवतदित्युच्यत इत्यर्थः । उक्तंचान्यत्र । एतत्सन्निहितत्वाच्चेति । उच्चत्वादित्युच्छब्दार्थः । गीतत्वादितिगीत्यस्यार्थः । सर्वस्थानत्वादिति थशब्दार्थः । भगवन्तमिति विशेष्याध्याहारः । ननु हयग्रीवमुखोद्गीर्णगीभिर्रित्यनेनास्या उपनिषदोहयग्रीवादिः नऋष्यादित्वेन ज्ञातुं शक्यते । हयग्रीवमुखोद्गीर्णगिरां बह्वीनां सत्त्वादियमेवसेत्यनिश्ऱ्चयादित्यतस्तत्र प्रमाणमाह ॥ उक्तंचेति ॥ न केवलमस्माभिरेवोक्तं किन्तु महासंहितायांचेति चशब्दार्थः । किन्तत्रोक्तमित्यतः तद्वचनं पठति ॥ हयग्रीवेति ॥ ओमित्येतदक्षरमिदं सर्वन्तस्योपव्याख्यानमित्याद्युपनिषदन्तरव्यावृत्त्यर्थसामवेदगैरित्युक्तम्‌ । द्वयस्य च व्यावृत्त्यर्तमोमित्येतन्मुखैरित्युक्तम्‌ । अत एवैतदारभ्यैवव्याख्यानं क्रियते । अत्रोंनामकस्य भगवत एवोपास्यत्वमुच्यत इति व्याख्येयं नत्वोकारस्य । तथासति प्रमाणविरोधादिति भावेन प्रमाणमाह ॥ ॐ नामानमिति ॥ अश्ऱ्वकर्णादिनामकत्वमिवनसं ज्ञामाणित्याह ॥ तदर्थेति ॥ अत एव श्रुतौ तस्योपव्याख्यानमित्यादिनोंकारोव्याख्यायते । केतेॐनामार्थभूतागुणायैयर्ुक्ततयाभवानुपास्य इत्यत आह ॥ ओतत्वादिति ॥ ओतत्वात्‌ गतत्वात्‌ प्रविष्यत्वाद्वा गुणपूर्णत्वादिति यावत्‌ । गत्याद्यर्थस्यावतेः खलु रूपमेतत्‌ । अवतेष्यिलोकश्ऱ्चेति सूत्रात्‌ । अवतेः मन्प्रत्ययः प्रत्ययस्य टिलोपश्ऱ्चेति सूत्रार्थः । ओमितिपुनःकस्यवक्तेति प्रश्ऱ्नपूर्वकमवतिर्नामायं धातुर्गतिर्माप्रवेशनकर्माचेत्यन्यत्राप्वमेवनिरुक्तत्वाच्च । तताच यद्यसौ कर्मणितदाकर्तुः यदिवा कर्तरितदाकर्मणोपेक्षायामुपपदाद्यभावेपि योग्यतया श्रुत्यन्तरबलाद्वागुणैः गुणान्वा ओतत्वं वक्तीत्यननन्तनवद्यगुणपूर्णतैव ॐ काराथर् इति भावः । अवनाज्ज्ञानात्‌ रक्षणाद्वेतिव्याख्यानान्तरम्‌ । अवतेः गत्यर्थत्वेन ज्ञानार्थत्वात्‌ । रक्षणार्थत्वाच्च । मानादधिकोच्चत्वकारणादित्येकं व्याख्यानम्‌ । गुणसंख्यानादधिकोच्चत्वहेतोरित्यर्थः । तकिरार्थोऽधिकेति । उकारार्त उच्चेति । मकारार्थोमानादिति । आकांक्षाक्रमेणव्याख्याख्यानायक्रमोल्लंघनम्‌ । यद्वा । अवनाद्रक्षणादिति ओ इत्यस्यार्थः । अवतेः क्विपि उपधावकारयोरूकारः । मकारार्थोमानादिति । ज्ञानादित्यर्थः । अवनान्मानादित्येकं व्याख्यानमिति श्रुतेरर्थ इत्याहुः । अधिकोच्चत्वकारणादित्यपरम्‌ । अधिकोच्चत्वकारणादित्यककारोकारयोरर्थः । यद्वा । अधिकेत्यकारस्य उच्चत्वेत्युकारस्य कारणेति मारस्यार्त उक्तः । मानिर्माण इति धातोः । मानं ज्ञानमित्यन्यत्रोत्पादनस्यापि मानशब्दार्थत्वोक्तेश्ऱ्च । प्रणवावयवाकारादेः प्रकारान्तरेणार्थमाह ॥ आनन्दादिति ॥ आनन्दादित्यकारस्यार्थः । आनन्दत्वाद इयुक्त इति वचनात्‌ । ओजस इत्युकारार्थः । भरणादिति मकारार्थः । धातूनामनेकाथर्त्वात्‌ । चशब्दोव्याख्यानान्तरसमुच्चयार्थः । एवशब्देनाकारवाच्येन तत्पदार्थेनोकारवाच्यस्य त्वं पदार्थस्याभेदोमकारेणोच्यत इत परव्याख्यानं व्यावर्तयति । प्रामाणिकत्वात्प्रमाणविरुद्धत्वाच्च । ॐकारस्तयार्थान्तराभिदानायस्वकृतसमग्रवाक्यव्याख्यानदार्ढ्याय च स्पष्यं प्रमाणमाह ॥ ओतमिति ॥ ओतं प्रविष्यम्‌ । समस्तोंकारार्थकथनमेतत्‌ । व्यस्तस्य तस्यार्थमाह ॥ अत्युच्चश्ऱ्चेति ॥ आधिक्यार्थकाकारस्यार्थोऽतीति । उकारस्यार्थ उच्च इति ॥ गुणसंख्यानार्थकमकारार्थोऽखिलैगर्ुणैरिति । ननु ओमितिनामकं भगवन्तमुपासीतेति व्याख्यानमयुक्तम्‌ । तथासत्योमिति ह्युद्गायतीत्युत्तरवाक्यासंगतेः । तत्रोमित्यारभ्य हि यस्मादुद्गुयति तस्मादुद्गीथ ओंकार इत्योंकारस्योद्गीथशब्दवाच्यत्वेहेतुरुच्यते । तच्चमत्पक्ष एव संगतं नत्वत्पक्ष इति चेत्‌ । न । भगवत ॐ नामकत्वसमतर्नार्थत्वेनास्मत्पक्षेपि संगतत्वादिति भावेन तद्वाक्यं व्याचष्ये ॥ ओमित्येनमिति ॥ हि यस्मादेनमुद्दिश्योद्गातास्फुटमोमित्युच्चार्यसंगायति । तस्मादोंनामकत्वं भगवतः सिद्धम्‌ । अन्यथा तद्वाचकशब्दस्यैवोच्चार्यत्वेनातथाभूतोंकारोच्चारणस्यासंगतत्वादिति भावः । तस्योपव्याख्यानमित्येतद्वयाचष्ये ॥ विष्णोरिति ॥ अस्य विष्णोः यदोमिति नामतस्य व्याख्यानमधिकोच्चतेत्यर्थः । तेन तस्याक्षरस्योद्गीथस्य विष्णोरुपसमीपेवर्तमानं यदोमिति नामतस्य व्याख्यानं क्रियत इत्यर्थ उक्तो भवति । कथमयमोंकारार्थ इत्यत आह ॥ अकारेण
ेति ॥ कस्तर्हिमकारार्थ इत्यत आह ॥ तथेति ॥ अधिकोच्चत्वेनेत्यर्थः । नेदं शब्दार्थान्तरर्गतम्‌ । स तिचैवं त्ऱ्यक्षरात्मकोंकारस्य कोर्थः सम्पन्न इत्यत आह ॥ अधिकेति ॥ 1 ॥ यद्यधिकोच्चत्वेन प्रमितत्वमोंकारार्थ तया विवक्षितं तर्ह्युत्तरत्रतदेववक्तव्यम्‌ । नच तदुच्यते । स एष रसानां रसतम इत्यादावधिकोच्चत्ववचनेप्यधिकोच्चत्वेन प्रमतत्वस्यावचनात्‌ । नचोंकरावयवार्थभूतमधिकोच्चत्वमेव श्रुत्योच्यते । अत एव व्याख्यानमधिकोच्चतेत्येवोक्तमिति वाच्यम्‌ । तथाप्येषां भूतानं पृथिवीरस इत्यादिना देवतातारतमन्योक्तेरसंगतत्वादित्यतः तस्य संगतिमाह ॥ तदेतदिति ॥ ॐ कारावयवार्थभूतमित्यर्थः । अधिकोच्चत्वमिति वक्तव्ये स एष रसानां रसतमः परमः पराध्य इति श्रुतौ परमत्वस्याभिधानात्परमत्वमित्युक्तम्‌ । यथाक्रमं देवतातारम्यक्रमनुसृत्येत्यर्थः । उदीर्यते एषांभूतानामित्यादिनेति शेषः । नन्वोंकारार्थभूतं विष्णोः परमत्वमेव श्रुत्यावक्तव्यम्‌ । देवतातारतम्यंकिमर्थमुच्यते तज्ज्ञानस्य व्यर्थत्वादित्यत आह ॥ देवतेति ॥ यथाक्रमपराः यथाक्रमज्ञानेतात्पर्यन्तवः । ननु विष्णोः परमताविदएवैकान्तिन इत्यस्तु । किं देवतानुक्रमज्ञानामप्येकान्तित्वकथनेन । तताच श्रुतौ तदुक्तिर्व्यर्थैवेत्यत एकान्तिशब्दं निर्वक्ति ॥ अस्मादिति ॥ एक एवान्तेवर्त्तत इत्यकान्तोहरिः । एकान्त एषामस्तीत्येकान्तिनः । षष्ठयर्थस्तुतज्ज्ञानविषयत्वमिति भावेना ये विद्युरित्युक्तम्‌ । अस्त्वेवं देवतानुक्रमज्ञत्वमप्येकान्तिशब्दार्थः । तेनैकान्तित्वेनापि किं फलम्‌ । येत तदर्थमिदं ज्ञातव्यं स्यादित्यत आह ॥ एवमिति ॥ एकान्तिशब्दार्थानुवादोयम्‌ । एक एवान्तेऽवसित इत्येकान्तोभगवान्परमयनमाश्रयोयेषशन्ते ततोक्ताः । यद्यपि देवतातारतम्यज्ञान पुरःसरं भगवत्सर्वोत्तमत्वज्ञानस्य भगवत्प्रवेशाख्यमोक्षहेतुत्वात्तदेतत्परमत्वं यथाक्रममुदीर्यत इत्येव वक्तव्यम्‌ । तथाप्येकान्तितित्वस्यैवान्यत्रमोक्षसाधनत्वेनोक्तत्वात्कथमेतदित्यतस्तद्विरोधपरिहारायैतदेवैकान्तित्वमित्युक्तमिति मन्तव्यम्‌ । न केवलं देवतातारतम्यज्ञानपूर्वं भगवत्सर्वोत्तमत्वज्ञानमेवमोक्षहेतुरपि तु तथाज्ञात्वातत्पूजाचेति भावेनाह ॥ उच्चेति ॥ अन्तगत्वेनज्ञात्वेत्यपि सम्बन्धः । कुर्युरित्यस्योत्तरत्रापि सम्बन्धः । तर्हि पूजयेन्नान्यदेवता इत्यादेः कागतिरित्यत उक्तम्‌ ॥ भागवता इति ज्ञात्वेति ॥ एवं सति निषधविषयः क इत्यत आह ॥ स्वतन्त्रेति ॥ ननु देवतानामप्रधानतयापि पूज्यत्वेकथं विप्रक्षत्रियविट्‌शूद्रवर्णभेदेनसर्वशः । मनवोमानवाश्ऱ्चैव सम्पूज्यानैवदेवता इत्येवं रूपं क्वचिद्वचनमित्यतस्तद्घटयन्नाह ॥ ब्रह्माद्या इति ॥ वर्णत्वेन विप्रादिवर्णभेदेनेत्यर्थः । ये श्रुतौ वर्णत्वेनोदितामनुसंज्ञास्तेब्रह्माद्या एवेत्यन्वयः । चशब्दोऽवधारणे । मुनयोमरीच्याद्याः । उक्तं च मनवोबोधवैशेष्याद्देवाब्रह्मादयः स्मृताःष । विप्रादिवणर्भेदेनचत्वारोबहुवोपिते । मरीच्याद्यास्तुतत्पुत्रामानवानामतः स्मृता इति । तेषामपि न देवत्वेन पूज्यत्वम्‌ । किं तु प्रकारान्तरेणैवेत्यभिप्रेत्याह ॥ पितृत्वेनेति ॥ इदं तु कार्तयुगजनप्रवृत्तिमभिप्रेत्य । यथोक्तमन्यत्र । देवतात्वेना चैज्यः स ब्रह्माद्यामनुनामकाः । वक्तृत्न पितृत्वेन कारित्वेनैव चादरात्‌ । इज्यन्तेदेवताः सर्वानतु देवतयाक्वचित्‌ । अनन्ययाजिनस्तेतु तस्मात्कार्तयुगाजना इति ॥ तर्हि सम्पूज्यानैवदेवता इत्युक्तेः कागतिरित्यतो नचेतरानित्युक्तं विवृणोति ॥ अपभ्रष्या इति ॥ ब्रह्माद्याख्यायुता अपीत्यनेन ब्रह्माद्यानसम्पूज्या इत्युक्तेरपि गतिरुक्ता । एतेन देवा इति ब्रह्माद्या इति वाप्रसिद्धप्रयोगं विहाय किमप्रसिद्धप्रयोगेणेत्यपि परास्तम्‌ । देवादिशब्दानामसुरादिसाधारणत्वान्मनुष्वसाधारणत्वात्तस्यैव प्रयोग इति भावः । द्विविधदेवानां कुत्र विनियोग इत्यत आह ॥ यदिति ॥ ननु देवानामसुराणां च ब्रह्मादिनामित्वे ब्रह्मादिभ्यः स्वाहेत्युक्ताव सुराणामपिप्राप्तेः कथं कर्मप्रवृत्तिनिर्णय इत्यतोवाह ॥ यदिति ॥ यदिति श्रवणात्तदिति लभ्यते । यदुक्तं देवतातारतम्यज्ञानं भगवत्परायणत्वलक्षणमेकान्तित्वं च मोक्षसाधनमिति तदयुक्तम्‌ । कदाचित्तदुभयसद्भावेपि मोक्षानुपलम्भादित्यत आह ॥ यथाक्रमेति ॥ अच्छिद्रत्वाच्च अच्छिद्रादेव । अन्यत्‌ कादाचित्कं देवतातारतम्यज्ञानमेकान्तिकत्वं च । विडम्बनमेव नमोक्षसाधनमित्यर्थः । एवमेकं मोक्षसाधनमुक्त्वा द्वितीयमपि तदाह ॥ विष्णोरिति ॥ विशेषेण सर्वोत्तमत्वेन । विशेषेणकारणमित्यपि सम्बन्धः । तेन ज्ञानस्य भक्तिव्यापकत्वं सिध्यति । न केवलं विष्णावेवभक्तिर्मोक्षकारणम्‌ । किन्त्वित्यत आह ॥ तद्भक्तेष्वेति ॥ विष्णोरनन्तरं रमाद्येषु तद्भक्तेषु क्रमेणैव भक्तिश्ऱ्चमोक्षावाप्तौ कारणमित्यन्वयः । मोक्षसाधनान्तरमाह ॥ तृतीयमपीति ॥ वैराग्यमपि मोक्षावाप्तौकारणमित्यन्वयः । ज्ञानभक्तिसमकक्ष्यतानिरासाय तृतीयमित्युक्तम्‌ । ज्ञानं भक्तिं वा प्रतीदं साधनमिति भावः । एवमेवसाधनान्तरमस्ति किं नेत्याह ॥ नचेति ॥ कथं तर्हि मुमुक्षोर्यमादिकं विधीयत इत्यत आह ॥ एतत्साधनतेति ॥ ननु तर्हि तद्धेतोरेवास्तुतद्धेतुत्वं किं तेनेति न्यायेन ज्ञानभक्तिवैराग्यसाधनयज्ञादीनामेव मोक्षसाधनत्वोपपत्तेः किं ज्ञानादिभिरित्यतो ज्ञानदीनामेवमोक्षसाधनत्वमनन्यथासिद्धान्व । यव्यतिरेकाभ्यां साधयति ॥ अत इति ॥ ज्ञानादिकं परित्यज्येत्यथॅ । तमश्ऱ्चेति च शब्दान्वयः । तेन न केवलं मोक्षं न गच्छेदित्यस्य समुच्चयः । अनेन व्यतिरेक उक्त भवति । तस्य अन्यथासिद्धिपरिहारायसर्वकृदपीत्युक्तम्‌ । अस्मिन्नित्यनेनान्वय उच्यते । अत्राप्यन्यथासिद्धिपरिहारायान्योज्खकोपीत्युक्तम्‌ । एतच्चज्ञानयोगिषु सनकादिषु द्रष्यव्यम्‌ । नन्वस्त्वेवं देवतातारतम्यज्ञानं मोक्षसाधनम्‌ । किं तत इत्यत आह ॥ अत इति ॥ देवतातारतम्यज्ञानस्य मोक्षसाधनत्वादित्यर्थः । एवमेषांभूतानां पृथिवीरस इत्यदेः संगतिमभिधायतद्वाक्यं व्याचष्ये ॥ पृथिवीति ॥ एषांभूतानां सकाशादित्यध्याहारमभिप्रेत्यसर्वभूतेभ्य इत्युक्तम्‌ । ऋभ्वादिभ्य इत्यर्थः । पृथिव्यामृभवोविलीयन्त इति श्रुतेः । सर्वगुणैरित्यस्य योग्यतया सम्बन्धः । रसशब्दार्थोवरेति । तनदुपपादयति ॥ रस इति ॥ पृथिव्या आपोरस इति वाक्यं व्याचष्ये ॥ पृथिव्या इति ॥ अपामोषधयोरस इति वाक्यं व्याचष्ये ॥ तस्मादिति ॥ ओषधीनां पुरुषो रस इत्येतद्वयाचष्ये ॥ तस्मात्त्विति ॥ रुद्रस्य पुरुषनामकत्वमुपपादयति ॥ यत्पौंस्यदेवतेति ॥ शिश्ऱ्नदेवतेति यावत्‌ । पुरुषस्य वाग्रस इति वाक्यं व्याचष्ये ॥ तस्मादिति ॥ वाक्‌ सवर्वेदाभिमानिनी । वाचऋग्रस इति वाक्यं व्याचष्ये ॥ अस्या इति ॥ वागभिमानिन्याः । ऋचः सामरस इत्येतद्वयाचष्ये ॥ तत इति ॥ वायौसामशब्दं निर्वक्ति ॥ समत्वादिति ॥ निमित्तान्तरमाह ॥ साम्नांदेवताचेति ॥ साम्न उद्गीथोरस इत्येतद्वयाचष्ये ॥ तत इति ॥ यद्यपि श्रुतौ तमब्नश्रुयते । तथापि प्राणादीनां भूतादिभ्यः श्रेष्ठत्ववदस्य श्रेष्ठत्वं न भवतीति भावेन तमष्प्रयोगः । एतनपृथिव्यादिशब्दाः प्रसिद्धार्था एवेति परकीयं व्याख्यानमपास्तम्‌ । स एष रसानां रसतमः परमः परार्ध्योष्यमोय उद्गीथ इति वाक्ये योष्यम उद्गीथः स एष रसानां रसतमः एष परमः स एष पराद्धर्य इति वाक्यत्रयमंगीकृत्य स एष रसानां रसतम इति वाक्यं तावद्वयाचष्ये ॥ श्रेष्ठश्रेष्ठतमस्सदेति ॥ श्रेष्ठानां वाय्वादीनां सकाशाच्छ्रेष्ठतम इत्यर्थः । स एष परम इति वाक्यं परमत्वस्य सावधिकत्वादवधिप्रदशर्नपूर्वकं व्याचष्ये ॥ श्रेष्ठदिति ॥ श्रष्ठदपि सरस्वत्यादेः श्रेष्ठतमोयोवायुस्तस्मादपि परमं यच्छ्रीतत्वं तस्मात्परम इत्यथर्ः । स एष परार्ध्य इति वाक्यं व्याचष्ये ॥ परमर्द्धियुतत्वाच्चेति ॥ परार्ध्य इति चेति च शब्दान्वयः । ननु परमर्द्धियुतत्वेन परर्ध्य इति स्यात्‌ । पराचसाऋद्धिश्ऱ्चपरर्द्धिस्तयायुतः परर्ध्य इत्येवप्राप्तेः । नतु परार्ध्य इति । तत्कथं परमर्धियुतत्वाच्चपरार्ध्य इति कीर्तित इति व्याख्यानमित्यतः स्मृत्यभिप्राय प्रकटनाय परार्ध्य शब्दं स्वयं व्याचष्ये ॥ अतिशयेनेति ॥ परार्ध्य इत्यत्रदीर्घस्यार्थाऽतिशयेनेति । परशब्दस्यार्थः परमेति । परमर्द्धिरेवगुणोयस्य स परमर्द्धिगुण इति बहुव्रीहिसमासकरणेन पराद्धर्यायुतः परार्ध्य इत्यर्थ उक्तो भवति । स्मृतौ परमोविभुरित्येतदुत्तरत्राप्यनुवर्तत इति भावेन परम इत्युक्तम्‌ । परमोविभुरतिशयेन परमर्धिगुणोयतोतः परमः पराद्धर्य इत्युच्यत इत्यर्थः । तथाच स्मृतावप्यतिशयेनेति ग्राह्यमिति नानुपपत्तिरिति भावः । यद्वा पूर्वं स एष सरानां रसतमः परमः पराद्धर्य इत्यत्र वाक्यत्रयमंगीकृत्यव्याख्यातम्‌ । इदानीं स एष रसानां रसतम इत्येकं वाक्यम्‌ । परमः परार्ध्य इत्यपरं वाक्यमिति वाक्यद्वयमेवेदमित्यंगीकृत्यव्याख्यातम्‌ । इदानीं स एष रसानां रसतम इत्येकं वाक्यम्‌ । परमः परार्ध्य इत्यपरं वाक्यमिति वाक्यद्वयमेवेदमित्यंगीकृत्यप्रथमवाक्यस्योक्त एवार्थः । द्वितीयवाक्येतु परमत्वं न पृथग्भगवद्विशेषणम्‌ । किन्तु ऋद्धिलक्षणगुविशेषणमिति भावेन परमः पराद्धर्य इत्यततद्वयाचष्ये ॥ अतिशयेनेति ॥ परेत्यस्यार्थोतिशयेनेति । परमशब्दस्य तु परमेत्येवानुवादः । अतिशयेन परमर्द्धिगुणोभगवान्‌ परमः पराद्धर्य इत्यच्यत इत्यर्थः । ननु परमः पराद्धर्य इत्यत्र परमत्वं यदि ऋद्धिलक्षणगुणविशेषणं तर्हि परमपराद्धर्य इत्येवस्यात्‌ । नतु परमः पराद्धर्य इत परमशब्दस्य विभक्त्यन्ततयानिर्देशः इति चेत्‌ । न । अहमेवेदं सर्वोस्मीति श्रुतौ अजानतामहिमानं तवेदमिति स्मृतौ चेदंत्वंस्य सर्वशब्दार्थपूर्णत्वमहिमत्वविशषणत्वेपीदं शब्दस्य विभक्त्यन्ततयानिर्देशदर्शनात्‌ ॥ उक्तं च । इदमिबति पूर्णत्वविशेषणम्‌ । अजानतामहिमानं तवेदमिति वदिति । अथवा स एष रसानां रसतमः परमः परार्ध्य इत्येकमेव वाक्यम्‌ । सम्भवत्येकावाक्यत्वे वाक्यभेदाश्रयणायोगादिति भावेन तद्वाक्यं तात्पर्यतोव्याचष्ये ॥ उत्तमेभ्योपीति ॥ रसानामित्यस्यार्थ उत्तमेभ्योपीति । रसतमः परमः पराद्धर्य इत्यस्यार्थोतिपरमोत्तमोत्तम इति । उत्तमेभ्योपि योतिपरमस्तस्मादपि य उत्तमः तस्मादप्युत्तम इत्यर्थः । रसानां रसतमः परमः पराद्धय इत्युच्यत इति शेषः । ननु रसानामिति षष्ठयाः कथमुत्तमेभ्य इति पंचम्याव्याख्यानम्‌ । रसतमः परमः पराद्धर्य इति प्रत्येकं विशेषणत्वप्रतीतेः कथमतिपरमोत्तमोत्तम इति व्याख्यानं चेत्यतो रसानां रसतमः परमः पराद्धर्य इति वाक्ययोजनामाह ॥ रसानामिति ॥ तथाच रसानामिति षष्ठयाः सकाशशदिति पूरणषपञ्चम्यर्थस्यैव लाभादुत्तमेभ्य इत्युपपन्नम्‌ । रसतमः परमः पराद्धर्य इति तु न पृथग्विशेषणम्‌ । किन्तु परमपराद्धर्य रसतम इत्येकमेव । तस्यचातिपरमोत्तमोत्तम इति व्याख्यानं च युज्यत एवेति भावः । ननु स एष रसानां रसतमः परमः पराध्यर् इत्यत्र वाक्यत्रयमंगीकृत्यरसतमत्वादीनां प्रत्येकं भगवद्विशेषत्वांगीकारपक्षेविशषणत्रयोपादानम्‌ । व्यर्थमेकेनैवचारितार्थ्यादित्यत आह ॥ प्रआणादीनामिति ॥ परमपरराध्यर्रसतम इत्यस्याति परमोत्तमोत्तम इति तात्पर्यतोव्याख्यानं कृतम्‌ । इदानीं परमपरार्ध्यरसतम इत्यस्याक्षरार्थमाह ॥ भूतेभ्य इत्यादिना ॥ ननु यदि प्राणस्य परमपरर्द्धरसतमत्वं तर्हि भगवतः परमपरार्द्धरसतमत्वं स्यात्‌ । दीर्घस्यातिशयार्थकत्वात्‌ । न तु परमपरार्ध्यरसातमत्वमित्यत आह ॥ अयंत्विति ॥ प्राणस्यापिरसभूताया अत एव परमपरार्द्धरसतमशब्दवाच्याया इति शेषः । ननु परमपराद्धर्यरसतमशब्देन परमपरार्द्धरसतमशब्दवाच्याया रमाया उत्तमत्वं भगवतः कथं लभ्यते । तद्वाचकपदाभावात्‌ । न च यकारस्योत्तमार्थत्वकुत्रचिदुपरब्धमित्यतः पराद्धर्यशब्दं निर्वक्ति ॥ अस्मादिति ॥ परार्द्धेन परार्द्धनामकश्रीतत्वेन ज्ञेयं हि परार्ध्यम्‌ । यातेर्गत्यर्थात्कमर्णिकप्रत्यये यकारस्य ज्ञेयवाचकत्वात्‌ । अकारलोपोनिवर्चनत्वात्‌ । नन्वेवं तर्हि कथं पराद्धर्योभगवान्‌ स्यात्‌ । परार्द्धज्ञेयत्वस्य ब्रह्मादिसाधारणत्वादित्यत उक्तमस्मादप्यतिशयेन परमिति । अस्मात्स्वस्माच्छ्रीतत्वादप्यतिशयेन परमित्यनेनप्रकारेणपरार्द्धेन ज्ञेयमित्यर्थः । ननु यथासरस्वत्याः प्राणः स्वस्मादप्यतिशयेनपरम इति ज्ञेयः प्राणेन श्रीतत्वं यथापरमिति ज्ञेयं तथापरार्द्धेन श्रीतत्वेनापि स्वस्मादेतवत्संख्याकगुणविशिष्येत्वेन परमिति ज्ञेयं चेत्‌ भगवतोतिमाहात्म्यं न लभ्यत इत्यत उक्तमसंख्यागोचरत्वेनेति । असंख्यागोचरत्वेन परार्द्धेन ज्ञेयत्वं जीवराशवप्यस्ति । अतोस्मादप्यतिशयेनेत्युक्तम्‌ । यद्यपि परार्द्धेन ज्ञेयत्वमेवशब्दलभ्यम्‌ । तथापि योग्यतयान्यस्य लाभः । नन्वेवं परमपराद्धर्यरसतमत्वं भगवतः किमर्थं वक्तव्यम्‌ । देवतातारतम्यज्ञानपुरःसरं भगवतः सर्वोत्तमत्वकथनार्थमिति चेत्‌ । न । एषांभूतानां पृथिवीरस इत्यादिनासाम्न उद्गीथोरस इत्यन्तेन तस्योक्तत्वादिति चेत्सत्यम्‌ । तदेवसंग्रहेणानूद्यप्राणोत्तमरमोत्तमत्वं चात्रकथ्यत इत्यदोषः । ननु यद्येषांभूतानां पृथिवीरस इत्याद्युक्तमेव संग्रहेणपरमपरार्ध्यरसतम इत्यनेनानूद्यते तर्हि पूर्वं वाचऋग्रस इति वागपेक्षयाऋच अधिक्यस्योक्तत्वादत्रवाचः परमपररसतमत्वं ऋचः परमपरर्द्धरसतमत्वं प्राणस्य परमपरार्द्धरसतमत्वं परार्द्धेन ज्ञेयस्य भगवतः परमपरार्ध्यरसतमत्वमिति प्राणादेवभगवत अधिक्यं लब्धम्‌ । नतु रमाया इति चेत्‌ । न । वागृचोरैक्य विवक्षयैवं व्याख्यानात्‌ । अस्तुवाऋग्रूपायाः सरस्वत्याः वाग्रूपायाः स्वस्या एव पृथक्‌ परत्वम्‌ । तथापि रमोत्तमत्वं भगवतः सिद्धयत्येवेत्याह ॥ ऋग्रूपाया इति ॥ ननु पूर्वव्याख्यानेरमायाः परमपरार्द्धरसतमत्वमुक्तम्‌ । तत्कथं परमपरार्द्धरसतमशब्दवाच्यप्राणोत्तमत्वमनेन लभ्यत इत्यतः परार्द्धशब्दं व्याचष्ये ॥ परस्मादपीति ॥ तस्मिन्नेव पक्षेपरार्ह्यशब्दार्थं पूवर्ोक्तं स्मारयति ॥ तेनेति ॥ परार्द्धेन श्रीतत्वेनेत्यर्थः । अस्मादप्यतिशयेन परमितीत्यपि ग्राह्मम्‌ । यद्वांसख्याऽगोचरगुणवत्त्वेनेत्यर्थः । न विद्यन्तेसंख्यागोचरागुणायस्यासावसंख्यागोचर इति विग्रहाश्रयणात्‌ । एवं चेदं व्याख्यानान्तरमिति बोद्धव्यम्‌ । ननु द्वितीयपक्षेप्राणस्य परमपरार्द्धरसतमत्वमेव । नतु परमपरार्द्धिरसतमत्वबिमत्युक्तम्‌ । किं ततः । नह्येतावताभगवतः पराद्धर्यशब्दवाच्यस्य रमोत्तमत्वं लब्धमित्यतोलब्धमेवेति भावेन परार्द्धिपराद्धर्यशब्दार्थमाह ॥
परार्द्धेति ॥

इकारस्येशत्ववाच कत्वेनोत्तमत्वार्थकत्वादिति भावः ।
परार्द्धोत्तमं परार्द्धीतियतोऽतःपरार्द्धित्वं श्रियो भवति ।
श्रिय एव परार्द्धशब्दवाच्यप्राणोत्तमत्वात्‌ । तेन परार्द्धिनाऽसंख्यातत्वेन ज्ञेयं पराद्धर्यमित्यतः श्रियोपि परार्ध्योभगवानिति योजना। पूर्वमकारलोपोत्रत्विकारलोप इति वैलक्ष्यसूचनायपुनः पराद्धर्यशब्दव्याख्यानमुपसंहरति ॥ अत इति ॥ इत्युच्यते भगवानिति शेषः ॥ 2 ॥ ननु पूर्वं पृथिवीसोमवरुणरुद्राणामपि प्रकृतत्वात्तान्विहायकतमाकतमर्गित्यादिना ऋक्‌ समोद्गीथं मात्रस्वरूपविमर्शकरणेकिं निमित्तमित्यत आह ॥ पृथिव्या इति ॥ पृथिव्याः पृथिवीदेवतात्वेनेति शेषः । ननु पृथिव्यादीनां जडपृथिव्यादिदेवतात्वेन प्रसिद्धिः किं लौकिकीवैदिकी वा । नाद्यः तदभावात्‌ । न द्वितीयः ऋगादिस्वरूपस्यापि श्रुत्यादि सिद्धत्वेन तद्विमर्शस्याप्यकर्तव्यत्वापातादित्यतोहेत्वन्तरमाह ॥ तज्ज्ञानस्येति ॥ ऋगादिज्ञानस्येत्यर्थः । विशिष्यं फलं येन तद्विशिष्यफलम्‌ । ऋगादीनामेव विमर्शः क्रियत इति सम्बन्धः । पृथिव्यादिज्ञानस्य विशिष्यफलसाधनत्वाभावेपि तत्स्वरूस्याप्रसिद्धत्वे तद्विमर्शः कर्तव्यएवेति प्राचीनहेतूपन्यासः । यदि ऋगादिज्ञानस्य विशिष्यफलसाधनत्वात्तद्विमर्शः कतर्व्यस्तर्हि वाचोज्ञानस्यापि विशिष्यफलसाधनत्वात्तद्विमर्शोपि कर्तव्य इत्यत आह ॥ वाचश्ऱ्चेति ॥ चशब्दस्तुशब्दार्थः । तर्ह्युक्तन्यायेन ऋगादिविमशर्षपि न कार्यः स्यादित्यत उक्तं वागृचोरिति । वागेवर्गिति वा गृचोरैक्यस्योक्तत्वादिभावः । तथाच ऋग्विमर्शेवाग्विमर्शोपि कृत एवेति भावः । ऐक्येपि रूपान्तरस्याप्रसिद्धत्वे तद्विमर्शः कर्तव्य एवेति प्राचीनहेतून्यासः । नन्वेतदयुक्तम्‌ । पूर्वं वाच ऋग्रस इति वागपेक्षया ऋचोरसत्वमुक्तम्‌ । इदानीं तयोरैक्यमुच्यते । तत्कथमुपपन्नम्‌ । नहि स्वस्मात्स्वस्य श्रैष्ठयं भवतीत्यत आह ॥ विशेषदिति ॥ वाक्‌ सरस्वती । विशेषेणप्राणसंक्तत्वं कथं ऋक्‌शब्दलब्धमित्यत आह ॥ ऋगताविति ॥ धातोः धातुव्याख्यानादित्यर्थः । ऋक्‌शब्दप्रवृत्तिनिमित्तं हि ऋक्त्वमेव । ऋक्त्वंचगतत्वं । ऋगताविति धातोः । गतत्वं चात्र संयुक्तत्वमेव । कारणशब्देन कार्योपलक्षणात्‌ । संयुक्तत्वं च योग्यतया प्राणेनैव । रूपान्तरादतिशयलाभायविशेषादित्यपि योग्यतयालब्धम्‌ । तेन विशेषात्प्राणसंयुक्तत्वं ऋक्‌शब्दलभ्यमिति भावः । प्रकारान्तरेणसरस्वत्याऋक्‌शब्दाभिधेयत्वमुपपादयति ॥ सर्गाभिमानिनीति ॥ अभिमान्यभिमन्यमानयोरेकशब्दत्वस्य महतश्ऱ्चतुर्मुखादित्यादौ दृष्यत्वादिति भावः । अस्त्वेवं प्राणसंयुक्तावागृक्‌शब्दाभिधा । तथापि कथं तस्याः स्वस्या एवोत्तमत्वमुच्यत इत्यत आह ॥ विशेषेति ॥ तथाच अवस्थाविशेषमादायैकस्या एव तस्याः स्वापेक्षयारसत्वोक्तिरुपपन्नेति भावः । अत एवोरुस्थलाश्रित यज्ञनाम्नालक्ष्म्याभगवद्रतियोगस्था दक्षिणाख्यापि सैव विशिष्येत्युच्यते । यज्ञाख्यासैव विष्णोस्तुयातूरस्थलमाश्रिता । हरिणारिति यागस्थादक्षिणाख्यापि सैवतु । उत्तरोत्तरतः सापि विशिष्यादक्षिणासुख इत्यादौ । नन्वस्वा एकत्वे वाचऋग्रस इति भेदोक्तिरयुक्ता । भेदेच वागेवर्गित्यभेदोक्तिरनुपपन्नेत्याशंकाप्येवं सतिनिरस्तेति भावेनाह ॥ प्राणयोगेति ॥ यस्मात्सैषैकातत्तस्माद्वागेवर्गितिश्रुतावभेदेनप्रोक्ता । यस्माच्चसैषहकापि प्राणयोगवियोगाभ्यां भिद्यते । तत्तस्मात्‌ वाचऋग्रस इति भेदेन प्रोक्तेति योज्यम्‌ । अनेन वागेवगिर्ति वाक्यव्याख्यानमपि लब्धम्‌ । इदानीं प्राणः सामेति वाक्यं व्याचष्ये ॥ प्राण इति ॥ ओमित्येतदक्षरमुद्गीथ इति वाक्यं प्रणवपरमिति प्रतीतिनिरासायव्याचक्षाणस्तावदक्षरशब्दार्थमाह ॥ अक्षयादिति ॥ अक्षेत्यस्यार्थोक्षयादिति । एतेन नञुपपदात्क्षैक्षय इत्यस्माद्धातोरातोनुपसर्गेक इति कप्रत्यय इत्युक्तं भवति । र सत्यस्यार्थोक्षयादिति । रमुक्रीडायामित्यस्माड्‌डः । अक्षश्ऱ्चासौरश्ऱ्चेत्यक्षरः । तस्यैवार्थान्तरमाह ॥ अक्षेष्विति ॥ इन्द्रियेष्वित्यर्थः । ओमित्यस्यार्थमाह ॥ ओमितीति ॥ नन्वोमित्येतदक्षरमित्यत्रेति शब्दबलात्‌ ओंकाराख्यः शब्दोलभ्यते । अर्थप्रकरणे पठितस्येति शब्दस्य शब्दपदार्थकत्वव्यवस्थापकत्वात्‌ । अन्यथातद्वैयर्थ्यं स्यादित्यत आह ॥ इतिशब्द इति ॥ इतिशब्दार्थस्योंकारार्थेनान्वयं दर्शयति ॥ एवमिति ॥ एवमित्यनेनेति शब्दस्य प्रकृतपरामर्शकत्वमप्यर्थ इत्यभिप्रेत्य इति ओमित्यन्वय उक्त इत्यपि ज्ञातव्यम्‌ । एतच्छब्दार्थमाह ॥ एतदिति ॥ उद्गीथशब्दार्थमाह ॥ उद्गीयमान इति ॥ उच्चत्वेन गीत उद्गीतः उद्गीत एवोद्गीथः ॥ 3 ॥ तद्वा एतदनुज्ञाक्षरं यद्धिकिं चानुजानात्योमित्येवतदाहेति वाक्यमसंगतिपरिहाराय व्याचष्ये ॥ तस्मादिति ॥ ओंनामनो भगवद्वाचकत्वादेवेत्यर्थः । एतत्परामर्शसौकर्यायैव श्रुतिक्रमोल्लंघनम्‌ । नन्वोमित्यनुज्ञानेन कथमोंकारस्य भगवद्वाचकत्वसिद्धिरित्यत आह ॥ त्वदुक्तमिति ॥ कुर्यादेवेति सम्बन्धः । तस्मादोंशब्दोभगवद्वाचक इति शेषः । तथाच तद्वा इति वाक्यमोंकारस्य भगवद्वाचकत्वसमर्थनाय प्रवृत्तमिति नासंगतमिति भावः । कथं तर्ह्यधुनातनेर्नोक्ताभिप्रायतः सशब्दः प्रयुज्यत इत्यत आह ॥ तदेतदिति ॥ एषो एव समृद्धिर्यदनुज्ञेति वाक्यं व्याख्यातुं तावत्तात्पर्यमाह ॥ ओमित्ययमिति ॥ शब्द इति शेषः । तत्र हेतुमाह ॥ समृद्धिरिति ॥ समृद्धेरोंशब्दवाच्यत्वं कुत इत्यत आह ॥ समृद्ध इति ॥ अथवेति प्राचीनानुज्ञाभिप्रायकथनात्पक्षान्तरद्योतकः । हि यस्मादयन्ते कामः समृद्धो भवत्वित्यभिप्रायेणानुज्ञा भवेत्‌ । अनुज्ञाचोंकार इत्युक्तम्‌ । अतः ॐ शब्दोहरेः समृद्धिवाची ईरितः स्यादित्यर्थः । नन्वनुज्ञायाः उक्ताभिप्रायकत्वे ॐ शब्दः समृद्धिमात्रवाचीस्यात्‌ । नतु हरिसमृद्धिवाची । तत्कथं हरेः समृद्धिवाचीस्यादित्युक्तमित्यतोनुज्ञाया अभिप्रायान्तरमाह ॥ इति वेति ॥ यतो हरिस्तवसमृद्धिद इति वाऽनुज्ञादीयते अतो हरेः समृद्धिवाची ॐ शब्द इत्यन्वयः । ॐ शब्दस्य समृद्धिमात्रवाचकत्वेपूर्वोक्तोहेतुः । हरिसमृद्धिवाचकत्वे त्वयं हेतुरिति भावः ॥ 6 ॥ एवं तद्वा एतदनुज्ञाक्षरमिति वाक्यं परामर्शसौकर्याय पूर्वं व्याख्यायेदानीं तदेवतन्मिथुनमोमित्येतस्मिन्नक्षरेसंसृज्यत इति वाक्यं व्याचष्ये ॥ वाक्प्राणाविति ॥ चापि शब्दौ वाक्वप्राणश्ऱ्चेति वाक्प्राणावितिपरस्परसमुच्चयार्थौ । अत एव श्रुतौ वाक्वक्चप्राणश्ऱ्चेत्युक्तम्‌ । यद्वा अपिशब्दः कैमुत्यार्थः । यदाऽतिशयितमाहात्म्यविशिष्यवाक्प्राणप्राप्योजनार्दनस्तदातन्माहात्म्यं किं वक्तव्यमिति । चशब्दोऋक्सामसमुच्चयार्थः । अत एव श्रुतौ तद्वा एतन्मिथुनं यद्वा क्चप्राणश्ऱ्च ऋक्‌ सामचेत्युक्तम्‌ । तुशब्दोविशेषार्थः । ननु सर्वेपि मुक्तौ भगवतिसंसृज्यन्ते । अतः कोविशेष इत्यत आह ॥ तत्प्रासादेनेति ॥ तयोः प्रसादेनेत्यर्थः । तुशब्दोऽवधारणार्थः । साक्षादेवभगवदन्याधिकारिप्रसादमन्यद्वारं चानपेक्ष्येत्यर्थः । वाक्प्राणयोः प्रकृतयोरप्यत्रप्राणमात्रग्रहणेन वाक्‌ प्राणद्वारेति भम्यते ॥ 4 ॥ तेनेयं त्रयीविद्यावर्तत इति वाक्यं तच्छब्दपरामृश्यं दर्शयन्व्याचष्ये ॥ तेनैवेति ॥ तेनैवप्रणवार्थभूतेनैवविष्णुनास्वप्रतिपाद्यभूतेनेयं त्रयीविद्याप्रवर्तत इत्यनेन प्रवणार्थ एव सर्ववेदार्थ इत्युक्तं भवति । प्राचीनप्रणवव्याख्यानसमुच्चयार्थश्ऱ्चशब्दः । प्रणवार्थ एव सर्ववेदार्थ इत्युक्तमुपपादयितुं प्रवृत्तमोमित्याश्रावयति ओमिति शंसति ओमित्युद्गायतीति वाक्यत्रयं व्याचष्ये ॥ ओमित्युक्त्वेति ॥ सर्वैर्मत्रैराश्रावणादिमन्त्रैः । एतस्यैवाक्षरस्यापचित्या इत्येतद्वयाचष्ये ॥ ॐ नामकस्येति ॥ महिम्नारसेन तेनोभौकुरुत इत्यादि व्याचष्ये ॥ महिम्नेति ॥ विष्णुनैवेति सम्बन्धः ॥ 7 ॥ नानातुविद्याचाविद्याचेत्युक्तं वैलक्षण्यं फलकृतमिति भावेन प्रवृत्तस्य यदेवविद्ययेति वाक्यस्य व्यावर्त्यप्रदर्शनपूर्वकन्तात्पर्यमाह ॥ नाज्ञस्येति ॥ तुशब्द एवार्थः । ज्ञस्यैवेति सम्बन्धः । ननूपनिषदोविद्याजनकत्वात्कथमुपनिषदाविद्ययेति सामानाधिकरण्यमित्यत उपनिषच्छब्दाथर्माह ॥ स्वयोग्यमिति ॥ तस्यज्ञस्य । अत्र स्वयोग्यमित्येवोपनिषच्छब्दार्थः । उपनिषीदतीत्युपनिषदिति व्युत्पत्तेः । परिज्ञानमिति विद्याशब्दार्थानुवादः । अन्यथापुनरपिसामानाधिकरण्यानुपपत्तेः । अत एवोक्तं कर्मनिर्णयटीकायाम्‌ । उपनिषीदतीत्युपनिषत्‌ । योग्येति । इति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवतीति वाक्येऽक्षरशब्दस्य प्रणववाचकत्वावश्यंभावात्पूर्वत्रापि सर्वत्र तस्य प्रणवपरत्वमेवयुक्तं नतु भगवत्परत्वमित्यतस्तद्यथावद्वयाचष्ये ॥ अक्षरमिति ॥ तस्य विष्णोरुपसमीपेवर्तमानः प्रणवः । असाधारण्येनतद्वाचकतया तत्प्रीविषयत्वात्‌ । वागृचोरैक्याविवक्षापक्षेपरर्द्धं परार्द्धं परार्द्धिपरार्ध्यमिति चतस्रः कक्ष्यानिरुपिताः । तत्राप्रतीत्यापरर्धादिशब्दार्थमाह ॥ परर्द्धमिति ॥ तस्मिन्नेव पक्षेपरार्द्धोवायुः परार्द्धिनीश्रीः परार्ध्यो भगवानित्युक्तमपि प्रमाणेन द्रढयति ॥ परत इति ॥ वायुरेवेति सम्बन्धः ॥ 8 ॥ ततश्ऱ्चायंखण्डार्थः ॥ ओमिति नामकमक्षरं नक्षीयत इत्यक्षं रतिरूपत्वाद्रं अक्षं चतन्द्रचेत्यक्षरं अक्षेष्विन्द्रियेषु रमणाद्वाऽक्षरं एतत्‌ सर्वसन्निहितत्वादेतन्नमाकम्‌ । उद्गीथं उच्चत्वादुत्‌ गीतत्वाद्गीः सर्वस्थानत्वात्थः उच्चासौगीश्ऱ्चासौथश्ऱ्चेत्युद्गीथस्तमुद्गीथं भगवन्तमुपासीत । भगवॐनामकत्वं कुत इत्यतस्तत्समर्थयते ॥ ओमितिह्युद्गायतीति ॥ हि यस्माद्भगवन्तमुद्दिश्योद्गातोमित्युच्चार्योद्गायति उद्गानं करोति । तस्मादोंनामकत्वं भगवतः सिद्धम्‌ । अन्यथाऽसंगतेरिति भावः । न केवलमश्ऱ्वकर्णादिशब्दवद्रूढिमात्रप्रवृत्तौंकारवाच्यं भगवन्तमुपासीतकिंतु ॐकारार्थगुणविशिष्यतयेति भावेन भगवद्वाचकोंकारव्याख्यानं प्रतिजानीते ॥ तस्येति ॥ तस्याक्षरस्योद्गीथस्य विष्णोरुपसमीपे वर्तमानोयः प्रणवस्तस्य व्याख्यानं क्रियत इत्यर्थः । तस्य प्रणवस्योपपन्नम्‌ । व्याख्यानं क्रियत इत्यर्थः इत्यप्याहुः ॥ 1 ॥ तत्र तावदधिकोच्चत्वेन प्रमितत्वमोंकारार्थ इति भावेन देवतातारतम्यज्ञानपूर्वं भगवदधिकोच्चत्वज्ञानस्यैव मोक्षहेतुत्वेन देवतातारतम्योक्तिपूर्वं भगवत अधिकोच्चत्वमाह ॥ एषांभूतानामित्यादिना ॥ एषां प्रसिद्धानां सर्वेषां भूतानामृभ्वादीनां सकाशात्पृथिवीपृथिव्यभिमानिदेवता । रसः सर्वगुणैर्वरा । पृथिव्याः सकाशादापस्तदभिमानिवरुणोरसः । अपां वरुणस्य सकाशशदोषधय ओषधिदेवतासोमोरसः । ओषधीनां सोमस्य सकाशात्पुरुषः पौंस्य देवतारुद्रोरसः । पुरुषस्य रुद्रस्य सकाशात्‌ वाक्‌ वेदाभिमानिनीसरस्वतीरसः । वाचः सरस्वत्याः सकाशात्‌ ऋक्‌ रसः ऋङ्‌नाम्नीसैव श्रेष्ठा । ऋचः सकाशात्सामरसः सामदेवतामुख्यावायुः श्रेष्ठः । साम्नः सकाशादुद्गीथोरसः नारायणः श्रेष्ठः । सामादीनां भूतादिभ्यः श्रेष्ठत्ववदस्योद्गीथस्य श्रेष्ठत्वं न भवति । किंतु महान्विशेष इति ज्ञापतिमाह ॥ स एष इति ॥ अष्यमः पृथिव्यपेक्षयाष्यमत्वेनोक्तोय उद्गीथः स एष रसानां श्रेष्ठानां पृथिव्यादीनां सकाशाद्रसतमः श्रेष्ठतमः परमश्रेष्ठादपि श्रेष्ठतमाच्चयत्परमं तस्मादुत्तम इत्यथर्ः । पराद्धर्यः अतिशयेनपरार्द्धियुतत्वात्पराद्धर्य इत्यर्थः । यद्वा स एष परमः परार्घ्द्यः अतिशयेन परमर्द्धिगुण इत्यर्थः । अथवा न केवलमुद्गीथस्य साम्न एवोत्तमत्वम्‌ । किन्तु सामोत्तमरमोत्तमत्वं चेति भावेन पूर्वोक्तं संग्रहेणानूद्यरमोत्तमत्वमाह ॥ स एष इति ॥ योष्यम उद्गीथः स एष रसानां सकाशात्‌ रसतमः परमः परार्ध्यः परमपरार्घ्यरसतम इत्यर्थः । अत्रायं विवेकः । वक्ष्यमाणरीत्यायदि वागृचोरैक्यविवक्षातदाभूतेभ्यः पृथिव्यारसत्वं तेभ्यो वरुणस्य रसतरत्वं सोमस्य रसतमत्वं रुद्रस्य परमरसतमत्वं उद्गीथस्य परमपरार्घ्यरसतमत्वमिति ॥ 2 ॥ पृथिव्याः पृथिवीदेवतात्वेन सोमवरुणयोश्ऱ्चैपध्यशब्देवतात्वे न रुद्रस्य च लिंगदेवतात्वेन वाचश्ऱ्चसरस्वतीत्वेन प्रसिद्धेः । ऋक्‌कतमा का । सामकतमत्‌ किम्‌ । उद्गीथः कतमः कः । इति विमृष्यं भवति विमर्शः कृतोभवति । कतमेत्यादिरुक्तिः कुतूहलनिमित्ता । क्रमेणात्तरमाह ॥ वागेवर्गित्यादिना ॥ वागेवपूर्वं पुरुषसारत्वेनो ह्यनेकरूपा । तत्रैकं रूपं सर्ववेदाभिमानिप्राणसंरोगविशेषहीनं च । अपरं तु ऋगभिमानिप्राणसंयोगशेषयुक्तं च । सवर्वागभिमनिप्राणसंयोगविशेषरहिताद्रूपादृगभिमानिप्रणसंयोगविशेषविशिष्यरूपस्य स्वरूपोत्तमत्वाभावेपि अवस्थाविशेषमादाय रसत्वोक्तिः । वेदात्मकरमारूपापेक्षयाभगवदं कस्थयज्ञाभिमानिरमारूपस्य धन्याश्ऱ्चर्यत्वोक्तिवदित्यवधेयम्‌ । प्राणो मुख्यप्राणः । साम सर्वभूते षुसमत्वात्‌ । सामदेवतात्वाच्च । ॐ उच्चत्वादिनाॐ नामकम्‌ । इतिशब्दोन्यथाभावनिवृत्त्यर्थः । सर्वदाप्यत्युच्चएवेति । यद्वा इति ओमित्यन्वयः । पूर्वोक्तप्रकारेणत्यर्थः । एतत्‌ एतन्नामकमक्षरं यत्प्रागभिहितं स एवोद्गीथ इत्यर्थः ॥ 3 ॥ ननूद्गीथाख्यस्य
भगवतः ऋक्सामनामकाभ्यां सरस्वतीप्राणाभ्यामुङत्तमत्वमुक्तम्‌ । तत्कथम्‌ । तयोरतिमहात्म्यवत्त्वेन श्रुत्यादिप्रसिद्धत्वादिति चेत्‌ । न । तदपेक्षयापि भगवतोति महात्म्यवत्त्वेन न तदुपपत्तेरिति भावेन तयोर्मुक्तौ भगवदाश्रितत्वं वक्तुमाह ॥ तद्वा इति ॥ तदेतन्मिथुनं वै किं तत्‌ । वाक्‌ च प्राणश्ऱ्च ऋक्च सामचेति यत्‌ । इतरेतरयोगेचशब्दाः । किं तत इत्यत आह ॥ तदेतदिति ॥ तदेतनिन्मथुनमोमिति नामके एतस्मिन्नक्षरे भगवति संसृज्यते । मुक्ताविति शेषः । सायुज्यलक्षणां मुक्तिं प्राप्नोतीति भावः ॥ 4 ॥ को विशेषस्तत्रेत्यत आह ॥ यदावा इति ॥ यदामिथुनौवाक्‌प्राणादिरूपौ दम्पतीसमागच्छत उद्गीथेसंसृज्येयातां तदा तावन्योन्यस्य काममभिलषितमापयतो हवै प्राप्नुत इति प्रसिद्धमित्यर्थः । उक्तरीत्या भगवदुपासकस्य फलमाह ॥ आपायितेति ॥ योऽधिकारी एतत्‌ वाक्‌प्राणादिरूपं मिथुनामेवं मुक्तौ भगवदाश्रितत्वादिनाविद्वानक्षरमुद्गीथमेवमुक्तरीत्यातदुत्तमत्वेनोपास्ते सकामानां काम्यानामापयिताप्रापयिताप्राप्ताहवै प्रसिद्धमित्यर्थः ॥ 5 ॥ भगवत ॐ नामकत्वे ओमिति ह्युद्गायतीति पूर्वं युक्तिरुक्ता । इदानीं युक्त्यन्तरेणापि तत्समर्थयते ॥ तद्वा इति ॥ तदेतदोंकाररूपमनुज्ञाक्षरमनुज्ञाप्रदमक्षरं वै । कुतः । हि यस्मास्माज्जनो यत्‌ यदा । किंचकिंचिदनुजानाति अनुमानं करोति तत्तदा ओमित्येवाहतस्मादेवतदनुज्ञाक्षरमिति सम्बन्धः । भगवास्तत्वदुक्तं तत्तथाकुर्यादित्यभिप्रायतोऽनुज्ञां प्रदातुं हि ज्ञानिभिरोमित्युच्यते । तत्रोंकारस्य भगवद्वाचकत्वाभावे उक्तभिप्रायेणानुज्ञाप्रदानायोमित्युच्चारणं न स्यादिति भावः । पूर्वमोंकारस्याधिकोच्चत्वेन प्रमितत्वमर्थ इत्यभिप्रेत्याधिकोच्चत्वं समर्थितम्‌ । इदानीं भगवतः पूर्णत्वं चोंकारार्थ इति भावेनाह ॥ एषो एवेति ॥ ओमित्ययं शब्दः पूर्णत्ववाची । समृद्धिवाचकत्वात्‌ । तदेवकुतः । ॐ कारस्तावदनुज्ञाक्षरमित्युक्तं किंततः यदनुज्ञा यानुज्ञा एषैवसमृद्धिर्वै । अयं ते कामः समृद्ध इति भावेनैवानुज्ञाप्रदानात्‌ । अतः ॐकारः समृद्धिवाचक इत्यर्थः । नन्वोंकारस्य पूर्णत्ववाचकत्वेपि भगवत्पूर्णत्ववाचित्वं कुत इति चेत्‌ । न । भगवत्समृद्धिवाचकत्वादेव । तदेवकुतः । ॐकारोह्यनुज्ञाक्षरमित्युक्तम्‌ । यदनुज्ञा एषैव भगवतः समृद्धिर्वै भगवांस्तवसमृद्धिद इति भावेनैवानुज्ञाप्रदानात्‌ । अतो भगवत्समृद्धिवाच्योंकार इत्यर्थः । एवमुपासकस्य फालमाह ॥ समर्धयितेति ॥ योधिकारी एतत्पूवर्प्रकृत भगवत्स्वरूपमेवं समृद्धत्वनिमित्तकोंनामकत्वेन विद्वानक्षरमुद्गीथं भगवन्तमुपास्तेसमुक्तस्सन्कामानां काम्यानां समर्धयितासमृद्धिकारको भवति हवै ॥ 6 ॥ सर्ववेदाथर्ोप्योंकारार्थ इति भावेनाह ॥ तेनेति ॥ तेनोंकारप्रतिपाद्येन विष्णुनास्वप्रतिपाद्यभूतेनेयं त्रयीविद्या वर्तते प्रवर्तते । वेदप्रतिपाद्यस्यैवोंकारप्रतिपाद्यत्वं कुत इत्यत ॐकारव्याख्यानत्वात्सववेद्येति भावेनाह ॥ ॐमितीति ॥ अध्वर्युरोमित्युच्चार्याश्रावयति आश्रावमन्त्रं पठति । तथाहोतोमित्युच्चार्यशंसतिशंसनमन्त्रं पठति । तथोद्गातोमित्युच्चायर्ोद्गायति उद्गानमन्त्रपठति । तेन तेषां मन्त्राणामोंकारव्याख्यानरूपत्वमवगम्यत इति भावः । अध्वर्य्वादिरोमित्युच्चायर्ाश्रववादिमन्त्रं किमर्थं पठतीत्यत आह ॥ एतस्येति ॥ एतस्यैवाक्षरस्योंनामकस्य विष्णोरपचित्यैपूजार्थम्‌ । एवमधिकोच्चत्वं पूर्णत्वं सर्ववेदार्थश्ऱ्चप्रणवार्थ इत्युक्तम्‌ । इदानीं तदनुवादेनार्थान्तरमाह ॥ महिम्नेति ॥ महिम्नापूर्णेनरसेनाधिकोच्चेनतेनसर्ववेदप्रसिद्धेनोंनामकेन भगवता प्रेरितावुभौकर्मकुरुतः । तौ कौ । यश्ऱ्चैतत्‌ भगवत्स्वरूपमेवमुक्तरीत्यावेदयश्ऱ्चनवेदतावुभावितिपूर्वेण सम्बन्धः ॥ 7 ॥ सर्वोपि कर्मकुरुत इत्यनुक्त्वाज्ञान्यज्ञानिविभागोक्तिः किमर्थेत्यतस्तत्रावान्तरवैलक्षण्यज्ञापनार्थेति भावेन ज्ञान्यज्ञानिनोः कुतोवैलक्षण्यमित्यतो ज्ञानाज्ञान । योरेववैलक्षण्यादिति भावेनाह ॥ नानात्विति ॥ विद्याचाविद्याच परस्परयोगेचशब्दौ तु विशेषेण नानाविलक्षणे । कुतः फलवैलक्षण्यादित्याह ॥ यदेवेति ॥ श्रद्धाया श्रद्धायुक्तया उपनिषदा उपनिषीदतीत्युपनिषत्‌ योग्यया । विद्याया ज्ञानेनैव यत्कर्मकरोति तदेव वीर्यवत्तरमनन्तफलसाधनं भवति । अत्र विद्याशब्दस्यापरोक्षज्ञानपरत्वे मोक्षगतानन्दतिशयसाधनं भवतीत्यर्थः । परोक्षज्ञानपरत्वेत्वपरोक्षज्ञानद्वारामोक्षसाधनं भवतीत्यर्थः । अविद्यया यत्करोति न तदेवमिति भावः । एवं कृतमोंकारव्याख्यानमुपसंहरति ॥ इतीति ॥ इति पूवर्ोक्तप्रकारेणैतस्यैव पूर्वोक्तस्यैवाक्षरस्याक्षरनामकस्य भगवत उपसमीपेवर्त्तमानस्य प्रणवस्य व्याख्यानं भवतीत्यर्थः । अत्र केचिदध्यापकाः अथ ह य एवायं मुख्यप्रणस्तमुद्गीथमुपासीत तस्येतरैः प्राणैरुपव्याख्यानं भवतीति पठन्ति । तस्यायमर्थः । अथप्रणवाख्यस्य भगवतः उपास्तिकथनानन्तरं तदुपास्त्यधिष्ठानमुच्यत इति शेषः । य एवायं प्रमाणसिद्धोमुख्यप्रणस्तं तत्रोद्गीथं भगवन्तमुपासीत । कोविशषस्तस्य । येन तत्रैव भगवदुपास्तिः कर्तव्येत्यत आह ॥ तस्येति ॥ तस्य मुख्यप्राणस्येतरैः प्रणैर्नासिक्यप्रणादिभिरुपव्याख्यानमुपपन्नं विशिष्यतया कथनं भवतीति ॥ 8 ॥

प्रथमः खण्डः ॥ 1 ॥ तात्पर्याप्रतीतेरुत्तरखण्डमवतारयति ॥ उद्गीथाख्यस्येति ॥ ओमित्येतदक्षरमुद्गीथमुपासीतेत्युद्गीथाख्यस्य विष्णोरुपास्तिः कर्तव्येत्युक्तम्‌ । तत्र न तावत्केवलस्य विष्णोरुपास्तिः कर्तुं युक्ता । सर्वेषां तदनधिकारात्‌ । किंतु क्वचित्प्रतिमायाम्‌ । तत्रापि न साधारणप्रतिमायां तदुपास्तिः युक्ता । फलाधिक्याभावात्‌ । किन्तु विशिष्यायामेव । अतः साकेत्याशंकायामिदमाहेति भावः । वायुरेवा धिकारिवर्ग इति शेषः । किंतत इत्यत उक्तमत इति । वायोः सर्वलोकाधारत्वेन तदाश्रितेतरपदार्थसाधारण्यव्यावर्तनायततोप्युत्तमत्वेनेत्युक्तं दर्शयति देवासुदरा इति खण्डेन वेदपुरुष इति शेषः । विष्णोः विशिष्यप्रतिमावायुरेवेत्यत्र प्रमाण आह ॥ वायाविति ॥ सूर्योग्निर्ब्राह्मणोगावोवैष्णवः खंमरुज्जलम्‌ । भूरात्मासर्वभूतानिभद्रपूजापदानिम इति पूर्ववाक्येमरुतोभगवत्पूजास्थानत्वमुक्त्वातत्प्रकारोवायावित्यनेनोच्यते । वायौ मुख्यधिया वायोः सर्वोत्तमज्ञानेन । मां यजेतेति पूर्वेणान्वयः । यदि वायुर्विष्णोर्विशिष्यप्रतिमानस्यात्तदावायुसर्वोत्तमत्वज्ञानं कथं विष्णपूजास्यादिति भावः । उक्तं च सर्वदेवोत्तमोवायुरिति ज्ञानान्नचापरम्‌ । प्रियमस्तिहरेः किंचित्तथावायोहरेर्विद इति । मां यजेतेत्युक्तास्मच्छब्दवाच्यः क इत्याशंकानिरासाय भगवद्वचनमित्युक्तम्‌ । भगवतो वासुदेवस्य वचनमित्यर्थः । न केवलं वेदपुरुषो दर्शयति । किन्तु भगवद्वचनं च विवक्षितमथर्ं दर्शयतीति चशब्दार्थः । ननु ज्ञानिनोदेवामुख्यप्राणमुद्गीथाख्यविष्णोर्विशिष्यप्रतिमां जान्त्येव । अतः किमर्थं स्वशत्रुजयायपापवेध्यनासिक्यप्रणादावुद्गीथमुपास्य तेषामसुरकृतपापवेदे अतन्तोमुख्यप्राण उद्गीथमुपासितवन्त इत्याशंकां परिहर्तुं तस्य सर्वोत्तमत्वज्ञानपूर्वकमित्याद्युक्तमर्थं प्रमाणेन द्रढयन्नाह ॥ यस्मादिति ॥ अखिलात्‌ जगतो वायोर्मुख्यतया । तस्माद्वायोः स्वस्य मुख्यतयावायौस्मृतोविष्णुः परां तुष्यिंगमिष्यतीति सम्बन्धः ॥ विचार्येति ॥ ज्ञनिभिरपिदेवैः वायोः सर्वोत्तमत्वनिर्णयायेति पूरणीयम्‌ । पापवर्जितेप्रण इत्यन्वयः । सकलैः देवैः दैत्यजयेति चोक्त्या श्रुतौ देवसुरशब्दौ प्रसिद्ध देवासुरपरावेवेत्युक्तं भवति । तेन शास्त्रोद्भासिता इन्द्रियवृत्तयोद्योतनाद्देवास्तद्विपरीता इन्द्रियवृत्तयः स्वेष्वेवासुषुरमणादसुरा इति परकीयं व्यांख्यानमपास्तम्‌ । देवासुरशब्दयोरुढिपरित्यागेन यौगिकार्थगअहणेकारणाभावात्‌ । ते ह नासिक्यं प्राणमुद्गीथमुपासांचक्रिर इत्यादौ प्राणवाक्‌चक्षुः श्रोत्रमनःशब्दाः इन्द्रियपरा इत्यसत्‌ । तद्धदेवा इति देवोपक्रमविराधात्‌ । एवमुखल्वेतादेवताः पाप्मभिरुपासृजन्नेवमेनाः पाप्मनाविध्यन्‌ इति श्रुत्यन्तरेदेवानामेवासुरकृतपापविद्धत्वोक्तेश्ऱ्चेति भावेनान्येषामपि पापवर्जितत्वेकोविशेषोमुख्यप्राणस्येत्यतः तं हासुराः पाप्मनाविविधुरित्यादिवाक्यपञ्चकं व्याचष्ये ॥ वायुपुत्रमिति ॥ यदादेवानासिक्यप्राणदावुद्गीथनामानं विष्णुमुपासंचक्रिरेतदेति ग्राह्यम्‌ । नासिकायां भवोनासिक्यस्तदभिमानीति यावत्‌ । वागात्मकं वागभिमानिनम्‌ । एवमुत्तरत्र । प्राणस्य सर्वदेवोत्तमत्वलाभायमनः प्रभेदाहं चित्ताभिमानिनौशेषगरुडावुपात्तौ । बुद्धिचेतनाभिमानिनावपि ग्राह्यौ । अन्येन्द्रियाभिमानिनामुपलक्षणमेतत्‌ । विविधुरेवेत्येवशब्द सम्बन्धः । तस्मात्तेनोभयं जिघ्रतिसुरभिचदुगर्ं धिच । पाप्मनाह्येषविद्ध इति वाक्यं पंचकं व्याचष्ये ॥ तैरिति ॥ अथ ह य एवायं मुख्यप्राणस्तमुद्गीथमुपासांचक्रिरेतं हासुराऋत्वादिदध्वसुरिति वाक्यं तमुद्गीथमिति सामानाधिकरण्येनमुख्यप्रणोद्गीथयोरभेद उच्यत इति प्रतीति निरासायव्याचष्ये ॥ मुख्यवायाविति ॥ अनेन तमितिद्वितीयासप्तम्यर्थेत्युक्तं भवति । प्रणोद्गीथयोरभेदस्य बाधितत्वात्‌ । नासिक्यप्राणमुद्गीथमित्यादिसामानाधिकण्रटेनतदभेदप्राप्तावुद्गीथाख्यस्य विष्णोः पापवेधप्राप्तेश्ऱ्च । शरीरस्थ इत्यनेनायमित्यस्य शरीरस्थ इत्यर्थः सुचितोभवति ॥ सूर्यग इति य एवासौतपतितमुद्गीथमुपासीतेत्युत्तरखण्डविवक्षयोक्तं उद्गीथनामानमुपासंचक्रिर इति शेषः । विदध्वसुः विविधुः । सयथाश्मानमिति दृष्यान्तवाक्य संघटनायतं विदध्वसुरित्येतदेवापेक्षितपूरणेन पुनः व्याचष्ये ॥ यदेति ॥ इदानीं स यथाश्मनमाखणमृत्वाविध्वंसत एवमिति वाक्यं व्याचष्ये ॥ अखन्याश्मानमिति ॥ तथा सुराविध्वस्ता इति सम्बन्धः । अस्त्वेवमसुरकृतपापवेधशून्यत्वात्पापवर्जितेमुखयप्राणेदवैः जानार्दन उपासित इति । किंतत इत्यत आह ॥ तस्मादिति ॥ देवैः पापवर्जितेशरीरस्थेसूर्यगेचमुख्यवायौविष्णोरुपासितत्वादित्यर्थः । आदित्यसंस्थेऽनिलेविष्णुमुपासीतेत्यनेन य एवासौ तपति तमुद्गीथमुपातित्युत्तरखण्डगतमुपासनाविधिवाक्यं व्याख्यातम्‌ । शरीस्थेऽनिलेविष्णुमुपासीतेत्यनेन पूर्वखण्डेयत्किंचिदध्यापका अथ हय एवायं मुख्यप्राणस्तमुद्गीथमुपासीतेति पठन्ति तद्वयाख्यातं भवति । बलज्ञानात्मक इति प्राणशब्दार्थः । प्रकर्षेणासमन्तण्णं बलं यस्यासौतथोक्तः । णकारोबलमिति श्रुतेः । प्रकृष्यमणनं ज्ञानं यस्यासौतथोक्त इति वा अणपणगताविति धातोः । तपतीत्युक्त्यनुरोधेनोज्ज्वलात्मनीत्युक्तम्‌ । तल्लब्धमर्थमाह ॥ दिव्याकृतिमतीति ॥ ततो वायोः । तं बृहस्पतिरुद्गीथमुपासंचक्र इति वाक्यं स जातीयोपलक्षणपरमिति भावेनैतमु एव बृहस्पतिं मन्यन्ते इति वाक्यं संघटनायैतदुपास्तिफलमाह ॥ अस्येति ॥ देवा इत्युपलक्षणम्‌ । ऋषयश्ऱ्चेत्यपि ग्राह्यम्‌ । तेन तं हांगिरा उद्गीथ मुपासांचक्र इत्युक्तोपासनस्यापि फलं लब्धम्‌ । सर्वनामानि स्वस्वनामानि । अनेनोपासांचक्र इत्यनन्तरं तथा बृहस्पतिरिति नामभेज इति पूरणीयमित्युक्तं भवति । नन्विन्द्रबृहस्पत्यादीनिदेवनामान्यंगिरःप्रभृतीनिषिनामानिचेन्द्रबृहस्पत्यादीनां स्वत एव सिद्धानि । अतः कथमस्योपासनयातेषां तत्तन्नामलाभ इत्युच्यत इत्यतोनैतानितेषां नामानि । किन्तु मुख्यप्राणस्यैव मुख्यतः । नच प्रसिद्धिविरोधः । तदुपासनालब्धतत्तन्नामकत्वेन तदुपपत्तेरिति भावेन प्रवृत्तमेतमु एव बृहस्पतिं मन्यन्त इति वाक्यमुपलक्षणपरमित्यभिप्रेत्यव्याचष्ये ॥ इन्द्र इति ॥ इत्याद्याः शब्दाः । आदिपदेनर्षिवाचकशब्दा अपि ग्राह्याः । नन्वेवं तर्हि यो देवानां नामदा इन्द्रमित्रं वरुणमग्निमाहुरित्यादि श्रुतिविराध इत्यत आह ॥ प्राणस्येति ॥ नामशब्दाः अभिदायिशब्दाः । प्राणस्य शब्दा अपि मुख्यतो विष्णुसंस्थिताः । नामप्रसिद्धमिति वार्थः । तद्धदेवा उद्गीथमाजह्रुरित्यत्रोद्गीथनामानं विष्णुं बलादाहृतवन्तो देवा इति प्रतीयते इत्युक्तम्‌श्र । तथासति विष्णोरशक्तत्वापत्तेरित्यतस्तद्वयाचष्ये ॥ उद्गीथाख्यमिति ॥ आजह्रुभीष्यदं चक्रुः । ननु बलादाहरणेप्राण एवोपासनं कार्यमिति निर्बन्धोव्यर्थः । अन्यत्राप्युपासितस्य फलप्रदत्वसम्भवादित्यत आह ॥ तथापीति ॥ यद्यप्युपास्त्याऽऽजहुनर्तुबलात्तथापीत्यर्थः । यथाश्मनमाखणमृत्वाविध्वंसत एवं हैव सविध्वंसत इत्यत्रपूर्ववाक्यवदेवयथाश्मानमाखणमृत्वाविध्वंसतेलोष्य इति व्याख्यानमसत्‌ । उपासके उपास्य साम्यस्यैववक्तव्यत्वादिति भावेन यथाश्मानमित्यारभ्य अभिदासतीत्यन्तं वाक्यं व्याचष्ये ॥ प्राणमिति ॥ अनेनाश्मानमाखणमित्ययंशब्दः प्राणपरः । विध्वंसत इत्यनन्तरमसुरवर्ग इति शष इत्युक्तं भवति । अत एव वाक्यशेषे सएषोमाखण इत्युक्तम्‌ । उक्तं चान्यत्र आखणाश्मसमोहिस इति । अभिदासतीत्यस्यार्थोदातुमिच्छतीति । प्रतीपमिति शषोक्तिः । तदुपासकस्यापीत्यपि शब्दसम्बन्धः । चशब्दात्‌ पापं कामयत इति ग्राह्यम्‌ । सोपि विध्वंसत इति शेषः । एतमुएवां ततोवित्त्वोत्क्रामतीत्यत्रान्तरत इत्येतत्परित्यज्यान्यांशं व्याचष्ये ॥ एतमिति ॥ मुख्यप्राणमित्यर्थः । अवधारणार्थोसंशयमिति । नन्वेवं तमेवं विद्वानित्यादि श्रुतिविरोध इत्यत आह ॥ विष्णुमपीति ॥ अनेन श्रौत उशब्दोपि शब्दार्थः । तेन विष्णुसमुच्चयः । ततश्ऱ्चैतं मुख्यप्राणं विदित्वान्ततोविष्णुमपिविदित्वोत्क्रमत्येवेति वाक्यं योजनीयमिति सूचितं भवति । तद्विवणरूपं व्याददात्येवान्तत इत वाक्यं व्याचष्ये ॥ वीतीति ॥ तत्र निमित्तमाह ॥ विशिष्यत्वादिति ॥ नरमादीनां ब्रह्मादिभ्योविशिष्यत्ववदस्य विशिष्यत्वमपि तुमहान्विशेष इति ज्ञापनायतुशब्दः । आददात्येवावगच्छत्येव । अन्ते प्राणस्य । ननु प्र=शवेत्तांन्तेविष्णुमगवच्छतीत्यनुपपन्नम्‌ । विष्णुज्ञानाभावेपि प्राणपरिज्ञानसम्भवादित्यतोत्र विवक्षितं प्राणज्ञानमाह ॥ प्राणादिति ॥ तुशब्दोऽवधारणाथर्ः । अवरानेवेत्येवशब्दसम्बन्धः । विष्णोरवरत्वेन जीवेभ्य उत्तमत्वेन ये प्राणां विदुरिति यावत्‌ । एतादृशंच प्राणज्ञानमन्ततोविष्णुज्ञानं विनानसम्भवतीति भावः । य एवायं मुख्यप्राणस्तमुद्गीथमुपासांचक्रिर इत्यत्रतमिति द्वितीया मुख्यवायौयदादेवा इत्यनेन सप्तम्यर्थाव्याख्याता । तत्र नियामकं प्रमाणं पठति ॥ प्राण इति ॥ प्राण उद्गीथ इत्यादिवाक्यगताः प्राण इत्यादिप्रथमाः नामब्रह्मेत्यादिवाक्यगतानामेत्यानिदप्रथमाश्ऱ्चसप्तम्यर्थाः समुद्दिष्या इति प्रसंगादुत्तरश्रुतिव्याख्यानायोक्तम्‌ । तत्र नियामकं सूत्रं पठति ॥ सप्तस्विति ॥ प्रकृतमाह ॥ प्राणमिति ॥ प्रणमुद्गीथमित्यादिवाक्यगताप्राणमित्यादिद्वितीयेत्यर्थः ॥ ततश्ऱ्चायं खण्डार्थः ॥

देवाश्ऱ्चासुराश्ऱ्च देवासुराः । हवा इति वृत्तार्थस्मरणार्थौनिपातौ । यत्र यदा । संयेतिरे योद्धुं सन्नद्धा अभवन्‌ । योद्धुं सन्नद्धत्वेदायादत्वं कारणमाह ॥ उभय इति ॥ उभयेपि ते देवा सुराः प्राजापत्याः प्रजापतेः ब्रह्मणः कश्यपस्य वा पुत्राः । यदासंयेतिरे । किं तदेत्यत आह ॥ तद्धेति ॥ तत्तदा असुराणां बहुत्वाच्छंकरवरसद्भावाच्च तैः जिता देवा उद्गीथं उद्गीथनामकं विष्णु मुपासस्त्याऽऽजह्रुराहृतवन्तः अभीष्यदं कृतवन्त इति यावत्‌ । हेति प्रसिद्धिमाह ॥ उद्गीथा हरणषतेषामभिप्रायमाह ॥ अनेनेति ॥ अनेनो द्गीथेनोपासितेन तत्प्रसादाप्तबलेन एतानसुरानभिभविष्यामोजयाम इति भावेनाजह्रुरिति सम्बन्धः ॥ 1 ॥ उद्गीथाख्‌यस्य विष्णोर्विशिष्यप्रतिमामुख्यप्राण एव । अतस्तस्य सर्वोत्तमत्वज्ञानपूर्वं तस्मिंस्ततोप्युत्तमबत्वेनोपासित एव भगवान्सम्यक्‌ फलं ददातीति जानन्तोपि मुख्यवायुपुत्रे उद्गीथं विष्णुम्‌ । उपासांचक्रिरे ह प्रसिद्धम्‌ । तेऽसुरा अननोद्गीथेन नोजेष्यन्तीति विदुरिति वक्तव्यम्‌ । एवं ज्ञातदेवाभिप्राया असुराः । तं उद्गीथोपास्तिप्रतिमाभूतं नासिक्यप्राणम्‌ । पाप्मना पापेन । विविधुः वेधितवन्तः । नासिक्यप्राणस्य पापविद्धत्वे कार्यं प्रमाणयति ॥ तस्मादिति । हि यस्मात्‌ । एषनासिक्यप्राणः । पाप्मनाविद्धस्तस्मादेव । तेन तदभिमतेन । नासिकारूपकरणेना । सुरभिचदुर्गन्धिचेत्युभयं जिघ्रति जीवः । अन्यथा तन्नस्यादिभावः ॥ 2 ॥ एवमुत्तरत्रापि योजनाद्रष्यव्या । अथ नासिक्यप्राणस्य पापवेधानन्तरम्‌ । वाचं वागभिमानिन्यग्नौ ॥ 3 ॥ चक्षुस्तदभिमानि सूर्ये ॥ 4 ॥ श्रोत्रं तदभिमानि सोमे ॥ 5 ॥ मन स्तदभिमानिरुद्रशेषगरुडेषु ॥ 6 ॥ उपलक्षणमेतत्‌ । अथ सर्वेषामिन्द्रियदेवतानामसुरकृतपापवेधानन्तरं तेषां विशिष्यप्रतिमात्वाभावं प्रकटीकृत्य । य एवायं पूर्वं सामनामकत्वे नोक्तो मुख्यप्राणः तं तत्रो द्गीथं भगवन्तं मुपासांचक्रिरे । तं मुख्यप्राण मसुराः पूर्वव देव ऋत्वा प्राप्य । विदध्वसुर्विविधुः । यदातं विदध्वसुस्तदाविध्वस्ता अभवन्निति योज्यम्‌ । तत्र दृष्यान्तामाह ॥ यथेति ॥ यथा आखणं सर्वथा अखन्यमश्मानं पाषाणं ऋत्वाप्राप्यविध्वंसेत लोष्य एवं तं हासुराऋत्वाविदध्वसुरिति सम्बन्धः ॥ 7 ॥ एवं मुख्यप्राणोपासस्य फलमाह ॥ यथेति ॥ यथाऽखन्यमश्मानं ऋत्वाविध्वंसतेऽसुरवर्ग इति शेषः । एवमेव सविध्वसंते हनिश्ऱ्चितम्‌ । को सौ यः पुरुष एवं विदि । असुरकृतपापाविद्धतया भगवन्मुख्यप्रतिमात्वेन मुख्यप्राणोपासके । पापं पापफलं दुःखं कामयते । यश्ऱ्चैनं मुख्यप्राणोपासकं प्रति अभिदासति प्रतीपं दातुमिच्छति । सविध्वंसत इति पूर्वेणान्वयः । नन्वसुरवर्गोमुख्यप्राणं प्राप्यैव विध्वंसत इत्युक्तम्‌ । नत्वाखणमश्मानं प्राप्य । नच पूर्ववाक्यवदत्रापि लोष्य एव ग्राह्यः । उपासके उपास्य साम्यस्य वक्तव्यत्वादित्यत आखणमश्मानमित्यस्यार्थमाह ॥ स एष इति ॥ स एष मुख्यप्राणोश्माखणः आखणाश्मेत्युच्यते । आखणाश्मसदृशत्वात्‌ । आखणाश्मसमोहिस इत्युक्तेः । एवं चाश्मानमाखणमित्यस्याखणाश्मसदृशं मुख्यप्राणमित्यर्थ इति नानुपपत्तिरिति भावः ॥ 8 ॥ मुख्यप्राणेन असिक्यप्राणादिवैलक्षण्यमाह ॥ नैवेति ॥ यद्वा मुख्यप्राणस्य पापाविद्धत्वेकार्यं प्रमाणयति ॥ नैवेति ॥ हि यस्मादेषोपहत पाप्मातस्मादेवैतेन मुख्यप्राणेन (तदभिमानेनमौक्तेन स्वरूपदेहेन) सुरभिनविजानातिदुर्गन्धिच न विजानाति । केवलं सुरभ्येवजानाति । नतूभयविधमिति भावः । उपलक्षणमेतत्‌ । सत्यंचानृऽतं च नवदीतत्याद्यपि ग्राह्यम्‌ । एवं मुख्यप्राणस्यैव सर्वदेवोत्तमत्वेपापाविद्धत्वं हेतुरित्युक्तम्‌ । इदानीं हेत्वन्तरमाह ॥ तेनेति ॥ तेन मुख्यप्राणेनप्ररितोजीवोयदश्ऱ्नातियत्पिबतितेनेतरान्प्राणानिन्द्रित्वोपापाविद्धत्वं हेतुरित्युक्तम्‌ । इदानीं हेत्वंतरमाह ॥ एतमिति ॥ उशब्दोपि शब्दार्थः । एतं मुख्यप्राणं विदित्वोत्क्रामत्येव । संसारान्मुक्तिमेष्यत्यसंशयम्‌ । नच श्रुत्यन्तरविरोधः । अन्ततः सर्वोत्तमत्वेन विष्णुमपि विदित्वोत्क्रामति । प्राणज्ञानीविष्णुं कथं सर्वोत्तमत्वेन जानीयादित्यत उक्तं विवृणोति ॥ व्याददातीति ॥ यतः प्राणवेत्तां ततस्तस्याप्युत्तमत्वेन विशिष्यद्विविष्णुमाददात्येवसम्यगवगच्छत्येव प्राणप्रसादात्‌ विष्ण्ववरत्वेन सर्वजीवोत्तमत्वेन प्राणज्ञानिन एव प्राणवेत्तृत्वादिति भावः ॥ 9 ॥ अंगिरा नामर्षिस्तं तत्र मख्यप्राणे उद्गीथोपासनेन तस्यैतन्नमाधेयलाभ इत्यतोनेदमृषिनाम । किन्तु मुख्यप्राणस्यैव । इतरत्र प्रसिद्धेस्तद्दत्तत्वेनोपपत्तेरिति भावेनाह ॥ एतमिति ॥ एतमेवमुख्यप्राणमेवांगिरसंमुख्यतोंगिरसनामकं मन्यन्तेवैज्ञानिनः । तत्रांगिंरसशब्दं निर्वक्ति ॥ अंगानामिति ॥ यत्‌ यस्मादंगानां शरीरावयवानां रसोनियामकोंगानामप्रधानानां पृथिव्यादिसरस्वत्यंतानां रसः श्रेष्ठोवातेनकारणेनांगिरसंमन्यन्त इत्यन्वयः ॥ 10 ॥ न केवलमृषय एव तमुपास्य स्वनामानिभेजिरेकिंतु देवा अपीत्युपलक्षणयाह ॥ तं हबृहस्पतिरिति ॥ व्याक्यातप्रायम्‌ । वाक्‌ वागभिमानिनीसरस्वती । बृहतीस्त्रीगुणैः सर्वपूर्णत्वात्‌ । यथोक्तं । स्गुणैः सर्वपूर्णत्वाद्ब्रृहतीतु सरस्वतीति । तस्याबृहत्या एष मुख्यप्राणः पतिर्हियस्मात्तेनबृहस्पतिं मन्यत इत्यर्थः ॥ 11 ॥ उपलक्षणमेतत्‌ । तमिन्द्र उद्गीथथमुपासांचक्रे एतमुएवेन्द्रं मन्यत इत्याद्यपि ग्राह्मम्‌ । उपलक्षणताज्ञापनायैवाह ॥ तं हायास्य इति ॥ अयास्यः कश्ऱ्चिदृष्यिः । यद्यस्मादास्यादयतेमुखाद्गच्छति तत्र प्रविश्यतं नियमयतीति यावत्‌ । तथाहि श्रुतिः । चक्षुःश्रोत्रेमुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठत इति । मुकान्निर्गच्छतिश्ऱ्वासोच्छ्वासरूपेणेति वार्थः ॥ 12 ॥ यज्ञेवायुरेवोद्गाताकर्तव्यः । तदाभावे तज्ज्ञानीवा । तस्यैव तप्रिप्तविघ्नपरिहारक्षमत्वात्‌ । यजमानाभीष्यप्रदानसमर्थत्वाच्चेति भावेनाह ॥ तं हेति ॥ तं मुख्यप्राणं दाल्भ्यो दल्भपुत्रोबकोनामतोविदांचकारज्ञातवान्‌ । अतः सबलकोनैमिशीयानां नैमिषदेशीयानामृषीणां सत्रिणामुद्गाताबभूव । सबकोमुख्यप्राणज्ञानसामर्थ्यादेवैभ्यः ऋषिभ्यः कामान्‌ काम्यान्नुद्दिश्यागायति । हस्मेत्याश्ऱ्चर्यद्योतकम्‌ । ते कामास्तैः प्राप्तश्ऱ्च ॥ 13 ॥ यजमानाभीष्यप्रदानसमर्थोद्गातृज्ञेयमुख्यप्राणाख्यविशिष्यप्रतिमात्वेन भगवदुपासकस्य फलमाह ॥ आगातेति ॥ आगन्ता । यद्वा अन्योप्युद्गातायदि मुख्यप्राणज्ञानीतत्र भगवन्तमुपास्ते तर्हि सोपि यजमानाभीष्यप्रदानसमर्थ इत्यर्थः ॥ आगातेति ॥ इत्यध्यात्मं मुख्यप्राणोद्गीथोपास्तिरुक्तेतिशेषः ॥ 14 ॥ द्वितीयः खण्डः ॥ 2 ॥ एवमध्यात्मं वायोः सर्वोत्तमत्वज्ञानपूर्वपकं तस्मिंस्ततोप्युत्तमत्वेनोपासनीयोभगवानित्युक्तम्‌ । इदानीमधिदैवतं तथोद्गीथोपास्तिमाह ॥ अथेत्यादिना ॥ तत्र य एवासौ तपति तमुद्गीथमुपासीतेति वाक्यं सूर्यगेमुख्यवायावुद्गीथोपास्तिः कर्त्तव्येति प्राग्व्याख्यातम्‌ । तदसत्‌ । य एवासौ तपतीति तपनकतर्ृत्वेन सूर्यस्यैव प्रतीत्यासूर्यान्तर्गतभगवदुपास्तिकतर्व्यताया एव प्रतीतेरित्यतस्तपनकर्तृत्वमपि सूर्यस्थ प्राणस्यैव धर्मानसूर्यस्येति प्रमाणेनैवाह ॥ आदित्येति ॥ अपर आदित्यः । किंतत्तपनमित्याशंकां परिहरन्‌ तपनस्यादित्यस्थत्वगोचरप्रमाणविरोधं च परिहरति ॥ प्रकाशनमिति ॥ काष्यवत्‌ काष्यगततपनमिव । ननु यदि य एवासौ तपतीत्यत्र सूर्यमण्डलगतोवायुरुच्यते तदोत्तरवाक्ये उद्यन्नित्युक्तिरयुक्तस्यात्‌ । सूर्यमण्डलस्य नित्योदितत्वेन तद्गतस्य तस्योदयास्तमयशून्यत्वादित्यतस्तदर्थमेवप्रजाभ्य इत्युक्तमित्याशयेनोद्यन्वा एष प्रजाभ्य इत्यादिवाक्यं व्याचष्ये ॥ सूर्येति ॥ एवशब्देन वा इत्येतदवधारणार्थकमित्युक्तं भवति । गायतिचेति चशब्दान्वयः । तेन तमोभयमपहंन्तीति श्रुत्युक्तस्य समुच्चयः । जनार्दनमिति शेषोक्तिः । ननु समान उ एवायं चासौचोष्णोयमुष्णोसावित्यत्र देहसूर्यमण्डलयोरुष्णत्वेन साम्यमुच्यते । तथाच पूर्वं देहसूर्यमण्डलयोरेवोद्गीथोपास्तिः कार्येति व्याख्येयमित्यतस्तद्यथावद्वयाचष्ये ॥ आदित्यमण्डलस्थ इति ॥ चशब्दतथाशब्दौपरस्परसमुच्चये । द्वितीयचशब्देन उष्ण इत्यस्यानुकर्षः । अस्तवेवं साम्यं किंतत इत्यतः प्राप्तं तस्माद्वा एतमिममबमुंचोद्गीथमुपासीतेति वाक्यं सामानाधिकरण्यभ्रान्तिनिरासायद्वितीययाः सप्तम्यर्थत्वमभिप्रेत्यव्याचष्ये ॥ तस्मादिति ॥ वाशब्दोवधारणशर्थ उपासीतेत्यनेन सम्बध्यते । अपिशब्दोस्मिन्नित्युक्तसमुच्चयार्थः । वा इत्यनुवादेनापीति व्याख्यानं वा । श्रुतावुपासनफलानुक्तेस्तदाह ॥ विमोक्षायेति ॥ स्वर इतीममाचक्षतेस्वर इति प्रत्यास्वर इत्यमुमिति वाक्यं व्याचष्ये ॥ केशव इति ॥ शरीरस्थः सूर्यस्थामारुतः स्वर इत्युदाहृत इति सम्बन्धः । असौ सूर्यस्थः प्रत्यास्वर उदाहृतः । तत्र प्रतीत्येतद्वीप्सभिप्रायमिति भावेन प्रतिप्रतीत्युक्तम्‌ । आ इत्यनुवादेन सम्मतत इति व्याख्यानम्‌ । किं प्रतीत्यत उक्तम्‌ ॥ मामिति ॥ तथाच यतः आसमन्तात्‌ मां प्रतिमां प्रतिवर्त्तत इत्युदाहृतोत एव प्रत्यास्वरः । नतु निमित्तान्तरेण । सन्वनामकविष्णुरतत्वात्स्वरः । प्रत्याचासौ स्वरश्ऱ्चति प्रत्यास्वर इत्यर्थः । अथ यःप्राणापानयोः सन्धिः सव्यान इत्यत्र प्राणापानसन्धिपअवर्तकत्वेन व्यानस्योत्तमत्वमुच्यते । तत्र कौतौ प्राणापानौ न तावन्मुख्यप्राणस्वरूपभूतौ । ताभ्यां तत्स्वरूपभूतव्यानस्वोत्तमत्वासम्भवात्‌ । अत एव न दासभूतौ । नापि प्राणापानौ दासभूतौ व्यानःस्वरूपभूत इति युक्तम्‌ । भिन्न प्रञ्चकग्रहणायोगादित्यतोत्र विवक्षितप्राणादिस्वरूपं वक्तुं प्राणादिपञ्चकस्वरूपं तावदाह ॥ प्राणाद्या इति ॥ प्राणाद्याः पञ्चत्रिविधा इत्यन्वयः । त्रैविध्यमेवदर्शयति ॥ मुख्येति ॥ मुख्यपञ्चकरूप एव सन्नस्ति । चशब्दोवधारणार्थोमध्यपञ्‌चक एवेत्येतेन सम्बध्यते । तुशब्दोवधारणार्थः । तस्य प्रधानवायोः । उक्तविभागस्य प्रकृतानुपयोगात्प्रकृतोपयुक्तविभागान्तरमाह ॥ विभागोन्य इति ॥ तमेवदर्शयति ॥ प्राणेति ॥ तथाच अत्र प्राणापानौ शेषवीन्द्रौव्यानः श्रेष्ठोवायुः विवक्षित इति नानुपपत्तिरिति भावः । अत एव तत्पर इत्युक्तम्‌ । अथ खलुव्यानमेवोद्गीथ मुपासीतेति वाक्यं सामानाधिकरण्येनाभेदोक्ति भ्रमनिरासाय व्याचष्ये ॥ तस्मिन्निति ॥ व्यान इत्यर्थः । श्रुतौ योव्यानः सावाक्‌ यावाक्‌ वर्क्‌ यर्क्‌ तत्सामयत्सामस उद्गीथ इत्यत्र व्यानवाक्‌ ऋक्‌ सामोद्गीथानामभेद उच्यत इति प्रतीयते तदसत्‌ । तस्य बाधितत्वात्‌ । नच व्यानस्यैव वागादिस्थत्वमुच्यत इति व्याख्येयम्‌ । व्यानस्यापि स्वातन्त्ऱ्ेण तत्क्रियाप्रवर्तकत्वाभावादित्यतस्तद्वयाचष्ये ॥ योसाविति ॥ व्यानगत इत्युक्त्याविशेषरीभूतव्यानस्यापि वागादिगतत्वं लभ्यते । अन्यथा व्यानस्य विशिष्यप्रतिमात्वानुपपादकत्वेनास्यासांगत्यापत्तेः । अत एव व्यानाद्धितत्क्रिया इति वक्ष्यति । उद्गीथेचगतः । उद्गीथोनामसामभेदः । स्थानभेदेन भेदशंकानिरासायैक इत्युक्तम्‌ । तस्मादप्राणन्ननपानन्व्चमभिव्याहरतीत्यादि उद्गायतीत्यन्तं वाक्यं व्याचष्ये ॥ तस्मादिति ॥ तत्क्रियाः वागृगभिव्याहरणसामगानोद्गानरूपक्रिया इत्यर्थः । तस्मादित्युक्तं हेतुं विवृण्वन्नुत्तरत्रापि हेतुमाह ॥ उद्गीथनामेति ॥ अत्र व्यानशब्देन पृथक्‌ स्थितोव्यान उच्यते । आदिपदेन वागृक्सामोद्गीथगतव्यानरूपचतुष्ययं ग्राह्यम्‌ । तथाच भगवतो वागादिचतुष्ययगतव्यानगतत्वं पूर्वत्र हेतुः । तेन तस्मादित्येतत्‌ विष्ण्वाविष्यस्य व्यानस्य वागादिगतत्वादिति विवृतम्‌ । पृथक्‌ स्थितव्यानगतत्वं तूत्तरत्रहेतुरिति बोध्यम्‌ । अतो यान्यन्यानिवीर्यवन्ति कर्माणि- तानिकरोतीति वाक्यं व्यानस्य स्वातन्त्ऱ्ेणवीय;वत्कर्मकर्तृत्वमुच्यत इति भ्रमनिरासाय व्याचष्ये ॥ वीर्यवदिति ॥ यस्माद्वयानगतोभगवांस्तस्मादित्यर्थः । एवशब्देन प्राणापानव्यावच्छेदः । एतस्य हेतोः व्यानमेवोद्गीथमुपासीतेति वाक्यं सामानाधिकरण्यभ्रमनिरासाय व्याचष्ये ॥ तस्मादिति ॥ उपासीतैवेत्युक्तया श्रुतावेवशब्दोभिन्नक्रम इत्युक्तं भवति । श्रुत्यनुसारात्प्राणापानव्यवच्छेदायव्यानगतमेवेति वा सम्बन्धः । ननु तत्र तत्र स्थितानि भगवद्रूपाणि किं भिन्नान्युताभिन्नानि । आद्ये स एवैक इत्युक्तविरोधः । द्वितीयेनामरूपादिपार्थक्योक्तिविरेधः । किं च वागादिगतं रूपमृगादिगतरूपकार्यकरणासमर्थं नवा । आद्ये न्यूनोद्रिक्तमहिमत्वेन सविशेषत्वप्रसंगः । द्वितीये सर्वत्राविशिष्यत्वात्सवमप्यविशेषं कुर्यात्‌ । कुर्वाणोवाजीव वत्सुखदुःखादिविकारवांश्ऱ्चस्यादित्यांक्यनिराकरोति ॥ यद्यपीत्यादिना ॥ एकोऽभिन्नः । आद्याधर्े नाभेदपक्षोंगीकृतः । प्रामाणिकत्वज्ञापनाय हि शब्दः । द्वितीयार्धेन सामर्थ्याभावपक्षमनभ्यु
पगमेन पराचष्ये ॥ निर्विशेषश्ऱ्चेत्यन्वयः । अभेदपक्षोक्तं दोषं परिहरति ॥ तथापीति ॥ तथापीत्यस्य विवरणमपृथक्त्वेपीति । नामरूपादिकं पृथगुच्यत इत्यत्र हेतुस्तत्क्रियाभेदादिति । तत्तत्क्रियाकर्तृत्वभेदादित्यर्थः । अपृथक्त्वेतदपि कथमित्यत उक्तम्‌ ॥ पूर्णेति ॥ सामर्थ्यसद्भावपक्षोक्तदोषं परिहरति ॥ अविशेषोपीति ॥ सामर्थ्यविशेषशून्योपीत्यर्थः । विशेषहेतुकं सामर्थ्यविशेषोपेतमिति यावत्‌ । अविकृतोदुःखादि विकारशून्यः । दुग्धस्मैवाग्दोहं योवाचोदोह इत्यादिवाक्यमुद्गीथाक्षरादिमात्रोपास्त्योक्तं फलं भवतीति प्रतीतिनिरासाय व्याचष्ये ॥ उद्गीथेति ॥ एवशब्देनोद्गीथाक्षरव्यावृत्तिः । चशब्दौ परस्परसमच्चये । उद्गीथाक्षराण्युपास्ते उत्‌ गी थ इतीत्यत्रोद्गीथ इतीत्यस्य तात्पर्यमुद्गीथाक्षरगमिति । उद्गीथाक्षराणीत्यस्य तात्पर्यं प्राणशदिषुचसंस्थितमिति । आशीः समृद्धिहेतुष्वपीत्यनेनाथखल्वाशीः समृद्धिरित्यादि व्याख्यातम्‌ । सर्वेष्यमाप्नुयादित्यनेनाभ्याशोहयदस्मैसकामः समृद्धयेतेति वाक्यमपि व्याख्यातम्‌ । ननूद्गीथाक्षराण्युपास्त इत्युक्तोद्गीथाक्षरशब्दस्य प्राणादिषु च संस्थितमिति व्याख्यानमयुक्तम्‌ । पूर्वं प्राण एवोत्‌ वाग्गीरन्नं थमित्यादिनाप्राणादीनामेवोच्छब्दादिवाच्यत्वेनोक्ततयात्राप्युद्गीथाक्षरशब्देन तेषामेवग्राह्यत्वात्‌ । नह्यनुक्तस्य भगवतोनुवादेग्रहणं सम्भवतीत्यतस्तानिपूर्ववाक्यान्यपि भगवत्परतया प्रमाणेन व्याचष्ये ॥ उच्छब्देति ॥ आत्मानं तत उपसृत्येति वाक्यमात्मशब्दस्य जीवाद्यर्थत्वप्रततिं निवारयन्‌ व्याचष्ये ॥ आत्मानमिति ॥ सर्वत्र सर्वोपास्तिषु उपसृत्यज्ञात्वा ॥ ततश्ऱ्चयं खण्डार्थः ॥ अथ अध्यात्मं मुख्यप्राणे उद्गीथोपास्तिकथनानन्तरम्‌ । अधिदैवतं मुख्यवायावुद्गीथोपास्तिरुचज्यत इति शेषः । य एवासौ आदित्यसंस्थितोमुख्यप्राणस्तपति । तं तत्रोद्गीथं भगवन्तमुपासीत । तस्योद्गीथाख्यविष्णुप्रेमास्पदप्रतिमात्वमुपपादयति ॥ उद्यन्वा इति ॥ एष आदित्यसंस्थितोमुख्यप्राणः स्वयमुदयास्तमयोज्खितोपि । प्रजाभ्यः प्रजार्थमेवोद्यन्नुद्गायति । जनार्दनमिति शेषः । उद्यन्नेवतमोन्धकारं तज्जन्यं भयं च प्राणिनामपहन्ति । एवं ज्ञानिनः फलमाह ॥ अपहन्तेति ॥ य एवमुक्तरीत्याऽदित्यस्थं प्राणं वेदसतमसोऽज्ञानस्य तत्कृतभयस्चापहन्ताभवति हवै ॥ 1 ॥ एवमध्यात्ममधिदैवतं च मुख्यप्राणेभगवदुपास्तिः कर्तव्येत्युक्तम्‌ । तत्र नाध्यात्ममधिदैवतं च मुख्यप्राणेविशेषः । अतस्तत्रोभयत्रापि भगवदुपास्तिः कर्तव्येति भावेनाध्यात्ममधिदैवतं च तयोः साम्यमाह ॥ समान इति ॥ अयं देहस्थश्ऱ्च असावादिस्थश्ऱ्चमुख्यप्राणः समान एववै । कथम्‌ । अयं देहस्थोमुख्यप्राण उष्णः असावादित्यमण्डलस्थश्ऱ्चोष्णः । तदधिष्ठिते देहेमण्डलेचौष्ण्यदर्शनात्‌ । अस्त्वेवं साम्यं किंतत इत्यत आह ॥ तस्मादिति ॥ यस्मादध्यात्ममधिदैवतं च समान एव वायुस्तस्मादेवहेतोरेतमेतस्मिन्‌ मुख्यवायाविममस्मिन्देहस्थे अमुष्मिन्‌ सूर्यस्थेचोद्गीथमुपासीतेति योजना । ध्यात्ममधिदैवं च मुख्यप्राणस्य विशिष्यप्रतिमात्वेहेत्वंन्तरमाह ॥ स्वर इति ॥ इमं देहस्थं मुख्यप्राणम्‌ । स्वतन्त्रत्वेन स्वनामकविष्णुरतत्वात्स्वर इत्याचक्षते । अमुमादित्यस्थम्‌ । स्वर इति प्रत्यास्वर इत्याचक्षते । आसमन्तात्‌ प्रतमां प्रतिवर्तत इत्युक्तत्वात्प्रत्या स्वनामकविष्णुरतत्वात्स्वरः प्रत्याचासौ स्वरश्ऱ्चेति प्रत्यास्वरः । तस्मादेतमिमममुञ्चास्मिन्नमुष्मिंश्ऱ्चोद्गीथमुपासीतैव ॥ 2 ॥ इदानीं व्याननामकमुख्यप्राणनिष्ठतयोद्गीथोपास्तिमाह ॥ अथेति ॥ अथ खल्विति पक्षान्तरद्योतकम्‌ । व्यानमेवव्याननामकमुख्यवायावेवोद्गीथमुपासीत । व्यानस्य भगवद्विशिष्यप्रतिमात्वोपपादनायतन्माहात्म्यं वक्तुं तदुपयुक्तत्वेन प्राणापानस्यरूपमाह ॥ यद्वा इति ॥ यत्‌ यः प्राणिति ऊर्ध्वप्राणनं करोति सप्राणोवै । यदपानिति योऽधोनयनं करोति सोऽपान इत्यर्थः । अत्र प्राणशपानशब्दौ शेषवीन्द्रवाचकौ । यदर्थमेतदुक्तं तदाह ॥ अथेति ॥ यःप्राणशपानयोः सन्धिः सन्धिप्रवर्तकः सव्यान इत्यर्थः । व्यानख्यमुख्यवायोर्विशिष्यप्रतिमात्वोपपादनायवागादिप्रवर्तकत्वं माहात्म्यान्तरमाह ॥ योव्यान इत्यादिना ॥ योव्यानो मुख्यावायुः । सा वाक्‌ वागन्तर्गतोवाङ्कामावाक्प्रवर्तकश्ऱ्च । व्यानस्य स्वातन्त्ऱ्ेणवाक्‌ प्रवर्तकत्वं किमित्यतोनेत्याह ॥ योव्यान इति ॥ योव्यानो व्यानगतोविष्णुः । सावाक्‌ वाङ्कामावाक्‌ प्रवर्तकोवागन्तर्गतश्ऱ्च । अतो विष्ण्वाविष्यस्यैव व्यानस्य वाक्‌ प्रवर्तकत्वमिति भावः । ननु व्यानस्यैव वाक्‌ प्रवर्तकत्वं कुतः । प्राणापानयोरेवतत्प्रवर्तकत्वं किं नस्यादित्यतोव्यतिरेकेणतदुपपादयति यावत्‌ । वाचमभिव्याहरति । अतो न प्राणापानौ वाक्‌ प्रवर्तकौ किन्तु व्यान एवेति भावः ॥ 3 ॥ यावाक्‌ वाङ्कामावागन्तर्गतोवाक्‌ प्रवर्तकोव्यानः साऋक्‌ ऋङ्कामाऋगन्तर्गतोऋक्‌ प्रवर्तकः । किं स्वातन्त्ऱ्ेण किन्तु यावाक्‌ वाङ्कामावाक्‌ प्रवर्तकोव्यानगतोविष्णुः साऋक्‌ऋङ्कामाऋग्‌ प्रर्त्तकव्यानकतश्ऱ्च । अतस्तदाविष्यस्यैव ऋग्‌ प्रवर्त्तकत्वमिति योज्यम्‌ । प्राणापानयोरेवऋक्प्रवर्त्तकत्वं किं न स्यादित्यत आ ॥ तस्मादिति ॥ पूर्ववदथर्ः । याऋक्‌ ऋगन्तर्गतोऋङ्कामाऋक्‌ प्रवर्तकोव्यानः तत्साम सामनामकः सामान्तर्गतः सामप्रवर्त्तकश्ऱ्च । किं स्वातन्त्ऱ्ेण न किन्तु याऋक्‌ ऋङ्कानाऋक्‌ प्रवर्त्तकव्यानगतोविष्णुस्तत्सामसामनामासामप्रवर्त्तकव्यानगतश्ऱ्च । प्राणापानयोरेवसामप्रवर्त्तकत्वं किं न स्यादित्यत आह ॥ तस्मादिति ॥ यं त्साम सामनामकः समगतः सामप्रवर्त्तकोव्यानः स उद्गीथः । उद्गीथथोनामसामभेदः । उद्गीथनामोद्गीथस्थस्तत्प्रवत्तर्कश्ऱ्च । किं स्वातन्त्ऱ्ेण न किन्तु यत्साम सामनामकः सामप्रवर्त्तअकव्यानगतोविष्णुः स उद्गीथः उद्गीथनामोद्गीथप्रवत्तर्कव्यानगतश्ऱ्च । उद्गीथप्रवर्त्तकत्वं न प्राणापानयोरित्याह ॥ तस्मादिति ॥ यद्यपि प्राक्‌ वागृक्सामोद्गीथशब्दैः द्विरूपसरस्वतीप्राणपरमबात्मान एवोक्तास्तथाप्यत्र तेषामसम्भवाद्वेदग्वर्ेदसामवेदोद्गीथसामभेदानां तदवान्तराभिमानिनां वाग्रहणमिति ज्ञेयम्‌ ॥ 4 ॥ न केवलं वागादिप्रवर्त्तक एव व्यानः किन्तु अतः पूर्वोक्तादन्यान्यपि यानिवीर्यवन्ति प्रयत्नाधिक्यसाध्यानिकर्माणि । कानितानि यथोग्नेर्मथनं निर्घर्षेणोत्पादनमाजेर्मर्यादायाः सरणमवनमाजेः संग्रामस्यार्थं सरणं गमनं वा । दृढस्धनुष आयमनमाकर्षणमित्यादीनि । तान्यपि अप्राणन्ननपानन्करोति । अतो व्यान एव सर्वप्रवर्त्तकतया सर्वोत्तम इति भावः । किंतत इत्यत आह ॥ एतस्येति ॥ एतस्य पूर्वोक्तस्य हेतोस्सकाशात्‌ व्यानमेवव्यान एवोद्गीथं भगवन्तमुपासीत ॥ 5 ॥ इदानीमुद्गीथक्षरप्रतिपाद्यप्राणादिस्थितभगवदुपास्तिमाह ॥ अथेति ॥ उद्गीथाक्षराणि उद्गीथाक्षराप्रतिपाद्यदेवतासुस्थितानिभगवद्रूपाण्युपासीत । कान्युद्गीथाक्षराणीत्यत आह ॥ उद्गीथ इतीति ॥ कास्ता उद्गीथाक्षरदेवतायासुभगवदुपास्तिः कर्त्तव्येत्यत आह ॥ प्राण एवेत्यादिना ॥ प्राणोमुख्यप्राण एवोत्‌ उच्छब्दवाच्यः । कुतः हि यस्मात्प्राणेनेदं जगदुत्तिष्ठति उत्पद्यते । वाक्‌ सरस्वती गीः । कुतः 1 वाचोहि गिर इत्याचक्षते ॥ 6 ॥ एवमुत्तरत्रापि ध्वन्तरिक्षादिशब्दैस्तदभिमानिनोग्राह्याः । उद्गीथाक्षरवाच्यप्राणादिस्थित भगवदुपासकस्य फलमाह ॥ दुग्ध इति ॥ योधिकारी एतानि एवमुच्छब्दादिवाच्यतया विद्वानुद्गीथाक्षराणि उद्गीथाक्षरवाच्यप्राणादिस्थित भगवद्रूपाणि उपास्ते किमिति उद्गीथ इति उद्गीथाक्षराणीति यावत्‌ । अस्मै उपासकाय वाक्‌ वाङ्कामाभगवान्‌ वाग्दोहं वाचः फालं दुग्धे । कोसौवाग्दोहः योवाचोदोहः श्रुत्यादिसिद्धोमोक्षादिलक्षणस्तमिति सम्बन्धः । स उपासकोन्नवानन्नादश्ऱ्चान्नादनसमर्थश्ऱ्च भवति ॥ 7 ॥ इदानीमाशीः समृद्धिहेतुष्वपि भगवदुपास्तिमाह ॥ अथेति ॥ आशीः समृद्धिराशिषः काम्यस्य समृद्धिर्येन स आशीः समृद्धिः । कामसमृद्धिहेतुरुच्यत इति शेषः । सामादिस्थितानि भगवद्रूपाणि उपसारयन्तीष्यमित्युपसरणानीत्युपासीत । उपास्तिप्रकारमेवाह ॥ यनेति ॥ पुरुषोयेन साम्नासामविशेषेण स्तोष्यन्‌ स्त्रं करिष्यन्‌ स्यात्‌ तत्सामोपधावेत्‌ आददीत । (तत्सामगंहरिंसर्वोत्तमत्वेन ज्ञात्वातत्सामगायेदित्यर्थः ।) ॥ 8 ॥ यस्मामृचि आरूढेन साम्नास्तोष्यन्स्यात्तामृचमुपधावेत्‌ । यदार्षेयं येनषिर्णादृष्यं सामस्तोतुमिष्यं तमृषिमुपधावेत्‌ । येन स्तोमेनगानविशेषेणवाक्यसमूहेन वास्तोष्यमाणः स्यात्तं स्तोममुपधावेत्‌ ॥ 10 ॥ यां दिशंदिग्देवतामभिष्योष्यन्स्यात्तां दिशं उपधावेत्‌ ॥ 11 ॥ ननु कथमेतद्भगं वदुपासनम्‌ । यां देवतामिति स्वाभिप्रेतयत्किंचिद्देवताया एवस्तुत्यत्वोक्तेरित्यतोन सर्वोत्तमत्वेनेतरदेवतास्तोत्रं कत्तर्अव्यं किंत्वित्यत आह ॥ आत्मानमिति ॥ काममभिलषितं ध्यायन्नप्रमत्तः प्रमादरहितः पुरुष आत्मानं परमात्मानं अन्ततः सवर्ोत्तमत्वेनोपसृत्यज्ञात्वास्तुवीतेतरदेवतामिति शेषः । कुत एवं ज्ञात्वास्तोत्रं कर्तव्यमित्यत आह ॥ अभ्याश इति ॥ यत्‌ यस्मात्‌ यत्कामो यः कामोयस्यसोयत्कामः पुरुषः सर्वोत्तमत्वेन भगवन्तं ज्ञात्वेतरदेवतां स्तुवीत । सकाम अस्मैस्तावकायाभ्याशः शीघ्रं समृद्धेतसम्यक्‌ परपूर्णो भवति । तस्मादात्मानमन्तत उपसृत्यस्तुवीतेति सम्बन्धः । इति शब्दोविद्यासमाप्त्यर्थः । खण्डत्रयस्याप्युद्गीथोपास्तिप्रतिपादकत्वेनैकविद्यात्वात्‌ । द्विरुक्तिस्तुपूर्वोक्तविद्यार्थावधारणार्था । उक्तं च । अध्यायान्ते द्विरुक्तिः स्याद्वेदेवावैदिकेपि वा । विचारोयत्र सज्ज्येतपूर्वोक्तस्यावधारण इति । अत्राध्यायान्ते पीत्यपिशब्दसम्बन्धः । तेन विद्यान्तस्य समुच्चय इति नानुपिपत्तिरिति ज्ञेयम्‌ । एवमुत्तरत्रापि ॥ 12 ॥ तृतीयः खण्डः ॥ 3 ॥ वायुगतत्वेन प्राणवोपास्तेः पूर्वं फलानुक्तेस्तामनुवदन्‌ संसारनिवृत्तिलक्षणं फलमाख्यायिकयाह ॥ ओमित्येतदक्षरमित्यादिना ॥ तत्र स्वरमेवप्राविशन्नित्यत्र स्वरशब्दः प्रणवपर इत्यसत्‌ । एष उस्वरोयदेतदक्षरमेतदमृतमभयमित्यक्षरत्वामृतत्वाभयत्वोक्तिविरोधात्‌ । तेषां च ब्रह्मलिंगत्वात्‌ । तत्प्रविश्यदेवा अमृता अभवन्निनत्युक्तिविरोधाच्चेति भावेन प्रमाणनैव स्वरशब्दार्थमाह ॥ स्वरतेरिति ॥ तुशब्दोऽवधारणशर्थः ।तद्रतेः स्वतन्त्रत्वात्स्वनामकविष्णुरतेः । वायुः स्वर इत्युच्यत इत्यर्थः । अस्त्वेवं विष्णुर्वायुश्ऱ्चस्वरनामकस्तथापि स्वरमेवप्राविशन्नित्युक्तः प्रवेशोनप्रसिद्ध एवोपपद्यते । तत्प्रविश्यदेवा अमृता अभवन्नित्युक्त्ययोगात्‌ । अन्यथा सुषुप्तिप्रलययोरप्यमृतत्वापत्तेरित्यतस्तद्वाक्यं व्याचष्ये ॥ वायुस्वर इति ॥ अनेन सन्वरमित्येतदावर्त्तनीयम्‌ । तत्रैकं वायुपरम्‌ । तदाद्वितीयासप्तम्यर्थे । द्वितीयं विष्णुपरम्‌ । तदाद्वितीया यथा श्रुतैवेत्युक्तं भवति । ओमित्येवातिस्वरतीत्येतदनुरोधेनोमाख्यमित्युक्तम्‌ । प्राविशन्नित्यस्यार्थः समुपासिर इति । तत्प्रविश्यदेवा अमृता अभवन्निति वाक्यं व्याचष्ये ॥ तेनेति ॥ उपासनेन । अमृममिति भावप्रधानोनिर्देशः । प्रसिद्धामृतव्यावृत्त्यथर्ं मुक्त्याख्यमित्युक्तम्‌ । मृत्युवर्जिताः मृत्युनिमित्तभय वर्जिताः । अमृतशब्दस्यार्थान्तरकथनमेतत्‌ । देवावैमृत्योर्बिभ्यत इत्यत्र मृत्युशब्दो यमपर इत्यसत्‌ । सर्वदेवानां यामद्भया भावादित्यतोऽत्रविवक्षितं मृत्युशब्दार्थमाह ॥ मरणादिति ॥ खण्डतात्पर्यमाह ॥ तद्भयत इति ॥ ते नुवित्त्वोर्ध्वा इत्यत्रोर्ध्वाः प्रांशव इत्यन्यथाप्रतीति निरासार्थं तदनूद्यव्याचष्ये ॥ ऊर्ध्वा इति ॥ मत्स्यः स्वमारकं न जानाति देवास्तुज्ञावन्त इत्यत्र हेतुतयोत्तत्वस्व वक्तव्यत्वादिति भावः ॥ ततश्ऱ्चायं खण्डार्थः ॥ ॐ मित्येतदक्षरमित्यादिकमुक्तार्थम्‌ ॥ 1 ॥ देवमृत्योः मारणान्मृत्युदर्चुर्गा तस्याबिभ्यतः भीताः सन्तः त्रयीं विद्यां वेदविद्यां प्रविशन्वै । वेदाभिमानिदेवतारूपाधिष्ठनेभगवदुपास्तिमकुर्वन्नित्यर्थः । ततस्ते देवाः छन्दोभिः छन्दस्सुभगवदुपासनै0रात्मन आच्छादयन्‌ । तत्र ज्ञापकमाह ॥ यदिति ॥ छन्दोभिराच्छादयन्नितियत्‌ छन्दसां देवाच्छदकत्वं तदेवच्छन्दसां छनदस्त्वं छन्दः शब्दप्रवृत्तिनिमित्तम्‌ । छन्दःशब्दप्रत्तअत्तिनिमित्तपर्यालोचनयैव छन्दसां देवाचत्छादकत्वं ज्ञायत इति भावः ॥ 2 ॥ मत्युर्दुगर्ा तां स्त्रीयीविद्याप्रविष्यान्देवान्‌ । तत्र तस्यैव विवणणं ऋचिसाम्नियजुषि पर्यपश्यत्‌ । कथम्‌ । यथालोकेकश्ऱ्चनपक्षिविशषोमत्स्यमुदकेपरिपश्येदेवं पर्यपश्यत्‌ । तेदेवा अस्मान्‌ मत्युर्दृष्यवानिति ज्ञातवन्त इति वक्तव्यम्‌ । ते देवाय त ऊर्ध्वा उत्तमा अतोऽनुवित्त्वामृत्युरस्मान्‌ दृष्यवानिति ज्ञात्वाऋचः साम्नो यजुषः ल्यब्लोपनिमित्तापञ्चमी । ऋगादिदेवतां परित्यज्यस्वरमेव प्राविशन्‌ । द्वितीयासप्तम्यर्थे च । स्वतन्त्रत्वेन स्वनामकविष्णुरतेः स्वरनामकवायौ स्वरतेः स्वरतेः स्वरनामकमोमाख्य विष्णुं समुपासिर इत्युर्थः ॥ 3 ॥ ऋगादिपरित्यागेन स्वरपवेशोदेवढः कृत इत्यत्र ज्ञापकमाह ॥ यदावा इति ॥ लोकोयदावाऋचमाप्नोति तदा ओमित्येववस्वरति । एवं सामैवं यजुरिति । यदा सामयजुश्ऱ्चाप्नोति तदा ओमित्येवस्वरतीत्यर्थः । केवलं ऋगादीनां रक्षणेऽशक्तत्वात्खल्विदानीमपि प्रणवपूर्वमृगादिजपतीति भावः । स्वरमेव प्राविशन्नित्युक्तं विवरितुं स्वरशब्दार्थं तावदाह ॥ एष इति ॥ यदेतत्‌ सर्वसन्निहितत्वादेतन्नामकमक्षरमविनाशिब्रह्मैष उ एष एव स्वरः । तन्महिमानमाह ॥ एततदमृतमिति ॥ एतद्ब्रह्मामृतं नित्यमुक्तम्‌ । अभयं भयशून्यमभयप्रदं वा । यद्यत्रापि मृत्युर्देवान्परिपश्येत्तर्हिकोविशेषोऋगादिभ्यः स्वरस्येत्यत आह ॥ तत्प्रविश्येति ॥ तदमृतत्वाभयत्वादि विशिष्यमक्षरं स्वरशब्दवाच्यं प्रविश्यों नामकं भगवन्तमुपास्य देवा अमृता अभवन्नित्यर्थः ॥ 4 ॥ न केवलं देवानामेवप्रणवोपास्तिरमृतत्वप्रदा । पि तर्ह्यद्यतनस्यापि तद्योग्यस्येत्याह ॥ सय इत्यादिना ॥ योधिकारी एतदोंनामकं ब्रह्मैव देवानाममृतत्वप्रदत्वेन विद्वानक्षरमक्षरनामकं भगवन्तं प्रणौतिप्रणवेनस्तौति । स एतदेवाक्षरं स्वरं स्वरमणमोंकाररूपस्वरवाच्यममृतम भयं प्रविशति । किंततः । न हि तत्प्रवेश एव फलमित्यत आह ॥ तत्प्रविश्येति ॥ यत्तच्छब्दौ यथातथाशब्दार्थौ । यत्प्रविश्यदेवायथ अमृता अभवंस्तथातत्परं ब्रह्मप्रविश्यामृतो भवतीत्यर्थः ॥ 5 ॥ इति चतुर्थः खण्डः ॥ 4 ॥ इदीमधिदैवमध्यवात्मं च मुख्यप्राणे उद्गीथस्योपास्त्यन्तरं तत्फलं चाख्यायिकयाह ॥ अथखल्विति ॥ तत्रोद्गीथप्रणयोरभेदपरं मन्त्रमुदाहृत्यक उद्गीथः प्रणवश्ऱ्चेत्याशंकायामसौ वा अदित्य उद्गीथ एष प्रणव इत्यादित्यस्योद्गीथत्वं प्राणवत्वं चोच्यते । तत्पूर्वोक्तविरुद्धमित्यतस्तद्वाक्यं यथावत्प्रमाणेनैव व्याचष्ये ॥ आदित्येति ॥ तद्गतोहरिः प्रणव इति सम्बन्धः । नचैवमादित्यशब्दस्य लक्षितलक्षणाप्रसंगः । अव्यक्ताधिकरणान्यायेनादित्यशब्दस्य वायुभगवतोरेवमुख्यत्वात्‌ । आदित्यस्थोहरिरित्येवकुतो न व्याख्यायते । किं वायुग्रहणेनेति चेन्न । पूर्वं वायुस्थत्वेनैव भगवदुपास्तेः प्र(स्तुत)कृतत्वात्‌ । अध्यात्मप्रकरणे य एवायं मुख्यप्राणस्तमुद्गीथमुपासीतेति वक्ष्यमाणत्वेनाधिदैवप्रकरणेपि वायुस्थत्वेनैवोद्गीथोपास्तेर्वक्तव्यत्वाच्च । हरौ प्रणवशब्दं निर्वक्ति ॥ प्रकृष्यत्वाच्चेति ॥ श्रुताबुद्गीथस्य प्रणवत्वोक्तेः कथमेतदित्यत उद्गीथशब्दवाच्योपि स एवेत्याह ॥ उद्गीथ इति ॥ अध्यात्मप्रकरणे अथाध्यात्ममित्यस्यानन्तरमथखलुय उद्गीथः स प्रणवोयः प्रणवः स उद्गीथ इति मन्त्रोदाहरणरूपमुत्तरवाक्यं संयोज्यम्‌ । अधिदैवप्रकरणषतथोक्तत्वात्‌ । उत्तरत्रोक्तेः व्यर्थत्वाच्च । तदनन्तरमयं वैमुख्यप्राण उद्गीथ एष प्राणव इति मन्त्रव्याख्यानरूपं वाक्यमधिदैवप्रकरणवदत्रापि ग्राह्यमिति भावेन तद्वाक्यं व्याचष्ये ॥ स एवेति ॥ (यो)देहेप्राणगः स एव हरिः प्रणव उद्गीथश्ऱ्चेति सम्बन्धः । स्थानभेदेन भेदशंकां निवर्तयितुं स एवेत्युक्तम्‌ । अधिदैवाध्यात्मप्रकरणगतमोमितिह्येषस्वरन्नेतीति वाक्यं व्याचष्ये ॥ ओमित्येवेति ॥ अधिदैवाध्यात्मप्रकरणयोरादित्यदेहस्थवायुगत भगवदुपासकस्य फलमेतमुएवाहमभ्यगासिषं तस्मान्ममत्वमेकोसीत्युत्तरवाक्यानुसारेणाह ॥ ध्यायन्निति ॥ भगवद्धयानस्यैकपुत्रत्वरूपैहिकमात्रफलकत्वानुपपत्तेः मुक्तिमेतीत्युक्तम्‌ । एवमुत्तरत्रापि । रश्मींस्त्वं पर्यावर्त्तयतात्‌ । प्राणांस्त्वं भूमानमभिगायतादिति वाक्यानुसारेणादित्यरश्मीतरप्राणस्थितवायुगतभगवदुपासकस्य फलमाह ॥ ध्यायन्निति ॥ विमुक्त इत्यत्र वीत्युपसर्गेणानन्दाधिक्यं फलमाह ॥ य एवायं मुख्यप्राणस्तभुद्गीथमुपासीतेत्यध्यात्मप्रकरणवदधिदैवप्रकरणेपि एष प्रणव इत्यनन्तरं य एवासावादित्यस्तमुद्गीथमुपासीतेति वाक्यं ग्राह्यमिति भावेन तदुभयमपि वाक्यं व्याचष्ये ॥ तस्मादिति ॥ तथा आदित्येरश्मिषु देहे प्राणेषु च विद्यामानवायुगतत्वेन । अनेनाधिदैवाध्यात्मप्रकरणयोः य एवामीरश्मयस्तमुद्गीथमुपासीत य एवेमे प्राणास्तं भूमानमभिगायतादिति वाक्यमध्याहर्त्तव्यमिति सूचयति ॥ प्राणांस्त्वं भूमानमभिगायतादित्येतद्वाक्यं मानाधिकरण्येन भूम्नः प्राणाभेदप्रतीति निरासाय व्याचष्ये ॥ प्राणस्थमिति ॥

श्रुतौ त्वमिति युष्मच्छब्दश्रवणादभिगायतादिति प्रथमपुरुषप्रयोगानुपपत्तिरित्यतः मध्यमपुरुष एवायमिति भावेनाभिगायेत्युक्तम्‌ । अभिगानं कुर्वित्यर्थः । होतृषदनाद्धैवापि दुरुद्गितमनुसमाहरतीति वाक्यं होतृषदनात्‌ हौत्रात्कर्मणोदुरुद्गानमनुसन्धत्त इति व्याख्याननिरासाय व्याचष्ये ॥ दुरुद्गितमिति ॥ अनुरूपमेव करोति । प्रतीकूलं यथानभवेत्तथाकरोतीत्यर्थः । ध्यात्वानुरूपमेव करोतीत्यन्वयः । अनेन होतॄणां सदनमाश्रयोग्निः तत्स्थोभगवान्‌ होतृषदन शब्दाभिधेयः । पञ्चमील्यब्लोपनिमित्तेत्युक्तं भवति । परोक्त एवार्थः किं न स्यादित्यतः स्वोक्तार्थे प्रमाणमाह ॥ अन्यथेति ॥ ततश्ऱ्चायं खण्डार्थः ॥ प्रणवोपास्तिरुद्गीथोपास्तिश्ऱ्चप्रागुक्ता । तत्र प्रणवोद्गीथयोः भेदशंकावाणणायाभेदपरं मन्त्रमुदाहरति ॥ अथखल्विति ॥ मन्त्रारम्भद्योतनार्थमेतत्‌ । य उद्गीथः स एव प्रणवः । नेदं य इन्द्रः सोर्जुन इत्यादिवदिति भावेनोक्तम्‌ ॥ यःप्रणवः स उद्गीथ इति ॥ मन्त्रोरम्भद्योतनार्थमेतत्‌ । य उद्गीथः स एव प्रणवः । नेदं य इन्द्रः सोर्जुन इत्यादिवदिति भावेनोक्तम्‌ ॥ यःप्रणवःस उद्गीथ इति ॥ मन्त्रोदाहरणसमाप्तिद्योतनायेति शब्दः । क उद्गीथः कश्ऱ्चप्रणवोययोरभेदोबोध्यत इत्यत उद्गीथप्रणवशब्दार्थमाह ॥ असौवा अदित्य इति ॥ असावादित्य आदित्यनामाऽऽदित्यगतोमुख्यवायुस्तद्गतोहरिरेवोद्गीथ नामा उच्चैर्गेयत्वात्‌ । एष आदित्यस्थमुख्यवायुगत एव प्रणव इत्युच्यते । प्रकृष्यत्वान्नेतृत्वाद्गतित्वादखिलस्य । किंतत इत्यतोत्र य एवासावादित्यस्तमुद्गीथमुपासीतेति वक्तव्यम्‌ । अध्त्मप्रकरणेतथा वक्ष्यमाणत्वात्‌ । आदित्यस्थमुख्यवायुगतस्य भगवदतः प्रणवनामकत्वे युक्तिमाह ॥ ओमितीति ॥ हि यस्मादेष आदित्यस्थमुख्यवायुगतोविष्णुरोमिति स्वरन्‌ इतरजनशिक्षणायोमिति स्वात्मानं जपन्नेति । तस्मादेषप्रणव इत्यर्थः । एवं ध्यायन्नेकं तमक्षरं एक पुत्रोमुक्तिमेतीति वक्तव्यम्‌ । तथा य एवामीरश्मयस्तमुद्गीथमुपासीत । एवं रश्मिषुवायुगतत्वेन भगवन्तं ध्यायन्‌ बहुपुत्रोविमुक्तः स्यादित्यपि वक्तव्यम्‌ ॥ 1 ॥ आदित्यस्थवायुगत भगवदुपास्तावेक पुत्रत्वं तद्रश्मिस्थवायुगतभगवदुपास्तौ बहुपुत्रत्वं भवतीत्यत्र विश्वासजननायाख्यायिकामाह ॥ एतमिति ॥ कुषीतकस्यापत्यं पुमान्‌ कौषीतकिः स्वपुत्रमुवाच । किमिति । एतमेवादित्यस्थमुख्यवायुगतमेव विष्णुं नत्वादित्यरश्मिस्थवायुगतमहमभ्यगासिषं सम्यग्गानं कृतवान्‌ । सम्यगुपास्तिं कृतवानिति यावत्‌ । तस्मान्ममत्वमेक एव पुत्रोसीति । त्वं रश्मीन्‌ आदित्यरश्मिस्थमुख्यवायुगतं भगवन्तं पर्यावर्तयतात्‌ । पर्यावर्त्तयोपासनं कुरु । तथासति बहुवः पुत्रास्ते भविष्यन्ति । वैप्रसिद्धम्‌ । इत्यधिदैवतं भगवदुपास्तिफलमुक्तम्‌ ॥ 2 ॥ अथाध्यात्मं तदुपास्तिफलमुच्यत इति शेषः । अथ खलु य उद्गीथः स प्रणवोयः प्रणवः स उद्गीथ इति मन्त्रोदाहरणरूपमुत्तरवाक्यमत्र संयोज्यम्‌ । तदनन्तरमयं वैमुख्य प्राण उद्गीथ एष प्रणव इति मन्त्रव्याख्यानरूपं वाक्यं ग्राह्यम्‌ । किंतत इत्यत आह ॥ य एवायमिति ॥ य एवायं मुख्यप्राणस्तं तत्रोद्गीथं भगवन्तमुपासीत । देहस्थमुख्यप्राणगतस्य भगवतः प्रणवनामकत्वमुपपादयति ॥ ओमिति ह्येष इति ॥ व्याख्यातं ॥ 3 ॥ अत्रापि एवंध्यायन्नेकं तमक्षरं एकपुत्रोमुक्तिमेतीति च वक्तव्यम्‌ । तथा य एवेमे प्राणास्तं भूमानमभिगयतात्‌ । प्राणस्थवायुगतत्वेन भगवन्तं ध्यायन्बहुपुत्रोविमुक्तः स्यादित्यपि वक्तव्यम्‌ । अत्राप्याख्यायिकामाह ॥ एतमेवेति ॥ व्याक्यातम्‌ । त्वं प्राणानिन्द्रियगतमुख्यप्राणस्थं भूमानं पूर्णगुणं भगवन्तमभिगातात्‌ । अभिगाय । सम्यग्गानं कुरु । केनाभिप्रायेण ममबहुवः पुत्राभविष्यन्ति वै इत्यभिप्रायेणाभिगानं कुर्वित्यर्थः। 4 ॥ दुरुद्गानहेतुकपापनिवृत्त्यर्थमुपास्तिमाह ॥ होतृषदनादिति ॥ ल्यब्लोपनिमित्तापञ्चमी । होतृसदनस्थमग्निस्थं भगवन्तं ध्यात्वादुरुद्गीतं दुरुद्गानं प्रामादिकं स्वरादिहीनमुद्गानमनुरूपमेवकरोति इष्येहेतुमेवकरोतीत्यर्थः । द्विरुक्तिः पूर्ववत्‌ ॥ 5 ॥ पञ्चमः खण्डः ॥ 5 ॥ वाच ऋग्रस ऋचः सामरस इति प्रकृत ऋक्सामयोरीश्ऱ्वरवर्गत्वादधिदैवमध्यात्मं च तदुपास्ति पूर्वं तत्परिवृरोद्गीथोपास्तिमाह ॥ इयमेवेत्यादिखण्डद्वयेन ॥ यद्वा ऋचः सामरसः साम्न उद्गीथोरस इत्युक्सामाभ्यामुद्गीथस्य श्रैष्ठयमुक्तम्‌ । ऋक्‌ सामोत्तमत्वेप्युद्गीथस्य किं माहात्म्यं कथं चोद्गीथस्य ऋक्सामोत्तमत्वमित्यत ऋक्साममाहात्म्योक्तिपुरुःसरं भगवतस्तदुत्तमत्वं दर्शयति ॥ इयमेवेत्यादि खण्डद्वयेन ॥ तत्रेयमेवर्गग्निः सामेत्यादौ भूरादीनामेव ऋगादित्वमुच्यत इति प्रतीति निरासायेयमेवर्गग्निः सामांरिक्षमेवर्ग्वायुः साम द्यौरेवर्गादित्यःसाम नक्षत्राण्येवर्क्चंद्रमाः साम अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथयन्नीलं परः कृष्णं तत्सामेतिवाक्यपञ्चकं व्याचष्ये ॥ अग्नीरेति ॥ सूर्येत्यतः परं चन्द्रेति ग्राह्मम्‌ । तथाद्यु इत्यतः परं नक्षत्रेत्यपि ग्राह्यम्‌ । सामदेवतावायुरग्नीसूर्यचन्द्रनीलेषु । स्थःतिष्ठतीत्यर्थः । एवमुत्तराधर्ोपि व्याख्येयः । यद्यपि श्रुतावियमेवर्गित्यादीनि प्रथमवाक्यानि । तथापि प्राधान्यक्रममनुसरताऽग्निः सामेत्यादीन्येवप्रथमं व्याख्यातानि । इयमेव साग्निरमस्तत्सामेत्यादिवाक्यपञ्चकं व्याचष्ये ॥ सेतीति ॥ एवं तावुभावपि मिलित्वासामनामानावुदाहृतावित्यनेनेदमर्धनारीनरात्मकवायुस्वरूपकथनपरमिति ज्ञायते । उक्तं च । अधनारीनरवपुर्वायुः कत्रचिदीरित इति । तस्मादृच्यध्यूं सामगीयत इतिवाक्यपञ्चकं व्याचष्ये ॥ अतोहीति ॥ यतोग्न्यादौ सामदेवतावयुरस्ति उव्यर्ादौ च ऋग्देवीसरस्वती यतश्ऱ्चतदेतस्यामृच्यध्यूढं साम अत एवेत्यर्थः । अध्यात्मं वागेवर्क्‌ प्राणः सामेत्याद्युत्तरखण्डस्थवाक्यचतुष्ययं व्याचष्ये ॥ वागादिष्विति ॥ अदिपेन प्राणचक्षुरात्मश्रोत्रमनः शुक्लनीलानां ग्रहणम्‌ । य एषोन्तरादित्ये हिरण्मयः पुरुषोदृश्यते । य एषोन्तरक्षणिपुरुषोदृश्यते ति वाक्यद्वयमादित्यचक्षुर्मात्रान्तस्थ भगवत्परमिति प्रतीति निरासाय व्याचष्ये ॥ तयोरिति ॥ आदित्यस्थचक्षुःस्थवायुसरस्वत्योरित्यर्थः । तस्य र्क्चसामचगेष्णाविति वाक्यं व्याचष्ये ॥ गायकाविति ॥ ऋग्‌सामाभ्यामृग्वेदसामवेदाभ्यां गायकाविति सम्बन्धः । तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित इति वाक्यं व्याचष्ये ॥ स उन्नामेति ॥ उच्चेत्युच्छब्दस्यार्थान्तरम्‌ । स एवेत्येव शब्दान्वयः । तस्य यथाकप्यासं पुण्डरीकमेव मक्षिणी इति वाक्यं व्याचष्ये ॥ कप्यासेति ॥ पुण्डरीकशब्दोरक्तपद्मपरः । कं पिबन्नालसम्बन्धीति योगेन कप्यासत्वं रक्तपद्मविशेषणमित्यर्थः । एवं च कप्यासशब्देनाम्लानत्वं लभ्यत इति तात्पर्यम्‌ । अक्षिगश्ऱ्चेत्यनेन तस्यैतस्य तदेवरूपं यदमुष्यरूपमित्येतदपि व्याख्यातम्‌ । स एष ये चामुष्मात्परां चोलोकास्तांश्ऱ्चाप्नोति देवकामांश्ऱ्च । ये चैतस्मादर्वांचोलोकास्तांश्ऱ्चप्नोति मनुष्यकामांश्ऱ्चेत्यत्रोद्गातुरेव परागर्वाग्लोकप्रातिः देवमनुष्यकामप्राप्तिश्ऱ्चोच्यत इत्यसत्‌ । तस्मादुहैवं विदुद्गाताब्रूयात्कन्तेकाममागायानीत्याद्युत्तरवाक्यानुपपत्तेः । तस्मात्पराग्लोकादिप्रापकत्वमेवोच्यते । तदपि न सर्वस्योद्गातुर्मुख्यतः सम्भवतीत्यतोव्यवस्थया तद्वयाचष्ये ॥ गायक इति ॥ तस्मादुद्गीथ इत्यत्र तस्मादिति कस्य परामर्श इति न ज्ञायते । अतस्तदनूद्यतत्परामृश्यं दर्शयति ॥ तस्मादिति ॥ पूर्वं तस्योदिति नामेति भगवत उन्नामकत्वमुक्तम्‌ । तस्य ऋक्‌ च सामच गेष्णाविति गीयमानत्वमुक्तम्‌ । तदुभयं तस्मादिति परामृश्यत इति भावः ॥ खं0 ॥ 6 ॥ चक्षुरेवर्गात्मासामेत्यत्रात्मशब्देन छायात्मोच्यत इति व्याख्याननिरासायात्मशब्दार्थमाह ॥ आत्मेति ॥ कुतोयमर्थः । परोक्त एवार्थः किं न स्यादित्यतः श्रुत्यर्थनिश्ऱ्चायकं प्रमाणमाह ॥ सरस्वतीति ॥ ननु य एषोन्तरादित्येहिरण्मयः पुरुषोदृश्यते य एषोन्तरक्षणिपुरुषोदृश्यत इत्ययुक्तम्‌ । न चक्षुषापश्यति कश्ऱ्चिदेनमित्यादि श्रुतिविरोधादित्यतस्तद्वयाचष्ये ॥ दृश्यत इति ॥ सैवर्क्तत्सामतदुक्थं तद्यजुस्तद्ब्रह्मेति वाक्यमृगाद्यात्मकत्वप्रतीति निरासाय व्याचष्ये ॥ ऋङ्मेति ॥ एतेन जीवाख्यचाक्षुषपुरुषपरमित्येतदपि परास्तम्‌ । किञ्च यदीदं प्रकरणं जीवपरं स्यात्‌ । तदा स एष ये चैतस्मादवर्ांचोलोकास्तेषां चेष्य इति पातालादिलोकाधिपत्यकथनमयुक्तं स्यात्‌ । नच जीवस्यार्वाग्लोकाधिपत्यमस्ति । सर्वेषां तदनुपलम्भेपि कस्यचित्स्यादिति चेन्ना । सर्वस्यापि भगवद्भिक्षुकत्वेन कस्याप्यसम्भवात्‌ । उक्तं चैतरेयभाष्ये । नहि कश्ऱ्चिद्भिक्षुकः पातालाद्यधिपतिरित्यत्र किंचिन्मानमिति । ननु चाक्षुषपुरुषस्येश्ऱ्वरत्वेपि नैतदुपपन्नम्‌ । तस्य सर्वलोकनाथत्वेन विशिष्यार्वाग्लोकनाथत्वकथनस्याधिदैवप्रकरणष स एष ये चामुष्मात्परांचोलोकास्तेषां चेष्य इति पराग्लोकनाथत्वकथनस्य चानुपपत्तेरित्यत आह ॥ यथेति ॥ ततश्ऱ्चायं खण्हद्वयार्थः ॥ ऋक्‌ ऋगभिमानिनीङ्‌म्नी सरस्वती इयमवेपृथिवीलोगतैव । साम सामाभिमानीसामनामकोवायुः अग्निरग्निस्थः तदेतदग्न्यन्तर्गतमग्निनामकं सामैतस्यां पृथिव्यन्तर्गतायामृचि अध्यूढमाश्रितम्‌ । अग्निर्हिपृथिव्याश्रितोदृश्यते । अतोग्निस्थस्य वायोः पृथिवीस्थ सरस्वत्याश्रयत्वमुपपन्नम्‌ । सामनामकवायोः ऋच्यध्यूढत्वे युक्तिमाह ॥ तस्मादिति ॥ तस्मात्तयोः सम्बद्धत्वादेव बाह्ममपि सामऋच्यध्यूढं गीयते सामगातृभिः । एवं पृथक्‌ स्थितयोः ऋक्‌ सामयोः सरस्वतीवाय्वोः पृथिव्यग्निस्थत्वरूपमाहात्म्यमुक्तम्‌ । इदानीं सरस्वतीवायुश्ऱ्चेतद्वयं मिलित्वैकशरीरं सदर्धनारीनरात्मकं सामनामकं वर्तते । तत्र सरस्वतीभागः सेत्युच्यते । वायुभाग अमेत्युच्यते । तस्यार्द्धनारीनरात्मकभागद्वयस्यापि पृथिव्यग्निस्थत्वमाह ॥ इयमेवसेत्यादिना ॥ सारत्वात्स्त्ीषुसा देवी इयमेवपृथिवीगतैव । नमीयत इत्यमोमुख्यवायुः अग्निरग्निस्थः । तत्‌ सा अम इत्येतदुभयं मिलित्वासामसामनामकं भवतीत्यर्थः ॥ 1 ॥ एवमुत्तरत्रापि । अन्तरिक्षमन्तरिक्षलोकस्था । वायुः बाह्मयवायुस्थः ॥ 2 ॥ द्याः द्युलोकस्था । आदित्य आदित्यस्थः ॥ 3 ॥ नक्षत्राणि नक्षत्रस्थिता । चन्द्रमाः चन्दस्थः ॥ 4 ॥ यदेतदादित्यस्य शुक्लं भाः तेजः सैवतदन्तस्थैव ऋक्‌ । अथादित्यस्य यन्नीलं नेदमौपचारिकं किन्तु परः परम्‌ । कृष्णमतिशयेनकृष्णन्तेजस्तत्‌ तत्स्थं साम ॥ 5 ॥ अस्त्वेवमृक्सामयोः सरस्वतीवाय्वोरुक्तमाहात्म्यं किंतत इत्यत एवं विधभ्यामपि भगवानुपास्योयतोतस्तस्य युक्तमृक्‌ सामोत्तमत्वमिति भावेनोद्गीथाख्यभगवत्स्वरूपमाह ॥ अथेति ॥ अथशब्दः प्रकरणान्तरद्योतकः । य एष आदित्ये आदित्यस्थसरस्वतीवाय्वोरन्तर्हिरण्मयः । हिरुक्‌ बाह्यविलक्षणं सुखं हिरण्यं स्यात्‌ । मयडाधिक्यार्थे स्वरूपार्थे च । इतरविलक्षणपूर्णानन्दस्वरूपः । पूर्णौ हिहि तौ निहितौ रश्ऱ्चणश्ऱ्चेति रणौ रत्यानन्दौ यस्मिन्स हिरण्मयो वा सुवर्णवार्णो वापुरुषो दृश्यते ज्ञानदृष्ययेति शेषः । उक्तं च । स एव च हिरण्मयः ॥ हिरुक्‌ सुखं हिरण्यं स्यात्‌ बाह्यानन्दात्पृथग्यतः । अधिक्यार्थे मयड्यस्मादधिकानन्दरूपक इति । रत्यानन्दौ पूर्णनित्यौहितौ तेन हिरण्मयः । स्वर्णवर्णतयावापि वासुदेवोहिरण्मय इति च । न केवलं भगवत्स्वरूपस्यैव हिरण्मयत्वम्‌ । किन्तु तदवयवानामपीत्याह ॥ हिरण्यश्मश्रुरिति ॥ आप्रणखात्‌ प्रणखमारभ्यसर्व एवावयवः सुवर्णः सुवर्णवर्ण; सुखपूर्णोवेत्यर्थः ॥ 6 ॥ सर्व एव सुवर्ण इत्युक्त्या चक्षुषोपि सुवर्णवर्णत्वप्राप्तेस्तत्र विशेषमाह ॥ तस्येति ॥ तस्यादित्यान्तर्गतसरस्वतीवायुगतस्य पुरुषस्य यथाकप्यासं कं पिबन्नालम्बन्धि अम्लानमिति यावत्‌ । पुण्डरीकं रक्तपद्मं एवमक्षिणीवर्तेते । तस्य रहस्यं नामाह ॥ तस्येति ॥ तस्य पुरुषस्योदिति नाम कुतः । स एष आदित्यस्थ सरस्वतीवायुगतः पुरुषः सर्वेभ्यः पाप्मभ्य उदित उद्गतोयतः । एवंविदः फलमाह ॥ उदेतीति ॥ योधिकारी एवं पापोद्गत्वप्रवृत्तिनिमित्तकोन्नामकतयाभगवन्तं वेद ससर्वेभ्यः पाप्मभ्य उदेति उद्गतो भवति । ह वैप्रसिद्धमित्यर्थः ॥ 7 ॥ तस्यादित्यस्थसरस्वतीवायुगतस्य भगवत ऋग्‌ च साम च परस्परसमुच्चयेचशब्दौ । ऋगभिमानिनीसरस्वतीसामाभिमानीवायुश्ऱ्चगेष्णौ गायकौ । ऋग्वेदसामवेदाभ्यामिति शेषः । एतस्यैव भगवतः प्रसिद्धमुद्गीथनामाप्यत एव जातमित्याह ॥ तस्मादिति ॥ यस्मात्तस्योदिति नाम यस्माच्चतस्यर्क्‌ सामचगेष्णौतस्मात्स उद्गीथः । उच्चासौगीयते चेति व्युत्पत्तेरित्यर्थः । न केवलमृक्सामनामकसरस्वतीवायू एवा तस्य गेष्णौ किन्त्वित्यत आह ॥ तस्मादिति ॥ यस्मादेवमत्युत्तमौ सरस्वतीवायूतस्य गायकौ तस्मादेवयः कोप्युद्गातातस्यैव भगवतो गातागायको भवेत्‌ । तस्यैव भगवतः सामर्ध्यमाह ॥ स एष इति ॥ स एष आदित्यस्थ सरस
वतीवायुगत उद्गीथाख्योभगवान्‌ येचामुष्मादन्तरिक्षलोकात्परांचोलोकाः स्वर्गादयस्तेषां चेष्ये अधिपतिः भवतीत्यर्थः । न केवलममुष्यकोकस्यैव किंतु तेषामपीति चशब्दः । देवकामानां देवकाम्यानां देवकामितदानार्थं चेष्येसमर्थो भवतीत्यधिदैवतमृकसामोद्गीथ स्वरूपमुक्तम्‌ ॥ 8 ॥ इति षष्ठः खण्डः ॥ 6 ॥ अथाधिदैवतमृक्‌ सामादिस्वरूपकथनानन्तरमध्यात्ममृक्सामस्वरूपकथनपूर्वकमुद्गीथस्वरूपमुच्यत इति शेषः । वागेवर्गित्यादेः पूर्ववदेवाक्षरार्थः । वागेववागिन्द्रियगतैव । प्राणः श्वासरूपप्राणस्थः ॥ 1 ॥ चक्षुश्ऱ्चक्षुःस्था । आत्मा जीवस्थः ॥ 2 ॥ श्रोत्रं श्रोत्रस्था । मनोमनस्थः ॥ 3 ॥ यदेतदक्ष्णश्ऱ्चक्षुषः शुक्लं भास्तेजः सैवतत्स्थैव ऋक्‌ अथयन्नीलं परः परं कृष्णं तत्स्थं साम ॥ 4 ॥ एवमध्यात्ममृक्‌ सामनामकसरस्वतीवाय्वोः माहात्म्यमुक्त्वेदानींतदन्तर्गतोद्गीथाख्यभगवत्स्वरूपमाह ॥ अथेति ॥ य एष पुरुष उद्गीथाख्योभगवानक्षण्यक्षिस्थ सरस्वतीवाय्वोरन्तर्द्दश्यते । ज्ञानदृष्ययेति शेषः । तस्य माहात्म्यमाह ॥ सैवेति ॥ सैवयोन्तरक्षणिपुरुषोदृश्यते साऋक्‌ऋङ्माज्ञानरूपत्वात्‌ ।ऋक्‌शब्दस्य स्थीलिंगत्वात्तदपेक्षयासेत्युक्तम्‌ । एवमुत्तरत्रापि । तत्सामसामनामकं नित्यसमत्वात्‌ । तदुक्थमुक्थनामकमुत्थापकत्वात्‌ । तद्यजुर्यजुर्नामकं पूर्णरूपत्वात्‌ । इदमधिदैवप्रकरणेपि ग्राह्यम्‌ । चक्षुस्थस्य भगवतः कीदृशं रूपादिकमित्यतोयादृशंसूर्यस्थस्य तादृशमेवास्यापीत्याह ॥ तस्येति ॥ तस्यैतस्क्षस्थसरस्वतीवायुगतस्य भगवतस्तदेवरूपम्‌ । किम्‌ । यदमुष्यसूर्यस्थसरस्वतीवायुगस्य रूपं हिरण्मयत्वादिकं यौऋक्‌सामनामकौ सरस्वतीवायू अमुष्यगेष्णौ तावेवास्य गेष्णौ यदमुष्यनामोदिति उद्गीथ इति च तदेवास्य नाम ॥ 5 ॥ स एषोक्षिस्थो भगवान्‌ येचास्मादर्वांचोलोकाः पातालाद्यास्तेषशं चेष्ये । तेषामप्यधिपतिः भवति । न केवलमस्य लोकस्यति च शब्दार्थः । मनुष्यकामानां चेष्ये मनुष्यकामितदानायसमर्थो भवति । इतिशब्दोभगवत्स्वरूपनिरूपणसमाप्तिद्योतकः । मनुष्यकामानां चेष्य इत्युक्तमनुभवारूढं कर्तुमाह ॥ तद्य इति ॥ तत्तस्माद्भगवतो मनुष्यकामदानसमर्थत्वात्‌ । य इमे प्रसिद्धागायकावीणायां गायन्ति राजादिपुरतस्ते एतमक्षिस्थं भगवन्तमेवगायन्ति । तस्माद्भगवद्गायकत्वादेव भगवत एव ते गायकाधनसनयोधनप्राप्तिमन्तः । राजादेः धनदानेस्वातन्त्ऱ्ाभावादित्यर्थः ॥ 6 ॥ उक्तरीत्याज्ञात्वासामगायकस्य सामर्थ्यमाह ॥ अथेति ॥ य उद्गाता एतत्‌ अधिदैवमादित्यस्थ सरस्वतीवायुगत मध्यात्मं चक्षुस्थ सरस्वतीवायुगतं भगवत्स्वरूपं एवमुक्तप्रकारेण विद्वान्सामगायति । स उभावादित्यचक्षुस्थितौ भगवन्तावेव गायति । किं स्वसामथ्यन नत्याह ॥ सोमुनैवेति ॥ स उद्गातागायतीति यत्‌ तदमुनैव भगवत्प्रेणयैवेत्यर्थः । इष्यफलप्रापकत्वलक्षणं सामर्थ्यान्तरमाह ॥ स इति ॥ स एष भगवदुद्गातायेचामुष्मादन्तरिक्षलोकात्परांचोलोकाः स्वर्गदयो वैकुण्ठादयश्ऱ्चतांश्ऱ्चाप्नोति उद्गानेनयोग्यान्प्रापयतीत्यर्थः । न केवलममुंलोकमिति चशब्दः । देवकामांश्ऱ्चदेवकाम्यान्‌ स्वर्ग्यांश्ऱ्चाप्नोति प्रापयतीत्यर्थः । पराग्लोकादिप्रापकत्वं न स्वसामर्थ्यादेवेति वक्तुं सोमुनैवेत्येतदत्रापि योज्यम्‌ । स उद्गातापराग्लोकादिप्रापयतीति यत्‌ तदमुनाऽऽदित्यगत भगवत्प्रसादेनेत्यर्थः ॥ 7 ॥ अथानेनैवचक्षुःस्थभगवत्प्रसानेनैव येचास्मादर्वांचोलोकास्तांश्ऱ्चाप्नोति उद्गानेन प्रापयति । न केवलमिमं लोकमिति चशब्दः । मनुष्यकामांश्ऱ्चनृलोकगान्मनुष्यकामां(म्यां)श्ऱ्चप्रापयतीत्यर्थः । अत्रायं विवेकः । भगवदुद्गाताहिमुख्योवायुरमुख्यस्त्वाधुनिकोमनुष्यः तत्र वायुविवक्षयापरागवर्ाग्लोकप्रापकत्वमुच्यते । किमिति । ते तव कं काममुद्दिश्यागायानि उद्गानं कुर्यामिति । नैतद्वचनमात्रम्‌ । य एवं विद्वान्‌ सामगायति एष एव हि यजमानकामगानस्येष्ये उद्गानेन यजमानेष्यप्रदानसमर्थ इत्यर्थः । द्विरुक्तिः पूर्ववत्‌ ॥ 8 ॥ सप्तमः खण्डः ॥ 7 ॥ उद्गीथाख्योभगवान्सर्वोत्तम इत्युक्तम्‌ । तन्मीमांसारूपाख्यायिकयासमर्थयते त्रय इत्यादिखण्डद्वयेन । अत्र कासाम्नोगतिरित्याना सामस्वरप्राणान्नाब्द्युलोकाः क्रमेणोत्तरोत्तराः कथिताः । ते प्रसिद्धा एवेति प्रतीतिनिरासाय प्रमाणेनैवतत्स्वरूपमाह ॥ अग्निरिति ॥ उच्छ्वासनिश्ऱ्वासरूपप्राणावराभिमानी । मुख्यप्राणव्यावृत्त्यर्थमवरेत्युक्तम्‌ । प्रसिद्धगमनार्थत्वप्रतीति निरासाय गतिशब्दार्थमाह ॥ क्रमेणमोक्ष इति ॥ अग्निः सामाभिमानीत्यत्र युक्तिमप्याह ॥ अग्नेरिति ॥ अग्नेः वागिन्द्रियाभिमानित्वात्साम्नश्ऱ्चवागधीनाभिव्यक्तित्वादग्निः सामाभिमानीत्यर्थः । अग्नेः वेदवागभिमानित्वात्साम्नश्ऱ्च तद्विशेषत्वात्तस्याप्यभिमानीति वार्थः । वरुणस्तुस्वरात्मक इत्यत्रापि युक्तिमाह ॥ स्वरस्येति ॥ स्वरस्य वर्णव्यंजकध्वनेरुदकात्मकत्वात्ताल्वादिस्थोदकजन्यत्वाद्वरुणस्य चोदकाभिमानित्वाद्वरुणः स्वरात्मक इत्यर्थः । प्राणः सूर्योन्नं दक्ष इत्यत्र श्रुतिमप्याह ॥ आदित्य एवेति ॥ प्रजापतिः दक्षः । शक्रस्त्वबभिमानवान्‌ दृवात्मकश्ऱ्चशिव इत्यत्रापि श्रुतिमाह ॥ आप एवेति ॥ ननु न दैवं केशवात्परमिति च लोके पामरोपिजानाति । अतः कथं नस्वर्गं लोकमातिनयेदिति न प्रतिष्ठां लोकमतिनयेदिति च रुद्र ब्रह्मणोरेवसर्वात्तमत्वं दाल्भ्यशिलकाभ्यामुक्तमित्यत आह ॥ विशेषेति ॥ स्वर्गं वयं लोकं सामाभिसंस्थापयाम इत्यत्र स्वर्गशब्दस्वप्रसिद्धर्स्वपरत्वमिन्द्रपरत्वं वा साम्नः स्वर्गाभेदं च निराकर्तुं तद्वयाचष्ये ॥ स्वर्गेति ॥ तदुपपादकं स्वर्गसंस्तावं हिसामेतिद वाक्यं स्वर्गलोकस्य सामवेदत्वमुच्यत इति प्रतीतिं निवारयन्व्याचष्ये ॥ तत्स्तावकमिति ॥ हि यस्मात्सम सामवेद स्तस्य स्वर्गलोकाभिमानि रुद्रस्य स्तावकं तस्मात्तं प्रत्यभिसंस्थापयाम इत्यर्थः । ननु स्वर्गोवैलोकः सामवेद इति श्रुतेः । स्वर्गलोकस्य सामवेदाभेद एव श्रुत्यर्थः किं न स्यादिति चेत्‌ । न । बाधितार्थत्वप्रसंगेन तस्या अपि स्वर्गाभिमानीरुद्रः सामवेदप्रतिपाद्य इत्यर्थोपपत्तेः । यस्त्वे तर्हि ब्रूयान्मूधर्ाते विपतिष्यतीमूर्धाते विपतेदितीति वाक्येयस्तुते मूर्धाविपतिष्यतीति ब्रूयायात्तर्हि विपतेदिति योजनानयुक्ता । विपतेदित्यस्यैव विधिप्रत्ययां तस्य शापरूपत्वेन विपतिष्यीत्यस्य शापरूपत्वासम्भवादिति भावेनान्वयमुखेनतद्योजयति ॥ मूर्धात इति ॥ किंच यदि स्वर्गलोकशब्दस्य प्रसिद्धएवार्थः स्यात्तदामुष्यलोस्य कागतिरित्ययं लोक इति होवाचेति पृथिव्याः स्वर्गाश्रयत्वोक्तिरनुपपन्ना स्यात्‌ । नच यागोहोमदिभिरमु लोकं षुष्यति । इतःप्रदानं हि देवा उपजीवन्तीति श्रुतेः प्रत्यक्षं हि सर्वभूमानां धरणीप्रतिष्ठेत्यतः स्वर्गलोकस्याप्ययं लोको गतिरेवेति वाच्यम्‌ । अयं लोक इत्युक्तस्य तत्स्थयागलक्षकत्वापातात्‌ । धरण्याः सर्वभूताश्रयत्वप्रतीतावपि स्वर्गलोकाश्रयत्वाप्रतीतेश्ऱ्च । नच पृथिव्या अधस्तनत्वात्स्वर्गस्योपरितनत्वादाश्रयाश्रयिभावोक्तिरुपपन्नेति वाच्यम्‌ । तथासति अस्य लोकस्य कागतिरित्याकाश इति होवाचेत्यस्यानुपपत्तेः । नह्यूर्ध्वलोके अधस्तन लोक आश्रितः । ननु भवत्पक्षोपि कथमुपपत्तिः । नहि स्वर्गाभिमानिरुद्रात्पृथिवीलोकस्य तदभिमानिधरायावोत्तमत्वम्‌ । नवा आकाशस्य तदभिमानिगणेशस्य वा रुद्रोत्तमत्वमित्यतः प्रमाणेनैव पृथिव्याकाशशब्दार्थावाह ॥ ब्रह्मैवेति ॥ खण्ड ॥ 8 ॥ आकाशशब्दं विष्णौ निर्वक्ति ॥ आदीप्तत्वादिति ॥ नन्वाकाशोभूताकाशमेव किं न स्यात्‌ । आकशशब्दस्य तत्र रूढत्वाद्विष्णौ तु योगिकत्वात्‌ । नहि रूढिपरित्याविष्णावेव सम्भवादन्यत्रासम्भवादिति भावेनाह ॥ वरीयांश्ऱ्चेति ॥ परमोवरीयानित्यनेन परोवरीयः शब्दार्थ उक्ताः । चशब्दोऽनन्तत्वादिसमुच्चायकः । तथाच सूत्रम्‌ । आकशस्तल्लिंगादिति । पूर्वमग्न्याद्याः सामाद्यभिमानित्वात्सामादिशब्दवाच्या इत्युक्तम्‌ । इदानीं योगेनापिसामादिशब्दवाच्यास्त इत्याह ॥ शुभेति ॥ दाहादावित्यन्तस्य योग्यतया लाभः । स्वोविष्णुः रमत्यस्मिन्त्सागर इति वरुणः स्वरः स्मृत इत्यर्थः । उदयेन जगत्प्रवृत्तिहेतुत्वादित्यर्थः । दक्ष अद्यत इत्यन्ननामकः स्यात्‌ । कोदक्षात्तेत्यत उक्तं अत्तारुद्र इति । तथापि दक्षस्य तदद्यत्वं कुत इत्यत उक्तं तद्विरोधादिति । रुद्रविरोधादित्यर्थः । स्वर्गं वयं लोकमिति असौ लोक इति चरुद्रेस्वर्गासौलोकशब्दाः प्रयुक्ताः । तत्र स्वर्गशब्दं निर्वक्ति ॥ स्व इति ॥ यतः स्वतन्त्रत्वात्‌ स्वेविष्णौरमत इति स्वरिति वायुरुच्यते । यतश्ऱ्चमुक्तौ सदाशिवस्तस्मिन्गतोतः सः स्वर्ग इत्युच्यत इत्यर्थः । आसावित्यस्यापेक्षितपूरणेनार्थमाह ॥ असुसंस्थत्वादिति ।1 अयं लोक इति ब्रह्मणिप्रयुक्तस्यायमित्यस्यार्थमाह ॥ सर्वेति ॥ लोकशब्दं निर्वक्ति ॥ लोक इति ॥ रुद्रेप्रयुक्तलोकशब्दस्याप्ययमेवाथर्ः । अस्यलोकस्य कागतिरित्याकाश इति होवाचेत्यत्र ब्रह्मोत्तमत्वोक्तावपि सर्वोत्तमत्वं लब्धमेवेति भावेनाह ॥ एतेषामिति ॥ आकाशशब्दस्तुप्रागेवनिरुक्तः । इन्द्रे प्रमाणषनाप्‌शब्दस्यानिरुक्तेः स्वयं निर्वक्ति ॥ आपालनादिति ॥ आसमन्तादित्यर्थः । वरीयसः परः परोवरीयानिति व्याख्यानमसत्‌ । तथासति परवरीयानित्येवप्रयोगापातात्‌ । एतेन परश्ऱ्चवरीयांश्ऱ्चपरोवरीयानित्यप्यपास्तम्‌ । परत्वस्य पृथग्विशेषणत्वे पुनरुक्त्यापाताच्चेति भावेन तत्तात्पर्यमाह ॥ अधिकमिति ॥ अक्षरार्थं तूत्तरत्रवक्ष्यति । ननु परोवरीयोहास्य भवतीति कथं भगवतः सर्वान्प्रत्यविशिष्यत्वादित्यतस्तद्वयाचष्ये ॥ तत्परोवरीय इति ॥ पूर्वं परोवरीयानिति पुल्लिंगान्तशब्दश्रवणशदत्र नपुंसकलिंगान्तशब्दश्रवणादन्यदेवैतदिति शंकापरिहारायतत्परोवरीय इत्युक्तम्‌ । यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्त इत्यत्र यावत्तेतवप्रजायामुद्गीथवेदिष्यन्त इति व्याख्यानमसत्‌ । प्रजाशब्दस्वैवाधिकारिप्रजामात्रपरत्वसम्भवेते तवेति विशिष्योक्त्ययोगात्‌ । अतो यावत्त इति तसिल्‌प्रत्ययान्तोयं शब्दः प्रमाणप्रमितया वत्कालपर्यन्तमित्यर्थमाह ॥ तत्र कोसौप्रमाणप्रमितः काल इत्यत आह ॥ यावत्त इति ॥ शालावत्यः । चिकितायनस्यापत्वं चैकितायनः । दाल्भ्योदाल्भ्योदल्भगोत्रपत्यं दाल्भ्योनामत इति वा । प्रवाहणोनामतः । जिबिलस्यापत्यं जैबिलिरिति त्रय इति सम्बन्धः । ते त्रयोन्योन्यमूचुर्ह । किमिति ॥ वयमुद्गीथविषयेपकुशलावैनिपुणास्मोतोहं तयद्यनुमतिः भवतां तर्हि उद्गीथेकथां वीतरागकथारूपवादकथां वदाम इति ॥ 1 ॥ तथास्त्वित्युक्त्वाते हसमुपविविशुरुपविष्यवन्तः । तेषां मध्येसप्रवाहणोजैबिलिः शिलकचैकितायनौप्रति उवाचह । किमिति । भगवन्तौ पूजार्हावग्रेवदताम्‌ । अहं ब्राह्मणयोवदतोर्वाचं श्रोष्यामीति । अनेनास्य क्षत्रियत्वमवगम्यते । एवमुक्तः सशिलकः शालावत्यश्ऱ्चैकितायनं दाल्भ्यमुवाच । हन्तयद्यनुमतिस्तवतर्हि त्वात्वामहं पृच्छामीति । एवमुक्तोदाल्भ्यः पृच्छेति होवाच ॥ 2 ॥ प्रश्ऱ्नोत्तरक्रमं दर्शयति ॥ कासामन इति ॥ साम्नः शुभाशुभानां दाहादौ साम्यात्सामनामकस्य सामाभिमानिनोग्नेः कागतिः किं मोक्षेगम्यमिति पृष्ये स्वरः स्वोविष्णूरमत्यस्मिन्निति स्वरनामकः स्वराभिमानीवरुण इति होवाच । एवमुत्तरत्रापि । प्राणः सूर्यः उदयेन जगत्प्रणेतृत्वात्‌ । प्राणावराभिमानित्वाच्च । अन्नं दक्षः । रुद्रेणाद्यत्वादन्नाभिमानित्वाच्च । आप इन्द्रः । आपालनादबभिमानित्वाच्च ॥ 3 ॥ असौलोकोरुद्रः । असौमुख्यप्राणेस्थितत्वात्‌ प्रकाशरूपत्वात्‌ द्युलोकाभिमानित्वाच्च । अमुष्यलोकस्य रुद्रस्य कागतिरिति पृष्ये स्वर्गं स्वनामकविष्णुरते वा यौमुक्तौ गच्छतीति स्वर्गनामकं लोकं प्रकाशरूपं स्वर्गलाकाभिमानिनं रुद्रं नाति नयेत्‌ अतिक्रम्यान्यमुत्तमत्वेन न जानीयादिति होवाच । हरेः सर्वोत्तमत्वं जानन्नपि ऋषिर्विशेषज्ञानसम्प्राप्त्यैरुद्रस्य सर्वोत्तमत्वमाह ॥ स्वर्गमिति ॥ वयं स्वर्गं लोकं स्वर्गाभिमानिनं रुद्रं प्रतिसामाभिसंस्थापयामः सामरुद्र प्रतिपादकमिति जानीम इति यावत्‌ । तदपिकुतः । हि यस्मात्सामस्वर्गसंस्तावं स्वर्गाभिमानिरुद्रस्तावकमिति तस्मात्स्वर्गं लोकं प्रतिसामाभिसंस्थापयाम इति सम्बन्धः ॥ 4 ॥ एवमुक्तः शिलकः शालाकः शालावत्यस्तं दाल्भ्यं प्रत्युवाचह । हे दाल्भ्यते तव साम सामप्रतिपाद्यतया ज्ञातं वस्तु अप्रतिष्ठितं वै किल अपर्यवसितमेव खलु । सर्वोत्तमं न भवतीति यावत्‌ । अतो यस्तु यः कश्ऱ्चिदेवतर्हि इदानीं ते तव न स्वगर्ं लोकमतिनयेदिति वदतो मूर्धाते विपतेदिति ब्रूयेच्चे त्तर्हि ते मूर्धाविपतिष्यति । विस्पष्यं पतिष्यति । अहं तु त्वत्स्नेहात्तथानवदिष्यमीति भावः । इत्युवाचेति द्वितीयेति शब्दस्यान्वयः ॥ 5 ॥ एवमुक्तो दाल्भ्योयदि मदीयं सामाप्रतिष्ठितं हन्त तर्हि अहमेवतत्साम भगवतः पूजार्हाद्वेदानीत्युवाच । एवमुक्तः शिलकोविद्धीति होवाच । दाल्भ्यः पृच्छति ॥अमुष्येति ॥ अमुष्यलोकस्य रुद्रस्य कागतिरिति पृष्ये अयं लोकः सर्वदेवान्तरत्वादयमिति नामकः प्रकाशरूपत्वाल्लोकनामकः पृथिव्यभिमानीब्रह्मैवेति होवाचशिलकः । अस्य लोकस्य पृथिव्यभिमानिनो ब्रह्मणः कागतिरिति दाल्भ्ये न पृष्ये न प्रतिष्ठां लोकं सर्वाधारपृथिव्यभिमानिनं ब्रह्माणमतिक्रम्यान्यमुत्तमत्वेन न जानीयादिति होवाच शिलकः शालावत्यः । प्रतिष्ठां वयमित्यादि पूर्ववत्‌ ॥ 6 ॥ तं शिलकं शालावत्यं प्रवाहणोजैबिलिरुवाच । वेदानीति शिलकेनोक्तेविद्धीति होवाचप्रवाहणः ॥ 7 ॥ अष्यमः खण्डः ॥ 8 । अस्य लोकस्य पृथिव्यभिमानि ब्रह्मणः कागतिरिति पृष्ये आकाशः आदीप्तत्वादाकशनामकोविष्णुरिति होवाचप्रवाहणः । कथमेतस्य पृथिव्यभिमानिब्रह्मगतित्वमित्यतस्तस्य माहात्म्यमाह ॥ सर्वाणीति ॥ सर्वाणीमानि प्रमाणप्रसिद्धानि भूतानि ब्रह्मरुद्रदीनि आकाशादेवसमुत्पद्यन्ते । ह वा इत्यस्यार्थस्य वैदिकीं सुप्रसिद्धिमाह ॥ आकाशं प्रत्यस्तमदर्शनं यन्ति । कुतः । हि यस्मादाकाश एवैभ्योब्रह्मरुद्रादिभूतेभ्योज्यायान्‌ । तदपि कुतः । आकाशः परायणमुत्तमाश्रयः । नैतस्मादप्युत्तमं वस्त्वाशंक्यमिति भावेनाह ॥ स इति ॥ स एष आकाशनामाभगवान्परोवरीयान्‌ । अधिकं वरीयान्‌ । उद्गीथ उच्चः गेयत्वात्‌ । स एषोन्ततो देशतः कालतोगुणतश्ऱ्चपरिच्छेदशून्यत्वादनन्तनामकः ॥ 1 ॥ उक्तरीत्याभगवदुपासकस्य फलमाह ॥ परोवरीय इति ॥ योधिकारी एतमाकाशनामकं परोवरीयां समुद्गीथमेवमुक्तरीत्याब्रह्मगतित्वेन विद्वानुपास्ते । अस्योपासकस्य परोवरीयः परोवरीयोनामकं ब्रह्म रक्षकं भवति । स उपासकः परोवरीयसोधिकं वरीयसोलोकान्वैकुण्ठानन्तासनश्ऱ्वेतद्वीपाख्यान्‌ जयति प्राप्नोति ह ॥ 2 ॥ परोवरीयोहास्य रक्षकं भवतीत्युक्तं विवरितुं विश्ऱ्वासजननायाख्यायिकामाह ॥ तमिति ॥

अतिधन्वानामतः शुनकस्यापत्यं शौनकः तं उद्गीथं भगवन्तं उदरशाण्हिल्यायस्वशिष्यायोक्त्वोवाच । किमिति । ये प्रजायामधिकारिजीव समुहे एनमुद्गीथं त्रेतायां वेदिष्यन्ते एभ्य उद्गीथ वेत्तृभ्यः परोवरीयो ब्रह्मास्म?िल्लोकेयावत्तः प्रमाणेन यावत्कालपर्यन्तमुक्तं द्वापरादिपर्यन्तं तावज्जीवनं भविष्यति । न केवलमेतावत्‌ तथामुष्मिंल्लोके जीवनं भविष्यति । पुनर्लोक इत्युक्तिरादरार्था । इदानीं परोवरीयोहास्य भवतीत्युक्तं विवृणोति ॥ स इति ॥ स प्रसिद्धो योधिकारी एतमेवं विद्वानुपास्तेऽस्योपासकस्य परोवरीय एवास्मिंल्लोके जीवनं भविष्यति । तथामुस्मिंल्लोके जीवनं भवष्यितीति द्विरुक्तिर्विद्यासमाप्त्यर्था ॥ 3 । नवमः खण्डः ॥ 9 ॥ सामैकदेशप्रस्तावप्रतिहारोद्गीथनिष्ठां भगवदुपास्तिं वक्तुं तदर्थां कांचनाख्यायिकामाह ॥ मटचीत्यादिखण्डद्वेयेन । तत्र मटच्यशनाया इत्यन्यथाप्रतीति निरासाय प्रमाणेन मटचीशब्दाथर्माह ॥ उपला इति ॥ वर्षोपला इत्यर्थः । आटक्येत्येतत्‌ दुगर्मार्थत्वाद्वयाचष्ये ॥ आसन्नेति ॥ दुर्गमार्थत्वात्प्रद्राणक इत्यस्यार्थमाह ॥ प्रद्रवन्निति ॥ कतमासादेवतेति प्रश्ऱ्नेप्राण इति होवाचेति प्रसिद्धप्राणस्यैव प्रस्तावदेवतात्वमुच्यत इत्यसत्‌ ॥ सर्वाणीति वाक्यशेषे भगवल्लिंगश्रवणादिति भावेन तद्भगवत्परतया व्याचष्ये ॥ प्राणस्थेति ॥ स विष्णुः प्रस्तावदेवतास्यात्‌ । तत्र हेतुः प्राणस्थ विष्णुनेति । अनेन सर्वाणिभूतानि प्राणमभ्युज्जिहत इत्येतद्वयाख्यातम्‌ । ननु सर्वप्रसवितृत्वेपि प्रस्तावदेवतात्वं कुत इत्यात आह ॥ प्रस्ताव इति ॥ जनिर्जनिकर्तृत्वम्‌ । भावार्थकथनं चैतत्‌ । कतमासादेवतेत्यादित्य इति होवाचेत्यत्र प्रसिद्धादित्यस्यैवोद्गीथ देवतात्वमुच्यत इति प्रतिनिरासाय तद्वयाचष्ये ॥ आदित्येति ॥ आदित्यसंस्थितः स एव पुरुषोत्तमोविष्णुरुद्गीथ देवतेत्यन्वयः । स्थानभेदेन भेदशंकानिरासाय स एवेत्युक्तम्‌ । तत्र हेतुमाह ॥ गानस्य देवतेति ॥ तदपि कुत इत्यत उक्तम्‌ ॥ यत्सदासर्वगीतभुगिति ॥ सर्वगानानुभवितेत्यर्थः । राजादिपुरतोयद्गीतं तद्भोक्तृत्वाभावे कथं सर्वगीतभोक्तृत्वमित्यत आह ॥ राजादाविति ॥ अनेन सर्वाणि हवा इमानि भूतान्यादित्यमुच्चैः सन्तगायन्तीत्येतद्वयाख्यातम्‌ । कतमासादेवतेत्यन्नमित्यत्र प्रसिद्धान्नस्यैव प्रतिहारदेवतात्वमुच्यत इति प्रतीतिनिरासाय तद्वयाचष्ये ॥ अन्नस्थेनैवेति ॥ सोन्नस्थोविष्णुः प्रतिहारदेवता ।तत्रहेतुरन्नस्थेनेति । अनेन सर्वाणिहवा इमानि भूतान्यन्नमेव प्रतिहरमाणानिजीवन्तीत्येतद्वयाख्यातम्‌ । अन्नस्थेन विष्णुनाभूतानां जीवनेपि विष्णुः प्रतिहारदेवतेति कुत इत्यत आह ॥ प्रतिहार इति ॥ उच्चैः सन्तं ऊर्ध्वं सन्तमुपरिवर्तमानमित्यन्यथाप्रतीतिनिरासाय तदनूद्य व्याचष्ये ॥ उच्चैरिति ॥ उच्चैरित्यस्याव्ययत्वादुत्तममिति व्याख्यातम्‌ । अर्थान्तरं तु प्रत्यक्षादिसिद्धमिति न वक्तव्यम्‌ । ततश्ऱ्चायं खण्डाद्वयार्थः ॥ उषस्तिर्नामतश्ऱ्चक्रमयनं यस्यासौ चक्रायणः प्रायोरथचक्रसमीपेतिष्ठति । चक्रायणस्यापत्यं चाक्रयणः । कुरुदेशेवसन्‌ कुरुषुमटचीहतेषु वर्षोपलैः नाशितेषु सत्सु अत एवाति वृष्ययादुर्भिक्षेपतिते आटक्या आसन्नयौवनया जायासहेभ्यग्रामेधनिकग्रामे इभाधिपतिग्रामेवा प्रद्राणकोन्नपानार्थं प्रद्रवन्नुवास । सचाक्रायण अन्नार्थी अटन्‌ कुल्माषान्‌ कुत्सितमाषान्‌ खादन्तमिभ्यं यदृच्छयोपलभ्यबिभिक्षेयाचितवान्‌ ॥ 1 ॥ स इभ्यस्तं प्रत्युवाच । चशब्दोवधारणे । ये मे ममोपनिहिताः समीपस्थिताः समीपस्थिताः कुल्माषा इम एव विद्यन्ते । नेतोन्ये विद्यन्ते । यत्‌ यस्मात्तस्मात्कुल्माषा न सन्ति दातुम्‌ । इमेच न देया उच्छिष्यत्वादिति भावः । एतेषामुच्छिष्यानोमेव कुल्माषाणां मध्येकांश्ऱ्चनमेदेहीति होवाच चाक्रायणः । एवमुक्त इभ्यस्तान्कुल्माषानस्मैचाक्रायणायप्रददौ । हन्त तर्हि अनुपानमुच्छिष्यजलपानं चकुर्वित्युवाच । अनुपानं करभस्रिकास्थितोदकपानमित्यप्याहुः । एवमच्छिष्यजलपानार्थं प्रर्थितश्ऱ्चाक्रायण एतदुदकपाने उच्छिष्यमेव मेमयापीतं स्यादिति होवाच । तत्रेभ्यो बभाषे । एतेपि कुल्माषा उच्छिष्यानस्वित न किम्‌ ॥ 2 ॥ तत्र मुतिनरुवाच । इमान्कुल्माषानखादन्नभक्षयन्नैवाजीविष्यं न जीविष्यामि । अतः प्राणात्ययेदोषाभावात्तेभक्षिताः । उदपानं जलपानं तु मेकामोममेच्छाधीनमिदानीं वर्तते । वृथोच्छिष्यस्वीकारे दोष प्राप्तेः न तत्पिबामीति । उक्तं च सूत्रकृता । ॐ सर्वान्नानुमतिश्ऱ्चप्राणात्ययेतद्दर्शनादिति । सचाक्रयणस्तान्कुल्माषां स्तत्रखादित्वातिशेषानतिशिष्याञ्जायाया आजहाहर । साजायाग्र एव पत्युरागमनात्पूर्वमेव सुभिक्षा शोभनभिक्षा लब्धान्नाबभूव । अतस्तान्कुल्माषान्प्रतिगृह्यनिदधौस्थापितवती ॥ 3 ॥ स चाक्रायणणस्तांरात्रिं नीत्वाप्रातः सञ्जिहानः शयनं निद्रां वा परित्यजन्‌ उत्तिष्ठन्निति यावत्‌ । उवाच । प्रत्यहमन्नार्थं खिद्यन्तीं स्वजायां प्रतिबतेत्यास्वादने । यत्‌ यस्माद्वयमन्नस्यान्नं लभेमहि । अन्नस्यमात्रां भारमिति वा । धनमात्रं धनभारं च लभेमहि । तेनास्मकं जीवनं भविष्यति । अतस्तवखेदोमाभूदित्यर्थः । अन्नादिलाभेकारणमाह ॥ राजेति ॥ असौ दूरेस्थितोराजायक्ष्यते तत्राहं गमिष्यामि । स राजा मां सर्वैरार्त्विज्यैः ऋत्विक्कर्मभिर्वृणीते । अततस्तत्र गभनाय पाथेयं किमप्यस्तीत्युवाचेति सम्बन्धः ॥ 4 ॥ एवमुनेया इत्युक्त्वातान्प्रतिजायोवाच ॥ हन्तेति ॥ हन्तेति खेदे । हे पतेये भवद्भिः पूर्वेद्युरानीताः इम एव कुल्माषावर्त्तंत इति । त एव नेया इत्युक्त्वातान्प्रतिगृह्यखादित्वाऽमुं यज्ञं विततं विस्तृतमे यायगतवान्‌ । तत्र यज्ञे । आस्तावे आस्तुवन्त्यस्मिन्नित्यास्तवाख्योकर्मणिस्तोष्यमाणान्‌ स्तोतॄनुपसमीपे उपविवेशोपविष्यवान्‌ । स चाक्रायणः प्रस्तोतारमुवाच ह ॥ 5 ॥ हे प्रस्तोतरित्यभिमुखीकृत्य ये देवताप्रस्तावं प्रस्तावभक्तिमन्वायत्ता सम्बद्धातत्प्रतिपाद्यातत्स्थाचतां देवतां चेद्यदित्वमविद्वान्प्रस्तोष्यसितर्हि ते तव मूर्धाविपतिष्यतीति ॥ 6 ॥ एवमेवोद्गातारं प्रत्युवाच । उद्गातारं प्रति प्रस्तोतर्यादेवतेत्याद्युक्तेरसंगतेरेवमित्युविवृणोति ॥ उद्गातरिति ॥ पूर्ववदर्थः । एवमेव प्रतिहर्तारमिप्यादिकमपि व्याख्येयम्‌ ॥ 7 ॥ एवं चाक्रायणेनोक्तास्ते प्रस्तोत्रादयः प्रस्तावादि देवताज्ञानाभावात्समारताः स्वस्वव्यापारान्निवृत्तास्तूष्णीमासं चक्रिरे ॥ 8 ॥ दशमः खण्डः ॥ 10 ॥ अथ तेषां तूष्णीं भावानन्तरमेनं चाक्रायणं प्रति । यजमानोराजोवाच । अहं भगवन्तं पूजार्हं वैशब्देनैवं ज्ञानिनस्तवपूजार्हत्वं प्रसिद्धमित्याह ॥ विविदिषाणि त्वं किं नामकः कस्य पुत्र इति वेत्तुमिच्छामीति । एवमुक्तोमुनिरहं नामनो षस्तिरस्मि चाक्रायणः चक्रायणस्य पुत्रोस्मीति होवाच । एवमुक्तः स राजो वा च । भगवन्तमेवा हमेभिः सर्वैरात्विर्ज्यैः ऋत्विक्कर्मभिः पर्यैषिषं पर्येषणं कृतवानस्मि । भगवन्तमेव सर्वैः ऋत्विक्कर्मभिः वृणीतुं विचारितवानस्मीति यावत्‌ । तर्हि पूर्वं किमर्थमेतेप्रस्तोतृत्वादिनावृता इत्यत आह ॥ भगवत इति ॥ पूर्वमहं भगवतो गतेरवित्यावा अज्ञानेनैवान्यान्‌ प्रस्तोत्रादीन वृषि । यद्वा भगवतोऽवित्यावा अलाभेनैवेत्यर्थः । इदानीं भगव?ल्लब्धः । अतो भगवनेव तु विशेषेण मेमया सर्वैरार्त्विज्यैः वृत इति ॥ 1 ॥ एवमुक्तोमुनिर्यद्यहमेवैतत्कर्मकुर्यां तर्हि ब्राह्मणद्रोहो यद्यत्रानंगीकारस्तर्हि धनाप्राप्तिरिति विचार्यतथास्त्वित्युवाच । किन्तु । अथ तर्हि एवं तर्हि । ये पूर्वं त्वया वृता एत एव समतिसृष्यामदाज्ञप्ताः स्तुवन्तां स्तुवन्तु । त्वया त्वेयात्वेतत्कार्यम्‌ । यावत्तेभ्यः प्रस्तोत्रादिभ्यः सर्वेभ्यो धनं दद्याः तावन्ममदद्या इति । एवमुक्तो यजमानस्तथेति होवाच । हेति यजमानस्य हर्षद्योतकम्‌ । उभयविधब्राह्मणापराधाभावोममसम्पन्न इति ॥ 2 ॥ अथैवं चाक्रायणराजसम्वादानन्तरमेनं चाक्रायणं प्रति प्रस्तोतोपससादगुरुभावेनोपजगाम । प्रस्तोतर्यादेवतेत्यादिनामामां भगववानवोचत्‌ पूर्वम्‌ । कतमा सादेवता याप्रस्तावभक्तिमन्वायत्तेति पृष्यः प्राणोमुख्यप्राणस्थः प्राणनामाविष्रुरिति होवाच । युक्तं प्राणस्थ विष्णो प्रस्तावदेवतात्वं प्रस्तावशब्दार्थस्यात्रैव सत्वादिति भावेनाह ॥ सर्वाणि हवा इमानिभूतानिप्राणमभ्युज्जिहत इति ॥ अभ्युज्जिहतेत्यजन्ति । प्राणान्निस्सरन्ति उत्पद्यन्त इति यावत्‌ । अनेन प्रसूयन्ते अनेनेति प्रस्ताव इति प्रसवकर्तृत्वं प्रस्तावशब्दाथर्ः । तच्चप्राणस्थविष्णोरेव वर्तत इति स एव प्रस्तावदेवतेत्युक्तं भवति । लोकेपि तु रन्यस्य मारकत्वदर्शनात्संहतर्ान्यएवेति नमन्तव्यमिति भावेन सर्वाणि हवा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्रलयकाल इत्युक्तम्‌ । सैषादेवताप्रस्तावमन्वायत्तातां चेदविद्वान्प्रस्तोष्यस्तर्हि मया ततोक्तस्यातां चेदविद्वान्प्रस्तोष्यसीत्याद्युक्तस्य ते मूर्धा शिरोव्यपतिष्यत्‌ । मद्वचनस्यामोघत्वात्‌ । त्वं तु तथा न कृतवान्‌ । अतो महान्प्रमादः परिहृत इति भावः ॥ 3 ॥ अथ प्रस्तावदेवतानिर्णयानन्तरम्‌ । अन्यत्‌ पूर्ववत्‌ । आदित्यः आदित्यस्थोविष्णुः । युक्तमादित्यस्थस्य विष्णोरुद्गीथ देवतात्वम्‌ । तस्य गानदेवतात्वादिति भावेन तत्र हेतुमाह ॥ सर्वाणीति ॥ यद्वोद्गीथशब्दार्थस्य तत्रैवभावात्स एवोद्गीथ इति युक्तमित्याह ॥ सर्वाणीति ॥ सर्वाणीमानिभूतानिगानकतॄर्णि अदित्यमादित्यस्थं विष्णुमुच्चैः सन्तमुत्तमं सन्तं गायन्ति । हवा इति बहुप्रमाणसिद्धिमाह ॥ अनेनादित्यस्थस्य विष्णोः सर्वगीतभुक्त्वाद्गानदेवतात्वमित्युक्तं भवति ॥ 4 ॥ सैषेत्यादिपूर्ववत्‌ । अन्नमन्नस्थो विष्णुः । युक्तमन्नस्थविष्णोः प्रतिहारदेवतात्वम्‌ । प्रतिहारशब्दार्थस्य तत्रैवमुख्यतो भावादिति भावेनाह ॥ सर्वाणीति ॥ सर्वाणीमानिभूतान्यन्नमेवान्नस्थं भगवन्तमेव प्रतिहरमाणानिभोजनं कुवर्ाणानि तदुपजीवकानीति यावत्‌ । जीवन्ति । अन्यत्‌ व्याख्यातम्‌ ॥ 5 ॥ एकादशः खण्डः ॥ 11 ॥ पूर्वमुद्गीथोपासकस्य पापाविद्धत्वादिकं फलमुक्तमिदानीमन्नप्रप्तिलक्षणफललमाख्यायिकयाह ॥ अथेति ॥ बकोदाल्भ्यो ग्लावोवामैत्रेय इत्यत्र बकोदाल्भ्य इत्येको ग्लावोमैत्रेय इत्यपर इत्यसत्‌ । तथासति विकल्पार्थकवाशब्दायोगात्‌ । उद्वव्राज प्रतिपालयांचकारेत्येकवचनानुपपत्तेश्ऱ्च । कथं तर्हि एकस्यैव बकोदाल्भ्य इति ग्लावोवामैत्रेय इति चोभयथानिर्देश इत्यत आह ॥ दल्भपुत्र इति ॥ दभ्लपुत्रोदाल्भ्यः बकोनामतः मित्रयापुत्रार्थं स्वकृतोमित्रापालितपुत्रोतोमैत्रेयः प्रयोजनार्थमाह्वनेपि ग्लाववत्तूष्णीं स्थितत्वात्तयोग्लावेत्युक्तोग्लवनमको जात इत्यर्थः । किंतत इत्यत आह ॥ अत इति ॥ बकोदाल्भ्य इत्येकोनिर्देशः । ग्लावोमैत्रेय इत्यपरः । उभयनिर्देशज्ञापकोवाशब्द इति भावः । श्ऱ्वभिः दृष्यः शौव इत्यन्यथाप्रतीति निरासाय शौव उद्गीथ इत्येतद्वयचष्ये ॥ प्रसादार्थमिति ॥ श्ऱ्वरूपिणां रुद्रादीनां बकास्यापि प्रसादार्थं श्ऱ्वरूपिणावायुनोक्त उद्गीथः शौवोद्गीथ इति प्रोक्त इत्यन्वयः । यद्यपि श्ऱ्वस्बन्धित्वमेवशौवशब्दार्थः तथापि श्ऱ्वरूपवायुनोक्तत्वमेवशौवशब्दप्रवृत्तिनिमित्तं नतु श्वभिर्दृष्यत्वम्‌ । श्ऱ्वरूपदेवानां वायूक्तमन्त्रश्रोतृत्वेन तद्द्रष्यृत्वाभावादति भावः । रुद्रादीनामित्यनेन तमन्यश्वान इत्युक्ताः श्ऱ्वानः सन्दर्शिताः । नन्वन्नं नो भगवानागायत्वित्यन्नयाचनावसर एवोद्गीथ मनुक्त्वा इहैवमाप्रातरुपसमीयातेति वचनेकोभिप्राय इत्यत आह ॥ उपासित इति ॥ ते श्वान आससृपुस्तेहसमुपविश्यहिंचक्रुरोमदामेत्यनेन वायूपदेशंविनैवदेवा ओमदामेत्यादिमन्त्रं हिंचक्ररिति प्रतीयते तदयुक्तम्‌ । तथासति श्ऱ्वेतशुनः प्रादुर्भावोक्त्ययोगात्‌ । प्रातरेनं प्रत्यागमनायोगाच्चेति भावेन तद्वयाचष्ये ॥ ॐ मदामादिकमिति ॥ ओमदामेत्यादिकमित्यर्थः । वायुस्थविष्णुमुश्येत्यनेन देवोवरुण इत्यादिकं वायुस्थ विष्णुपरमित्युक्तं भवति । तेन वायोरपि देववरुणादिशब्दवाच्यत्वममुख्यतोस्तीति गम्यते । तत्र विष्णुवाय्वोर्देववरुणसवितृप्रजापतिशब्दप्रवृत्तिनिमित्तान्याह ॥ देवाविति ॥ दीव्यतेः गत्यर्थत्वाद्गत्यर्थानां ज्ञानार्थत्वात्सर्वज्ञत्वादित्युक्तम्‌ । तुशब्दोवधारणार्थः । क्रमेणैवसर्वज्ञत्वात्‌ । स्वपरगतसर्वज्ञत्वाद्वष्णोः । अन्यत्रालोचन एव सर्वज्ञत्वाद्वायोरित्यथर्ः ॥ ततश्ऱ्चायं खण्डार्थः ॥ अथशब्दः प्रकरणान्तरद्योतकः । अतः प्रयोजनसद्भावात्‌ । शौवःशुनोक्त उद्गीथ उच्यते । तत्तदाकदाचिद्बकोनामतः दाल्भ्योदल्भ्य पुत्रोग्लावोवा आह्वानेपि ग्लाववत्तूष्णीं स्थितत्वान्मित्रयाग्लावेत्युक्तत्वाद्‌ग्लावनामकोमैत्रेयोमित्रयापुत्रर्थं स्वीकृतः । उभयथानिर्देशज्ञापकोवाशब्दः । स्वाध्यायमुद्दिश्योद्वव्राज ह । तदित्येतदुत्तरत्रवासम्बध्यते । तत्तदा तस्मैबकाय बकस्य प्रसादार्थमिति यावत्‌ । उपलक्षणमेतत्‌ । देवनां प्रसादार्थमित्यपि ग्राह्यम्‌ । श्ऱ्वेतः श्ऱ्वाश्ऱ्वरूपोवायुः प्रादुर्बभूव । तं श्ऱ्वरूपं वायुं अन्येश्वानः श्ऱ्वरूपादेवा उपसमेत्यसमीपं प्राप्योचुः । उपलक्षणमेतत्‌ । बकश्ऱ्चेत्यपि ग्राह्यम्‌ । किमितिनोस्माकमन्नमुद्दिश्यभगवानागायतु अन्नप्राप्तिहेतूद्गीथोपासनमुपदिशेति भावः । वयन्तु अशनायामवैअशितुमिच्छामोवै ॥ 1 ॥ उपासितः पौणर्मास्यां शौवोद्गीथेन केशवः सर्वाभीष्यं ददातीति भावेन तान्होवाचश्ऱ्वरूपोवायुः । इहैवात्रैवमामां प्रति प्रातः काले उपसमीयातेति । तत्तदाबकोदाल्भ्योग्लावोवामैत्रेयः श्ऱ्वरूपं वायुं प्रतिपालयांचकारह ॥ ते श्ऱ्वानः प्रातः काले यथेदं निदर्शनं बहिष्पवमानेन स्तोत्रेणस्तोष्यमाणाः संरब्धाः संरम्भवन्तस्त्वरिताः सर्पन्त्येवं संरब्धाः सन्तः आससृपुः । निर्दिष्यस्थलं प्रतिसंरब्धाः अन्योन्यसंलग्नाः सर्पन्त्येवं मुखेनान्योन्यस्य पुच्चं गृहीत्वाससृपुरति वा । तेष्वागतेषु श्ऱ्वरूपोवायुरोमदामेत्यादिकं मन्त्रं तेषामुपदिदेशेति ग्राह्यम्‌ । ते वायुनोपदिष्याः श्ऱ्वरूपादेवाः समुपविश्यवायुं तत्स्थविष्णुं चोद्दिश्यहिंचक्रहिंकारं कृतवन्तः । तत्प्रकारमेवदर्शयति ॥ ओमिति ॥ ॐ हेगुणपरिपूर्ण । वायोतत्स्थभगवंश्ऱ्च । वयमन्नमदाम ओं पिबाम । ॐ अतो गुणपूर्णत्वादोंनामकः सर्वज्ञत्वाद्देवो वरणीयत्वाद्वरुणाः प्रजानां पालनात्प्रजापतिः प्रसवितृत्वात्सविता वायुस्तद्गतोविष्णुश्ऱ्चेहान्नमाहरत्‌ आहरतु । एवं परोक्षतः प्रार्थयित्वाऽपरोक्षतोपि प्रार्थयते ॥ अन्नपत इति ॥ हे अन्नपतेवायोतद्गतविष्णविहास्मदर्थमन्नमाहर । द्विरुक्तिः विद्यार्थावधारणशर्थे । इत्रत शब्दोविद्यासमाप्त्यर्थ इत्युक्तम्‌ ॥ 2 ॥ द्वादशः खण्डः ॥ 12 ॥ सामैकदेशोपास्तेः प्रकृतत्वात्तदेकदेशहावित्यादित्रयोदशस्तोभनिष्ठामुपास्तिमाह ॥ अयमित्यादिना ॥ सामानाधिकरण्येनाभेदप्रतीतिनिरासाय खण्डं प्रमाणेन व्याचक्षाणस्तावदादिवाक्यं व्याचष्ये ॥ हूयत इति ॥ अत्र पृथिव्यम्‌ । यतोग्निहोत्रादिहूयते अत इयं पृथिवीहावुकार इत्युच्यत इति सम्बन्धः । अत्र हाव्वित्यादिस्तोभ एव व्याक्रियते । हाव्वित्याक्रियमाणत्वाद्धवुकार इत्यर्थो ज्ञेयः । वायुर्हायकिर इति वाक्यं व्याचष्ये ॥ हेतीति ॥ हेति तावदाश्ऱ्चर्येवर्तते । आश्ऱ्चर्यवदायातियतस्ततोवायुः हायिकार इत्येकोर्थः । वाशब्दोव्याख्यानान्तरद्योतकः । हेति सुखमुच्यते । तदापयति सुखकृदिति यावत्‌ । सुखकृत्त्वतोवायुः हायिकार इत्यन्योर्थः । चन्द्रमा अथकार इति वाक्यं व्याख्यातुमथ शब्दार्थमाह ॥ अथेतीति ॥ अस्त्वानन्तर्यमथशब्दार्थः । प्रकृतेकिमानन्तर्यं चन्द्रमसोविवक्षितमित्यतस्तद्दर्शयन्‌ वाक्यं व्याचष्ये ॥ आनन्तर्यादिति ॥ सूर्याचन्द्रमसोः स्वरूपेणसमत्वात्प्रकाशस्येत्युक्तम्‌ । तथेरितः अथकार इतीरितः । आत्मेहकार इति इतिवाक्यं व्याचष्ये ॥ सवर्ेति ॥ अग्निरीकार इतिवाक्यं व्याचष्ये ॥ इन्धनादिति ॥ दीपनादित्यर्थः । आदित्य ऊकार इत्येतद्वयाचष्ये ॥ ऊकार इति ॥ उष्यितः आतपदाहात्‌ । उषप्लुषदाह इतिधातुः । निहव एकार इति वाक्यं व्याख्यातुं तावन्निहवशब्दोक्तां देवतामप्रतीतेराह ॥ नितरामिति ॥ पदार्थमुक्त्वावाक्यार्थमाह ॥ एतीति ॥ विश्वेदेवा औहोयिकार इतिवाक्यं व्याचष्ये ॥ औहोयीतीति ॥ स्मृत इति वचनविपरिणामेन वर्तते । तेष्वौहोयिशब्दं निर्वक्ति ॥ उच्चत्वादिति ॥ यतोस्मिन्नुशब्दवाच्येविष्णावखिलाः सुरामुक्तौ हूयन्ते तस्मात्सर्वेदेवा औहोयिनः प्रकीर्तित इत्यन्वयः । अनेन उशब्दस्य सप्तमी औ इति । औहूयन्त इत्यौहोयिन इति निरुक्तिर्दर्शितेति ज्ञातव्यम्‌ । प्रजापतिर्हिकार इति वाक्यं व्याचष्ये ॥ हीतीति ॥ सदेत्यनुस्वारार्थः । प्राणः स्वर इति वाक्यं व्याचष्ये ॥ वायुरिति ॥ प्राण इत्यनुवादेन वायुरिति व्याख्यातम्‌ । हायिकारत्वेन वायोरुक्तत्वाच्छरीरग इत्युक्तम्‌ । तेनाध्यात्माधिदैवभेदेनैकस्यैवद्विर्ग्रहणमिति सूचितं भवति । तस्मिन्स्वरशब्दं निर्वक्ति ॥ स्वेविष्णाविति ॥ अन्नं यायेति वाक्यं व्याचष्ये ॥ ययिरिति ॥ तद्वातदनुगासरस्वतीयायेति प्रोक्ता । अन्नं यायेत्युक्तेः । कथमेतदित्यत आह ॥ सैवेति ॥ यायाशब्दं प्रकारान्तरेणनिर्वक्ति ॥ यात्रेति ॥ यात्रानेत्रा नीयत इत्रत याया । वाग्विराडिति वाक्यं व्याचष्ये ॥ सर्वेति ॥ साश्रीः । अनिरुक्तस्त्रयोदशस्तोभः संचरोहुप्‌कार इति वाक्यं व्याचष्ये ॥ अनिरुक्त इति ॥ आद्यस्तुशब्दोनारायण एवानिरुक्तशब्दस्य विशेषद्योतनार्थः । द्वितीयस्त्ववधारणार्थः । आत्महकार इत्युक्तेः पुनर्ग्रहणं कथमित्यतोव्याप्त इत्युक्तम्‌ । तेन पूर्वोक्तः क्षत्रज्ञ इति लभ्यते । यच्छब्दश्रवणशत्तच्छब्दलाभः । अहूत एव पातीति हुबितिनामधेयं स्यान्नतुहुप्कार इतीत्यत आह ॥ हुबित्याक्रियत इति ॥ नारायणेऽनिरुक्तशब्दं निर्वक्ति ॥ अनिरुक्त इति ॥ अवाच्यत्वात्साकल्येन वक्तुमशक्यत्वात्‌ । संचरशब्दस्य प्रमाणेनाव्याख्यातत्वात्तस्यान्यपरत्वप्रतीतिनिरासाय तं व्याचष्ये ॥ सम्यगिति ॥ स एव हरिरेव । ततश्ऱ्चयं खण्डार्थः ॥ अयं पृथिवीलोकस्तदभिमानीहावुकारः हूयतेऽत्राग्निहोत्रादीति हाव्वित्युच्यते । हाव्वित्याक्रियमाणत्वाद्धवुकारः । वायुर्मुख्यवायुर्हायिकारः हेत्याश्ऱ्चर्ये । आश्ऱ्चर्यवदायातीति हायीत्युच्यते । अथवा हेति सुखमुच्यते । तदापयतिसुखकर्तेति यावत्‌ । तस्माद्धायीत्युच्यते । कारप्रत्ययार्थः पूर्ववत्‌ । चन्द्रमा अथकारः । चन्द्रप्रकाशस्य सूर्यप्रकाशानन्तर्यात्‌ । आत्माक्षेत्रज्ञोविष्णुरिहकारः । सर्वसामीप्यात्‌ । अग्निरीकारः इन्धनात्‌ ॥ 1 ॥ आदित्य ऊकारः उष्यितः आतपदाहात्‌ । निररामाह्वयन्त्येनमिति निहवनामक इन्द्रएकारः । एतीति हेतोः । विश्ऱ्वदेवा औहोयिकारः । उच्चत्वाद्विष्णुरुःप्रोक्तः तस्य सप्तमी औ इति । औविष्णौ हूयन्ते मुक्ताविति औहोयिन इत्युच्यन्ते । प्रजापतिः हिकारः । निश्ऱ्चयज्ञानरूपत्वात्‌ । प्राणः शरीरगोवायुः स्वरः स्वेविष्णौ जीवं रमयतीति स्वरनामकः । अन्नमन्नाभिमानिनीसरस्वती याया नित्यगतेः वायुर्ययिरित्युच्यते । तद्गतत्वाद्यायेत्युच्यते । यात्रानियन्त्राप्राणेन नीयत इति वायायेत्युच्यते । वाक्‌ सवर्वागभिमानिनीश्रीः विराट्‌ विशेषेणराजनाद्विराडुक्ता । अनिरुक्तः साकल्येन विर्वक्तुमशक्यत्वादनिरुक्तनामकः । संचरःसम्यक्‌ चरतीति संचरनामकोव्याप्तोनारायण स्त्रयोदशः स्तोभः । कोसौहुप्‌कारः आहूत एव पातीति हुप्‌ । हुबित्यनेनाक्रियमाणत्वादित्यर्थः । एवं वेत्तुः फलमाह ॥ दुग्ध इति ॥ व्याख्यातमेतत्‌ । विद्यार्थस्य सर्वाध्यायार्थस्य वा अवधारणार्थाद्विरुक्तिः ॥ 3 ॥ त्रयोदशः खण्डः ॥ 13 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य च्छान्दोग्योपनिषद्भाष्यस्य टीकायां
श्रीमद्वेदव्यासतीर्थपूज्यपादशिष्यवेदेशभिक्षुविरचितायां पदार्थकौमुद्यां प्रथमोऽध्यायः ॥ 1 ॥

*******************************************************************************************

द्वितीयोऽध्यायः

श्रीमद्धनुमद्भीममध्वान्तर्गतराकृष्णवेदव्यासात्मक लक्ष्मीहयग्रीवाय नमः ॥ ॐ ॥
प्रत्युम्नादिस्वरूपेणहिंकाराद्यभिधं परम्‌ ॥
समस्तसामगं वन्दे सामनामानमीश्ऱ्वरम्‌ ॥
सामैकदेशोद्गीथस्तोभनिष्ठामुपास्तिमुक्त्वापंचभक्तिकसप्तभक्तिकसमस्तसामनिष्ठामुपास्तिमाहानेनाध्यायेन । तत्र समस्तस्यैव सामन उपासनं कर्तव्यमिति भावेनैतत्‌ स्तौति ॥ समस्तस्येति प्रथमखण्डेन ॥ तत्रादिवाक्यं समस्तस्य साम्नः सामवेदस्योपासनं पठनादिसाध्वित्युच्यत इति प्रतीतिनिरासाय व्याचष्ये ॥ समस्तस्येति ॥ साधुशोभनमित्यर्थः । साधुत्वं कथं सामशब्दप्रवृत्तिनिमित्तमित्यतः साधुसामशब्दयोरेकाथर्त्वादिति भावेन तदुभयं निर्वक्ति ॥ सारत्वेनेति ॥ सेत्यस्य सारत्ववाचकत्वादित्यर्थः । अनेन यत्खलुसाधुतत्सामेत्याचक्षत इति श्रुतौ यत्साधुसामशब्दयोः पर्यायत्वमुक्तं तद्विवृतं भवति । समस्तस्य खलुसाम्न इत्युपक्रमवाक्यस्योक्त एवार्थ इति भावेन सय एतदेवं विद्वान्‌ साधुसमेत्युपास्तेऽभ्याशोहयदेनं साधवोधर्मा आचगच्छेयुरित्युपसंहारवाक्यं व्याचष्ये ॥ साधुत्वादिति ॥ सर्वसाम्नां देवतेति सामनामानमिति सामशब्दस्यार्थान्तरम्‌ ॥ ततश्ऱ्चयं खण्डार्थः ॥ समस्तस्य पूर्णस्य खलुवै साम्नः सामनाम्नो विष्णोः उपासनं साधु कःसमशब्दार्थः । यद्विशिष्यतया भगवदुपासनं साध्वित्यतः साधुत्वमेवसामशब्दार्थः । साधुसामशब्दयोः पर्यायत्वादिति भावेन तयोः पर्यायत्वं वृद्धप्रयोगेण समर्थयते ॥ यत्खल्विति ॥ यत्खलुसाधु तत्सामेत्याचक्षते विद्वांसः । यदसाधु तदसाकेत्याक्षते । अतस्तयोः पर्यायत्वमिति भावः ॥ 1 ॥ ननु विद्वांसोप्येवं किमर्थमाचक्षत इत्यतस्तत्रापि मूलभूतप्रयोगदर्शनादित्याह ॥ तदुतेति ॥ तदुततत्रैवसाधुसामशब्दयोरेकार्थत्व एवान्येपि विद्वांस आहुः । किमाहुरित्यत आह ॥ साम्नेति ॥ साम्नैनं भगवन्तमुपागादिति मन्त्रोयदाहतत्साधुनैनमुपागादित्येवाहेत्याहुः । असाम्नैनमुपागादिति मन्त्रो यदा हतदसाधुनैनमुपागादित्येवाहेत्याहुः । एवंच सामासामशब्दयोः साधुत्वासाधुत्व?र्थकत्वेन व्याख्यानात्साधुसामशब्दयोरेकार्थत्वमिति भावः ॥ 2 ॥ तत्रैव वृद्धान्तराणामपि प्रयोगं दर्शयति ॥ अथेति ॥ अथशब्दः पूर्वप्रयोगविच्छेदप्रदर्शकः । अप्युत अपिचाहुः । प्रकारान्तरेणापि ज्ञानिन आहुरित्यर्थः । सामनोस्माकं बत भवेदिति मन्त्रोयत्‌ यस्मात्‌ सामशब्दार्थः साधुभवति तत्तस्मात्साधुबतेत्येवाहेत्याहुः । असामनोबतेति मन्त्रोयद्यस्मात्‌ असाधु असामशब्दार्थो भवति तत्तस्मादसाधुबतेत्येवाहेत्याहुः । अत्रापि सामासामशब्दयोस्साधुत्वसाधुत्वार्थकत्वेन व्याख्यानात्साधुसामशब्दयोः पर्यायत्वमिति भावः । एवं साधुत्वार्थकसामनामकत्वेन भगवदुपासकस्य फलमाह ॥ सय इति ॥ स प्रसिद्धो योधिकारी एतत्समस्तं सामैवं साधुत्वेन सामनामकतया विद्वान्साधुसामेत्युपास्ते एनमुपासकं प्रति साधबोधर्मा आगच्छेयुश्ऱ्च उपचनमेयुरचंचलास्तिष्ठन्ति । उपनमेयुश्ऱ्चभोग्यत्वेनोपतिष्ठन्तीति वा । प्रथमः खण्डः ॥ 1 ॥ लोकेषु पञ्चभक्तिकसामप्रतिपाद्यस्य भगवत उपास्तिमाह ॥ लोकेष्वित्यादिना ॥ अत्र पृथिवी हिंकार इत्यादिनासामानाधिकरण्येन पृथिव्यादीनां हिंकाराद्यभेदः प्रतीयते । तदयुक्तम्‌ । हिंकारादेः शब्दत्वेन पृथिव्यादित्वानुपपत्तेः । अत्र संकरः पृथिवीदृष्यया पृथिवी हिंकार इत्युपासीतेति व्याख्येयमित्याह । तदसत्‌ । लोकेषु पञ्चविधं सामोपासीतेति प्रक्रमविरोधात्‌ । नचोत्तरवाक्यानुसोणलोकेष्वित्यस्यापि प्रथमात्वेन विपरिणामः । पञ्चविधं सामेत्यस्य द्वितीयान्तत्वेन लोका इत्यनेन सामानाधिकरण्यायोगेनानन्वयप्रसंगात्‌ । इतिशब्दकल्पनेचाश्रुतकल्पनाप्रसंगात्‌ । हिकारादौपृथिव्यादिदृष्येः मिथ्यादृष्यित्वेनानर्थहेतु त्वस्य वक्ष्यमाणत्वाच्च । अतोत्र सर्वत्र भगवदुपासनमेव कथ्यत इति भावेन खण्डं प्रमाणेनैव व्याचक्षाणस्तावदत्र बहुषु खण्डेषु सतां हिंकारप्रस्तावोद्गीथप्रतिहारनिधनशब्दानामर्थमाह ॥ नारायणाख्य इत्यादिना ॥ अवतारक्रमानुसरणषन श्रुतिक्रमोल्लंघनम्‌ । उद्गेय उच्चतयागातुं योग्यः । उद्गीथशब्दस्यार्थान्तरमाह ॥ उद्गच्छन्तीति ॥ प्रस्तावशब्दार्थमाह ॥ वासुदेव एव प्रस्तावः । संकर्षण एव निदनमिति सम्बन्धः । तेन परोक्तार्थनिरासः । तत्र तं शब्दं व्युत्पादयति ॥ संकर्षण इति ॥ निधनशब्दश्ऱ्चसंहर्तृत्वार्थक इति भावः । हिंकारशब्दार्थमाह ॥ प्रद्युम्न इति ॥ हीति कथं सृष्यिरुदीर्यत इत्यत उक्तं प्रसिद्धताहीति । प्रसिद्धताखलुहिशब्दार्थः । सृष्यिश्ऱ्चप्रागसिद्धानां प्रसिद्धतैव । अतोहीति सृष्यिरुदीर्यते । तथाच हिंसृष्यिं करोतीति व्युत्पत्त्यासृष्यिकर्ताप्रद्युम्नोहिंकार इति प्रोक्त इति भावः । प्रतिहारशब्दार्थमाह ॥ अनिरुद्ध इति ॥ सहि प्रतिप्रतिकार्येष्विदं जगद्धरेदित्यनेन स्थितिकर्तृत्वमुच्यते । मूतिर्प्रतिहृतेः स्वमूर्तीनां स्वात्मन्येकीकरणादिति प्रतिहारशब्द्यार्थान्तरम्‌ । तथाशब्दः समुच्चये । अस्त्वेवं हिंकारादिनामकरो भगवान्‌ तथापि पृथिवी हिंकार इत्यादिनोक्तं पृथिव्याद्यात्मकत्वं कथं तस्येत्यतः खण्डं व्याचष्ये ॥ तेपृथिव्यादिष्विति ॥ ते प्रद्युम्नाद्याः । अनेन पृथिवी हिंकार इत्यादौ पृथिव्यादिशब्दाः लोकेष्वित्युपक्रमानुसारेण सप्तम्यर्था इत्युक्तं भवति । अनन्वयपरिहारायप्रतिष्ति इति शेषोक्तिः । तन्नामान इत्यनेन पृथिव्यादिशब्दानां प्रथमांतत्वेपि नानुपपत्तिरिति सूचितम्‌ । पृथिव्यादिषुस्थितेः प्रद्युम्नाद्याः पृथिव्यादिनामान इत्युक्ते पृथिव्यादय एव तच्छब्दमुख्याथर्ाः भगवन्मूर्तयस्तुतत्सम्बन्धत्पृथिव्यादिनामिका इति प्रतीतावाह ॥ पृथिवीत्यादीति ॥ ते प्रद्युम्नाद्याः । के पृथिव्यादिशब्दार्था ये भगवति मुख्या अन्यमिख्या इत्यतः पृथिव्यादिशब्दान्निर्वक्ति ॥ प्रथनादिति ॥ चशब्दोवधाणार्थ उत्तरत्रसम्बध्यते । अग्न्यत्वादितिनमित्तान्तरसमुच्चयेवा । अन्तरीक्षणयोगत अन्तरिक्षमितीर्यत इति सम्बन्धः । अन्तरीक्षणं किं परोक्षेण नेत्युक्तम्‌ ॥ अभावाद्वयवधानस्येति ॥ आयुषश्ऱ्चेति चशब्दोरससमुच्चयार्थः । कारणत्वाच्चेति चशब्दोवधारणार्थः । कल्पन्ते हास्मैलोका ऊर्ध्वाश्ऱ्चावृत्ताश्ऱ्चेत्यत्र लोकानामेवाभीष्यकल्पकत्वमुच्यत इति प्रतीतिनिरासाय प्रमाणेनैव तद्वयाचष्ये ॥ पञ्चात्मकमिति ॥ मोक्षादिकमभीष्यमिति शेषोक्तिः ॥ ततश्ऱ्चायं खण्डः ॥ लोकषु पृथिव्यादिषु पञ्चविधाहिंकाराद्याः यस्य तत्पञ्चविधं सामसामनामकं ब्रह्मोपासीत । कुत्र कस्योपानं कर्तव्यमित्यतस्तद्विशदमाह ॥ पृथिवीत्यादिना ॥ हिंकारः सृष्यिकर्तृत्वाद्धिंकारनामकः तन्नामकसामभक्तिप्रतिपाद्यः प्रद्युम्नः पृथिवी सत्यादेः प्रथनात्पृथिवीनामकः पृथिव्यांस्थितश्ऱ्च । प्रस्तावः प्रथमावताररूपत्वात्प्रस्तावनामकः प्रस्तावरूपसामभतिक्तप्रतिपाद्योवासुदेवो ग्निः अदनादग्निनामकोग्निस्थश्ऱ्च । उद्गीथः प्रणवेनोद्गेयत्वाद्वासुदिवादिमूर्त्युद्गमावधित्वाद्वोद्गथनामोद्गीथाख्यसामभक्तिप्रतिपाद्यो नारायणोन्तरिक्षं अन्तरिक्षनामकोन्तरिक्षस्थश्ऱ्च । प्रतिहारः कार्येषु जगतः प्रतिप्रतिहरणान्नित्यं मूर्तिप्रतिहृतेर्वा प्रतिहारनामकः प्रतिहारूपसामभक्तिप्रतिपाद्यो अनिरुद्ध आदित्य आयुष आदानादादित्यनामाऽऽदित्यस्थश्ऱ्च । निधनं संहेरान्निधननामानिधनाख्यसामभक्तिप्रपाद्यः संकर्षणो द्यौः क्रीडाकारणत्वाद्दयुनामाद्युस्थश्ऱ्च । इत्युक्तप्रकारेणोर्ध्वेषु उत्तरोत्तरेषु लोकेषु पञ्चविधं सामोपासीतेत्यन्वयः ॥ 1 ॥ अथावृत्तेषु प्रतिलोमेषु लोकेषु पञ्चविधं सामोपासीत । तदेवविशदयति ॥ द्यौरित्यादिना ॥ योजना तु पूर्ववदेव ॥ 2 ॥ एवं ज्ञात्वोपासकस्य फलमाह ॥ कल्पन्त इति ॥ योधिकारी एतत्प्रद्युम्नादिरूपं पञ्चविधसामनामकं ब्रह्मैव मुक्तरीत्याविद्वांल्लोहकेषूर्ध्वेष्वावृत्तेषु च पञ्चविधं सामोपास्ते अस्मा अस्योपासकस्याभीष्यमिति शेषः ॥ ऊर्ध्वाश्ऱ्चावृत्ताश्ऱ्चोर्ध्वाधः संस्थितालोकाः प्रकाशरूपत्वाल्लोकनामानः प्रद्युम्नाद्याः पञ्चैव दशमूर्तयः कल्पन्ते कल्पयन्तीत्यर्थः ॥ 3 ॥ द्वितीयः खण्डः ॥ 2 ॥

एवं लोकेषु पञ्चविधभगवदुपास्तिमुक्त्वालोकस्थितेः वृष्यिनिमित्तकत्वाद्वृष्यौ पञ्चविधभगवदुपास्तिः कर्तव्येत्याह ॥ वृष्याविति ॥ अयमपिखण्डो भगवत्पर एवेति ज्ञापनाय वर्षतिहास्मा इत्यादिफलवाक्यं प्रमाणेनैव व्याचष्ये ॥ पञ्चरूपमिति ॥ वर्षतीत्यस्यार्थोवृष्यिरसन्मैस्यादिति । वर्षयतीत्यस्य कमर्ानुक्तेः मुक्तिगान्सर्वभोगानित्युक्तम्‌ । वर्षयति चेति च शब्दान्वयः । मुक्तिगांश्ऱ्चेति वा ॥ अत्र खण्डार्थः पूर्वोक्तरीत्यास्पष्यः । एवमुत्तरपि । अस्पष्यांशस्तुव्याख्यास्यते । अत्र पुरोवातादिशब्दनां भगवति व्युत्पत्तिः प्रमाणान्तरेण द्रष्यव्या ॥ तृतीयः खण्डः ॥ 3 ॥ एवं वृष्यौपञ्चविधभगवदुपास्तिमभिधायवृष्यिपूर्वकत्वात्सर्वासामपां तत्र भगवदुपास्ति कर्तव्यतामाह ॥ सर्वास्विति ॥ अयमपि खण्डोभगवत्पर इति ज्ञापनाय न हाप्सुप्रैत्यप्सुमान्भवतीति फलवाक्यं प्रमाणेनैव व्याचष्ये ॥ अप्स्विति ॥ पञ्चविधस्य भगवत उपासास्यास्तीति तथोक्तः । अप्सुमानित्यस्यार्थो नारायणवानिति । न हाप्सुप्रैतीत्यस्यार्थो न चेति । तत्र हेतुरप्सुषदिति । यद्वाऽप्सुमानित्येतन्नारायणवानिति व्याख्यातम्‌ । तत्कथं शब्दतोलब्धमित्यत आह ॥ अप्सुषदिति ॥ यतो भगवान्‌ हरिरप्सुषदतोप्सुमानित्यस्य नारायणवानि व्याख्यानमुपपन्नमित्यर्थः । नन्वेवमप्सुषद्वानिति स्यान्नत्वप्सुमानितीत्यतो मध्यमपदलोपि समासोयमित्याह ॥ अप्सुस्थितनारायणवानिति ॥ नन्वन्तर्यामितयानारायणवत्त्वं सर्वसाधारणमिति कथमिदमुपासनफलमित्यतस्तदर्थमाह ॥ मुक्त इति ॥ नन्वप्सुमानित्यत्राप्स्वित्यस्य सप्तम्यन्तत्वात्कथं समासः । समासेतु अम्मा नित्येव प्रयोगापत्तेरिति चेत्‌ । न । सप्तम्या अलुक्त्वागींकारात्‌ । अथवानाप्स्वित्येतत्‌ सप्तम्यन्तम्‌ । येनालुक्त्वं मध्यमपदलोपोवाश्रयणीयः । किन्तु योगेन भगवद्वाचकमिति पक्षान्तरमाह ॥ अप इति ॥ तद्वानप्सुमानिति योज्यम्‌ । एवं तर्ह्यप्सुमानिति दीर्घः स्यादित्यत उक्तम्‌ ॥ दीर्घलोकेनेति ॥ छान्दसत्वादिति भावः ॥ खं0 ॥ 4 ॥ सर्वासामपामुत्पत्त्यादि ऋत्वधीनमिति ऋतुषु भगवदुपास्तिकर्तव्यतामाह ॥ ऋतुष्विति ॥ ननु ऋतूनां षट्‌त्वान्मूर्तीनां पञ्चत्वात्कथमृतुषु पञ्चविधमित्युक्तिरित्यत आह ॥ हेमन्तेति ॥ ऐक्येनैक्यविवक्षया । अयमपिखण्डो भगवत्पर इति ज्ञापनाय पूर्ववत्कल्पन्ते हास्माऋतवोऋतुमान्भवतीत्यादि फलवाक्यं प्रमाणेन व्याचष्ये ॥ ऋतुनामानमिति ॥ ऋतुत्वात्‌ ऋतूनां ऋतुत्वप्रदत्वादित्यर्थः । सर्वशास्त्रवागतत्वादिति वाथर्ः । अमुष्य विष्णोः । पञ्चात्मानं पञ्चस्वरूपम्‌ । कल्पन्ते हास्माऋतव इत्यत्र मोक्षादीनिति शेषोक्तिः । कल्पतेदातुं समर्थो भवति । अस्योपासकसस्यत्यनेनास्मा इति चतुर्थीषष्ठर्येत्युक्तं भवति । प्रसिद्धर्तुमत्त्वमृतुनामक भगवद्वत्त्वं वासर्वसाधारणमिति कथमिदं फलमित्यत उक्तम्‌ ॥ रक्ष्यत्वादिति ॥ हिंकारादिनामकप्रद्युम्नादीनां वसन्ताद्यभेदोभिधीयत इति भ्रान्तिनिरासाय भगवति वसन्तादिशब्दनिर्वचनपरं प्रमाणमेवोदाहरति ॥ वासस्येति ॥ स्ववास्य जीवसुखकारित्वादित्यर्थः । वसतेः पचाद्यच्‌ वसतीति वसः तनोतेरौणादिकोडप्रत्ययः । तनोतीतितः । वर्णागमोवर्णविपर्ययश्ऱ्चेत्यादिना पूर्वपदस्य नकारागमः । नीरादेरित्येतस्य वर्षणादित्यनेनापि सम्बन्धः । रातिददाति । रादान इत्यतोडत्‌ । हिमन्तनोतीति हेमन्तः ॥ पञ्चमः खण्डः ॥ 5 ॥ ऋतुषु सम्यग्वृत्तेषु पशवोपि सम्यगवस्थिता इति पशुषु भगवदुपास्तिः कर्तव्येत्याह ॥ पशुष्विति ॥ अयमपि खण्डो भगवत्पर इति ज्ञापनाय भवन्ति हास्य पशवः पशुमान्‌ भवतीति फलवाक्येन पुनरुक्तिपरिहाराय पशुमानित्येतत्तावत्प्रमाणेनैव व्याचष्ये ॥ पालनादिति ॥ पालनात्पःसुखरूपत्वाच्छुः उकारस्ताच्छील्यार्थः । अतिप्रसंगवारणशयतद्वानित्यस्य व्याख्यानं मुक्त इति ॥ हिंकारादिनामकप्रद्युम्नादीनामजादिपश्ऱ्वभेद उच्यत इति भ्रान्तिनिरासायाजादिशब्दनिर्वचनपरं प्रमाणमेवोदहरति ॥ यज्ञेनेति ॥ अजस्थो भगवान ज इत्यक्तः । यज्ञेन यज्ञद्वारासद्गतिहेतुत्वादित्यर्थः । अजगतौ क्षेपणेचेति धातुः । गतिपूजाथर्स्यां चुधातोश्ऱ्चकारस्य स्ववर्गतृतीयजकारादेशेऽनुस्वारस्य च लोपेच यति प्रवर्तत इति यज्ञेन पूजनेनेति यमेनां च न हेतुत्वादजस्थो भगवान ज इत्यर्थः । यजधातोः यकारलोपेऽज इति भवति । तथाच यजत्यनेनेति यज्ञेनां च न हेतुत्वादज इति वार्थ इत्याहुः । अविस्थ एवेति सम्बन्धः । अवनात्सर्वरक्षणादविरुक्तः । अविस्थस्य कथं रक्षकत्वमित्यत उक्तम्‌ ॥ ऊर्णयेति ॥ कं बलादिनाशीततोरक्षणादित्यर्थः । आशुगन्तृत्वादेवेति सम्बन्धः ॥ पुरुष इति ॥ नच पशुष्वित्युपक्रम्यपुरुषोनिधनमिति कथमुच्यते । पुरुषस्यापशुत्वादिति वाच्यम्‌ । यज्ञविशेषेतस्यापि पशुत्वमभिप्रेत्यतथोक्तेः । ननु पशुमानित्यस्य पशुनामकभगवद्वानित्यर्थत्वेपि भवन्ति हास्यपशव इत्यनेन पुनरुक्तिः स्यादेव । तस्यापि तदथर्कत्वप्रतीतेरित्यात आह ॥ भवन्तीति ॥ एवंच भिन्नार्थकत्वान्नपुनरुक्तिरिति भावः । नन्वजादिशब्दानां भगवद्वाचकत्वेऽजा इत्यादिबहुवचनानुपपत्तिः । एकमेवाद्वितीयमिति श्रुत्याभगवत एकत्वावगमादित्यत आह ॥ अजा इत्यादीति ॥ उपपद्यत इति शेषः ॥ षष्ठः खण्डः ॥ 6 ॥ एवं पशुषु भगवदुपास्तिमुक्त्वेन्द्रियाणां पशुपुरुषाश्रितत्वादिन्द्रियेषु पञ्चविध भगवदुपास्तिकर्तव्यतामाह ॥ प्राणोष्विति ॥ अत्र परोवरीयः सामोपासीतेत्यत्र परोवरीयः शब्दस्य विवक्षितमर्थं प्रमाणेनाह ॥ परस्मादिति ॥ परस्मादुत्तमं परो इति प्रोक्तम्‌ । उकारस्योत्तमार्थत्वात्‌ ततः परंम्परोवरमिति प्रोक्तम्‌ । वरशब्दस्यापि तथात्वात्‌ । तस्मात्परम्परोवरीयकमिति प्रोक्तम्‌ । अनयोः मध्ये इदमतिशयेन परोवररं परोवरीयः । परोवरीय एव पारोवरीयकमित्यर्थः । यद्यप्यधिकं वरीयान्परोवरीयानिति पूर्वं व्याख्यातम्‌ । तथापि तत्र संमुग्धतयास्वेनैव व्याख्यातमत्रतुवर्णार्थकथनपुरःसरं प्रमाणेन व्याख्यातमिति भेदः । भिन्नभिन्नाधिष्ठानेषु स्थितानां प्रद्युम्नादिरूपाणां नीचोच्चभावोनमन्तव्य इति भावेन प्रवृत्तं परोवरीयांसिवा एतानीति वाक्यं हिंकारादिसामभक्तीनां परोवरीयस्त्वमुच्यत इति प्रतीतिनिरासाय व्याचष्ये ॥ परोवरीयांसीति ॥ एतानीत्यनेन न प्राणस्थपञ्चरूपाणामेव परामर्शः । किन्तु लोकादिस्थानामपीति भावेन सर्वश इत्युक्तम्‌ । श्रुतौ वैशब्दश्रवणात्परोवरीयांसीति सावधारणम्‌ । अत एव तद्वयावत्यर्माह ॥ तेषामिति ॥ तत्र हेतुमाह ॥ सदेति ॥ सदेत्यस्य पूर्वत्रापि सम्बन्धः । ननु समत्वेपरोरीयस्त्वं कथमित्यत स्तेषां परस्परं समत्वेप्यन्यस्मात्परोवरीयस्त्वमुपपद्यत इत्याह ॥ अत्युत्तमेति ॥ हिंकारादिनामकप्रद्युम्नादेः प्राणद्यभेदः कथ्यत इति प्रतीतिनिरासाय भगवतिप्राणादिशब्दप्रवृत्तिं प्रमाणेन दर्शयति ॥ प्राण इति ॥ अस्य प्रमाणप्रमितस्य सर्वस्य मन्तृत्वतः नेतृत्वत इत्यादावप्यस्य सम्बन्धः । ननु परोवरीयोहास्य भवतीति फलवाक्येपरोवरीयः शब्दोमोक्षादिफलपरोंगीकार्यः । तत्कथं पूर्वं भगवत्परत्वमंगीक्रियते नह्येकस्मिन्नेव प्रकरणे श्रुतस्येकस्यैव शब्दस्यार्थद्वयकल्पनं युक्तमित्यत आह ॥ परोवरीय इति ॥ ननु परोक्तरीत्यापरोवरीयोहास्य जीवनं भवतीति कुतो न व्याख्यातम्‌ । श्रुतावपि पूर्वं ततोक्तत्वादिचेत्‌ । न । अस्मिन्प्रकरणेऽप्सुमान्भवति ऋतमान्भवतिपशुमान्भवतीति भगवद्वत्त्वस्यैव फलत्वेनोक्तत्वात्‌ । जीवन शब्दाध्याहारप्रसंगाच्च । ब्रह्मवत्त्वमतिप्रसक्तं कथं फलमित्यत आह ॥ सर्वेति ॥ स उपासकः परोवरीयसोधिकं वरीयसोलोकान्‌ वैकुण्ठानन्तासनश्ऱ्वेतद्वीपाख्यान्‌ जयति प्राप्नोति । उपसंहरति ॥ इतित्विति ॥ इत्येवं प्रकारेण पञ्चविधस्य पञ्चरूपस्य भगवत उपास्तिरुक्तेति शेषः ॥ सप्तमः खण्डः ॥ 7 ॥ एवं पञ्चविध भगवदुपास्तिमुक्त्वासप्तविध भगवदुपास्तिमाह ॥ अथेत्यादिखण्डयेण ॥ हिंकारप्रस्तावोद्गीथप्रतिहारनिधननामकभगवन्मूर्तविशषस्य निरूपितत्वात्‌ अत्राधिक्येनोक्ते आद्युपद्रवनामकेमूतर्ीप्रमाणेनाह ॥ आदिरिति ॥ हिंकारादिनामकप्रद्युम्नादीनां हुंकाराद्यभेद उच्यत इति प्रतीतिनिरासाय यत्किंचवाचोहुमिति सहिंकार इत्यादिवाक्यंव्याचष्ये ॥ हुंकारोति ॥ एतेन हुंप्रत्यादिशब्दाहुंकारादिमात्रपरा इत्यपि परास्तम्‌ । तथासति वाचिसप्तविधं सामोपासतेति प्रतिज्ञार्थासिद्धेः । यदेति स आदिरिति वाक्यं व्याचष्ये ॥ आकारेति ॥ वाक्येस्थित इत्यनुवर्तते । यत्प्रेतिसप्रस्ताव इत्येतद्वयचष्ये ॥ वासुदेव इति ॥ यदुदिति स उद्गीथ इत्येतद्वाचष्ये ॥ नारायण इति ॥ उदित्यनेन युक्तेवाक्ये । यत्प्रतीति सप्रतिहार इति वाक्यं व्याचष्ये ॥ प्रतियुक्त इति ॥ यदुपेति स उपद्रव इत्येतद्वयाचष्ये ॥ उपयुक्त इति ॥ यन्नीति तन्निदानमित्यस्यार्थमाह ॥ नीतीति ॥ नीति युक्ते । ननु यस्मिन्वाक्ये हुंकारादयोनसन्ति तद्वाक्यं किं दैवतमित्यत आह ॥ अभाव इति ॥ हुंकारादिष्वेकमुपक्रम्यमध्येहुंकरादिष्वेकोक्त्यभावेयावदेतेहुंकारादयः स्युस्तावद्वाक्यं तद्दैवतमुपक्रान्तदैवतं स्मृतमित्यर्थः । दुग्धेस्मैवाग्दोहमिति फलवाक्यं केवलावागेवकामदोग्ध्रीति प्रतीतिनिरासाय व्याचष्ये ॥ एवमिति ॥ अष्यमः खण्डः ॥ 8 ॥ अथ पञ्चविधभगवदुपास्तिकथनानन्तरम्‌ सप्तविधस्य भगवत उपास्तिः कथ्यत इति शेषः । तत्रदौ शब्दसमूहेसप्तविधभगवदुपास्तिमाह ॥ वाचीति ॥ वाचिशब्दसमूहे सप्तविधं साम सामनामकं ब्रह्मोपासीत । कथं हिंकारः प्रद्युम्नः सकः यत्किंचवाचोहुं इति । हुंकारसहितं यद्वाक्यं तत्रस्थित इत्यथर्ः । प्रस्वोवासुदेवः सकः ॥ यत्प्रेति ॥ प्रशब्दोपेतं यद्वाक्यं तत्रस्थित इत्यर्थः । आदिःकल्पादिहेतुत्वादादिनामादीति सामभक्तिप्रतिपाद्योवराहः । सकः ॥ यदेति ॥ आकारयुक्तं यद्वाक्यं तत्रस्थित इत्यर्थः ॥ 1 ॥ उद्गीथोनारायणः सकः ॥ यदुदिति ॥ उच्छब्दयुक्तं यद्वाक्यं तत्रस्थित इत्यर्थः । प्रतिहारोनिरुद्धः सकः ॥ यत्प्रतीति ॥ प्रतिशब्दयुक्तं यद्वाक्यं तत्रस्थित इत्यर्थः । उपद्रवोदुष्योपद्रवकर्तृत्वादुपद्रवनामोपद्रवाख्यसामभक्तिप्रपाद्योनृसिंहः सकः ॥ यदुपेति ॥ उपशब्दयुक्तं यद्वाक्यं तत्रस्थित इत्यर्थः । निधनं संकर्षणाख्यां रूपं तत्‌ किम्‌ ॥ यन्नीति ॥ निशब्दयुक्तं यद्वाक्यं तत्रस्थित इत्यर्थः ॥ 2 ॥ एवमुपासकस्य फलमाह ॥ दुग्ध इति ॥ योधिकारी एतत्सप्तविधं ब्रह्मैवं वाचिस्थितत्वेन विद्वान्वाचिसप्तविधं सामोपास्तेऽस्मै अस्योपसाकस्य वाक्‌ वाङ्‌नामा भगवान्‌ । योवाचोदोहः फलरूपोमोक्षादिस्तं दोहं दुग्धेस उपासको अन्नवान्‌ भवति । न केवलमन्नवानेव । किन्त्वन्नादश्ऱ्च भवति ॥ अष्यमः खण्डः ॥ 8 ॥ आदित्येसप्तविधसामनामकभगवदुपास्तिमाह ॥ अथखल्वित्यादिना ॥ अत्र प्रसिद्धादित्यस्यैव सप्तविधत्वेनोपास्तिरुच्यत इत्यसत्‌ । तस्य सर्वदासमत्वसर्वभूताश्रयत्वाद्यनुपपत्तेरिति भावेनखण्डं प्रमाणेन भगवत्परतया व्याचष्ये ॥ आदित्यस्थमिति ॥ अनेन प्रथमवाक्यं व्याख्यातम्‌ । सप्तरूपाणावैचित्ऱ्याशंकानिरासाय सामशब्दनिर्वचनपरं सर्वदासमस्तेन सामेति वाक्यं व्याचष्ये ॥ सामचेति ॥ प्रकारान्तरेणसामशब्दनिर्वचनपरं मां प्रति मां प्रतीतिसर्वेण समस्तेन सामेति वाक्यं व्याचष्ये ॥ सर्वेषामिति ॥ अनेन सर्वेणेति तृतीयाषष्ठयर्थेत्युक्तं भवति । दृष्यिप्रकारदौर्लभ्यव्यावर्तनायैवशब्दः । दृष्यिविषयत्वसाम्यादित्यर्थः । नन्वादित्यस्थस्य विष्णोरप्रत्यक्षत्वात्कथं तत्र सर्वदृष्यिसाम्यमित्यत आह ॥ दृष्यिति ॥ तर्हि मण्डल एव सामशब्दवृत्तिः स्यान्नविष्णावित्यत आह ॥ विष्णुरिति ॥ दृष्यिसाम्यकारणत्वमेव विष्णौ सामशब्दप्रवृत्तिनिमित्तमिति भावः । यद्वा दृष्यिसाम्यमेव सामशब्दप्रवृत्तिनित्तम्‌ । तत्कारणेच तन्निमित्तकः शब्दोमुख्यः । राजनिजयिशब्दवदिति तात्पर्यम्‌ । तस्मिन्निमानि सर्वाणीति वाक्यं व्याचष्ये ॥ तस्मिन्निति ॥ आश्रितान्येवेति सम्बन्धः । तस्य यत्पुरोदयात्सहिंकार इति वाक्यं व्याचष्ये ॥ पश्ऱ्वाधार इति ॥ असावात्माप्रद्युम्ननामनामकस्तदोदयपूर्वकालेपश्ऱ्वाधार इत्यर्थः । अथयत्प्रथमोदिते सप्रस्ताव इत्येतद्वयाचष्ये ॥ वासुदेव इति ॥तथाशब्द उपमायाम्‌ । उदये तिष्ठतीति शेषः । तदस्यमनुष्या अन्वायत्ता इत्यस्यार्थमाह ॥ आश्रयश्ऱ्चेति ॥ न केवलं तिष्ठति किन्त्वाश्रयश्ऱ्चति चशब्दः । तत्र तदा । अथ यत्संगववेलायां स आदिरित्यस्यार्थमाह ॥ वराह इति ॥ तिष्ठतीति शेषः । सर्वरूपाणां सर्वत्र सत्त्वेन कथमेतदित्यतः सन्निदानविशेषाभिप्रायेणेति भावेन तुशब्दः । तदस्यव यांस्यन्वायत्तानीति वाक्यं व्याचष्ये ॥ सः ॥ तत्रेति ॥ सवराहात्मविष्णुः । अथ यत्संप्रतिमध्यन्दिने स उद्गीथ इत्यस्यार्थमाह ॥ तथेति ॥ मध्यन्दिनेतिष्ठतीति शेषः । तदस्य देवा अनन्वायत्ता इत्यस्यार्थमाह ॥ स आधार इति ॥
अथ यदूर्ध्वं मध्यन्दिनात्प्रागपराह्णात्साप्रतिहार इति वाक्यं व्याचष्ये ॥ तत इति ॥ ततो मध्यन्दिनात्परमपराह्णपर्यन्तमित्यर्थः । अनिरुद्धस्थिष्ठति । तदस्य गर्भा अन्वायत्ता इत्यस्यार्थमाह ॥ स इति ॥ अथ यदूर्ध्वमपराह्णात्प्रागस्तमायात्स उपद्रव इति वाक्यं व्याचष्ये ॥ तत इति ॥ ततो पराह्णात्परमस्तमयपर्यन्तमित्यर्थः । नृसिंसाख्योविष्णुस्तिष्ठति । तदस्याऽऽरण्या अन्वायत्ता इत्येतद्वयाचष्ये ॥ स इति ॥ अथ यत्प्रथमास्तमिते तन्निधनमित्येतद्वयाचष्ये ॥ अथेति ॥ तदस्य पितरोन्वायत्ता इति वाक्यं व्याचष्ये ॥ आश्रय इति ॥ एवं खल्वमुमादित्यं सप्तविधं सामोपास्ते इत्युपासनामात्रोक्तेः स्वयं फलमाह ॥ सप्तात्मकमिति ॥ तस्मात्तेहिंकुर्वन्ति किंकारभाजिनोह्येतस्य साम्न इति वाक्यं हेतुहेतुमद्भावा प्रतीतेस्तं व्यंजयन्‌ व्याचष्ये ॥ हिंकारेति ॥ अनेन हिंकारभाजिन इत्यस्य हिंकारनामकरूपाश्रिता इत्यर्थः । हिशब्दोयस्मादित्यर्थः । तस्मादिति पूर्वेण सम्बन्ध इत्युक्तं भवति । तस्मात्तेप्रस्तुतिकामाः प्रशंसाकामाः प्रस्तावभाजिनोह्येतस्य साम्न इत्यत्रापि पूवर्वद्धेतुहेतुमद्भावा प्रतीतिं प्रस्तुतिकामाः प्रशंसाकामा इत्यनयोः पुनरुक्तिं चापाकुर्वंस्तद्वयाचष्ये ॥ प्रस्तावेति ॥ प्रस्तुतिकामा इत्यनुवादेन प्रारम्भकामा इति व्याख्यानम्‌ । ननु प्रस्तावनामकवासुदेवाश्रयत्वेपि मनुष्याणां प्रारम्भकामत्वं प्रशंसाकामत्वं च कुत इत्यत आह ॥ प्रारम्भेति ॥ प्रारम्भावतारत्वात्प्रथमावतारत्वादित्यर्थः । तस्य प्रस्तावनामकवासुदेवस्य । तस्मात्तान्यन्तरिक्षेनारम्बणान्यदायात्मानं परिपतन्त्यादिभाजीनिह्येतस्य साम्न इति वाक्यं हेतुहेतुमद्भावं स्फोरयन्‌ व्याचष्ये ॥ सर्वाधारत्वादिति ॥ सवर्पक्ष्याधारत्वादित्यर्थः । अनाधारेणभूम्याद्याधारं विनेत्यनेनानारम्बणानीत्यस्यानाधाराणीत्यर्थ उक्तो भवति । तस्मात्तेसत्तमाः प्राजापत्यानामुद्गीथभाजिनोह्येतस्य साम्न इत्यत्रोद्गीथाख्य नारायणाश्रितत्वं देवानामुत्तमत्वे हेतुरुच्यते । तदयुक्तम्‌ । हिंकाराद्याश्रितपश्ऱ्वादीनामप्युत्तमत्वापत्तेरित्यतस्तद्वाक्यं तात्पर्यतोव्याचष्ये ॥ नारायणेति ॥ कोसौ नारायणनामार्थो यद्युक्तत्वेनोपासनमित्यत उक्तम्‌ ॥ सर्वगुणपूत्यर्ेति ॥ उपासनादुद्गीथाख्यनारायणस्य । अत्र भजनमुपासनमेव विवक्षितमिति भावेनैवं व्याख्यानम्‌ । ते सत्तमाः प्राजापत्यानामित्यस्यार्थः सर्वोत्तमादेवा इति । ननु मध्वादिविद्यासुवासुदेवादिमूर्तीनां सर्वगुणपूर्त्योपासनादपि देवानां स्वपदप्राप्त्यादि लक्षणसत्तमत्वश्रवणात्‌ कथं नारायणस्योपासनात्सत्तमा इत्युक्तमित्यत आह ॥ इतरेति ॥ सर्वगुणपूर्त्येतरमूर्त्युपासने कतं नारायणोपासनं तदित्यत आह ॥ सर्वेति ॥ अरशब्दस्य दोषवाचकत्वान्नञश्ऱ्चविरुद्धार्थत्वादरविरुद्धागुणनारास्तेषामयनाश्रयोनारायणः । विशेषानुक्त्याश्रुत्यन्तरबलाच्चसर्वगुणपूर्णत्वं नारायणशब्दार्थ इति भावः । ननु नञ्‌समासे नलोपो नञ इति नलोपे तस्मान्नुडचीति नुडागमे अनरायण इति स्यादिति चेन्न । नभ्राडित्यादिष्वस्य वक्तव्यत्वात्‌ । अत एव नगनाकादिशब्दप्रयोगः । यद्वा नायं नञ्‌समासः येन नलोपःस्यात्किंतु । अमानोनाः प्रतिषेध इति गणपरिपठितनसमासोयमित्यदोषः । पूर्वपदात्संज्ञायामग इति णत्वम्‌ । ल्युटष्यित्करणसामर्थ्यादयनशब्दोत्राधिकरणेत्रिलिंग इति पुल्लिंगत्वोपपत्तिः । तस्मात्तेप्रतिहृतानावपद्यन्ते प्रतिहार भाजिनोह्येतस्य साम्न इति वाक्यं हेतुमद्भावं व्यंजयन्व्याचष्ये ॥ अनिरुद्धेति ॥ कुतः कुत्र प्रतिहृता इत्यतस्तद्दर्शनायोक्तम्‌ ॥ पितुरिति ॥ अन्यत्र मातृशरीरे । प्रतिहृता अपीति शेषपूरणेन विनाशकाभावादेवाविना शोनत्वनिरुद्धाश्रयत्वादित्याशंकापरास्ता । नावपद्यन्त इत्यस्याथर्ो न विनाश्यन्तीति । न केवलमेतावत्‌ । किन्त्वित्यत उक्तं वर्धन्तेचेति । ननु पितुःशरीरान्मतृशरीरेप्रतिहृता अपि गर्भामातृशक्त्यैव न विनश्यन्ति वर्धन्ते च तत्रैवेति किं न स्यात्किमप्रामाणिकानिरुद्धगर्भाश्रयत्वकथनेनेति चेत्‌ । न । तथासति मातृशरीरप्रविष्यान्नादेरपि मातृशक्त्यैव परिरक्षणादिसम्भवेप्रत्यहं भोजनाद्युद्योगप्रयासानुभवायोगात्‌ । नचैवमस्तीत्याह ॥ अन्यदिति ॥ अन्यदन्नादिकं भुक्तं मातृशरीरप्रविष्यम्‌ । हिशब्देन सर्वानुभवं प्रमाणयति । नन्वथाप्यप्रामाणिकं गर्भाणामनिरुद्धाश्रयत्वं किमर्थमंगीकार्यमित्यतस्तत्र श्रुतिं पठति ॥ धातेति ॥ श्रुतिश्ऱ्चेति च शब्दान्वयः । तेन पूर्वोदाहृतप्रमाणसमच्चयः । नन्वियं श्रुतिः धातृशब्दोक्तचतुर्मुखस्यैव गर्भधारकत्वं ब्रवीति नानिरुद्धस्येत्यत आह ॥ धाताहीति ॥ हि यस्मात्तस्मादुदाहृत श्रुतिरुक्तार्थेप्रमाणम्‌ । कामपुनिरुद्धव्यावृत्त्यर्थं भगवानित्युक्तम्‌ । तदेवकुत इत्यत आह ॥ विष्णुरिति ॥ विष्णुर्योनिं कल्पयतु त्वष्यारूपाणिपिंशतु । आसिंचतुप्रजापतिः धातागर्भं दधातु त इति श्रुतौ । विष्णुस्त्वष्याप्रजापतिः दातेति शब्दैः क्रमेणवासुदेवादिचतुर्मूर्तय उच्यन्ते । हि यस्मात्तस्माद्धाताभगवाननिरुद्धतत्यर्थः । नन्वस्यां श्रुतौ विष्ण्वादिशब्दश्ऱ्चतुर्मूतर्य उच्यन्त इति कुतः । तत्तन्नामकाश्ऱ्चत्वारोदेवा एवेति किं न स्यादित्यतः श्रुत्यर्थनिश्ऱ्चायकं प्रमाणमाह ॥ योनिक्लृप्तिरिति ॥ योनेः क्लृप्तिः पुत्पित्तिसामर्थ्यमित्यर्थः । योनिशुद्धिरिति वा । रूपं गर्भस्थपुत्रस्यांगमित्यर्थः । आसेककमर्गर्भात्प्रजापातनाख्यं कर्म । धारणं गर्भाणाम्‌ । ननु वासुदेवादिमूर्तीनां योनिक्लृप्त्यादिकारित्वेपि विष्णुर्योनिमित्यत्रता एवोच्यन्त इति कुतः । वासुदेवादिमूर्तीनामिव विष्ण्वादिनामकदेवानामपि योनिक्लृप्त्यादिकारित्वोपपत्तेः । नहि विष्ण्वादिशब्दा एव वासुदेवादिभूर्तीवाचका इत्यत्र प्रमाणमस्तीत्यतस्तत्रापि प्रमाणमाह ॥ व्याप्तेरिति ॥ विष्लृव्याप्तावितिधातुः । त्वेषात्‌ दीप्तत्वात्‌ । द्वितीयकः संकर्षणः । प्रजानां पातात्प्रजापतिरित्युच्यते । किं तत्पातनमित्यत आह ॥ निषक इति ॥ यद्वा प्रजापतेः कथं प्रजापातनकर्तृत्वमुच्यते । आसिंचतु प्रजापतिरिति निषेककर्तृत्वश्रवणादित्यत आह ॥ निषेक इति ॥ ततो मातृदेहतोबहिः पातनमबेवनिषेक इत्युच्यते । श्रुतावित्यर्थः । उक्तनिमित्तेन प्रजापतिशब्दाभिधेयः क इत्यत आह ॥ प्रजापतिरिति ॥ गर्भधारणशख्यकर्मतोनिरुद्धो धातेति प्रोक्त इत्यन्वयः । ननु गर्भं ते अश्ऱ्विनौ देवावाधत्तां पुष्करस्रजावित्युत्तरत्राश्ऱ्विप्रभृति देवानं श्रूयमाणत्वात्कथं भगवत्परत्वमस्येत्यतोश्ऱ्विनावित्यनेनापि भगवन्मूर्ती एव विवक्षिते इत्याह ॥ कृष्णरामाविति ॥ तस्मात्तेपुरुषं दृष्ट्वा कक्षं श्ऱ्वभ्रमित्युपद्रवन्ति उपद्रवभाजिनोह्येतस्य साम्न इति वाक्यं हेतुहेतुमद्भावं दशर्यन्व्याचष्ये ॥ कक्षश्ऱ्वभ्र इति ॥ यतस्तेषां मृगाणां नृसिंहाश्रयत्वेनृसिंहं प्रत्येवद्रवणं स्यात्‌ । नतु कक्षश्ऱ्वभ्रोद्देशेनेत्यत उक्तं कक्षश्ऱ्वभ्र इति । कक्षमरण्यं श्ऱ्वभ्रं विवरं द्वन्द्वैकवद्भावः । ननु कक्षश्ऱ्वभ्रयोः नृसिंहस्य सदावस्थितत्वेपि मृगाणां कक्षश्ऱ्वभ्रेप्रतिद्रवणं कथम्‌ । नहि स्वरक्षकोनृसिंहः कक्षश्ऱ्वभ्रयोरस्तीति तेजानन्तीत्यत उक्तं तदज्ञानेपीति । यद्यपि कक्ष्यश्ऱ्वभ्रे एव रक्षके इति तेजानन्ति । नतु तत्स्थोनृसिंहः इति । ततापि कक्षश्ऱ्वभ्रयोरचेतनत्वेन रक्षकत्वायोगान्नृसिंह एव रक्षक इति भावः । तस्मात्तान्निदधतिनिधनभाजिनोह्येतस्य साम्न इत्येतद्वयाचष्ये ॥ पितॄणामितिद । पिण्डादीनितिश्रुतौ शेषोक्तिः । ननु पितॄन्प्रतिपिण्डादिदानं तेषां संकषर्णाश्रयत्वे कथं ज्ञापकमित्यत आह ॥ अन्यथेति ॥ तत्‌ पिण्डादिकम्‌ । इतरमूर्तीनामित्यत्र भगवद्रूपाणामन्येषामपि सर्वगुणपूर्त्याद्यस्तीत्युक्तम्‌ । प्रमाणेन द्रढयति ॥ नरूपाणामिति ॥ अपि वेतिशब्दोपरस्परसमुच्चये । गुणनामभ्यां रूपाणां विशेषभावः किं नेत्याह ॥ तथापीति ॥ नारायण इति नाम विशेषतस्तत्प्रियमित्यन्वयः । नन्वितरनामस्वेकैकनाम्नोनारायण नाम साम्याभावेपि समस्तानां नाम्नां तत्साम्यं स्यादित्यतः पक्षान्तरमाह ॥ समस्तानामिति ॥ अथवा स्यादेवसमस्तानां नाम्नां नारायणनामसाम्यं यदातस्य नारायणनामनोर्थ भूतागुणैः पूर्तिरेवसमस्तनाम्नामर्थ इति विज्ञायेतेत्यर्थः । नारायणनामार्थत्वेन सर्वगुणपूर्त्योपासनात्सर्वोत्तमादेवा इत्युक्तमर्थं प्रमाणेन द्रढयति ॥ नाम्न इति ॥ ततश्ऱ्चायं खण्डार्थः ॥ अथ खल्वमुमादित्यनामकमादित्यस्थं सप्तविधं सप्तरूपम्‌ । साम सामनामकं विष्णुमुपासीत । सामशब्दं विष्णौ निर्वक्त ॥ सर्वदेति ॥ यस्मादसावादित्यस्तोविष्णुः सर्वदासमस्तेन सामेत्युच्यते । प्रकारान्तरेणसामशब्दं निर्वक्ति ॥ मां प्रतीति ॥ यस्मादादित्यस्थोविष्णुः सर्वेणसर्वस्य मां प्रति मां प्रतीति समस्तेन कारणषन सामेत्युच्यते ॥ 1 ॥ तदुपास्तिप्रकारमाह ॥ तस्मिन्निति ॥ तस्मिन्नादित्यस्थेसप्तरूपे विष्णाविमानि सर्वाणिभूतानिपशुमनुष्यादीन्यन्वयत्तानि आश्रितानीति विद्यादुपासीत । कथमादित्यस्थस्य साप्तविध्यं कथं वातस्य सर्वभूताश्रयत्वमित्यतस्तद्विशदमाह ॥ तस्येति ॥ हिंकारः प्रद्युम्नः । सः यत्तस्यादित्यस्दयात्पुरा य आदित्योदयात्पूर्वकाल स्तत्रस्थित इत्यर्थः । कानितत्राश्रितानीत्यत आह ॥ तदस्येति ॥ अस्य सूर्यस्थस्य सामनामकभगवतः । तदुदयात्पूर्वकालस्थितं हिंकारनामकं प्रद्युम्नाख्यं रूपं पशवोन्वायत्ता आश्रिताः । पशूनां तदाश्रितत्वे ज्ञापकमाह ॥ तस्मादिति ॥ हि यस्मात्ते पशव एतस्यादित्यस्थस्य साम्नः सामनामकस्य भगवतो यो हिंकाराख्योवतारस्तद्भाजिनस्तदाश्रिताः तस्माद्धिंकारनामानमाश्रितत्वादेव ते पशवो हिंकुर्वन्ति । अन्यथातन्नस्यादित्यर्थः ॥ 2 ॥ अथ शब्दोविच्छेदज्ञापनार्थः । प्रस्ताकोवसुदेवः । सः यत्प्रथमोदितेतिष्ठति य आदित्योदयप्रथमकालेस्थित इत्यर्थः । तदाश्रितान्याह ॥ तदस्येति ॥ अस्य सूर्यस्थ भगवतस्तत्प्रस्तावनामकं वासुदेवरूपम्‌ । मनुष्या अन्वायत्ताः । तेषां तदश्रितत्वे ज्ञापकमाह ॥ तस्मादिति ॥ हि यस्मात्तेमनुष्या एतस्य सूयर्स्थस्य साम्नः सामनामकस्य भगवतः यः प्रस्तावाख्योवतारः तद्भाजिनस्तदाश्रिताः तस्मात्प्रस्तावाश्रितत्वादेव तेमनुष्याः प्रस्तुतिकामाः प्रारम्भकामाः प्रशंसाकामश्ऱ्च । अन्यथातन्नस्यादित्यर्थः ॥ 3 ॥ अथादिरादिनामावराहः । सः यत्संगववेलायां तिष्ठति तदाश्रितान्याह ॥ तदस्येति ॥ अस्य तद्रूपं वयांसि पक्षिणोन्वायत्तानि । तत्र ज्ञापकमाह ॥ तस्मादिति ॥ हि यस्मात्तानिवयांस्येतस्य साम्नः सामनामकस्य भगवतो य आदिस्तद्भाजीनितदाश्रितानि तस्मादेव वराहस्य सर्वपक्ष्याधारत्वादेव । तानितदाश्रितानिवयांसि अन्तरिक्षेऽनारम्बणान्यनाधाराण्यात्मानं स्वात्मानमादाय परिपतन्ति । अन्यथातन्नस्यादित्यर्थः ॥ 4 ॥ अथोद्गीथोनारायणः सः यत्सम्प्रतिमध्यन्दिनेतिष्ठति । तदाश्रितान्याह ॥ तदस्येति ॥ अस्य भगवतस्तद्रूपं देवा अन्वायत्ताः । तत्र ज्ञापकमाह ॥ तस्मादिति ॥ हि यस्मात्तेदेवा एतस्य साम्नः सामनामकस्य भगवतो य उद्गीथोनारायणाख्यावतारस्तद्भाजिनस्तदाश्रितास्तदुपासका इति यावत्‌ । तस्मादेव नारायणशब्दार्थत्वे न सर्वगुणपूर्त्योपासनादेवतेदेवाः प्राजपत्यानां मध्ये सत्तमाः सर्वोत्तमाः । अन्यथातन्नस्यादित्यर्थः ॥ 5 ॥ अथ प्रतिहारोनिरुद्धः । सः यन्मध्यन्दिनादूर्ध्वं अपराह्णात्‌ प्राक्‌ तत्कालस्थितं यदित्यर्थः । तदाश्रितान्याह ॥ तदस्येति ॥ अस्य भगवतस्तदनिरुद्धाख्यं रूपं गर्भा गर्भस्थाः प्राणिनोऽन्वायत्ताः । तत्र ज्ञापकमाह ॥ तस्मादिति ॥ हि यस्मादेतेगर्भा एतस्य साम्नो भगवतः यः प्रतिहाराख्योवतारस्तद्भाजिनस्तदाश्रिताः तस्माद्भर्भाणामनिरुद्धाश्रयत्वादेव ते गर्भाः परि(प्रति)हृताः पितुः शरीरादन्यमातृशरीरेप्रति (परि)हृता अपि नावपद्यन्ते न विनश्यन्ति । न केवलमेतावत्‌ वर्धन्ते च तत्रैव । अन्यथातन्नस्यादित्यर्थः ॥ 6 ॥ अथोपद्रवोनृसिंहः । सः यदपराह्णादूर्ध्वमस्तमयात्प्राक्‌ तत्कालस्थितं यदित्यर्थः । तदाश्रितान्याह ॥ तदस्येति ॥ अस्य भगवतस्तन्नृसिंहाख्यं रूपं आरण्या अरण्येस्थितामृगा अन्वायत्ताः । तत्र ज्ञापकमाह ॥ तस्मादिति ॥ हि यस्मात्ते आरण्या एतस्य साम्नः सामनामकस्य भगवतो य उपद्रवाख्योवतारः कक्षश्ऱ्वभ्रयोः मृगरक्षणार्तं सदास्थितः तद्भाजिनस्तदाश्रितास्तस्मादेवस्वाज्ञानेपि रक्षकस्त नृसिंहस्य कक्षश्ऱ्वभ्रयोः स्थितत्वादेव ते आरण्याः पुरुषं दृष्ट्वाभीताः सन्तः कक्षमरण्यं श्ऱ्वभ्रं विवरं स्वरक्षकमिति भावेन कक्षमिति भावेन कक्षश्ऱ्वभ्राभ्यामुपद्रवन्ति । अयथातन्नस्यादित्यथर्ः ॥ 7 ॥ अथ निधनं संकर्षणाख्यं रूपं तत्‌ । यत्प्रथमास्तमितेतिष्ठति । तदाश्रित्यान्याह ॥ तदस्येति ॥ अस्य भगवतस्तत्संकर्षणाख्यं रूपं पितरोन्वयत्ताः । तत्र ज्ञापकमाह ॥ तस्मादिति ॥ हि यस्मात्तेपितर एतस्य साम्नो भगवतो यन्निधनं निधननामकं संकर्षणाख्यं रूपं तद्भाजिनस्तदाश्रितास्तस्मादेव पितॄणां संकर्षणाश्रयत्वादेव । तान्पितॄन्प्रतिनिदधतिपिण्डादीन ज्ञका अपीति शेषः । उपासकस्य फलमाह ॥ एवमिति ॥ योधिकरी अमुमादित्यस्थमादित्यनामकं सप्तविधं सामनामकं भगवन्तमेवं पश्ऱ्वाद्याश्रयत्वेनोपास्ते ससंसारसागरान्मक्तः सन्परमंस्थानं प्राप्नोतीति वाक्यशेषः ॥ 8 ॥ नवमः खण्डः ॥ 9 ॥ सप्तविधस्य सामनाम्नो भगवतो ज्ञानानन्दबलैः ब्रह्माद्यसमत्वादात्मरूपसमत्वनिष्ठामुपास्तिमाह ॥ अथखल्वित्यादिना ॥ अयं खण्डः प्रसिद्धसामपर इत्यतसत्‌ । शब्दरूपस्य तस्य परमात्मसंमितत्वाति मृत्युत्वयोरसम्भवात्‌ । तन्नाकं तद्विशोकमित्यस्यासम्भवाच्च । ननु भगवत्परत्वेपि कथमात्मसंमितत्वं तस्य सादृश्यस्य भेदव्याप्तत्वात्‌ । नहि गौगर्ोसदृशीत्यत आत्मसंमितत्वं द्वेधाघटयन्‌ खण्डं प्रमाणेन व्याचष्ये ॥ यस्येति ॥ यथा गगनं गगनाकारमित्यादौ द्वेत्सदृशमन्यन्नास्तीत्यर्थ एवमत्रापीति भावः । यस्य स्वरूपाणीत्यपि सम्बन्धः । अतिमृत्युपादं व्याचष्ये ॥ अतिमृत्युरिति ॥ अमृत्युत्वतः । सप्तविधमित्यस्यार्थमाह ॥ प्रद्युम्नादीति ॥

प्रद्युम्नवासुदेववराहनारायणानिरुद्धनृसिंहसंकर्षणस्वरूपेणेत्यर्थः । हिंकार इति त्ऱ्यक्षरम्‌ । प्रस्ताव इति त्ऱ्यक्षरम्‌ । तत्सममित्यादौ हिंकारादि इति त्ऱ्यक्षरं प्रस्ताव इति त्ऱ्यक्षरमित्यादिवाक्यं व्याचष्ये ॥ ज्ञानादीति ॥ सर्वशोपि त्ऱ्यक्षराणिहिंकारादीनिनामानि सर्वशः वर्णशः सर्वेषामपि रूपाणां ज्ञानादित्र य वाचीनिहियस्मात्तस्मात्तानिज्ञानानन्दबलैः समानीत्यर्थः । हिंकारादिनाम्नां वर्णशोज्ञानादित्रयवाचकत्वप्रकारस्तु प्रमाणान्तरादवगन्तव्यः । आदिरितिद्वयक्षरम्‌ । प्रतिहार इति चतुरक्षरम्‌ । तत इहैकं तत्सममित्यत्र प्रतिहारनाम्नः कोवर्ण आदिनाम्नियोज्य इत्यतस्तं दर्शयन्‌ तद्वयाचष्ये ॥ आदिनाम्न इति ॥ प्रतिहारनाम्नः प्रशब्दः आदिनाम्नायोज्यः स्यात्‌ । तेन प्र आदिरिति आदिप्र इत वैकं नाम तिहार इत्यन्यदिति प्रभोर्नामद्वयमपि त्ऱ्यक्षरमेवस्यादित्यर्थः । अक्षरमतिशिष्यत इत्युपद्रवनाम्नयेकमक्षरमतिरिच्यत इत्युक्तं किं तदक्षरं किं वा तद्वाच्यमित्यत आह ॥ उपद्रवेत्विति ॥ तथापि सवःकारोनारायणस्यैव नाम । उक्तव्यूहांन्तर्गतोद्गीथाख्यनारायणव्यावृत्त्यर्थं क्षीराब्धिशायिन इत्युक्तम्‌ । नन्वेवं वःकारस्य त्ऱ्यक्षरत्वाभावात्तद्वाच्यस्य नारायणस्य ज्ञानादिगुणैः साम्याभावे प्रागुक्तविरोध इत्याशंकानिवर्तकतयात्ऱ्यक्षरं तत्समम्भवतीति वाक्यं व्याचष्ये ॥ व्यंजनेति ॥ व्यंजनस्वरसर्गैस्त्रिवर्णत्वादित्यन्वयः । सोपिवः कारोपि । अपिशब्देन हिंकारादिसमुच्चयः । यतस्ततः सोपि नारायणोपि । प्रद्युम्नादिसमुच्चयार्थमपि शब्दः । द्वाविंशेन परमादित्याज्जयतीति फलवाक्यं व्याचष्ये ॥ वःकरोति ॥ एकविंशत्याऽऽदित्यमाप्नोतीति वाक्यं व्याचष्ये ॥ एकविंशेति ॥ एकविंशार्णवाच्यरूपज्ञानादित्यर्थः । सूर्यमण्हले स्थित इति शेषः । तानि हवा एतानि द्वाविंशतिरक्षराणीति वाक्यं प्रसिद्धार्थप्रतीतिनिरासाय व्याचष्ये ॥ स एवेति ॥ ननु प्रद्युमनादिस्वरूपेण सविष्णुः सप्तधास्थित इत्युक्तत्वेन कथं द्वाविंशद्रूपवानित्युक्तमित्यत आह ॥ यतः ॥ तान्येवेति ॥ इति तस्मात्‌ द्वाविंशतिः रूपाणीति शेषः । नन्वेतानिद्वाविंशतिरूपाणि किं नामकानि कुत्र तिष्ठन्तीत्यतस्तावत्‌ द्वादशमासाः पञ्चर्त्तवस्त्रय इमेलोका असावादित्य एकविंश इति श्रुत्यन्तरानुसारेणैकविंशति मूर्तीराह ॥ प्रद्युम्नाद्या इत्यादिना ॥ प्रद्युमनवासुदेव वराह नारायणाश्ऱ्चत्वारः प्रत्यकं त्रिशस्त्रिशोभूत्वाकेशवाद्याः केशवादिनामानः सन्तोद्विषण्मसेषु संस्थिता इत्रत सम्बन्धः । पञ्चमोनिरुद्धस्तस्य रूपत्रयमिति यावत्‌ । षष्ठस्य नृसिंहस्य रूपद्वयमिति रूपपञ्चकं मत्स्यादिपञ्चकं सत्‌ वसन्तादिषु पञ्चर्तुषु संस्थितमित्यर्थः । अत्रापि हेमन्तशिशिरयोरैक्येन पञ्चत्वोक्तिः । षष्ठस्य तृतीयं रूपं पृथिवी संस्थम्‌ । सप्तमस्य संकर्षणस्य तनूरामः कृष्णः कल्किरिति त्रिधासत्यन्तरिक्षद्युसूर्येषु स्थितेति सम्बन्धः । एकविंशत्यादित्यमाप्नोति द्वाविंशेन परमादित्याज्जयतीत्यत्रैकविंशद्वाविंशरूपज्ञानयोरेव फलमुक्तं । नत्वितररूपज्ञानस्य । अत एतदुपलक्षणम्‌ । ततश्ऱ्चतत्तज्ज्ञानात्तत्तत्प्राप्तिः भवति । अनन्तरं द्वाविंशाक्षरप्रतिपाद्यरूपप्रप्तिः सर्वेषामिबत्यभिप्रेत्याह ॥ तज्ज्ञानादिति ॥ द्वाविंशेनद्वाविंशरूपज्ञानेन । यावच्छ्वेतं न गच्छति योगीतावन्नमुक्तः स्यादित्यादेरिति भावः । तन्नाकं तद्विशोकमित्येतत्‌ व्याचष्ये ॥ एतदिति ॥ कंसुखमकमुखंदुःखमिति यावत्‌ । तद्रहितं नाकमत्यिच्यत इति भावेनासुखवर्जनादित्युक्तम्‌ । दुःखवर्जनादित्यर्थः । द्वौनञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायेनार्थान्तरमाह ॥ पूर्णेति ॥ ननु नाकपदस्य प्राचीनार्थत्वे विशोकपदं पुनरुक्तमित्यतस्तस्यार्थान्तरमाह ॥ विशोकमिति ॥ भक्तानामिति शेषः । यत्पूर्वमभिप्रेतमुपासिततत्तद्रूपं स्वस्वप्रापकमिति तदयुक्तम्‌ । तथासति पृथिव्यादिस्थितरूपस्यादित्यस्थरूपाप्रापकत्वप्राप्त्यादित्यस्थरूपस्य चेतररूपाप्रापकत्वप्राप्त्या आत्मसंमितमित्युक्तम्‌ । सर्वरूपसाम्यमनुपपन्नं स्यादित्याशंकामात्मसंमितत्वादिनासप्तविधसामोपासकस्य फलकथनव्याजेनपरिहर्तुं प्राप्तमाप्नीतीहादित्यस्य जयं परोहस्यादित्यजयाज्जयोभवतीति वाक्यद्वयं क्रमेणानूद्य व्याचष्ये ॥ आप्नोतीत्यादिना ॥ ऐक्यादित्युत्तरत्रापि सम्बध्यते । अनेनैकरूपप्राप्त्यापीतररूपप्रापकत्वामर्थ्येन सर्वत्र साम्योपेतभगवत्प्राप्तिरेवात्मसंमितत्वादिनासप्तविधसामोपासकस्य फलं उपासनानुसारित्यात्फलस्येत्युक्तं भवति । इहपृथिव्यादिषु स्थितेत्युक्तार्थे प्रमाणमाह ॥ स्वरूपमिति ॥ तर्हि रूपान्तरोपास्तिर्व्यर्थास्यादित्यत आह ॥ तथापीति ॥ रूपान्तरसम्प्राप्तिरित्यर्थः । भगवतः प्राप्त्येत्यादिना जयशब्दः प्राप्त्यर्थो व्याख्यातः । तदुपपादयतिं प्रतिजानीते ॥ जय इति ॥ अत्रेति शेषः । जयाभिभवयोरेवजिधात्वर्थत्वात्कथमेतदित्यतः प्रयोगतोनुगन्तव्या इति न्यायमनुसृत्य जयशब्दस्य प्राप्तिवाचकत्वे प्रयोगमाह ॥ धनजित इति ॥ धनप्राप्तिमते । स्वर्जितेस्वर्गप्राप्तिमते । स त्राजिते सत्रप्राप्तिमते । विश्ऱ्वजित इत्यस्यादित्वेपि तस्य जयार्थत्वेपि सम्भवात्तदनुदाहरणम्‌ । इन्द्राय सोमं भरेत्युत्तरेणान्वयः । इत्यादिवत्‌ इत्यादौ यथाजिच्छब्दः प्राप्त्यर्थस्तथात्रापीत्यर्थः । ननु एकविंशोवा इतो सावादित्य इत्यत्रादित्यस्थस्य भगवत इत एकविंशत्वमुच्यते । तति इत्यनेन परामृश्यं न प्रतीयते । नच पृथिवीस्थं रूपमित इत्यनेन ग्राह्यम्‌ । पृथिवीस्थ जमदग्न्याख्यरूपापेक्षयादित्यस्थस्यैकविंशत्वाभावात्‌ । केशवापेक्षयाह्यादित्यस्थस्य कल्केरेकविंशत्वम्‌ । नच तस्य मासगतस्येत इति निर्देशोयुज्यत इत्यत आह ॥ केशवादीति ॥ योमासगतः केशवादिद्वादशविधोभगवान्स एवाध्त्मं ललाटादिषु संस्थितः । ललाटेकेशवं विद्यान्नारायणमथोदर इत्यादिस्मृतेः । एवंच केशवस्याध्यात्मं ललाटेपि सत्त्वादित इत्यतनेनावधितया परामर्शः सम्भवतीति भावः । ननु द्वादशमासाः पञ्चतर्वस्त्रय इमेलोका असावादित्य एकविंश इति श्रुतौ मासादीनामेव श्रवणात्कथं मासादिस्थभगवद्रूपाणिगृहीतानीत्यतस्तत्रापि मासलोकादित्यनामभिः भगवानेव ग्राह्य इति भावेन तत्र प्रमाणमाह ॥ चित्रादीति ॥ पूर्णचन्द्रस्य चित्रादियोगदातृत्वाद्धरिः स्वयं मुख्यतश्ऱ्चैत्रादिमासनामा । अत्रचित्राशब्देन पूवर्ोत्तरतारके अपि ग्राह्ये । आदिशब्देन विशाखादिग्रहणम्‌ । उक्तं च । चित्रादितारकाद्वन्द्वं यदापूर्णेन्दुसययुतम्‌ । चैदिमासाविज्ञेया इति । अपामदनाद्भक्षणशद्रश्मिभिः स्वीकारादिति यावत्‌ । प्रागेव याख्यातत्वादृतु शब्दोन व्याख्यातः ॥ ततश्ऱ्चायं खण्डार्थः ॥ अथ खलु आत्मसंमितं स्वस्य स्वयमेवसंमितं नत्वन्यत्‌ यस्य तदात्मसंमितं स्वसमं वा । मृत्युमतिक्रान्तं अतिमृत्युमरहितम्‌ । सप्तविधं प्रद्युम्नादिरूपेणसप्तधास्थितम्‌ । सामसामनामकं परं ब्रह्मोपासीत । अत्रात्मसंमितं सामेत्युक्त्या आत्मसंमितत्वं सामशब्दप्रवृत्तिनिमित्तमित्युक्तं भवति । ननु सामनामकानां तेषां सप्तानामपि रूपाणां कथमात्मसंमितत्वमित्यतो यतस्तानिसर्वाणिज्ञानानन्दबलैः समानीति वक्तुं कुतस्तेषां ज्ञानादिभिः समत्वमित्यतो ज्ञानादित्रयवाचकाक्षरत्रयोपेतनामवत्त्त्सर्वेषामपि रूपाणामिति भावेन प्रद्युम्नादिवाचकहिंकारादिनाम्नां त्ऱ्यक्षरत्वप्रकारं दर्शयन्नाह ॥ हिंकार इतीति ॥ हिंकार इति त्ऱ्यक्षरम्‌ । अतस्तन्नामद्वयं समम्‌ । यत एवं नामद्वयं ज्ञानादित्रयवाचकत्ऱ्यक्षरत्वेन समंतत्तस्मात्तत्प्रद्युम्नवासुदेवाख्यरूपपद्वयमपि त्तत्प्रतिपाद्यज्ञानादित्रयवत्त्वेन सममिति योज्यम्‌ ॥ 1 ॥ आदिरिति द्वयक्षरम्‌ । प्रतिहार इति चतुरक्षरम्‌ । कथं तर्हि वराहानिरुद्धनाम्नोस्त्ऱ्यक्षरत्वमित्यत आह ॥ तत इति ॥ ततः प्रतिहारनामत एकं प्र इत्येकमक्षरमिहादिनाम्नियोज्यं स्यात्‌ । किंतत इत्यत आह ॥ तत्सममिति ॥ तत्तस्मात्तन्नामद्वयमपि समंत्ऱ्यक्षरमेवस्यादित्यर्थः । यत एवं तन्नामद्वयं गुणत्रयवाचकत्ऱ्यक्षरत्न समंतत्तस्माद्वराहानिरुद्धायरूपद्वयमपि तर्दज्ञानादित्रयवत्त्वेनसमंभवतीत्यपि योज्यम्‌ ॥ 2 ॥ उद्गीथ इति त्ऱ्यक्षरं उदित्यस्यैकत्वेन परिसंख्यानात्‌ । उपद्रअव इति चतुक्षरम्‌ । कथं तर्हि नृसिंहमाम्नस्त्ऱ्यक्षरत्वमित्यतश्ऱ्चतुरक्षरत्वेपि नत्ऱ्यक्षरत्वहानिरिति भावेनाह ॥ त्रिभिरिति ॥ तन्नामद्वयं त्रिभिः त्रिभिरक्षरैः समंभवति यत एवं तस्मात्तत्‌ नारायणनृसिंहाख्यरूपद्वयमपि तद्वाच्यैस्त्रिभिस्त्रिभिर्ज्ञानानन्दबलरूपैः गुणैः समंभवतीत्यर्थः । यद्यप्युद्रवेवः काररूपमक्षरमतिशिष्यऽतिरिच्यते तथापि सवःकारः क्षीराब्धिशायिनोनारायणस्यैव नामेति ज्ञातव्यम्‌ । ननु यदिवः कारस्य भगवद्रूपान्तरनामत्वमंगीक्रियते । तर्हि तस्यापि ज्ञानादित्रयवाचकतासिध्यर्थं त्ऱ्यक्षरत्वं वक्तव्यम्‌ । नच तत्सम्भवति । तस्यैकाक्षरत्वादित्यत आह ॥ त्ऱ्यक्षरमिति ॥ व इत्येतदपि व्यंजनस्वरसर्गैस्त्ऱ्यक्षरम्‌ । अतस्तत्सममितरनामसदृशं भवत्येवेत्यर्थः । यत एवं तस्मात्तत्क्षीराब्धिशायिभगवद्रूपमपि समंतद्वाच्यज्ञानानानन्दबलैः सममिति योज्यम्‌ ॥ 3 ॥ निधनमिति त्ऱ्यक्षरम्‌ । अतस्तन्नामेतरनामसमंभत्वेवेत्यर्थः । यत एवं तस्मात्तत्संकर्षणख्यं भगवद्रूपं समम्‌ । रूपान्तरवत्तद्वाच्यज्ञानादिभिः समंभवत्येवेत्यर्थः । एवं हिंकारादिनामानिवर्णशोज्ञानादित्रयवाचीनीत्युक्तम्‌ । इदानीमुपास्त्यर्थं प्रत्येकमेकैकमक्षरमेकैकभगवद्रूपवाचकमित्याह ॥ तानिहवा इति ॥ तान्येतानिहिंकारादीनि निधनान्तानिद्वाविंशतिरक्षणाणि व इत्यस्येकाक्षरत्वात्‌ । हवा इति प्रमाणप्रसिद्धिमाह ॥ अतस्तान्येतानिद्वाविंशत्यक्षरप्रतिपाद्यान्यक्षराण्यनाशादक्षरनामकानिभगवद्रूपाणिद्वाविंशतिः । कथम्‌ । तानिसप्तरूपाणित्रिधात्रिधाविभिद्यन्त इत्येकविंशतिः । एकः पयोब्धिशयन इति द्वाविंशतिः । तानिच एकविंशतिरूपाणि केशवादिद्वादशमत्स्यादि नव । तत्र केशवाद्याः द्वादशमासेषु मत्स्याद्याः पञ्चपञ्चर्तुषु । जामदग्न्याद्याश्ऱ्चत्वारः पृथिव्यन्तरिक्षद्युसूर्येषुस्थिता इति ज्ञेयम्‌ ॥ 4 ॥ तत्र निधनशब्दान्तर्गतनकारलक्षणैकविंशार्णवाच्यकल्किरूपैकविंशभगवद्रूपज्ञानिनः फलमुपलक्षणयाह ॥ एकविंशत्येति ॥ एकविंशत्या एकविंशाक्षरवाच्यकल्किज्ञानेनादित्यमादित्यान्तर्गतं भगवन्तं प्राप्नोति । अनेनैकविंशाक्षरवाच्यकल्किरेवादित्यस्थः उपास्यस्यैव प्राप्य्वादित्युक्तं भवति । नन्वादिनत्यस्थस्य कल्केः कुत एकविंशत्वमित्यत आह ॥ इकविंश इति ॥ असावादित्यस्थः कल्किरितः शरीरस्थललाटगतकेशवाख्यभगवद्रूपापेक्षयैकविंशोप्रसिद्धमित्यर्थः । क्षीराब्धिशायिभगवदुपासकस्य फलमाह ॥ द्वाविंशेनेति ॥ द्वाविंशेन वः काररूपद्वाविंशार्णवाच्येन क्षीराब्धिशयनाख्यद्वाविंशेन रूपेणतदुपास्त्येति यावत्‌ । आदित्यात्परमादित्यमण्डलात्परतो वर्त्तमानं क्षीराब्धिस्थ श्ऱ्वेतद्वीपगतं भगवन्तं जयति प्राप्नोति । तस्य भगवतो महात्म्यमाह ॥ तन्नाकमिति ॥ तत्‌ द्वाविंशकं भगवद्रूपं नाकं न विद्यते अकं दुःखं सुखाभावोवायस्मिंस्तन्नाकम्‌ । तद्विशोकं भक्तशोकनाशकमित्यर्थः ॥ 5 ॥ यदभिप्रेतं मासादिस्थकेशवासिरूपोपासनयातत्तद्रूपप्राप्तिरिति तदयुक्तम्‌ । तथासति पृथिव्यादिस्थितरूपस्यादित्यस्थरूपाप्रापकत्वप्राप्तत्यादित्यस्थरूपस्य चेतररूपाप्रापकत्वप्राप्त्या आत्मसंमितमित्युक्तं सर्वरूपसाम्यमनुपपन्नं स्यादित्यशंकां परिहरन्नात्मसंमितत्वादिप्रकारेण पूर्वोक्तसप्तविधभगवदुपास्तेः फलमाह ॥ आप्नोतीति ॥ योधिकारी एतत्सप्तविधभगवद्रूपमेव मुक्तरीत्याविद्वानात्मसमितमतिमृत्यु सप्तविधं सामोपास्ते । स उपासक इह पृथिव्यादिषु स्थित जामदग्यादिरूपप्राप्तावप्यादित्यस्थस्य कल्क्याख्यभगवतो जयं प्राप्तिमाप्नोति । एक्यात्‌ । तथास्योपासकस्यादित्यजयादादित्यस्थ भगवत्प्राप्त्यापरोजयोरूपान्तरप्राप्तिरपि भति । एक्यादेवेति भावः । तथाच स्वप्राप्तावपि स्वेतरप्रपापकत्वादिना सर्वत्र साभ्योपेत भगवत्प्राप्तिरेवैतदुपासनफलमित्युक्तं भवति । सप्तविधभगवदुपास्तिविद्योक्तार्थावदारणार्था द्विरुक्तिः ॥ दशमः खण्डः ॥ 10 ॥ पुनश्ऱ्चहिंकारादिसामभक्तिप्रतिपाद्यस्य हिंकारादिनाम्नः प्रद्युम्नादि पञ्चरूपस्य भगवत उपास्त्यर्थं प्राणाग्न्याद्यधिष्ठनोक्तिपूर्वकं गायत्ररथन्तरादिसामवाच्यत्वतन्नियामकत्वरूपमाहात्म्यमेकादशखण्डैराह ॥ मन इत्यादिना ॥ तत्र पूर्वोक्तेष्वेव प्राणादिषु प्रकारान्तरेण पञ्चविधभगवदुपास्तिकथनपूर्वं तस्य गायत्रसामप्रोतत्वमाह ॥ मन इत्याद्यखण्डेन । अत्र मनोहिंकार इत्यादेः प्रागुक्तरीत्यार्थः स्पष्य इति भावेनैतद्गायत्रं प्राणेषु प्रोतमित्येतद्वयाचष्ये ॥ प्राणेति ॥ अनेन प्रासिद्धप्राणेषु गायत्रं प्रोतमित्यपास्तम्‌ । प्रोतशब्दस्य तत्स्थत्वमात्रमर्थ इति प्रतीतिनिरासायार्थमाह ॥ तद्वाचकमिति ॥ ननु पूर्वगायत्रसाम्नो अप्रकृतत्वात्कथमेतदिति परामर्श इत्यत आह ॥ प्राणस्थेति ॥ प्राणस्य विष्णोः सामीप्यान्मनोहिंकार इत्यादिनासमीपे प्रकृतत्वात्तत्स्थं गायत्रं सामापि प्रकृतम्‌ । अतः तत्स्थं गायत्रं सा
मैतदित्यनेन परामृश्यत इत्यर्थः । अत एवैतच्छब्देन प्राणस्थ विष्णुसंस्थत्वस्य लाभात्प्रोतमित्यस्यार्थान्तरपूर्वं प्रकृतविष्णुस्थमेव किञ्चित्परामृश्यते न विष्णुरित्यत आह ॥ क्वचिदिति ॥ क्वचिद्विष्णोः निर्देशसामीप्यात्समीप एव निर्दिष्यत्वात्‌ स एवैतदित्यादावप्येतच्छब्देन पूर्वप्रकृतविष्णुस्थेति परामृश्यत इत्यर्थः । प्राणीभवतीत्यादेरविकलकरणो भवति । शतवर्षाणि जीवति उज्वलन्जीवतीत्यर्थ प्रतीति निरासाय प्रमाणेनार्थमाह ॥ खं0 11 ॥ अभिमन्थति ससहिंकार इति खण्डस्य भगवत्परत्वज्ञापनायसयएवमेतद्रथन्तरमग्नौ प्रोतं वेदब्रह्मवर्चस्व्यान्नेदो भवतीत्यादि फलवाक्यं प्रमाणेन व्याचष्ये ॥ मन्थनादीति ॥ तत्तत्क्रियैकहेतुत्वात्‌ मथन धूत्कारादिक्रियामुख्यहेतुत्वादित्यर्थः । खं0 12 ॥ उपमन्त्रयत इति खण्डोपि भगवत्पर इति ज्ञापनाय स य एवमेतद्वामदेव्यं मिथुनेप्रोतं वेदमिथुनीभवतीत्यादिफलवक्यं प्रमाणेन व्याचष्ये ॥ मिथुनस्थमिति ॥ मिथुनीभवतीत्यस्यार्स्थोऽत्यागीच स्वभायर्ाणामिति । अनेन नकाञ्चनपरिहरेदित्यस्य स्वभार्याणां मध्ये न काञ्चचनपरित्यजेदित्यर्थः सूचितः । तेन काञ्चन काञ्चिदपि स्त्रियं स्वतल्पप्राप्तां समागमार्थिनीं न परिहरेदिति व्याख्यानं परस्त्रीरागपारवश्येन कृतमित्युपेक्ष्यमिति सूचितम्‌ । प्रतिषेधशास्त्रविरोधात्‌ । नच वामदेव्यापासनांगत्वेन विधानादेवतस्मादन्यत्र प्रतिषेधस्मृतयः । वचनप्रामाण्यादस्य च धर्मत्वावगेतेरिति वाच्यम्‌ । एतद्वचनस्यैव बहुस्मृति विरोधेनोक्तरीत्यान्यार्थत्वात्‌ । मिथुनेप्रोतमित्युक्तोमिथुनशब्दोमिथुनस्थभगवत्पर इत्युक्तम्‌ । तत्र तं शब्दं निर्वक्ति ॥ मिथ इति ॥ ओकारस्योकारोनिर्वचनत्वात्‌ ॥ खं013 ॥ उद्यन्‌ हिंकार इत्यादिखण्डाष्यकस्य भगवत्परत्वज्ञापनाय स य एवमेतद्बृहदादित्येप्रोतं वेद स य एवमेतद्वैरूपं पर्जन्येप्रोतं वेद स य एवमेतद्वैराजमतुषुप्रोतं वेद स य एवमेताः शक्वर्योलोकेषु प्रोतवेद स यएवमेतारेवत्यः पशुषु प्रोतावेद स य एवमेतद्वज्ञायज्ञीयमंगेषु प्रोतं वेद स य एवमेतद्राजनं देवतासुप्रोतं वेद स य एवमेतत्सामसर्वस्मिन्प्रोतं वेदेत्यष्यौ फलवाक्यानिप्रमाणेन व्याचष्ये ॥ आदित्येति ॥ पञ्चात्मन्यभिध्यात इत्यनेनोद्यन्हिंकार इत्यादिकमुपासनार्थमेवोक्तमित्युक्तं भवति । बृहदाद्यमित्यादिपदेन रूपादि ग्रहणम्‌ । अत्र प्रकरणाष्यकेप्रायः सर्वेषां शब्दानां भगवत्परतया व्याख्यातत्वादव्याख्यातान्कांश्ऱ्चिच्छब्दान्व्याचक्षराणस्तावत्समुद्रोनिधनमित्युक्तं समुद्रशब्दं भगवति निर्वक्ति ॥ समुद्रेकादिति ॥ सम्यगुद्रेकादित्यर्थः । दिशः प्रतिहार इत्युक्तदिक्‌ शब्दं निर्वक्ति ॥ देशनादिति ॥ लोमहिंकार इत्युक्तलोमशब्दं निर्वक्ति ॥ लोपकत्वादिति ॥ त्वक्‌ प्रस्तार इत्युक्तं त्वक्‌शब्दं निर्वक्ति ॥ तवोरूप इति ॥ प्रअकाशरूप इत्यर्थः । मां समुद्गीथ इत्युक्तमांसशब्दनिर्वक्ति ॥ मादनादिति ॥ आह्लादनादित्यर्थः । अनुस्वारश्ऱ्चाधिक्यार्थक इति ज्ञेयम्‌ । अस्थिप्रतिहार इत्युक्तास्थिशब्दं निर्वक्ति ॥ अस्थित्विति ॥ स्थिरमासनादस्थीत्युच्यत इत्यर्थः । तुशब्दोवधारणाथर्ः । मज्जानिधनमित्युक्तमज्जाशब्दार्थमाह ॥ मदस्येति ॥ एतद्वज्ञायज्ञीयमंगेषु प्रोतमित्युक्तांगशब्दं निर्वक्ति ॥ सोंगमिति ॥ अन्तिकगतत्वत इत्यर्थः । वायुः प्रस्ताव इत्युक्तवायुशब्दार्थमाह ॥ वायुरिति ॥ ज्ञानादिति वशब्दार्थः । आयुष्ट्वादित्यायुः शब्दार्थः । अयुप्रदत्वादित्यर्थः । नक्षत्राणि प्रतिहार इत्युक्तनक्षत्रशब्दार्थमाह ॥ नक्षत्रञ्चेति ॥ न विद्यते क्षत्रं क्षत्र जात्यवच्छिन्नं नियामकं यस्य तन्नक्षत्रमिति शब्दाथर्मभिप्रेत्यस्वतन्त्रत इत्युक्तम्‌ । चन्द्रमानिधनमित्युक्तचन्द्रमश्शब्दार्थमाह ॥ चन्द्रमा इति ॥ चदि आह्लादन इति धातोः । त्रयीविद्याहिंकार इत्युक्तत्रयीविद्याशब्दार्थमाह ॥ त्रैविद्य इति ॥ ज्ञानरूपतोज्ञानविषयत्वत इत्यर्थः । तेन त्रय्यावेद्यत इति त्रैविद्येत्यर्थ इत्युक्तं भवति । नक्षत्राणिवयांसिमरीचयः प्रतिहार इत्यनेन नक्षत्रशब्दस्य व्याख्यातत्वाद्वयांसिमरीचय इत्येतद्वयाचष्ये ॥ वायांसिति ॥ वायांसिचेति चशब्दान्वयः । एवशब्देन प्रसिद्धार्थं परोक्तमपाकरोति । अप्रतीतेः व्ययनादित्युक्तं विवृणोति ॥ वीत्याकाश इति ॥ तथाशब्दश्ऱ्चशब्दार्थः । वीति चाकाश उच्यते । तत्रऽकाशेऽयनाद्गमनादित्यर्थः । मितरुक्त्वतः प्रमितप्रकाशत्वत इत्यर्थः । सर्पागन्धर्वाः पितरस्तन्निधनमित्युक्तसर्पादिशब्दान्व्याचष्ये ॥ सर्प इति ॥ सपर्णहेतुत्वाद्गमनहेतुत्वात्‌ सृप्लृगतौ । गौर्भूर्विद्यावा । एतत्सामसर्वस्मिन्प्रोतमित्युक्तसर्वशब्दं व्याचष्ये ॥ सर्वमिति ॥ उक्तनिमित्तेन समुद्रादिशब्दाभिधेयः क इत्यत आह ॥ एतैरिति ॥ 13-21 ॥ सर्वं हभवतीत्यस्योपासकः सर्वस्वरूपो भवतीत्यर्थ इति व्याख्याननिरासाय प्रमाणेनैवतद्वयाचष्ये ॥ यादृशीति ॥ आयतिः प्राप्तिः । एतेन सर्वं भवत्यस्य सवर्ेश्ऱ्वरो भवति । निरूपचरितसर्वोत्तमत्वे हि दिग्भ्योबलिप्राप्त्युपपत्तिरिति व्याख्यानं चापास्तम्‌ । उपासकेनिरुपचरितसवर्ेश्ऱ्वरत्वस्य बाधितत्वात्‌ । ननु सर्वभावः सर्वस्वरूपत्वमेवकिन्नस्यादिति चेत्‌ । न । प्रमाणैनैन्यथाव्याख्यातत्वात्‌ । किं च सर्वभावोह्युपासनाफलत्वेनोच्यते । नच सर्वस्वरूपत्वं पुरुषार्थः येनात्र सर्वभावशब्दार्थः स्यादित्याह ॥ नचेति ॥ कुतो नेत्यत आह ॥ नारकित्वादेरिति ॥ ननु सर्वं भवतीत्यस्यावित्याकृतासर्वत्वव्यावृत्तिरर्थो न प्रतीत एव । एवं च नारकित्वादेराविद्यकत्वान्नोक्तदोष इत्यत आह ॥ नचेति ॥ कुतो नेति चेत्‌ । असर्वत्वस्वद्याकृतत्वे तद्वयावृत्तेश्ऱ्च सर्वभावशब्दार्थत्वे च प्रमाणाभावादित्यत आह ॥ प्रमाणाभावादिति ॥ ननु सर्वमस्मीत्युपासीतेत्युत्तरवाक्ये सर्वात्मकत्वे नोपासनाविधीयते । अतः सर्वं ह भवतीति फलवाक्यमपि तथैव व्याख्येयम्‌ । उपासनानुसारित्वात्फलस्येत्यतस्तदपि वाक्यं प्रमाणैनैव यथावद्वयाचष्ये ॥ असनादिति ॥ निरसनात्‌ । मितिरूपत्ज्ज्ानरूपत्वादित्यर्थः । तस्य सवर्रूपत्वं बाधितमित्यत उक्तम्‌ ॥ पूर्णतेति ॥ अनेनास्मि अस्मिनामकं ब्रह्मसर्वं पूर्णमित्युपासीतेति वाक्यं योजितं भवति । नन्वस्मीत्यस्य किं योगवृत्त्याभगवत्परत्वंगीकारेणोत्तमपुरुषत्वमेव किं न स्यात्‌ । नच सर्वभाव उपासकस्य बाधित इति वाच्यम्‌ । यतोत्र न स्वस्य नात्मप्रपञ्चात्मकत्नोपासन मुच्यते । येन श्रुत्यर्थोबाधितः स्यात्‌ । किं त्वनात्मप्रपञ्चस्य मिथ्यात्वात्‌ । यत्सर्वं सर्वनिगतमारोपाधिष्ठानचैतन्यं तदस्मीत्युपासीतेति सर्वचेतनात्मकत्वेनेत्यतस्तावत्सर्वस्य मिथ्यात्वांगीकारे बाधकमाह ॥ सर्वमिति ॥ उत्तमपुरुषत्वे सर्वस्य मिथ्यात्वे चांगीकृत इति शेषः । कुतो व्यर्थावित्यत आह ॥ अन्यस्यैवेति ॥ यदि सर्वमस्मीत्यस्योत्तमपुरुषत्न सर्वस्य मिथ्यात्वमभिप्रेतं स्यात्तदान्यस्यैवा भावेन पूवर्अमुदाहृतश्ऱ्लोकेतेभ्योन्यन्नास्तीत्येव वक्तव्यतयोत्तमत्वार्थकज्यायः परशब्दौ व्यर्थौस्यातामित्यथर्ः । तेभ्य इत्यस्य च भगवत्परत्वमाचार्य एवोत्तरत्र वक्ष्यति । यत एवं सर्वस्य मिथ्यात्वांगीकारे ज्यायः परशब्दौ व्यथर्ावतस्तेभ्योन्यदंगीकृत्यज्यायः परनिषेध एवांगीकर्त्तव्यः । एवं च न सर्वस्य मिथ्यात्वं वक्त६ु युक्तमित्याह ॥ अत इति ॥ तेभ्य इत्यस्य तत इत्यनुवादः । ननु भवत्पक्षेपि ज्यायः परशब्दयोरन्यतरस्य वैयर्थ्यम्‌ । तेभ्योन्यत्परं ज्यायोवानेत्येवतावतापूर्तेः । उभयोपादानं त्वयुक्तम्‌ । तेभ्योन्यत्परं ज्यायानास्तीत्युक्ते भगवत्परसद्भाव प्राप्त्यानतत्समश्ऱ्चाभ्यधिकश्ऱ्च दृश्यत इति श्रुति विरोधादिति चेन्न । यतोत्र तेभ्य इतिपञ्चम्यन्तमन्यदित्यस्य प्रतियोगिमात्र बोधकं न तु कं नतु परं ज्याय इत्यत्रावधिबोधकम्‌ । येनोक्तदोषप्रसंग इति भावेन तद्वाक्यं व्याचष्ये ॥ अत इति ॥ परपक्षेज्यायः परशब्दयोर्वैयर्थ्यप्रसंगादित्यर्थः । ब्रह्माद्यपेक्षयेति शेषः । ज्यायोमात्रनिषेधनिरासाय सर्वं वाक्यं सावधारणमिति न्यायेनैवेत्युक्तम्‌ । ननु यदि ततोन्यज्ज्यायोविद्येत तदा परमज्याय एव नास्तीति निषेधोयुक्तः स्यात्‌ । नच तदस्तीत्यत आह ॥ परमेति ॥ नतु ततोन्यः । एवंच भगवत्सदृशनिषेधोर्थोऽस्यवाक्यस्येति भावः । एवमनात्मप्रपञ्चस्य मिथ्यात्वं दूषयित्वेदानींयदुक्तं सर्वं सर्वत्रानुगतं यच्चैतन्यतदस्मीत्युपासीतेति । तद्दूषयति ॥ जीवेति ॥ सर्वमस्मीत्यस्यार्थत्वेनेति शेषः । जीवस्योपासकस्य सर्वचैतन्यैक्यांगीकार इत्यर्थः । अपि शब्देन तेभ्योन ज्यायः परमन्यदस्तीत्यस्य समुच्चयः । उक्तरीत्यातद्वाक्येन भगववदतिरिक्तचेतनसद्भाव प्रततेः तच्छब्दोप्ययुक्तः स्यात्‌ । तेन हि यच्छब्दतनिर्दिष्यादुपासकाद्भिन्नमेवकिंचिदुपास्यं प्रतीयत इत्यर्थः । ऐक्यपक्षेप्रयोगप्रकारप्रदर्शनेन तदेवोपपादयति ॥ तदेति ॥ यदुक्तं सर्वमस्मीत्यस्य जीवैक्यातर्म इत्यंगीकारेयस्तद्वेदेत्यादिविरोधः स्यादिति तन्न । जीवेश्ऱ्वरभेदस्य प्रत्यक्षानुमानसिद्धत्वेन यस्तद्वेदेत्यादेः प्रसिद्धभेदानुवादितया दुर्बलत्वात्‌ । अभेदस्य प्रअमाणान्तरासिद्धत्वेन सर्वमस्मीत्यादेरनुवादकतया प्रबलत्वात्‌ । नच प्रबलं दुर्बलेन बाध्यत इत्यत आह ॥ नचेति ॥ कुतो नेत्यत आह ॥ श्रुतिमिति ॥ तत्स्वरूपस्येश्ऱ्वरस्वरूपस्य । इदमुक्तं भवति । भेदस्तावद्धर्मिप्रतियोगिप्रतीति सापेक्षप्रतीतिकः । तत्रेश्ऱ्वरधर्मिकोजीव प्रतियोगिको वा जीवधर्मिख ईश्ऱ्वरप्रतियोगिकोवा भेदः प्रमाणान्तरसिद्ध इति वक्तव्यम्‌ । तत्र यद्यपि जीवः साक्षिवेद्यः । तथापीश्ऱ्वरसिद्धिः न तावच्छतिव्यतिरिक्त प्रमाणेन । स्वभाव विप्रकृष्यतया प्रत्यक्षतोसिद्धत्वात्‌ । विपर्ययेणाप्यनुमातुं शक्यत्वेन केवलानुमानासिद्धत्वाच्च । ततश्ऱ्च श्रुतिं विनेवेश्ऱ्वरस्तद्भेदोवासिद्ध इति यस्तद्वेदेत्यादिस्तदनुवाद इत्यंगीकारेतेनैव वाक्येनाभेदवाक्य्य बाधः स्यादिति हृदयम्‌ ।जीव ब्रह्मैक्यांगीकारे बाधकान्तरमाह ॥ ऐक्य इति ॥ अत्रेश्ऱ्वरशब्देन ब्रह्मोच्यते । तस्यैव स्वाधीनमायाबलस्येश्ऱ्वरत्वेन परैरंगीकारात्‌ । ऐश्ऱ्वर्यादिविशिष्येन जीवस्याभेदानुपपत्तेः । इदमुक्तं भवति । जीवब्रह्मणोरभेदपक्षेयच्छुद्धं ब्रह्मचैतन्यं तत्स्वस्वरूपं वेत्ति नवा । द्वितीयेऽधिष्ठान ज्ञानाभावेन शुद्धस्यापि संसारोपलम्भप्रसंगः । तदात्मानमेवावेदित्यादि श्रुतिविरोधश्ऱ्च । आद्येतत्स्वरूपस्य जीवस्यापि श्रवणाद्यभावेपि ब्रह्मज्ञानमस्तीति तस्य ब्रह्माज्ञानं न स्यात्‌ । ज्ञानाज्ञानयोः विरोधात्‌ । तथाच अज्ञानकृतसंसारोपलम्भोपि न स्यादिति । आदिपदेन संसारग्रहणम्‌ । ननु ब्रह्मणः स्वज्ञानसद्भावेपि तद्रूपस्य जीवस्याज्ञानादिकं युज्यत एव । स्वभावतस्तद्रूपत्वेप्यौपाधिकभेदस्य सत्त्वेनोपाधिनाजीवस्याज्ञात्वाद्युपपत्तेरित्यत आह ॥ औपाधिकेति ॥ यद्यौपाधिकभेद सत्वेनोपाधिर्जीवस्याज्ञत्वं कुर्यात्तर्हि ब्रह्मणोप्यज्ञत्वं कुयर्ात्‌ । जीवब्रह्मणोरैक्यादित्यर्थः । न केवलमेतावात्‌ किं तर्हीत्यत आह ॥ उपाधीति ॥ दोषादुःखादयः । एतने ब्रह्मणोज्ञत्वं मयांगीर्कियत एव । अज्ञाननस्य शुद्धब्रह्माश्रयत्वांगीकारादित्येतदपि परास्तम्‌ । ननु जीवब्रह्मणोरैक्येप्युपाधिर्जीवस्यैवाज्ञत्वं कुर्यात्‌ । उपाधिनिमित्तदुःखादिदोषाश्ऱ्चस्यैव स्युः । उपाधेः जीव एव सम्बद्धत्वात्‌ । तस्य च स्वसम्बद्ध एव कार्यकारित्वादित्यत आह ॥ उपाधीति ॥ उभयोरपीत्यनुवर्तते । नहि दर्पणं मुखसम्बन्धीति शक्यते वक्तुमिति भावः । ननूपाधिसम्बन्धस्योभयत्र समत्वेप्युपाधिर्जीवभाग एव स्वकार्यं करोति । न ब्रह्मभाग इति विशेषोयुज्यते । उपाधेः प्रतिबिम्बपक्षपातित्वनियमात्‌ । यथाखलु दर्पणादिकं मुखसम्बन्ध्यपि प्रतिमुख एव मालिन्यादिकं करोति । न मुख इति विशष इत्यत आह ॥ उपाधिस्बन्धस्येति ॥ अस्मिञ्जीव भागे अन्यथा ब्रह्मभागापेक्षयास्वकार्यकात्विमिति यावत्‌ । तस्मिन्‌ ब्रह्मभागे अन्यथा जीवभागापेक्षयास्वकार्यकारित्वमिति यावत्‌ । उपाधिसम्बन्धस्योभयत्र समत्वेप्युपाधिजर्ीवभाग एव स्वकार्यं करोति न ब्रह्मभाग इति वदन्प्रष्यव्यः । जीवब्रह्मणोरैक्यमुत भेद इति । नाद्यः । उक्तविशेषेर्थमयमसाविति निर्देशविषयत्वेन भेदस्वापेक्षितत्वात्‌ । द्वितीये सकिमौपाधिकः स्वाभाविको वा । नाद्यः । आत्माश्रयाद्यापातेन भेदस्योपाधिं विनास्वत एवापेक्षितत्वात्‌ । न द्वितीयः । विवादपर्यवसनापेत्तेः । उपाधिसंकीर्तनवैफल्याच्चेति भावः । मुखप्रतिमुखयोरपि स्वाभाविकभेदस्य सत्त्वान्नदृष्यान्तः सम्प्रतिपन्न इति हृदयम्‌ । ननु यदि जीवब्रह्मणोः मुखप्रतिमुखयोः वा स्वाभाविकभेदः स्यात्तर्ह्युपाधिः व्यथर्ः स्यात्‌ । तस्याविद्यमानभेदकरणव्यतिरेकेण कार्यान्तराभावात्‌ । दृष्यं चोपाधेरविद्यमानभेदकारकत्वम्‌ घटमठाद्युपाधेः स्वतोऽभिन्नाकाशभेदकत्व दर्शनादित्यत आह ॥ अत इति ॥ यत एवमुपाधिं विनास्वत एवभेदस्यापेक्षितत्वमत इत्यर्थः । विशेषोविद्यमानभेदज्ञापनरूपः । अयमाशयः । नाकाशादावप घटादेरविद्यमानभेदकारकत्वं वक्तुं युक्तम्‌ । असम्बद्धस्योपाधेः भेदकत्वेऽतिप्रसंगात्‌ । उपाधिसम्बन्धस्य सवर्देशवृत्तित्वेत्वभेदकत्वप्रसंगात्‌ । प्रदेशवृत्तित्वेपि तस्य प्रदेशस्योपाधिकृतत्वेऽनवस्थादि प्रसंगात्स्वाभाविकमेवेष्यव्यम्‌ । तथाच प्राक्‌ सिद्धस्याकाशभेदस्योपाधिनाकतर्ुमुशक्यत्वात्स्वतोभिन्नस्यैवाकाशादेरुपाधिनाविशेषोविद्यमानभेदज्ञापनरूपोभवतीत्यंगीकर्तव्यमिति । आकाशादौघटमठाद्युपाधिनाप्राग्विद्यमानोभेदोज्ञाप्यत एव । नत्वविद्यमानोभेदः क्रियत इत्यत्र तर्कशास्त्रवाक्यं प्रमाणयति ॥ यस्त्विति ॥ अभिन्नाव्याकृतकाशापेक्षयाविशेषद्योतनायतुशब्दः । अत्र खशब्दने भूताकाशं विवक्षितम्‌ । तस्य घटाद्यवच्छिन्नस्य बहिष्ठभूताकाशापेक्षयास्वत एव भिन्नत्वात्‌ । उक्तं च प्रथमतात्पर्ये स्वरूपं जायमानं च आकाशं तु घटेद्विधा । स्वरूपं जायमानेतु घटेनिर्भेदमेवतु । भिन्नवद्वयवहारस्य समर्तं तल्लयेनत्विति । यस्त्वभिन्नः स्वतः खादिस्तस्य भेदः प्रदेशविशेष उपाधिभिः ज्ञात्यपि योज्यम्‌ । एतदभिप्रायेणैवोपाधिखण्डनटीकायां खेपि देशान्तरस्य सः । विद्यमानस्यभेदस्य ज्ञापक इत्येतद्वाक्यं यदाकाशभेदोनास्तीति सिद्धान्तस्तदान्तरशब्दोविशेषवचनः । यदाघटमठाद्यकाशभेदाभ्युपगम इत्यादिनापक्षद्येयेपि योजितम्‌ । ननु भेदेवस्तुस्वरूपमेव स तद्दशर्नेनैव दृश्यः । न चोपाधेः स्वरूपदर्शने उपयोगोस्ति । तत्कथमुच्यते । उपाधिभिः र्भेदोज्ञाप्यत इतीत्यत उक्तमबुद्धिनामिति । भेदस्य वस्तुस्वरूपत्वे सति विशेषत्वं प्रतिपादितमन्यत्र । ततोवस्तुप्रतीतावपि भेदाप्रतीतिः अभेदप्रतीतिश्ऱ्चयुज्यते । तदाभेदज्ञापनेस्त्येवोपाधेरुपयोग इति भावः । एवकारव्यावर्त्यमाह ॥ नत्विति ॥ उपाधिः कुतो भदं न सृजेदिति चेत्‌ । किमुपाधिरपि भिन्नेभेदं कुर्यादुताभिन्ने । नाद्यः । प्राग्विद्यमानस्य भेदस्योपाधिजन्यत्वायोगात्‌ । न हि प्राक्‌ विद्यमानोघटोदण्डादिना जयते । द्वितीयं निराह ॥ उपाधिरपीति ॥ जनकत्वेनोच्यमानापीत्यपि शब्दार्थः । साधयितुमुत्पादयतिं नक्षमः विराधात्‌ । उपाधिसम्बन्धार्थमेवस्भाविकभेदस्यापेक्षितत्वाच्चेति भावः । निगमयति ॥ सिद्धेति ॥

विद्यमानभेदस्येत्यर्थः । तस्मादित्यादौ योज्यम्‌ । उपाधिरिति वर्तते । ननु यदि भूताकाशेऽव्यावृताकाशेवास्वतोविद्यमान एव भेदः । प्रदेशोवापाधिभिः ज्ञाप्यस्तर्हि उपाधीनामन्तत्वात्तज्ज्ञाप्यास्तेप्यनन्ताः स्युरित्यत इष्यापत्तिमुत्तरमाह ॥ आकाशा अपीति ॥ भूताकाशपक्षे यथाश्रुतम्‌ । अव्याकृताकाशपक्षेत्वाकाशा आकाशप्रदेशा इत्यर्थः । जीवैक्यांगीकार इत्यादिनोक्तमुपसंहरति ॥ अत इति ॥ सर्वमस्मीत्यादेरर्थ इति शेषः । किञ्च यदि सर्वमस्मीत्यादौ जीवेशयोरभेदोविवक्षितः स्यात्तदोपासीतेत्यनेनैव विरोधः स्यात्‌ । उपास्योपासकभावस्य भेदं विनाऽयोगादिति भावेन प्रमाणमाह ॥ नत्विति ॥ देवः ईश्ऱ्वरः देवदेवं ईश्ऱ्वरं समर्चयेत्‌ । उपासीत । कुत इत्यत आह ॥ सामनेति ॥ समत्वज्ञान इत्यर्थः । पूज्य उपास्यः । पूजक उपासकः । ऐक्यज्ञाने सुतरामुपास्योपासकभावानुपपत्तिरिति भावः । प्रमाणविरोधाच्च न जीवेशाभेदपरत्वं सर्वमस्मीत्यस्येति भावेन तयोः भेदप्रमाणान्याह ॥ अनन्येति । पूर्वमाश्ऱ्चर्योस्य वक्तेत्युक्तम्‌ । अद्वैतवादीभविष्यत्यस्य वक्तेत्यपेक्षायमुच्यते अनन्येति । अन्योभगवानन्योहमिबत्यजानन्‌ स एवाहमिति जानंश्ऱ्चानन्यः तेन प्रोक्तेऽत्र ब्रह्मणि । गतिर्ज्ञानं सम्यग्ज्ञानं न जायते कुतः । तस्य मिथ्याज्ञानित्वादिति भावेन जीवेशयोर्भेदकमाह ॥ अणुप्रमाणादपिजीवादणीयान्हीति ॥ यद्वा व्याख्यात्र भावेनाजमेन तज्ज्ञानासम्भेवेपि प्रत्यक्षेणस्यरदित्यत उक्तमणीयानिति । अनुमानेनापि न तन्निश्ऱ्चय इत्याह ॥ अतर्क्यमिति ॥ अतक्यर्त्वविवणपरं नैषातर्केणमतिरापनीयेति मध्यमवाक्यमत्र नोदाहृतम्‌ । प्रयोजनाभावात्‌ । तर्हि भगवज्ज्ञानोपायाभावेना मोक्षाभाव इत्यत आह ॥ प्रोक्तेति ॥ अन्येनैव जीवेश्ऱ्वरभेदज्ञानिनैव प्रोक्तावेदप्रवचनोत्पादिता मतिः सुज्ञानायसाक्षात्काराय भवति । प्रेष्ठेति न चिकेतसम्प्रतियमस्य सम्बुद्धिः । यथा चेदमभेदेपि न सावकाशन्तथोक्तमन्यत्र । तद्भ्रह्म विदिताद्वयक्तादन्यदेव । अविदितादव्यक्ताच्चान्यदेवेति सम्बन्धः । न केवलमेतावत्‌ । किन्तु विदितादविदिताच्चाधि अधिकमित्यर्थः । अव्ययानामनेकार्थत्वादन्येत्रेत्यस्यान्यदित्यर्थः । धर्मात्पुण्यात्मनो जीवादन्यत्‌ । अधर्मादधर्मात्मनो जीवादन्यत्‌ । न केवलं चेतनादेवकिंतु कृताकृतादचेतनादप्यन्यत्‌ । न केवलं वर्तमानादेव । किन्तच भूताद्भव्याच्चान्यत्‌ तद्ब्रह्मयद्यथापश्यसितत्तथावदेति यमं प्रति नचिकेतसः प्रार्थनम्‌ । नित्योनित्यानामिति स्पष्यार्थम्‌ । ननूदाहृतं श्रुत्यादिकं व्यावहारिकभेदपरं किं न स्यादित्यतो मोक्षेपि भेदं श्रुत्यादिभिः समर्थयते ॥ यथेति ॥ एवं मुनेर्विजानत आत्मा भवतिगोचमेति वाक्यशेषः । विजानतां मुनीनामात्मास्वामी चतुर्मुखोपि मुक्तः सन्‌ तादृगेव भवति । नतु स एव किम्वन्य इत्यर्थः । साधर्म्यं भेदव्याप्तम्‌ । ब्रह्मणासहेति भेदोक्तिः । साहित्यस्य भेदसापेक्षत्वात्‌ । ऐश्ऱ्वयर्मर्यादोक्त्याच नमुक्तब्रह्माभिन्ना इत्याह ॥ आधिपत्यमिति ॥ परमसाम्यमुपैतीत्युक्तसाम्यवचनव्याख्यानमेतत्‌ । आधिपत्यं जगद्वयापरम्‌ । विषयेण लक्ष्म्ादिविषयनिमित्तकेन भोगेन । ऋत इत्यत्रापि सम्बध्यते । अपरिच्छिन्नानन्ददीन्‌ । समाः दुःखराहित्येन । यद्वा आधिपत्यं च र्ते आनन्ददीश्ऱ्चर्ते विषयेण विषयनिमित्तकभोगेन समा इति योज्यम्‌ । ननु यदुक्तमनात्मप्रपञ्चस्य मिथ्यात्वांगीकारेतेभ्योनज्यायः परमन्यदस्तीति वाक्यविरोधः स्यादिति । तन्न । तेभ्य इत्यस्वभगवत्परत्वे हि ततोन्यप्रपञ्चसिद्धयास्मकं तद्विरोधः स्यात्‌ । नचैवं किं नामयानिपञ्चधाहिंकारादि विभागैः प्रोक्तानित्रीणित्रीणिविद्यादीनितेभ्यः पञ्चत्रिकेभ्योज्यायोमहत्तरं परं व्यतिरिक्तमन्यद्वस्त्वंन्तरं नास्ति । तत्रैव हि सर्वस्यान्तर्भाव इत्यर्थांगीकारादिति चेन्न । प्रद्युम्नादीनीति ॥ प्रद्युम्नादीनि पञ्चापि रूपाणि गादिस्थानभेदेन त्रीणित्रीणि जातानि । नच स्थानभेदेन भेदः शंकनीयः । नित्याभिन्नान्येव विरुद्धमपीदमैश्ऱ्वर्याद्युज्यत इत्युक्तमीशनादिति । ननु यदुक्तमनन्यप्रोक्त इत्यादिना जीवेशयोः भेदसिद्धिरिति । तदयुक्तम्‌ । उदाहृतवचनानां मिथ्याभेदविषयत्वात्‌ । मुक्तौ भेदवचनान्यपि गौणमुक्तिपराणि । स्पष्यं जीवेशभेदसत्यत्वप्रतिपादकं च प्रमाणं नास्ति । नच तान्येवतत्सत्यत्वे प्रमाणानीत्यत्र युक्तिरस्ति । भेदस्वरूपमात्रग्राहकत्वेनापि सावकाशत्वादित्यत आह ॥ दृष्येति ॥ प्रमाणसिद्धवस्तुन इत्यर्थः । चशब्द एवाथर्े । अत एवतद्वयावर्त्यमाह ॥ नत्विति ॥ ज्ञानानां ह्यप्रमाण्यं परतः प्रामाण्यं स्वत इति वादिप्रतिवादिनोः संमतत्वादिति भावः । किंच प्रत्यक्षबाधितं भेदप्रपञ्चमिथ्यात्वं । स्यादेतत्‌ । यदि प्रत्यक्षदृष्ययाजगत्सत्यत्वं चेत्सिद्धयेत्‌ । नचैतदस्ति प्रत्यक्षस्य स्वरूपमात्रगोचरत्वेन तत्सत्यत्वोगोचरत्वेयुक्त्याभावादित्यतोवा आह ॥ दृष्येति ॥ अयमर्थः । प्रत्यक्षदृष्यिः हि घटादिकं घटादित्वेना गोचरयति । घटादयश्ऱ्चार्थक्रियासामर्थ्यवत्सप्रभेदा इति घटादिसत्तागोचरैव । ज्ञानानां चाप्रमाण्यं परतः प्रामाण्यं स्वत इति वादिप्रतिवादिनोः सम्मतम्‌ । अतः प्रत्यक्षसिद्धस्य वस्तुनोमिथ्यात्वांगीकार एव बलवत्प्रमाणापेक्षा । नतु सत्यत्वे । अपवादाभावे दृष्ययैव तत्सिद्धेः । अत एवान्नादिकेभोग्येक्षधितेन दृष्ये नेदमन्नमिति केनचिदुक्ते कथमिदमन्नत्वेन दृश्यमानमन्नं न भवतीति तन्मिथ्यात्व एव बलवत्प्रमाणमपेक्षते नतु तत्सत्यत्व इति । अथवा ननु मास्त्वनात्मप्रपञ्चस्य मिथ्यात्वं तत्सत्यत्वं कुतः सिद्धयति । नच प्रत्यक्षदृष्ययैवेति युक्तम्‌ । तस्याः स्वरूपमात्रविषयत्वेन तत्सत्वगोचरत्वाभावात्‌ । तद्गोचरत्वेपि वाशुक्तिरजतादौ तदसाधकत्वात्‌ । तथाच जगतः सत्यत्वसाधकाभावात्सत्यत्वाभावे मिथ्यात्वमेवसेत्स्यतीत्यत आह ॥ दृष्यवस्तुन इति ॥ अर्थः पूर्ववत्‌ । तत्र प्रमाणमाह ॥ दृष्यस्येति ॥ दृष्यस्य सत्यतायां युक्तिः प्रमाणसद्भावश्ऱ्चभूषणमेव । प्रत्यक्षसिद्धेप्रमाणान्तरसंवादेदार्ढ्यसिद्धेः । अयुक्तिः । प्रमाणभावश्ऱ्चेदपि भूषणमेव । नतु दूषणम्‌ । अपवादाभावेदृष्येरेव सत्यतायां मानत्वादिति भावः । तस्य दृष्यस्य मिथ्यात्वेयुक्त्यभावः प्रमाणाभावोतिदूषणम्‌ । प्रमाणविरोधैकगम्यत्वात्तन्मिथ्यात्वस्येति भावः । ननु दृष्यस्यापि प्रपञ्चस्य मिथ्यात्वेदश्यत्वादियुक्तिरस्त्येवेत्यत आह ॥ युक्तिश्ऱ्चेति ॥ दृष्यस्य मिथ्यात्वं ह्यदुष्ययुक्त्यैव निश्ऱ्चेयम्‌ । यथाभिसर्पणाद्यभावयुक्त्यासर्पमितथ्यात्वम्‌ । प्रकृतयुक्तिश्ऱ्चदोषवतीत्यर्थः । कुत इत्यत आह ॥ बलवदिति ॥ तत्वमसीत्यादिकं त्वन्यथैवव्याख्यास्यते । बलवन्मानविरुद्धचेत्यपि ग्राह्यम्‌ । धर्मिसाध्यलिंगव्याप्त्यादि ग्राहकं हि प्रमाणमनुमानस्योपजीव्यत्वे बलवत्‌ । तच्चधर्म्यादिकं सत्यत्वेनैव गृह्णातीति जगन्मिथ्यात्वसाधकानुमानस्योपजीव्यविरोध इति । यद्वान्बलवमानवजिर्तातद्विरुद्धायुक्तिर्दोष एव वक्तुर्दूषणमेवेत्यर्थः । किंच वचनानां मिथ्याभेद विषयत्वेऽत्यन्तासद्भेदविषयत्वापत्त्यात्यन्ताप्रमाण्यं स्यात्‌ । असत्त्वमिथ्यात्वयोः मात्रयापि विशेभावादित्याह ॥ नचेति ॥ शून्यत्वत्यन्तासत्त्वम्‌ । तथा हि । मिथ्यात्वं नाम प्रतिपन्नोपादौ त्रैकालिकनिषेधप्रतियोगित्वम्‌ । स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वं सद्विविक्तत्वं वा । पक्षत्रयेप्यसत्त्वमिथ्यात्योः न विशेषः । शशविषाणशदावपीतोतिरिक्तस्यावसत्त्वस्याभावात्‌ । नच तत्र निरुपाख्यत्वमेवासत्त्वम्‌ । निरुपाख्यपदेनैव ख्यायमानत्वात्‌ । असतोऽप्रतीतावसद्भैलक्षण्यज्ञानानुपपत्तेश्ऱ्च । नाप्यपरोक्षतोप्रतीयमानत्वमसत्त्वम्‌ । नित्यातीन्द्रियप्यसत्त्वापातात्‌ । नापि क्वचिदपि सत्त्वेनाप्रतीयमानत्वमसत्त्वम्‌ । तद्धैक अहुरसदेवेदमग्र आसीदिति श्रुत्याऽसतः सत्त्वप्रतीतेः । नापि सदनिर्वचनीयाभ्यामन्यत्त्वम्‌ । अनिर्वाच्यत्वस्यासत्त्वनिरूप्यत्वेनान्योन्याश्रयात्‌ । लाघवेन सदन्यत्वस्यैव तत्वाच्च । नाप्यथर्क्रियासामर्थ्याभावादिकं तत्‌ । शुक्तिरूप्यस्य शुद्धब्रह्मणश्ऱ्चात्यन्तासत्त्वापातात्‌ । तस्मात्सार्वत्रिकत्रैकालिकनिषेधप्रतियोगित्वं वा स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वं वा । सद्रूपत्वाभावोवाऽसत्वमिति वाच्यम्‌ । तदेवचतवमिथ्यात्वमिति न तयोः विशेष इति भावः । ननु मिथ्यात्वं नामानिर्वचनीयत्वम्‌ । तच्चसदसव्वानधिकरणत्वम्‌ । असत्वं च निरुक्तमन्यदेवेति चेन्न । स्यादेवं यद्युक्तरूपमनिवर्चनीयं किंचित्स्यात्‌ । नच तदस्ति प्रमाणभावादित्याह ॥ तदिति ॥ तत्तत्रानिर्वचनीये इति मिथ्याशब्दार्थत्वेन बुद्धिस्थत्वात्‌ । तथाहि । न तावदनिर्वचनीयमिदमिति प्रत्यक्षं प्रमाणमस्ति । नच भ्रान्त्युत्थितस्य मिथ्यैव रजतं प्रत्यभादित्यनुवादो अस्तीति वाच्यम्‌ । मिथ्याशब्दस्यासत्त्वार्थत्वेनानिर्वचनीय परत्वाभावात्‌ । नापि विमतमनि3र्वचनीयं बाध्यत्वादित्यनुमानम्‌ । अप्रदिद्धविशेषणत्वात्‌ । नच सदसद्विलक्षणं क्वचिदागमोवक्ति । नच ख्यातिबाधान्यथानुपपत्तिः । असतोपि ख्यात्युपपत्तेरिति । एवं भेदमिथ्यात्वं निराकृत्योपसंहरति ॥ अत इति ॥ अस्तु भेदः सत्यः किन्तु व्यावहारिक एव । पारमार्थिकं सत्यत्वमेवमिथ्यात्वविरोधीति चेत्‌ न । भेदपञ्चकस्य व्यावहारिकत्वं वदतो मते किं कदाचित्‌ कस्याचिदयं नास्ति नासीन्नभविष्यतीति बुद्धिरस्ति न वा । द्वितीयं दुषयति ॥ नचेति ॥ आद्यं दूषयति ॥ तद्भावेचेति ॥ उक्तबुद्धिसद्भावे शून्यादसतः न विशेषोव्यावहारिकसत्यस्य । उपपादितं चैतत्‌ । भेदस्य सत्यत्वे स्पष्यां श्रुतिं च पठति ॥ सत्यमिति ॥ एनमनुविश्ऱ्वेमदन्तीत्येतत्सत्यमित्यनेन जीवेश्ऱ्वरयोरुपजीव्योपजीवकभावः सत्य इत्युच्यते । तच्चभेदमिथ्यात्वे । न युक्तमित्यर्थः । भेदकधर्मसत्यत्वोक्त्यन्यथानुपव्या भेदस्य सत्यत्वं वक्तव्यमित्युक्तम्‌ । इदानीं भेदस्यैव सत्यत्वे स्पष्यां श्रुतिमुदाहरति ॥ प्रपञ्च इति ॥ श्रुतेश्ऱ्चसत्योभेद इत्युनुवर्तते । नन्विदं शान्तिकेकर्मणिबेतलोत्थनमिव यावता भेदसत्यत्वायोदाहृतवाक्ये प्रपञ्चमिथ्यात्वं प्रतीयत इत्यतस्तद्वाक्यद्वयं सम्यग्व्याचक्षाणस्तावत्प्रथमार्धं व्याचष्ये ॥ प्रपञ्च इति ॥ ननु प्रपञ्चोघटादिरुत्पद्यमानोविनाशवांश्ऱ्चप्रमाणसिद्धः । अतो नेदमनिष्यापादनम्‌ । नापि विपर्ययेपर्यवसानमित्यतः प्रपञ्चशब्दार्थ उक्तो भेद इति । उपपादनं प्रमाणेन करिष्यति । विदेः सत्तार्थत्वमंगीकृत्य भवेतेति व्याख्यातम्‌ । व्यत्ययोबहुलमित्यात्मनेपदं सत्ताचकादाचित्कीविवक्षितेत्याह ॥ उत्पद्येतेति ॥ अथवा भवेतेति भूप्राप्तावात्मनेपदीवेत्यस्य विकल्पितण्यन्तस्येदं रूपं सत्तां प्राप्नुयादित्यर्थः । तस्य तात्पर्यमुत्पद्येतेति । यदीत्यस्य तर्हीत्यनेन नित्ययोगात्तर्हीति पूरितम्‌ । ततश्ऱ्चयदि जीवजडभेदोनश्येत्तदा जीवस्य जडत्वापत्त्यामोक्षशास्त्रवैयर्थ्यापत्तिरित्यादिरूपेणनिवर्ततेत्यस्यानिष्यत्वं द्रष्यव्यम्‌ । प्रसंगस्य विपर्ययपर्यवसानमाह ॥ अत इति ॥ नच निवतर्त इत्यादौ ग्राह्यम्‌ । उत्पत्तिर्नचेत्किंशशशृंगादिवन्मिथ्येति पृच्छति ॥ किंत्विति ॥ उत्तरमाह ॥ नित्य एवेति ॥ सार्वकालिक एवेत्यर्थः । वस्तुभूतस्य कादाचित्कस्वरूपलाभलक्षणोत्पत्त्यभावे सार्वकालिकत्वस्यैव प्राप्तेः । जीवेश्ऱ्वरेप्रकृत्यादिनित्यस्वरूपभूत एव भेदोनादिनित्य इत्यवगन्तव्यम्‌ । अत एव प्राक्‌ भेद इति सामान्यतः प्रकृतत्वेपि जीवेश्ऱ्वरादिभेद इत्युक्तम्‌ । अत एव च सुधायामपीत्थमेवोक्तम्‌ । सन्न्यायरत्नावलीकारास्तुभेदोनामान्योन्याभावः । सचान्योन्यतादात्म्यापरत्त्यैव निवर्तनीयः । प्रतियोग्यापत्तेरेवाभाव विपत्तित्वस्य प्रागभावे दृष्यत्वात्‌ । नच कदापि पदार्थानामन्योन्यतादात्म्यमस्तीत्यनित्यानामपि भेदोनित्यएवेति मन्यन्ते । यथाच न विरोधस्तथोपपादितमन्यत्रास्माभिः । ननु भेदपञ्चकस्यानादिनित्यत्वाद्युपपादनं प्रकृतासंगतम्‌ । नहि पूवर्ं भेदस्तत्पञ्चत्वं वातस्यानादिनित्यत्वं वा प्रसक्तम्‌ । येन तदुपपादनमत्रेति स्यादिति चेत्‌ । उच्यते । अनादिमाययासुप्तोयदाजीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदेति । पूर्वश्ऱ्लोकेऽनादिमाययापरमेश्ऱ्वरेच्छया प्रकृत्यादिनाच जीवजातस्य ज्ञानावरणलक्षणं सुप्तत्वं तयैव परमेश्ऱ्वरादितत्वज्ञानलक्षणप्रबोधश्ऱ्चोक्तः । तेन जीवेश्ऱ्वरयोः जडेश्ऱ्वरयोः जीव जडयोश्ऱ्च भेदाः सन्तीति लब्धम्‌ । प्रभोरिच्छयानिगडादिनापुरुषे बद्धेमुक्तेभेदत्रयदर्शनात्‌ । प्राक्‌ प्रभवः सर्वभावानामिति भावशब्दोक्तानां जीवानां मिथोभेदोपिलब्धः । तत एवावरणानां जडानामपि मिथोभेदोर्थाल्लभ्यते । तेषां च पञ्चानामपि भेदानामनादिमाययाऽजमनिद्रमित्यादिविशेषणसामर्थ्यादनादित्वमपि लब्धम्‌ । तदिदं पञ्चानामपि भेदानामनादित्वं सत्यत्वं चोपपादयितुमिदं श्ऱ्लोकद्वयमिति नासंगतिरित । एवं भेदपञ्चकस्यानादिनित्यत्वं विपक्षेबाधकप्रसंगेनोपपाद्यतत्सत्यत्वे प्रमाणं वक्तुं श्रुतौ माय
ामात्रमिदं द्वैतमित्युक्तम्‌ । तत्र द्वैतप्रपञ्चस्य मिथ्यात्वमुच्यत इति प्रतीतिनिरासाय मायामात्रपदं व्याचष्ये ॥ अत इति ॥ यतो भेदो नित्य एवातोब्रह्मवन्मिथ्यात्वायोगेन मायामात्रपदस्यायमेवार्थ इत्यर्थः । मात्रमित्यस्य माङ्माने रमुकीडायामिति धातुद्वय जत्वमभिप्रेत्यमातन्तरं चेत्युक्तम्‌ । मातं विषयीकृतमित्यर्थः । एवं पदार्थमुक्त्वातात्पर्यार्थमाह ॥ भगवानिति ॥ जानाति भेदमिति शेषः । रमतेचास्मिन्‌ भेदे भेदमंगीकरोतीत्यर्थः । यद्वास्मिन्‌ भेदेसति ब्रह्मादिभिः क्रीडत इत्यर्थः । अस्मिन्भेद इत्यनेनेदं द्वैतमिति प्राक्‌ प्रपञ्चशब्दोक्तार्थस्य परामर्श इति सूचयति । इति शब्दोहेतौ । नेद्वैतं भ्रान्तितिकल्पितमिति शेषः । नह्यविद्यमानमीश्ऱ्वरप्रज्ञाविषयो भवति । भ्रान्तत्वप्रसंगात्‌ । नाप्यविद्यमानेभेदेब्रह्मादिभिः क्रीडनं युक्तमिति भावः । ननु मायामात्रमिदं द्वैतमित्यनेन द्वैतमिथ्यात्वमुच्यत इत्येव व्याख्येयं उत्तरवाक्येऽद्वैतं परमार्थत इत्यद्वैतस्यैव पारमार्थिकत्वोक्तेरित्यतस्तत्तात्पर्यमाह ॥ तच्चेति ॥ यत्प्रज्ञानेन मातंरतंच तच्चेत्यर्थः । अद्वैतं भेदशून्यमित्यर्थः । ननु कथमेतत्‌ । भगवद्रूपस्यापि जीवादिभ्योभिन्नत्वात्‌ । कतं वानेनायमर्थोलब्ध इत्यतस्तद्वाक्यं व्याचष्ये ॥ परमार्थ इति ॥ तसेःसार्वविभक्तिकत्वात्परमार्थ इत्युक्तम्‌ । स्वतन्त्र इत्यर्थः । स्वतन्त्रं परमार्थाख्यमिति स्मृतेः । परमार्थत इत्यस्यैव तृतीयान्तत्वमंगीकृत्यार्थान्तरमुक्तम्‌ । तद्रूपेणेति ॥ स्वतन्त्ररूपेणमत्स्यादिना । द्वयोर्भावोद्विता भेद इति यावत्‌ । तस्या इदं धर्मिद्वैतं भिन्नमित्यर्थः । नद्वैतमद्वैतम्‌ । नन्वेतदयुक्तम्‌ । मायामात्रमिदं द्वैतमित्यनेन भेदस्य सत्यत्वेऽभिहिते भगवतस्तद्रूपेणभेदराहित्यकथनस्यासंगतत्वादित्यतोऽसंगतिपरिहारकतयापि तस्यैवापेक्षितपूरणेनार्थमाह ॥ यदद्वैतमिति ॥ मायामात्रमिदं द्वैतमित्यनेन भेदस्य सत्यत्वोतौ तर्ह्यतं बुध्यते तदेति व्यपदेशः कथमित्याकांक्षायां तद्गतिप्रदर्शनार्थमिदंवाक्यं प्रवृत्तमित्यर्थः । अनेन परमार्थत इति ल्यब्लोपनिमित्तापञ्चमीत्युक्तं भवति । यदद्वैतं नामाद्वैतं बुध्यत इत्यनेनोच्यते तत्परमार्थं भगवन्तमपेक्ष्येत्यर्थः । नन्वनेदाद्वैतमिति व्यपदेशस्य कोर्त उक्त इत्यत आह ॥ स्वगतेति ॥ नास्तीत्यद्वैतमितिव्यपेदेशस्यार्थ इत्युक्तं भवत्यनेनेत्यर्थः । एवं मायामात्रमितिद्वितीयार्धेन भेदस्य सत्यत्वे प्रमाणमभिधाय तत्र बाधकं च परिहृतम्‌ । इदानीं तस्य मिथ्यात्वे बाधकप्रदर्शनार्थं विकल्पोविनिवर्त्तेति वाक्यं प्रवृत्तमिति भावेन तदवतारयति ॥ नचेति ॥ केवरं कल्पनैवनतु वस्तुसत्वं मिथ्यैवेति यावत्‌ । कुतो नेत्यतस्तत्र बाधकप्रदर्शनपरतया वाक्यं व्याचष्ये ॥ यदीति ॥ विकल्पोभेदोयदिकेनचिदज्ञानादिनाकल्पितः स्यात्तथापि तदापि विनिवर्तेतबाध्येत । न केवलं भेदस्योत्पत्त्यंगीकारे निवृत्तिरापाद्यते । किन्तु कल्पितत्वांगीकारोपीति ज्ञापनायापिशब्दः । यद्यपि पूवर्ं निवृत्तिर्विनाशः । अत्र तु बाधः । तथापि निवर्त्तेतेति शब्दसाम्यमात्रेणापिशब्दः । अवधारणार्थोवायं निवर्त्ततेत्यनेन सम्बध्यते । तेनारोपितत्वस्य बाध्यत्वाव्यभिचारं सूचयति । नच निवर्तते तस्मान्नकल्पितः किन्तु सत्यएवेति वाक्यशेषः । नन्वेतदयुक्तम्‌ । अद्वैतं बुध्यत इत्याद्युपदेशविरोधात्‌ । ज्ञातेद्वैतं न विद्यत इति भेदस्य ब्रह्मज्ञान निवर्त्यत्वोक्तेश्ऱ्चत्यत उपदेशादित्यर्धं व्याचष्ये ॥ तस्मादिति ॥ उपदेशादद्वैतं बुध्यत इत्याद्युपदेशादित्यर्थः । कुत इत्यतस्तं वक्तुं तावदज्ञात इति पदच्छेदमभ्युपेत्यतदर्थमाह ॥ केनापीति ॥ ब्रह्मादिभिः ज्ञातत्वात्तत्प्रसादं विनेत्युक्तम्‌ । तं वादं दर्शयितुमज्ञातेद्वैतं न विद्यत इति वाक्यंव्याचष्ये ॥ तद्गत इति ॥ इत्ययमेवाद इत्यन्वयः । न चैवमद्वैतं परमाथर्त इत्यनेनेदं गतार्थं उपसंहारूपत्वात्‌ । अत एवोक्तं तस्मादिति । तत्रैव प्रमाणकथनाच्चनवैयर्थ्यमिति भावेनोपदेशादित्युक्तम्‌ । यदेवेहतदमुत्रयदमुत्र तदन्विहेत्यादेरित्यर्थः । एवं स्वयं श्रुतिं व्याख्यायतद्दार्ढ्याय प्रमाणमुदाहरति ॥ जीवेति ॥ गत इत्यस्य बुद्याविविक्तस्योत्तरत्रापि सम्बन्धः । इत्येवं पञ्चभेदः प्रपञ्चक इत्यच्यत इत्यनेन श्रौतप्रपञ्चशब्दोन जगद्विस्तारवाचीकिं तु जातीयरोर्थेपञ्चन्‌ शब्दाडुप्रत्ययः । एवं च पञ्चविधः पञ्चः । सच प्रकृष्यत्वात्प्रपञ्चः । सच प्रकरणप्राप्तोभेद एवेति भावः । कथं तस्य प्रकृष्यत्वमित्यत आह ॥ प्रकृष्येति ॥ तथाच मोक्षहेतुज्ञानविषयत्वेन भेदस्यापि प्रकृष्यत्वात्‌ पञ्चभेदः प्रेतिकथ्यत इति भावः । प्रकारान्रेण प्रपञ्चशब्दार्थमाह ॥ प्रकृष्येति ॥ अयं पञ्चभेदः । अनेन पञ्चानां वर्गः पञ्चः । पञ्चद्दशतौ वर्गेवेति वाशब्देन पञ्चशब्देन पञ्चशब्दस्य निपातनांगीकारात्‌ । प्रकृष्यः पञ्चः प्रपञ्चः । प्रकृष्यताचमोक्षांगज्ञानतया भवतीत्युक्तमेव । साच भेदसमबन्धिन एव पञ्चकस्योपपन्ना । वैलक्षण्यं तयोः ज्ञात्वामुच्यते बध्यते न्यथेत्यादेः । अतः प्रपञ्चोभेदपञ्चक इत्युक्तं भवति । एवं प्रपञ्चशब्दार्थमुक्त्वावाक्याथर्माह ॥ यदीति ॥ उत्पत्तिमतोभावस्य विनाशनियमादिति भावः । विपर्यये पर्यवसानमाह ॥ नेति ॥ मोक्षेपि भेदश्रुतेरिति भावः । मायामात्रमिदं द्वैतमित्येतत्‌ भेदसत्यत्वप्रतिपादनपरमिति भावेन व्याचष्ये ॥ मायेति ॥ तन्मितत्वात्‌ तेन विषयीकृतत्वात्‌ । अस्य भेदपञ्चकस्य । भ्रान्तिकल्पितत्वम्‌ । अनेन विप्रतिपन्नोभेदोन भ्रान्तिकल्पितः । विष्णुविज्ञानविषयत्वादित्यनुमानमुक्तं भवति । ननु विष्णुविज्ञानविषयोपि भेदो भ्रान्तिकल्पितः किं न स्यात्‌ । नह्यस्मादादिज्ञानविषयोपि चन्दभेदोन भ्रान्तिकल्पित इत्यत आह ॥ यदिति ॥ न क्वचिद्भ्रान्तत्वमस्येत्यत्र हेतुत्वन्तरमाह ॥ रमतेचेति ॥ अत्र भेदे । अनेन विमतो भेदो न भ्रान्तिकल्पितः । विष्णुरमणविषयत्वादित्यनुमानमुक्तं भवति । ननु चैत्र रमणविषयोपि स्वाप्नादिपदार्थश्ऱ्चैत्र भ्रान्तिकल्पितो भवत्येव । एवमत्रापि किं न स्यादित्यत आह ॥ नहीति ॥ तस्य अपेक्षावत्त्वादिति भावः । अत एव हेतौ विष्णुग्रहणं नन्वेवं यदि भेदस्य सत्यत्वं स्यात्तर्ह्यद्वैतं बुध्यते तदेत्यादिप्रयोगः कथमित्यतः प्राप्तमद्वैतं तं परमार्थत इति वाक्यं व्याचष्ये ॥ परमार्थ इति ॥ स्वदेहादिनेति शेषः । नन्वप्रसक्तप्रतिषेधोयमित्यत आह ॥ जडजीवेति ॥ जडान देहेन जीवे यथा भेदोस्तितथात्रनेत्यर्थः । यद्वा जडेघटादौ यथास्वावयवेन । जीवेच संसारिणियथाचिन्तनादिधर्मैश्ऱ्चभेदोस्ति । खण्डितत्वेन भेदाभेदांगीकारात्‌ । तथा परमार्थेहरौ स्वावयवैः स्वधर्मैश्ऱ्चभेदोनैवास्ति । तथाच स्वगतभेदराहित्यविवक्षयाद्वैतमित्युक्तिरिति भावः । भेदपञ्चकस्य मिथ्यात्वे बाधकोक्तिपरं विकल्प इति वाक्यं व्याचष्ये ॥ यद्ययमिति ॥ निवर्तते बाध्यते । ननु प्रपञ्चोयदीति वाक्येन भेदसत्यत्वमुच्यत इत्यसत्‌ । तथासति भूतं भवद्भविष्यदिति सवर्मोंकार एव यच्चान्यत्रिकालातीतं तदप्योंकर एव सर्वं ह्येति सर्वाभेदपरोपक्रमविरोधादित्यतः प्रबलेपसंहररानुसारेणैवोपक्रमोयाज्यत इति भावेनाह ॥ तस्मादिति ॥ उपसंहारवाक्ये भेद सत्यत्वस्य निर्णयात्सर्वाभेद प्रतिपादकतयाप्रतीयमानस्योपक्रमवाक्यस्य भूतभविष्याख्याभवदाख्यवस्तुपराः । भूतं भवद्भविष्यदित्यभिदास्तदन्येच त्रिकालातीतितादिशब्दा एक एवैकस्मिन्नेवास्मिन्नोंकाराख्ये जनार्दने वर्तन्त इत्येवमभिप्राय इत्यर्थः । अज्ञातेद्वैतं न विद्यत इति वाक्यं व्याचष्ये ॥ अज्ञातनामक इति ॥ पूर्वं विद्येतेत्यभवेतेत्यर्थ उत्पत्तिश्ऱ्चार्थलभ्येति व्याख्यानं कृतम्‌ । इदानीं विद्यतिरेवोत्पत्तिवाचीति भावेनधातुं पठति ॥ विदिरिति ॥ धातुः धातुव्याख्यानम्‌ । ननु प्रसिद्धव्याकरणेविद्यतिः सत्तार्थक एव प्रसिद्धो नतु कादाचित्कस्वरूपलाभार्थमिति चेन्न । तथासति प्रसिद्धव्याकरणेभिदिर्विदारणार्थएव व्याख्यात इत्यन्योन्याभावार्थको न स्यात्‌ । नच क्रियावाचित्वमाख्यातुमेकैकोथर्ः प्रदृश्यते । प्रयोगतोनुगन्तव्या अनेकार्थाहिधारव इति भावेनाह ॥ भिद्येतेतिवदिति ॥ भिद्येतत्यत्र भिदिर्धातुः यथा प्रसिद्धव्याकरणाप्रसिद्धत्वेप्यन्योन्यभावार्थस्तथाविद्यतेति शब्दान्तर्गतव्यितिरपिकादाचित्कस्वरूपलाभवाचीत्यर्थः । परमार्थेहरौ नैव भेदोस्तीत्यनेनाद्वैतं परमार्थत इति वाक्यं व्याख्यातम्‌ । तत्कथमयमर्तोनेन लब्ध इत्यतः परमार्थत इति तसेर्विवक्षितमर्थमाह ॥ परमार्थत इति ॥ विश्ऱ्वतः सर्वस्मिन्नंगेचक्षुर्यस्यासौ तथोक्तः । यथाविश्ऱ्वत इति तसिःसप्तम्यर्थेतथापरमार्तत इति तसिरपि सप्तम्यर्थे वर्तत इत्यर्थः । एवं पदार्थमुक्त्वावाक्यार्थमाह ॥ परमार्थ इति ॥ नन्वेवं तर्हि परमार्थो भगवानिति कथं प्राचीनं व्याख्यानमितस्तद्वयाख्यानांतरमिति भावेनाह ॥ परमार्थ इति ॥ ननु विद्येतेत्यत्र विद्यतिः सत्तार्थक एव किं न स्यात्‌ । प्रसिद्धत्वात्‌ । किमप्रसिद्धोत्पत्त्यर्थांगीकारेणेत्यत आह ॥ नहीति ॥ प्रपञ्चोयदि विद्येत तर्हि निवर्तेतेति यदिशब्दादिबलात्प्रसंगोयमिति ज्ञायते । प्रसंगश्ऱ्चव्याप्तिमूलः । तथाच विद्येतेत्यापादकतयोक्तार्थस्य निवर्ततेत्यापाद्यतयोक्तनिवृत्त्याव्याप्तिरवश्यं भाविनी । नहि विद्यमानं नवर्तते इति व्याप्तिः अस्ति नित्ये व्यभिचारात्‌ । अतः प्रतीयमानान्वययोग्यताभावान्नविद्यमानत्वं विद्यतेः अर्थ इत्यर्थः । नन्वेवं तर्ह्युत्पत्त्यर्थांगीकारोप्यनुपपन्नः । उत्पद्यमानस्यापि प्रध्वंसस्यानिवृत्तेः व्यभिचारादित्यत आह ॥ उत्पद्यमानमिति ॥ प्रायः प्रचुरं बहुलमिति यावत्‌ । प्राय इति प्रध्वंसव्यावृत्त्यर्थम्‌ । अनेन भावत्वेसतीत्यापादकविशेषणं विवक्षितमित्युक्तं भवति । नन्वेवं सति विद्यतिः सत्तार्थक एवास्तु । विद्यमानं प्रायोनिवर्तत इति व्याप्तिसम्भवात्‌ । किमप्रसिद्धोत्पत्त्यर्थांगीकारेणेत्यत आह ॥ जीवेश्ऱ्वरेति ॥ यदुक्तं विकल्पोविनिवर्तेतेति भेदमिथ्यात्वे बाधकमुच्यत इति तदसत्‌ । तस्य विकल्पोभेदः केनचिदज्ञानादिनाकल्पितोनिवर्ततेचेति वस्तुस्थितिकथनरूपत्वेन प्रसंगरूपत्वाभावादित्यत आह ॥ नचेति ॥ प्रपञ्चोविद्यतेनिवर्तचेत्यत्रापि बाधकं वदन्‌ पूर्वत्रबाधकान्तरमाह ॥ नतु निवर्तेतेति ॥ प्रपञ्चोयदि विद्येतेत्यादौ ग्राह्यम्‌ । यद्यत्र निवृत्तिर्नापाद्यते किं तर्हि स्वरूपकथनमेवैतदित्यंगीक्रियते । तदायदिशब्दद्वयं विद्येतनिवर्तेत विनिवर्तेतेति श्रूयमाणं लिङ्‌प्रत्यत्रयं चायुक्तं स्यात्‌ । विरुद्धार्थकत्वात्‌ । अनिष्यापादनरूपोह्ययं शब्दः । यदिशब्दसहितस्य लिङोयदिपर्वतोनिरग्निकः स्यात्तर्हि निर्धूमोपि स्यादित्यादौ अनिष्यापादन एव दृष्यत्वात्‌ । आपादनस्य च विपर्यये पर्यवसानमावश्यकमित्यनिवृत्त्यादिकमेव वाक्यसामर्थ्याल्लभ्यते इति भावः । एवमयुक्तत्वं यदि शब्दादेरुपपाद्यव्यर्थत्वं चोपपादयति ॥ कल्पितत्वमिति ॥ निवर्तते निवर्तिष्यते नतु निवर्तेतेति यद्यादिशब्दोपलक्षणमेतत्‌ । यद्यत्र प्रपञ्चमिथ्यात्वमभिधित्सितं स्यात्तदायोयं प्रपञ्चो विद्यत इव दृश्यते वस्तुतस्त्वविद्यमानः सनिवर्तिष्यते अज्ञानेन कल्पितोविकल्पोनिवर्तिष्यत इत्येव वक्तव्यम्‌ । नतु यद्यादिशब्दप्रयोगः व्यर्थत्वादित्यर्थः । ननु प्रपञ्चोयदीत्यत्र विकल्पोविनिवर्तेतेत्यत्र च वस्तुस्थिति कथनमिति भवद्भिरप्यभ्युपगतम्‌ । अस्वातन्त्ऱ्ाच्चनास्त्येवेत्येवं वाच्यं जगत्सदा । सदावृत्तेर्विद्यमानमिति ब्रूयाद्यदिक्वचित्‌ । यदि कल्पयतीदं स स एव विनिवर्तयेदिति वचनेन विकल्पः केनचिदलोकसिद्धेन परमात्मनाकल्पितः स्थीयतामत्रेति कल्किनतस्तेनैव विनिवर्तत इत्यन्यत्र व्याख्यातत्वादिति चेत्‌ । उच्यते । अयमभिप्रायोभाष्यकारस्य । सर्वथात्रोक्तरीत्याऽनिष्यापादनरूपत्वेन भेदपञ्चकस्यानादिसत्यतापरमेवेदं वाक्यं नतु परोक्तरीत्यावस्तुस्थिति कथनरूपत्वेन प्रपञ्चमिथ्यात्वपरम्‌ । तथासति यदि शब्दादिवैयर्थ्यप्रसंगात्‌ । वस्तुस्थितिकथनपरत्वश्रद्धायामपि तत्रोक्तरीत्यार्थोस्तु । नचात्रोक्त दोषः । यदिशब्दस्त्ववस्तुत्वे चास्वातन्त्ऱ्े च संशये । अवस्तुशब्दश्ऱ्चाशक्तेह्यल्पशक्तौ च कीर्त्यत इति वचनेन यदि शब्दस्याशक्तत्वमल्पशक्तित्वमस्वातन्त्ऱ्यं वार्थः । विद्येत निवर्तेतेत्यत्राख्यातविपरिणामः । तथाच प्रपञ्चोजगदशक्तमल्पशक्ति । अस्वतन्त्रं वा विद्यते ततापि निवर्तत इति संशय इत्यर्थः । अत एव पुप्रमेयदिविद्यन्ते मयिष्यन्त्येवते ध्रुवमिति धृतराष्य्रवचनम्‌ । विकल्पः प्रपञ्चोयदिकेनचित्परमात्मनास्थीयतामति कल्पितस्तदास्तेनैव निवर्तत इत्यथर्ः । यदि राज्यं करोत्येषनश्यत्येतदसंशयमितिवत्‌ । एवंच नास्मत्पक्षेयदिशब्दवैयर्थ्यम्‌ । आख्यातविपरिणामस्तुपरपक्षेपि सम इति । एवं परपक्षेऽनुपपत्तिकथनस्योपयोगं दशर्यन्नुपसंहरति ॥ अत इति ॥ अर्थान्तरस्यायुक्तत्वात्‌ । भेदासत्यत्ववादिनां निन्दनाच्चभेदसत्यत्वपरमिदं वाक्यद्वयमिति भवेनाह ॥ असत्यमिति ॥ तत्रैव हेत्वन्तरमाह ॥ विद्येति ॥ आत्मनिपरमात्मनिजीवादिभ्योभेदज्ञानमेव विद्येत्यर्थः । जीवादिभ्योन्यं जुष्यं सेव्य मीशं भगवन्तं तदेतत्सत्यमित्यादिप्रागुक्तप्रकारेणास्य महिमानं यदापश्यति तदावीतशोकएव भवतीत्यर्थः । एवंच प्रपञ्च इति श्ऱ्लोकद्वयस्य भेदसत्यत्वपरत्वात्‌ भेदसत्यत्वसमर्थनायैतच्छत्युदाहरणं नानुपन्नमिति स्मितम्‌ । एवं सर्वमस्थीत्यस्योत्तमपुरुषत्वे बाधकमुक्त्वापसंहरति ॥ अत इति ॥ मितत्वात्‌ । मितिरूपत्वात्‌ । यद्वामितत्वात्प्रमितत्वादित्यर्थः । खं0 21 ॥ ततश्ऱ्चमनोहिंकार इत्याद्येकादशखण्डानामयमर्थः ॥ अत्र प्राणेषु पञ्चविधं सामोपासीतेत्यादौ वक्तव्यम्‌ । हिंकारः प्रद्युम्नोमनोनामामनः स्थश्ऱ्चैत्यादिपूर्ववत्‌ । मन आदिस्थस्य हिंकारादिनाम्नोभगवतः गायत्रसामवाच्यत्वादिनोपास्तिः कर्तव्येति भावेन गायत्रसामवाच्यत्वं तन्नियामकत्वं चाह ॥ एतदिति ॥ एतत्‌ प्राणस्थविष्णवाश्रितं गायत्रं साम प्राणेषु इन्द्रियस्थविष्णुरूपेषु प्रोतं तद्वाचकं तन्नियम्यं चेत्यर्थः । एवमुपासकस्य फलमाह ॥ स इति ॥ योधिकारी एतत्‌ हिंकारादिनामकमेवं मन आदिस्थत्वेनैतद्गायत्रं प्राणेषु प्राणस्थविष्णुरूपेष प्रोतं च वेद सप्राणी प्राणस्थ विष्णुलाल्यो भवति । सर्वमायुर्मोक्षलक्षणमेति ज्योक्‌ सर्वज्ञः सन्‌ जीवति प्रजयापशुभिः महान्भवति । प्रकृष्यत्वेन जननात्प्रजेति ज्ञानम्‌ । पान्तिशंसाधनं चेति पशवोवेदाः तैः महान्भवतीत्यर्थः । नचैवं ज्योगित्यनेन पुनरुक्तिः परोक्षापरोक्षज्ञानयोः ग्रहणात्‌ । लौकिकप्रजादिकमपि यथा योग्यं तदिच्छूनां भवति कीत्यर्ामहान्भवति । एतत्फलहेतूक्तभगवदुपासनां गतयाकिंचिद्व्रतमाह ॥ महामना इति ॥ ा

एवमुत्तरत्रापि व्याख्येयम्‌ ॥ एकादशः खण्डः ॥ 11 ॥ एतदग्स्थिविष्ण्वाश्रितं रथन्तरं सामग्नौ प्रोतमग्निस्थ भगवद्रूपवाचकं तन्नियम्यंचेत्यर्थः । ब्रह्मवर्चस्वी ब्रह्मणोविष्णोः वरणादेवचायितमभिवृद्धं स्वरूपतेजोब्रह्मवर्चः तद्वान्‌ ब्रह्मवर्चस्वी मुक्त इत यावत्‌ । संसृतावल्प तेजो जीवरूपं भगवान्मुक्तौ महत्तेजः करोतीति हि प्रमाणप्रमितम्‌ । अन्नादो यथेष्यान्नभोक्ता भवति । अग्निप्रत्यक्‌ अग्न्यभिमुखोनाचामेत्‌ । न मक्षयेत्‌ । न निष्ठीवेत्‌ श्ऱ्लेष्मनिरसनं च न कुर्यात्तद्व्रतम्‌ ॥ द्वादशः खण्डः ॥ 12 ॥ उपमन्त्रयते रन्तुं संकेतं करोति । ज्ञपयते सुखमनुभवति । प्रतिस्थीसहशेतेयत्स्त्रयासह प्रतिशेते यत्स्त्रयासहाभिमुख्येन शयनं करोतीत्यर्थः । कालं मैथुनसमयम्‌ । गच्छति प्रप्नोति । तन्निधनं । न केवलमेतावत्‌ । पारं मैथुनपारम्‌ । गच्छति प्राप्नोति । तन्निधनम्‌ । मिथुनीभवति स्वभार्यात्यागीभवतीत्यर्थः । मिथुनान्मिथुनात्प्रजायते । अमोघरेताभवतीति यावत्‌ । न कांचन परिहरेत्‌ । एकस्यैव यदि कर्मवशेनानेकभार्याः स्युस्तासुकांचन परित्यजेदित्यर्थः ॥ त्रयोदशः खण्डः ॥ 13 ॥ उद्यन्हिंकार इत्यादिवाक्यं स्पष्यम्‌ । तपन्त मादित्यम्‌ ॥ चतुर्दशः खण्डः ॥ 14 ॥ सम्प्लवते सञ्चरति । मेघोजायते वर्षणोन्मुखो भवति । उद्गृह्णाति रज आदिकमिति शेषः । विरूपांश्ऱ्चपशून्‌ अजाविरूपान्‌ । गवाश्ऱ्वरूपांश्ऱ्चावरुन्धेप्राप्नोतीत्यर्थः । वर्षन्तं पर्जन्यम्‌ । पञ्चदशः खण्डः ॥ 15 ॥ वसन्त इत्यादिकं प्रागुक्तमेव वैराजसामप्रोतत्वं वक्तुमनूद्यते । प्रजयापशुभिः विराजतीत्यत्र प्रजापशुशब्देनोक्तरीत्याज्ञानवेदयोः ग्रहणम्‌ । महान्प्रजयापशुभिरित्यत्र प्रसिद्धा एव प्रजापशव इति न पुनरुक्तिः ॥ षोडशः खण्डः ॥ 16 ॥ लोकी भवति उत्तमलोकवान्भवतीत्यर्थः ॥ सप्तदशः खण्डः ॥ 17 ॥ अजाहिंकार इत्याद्यपि पूर्वोक्तानुवाद एवाधिकविधानार्थम्‌ ॥ अष्यादशः खण्डः ॥ 18 ॥ अंगीभवति दृढांगो भवति । अंगेन हस्तपादादिनानविहूर्च्छति । न कुटिली भवति । पंग्वादिर्नभवतीत्यर्थः । नांगेषु विहूर्च्छतीति पाठेप्ययमेवार्थः । यः संवत्सरपर्यन्तं गुरुकुलवासी सः संवत्सरं संवत्सरपर्यन्तं मज्ञोमत्तः सन्नाश्ऱ्नीयात्‌ । विहित भक्षणमपि नमत्तः सन्‌ कुर्यादित्यर्थः । मज्ञुमदकारिनाश्ऱ्नीयात्सर्वदैवेति शेषः ॥ एकोनविंशः खण्डः ॥ 21 ॥ एतासामग्न्यादिदेवतानामेव । सलोकतां स मानलोकतां गच्छति । ततोप्युत्तमश्ऱ्चेत्‌ सार्ष्यितां सामीप्यं गच्छति । ततोप्युत्तमश्ऱ्चेत्‌ सायुज्यमेकं देहत्वरूपं गच्छति । ब्राह्मणान्ननिन्देत्‌ । ब्राह्मणेषु देवतासन्निधानेन तन्निन्दनेदेवतानिन्दनस्यैव प्राप्तेरिति भावः ॥ विंशः खण्डः ॥ 20 ॥ त्रयीविद्याहिंकार इत्यादिनहिंकारादिनामकप्रद्युम्नादेः ऋग्वेदादित्रयादिगतत्वेनैकैकस्य रूपत्रयमुच्यते । एतत्‌ त्रयीविद्यादिगतभगवदाश्रितं साम नामविशेषानुक्तेरुक्तावशिष्यं सर्वमिति गम्यते । सर्वस्मिन्‌ पूर्णत्वात्‌ सर्वनामके त्रयीविद्यादिसर्वगत भगवद्रूपे । प्रोतं तद्वाचकं तन्नियम्यं चेत्यर्थः । यः एतत्‌ पञ्चविध भगवद्रूपम्‌ । एवं त्रयीविद्यादिगतत्वेनैतत्साम । सर्वस्मिन्भगवति । प्रोतं च वेद सः सर्वं भवति यादृशी उन्नतिः स्वयोग्यातां सर्वात्मनाप्राप्नोतीत्यर्थः ॥ 1 ॥ प्रद्युम्नादीनि पञ्चरूपाणि ऋगादिस्थानभेदेन त्रीणित्रीणितिष्ठन्तीत्युक्तम्‌ । तत्र श्लोकं पठन्माहात्म्यं तज्ज्ञानिनः फलान्तरं चाह ॥ तदिति ॥ तत्तत्रैषवक्ष्यमाणः श्ऱ्लोको भवति । प्रमाणत्वेनेति शेषः । श्ऱ्लोकं पठति ॥ यानीति ॥ यानिप्रद्युम्नादीनि पञ्चधापञ्चरूपाणि त्रीणि वर्तन्ते तेभ्योरूपेभ्योन्यवस्तुपरं ज्यायः ब्रह्माद्यपेक्षयोत्तमोत्तमं नास्ति । योधिकारी एतत्‌ भगवद्रूपाणामेव परमज्यायस्त्वं वेद ससर्वं वेद सर्वशास्त्रार्थज्ञो भवति । अस्यैव सर्वशास्त्रार्थत्वात्‌ । अस्मै ज्ञानिने सर्वादिशः सर्वदिग्वर्तिनोजनाः बलिं हरन्ति । इदं तु चतुर्मुखेमुख्यम्‌ । सर्वेस्मैदेवाबलमावहन्तीत्युक्तेः । अन्येषु यथासम्भवं बोध्यम्‌ । अत्र व्रतमाह ॥ सवर्मिति ॥ अस्मि असनान्मिति रूपत्वाच्चास्मिनामकं परं ब्रह्म । सर्वं गुणपूमित्युपासीत । द्विरुक्तिः पूर्ववत्‌ ॥ एकविंशः खण्डः ॥ 21 ॥ एवं सामनाम्नो भगवतो व्यास्तसमस्तोपास्तिरभिहिता । तत्र साम्न उद्गान प्रकारं स प्रभेदमाह ॥ विनर्दीत्यादिना ॥ तत्र विनर्दिसाम्नो वृण इत्येतद्वाक्यं दुर्गमार्थं व्याख्यातुं सामशब्दस्य प्रसिद्धर्थप्रतीति वारणशयार्थं तावदाह ॥ सर्वदेति ॥ सर्वदासमस्तेन सामेति श्रुत्यैव पूर्वं निरुक्तेरिति भावः । इदेनीं तद्वाक्यं व्याचष्ये ॥ तस्येति ॥ श्रुतौ पशव्यमित्यग्नेरुद्गीथ इत्यत्र उद्गीथशब्दः सर्वत्र सम्बध्यत इति भावेन तस्यार्थ उक्त उद्गानप्रकार इति । नचैवं सामन उद्गीथो विनर्दीत्येतावतावाक्यस्य पूर्णत्वात्‌ । वृण इत्यनन्वितमित्यतो वाक्य भेदं कृत्वायोजयति ॥ तदेवेति ॥ सामोद्गानप्रकारेविनर्दित्वस्य सिद्धत्वान्नैकवाक्यत्वं सम्भवति भावः । श्रुतावन्यत्र वृण इत्यनुक्त्वात्रैव तदुक्तेस्तदेवेत्येवकारः । तत्रहेतुमाह ॥ सर्वेति ॥ उक्तार्थं द्रढयन्प्रमाणैनैव खण्डं व्याचष्ये ॥ विष्णोरिति ॥ वृषभवत्‌ वृषभनादवत्‌ । अनेन विनर्दिसान्न उद्गीथ इत्येद्वयाख्यातम्‌ । पशव्यमित्यग्नेरुद्गिथ इत्यस्य व्याख्यानम्‌ ॥ स्त्रीति ॥ अनिरुक्तः प्रजापतेरित्येतस्यार्थमाह ॥ गम्भीर इति ॥ एतद्वदिति निर्वक्तुमशक्यत्वादनिरुक्त इति पदार्थमभिप्रेत्यानुपम इत्युक्तम्‌ । सोपमत्वस्य वक्ष्यमाणत्वात्तत्तात्पर्यमाह ॥ गम्भीर इति ॥ निरुक्तः सोमस्येत्यस्यार्थमाह ॥ अथेति ॥ मृदुश्ऱ्लक्ष्णं वायोरित्यस्यार्थमाह ॥ बृहस्पतेरिति ॥ अपध्वान्तं वरुणस्येत्यस्यार्थो ॥ वरुणस्येति ॥ विष्णोः स्वरोवृषभस्वरवदित्युक्तम्‌ । मृदुमेघस्वरोवायोरित्युक्त्यावायुस्वरोपि वृषभस्वरवदित्युक्तम्‌ । मेघस्वरवृषभस्वरयोः साम्यात्‌ । अत एव विष्णोः स्वरोवृषभवन्मेघनादवदेववेत्युक्तम्‌ । गम्भीरोनुपमोब्रह्मण इत्यनेन ब्रह्मस्वरोपि वृषभस्वरवदित्युक्तम्‌ । वृषभमेघनादयोरेवगाम्भीर्यदर्शनात्‌ । वृषभस्य स्वरवदिति शेषः । तदन्तराविंशति वर्षादवाग्वर्षस्य । यद्वा मेघनादवदिति गम्भीरोनुपम इति मृदुमेघस्वरवदिति च विष्णुब्रह्मवायुगानां नादानांगम्भीरत्वमुक्तम्‌ । तस्यैकप्रकारत्वप्रतीतिं निवारयन्‌ विशेषमाह ॥ एकस्येति ॥ तान्सर्वानेवोपसेवेतेत्यस्य सहेतुकमर्थमाह ॥ गायेदिति ॥ तस्मादेतेषामेव स्वराणां प्रशस्तत्वादेतैरेवस्वरैर्गायेत्‌ । देवोद्गानसदृशोद्गान विधानमशक्यत्वादयुक्तमित्यत उक्तम्‌ ॥ यथाशक्तीति ॥ वारुणं त्वेव वर्जयेदित्यस्यार्थोन विस्वरमिति ॥ तस्माद्विस्वरस्यानर्थहेतुत्वादित्यत्रापि सम्बध्यते । अमृतत्वं देवेभ्य आगायानीत्यागायेदित्यादिना प्रसिद्धोद्गातुरेवं विधसंकल्पः कथ्यत इति प्रतीति निरासाय व्याचष्ये ॥ अधिकारीति ॥ तथाच चेनैवं विधः संकल्पः कार्य इति भावः । तर्ह्यन्येषां कथमित्यत आह ॥ अन्येषामिति । कुर्यात्‌ विभक्तिविपरिणशमेन स्मृतिमित्यनुवर्तते । अन्यथास्मृतिकरणे बाधकमाह ॥ अवमन्तेति ॥ तत्र हेतुमाह ॥ देवानामिति ॥ देवादीनामित्यर्थः । निगमयति ॥ अत इति ॥ ददाति देवादीनां मोक्षादिकमिति शेषः । ननु यदि हृदिस्थोमुख्यप्राण एव देवादीनां मोक्षादिदाता तर्ह्यागायानीत्ययुक्तं स्यात्‌ । प्रसिद्धोद्गातुरेव संकल्पोक्त्यादिकर्तृत्वप्रतीतेः । नहि स्वस्य तादृशफलदानासामर्थ्ये तथा संकल्पादिकर्तृत्वोक्तिः सम्भवतीत्यत आह ॥ संकल्पेति ॥ संकल्पोमनसाध्यानम्‌ । उक्तिः वचनम्‌ । आदिपदेनोद्गानसंग्रहः । तर्हि प्रतीतिः कथमित्यत आह ॥ हिमुख्यत इति ॥ संकल्पोक्त्यादिकर्तृत्वस्य तस्मिन्नेवमुख्यत्वादित्यर्थः । अमुख्यतस्तत्कर्तृत्वविषयाप्रतीतिरिति भावः । आत्मनेस्वस्मै अन्नमागायानीत्यन्यथाप्रतीतिं वारयं स्तद्वयाचष्ये ॥ आत्मेति ॥ तस्मा अन्नमुतद्दिश्यागायेदिति शेषः । स्वात्मन एवान्नमागायानीत्यर्थः कस्मान्नस्यादित्यत आह ॥ ह्यर्थत इति ॥ हि यस्मात्प्राणस्थ हरेः भोजनेऽर्थतोनान्तरीयकतयाप्राणस्य भुजिर्भवेत्‌ । तस्मान्नासावर्थ इत्यर्थः । प्राणस्य देवान्तर्गतत्वाद्देवानां चामृतत्वमुद्दिश्यगानस्य कृतत्वेन स्वस्याप्यमृतत्वसिद्धेः नासावर्थ इत्याह ॥ प्राणस्यापीति ॥ तर्हि विष्णोरपि देवान्तर्गतत्वात्तस्याप्यमृतत्वं प्रतिवायुरुद्गायति ॥ किमित्यतोनेत्याह ॥ विष्णोरिति ॥ फलमिति वर्तते । विष्णोरमृतत्वं फलं नेति सम्बन्धः । कुत इत्यतस्तदमृतत्वस्यानादिनित्यत्वादित्याह ॥ क्वचेति ॥ चोहेतौ । विष्णोरमृतत्वमिति वर्तते । अन्तवत्त्वसमुच्चयेवाचशब्दः । तथाच विष्णोरमृतत्वं आदिमदन्तवच्चनक्वापीति यत इति भावः । सर्वेस्वराघोषवन्तो बलवन्तो वक्तव्याः । इन्द्रेबलं ददानीत्यादिवाक्यं व्याचष्ये ॥ इन्द्र इति ॥ इन्द्रबलदानार्थमेवेन्द्रबलं ददानीति संकल्प्यस्वरान्‌ घोषबलात्मकान्‌ घोषोनामध्वनिविशेषः । बलमित्यति प्रयत्न उच्यते । घोषबलयुक्तान्‌ ब्रअूयादित्यनेन सर्वेस्वरा इति वाक्यं व्याख्यातम्‌ । अहं विष्णोः स्वात्मानमर्पय एवेति संकल्प्याग्रस्नन्तरेवाप्रवेशिताननिरस्तान्बहिरेवानाक्षिप्तान्‌ यद्वा अग्रस्तान्‌ अदृष्यान्‌ अनतिद्रुतोच्चारितानिति यावत्‌ । अनिरस्तान्‌ । अनतिदूरोच्चारितानित्यर्थः । उपलक्षणमेतत्‌ । विवृतप्रयत्नयुक्तांश्ऱ्चोष्मणः शषसहान्‌ ब्रूयादित्यनेन सर्व ऊष्मणोऽग्रस्ता अनिरस्ताविवृतावक्तव्याः । प्रजापतेरात्मानं परिददानीति वाक्यं व्याख्यातं भवति । मोक्षयोग्यान्‌ मृत्युवर्जितान्‌ करिष्यामीति संकल्प्यसमस्तान्‌ स्पर्शानपि कादिमावसानान्‌ वर्णान्‌ लेशतोप्यसंस्पृष्यान्‌ ब्रूयादित्यनेन सर्वेस्पर्शालेशेनानभिहतावक्तव्याः मृत्योरात्मानं परिहराणीति वाक्यं व्याख्यातम्‌ । अत्रापि स्वराद्युच्चारयितृपुरुषमात्रस्यैतदुच्यत इति प्रतीतिनिरासायाह ॥ अन्यस्त्विति ॥ नान्यथातुकथं च नेत्यतः परमवमन्तान्यथाभवेदिति वक्तव्यम्‌ । किंतत इत्यत आह ॥ देवावमन्तेति ॥ यतोतोन्यथानस्मरेदित्यन्वयः । तं यदि स्वरेषूपालभेतेन्द्रं शरणं प्रपन्नोऽभूवं सत्वाप्रतिवक्ष्यतीत्येनं ब्रूयादित्यादाववस्थाविशेष एवेन्द्रादिशरणगतिध्यानं कर्तव्यमिति प्रतीतिनिरासायेन्द्रं शरणं प्रपन्नो भूवं प्रजापतिं शरणं प्रपन्नोभूवं मृत्युं शरणं प्रपन्नो भूवमिति वाक्यत्रयं व्याचष्ये ॥ इन्द्रमिति ॥ न केवलं स्वरपतित्वादिकमिति चशब्दः । सर्वेस्वराइन्द्रस्यात्मान इति वाक्यमिन्द्रपदं प्रसिद्धेन्द्रपरमिति प्रतीतिं वारयन्‌ व्याचष्ये ॥ ऐश्ऱ्वर्यादिति ॥ प्रसिद्धेन्द्रपरत्वेनुपपत्त्यभावेपि वस्तुस्थिति कथनायैवं व्याख्यातम्‌ । एवमुत्तरत्रापि द्रष्यव्यम्‌ । सर्वे ऊष्माणः प्रजापतेरात्मान इति वाक्यं प्रजापतिः दक्ष इति प्रतीतिनिरासाय व्याचष्ये ॥ ऊष्माधिप इति ॥ सर्वेस्पर्शामृत्योरात्मान इति वाक्यं मृत्युर्यम इति प्रतीतिनिरासाय व्याचष्ये ॥ मृत्युनामेति ॥ ननु प्राणस्योद्गातृत्वेकथमिदं घटते । इन्द्रमृत्य्वोर्वाय्वनधिकत्वेन तस्य तच्छरणागतिध्यानासम्भवादिति चेन्न । इतरोद्गात्रपेक्षयैवतत्प्रवृत्तेः । वायुविवक्षायां तु इन्द्रमृत्युशब्दयोः तदन्तर्गतभगवत्परत्वादिति भावेनाह ॥ मानुषाणामिति ॥ आद्यस्तुशब्दोमानुज्ञषाणां वाय्वाद्यपेक्षयाऽपकर्षरूपविशेषद्योतकः । द्वितीयस्त्ववधाणार्थो वायुत एवेति सम्बध्यते । तृतीयस्तुवायोरितरोत्कषर्रूपविशेषमाह ॥ इतरेषां मानुषाणां वायुतः वाय्वादितः शरणं भवेत्‌ । हरेरिन्द्राद्यर्न्गतस्य । नन्विन्द्रनामावायुः स्वरपतिरित्युक्तम्‌ । तथासति वायोरुद्गातृत्वे इन्द्रेबलं ददानीति स्मृत्यनुपपत्तेः न हि स्वस्मिन्‌ स्वयं बलद इत्यत आह ॥ यस्मादिति ॥ स तासतावायेन केनाप्युपालम्भेकृते प्रजापतिं शरणं पन्नोभूवं सत्वाप्रतिपेक्ष्यतीति शापोदेय इत्ययुक्तम्‌ । सज्जनं प्रति एवं शापस्यादेयत्वादित्यत आह ॥ सवर्ोपद्रवेति ॥ कर्तरिषष्ठी । मृत्योरात्मानं परिहाराणीत्यस्य मृत्युवर्जितान्‌ करिष्यामीति व्याख्यानं कथं मृत्योः स्वरूपं परिहराणीति प्रतीतेरित्यतस्तदपेक्षिताध्याहारेण व्याचष्ये ॥ मृत्योरिति ॥ इत्यर्थ इति शेषः । आत्मशब्दश्ऱ्चात्र जात्यैकवचन इत्यपि द्रष्यव्यम्‌ । प्रजापतीन्द्रशब्दौ विष्णुवायुपरावित्युक्तं प्रमाणान्तरेण द्रढयति ॥ ब्रह्मेति ॥ ब्रह्माप्रजापतिश्ऱ्चेति शब्दाभ्यां विष्णुरुच्यते । यदान्यं प्रबोधयन्‌ वर्तते अन्यप्रबोधकोष्माक्षरगत इति यावत्‌ । एवं परेषां बाधकोयदेत्यत्रापि परबोधकस्वरगतोयदेत्यर्थः । ब्रह्मप्रजापतीन्द्रशब्दान्‌ विष्‌रुवाय्वोर्निर्वक्ति ॥ बृंहयतीति ॥ व्युत्पत्तिभिः ब्रह्मप्रजापतीन्द्रशब्दैः विष्णुवायू उच्यते इति शेषः । यद्यपि ब्रह्मशब्दनिर्वचनं न श्रुत्यनुसारि तथापि प्रमाणे ब्रह्मशब्दस्य प्रसक्त्वात्तस्यनिर्वचनं कृतमिति मन्तव्यम्‌ ॥ खं0 22 ॥ ततश्ऱ्चायं खण्डार्थः ॥ साम्नः समत्वात्समनामकस्य भगवतः उद्गीथ इति वक्ष्यमाणमत्रापि सम्बध्यते । उद्गानप्रकारोविनर्दिसपादवर्षवृषभ
स्वरवन्मेघनर्दनवद्वा । तदेववृणे सर्वोत्तमत्वात्‌ । अग्नेरुद्गीथः उद्गानप्रकारः पशव्यम्‌ । इतिशब्द उपमार्थः । स्त्रीपशुस्वरवत्‌ । भगवत्स्वरस्य पुंपशुस्वरसादृश्यस्योक्तत्वात्‌ । उद्गीथ इत्यस्य सर्वत्र सम्बन्धः । प्रजापतेः ब्रह्मणः । उद्गीथ उद्गानप्रकारोऽनिरुक्तो निरुपमः । विंशति वर्षार्वाग्वर्षस्य वृषभस्य स्वरवत्‌ गम्भीरश्ऱ्चेति ग्राह्यम्‌ । सोमस्योद्गीथो निरुक्तः सोपमः । घण्टानिनादाख्योपमासहित इत्यर्थः । वायोरुद्गीथोमृदुमृदुमेघस्वरवत्‌ श्ऱ्लक्ष्णम्‌ । विंशतिवर्षस्य वृषभस्य स्वरवद्गम्भीरमित्यर्थः । इन्द्रस्योद्गीथः श्ऱ्लक्ष्णं गम्भीरं बलमस्यातीति बलवत्‌ । स्तनयित्नुघोषवदित्यर्थः । बृहस्पतेरुद्गीथः क्रौचं क्रौचपक्षिस्वरवत्‌ । वरुणस्योद्गीथः अपध्वान्तम्‌ । भिन्नकांस्यरवसमम्‌ । विस्वर इति यावत्‌ । किंतत इत्यत आह ॥ तानिति ॥ उद्गाता तान्‌ भागवतादीन्‌ बार्हस्पत्यन्तान्‌ सर्वानेवस्वारान्‌ उपसेवेत । यथा शक्तितत्तदुद्गान स्वरसदृशस्वरैरेवाद्गायेदित्यर्थः । एवमारव्यावर्त्यमाह ॥ वारुणमिति ॥ वारुणमेवस्वरम्‌ । तु विशेषेणवर्जयेत्‌ । विस्वरत्वादित्यर्थः ॥ 1 ॥ एवमुद्गातुरुद्गानेस्वरमुक्त्वा इदानीं देवादिविषये आकाशस्यमाह ॥ अमृतत्वमिति ॥ उद्गाता अहं देवेभ्यः अमृतत्वं मोक्षमुद्दिश्यागायानि । आगानं कुर्यामिति संकल्प्यागायेत्‌ । आगानं कुर्यात्‌ । पितृभ्यः स्वधां मनुषेभ्य आशा माशासनीयमिष्यमिति यावत्‌ । पशुभ्यस्तृणोदकं यजमानायस्वगर्ं लोकं आत्मने प्राणस्थपरमात्मने । अन्नमुद्दिश्यगायानीति संकल्प्यागायेत्‌ । उद्गानं कुर्यादित्यर्थः । एवं संकल्पः कायर् एव नैतद्विषयेप्रमादः कार्य इत्याह ॥ एतानीति ॥ एतानि पूर्वोक्तानिदेवामृतत्वादीनि । मनसाध्यायन्नप्रमत्तः संस्तुवीत ॥ 2 ॥ ततः किमिति चेत्‌ । औद्गात्रेहिमुख्याधिकारीवायुरेवान्येत्वमुख्याधिकारिणः । तद्गितायदिमुख्यवायुस्तर्हिअ देवादीनां मोक्षादिदानेक्षमोभवेत्‌ । नान्यथा । यदि चान्यस्तर्हिमद्धृदिस्थोमुख्यप्राण एव देवादीनां मोक्षादिकं ददातीति स्मृतिः कार्या । अन्यथा मनुष्यमात्रस्य देवादिमोक्षदानादौ सामर्थ्याभावेन देवावमन्तृत्वप्राप्त्यानर्थप्राप्तेः । नचान्यस्याऽगायानीति संकल्पानुपपत्तिः । मुख्यप्राणस्यैव तद्गतस्य संकल्पकर्तृत्वेन तथास्मृतिमात्रस्यानेन कर्तव्यत्वात्‌ । एवमुद्गातुर्देवादिविषये आशास्य मुक्त्वेदानीमुद्गात्रास्वरोष्मस्पर्शाक्षरेषु सम्यक्‌ प्रयुक्तेष्वपि यदि कश्ऱ्चिद्धूर्त उपालम्भं करोति तदातं प्रति वक्तव्यप्रकारं वक्तुं तावत्स्वरोष्मस्पर्शदेवता आह ॥ सर्वेस्वरा इति ॥ सर्वेस्वराः अकारादयः षोडशस्वराः इन्द्रस्य परमेश्ऱ्वर्यादिदं रातीति व्युत्पत्त्यावा इन्द्रनाम्नो वायोरात्मानोदेहाः प्रतिमा इति यावत्‌ । सर्वे ऊष्माणः शषसहाः प्रजापतेः प्रजाः पातीति प्रजापतिनाम्नो विष्णोरात्मानः । प्रतिमाः सर्वेस्पर्शाः कादयोमावसानावर्णाः । मृत्योर्मारणान्मृत्युनाम्नो रुद्रस्यात्मानः प्रतिमाः । किंतत इत्यत आह ॥ तमिति ॥ तमुद्गातारं यदि स्वरेषु सम्यगुच्चारितेष्वप्युपालभेत स्वरस्त्वयादुष्यः प्रयुक्त इत्युपालम्भं कुर्यादसुरस्तदाहमिन्द्रं स्वराधिपतिं वायुं शरणं प्रपन्नो भूवं स्वराधिपतीन्द्रप्रसादात्सम्यगेवस्वरोच्चारणं कृतवानस्मीत यावत्‌ । स इन्द्रस्त्वात्वां प्रतिवक्ष्यति शिक्षारूपं वचनमिति शेषः । इत्येनमुपालम्भकर्तारं प्रति ब्रूयात्‌ ॥ 3 ॥ अथ यद्येन मुद्गातारमूष्मसुसम्यक्‌ प्रयुक्तेष्वपि उपालभेतोक्तरीत्योपालम्भं कुर्यादसुरस्तदाहं प्रजापतिमूष्माधिपतिं विष्णुं शरणं प्रपन्नोभूवं सत्वात्वां प्रतिपेक्ष्यतिसंचूर्णयिष्यतीत्येनं ब्रूयात्‌ अथयद्येनं स्पर्शेषूपालभेतासुरस्तदामृत्युं स्पर्शाधिपं रुद्रं शरणं प्रपन्नो भूवं सः त्वां प्रति धक्ष्यति । भस्मीकरिष्यतीत्येनं ब्रूयात्‌ ॥ 4 ॥ ननु कथं स्वरोष्मस्पर्शोच्चारणं कर्तव्यं यत्रान्यैरुपालम्भेकृते एवं वक्तव्यमित्यतः स्वराद्युच्चारणप्रकारं दर्शयति ॥ सर्व इति ॥ इन्द्रेस्वराधिपतिवायौ बलं ददानीति संकल्प्येन्द्रेबलदानार्थेसर्वे स्वराघोषवन्तो ध्वनिविशेषवन्तो बलवन्तोति प्रयत्नवन्तो वक्तव्याः । घोषपूर्वकमतिप्रयत्नेन स्वरोच्चारणं कर्तव्यमित्यर्थः । प्रजापतेरूष्माधिपतिविष्णोरात्मानं स्वात्मानमेव परिददानिसमर्पय इति संकल्प्य सर्वे ऊष्माणः अग्रस्ताः अन्तरेवाप्रवेशिताः । अनिरस्ताः बहिरेवानाक्षिप्ताः । विवृताः विवृतप्रयत्नयुक्ताः वक्तव्याः । मृत्योः स्पर्शाधिपतेः सकाशादात्मानं मोक्षयोग्यं परिहराणि । मोक्षयोग्यान्‌ मृत्युवर्जितान्करिष्यामीति । संकल्प्यसर्वेस्पर्शालेशेनानभिहतालेशतोसंस्पृष्याः वक्तव्याः । ननु स्वराद्युच्चारकपुरुषमात्रस्य कथमिन्द्रेबलं ददानीति मृत्योरात्मानं परिहराणीति च संकल्पः । तत्रासमर्थत्वादिति चेत्‌ । औद्गात्रेमुख्याधिकारिणोमुख्यप्राणस्यैव स्वराद्युच्चारणेपि मुख्याधिकारित्वात्‌ । नचैवमिन्द्रेबलं ददानीति संकल्पानुपपत्तिः । अत्रैन्द्रात्रेमुख्याधिकारिणोमुख्यप्राणस्यैव स्वराद्युच्चारणेपि मुख्याधिकारित्वात्‌ । नचैवमिन्द्रेबलं ददानीति संकल्पानुपपविः । अत्रन्द्रशब्देन वायुपदयोग्यानां ऋजूनां ग्रहणात्‌ । अन्यैस्तुमद्धृदिस्थोमुख्यप्राण एवैवं करोतीति स्मृतिमात्रस्य कतर्व्यत्वादिति ॥ 5 ॥ द्वाविंशः खण्डः ॥ 22 ॥ पूर्वं व्यस्तसमस्तसामोपासकानां स्वर्गमोक्षौ फलत्वेनोक्तौ तत्र केषां किमिति न ज्ञायते । अतस्तद्विवेकेनाह ॥ त्रयोधर्मस्कन्धा इत्यादिना । अत्राहुर्मायावादिनः यज्ञादिमान्‌ प्रथमोगृहस्थ स्तापसोद्वितीयोवनस्थ स्तृतीयो ब्रह्मचारीनैष्ठिकः सर्व एतेपुण्यलोका भवन्ति । शिष्यस्त्वनुक्तः परित्राट्‌ ब्रह्मसंस्थोमृतत्वं पुण्यलोकविलक्षणं मोक्षमेतीति । तन्मतनिरासाय प्रमाणेनैव तात्पर्यमाह । सर्वे इति ॥ सर्वेषामाश्रमिणां धर्मैरित्यर्थः । यतिधर्मस्यापि पुण्यलोकसाधनत्वमस्ति । ब्रह्मज्ञानं चेत्सर्वेषामपि मोक्षोभवेत्‌ । एवंच त्रयाणामेव पुण्यलोको यतेरेव तद्विलक्षणोमोक्ष इत्ययुक्तमिति भावः । तेभ्यो भितप्तेभ्यः ॐकारः सम्प्रास्रवदिति ओंकारस्य वेदत्रयसारव्याहृतिसारत्वेन ज्ञानमुक्तम्‌ । तत्कुत इत्यतस्तत्रोंकार एवेदं सर्वमिति श्रुत्यभिप्रेतं हेतुमाह ॥ ॐकार इति ॥ ब्रह्मणः गुणपूर्णस्य । अनेन गुणपूर्णत्ववाचकत्वं हेतुमभिप्रैति । तद्यथेति श्रुत्युक्तं हेत्वन्तरमाह ॥ सर्वेति ॥ ननु प्रत्यक्षबाधितमेतदित्यत आह ॥ तद्वयाख्यात्वादिति ॥ सर्ववागात्मतोंकारस्य ननु ॐकार एवेदं सर्वमित्यत्र ॐकारस्य सर्वजगदात्मकत्वमुच्यत इत्यक्तं बाधात्‌ । इदं सर्वंशब्दजातमोंकार एवेति सर्वशब्दात्मकत्वमुच्यत इत्यप्यत एवायुक्तम्‌ । उक्ताभिप्रायेश्ऱ्चेत्तद्यथेत्यनेना गतार्थमित्यतः इदं शब्दस्योंकाविशेषणत्वमंगीकृत्यतद्वाक्यं व्याचष्ये ॥ इदंत्विति ॥ तु विशेषेणाव्यवधानेन प्रस्तुतत्वात्सः ओंकारः इदं इदमित्यनेन परामृश्यत इत्यर्थः । चोवधारणे । स इत्यनेन सम्बध्यते । अर्थपूर्णतः अर्थपूर्णत्वतः । पूर्णत्वार्थकत्वत इति यावत्‌ । ततश्ऱ्चेदमयमोंकार एव सर्वं पूर्णत्ववाचीत्यर्थ इत्युक्तं भवति । नचोंकारमुद्दिश्यसर्वमिति नपुंसकप्रयोगानुपपत्तिः । सर्वं पूर्णार्थकं यत्सः इदमोंकार ,वेत्युद्देश्यविधेयभावस्य विवक्षितत्वात्‌ । नचैवमपीदमोंकार इति सामानाधिकरण्यानुपपत्तिः । छान्दसत्वेन लिंगव्यत्ययोपपत्तेरिति भावः । अथवेदमित्यस्य सर्वशब्दान्वितत्वमेव सर्वशब्दस्य च नपुंसकत्वं सामान्ये नपुंसकमिति न्यायेनाश्रितमिति च नलिंगव्यत्ययदोष इत्यभिप्रेत्याह ॥ सर्वशब्देति ॥ ततश्ऱ्चेदं सर्वं सर्ववागर्थत्वेन प्रस्तुतं यत्पूणर्त्वं तद्वाची । ॐकार एवेत्यर्थ इति उक्तं भवति । अत एवोंकारोब्रह्मणोनामेति प्रागुक्तम्‌ । एवमोंकारस्य सारार्थकत्वेन सर्ववाक्सारतोपपादकतयेदं वाक्यं व्याख्यायेदानीं स्वरूपतः सर्ववागाधिक्योपपादकतयापि व्याचष्ये ॥ आधिक्यमिति ॥ ॐकारस्य सर्वत्वं चाधिक्यमेवेति सम्बन्धः । नन्वत्रेदमित्यस्य न सर्वशब्दविशेषणत्वम्‌ । स्वरूपाधिक्यस्य पूर्वमप्रस्तुतत्वेन परामर्शासम्भवादित्यत आह ॥ प्रस्तुतमिति ॥ तदाधिक्यं तद्यथाशंकुनेति पूर्ववाक्येन प्रस्तुतमित्यर्थः । ततश्ऱ्चेदं प्रस्तुतं यत्सर्वं स्वरूपतोधिकं सः ॐकारस्यैकत्वात्‌ । व्याहृतित्रयस्य वेदत्रयसारत्ववदत्रापि वक्तव्यत्वादित्यत आह ॥ अकाराद्या इति ॥ प्रजापतिर्लोकानभ्यत पदित्यादौ त्रयीविद्यासम्प्रास्रवदित्यादौ चोक्ताभितापनसम्प्रास्रवणेतपः प्रस्रवणे एवेत्यन्यथाप्रतीतिनिरासाय तयोः विवक्षितमतर्ं प्रमाणेनाह ॥ अस्मादयमिति ॥ तद्दृष्यिः सारत्वदृष्यिः । सारत्वज्ञानमेवसम्प्रस्रवशब्दस्याप्यर्थ इति भावः । ब्रह्मणः परमस्येत्युक्त्या श्रौतप्रजापतिशब्दोव्याख्यातः तेन प्रजापतिः विराट्‌ कस्य पोवेति व्याख्यानं निरस्तं । ननु यद्यत्र श्रुतौ प्रजापतिशब्देन परब्रह्मग्रहणं तर्हि तस्य नित्यज्ञानत्वेनाभ्यतपदिति कादाचित्कव्यहारः कथमित्यत आह ॥ नित्येति ॥ अचीक्लृपत्‌ ज्ञानव्यक्तिमकरोत्‌ । ननु परोकतरीत्यात्रयोप्याश्रमिणः पुण्यलोका भवन्ति । ब्रह्मसंस्थोयतिरेवामृतत्वमेतीत्येव युक्तम्‌ । नतूक्तरीत्याचत्वारोप्याश्रमिणः पुण्यलोका भवन्ति । त एव ब्रह्मज्ञानिनश्ऱ्चेदमृतत्वं यान्तीति । तथासति गृहस्थादिधर्मयज्ञादिवत्‌ यतिधर्मस्याप्यत्रोक्तिप्रसंगादित्यत आह ॥ तपःशब्देनैवेति ॥ सर्वेन्द्रियनिग्रहरूपत्वादालोचनात्मकत्वाच्चयतिधर्मस्येति भावः । सर्वेषामप्याश्रमिणां ज्ञानाभावेस्वस्वधर्मैः पुण्यलोकः सति ज्ञानेमुक्तिरित्यत्र प्रमाणान्तरमाह ॥ सर्वेषामिति ॥ सर्व एतेपुण्यलोका भवन्तीति सामान्येनोक्तम्‌ । तत्र कस्य कः पुण्यलोक इत्यतः प्रमाणेनैव तद्विवेचयन्‌ उक्तमर्थं प्रमाणान्तरेण द्रढयति ॥ यज्ञेति ॥ यत यस्तपसासूर्यमित्यनेन तपःशब्देनैव यतिधर्मश्ऱ्चोक्त इत्यतदपि प्रमापितम्‌ । चत्वारोपि परमहंसहंसकुटीजबहूदकाः । विशेषतः असाधाण्येनातेन सूर्यस्यार्चिरादिमार्गत्वेनोत्क्रान्तगम्यत्वात्कथमेतदित्याशंकापरिहृता । वनस्थाः तपसैवर्षीन्‌ ऋषिलोकान्‌ गच्छन्ति । नैष्ठिक ब्रह्मचारिणोगुरुशुश्रूषयावालखिल्यान्‌ गच्छन्तीत्यन्वयः । ब्रह्मसंस्थोयतिरेवामृतत्वमेतीत्यत्र किं संन्यासमात्रेणामृतत्व प्रप्तिरित्यभिप्रेतं उत तस्यैव ब्रह्मज्ञानं मोक्षश्ऱ्चेति । तत्राद्यं दूषयति ॥ नचेति ॥ कुत इत्यतः ज्ञानेनैवामृतत्वप्राप्तिश्रुतेरित्याह ॥ तमेवमिति ॥ तत्रैवसूत्रमपि पठति ॥ विद्यैवेति ॥ संन्यासमात्रेणमोक्षप्राप्तिः नास्तीत्यत्र भगवद्वाक्यमपि पठति ॥ नेति ॥ नरोयति न निर्बन्धयति । मोक्षदानायेति शेषः । एतैरहंनमोक्षद इति भावः । सांख्यं तत्वानां विवेचनम्‌ । योगोष्यां योगः । त्यागः संन्यासः । गीतावाक्यमप्युक्तार्थे संवादयति ॥ नचेति ॥ द्वितीयं दूषयति ॥ तस्येति ॥ चशब्देन पूर्वोक्त प्रमाणसमुच्चयः । तस्य मुक्तस्य पुत्राः पूर्वपुत्रा दायं धनक्षेत्रादिकं उपयन्तीति श्रुत्यर्थः । ननु यदि सर्वाश्रमिणां ज्ञानेन मोक्षः तर्हि ब्राह्मणस्यैव मोक्ष इत्युक्तं स्यात्‌ । तथा च प्रमाणान्तरविरोध इत्यतः । सर्वेषामप्युपलक्षणया प्रज्ञानेन स्यात्‌ इत्यत आह ॥ तथापीति ॥ यद्यपि सर्वेषां मोक्षस्तथापि कुत इत्यत आह ॥ ज्ञानेति ॥ ज्ञानमेवद्वारं मोक्षसाधनेयस्य स ज्ञानद्वारः । ननु गार्हस्थ्यादिकमपि ज्ञानद्वारमेव तत्कथमेतदित्यत उक्तम्‌ विशेषेणेति । संन्यासस्य विशेषणज्ञानद्वारत्वे श्रुतिमाह ॥ वेदान्तेति ॥ शुद्धसत्वाः यत यः । संन्यासयोगाद्वेदान्तविज्ञानेन मुनिश्ऱ्चित भगवद्रूपार्थास्त इत्युत्तरेणान्वयः ॥ खं0 23 ॥ ततश्ऱ्चायं खण्डार्थः ॥ धर्मस्कन्धाधर्माख्यवृक्षस्य शाखाभूतास्त्रयः केत इत्यत आह ॥ यज्ञ इत्यादिना ॥ यज्ञोध्ययनं दानमित्येतैरुपलक्षितो गृहीप्रथम एकस्कन्धः । तप एकः तपःशब्देन कायक्लेशात्मकमालोचनात्मकं च तपो गृह्यते । तेन तद्वानुपलक्षणीयः । तापसो वनस्थोयतिश्ऱ्चद्वितीयस्कन्धः । आचार्यकुलवासी ब्रह्मचारी । आत्मानं स्वात्मानं आचार्यकुलेऽत्यन्तमसादयंश्ऱ्चतृतीयस्कन्धः । अत्यन्तेति विशेषणान्नैष्ठिक इति लभ्यते । त एते गृहस्थोवनस्थोयतिः ब्रह्मचारोनैष्ठिकश्ऱ्चेत्येते सर्वे यदि न ब्रह्मापरिक्षज्ञानिनः तर्हि पुण्यलोकाः पुण्यसाध्योलोको येषान्ते ततोक्ता भवन्ति । तयिं विवेकः । गृहिणोयज्ञाध्ययनदानैः सोमलोकं गच्छन्ति । परमहंसादिप्रभिन्नाश्ऱ्चत्वारोपि यत यस्तपसासूयर् लोकं गच्छन्ति । वनस्थास्तुतपस ऋषिसेव्यप्रदेशान्‌ गच्छन्ति । ब्रह्मचारिणोनैष्ठिकाश्ऱ्चगुरुशुश्रूषयैव वा लखिल्यान्‌ गच्छन्तीति । ननु यज्ञादिसाधनैर्मोक्ष एव किं न स्यादित्यत आह ॥ ब्रह्मसंस्थ इति ॥ यतो ब्रह्मणिपरब्रह्मणि संस्थितः तदपरोक्षज्ञान्येव अमृतत्वं मोक्षमेति ॥ 1 ॥ प्रायोमुमुक्षुजप्योमन्त्रोवेदाद्यर्थकत्वादिनासर्वसारत्वादोंकार एवेति आख्यायिकयाह ॥ प्रजापतिरित्यादिना ॥ प्रजापतिः विष्णुलोकान्‌ लोक्यतेपरमपरं च वस्त्वेभिरिति लोकाः शब्दराशयस्तानभ्यतपत्‌ । किमत्रसारभूतमितपश्यत्‌ । अभितप्तेभ्योदृष्येभ्यस्तेभ्यः शब्दात्मकलोकेभ्यः त्रयीविद्या ऋगादिवेदविद्या सम्प्रास्रवत्‌ । सारत्वेन व्याज्ञायत । तां त्रयीविद्यामभ्यतपत्‌ किमत्रसारभूतमित्यपश्यत्‌ । तस्यास्त्रयीविद्याया अभितप्तायादृष्यायाः एतानि वक्ष्यमाणानि अक्षराणि सम्प्रास्रवंतव्यक्तान्यभवन्‌ । त्रयीविद्यासारत्वेन प्रजापतिनाज्ञातानीति यावत्‌ । कानितान्यक्षराणीत्यत आह ॥ भूर्भुवः स्वरिति ॥

तानि त्रीण्यक्षराण्यभ्यतपत्‌ । किमत्रसारभूतमित्यपश्यत्‌ । तेभ्योभितप्तेभ्य ओंकारः अकारोकारमकारात्मकः सम्प्रास्रवत्‌ । व्यक्तोऽभवत्‌ । अकारोभूः सारत्वेनोकारोभुवः सारत्वेन मकारः स्वः सारत्वेन परब्रह्मणाज्ञात इति यावत्‌ । एवमोंकारस्योक्तं सर्वसारत्वं कुत इत्यतस्तदुपपादयति ॥ तद्यथेति ॥ तत्‌ निदर्शनं यथा शंकुनासर्वाणि पर्णानि सन्तृण्णानि प्रोतानि । एवमोंकारेण प्रणवेन सर्वावाक्‌ सन्तृण्णा प्रोता प्रणवव्याख्यानरूपाः सर्वावाच इति यावत्‌ । तथाच सर्व वाग्व्याख्येयत्वात्सारत्वमिति भावः । साराथर्कत्वाच्च सारत्वमिति भावेनोंकारार्थमाह ॥ ॐकार एवेति ॥ यत्सर्वं पूर्णं पूर्णत्वाचीति यावत्‌ । स इदं पूर्वप्रस्तुतमोंकरार एव । अथवेदमित्यस्य सर्वशब्देनान्वयः । तदर्थस्यापि सर्ववागर्थत्वेना प्रस्तुतत्वात्‌ । अतो न लिंगव्यत्यय दोषः । यद्वा स्वरूपत्धकत्वाच्चोंकारस्य सारत्वमित्याह ॥ ओंकार एवेति ॥ इदं तद्यथेति प्रस्तुतं यत्सर्वं स्वरूपतोधिकं स ॐकार एवेत्यर्थः । द्विरुक्तिरुक्तावधारणार्था ॥ 2 ॥ त्रयोविंशः खण्डः ॥ 13 ॥ पूर्वं स्वर्गमोक्षफलकसामनामक भगवदुपरस्तिरुक्ता । साम्प्रतं विघ्नपरिहारद्वारापृथिव्यादिप्राप्तिमोक्षहेतुभूतसामैकदेशप्रतिपाद्यवस्वादिनिष्ठ भगवदुपास्तिं शिष्यगुर्वाक्षेपसमाधानरूपाख्यायिकयाह ॥ ब्रह्मवादिन इत्यादिना ॥ अत्र प्रसिद्धवस्वादीनामेव अग्निवाय्वादिपरलोकद्वारादिमन्त्रप्रतिपाद्यानां प्रातः सवनं प्रयच्छति । माध्यन्दिन सवनं प्रयच्छन्ति । तृतीय सवनं प्रयच्छतीत्यादिना प्रातः सवनादिकर्तव्यसम्पादकत्वमेवोच्यत इत्यन्यथाप्रतीति परिहारायखण्डतात्पर्यं प्रमाणेनैवाह ॥ वसुरुद्रेत्यादिना ॥ आदितेयेषु आदित्येषु विश्ऱ्वेषु देवेषु भवतिव स्वादिशब्दानां प्रवृत्तिनिमिज्ञत्तस्वातन्त्ऱ्ेणमुख्यत्वं वक्तुं ईश्ऱ्वर इत्युक्तम्‌ । प्रसिद्धवस्वादौ च तच्छब्दवृत्तिरव्यक्ताधिकरणन्यायेनेति सूचयितुं तेषु स्थितमित्युक्तम्‌ । मन्त्राणां भगवत्परत्वमुपपादयितुं प्रभुमित्युक्तम्‌ । हरिरेवैतैमन्त्रैः प्रार्थितोविघ्नपरिहारादीष्यदाने समर्थोनेतर इति भावः । दिवममन्तरिक्षं भुवं च । अनेन प्रातः सवनं सम्प्रयच्छन्तीत्यादौ प्रातः सवनादिकर्तव्यसम्पादकत्वमेव नोच्यते । किन्तु वस्वादयः स्वस्वामिकं प्रातः सवनादिकं तत्कालेकर्तव्यं निविर्घ्नं साम्पाद्य स्वस्वामिकपृथिव्यादिकमपि प्रयच्छन्तीति विवक्षितम्‌ । राज्यायविराज्यायस्वाराज्यायेति मन्त्रेषु पृथिव्यादिलोकप्राप्तेः प्राथितत्वात्‌ । प्रार्थितादाने च तेषामप्रेक्षावत्त्वप्राप्तेरित्युक्तं भवति । नास्याब्रह्मविद्यायाः पृथिव्यादिलोकप्राप्तिरेव फलं अपि तु मोक्षोपीति पूर्ववद्वयवस्थयाह ॥ त्वज्ञ इति ॥ तुशब्दस्य पूर्वेणोत्तरेण च सम्बन्धः । ब्रह्मपरोक्षज्ञानीसन्यजमानोदिवं प्राप्नुयादपरोक्षज्ञानी सन्‌ यजमानोमोक्षं तत्रत्यं सुखविशेषं प्राप्नुयादिति । तथाच वस्वादिस्थितहर्यनुसन्धानेन यजमानोयज्ञादिकारी अन्यथा यजमानस्य हर्यनुसन्धानाभावे वरोलोकोभूरादिमर्ोक्षश्ऱ्च । ननु राज्यायेत्यादौ पृथिव्यादिलोकप्राप्तिः प्राथिर्तेत्ययुक्तम्‌ । तद्वाचकपदाभावादित्यतोराज्यादिपदमेवतद्वाचकमिति प्रमाणेनाह ॥ राजानं पृथिवीलोक इति ॥ नन्वेवं ज्ञोमोक्षमित्ययुक्तम्‌ । मोक्षिलोकवाचकवैकुण्ठादिपदाभावादित्यतः पृथिव्यादीनामेव कतिपयमोक्षिलोकत्वमपीत्याह ॥ एतेष्विति ॥ एतेषु पृथिव्यादिषु लोकेषु मोक्षोमुक्तानां सुखं भोगविशेषः प्रमोदंत इति वक्ष्यमाणत्वात्‌ । विशेषिणामात्मत्वमात्रोपासनयोग्यानाम्‌ । आत्मेत्येव परं देवमुपास्य हरिमव्ययम्‌ । केचिदत्रैव मुच्यन्ते नोत्क्रामन्तिकदाचन । अत्रैव च स्थितिस्तेषामित्यादेः । ननु यावच्छ्वेतं न गच्छति । योगीतावन्नमुक्तः स्यादित्युक्तेः । कथमेतेषु मोक्ष इत्यत उक्तं विशदमाह ॥ श्ऱ्वेतद्वीपमिति ॥ तथेति प्रमाणेप्रकृतसमुच्चयः । ततस्तेनविष्णुना । त नाधरादिगतत्वेपि निर्दुःखत्वं नास्मदादिसाधारणमित्याह ॥ भगवतो वस्वादिदेवतानामित्वे श्रुतिमप्याह ॥ योदेवानामिति ॥ चशब्दः पूर्वोक्तप्रमाणसमुच्चायकः । भगवत एव मुख्यत इति शेषः । ननु मुमुक्षुभिः भवतु भगवान्‌ प्राथ्यर्ो न तु स्वर्गार्थिभिः वस्वादिप्रार्थनयापि तत्सिद्धेरित्यतस्तत्र प्रमाणमाह ॥ त्रैविद्या इति ॥ त्रैविद्यानाम ये प्रतिकमर्भगवदनुसन्धानरहिताः अवसानेस्वकृतमुत्तमबुद्धयाभगवत्यपर्यन्ति ते । पूर्वप्रमाणसमुच्चयार्थाश्ऱ्चशब्दः । प्रार्थ्यएवेति सम्बन्धः । स्वर्गाथिभिरपीति शेषः । ननु यदि स्वर्गाथिर्भिरपि भगवान्‌ प्रार्थ्यस्तर्हि तेषामन्तवत्फलं नस्यादित्यतस्तत्रकारणमाह ॥ भगवत्स्वरूपस्येति ॥ सम्यक्‌ भगवत्स्वरूपापरिज्ञानादं तव त्फलं भवतीत्यत्र प्रमाणमाह ॥ नतुमामिति ॥ रागादं तवत्फलमित्यत्राप प्रमाणमाह ॥ गतागतमिति ॥ ननु सम्यगपरिज्ञानादित्युक्तं सम्यक्‌ ज्ञानं कीदृशं यदभावादं तवत्फलवत्त्वं त्रैविद्यानामित्याशंकायां विष्णुवैष्णवद्वेषाभावेतरतम्यज्ञानपुरःसरं विष्णुसर्वोत्तमत्वज्ञानमेव सम्यग्ज्ञनम्‌ । इदं चावश्यं श्रेयोर्थिनासम्पाद्यमित्यशयेनान्यथानर्थानाह ॥ सर्वोत्तमत्वस्येति ॥ अज्ञानात्‌ नास्तिताज्ञानात्‌ । एवमुत्तरत्रापि । तम इत्यस्य विवरणमनुत्थानमिति । ननु ब्रह्मादिद्वेषेभवतुतमः तेषां कादाचित्कपराधेकृतेतदपूजायां तानुद्दिश्यसम्यगग्निहोत्राद्यनुष्ठानेपि किं तम एव फलमित्याशंकायां प्रसंगात्तत्राप्यनर्थान्तरमाह ॥ अपराथकृतेरित्यादिना ॥ निरमेवगच्छति न तमः । ननु विष्णुवैष्णवद्वेषशून्यं तारतम्यज्ञानपुरःसरं विष्णुसवोत्तमत्वज्ञानमेव सम्यग्‌ ज्ञानं तदेवश्रेयः साधनं चेत्‌ तर्हि परोक्षतादृशज्ञानवतां अस्मदादीनां इतरपुरुषार्थवत्‌ कुतो न मोक्ष इत्याशंकायामेतावन्मात्रं न मोक्षसाधनमित्याह ॥ अपरोक्षदृशेरिति ॥ अनेन पश्येमत्वाराज्यायेत्याद्युपपादितम्‌ । ननु पुर्वपूर्वोक्तदोषविरुद्धहरिसर्वोत्तमत्वज्ञानादिगुणवतां पश्ऱ्चादुक्तद्वेषादयोदोषाः कादाचित्काश्ऱ्चेत्किं स्वकार्यकरणे शक्ताः नेत्याह ॥ पूर्वपूर्वगुणैरिति ॥ पूर्वपूर्वगुणैः पूर्वपूर्वोक्तदोषविरुद्धगुणैः हरिसर्वोत्तमत्वज्ञानादिभिः सहिताः उत्तरोत्तराः पश्ऱ्चादुक्ताः द्वेषादयोदोषाः कादाचित्का इति शेषः । स्वकार्यसाधनेन शक्ताः । नन्विदमयुक्तम्‌ । हरिसर्वोत्तमत्वज्ञान तत्स्नेह ब्रह्मादिस्नेह तारम्यज्ञानरूपगुणवतामपि कादाचित्काब्रह्माद्यपराधादयोदोनकरकादिकार्यकरणेशक्ता एव प्रमिबता इत्यत उक्तस्यापवादमाह ॥ स्थानद्वयेति ॥ हरिसर्वोत्तमत्वाज्ञानं तद्द्वेषश्ऱ्चेत्येकं स्थानम्‌ । ब्रह्मादिद्वेषस्तत्तारतम्यापरिज्ञानं चेत्यपरं स्थानम्‌ । अथवा हरिसर्वोत्तमत्वाज्ञानं ब्रह्मादितारम्याज्ञानं च मिथ्याज्ञानत्वेन क्रोडीकृतमेकं स्थानम्‌ । तदुभयद्वेषश्ऱ्चद्वेषत्वेनैकीकृतमपरं स्थानम्‌ । तथाचैतत्स्थानद्वयोत्तरे तत्पश्ऱ्चादुक्ताः कादाचित्कब्रह्माद्यपरादादयोदोषाः । पूर्वोगुणवतामपि स्वकार्यकरणेशक्ताः । अत्रोदाहरणमाह ॥ मोक्ष इति ॥ हरिसर्वोत्तमत्वज्ञानादिसम्यक्कर्मानुष्ठानांतगुणवतामपि जिज्ञासूनामपरोक्षादृशेरौन्याख्यदोषः स्वकार्यमोक्षाभावसम्पादकोयथेत्यर्थः । ननूक्तज्ञानवतामपरोक्षज्ञानं कथं न भवतीत्यपेक्षयामाह ॥ विरुद्धरागिणामिति ॥ तर्हि कदाभवेदित्यत आह ॥ यावदिति ॥ रागविनाशः निषिद्धरागविनाशः । विरक्तः अनिषिद्धैहिकामुष्मिकविषयाभिलाषाशून्यः । अनेन रागादन्तत्‌ फलमित्येतदुपपादितं भवति । अप्रमत्तश्ऱ्चेत्युक्तमप्रमादमाह ॥ अविस्मृतिरित्यादिना ॥ द्वितीयं सदेति पदं सर्वत्र सम्बध्यते । उद्योगात्‌ । श्रवणात्‌ । विचारतश्‌चशास्त्राभ्यास इति सम्बन्धः । शास्त्राभ्योसोसकृदावर्तनमित्यर्थः । ननु शास्त्रं नाम किं यस्याभ्यासः कायर् इत्यत आह ॥ शास्त्रमिति ॥ चोवधारणे । शास्त्रं तु पञ्चवेदा एवेति सम्बन्धः । तुशब्दोमोक्षोपयोगित्वं विशेषमाह ॥ अवधारणे न पाशुपतादिव्यावृत्तिः । ननु ऋगादयश्ऱ्चत्वारोवेदाः प्रसिद्धाः । पञ्चमोवेदोनामक इत्यपेक्षायामाह ॥ भारतमिति ॥ शैवब्राह्मपुराणव्युदासाय भगवतमित्युक्तम्‌ । भगवद्विषयमित्यर्थः । तथाच भागवतादिवैष्णवपुराणमेव पञ्चमेव पञ्चमवेदकोटिनिष्ठमिति भावः । अपजहिपरिघमिति मन्त्रत्रयोक्ताः परिघाः पापविशेषा इति प्रतीतिं वारयन्‌ तत्तात्पर्यमाह ॥ त्रिलोकेति ॥ त्रिलोकप्राप्तिप्रतिबन्धकीभूताः प्रसिद्धार्गलतुल्या इत्यर्थः । नन्विदानीमस्मदानीनां पृथिवीं प्राप्तानां प्रतिबन्धघादर्शनात्कथं त्रयः सन्तीत्युक्तम्‌ नच मरणानन्तरमुपलभ्यन्त इति वाच्यम्‌ । सर्वेषामपि भूतानामेवं प्रार्थनाभावेपि लोकत्रयान्यतमप्राप्तेः सिद्धत्वेन परिघाऽपनयनस्याप्रार्थ्यत्वादित्यत आह ॥ मृत इति ॥ तथाच लोकप्राप्तेः सिद्धत्वेपि तद्गतसुखभोगायपरिघाऽपनयनं प्रार्थ्यमेवेति भावः । एष हवैयज्ञस्यमात्रां वेद य एवं वेदेत्यत्र यज्ञस्य मात्रां याज्ञात्म्यं वेदेत्यन्यथाप्रतीतिनिरासाय तत्पदं प्रमाणेन व्याचष्ये ॥ यस्त्रतीति ॥ तुशब्दोवधारणे । हरिरेवयज्ञमात्रा नयज्ञयाथात्म्यमिति । अनेन यज्ञं मातिनिर्मातीति यज्ञमा यजमानस्तं त्रातीति यज्ञमात्राहरिरित्युक्तं भवति । वेद य एवं वेदेत्यंशं व्याचष्ये ॥ तमेवमिति ॥ यो भक्तो एवं पूर्वोक्तप्रकारेण वेत्ति स एव तं वेत्तीति सम्बन्धः । तज्ज्ञानं न मुख्यप्रयोजनमित्यतस्तत्साध्यं श्रुत्यभिप्रेतं प्रयोजनमाह ॥ यातीति ॥ मुक्तिंचेति सम्बन्धः । एवशब्दः स इत्यनेनान्वेति । एवं च य एवमुक्तरीत्यावेद एष वै एष एव यज्ञस्य मात्रां भगवन्तं वेद । ततश्ऱ्चतत्प्रासादादज्ञश्ऱ्चेत्स्वर्गं ज्ञश्ऱ्चेन्मुक्तिं यातीत्येतद्वाक्यं याख्यातं भवति ॥ खं024 ॥ ततश्ऱ्चायं खण्डार्थः ॥ ब्रह्मवादिनः परब्रह्मवादिनः शिष्या वदन्ति । गुरून्प्रतीति शेषः । किं यत्‌ यदि प्रातः सवनं वसूनां वसुस्वामिकं अतो भूर्लोकोपि वसूनामेव । प्रातः सवनाधिपतीनामेव भूलोकाधिपतित्वात्‌ । माध्वन्दिनं सवनं रुद्राणामतोन्तरिक्षलोकोपि रुद्राणामेव । माध्यन्दिन सवनाधिपतीनामेवान्तरिक्षलोकाधिपतित्वात्‌ । तृतीय सवनमादित्यनां विश्ऱ्वेषां देवानां चातः स्वर्गलोकोपि तेषामेव । तृतीयसवनाधिपतीनामेव स्वर्गलोकपतित्वात्‌ । तर्हि क्वय यजमानस्य ज्ञस्याज्ञस्य वा लोकोयदर्थमयं यजते भूलोकादीनामन्याक्रान्तत्वात्‌ । नचा ज्ञस्य लोकान्तराभावेपि ज्ञानिनोन्य एव लोको भविष्यतीति वाच्यम्‌ । सच्चिदादिचतुर्गुणोपासकमनुष्योत्तमादीनामन्यलोकसम्भवेपि आत्मत्वमात्रोपासकानां मुक्तानामेष्वेव लोकोषु स्थित्यवश्यं भावात्‌ । नचैवं यावच्छ्वेतं न गच्छतीत्यादि विरोधः । सकृच्छ्वेतद्वपगमनाभ्युपगमादिति भावः । इति वदन्तीत्यन्वयः । तत्र गुरुभिरुक्तं समाधानप्रकारमाह ॥ सय इति ॥ यः पुरुषः तद्वक्ष्यमाण लोकप्राप्तिप्रकारं न विद्यात्‌ सकथं कुर्यात्‌ । यज्ञादिकमिति शेषः । यतो वक्ष्यमाणलोकप्राप्तिप्रकाराज्ञानेज्ञादिकर्तृत्वमेवानुपपन्नमथकस्माद्विद्वान्‌ कुर्यात्‌ ॥ 1 ॥ किं कर्तव्यमित्यत आह ॥ पुरेति ॥ स यजमानः प्रातरनुवाकस्य शस्त्रस्योपाकरणशदुपक्रमात्पुरा गार्हपत्यस्य जघनेन पश्ऱ्चिमदेश इति यावत्‌ । उदङ्मुखः उपविश्यवासवं वसुगत भगवद्देवताकं सामाभिगायति ॥ गानमन्त्रमाह ॥ लोकेति ॥ हे वस्वन्तर्गत भगवन्‌ त्वं लोकद्वारं भूलोकप्राप्तिद्वारं अपावार्णू अपावृणु अपगतावरणं कुरु । तेन द्वारेण वयं त्वां पश्येमकिमर्थं राज्यायेति सम्बन्धः । कं पस्त्वाधिक्यार्थः । हुमित्यादिर्मन्त्रबीजाक्षरं आधिक्येन पृथिवीलोकेराजनायेत्यर्थः । इति सामाभिगायतीत्यन्वयः । अथोक्तसामगानानन्तरम्‌ । जुहोति जुहुयात्‌ । होममन्त्रमाह ॥ नम इति ॥ लोकक्षितेलोकनिवासिने । क्षिनिवासगत्योरिति धातुः । तदेवनिर्देशेनाह ॥ पृथिवीक्षित इति ॥ अग्नये वसुस्थितायादनादग्निनामकाय भगवते नमोऽस्तु । मे मह्यम्‌ । यजमानाय लोकं यजमानप्राप्तियोग्यं लोकं विन्दप्रापय । कोसौ यजमानप्राप्तियोग्योलोक इत्यत आह ॥ एष इति ॥ एष वैभूलोकरूपो वै यजमानस्य लोकेः । कुतः । अत्र भूलोकं प्रति । यजमानोहमायुषः परस्तान्मरणानन्तरमेतास्मि अतस्तं लोकं विन्देत्यर्थः । अत्र यजमानोयद्यपरोक्षज्ञानीतहि चरम देहत्यागरूपमरणानन्तरं यद्यज्ञः तर्हि प्रसिद्धमरणानन्तरमिति विवेकः । स्वाहेत्यग्नौजुहोति । तदनन्तरं हेव स्वन्तर्गअतभगवन्‌ प्रार्थनादिनाप्रसन्नस्त्वं परिघं भूलोकभोगविशेषप्राप्तिप्रतिबन्धकीभूतं सनातनं प्रसिद्धार्गलसहितं यदस्तितदपजहि अपनयेत्युक्त्वोत्तिष्ठति उत्तिष्ठेत्‌ । एवं कृते किं स्यादित्यत आह ॥ तस्मा इति ॥ तस्मै एवं प्रातरनुवाकत्‌ पुरा यजमानाय वसवः वसुनामकाः वसुस्थाः भगवद्रूपविशेषाः प्रसन्नाः सन्तः प्रातः सवनं तत्कालकर्तव्यं सम्प्रयच्छन्ति निर्विघ्नेन सम्पायन्तीत्यर्थः । ततश्ऱ्च भूलोकं तद्गत भोगविशेषं च सम्प्रयच्छन्तीत्यर्थः । एवमुत्तरत्रापि योजनाद्रष्यव्या । आग्नीध्रीयस्य दक्षिणाग्नेः रौद्रं रुद्रस्थरुद्रनामक भगवद्देवताकम्‌ । विराज्याय अन्तरिक्षेविशेषेणराजनाय वायवेरुद्रान्तर्गताय ज्ञानादायुष्ट्वाद्वायनामकाय परिघमन्तरिक्षलोक प्रतिमन्धकीभूतं यत्प्रसिद्धार्गलतुल्यमस्तितन्माध्यन्दिन सवनं प्रयच्छन्ति । ततश्ऱ्चान्तरिक्षं तद्गतभोगविशेषं च सम्प्रयच्छन्तीति भावः । आदित्यं आदित्यान्तर्गतादित्यनामक भगवद्देवताकं वैश्ऱ्वदेवं विश्ऱ्वेदेवगत भगवद्देवताकम्‌ । स्वाराज्याय स्वर्गलोके आधिक्येन राजनाय । अथादित्यसामगानानन्तरं वैश्ऱ्वदेवं सामाभिगायेत्‌ । साभ्राज्याय स्वर्गलोक एव सम्यग्राजनाय । तृतीयसवनं प्रयच्छन्ति ततश्ऱ्चस्वर्गलोकं तद्गतभोगविशेषं च सम्प्रयच्छन्तीति भावः । एवं ज्ञानिनः फलमाह ॥ एष इति ॥ यो विष्णुभक्तः एवमुक्तरीत्यावेद एषवै एष एव यज्ञस्यमात्रां यज्ञंमातिनिर्मातीति यज्ञमेतियजमान उच्यते । तन्त्रातीति यज्ञामात्राभगवान्‌ तं वेद ततश्ऱ्च तत्प्रसादादज्ञश्‌चेत्स्वार्गं ज्ञश्ऱ्चेन्मुक्तिं यातीति भावः । द्विरुक्तिरध्यायार्थावधारणार्था ॥
इति श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचित श्रीमच्छन्ददोगोपनिषद्भाष्यस्य टीकायां श्रीमद्वेदव्यासतीर्थपूज्यपादशिष्यवेदेशभिक्षुविरचितायां पदार्थकौमुद्यां द्वितीयाध्यायः समाप्तः ॥ 2 ॥

****************************************************************************************************

तृतीयोऽध्यायः॥

श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवायनमः ॥
सूर्यादिस्थं हरिं नानारूपं वस्वादिसेवितम्‌ । सूर्यादिपालितद्वारं वन्देऽध्यात्माधिदैवगम्‌ ॥ 1 ॥
पूर्वाध्यायान्तेवसुरुद्रादित्यानां प्रातः सवनाद्याधिपत्यमस्तीत्युक्तम्‌ । तच्चतैः न स्वमहिम्नाप्राप्तमिति वक्तुं तदुपास्यस्य आदित्यान्तर्गतस्य भगवतो महिमानं निरूपयत्वस्मिन्नध्याये ॥ असौ वा आदित्योदेवमध्वित्यादिना ॥ काव्यवदादित्यस्य प्रसिद्धमधुसाम्यमेवात्रोच्यत इति व्याख्याननिरासाय ब्रह्मविद्यात्वं सम्पादयन्‌ खण्डपञ्चकं प्रमाणेनैव व्याचष्ये ॥ य आदित्यगतइत्यादिना॥ स एव नत्वन्य इत्यर्थः । अनेन श्रौतोवैशब्दोव्याख्यातः । केन निमित्तेन भगवान्‌ मधुनामेत्यत आह ॥ मदधिरिति ॥ मदोधीयतेऽस्मिन्निति मदधिः । मदाश्रय इति यावत्‌ । स एवमध्विति प्रोक्त इत्यर्थः । निर्वचनत्वाद्दशब्दस्य लोप इकारस्योकार इति भावः । मदशब्नदस्य मत्तताथर्त्वप्रतीतिवारणायविवक्षितार्थमाह ॥ मद इति ॥ एवं संक्षेपतोमधुशब्दं निरुच्य तद्विशदयितुं मदपदेनकथं सुखं लब्धमित्यतस्तावदक्षरार्थकथनपुरःसरं तद्दर्शयति ॥ अइतीति ॥मदशब्दान्तर्गतेन अ इत्यनेनेत्यर्थः ॥ ज्ञानततिरिति ॥ माङ्मान इति धातोः मशब्दस्य ज्ञानवाचित्वात्‌ । तनुविस्तार इति धातोश्ऱ्चतकारस्य ततिवाचित्वादित्यर्थः । नन्वेवं आधिक्येन ज्ञानस्य ततिरित्यर्थोलब्धः । नच सुखं तादृशमित्यत आह ॥ तद्वत्तेति ॥ नात्र ज्ञानस्य ततिरिति विवक्षितम्‌ । अपितु ज्ञानेन ततिः पूर्णत्वमिति । तथाच ज्ञानवत्त्वं लब्धम्‌ । तदपि विषयत्वेनैव विवक्षितमिति भावः । नन्वथापीदमत्युक्तं सर्वेप्सितादाधिक्येन भ्रमादिसाधारणपरोक्षज्ञानमात्रविषयस्य सुखत्वासम्भवात्साक्षिभास्य त्वात्तस्येत्यत आह ॥ तेनेति ॥ ज्ञानशब्देनेत्यर्थः । अनुभवः साक्षी । केचित्तु ज्ञानवत्त्वमेव विशदमाह ॥ तेनेति ॥ तेन ज्ञानततिशब्दस्य ज्ञानवत्त्वार्थर्थकत्वेन अनुभवोऽनुभवविषयः । ज्ञानततिशब्दार्थ ईरित इत्यर्थ इत्याहुः । अक्षरार्थमुक्त्वापदार्थमाह ॥ अधिक इति ॥ अधिकः । आधिक्येन सर्वस्मादीप्सितादितियोग्यतयासम्बध्यते । सोयं मद इति प्रोक्तः । सुखमेवहितथाविधमिति शेषः । तस्मादुक्तं युक्तमित्यर्थः । एवं मदशब्दार्थमुक्त्वामधुशब्दार्थमाह ॥ तत्पूर्ण इति ॥ तच्छब्देन मदपरामर्शः । ननु मदधिरेव मध्वित्युक्तरीत्यामदाश्रयत्वमात्रं लभ्यते । नतु तत्पूर्णत्वम्‌ । तद्वाचकाभावादित्यत आह ॥ तृतीय इति ॥ इकारापेक्षयातृतीय उकारस्तदादेशभूतोऽतिशयार्थकः पूणर्त्ववाचीत्यर्थः । तृतीयोतिशय इति महाव्याकरणसूत्रादिति भावः । एवं मधुशब्दं निरुच्यतेदानीं देवमधुशब्दार्थमाह ॥ देवानामिति ॥ उपजीव्यत्वं षष्ठयर्थ इति भावः । प्रसिद्धादित्यप्रतीति वारणायादित्यशब्दमपि भगवति निर्वक्ति ॥ आदित्वादिति ॥ आदित्वादित्यदिशब्दार्थः । आततत्वादिति तकारार्थः । ज्ञानरूपत्वत इति यकारार्थः । नन्वेवं मधुशब्दस्य भगवन्मात्रपरत्वे तस्य द्यौरेवतिरश्ऱ्चीनवंश इत्यादिना प्रसिद्धमध्वपेक्षितसाम्योक्तिरयुक्तास्यादित्यतस्तदपि विवक्षितमित्याह ॥ प्रसिद्धेति ॥ चशब्दोव्याख्यानान्तरसमुच्चयार्थः । देवनां मध्विवमध्वितितर्पकत्वेन साम्यान्मधुत्वमत्रेति ज्ञातव्यम्‌ । यस्मात्सः प्रसिद्धमधुवत्तस्मात्तिरोवंशादिसंयुक्तो वाच्योतस्तदत्रोच्यत इत्यर्थः । तस्य द्यौरेव तिरश्ऱ्चीनवंश इत्येतदचेतनस्य द्युलोकस्यैव तिरोवंशत्वमुच्यत इति प्रतीतिवारणशयव्याचष्ये ॥ द्युनाम्नीति ॥ प्रकाशादिगुणैर्द्युनाम्नी श्रीस्तु श्रीरेव न लोकः । तर्हि कथं लोके वृत्तिरित्यतस्तत्सम्बन्धादित्यभिप्रेत्याह ॥ द्युसंस्थितेति ॥ एवमुत्तरत्रापि द्रष्यव्यम्‌ । साचतिरोवंश इति प्रोक्ता तिरोवंशशब्दवाच्यातत्स्थानीयाचेत्यर्थः । तदपेक्षितं साम्यमाह ॥ वायोरिति ॥ वायोश्ऱ्चापूपत्वेन वक्ष्यमाणत्वादपूपाश्रयत्वेन साम्यमिति भावः । अन्तरिक्षमपूप इति वाक्यमचेतनमात्रपरत्वपरिहाराय व्याचष्ये ॥ मध्वपूप इति ॥ अन्तरिक्षापूपशब्दवाच्योमारुतोमध्वपूपत्वेन विवक्षित इत्यर्थः । तस्य प्रसिद्धापूपसाम्यमाह ॥ तस्मिन्निति ॥ मधुत्वेन विवक्षित विष्णुस्थानत्वान्मधुस्थानत्वेन साम्यमिति भावः । मारुतस्यान्तरिक्षशब्दवाच्यत्वं केन निमित्तेनेत्यत आह ॥ स इति ॥ स मारुतः । मरीचयः पुत्रा इत्येतत्‌ । मरीचयोरश्मयः । रश्मिस्था आपो भौमा इति व्याख्यातद्वाक्यं व्याख्याति । तत्पुत्रा इति ॥ अनेन मरीचयः सूर्यमरीचिस्थाः मरीच्याद्या ऋषयः पुत्राः भ्रमरपुत्रस्थानीया इति व्याख्यातं भवति । सूर्यरश्मिषु संस्थिता इति नाडीस्थत्वेन साम्यमुपपादयितुं श्रियस्तिरोवंशस्थानीयत्वे तच्छब्दनिर्वचनलब्धधर्मेणापि साम्यमाह ॥ तिर्यक्‌ स्थित्वेति ॥ किं बलाद्वशेकुर्यादित्यत उक्तं भक्त्यैवेति । तिरोवंशस्तच्छब्दवाच्या तत्स्थानीयाचेत्यर्थः । केयं देव्यास्तिर्यक्‌ स्थितिरित्यत आह ॥ तिर्यक्त्वमिति ॥ साम्योपपादनाय प्रसिद्धवंशेपि तच्छब्दं तथैव निर्वक्ति ॥ तिर्यक्‌ स्थित्वेति ॥ स्व संस्थं मध्वपूपं अनेन वशयतीति वंश इति निर्वचनं सूचितम्‌ । अन्यद्योग्यतया लब्धमिति द्रष्यव्यम्‌ । वंश इत्युच्यत इति शेषः । मारुतस्य प्रसिद्धापूपसाम्ये यन्मध्वा श्रयत्वं निमित्तमुक्तं तदप्यपूपशब्दनिर्वचनलब्धमेवेत्याह ॥ यस्मिन्निति ॥ अप्‌शब्दार्थ आप्यमिति ॥ अनेन अप्‌ आप्यं उप उपस्थितं यस्मिन्नसावपूप इति निर्वचनं कृतं भवति । नन्वेतावतापि मधुभूतविष्णुस्थानत्वं कथं लब्धमित्यत आह ॥ आप्य इति ॥ मुक्तैः प्राप्यत्वादिति भावः । साम्यमुपपादयितुं प्रसिद्धमध्वपूपेप्येतदेवनिर्वचनमित्यभिप्रेत्यतत्र विवक्षितमाप्यमाह ॥ मध्वाज्यादीति ॥ आच्यादिमधु प्रसिद्धगम्‌ । प्रसिद्धमध्वपूपगमित्यर्थः । आप्यशब्दोलिंगव्यत्ययेनानुवतर्ते । अब्विकारत्वादिति भावः । तस्य ये प्रांचोरश्मय इत्यादिवाक्यं प्रसिद्धमधुवच्च स इति व्याख्यानपक्षेस्पष्यम्‌ । तथाहि । अस्यादित्यस्य ये प्रांचोरश्मयः प्राच्यांदिशिगतारश्मयस्ता एवास्य मध्वपूपस्य प्रांचोमधुनाड्यः प्राचीदिग्गतमध्वाधारच्छिद्राणीवे इत्यर्थः । एवं दक्षिणशरश्मय इत्याद्यापि योज्यमिति केवलं भगवत्परत्वपक्षेतद्वाक्यजातं वासुदेवपरत्वेन व्याचष्ये ॥ प्राच्यरश्मिष्विति ॥ एवं संकर्षणादयोपि येस्य दक्षिणारश्मय इत्यादावुच्यन्त इति ज्ञेयं अत एव स्वरूपांशैरिति वक्ष्यति । नाडीशब्दमपि तस्मिन्निर्वक्ति ॥ एतद्धिनेति ॥ अंशो वासुदेवादिः । कः किं प्राप्तुं एतद्विनानालमित्यत उक्तं विशदयति ॥ स्वरूपांशैरिति ॥ अंशिनं मूलरूपं प्राप्तुं प्रापिता अधिकारीस्वरूपांशैः वासुदेवादिभिः विनानालं न समर्थो हीत्यर्थः । एवमिदं वाक्यं पंचकमादिवाक्यं च दिङ्मात्रप्रदर्शनाय भजवन्मात्रपरतया व्याख्यातम्‌ । अवशिष्यानां वाक्यानां भगवन्मात्रपरत्वप्रकारस्तु प्रमाणान्तरादवसेय इति ज्ञेयम्‌ । ऋच एवमधुकृतो यजूंष्येवमधुकृतः सामान्येव मधुकृतो अथर्वांगिरस एव मधुकृतः गुह्या एवादेशाः मधुकृत इति वाक्यपंच मधुदृष्यान्तपक्षेशब्दविशेषपरतावारणायक्रमेण व्याचष्ये ॥ ऋग्वेदेत्यादिना ॥ वसव एव तु विशेषेण ऋचोऋक्‌शब्दवाच्याः न शब्दविशेषाः । तत्र हेतुः ऋग्वेदमानिन इति । अभिमानिनिशब्दस्य मुख्यत्वादिति भावः । हेत्वन्तरमाह ॥ अर्च्यत्वादिति ॥ प्रथमं प्रातः सवने विशेषादर्च्यत्वाच्चऋच इति सम्बन्धः । चशब्दौ परस्परहेतुसमुच्चायकौ । द्वितीयवाक्यं व्याचष्ये ॥ यज्ञेत्यादिना ॥ इन्द्राद्याः रुद्राय जरुद्दिष्याः । यजुः शब्दवाच्याः । तत्र निमित्तं यज्ञदेवता इति । अनेन याज्यत्वं यजुःशब्दप्रवृत्तिनिमित्तमुक्तं भवति । इन्द्रस्य रुद्रेषु प्रवेशः कुत इत्यत आह ॥ इन्द्रसखा इति ॥ यतः कारणशद्रुद्राः इन्द्रसखास्तत इन्द्रस्य रुद्रेषु प्रवेश इत्यर्थः । इन्द्रसाहायत इति क्वाचित्कः पाठः । तत्र इन्द्रसहायत्वत इत्यथर्ः । सचेन्द्रोनप्रसिद्ध इत्याह ॥ इन्द्रशब्दोदित इति ॥ ननु वायोरिन्द्रत्वेन तस्य रुद्रान्तार्भावः । याज्यत्वाभावेन यजुःशब्देन ग्रहणानुपपत्तेरित्याशंकायामितररुद्रापेक्षयातस्मिन्नेवमुख्यं याज्यत्वमस्तीत्याह ॥ स याज्य इति ॥ सः माध्यन्दिने सवने सोमभुजां रुद्राणां पुरःपूर्वं याज्यो यतोऽत उक्तमुपपन्नमित्यर्थः । अत्रेन्द्रशब्देन प्रसिद्धेन्द्र एव वाच्यः किं न स्यादित्यत आह ॥ सहीति ॥ अत्र रुद्रान्तर्गतो हीन्द्रः शंकरादिरुद्रमुख्य एव वाच्यः । इन्द्रेण मुकेनेति वक्ष्यमाणत्वात्‌ । शंकरपूवर्ाणां रुद्राणां मुख्यश्ऱ्च सवायुरेव प्रसिद्धो न पुरंदर इत्यर्थः । तृतीयं वाक्यं व्याख्याति ॥ साममनामान इति ॥ तत्र निमित्तमाह ॥ मासश इति ॥ एकैकं मासं एकैक आदित्योभुंक्ते इति द्वादशमासभोगिनोद्वादशादित्या इति समभोगात्सामनामान इति भावः । वरुणेन मुखेनेत्यत्रापि आदित्याधिपतित्वेनोक्तो वरुणो न प्रसिद्ध इत्याह ॥ इन्द्र इति ॥ पुरंदर इत्यर्थः । ननु वरुणशब्देनान्यत्र रूढे न कथं पुरंदरलाभ इत्यतो योगेनेत्याह ॥ यज्ञेष्विति ॥ ननु प्रसिद्ध एव वरुणः किं न स्यादित्यतः पूर्ववद्बाधकमाह ॥ आदित्यानामिति ॥ अत्र वरुण इतरादित्यापेक्षयामुख्य एव ग्राह्यः । अन्यस्य तदाधिपत्या सम्भावत्‌ । आदित्यानामधिपतिश्ऱ्च पुरन्दर एव प्रसिद्धोनाप्पतिरिति भावः । नन्विदमयुक्तम्‌ । इतरादित्येषु विष्णोरपि सत्त्वेनास्य तदाधिक्यासम्भवादित्यत उक्तम्‌ । विष्णुनियोजितो हि स इति विष्णुनैव स्वेतरादित्याधिपतित्वं तस्य नियोजितमिति भावः । ननु सर्वादित्यादिफतित्वाद्विष्णुरेव वरुणशब्देन विवक्षितः किं न स्यात्‌ । अत्रोपासका एव देवमधुकृत्त्वेन विवक्षिताः । विष्णुस्तूपास्योमधुभूतः वरुणेन मुखेनेति चोपासकस्यैवेतरोपासकमुख्यतत्रोपासकगणान्तर्गतोन भवतीत्यर्थः । चतुर्थं वाक्यं व्याख्याति ॥ इतिहासपुराणानामिति ॥ अनेनाथर्वांगिरस इति पदं इतिहासपुराणोपलक्षकमिति सूचितं भवति । अथर्वांगिरसां च सोमाद्या एवेति सम्बन्धः । अभिमानिन इति हेतुगर्भम्‌ । यतोभिमानिनोतोथर्वांगिररो नामकः ॥ अपीति ॥ अपिशब्दः तिहासपुराणनामकत्वसमुच्चयार्थः । योगेनापि अथर्वांगिरो नामकत्वं तेषामाह ॥ अधरमिति ॥ यतस्तेधरं वृष्यिं वर्तयेयुस्ततोथर्वाणः । तथांगानां रसाः नियामकाः यतस्ततोंगिरसः । अथर्वाणश्ऱ्चांगिरसश्ऱ्चेत्यथर्वांगिरसोथर्वांगिरोनामका इत्यर्थः । धकारस्य थकारोनिर्वचनत्वात्‌ । अंगेत्यत्राकारस्येकारोतिशयार्थः । अंगरसत्वं तेषां कथमित्यत उक्तम्‌ ॥ मनस्त्वादिति ॥ सोमस्य मनस्त्वात्‌ मनोभिमानित्वात्‌ । इतरेषां मरुतां प्राणरूपत्वात्‌ प्राणापानादिरूपात्वात्‌ । इन्द्रियाभिमानित्वाद्वेत्यर्थः । अंगानां रसा इति पूर्वेण सम्बन्धः । पंचमं वाक्यं व्याख्याति ॥ गुह्येति ॥ श्रुतौ पार्थक्येन प्रयोगेपि गुह्यादेशा इत्येकमेव पदमिति भावेन गुह्यादेश इत्युक्तम्‌ । ये ब्रह्मपदेयोग्यास्ते ब्रह्मणा सह गुह्यादेशागुह्यादेशशब्दवाच्या इत्यर्थः । केन निमित्तेन तच्छब्दवाच्यत्वं तेषामित्यपेक्षयामाह ॥ सर्वेति ॥ अनेन गुह्यंगोप्यं आदिशन्तीति निरुक्त्या सर्वगुह्योपदेष्यृत्वं निमित्तमुक्तं भवति । तदुपपादयति ॥ सर्वेषामिति ॥ ते ऋजवोहियस्मात्सवर्ेषां गुरवः तस्मात्सर्वगुह्योपदेष्यार इति सम्बन्धः । ब्रह्मैव पुष्पमित्येतत्‌ शब्दाधिकारात्‌ । प्रणवाख्यं पुष्पमित्यपव्याख्यानमिति चयन्‌ सम्यग्व्याचष्ये ॥ ब्रह्मेति ॥ ब्रह्मशब्दप्रवृत्तनिमित्तवत्त्वेन तन्नामकत्वं युक्तमित्याशयेनाह ॥ अनन्तत्वत इति ॥ अनन्तावै वेदा इति श्रुतेरनन्तसंख्याकत्वतः । वृद्धयर्थकबृहधातोरानन्त्यमप्यर्थ एवेति भावः । तावा एत ऋच एतमृग्वेदमभ्यत पन्नित्यादिवाक्य पंचकं ऋगादीनां ऋग्वेदादितापकत्वायोगाद्वयाचष्ये ॥ ऋग्वेदादीनिति ॥ तथाच ऋच इत्यादि कर्तृवाचकपदैः पूर्वप्रकृतावस्वाद्याः साध्यान्ताः देवा एव विवक्षिताः । तपनं च विचार एवेति न कोपि दोष इति भावः । ऋच एवमधुकृत इत्यादिवाक्यैः देवानां मधुकृत्स्थानीयत्वमुक्तम्‌ । तदपेक्षितं साम्यं दर्शयति ॥ मधुब्रह्मेति ॥ मधुव्यक्तिकृत्त्वेन साम्यमिति भावः । ऋग्वेदादीनां पुष्पत्वमपि प्रसिद्धपुष्पसाधारणपुष्पशब्दप्रवृत्तिनिमित्त धर्मयोगेनेत्याह ॥ ज्ञानेति ॥ ता अमृता आप इति वाक्यपंचकं ताः ऋग्वेदादिगतावाचः अमृताः आपः अमढता प्‌स्थानीयाः मकरन्दतुल्या इति यावदिति पुष्परसस्थानीयत्वकथनायप्रवृत्तं तत्र वेदवाचाममृतत्वं केननिमित्तेनेत्यत आह ॥ नित्यादिति ॥

नित्यत्वादपौरुषयत्वात्‌ । ता इत्यनूद्यवेदवाच इति व्याख्यानम्‌ । सुरैः पेयायत इति हेतुगर्भं विशेषणम्‌ । सुरैः भोग्यत्वात्पल्यत्वादिति निमित्तान्तरम्‌ । अप्‌शब्दस्य पानपालनरूपोभयार्थकदातुजत्वस्य प्रसिद्धेरिति भावः । भोग्यत्वादाप ईरिताः । भोग्यत्वं च केन प्रकारेणेत्यतः सुरैः पेया इति योजनेत्यप्याहुः । ननु कथं वेदाः पेयाः अद्रवरूपत्वादित्यतः पानशब्दार्थमाह ॥ वेदपानमिति ॥ पाठश्ऱ्चेत्येतदेवेत्यध्याहृतेनैव शब्दसम्बन्धः । तस्याभितप्तस्य यशस्तेज इत्यादिवाक्यपंचकम्‌ यशोविश्रुतत्वं तेजो देहगतादीप्तिः इन्द्रियं सामथ्‌र्योपेतैः इन्द्रियैरवैकल्यंवीर्यं सामर्थ्यं अन्नाद्यंचेत्येष रसो जायतेति परकीयव्याख्यान निरासायप्रमाणेन व्याचष्ये ॥ देवैरित्यादिना ॥ तथाच तस्य ऋग्वेदस्याभितप्तस्य विचारितस्य सकाशदित्यर्थ उक्तो भवति । अजायतेत्यस्याथर्ोव्यक्ततां गत इति । अन्नाद्य इत्यनूद्यसर्वानुग्रह शक्तित्वादिति तात्पर्यं कथितम्‌ । तेनान्नेस्थित्वाऽद्यते उपजीव्यते सर्वैरित्यनाद्यमिति व्याख्यातमिति ज्ञायते । बलरूपतः बलरूपत्वतः । रसानामेति सम्बन्धः । तदादित्यमभितोश्रयदिति वाक्यमादित्यशब्दस्योक्तरीत्याभगवत्परत्वेऽसंगतं स्यात्ततोत्रादित्यशब्देन मण्डलमेव विवक्षितमित्यभिप्रेत्य व्याचष्ये ॥ संस्थित इति ॥ सूर्यमण्डलस्याप्यन्तरिक्षान्तर्भावादपूपत्वेन तत्स्थत्वं भगवल्लक्षणं मधुन उपपन्नमिति भावः । तद्वयक्षरदिति वाक्यं दार्ष्यान्तिके योजयति ॥ व्यक्षरदिति ॥ क्षरसन्ततदानविनाशयोरिति धातुः । तद्वा एतद्यदेतदादित्यस्य लोहितं रूपमित्यतेतदप्रतीतेः व्याचष्ये ॥ ऋक्‌प्रोक्त इत्यादिना ॥ ऋक्‌प्रोक्त इति श्रौततच्छब्दपरामृश्यकथनम्‌ । एवमुत्तरत्रापि द्रष्यव्यम्‌ । स एवेति श्रौतवैशब्दार्थकथनम्‌ । तेन संकर्षणाव्यावृत्तिः । सूर्यलौहित्येलोहिताकारः संस्थित इत्यनेने लोहितं रूपमित्येतद्वयाख्यातम्‌ । अनेन आदित्यस्य तन्मण्डलस्य यदेतद्रोहितं रूपं तत्तत्रस्वयमपि लोकहिताकारं तद्वैऋग्वेदाद्यभिव्यक्तं वासुदेवाख्यमेव मधु अतिष्ठदिति व्याख्यातं भवति । तदादित्यमभितोश्रयदिति वाक्यं प्रकारान्तरेण व्याचष्ये ॥ प्राच्यरशिमष्विति ॥ अनेन तत्‌ वासुदेवाख्यं मधु आदित्यमभितः पार्श्ऱ्वतः पूर्वभागं प्राच्यरश्मिष्विति यावत्‌ । आश्रयत्‌ स्थितमभवदिति व्याख्यातं भवति । एवमेव दक्षरश्मिषु इत्यादिकं तदादित्यमभितोश्रयदित्यस्य तत्तस्य त्तत्पर्वगतस्य व्याक्यानमिति द्रष्यव्यम्‌ । तद्वा एतद्यदेतदादित्यस्य शुक्लरूपमिति वाक्यं व्याचष्ये ॥ संकर्षण इति ॥ पूर्ववदेवयोजनाद्रष्यव्या । तद्वा एतद्यदेतदादित्यस्य कृष्णं रूपमिति वाक्यं व्याचष्ये ॥ प्रद्युम्न इति ॥ तद्वा एतद्यदेतदादित्यस्य परःकृष्णं रूपमिति वाक्यं व्याचष्ये ॥ अनिरुद्ध इति ॥ परःकृष्ण इत्यस्यार्थः सुकृष्ण इति ॥ तद्वा एतद्यदेतदादित्यस्य मध्य इति वाक्यं योजयति ॥ मध्य इति ॥ मण्डलमध्ये ऊर्ध्वरश्मिषु चेति चशब्दान्वयः । क्षोभत इवेति वाक्यमप्रतीतेः व्याचष्ये ॥ चलतीवेति ॥ अचलोपि सन्‌ तत्र समाहितदृष्येश्ऱ्चलतीवदृश्यत इत्यर्थः । तत्र निमित्तमाह ॥ महामरीचीति ॥ अत्रापि तच्छब्दपरामृश्यं दर्शयितुमुक्तं सवाच्यः सर्ववेदानामिति । ते वा एते रसानां रसा इत्याद्यप्रतीतेः व्याचष्ये ॥ एवं पंचात्मक इतयादिना ॥ एवं पंचात्मकोसौहरिः वेदानां सारभूतः उत्तमवाच्यो यतोऽत एव रसानां रसतम इत्युच्यते । वेदानां नित्यताप्रदश्ऱ्च यतोऽत एवामृतानाममृतश्ऱ्चेत्युच्यत इति योजना । एवं प्रमाणेनैतां विद्यां ब्रह्म परत्वेन व्याख्यायेदानीं आपातप्रतीतमेवार्थबमुपादाय यत्परेणैवोक्तं ब्रह्मातिरिक्तमेवाचेतनं ऋग्वेदादिप्रतिपाद्ययागादिकर्मफलभूतं यश आद्यन्नाद्यपर्यन्तं आदित्याश्रितं रोहितादिरूपतया दृश्यमानं मधुतयातत्रोपासनार्थमुच्यत इति तदुपपत्तिविरुद्धमित्याशयेनाह ॥ नचेत्यादिना ॥ चशब्दः पूर्वोदाहृतप्रमाणविरोधसमुच्चायकः । अत्र हि वस्वादिपदप्राप्तिरूपपुरुषार्थप्रदत्वमेतद्विद्याप्रतिपाद्यस्थोच्यते । नच तदुक्तविधस्याचेतनस्य प्रतिपाद्यत्वे सम्भवति । तस्य तत्रास्वातन्त्ऱ्ादत उक्तरीत्याब्रह्मैव प्रतिपाद्यमिति भावः । अस्वातन्त्ऱ्ोपपादनायैवाचेतनमात्रमित्युक्तम्‌ । चेतनानधिष्ठितमित्यर्थः । किंचोपसंहारेब्रह्मण एवोपदेश्यत्वकथनात्तदेवात्र प्रतिपाद्यं नान्यदित्याह ॥ ज्येष्ठायेति ॥ एतत्‌ ब्रह्मैव प्रतिपाद्यं नाचेतनमित्येतत्‌ । नन्वस्मिन्वाक्ये पित्रा ब्रह्मोपदेशः कर्तव्य इत्युक्तत्वेपि नैतस्या विद्यायाः ब्रह्मपरतासिध्यतीत्यतः उक्तविद्यायाः ब्रह्मपरत्वप्रतिपादकमुपसंहारगतं वाक्यान्तरं पठति ॥ य एतामिति ॥ ब्रह्मण उपनिषदं ब्रह्मोपनिषदम्‌ । षष्ठयर्थश्ऱ्चप्रतिपाद्य प्रतिपादकभाव इति भावः । किंचाचेतनोपासनायाः महत्तमब्रह्मादिपदप्राप्त्यादिप्रदत्वं साध्यानामेवैकोभूत्वेत्यादिनोच्यमानं सर्वथापि न सम्भवतीत्याह ॥ कथंचेति ॥ अपि चोक्तर्थेसम्मतित्वेन वक्ष्यमाणे न वैतत्रेत्यादिश्ऱ्लोके परं ब्रह्मैव प्रतिपाद्यतयावगम्यते । अतो त्रापि तदेवप्रतिपाद्यमिति वक्तव्यमन्यथाश्ऱ्चोकविसंवादापत्तेरित्याशयेनाह ॥ नवैतत्रेति ॥ कदाचनेत्यनन्तरं देवास्तेनाहं सत्येनमाविराधिषिब्रह्मणेति श्ऱ्लोकोप्यनुपपन्नः तत्र न सन्तीत्यर्थः । हे देवास्तेन सत्येनब्रह्मणापरब्रह्मणातत्प्रसादेनाहं माविराधिषि अवृद्धिं न प्राप्नुयामिति श्ऱ्लोकार्थः । किंचैतद्विद्यावेत्तुर्न हवा अस्मदुदेति न निम्लोचति सकृद्दिवेत्यादिनोच्यमानं मुक्तिगं फलमेतद्विद्यायाः परब्रह्म परतामेव सम्पादयति । नह्यन्यविद्ययामुक्तिगं फलं प्रमितम्‌ । स्यादेतत्‌ । सकृद्दिवेत्यादिनोच्यमानं फलं यदि मुक्तिगं स्यात्तदेवकुतः । अमुकतस्याप्यमुख्यत एतादृशफलसम्भवादित्यत आह ॥ सकृद्दिवेत्यादि ॥ सकृत्सदेत्यर्थः । आदिपदेन सूर्योदयास्तमयाभावोवाश्ऱ्लोकोक्त्याऽवृद्धयभावोवाग्राह्यः । मुख्यार्थ एव च श्रुतेः वर्णनीय इति भावः । यद्वा नवैतत्रेत्यादिश्ऱ्लोकोक्तमवृध्यभावरूपं सकृद्दिवेत्युच्यमानं सदादिवसभवनरूपं च फलं मुक्तस्यैव मुख्यतो युज्यते नान्यस्येत्येकवाक्यतया योज्यम्‌ । किंच नास्यां विद्यायामचेतनमात्रं प्रतिपाद्यम्‌ । यशस्तेज इन्द्रियं वीर्यअमन्नाद्यं रसो जायतेत्युक्तयशस्त्वतेजस्त्वाद्यनुपपत्तेः । नचामुख्यं तत्तत्रास्तीति वाच्यम्‌ । मुख्यत एव तेषां भगवति सम्भवेन अमुख्यार्थगहणायोगादित्याह ॥ यशस्तेज इत्यादि ॥ कस्य युज्यते न कस्यापि । तत्र प्रमाणाभावादिति भावः । भगवत्प तेषां कुतो मुख्यतः सत्वमिति चेत्‌ । पूर्वोदाहृतप्रमाणैनैव तथाव्याख्यातत्वात्‌ । प्रमाणान्तराण्यप्याह ॥ तस्य नामेत्यादिना ॥ समग्रस्येत्येतत्‌ यथायोग्यं लिंगवचनविपरिणामेन सर्वत्र सम्बध्यते । इति षण्णामेवेति सम्बन्धः । भगवांश्ऱ्चहरिरेवेति कोनामलोके भगवत्पदार्थ इति प्रमाणसिद्ध इति भावः । यद्वा भगश्ऱ्चसमाभगप्रविशेत्यादौ हरिरेव प्रसिद्ध इति भावः । रसो वैसः स एव रस इत्यर्थः । सुखात्मकमित्यत्र षड्‌गुणविग्रहत्वोक्त्यायश ऐश्ऱ्वर्यं वीर्यं च लब्धं स्वरुक्‌ स्वप्रकाश इत्युक्त्या च तेजोरूपत्वं । ऐश्ऱ्वर्येत्यत्रापि ऐश्ऱ्वर्ये यशोवीर्याण्युक्तानि । अहेयत्वादहं पूर्णषड्‌गुणं नारायणाख्यम्‌ । तत्तेजोरश्मीद्रश्मिप्रेरकमित्यत्रापि तेजः षड्‌गुणत्वोक्त्या च यश ऐश्ऱ्वर्यं वीर्यं चेति त्रयं चोक्तम्‌ । इत्यादेश्ऱ्च यश आदिकं भगवन्तं विनाकस्य मुख्यतो युज्यत इति सम्बन्धः । आदित्यान्तर्गतो भगवान्मधुतयोपास्य इति भवन्मतमप्ययुक्तम्‌ । भगवत आदित्यान्तर्गतत्वे मानाभावादित्यत आह ॥ ध्येय इति ॥ चशब्दः प्रागुक्तप्रमाणसमुच्चयार्थः । यद्वा भगवतस्तेजोरूपत्व एव प्रमाणान्तरमिदम्‌ । सवितृमण्डलमध्यर्वीत्यनेन वा हिरण्‌मयवपुरित्यनेन वा तस्य लाभादिति द्रष्यव्यम्‌ । किंचास्तुकथंचिदचेतनेतेजोरूपत्वसम्भवः । ऐश्ऱ्वर्यादिकं तु सर्वथा तत्रासम्भावितमित्याह ॥ नचेति ॥ नच भगवतस्तदसम्भावितमिति दर्शयितुं तस्यैश्ऱ्वर्यवीर्यात्मकत्वे श्रुतिमपि प्रमाणयति ॥ ज्ञानात्मक इति ॥ शक्त्यात्मकः वीर्यात्मको बलात्मको वा । किंच चेतनं रोहितादिरूपं मधुतयैतद्विद्याप्रतिपाद्यमिति न युक्तम्‌ । सर्वस्यापि स्वरवर्णपदात्मनोवेदस्य भगवन्मात्रपरतायाः सूत्र पुराणश्रुतीतिहासैः प्रतिपादितत्वेन तद्विरोधापातादिति भावेन वेदस्य भगवत्परताप्रतिपादकं सूत्रादिकं पठति ॥ सर्वेति ॥ सर्व वेदनिर्णयोत्पाद्यज्ञानं ब्रह्म । कुतः । आत्मेत्येवोपासीतेत्यादि विधीनां अत्र ह्येते सर्व एकीभवन्तीत्याद्यानां तदुक्त युक्तीनां च सर्वाधिकारिसाधाण्यादिति सूत्रार्थः । एकैव व्याहृतिव्यर्ाहरणं एकप्रकारमेवनाम । निर्दोषगुणपूर्तिवाचकत्वादेक प्रकारता । प्राणे नारायण एवेति योजना । विष्णुरेव गीयत इति सम्बन्धः । किंच मन्त्रब्राह्मणरूपस्य वेदस्याप्राधान्येन कर्माद्यचेतनपरत्वेपि नोपनिषत्सुब्रह्मान्यदुच्यत इत्यतोपि नत्वद्वयाख्यायुक्तेत्याह ॥ उपनिषत्त्वादिति ॥ यत्किंचित्‌ ब्रह्मान्यत्‌ । कुतो न युक्तमित्यपेक्षायां तत्र प्रमाणमाह ॥ विष्णुरिति ॥ अरण्ये ध्येतव्यत्वादारण्यके उपनिषदि । मन्त्रैरपि विशेषत इत्युक्त्याब्राह्मणस्षदन्यपरत्वं सूचितं तद्दर्शयति ॥ कर्मार्थं चेति ॥ विष्णुरेक एवेति सम्बन्धः । ननु कथमारण्यकेष्वन्यन्नोच्यत इति सूत्रात्मनोवायोः क्वचिदुक्तेः । क्वचित्तदुपास्त्युक्तेश्ऱ्चेतस्तदुक्तेः प्रयोजनमाह ॥ सूत्रात्मेति ॥ तद्विशिष्यत्ववित्तये वाय्वपेक्षयोत्तमत्वज्ञानाय । तस्य सूत्रस्याधिकं आऋद्धतनुत्वतः । सर्वविशिष्यप्रतिमात्वादिति यावत्‌ । तस्मात्कारणशत्तस्मिन्‌ विष्णोरुपास्त्यर्थं कुत्रचित्तदुपास्तिश्ऱ्चोच्यत इति योजना । किंच भागवत वाक्यरूपभगवद्वचनादभगवद्विषयस्य वचनस्य निन्दितत्वावगमात्सर्वासुशाखासु आरणमावर्तयेदितीतराधिक्येनोपनिषदभ्यासस्य विहितत्वाच्चनोपनिषत्स्वन्यदचेतदनादिकमुच्यत इति व्याक्यानं युक्तमित्याह ॥ यस्वामित्यादिना ॥ हे अंगधीर । यस्यां वाचिमेपावनं पवित्रं अस्य जगतः स्थित्युद्भवत्राणनिरोधं त्राणं अन्नादिदानेन दैनं दिनानिष्यनिचय परिहारेण च रक्षरं निरोधः संहारः । एकवद्भावः । एतल्लक्षणं कर्म न प्रतिपाद्यम्‌ । लीलावतारेधितकर्मवाकृष्णाद्यवतारेकृतं कंसहननादिरूपं च यस्यां न प्रतिपाद्यं तां वन्ध्यां निष्फलांगिरं न बिभृयादिति योजना । अतीर्थीकृतं पात्रेऽप्रतिपादितं यः रक्षतिसःदुःखदुःखक्ष अतिशयितदुःखभाक्‌ । या आत्तं वीर्यं याभिस्ताः आत्तवीर्याः याश्ऱ्चयैः हतभगैः नृभिः श्रुताः अशरणषषु रक्षकारहितेषु तमःसु तांस्तान्‌ क्षिपन्ति ताः मतिघनीः अन्यविषयाः कुकथाः येऽघभिधोहरेररचनानुवादाः कतर्ृत्वादिगुणानुवादशून्याः शृण्वन्ति । तेयन्नव्रजन्ति । तद्विश्ऱ्वगुर्वधिकृतमित्युत्तरेणान्वयः । अभ्यासेनोक्तत्वात्सतात्पर्यमित्युक्तम्‌ । सर्ववेदेषु विष्णुरेवोदितः उपनिषदिविशेषेणोदितो यतोतः सर्वत्र भगवदुपासना एवोच्यन्त इत्याशयेन तत्र प्रमाणान्तरं पठति ॥ अभ्यसेदिति ॥ अधियज्ञं यज्ञमधिकृत्यवर्तमानं ब्राह्मणम्‌ । अधिदैवंय देवानधिकृत्यवर्तमानं मन्त्रम्‌ । अध्यात्मं आत्मानं परमात्मानं अधिकृत्यवर्तमानमारण्यकम्‌ । विशेषेणाभ्यसेदित्यर्थः । ननु विष्णुस्त्रिषूदित इत्ययुक्तम्‌ । तथात्वेऽधियज्ञत्वादि विरोधादित्यतस्तस्य विष्णुप्रतिपादकं वाक्यमाह ॥ मामिति ॥ कर्मादिविधात्री श्रुतिः मां प्रत्येव तद्विधत्ते । इन्द्राद्यभिधात्रीच मामभिधत्ते । चत्वारिवागित्यादि श्रुत्याहं विविधरूपत्वेन कल्प्यः । न सुरां पिबेदित्यादि श्रुत्याहमेवा प्रियादपोह्यः । एवं भूतायाः अस्याः श्रुतेः इत्यभिप्रायमहमेव वेद । नमत्तोन्य इत्यर्थः ॥ खं0 1-5 ॥ ततश्ऱ्चायं खण्डापञ्चकार्थः ॥ असौ ज्ञानिप्रत्यक्षविषयः आदित्वात्ततत्वाज्ज्ञानरूपत्वादादित्यनामाऽऽदित्यन्तर्गतो भगवान्‌ सुखपूर्णत्वात्‌ मधु देवोपजीव्यत्वाच्च देवमधुनामको वै । अत्र स भगवानधिकारि बोधनाय प्रसिद्धमधुनोपमीयत इत्यपि विवक्षितम्‌ । देवानां मध्विवमध्विति तर्पकत्वेन साम्यात्‌ ।अतोस्य विवक्षितं तिरोवंशादिकमाह ॥ तस्य द्यौरेवेति ॥ तस्यादित्यनामक भगवल्लक्षणस्य मधुनः क्षणस्य मधुनः द्यौरेवे प्रकाशादिगुणैः द्युनाम्नीद्युस्थिता श्रीरेव तिरश्ऱ्चीनवंशः । तिरश्ऱ्चीना प्रह्वीभावेना स्थित्वाहरिं वशीकारोतीति तिरश्ऱ्चीनवंशनाम्नी । प्रसिद्धतिरोवंशस्थानीयामध्वपूपाश्रयत्व साम्यात्‌ । अन्तरिक्षं स्वान्तः हरिमीक्षत इत्यन्तरिक्षनामा अन्तरिक्षस्थश्ऱ्च मरुत्‌ अपूपः अप्‌ आप्यं ब्रह्म उपसमीपे स्थितं यस्मिन्नित्यपूपनामा । प्रसिद्धमध्वपूपतुल्यः मध्वाश्रयत्वसाम्यात्‌ । ऋच एवमधुकृत इति वक्ष्यमाणमधुकृत्पुत्रस्थानीयानाह ॥ मरीचय इति ॥ मरीचयः सूर्यमरीचिसंस्थामतीच्याद्या ऋषयः पुत्राः प्रसिद्धमधुकृत्पुत्रस्थानीयाः । मध्वपूपनाडीसंस्थिता हि प्रसिद्धभ्रमरपुत्राः । ताः रश्मयस्ता एवास्यापूपस्य प्राच्योमधुनाड्यः । मध्वाधारच्छिद्रस्थानीया इत्यर्थः । केवल भगवन्मात्रपरतापक्षेतु तस्य सवित्रं तर्यामिणो भगव
तः ये प्रांचः प्राच्यां दिशिगतारश्मयः रतिशंमानरूपतो रशिमशब्दवाच्याः रश्मिसंस्थाश्ऱ्च वासुदेवादिरूपविशेषास्ता एवास्य भगवतः मधुनाड्यः मधुसुखपूर्णमूलरूपं प्राप्तुं वासुदेवं विना अधिकारीनालमिति नाडीशब्दवाच्याः इति योजना द्रष्यव्या । एवमथयेऽस्य दक्षिणा रश्मय इत्यादि वाक्यान्यपि मधुदृष्यान्तपक्षे यथा स्थितान्येव योज्यानि । भगवत्परत्व पक्षेतूक्तरीत्याक्रमेणसंकर्षण प्रद्युम्नानिरुद्धनारायण पराणि द्रष्यव्यानि । भगवन्मात्र परतया व्याख्यानपक्षे अवशिष्यसर्ववाक्ययोजनाप्रकारस्तु आचार्यैः नोक्तः । दिङ्मात्रप्रदशर्नस्यैतावतैव जातत्वात्‌ । अतः प्रमाणान्तरादेवावगन्तव्यः । ऋच एव प्रातः सवदे विशेषेणार्च्यत्वादृग्वेदाभिमानित्वाच्च ऋङ्‌नामानोवह्नयाद्यावसव एव मधुकृतः भ्रमरस्थानीया मधुव्यक्तिकृत्त्वसाम्यात्‌ । देवा अपि हि मधुनामक ब्रह्मव्यक्तिकृतः । ऋग्वेद एव पुष्पं पुष्पस्थानीयः । ज्ञानपोषकरोह्ययम्‌ । प्रसिद्धपुष्पमपि मधुकृत्पोषकमिति पोषकत्वहेन साम्यात्‌ । ता ऋग्वेदगतावाचः अमृताः अपौरुषेयत्वेनामृतशब्द वाच्याः । आपः आसम्यक्‌ सुरैः पेयत्वादप्‌शब्दवाच्याश्ऱ्च । प्रसिद्धपुष्पगतामृताप्‌स्थानीयमकरन्द तुल्या इति यावत्‌ । पेयत्वसाम्यात्‌ । वाक्‌ पानं नामश्रवणादिविचार एवेति द्रष्यव्यम्‌ । इदानीं मधुव्यक्तिप्रकारमाह ॥ ता इति ॥ ता एता एव ऋचः पूर्वप्रकृत ऋगभिमानिनो वह्नयाद्यावसवः एतं ऋग्वेदं तल्लक्षणं पुष्पं अभ्यतपन्‌ अपिबन्‌ । संव्यचारयन्निति यावत्‌ । तस्याभितप्तस्य सम्यक्‌ पीतस्य पुष्पस्थानीयस्य वेदस्य सकाशात्‌ । यशः ज्ञानानन्दस्वरूपत्वाद्यशोनामकम्‌ । तेजः तेजोरूपम्‌ । इन्द्रिपरमैश्ऱ्वर्यादिन्द्रिय नामकम्‌ । वीर्यं वीर्यरूपम्‌ । अन्ने प्रसिद्धान्नेस्थित्वाऽद्यत इति अन्नाद्यम्‌ । रसः बलरूपत्वाद्रसनामकम्‌ । परंब्रह्माख्यं मध्वजायत । व्यक्तमभवत्‌ ॥ 2 ॥ तत्परं ब्रहमव्यक्षरत्‌ । देवानां धर्ममोक्षादीनिति शेषः । तत्‌ ऋग्वेदाभिव्यक्तं वासुदेवाख्यं मधु । अदित्यमभितोश्रयत्‌ । आदित्यमण्डलक्षणापूपसंस्थमभवत्‌ । आदित्यमण्डलस्याप्यन्तरिक्षान्तर्भावादपूपत्वमुपपन्नमिति ध्येयम्‌ । यद्वातत्‌ वासुदेवाख्यं मधु । आदित्यमभितः पार्श्ऱ्वतः पूर्वभागगतप्राच्यरश्मिष्विति यावत्‌ । अश्रयत्‌ । स्थितमभवदित्यर्थः । आदित्यमण्डलेस्थानविशेषमाह ॥ तद्वा इति ॥ यदेतत्‌ आदित्यस्य रेहितं रूपं तत्‌ तत्र स्यमपि लोहिताकारं तत्‌ ऋग्वेदाभिव्यक्तं एतत्‌ यश आदिरूपम्‌ । वासुदेवाख्यमेव मध्वतिष्ठत्‌ । प्रसिद्धमध्वपि सम्पन्नं सद्धिक्षरति । पश्ऱ्चादपूपं प्राच्यनाडीसंस्थं भवतीति साम्यम्‌ ॥ 3 ॥ प्रथमः खण्डः ॥ 1 ॥ अथ येस्य दक्षिणारश्मय इत्यादिव्याख्यातमेव । यजूष्येवयजुर्वेदाभिमानिनोयाज्यत्वाद्यजुःशब्दवाच्याः वाय्वाद्याः रुद्राः । तानि वा एतानि यजूंषि पूर्वप्रकृतयजुर्वेदाभिमानिनोरुद्राः । यदेतदादित्यस्य शुक्लं रूपं तत्तत्र तद्वैयजुर्वेदाभिव्यक्तं शुक्लवर्णं एतत्‌ यश आदिरूपं संकर्षणाख्यं मध्वभवत्‌ । शिष्यसमानम्‌ ॥ खं0-2 ॥ सामान्येव मधुकृतः सामाभिमानिनो मासशः समभोगवत्त्वेन सामशब्दवाच्याः आदित्य एव । यदेतदादित्यस्य कृष्णं रूपं तत्तत्र । तद्वैसामवेदाभिव्यक्तं कृष्णं रूपं एतत्‌ यश आदिरूपं प्रद्युमनाख्यं मध्वाश्रितमभवत्‌ । शिष्यं समानम्‌ ॥ खं0-3 ॥ अथवर्ांगिरसः अथर्वणश आंगिरसा च दृष्याः मन्त्रा अथर्वांगिरसः । इतिहासपुराणोपलक्षणमेतत्‌ । तदभिमानिनो अधरं वृष्यिप्रवर्तकत्वेनांगानां रसत्वेन चाथर्वांगिरोनामकाः सोमाद्याः देवाः । इतिहासपुराणमिति द्वन्द्वैकवद्भावश्ऱ्च । अथर्वांगिरसामप्युलक्षणमेतत्‌ ।ता अमृता इत्यत्रेतिहासपुराणस्य अथत एकप्रकारत्वेनामृतत्वं द्रष्यव्यम्‌ । यदेतदादित्यस्य परः परं अतिशयेन कृष्णं रूपं तत्तत्र तद्वै । इतिहासपुराणाथर्वांगिरोमन्त्राभिव्यक्तं अनिरुद्धाख्यं सुनीलं मध्वतिष्ठत्‌ । शिष्यं पूर्ववत्‌ ॥ खं0-4 ॥ गुह्याएवादेशाः सर्ववेदाभिमानिनोगुह्योपदेष्यृत्वेन गुह्यादेशशब्दवाच्याः ऋजवः ब्रह्मैव वेदराशिरेव । बृहदातोः वृद्धयर्थत्वेनानन्त्यवाचित्वात्‌ । वेदानां चानन्तावैवेदा इति श्रुतेः अनन्तत्वादिति भावः । यदेतदादित्यस्य मध्यं तत्‌ तत्र मध्ये तद्वै । सर्ववेदाभिव्यक्तं प्रोद्यदादित्य स प्रभं नारायणशख्यं मध्वतिष्ठत्‌ । स नारायणः क्षोभत इव स्वस्मिन्‌ समाहित दृष्येः पुंसोमहामरीचिपुंजेनाचलोपि चलतीव दृश्यत इत्यर्थः । वेदानामितरशब्दापेक्षयोत्कर्षं वदन्वासुदेवादिरूपाणामृगादिवेदवाच्यत्वमुक्तमुपसंहरति ॥ तेवा इति ॥ ते वा एते रोहितादिरूपवासुदेवाद्‌पंचरसानां रसाः । आद्यरसशब्देन विवक्षितार्थमाह ॥ वेदाहीति ॥ वेदाः रसाः श्रेष्ठाः । हि प्रसिद्धा इत्यर्थः । तेषां वेदानामेते वासुदेवादयोरसाः उत्तमवाच्या इत्यर्थः । अमृता इत्युक्तममृतत्वं न वेदानां स्वातन्त्ऱ्ेणेति वदन्निगमयति ॥ तानिवा इति ॥ तानि वा एतानि पूर्वप्रकृतवासुदेवादीनि पंचरूपाणि अमृतानि अमतत्वप्रदानि । प्रथमामृत शब्देन विवक्षितमथर्माह ॥ वेदा इति ॥ वेदापौरुषेयत्वस्य प्रामाणिकत्वं हि शब्दार्थः । खं0-5 ॥ एवं पंचरूपिणं भगवन्तं मधुतयाप्रपंचेन निरूप्येदानीं केकस्यामृतस्य सेवकाः किंच तेषशं फलमित्याकांक्षायान्तर्त्स्वं पंचभिः खण्डैर्निरूपयति ॥ तद्यदित्यादिना ॥ तत्र वसव उपजीवन्तीत्युक्तमुपजीवनं न भोक्तृत्वं एतदेवामृतं दृष्ट्वेत्यस्यासंगतत्वापत्तेत्यत्राग्नेः वस्वात्मताप्रतीयते । नचेदं सम्भवति । असंगतत्वात्‌ । अग्नेः कथंचिद्देवाख्यत्वसम्भवेपि इन्द्रेण मुखेनेत्यादावस्याथर्स्यासम्भवाच्चेत्यतस्तात्पर्यमाह ॥ अग्निपूर्वका इति ॥ तथाच अग्निनामुखेन प्रधानेन सहाग्निप्रधानाः सन्त इति यावदित्यर्थ उक्तो भवति । न वै देवा अश्ऱ्नंति न पिबन्तीति वाक्यस्यान्नाद्यं रसो जायतेति वचनात्कबलग्रासमश्ऱ्नन्तीति प्राप्तं तत्प्रतिषिध्यते अनेन वाक्येनेति व्याख्याननिरासायतात्पर्यमाह ॥ यावत्पश्यन्तीति ॥ तथाच यावदेतदेवामृतं दृष्ट्वा तृप्यन्ता वद्देवानैवाश्ऱ्नन्ति न पिबन्ति विषयभोगविरक्ता भवन्तीत्यर्थ उक्तो भवति । परव्याक्यातु अनेवैव प्रमाणेन विरोधात्‌ अन्नाद्यं रस इति वाक्यस्य भगवत्परतायाः प्रमितत्वेन कबलग्रासाशनस्याप्राप्तत्वेन प्रतिषेधायोगाच्चायुक्तेति ध्येयम्‌ ॥ खण्डपंचके त एत देवरूपमभिसन्दिशन्तीति वाक्यं एतदेवरूपं अभिलक्ष्य अधुनाभोगावसरोनास्माकमिति बुद्धयाऽभिसंविशन्ति । उदासते । यदा चैतस्यामृतस्य भोगावसरोभवेत्तदैतस्मादमृतादमृत भोगनिमित्तमित्यर्थः । एतस्माद्रूपादुद्यन्ति उत्साहवन्तो भवन्तीत्यादिपरप्रलापनिरासाय क्रमेण यथावद्वयाचक्षाणस्तावदादिवाक्यं व्याचष्ये ॥ एतदेवेति ॥ विशन्त्येवेन परोक्तव्युदासः । अप्रामाणिकत्वात्प्रमाणविरोधाच्च । स्वेच्छयैवानायासेनैव । स्वः परमात्मा तदिच्छयैवेत वा । समुद्यंति निर्गच्छन्ति । तथाशब्दः समुच्चये । द्वितीयखण्डस्थमेतदेवरूपमिति वाक्यं व्याचष्ये ॥ एवमिति ॥ यथावसव एवं शिवाद्याद्वितीयं रूपं विशन्ति । ततो बहिः समुद्यन्तिति चेत्यर्थः । इन्द्रेणमुखेनेत्यस्य व्याख्यानं वायुसंस्थिता इति । वाय्वाश्रया इत्यर्थः । अनेन मुखशब्दस्य प्राधान्यवाचित्वमुपपादितं भवति । ननु वायोः न रुद्रान्तभावः सम्भवति । तस्य ब्रह्मपदयोग्यत्वेन साध्यान्तर्भावात्‌ । द्वितीयामृतद्रष्यृरुद्रान्तर्भावेचरुद्राणामेवैकोभूत्वेति वक्ष्यमाणरुद्रपदप्राप्तिप्रसंगात्‌ । नचैकस्य पदद्वयं दृष्यमित्यत आह ॥ वायोरिति ॥ हिरण्यगर्मत्वात्‌ भाविहिरण्यगर्भत्वात्‌ । उदाहृतं प्रमाणेषु रुद्रपदं साध्यपदं चेति पदद्वयं नेतररुद्रसाध्यसाधारण्येनेत्याह ॥ रुद्राणमिति ॥ सर्वश इति रुद्राणिमित्यत्रापि सम्बध्यते । साध्यानामाश्रयत्वमप्युदाहृतमिति सम्बन्धः । अनेनेन्द्रेण सुकेन ब्रह्मणामुखेनेत्युक्तमुभयत्र प्राधान्यमुपपादितं भवति । तदुभयाश्रयत्वं वायोरुपपादयति ॥ अत इति ॥ चोऽवधारणे । अत एव रुद्र साध्याश्रयत्वादेव । वायोरेव जुर्विचारः । तथा सर्ववेदात्मनः सवर्वेदरूपस्य ब्रह्मणोपि विचारः विशेषतः रुद्राद्यपेक्षयाविशेषेण स्यादिति योजना । ब्रह्मण इत्यनेन वेदराशेरिति विवक्षितम्‌ । ब्रह्मैव पुष्पमित्युक्तत्वादित्याशयेनतत्‌ सर्ववेदात्मन इति विवृतम्‌ । न केवलं संसारेवायुरुभयाश्रय इत्याह ॥ उभयाश्रय इति ॥ हि यस्मान्मोक्षेप्युभयाश्रयस्तस्मात्सर्वदोभयाश्रय इत्यर्थः । अनेनेन्द्रेण मुखेन ब्रह्मणामुखनेत्येतत्‌ एतदेवरुपमभिसंविशन्तीत्यत्रापि सम्बध्यत इत्युक्तं भवति । अथ यत्तृतीयमित्यादेरुद्यन्तीत्यन्तस्य तात्पर्यमाह ॥ द्रष्यार इति ॥ एतदेवविशन्ति । ततो बहिः समुद्यन्ति चेति शेषः । शक्रमुख्यादि तेः सुताः इत्यलुक्‌ समासः । अलुग्दर्शनानादरसूचकः । आदित्या इत्यर्थः । शक्रमुख्या इत्यनेन वरुणेन मुखेनेत्येतदुक्तार्थम्‌ । अथ यच्चतुर्थममृतमित्यादेरुद्यन्तीत्यन्तस्य तात्पर्यमाह ॥ चतुर्थस्यत्विति ॥ द्रष्यार इत्यादिकमनुवर्तते । सोमाद्या इत्यनेन सोमेन मुखेनेत्येतदुक्तार्थम्‌ । अथ यत्पंचमममृतमित्यादेरुद्यन्तीत्यन्तस्य तात्पर्यमाह ॥ पंचमस्यचेति ॥ साध्यपदव्याख्यानं ऋजव इति । ब्रह्मणामुखेनेत्यस्यार्थकथनं ब्रह्ममुख्याहीति । ऋजूनामेतद्दर्शनानिदकं प्रमाणसिद्धमिति हि शब्देनाह ॥ नन्वेवं सरस्वतीशेसुपर्णतत्पत्नीवस्वादिषु कुत्राप्यप्रविष्यत्वात्‌ मधूपास्त्यभावः स्यादित्याशंकायां साध्यान्तर्भावमाह ॥ सुपर्ण इत्यादिना ॥ ननु ब्रह्मणैव मुखेनेत्युक्तं मुक्तौ ब्रह्मणः सकलसाध्यमुखत्वमयुक्तम्‌ । ब्रह्मणोपि ऋजुमुखत्वासम्भवादित्यत आह ॥ अन्योन्येति ॥ तथाशब्दोप्यर्थः । यद्यपि ब्रह्मणां समता तथाप्यन्योन्यमुखतायुज्यते । मुखशब्देनाप्राधान्याभावमात्रस्य विवक्षितत्वादिति भावः । यथाऽप्राधान्याभावमात्रेणेतरसाध्यन्‌ प्रतिब्रह्मणः मुखत्वम्‌ । तथा न साध्यपदोक्तवागादीन्प्रतीत्याह ॥ वाक्‌ शेषादेरिति ॥ विशेषतोपि प्राधान्येनापि । मुखामिति सम्बन्धः । ननु रुद्रस्यैव शेषत्वात्तस्य च द्वितीयामृतद्रष्यृत्वात्कतं साध्यान्तर्भावेनांत्यामृतद्रष्यृमित्यत आह ॥ द्रष्येति ॥ इतीत्यध्याहार्यम्‌ । अन्तगस्य चेत्युभयस्यापीति सम्बन्धः । किं शिवत्वावस्थायामुभयद्रष्येति जिज्ञासायामुक्तं विशदयति ॥ मोक्ष इति ॥ मोक्षार्थं परतः परजन्मनि । शेषत्वावस्थायां उभयस्वापि द्रष्या । शेषभावतोन्यत्र तु शिवत्वावस्थायां एकस्यैव द्रष्येति विवेकः । यद्वा परतः शेष भावतः शेषत्वानन्तरम्‌ । मोक्ष इति यावत्‌ । उभयस्याप्यमृतस्य द्रष्या । अन्यत्र रुद्रेत्वेत्वेकस्येति योजना । पूर्वं प्राप्तपदानां वस्वादीनां मोक्षलक्षणं फलमुक्तम्‌ । इदानीं अप्राप्तपदानां तत्पदयोग्यानां मधूपासकानां किं फलमिति जिज्ञासायां वस्वादिपदप्राप्त्यादिकं फलमिति प्रातिपादयितुं स य एतदेवममृतं वेदेत्यारभ्यैतस्माद्रूपादुदेतीत्यन्तं वाक्यं खण्डपंचकेपि प्रवृत्तं तत्‌ तत्तत्पदायोग्यानामपि मधूपास्त्यातत्तत्पदप्राप्त्यादिः भवतीति प्रतीतिनिरासाय व्याचष्ये ॥ देवाः देवत्वयोग्याः । श्रौताभिशब्दार्थोसंशयमिति । तस्य निश्ऱ्चयार्थत्वेन पूर्वं व्याख्यात्वात्‌ । वसूनामेवैकोभूत्वारुद्राणामेवैकोभूत्वेत्यादिना वस्वादिभोग्यदेशकालाधिपत्यं उक्तम्‌ । तदेवप्रतिदिनं तत्तद्भोग्यदेशकालविशेषकथनेन विशदयितुं स यावदादित्य इति वाक्य पंचकं प्रवृत्तम्‌ । तस्य परव्याख्याननिरासायतात्पर्यं प्रमाणैनैव वदंस्तावदादिवाक्यतात्पर्यमाह ॥ उदेत्यास्तमयमिति ॥ परव्याख्यानं तु तत्प्रत्याख्यानावसरेदर्शयिष्यामः । पवर्ते उदयपर्वते । उत्य यावत्‌ यावतादेशेन कालेन च । पर्वतेऽस्तपर्वते । अस्तमयं याति तावतः उदयास्ताद्रिमध्यस्य देशस्य । दिवारूपकालस्य चेत्यपि ग्राह्यम्‌ । स यावदादित्यः पुरस्तादुदेतापश्ऱ्चादस्तमेताद्विस्तावद्दक्षिणत उदेतेत्यादिद्वितीयवाक्यतात्पर्यमाह ॥ ततश्ऱ्चेति ॥ ततश्ऱ्चास्तमयात्‌ पूर्वोक्तास्तागिरिप्राप्तिरूपास्तमयमारभ्ययावत्‌ देशेन अर्धरात्रपयर्न्तं यं देशविशेषं प्रति यातितद्देशकालयोरस्ताद्रिमध्यदेशार्धरात्ररूपकालयोः रुद्रा ईशा इत्यर्थः । दक्षिणतः उदेतोत्तरतोस्तमेतेत्यस्यार्थः दक्षिणादुत्तरमित्यादि । वसुभोग्यदेशकालापेक्षयाकियंतौरुद्रभोग्यदेशकाला वित्यपेक्षायां यावदादित्यः पुरस्तादुदेतापश्ऱ्चादस्तमेताद्विस्तावदित्युक्तमित्यभिप्रेत्यतत्तात्पर्यमाह ॥ वसुभोग्यादिति ॥ वसुभोग्यात्‌ देशात्‌ कालाच्चअधकालं अर्धकालः वसुभोग्यादेवार्धकालश्ऱ्चेति सम्बन्धः । स यावदादित्योदक्षिणत उदेतोत्तरतोस्तमेता द्विस्तावत्पश्ऱ्चादुदेतापुरस्तादस्तमेतेत्यादि तृतीयवाक्यतात्पर्यमाह ॥ अधर्रात्रादिति ॥ अर्धरात्रात्परतो यामः तावताकालेन गन्तव्यो देशश्ऱ्चादित्यदेवतः । अनेनादिनत्यानामेवतावदाधिपत्यमित्युक्तार्थम्‌ । पूर्वमार्गः पूर्वमार्गकः । कालोयमलक्षणः । तावता कालेन गन्तव्योदेशश्ऱ्च । अनेन पश्ऱ्चादुदेतापुरस्तादस्तमेतेत्युक्तार्थम्‌ । रौद्रदेशात्कालाच्च । अनेन द्विस्तावदित्युक्तार्थम्‌ । स यावदादित्यः पश्ऱ्चाददितापुस्तादस्तमेताद्विस्तावदुत्तरत उदेतादक्षिणतोस्तमेतेत्यादिचतुर्थवाक्यतात्पर्यमाह ॥ ततः पर इति ॥

ततः आदित्यदैवताद्यामात्परोर्धयामः कालः । तावता कालेन गन्त्योदेशश्ऱ्च मारुत उद्दिष्य इत्यनेन मरुतामेव तादाधिपत्यमित्यंशोव्याख्यताः । सौम्यात्‌ । उत्तरात्‌ दक्षिणमार्गक इत्यनेनोत्तरत उदेतादक्षिणतोस्तमेतेत्युक्ततात्पर्यम्‌ । द्विस्तावदित्यंशतात्पर्यमाह ॥ आदित्यार्थश्ऱ्चदेशत इति ॥ कालोपि ग्राह्यः । तथाच मारुतो देशः कालश्ऱ्च आदित्यार्धः । आदित्यसम्बन्धिदेशकालार्ध इत्यर्थः । नन्वत्र दक्षिणत उदेतोत्तरतोस्तमेता । पश्ऱ्चादनिदेतापुरस्तादस्तमेता । उत्तरत उदेतादक्षिणतोस्तमेतेत्यादौ अर्धरात्रयामतदर्धादिकालेषु प्रसिद्धोदयास्तमयावनुपपन्नौ । अतोत्र गौणावेव तौ विवक्षितावित्याह ॥ पश्ऱ्चात्पश्ऱ्चादिति ॥ पूर्वपूर्वोक्तदेशेषु उदेत्यपश्ऱ्चात्पश्ऱ्चादुत्तरत्रोक्तदेशेषु अस्तमुपैतिचेत्यन्वयः । यद्वा पश्ऱ्चात्पश्ऱ्चात्स्वापेक्षयापश्ऱ्चाद्देश एव उदेति पूर्वतः स्वाभिमुखेदेशेऽस्तमुपैति चेति । अयं भावः । सविता अस्तान्द्रिं विहाय दक्षिणशदुत्तरं याति यदा तदा सवितुः स्वपश्ऱ्चात्तनदेशस्थः गम्यापेक्षयादक्षिणदिगवस्थितो योस्ताद्रिस्तत्प्राप्तिरस्ताद्रिस्थानां सवितृसामीप्येन दक्षिणोदयत्वेन विवक्षिता । स्वाभिमुखोत्तरदेशविशेषप्राप्तिस्तेषामेव किंचिद्दूरगत्वसाम्येनोत्तरास्तमयत्वेन विवक्षिता । एवं पश्ऱ्चिमात्पूर्वं यदायातिसवितातदापश्ऱ्चिमदेशविशेषस्थानां सवितृसामीप्येनोदयस्तेषामेव सवितुः पूर्वदेशविशेषगमनेदूरगत्वेनास्तमयः । एवमन्यत्रापीति । वक्ष्यतिचैतत्‌ आतपस्याल्पकालत इत्यादिना । ततः परोधर्यामस्त्वित्युक्तं विवृणोति ॥ ततस्तदर्धकालेनेति ॥ ततः आदित्यकालानन्तरं तदर्धकालेन आदित्यकालार्धेन येनेति शेषः । स यावदादित्य उत्तरत्र उदेतादक्षिणतोस्तमेताद्विस्तावदूर्ध्व उदेताऽर्वागस्तमेतासाध्यानामेव तावदाधिपत्यमिति पंचमवाक्यतात्पर्यमाह ॥ उदेत्येति ॥ तदर्धेन मारुतकालाधर्ेन येन कालेनेति शेषः । देशोपि ग्राह्यः । मुख्यत्वाद्ब्रह्म ग्रहणम्‌ । इतरेपि साध्याग्राह्याः । उदेत्येत्यनेनोर्ध्व उदेता अर्वागस्तमेतेत्युक्तार्थम्‌ । तदर्धेनेत्यनेन द्विस्तावदित्यंशोव्याख्यातः । ब्रह्मेत्यनेन साध्यानामेव तावदाधिपत्यमित्युक्तार्थम्‌ । ननु षष्यिघटिकात्मकोह्यहोरात्रः तस्य विभागेव स्वादिभ्यः उक्तक्रमेण कृतेपि ईषदूनं घटिकाद्वयमवशिष्यते । तस्य देवतानोक्तेत्यतस्ता एव तद्देवतेत्याशयेन तदन्तर्भावाय स्पष्यं कालविभागमाह ॥ एकेति ॥ तत इत्यनन्तरं तदर्धा इत्यार्वतनीयम्‌ । खण्डचतुष्ययेपि श्रुतं द्विस्तावदिति वाक्यं क्रमेण वस्वादिकालार्धपरत्वेन व्याख्यातमपि विप्रतिपत्तेस्तथातद्वाक्यादप्रतीतेश्ऱ्च सम्यग्व्याख्याति ॥ रौद्र इति ॥ द्विरित्यस्यार्थोद्विगुणीभूत इति । द्विगुणीभूतः रौद्रः कालोयावान्‌ तावान्वसुकालो भवतीति द्विस्तावदित्यस्याथर् इत्यर्थः । पर्यवसितमाह ॥ अर्ध इति ॥ वसुकालादर्धोरौद्रः काल इत्यर्थः । अनेन स आदित्यः यावत्‌ । यावति देशेकाले च दक्षिणत उदेता उत्तरतोस्तमेताद्विस्तावत्‌ तावतः कालस्य देशस्य च द्विर्द्विगुणं कालं पुरस्तादुदेतापश्ऱ्चादस्तमेतेति श्रुत्यर्थ उक्तो भवति । अहरादिकालविशेषाणां वस्वादिदेवताकत्वं प्राधान्यक्रमेण युक्तिभिरप्युपपादयति ॥ ब्राह्म इति ॥ ब्राह्मेमुहूर्ते चोत्थायेति स्मृतौ प्रसिद्धेश्ऱ्च ब्रह्मदेवताकत्वेनेति शेषः । अर्धरात्रात्परयामस्यादित्यदेवताकत्वप्रसिद्धेः युक्तिर्नोक्ता । उदाहृत वक्ष्यमाणप्रमाणैः च तत्सिद्धिरिति भावः । अपररात्रस्य सौम्यकालत्वे युक्त्यन्तरमाह ॥ सौम्यकालत्वाच्चेति ॥ शीतस्य सोमधर्मत्वादिति भावः । नन्वेतावताऽस्तु सोमदेवताकत्वंय मरुद्देवताकत्वं कुतस्तस्य कालस्येत्यत आह ॥ मारुतकालत्वाच्चेति ॥ अह्नोऽग्न्यादि वसुदेवताकत्वेयुक्तिमाह ॥ आग्नेयेति ॥ उदयात्पूर्वमर्धघटिकाऽस्तमयात्परत अधर्घटिकेति सैकघटिकं कालं कालाध्वनोरिति द्वितीया । ननु सर्वमहोवसुस्वामिकम्‌ । रात्रिरेव रुद्रादिस्वामिकेति न युक्तम्‌ । अहरेकदेशयोः माध्यन्दिनसायं सवनयोरुद्रादित्यादि देवताकत्वादित्यत आह ॥ अहः सर्वमिति ॥ सर्वे अहः वसूनां तु सामान्यान्नविशेषत इति वक्ष्यमाणेन विशेषेणप्रदत्तम्‌ । परेषामेव रुद्रादीनामेव । च स्त्वर्थः । रात्रिर्विशेषेणरुद्रादीनामेव दत्तेत्यर्थः । परे रुद्राद्याः । ननु रुद्राणां कथं माध्यन्दिनं सवनं दत्तम्‌ । तस्याहरेकदेशत्वेन वसुकालत्वादित्यत उक्तम्‌ । विशेषत इति । वसूनां सामान्येनान्याधीनतया स्वामित्वेपि रुद्राणां विशेषतोऽनन्याधीनत्वेन तत्कालस्वामित्वमिति भावः । माध्यन्दिनं सवनमिति शेषः । तृतीयं चेत्यत्र च स्वत्वर्थः । पूर्ववत्‌ विशेषेणेत्यर्थः । सवनमिति वर्तते । विशेषत इत्यनेन सूचितं विशदयति ॥ सामान्यादिति ॥ ननु ब्रह्मण ईषदूनघटिकाद्वयाधिपत्यमित्युक्तं । तन्महतोल्पमल्पस्य महदिति विरुद्धमित्याशंकां परिहरन्नुक्तं विशदयति ॥ सर्वस्येति ॥ यद्यपि विशेषतो ब्रह्मा सर्वस्यापि कालस्धपतिरितरेच तदधीनतयैकदेशाधिपतयः । तथापि ईषदूनघटिकाद्वयस्येतरत्यागेन स एवाधिपतिरित्युक्तमुपपन्नमिति भावः । द्वयोः द्वयोरहोरात्रिभागयोर्माध्यन्दिन तृतीय सवनयोः विशेषेणरुद्रादित्यादिदेवताकत्वं वसुस्वामिकत्वं तु सामान्येनेत्युक्तं । तत्र किं सर्वस्याप्यह्नः वसवः सामान्येनेशाः उत माध्यन्दिन तृतीयसवनयोः एवेति जिज्ञासायामाह ॥ माध्यन्दिन इति ॥ तुशब्दोवधारणे । तद्भृत्यत्वादेववसूनां राज्यमिष्यत इति सम्बन्धः । तद्भृत्यत्वादित्यनेन सामान्यादित्युक्तं सामान्यं स्पष्यीकृतमिति ज्ञातव्यम्‌ । प्रातःकालोविशेषतो न न्याधीनतया वसूनां भोग्य इति शेषः । तपि न सर्वथास्वातन्त्ऱ्ामित्याह ॥ तत्रापीति ॥ अत्रवायुशब्देन ब्रह्माविवक्षितः । सर्वस्याधिपतिः ब्रह्मेत्युक्तत्वात्‌ । प्रसंगात्‌ वस्वादीनां लोकविभागं चाह ॥ एवमीति ॥ प्रातःसवने यथा । एवं पृथिव्यामाधिपत्यं वसूनामिति शेषः । माध्यन्दिन सवने यथा । एवं रुद्राणामित्यादियोज्यम्‌ । अनेन यद्वसूनां प्रातःसवनं रुद्राणशं माध्यन्दिनं सवनं आदित्यानां विश्ऱ्वेषां च देवानां तृतीय सवनं क्वतहि यजमानस्य लोक इत्युक्तमुपपादितं भवति । स्वाराज्यं पर्येतेत्यत्र स्वाराज्यं स्वराड्‌भावं गच्छतीत्यपव्याख्याननिरासाय स्वाराज्यशब्दार्थमाह ॥ स्वाराज्यमिति ॥ भोगा विषयानुभवः । ननु स्वाराज्यशब्दस्य कथं विषयानुभववाचकत्वमप्रसिद्धेरित्याशंकायां योगेनेत्याह ॥ स्वरंजनादिति ॥ अनेन स्वं रंजयति सुखयतीति स्वराट्‌स्वराडेवस्वाराज्यमिति निर्वचनं सूचितं भवति । परोक्तार्थेतु आधिपत्यपदेन पौनरुक्त्यम्‌ । याख्यानव्याख्येयभावश्ऱ्चागतिकागतिरिति भावः । एवं स यावदादित्यः पुरस्ता दुदेतापश्ऱ्चादस्तमेताद्विस्तावद्दक्षिणत उदेतोत्तरतोस्तमेतेत्दनवाक्यचतुष्ययं दैनंदिनदक्षिणाद्युदयपरतया व्याख्यायेदानीं तत्परिशुद्धयेयत्परव्याख्यानं स यावदादित्यः पुरस्तादुदेतापश्‌चादस्तमेताद्विस्तावत्ततोद्विगुणकालं दक्षिणत उदेतोत्तरतोऽस्तमेतारुद्राणां तावद्भोगकालः । तथा पश्‌चादुत्तरत ऊर्ध्वमुदेताविपर्ययेणास्तमेतापूर्वस्मात्‌ पूर्वस्मात्‌ द्विगुणोत्तरोत्तरेणकालेन अमरावत्यादीनां पुरीणां द्विगुणोत्तरेण कालेनोद्वासोयदातदैवदक्षिणाद्युदयश्ऱ्चेति । तद्दूषयति ॥ नत्वित्यादिना ॥ अमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेनोद्वास इति तावदनुपपन्नम्‌ । तथात्वे तदधिपतीनामिन्द्रादीनामपि द्विगुणोत्तरोत्तरकालेन नाशापत्तेः । नचेष्यापत्तिः । इन्द्रनाशे इन्द्रापेक्षयायमोद्विगुणं कालं तिष्ठति । यमनाशे यमाद्वरुणोद्विगुणं कालं तिष्ठति तन्नाशे वरुणापेक्षयासोमोद्विगुणकालं तिष्ठति इत्यत्र प्रत्यक्षाद्यन्यतमप्रमाणाभावेन अप्रामाणिकत्वादिति भावः । किंचैवं स यावदादित्य उत्तरत उदेतादक्षिणतोस्तमेताद्विस्तावदूध्वर् उदेताऽर्वागस्तमेतेत्येतत्सर्वथानुपपन्नं त्वन्मतेसोमतत्पुर्योर्नाशेततोद्विगुणकालं ब्रह्मतत्पुर्योरवस्थानं ह्येतद्वाक्यप्रतिपाद्यम्‌ । नच तत्संमवतीत्याह ॥ नचसोमादिति ॥ पुर्युपलक्षणमेतत्‌ । एवमुत्तरत्रापि । कुतो न तिष्ठतीत्यत आह ॥ द्विपरार्धमिति ॥ हीति द्विपरार्ध्यधिष्ण्यमध्यासित इति प्रमाणप्रसिद्धिमाह ॥ एवमिन्द्रदीनां द्विगुणेनोत्तरोत्तरेण कालेनावस्थानमप्रामाणिकमित्युक्तम्‌ । इदानीं प्रमाणविरुद्धंचेत्याह ॥ इन्द्रादय इति ॥ ननु ब्रह्मणोद्विपरार्धमवस्थानेपि तदधर्ं सोमः तदर्धं वरुणः तदर्धं यमः तदर्धमिन्द्रस्तिष्ठतीति इन्द्रस्य ब्रह्ममानेन सपादषड्‌वर्षमवस्थानादुत्तरोत्तरं द्विगुणकालं अवस्थानं किं न स्यादित्यतो वाह ॥ इन्द्रादय इति ॥ इन्द्रयमवरुणसोमाः मन्वंतरमात्रं स्वस्वपदेषु तिष्ठन्तीति हि प्रमाणसिद्धम्‌ । अतस्तद्वयख्यानं तद्विरुद्धमिति भावः । वस्वाभिमानिकपूवदेशं परित्यज्यकालान्तरेरुद्रादिभिमानिकदक्षिणदेशे उदेतीति योवस्वादीनां देशविभागनियम उक्तः सोपि प्रमाणाभवावेनायुक्त इत्याह ॥ नच वसूनामित्यादिना ॥ पूर्व एव देश इत्येवमेवशब्दस्य सर्वत्र सम्बन्धः । अन्यत्रन्यः । इन्द्रपुर्युद्वासेपूर्वोदयद्विगुणकालं दक्षिणोदय इत्यत्र दूषणान्तरं वक्तुमाह ॥ तत्पक्ष इति ॥ तत्पक्षे दक्षिणाद्युदयस्य पूर्वोदयद्विगुणकालत्वपक्षे । रुद्रैः सह रुद्रान्तर्भावात्‌ दक्षिणत्वप्राप्तेः दक्षिणोदयकालस्वामित्यप्राप्तेः । ततः किमित्यत आह ॥ अत इति ॥ उपलक्षणं चैतत्‌ । इन्द्रस्य नाशांगीकारविरोधश्ऱ्चेत्यपि द्रष्यव्यम्‌ । ननु नष्य इन्द्रोन्यः रुद्रान्तःप्रविष्यस्त्विंद्रोवायुरेवेति न विरोध इत्यत आह ॥ नचेति ॥ इन्द्रपुर्युद्वासेन दक्षिणाद्युदयांगीकारेदूषणान्तरमाह ॥ इन्द्रादिपुरीणामित्यादिना ॥ इन्द्रदीनां तत्पुरीणांचेत्यर्थः । उद्वासत्वेनेति पाठे । भवितृप्रधानोनिर्देशः । एवमंगीकारे दक्षिणाद्युदयांगीकारे । तत्‌ षोडशगुणत्वात्‌ पूर्वोदयकालषोडशगुणत्वात्‌ ऊर्ध्वोदयस्य । ऊर्ध्वोदयकालस्य । एकेन्द्रात्परत एकेन्द्रनाशानन्तरं । अनिन्द्रत्वं दक्षिणाद्युदयकालस्येति शेषः । अयं भवः त्वन्मतेदक्षिणाद्युदयकाले एकेन्द्रात्परतः इन्द्राभाव एव स्यात्‌ । तथाच तदुद्दिष्यकमर्विलोपे वेदाप्रामाण्यप्रसंगः । नच पूर्वेन्द्रस्तदानीमस्तीति वाच्यम्‌ । त्वयातत्पुरीसहितस्य तस्योद्वासेन दक्षिणाद्युदयांगीकारात्‌ । नचेन्द्रतत्पुर्योरुद्वासनन्तरमल्पकाले एव प्रलयात्कर्मप्रवृत्तिरेव नास्तीति वाच्यम्‌ । ऊर्ध्वोदयकालसमाप्त्यनन्तरं हि प्रलयोंगीकृतः । ऊर्ध्वोदयकालस्य च पूर्वोदयकालषोडशगुणत्वात्‌ । इन्द्रनाशानन्तरमेव न प्रलय इति बहुतरकाले कर्मप्रवृत्त्यादिसत्त्वेन तदभावापत्तिरनिष्यैवेति । आदिपदबहुवचनाभ्यां यमनाशानन्तरं पश्ऱ्चिमाद्युदयकालस्यायमत्वस्यादित्याद्यपि सूचितम्‌ । किंच त्वत्पक्षे ऊर्ध्वोदयकालसमाप्त्यनन्तरपि न प्रलयः सम्भवति । अथ तत ऊर्ध्व उदेत्येत्युत्तरखण्डे ऊर्ध्वोदयकालसमाप्त्यनन्तरमपि आदित्यसद्भावांगीकारात्‌ । नह्यादित्योपेतः कालः प्रलय इति प्रामाणिकमित्याह ॥ अथेत्यादिना ॥ अस्मन्मते आदित्यशब्दस्य भगवत्परत्वात्‌ । तस्य च प्रलये वस्थितत्वान्नदोष इति सूचनायतत्पक्षे इत्युक्तम्‌ । पश्ऱ्चादपि ऊर्ध्वोदयकालसमाप्त्यनन्तरमपि । उपसंहारकारणं वदन्‌ उपसंहरति ॥ इत्यादीति ॥ पूर्वं वस्वादीनां पूर्वादि देशनियमोऽप्रामाणिक इत्युक्तम्‌ । इदानीं प्रमाणविरुद्धश्ऱ्चेत्याह ॥ वस्वादीनामिति ॥ यद्यपि परव्याख्याननिराकरणस्योपसंहृतत्वान्नेदं युक्तम्‌ । तथाप्यनन्तदोषदुष्यत्वेपीत्यस्य प्रौढिवादत्वनिरासाय पुनर्दुषणोक्तिरित्यवसेयम्‌ । तुशब्दोवधारणे । सर्वेषामपि वस्वादीनां देवानां सर्वदिक्षुपुराणि सन्त्येवेत्यन्वयः । ननु सर्वदेवानां सर्वदिक्ष्वपि पुराणिसन्ति चेदिन्द्रस्य पूर्वस्यां दिशि यमस्य दक्षिणस्यां पुरमित्यादिविशेषोक्तिः कथमित्यत आह ॥ एवमपीति ॥ धीवृत्त्यै ध्यानार्थम्‌ । कथ्यते पुरमिति शेषः । किंच स्यादयं वस्वादीनां देशनियमोयदीन्द्रपुर्युद्वासानन्तरं रुद्रादयःढ सन्तीति प्रामाणिकं स्यात्‌ । तेषशमिन्द्रपरिवारत्वेनेन्द्रनाशे वस्थित्यसम्भवात्‌ । अतो न त्वदभिप्रेतोदेशनियमोयुक्त इत्याह ॥ ऐन्द्रया इति ॥ उदयाभावोऽवस्थित्यभावः । उपसंहरति ॥ अत इति ॥ प्रमाणाभावात्तद्विरोधाच्च । एतत्‌ वस्वादीनां नियतदेशत्वकल्पनम्‌ । यत्किंचित्‌ फल्ग्वित्यर्थः । किंच कालान्तरभाविदक्षिणाद्युदयस्यासुरमतत्वाद्दैनन्दिनोक्तदक्षिणाद्युदयस्य च देवरहस्यत्वान्नत्वद्वयाख्यानं युक्तम्‌ । किंत्वस्मद्य्‌ाख्यानमेवेत्याशयेन तादृगाख्यायिकामाह ॥ उदेतीत्यादिना ॥ पूवर्तः पूवस्यां दिशि । नियमोनन्यथाभावः । उद्दिष्यः उपदिष्यः । सूर्यं प्रतीति शेषः । पुनःशब्दः समुच्चये । पुराहिरण्यकेन हिरण्याक्षेण च सूर्यस्य द्विगुणं द्विगुणकालं द्विगुणोत्तरोत्तरेण कालेन । दक्षिणादिषु उदित्वापश्ऱ्चान्मध्येव्यवस्थितिः । ब्रह्माणं याचितेति योजना । मध्येव्यवस्थितिरित्यनेनाथततऊध्वर् उदेत्येत्येतत्खण्डस्यापि त्वदीयं व्याख्यानमासुरमतमेवेति सूचयति । तदातस्मिन्समयेऽसुराणां देवत्वं च याचितमिति शेषः । तत्‌ वरद्वयम्‌ । ननु यदि सवरस्त्वयानदत्तः तर्हि दक्षिणाद्युदयोभविष्यतीति त्व
द्वचनं अप्रमाणं स्यादित्यतः स्वोक्त्यभिप्रायं देवान्‌ प्रत्याह ॥ दक्षिणाद्युदय इत्यादिना ॥ दैनंदिनः दिनेदिने भवः क्वच्चिच्चेत्यन्वयः । ननु त्वभिप्रेतोदैनंदिनोदक्षिणाद्युदयः कीदृश इत्यपेक्षायान्तं विविच्याह ॥ अर्धनाडीति ॥ रविर्नित्यशः पूर्वरात्रेतुपूर्वरात्र एव । अर्धनाड्युत्तराः सकाष्ठाः पंचदशनाडीः दक्षिणादुत्तरां दिशं गच्छेदिति योजना । अनेन दक्षिणोदयोत्तरास्तमयौदर्शितौ । तथोक्तं पुरस्तात्‌ । अत्र नाडीशब्दोघटिकापरः । काष्ठाशब्दश्ऱ्च घटिकाष्यमांशपर इत्यवधेयम्‌ । अनेन यदुक्तमीषदूनं घटिकाद्वयमवशिष्यत इति तस्य काष्ठो न घटिकाद्वयमवशिष्यत इत्येवार्थः । तन्मध्येच काष्ठाद्वय सहित घटिकायावसुकालेऽन्तर्भावः । अवशिष्यस्य सकाष्ठार्धनाड्यात्मकस्य कालस्य रुद्रकालेऽन्तर्भाव इत्युक्तं भवतीति ज्ञातव्यं वसुरुद्रकालयोरेव साधिकासकाष्ठेति विशेषाधिक्योक्तेरन्यत्र तदभावादेवावशिष्यकाल विभागः कृतो नान्यत्रेति भावः । तदर्धमित्यत्र च न साकाष्ठार्धनाड्युत्तरपंचदशघटिकाधर्ं कालं देशं चेत्यर्थः । अनेन क्रमेणोत्तरत्रापि तत्तदर्धविवक्षायामहोरात्रात्मककालस्य षष्यिघटिकातोप्यधिक्यापत्तेः । किन्तु पंचदशघटिकार्धमित्येव्याख्येयम्‌ । अधिकस्याल्पस्याविवक्षितत्वादिति ज्ञातव्यम्‌ । एवमुत्तरत्रापि । पश्ऱ्चिमात्पूर्वं गच्छदित्यनेन पश्ऱ्चिमोदयपूर्वोस्तमयावुक्तौ द्रष्यव्यौ । उत्तराद्दक्षिणां दिशं गच्छेदित्यनेन उत्तरोदयदक्षिणास्तमयौदशिर्तौ । ऊर्ध्वादित्यनेनोर्ध्वदित्यनेर्ध्वोदयादर्वागस्तमयावुक्तौ । ननु भवतु त्वदभिप्रेतोदैनंदिनोदक्षिणाद्युदय एतादृशस्तथापि द्विगुणं कालमुदित्वेति प्रार्थितत्वादुक्तदैनंदिन दक्षिणशद्युदयस्य पूर्वोदयस्य पूर्वोदयाद्द्विगुणत्वादिकथमित्यतस्तत्रापि स्वाभिप्रेतमथमाह ॥ यदेति ॥ उत्तरस्माद्दक्षिणाद्युदयकालात्पूर्वः पूर्वोदयकालः । नन्वेवं यदि दक्षिणाद्युदयोविवक्षितस्तर्हि उत्तरपुरीसंस्थानामस्मदहर्मानसमानमहर्मानं न स्यात्‌ । अनेकेषामुदयास्तमयानां प्राप्तत्वादित्यतस्तदप्यहोस्मदहः सममेव । तत्रोक्ताश्ऱ्चोदयास्तमयाः गौणा एव विवक्षिता इत्याह ॥ अहरिति ॥ अहः साम्येपि अन्येषु दक्षिणाद्युदयस्थानत्वेनोक्तदेशविशेषेषु उदास्तमयाविवनमुख्यौ । तत्र मुख्यार्थसादृश्यं निमित्तमाह ॥ क्षिप्रं क्रमशोगिर्यावृत्तेरातपस्य तेजोमण्डलस्याल्पकालत इति । अयं भावः । यद्देशस्थानां तेजोमण्डलं समीपवर्ति तेषशमुदय इव । मण्डलसामीप्यसाम्यात्‌ । प्रसिद्धोदयोहिमण्डलमस्माकं समीपवर्ति तत उक्तकालैः गन्तव्य तत्तद्देशविशेषगमनेदूरगमनसाम्येन पूर्वेषामस्तमय इव प्रसिद्धास्तमयेपि मण्डलमस्माकं दूरं यातीति । ननु भवतु त्वदभिप्रेतोदक्षिणाद्युदयोदैनंदिनः तथाप्यस्माकमनिष्यमेव । हिरण्यकेन दक्षिणाद्युदयेऽसुराणां देवत्वस्य प्रार्थितत्वात्‌ । भवता च तस्य दत्तत्वात्‌ दैनंदिन दक्षिणाद्युदये असुराणां देवत्वप्राप्तेरित्यत आह ॥ कालान्तर इति ॥ भवतु कालान्तरभाविदक्षिणाद्युदयापेक्षयाद्वितीयवरदानं तथाप्यनिष्यमेव । भवदिच्छयासूर्यस्यकालान्तरे दक्षिणाद्युदयेऽसुराणां देवत्वप्राप्तेरित्यत आह ॥ समयश्ऱ्चेति ॥ नित्योनियतः तमेवसमयमाह ॥ पूर्वस्मादिति ॥ तथेत्यनन्तरं इति शब्दोध्याहार्यः । केनचित्‌ निमित्तेन पुरुषेण वा कालान्तरभाविदक्षिणाद्युदयासत्वमेव ब्रह्मणोभिप्रेतमतः सकदापि न भविष्यतीत्यत्र मोक्षधर्मं संवादमपि वक्तुमाह ॥ एतदेवेति ॥ एतदेव कालान्तरे दक्षिणाद्युदयासत्वमेव । उदाहरिष्यमाणमोक्षधमर्वचनस्य अभिप्रायाप्रतीतेस्तात्पर्यमाह ॥ देवानिति ॥ मोक्ष धर्मवचनमुदाहरति ॥ दैतेययोरिति ॥सुरान्प्रतिब्रह्मणोक्तम्‌ । अविज्ञायेति सम्बन्धः । अविज्ञानमात्रेण कथं तथोक्तिरित्यत उक्तम्‌ । दैतेययोरिति । यस्माद्ब्रह्मणारवेः प्रागुदयविषयेनियमः कृतः तस्मान्नकदाचनतद्भवेदिति सम्बन्धः । खं0-6 । 10 ॥ ततश्ऱ्चायं खण्डपञ्चकार्थः ॥ तत्‌ प्रसिद्धं । यत्‌ प्रथमममृतं वासुदेवाख्यं तत्‌ वसवः प्राप्तपदाः उपजीवन्ति । श्रवणशदिरूपविचारानन्तरं पश्यन्तीत्यर्थः । अग्निनामुखेन न प्रधानेन सहिताः अग्निप्रधानका इत्यर्थः । इतरवसुन्‌ प्रतिस उपदेष्येति भावः । उपजीवन्तीत्युक्तापरोक्षज्ञाने विषयवैराग्यं कारणमिति दर्शयंस्तत्साध्यमाह ॥ नवा इति ॥ यावदेवामृतं दृष्ट्वा तृप्यन्तिमुक्तिं प्राप्नुवन्ति । तावत्‌ देवाः नाश्ऱ्नंति न पिबन्ति । उपलक्षणयासमस्तविषयभोगविरक्ताभवन्तीत्यर्थः । तृप्यन्तीत्युक्तमेव विवृणोति ॥ एतदेवरूपिमिति ॥ एतदन्तः प्रविष्या भवन्तीत्यर्थः । उद्यन्ति स्वेच्छयैव बहिरपि निर्यान्ति ॥ 1 ॥ एवं प्राप्तपदानां वसुनां सायुज्यरूपमुक्तिंफलमभिदायाधुनाऽप्राप्तपदानां वसुपदयोग्यानामेतद्विद्यासाध्यं फलमाह ॥ स य इति ॥ योधिकारी एतत्‌ अमृतं एवं वेद सवसूनामेवैकोभूत्वावसुभोग्यदेशकालाधिपोमभूत्वाऽग्निनामखेनप्रधानेन तदुपदेशेनेति यावत्‌ । एतदेवमृतं दृष्ट्वेत्यादिपूर्ववत्‌ ॥ 2 ॥ ननु वसुभोग्यौ देशकालौकियन्तौ यदधिपोयं भवतीत्युक्तमित्यपेक्षयामाह ॥ आदित्यः यावत्‌ यावताकालेन काष्ठाद्वय सहितैकत्रिंशद्घटिकात्मकाहर्लक्षणेन तत्कालगन्तव्यदेशेन च पुरस्तादुदयाद्रौ उदेत्यपश्ऱ्चादस्ताद्रावस्तमेता तावत्‌ तावत एव उदयास्ताद्रिमध्यस्यैव देशस्योक्तपरिमाणाहर्लक्षणस्यैव कालस्य च वसूनामाधिपत्यमस्ति । सः पूर्वोक्तोधिकारीतत्पर्येतापरितो गन्ता । न केवलमाधिपर्येता । किन्तु स्वाराज्यं स्वं रंजयतीति स्वराट्‌ स्वराडेवस्वाराज्यं विषयानुभवरूपो भोगः तमपि पर्येता । अधिगच्छतीत्यर्थः ॥ 3 ॥ षष्ठःखण्डः ॥ 6 ॥ अथ यद्द्वितीयममृतं संकर्षणाख्यं शिष्यं पूर्ववत्‌ । ननु कौतौरुद्रअभोग्यौदेशकालौयदधिपोयं भवतीत्युक्तमित्यपेक्षायामाह ॥ सयावदादित्य इत्यादिना ॥ आदित्यः यावत्‌ । यावता देशेन कालेन च कालस्य देशस्य च रुद्राणामाधिपत्यं सोधिकारीतत्पर्येता । तत्र स्वाराज्यं भोगं च पर्येता । ननु रुद्रभोग्यौ देशकालौ वसुभोग्यदेशकालापेक्षयाकियन्ता वित्यपेक्षायान्तदर्धभूतावित्याह ॥ पुरस्तादित्यादिना ॥ आदित्यः यावत्‌ यावताकालेन सकाष्ठार्थनाड्युत्तरपञ्चदशघटिकात्मकपूर्वरात्ररूपेण तद्गन्तव्यदेशेन च दक्षिणतः उदेतोत्तरतोस्तमेता तावत्‌ तावतः कालादेः द्विद्गिणं कालं पुरस्ता दुदेतापश्ऱ्चादस्तमेतारुद्रभोग्यदक्षिणोदयकालाद्यपेक्षयावसुभोग्यः पूर्वोदयकालादिर्द्विगुण इत्यर्थः । तथाच रुद्रभोग्यकालादेः वसुभोग्यकालाद्यर्धतापर्यवस्यतीति भावः ॥ 3 ॥ सप्तमः खण्डः ॥ 7 ॥ अथ यत्तृतीयममृतं प्रद्युम्नाख्यम्‌ । शिष्यं पूर्ववत्‌ ॥ 2 ॥ नन्वादित्यभोग्यौदेशकालौ कौ । यदधिपोयं भवतीत्युक्तमित्यत आह ॥ सयावदादित्य इत्यादिना ॥ आदित्यः यावत्‌ यावताकालेन देशेन च पश्ऱ्चादुदेतातद्देशगतान्प्रतिस्वसामीप्येनोदयं प्राप्त इव पुरस्तात्पूर्वदेशविशेषेऽस्तमेता तान्प्रत्येव किंचिद्दुरगमनसाम्येनास्तं प्राप्त इव तावत्‌ तावतो देशस्य कालस्य चादित्यानामाधिपत्यं वर्ततेसःतत्पर्येता स्वाराज्यं भोगं च पर्येता । नन्वादित्यभोग्यौ देशकालौरुद्रभोग्यदेशकालापेक्षयाकियन्ता वित्यपेक्षायान्तदर्धभूतावित्याह ॥ दक्षिणत इत्यादिना ॥ आदित्यः यावत्‌ यावता काललेन देशेन च पश्ऱ्चादुदेतापुरस्तादस्तमेता तावत्‌ तावतः कालस्य देशस्य च द्विर्द्विगुणं दक्षिणत उदेता उत्तरतोस्तमेता आदित्यभोग्यपश्ऱ्चिमोदयकालाद्यपेक्षयारुद्रभोग्य दक्षिणोदयकालादिर्द्विगुण इत्यर्थः । तथाच अदित्यभोग्यकालादेः रुद्रभोग्यकालाद्यर्धतापर्यवस्यतीति भावः । अनयैव रीत्योत्तरखण्डद्वयगतमिदं वाक्यं व्याख्येयम्‌ ॥ 3 ॥ अष्यमः खण्डः ॥ 8 ॥ चतुर्थममृतं अनिरुद्धाख्यं ॥ खं0 ॥ 9 ॥ पञ्चमममृतं नारायणाख्यम्‌ । शिष्यं समानम्‌ ॥ दशमः खण्डः ॥ 10 ॥ एवं प्रति दिनं पूर्वाद्युदयं कुर्वन्नादित्यनामाहरिर्मधुतयोपास्य इत्युक्तम्‌ । इदानीं प्रलयेपि किमेवमुदयादिकं करोतीत्यपेक्षायां नेत्याह ॥ अथ तत इति ॥ प्रसिद्धादित्यपरतानिरासायकण्डं प्रमाणेनैव व्याख्याष्ये ॥ अथेति ॥ श्रुतौ कर्तृवाचिपदाभावादादित्यपदानुवृत्तिमभिप्रेत्यभगवति तन्निर्वक्ति ॥ आदिमूलत इति ॥ आदिकारणत्वादित्यर्थः । तत ऊर्ध्व इत्यस्य तात्पर्यार्थोमण्डलादूर्ध्वं गच्छतीति । उदेत्येत्यस्यार्थो वैकुण्ठलोकं प्राप्येति । अनेन उत्‌ ऊर्ध्ववैकुण्ठं एत्यप्राप्येत्यर्थ उक्तो भवति । मध्य इत्यस्यार्थः प्रलय इति । प्रलयकाल इत्यर्थः । तस्य स्थितिसृष्यिकालमध्यत्वादिति भावः । देवास्तेनाहं सत्येनमाविराधिषिब्रह्मणेत्यत्र ब्रह्मणाब्रह्मस्वरूपेण मा विराधिषिमाविराध्येयमप्राप्तिः ब्रह्मणो मा भूदिति व्याख्यानं अयुक्तम्‌ । अप्रामाणिकत्वात्‌ । प्रमाणविणोधाच्चेति भावेन तद्वयाचष्ये ॥ देवता इत्यादिना ॥ देव इत्यस्याथर्ोदेवता इति । कदाचनेत्यस्य तात्पर्यं न संशय इति । तेन सत्येन सत्यवचनेन सत्यने ब्रह्मणेति वा । विराधिषीत्यस्यार्थो व्यृद्धिं समृद्धिराहित्यं प्राप्नुयामिति । विराधिषीत्यत्र कर्तुरप्रतीतेस्तं दर्शयितुमाह ॥ इत्युवाचेति ॥ नहवा अस्मा उदेति न निम्लोचति । सकृद्दिवाहैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेदेति वाक्यं अन्वयं दर्शयन्नेव मुक्तपरतया व्याचष्ये ॥ एतामित्यादिना ॥ सकृदित्यस्यार्थोनित्यमिति । अनुदयास्तकं यथा भवति तथेति क्रियाविशेषणम्‌ । अनेन नहवा अस्मा उदेतीत्याद्युक्तार्थं तद्धैतद्ब्रह्माप्रजापतय उवाचेति वाक्यं ब्रह्माहिरण्यगर्भः प्रजापतयेविराजे इत्यन्यथाप्रतीति निरासाय व्याचष्ये ॥ तदेतदिति ॥ तदेतज्ज्ञानं मधुनामकभगवज्ज्ञानम्‌ । यद्यप्यस्मा इमा मद्भिरित्यादिवाक्यमप्रतीतेः व्याचष्ये ॥ पूरयित्वेति ॥ धनस्य पूर्णामित्यस्य तात्पर्यं रत्नैः पूरयित्वेति । अद्भिः परिगृहीतामित्यस्य तात्पर्यं सप्तसमुद्रिणीमिति । एतदेव ततो भूय इत्यस्यार्थो नैव पूर्यते गुरुदक्षिणेति । सर्वाधिकारिकत्वप्रतीति निरासाय यैतद्विद्योपास्तौयौग्यानाह ॥ देवा इति ॥ माविराधिषिब्रह्मणेति वाक्यं पूर्वं ब्रह्मणाव्यृद्धिं न प्राप्नुयामिति व्याख्यातमपि ब्रह्मणा चतुर्मुखेन व्यृद्धिं विशेषेण ऋद्धिं इत्यन्यथा प्रतीति निरासाय विशदयति ॥ ब्रह्मणेत्यादिना ॥ खं0 ॥ 11 ॥ ततश्ऱ्चायं खण्डार्थः ॥ अथोदयास्तमप्रचारानन्तरम्‌ । प्रलये आदित्यनामा भगवान्‌ । ततो मण्डलादूर्ध्वः ऊर्ध्वं वैकुण्ठलोकम्‌ । गच्छतीति शेषः । उदेत्य उत्‌ ऊर्ध्वं वैकुण्ठ प्राप्य नैवोदेता । नास्तमेता तत्रैतादृशोदयादिकं न करोतीत्यर्थः । किन्तु एकलः एकप्रकार एव । मध्ये स्थितिसृष्यिकालमध्ये स्थाता ॥ 1 ॥ एवं वैकुण्ठधाम्नि आदित्यनाम्नो हरेरुदयास्तमयाभावे प्रमाणमाह ॥ श्रुतिः । तत्‌ तत्रोक्तर्थे । एषः वक्ष्यमाणः श्ऱ्लोक इति । तत्र वैकुण्ठगत आदित्यनाम्नि हरौ नैव दोषा इति शेषः । दोषाभावमेकदेशेन दर्शयन्नाह ॥ ननिम्लोच इत्यादिना ॥ नोदियाय नोद्गतः । उदयास्तमयादिदोषास्तत्र न सन्तीत्यर्थः । हे देवास्तेन सत्येन भगवान्निर्दोष इत्यादिनासत्य वचनेन शपथरूपेणाहं ब्रह्मणा परब्रह्मणा तत्प्रसादादिति यावत्‌ । माविराधिषि अवृद्धिं न प्राप्नुयामिति देवान्प्रतिब्रह्मणो वचनम्‌ । सत्येन ब्रह्मणेति वासम्बन्धः ॥ 2 ॥ एतद्विद्यावेत्तुर्मुक्तिरूपं फलमाह ॥ न हवा अस्मा उदेतीति ॥ योधिकारी एतां ब्रह्मोपनिषदं एवमुक्त प्रकारेण वेद । अस्मैसविता । नोदेति न निम्लोचति । किन्तु सकृत्सदा । दिवैवभवति हेति सम्बन्धः ॥ 3 ॥ महदुपदेशपरं पराप्राप्ताचेयं विद्योऽतोमहतीत्याशयेनाह ॥ तद्धैतदिति ॥ तदेतत्‌ मधुतया भगवज्ज्ञानम्‌ । ब्रह्माविष्णुः । प्रजापतयेविरिंचय । मनवेस्वायम्भुवाय । प्रजाभ्यः इक्ष्वाकुप्रभृतिभ्यः । इयं चातिगोप्यत्वान्नयस्मैकस्मैचनवाच्येत्याह ॥ तद्धैतदुद्दालकायेत्यादिना ॥ यस्मादुद्दालकाय आरुणयेज्येष्ठायपुत्रायपिता तदेतद्ब्रह्म प्रोवाच ॥ 4 ॥ तत्तस्मा दिदं ब्रह्म अन्योपि पिता ज्येष्ठायैव पुत्रायप्रब्रूयादिति योजना । प्रणाय्यायप्रणयवतेन्ते वासिनेवा । ब्रह्मब्रूयादिति सम्बन्धः ॥ 5 ॥ एतद्विद्योपदेष्युः सदृशगुरुदक्षिणाभावाच्चैषामहतीत्याह ॥ यदीति ॥ यदि अस्मै एतद्विद्योपदेष्य्रे अद्भिः समुद्रैः परिगृहीतां परिवृताम्‌ । धनस्य रत्नादिधनेन पूर्णामपीमां पृथ्वीं दद्यात्‌ । गुरुदक्षिणात्वेनेति शेषः । तर्ह्यपि तादृशपृथिवीदानं नैतद्विद्यादानसमम्‌ । किन्तु ततः तादृशपृथ्वीदानदपि एतदेव एतद्विद्यादानमेव भूयोऽधिकमित्यर्थः । द्विरुक्तिरुक्तावधारणथर्ा ॥ 6 ॥ एकादशः खण्डः ॥ 11 ॥ एवंआदित्यान्तर्गतस्य भगवतो वस्वादिसर्वदेवतो पास्यत्वादिरूपं महिमानं निरूप्येदानीं तत्प्रतिपादकगायत्रीनिष्ठस्य गायत्रीनाम्नो भगवतः षड्‌िवधत्वादिरूपो महिमानिरूप्यते ॥ गायत्रीत्यादिना ॥ इदं सर्वं भूतं प्राणिजातम्‌ । यत्किंच स्थावरं जंगमं वा तत्सर्वम्‌ । गायत्रीवै इत्यन्यथाप्रतीतिनिरासाय गायत्री वा इदं सर्वं यदिदं किंचेति वाक्यं अन्वयप्रदर्शन पूर्वकं व्याचष्ये ॥ यदिदमिति ॥

भूतमित्यनूद्यप्रभूतमिति व्याख्यानं तस्यैव लब्धार्थप्रदशर्नं परिपूर्णमिति । यच्छब्दश्रवणात्तदित्यध्याहृतम्‌ । वा इत्यस्यार्थः एवेति । नान्यदित्यर्थः । अनेन भूतशब्दवाच्यतया वक्ष्यमाणस्य मत्स्यादेः सर्वान्तस्थितस्य च रूपस्य गायत्रीनामकभगवदभिन्नांशत्वमुक्तं भवति । ननु भूधातोः सत्ताथर्त्वप्रसिद्धेः कथं भूतं प्रभूतमिति व्याख्यातमित्यत आह ॥ भूबहाविति ॥ नन्वथापि पूर्णमिति लब्धार्थकथनमयुक्तम्‌ । बहुत्वस्य संख्याविशेषरूपस्यापूर्णसर्ववस्तुसाधारण्यादित्यत आह ॥ बहुरिति ॥ तथाच पूर्णस्यैव मुख्यतो बहुशब्दवाच्यत्वेन प्रसिद्धत्वात्‌ । मुख्यस्यैव च ग्राह्यत्वात्तत्पर्यायेणापि भूतशब्देन पूणॅमेव ग्राह्यमिति भावः । एवमादिवाक्यं स्ववाक्येन व्याख्यायतत्स्थेम्नेगायत्ऱ्यावाग्रूपायाः सर्वात्मकत्वमत्रोच्यत इति परकीयव्याख्यान निरासाय च प्रमाण;नैव खण्डं व्याचष्ये ॥ यदिदमित्यादिना ॥ परितोदेशतो गुणतः कालतश्ऱ्च पूर्णमिति भूतशब्दार्थकथनम्‌ । तथाच यदिदं परितः पूर्णं मत्स्य कूर्मादिरूपकं सर्वान्तः स्थितं च । तदिदं सर्वं भगवान्‌ गायत्रीनामाविष्णरेवेति सम्बन्धः । भगवति गायत्रीशब्दं निर्वक्तुं प्राप्तं गायति च त्रायतेचेति वाक्यं कर्माप्रतीतेः गानस्वरूपाप्रतीतेश्ऱ्च तदुभयं दर्शयन्‌ व्याचष्ये ॥ तदिति ॥ तेनोच्चारितत्वादित्यर्थः । तथाच वेदोच्चोरणमेवात्रगानं विवक्षितमिति भावः । भूतमिति पूर्णमितिव्याख्यानम्‌ । तत्कथं शब्दलब्धमित्यतस्तद्दर्शयति ॥ भूमेति ॥ भूतमिति भूमाप्रोक्तः । भूबहाविति धातोः । भूमाच पुरुषोत्तमोमत्स्यादिरूपीप्रोक्तस्तस्य पूर्णत्वात्‌ भूमशब्दस्य च तदर्थत्वेन प्रसिद्धत्वात्‌ । बहुःपूर्णतायामित्युक्तेरिति भावः । यद्भृतं प्रभूतं पूर्णं तत्सर्वं गायत्रीनामाविष्णुरेवेति व्याख्यानमयुक्तम्‌ । मुक्तानां रमायाश्ऱ्चपूर्णत्वेन विष्णुत्वलापत्तेरत उक्तं विशदयति ॥ अनन्यापेक्षमिति ॥ उद्रिक्तं पूर्णमत्स्यादि ततश्ऱ्चानन्यापेक्षत्वेन पूणर्त्वं विशेषणीयमिति भावः । सर्वस्य विनियामकं सर्वान्तस्थितम्‌ । यद्यदिति वीप्सासर्वरूपसंग्रहार्था । एतादृशं अनन्यापेक्षमुद्रिक्तम्‌ । अतो नातिप्रसंग इति भावः । अनेन गायत्रीनाम्नो हरेरत्रविवक्षितषड्‌िवधरूपमध्ये यद्गायत्रीसंस्थं गायत्रीनामकं तदेव प्रथमं रूपं भूतशब्दोक्तम्‌ । मत्स्यादिसर्वान्तस्थितं च द्वितीयमिति विवक्षितमित्युक्तं भवति । तस्य तृतीयं रूपं वक्तुं वाग्वैगायत्रीति वाक्यं प्रवृत्तं तद्गायत्ऱ्याःशब्दात्मकत्वमुच्यत इति व्याख्यानमप्रामाणिकमित्याशयेन व्याचष्ये ॥ स एवेति ॥ गायत्रीनामैव । वैशब्दाथर् एवेति । स एव वाङ्‌नामानान्य इत्यनेनास्य तदभिन्नंशत्वमुक्तं इति ज्ञातव्यम्‌ । वाङ्‌नामकत्वं केन निमित्तेनेत्यत उक्तं वचनादिति । अनेन वक्तीति वागितिनिर्वचनं सूचितं भवति । वाचिसंस्थित इत्येतदधिष्ठानकथनार्थम्‌ । एवं पृथिव्यामपि संस्थित इत्यादिकमपि ज्ञातव्यम्‌ । वाङ्‌नामाहरिः किं रूप इति जिज्ञासायामाह ॥ हयशीर्षाख्य इति ॥ ननु गायत्रीसंस्थतोपि भगवान्‌ किमाकार इत्याकांक्षायामाह ॥ गायत्ऱ्यामिति ॥ सहयशीर्षाख्यः गायत्रीनाम्नो विष्णोश्ऱ्चतुर्थं रूपं वक्तुं यावैसागायत्रीत्यादि वाक्यं प्रवृत्तम्‌ । तत्प्रसिद्धपृथिवीमात्रपरमिति प्रतीतिनिरासाय व्याचष्ये ॥ स एवेति ॥ गायत्रीनामैव । अस्याह हीदं सर्वं भूतं प्रतिष्ठितम्‌ । एतामेव नातिशीयन्त इति वाक्यद्वयं प्रसिद्धपृथिवीमात्र परत्वपक्षेनुपपन्नं स्यादित्याशयेन विष्णुपरतोपपादकतया क्रमेण व्याचष्ये ॥ विष्णाविति ॥ नातिशेते नाति वर्तते । कुत इत्यत आह ॥ सहीति ॥ स हरिः सर्वाधिकः प्रसिद्धो यत इत्यर्थः । नहि प्रसिद्धपृथिव्याः मुख्यतः सर्वभूताश्रयत्वं नवातां कोपि नातिशेत इति सम्भवतीति भावः । पृथिवीशब्दवाच्यत्वेनिमित्तं दर्शयन्‌ पंचमरूपप्रतिपादकं यावैसापृथिवी इयं वावसा यदिदमस्मिन्पुरुषेशरीरमिति वाक्यं प्रसिद्धशरीर परताप्रतीतिनिवारणाय व्याचष्ये ॥ पृथुत्वादित्यादिना ॥ स एव पृथिवीनामैव नान्यः इत्यनेन भिन्नस्थानत्वेन रूपयोः भेदशंकानकार्येति दशिर्तम्‌ । एवमुत्तरत्रापि । शरीरस्यां तरन्तः शरीरं पुरुषस्तस्मिन्‌ गतोन्तःशरीरगः शरित्वात्‌ सुखरतिरूपत्वात्‌ । अनेन अस्मिन्‌ पुरुषे शरीरमित्यस्य तात्पर्यमुक्तम्‌ । पुरुष इति सप्तम्यानिर्दिष्यं पुरुषं प्रदर्शयन्नुक्तं विशदयति ॥ पुरुष इति ॥ उक्तं शरीशब्दप्रवृत्तिनिमित्तं विशदयन्‌ षष्ठरूपप्रतिपादनाय प्रवृत्तं यद्वैतत्पुरुषेशरीरमित्यादिवाक्यं प्रसिद्धहृदयमात्रपरताप्रतीति वारणशय व्याचष्ये ॥ योसावित्यादिना ॥ हृदयशब्दं विष्णौ निर्वक्ति ॥ अयनादिति ॥ अयनात्‌ ज्ञानात्‌ । स्थितेः वा । सैषा चतुष्पदाषड्‌िवधागायत्रीति वाक्यं सैषाचतुष्पादषडक्षरचतुष्पदाषड्‌िवधावाक्‌ भूतपृथिवीशरीरहृदयप्राणरूपासतीषड्‌िवधेति व्याख्याननिरासाय ब्रह्मपरतयैवोद्देश्यविधेयभावव्यत्यासेन व्याचष्ये ॥ गायत्ऱ्यामित्यादिना ॥ पूर्वं चतुष्पात्त्वस्यानुक्तत्वादुत्तरत्रषड्‌िवधत्वस्याकथानाच्च नयथास्थित एवोद्देश्यविधेय भावः । तथाच सैषाषड्‌िवधागायत्रीचतुष्पदेति योजनोक्ता भवति । तत्र षड्‌िवधेत्यनुवादवाक्यं तावत्‌ गायत्ऱ्यामित्यादिना षड्‌िवध उच्यत इत्यन्तेन ग्रन्थेन व्याख्यायते । सूर्य स प्रभः प्रथम इति शेषः । तथाच स्वसाहित्येन षड्‌िवधत्वं ज्ञातव्यम्‌ । स्त्रीरूप इत्यनेन स्त्रीलिंगोपपत्तिरुक्ता । एवमुत्तरत्रापि । एवमनुवादकं वाक्यं व्याख्यायेदानीं चतुष्पदेति विधायकांशंपादोस्य सर्वाभूतानीति वक्ष्यमाणमन्त्रानुसारेण व्याचष्ये ॥ त्रिभिरिति ॥ पादोस्य सर्वाभूतानि त्रिपादस्यामृतं दिवीति मन्त्रं अस्यपादः सर्वाणिभूतानि तेजोबन्नादीनि स्थावरजंगमानि वा त्रिपात्‌ । त्रयः पादा अय सोयं त्रिपात्‌ अमृतं पुरुषाख्यं समस्तस्य गायत्ऱ्यात्मनोदिविद्योतनवति स्वात्मन्यवस्थितमित्यप्रामाणिकव्याख्याननिरासाय सम्यग्व्याचष्ये ॥ भिन्नपाद इत्यादिना ॥ सर्वभूतानीत्यस्यार्थः सर्व जीवा इति । ननु पाद इति चतुर्थो भागः तथाच कथं भिन्नत्वेपादत्वमित्यत आह ॥ तस्येति ॥ तथाच सर्व जीवानां तस्य भगवतः ज्ञानादिनासादृश्याद्गौणं पादत्वमिति भावः । त्रिपादस्यामृतं दिवीत्यंशं व्याचष्ये ॥ स्वरूपपादा इति ॥ अमृतशब्दार्थः स्वरूपेति । किं शब्दवाच्यास्त्रयः पादा इत्यपेक्षायामाह ॥ नारायण इति ॥ श्ऱ्वेतद्वीपगो नारायणः अनन्तासानगोवासुदेवः वैकुण्ठस्थो वैकुण्ठः इतिशब्दवाच्या इति शेषः । ननु वैकुण्ठस्य सत्यलोकोपरिस्थितत्वादस्तुवैकुण्ठस्य दिविस्थितत्वं नतु नारायणवासुदेवयोः श्ऱ्वेतदीपानं तासनयोः भूप्रदेशस्थितत्वादित्यतस्तद्घटयन्नाह ॥ अनन्तेति ॥ तथाच शब्दौ परस्परसमुच्चये । हरेरनन्तशयनं च नारायणाख्यं तथानन्तसनं वासुदेवाख्यं रूपं बहुलक्षोच्छिते नित्येचित्प्रकृत्यात्मनिविमानेयतः संस्थितं तत एव श्रुतौ दिवीति कत्रथितमित्यन्वयः । नित्यत्वोपपादनाय चित्प्रकृत्यात्मनीत्युक्तम्‌ । विमान इति जात्येकवचनम्‌ । विमानयोरित्यर्थः । ननु विमानस्य बहुलक्षोच्छ्रितत्वेपि ततोपि बहुलक्षोच्छ्रितस्य स्वर्गस्यैव द्युत्वादनंतशयनानंतासनयोः कथं दिविस्थितत्वमित्यतस्तद्घटयन्नाह ॥ लोकेति ॥ तथाच भूभर्ुवः स्वरिति लोकत्रयविवक्षायां लक्षयोजनोच्छ्रितान्तरिक्षोपरितनानां श्ऱ्वेतद्वीपानंतासन वैकुण्ठानां द्युत्वात्तत्स्थं रूपत्रयं दिविसंस्थितमित्युपपन्नमिति भावः । ननूक्तरीत्यारूपत्रयस्य दिविस्थितत्वेपि अथयदतः परोदिव इत्यादिनोच्यमानं दिवः परत्वं कथमित्यत आह ॥ दिव इति ॥ भगवान्‌ त्रिरूपः । एतच्चतद्वाक्यं व्याख्यावसर एव स्पष्यं करिष्यति । यद्वैतद्ब्रह्मेतीदं वावतदित्यादिहृदय आकाश इत्यन्तरं वाक्यं प्रसिद्धाकाशप्रतिपादकमिति प्रतीतिनिरासाय प्रकारान्तरेण गायत्रीनामकस्य भगवतः चतुष्पात्तप्रतिपादनपरतया व्याचष्ये ॥ परं ब्रह्मेति ॥ श्रौतब्रह्मशब्देन परमेव विवक्षितमित्याशयेन परमित्युक्तम्‌ । सर्वगः शरीरान्तर्बहिश्ऱ्चव्याप्त इत्यर्थः । बृहधातोः देशतोपि वृद्धयभिधायकत्वात्‌ । तथाच चतुषर्ुरूपेष्विदं प्रथममिति भावः । द्वितीयं रूपं दर्शयितुं प्राप्तं इदं वावतद्योयं बहिर्धापुरुषादाकाश इत्यंशं व्याचष्ये ॥ स एवेति ॥ वावेत्यस्यार्थ एवेति । स एव सर्वग एवेत्यनेन रूपभेदशंकानिरासः । हृदयाकाशे जडशरीर गहृदयाकाशे । तृतीयरूपप्रदर्शकं यो वैस बहिः धापुरुषादाकाश इत्यादिकं व्याचष्ये ॥ योयमिति ॥ चतुर्थरूपाभिधायकं योवैसोन्तःपुरुष आकाश इत्यादिवाक्यं व्याचष्ये ॥ व्याप्तोजीवान्तर इति ॥ जीवहृदिजीवस्वरूपहृदि । निगमयति ॥ एवंचेति ॥ चोवधारणे । चतुष्पात्त्वमेवेति सम्बध्यते । तेन परोक्ताकाशत्रैविध्यप्रतिपादनपरतवनिरासः । तदेतत्पूर्णमप्रवृत्तीतिवाक्यं तदेतत्‌ हार्दं नभः । पूर्णं अपरिच्छिन्नम्‌ । अप्रवृत्ति अनुच्छित्तिधर्मकमित्यप्रामाणिकव्याख्याननिरासाय सम्यग्व्याचष्ये ॥ स एवेति ॥ यः प्राक्‌ षड्‌िवधत्वादिनानिरूपितः पूर्णः देशतः पकालतोगुणतश्ऱ्च यद्वा स एव यो जीवस्वरूपहृदयग इत्यर्थः । अत एव यो वैसोन्तर्हृदय आकाशस्तदेतत्पूर्णमित्यव्यवहितरूपस्यैव पूर्णत्वादिकथनमुपपद्यते । पूर्वव्याख्यानेत्विदमुपलक्षणत्वे नोक्तमिति ज्ञातव्यम्‌ । अन्यकर्तृकप्रवृत्तिविषयत्वाभावः कथमप्रवृत्तिशब्दार्थ इत्यतस्तं दर्शयितुं तावत्‌ प्रवृत्तिशब्दार्थमाह ॥ अन्यैरिति ॥ कर्मणिप्रत्यय इति भावः । इदानीमप्रवृत्तिशब्दार्थं सहेतुकमाह ॥ अप्रवर्त्य इति ॥ ततश्ऱ्चाप्रवृत्तीति शेषः । हरिश्ऱ्चसदाऽप्रवर्त्य एव नित्यस्वतन्त्रत्वात्‌ । ततश्ऱ्चाप्रवृत्ति इति गीयत इति योजना । प्रवर्तयतीति प्रवृत्तिः प्रवर्तकः । न विद्यते प्रवृत्तिः प्रवर्तकोयस्य सो अप्रवृत्तिरिति कर्तर्येवप्रत्ययमभिप्रेत्यप्रकारान्तरेणाप्रवृत्तिशब्दार्थमाह ॥ अस्येति ॥ पूर्णामप्रवर्तिनीमित्यादिवाक्यं दृष्यफलमात्रप्रन्तिपादकमिति प्रतीतिनिरासाय व्याचष्ये ॥ पूर्णेति ॥ योग्यतापेक्षयापूर्णा अप्रवर्तनीत्यस्यार्थः स्वतन्त्रेति । स्वावरानधीनेत्यर्थः । शाश्ऱ्वतीत्यनेन मुक्तसम्बन्धीदं फलमिति सूचितम्‌ । अन्यगतस्य शाश्ऱ्वतत्वाभावात्‌ । गायत्ऱ्युपासायासवर्ेषामप्यधिकारसद्भावात्‌ । सर्वेषामपीदं फलं किं मुख्यं नेत्याह ॥ साक्षादिति ॥ मुख्यत इत्यर्थः । अनन्यतन्त्रेत्युक्तं विवृतम्‌ । अन्यथा अमुख्योपासकस्येतरस्य । नन्वनन्यतन्त्रेत्येतदयुक्तम्‌ । चतुर्मुखश्रियोपि विष्णुतन्त्रत्वादित्यत आह ॥ विष्ण्विति ॥ अस्य श्रिय इति शेषः । विष्णुशब्देन रमप्युपलक्ष्यते । तथाच विष्णुव्यतिरिक्तस्वेतरानधीनत्वमेवानन्यतन्त्रत्वं विवक्षिमिति न कोपि दोष इति भावः । नन्विदं रुद्रादिसाधारणं अतः कथमस्यैव मुख्यमित्युक्तमित्यत आह ॥ परेषामिति ॥ तस्य तन्त्रतातदधीनत्वम्‌ । तथाच रुद्रादयोनविष्णुमात्र व्यतिरिक्तस्वेतरानधीनाः ब्रह्माधीनताया अपि सत्त्वात्‌ । अतः उक्तं तस्यैवेति भावः । तदपि रुद्रादिमानुषां तानां नैक प्रकारेणेत्याह ॥ यथेति ॥ परेषामिति वर्तते । यथाक्रमेणेत्युक्तं क्रममेवाह ॥ योग्यतेति ॥ यद्वा अस्तु ब्रह्मण इदं फलं मुख्यं इतरेषां कथमित्यत आह ॥ योग्यतेति ॥ भवेत्‌ अत्रोक्तं फलमिति शेषः । एवमेतां विद्यां ब्रह्मपरतया प्रमाणेन व्याख्यायेदानीं यत्परेणशब्दात्मिकागायत्ऱ्येवात्र प्रतिपाद्येति व्याख्यातं तत्र बाधकं भगवत्परतासाधकं च दर्शयति ॥ ब्रह्मशब्दाच्चेति ॥ चशब्दः पूवर्ोदाहृतप्रमाणसमुच्चायकः । एवार्थो वा । भगवानेवेति सम्बन्धः । तेन परोक्तव्यावृत्तिः । अत्र हि यद्वैतद्ब्रह्मेति गायत्ऱ्यां ब्रह्मशब्दः श्रूयते । ब्रह्मशब्दमुख्यार्थश्ऱ्च भगवानेवेत्यन्यत्रोपपादितम्‌ । अतोत्र गायत्रीभगवानेवेति निश्ऱ्चीयत इति भावः । एवं भगवत्परतानिश्ऱ्चायक श्रुतिमभिधायोपसंहारेतथाविध लिंगंचास्तीत्याशयेनाह ॥ पूर्णेति ॥ अत्रोच्यमानमिति शेषः । मुख्यं यतोऽतोभगवानेवेत्यवसीयत इति सम्बन्धः । विशेषानुक्तेः पूर्णत्वम्‌ । अनन्यनियम्यत्वरूपमप्रवर्तित्वं च मुख्यमेव ग्राह्यम्‌ । तच्चनान्यस्य प्रतिपाद्यत्वे सम्भवतीति भावः । समाख्यामप्याह ॥ तावानस्येति ॥ पुरुषसूक्तस्य हि भगवत्परत्वमन्यत्रोपपादितम्‌ । तत्समाख्यानाच्चात्रापि भगवानेव प्रतिपाद्य इत्यवसीयत इति भावः । एवमस्याविद्यायाः भगवत्परतामुपपाद्येदानीं यदुक्तं गायत्रीवा इदं सर्वं भूतमित्यत्र भूतं मत्स्यादिति तत्समर्थनाय यत्परेणोक्तं भूतं प्राणिजातम्‌ । स्थावरजंगमात्मकमिति तद्दूषयति ॥ पादोस्येति ॥ अयं भावः । अत्र हि गायत्ऱ्याः षड्‌िवधत्वं चतुष्पात्त्वं चोच्यते भूतमिति । षड्‌िवधान्तर्गतं तद्यदिप्राणिजातं विवक्षितं स्यात्तदापुनरुक्तिप्रसंगः । स्थावरजंगमात्मकसर्व जीवानां पदोस्य विश्ऱ्वाभूतानीत्यनेन चतुष्पादान्तर्भावस्योक्तत्वात्‌ । अतोत्र भूतशब्देन मत्स्याद्यवताररूपमेव ग्राह्यम्‌ । न प्रा
िणजातमिति । स्यादेतत्‌ । यदि पादोस्येत्यत्र जीवाः विवक्षिताः स्युः न चैतदस्ति । तथात्वे भिन्नानां तेषामभिन्नैस्त्रिभिस्सहपाठायोगायोगात्‌ । अतो न पौनरुक्त्यमित्याशंकायां भिन्नानामभिन्नैः सह पाठं सदृष्यान्तं प्रमाणैरेवोपपादयति ॥ द्वाविंशेष्वित्यादिना ॥ जीवोपि पृथुःहरेः सान्निध्याद्यथावतारेषूक्तो ऋषिभिर्याचितो भेजे न वमपार्थवं वपुरित्यिदौ तथापादेषु चतुर्षुजीवोपि ईरितः । पादोस्येत्यत्र भिन्नामभिन्नैः सहोक्तौ किं निमित्तमित्यपेक्षायामुक्तं सान्निध्यादिति । पुमान्ब्रह्मा । पररूपेणर मत्स्यादिना । पदैः स्वरूपभूतैः । ननु कुत एवं भिन्नानां जीवानामभिन्नैः सहोक्तिसमर्थनीयाजीवा अप्यभिन्ना एवेति किं न स्यात्तथासति पादशब्दोप्युपपन्नः स्यादित्यत आह ॥ सुदर्शनाख्यमिति ॥ यदि जीवोपिभगवत्स्वरूपभूत एव पादोविवक्षितस्स्यात्तदा भागवतादौ त्रिपात्त्वेनोक्तिरनुपपन्नास्यात्‌ अपितु चतुष्पात्त्वेनैव स्यात्‌ । जीवस्य भिन्नत्वेतु स्वरूपभूतपादत्रयवत्त्वेन त्रिपात्त्वोक्तिरुपपन्नेति भावः । चशब्दःद्वात्रिंशेष्वित्यादि पूर्वोदाहृतवक्ष्यमाणप्रमाणविरोधसमुच्चायकः । नन्वेवं कथं पादशब्दप्रयोगोदृष्यत्वादित्यतस्तत्पर्यायां शशब्दप्रयोगोभिन्नेपि दृष्य इत्याह ॥ सुवर्चलेति ॥ सूर्यपत्नी संज्ञा । भगवतः अंश उदाहृतः । सर्वदेति संसारेमुक्तौ चेत्यर्थः ॥ खं0-12 ॥ ततश्ऱ्चायं खण्डार्थः ॥ गायत्रीवैगायत्रीनामागायत्रीसंस्थस्त्रीरूपोहयशीर्षाख्यो भगवान्प्रसिद्धः वक्ष्यमाणषाड्‌िवध्यान्तर्गतमिदं प्रथमं रूपम्‌ । तस्य द्वितीयं रूपमाह ॥ गायत्रीवा इति ॥ यदिदं किंच भूतं प्रभूतं अनन्यापेक्षं पूर्णं मत्स्यादिसर्वान्तस्थितं च तदिदं सर्वं गायत्रीवैगायत्रीनामा भगवानेव । एवं च भूतशब्दाभिधेयं मत्स्यादिसर्वान्तस्थितं च द्वितीयं रूपमित्युक्तं भवति । अस्यैव तृतीयं रूपमाह ॥ वागिति ॥ गायत्रीनामा भगवान्‌ वाग्वैवाक्‌ संस्थोवचनाद्वाङ्‌नामास्त्रीरूपोहय शीर्षाख्य एव नतु तद्भिन्न इत्यर्थः । वाङ्‌नामकस्य भगवद्रूपत्वं कुत इत्यतस्तल्लक्षणयोगादित्याह ॥ वाग्वा इति ॥ इदं सर्वं भूतं प्राणिजातं वाग्वैवाङ्‌नामक भगवदधीनमेव । यदधीना यस्य सत्तातत्तदित्येव भण्यत इति वचनात्‌ । वाचाहि प्रवतर्ते निर्वर्तते च लोकः । सर्वप्रवर्तकत्वं च भगवल्लक्षणं प्रसिद्धमेवेति भावः । ननु हयशीर्षाख्यस्य गायत्रीसंस्थस्य गायत्रीशब्दवाच्यत्वं केन निमित्तेनेत्यपेक्षायामाह ॥ गायति चेति ॥ वेदान्‌ गायतिनिःसारयति प्रथमोवक्तेति यावत्‌ । त्रायतेचाखिलमिति शेषः । इति गायत्रीति सम्बन्धः ॥ 1 ॥ उक्तानुवादपूर्वकं चतुर्थं रूपमाह ॥ यावैसेत्यादिना ॥ यावैसागायत्री तत्संस्थः तन्नामा भगवान्‌ सा इयं वाव इयं खलु । इयं केत्यपेक्षायामाह ॥ येयमिति ॥ पृथुत्वात्पृथिवीनामापृथिवीसंस्थस्त्रीरूपो भगवान्‌ । अस्यापि भगवद्रूपत्वं कुत इत्यतः र्स्वाश्रयत्वसर्वोत्तमत्वरूपतद्धर्मयोगादित्याह ॥ अस्यामित्यादिना ॥ अस्यां पृथिवीसंस्थेस्त्रीरूपे भगवति भूतं प्राणिजातं नातिशीयं तेनाति वर्तते तदपेक्षयानीचा इति यावत्‌ । भगवल्लक्षणत्वेन प्रसिद्धमिदं धर्मद्वयमस्यामपिप्रसिद्धमिति दर्शयितुं हि शब्दः ॥ 2 ॥ उक्तमनुवदं स्तदभिन्नपंचरूपमाह ॥ यावा इत्यादिना ॥ या सा पृथिवीवैपृथिनाम्नीप्रसिद्धा सा इयं वाव इयं खलु । इयमित्युक्तमेव विशदयति ॥ यदिदमिति ॥ अस्मिन्प्रत्यक्षसिद्धे पुरुषे जीवे यदिदं शरीरं सुखरतिरमणरूपत्वात्तन्नामकं भगवद्रूपम्‌ । अस्यापि भगवद्रूपत्वं पूर्ववदुपपादयितुमाह ॥ अस्मिन्हीति ॥ इन्द्रियाश्रयत्वं सर्वोत्तमत्वं च भगवल्लक्षणं जीवान्तर्यामिणि प्रसिद्धमिति हिशब्दार्थः ॥ 3 ॥ उक्तानुवादेनास्य षष्ठं रूपमाह ॥ यद्वैतदिति ॥ पुरुषे जीवे शरीरं शरीरशब्दाभिधेयं यत्तद्वैप्रसिद्धं भगवद्रूपं तत्‌ इदं वा वक्ष्यमाणं खलु । तत्किं यदिदमस्मिन्‌ पुरुषे जीवेन्तःस्वरूपहृदीति यावत्‌ । विद्यमानं हृदयं हृद्ययनाद्धृदयनामकं भगवद्रूपम्‌ । अस्याप्युक्तरीत्या भगवद्रूपत्वमुपपादयति ॥ अस्मिन्हीति ॥ 4 ॥ एवं भगवतो गायत्रीभूतवाक्‌ पृथिवीशरीरहृदय लक्षणं डड्‌िवधत्वं निरूप्य तदनुवदंश्ऱ्चतुष्पात्त्वमाह ॥ सैषेति ॥ सैषाषड्‌िवधागायत्री चतुष्पदेति योजना । केते चत्वारः पादाः कुत्र च तिष्ठन्ति किमेकप्रकाराः इत्याशंकानिरासाय स्वोक्तं भगवतश्ऱ्चतुष्पात्त्वं ऋक्सं मत्यादृढीकुर्वन्‌ विशदयति ॥ तदेतदिति ॥ तदेतद्भगवतश्ऱ्चतुष्पत्त्वं ऋचामन्त्रेणाभि उक्त शंकात्रयमभितः उत्तरत्वेनेति यावत्‌ । अनु आनुकूल्येनोक्तम्‌ ॥ 5 ॥ तं मन्त्रं पठति ॥ तावानिति ॥ अस्य पुरुषस्य महिमा तावान्‌ पूर्वोक्तः न केवलमेतावान्‌ पुरुषः किन्तु ततःपूवर्ोक्तमहिम्नोपि ज्यायान्‌ । अधिकमाहात्म्योपेतः । तदेवमाहात्म्यं दर्शयति ॥ पाद इत्यादिना ॥ अस्य पुरुषस्य सर्वासवर्ाणि भूतानि जीवाः पादः भिन्नांशः ज्ञानादिनातत्सादृश्यात्‌ । अमृतं स्वरूपभूतं त्रिपात्‌ पादत्रयं नारायणवासुदेव वैकुण्ठसंज्ञं दिविभूर्भवस्सुवरिति लोकत्रयविवक्षायां लक्षयोजनोच्छ्रितान्तरिक्षो परितनेषु द्युसंज्ञिकेषु श्ऱ्वेतद्वपानन्तासनवैकुण्ठसंज्ञं तिष्ठतीति शेषः । इति उक्तमित्यन्वयः ॥ 6 ॥ गायत्रीनाम्नः प्रकारान्तरेण चतुष्पात्त्वमाह ॥ यद्वैतदित्यादिना ॥ तत्‌ गायत्रीनामकं भगवद्रूपं ब्रह्मवै सर्वगं खलु । तथाचेदं शरीरान्तर्बहिर्व्याप्तं रूपं प्रथमम्‌ । एतदनुवदन्‌ द्वितीयं रूपं दर्शयति ॥ यद्वैतदिति ॥ यत्तत्‌ ब्रह्मसर्वगं वै प्रसिद्धं तत्‌ इदं वाव इदं खलु । इदं किं योयं पुरुषात्‌ जीवस्वरूरपात्‌ अहिर्धाबहिः जडहृदये आसमन्तात्‌ काशत इत्याकाशनामास्ति । अनेन जीवस्य बाह्यहृदयगं रूपं द्वितीयं रूपमित्युक्तं भवति । एतदनुवादपूर्वकं तृतीयं रूपमाह ॥ योवा इत्यादिना … 7 ॥ यो बाह्यहृदयगः । सः अयम्‌ । अयं वावकः योयमन्तःपुरुषे जीवान्तर्व्याप्यसंस्थितः आकाशः आकाशनामा । पूर्वानुवादपुरःसरं तुरीयं पादमाह ॥ योवा इति ॥ अन्तःपुरुषे जीवान्तर्व्याप्तः स आकाशः आकाशनामा ॥ 8 ॥ अयं वाव कोयं योयमन्तर्हृदये जीवस्वरूपहृदिसंस्थितः आकाशः आकाशनामा । अस्य महिमानमाह ॥ योवा इति ॥ स यो वै अन्तर्हृदये जीवहृद्गतः आकाशनामातदेतत्पूर्णं देशतः कालतः गुणतश्ऱ्च । अप्रवर्ति अन्यैः प्रवत्यर्ं यत्तत्प्रवृत्ति अप्रवृत्ति । अथवा न विद्यते प्रवृत्तिः प्रवतर्कोयस्य तदप्रवृत्ति । एतत्‌ उक्तसर्वरूपसाधारणम्‌ । उपलक्षणत्वेन चरमस्योक्तमिति ज्ञातव्यम्‌ । एतद्विद्यावेत्तुः फलमाह ॥ पूर्णामिति ॥ यश्ऱ्चतुर्मुखपदयोग्योमुख्योधिकारी एवमुक्तरीत्यागायत्रीनामानं भगवन्तं वेदसः पूर्णां स्वयोग्यतानुसारेण पूर्णां अप्रवर्तिनीं विष्णुव्यतिरिक्तस्वेतरानधीनां श्रियं इह मुक्तौ च लभत इत्यर्थः । इतरेच स्वस्वयोग्यतानुसारेण श्रियं लभन्त इत्यपि द्रष्यव्यम्‌ ॥ 9 ॥ द्वादशः खण्डः ॥ 12 ॥ यदिदमस्मिन्पुरुष हृदयमिति योयमन्तः पुरुष आकाश इति हृत्पुरगत्वेन प्रकृतस्य परब्रह्मणः स्वस्वोपासनानुरूपफलप्रदद्वारपालकत्वरूपोमहिमानिरूप्यते ॥ तस्य हवा इत्यादिना ॥ अत्र प्राङ्‌सुषिः स प्राणस्तच्चक्षुः दक्षिणः सुषिः सव्यानस्तच्छ्रोत्रं प्रत्यङ्‌सुषिः सोऽपानः सावाक्‌ उदङ्‌सुषिः स समानस्तन्मनः ऊर्ध्वः सुषिः स उदानः सवायुरिति वाक्यपंचकेन क्रमेण तत्तत्सुषिप्राणव्यानापानसमानोदानानां चक्षुः श्रोत्रवाङ्मनसाकाशाभेदः आदित्यचन्द्राग्निपर्जन्यवाय्वभेदश्ऱ्चोच्यत इति प्रतीयते । नच तत्सम्भवति । बाधात्‌ । अतो यथावत्‌ खण्डं प्रमाणेनैव व्याचक्षाणस्तावदादिवाक्यं व्याचष्ये ॥ प्राणेति ॥ प्राणः श्ऱ्वासरूपजडवायुवृत्तिः । एवमुत्तरत्रव्यानादिपदेन तत्तन्नामकजडवायुवृत्तिरेव ग्राह्या । चक्षुस्तदभिमानी । स योस्य प्राङ्‌सुषिरित्यस्य तात्पर्यं प्रागिति । अस्येत्यस्यार्थो हरेरिति । अथ योस्य दक्षिणः सुषिः सव्यान इति द्वितीयं वाक्यं व्याचष्ये । दक्षिणेति ॥ दक्षिणाधिपतिः दक्षिणद्वाराधिपतिः । श्रीरित्यस्यार्थोलावण्यरूप इति । अथ योस्य प्रत्यङित्यादितृतीयं वाक्यं व्याचष्ये ॥ पश्ऱ्चिमेति ॥ वागपानात्मकः वागपानाभिमानी । ब्रह्मवर्चसमित्यस्यार्थोब्रह्मतेज इति । वेदाध्ययन लब्धं तेज इत्यर्थः । अन्नमन्नाद्यं देवताऽभिमानिनी । अथ यो स्योदङ्‌सुषिरिति चतुथर्ं वाक्यं व्याचष्ये ॥ उत्तरेति ॥ पर्जन्यशब्दार्थ इन्द्र इति । आत्मकोभिमानीव्युष्यिशब्दार्थ ऐश्ऱ्वर्येति । कीर्त्यैश्ऱ्वर्यात्मकत्वं न तदभिमानित्वमात्रं किन्तु तद्रूपत्वमपीति भावेना नित्यमित्युक्तम्‌ । मुक्तावप्यनुवर्तमानस्य स्वरूपत्वात्‌ । अत एव तेजो न्नाद्येष्वपि एवमेव विवक्षितमिति ध्येयम्‌ । अथ योस्योर्ध्वः सुषिरित्यादिपंचमं वाक्यं व्याचष्ये ॥ ऊध्वर्ेति ॥ ऊर्ध्वद्वराधिपश्ऱ्च प्रधानवायुरेव । अत्रापि वायोराकाशोदानाद्यभिमानित्वेनैवाकाशदिशब्दवाच्यत्वमित्यभिप्रायेणतान्‌ शब्दांस्तस्मिन्निर्वक्ति ॥ आकाश इत्यादिना ॥ एवमादित्यचन्द्रग्निन्द्रेषु प्राणादिव्यानाद्यपानादिसमानादिशब्दानिर्वक्तव्याः ॥ तेवा एते पंच ब्रह्म पुरुषा इति वाक्यं ब्रह्मणश्ऱ्चतुमर्ुखस्य पुरुषाः वेदपुरुषा इति वाऽन्यथाप्रतीतेर्यथावद्वयाचष्ये ॥ परस्येति ॥ ब्रह्मशब्दस्य परब्रह्मणिमुख्यत्वान्मुख्याथर्स्यैव चग्राह्यत्वादिति भावः । षष्ठयालब्धमर्थं दर्शयति ॥ द्वारपा इति ॥ स्वार्गस्य लोकस्य द्वारपा इत्येतत्तात्पर्यमाह ॥ विष्णुलोक इति ॥ सर्वदैव । ननु विष्णुलोके जयादेरेवद्वारपत्वप्रसिद्धयाकथमेतेषां द्वारपत्वमत आह ॥ आन्तरेति ॥ बाह्यतः द्वारपा इति बुद्धयाविविक्तमनुवर्तते । तेजस्व्यन्नादो भवति । श्रीमान्यशस्वी भवति । ब्रह्मवर्चस्व्यन्नादो भवति । कीर्तिमान्पुष्यिमान्‌ भवति । ओजस्वीमहस्वान्‌ भवतीति फलप्रतिपादकवाक्य पंचकस्य तत्तद्दवारपसमानमेवतेज आदिकं तत्तदुपासकानामित्यन्यथाप्रतीति निरासाय तात्पर्यमाह ॥ एवमेतानिति ॥ स य एतानेवमिति वाक्यं प्रसिद्धस्वर्गलोकप्राप्तिपरतानिरासाय व्याचष्ये ॥ विष्णुलोकमिति ॥ स्वरूपभूतरमणज्ञानात्मकत्वात्स्वर्गशब्दोविष्णुलोकपर इति भावः । शूरपुत्रकत्वप्रतीतिनिरासाय वीर इत्यस्य तात्पर्यमाह ॥ सुसन्ततिरिति ॥ त्रिपादस्यामृतं दिवीत्यनेन नारायणादिमूतिर्त्रयस्य श्ऱ्वेतद्वपानन्तासनवैकुण्ठाख्यद्युस्थितत्वमुक्तम्‌ । तस्यैव दिवः परत्वादिरूपं माहात्म्यं तदधिष्ठितानां च श्ऱ्वेतद्वीपादीनां विश्ऱ्वतः पृष्यत्वादिनेतरलोकवैलक्षण्यं तस्य भेदशंकानिरासाय हृद्गतेनैक्यं च प्रतिपादयितुं अथ यदतः पर इत्यादिवाक्यं प्रवृत्तम्‌ । तत्तथाऽप्रतीतेः व्याचष्ये ॥ योसावित्यादिना ॥ यदि त्यनेन प्रकृतद्युस्थितपरामर्श इति दर्शयितुं वैकुण्ठग इत्युक्तम्‌ । वैकुण्ठद्युत्त्वेनोक्तत्वात्‌ । उपलक्षणं चैतत्‌ । श्ऱ्वेतद्वीपानन्तासनयोरपि द्युत्त्वेनोक्तत्वात्तद्गतौ नारायणवासुदेवावपि ग्राह्यौ । दिवः पर इत्यनेनोक्तं दिवः परत्वं वैकुण्ठस्योपपादितुमुक्तम्‌ । सप्तलोकेति ॥ एतच्चोत्तरत्रस्पष्यं भविष्यति । नारायणवासुदेवयोरपि दिवः परत्वमग्रेदर्शयिष्यति । स एव त्रिरूपो भगवान्‌ । सर्वत इत्यस्यार्थः सर्वेषु लोकेष्विति । निर्धारणेसप्तमी । अस्या उच्चेष्विति सम्बन्धः । विश्ऱ्वत इत्यनूद्यब्रह्मण इति व्याख्यानम्‌ । पृष्येष्वित्यस्यार्थः उच्चेष्विति । उत्तमेष्वित्यस्यार्थः उत्तमलोकेष्विति । अनुत्तमेष्वित्यस्यार्थः प्रत्यवरेषु चेति । चोवधारणे । एक इत्यनेन सम्बध्यते । यदिदमस्मिन्नन्तः पुरुषे ज्योतिरित्यस्य तात्पर्यं पुरुषेषु च सर्वेष्विति । तथाचैवं योजना । यो सौ वैकुण्ठगः यश्ऱ्चश्ऱ्वेतद्वीपानंतासनगोविष्णुः स एव सर्वलोकेषु मध्ये उच्चेषु तथाविश्ऱ्वतोब्रह्मणः उच्चेषु उत्तमलोकेषु तथा प्रत्यवरेषु लोकेषु च संव्यवस्थितः सच एक एवेति । ऐक्यं च इदं वाव तद्यदिदमदिस्मन्नन्तः पुरुषज्योतिरित्यनेनोक्तमिति ज्ञातव्यम्‌ । प्रकृतसर्वलोकगमनूद्यतस्य पुरुषान्तःस्थितत्वविधानात्‌ । भगवतः उक्तपुरुषान्तः स्थितत्वे प्रमाणप्रदर्शनायतस्यैषा दृष्यित्यादिवाक्यं तत्‌ उष्णिमाग्नेः धर्मोतस्तद्दृष्यिः कतं भगवत्प्रमापि केत्यांशकामपाकुर्वन्‌ व्याचष्ये ॥ प्राणसंस्थ इति ॥ वैशब्दश्ऱ्च शब्दार्थः । यतः सविष्णुः प्राणसंस्थः प्राणश्ऱ्चाग्नौ संव्यवस्थितः अग्निश्ऱ्चस्पर्शेन त्वगिन्द्रियेण दृश्यते ततः सातद्दृष्यिरिव अग्न्याश्रितप्राणगविष्णु दृष्यिरिवेत्यर्थः । तत्रैव प्रमाणान्तरप्रतिपादकं तस्यैषा श्रुतिरित्यादिवाक्यमप्रतीतेः व्याचष्ये ॥ सप्राण इत्यादिना ॥ पिधाय विद्यमानेन । तथाच प्राणकतर्ृकस्तुतिरूपश्रुतिविषयतया हृदिभगवत्सिद्धिः । नहीतरवदधिकार्युत्तमप्राणस्यापि भगवदसन्निधौ तत्स्तुतिरुपपन्नेति भावः । चक्षुष्यः श्रुतो भवतीति वाक्यमैहिकमात्रपरमित्यन्यथाप्रतीतिनिरासाय व्याचष्ये ॥ तद्विद्वानिति ॥ तत्‌ पुरुषान्तर्विद्यमानं ज्योतिरुक्तरीत्यादृष्यं च श्रुतं चेत्येतत्‌ । चक्षुष्य इत्यस्यार्थेदिव्यचक्षुरिति । अनेन चक्षुष्योदर्शनीय इति व्याख्यानमप्रामाणिकमिति ज्ञातव्यम्‌ । यस्मादुपासीतेत्यनेन य एवं वेद स चक्षुष्यादिर्भवतीत यस्मात्तस्मादुपासीतेति हेतुहेतुमद्भावेन योजनोक्ता । ननु तदेतत्कीर्तिश्ऱ्चेत्यत्र यशः कीर्तिशब्दयोरेकार्थत्वत्तदेतच्छ्रीश्ऱ्चयशश्ऱ्चेति प्रकृतयशः पदं विहायकीर्तिपदोपादानेकिं कारणमित्यतोऽर्तभेदं कारणमाह ॥ दिक्ष्विति ॥ व्याप्तं यश इत्युच्यते । दिक्षुयानादितिनिर्वचनादित्यर्थः । विश्ऱ्वतः पृष्येष्वित्यादिकं प्रमाणेन व्याख्यातमपि स्वयं विशदयन्ननुत्तमेषूत्तमेष्वित्येतत्‌ प्रकारान्तरेण व्याचष्ये ॥ सर्वतः पृष्येष्वित्यादिना ॥ आदिपदेनेतरेपि लोकाग्राह्याः । तेषु सर्वतः पृष्यत्वादिकं छत्रिन्यायेनेति द्रष्यव्यम्‌ । ततस्तेभ्योलोकेभ्यः । अन्यः लोकः । ननु सर्वतः पृष्यत्वं वैकुण्ठस्यैव युक्तम्‌ । नतु क्षीरसागरानन्तासनयोः भूसम्बद्धयोरतः कथमेतदित्यतः कयाचिद्विवक्षयैतदुपपन्नमिति प्रमाणैवाह ॥ पृथिवीस्थेष्विति ॥ तथाच सर्वतः पृष्यत्वमनन्तासनेपार्थिव सर्वलोकविवक्षया अन्तरिक्षात्मकसर्वलोकविवक्षयाश्ऱ्वेतद्वीपेद्ययात्मकसर्वलोक विवक्षयाच वैकुण्ठे उक्तमिति नानुपपत्तिरिति भावः । नन्वथ यदतः परोदिव इति वाक्यं द्युस्थितमूर्तित्रयपरमिति व्याख्यातम्‌ । तदयुक्तम्‌ । द्युस्थितस्य दिवः परत्वायोगात्‌ । इत्यतः तदपि विवक्षाभेदेनोपपन्नमिति प्रमाणेनैवाह ॥ पृथिव्यां द्यौरित्यादिना ॥ तत्परेमेर्वादिभ्यः परे । तथाच पृथिव्यां महामेरोः द्युत्वात्तत्परानन्तासनस्य दिवः परत्वं आकाशे सूर्यमण्डलस्य द्युत्वात्तत्परश्ऱ्वेतद्वीपस्य दिवः परत्वं दिवीन्द्र सदनस्य द्युत्वात्तत्परवैकुण्ठस्य दिवः परत्वमुपपन्नमिति ज्ञातव्यम्‌ । अत एव श्रुतावतोदिव इत्युक्तम्‌ । ननु सत्यलोकोच्चवैकुण्ठे विश्ऱ्वतः पृष्यत्वसम्भवेपि श्ऱ्वेतद्वीपानन्तासनयोः कथं तदित्यतस्तदपि विवक्षाविशेषेणोपपन्नमिति प्रमाणेनैवाह ॥ पृथिव्यामित्यादिना ॥

ब्रह्मणः सदनमित्यन्वयः । जयन्तं वैजयन्तम्‌ । तथाच विश्ऱ्वतः पृष्यत्वं मेरुस्थब्रह्मसदनापेक्षयानन्तासनस्य अन्तरिक्षगवैजयन्तापेक्षयाश्ऱ्वेतद्वपस्य सत्यलोकगसदनापेक्षयावैकुण्ठस्य विवक्षितमित्यत्रापि नानुपपत्तिरिति भावः । ततः विश्ऱ्वतः पर इत्युदिता इति शेषः । रथस्येवघोषोनिनदः ऋषभकूजितमिव शब्दोन दथुरित्यप्रामाणिकं व्याख्यानमित्याशयेन स्वयं प्रमाणेनैव तदुभयं व्याचष्ये ॥ निनद इति ॥ चक्षुष्य इति दिव्यचक्षुरिति व्याख्यातम्‌ । तत्तेन कतं लब्धमित्यतः प्रमाणेनैव तन्निरुच्य दर्शयति ॥ चक्षुष्य इति ॥ तथाच ब्रह्मद्रष्यृत्वाभिप्रायेणैव दिव्यचक्षुरिति तात्पर्यमुक्तमिति भावः ॥ खं-13 ॥ ततश्ऱ्चायं खण्डार्थः ॥ तस्य यदिदमस्मिन्नन्तः पुरुषेहृदयमिति प्रकृतस्य एतस्य योयमन्तःपुरुष आकाश इत्युक्तस्य हृदयस्य हृद्ययनाद्धृदयनामकस्य परब्रह्मणः पंचपचसख्याकाः देवसुषयः सुषिपदेन तत्यिद्वारपालक्ष्यन्ते । तथाच देवभूताः सुषयोद्वारपा इत्यर्थः । अत एवाग्रस्वर्गस्य लोकस्य द्वारपा इत्येवोक्तिः । उपास्या इति शेषः । देवसुषयोदेवनिर्गमद्वाराणीत्यप्याहुः । कोदेवःकस्मिन्द्वारेकथमुपासितः कीदृशं फलं प्रयच्छतीत्याकांक्षायामाह ॥ सयोस्य प्राङ्‌सुषिरित्यादिना ॥ अस्य हार्दस्य परब्रह्मणः सयः प्राङ्‌सुषिः तत्स्थोद्वारपः स आदित्यः स प्राणः प्राणनामक जडवायुवृत्त्यभिमानी तच्चक्षुश्ऱ्चक्षुरभिमानी तदेतदादित्यरूपं तेजोन्नाद्यं प्रसिद्धतेजोन्नाद्यभिमानीत्युपासीत य एवं वेदोपासीत सतेजस्व्यन्नादो भवति । आदित्यगुणभूत तेजः प्रभृत्यंशांशभाग्भवतीत्यर्थः ॥ 1 ॥ दक्षिणः सुषिः तत्स्थोद्वारपः सचन्द्रमाः सच व्यानः तन्नामक जडवायुवृत्त्यभिमानी तच्छ्रोत्रं तदभिमानी तदेतच्चन्द्रमसोरूपं श्रीर्लावण्यं यशः दिक्षुयातीति यशः सर्वत्र व्याप्तम्‌ । तदुभयाभिमानीत्युपासीत श्रीमान्‌ यशस्वी भवति चन्द्रगुणभूत श्रीप्रभृत्यंशांशभाग्भवतीत्यर्थः ॥ 2 ॥ एवमुत्तरत्रापि तत्तद्द्वारपोक्तगुणांशां शभाक्‌त्वं तत्तदुपासकानां द्रष्यव्यम्‌ । प्रत्यङ्‌सुषिः तत्स्थोद्वारपः सोग्निः सोपानोपानाभिमानी सावाक्‌ वागिन्द्रियाभिमानी तदेतदग्नेरूपं ब्रह्मवर्चसम्‌ । वेदाध्ययनजातं तेजोन्नाद्यं प्रसिद्धं तदुभयाभिमानीत्युपासीत । शिष्यं पूर्ववत्‌ ॥ 3 ॥ उदङ्‌सुषिस्तत्स्थोद्वारपोयः स पर्जन्यनामेन्द्रः स समानस्तदभिमानी तन्मनः तदभिमानी तदेतदिन्द्रस्य रूपं कीर्तिः प्रत्यक्षतः स्तुतिः व्युष्यिरैश्ऱ्वर्यं तदुभयाभिमानीत्युपीसीत ॥ 4 ॥ ऊध्वर्ः सुषिः तत्स्थोद्वारपोयः स वायुः प्रधानवायुः स उदानस्तदभिमानी उन्नतेरुदानशब्दवाच्यः स आकाशः आकाशाभिमानी सार्वज्ञादाकाशनामा तदेतद्वायोरूपं ओजः तदभिमानी ऊजिर्तत्वादोजः शब्दवाच्यं महस्तदभिमानी पूर्णत्वान्महः शब्दवाच्यमित्युपासीत । एवमादित्यचन्द्राग्नींद्राणादिव्यानादि अपानादिसमानादिशब्दवाच्यत्वं द्रष्यव्यम्‌ ॥ 5 ॥ निगमयति ॥ तेवा इति ॥ ब्रह्मणः परब्रह्मणः हार्दस्य पुरुषाः भृत्याः द्वारपा इत्यर्थः ॥ किं हृदयपुर्येवद्वारपाः नेत्याह ॥ स्वर्गस्य लोकस्येति ॥ स्वरूपभूतरमणज्ञानात्मकस्य विष्णोः लोकस्य द्वारपाः । जयाद्याः बाह्यद्वारपाः एतेत्वान्तरद्वारपा इति ज्ञातव्यम्‌ । एवं वेत्तुः फलमाह ॥ सय इति ॥ अय कुले वीरोजायतेसुसन्ततिः भवति । स्वर्गं लोहकं स्वरूपभूतरमणज्ञानात्मकं लोकं विष्णुलोकम्‌ । य एतानेवं पंचेति पुनरुक्तिः । प्रतिपद्यत इत्युक्तफलान्तरविवक्षया ॥ 6 ॥ त्रिपादस्यामृतं दिवीत्यनेन द्युस्थितत्वेनोक्तमूर्तित्रयस्य दिवः परत्वादिरूपं माहात्म्यं तदधिष्ठितानां लोकानां च सर्वतः पृष्यत्वादिनेतरलोकवैलक्षण्यं भेदशंकानिरासाय तस्यैव हृदयगतेनाभेदं च प्रतिपादयति ॥ अथयदतः पर इत्यादिना ॥ अथ द्वारपोपास्तिकथनानन्तरं पुनः भगवन्माहात्म्यमेवोच्यत इत्यर्थः । यत्‌ श्ऱ्वेतद्वीपानन्तासनवैकुण्ठगतं मूर्तित्रयं तत्‌ । अतो बुद्धिस्थतया विवक्षितायाः दिवः परः परम्‌ । एतच्चभाष्येस्पष्यम्‌ । ज्योतिस्तेजोमयं विश्ऱ्वतो ब्रह्मसदनेभ्यः पृष्येषु उच्चेषु सर्वतःसर्वलकेभ्यः पृष्यषु उच्चेषु अनुत्तमेषु न विद्यते उत्तमलोकोयेभ्यस्तेषु स्वयमेवोत्तमेषु श्ऱ्वेतद्वीपानन्तासन वैकुण्ठेषु । दीप्यते प्रकाशते । यद्वा अनुत्तमेषु प्रत्यवरेषु लोकेष्वित्यर्थः । अत्र विश्ऱ्वतः पृष्यत्वं सर्वतः पृष्यत्वं च भाष्येस्पष्यम्‌ । तत्रैव द्रष्यव्यम्‌ । तत्‌ सर्वलोकेषु दीप्यमानन्तेजः इदं वाव इदं खलु । इदं किं यदिदमस्मिन्नन्तः पुरुषेषु पुरुषहृदये ज्योतिरस्तितत्‌ । अथ पुरुषान्तस्तत्सद्भावे प्रमाणमाह ॥ तस्येति ॥ तस्य हृद्गतस्य परब्रह्मणः एषादृष्यिः अयं साक्षात्कारः ॥ 7 ॥ एषाका । यत्र यत्‌ अस्मिन्‌ शरीरेसंस्पर्शेन शरीरसम्बद्धे त्वगिन्द्रियेणोष्णिमानं विजानातीति एतत्‌ एषा ॥ अयंभावः ॥ त्वगिन्द्रियेण तावच्छरीरगते वह्नावौष्ण्यं दृश्यते वह्नौ च प्राणः प्राणेच भगवान्‌ अतः एषा दृष्यिस्तस्यैवेति । तत्रैव प्रमाणान्तरमप्याह ॥ तस्येति ॥ तस्य हृदयगतस्य भगवतः । एषा प्राणेन क्रियमाणश श्रुतिः स्तुतिरूपापुरुषान्तःस्थित प्राणषन क्रियमाणस्तुति विषयतयाऽत्र परब्रह्मसिद्धिरिति भावः । कासौ श्रुतिरित्यतोयेदानीमस्मदादिभिरपि श्रूयते सेत्याह ॥ यत्रेति ॥ यत्र यदायामिति वा । कर्णावपि गृह्यवर्तमानः पुरुषः निनदमिव समुद्रघोषमिव । नदथुरिवनदथुमिव । मेघघोषमिव ज्वलतोग्नेर्घोषमिव च उषशृणोति । एतत्‌ एषा एतादृशप्रमाणगम्यत्वेनोपासनापि कर्तव्येत्याह ॥ तदेतदिति ॥ तदेतत्‌ हार्दं ब्रह्म दृष्यं दृष्यमिव दृष्यलिंगानुमेयं श्रुतंस्तुतिरूप श्रुतिप्रतिपाद्यं इत्युपासीत । एवमुपासकस्य फलमाह ॥ चक्षुष्य इति ॥ लक्षुषिब्रह्मणियातीति चक्षुष्यः दिव्यचक्षुः श्रुतः सुकीर्तिमान्‌ भवति मुक्ताविति शेषः । एवमुक्तप्रकारेण वेदोपास्ते । द्विरुक्तिः विद्यावधारणार्था ॥ 8 ॥ त्रयोदशः खण्डः ॥ 13 ॥ हृद्गतस्यैवोपास्त्यन्तराणि दर्शयंस्तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिरिति हृद्गतेन बहिष्ठस्येक्यमुक्तम्‌ । तद्धृद्गतस्याणुत्वेन बहिष्ठस्य व्याप्तत्वेन नोपन्नमित्याशंकामपि हृद्गतस्य व्याप्तत्वोपपादनेन परिहरति ॥ सर्वं खल्वित्यादिना ॥ तत्र सर्वं समस्तं इदं जगन्नामरूपविकृतं प्रत्यक्षादि विषयं ब्रह्म । कथं सर्वस्य ब्रह्मत्वमित्यत आह ॥ तज्जलानितीति ॥ तस्माद्ब्रह्मणोजातमतस्तज्जं तथा तस्मिन्नेव ब्रह्मणि लीयतेऽतस्तल्लं तथा तस्मिन्नेव कालेऽनिति प्राणिति चेष्यतेतोनित्येवं ब्रह्मात्मतया त्रिषु कालेषु विशिष्यम्‌ । तद्वयतिरेकेणासदतस्तदेवेदमित्यादिपरकीयं व्याख्यानमप्रामाणिकं प्रमाणविरुद्धंचेत्याशयेन खण्डं प्रमाणेनैव व्याचष्ये ॥ इदं ब्रह्मेत्यादिना ॥ ब्रह्मसर्वान्तस्थत्वे नातिसामीप्यादिदमित्युच्यत इत्यर्थः । सर्वमित्युच्यते । तदित्यनूद्य ब्रह्मेति व्याख्यानम्‌ । चोवधारणे । तेन तद्ब्रह्मैव जलान्‌ न जगदिति परोक्तव्यावृत्तिः । ननु जगदपि ब्रह्मगं परंपरया जलानित्यत उक्तम्‌ ॥ साक्षादिति ॥ अव्यवधानेनेत्यर्थः । नात्र ब्रह्मशब्देनामुख्यार्थ विवक्षिति दर्शयन्‌ जालान्‌ शब्दं निर्वक्ति ॥ योसाविति ॥ यो विष्णुरसौ जलेऽनिति चेष्यते यतोऽतो जलानित्युच्यत इत्यर्थः । विष्णुः जलेऽनितीति कुत इत्यतस्तत्र श्रुतिं प्रमाणयन्नाह ॥ आनीदवातमिति ॥ तुशब्द एवार्थे । यं आनीदवातमिति वेदवाक्‌ स्फलटं निरवकाशतयाऽवदत्सब्रह्मैव । कथमित्यतोन्यस्मिन्नेतद्वाक्यतात्पर्यासम्भवादित्याशयेनोक्तं अप्रकेतेऽपरिमिते सलिल इति । नह्यगाधेचेतन प्रकृत्यात्मनिप्रलयजलेऽन्यस्य सुखेनावस्थानं सम्भवतीति । अयं मन्त्रार्थः । प्रलयकाले तदेकं सर्वोत्तमं अवातं वात प्रेरणया विनैव स्वधयासुखेनैव नतु सुखप्राप्त्याद्यर्थं आनीत्‌ अचेष्यत । तस्मादन्यत्‌ परःपरं किंच ननास । तमश्ऱ्चेतनप्रकृत्यात्मकमग्नेप्रलये आसीत्‌ । यत्तमोऽप्रकेतमपरिमितं सलिलं भूत्वासीत्तेनेदं सर्वं गूह्लं गूहितमासीदिति । तत्रैव प्रमाणान्तरमप्याह ॥ नारायणोपीति ॥ स विष्णुर्नारायणशब्दवाच्योपि यत इत्यर्थः । नारायणशब्दवाच्यश्ऱ्चापोनारा इत्यादिनाप्रलयार्णवशाय्येव प्रसिद्ध इति भावः । हृद्गतस्यैवोपास्त्यंतर विधायकं अथ खलु क्रतुमयः पुरुष इत्यादि वाक्यं तदप्रतीतेः व्याचष्ये ॥ यस्मादित्यादिना ॥ अनेन खलुशब्दो हेत्वर्थ इत्युक्तं भवति । अस्य तस्मादित्युत्तरेणान्वयः । हेतुहेतुमद्भावोपपादनाय कऽतुमयत्वं विशययितुं यथाक्रतुरित्यादिवाक्यं तस्य कर्मविशेषार्थत्वप्रतीतिनिवारणायक्रतुशब्दार्थं दर्शयंस्तात्पर्यमाह ॥ क्रतुस्त्विति ॥ तुशब्द एवार्थे निश्ऱ्चितं ज्ञानमेव नान्यदिति । मृतौ मुक्तौ । तादर्थ्येसप्तमी । स्वयोग्यज्ञानाधीनमुक्तिमानिति यावत्‌ । सक्रतुं कुर्वीतेत्यस्य तात्पर्यमाह ॥ तस्मादिति ॥ विष्णाविति शेषोक्तिः । तथाच पुरुषोधिकारीयस्मात्क्रतुमयः स्वयोग्यज्ञानानुसारिफलवान्‌ । तस्माद्विष्णौ क्रतुं स्वयोग्यतानुसारेण निश्ऱ्चयज्ञानरूपोपासनां कुर्वीत । अन्यथा स्वायोग्यफलालाभादित्युक्तं भवति । महागुण इत्यनेन मनोमय इत्यादेरुत्तर ग्रन्थस्योपासनाविषयविष्णुविशेषगुणप्रतिपादकत्वेन संगतिरुक्तेति ज्ञातव्यम्‌ । मनोमय इत्यादिकमप्रतीतेः मनोविकारित्वादिप्रतीतेश्ऱ्च व्याचष्ये ॥ महाज्ञानेत्यादिना ॥ मयटः प्राचुर्यार्थत्वं स्वरूपार्थत्वं चेत्याशयेन महाज्ञानात्मकत्वादित्युक्तम्‌ । तुशब्दोवधारणाथर्ः । नतु मनोविकारित्वादिति । आ इत्यनुवादेन समन्तादिति व्याख्यानम्‌ ।अवशिष्यस्य तात्पर्यं सर्व गन्धादिरूपश्ऱ्चेति । पुनरुक्तस्यव सर्वकर्मासर्वकाम इत्यादेस्तात्पर्यं भोक्तेति । एतमितः प्रेत्यत्यादेस्तात्पर्यं अपेक्षितं पूरयन्नाह ॥ इतीति ॥ तमेव यातीति श्रुतौ शेषोक्तिः । वाक्यद्वयस्य सर्वगन्धादिरूपश्ऱ्च भोक्ताचैषामिति व्याख्यातत्वेपि तदेकस्यैव वाक्यस्यार्थद्वयप्रदर्शनमिति प्रतीयते । अतो विवच्यदर्शयति ॥ एकत्रेति ॥ एकत्रादिवाक्ये सर्वगन्धादिनातत्प्रतिपादकेन वाक्येन प्राकृतगन्धादिरूपत्वेऽनित्यत्वं स्यादित्यत उक्तम्‌ ॥ चिदानन्दात्मकेति ॥ अन्यत्र चरमेवाक्ये तद्भोक्तृत्वमुच्यत इत्युनुवर्तते । अतो न पौनरुक्त्यमिति शेषः ॥ खं0-14 ॥ ततश्ऱ्चायं खण्डार्थः ॥ ब्रह्म हृदयगतं यत्परं ब्रह्म । इदं हृदयगत्वादेवाति समीपगम्‌ । सर्वं पूर्णगुणम्‌ । खल्वित्युक्तार्थप्रसिद्धिद्योतकोनिपातः । तज्जलानिति जलेऽनितिचेष्यत इति शान्तो भगवन्निष्यवृद्धिः । उपासीत । उपास्त्यन्तरमपि सहेतुकमाह ॥ अथखल्वित्यादिना ॥ अथोपास्त्यन्तरमारभ्यत इत्यर्थः । खल्विति हेत्वर्थे । पुरुषोधिकारी । क्रतुशब्दश्ऱ्चोपासनापरपर्यायस्येत्थमेवेति निश्ऱ्चयरूपज्ञानस्य वाचकः । अभिप्रेतहेतुहेतुमद्भावोपपादनायात्र विवक्षितं क्रतुमयत्वं दर्शयति ॥ यथाक्रतुरिति ॥ यथा यादृशः क्रतुर्यस्य स यथाक्रतुः । तथा तदनुरूपफलवान्‌ । इतः अस्माल्लोकाद्देहाद्वा प्रेत्यमृत्वा भवति मुक्तौ स्वयोग्यज्ञानानुसारिफलवान्‌ भवतीत्यर्थः । तथाच पुरुषो यस्मात्क्रतुमयः स्वयोग्यज्ञानानुरूपफलवान्‌ तस्मात्सविष्णौ क्रतुं स्वयोग्यं निश्ऱ्चयज्ञानं उपासनमिति यावत्‌ । कुर्वीत कुर्यादित्युक्तं भवति ॥ 1 ॥ एवं विहितोपासनायामुपसंहयमाणगुणान्‌ दर्शयति ॥ मनोमय इत्यादिना ॥ मनोमयो महाज्ञानात्मकः । प्राणशरीरोबलशरीरः । भारूपोदीप्तिरूपः । सत्यकामोऽवितथेच्छः । सत्यसंकल्पः सफलसंकल्पः । संकल्पोनामकर्मारम्भकालीन मनोवृत्तिविशेषः । आसमन्तात्‌ काशत इत्याकाशः । काशनं चात्र ज्ञानं विवक्षितमिति न भारूप इत्यनेन पौनरुक्त्यमिति ध्येयम्‌ । आत्मा आदानादिकर्ता । सर्वकर्मातत्तन्नियामकतया सर्वकर्मकर्ता । काम्यं त इति कामाः द्रव्याणि । गन्धरसशब्दौ गुणान्तरस्याप्युपलक्षकौ । सर्वमिदमभ्यात्तः प्राप्तः सर्वमिदमभि अभितः आत्तोधृतः स्थित इति वा । न विद्यते नुग्रहमन्तरेण वाक्यं यस्य सोवाक्यः । न विद्यते आदरः आश्ऱ्चर्यं यस्य सः नादरः । अवाक्यश्ऱ्चासौ नादरश्ऱ्चसोवाक्यनादरः । लौकिक इव निरर्थकवाक्यरहितोऽवाक्यः नादरः आत्मसम्भावनारहित इत्यप्याहुः ॥ 2 ॥ हृद्गतस्याणोः महताबाह्येनैक्यमुपपादयितुं तस्याणुत्वमनूद्यमहत्त्वमप्युपास्यमाह ॥ एषम इत्यादिना ॥ य एषः मेहृदयेऽन्तरात्मा व्रीह्यादेरणीयान्‌ अतिशयेनाणुः स एष मे हृदयेन्तरात्मा । पृथिव्यादिभ्योज्यायानन्त्यतस्थूल इत्यर्थः ॥ 3 ॥ अचिन्त्यैश्ऱ्वर्येण लोक दृष्ययाविरुद्धत्वेन दृश्यमानप्रामाणिकसर्वगुणभोक्तृत्वात्त्य नेदमसम्भावितमित्याशयेनाह ॥ सर्वकर्मेत्यादिना ॥ अत्रैतावद्गुणभोक्तृत्वं विवक्षितमतोन पूर्वाभेदः । निगमयति ॥ एषम इति ॥ एतद्ब्रह्म अस्मिंश्ऱ्चक्रतुं कुर्वीतेति सम्बन्धः । उपसनाकालेकर्तव्यमित्थं भावं सूचयन्नेवमुपासकस्य फलमाह ॥ एतमिति ॥ इतोदेहात्‌ । प्रेत्यमृत्वै तं मदुपास्य मभिसम्भविता यातास्मीति यस्य स्यात्‌ । उपासनेति कर्तव्यरूपाबुद्धिरिति शेषः । स तं प्राप्नोत्येव । तत्र विचिकित्सासंशयोनास्तीत्यथर्ः । श्रुतिः स्वोक्तार्थे ऋषिसंमतिमाह ॥ इतीति ॥ शाण्डिल्य
ोह शाण्डिल्य इति प्रसिद्धः ऋषिः इति पूर्वोक्तरीत्या अहस्माक्तवान्‌ किल । द्विरुक्तिरादरार्था ॥ 4 ॥ चतुर्दशः खण्डः ॥ 14 ॥ एभ्योलोकेभ्योज्यायानिति भगवान्महानित्युक्तम्‌ । तत्राकाशवदशरीरोमहानिति प्रतीतिनिरासाय विग्रहेणैवमहानिति दर्शयन्‌ वायुजनकबाहुमत्त्वादिनाभगवदुपास्तीराह ॥ अन्तरिक्षोदर इत्यादिना ॥ अविद्यमानमेव भावनार्थमाकारवत्तयोच्यत इति प्रतीतिवारणाय खण्डं प्रमाणेनैव व्याचक्षाणस्तावत्कोश इवानेकधर्मसादृश्यात्कोश इत्यपव्याख्यानमिति भावेन कोशशब्दार्थमाह ॥ क इत्यादिना ॥ अन्तरिक्षोदर इत्यादिकमन्तरिक्षादेरुदराद्यभेदप्रतीतिवारणाय व्याचष्ये ॥ तस्योदर इत्यादिना ॥ तथाचान्तरिक्षमुदरेयस्य सोन्तरिक्षोदरः । भूमिः बुध्न इति व्यधिकारणोबहुव्रीहियित्युक्तं भवति । उत्तरं बिलमित्यस्य तात्पर्यं शिरोविवरगेति । अनेन सप्तसुप्रथमेति सूत्राद्बिलामिति सप्तम्यर्थ इत्युक्तं भवति । स्रक्तयः कोणा इत्यप्रामाणिकमित्याशयेन दिशोह्यस्य स्रक्तय इत्येतत्‌ व्याचष्ये ॥ दिश इति ॥ बाहुष्वित्यनेन स्रक्तय इति प्रथमासप्तम्यर्थ सत्युक्तं भवति । न जीर्यतीत्येतत्तात्पयमाह ॥ अजरोयमिति ॥ वसु प्राणिकर्मफलाख्यं दीयतेस्मिन्निति वसुधान इत्येतद्वयाचष्ये ॥ वसव इति ॥ वसव इत्यनूद्यदेवतागणा इति व्याख्यानम्‌ । तस्मिन्‌ सर्वमिदं श्रितमित्यस्य सर्वं समस्तं प्राणिकर्मफलं सहतत्साधनैः श्रितमिति व्याख्यानेसर्वशब्दार्थ संकोच एव दोष इत्याशयेन तदनुवदति ॥ तस्मिन्निति ॥ दिशो बाहुषु संस्थिता इत्युक्तम्‌ । तत्र बाहुचतुष्य मध्ये को बाहुः किं दिगाश्रयः किं नामा किंच धत्त इति जिज्ञासायां विवेकार्थं प्राप्तं तस्येत्यादिवाक्यमन्यथाप्रतीतिनिरासाय व्याचष्ये ॥ प्राचीदिगिति ॥ प्राचीदिक्‌ संस्थिता अस्मिन्निति प्राचीदिक्‌ संस्थितः । प्राच्याश्रय इत्यर्थः । एवमुत्तरत्रापि । अन्यथादिशोबाहुषु संस्थिता इत्यनेन विरोधादिति ध्येयम्‌ । संस्थितः प्रवर्तक इत्यन्ये । ऊर्ध्वगः उपरितनः । जुहूशब्दं तस्मिन्निर्वक्ति ॥ जुहूरिति ॥ हुदानादनयोरिति धातोरिति भावः । अधरोवर्ाक्तनः । सहमान शब्दं तस्मिन्निर्वक्तुं मानशब्दार्थं तावदाह ॥ मानमिति ॥ यत इत्यस्योत्तरत्रान्वयः । शंखोवेदात्मकः वेददेवताभिमन्यमानः । इदानीं सहमानशब्दार्थमाह ॥ शंखसहित इति ॥ यत एवं मानशब्दलभ्यः शंखः अत इत्यर्थः । प्रकारान्तररेणजुहूशब्दार्थमाह ॥ जहोतीति ॥ उत्तरः उपरितनः । राज्ञीशब्दविवक्षितमर्थं दर्शयति ॥ राजीयुक्तेति ॥ राजीशब्दोदीप्तिवाची ॥ एवं च राज्ञादीप्तिमतागदाख्येनायुधेनाधिष्ठिताराज्ञीत्युक्तं भवति । यद्वा राज्ञीशब्दोरागपर्यायः । तथाचाऽरातिभटशोणितरागयोगाद्राज्ञीगदातया युतापि राज्ञीनामेति द्रष्यव्यम्‌ । उक्तं हि । दिग्धामराति ङटशोणितकर्दमेनेति । सुभूताशब्दार्थमाह ॥ श्रिय इति ॥ कान्तेरित्यर्थः । एवंच भूतं भूतिः सुभूतेन शोभनकान्तिमतापद्मेनाधिष्ठितत्वात्सुभूतानामेत्युक्तं भवति । वायुं दिशांवत्सं वेदेत्यस्य दिग्वायुशब्दयोः प्रसिद्धार्थताप्रतीतिवारणायतात्पर्यमाह ॥ दिङ्‌नामानश्ऱ्चेति ॥ ते बाहवः । महावायुः प्रधानवायुः । तेभ्यः चतुर्भ्यः । किमेकरूपस्यैव वायोरुत्पत्तिरिति जिमासायामुक्तं विवृण्वन्‌ न पुत्ररोदं रोदितीत्येतदप्रतीतेः व्याचष्ये ॥ धर्मज्ञानादिरूपेणेति ॥ आदिपदेन वैराग्यैश्ऱ्वर्ययोः ग्रहणम्‌ । एवंसति पुत्रो भवति न रोदितीत्यल्पार्तत्वं प्रतीयते । तां निवारयन्नुक्ताभिप्रायमाह ॥ नजायत इत्यादिना ॥ सोहमेवमिति वाक्यं कस्येति न प्रतीयते अतो व्याचष्ये ॥ वायुमिति ॥ पुत्रतया उत्पन्नेति शेषः । अमुनेति वक्ष्यमाणमत्राप्यनुवर्तत इत्याशयेन तत्तात्पर्यमाह ॥ हरेः प्रसादेति ॥ अत्रापि पूर्ववदल्पार्थत्वप्रअतीतिनिरासायाभिप्रायमाह ॥ अजरेत्यादिना ॥ अस्मीति शेषः । नन्वेवं चेद्रमाया एतज्ज्ञानानन्तरमेव मुक्तिरिति प्राप्तमत आह ॥ अनादीति ॥ अनादिकालत इत्यर्थः । अरिष्यं कोशमित्येतदप्रतीतेः व्याचष्ये ॥ अविनष्यमित्यादिना ॥ अरिष्यमित्यस्यार्थोऽविनष्यमिति । परानन्दकाममिति कोशमित्यस्य । कशब्दः परानन्दवाची । उशब्दश्ऱ्चेच्छापरपर्यायकामवाचीत्यर्थः । प्रपद्य इति प्रयोगात्कादाचित्कप्रपत्तिप्रसक्तिपरिहाराय सदेत्युक्तं । तताच क्रियाप्रबन्धेलडित्युक्तं भवति । अमुनेत्य्यार्थस्तत्प्रसादेनेति । अमुनेति त्रिरुक्तिरादरार्थेति सूचयति ॥ केवलमिति ॥ प्राणं प्रपद्य इति वाक्यं प्रसिद्धप्राणपरताप्रतीतिनिरासाय व्याचष्ये ॥ प्राणमिति ॥ प्राणमित्यनूद्यसर्वप्रणेतारमिति व्याख्यानम्‌ । अनेन प्रणयतीति निर्वचनं सूचितं भवति । सर्वप्रणषतृत्वोपपादनायकेशवमित्युक्तम्‌ ब्रह्मरुद्रप्रवर्तकम्‌ । प्राणोवा इदं सर्वं भूतं यदिदं किंचेति सर्वजगदात्मकत्वं प्राणस्योच्यत इति प्रतीतिनिरासाय व्याचष्ये ॥ प्रभूतमित्यादिना ॥ प्राण एव विष्णुः प्राणनामाविष्णुरित्यर्थः । वैशब्दार्थ एवेति । तद्वयार्त्यप्रदर्शनं नास्तीति । तमेवतत्प्राप्स्यथेति वाक्यं तच्छब्दपरामृश्यं दर्शयन्‌ अपेक्षितपूरणेन व्याचष्ये ॥ तस्मादिति ॥ तत्‌ इत्यस्यार्थस्तस्मादिति । अस्या उपासनाया अप्येवं फलवत्त्वदर्शनादित्यर्थः । प्राणभूर्भुवः स्वः पदैः वासुदेवादिमूर्तिचतुष्ययं प्रतिपाद्यमित्यभिप्रेत्यतान्‌ शब्दान्‌ तत्र निरुच्य दर्शयन्‌ पृथिवीं प्रपद्येन्तरिक्षं प्रपद्ये इत्यादिवाक्यगत पृथिव्यादिशब्दानपि प्रसिद्धपृथिव्यादि परताप्रतीतिनिरासायसंकर्षणादौ निवर्क्ति ॥ प्राणनामेत्यादिना ॥ पृथिव्यां स्थित इति शेषः । एवमन्तरिक्ष इत्यादावपि । अस्य जगतः आयुश्ऱ्च प्रदश्ऱ्चयतः तत्‌ तस्मात्‌ वायुनामेति सम्बन्धः । परानन्दप्रदत्वतः स्वरित्यत्र सुशब्दस्य शोभनत्ववाचित्वात्‌ । व इत्यस्य सुखवाचित्वादिति भावः । यथोक्तम्‌ । अनन्तसुखोयद्वयाहृतीरित इति । साम्यं स्वरूपाणां तत्‌ तेन प्राणं प्रपद्य इत्दवाक्येन सोहमेवमित्यादिरमावाक्यमिति व्याख्यातम्‌ । तदयुक्तम्‌ । पुल्लिंगश्रवणात्तस्याश्ऱ्चस्त्रीत्वादित्यत आह ॥ पुल्लिंगेनेति ॥ तर्हीति शेषः । इयं च पुंवच्छक्तिमतीति भावः । क्वचित्तुश्रीश्ऱ्चेति पाठस्तदायदीत्यस्य यस्मादित्यर्थः । खं0-।5 ॥ ततश्ऱ्चायं खण्डः ॥ कोशः आनन्देच्छास्वरूपोविष्णुरन्तरिक्षमुदरेयस्यासावन्तरिक्षोदरः । भूमिः बुद्‌श्रयोः भूलयोः पदमूलयोरिति यावत्‌ । यस्य सभूमिबुध्नः । विग्रहवतोपि नाशोनाशंक्य इत्याह ॥ नजीर्यतीति ॥ न जरावान्‌ भवति । ननयतीति यावत्‌ । अस्य लोकाश्रयविग्रहस्य भगवतो दिशश्ऱ्चतस्रः स्रक्तयः बाहव इति यावत्‌ । प्रथमासप्तम्यर्थे । स्रक्तिषु दिशः स्थिता इत्यर्थः । अस्य भगवत उत्तरं बिलं शीर्षसम्बन्धिविवरम्‌ । अत्रापि प्रथमासप्तम्यर्थे । तस्मिन्द्यौः द्युलोकस्तिष्यतीत्यर्थः । न केवलं लोकाश्रयः किन्तु तत्र त्यदेवाद्याश्रयश्ऱ्चेत्याह ॥ स एष इति ॥ स एषः यथोक्तगुणः कोशः आनन्देच्छारूपो विष्णुः । वसवोदेवतागणाः धीयन्ते स्मिन्निति वसुधानः । तस्मिन्कोशशब्दवाच्ये विष्णौ । इदं प्रत्क्षादिसिद्धं सर्वं जगत्‌ श्रितमाश्रितम्‌ ॥ 1 ॥ दिशश्ऱ्च तस्रः स्रक्तिशब्दवाच्यबाहुसंस्था इत्युक्तम्‌ । तत्र बाहुचतुष्ययमध्येकोबाहुः किं दिगाश्रयः किं नामा किमायुधयुक्तश्ऱ्चेति जिज्ञासायां तत्सर्वं विविच्यदर्शयति ॥ तस्येत्यदिना ॥ प्राचीदिक्‌ प्राचीदिगाश्रयत्वात्तत्तच्छब्दवाच्योदक्षिणोर्ध्वबाहुः । जुहोतिदानादनेकरोतीति जुहूर्नाम । अथवा चक्रेण शत्रूञ्जुहोतीति जुहूः । शत्रुनाशकचक्रवानिति यावत्‌ । दक्षिणशदक्षिणदिगाश्रयोदक्षिणाधरबाहुः सहमानानाममानं वेद दवताभिमन्यमानः शंखः तेन संहितः प्रसिद्ध इत्यर्थः । प्रतीचीप्रतीचीदिगाश्रयोवामोर्ध्वबाहुः राज्ञीनामराज्ञादीप्तिमतागदारूपायुधेन अधिष्ठिताराज्ञीति प्रसिद्धेत्यर्थः । अथवादैत्यशोणितरागयोगाद्राजीगदातयाधिष्ठितापि राज्ञीत्यर्थः । उदीची उदीचीदिगाश्रयोवामाधर बाहुः । सुभूतानामभूतं भूतिः कान्तिरिति यावत्‌ । एवं च सुभूतेन शोभनकान्तिमतापद्मेनाधिष्ठितापि सुभूतेति प्रसिद्धेत्यर्थः । न केवलं बाहूनां तत्तद्दिगाश्रयत्वादिमात्रम्‌ किन्तु धर्मज्ञानवैराग्यैश्ऱ्वर्यरूपवायुजनकत्वं च ज्ञातव्यमित्याशयेनाह ॥ तासामिति ॥ तासां च तिसृणां प्राच्याद्याश्रयाणां जुह्वादिनामिकानां बाहुरूपस्रक्तीनां वायुर्महावायुः धर्मादिरूपेण वत्सः पुत्रः । तथाच जुहूजातोधर्मः सहमानजातं ज्ञानं राज्ञीजातं वैराग्यं सुभूत जातमैश्ऱ्वर्यमिति विवेकोद्रष्यव्यः । एवं वेत्तुः फलमाह ॥ स य एवमित्यादिना ॥ योधिकारी एवमुक्तरीत्या एतं धर्मादिरूपं वायुं दिशांधर्मज्ञानाति देशनेन दिङ्‌नामकानां बाहुरूपस्रक्तीनां वत्संवेदसः पुत्ररोदं पुत्रोभूत्वारोदनं नरोदिति न करोतीत्यर्थः । कस्यापि पुत्रो न भवति मुक्तो भवतीति भावः । एवं वां दिग्वत्संज्ञात्वैतत्फलमाप्तवान्कश्ऱ्चिदस्तिकिमिति जिज्ञासायामाह ॥ सोहमित्यादिना ॥ रमावाक्यमिदम्‌ । पुंवच्छक्तिमत्त्वाच्च स इति पुल्लिंगशब्दवाच्यत्वं तस्याः । सोहमेवमुक्तरीत्या एतं च तूरूपं वायुं दिशां धर्मज्ञानाति देशनात्तन्नामिकानां च तस्रणां बाहुरूपस्रक्तीनां वत्संवेदपुत्ररोदं पुत्रतयोत्पन्नासतीरोदनं मारुदं नाकार्षम्‌ । अनादित एवाजरामराचाऽभवमित्यर्थः ॥ 2 ॥ अमुनेति वक्ष्यमाणमत्रापि सम्बध्यते । एवं चामुनाहरिप्रसादेनैवेदं फलमाप्तमित्युक्तं भवति । न केवलमिदमेवफलं मयाप्तम्‌ । किन्तु कोशो न जीर्यतीत्युक्तोपासनानुरूपमपि फलान्तरमाप्तमित्याह ॥ अरिष्यं कोशमिति ॥ अहं अरिष्यं अविनष्यं कोशं परानन्देच्छारूपं विष्णुं स दाप्रपद्ये उपासे । प्राप्ताचास्मीत्यर्थः । किमुपास्तिबलात्तं निरुध्य नेत्याह ॥ अमुनेति ॥ तत्प्रसादेनेत्यर्थः । त्रिरुक्तिरादरार्था । उपास्त्यन्तराणि विधातुं तत्र रुच्युत्पादनायतादृगुपासनयामयाफलमाप्तमिति तावदादौ दर्शयति रमा ॥ प्राणं प्रपद्य इत्यादिना ॥ प्राणं सर्वं प्रणयतीति वा स्वान्‌ मोक्षं प्रणयेदिति वा प्राणनामानं वासुदेवम्‌ । भूः ज्ञानेन भूषयतीति भूर्नामकं संकर्षणम्‌ । भुवः भावयतीति भुवोनामकं प्रद्युम्नम्‌ । स्वः परानन्दप्रदत्वेन स्वर्नामकमनिरुद्धम्‌ । 3 ॥ किंतत इत्यतः प्राणं प्रपद्य इत्यादिनोक्तानां वासुदेवादीनां चतुर्णामभिप्रेतं माहात्म्यं विशदयन्ती भवद्भिरप्येवमुपास्तिः कार्येति विधत्ते ॥ अथ यदवोचमित्यादिना ॥ यदिदं किंच भूतं प्रभूतं पूर्णं मत्स्याद्यन्तत्सर्वअं प्राणो वै । प्राणनामावादेव एव यस्मात्त्माद्धेजनास्तं मत्स्याद्यभिन्नं वासुदेवमुपासनया प्राप्स्यथ । तत्प्राप्तिहेतुभूतामुपास्तिं कुरुतेति यावत्‌ । एवं तमेवतत्प्राप्स्यथेति वाक्यं अथ यदवोचं भूः प्रपद्य इति अथ यदवोचं भुवः प्रपद्य इति अथ यदवोचं स्वः प्रपद्य इति वाक्यत्रयशेषत्वेनापि योजनीयम्‌ ॥ 4 ॥ पृथिवीं पृथिवीसंस्थं प्रथयतीति पृथिवीनामकम्‌ । अन्तरिक्षं अन्तरिक्षसंस्थं अन्तरीक्ष्यत इत्यन्तरिक्षनामकम्‌ । दिवं क्रीडशकरत्वेन द्युनामानं तद्गतं च संकर्षणमवोचम्‌ । अतो यूयमपि तं लोकत्रयव्यापिनन्तत्तल्लोकनामानं संकर्षणमुपासनया प्राप्स्यथ ॥ 5 ॥ अग्निमग्निस्थं सर्वं हुतमत्तीत्यग्निमाकम्‌ । वायुं वातीति वाः । आयुः प्रदत्वादायुः । वाश्ऱ्चासावायुश्ऱ्चेति वायुनामानं वायुस्थम्‌ । आदित्यं अस्यायुराददातीत्यादित्यनामानमादिस्थं प्रद्युम्महं प्रपद्येयतोतोयूयमप्यग्न्यादि देवान्तर्गतं तत्तन्नामानं प्रद्युम्नमुपासनया प्राप्स्यथ ॥ 6 ॥ ऋग्वेदं ऋचं ज्ञानं वेदयत इति ऋग्वेदनामानं ऋग्वेदस्थम्‌ । यजुर्वेदं यजुर्यज्ञं वेदयत इति यजुर्वेदनामानं तत्संस्थम्‌ । सामवेदं साम्यं वेदयत इत सामवेदनामानं तत्संस्थमनिरुद्धं अहं प्रपद्येऽतोयूयमपि ऋगादिवेदव्यापिनं तत्तद्वेदनामानं अनिरुद्धमपिसनया प्राप्स्यथेति ॥ 7 ॥ पंचदशः खण्डः ॥ 15 ॥ उक्त वक्ष्यमाणानेक भगवदुपास्तीनामायुषः क्षणिकत्वेन देस्य चरोगोपहतत्वेनानुष्ठनमशक्यमित्याशंकायामायुः वृद्धयर्थं रोगपरिहारार्थं च पुरुष(स्य)यज्ञरूपामुपास्तिमाह ॥ पुरुषोवावयज्ञ इत्यादिना ॥ अत्र पुरुषस्य यज्ञसाम्यं काव्य इवोच्यत इति प्रतीयते । नतूपासार्थम्‌ । तथोपासाविधायकाभावात्‌ । ब्रह्मसम्बन्धश्ऱ्च न प्रतयते । अतो ब्रह्मसम्बन्धं दर्शयन्नपेक्षितं पूरयन्‌ खण्डं प्रमाणेनैव व्याचष्ये ॥ विष्ण्विति ॥ वावेत्यस्यार्थोनित्यमादरादिति । पुरुषस्य यज्ञरूपत्वे साम्येन सवनत्रयस्थानीयं किंचिन्नोक्तमतस्तद्दर्शयति ॥ तस्येति ॥ उत्तमं प्रसिद्धसवनत्रयापेक्षयाबहुत्वादुत्तमफलसाधनत्वाच्चेति भावः । विशेषतः सवनादिस्थानीयं दर्शयितुं तस्य यानीत्यादिकोपनिषत्‌ ॥ तत्र तस्य यानिचतुर्विंशति वर्षाणीति प्रथमवाक्यं मध्यमान्तिमचतुर्विंशति वर्षाणीति प्रतीतिं वारयन्‌ व्याचष्ये ॥ चतुर्विंशदिति ॥ विंशति शब्दपर्यायोविंशच्छब्दः । आयुरिति वर्तते । चतुर्विंशति वर्षसंख्याकमायुरित्यथर्ः । पूर्वमेवेति सम्बन्धः । स ब्रूयादित्यारभ्यागदो भवतीत्यन्तवाक्यस्य सब्रूयादित्यादिनावसूनाज्ञापयतीति प्रतीति वारणायतात्पर्यमाह ॥ प्रार्थयित्वेति ॥ अथ यानिचतुश्ऱ्चत्वारिंशद्वर्षाणीति वाक्यं अन्तिमचतुश्ऱ्चत्वारिंशद्वर्षाणीति प्रतीतिं वारयन्‌ व्याचष्ये ॥ मध्य इति ॥

चतुर्विंशत्यष्यचत्वारिंशद्वर्षरूपायुषोः मध्ये विद्यमानं चतुश्ऱ्चत्वारिंशद्वर्ष संख्याकमायुरित्यर्थः । मध्यमं माध्यन्दिनम्‌ । स ब्रूयात्प्राणारुद्रा इत्यादेरगदो भतवत्यन्तस्य वाक्यस्व रुद्रा ज्ञापकत्व प्रतीतिवारणायतात्पर्यमाह ॥ रुद्राणामिति ॥ अत्र गतमिति शेषः । अथ यान्यष्यचत्वारिंशद्वर्षाणीति वाक्यं वाक्यं यत्किंचिदष्य त्वारिंशद्वर्षप्रतीति निवारणशय व्याचष्ये ॥ तत इति ॥ उत्तरमिति शेषः । अष्यचत्वारिंशद्वर्षसंख्याकमायुरित्यर्थः । अत्रापि स ब्रूयात्प्राणा आदित्या इत्यादेरादित्याज्ञापकत्व भ्रमवारणायतात्पर्यमाह ॥ आदित्यानामिति ॥ अत्रोक्तमहिदासस्य भगवदवतारत्वे कृष्णख्यापि भगवदवतारस्य ग्रहणे सो पिपास एव बभूवेति न युज्यते । नहि सर्वविद्यानिज्ञस्य सदा तनस्य भगवतः परिच्छिन्नायुरात्मकयज्ञविद्याश्रवणादिनान्यविद्याभ्योपिपासत्वं सम्भवति । अतोत्रोक्तोमहिदासः उत्तरत्रोक्तः कृष्णश्ऱ्चकाविति जिज्ञासायामाह ॥ महिदास इति ॥ महिदासः अत्रोक्तः । अन्यः भगवदवतारान्महिदासात्‌ कृष्णश्ऱ्चोत्तरखण्डोक्तः । अन्य एव भगवदवतारात्कृष्णात्‌ । अत उपनिषदुक्तं फलं तयोरुपपन्नमिति वाक्य शेषः । स्यादेतत्‌ । यदि भगवदवतारातिरिक्तौ महिदासकृष्णौ स्याताम्‌ । तदेवकुतः । तत्र प्रमाणाभावादित्याशंकायां तत्सद्भावे प्रमाणमाह ॥ महिदास इति ॥ तुशब्दः प्रकृतत्वानुसन्धानार्थः । ऐतरेयोमहिदासोभगवदवतारादन्योस्ति देवकीसुतः कृष्णोपि भगवदवताराद्द्वितीयः कपिलश्ऱ्च भगवदवतारादन्यः । नन्वेतेसुरादिषु के इति जिज्ञासायामाह ॥ त्रय इति ॥ पुरेत्यस्योत्तरत्रान्वयः । नन्विदमयुक्तम्‌ । अत्रोक्तमहिदासस्यैतरेयत्वश्रवणात्‌ उत्तरोक्तकृष्णस्य च देवकीसुतत्वश्रवणात्‌ । अन्यत्रोक्त कपिलस्यापि आसुरिप्रभृतिशिष्यकत्वश्रवणात्‌ । तेषां च क्रमेणभगवदवतारमहिदासादिधर्मत्वात्‌ । नचान्यमहिदासकृष्णयोः भगवन्नामित्वेऽन्यकपिलतच्छिष्ययोः भगवदवतारकपिलतच्छिष्यनामित्वेच निमित्तमस्ति । प्रशिष्यनामैक्यं च श्रूयमाणमनुपपन्नम्‌ । वेदप्रतिपाद्याश्ऱ्चैतेश्रूयन्ते । नहि नराणां कारणेन विनावेदप्रतिपाद्यतायुक्ता । अत एते भगवदवतारा एव । फलकथनं तु कथं चिन्नेयमित्याशंकायां नामैक्यादौ निमित्तमाह ॥ पुरेत्यादिना ॥ एत इति वर्तते । विष्णुनास्वस्य नामैक्यं तन्मात्रास्वमातुश्ऱ्च नामैक्यं स्यादित्यभिप्रायेणेत्यर्थः । नामैक्यं विष्णुरुपकपिलतच्छिष्यप्रशिष्यैरिति शेषः । एवमेवविष्णुरूपमहिदासादिवदेव ऐतरेयत्वादिनावेदोक्ताश्ऱ्चेति सम्बन्धः । चशब्दस्तन्मातृशिष्यप्रशिष्या अपि तन्मात्रादिनामिन आसन्नित्याह ॥ मुनयोप्यासन्‌ हिशब्दोयमर्थः । प्रसिद्ध इत्याह ॥ यस्मादेवं वरान्प्रददौ तस्मादिति हेत्वर्थे वा । उक्तार्थे कालकीयगतमेव स्थानान्तरस्थं वाक्यमुदाहरति ॥ महिदास इति ॥ षोडशशतं जीवीत्युक्तः श्रुताविति शेषः । अत्रकारणमाह ॥ त्रय इत्यादिना ॥ खं0-16 ॥ ततश्ऱ्चायं खण्डाथर्ः ॥ पुरुषोधिकारी जीवः अहं विष्णुपूजार्थं यज्ञ इत्युपासनं कर्वीत । वावेति निपातसमुदायस्तस्यादरनैरन्तर्यरूपेत्थं भावद्योतकः । अत्र पुरुषस्य यज्ञरूपत्वे प्रसिद्ध यज्ञसामन भाव्यम्‌ । प्रसिद्धयज्ञे च सामान्यतः सवनत्रयात्मकमेकं प्रसिद्धं तच्चात्र तस्य यत्‌ षोडशोत्तरं शतमायुस्तदिति ज्ञेयम्‌ । अथ तत्र प्रातः सवनं तत्स्थानीयमत्राह ॥ तस्य यानीति ॥ तस्य पुरुषस्य तस्यायुषोमध्ये यानिपूर्वाणि चतुर्विंशति वर्षाणि तत्प्रातः सवनं चतुर्विंशति वर्षाणां प्रातः सवनत्वं कथमित्यत आह ॥ चतुर्विंशत्यक्षरेति ॥ किंतत इत्यत आह ॥ गायत्रं हीति ॥ प्रातः सवनं गायत्रम्‌ । गायत्रीच्छन्दस्कं प्रसिद्धम्‌ । तथाच चतुर्विंशतिवर्षात्मकस्यायुषः प्रातः सवनजाप्यगायत्ऱ्यक्षरसंख्यासाम्यात्प्रातः सवनत्वोक्तिरिति भावः । प्रसिद्धयज्ञेप्रातः सवनं वसुस्वामिकं प्रसिद्धम्‌ । अतोत्राप्युक्तं प्रातः सवनं वसुस्वामिकमित्याह ॥ तदस्येति ॥ अस्य पुरुषयज्ञस्य तत्‌ उक्तं प्रातः सवनं वसवोदेवाः अन्वायत्ताः अनुगताः स्वामिन इत्यर्थः । नन्वग्न्यादीनां वसूनामधिदैवरूपाणामध्यात्मं पुरुषायुप्यविशेषात्मकप्रातः सवनस्वामिताकथमित्यत आह ॥ प्राणा वा इति ॥ त एवाध्यात्मं प्राणा इन्द्रियाभिमानिनोवसवोवसुशब्दवाच्यत्वे न विवक्षिता इत्यर्थः । तेषु वसुशब्दप्रयोगेनिमित्तमाह ॥ एत इति ॥ हि यस्मादिदं सर्वं पुरुषादिप्राणिजातमेते वासयन्ति तस्माद्वासनाद्वसव इत्यर्थः । प्राणेषु हि देहेवसत्सुसर्वमिदं वसति नान्यथेति भावः ॥ 1 ॥ किंच प्रातः सवने प्रार्थितावसवस्तत्र नमधिकारिणं एतस्मिन्‌ प्रातः सवनरूपेचतुर्विंशति वर्षात्मके वयसि किंचित्‌ ज्वरादिकमुपतपेत्‌ दुःखमुत्पादयेत्तदासपुरुषः आत्मानं यज्ञं मन्यमानोब्रूयात्‌ प्रार्थयेत्‌ वसूनिति शेषः । किमिति ॥ हे प्राणा इन्द्रियदेवाः वासनाद्वसुसंज्ञायूयं इदं चतुविर्ंशति वर्षात्मकं मेममयज्ञरूपस्य प्रातः सवनं वर्तते तत्‌ । माध्यान्दिनं सवनं अनुसन्त नुतमाध्यन्द्रिनेन सवनेन तद्रूपेणायुषासहितं कुरुतेत्यर्थः । माहं यज्ञोयुष्माकं प्राणानां वसूनां प्रातः सवनेशानां मध्ये भवतां तत्राधिपत्येसतीति यावत्‌ । एवमुत्तरत्रापि । विलोप्सीयविलुप्येयविच्छिद्येयेत्यर्थः । इतिशब्दः प्रार्थनमन्त्रसमाप्त्यर्थः । प्राथर्नं मोघं किं नेत्याह ॥ उद्धैवेति ॥ ततः प्रार्थनात्‌ ततो ज्वरादेरुदेत्येवह उद्गच्छत्येवहि । तदेवविवृणोति ॥ अगद इति ॥ व्याधिरहितो भवतीत्यर्थः ॥ 2 ॥ अथ यानिचतुश्ऱ्चत्वारिंशद्वर्षाणीत्यादिपूर्ववद्वयाख्येयम्‌ । रोदयन्ति प्राणिदेहेस्वानवस्थानेनातोरुद्रा इत्यर्थः । इदं सर्वं शब्दादि विषयजातम्‌ ॥ 3 ॥ 4 ॥ आददति विषयीकुर्वन्ति ज्ञापयन्त्यत आदित्या इत्यर्थः । तृतीयसवनं वर्तते । तदायुः षोडशोत्तरं वषर्शतं अनुसन्तनुततेन पूर्णेनायुषा सहितं कुरुत । यज्ञं समापयतेत्यर्थः ॥ 5 ॥ 6 ॥ एवं स्वात्मनां यज्ञतयोपास्य निर्विघ्नं पूर्णमायुः प्राप्तवानस्तिकिपमिति जिज्ञासायामस्तीत्याह ॥ एतद्धस्मेत्यादिना ॥ एतत्‌ पुरुषस्य यज्ञत्वेनोपासनं वैकिल तद्विद्वान्‌ तत्‌ पुरुषयज्ञोपासनं विद्वान्‌ महिदासोनामतः इतराया अपत्यमैतरेयोभगवदवतारमहिदासादन्योमुनिः आहस्म । हे गदसः त्वं मे यज्ञरूपस्य ममैतच्छरीरं किं किमर्थमुपतपसि । योहं यज्ञोऽनेन त्वत्कृतोपतापेन न प्रष्यामिनमरिष्यामि । अतो वृथातवश्रवम इत्यर्थः । इत्याहस्मेति सम्बन्धः । स एवं निश्ऱ्चयः । षोडशं वर्षशतं अजीवत्‌ । अन्योपि यः एवं यथोक्तं पुरुषयज्ञं वेदोपास्ते सोप्येवं निश्ऱ्चयः षोडशं वर्षशतं जवतीत्यर्थः । क्वचित्प्राहेति फठ्यते । तदेतिशब्दोऽध्याहार्यः । इति रमाप्रोहेत्यर्थः ॥ 7 ॥ षोडशः खण्डः ॥ 16 ॥ ननु प्रसिद्ध यज्ञे दीक्षोपसदस्तुतशस्त्राणि दक्षिणासोष्यत्यसोष्येति शब्दोवभृथश्ऱ्चेत्येतानिसन्ति तत्स्थनीयानि कानि सन्ति पुरुषयज्ञ इति जिज्ञासायामाह ॥ स यदशिशिषतीत्यादिना ॥ अप्रतिपत्तिविप्रतिपत्तिनिरासाय खण्डं प्रमाणेनेवव्याचक्षाणस्तावदादिवाक्यं व्याचष्ये ॥ व्यवायेत्यादिना ॥ तुशब्दस्तेषां विहितत्वरूपविशेषवाची । स्तुतशस्त्रात्मकाः सामगानमन्त्रात्मकाः । शब्दवत्त्वसाम्यात्‌ । अथ यत्तप इत्यादिव्याचष्ये ॥ अस्य पुरुषयज्ञस्य । दक्षिणाधर्मपोषकत्वसाम्यात्‌ । तस्मादाहुरिति वाक्यं व्याचष्ये ॥ सोष्यतीत्यादिना ॥ तस्मादित्यस्यार्थस्तत इति । पुरुषस्य यज्ञरूपत्वादित्यर्थः । पुनरुत्पादनमित्यस्यार्थः पुत्रजन्मनीति । तथाच यथा यज्ञेदेवदत्तः पूर्वं सोमं सोष्यति । अनन्तरं सोममसोष्येति शब्दः प्रयुज्यते तथाऽत्रापि यजमानस्य पुत्रजन्मनि पुनरुत्पादनरूपे आसन्नेय यजमानभार्यापुत्रं सोष्यति । सतिचतस्मिन्न सोष्येत्याहुरिति सोष्यत्यसोष्येतिशब्दवत्त्वमुभयत्र सममित्यर्थः । ननु पुत्रजन्मपुरुषस्य कथं पुनरुत्पानमित्याशंकायां तदुपपादयति ॥ हीत्यादिना ॥ पुनरुत्पत्तिनिरूपणस्य प्रथमोत्पत्तिज्ञानाधीनत्वात्तामाह ॥ प्रथमेति ॥ पितुः यजमानस्योत्पत्तिः प्रथमाप्रवसः पुत्रस्य पुत्रजन्मेत यावत्‌ । सातस्य पुनरुत्पत्तिः पुत्रदेहस्य तद्देहांशत्वात्‌ । आत्मावैपुत्रनामासीति श्रुतेरिति हिशब्दाथर्ः । अन्येतु प्रसवोमातुरिति शेषः । तर्हि प्रथमोत्पत्तिः केति जिज्ञासायामाह ॥ प्रथमेति ॥ उत्पत्तिरित्यनुवर्तत इत्याहुः । तन्मरणमेवावभृथ इत्येतद्वयाचष्ये ॥ यज्ञस्नानमिति ॥ समाप्तिसाम्यात्‌ । सोन्तवेलायामित्येतदप्रततेरेकार्थत्व प्रतीतेश्ऱ्च व्याचष्ये ॥ तदेति ॥ अन्तवेलायामित्यस्यार्थः तदामरणकाल इति । प्रतिपद्येतेत्यस्यार्थोध्यायेदिति । स इत्यस्यार्थः पुमानिति । यज्ञरूप इत्यर्थः । एतदनन्तरं श्रुतावेवमुपासनयाऽपरोक्षज्ञानन्तेन च भगवत्प्राप्तिः भवतीति वक्तव्यम्‌ । अत्र चार्थद्वये ऋचौप्रमाणत्वेन प्रस्ताव्योदाहरति श्रुतिः ॥ तत्रैत इत्यादिना ॥ तदृग्द्वयं सूर्यपरताप्रतीतिनिरासाय क्रमेणानूद्यव्याकुर्वन्‌ प्रथमान्तावद्वयाचष्ये ॥ आदिदित्यादिना ॥ इदित्यस्यार्थ एवेति । पश्यन्ति उक्तोपासनया । दिवेति तृतीयापंचम्यर्थेति भावेन दिव इत्युक्तम्‌ । पर इत्यस्यार्थः परत इति । तदेवविशदयति ॥ वैकुण्ठ इति ॥ इध्यत इति सामान्यतो वर्तमान ऋध्युक्तेः ऋद्धिरल्पाकादाचित्कीचेति प्रतीतिं वारयन्नाह ॥ ऋद्धतममेवेति ॥ यद्यपि ऋद्धतममेवसर्वदातथापि लोक दृष्यया इध्यत इत्युच्यत इति भावः । वैकुण्ठस्य दिवः परत्वं प्रागुक्तं स्मारयति ॥ अथ यदत इति ॥ नन्वत्रेध्यत इत्युच्यमानमादित्यमण्डलमेव किं न स्यादित्यत आह ॥ नचेति ॥ तस्यान्तरिक्षगतत्वादिति भावः । उद्वयमिति द्वितीयां ऋचमन्वयं दर्शयन्‌ व्याचष्ये ॥ उत्तरमिति ॥ ज्योतिः पश्यन्तः उक्तोपासनयेति शेषः । स्वरानन्दरूपं ज्योतिरिति वर्तते । ज्योतिः पश्यन्तः स्वः पश्यन्तः इत्युक्त्या ज्योतिः स्वः पदार्थ योर्भेप्रसक्तावाह ॥ उत्तरमिति ॥ नन्वेवं ज्योतिरेव चेत्स्वस्तर्हि ज्योतिः पश्यन्तः स्वः पश्यन्तः इति दृशिद्विरुक्तिः व्यर्थास्यादित्यत आह ॥ द्विरुक्तिरिति ॥ पूर्वं उ उद्वयं तमसस्परीति वाक्यं उदित्येतत्‌ अगन्मेत्यनेनान्वियम्‌ । तथाच तमस उदगन्मोद्गताः स्म इत्यर्थ इति व्याख्यातम्‌ । इदानीं प्रकारान्तरेण व्याचष्ये ॥ उदाख्यमिति ॥ तमसोदुर्गायाः उत्तममिति सम्बन्धः । अथवातमसोनिर्गत्येति शेषः । ननु भवेदिदं व्याप्यानम्‌ । यदि भगवत उदाख्यत्वं प्रामाणिकं स्यात्तदेवकुत इत्यतस्तत्र प्रमाणमाह ॥ तस्येति ॥ देवं देवत्रेत्येतत्‌ अप्रतीतेरन्वय प्रदर्शनपूर्वकं वाक्यार्थतात्पर्यार्थ दर्शनेन व्याचष्ये ॥ देवत्रादेवमिति ॥ नन्वादित्यपतमेवेदं वाक्यं न भगवत्परं सूर्यमिति तच्छुतेः । देवं देवत्रेत्यस्य स्वावरारेत्तमत्वेन सूर्येपि सावकाशत्वात्‌ । दिवः परत्वलिंगादपि श्रुतेः बलवत्त्वादिति चेन्न । दिवः परत्वलिंगस्य निरवकाशतया बाधायोगात्‌ । श्रुतेः च भगवत्यपि सावकाशत्वादित्याशयेन सूर्यशब्दं भगवति निर्वक्ति ॥ सूरिभिरिति ॥ प्रमाणविरोधाच्च नादित्यपराविमौ मन्त्रावित्याशयेनैतद्वयाख्यानरूपं प्रमाणमुदाहरति ॥ रतिरूपमिति ॥ रेतस इत्यस्य तात्पर्यं रतिरूपमिति ॥ हृदिपश्यन्ति । एधवृद्धौ इन्धीदीप्ताविति धातुद्वयस्यापि रूपमिध्यत इत्येतदित्याशयेनोक्तं यत्पूर्णं सर्वदा भातीति । उत्तरमुत्तरमुत्तममिति पदत्रयार्थः उत्तमोत्तमसूत्तममिति ॥ खं017 ॥ ततश्ऱ्चायं खण्डाथर्ः ॥ सोधिकारी अशिशिषति अत्तुमिच्छतीति यत्‌ । पिपासति पातुमिच्छतीति यत्‌ । यच्चेष्याप्राप्तिनिमित्तं नरमत इति ताः क्षुत्पिपासारतयोस्य स्वरूपभूत यज्ञस्य दीक्षाः पूर्वभावित्वसाम्यात्‌ । दुःखसाम्यादित्यप्याहुः ॥ 1 ॥ अथेति साम्यान्तरकथन प्रारम्भार्थम्‌ । एवमग्रऽपि । सः अश्ऱ्नातीति यत्‌ पिबतीति यत्‌ इष्यलाभेन रमत इति यत्‌ तत्‌ भोजनादिकमुपसदैः यज्ञांगयजमानव्यापारविशेषैः । समानतामेति । दीक्षानन्तर्यसाम्यात्‌ ॥ 2 ॥ अथ सः हसतीति यत्‌ जक्षतिभक्षयतीति यत्‌ यच्चमैथुनं चरतीति तत्‌ हासादिकं स्तुतैः सामगानैः शस्त्रैः शंसनमन्त्रैश्ऱ्चसमानतामेति । शब्दवत्त्वसाम्यात्‌ ॥ 3 ॥ अथ यत्तपः कायक्लेशात्मकं शास्त्रविचाररूपं वा दानं सत्पात्रेन्यायार्जितवित्तादेः आर्जवं धर्ममार्गेमनोवाक्कायकर्मणामेकप्कारत्वं अहिंसाव्यर्थहिंसाभावः सत्यवचनं ता अस्य पुरुष यज्ञस्य दक्षिणाः धर्मपोषकत्वसाम्यात्‌ ॥ 4 ॥ तस्मात्पुरुषस्य यज्ञरूपत्वादेस्य पुरुषस्य पुनरुत्पादनं पुत्रजन्मरूपं यदा आसन्नं तदा अस्य भार्यापुत्रं सोष्यति यदा चैतद्भवति तदाऽसोष्येत्याहुः । प्रसिद्धयज्ञेयथा देवदत्तः सोमं सोष्यति इति पूर्वं मनन्तरं च सोममसोष्येति शब्दः प्रयुज्यते । तथात्रापि सोष्यत्यसोष्येति शब्दसम्बन्धोस्तीति भावः । पुरुषस्य स्वपितुः सकाशाज्जन्मप्रथमं स्वस्मात्पुत्रजन्मपुनरुत्पादनरूपं पुत्रदेहस्यापि स्वदेहांशत्वादिति द्रष्यव्यम्‌ । तन्मरणं पुरुषमरणं स्य पुरुषयज्ञस्यावभृथो यज्ञस्नानं समाप्तिसाम्यात्‌ ॥ 5 ॥ अत्र तात्पर्यद्योतनाय स्तुतिरूप
मर्थवादमाह ॥ तद्धैतदित्यादिना ॥ घोरोनामतः आंगिरसः गोत्रतः । तत्पूर्वखण्डोक्तं एतत्‌ एतत्खण्डोक्तं पुरुष यज्ञप्रकारं कृष्णायदेवकीपुत्राय भगवदवतारादन्यस्मैकस्मैचिदृषये उक्त्वावक्ष्यमाणं भगवदुपासाप्रकारंचोवा च । सो पिपास एवान्यविद्याभ्यो बभूव । अस्यामेव विद्यायां निष्ठावान्‌ जत इति यावत्‌ । अन्येतु पिपास एवेति पाठमभिप्रेत्यसोपि पिपासादिदीक्षादिमांश्ऱ्च बभूवेत्याहुः । घोर आंगिरसः कृष्णायकिमुवाचेति जिज्ञासायान्तदाह ॥ स इत्यादिना ॥ सः एवं यथोक्तयज्ञवित्‌ अन्तवेलायां अवभृथरूपमरणकाले एतत्रयं वक्ष्यमाणभगवद्धर्मत्रयं प्रतिपद्येतध्यायेत्‌ । हे भगवन्‌ त्वं अक्षितमक्षयोसि अच्युतं गुणैरच्युतोसि प्राणशंसितं प्राणादाधिक्येन सुखितोसि इति प्रतिपद्‌तेत्यन्वयः । एतादृशयज्ञध्यानेनापरोक्षज्ञानं तेन भगवत्प्राप्तिरूपं फलं च प्रतिपद्यत इति वक्तव्यम्‌ । अस्मि प्रथद्वये ऋचौ प्रस्ताव्योदाहरति ॥ तत्रेति ॥ तत्रोक्तर्थद्वये एतेवक्ष्यमाणेद्वेऋचौ भवतः ॥ 6 ॥ प्रत्नस्य पुरातनस्यानादेरेतसः रतिरूपस्य भगवतः वासेनरमयतीति वासरं यत्‌ दिवादिवः परः परेवैकुण्ठे इध्यते पूर्णमेव सदा भाति । तज्ज्योतिः आत्‌ इत्‌ अस्मादेव उक्तोपासनासाध्यभगवत्प्रसादादेवेति यावत्‌ । सूरयः पश्यन्ति । स्वरानन्दरूपं ज्योतिः परिपश्यन्तोवयम्‌ । पुनः पश्यन्त इत्युक्तिरादरार्था । तमसोऽज्ञानाद्यनर्थादुदगन्म उद्गतास्मः । न केवलमेतावत्‌ किन्तु देवत्रादेवं देवविषयेपि देवं देवानां देवमित्यर्थः । सूरिभिः प्राप्यत्वात्सूर्यं तन्नामकमुत्तरमुत्तरमुत्तम्‌ । उत्तमोत्तमसूत्तमं ज्योतिः वासुदेवाख्यं अगन्मप्राप्तास्मः । उत्‌ उदाख्यम्‌ । ज्योतिरिति सम्बन्धः । तमसोनिर्गत्येति शेषः । तथाच अ न क्रियावृत्तिः नवावाक्यभेद इति द्रष्यव्यम्‌ । इतिशब्दस्य भवत इत्यनेन सम्बन्धः । द्विरुक्तिरुक्तावधारणशर्था ॥ 7 ॥ सप्तदशः खण्डः ॥ 17 ॥ लब्धायुषः पुरुषस्य तत्सार्थक्यार्थमध्यात्ममधिदैवतं च भगवदुपास्तिं तत्फलं चाह ॥ मनोब्रह्मेत्यादिना ॥ अत्रान्तःकरणादिकमब्रह्मैव ब्रह्मतयोपास्य मुच्यत इति परव्याख्यानमप्रामाणिकं प्रमाणविरुद्धं चेत्याशयेन आकाशोब्रह्मेत्युभयमादिष्यं भवत्यध्यात्मं चाधिदैवतं चेति वाक्यमप्रतीतेः प्रमाणेनैव व्याचष्ये ॥ मनःसंस्थ इत्यादिना ॥ तुशब्दो विशेषार्थः । तमेवाह ॥ साक्षादिति ॥ साक्षादनन्याधीनत्वेन मनःसंस्थोनरुद्रादिरिवेति । मनोनामक इत्यपि ग्राह्यम्‌ । स एवेत्युक्त्यास्थानभेदेन शंकापरिहृतेति ज्ञातव्यम्‌ । तथाचाध्यात्मं मनोनामकस्य भगवतोधिदैवमाकाशेमन आकाशनानुवादेन समन्तादिति व्याख्यानम्‌ । तदेतच्चतुष्पादित्यादिकं अध्यात्मं जडवागादि परमधिदैवं चाग्न्यादि देवतामात्रपरमिति प्रतीतिनिरासाय व्याचाष्ये ॥ वासुदेवादीति ॥ तन्नामातत्तन्नामा । वागेवब्रह्मणश्ऱ्चतुर्थः पादः । सोग्निनाप्राण एव ब्रह्मणश्ऱ्चतुर्थः पादः । स वायुनेत्यादिवाक्य चतुष्यतात्पयर्माह ॥ वागादिस्थ इत्यादिना ॥ अत्रापि स एवेत्यनेन स्थानभेदनिमित्तभेदशंकापरिहारः । तुशब्दः स्वस्य स्वसाहित्योपपादकविशेषार्थः । तमेवाह ॥ ईशोघटितघटकशक्तिमानिति । सहेत्यनेनाग्निनेत्यादितृतीया सहार्थ इत्युक्तं भवति । तपतीत्यस्य कर्मानुक्तेस्तदाह ॥ दुष्यानिति ॥ अथशब्दः समुच्चयार्थः । भातिच तपतिचेत्यादिफलप्रतिपादकवाक्यचतुष्ययं व्याचष्ये ॥ एवमित्यादिना ॥ कीर्ति शब्दापुनरुक्ततया यशः शब्दमनुवदंस्तदर्थमाह ॥ ज्ञानेति ॥ ब्रह्मवर्चसेनेत्यस्याथर्ो ब्रह्मसम्प्राप्त्येत्यादि । वरित्यस्य वरणेनेत्यर्थमभिप्रेत्याह ॥ सम्प्राप्त्येति ॥ तस्यैव भावप्रधानत्वमभिप्रेत्यार्थान्तरमाह ॥ मुक्तिगामिति ॥ आविर्भूतामित्यर्थः । तथाच ब्रह्मणोविष्णोः वरणषन प्राप्त्याचायितं सम्पादितमाविर्भूतं वरत्वं ब्रह्मवर्चसमित्युक्तं भवति । तथोक्तमैतरेयभाष्ये । परब्रह्मणोविष्णोः वरणादवसम्यक्‌ चायितं स्वरूपमिति । तपति चेति सम्बन्धः । खं018 ॥ ततश्ऱ्चायं खण्डार्थः ॥ मननान्मनोनामासाक्षान्मनः संस्थोनारायणोब्रह्मेत्युपासीतेत्यध्यात्मं देहमधिकृत्यवर्तमानब्रह्मविषयकमुपासनं निरूपितम्‌ । अथाधिदैवतं देवतामधिकृत्यवर्तमानब्रह्मविषयमुपासनमुच्यत इत्यर्थः । आसमन्तात्प्रकाशनादाकाशनामा । तन्नामकदेवसंस्थो नारायणो ब्रह्मेत्युपासीत । पूवर्ोपासनापेक्षये यमुपासनातिशयितेत्याशयेनाह ॥ आकाश इति ॥ योसौ मनः संस्थोनारायणः स एव आकाशस्थोमन आकाशनामकः । अत आकाशेमन आकाशनामको भयरूपसद्भावादाकाशो ब्रह्मेत्यनेनाध्यात्ममधिदैवतं चेत्युभयं रूपमादिष्यमुपदिष्यं भवति ॥ 1 ॥ तत्‌ अध्यात्मं एतत्‌ अधिदैवं यद्ब्रह्म तच्चतुष्पात्‌ चत्वारः पादायस्येति चतुष्पात्‌ । वासुदेवादिरूपचतुष्ययोपेतमित्यर्थः । अध्यात्मं तावत्पादचतुष्ययमाह ॥ वाक्‌ पाद इत्यादिना ॥ वचनाद्वाङ्‌नामावाक्संस्थो मनोगत नारायणस्य पादोवासुदेवनामांशः प्राणः प्रकृष्यनैतृत्वात्प्राणनामाप्राणसंस्थस्यैव पादोंशः संकर्षणाख्यः चष्य इति चक्षुः नामातत्संस्थः पादोंशः प्रद्युम्नाख्यः ृणोतीति श्रोत्रनामातत्संस्थः पादोंशोऽनिरुद्धाख्यः इत्याध्यात्मं मनःसंस्थ भगवदंशाश्ऱ्चत्वरोनिरुपिताः । अत्राधिदैवतं आकाशदिगत भगवदंशानिरूप्यंत इत्यर्थः । अग्निरंगनेतृत्वादग्निनामातत्संस्थो वासुदेवः पाद एकोंशः । आयुः ज्ञानस्वरूपत्वाद्वायुनामातत्संस्थः संकर्षणोपरः पादः । आदानादादित्यनामातत्संस्थः प्रद्युम्नोन्यः पादः । धर्मज्ञानाति देशनाद्दिङ्‌नामानिरुद्धश्ऱ्चतुर्थः पादः । अत्रापि पूर्वपादचतुष्ययज्ञानापेक्षयैतत्पादचतुष्यय ज्ञानमतिशयितम्‌ । अग्न्यादौ वागादिसंस्थानामपि क्रमेण सद्भावादित्याशयेनाह ॥ इतीति ॥ अग्निः पाद इत्यादिनाध्यात्मं वागादिसंस्थं चतुष्ययं अधिदैवतमग्न्यादिसंस्थं च पादचतुष्ययमित्युभयमादिष्यमुपदिष्यं भवति ॥ 2 ॥ तदव विशदयति ॥ वागेवेति ॥ वाङ्‌नामायोयं ब्रह्मणः चतुर्थः पादोवासुदेवः स एवाग्निसंस्थोऽग्निनातन्नामकेन ज्योतिषाज्योतिर्मयेनवासुदेवेन सह भाति तपति चदुष्यान्‌ । एवं वेत्तुः फलमाह ॥ भातीत्यादिना ॥ योधिकारी एवमुक्तरीत्यावेदोपास्तेसः कीर्त्यायशसाज्ञानसुखात्मकेन ब्रह्मवर्चसेन ब्रह्मणोविष्णोः वरणेन सम्प्राप्तिरूपेण चायितं आविर्भूतं वरत्वं मुक्तिगं यत्तेन च भाति तपति चाज्ञानादिकम्‌ ॥ 3 ॥ एवं यः प्राणः चक्षुः श्रोत्रसंस्थस्तन्नामासंकर्षणादिः स एव वाय्वादिस्थः सन्‌ वाय्वादिनामकेन संकषर्णाद्याख्येन ज्योतिषासह भातीत्यादि योज्यम्‌ । शिष्यं समानम्‌ ॥ 4-6 ॥ अष्यादशः खण्डः ॥ 18 ॥ यत्प्राप्त्यापुरुषस्य ज्ञानद्वारामोक्षोभवति तेषां वेदानां प्राप्तिसम्पादिकामादित्यनिष्ठां कांचन भगवदुपास्तिमाह ॥ आदित्य इत्यादिना ॥ असदेवेदमग्र आसीदिति वाक्यं प्रलये शून्यावस्थानप्रतीतिं व्याहतिं च परिहर्तुं प्रमाणेनैव व्याचष्ये ॥ तत्प्रकृत्येति ॥ तद्वासुदेवाख्यं ब्रह्मप्रकृत्यामायया समभवत्‌ सम्भोगमकरोत्‌ । तदाण्डं निरवर्ततेत्येतद्वयाचष्ये ॥ तत इति ॥ ततः सम्भोगानन्तरं तत्वसृष्ययादि द्वारा अण्डमजायतेत्यर्थः । अथ यत्तदजायतसोसावादित्य इति वाक्यं प्रसिद्धादित्यपरमिति प्रतीतिनिरासाय व्याचष्ये ॥ तस्मिन्निति ॥ तस्मिन्नण्डे । ननु भगवत आदित्यनामकत्वे मण्डलान्तर्गत सूर्ये कथं तच्छब्दप्रयोग इत्यत उक्तम्‌ । मण्डले विद्यमानस्य सूर्यस्य नियन्तैवेति । तथाच तदधीनत्वादति न्यायेन तत्र तच्छब्दप्रयोग इत्युक्तं भवति । चोहेतौ । भगवानेवेत्व शब्द सम्बन्धः । पुरुषोत्तम इत्युत्तरवाक्यतात्पर्यकथनम्‌ । तथाच यतः पुरुषोत्तमोब्रह्मादिसर्वदेवोपस्थाप्यत्वेनोत्तरवाक्ये कथितोतोभगवानेवादित्यनामा न प्रसिद्ध इति योजना । असदेवेदमग्र आसीदित्यारभ्यसोसावादित्य इत्यंतं वाक्यं आदित्यो ब्रह्मेति प्रथमवाक्यार्थेहेतुप्रतिपादकमित्याशयेन हेतुहेतुमद्भावं दर्शयन्नादित्योब्रह्मेत्यादिसाध्यांशं व्याचष्ये ॥ तस्मादिति ॥ एवमुत्पन्नाण्डगर्भरूपत्वात्‌ । यदेनं साधवोघोषा आगच्छेयुरित्यादिफलवाक्यतात्पर्यमाह ॥ सर्वेति ॥ उलूलव इत्येतदप्रतीतेः अनूद्य व्याचष्ये ॥ उलूलव इति ॥ एवं पदार्थमुक्त्वोलूलवोघलोषश इति वाक्यार्थमाह ॥ अतिमहान्त इति ॥ घोषावेदा इत्यर्थः । तेषामतिमहत्त्वमानंन्त्यं व्याप्तत्वं वा । अनन्तावै वेदाः यावद्ब्रह्मविष्ठितं तावतीवागिति श्रुतेः । उपचनिम्रेडेरन्नित्येतदनूद्यापेक्षितं पूरयन्‌ व्याचष्ये ॥ उपचेति ॥ एवं स्ववचनेनोक्तार्थदार्ढ्यायतं जायमानमित्यादिवाक्यंव्याख्यानरूपं प्रमाणमुदाहरति ॥ सूर्येति ॥ वेदैरित्यादिनाघोषा इत्यादिप्रथमातृतीयार्थे व्याख्यातेति ज्ञातव्यम्‌ । सर्वाणिभूतानीत्यस्यार्थोब्रह्माद्या इति । उदतिष्ठन्नित्यस्यार्थ उपस्थिता इति । उलूलवोऽनूत्तिष्ठन्तीत्यस्यार्थः उपतिष्ठन्तीत्यादि । तस्मादित्यस्यार्थोत इति । तथाच यस्माद्ब्रह्माद्या उपस्थिता अतोद्यतना अप्युपतिष्ठन्तीति योजनाप्रतिप्रत्त्यायनमित्यनयोरर्थो नित्यमंजसेति । स य एतदेवमिति फलवाक्यमैहिकमात्रपरमिति प्रतीतिवारणशयव्याचष्ये ॥ तद्विद्वानिति ॥ मुक्तो भवेत्‌ । वेदानामावासोपि भवेदित्यर्थः । तथाच श्रुत्युक्तमुपलक्षणमिति द्रष्यव्यम्‌ ॥ खं018 ॥ ततश्ऱ्चयं खण्डार्थः ॥ आदित्य आदित्यस्थः आदानादादित्यनामापरं ब्रह्मेति । आदिश्यते उपदिश्यत इत्यादेशः । आदित्यांर्गतमादित्यनामानं जनार्दनं परंब्रह्मेत्युपासीतेति यावत्‌ । नन्वादित्यांतर्गतस्यैव कुत उपास्तिः कर्तव्येति जिज्ञासायां तस्याण्डान्तर्गत जराय्वादिरूपपर्वताद्यपेक्षयागर्भरूपत्वेनातिशयितत्वादिति वक्तुं तावदण्डोत्पत्तिं निरूपयितुमाह ॥ तस्येत्यादिना ॥ तस्यादित्यान्तर्गतस्य भगवतः उपास्य त्वोपपत्त्यर्थं व्याख्यानम्‌ । सृष्येरिति शेषः । सृष्यिनिरूपणं क्रियत इति यावत्‌ । कारणस्य पूर्वभावं दर्शयितुमाह ॥ असदेवेति ॥ इदमस्य जगतोग्रेपूर्वं प्रलये असत्‌ सद्यते गम्यत इति सत्‌ । नसत्‌ असत्‌ अगम्यं ब्रह्मेवासीदिति वक्तव्यम्‌ । तत्‌ वासुदेवाख्यं रूपं समभवत्‌ माययासम्भोगमकरोत्‌ । तत्तस्मात्पुन्नामकब्रह्मादिमहत्तत्वादिचाण्डमण्डपर्यन्तं निरवर्तताऽजायत । अण्डमपि जतम्‌ । तत्‌ अण्डं संवत्सरस्य कालस्य मात्रां परिमाणं प्रमाणान्तरेयावदुक्तं तावत्पर्यन्तमित्यर्थः । अशयत अनिर्भिन्नस्वरूपमेव स्थितं बभूव । तत्‌ ततः प्रमाणसिद्धसंवत्रकालपरिणामादूर्ध्वं निरभिद्यताधोलोकाश्रयकपालद्वयवत्त्वविवक्षयानिर्भिण्णमिव । नतु निर्भिण्णमेव । प्रमाणान्तरविरोधात्‌ । अन्तर्लोकादिकल्पनाक्षमावकाशविशेषवज्जातमिति भावः । ते लोकाश्रयत्वेन विवक्षिते आण्डकपाले अण्डसम्बन्धिनी ऊर्ध्वाधोभागकपालेरजतं च सुवर्णं चाभवतामधोभागगंरजतमयमूर्ध्वभागगं च सुवर्णमयमित्यभवतामित्यर्थः ॥ 1 ॥ तद्यद्रजतं रजतमयमाणडकपालमधोभागगं सेयं पृथिवी पृथिवीलोकस्तत्र वर्तत इत्यर्थः । अत्र पृथिवीशब्देनातलादयोगृह्यन्ते । लोकत्रयविवक्षायां तेषामपि भूत्वेन विवक्षितत्वादिति ध्येयम्‌ । यत्सुवर्णं वर्णमयमाण्डकपालमूर्ध्वभागगं साद्यौर्द्युलोकस्तत्सम्बद्ध इत्यर्थः । अत्रापि द्युशब्देन महरादीनां ग्रहणम्‌ । अस्याण्डस्य प्रसिद्धां डसाम्यमधिकारिणावश्यं ज्ञातव्यमित्यभिप्रेत्यतत्साम्यमाह ॥ यज्जराय्वित्यादिना ॥ यत्‌ जरायुर्गर्भपरिवेष्यनं तेतत्स्थानीयाः पर्वताः । यदुल्बं कललं सः तत्स्थानीयः समेघोमेघैः सहितोनीहारः । याधमनयः शिरास्ताः तत्स्थानीयाः नद्यः । यद्वास्तेयंतस्य वस्तौभवमुदकं सःतत्स्थानीयः समुद्रः ॥ 2 ॥ अथ यत्तत्‌ तत्राण्डेजायत गर्भरूपं सः तत्स्थानीयोसावादित्यनामातत्संस्थो जनार्दनः । अन्तिररिक्षलोकोप्युभयकपालगलोकमध्यस्थस्तत्र त्यादित्यादिनिरूपणेन निरूपित प्राय इत्यवधेयम्‌ । एवं चैवमुत्पन्नाण्डगर्भरूपत्वादादित्यान्तर्गतस्य भगवत उक्तमुपास्य त्वं युक्तमित्युक्तं भवति । नन्वत्रादित्यशब्देन प्रसिद्ध आदित्य एव किं न स्यात्‌ । न स्यात्‌ । अस्य गायत्ऱ्यादिसर्व वेदावेद्यत्वात्‌ । ब्रह्मादिदेवतोपास्यत्वाच्च । न हीदं प्रसिद्धादित्येसम्भवतीत्याशयेनाह ॥ तंजायमानमिति ॥ तं जायमानं प्रकटीभवन्तं सर्वाणिभूतानि ब्रह्मादीनि उलूलवोति महान्तोनन्ताव्याप्ताश्ऱ्च घोषाः गायत्ऱ्यादयोवेदाः । प्रथमातृतीयार्थे । गायत्ऱ्यादिभिः वेदैः सर्वेच कामाः सर्वैः मंगल द्रव्यैरिति यावत्‌ । अनूदतिष्ठन्नुपासामकुर्वन्यस्मात्तस्मादद्यतनानिसर्वाणिभूतानि सवर्ेकामाः सवैः मंगलद्रव्यैः उलूलवोघोषाः अतिमहद्भिः गायत्ऱ्यादिभिः वेदैः तस्योदयं प्रति । अयनमस्तमयं च प्रतिप्रत्त्यनूत्तिष्ठन्ति नित्यमंजसोपस्थानं कुर्वन्ति ॥ 3 ॥ एवं वेत्तुः फलमाह ॥ स य इत्यादिना ॥ सयः प्रसिद्धो धिकारी एतत्‌ आदित्यान्तर्गतं एवमुक्तरीत्या विद्वान्‌ आदित्यं तत्संस्थं तन्नामकं ब्रह्मेत्युपास्ते एनमधिकारिणं साधवोपौरुषेयाः घोषाः वेदाः अगच्छेयुरिति यत्‌ तदभ्याशः समीप एव शीघ्रमेव सर्ववेदप्राप्तिः भवतीत्यथः । प्राप्ताश्ऱ्चवेदाः न व्मिताभवन्तीत्याह ॥ उपनिम्रेडेरंश्ऱ्चेति ॥ सर्वदा उपवसेयुश्ऱ्चेत्यर्थः । इदमुपलक्षणम्‌ । मुक्तो भवतीत्यपि द्रष्यव्यम्‌ । द्विरुक्तिरुक्तावधारणार्थेत्युक्तम्‌ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य **श्रीमच्छन्दोगोपनिषद्भाष्यस्य टीकायां वेद्यासतीर्थपूज्यपादशिष्यवेदेशभिक्षुविरचितायां पदार्थपौमुद्यां तृतीयोध्यायः ॥ 3 ॥ **

**********************************************************************************************************************

श्रीमद्धनुमद्भीमध्वान्तर्गतवेदव्यासात्मक लक्ष्मीहयग्रीवाय नमः ॥
अपरं ब्रह्मवायुं च परं ब्रह्मसुखाधिकम्‌ । वासुदेवादिरूपं च वामनं चानिशं भजे ॥ 1 ॥ पूर्वं मधुगायत्ऱ्यादि विद्याः परब्रह्मविषयानिरूपिताः । अत्र पुनः परापरब्रह्मविद्यामेव वक्तुमयमध्यायः प्रवर्तते । तत्रादौ परापरब्रह्मविषयां संवर्गविद्यां वक्तुं आख्यायिकामाह ॥ जान श्रुतिरित्यादिना खण्डद्वयेन ॥ अत्र भद्रं सरासाराभिज्ञं अक्षं इन्द्रियं यस्यासौ भद्राक्ष इति कश्ऱ्चित्‌ । तदसत्‌ । श्रुतहानाश्रुतकल्पनाप्रसंगात्‌ । भल्लाक्षेत्यस्यैवायमर्थ इत्यंगीकारे निन्दप्रकरणरिधात्‌ । भल्लाक्षेति मन्ददृष्यित्वं सूचयन्नाहेति त्वद्भाष्यविरोधाच्चेति भावेन तदनूद्य व्याचष्ये ॥ भल्लाक्षेति ॥ जान श्रुतेः ज्योतिरतिक्रम्यगमने तव प्राप्तं दाहं न जानासीति भावेन मन्दाक्ष इति सम्बोधित इति भावः । तथाचोक्तं गीतामाहात्म्ये । प्रकाशमानं पुरतः तेजः पुंजं न पश्यथ जान श्रुतेः महीभर्तुः पुण्यकीर्तेरिति स्पुटमिति । यथाकृतायेत्यादिकमेवं व्याक्षते । द्यूते प्रवृत्तानां येदीर्घदंतादि मया अक्षास्तेषु च तसृषुदिक्षु चत्वारोंऽका भवन्ति । एकां कोद्ययं कस्त्ऱ्यं कश्ऱ्चतुरंक इति । तेचैकाधिकत्वसामान्यात्कलिद्वापरादिनामानः । तथाच द्यूतेकृतायचतुरंकायविजिताया धरेयास्त्रिद्ययाकांकास्त्रेतादिनामानः संयन्त्यन्तर्भवतीति तदसत्‌ । कृतशब्दस्य प्रसिद्धकृतयुगार्थत्व ग्रहणे बाधकाभावेन द्यूताभिनिवेशेनैवं श्रुति व्याख्यानायोगात्‌ । परित्यज्यान्यानिनिदर्शनानिद्यूतदृष्यान्तग्रहणायोगाच्च । नचाक्षेषु शौण्डराजानोऽतो क्षगतचतुरंकनिदर्शनेनैव जानश्रुतिबोधनाय हंसोहंसंबोधितवानिति वाच्यम्‌ । जान श्रुतेः परमधार्मिकत्वेनाक्षासक्तत्वाभावात्‌ । हंसाश्ऱ्चदेवा वा ऋषयोवाजान श्रुतिकृतान्नदानेन तुष्याः समागताः इति त्वयापि व्याख्यातत्वेन तेषामज्ञानासम्भवाच्चेति भावेन स्वयं तद्वाक्यं व्याचष्ये ॥ यथेति ॥ कृतेकृतयुगधर्मेप्राप्तफले सति अनेन चतुर्थीसप्तम्यर्थेत्युक्तं भवति । अधरे यास्त्रेतादय इति पदार्थमभिप्रेत्योक्तं त्रेतादिजयफलमिति । तस्यैव जितकृतधर्मस्यैव । प्रधानजयेऽप्रधानजय्य सिद्धत्वादिति भावः । एवमेनं सर्वं तदभिसमेतीति दार्ष्यान्तिकवाक्यं प्रजानां किमपि साधुकमर्नास्तीति प्रतीतिं निवारयन्व्याचष्ये ॥ एवमिति ॥ स्वाम्यधिकरणन्यायादिति भावः । अंगारे हसयुग्वानमिवरैक्वमात्थेतीत्यत्रानन्वयशंकां वारयितुमंगार इत्येतद्वयाकुर्वन्पेक्षितं पूरयति ॥ अरे इति ॥ अंगेत्यनुवादेनेष्येति व्याख्यानम्‌ । स युग्वेत्यध्याहारः । तथाच कुतो सौ ज्ञातव्य इत्याकांक्षायां यतः स युग्वानमिवरैक्वमात्थेति हंसेनोक्तमिति न तस्यासंगतिरिति भावः । अहंह्यरा इति प्लुतिरनादर इति व्याख्यानमसत्‌ । अनहंकारेण मुनिनावृथाविनयोपागततदनादरकरणायोगात्‌ । इति भावेन तदभिप्रायमाह ॥ अहंहीति ॥ पामानं कषमाणमिति प्रकृतत्वादिति भावः । ततश्ऱ्चायं खण्डाथर्ः ॥ जन श्रुतस्य पुत्रोजानश्रुतिः हेत्यैतिह्ये । पुत्रायणगोत्रापत्यं पौत्रायणः । श्रद्धयादेयं यस्यासौ श्रद्धादेयो बहुप्रभूतं दातुं शीलमस्येति बहुदायी बहुपाक्यो अहन्यहनि अन्नार्थिभ्योबहुपक्तव्यवान्‌ प्रतिष्ठानपुरेराजाऽऽस । अस्तिगोदावरीतीरे प्रतिष्ठानं पुरं महत्‌ । तत्र जानश्रुतिः नाम्नामेदिनावल्लभोऽभवत्‌ । इति वचनात्‌ । स जान श्रुतिः सर्वतः सर्वासु दिक्षुग्रामेषु नगरेषु चाऽवसन्त्येष्वित्यवसथास्तान्‌ मापयांचक्रेकारयामास । जनाः सर्वत एत्यमेममान्नं तेष्वावसथेषु वसन्तोत्स्यन्ति भोक्ष्यन्तीति बुद्धया ॥ 1 ॥ तत्र वसति तस्मित्राज्ञि अत्युच्चसौध भवनमधिरुह्यस्थिते सत्यथ हंसाः देवहंसाः निशायां अन्तरिक्षमार्गेणातिपेतुः विनिर्गताः । ततोन्तरिक्षमार्गेणयूथानां पक्षसंहिताः । मृणालचं च वोदेविदेवहंसाविनिर्गता इति वचनात्‌ । अत्राह ॥ त्वरया गच्छतां तेषामन्योन्यं मर्मभाषिणाम्‌ । भल्लाक्षप्रमुखाः द्वित्राः पुरस्तान्निर्ययुर्जवादिति वक्तव्यम्‌ । तत्तदाहंसोहंसमभ्युवाद । पाश्‌चात्यहंसाः ऊचुस्तान्‌ पुरतो गच्छतो जवादित्यर्थः । हो होयीति सम्बोध्ये भल्लाक्षभल्लाक्षमन्दाक्षमन्दाक्षा । कुतो मन्दाक्षत्वमित्यत आह ॥ जान श्रुतेरिति ॥ जान श्रुतेः पौत्रायणस्य ज्योतिः प्रकाशमानं तेजः पुंजं दीपाध्वररूपं दिवासममाततम्‌ । तदपि त्वं न पश्यसीति भावः । यथोक्तम्‌ । यस्य दीपाध्वरे धूमैः श्यामलाः कल्पशाखिन इति तज्ज्योतिस्त्वामतिक्रम्यगच्छन्तं माप्रसांक्षीः माप्रसांक्षीत्‌ । सम्बद्धं माभूत्‌ । मा प्रधांक्षीः मा प्रधां क्षीत्‌ । मादहत्‌ । तज्ज्योतिरतिक्रम्यगमनेत्वां सम्बध्यदहेदिति भावः । इत्यभ्युवादेति सम्बन्धः ॥ 2 ॥ तं हंसं प्रति पररोग्रगामीहंसः उच्चैः प्रत्युवाच । यथोक्तम्‌ । हंसाहसित्वासावज्ञमूचुवर्चनमुच्चकैरिति । अरेहंसैतद्वचनं कमेनमुद्दिश्यात्थ । सन्तं निर्दुष्यं सयुग्वानं सशकटं रैक्वमिवेति । अननुरूपमस्मिन्नुक्तमेवं वक्तुं रैक्व एव योग्य इति भावः । एवमुक्त इतर आह ॥ य इति ॥ नु इदानीं यस्त्वयोक्तः सयुग्वारैक्वः सकथं किं माहात्म्यवानिति ॥ 3 ॥ पृष्योपर आह ॥ यथेति ॥ यथाकृतायविजितायकृतयुगेविजितेसत्यधरेयास्त्रेतादयः संयन्ति । त्रेतादिजयफलं च तस्यैव भवति एवमेनं रैक्वंयत्किंच प्रजाः साधुकुर्वन्ति । सर्वं तदभिसमेति प्राधान्येन । सर्विघ्ननिवारके महामुनौ तस्मिन्‌ राष्य्रे वसति सति सवर्ाभिः प्रजाभिः निर्विघ्नेन साधुकर्मकरणेन प्राधान्यात्तस्यैव तत्फलं भवति । स्वाम्यधिकरणन्यायादिति भावः । प्राधान्यमेवाह ॥ यस्तद्वेदेति ॥ यः कोप्यधिकारीयज्ज्ञातव्यं वेदतत्सर्वं सरैक्वोवेदेत्यर्थः । उपसंहरति ॥ स इति ॥ सरैक्वोमयैतदेतेन प्रकारेणोक्त इति ॥ 4 ॥ एवं पुरोहंसेनोक्ते सति तदुतत्सर्वं जानश्रुतिः पौत्रायणः उपशुश्रावह । ततः स श्रुतहंसकृतानादरः संजिहान एव शयनीयादुत्तिष्ठेन्नेवक्षत्तशरं सारथिमुवाच । यथोक्तम्‌ । ततः सारथिमाहूयभूपालोविस्मयाश्रयः । सन्दिदेशमहात्मासरैक्व रआनीयतामिति । अरे अंगेष्य । सयुग्वारैक्वोज्ञातव्य इति शेषः । कुतो सौज्ञातव्यः । यतः सयुग्वानमिवरैक्वमात्थेति हंसेनोक्तम्‌ । समग्रहंसवाक्योपलक्षणमेतत्‌ ॥ 5 ॥ यस्त्वयोक्तः सयुग्वारैक्वः सकथमिति क्षत्रापृष्यः पौत्रायणोहंसोक्तं तल्लक्षणमाह ॥ यथेति ॥ 6 ॥ सहक्षत्तान्विष्य तत्रैवेतस्ततोविचार्यनाविदमिति प्रत्येयाय । तं होवाचपौत्रायणः । अरेयत्रप्रदेशे ब्राह्मणस्य ब्राह्मणानामन्वेषणाशास्त्रविचारणाप्रवर्तते तत्तत्रैनमृच्छाऽवगच्छेति ॥ 7 ॥ एवमुक्तः सक्षत्तापुनस्ततोनिर्गत्यवाराणस्यादिसमस्ततीर्थाटनं कृत्वाकुत्रापि तमनुपलम्भमानः काश्मीरनगरमासाद्यतत्र राजद्वारिशकटस्याधस्तात्‌ पामानं कषमाणं कण्डूयमानं रैक्वमवलोक्यराज्ञानिरूपितैश्ऱ्चिह्नैरयमेव रैक्व इति निश्ऱ्चित्योपासमीपेगत्वाप्रणम्योपविवेश । तताचोक्तं गीतामाहात्म्ये । तत्रोपविश्यतं रैक्वं प्रत्यभ्युवादक्षत्ता । हे भगवंस्त्वमेव किं सयुग्वारैक्व इति । एवमुक्तोरैक्वो अहं ह्यरा इति प्रतिजज्ञे । प्लुतिः पामकषणभावेन । किमर्थमत्राविश्रान्तः किंच कर्तुं चिकीर्षसीत्युक्तो वयं पूर्णमनोरथाः । परं केनापि वटुनापरिचर्याविदायिना भवितव्यमित्युक्तवानिति ग्राह्यम्‌ । सह क्षत्तारैक्वमन्निष्याविदमिति राजानं प्रत्येयाय । यथावृत्तं च न्यवेदयत्‌ ॥ 8 ॥ प्रथमः खण्डः ॥ 1 ॥ अहहारेत्वाशूद्रेति रैक्वोक्तेः पौत्रायणः शूद्र इत्यसत्‌ । तथा सति वैदिकसंवर्गविद्याध्ययनायोगात्‌ । नचाधिकाराभावेपि पौयिणोवेदविद्यां विचारयामासेति किं न स्यादिति वाच्यम्‌ । अनधिकारिणं प्रतिमुनेरुपदेशासम्भवात्‌ । नहि गवाद्याशयातस्यापरोक्षज्ञानिनः अन्याय्याप्रवृत्तिः सम्भवति । कथं तर्हि शूद्रेति सम्बोधनमित्यत आह ॥ शुचेति ॥ दीर्घस्वरार्थत्वेनाद्रवणादित्युक्तम्‌ । शुग्द्र एव शूद्रोरुद्र इति वत्‌ । शुचाद्रवणशदेवशूद्रेति सम्बोधितो नतु वर्णावरत्वाभिप्रायेणेत्यर्थः । शुगस्य हंसकृतानादरश्रवणादुत्पन्नेति भावः । तथाच सूत्रम्‌ । शुगस्य तदनादरश्रवणात्तदाद्रवणादिति । ननु शूद्रशब्दः कुतो यौगिकोंगीक्रियते रूढाथर्ः किं न स्यात्‌ । योगरूढ्योरूढेरेव प्राबल्यात्‌ । शूद्रस्यापि वेदविद्याधिकारस्येष्यत्वादित्यत आह ॥ राजेति ॥ अयमश्ऱ्वतरीरथ इति रथित्वलिंगात्‌ । क्षत्तृसम्बन्धाच्च । बाधकवशाद्रूढित्याग इति भावः । राजैव पौत्रायणोनशूद्रः किं तु शोकेनाऽद्रवणादेवशूद्र इत्युक्त इत्यत्र स्मृतिमाह ॥ राजेति ॥ शोकेनाऽद्रवणपरिज्ञानं च मुनेः सर्वज्ञत्वादुपपद्यते । विपक्षेबाधकं सूचयति ॥ प्राणेति ॥ परं धर्ममित्यनेन संवर्गविद्या वेत्तुः श्रुत्युक्तं सार्वज्ञरूपं फलमुपलक्षणमित्युक्तं भवति । श्रद्धादेयत्वादिनाधर्मित्वसिद्धेः परमित्युक्तम्‌ । शूद्रशब्दस्य स्वार्थेतात्पर्यमभ्युपेत्यायं यौगिको व्याख्यात इति ध्येयम्‌ । क्रद्धोक्तित्वेन स्वार्थेतात्पर्याभावेतु रूढत्वेपि न दोषः । यथोक्तम्‌ । ततो विलोक्यतत्सर्वं रैक्वोराज्ञेचुकोपह । रेशूद्रमामकं वृत्तं न जानासिदूरीश्ऱ्वरेति ॥ 6 ॥ ततश्ऱ्चायं खण्डार्थः ॥ तस्मात्‌ क्षत्रारैक्ववार्तया एवमुक्तत्वादेवह । जान श्रुतिः पौत्रायणोगवां षट्‌शतानि निष्कं मुक्ताहारम्‌ । अश्ऱ्वरतीभ्यां युक्तं रथं तदागुरुदक्षिणार्थत्वेनादायप्रतिचक्रमेरैक्वं प्रतिगतवान्‌ । गतः स पौत्रायणःतंरैक्वं प्रत्यभ्युवाद ॥ 1 ॥ हे रैक्वेमानिगवांषट्‌शतानि अयं निष्कोयमश्ऱ्वतरीरथः तव दक्षिणात्वेन वर्तते । हे भगवोभगवंस्त्वं मे ममैतां देवतामनुशाधित्वं यांदेवतां उपास्स इति ॥ 2 ॥ तं राजानं प्रतिपरोलोक विलक्षणोमुनिः प्रत्युवाच । अहेति सम्बोधनम्‌ । हे शूद्र हारः इत्वारथश्ऱ्चगोभिः सह तवैवास्त्विति । हारेत्वेति सेदुराजेत्यादिवत्‌ विसर्गलोपेन भवति । हारेत्वानाविति वा । तथात्वे पृथगन्वयः । हारेण युक्त इत्वाहारेत्वेति वा । तत्तस्मात्‌ रैक्वेणैवमुक्तत्वादेवह । जान श्रुतिः पौत्रायणोल्पं धनमाहृतमिति मुनेः कोप इत्यभिप्रेत्यतदापुनरेव गवां सहस्रं निष्कमश्ऱ्वतरीरथमृषेः भार्यार्थमात्मनोदुहितरं चादायतत्‌ तत्र प्रतिचक्रमे ॥ 3 ॥ स गत्वारैक्वं प्रत्यभ्युवाद । रैक्वेदं गवां सहस्रं अयं निष्कोऽयमश्ऱ्वतरीरथः इयं तव जायायस्मिंस्त्वमास्से अयं प्रग्रामश्‌चतवदक्षिणात्वेन वर्तते । हे भगवोमामां तां देवतामन्वेव शाधिसम्यगेव शिक्षय ॥ 4 ॥ एवमुक्तोरैक्वस्तस्याः जायार्थमानीताया राज्ञो दुहितुः मुखमुपोद्गृह्णन्‌ शनैः पश्यन्नतिक्रुद्धः सन्नुवाच । हे शूद्रत्वमिमागुरुदक्षिणाः अजहार अपहर । विरक्तस्यममतेन प्रयोजनाभावात्‌ । मदभिप्रेतश्ऱ्चपरिचर्याविधायीवटुरेव । सच नानीतः । त्वं तु शूश्रूषयाविनाननेगवादिनैवमुखेन मामाऽलापयिष्यथा अलापयिष्यसीति । इत्युक्ते शापभीते नराज्ञाप्रसादितोरैक्वस्तस्मै होवाच । श्रुतीराज्ञादत्तरैक्वावासग्राम संज्ञामाह ॥ त इति ॥ ते है ते प्रसिद्धाः ग्रामाः । महावृषेषु देशेषु काश्मीरापरपर्यायेषु रैक्वपणर्शनाम । यत्र येषु ग्रामेषु रैक्व अस्मैराजार्थं तदुपदेशार्थमेवोवास ॥ 5 ॥ द्वितीयः खण्डः । किमुवाचेत्यत आह ॥ वायुरिति ॥ वायुः बाह्यः संवर्गस्तृणादेः संवर्जनात्‌ । संग्रहणाद्वेत्यसत्‌ । यां देवतामुपास्येतं मेशाधीति देवताप्रश्ऱ्नोत्तरत्वात्‌ । श्रुतावेवाग्न्यादि देवतासंहारकत्वस्य संवर्गशब्दप्रवृत्तिनिमित्तत्वेनोक्तत्वाच्चेति भावेन प्रमाणेनैव वायुर्वावसंवर्ग इत्येतद्वयाचष्ये ॥ संवृक्त इति ॥ संहरते । महान्तमस्येत्यस्यार्थमाह ॥ महिमेति ॥ देवता इत्यनन्नशब्दार्थः । मर्त्यमन्नमिति वचनेनान्नशब्दस्य मर्त्यवाचकत्वात्‌ । तेवा एते पंचान्ये पंचान्ये दशसन्तस्तत्कृतमिति वाक्यं पंचकद्वयस्य परस्परभिन्नत्वप्रतीतिं वारयन्‌ व्याचष्ये ॥ अध्यात्मेति ॥ दशभूताः पूर्णाः कृतमित्युच्यन्त इत्यर्थः । दशशब्दस्य पूर्णार्थत्वे श्रुतिमाह ॥ दशेतीति ॥ सर्वं पूर्णमिहोच्यत इति स्मृतिश्ऱ्चग्राह्या । अध्यात्माधिदैवत भेदेनावस्थितानां पंच देवतानां पूर्णत्वोपि कृतत्वोक्तिः कथमित्यतो गौण्येति भावेनाह ॥ कृतस्येति ॥ कृतयुगस्य पूर्णधर्मात्मकत्वादित्यर्थः । तस्मात्सर्वासु दिक्ष्वन्नकेवेति वाक्यमप्रतीत्यन्यथाप्रतीति निरासाय व्याचष्ये ॥ तस्मादिति ॥ यस्मादध्यात्माधिदैव भेदेन द्विरूपस्य वायोस्तेषु प्रवेशस्तस्माद्वायुना सह दशसंख्यापूरणाद्दशदिक्ष्वपि स्थिता दशसंख्याकादेवता अन्नमेवेत्यर्थः । वायोरन्नमिति प्रतीतिनिरासाय वायुनासहेत्युक्तम्‌ । एवं तर्हि सैषाविरडन्नादीत्युत्तरवाक्य विरोधः । तत्र ह्युपक्रान्तवायुदेवतान्नादित्वेनोच्यत इत्यत आह ॥ अन्नादीति ॥ नात्रोपक्रान्तो वायुरन्नादित्वेनोच्यते । पूर्ववाक्ये तस्यान्नत्वेनोक्तत्वात्‌ । अन्यथा दशत्वानुपपत्तेः । नहि स एवान्नमन्नादी च । तस्मादन्नादि देवताविष्णुरेव । उपक्रमादप्युपपत्तेः बलीयस्त्वादिति भावः । विराट्‌ विष्णुरित्यनेन विराट्‌ शब्दात्‌ । ब्रह्मान्नादीत्यपि निरस्तम्‌ । तस्या
िप वाय्वत्तृत्वासम्भवात्‌ । ननु विष्णोरन्नादित्वमंगीकृत्यवायोरन्नत्वांगीकारे तदद्यत्वप्राप्त्या अनद्यमानोयदनन्नमत्तीत्यनद्यमानत्वोक्तिविरोध इत्यत आह ॥ अनद्यमान इति ॥ विष्ण्वन्यैः । यदनन्नमत्तीति वायोः सर्वदेवता संहारकत्वोक्तेः कथं तस्य विष्ण्वन्नत्वमित्यतः श्रुत्यर्थनिश्ऱ्चायकं प्रमाणमाह ॥ वायुस्त्विति ॥ 3 ॥ ततश्ऱ्चायं खण्डार्थः ॥ वायुर्वाव मुख्यवायुरेव संवर्गः । कतं यदा वै महाप्रलयेऽग्निरुद्वायति उपशाम्यति तदावायुमेवाप्येति । यदा सूर्योस्तमेति तदावायुमेवाप्येति । यदा चन्द्रोस्तमेति तदावायुमेवाप्येति ॥ 1 ॥ यदाऽऽपः तदभिमानी इन्द्रः यथोक्तं पुस्तात्‌ । उच्छ्रष्यन्ति वायुमेवापि यन्ति । कुतः यतो वायुरेवै तान्‌ संवृक्तेंसंहरतीति हि प्रसिद्धमित्यर्थ; । इत्यधिदैवतं संवगर्स्वरूपं निरूपितम्‌ ॥ 2 ॥ अथाध्यात्मं संवर्गस्वरूपं निरूप्यते । प्राणो मुख्यप्राणः । सः मुख्यप्राणो यदा जीवं प्रस्वापयति तदावाक्‌ प्राणमप्यतीत्यर्थः । स इति बुद्धिस्थ जीवपरामर्शो वा । अत्र वागादिशब्दने तदभिमानिनः प्रागुक्तादेवता उच्यन्ते ॥ 3 ॥ उपसहरति ॥ ताविति ॥ एवं तावेतौ द्वावेव संर्गौ देवेषु वायुरेव प्राणेषु इन्द्रियेषु मुख्यप्राण एवेति ॥ 4 ॥ तत्राख्यायिकामारभते ॥ अथेति ॥ हे त्यैति ह्ये । शौनकं शुनकस्यापत्यं कापेयं कपिगोत्रोद्भवं चाऽभिप्रतारिणं नामतः । कक्षसेनस्यापत्यं काक्षिसेनिंचेत्येतौ परिविष्यमाणौ क्वचिदन्नं परिवेषयन्तौ कश्ऱ्चिद्ब्रह्मचारी विभिक्षेऽन्नं याचितवान्‌ । तौ उभौ तस्मै ब्रह्मचारिणेन्नं न ददतु रुरेव । हेत्याश्ऱ्चर्ये ॥ 5 ॥ तदा स ब्रह्मचायर्ुवाच ह । हे कापेय हे अभिप्रतारिन्‌ योभुवनस्य गोपाः पोप्ता एको देवश्ऱ्च तुरोमहात्मनोधिदैवमग्न्यादीनध्यात्मं वागादीन्‌ जगार जग्रास गॄनिगरणे । यंच तं प्रसिद्धं मत्यर्ेषु बहुधासन्तं मर्त्याः नाभिपश्यन्ति । सकः किं नामा किं महिमाचतदहं जानामि । त्वं जानासिचेत्तद्वद्वेत्यर्थः । तस्मात्‌ यस्मै देवायै तदन्नं प्रसिद्धं तस्मा एतदन्नं न दत्तमिति ॥ 6 ॥ एवं ब्रह्मचारिणोक्ते तदुतदेवशौनकः कापेयस्तत्पृष्यं दैवतं प्रतिमन्वानोविचारयन्‌ प्रत्येयाय व्याजानात्‌ । उवाच च ॥ आत्मेति ॥ हे ब्रह्मचारिन्‌ यस्त्वया पृष्यो देवः देवानामग्न्यादीनामात्मास्वामी प्रजानां जनिताजनयिता पिता हिरण्यदंष्य्रो बभसो भक्षणशीलः । सो न सूरिर्नामतः । अनश्ऱ्चासौ सूरिश्ऱ्चेत्यनसूरिः । तन्माहात्म्यमाह ॥ महान्तमिति ॥ अस्य अनस्य मुख्यप्राणस्य महिमानं महान्तमाहुर्विद्वांसः । कुतः यद्यस्मादसौ स्वयं विष्ण्वन्यैरनद्यमानोऽन्नममर्त्यं सर्व देव जातमत्तीत्यनेनैव प्रकारेण वयमिदं दैवतमुपास्महे । अस्मैवायुदेवताभिज्ञाय ब्रह्मचारिणे भिक्षां दत्तेत्यन्यान्‌ प्रत्याहकापेयः ॥ 7 ॥ एवमुक्ताः केचित्परिवेषकास्तस्मै तदेव भिक्षां ददुर्ह । एवमाख्यकयावायोः सर्वसंहर्तृत्वमुक्तम्‌ । तर्हि स एव सर्वसंहर्ता किं नेति भावेनाहरैक्वः ॥ तेवा इति ॥ तेवा एते अध्यात्माधि दैवभेदेनोक्ताः अग्न्याद्याः वागादयश्ऱ्चवायुनामुख्यप्राणेन च सहपंचान्येपंचान्ये दशसन्तः पूर्णाः सन्तो यतः तत्‌ तस्मात्‌ कृतमित्युच्यन्ते । कृतयुगस्यापि पूर्णधर्मात्मकत्वात्‌ । किंतत इत्यत आह ॥ तस्मादिति ॥ तस्मात्‌ उक्तरीत्यावायुना सह दशसंख्यापूरणात्‌ । सर्वासु दिक्षुदशस्वपि दिक्षुस्थिताः दशपूर्णाः अत एव कृतमित्युक्ताः अग्न्याद्यावागादयश्ऱ्च वायुनामुख्यप्राणेन च सहान्नमेव । त एते कस्यान्नं योवायोप्यत्तेत्यत आह ॥ सैषेति ॥ सैषा वाय्वाद्यन्नादि देवताविराडधिराजनात्‌ विराण्णामाविष्णुरेव । तस्यास्ततदज्ञानेकथमेतदत्तृत्वं स्यादित्य आह ॥ तयेति ॥ तया विराडाख्यदेवतयेदं सर्वं वाय्वादिकं दृष्यम्‌ । सा सर्वज्ञेत्यर्थः । एवं विष्णूपाकस्य तदनुरूपं फलमाह ॥ सर्वमिति ॥ योधिकारी एवं सर्वज्ञत्वेनान्नादित्वेन च विराडाख्यं विष्णुं वेदोपास्ते । अस्यानेनोपासकेनदं स्वयोग्यं सर्वं दृष्यं भवति । सोन्नादश्ऱ्च भवति ॥ 8 ॥ तृतीयः खण्डार्थः ॥ 3 ॥ एवं पररापरब्रह्मविषया संवर्गविद्यानिरूपिता । इदानीं परब्रह्मविषयामेव वासुदेवादिचतुमर्ूर्ति विद्यां आख्यायिका पुरःसरमाह ॥ सत्यकाम इत्यादिखण्डषट्‌केन ॥ ननु गोत्रानिर्णये ब्रह्मण्यानिर्णयात्कथं गौतमः सत्यकामोपनयने प्रवृत्तः शूद्रसंस्कारस्नषिद्धत्वादिति चेन्न । नाहमेतद्वेदभोयद्गोत्रोहमस्मीति वचनेन सत्यकामस्यार्जवं ज्ञात्वानैतदब्राह्मणो विवक्तुमर्हतीति शूद्रत्वाभावनिर्धारण एव तदुपनयनेप्रवृत्तत्वात्‌ । तथाच सूत्रम्‌ । तदभावनिर्धारणेच प्रवृत्तेरिति । आर्जवज्ञानेपि शूद्रत्वाभावनिर्धारणं कथमित्यत आह ॥ आर्जवमिति ॥ ब्राह्मणे ब्रह्माणनयोग्येत्रैवर्णिके साक्षान्मुख्यतः आर्जवं लक्षणमिति शेषः ऋषभाग्निहंसमद्गूनां कथं सत्यकामोपदेष्यृत्वम्‌ । तेषां पश्ऱ्वादित्वादित्यत आह ॥ वायुरिति ॥ वरुणश्ऱ्चेत्यतेते । हंस आदित्योमद्गुप्राण इत्यप्रामाणिकं व्याख्यानमित्यनेनोक्तं भवति । ऋषभाद्युपदिष्याः ब्रह्मणः पादाः प्रकाशवदनं तव ज्ज्योतिष्मदायतनवन्नामानः क इत्यत आह ॥ प्रकाशेति ॥ द्वन्द्वन्ते श्रुतो मतुप्‌ सर्वत्रान्वेति । मूर्तीरूचिर इति सम्बन्धः । कथं तर्हि प्राचीदिकलेत्यादिना प्रत्येकं प्राच्यादीनां कलात्वोक्तिरित्यत आह ॥ प्रत्येकमिति ॥ प्रत्येकं चतुरात्मनोहरेस्तदाख्यकाः प्राचीदिगादिशब्दाभिधेयाः वासुदेवादिकाः मूर्तीरूचिर इत्यन्वयः । तदाख्यत्वेनिमित्तद्वयम्‌ । दिगादिष्वित्यादि । ननु यदि ऋषभाद्यादेवता एव कथं तर्हि तदु पदिष्येन सत्यकामेन गौतमो भगवांस्त्वेवमेकामे ब्रूयादिति प्रार्थ्यते । पूर्वस्मादुत्तमोलब्धः स्वयमेव गुरुर्यदि । गृह्णीयादविचारेणेत्युक्तेरित्यत आह ॥ नेति ॥ यदृच्छयोपदेष्यार एव ते नत्वनेनाचार्यतयास्वीकृताः । अत एव समग्रानुग्रहपुरः सरं वयमेतस्याचार्या इति बुद्धयातैः नोक्तमित्यर्थः । पूर्वानुज्ञातुमृग्यत इत्युक्तेः । सत्यकामस्तानाचार्यत्वेन स्वीकृतोपयोगि । समगुर्वन्तरस्वीकारविषयन्तदिति भावः । तर्हि वाय्वादिभ्यः श्रुतवतापि सत्यकामेन गौतमानुज्ञाप्रार्थनात्‌ गौतमोवाय्वादिसम इति किं न स्यादित्यत आह ॥ ऋषिभ्य इति ॥ गौतमोपि कश्ऱ्चित्‌ ऋषिरिति भावः । अत्र हन किंचन वीयायेत्यनुज्ञाप्रदानवचनमप्रतीतेरनूद्य व्याचष्ये ॥ अत्रेति ॥ श्रुत्वास्थितस्य ॥ खं04-9 ॥ ततश्ऱ्चायं खण्डषट्‌कार्थः ॥ सत्यकामो नामतो जाबालोजबालापुत्रो जबालख्यां स्वमातरमामन्त्रयांचक्रे आकारितवान्‌ उवाच च । हे भवति अहं ब्रह्मचर्यं वेदाध्ययनमुद्दिश्यविदेशंगत्वावत्स्याम्याचार्यकुले । किंततः ममधुनापिनोपनयनम्‌ । ते च गोत्रानिर्णयेनोपनयनं कुर्युरतोहं किं गोत्रोस्मीति । नुवितर्के ॥ 1 ॥ एवं पृष्यासाहैनं स्वपुत्रमुवाच । हे तात त्वं यद्गोत्रोसि एतन्नाहं वेद । कस्मान्नवेत्थेत्यत आह ॥ बह्विति ॥ यतोहं बहुयथेष्यं चरन्तीपरिचारिणीदासी । यौनेत्वामलभे । अतः साहमेतन्नवेद यद्गात्रस्त्वमसीत । जबालातुनामाहमस्मि । सत्यकामोनामत्वमसि । सत्वं सत्यकामो जाबालोस्मीत्येवाचार्याय बअवीथा इति ॥ 2 ॥ ससत्यकामो हारिद्रुमतोऽपत्यं गौतमं गोत्रतः एत्योवाच । भगवति पूजार्हेत्वयिब्रह्मचर्यमुद्दिश्य वत्स्यामीति भावेन भगवन्तमुपेयामिति ॥ 3 ॥ तं होवाच गौतमः । हे सोम्यत्वं किं गोत्रोसि । नु वितर्के । नाधुनापि तवोपनयनसंस्कारः । तदभावेच नाध्ययनम्‌ । गोत्रानिणॅयेच ब्राह्मण्यानिर्णयान्नोपनयनसंस्कार इति भावः । एवमुक्तः स सत्यकाम उवाच । अहं यद्गोत्रोस्मिनाहमेतद्वेद पिता तु नास्त्वेव । अपृच्छंमातरम्‌ । सामामां प्रत्यब्रवीत्‌ । मात्रोक्तमेवाह ॥ नेति ॥ उक्तार्थमेतत्‌ ॥ 4 ॥ एवंसत्यवचनेन सत्यकामस्यार्जवं ज्ञात्वा गौतमस्तं होवाच । एतदार्जव संयुक्तं वचमब्राह्मणस्त्रे वर्णिकेतरः वि सर्वथा वक्तुं नार्हति । आर्जवस्य ब्राह्मणलक्षणत्वात्‌ । त्वं तु सत्याद्ब्रह्मणधर्मभूतात्‌ नागाः नापेतवानसि अतस्त्वं ब्राह्मण एव । अतो नुपनीतं त्वामुपनेष्ये । तदर्तं समिधमाहरेति योजना । तमुपनीयकृशानाम बलानां केषांचिद्ब्राह्मणानां चतुःशतं गानिराकृत्यगोष्ठान्निष्काल्योवाच । षष्ठी द्वितीयार्थे वा । कृशा अबलाः चतुश्शतं स्वकीयागा इत्यर्थः । हे सोम्ये मा अनुसंव्रजेति तागा अरण्यं प्रत्यभिप्रस्थापयन्नुवाच गौतमः । असहस्रेणासम्पूणर् सहस्रेण गोयूथेन सहनावर्तयनप्रत्यागच्छ । किन्तु सम्पूर्ण सहस्रेण सह प्रत्यागाच्छेति । स एवमुक्तस्तागास्तृणोदक बहुलं द्वन्द4वरहितमरण्यं प्रवेश्यताश्ऱ्च तुश्शतसंख्याकागायदायावतावर्षगणेन सहस्रं सम्पेदुः तावन्तं वर्षगणं तत्रैव प्रोवास ॥ 5 ॥ चतुर्थः खण्डः ॥ 4 ॥ अथ गोसहस्रसम्पत्त्यनन्तरमेनं श्रद्धातपोद्धातपोभ्यां सिद्धं सत्यकामं ऋषभः श्रेष्ठोवायुरेव वृषभरूपः संस्तस्मैतुष्यः स्वयमेवागत्याभ्युवादा । सत्यकामा इति । व्यासंगभर्त्सनार्था प्लुतिः । भगव इति ह प्रतिशुश्राव । प्रत्युत्तरमदात्सत्यकामः । हे सोम्यवयं सहस्रं प्राप्ताः स्मः । पूर्णा तव प्रतिज्ञा । अतो नोस्मान्‌ आचार्यकुलं प्रापय ॥ 1 ॥ अहं ब्रह्मणः परब्रह्मणः पादमंशं वासुदेवाख्यं ते तव ब्रवाणीत्येवमुक्तेन सत्यकामेन ब्रवीत्वित्युक्तः तस्मै होवाच । प्राचीदिक्‌ तदन्तर्गतस्तन्नामको वासुदेवः कालब्रह्मपादस्य प्रतीचीस्थः संकर्षणः दक्षिणास्थः प्रद्युम्नः उदीचीस्थोऽनिरुद्ध इति ज्ञेयम्‌ । मुक्तमनुवदन्नुपदिष्यमूर्तेरहस्यं नामा ह ॥ एष इति ॥ हे सोम्येष चतुष्कलः । एवं पुनः वासुदेवादिचतुष्कलोपेतो ब्रह्मणः पादोवासुदेवाख्यः प्रकाशवान्नाम वै ॥ 2 ॥ एवमुपासकस्य फलमाह ॥ स य इति ॥ योधिकारी एतं चतुष्कलं ब्रह्मणः पादमेवं प्रकाशवान्नामेति विद्वान्‌ प्रकाशवानित्युपास्ते । सोऽस्मिन्‌ लोके प्रकाशवान्‌ भवति । न केवलमैहिकमेव । य एतं चतुष्कलं ब्रह्मणः पादमेवं प्रकाशवानित्युपास्ते । स प्रकाशवतो ह वैकुण्ठादीन्‌ लोकान्‌ जयति प्राप्नोति ॥ 3 ॥ पंचमः खण्डः ॥ 5 ॥ स ऋषभः स्वयमेकं ब्रह्मणः पादमुपदिश्य ते तवाग्निः देवतारूपो ब्रह्मणः एकं पादं वक्तेत्युक्त्वा जगाम । स सत्यकामो ह श्ऱ्वोभूते परेद्युः नित्यकर्मकृत्वागा अभिप्रस्थापयांचकाराचार्यकुलं प्रति । ताः शनैः चरन्त्यः आचार्यकुलाभिमुखाः प्रस्थिताः । यत्र यस्मिन्‌ देशे सायं बभूवुः प्राप्तास्तत्र गा उपरुध्य अग्निमुपमाधायसमिधभग्नावाधायाग्नेः पश्ऱ्चात्‌ स्वयं प्राङ्मुखः सन्‌ अग्निमुपोप विवेशऋषभवचोध्यायन्‌ ॥ 1 ॥ तमग्निः प्रत्यक्षः सन्नभ्युवादसत्यकामा इति । तमसौ सत्यकामो भगव इति प्रतिश्रावितवान्‌ ॥ 2 ॥ हे सोम्यते तव ब्रह्मणः पादं संकर्षणाख्यं पुनः चतुष्कलोपेतं ब्रवाणीति । ब्रवीत्वित्युक्तस्तस्मै होवाच । पृथिव्यंतरिक्षद्युसमुद्रस्थास्तदाख्या वासुदेवाद्याः भगवतः संकर्षणस्य कला इत्यर्थः । तस्य रहस्यं नामाह ॥ एष इति ॥ अन्तवान्नभवतीत्यनन्तवानित्यर्थः । शेषं पूर्ववत्‌ ॥ 3 ॥ 4 ॥ षष्ठः खण्डः ॥ 6 ॥ सोग्निर्हसोहंसरूपश्ऱ्चतुर्मुखस्ते ब्रह्मणः एकं पादं वक्तेत्युक्त्वा जगाम । स हेत्यादिपूर्ववत्‌ ॥ 1 ॥ 2 ॥ ब्रह्मणः पादं प्रद्युम्नाख्यं अग्निसूर्यचन्द्रविद्युत्सुस्थितास्तन्नामनो वासुदेवाद्याः प्रद्युम्नस्य कला इत्यर्थः ॥ 3 ॥ 4 ॥ सप्तमः खण्डः ॥ 7 ॥ स हंसोमद्गुर्जलवायसरूपो वरुणस्तेपादं वक्तेत्युक्त्वा जगाम ॥ 1 ॥ 2 ॥ ब्रह्मणः पादमनिरुद्धाख्यं प्राणचक्षुः श्रोत्रमनः स्थास्तन्नामनश्ऱ्चत्वारोवासुदेवाद्याः कालाः अनिरुद्धस्य । अन्यत्‌ पूर्ववत्‌ ॥ 3 ॥ 4 ॥ अष्यमः खण्डः ॥ 8 ॥ स एवं विद्वान्‌ सन्प्रापहाचार्य कुलम्‌ । तं प्राप्तं सत्यकामं आचार्योभ्युवादः । सत्यकामा इति । भगव इति प्रतिश्रावितवान्‌ सत्यकामः ॥ 1 ॥ हे सोम्यत्वं ब्रह्मविदिव वै स्पष्यं भासि । नु वितर्के । कोनुत्वानुशशास । देवोवामनुष्योवेत्युक्त इतरेमनुष्येभ्योन्येदेवामामनुशशासुरिति ह प्रतिजज्ञे । कोन्योभगवच्छिष्यं मां मनुष्यः सन्ननुशासितुमुत्सहेतेत्यभिप्रायः ॥ 2 ॥ यद्यपि देवेभ्यः श्रुतं तथापि भगवानेव मेममकामेशुभार्थं ब्रूयात्‌ ब्रवीतु । कुतः हि यस्मादाचार्यादेव विदिताविद्यासाधिष्ठं साधुतमत्वं प्रापयति प्राप्नोतीति भगवद्दृशभ्यो भगवत्समेभ्यः श्रुतम्‌ । मया त्वाचार्यतया भगवानेव स्वीकृतो न ते देवाः । किन्तु कृपयास्वयमेवागत्योपदिदिशुः । एवमुक्तेतस्मै सत्यकामायै तदेव वक्ष्यमाणमेवोवाच । अत्र देवेभ्यः श्रवणेन किंच नवीयायनापगतं न काचिद्धानिरभूदित्यर्थः ॥ 3 ॥ नवमः खण्डः ॥ 9 ॥ अत्र पुनराख्यायिकापुरुः सरं परापरब्रहमविद्यालमुत्क्रन्तमार्गं च निरूपयति ॥ उपकोसल इत्यादिना खण्डषट्‌केन ॥ तत्र प्राणो ब्रह्मेत्यादौ प्राणाद्यनुवादेन ब्रह्मत्वं विधीयत इति प्रतीतिनिरासाय तदनूद्य व्याचष्ये ॥ प्राण इति ॥ अत्र प्राणो ब्रह्मकं ब्रह्मेत्यादकं नैकविषयं प्राणस्य विज्ञायत्वोक्तेः । कखयोरविज्ञेयत्व वचनात्‌ । प्राणं च हास्मै तदाकाशं चोचुरित्युपसंहारविरोधाच्चेति भावेन भिन्नविषयतां प्रमाणेनैव दर्शयति ॥ अपरमिति ॥ ब्रह्मशब्दस्याप्यमुख्यार्थत्वमुपपद्यते विरोध इति भावः । परब्रह्मप्राप्तेरपरब्रह्माधीनत्वादादौ तन्निरूपणम्‌ । नन्वपरब्रह्मणोपि ज्ञानानन्दात्मकत्वात्कथं कंच खंच परब्रह्म । अपरब्रह्मणो बलररूपत्वे परब्रह्मणस्तदभावप्रसंगश्ऱ्चेत्यतः कखशब्दौ व्याचष्ये ॥ नैजेति ॥ अपराधीनेत्यर्थः । पूर्ण इत्यस्याप्ययमेवार्थः । अतिशयोद्योतकत्वान्नबलांशेपुनरुक्तता । प्राचीव्याख्यानं त्वसाधारणपदार्थमादायेत्यवधेयम्‌ । वाक्यार्थमाह ॥ तदात्मक इति ॥ विष्णुः कमित्युक्त इति खमिति शब्दित इति च वर्तते । ननु प्राणं च हास्मै तदाकाशं चोचुरिति कखयोराकाशत्वोक्तेः कतं विष्णुत्वमुच्यत इत्यत आह ॥ आकाश इति ॥ प्रसिद्धाकाशेकत्वानुपपत्तेरिति भावः । नच कं खाभिन्नं खंचाकाशमिति नानुपपत्तिः । उक्तार्था विवक्षयां कखयोरभेदस्यैवानुपपत्तेः । खं ब्रह्मेति ब्रह्मशब्दानुपपत्तेश्ऱ्च । प्राणं चेति वाक्य किंचित्पूरयन्‌ व्याचष्ये ॥ एवमिति ॥ विजानाम्यहं यत्प्राणो ब्रह्मेत्युक्तौ निमित्तमाह ॥ प्राणशब्दस्येति ॥ अतो विजानाम्यहं यतत्प्राणो ब्रह्मेत्याह । ननु यथाप्राणशब्दस्य वायुरर्थः प्रसिद्धस्तथाककशब्दयोरपि सुखज्ञानार्थत्वं प्रसिद्धमेव । ततश्ऱ्च कं च खं च न विजानामीति कथमुक्तमित्यत आह ॥ कखयोरिति ॥ न कखशब्दयोरथर्ापरिज्ञानेन कंच खंच न विजानामीत्याह ॥ किन्तु भिन्नाथर्त्वशंकयैवेत्यत्तिरवाक्यंमवष्यंभकमाह ॥ अत एवेति ॥ अन्यथाकखशब्दार्थस्यैव निरूपणीयत्वेन तयोरैक्योक्तिरसंगतास्यादिति भावः । ऊछुरग्नयः ॥ ततश्ऱ्चायं खण्डर्थः । उपकोसलोनामतः । कमलायनस्यापत्यं कामलायनः । सत्यकामे जाबालेपूर्वोक्ते । ब्रह्मचर्यमुद्दिश्योवास । स तत्र गुरुकुलेतस्याचार्यस्याग्नीन्‌ द्वादशवर्षाणि परिचचार । सह स्माचार्योन्यानन्तेवासिन श्छात्रान्‌ स्वाध्यायं ग्राहयित्वासम्यगावर्तयंस्तमुपकोसलमेकमेव न समावर्तयति स्महेत्याश्ऱ्चर्यामहतां चित्तवृत्तिरित्याह ॥ 1 ॥ तमाचार्यमाचार्यजायोवाच । ब्रह्मचारीतप्तश्ऱ्चीर्णतपाजातः । कथं कुशलं यथा तथाग्नीन्परिचचारीत्पर्यचरत्‌ । त्वमिमं नोपदिष्यवानेव । त्वातवाग्नयोप्यनेन सेविताः सन्तो मापरिप्रावोचन्‌ । इतःपरं वा प्रब्रूह्यस्मा इति । एवं जायोक्तोपि सत्यकामस्तस्मा उपकोसलाया प्रोच्यैव प्रवासांचक्रेप्रोषितवान्‌ ॥ 2 ॥

सहोपकोसलोव्याधिना मानसे न दुःखेनानशितुमनशनं कर्तुं दध्रेमनः । तमनशनमनस्कमाचार्य जायोवाच । हे ब्रह्मचारिन्नशानमुंक्ष्वकिन्नुकस्मात्कारणान्नाश्ऱ्नासीति । एवमुक्तः स होपकोसलो होवाच । अस्मन्पुरुषेनानात्ययाः नानागतयः कामाः बहवोऽतः कामिताऽप्राप्तिनिमित्तव्याधिभिः प्रतिपूर्णोस्मि । अतो नाशिष्यामीत्युक्त्वा ब्रह्मचारिक्षितूष्णीं भूते ॥ 3 ॥ अथ हाग्नयः कारुण्याविष्याः सन्त स्त्रयोपि समूदिरेपरस्परमूचुः । तप्तो ब्रह्मचारीयतः कुशलं यथा भवति तथा नोस्मान्परिचचारीत्‌ । हन्त इदानीमस्मै ब्रह्मचारिणेवयं सर्वे प्रब्रवाम परापरब्रह्मविद्यामित्येवं प्रतिज्ञायतस्मैहोचुः ॥ 4 ॥ प्राणो ब्रह्मबलरूपं ब्रह्मेत्यपरब्रह्मोपदेशः । कमपराधीन बलाननन्दरूपं ब्रह्म । खन्ता दृग्बलज्ञानरूपं ब्रह्मेति परब्रह्मोपदेशः । एवमुक्तः स उपकोसल उवाचह । यदुक्तं भवद्भिः ब्रह्मेति तदहं विजानामि । प्राणशब्दस्य वायुरर्थ इति प्रसिद्धत्वात्‌ । कखयोभिन्नार्थत्वशंकया कं च खं च तु विशेषाकारेण न विजानामीति ॥ अत एवैक्याभिप्रायेण ते होचुः । यद्वाव कं तदव खंयदेव खं तदेव कमिति । श्रुतिः स्वयमाह ॥ प्राणंचेति ॥ तेग्नयस्तदासम्भूयोपदेशकालेस्मा उपकोसलायप्राणं मुख्यप्राणख्यं अपरं ब्रह्मचाकाशं च पूर्तेराकाशनामकं विष्ण्वाख्यं परं ब्रह्म चोचुः । कं च खमित्युक्तं खं चाकाशमित्यनूद्यत इति न दोष इति ॥ 5 ॥ तशमः खण्डः ॥ 10 ॥ एवमग्निभिः सम्भूयोक्तां परापरब्रह्मविद्यां निरूप्येदानीं पृथक्‌ पृथगुक्तां परब्रह्मविद्यामेव निरूपयति ॥ अथेत्यादिना खण्डत्रयेण ॥ तत्र पृथिव्यग्निरन्नमादित्य इति ममैताश्ऱ्चतस्रस्त नवस्तत्रय एष आदित्येपुरुषो दृश्यते सोहमस्मिगार्हपत्योग्निः यश्ऱ्च गार्हपत्योग्निः स एवाहमादित्येपुरुषोस्मि । एवमापोदिशश्ऱ्चन्द्रमा नक्षत्राणीत्यादिकं व्याख्येयमिति व्याख्यानमसत्‌ । ब्रह्मेत्यस्यानुवृत्तिसम्भवेममैतास्तनव इत्यश्रुतकल्पनायोगात्‌ । अन्यथा उपनिषदोऽब्रह्मविद्यात्वापातात्‌ । नच पृथिव्यादीनां वागार्हपत्यादितनुत्वे किंचिन्मानम्‌ । अस्तिच तेषां ब्रह्मत्वे सम्यङ्मानमित्याशयेन अगमेनैव तद्वयाचष्ये ॥ पृथुत्वादिति ॥ विस्तीर्णत्वात्‌ । विष्णुरिति सर्वत्रानुवर्तते । चापिशब्दावितरेतरसमुच्चये । अंगं शरीरमप्रधानं जगद्वा । आदिरूपतः कारणरूपत्वादौदौ विद्यमानस्वरूपत्वाद्वेत्यर्थः । आदिशब्दाद्भवार्थेत्यप्‌ । आपश्ऱ्च आपालनादेव । दिशश्ऱ्च देशनादेव । नतु तत्तदभेदेनेत्येवार्थः । न विद्यते स्वस्मादन्योराजेत्यनन्यराजोयतस्ततः । चन्द्रमाश्ऱ्च । पूर्तिहेतुतो व्याप्तिहेतुतः । वेदनादेव । य एष आदित्ये य एष चन्द्रमसि य एष विद्युतीति वाक्यत्रयं गार्हपत्यादेरादित्यादेश्ऱ्चेक्यमत्रोच्यत इति व्याख्याननिरासाय व्याचष्ये ॥ य इति ॥ स एवेति शेषः । किमेवमन्तर्याम्यैक्यपरत्वग्रहणे । गार्हपत्यादेः जीवस्यादित्यादि जीवैक्यमेवोच्यत इति किं न स्यादित्यत आह ॥ जीवैक्येति ॥ जीवैक्य पक्षे गार्हपत्यादि जीवानां आदित्यादि जीवानां चैक्यपक्षे । यद्युक्तरीत्या जीवैक्यमत्र विवक्षितं स्यात्तर्हि य एष आदित्यः पुरुष इत्यादि प्रथमानिर्देशः स्यात्‌ । नत्वादित्य इत्यादिसप्तमीनिर्देशः । तेनादित्यादिस्थ पुरुषैक्यलाभेपि नादित्याद्यैक्यं लभ्यते । आदित्यादि शब्दानां च तत्तन्मण्डल परत्वांगीकारे वृथा मुख्यार्थत्याग इति भावः । यद्वा आदित्ये पुरुष इत्याद्युक्त ब्रह्मणो जीवैक्यपक्षे । यच्चोक्तं पृथिव्यग्निरन्नमादित्य आपोदिशोनक्षत्राणि चन्द्रमा इत्यादा वुक्ता एवादित्य चन्द्रविद्युतो य एष आदित्य इत्यादिनोत्तरवाक्ये कथ्यन्त इति तदसति भावेनाह ॥ पृथिवीति ॥ सप्तम्यर्थ एकः प्रथमार्थश्ऱ्चैक इति द्वौ प्रतीयेते । तस्मान्नपूर्ववाक्योक्त एवात्रोक्त इति भावः । यद्वा तर्हि पृथिव्यग्निरन्नमादित्य इत्यादिकं परमित्ययुक्तम्‌ । तत्रादित्य चन्द्रमोविद्युच्छब्दानां श्रवणात्‌ । तेषां चोत्तरवाक्ये जीव परत्वात्‌ । न चैकस्मिन्नेव प्रकरष ज्ञापकं विनैककेनैव शब्देनभिन्नार्थग्रहणं युक्तमित्यत आह ॥ पृथिवीति ॥ यत एवं भिन्नविभक्तिनिर्दिष्यत्वं ज्ञापकमस्ति अतोत्र प्रकरणे पूर्वोत्तरादित्यादि शब्देन नैकं वस्तूच्यत इत्यर्थः । किंच विशिष्यजीवैक्यं त्वत्पक्षे पिनास्ति । लक्षणया चैतन्यैक्यांगीकारस्त्वगतिकागतिरिति भावेनोपसंहरति ॥ अत इति ॥ एवं बाधकस्भावात्सोहमस्मीति वाक्येन न जीवैक्यमुच्यत इत्यर्थः । किंच चैतन्यैक्यमपि सोहम्मीति पूर्ववाक्येनैव बोधितमिति स एवाहमस्मीति व्यर्थम्‌ । नहि यद्येनाभिन्नं तत्तेन भिन्नमिति सम्भवतीति भावेन स्वपक्षेतं दोषमुद्धरति ॥ स एवेति ॥ सत्यपि धर्मविदुरयोरैक्येस्त्येव विशेषः परस्परगताशेषाननुसन्धानरूपः । तत्र सोहमस्मीति गार्हपत्याद्यन्तर्यामिणः सूर्याद्यन्तर्याम्यैक्योक्तौ धर्मविदुरादिसाधारण्यशंकायां तन्निरासाय स एवाहमस्मीति सावधारणोक्त्योक्तसर्वविशेष विनिर्मुक्तमेवैक्यं बोध्यत इत्यर्थः । तर्हि स एवाह मस्मीति सावधारणैक्योक्त्यैव सर्वविशेषविनिर्मुक्ताभेद सिद्धेः सोहमस्मीति पूर्वं व्यर्थमित्यत आह ॥ पूर्वमिति ॥ अन्तर्याम्यभेदेन्तर्यामिण्यहमादिशब्दप्रवृत्तिं स्मारयति ॥ अहमिति ॥ प्रसिद्धिविरोध इत्यत आह ॥ तत्सम्बन्धादिति ॥ समागर्षाधिकरणन्यायेनेति भावः । तस्माद्वेदगता अहमस्म्यादिकाः शब्दाः हरावं तर्यामिरूप एव वर्तन्ते । मुख्या सम्भव एवामुख्यस्य ग्राह्यत्वादिति भावः । एतेन प्राणो ब्रह्मकमिति विद्यां पृथिव्यग्निरन्नमादित्य इत्यादि विद्यां चोक्त्वोत्तरखण्डेऽग्निभिरुपकोसलैषा सोम्यतेऽस्मिद्विद्या चात्मविद्याचेत्युक्तत्वेन आद्याब्रह्मविद्याद्वितीयाग्निद्यैवेति युक्तमित्यपि निरस्तम्‌ । अस्माद्विद्येत्यस्यान्तमिविद्येत्यर्थोपपत्तेः । एवं तर्ह्यत्मविद्येति पृथगुक्तिविरोधः । अन्तर्यामिणोप्यात्मत्वादित्यत आह ॥ अस्मच्छब्दोदित इति ॥ जनार्दन इति द्विविधम्‌ । उपकोसल इति तादर्थ्ये सप्तमी । किंच पृथिव्यग्निरित्यादि विद्यामुक्त्वाऽपहते पापकृत्यामित्यादिना तज्ज्ञानान्मोक्षः श्रूयते । नह्यग्निज्ञानान्मोक्ष उपपद्यते । नन्वपहतपापकृत्यत्वादीनां मुख्यानां सारिण्यसम्भवेपि नास्यापरपुरुषाः क्षीयन्त इत्युक्तं भृत्यवत्त्वं सम्भवेत्येवेत्यतस्तदपि मुक्तज्ञापकतयैवानूद्य व्याचष्ये ॥ नास्येति ॥ द्वौ नञाविति न्यायसाम्येन भृत्यवानेवेत्युक्तम्‌ । नतु कदाचित्‌ अभृत्यः संसारिणस्तु कदाचिदभृत्यत्वदर्शनान्ननियम इति भावः । स्वर्गादि लोकित्वं संसारिणोपीत्यतस्तदपि मुक्तज्ञापकतया व्याचष्ये ॥ लोकीति ॥ मुख्यासम्भव एवामुख्याश्रयणमिति भावः ॥ 1 ॥ को नुमाऽनुशिष्याद्‌जभो इतीहावेव निह्नुत इति वाक्यस्य कोनुमानुशिष्यात्‌ त्वयि प्रोषित इत्यपि निह्नुत इवेति व्याक्यानमसत्‌ । गुरुं प्रति सोल्लुण्ठव च नायोगादिति भावेन वाक्यभेदमंगीकृत्येहावेवेति पाठमनुसृत्य इहावे इत्यत्र विग्रहं दर्शयति ॥ इ हचेति ॥ इहापेति शाखान्तरपाठस्याप्ययमेवार्थः । पदार्थमाह ॥ इहेति ॥ वाक्यार्थमाह ॥ मानुषेति ॥ पूर्वं बहुवचनप्रयोगेपि अत्र द्विवलनप्रयोगोजात्यभिप्रायेण निह्नुत इति द्विवचश्रवणात्‌ । भगवन्तमित्यध्याहारः । वशब्दार्थः एवेति । तथाच कोनुमानुशिष्यादित्यस्य कोवामानुष्यो वाऽसुरोवामामनुशिष्यात्‌ । न कोपीत्यर्थ इति भावः । तर्हि कोनुत्वानुशशासेत्यस्य किमुत्तरं जातमित्यतः परिशषसिद्धमर्थमाह ॥ अत इति ॥ केते देवा इत्याकांक्षायां इमे नूनमित्यादिकं प्रआप्तमिति भावेनेदृशा अन्यादृशा इति पदार्थवाह ॥ ईदृशा इतीति ॥ ईदृशा इत्यस्य परिदृश्यमानभूताग्निवत्‌ वर्णतो ज्वालावर्णा इत्यर्थ इत्यर्थ इति शेषः । अन्यादृशाः भूताग्निविलक्षणा इति पदार्तमभिप्रेत्य वैलक्षण्यमेवोक्तं करोति । एतेन इमेऽग्नयोमयापरिचरिता उक्तवन्तो नूनम्‌ । यतस्त्वां दृष्ट्वा वेपमाना इवे दृशादृश्यन्ते । पूर्वं अन्यादृशाः सन्त इति व्याख्यानमसदित्युक्तं भवति । उपकरोसलेन स्वगुरुंप्रति निश्ऱ्चितार्थस्यैव वक्तव्यत्वेन अनुभवचौर्यायोगात्‌ । अग्नीनां सत्यकामादुत्तमत्वेन तच्छिष्यमुपदिश्यापि वेपमानत्वासम्भवाच्च । तथाचोक्तम्‌ । ऋषिभ्यस्तूत्तमादेवा इति । पृथिव्यग्निरन्नमादित्य इत्यादीनि नामा वाचकानां श्रवणात्‌ । विष्णोः चन्द्रदिसर्वदेवतानामवत्त्वात्‌ । योदेवानामिति श्रुतेः इत्यर्थः । यद्यपि नामानि सवर्ाणीति श्रुतेरेवोदाहणणं युक्तम्‌ । तथापि युक्तिकथनाथर्मेवमुक्तम्‌ । आदित्यशब्दस्यादिमत्त्वेपि मध्यवाक्यस्थः चन्द्रशब्दग्रहणं पूर्वोत्तरसंग्रहाभिप्रायेण । पृथिव्यादिनाम्नां देवतावाचकत्व विवादाभिप्रायेणेदम्‌ । यद्वा पृथिव्यादि सर्वनामानिविष्णोः एवेत्यत्र श्रुतिमेवाह ॥ चन्द्रादीति ॥ तथाच विष्णोः एव पृथिव्यादिसर्वनामानीति प्रतिज्ञा तत्र हेतुः श्रुतेः चन्द्रादि सर्वनामवत्त्वात्‌ । सर्वनामवत्त्वगमादिति योजना ॥ खं0-11-14 ॥ नन्वंन्तर उपपत्तेरित्युक्तन्यायेनाक्षिस्थस्य विष्णत्वादेतस्मिन्न किंच न शिष्यतीत्युक्तमसंगत्वं तस्यैव । ततश्ऱ्च तद्यद्यप्यस्मिन्सर्पिर्वेति वाक्ये चक्षुषोऽसंगत्ववचनमसंगतमित्यत आह ॥ असंगेति ॥ अनेन य्मादेवं पुरुषो क्षणिविद्यते तत्तस्मादस्मिंश्ऱ्चक्षुषि यदि सर्पिर्वोदकं वाकश्ऱ्चित्सिंचति तर्हि वर्त्मनीप्रत्येवगच्छति न चक्षुः स्पृशतीति वाक्यं व्याख्यातम्‌ । उक्तमर्थं प्रमाणेन द्रढयति ॥ यत्स्थानत्वादिति ॥ अनेन वामन एव चक्षुस्थ इत्युक्तं भवति । इमं मानव मावर्तं नावर्तन्त इत्यस्य इमं मानवं मनुसम्बन्धिनां आवर्तं संसारं नार्वतं त इत्यर्थ इत्यसत्‌ । मनुसम्बन्धि संसाराप्राप्तावप्यन्यसंसार प्रसक्तेरिति भावेन अनूद्य व्याचष्ये ॥ इममिति ॥ यत्र संसारे । अत्र आवतर् शब्दो यदि भावे घञन्तः । तदा गमकत्वाद्वयधिकरणो बहुव्रीहिः । यद्यधिकारणे घञन्तः तदा षष्ठीतत्पुरुषः । उभयत्रापि समासेच्छान्दसोमुमागम इत्यवधेयम्‌ । चक्षुस्थ भगवज्ज्ञानिनः सर्वथा संसारप्राप्त्यभावे प्रमाणं चाह ॥ चक्षस्थिमिति ॥ ततश्ऱ्चायं खण्डार्थः ॥ अथ सम्भूयोपदेशानन्तरमेनं उपकोललं गार्हपत्योऽनुशाशस । किमिति । पृथिव्यग्निरन्नमादित्य इति । कं ब्रह्मेत्यतो अनुवृत्तस्य ब्रह्मेत्यस्य सर्वत्रान्वयः । पृथुत्वादिना पृथिव्यादिनामकं ब्रह्मेत्यर्थः । एवं व्याप्तात्मविद्यामुक्त्वा स्वान्तर्यामिवद्यामह ॥ य इति ॥ आदित्ये य एष पुरुषः पूर्णषड्‌गुणो भगवान्‌ दृश्यते दिव्यदृष्यया सोहमहेयत्वादहं नामा गार्हपत्यस्थोस्मि । आदित्यस्थस्य मदन्तर्यामिणश्ऱ्च न विदुरधर्मावत्‌ अभेदः । किन्तु न कोपि विशेष इति भावेनाह ॥ स एवेति ॥ 1 ॥ उपासकस्य फलमाह ॥ स इति ॥ योधिकारी एतं व्याप्तमन्तर्यामिणं च विष्णुं विद्वान्‌ उपास्ते । स पापकृत्यामपहते लोकीभगवल्लोकी भवति । अत एव सर्वमायुरेति । ज्योक्‌ सर्वज्ञः सन्‌ जीवति । अस्योपासकस्यापरपुरुषाः भृत्याः न क्षीयन्ते । भृत्यवानेव भवति । भृत्याशासनमेवाह ॥ उपेति ॥ यः एतमेवं विद्वानुपास्ते । तं वयं सर्वे अस्मिंश्ऱ्चामुष्मिंश्ऱ्च लरोके उपभुंजामः उपजीवाम इति । एवमुत्तरखण्डद्वयमपि व्याख्येयम्‌ ॥ 6 ॥ एकादश-द्वादश-त्रयोदश खण्डाः ॥ 11 ॥ 12 ॥ 13 ॥ एवं सम्भूय प्रत्येकं चोपदिश्यते होचुः हे सोम्योपकोसलते तुभ्यमेषास्मद्विद्यांर्यामि विद्यात्मव्यिसर्वगतात्मविद्याचोपदिष्या । एष तु ज्ञेयैव । नतु त्वयोपास्या । अत आचार्य एव ते तव गतिं गम्यत इति गतिरुपास्यं मार्गं गम्यं च वक्तेति । आजगामहास्याचार्यः । तमाचार्योभ्युवाद । उपकोसला इति । भगव इति ह प्रतिशुश्रावोपकोसलः । हे सोम्य ते मुखं ब्रह्म विदोमुखमिव सुप्रसन्नं भाति कोनुत्वानुशशासनुवितर्के । देवोवान्योवेत्युक्तमाह ॥ भोमामां कोनुमनुष्योऽसुरोवानुशिष्यात्‌ । न कोपि । कुतः इह चावचेहावे । इहेति मनुष्यलोकस्थ उच्यते । अवेति पातालस्थः । मानुषासुरौ भगवन्तं निह्नत एव न वक्तुं समर्थौ । अतो देवा एवमामनुशासुरित्यर्थः । केतेदेवा इत्यत आह ॥ इम इति ॥ ईदृशाः वर्णतः परिदृश्यमानाग्निवत्‌ ज्वालावर्णाः अन्यादृशाः करिशिरश्ऱ्चरणादिमन्तः इमे ध्याक्षाः नूनं निश्ऱ्चयेन मामनुशशासुः । वेदपुरुषः स्पष्यं तदुपदेष्यृनाह ॥ इतीति ॥ इत्यनेन प्रकारेणे हाचार्य समीपे अग्नीन्‌ स्वात्मोपदेष्यृ
न्‌ अभ्यूद उपकोसलः । अग्निभिः उक्तमनूदितवानित्यर्थः । एवमुक्तः सत्यकामो हे सोम्य ते अग्नयोलोकान्‌ सर्वाधारान्‌ प्राणसर्वगतान्तर्यामिरूपानेवावश्यं वेद्यान्किलावोचन्‌ । ते तु त्वया ज्ञेया एव । नोपास्याः । न वागम्याः । अहंतु ते तव तद्वक्ष्यामियदुपास्यं येन पथायत्‌ गम्यं च । वक्ष्यमाणं स्तौति ॥ यथेति ॥ एवं विदिवक्ष्यमाणापरोक्षज्ञानिनि । ब्रवीतु भगवानित्युक्स्तस्मै होवाच ॥ 3 ॥ चतुर्दशः खण्डः ॥ 14 ॥ य एषो क्षण्यन्तः पुरुषो दृश्यते दिव्यदृष्ययैष आत्मावामनाख्य इति होवाच । एतदमृतं स्वतो नित्यमुक्तं अभयं स्वतो भयशून्यमेतद्ब्रह्म गुणपूर्णमेतस्मिन्‌ भगवति न किमपि श्ऱ्लिष्यति । असंगोसावित्यर्थः । यत्स्थानत्वाच्चक्षुषोप्यसंगत्वं किं तस्येति भावेन चक्षुषोऽसंगत्वमाह ॥ तद्यदीति ॥ यद्यस्मदेवं असंगः पुरुषो क्षणिविद्यते तत्तस्मादस्मिंश्ऱ्चक्षुषि यदि सर्पिर्वोदकं वाकश्ऱ्चित्सिंचति तर्हि वर्त्मनीप्रत्येव गच्छति । न चक्षुःस्पृशतीत्यर्थः ॥ 1 ॥ एवं भगवतः स्थान शक्तिमभिधायस्वरूपशक्तिं चाह ॥ एतमिति ॥ एतं चाक्षुषं वामनाख्यं भगवन्तं संयद्वाम इत्याचक्षते विद्वांसः । कुतः हि यस्मादेतं सर्वाणि वामानि सौन्दर्याण्यभिसंयन्ति । प्रविशन्ति तथोपासकस्य अनुरूपं फलमाह ॥ सर्वाणीति ॥ एष एव चाक्षुषः पुरुषो मुख्यतो वामनिरित्युच्यते । कुतः यस्मादेष सर्वाणि वामानि रमादिगतसौन्दर्याणि नयति प्रापयति । पूर्ववत्फलमाह ॥ सर्वाणीति ॥ सर्वाणि स्वावरगतानि ॥ 2 ॥ एष एव चाक्षुषः पुरुषो भामनिरित्युच्यते । कुतः हि यस्मादेष सर्वेषु भाति दीप्यते । सर्वेष्विति फलम्‌ ॥ 3 ॥ 4 ॥ एवं उपकोयसलोपास्यं भगवद्रूपं निरूप्यतद्विद्याफलत्वेन समार्ग ब्रह्मप्राप्तिं चाक्षुष पुरुष वेत्तुः महिमानं प्रकाशयन्निरूपयति ॥ अथेत्यादिना ॥ अथेत्यथर्ान्तरे । यदुचयद्यपि अस्मिन्‌ ज्ञानिनिमृते शव्यंशवसम्बन्धिकर्मकुर्वन्त्येव तदीयाः यदुचनैव कुर्वन्ति । तथापि ते ज्ञानिनः सर्वथा स्वज्ञानप्रसन्न भगवत्सामर्थ्यात्‌ । हृदयाग्रप्रज्वलनप्रकाशितद्वारेण ब्रह्मनाड्यादेहादुत्क्रान्ता अर्चिषमर्चिर्नामकमुर्ध्वलोकं सम्भवन्त्येव प्राप्नुवन्त्येव । अत्र अग्निज्योतिरिति द्वेधैवार्चिषः इत्युक्तमनुसन्धेयम्‌ । तत्र कंचन कालं स्थित्वा तेन पूजिताः अर्चिषोर्चिर्लोकादाति वाहिकाख्यवायुलोकं प्राप्यततोऽहरभिमानि देवतालोकं प्राप्नुवन्ति । अह्नः आपूर्यमाणपक्षं पूर्वपक्षाभिमानि देवतालोकं आपूर्यमाणपक्षाद्गच्छन्यान्षण्मासानुदङ्‌ङेत्यादित्यस्तान्मासानुत्तराणाभिमानि देवता लोकं मासेभ्यः तेभ्यः संवत्सराभिमानि लोकं संवत्सरात्तटिद्वरुणप्रजापति प्राप्तिद्वाराऽऽदित्यमादित्याच्चन्द्रमसो वैश्ऱ्वानरेन्द्रध्रुवद्वारा विद्युतं विद्युन्नाम्नीं भारतीं प्राप्नुवन्ति । ततस्तस्याः पुरुषो भर्तामानवोमननान्मनुर्भगवांज्ञानिनो देवयान ब्रह्मयानाख्य मार्गान्तरोक्तेः कथमेदित्यत आह ॥ एष इति ॥ देवपथो ब्रह्मपथ इत्येष एवोच्यते । मार्गान्तरं वाव्यावर्तयति ॥ एष इति ॥ देवैरधिष्ठितः पन्थादेवपथः ब्रह्मप्राप्तिहेतुः ब्रह्मपथः । एष एव नत्वन्योस्ति । एवं ब्रह्मप्राप्तस्य पुनः संसारप्राप्तिरस्ति किं नेत्याह ॥ एतेनेति ॥ एतेन खलु मार्गेण परमपरं वा ब्रह्मप्रतिपद्यमानाः इमं मानवमावर्तं मानवायत्रावर्तन्ते समानवावर्तः संसारः तं मानवावर्तं नार्वर्तन्त इत्यर्थः ॥ पंचदशः खण्डः ॥ 15 ॥ वायुः वावसंवर्गः प्राणो ब्रह्मेत्यपरब्रह्मविद्योक्ता । तद्विषयं विद्यान्तरमाह ॥ एष हेत्यादिना ॥ क्रियाकलापरूपत्वाद्यज्ञस्यैष हवैयज्ञो योयं पवत इति कथमुक्तमित्यत आह ॥ यज्ञेति ॥ यज्ञाख्यत्वेनिमित्तं यज्ञाभिमानी यज्ञेप्रतिष्ठित इति । यदेष यन्निदं सर्वं पुनाति तस्मादेष एव यज्ञ इत यज्ञशब्दनिर्वचनरूपं वाक्यं व्याचष्ये ॥ यन्नयमिति ॥ अस्तु य इत्यस्य यन्‌ गच्छन्नित्यर्थः । यातेः गत्यर्थत्वप्रसिद्धेः । ज्ञ इत्यस्य पावनाख्यशुद्धभावः कथमर्थ इत्यतो धातुं पठति ॥ ज्ञेति ॥ धतोरिति शेषः । धातोः ज्ञशब्दः पावनार्थो वागम्यते यत इत्यर्थः । तस्य मनश्ऱ्चवाक्‌ चवर्तनी इत्येतत्‌ वाङ्मनसयोः मार्गत्वमुच्यत इत्यतस्तद्दशर्यन्नेव तयोरन्यतरां मनसासंस्करोति ब्रह्मेत्येतद्वयाचष्ये ॥ दक्षिण इति ॥ वाचाहोता ध्वयुरुद्गातान्यतरामित्येतद्वयाचष्ये ॥ मौनेन पूजकत्वादित्यर्थः । यदन्तरातन्मध्ये । ननु वायुपादमुपक्रम्य यज्ञपादस्य लोपकत्वकथनमसंगतमित्यत आह ॥ वागिति ॥ प्रतिमापाद लोपेदेवतापादलोपोपचार इति भावः । अथ यत्रोपाकृत इत्यादेः तात्पर्यमाह ॥ ध्यायन्निति ॥ ध्यायन्नेव हरिंचेत्यनेन अस्याविद्यायाः शास्त्र दृष्यया भगवत्परत्वमुक्तं भवति ॥ खं0-16 ॥ योयं पवतेमुख्यवायुरेष यज्ञोयज्ञनामको यज्ञाभिमानी यज्ञेस्थितः । हवा इति श्रुत्यादि प्रसिद्धिं दर्शयति । वायौ यज्ञशब्दं निर्वकतुं वायुस्वभावं निरूपयति ॥ एष इति ॥ एष वायुर्यन्‌ गच्छन्निदं योग्यं सर्वं पुनातिशुद्धं करोति । किंतत इत्यत आह ॥ यदिति ॥ यद्यस्मात्‌ एषः यन्दिं सर्वं पुनाति तस्मादेष एव यज्ञोयज्ञाख्योमुख्यतः यज्ञमूर्तेः वायोः पादावस्थिति स्थानमाह ॥ तस्येति ॥ तस्य वायोः वर्तनीवर्तते गच्छत्याभ्यामिति वर्तनीपादौ मनश्ऱ्च वाक्चऋत्विजां मनोवाक्‌ संस्थौ । तत्र दक्षिणो मनस्थो वामोवाक्‌ संस्थ इति ज्ञेयम्‌ ॥ 1 ॥ तयोः पूजकानाह ॥ तयोरिति ॥ तयोः पादयोः मध्येऽन्यतरां वर्तनिन्ददक्षिणं पादं ब्रह्माब्रह्माख्य ऋत्विक्‌ मनसामनोव्यापरेण मौनेनैव संस्करोति पूजयति । संस्कर इति पाठे पूजक इत्यर्थः । हो ताध्वर्युः उद्गाता चेति त्रयोन्यतरां वर्तनिं वामपादं वाचामन्त्रोच्चारणेनैव संस्कुर्वन्ति । ब्रह्मणः कदामौनं तद्भंगेच किमित्यत आह ॥ स इति ॥ एवं मौनेन वायुपूजकत्वात्‌ स ब्रह्मा यत्र यदाप्रतरनुवाके शस्त्रे उपाकृते उपक्रान्ते परिधानीयायाः कर्मसमापिकाया ऋचो जपादिति यावत्‌ । पुरापूर्वं व्यपवदति वाचमुत्सृजेत्‌ ॥ 2 ॥ होत्राद्यास्तु अन्यतरामेव वर्तनिं वाचा संस्कुवर्न्ति । तदान्यतरावर्तनिः दक्षिणः पादो हीयते । यज्ञपादस्य लुप्तत्वात्‌ । यज्ञपादहान्या भवमनर्थं सदृष्यान्तमाह ॥ स इति ॥ सः वक्ष्यमरणो दृष्यान्तो यथा एकपात्पुरुषो व्रजन्‌ रिष्यति यथा वैकेन चक्रेण वर्तमानोरथोरिष्यति । एवमस्य यजमानस्य यज्ञोरिष्यति नश्यति । यज्ञं रिष्यन्तमनुयजमानोपिरिष्यति । यज्ञनाशेपि यजमानस्य अध्यक्षत्वात्‌ कथमेतदित्यत आह ॥ स इति ॥ 3 ॥ यस्मादेवं ब्रह्मणो मौन परित्यागेऽनर्थोथ तस्माद्यत्र यदा प्रातरनुवाके उपाकृते परिधानीयायाः पूर्वं ब्रह्मन व्यपवदति । तदोभे एव वर्तनीसंस्कुवर्न्ति ऋत्विजः । एवं च न हीयतेन्यतरा ॥ 4 ॥ किंतत इत्यतः सदृष्यान्तं ततो भवं पुरुषार्थमाह ॥ स यथेति ॥ व्याख्यातप्रायम्‌ ॥ 5 ॥ षोडशः खण्डः ॥ 16 ॥ अत्र प्रमादात्‌ ब्रह्मदि ऋत्विजां मौनादिनियमभंगे प्रायश्ऱ्चित्तं व्याहृतिहोमरूपं व्याहृति महिमाखिघान पुरःसरमाह ॥ प्रजापतिरित्यादिना ॥ अप्रतिपत्तिविप्रतिपत्तिनिरासायाग्निं पृथिव्यावायुमन्तरिक्षादादित्यं दिव इति वाक्यं प्रमाणेनैव व्याचष्ये ॥ अग्निरिति ॥ सूर्यश्ऱ्चेत्येत्रयः । प्रधानवायुग्रहणेव वायोः यजूंषीत्युक्तमनुपपन्नमिति भावः । अग्नेः ऋच इत्यादिवाक्यं व्याचष्ये ॥ अग्नेरिति ॥ भूरित्यृग्भ्य इत्यादि व्याचष्ये ॥ वराहेति ॥ तेषां रसा इत्यनुवर्तते । तद्यदृक्त इत्यादिपर्वशेष तात्पर्यमाह ॥ व्याहृतिभिरिति ॥ ततो व्याहृतीनां भगवन्नामत्वात्‌ । उदक्‌ प्रवणो यज्ञ इत्यत्र यज्ञस्योदीचीदिक्प्रवणत्वमुच्यत इति प्रतीतिनिरासाय तदनूद्य व्याचष्ये ॥ उदगिति ॥ प्रावण्यस्य चेतनधर्मत्वेन यज्ञस्य तदपि कथमित्यत आह ॥ ऊर्ध्वेति ॥ यतो यत आवर्तते तत्तद्गच्छतीत्येतद्वयाहति परिहाराय वृत्तौ गमनेच निमित्तं दर्शयन्‌ व्याचष्ये ॥ यज्ञस्येति ॥ स्थानात्‌ यज्ञकरणेन प्राप्तुं प्रसक्तादिति शेषः । ब्रह्मैवैकर्त्विक्कुरूनश्ऱ्वाभिरक्षतीत्येतत्कुरूनित्यस्य देशविशेषपरत्व प्रतीतिं निवारयन्‌ संगतत्वेन व्याचष्ये ॥ तदिति ॥ तत्तस्मादेवं विदोब्रह्मण एवावृत्तस्थान प्रापणसथर्त्वादित्यर्थः । एक एव ब्रह्माख्यर्त्विक्‌ कर्तुरेकत्वाद्बहुवचनं कथमित्यत उक्तं यजमानादीनिति । वाक्यशेषतथा श्रवणादिति भावः । योद्धुमारूढा अश्ऱ्वाव डवायथाभिरक्षतीत्यसत्‌ । बह्व श्रुतकल्पनापत्तेः । एवं सति रक्षतीत्यनन्तरमेवास्य वक्तव्यत्वाच्च । अतो ब्रह्मण एवेदं विशेषणमिति भावेन तदनूद्य व्याचष्ये ॥ अश्ऱ्वेति ॥ बाधकवशाद्रूढित्याग इति भावः । आशुज्ञानी खडिति यज्ञभंगानुसन्धानवानित्यर्थः । तदेवोपपादयन्नश्ऱ्वेत्यस्य ज्ञानित्वार्थत्वे दातुं पठति ॥ वेति ॥ वातेः गतिगन्धनार्थत्वेपि ज्ञानीति कतं व्याख्यानमित्यत आह ॥ गतिशब्दश्ऱ्चेति ॥ तताप्याशुवाति गच्छति अवगच्छतीत्यशुवेति स्यान्नत्वेश्ऱ्वेति । दीर्घोकारयोर्लोपविधायकाभावादित्यत आह ॥ दीर्घेति ॥ आदिपदेन स्वरादिग्रहणम्‌ ॥ खं0-17 ॥ प्रजापतिः भगवान्‌ लोकान्पृथिव्यन्तरिक्षद्युसंज्ञकां स्तदभिमानि देवानभ्यतपत्‌ आलोचितवान्‌ । इम एव रसाः किंततोन्य इति संशय माहार्यविचारितवानित्यर्थः । इम एव रसा इति प्राप्तेतेषां लोकानां तप्यमानानामालोच्यमानानां सकाशात्‌ । रसान्वरान्‌ प्राबृहत्‌ । उद्बबर्ह । निष्कृष्यज्ञातवानिति यावत्‌ । कस्माल्लोकात्कं रसत्वेन निश्ऱ्चितवानित्यत आह ॥ अग्निमिति ॥ पृथिव्याः धरादेव्याः अग्निंरसं प्राबृहदित्यादि सम्बन्धः । वायं नासिक्यम्‌ ॥ 1 ॥ ततः स प्रजापतिरेतास्तिस्रो देवताः पूर्ववदभ्यतपत्‌ । तत्राप्येता एव रसा इति प्राप्तेतासां तप्यमानानां सकाशात्‌ रसान्‌ प्रबृहत्‌ । तदवाह ॥ अग्नेरिति ॥ अग्नेः ऋचोऋग्वेदाभिमानिनं ब्रह्मणम्‌ । वायोः नादिक्यात्‌ । यजूंषि यजुर्वेदात्मकं हरम्‌ । आदित्यात्सामानि सामवेदाभिमानिनं वायुं रसं प्राबृहदिति सम्बन्धः ॥ 2 ॥ ततः सप्रजापतिरेतां त्रयीविद्यां वेदाभिमानि देवताः पूर्ववदभ्यतपत्‌ । तस्या इत्यादिपूर्ववत्‌ । ऋग्भ्यस्तदभिमानि ब्रह्मणो भूरिति नामकं वराहं यजुर्भ्यस्तदात्मकाद्धरात्‌ भुव इति नामकं नृसिंह सामभ्यस्तदात्मकाद्वयोः स्वरिति नामकं कपिलं रसं प्राबृहत्‌ । नित्यज्ञानस्याप्येवमभितपनं क्रीडयेति प्रागेवोक्तम्‌ ॥ 3 ॥ यदर्थमेतदुक्तं तदाह ॥ तदिति ॥ तत्तस्मात्‌ यत्‌ यदि ऋक्तो ऋङ्‌नमित्तं रिष्येद्यज्ञः क्षतं प्राप्नुयात्‌ । तदा ब्रह्माभूरिति नामकं वाराहमुद्दिश्यभूः स्वाहेति मन्त्रेण गार्हपत्येजुहुयात्‌ । सा तत्र प्रायश्ऱ्चित्तिः । तत्तदा ऋचां तदभिमानि चतुर्मुखस्य सकाशात्‌ रसेन । कोर्थः । ऋचां सकाशात्‌ वीर्येण बलवता वराहेण तत्प्रसादेन यज्ञास्य र्चांविरिष्यिं ऋङ्‌िनमित्तं क्षतं संदधाति ब्रह्मा । एवमुत्तरवाक्योरपि योजना ॥ 4 ॥ अथेत्यर्थान्तरम्‌ । यजुषां वीर्येणनृसिंह प्रसादेन सामनां वीर्येण कपिलप्रसादेन ॥ 5 ॥ 6 ॥ यज्ञस्य विरिष्यिसन्धानमेव सदृष्यान्तमाह ॥ तद्यथेति ॥ तत्‌ निदर्शनं यथा । लवणषन क्षारेण टंकणादिना । सुवर्णमशक्यसन्धानं संदध्यात्स्वर्णकारः । यथा चाशक्य सन्धानं रजतं सुवर्णेन संदध्यात्‌ ॥ 7 ॥ एवमेषां लोकानां पृथिव्यादीनामासां देवतानामग्न्यादीनामस्याः त्रयीविद्यायाः ब्रह्मादीनामिति यावत्‌ । सकाशाद्वीर्येण श्रेष्ठेन भूरादिनामकेन भगवतातत्प्रसादेन यज्ञस्यविरिष्यिं संददाति ब्रह्मा । ब्रह्मणः सामर्थ्यमाह ॥ भेषजेति ॥ यत्र यज्ञे एवं विद्ब्रह्मा भवत्येष यज्ञोभेषजेनचिकित्सकेन कृतो हवै ॥ 8 ॥ यत्र यज्ञे एवं विद्ब्रह्मा भवत्येष यज्ञः उदक्‌ प्रवणः ऊर्ध्वलोकानुसारी हवै । एवंविदो ब्रह्मण उक्तसामर्थ्यसत्त्वे गाथां प्रमाणयति ॥ एवं विदमिति ॥ एवं विदं ब्रह्माणमन्वनुसृत्यैषा वक्ष्यमाणागाथा प्रवर्तते । तामेवपठति ॥ यत इति ॥ यज्ञस्य दुरिष्ययायतो यतः स्थानात्‌ । यज्ञकरणेन प्राप्तुं प्रसक्तादार्वर्तते । तत्तत्स्थानमेवंविदा ब्रह्मणागच्छति मानवोभगवद्भक्तो यजमानः । तत्तस्मादश्ऱ्वा अशुज्ञानी ब्रह्मैक एव र्त्विक्‌ कुरून्‌ कर्तॄन्‌ यजमानादीनभिरक्षति । तां गाथां वेदपुरुषो विवृणोति ॥ एवंविदिति ॥ उपसंहरति ॥ तस्मादिति ॥ 17 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितस्य च्छन्दोगोपनिषद्भाष्यस्य टीकायां श्रीमद्वेदव्यासतीर्थ पूज्यपादशिष्यवेदेशभिक्षुविरचितायां पदार्थकौमुद्यां चतुर्थोऽध्यायः । 4 ।

************************************************************************************************************

पञ्चमोऽध्यायः।

देवोत्तमाय प्राणाय पंचरूपायविष्णवे ।
वैश्ऱ्वानराय देवाय नमो भगवते सदा ॥
एवं परापरब्रह्मविद्याः पूर्वाध्याये निरूपिताः अत्र पुनस्तद्विषयमेव विद्यान्तरं निरूपयिष्यन्मुमुक्षोः अपरब्रह्मवायुप्रसादस्य सर्वथापेक्षितत्वादादौ तद्विषयां विद्यामाह ॥ यो हवा इत्यादिखण्डद्वयेन ॥ यो हवै इत्यादि वाक्ये प्राणस्य तद्वत्तुश्ऱ्चोक्तं ज्येष्ठत्वादिकं किमपेक्षयेति न ज्ञायत इत्यतस्तत्प्रमाणेनैव व्याचष्ये ॥ य इति ॥ श्रेष्ठं गुणतः ज्येष्ठं वयसानिर्धारणे षष्ठयौ । योग्यतया स्वसमानानां ज्ञानोत्तरशुभाननुष्ठानादिना ह्रसिताननन्दानां वेत्तुः मनुष्यत्व विवक्षयां इदम्‌ । देवत्वविवक्षायामिन्द्र कामादिवत्किंचित्साम्यं बोध्यम्‌ । अनेन श्रुतौ स्वनामिति वक्ष्यमाणमत्र सम्बध्यत इत्युक्तं भवति । यो हवै सिष्ठं वेदेति वाक्यं वेत्तुः वसिष्ठत्वप्रतीतिनिरासाय व्याचष्ये ॥ समीप इति ॥ वसिष्ठ इत्यार्थो वसतां श्रेष्ठ इति । दूरेवसतां श्रैष्ठयं न शोभावहमिति समीप इत्युक्तम्‌ । यो हवै प्रतिष्ठां वेदेति वाक्यमेकस्यैव युगपद्विरुद्धं लोकद्वय अवस्थानं कथमुच्यते इत्यतो व्याचष्ये ॥ एकेति ॥ इदं विपरीतं फलं इत्याशंकानिरासाय विशेषवाचीतुशब्दः । तमेव व्यनक्ति ॥ इच्छत इति ॥ यथेच्छायामपीष्यस्थानेऽस्माकं स्थितिः न भवति न तथातस्येत्यर्थः । यो हवै सम्पदं वेदेति वाक्यं व्याचष्ये ॥ सम्पद्वेत्तुरिति ॥ यो हवा आयतनं वेदेति वाक्योक्तं स्वकीयाश्रयत्वं फलमुपलक्षणमिति भावेनाह ॥ गृहंचेति ॥ गृहमिष्यं प्रासादादि चशब्दाच्छत्युक्तसमुच्चयः । प्रागुक्तो ज्येष्ठः श्रेष्ठो वायुश्ऱ्चेदवान्तरः कतं ज्ञानान्मोक्ष इत्यत आह ॥ ज्येष्ठः श्रेष्ठ इति ॥ महान्वायुरेवेति सम्बन्धः । यदहं वसिष्ठास्मित्वं तद्वसिष्ठोसीत्यारभ्यायतनमसीत्यन्तवाक्यतात्तपर्यमाह ॥ वसिष्ठश्ऱ्चेति ॥ चशब्दः प्रतिष्ठासमुच्चयार्थः । वायुरे मुख्यत इति शेषः । तर्हि वाग्वाव वसिष्ठः चक्षुर्वाव प्रतिष्ठा इत्यादि विरोध इत्यतस्तदभिप्रायमाह ॥ तस्येति ॥ तस्य प्रसादादित्यस्य परामशार्थ एवं शब्दः । ततः उपचारतः । एतेन वागादिशब्दा जडेन्द्रियपरा इति व्याख्यानमपास्तम्‌ । तेषां कलहानुपपत्तेः । अतो हवै नामप्रत्यक्षमित्येतत्‌ । प्रत्यक्षं प्रत्यक्षविषयः इत्यन्यथाप्रतीतिनिरासाय स प्रमाणकं व्याचष्ये ॥ सर्वेति ॥ किं राजादिवद्बहिष्ठरूपेण नेत्याह ॥ इन्द्रियस्थ इति ॥ पृथक्‌ सर्वेन्द्रियस्थः । तर्हि पृथक्‌ स्थितः तद्वयापारकरणेऽसमर्थः किं नेत्याह ॥ पृथक्चेति ॥ तर्हि कस्मादिन्द्रियस्थ इत्यत उक्तम्‌ ॥ स्वयमेवेति ॥ स्वेच्छानुसारेणैवेन्द्रियस्थ इति सम्बन्धः । तुशब्दो भगवदिच्छानुसारिताविशेषज्ञापनार्थः । ननु वायुः किमन्याधिष्ठितेन्द्रियस्थः उत तदनधिष्ठितेन्द्रियस्थोवा । नाद्यः । प्राण वैयर्थ्यात्‌ । न द्वितीयः । देवन्तरवैयर्थ्यापातादित्यतः प्रथमपक्षमभ्युपेत्यप्राणस्येत व्यापारव्यतिरेकेपि कर्तृत्वमाह ॥ षण्मासादिति ॥

तत्स्वपीतरदेषु केवलं प्राणतस्तद्वयापारनिरपेक्षप्राणत इत्यर्थः । षण्मासात्पूर्वं बलानां प्राणादेव सर्वेन्द्रिय बोधस्ततः परमग्न्यादिभिरपीति भावः । तदपि कुत इत्यत आह ॥ अत इति ॥ अअतः षण्मासात्पूर्वं रुद्रादेः मनः प्रभृत्यनियामकत्वादेव खलु तदानीमनुभूतस्य पश्ऱ्चादसंस्मृतिः । अन्यथा पूवर्ानुभूत पदार्थस्मरणापात इत्यर्थः । अत एव यथा बाला अमनस इत्याद्युक्तम्‌ । अन्यथा नह्यमनाः पुमांस्तिष्ठतीति श्रुति विरोधोन्येन्द्रिय व्यापारायोगः संसारानुपपत्तिश्ऱ्च । अत्र विप्रतिपन्नं प्रति स्थलान्तरे प्राणस्येतरनिरपेक्षकर्तृत्वं समर्थयते ॥ तुरीयायामिति ॥ मोक्षावस्थायामित्यर्थः । इन्द्रियाणामेव अभेवेन तदन्यव्यापाराभावादिति भावः । मोक्षावस्थायां प्राणादेव स्वरूपेन्द्रिय नियामकाद्बोधश्ऱ्चेत्संसारेनुभूतस्य तदानीं स्मृतिः न स्यात्‌ । पूर्वं मन आदिप्रवर्तकानां तदास्वाभिमन्यमाना अभावेन अपवर्तकत्वादित्यत आह ॥ तथापीति ॥ तत्र तुरीयावस्थायामितरदेव व्यापाराभावेपि प्राणस्य वश्यतया संसारस्मृतिः घटत इत्यर्थः । प्राणस्य भगवदेकवशत्वात्‌ । कथमन्यवशतेत्यत आह ॥ प्राणस्येति ॥ नतु बलादित्यर्थः । ननु प्राणस्य वश्यत्वेपि इतरेन्द्रियदेवानामवश्यत्वे तदनुभावित पदार्थानां कथं स्मृत्युपपत्तिरित्यत आह ॥ प्राण इति अन्यथा मुक्तेः एव अनुपपत्तिरिति भावः । अक्षेष्विति ॥ शास्त्रैक वेद्यस्य प्रत्यक्षाविषयत्वादिति भावः । प्रादिसमासोयं नाव्ययीभावः । अन्यथा प्रत्यक्षस्येति षष्ठीन श्रुयेत । न हवा एवं विदिकिंच नानन्नं भवतीत्यनेनोक्तं प्राणवेत्तुः सर्वात्तृत्वं मुख्यतः यस्य कस्यचिदिति प्रतीतिनिरासाय प्रमाणेनैव तद्वयाचष्ये ॥ प्राणेति ॥ ननु यदिदं प्राणाय अन्नं वासश्ऱ्च देवैर्दीयते तत्प्राणस्यपूवर्ं विद्यमानं नवा । नाद्यः । तदीयस्यैव तस्मै प्रार्पणायोगात्‌ । नद्वितीयः । प्राणस्य देव परतन्त्रत्वापातादित्यतः स दृष्यान्तमाद्यपक्षदोषमेव परिहरति ॥ सिद्धमेवेति ॥ सिद्धमेवेति ॥ यथा स्वातन्त्ऱ्यतः कारणात्‌ विष्णोः सदा सिद्धमेव अन्नवस्त्राद्यं स्वर्थं प्रयोजनसिध्यर्थं विष्णौ समर्पयेल्लोकस्तथासुराः पुराप्राणस्य सिद्धमेव अन्नं वस्त्रं च प्राणेसमर्पयन्निति योजना । लम्भुको हवा सो भवतीत्दना भोजन पूर्वोत्तरापोशनमात्रस्यैहिक व्त्रप्राप्तिमात्रं फलमुच्यत इति प्रतीतिनिरासाय यतत्तात्पर्यं स्मृत्यैवाह ॥ प्राणस्येति ॥ यद्यप्येतच्छुष्काय स्थारवेब्रूयादित्यादि वाक्यं यस्य कस्यापि स्थाणोः प्राणविद्याश्रवणे पलाशादिभव प्रतीतिं तन्मात्र फलत्वप्रतीतिं च निवारयन्‌ प्रमाणेनैव व्याचष्ये ॥ योग्यस्येति ॥ योग्यस्यैव तच्छतेः तस्याः विद्यायाः श्रवणात्‌ । किमुयोग्यस्य जंगमस्येति कैमुत्यर्थोपि शब्दः । तर्हि तमेवं विद्वानिति श्रुतिविरोध इत्यत आह ॥ विष्णोरिति ॥ पूर्वेण सम्बन्धः । ज्येष्ठाय स्वाहेत्यादिना होममुक्त्वा समाज्यैष्ययं श्रैष्ययमित्यादि प्रार्थनात्‌ होमस्य ज्यैष्ठयश्रैष्ठय प्राप्तिः फलमुच्यते । तत्तुसर्वेभ्य इत्यैहिकमेवेति च प्रतीतिं निवारयन्प्रमाणेनैव व्याचष्ये ॥ ज्येष्ठेति ॥ मन्त्रैरिति शेषः । प्राणायेति वागाद्युपलक्षणम्‌ । महिज्जिगमिषेदित्युपक्रमवाक्योक्तं महत्वमपि दृष्यादृष्यरूपमेवेति बोध्यम्‌ । ननु प्राणदेवताकं यागमुपक्रम्य कथं सावित्रमन्त्र विनियोगकथनमित्यतः प्राणमादित्यं चैकीकृत्येदं प्रवृत्तम्‌ । ततश्ऱ्च पूर्वोत्तरार्धयोः समानाधिकरणैवयोजनेत्यन्ये । तदसदिति भावेन ऋचं व्याचष्ये ॥ सवितुरिति ॥ भोजनमित्यनूद्य रक्षां सर्वभोगांश्ऱ्चेति व्याख्यानम्‌ । भुजपालनाभ्यवहारयोः इति धातोः । अभ्यवहारवाचिना च भोजनशब्देन सर्वभोगोपलक्षणमिति भावः । तद्धेतुत्वेन द्वितीयार्धं व्याचष्ये ॥ भगस्येति ॥ एश्ऱ्वर्यस्य समग्रस्येति वचनेन भगशब्दस्य षड्‌गुणार्थत्वे परिच्छिन्नत्वशंकापरिहाराय सर्वगुणस्वरूपस्येत्युक्तम्‌ । विशेषण समुच्चयार्थश्ऱ्चशब्दः । धीमहीति यत्तस्मादिति योज्यम्‌ । परोक्त एवार्थः किं न स्यादित्यतो ऋगर्थप्रमाणेन द्रढयति ॥ नारायणीयमिति ॥ ततश्ऱ्चायं खण्डार्थः ॥ प्राणज्ञानमवश्यं सम्पाद्यमिति भावेन तज्ज्ञानिनः फलमाह ॥ योहवा इति ॥ परस्परविशेषणसमुच्चये चशब्दौ । योधिकार्यखिलदेवेभ्यो वयसा ज्येष्ठं च वेदसः मुक्तः सन्‌ स्वसमानानां मध्ये ज्येष्ठः श्रेष्ठश्ऱ्च भवति । हवा इति श्रुत्यादि प्रसिद्धिमाह ॥ ज्येष्ठः श्रेष्ठश्ऱ्चक इत्यत आह ॥ प्राण इति ॥ मुख्यप्राणः ॥ 1 ॥ यो हवै वसिष्ठां वेदसोस्मिन्नमुष्मिंश्ऱ्च लोके प्रतितिष्ठति इच्छायाम्‌ । काप्रतिष्ठा । चक्षुरेव तदभिमानी सूर्यः ॥ 3 ॥ यो हवै सम्पदं वेदस्मै दैवाः मनुषाश्ऱ्च कामाः काम्याः सम्पद्यन्ते । इहामुत्र सम्पदः स्युरिति भावः । श्रोत्रं तदभिमानी इन्द्रः ॥ 4 ॥ यो हवा आयतनं वेद सः स्वानामायतनमाश्रयोभवति । उपलक्षणमेतत्‌ । आयतनवांश्ऱ्च भवतीत्यपि ग्राह्यम्‌ । मनो रुद्रः ॥ 5 ॥ प्राणस्य ज्येष्ठत्वं श्रेष्ठत्वं चोक्तम्‌ । तत्कुत इत्यतो मीमांसया समर्थितत्वादिति भावेन आख्यायिकामारभते ॥ अथेति ॥ प्राणाः पूर्वोक्ताः वायुपुरस्तराः देवाः अहं श्रेयसिव्यूदिरे विवादं कृतवन्तः । अहं श्रेयसीत्युक्तमेव विशदमाह ॥ अहमिति ॥ 6 ॥ ते विवदमानाः प्राणाः प्रजापतिं नारायणं वपितरं इत्योचुः । तथाच उक्तं बृहद्भाष्ये । विवदं तोखिलादेवाययुः नारायणं प्रभुं । अहं श्रेयान्‌ अहं श्रेयानिति वायुपुरःसरा इति । किमूचुः । हे भगवन्‌ नोस्माकं मध्ये कः श्रेष्ठ इति । तान्प्राणान्होवाच प्रजापतिः । वोयुष्माकं मध्ये यस्मिन्नुत्क्रान्ते इदं शरीरं विरिंचशरीरं पापिष्ठतरमिव शवरूपं दृश्येत सवः श्रेष्ठ इति ॥ 7 ॥ एवमुक्ते तत्परीक्षणाय तेषां मध्ये सा पूर्वोक्तावागग्निरुच्चक्राम । तदुत्क्रमणेपि शरीरं न पपातेति ग्राह्यम्‌ । सोत्क्रान्ता वाक्‌ संवत्सरपर्यन्तं प्रोष्यप्रवासंकृत्वा शरीरस्थानिरतरान्‌ प्राणान्पर्येत्योवाच । मदृते जीवितुं कथमशकतेति । ते शरीरस्थाः प्राणः होचुः । यथाऽकलाः मूकाः अवन्तोपि प्राणादिना प्राणनादिकुर्वाणाः जीवन्ति एवं अजीविष्मेति । एवमुक्तावाक्‌ नाहं श्रेष्ठेति निश्ऱ्चित्यतस्मिंश्छरीरे प्रविवेशह ॥ 8 ॥ एवं चक्षुः होच्चक्रामेत्यादिकं अपि व्याख्येयम्‌ ॥ 9 ॥ 10 ॥ यथा बालाः षण्मासात्पूर्वं बालाः अमनसः प्राणेतरमनोभिमानि रुद्रादि व्यापृतमनः शून्याः ॥ 11 ॥ अथैवं सर्वेषां अश्रैष्ठयावधारणशनन्तरं प्राणोमुख्यप्राणः उच्चक्रमिषन्नुत्क्रान्तुमिच्छन्‌ सदृष्यान्तो यथा लोके सुहृयः शोभनाश्ऱ्वः पट्वीशशंकून्‌ पटुभूतस्य हयस्येशाः नियामकाः बन्धका इति यावत्‌ पट्वीशाश्ऱ्च ते शंकवश्ऱ्चेति तथोक्ताः तान्‌ पादबन्धनकीलानिति यावत्‌ । परीक्षणाय आरूढेन कशयाहतः संखिंदेत्‌ । समुत्पाटयेदेवमितरान्प्राणान्समखिदत्‌ । समुत्पाटितवान्‌ । ते प्राणाः संचालिताः सन्तः स्वस्वस्थाने स्थातुमशक्ताः तं मुख्यप्राणं अभिसमेत्योचुः । हे भगवन्नेधि आस्व(अभिवृद्धोभव)त्वं नोऽस्माकं मध्ये श्रेष्ठोसि । अस्माद्देहान्मोत्क्रमीरिति ॥ 12 ॥ तर्हि तस्य मेयूयं बलिं पूजां कुरुते इत्युक्ताः तथेत्यूचुः इति ग्राह्यम्‌ । तत्प्रकारं वक्तुमारभते ॥ अथेति ॥ एनं मुख्यप्राणं प्रतिवागुवाच । अहं वसिष्ठास्म वसतामुत्तमास्मीति यत्‌ त्वं तद्वसिष्ठोसि । त्वमेव मयि स्थित्वामदीय वसिष्ठत्वनियमक इत्यर्थः । एबमुत्तरत्रापि ॥ 13 ॥ 14 ॥ वागादीनां वसिष्ठत्वादिकं प्राणाधीनमित्यत्र नियामकमाह ॥ नवा इति ॥ यस्माद्वागादीनिकरणानि वाच इति नैव आचक्षते विद्वांसः । एवं चक्षूंषीति नैवाचक्षते । नोत्राणीति नैवाचक्षते । मनांसीति नैवाचक्षते । किं तर्हि प्राणा इत्येवाचक्षते । तस्मात्‌ प्राणा एवैतानि सर्वाणि भवन्ति । सर्वेन्द्रिय देवेषु स्थित्वा तत्तन्नियामको भवतीत्यर्थः ॥ 15 ॥ प्रथमः खण्डः ॥ 1 ॥ समुख्यप्राणः उवाच । नालं श्रेष्ठोसि इत्क्तमात्रेण (किं नाम) किं मेन्नं भविष्यतीति । एवमुक्ताः देवाः आश्ऱ्वभ्यः आशकुनिभ्यः श्रवपक्षिपर्यन्तप्राणिभिः यत्किंचिदं योग्यमन्नमद्यते तत्तेन्नमित्यूचुः । देवैः दत्तमन्नं पूर्वमतदीयं किं नेत्याह ॥ तद्वा इति ॥ तदेतदनस्य मुख्यप्राणस्यैव अन्नं कुत इत्यत आह ॥ अन इति ॥ अनो मुख्यप्राण एव प्रत्यक्षं अक्षेषु प्रतिप्रतिस्थितत्वात्‌ । एवं प्राणवेत्तुः फलमाह ॥ नेति ॥ एवमुक्तरीत्या प्राणस्य सर्वभोक्तृत्व विदिकिंचनानन्नं न भविष्यति । सर्वमेव अस्यान्नं भवति । रुद्रस्यैव इदं मुख्यम्‌ । अन्येषां यथायोग्यम्‌ ॥ 1 ॥ एवं सिद्धान्नः स होवाच । किं मेवासो भविष्यतीति । सर्वप्राणिभिः पीयमाना आप इति होचुः । अत्र नियामकमाह श्रुतिः ॥ तस्मादिति ॥ अपां प्राणवस्त्रत्वादेव हि । एतदन्नं अशिष्यन्तो भोक्ष्यमाणाः भुक्तवन्तश्ऱ्च विद्वांसः श्रोत्रियाः ब्राह्मणाः भोजनात्पुरस्ताच्चोपरिष्याच्च अद्भिः परिदधत्रत परिधानं कुर्वन्ति । प्राणस्य वस्त्रबुद्धयाभोजनो भयतः पिबत; फलमाह ॥ लम्भुक इति ॥ वासोदिव्य वाससोलंभुको लब्धा भवति । तथाऽनग्नो ह भवति । इहामुत्रदिव्यवस्त्रैरन्तः बहिः प्रावरणवान्‌ भवति ॥ 2 ॥ इयं प्राणविद्य परंपरागता चेत्याह ॥ तदिति ॥ तदेतत्प्राणविज्ञानं सत्यकामोजाबालोगोश्रुत येन अम्वैयाघ्रपद्यय व्याघ्रपदः पुत्राय उक्त्वा फलं चोवाच । एतत्प्राणविज्ञानं शुष्काय अपि स्थाणवेयदि ब्रूयात्‌ । तदासः स्थाणुः योग्यश्ऱ्चेदस्मिंच्छुष्केपि स्थाणौशाखाः जायेरन्नेव । पलाशानिप्ररोहेयुरिति ॥ 3 ॥ इदानीं योधिकारी स्वस्य दृष्यां महत्त्वमिच्छेत्तस्य कर्तव्यं प्रकृत प्राणादि देवताकमेव होमं वक्तुं प्रारभते ॥ अथेति ॥ योधिकारी यदि महत्‌ दृष्यादृष्यं महत्त्वं जिगमिषेत्‌ । प्राप्तुमिच्छेत्‌ तर्हि सोमावास्यायां दीक्षित्वापक्षपर्यन्तं पयोव्रताद्यनुष्ठाय पुनः पौर्णमास्यां रात्रौ सर्वौषधस्य सवौषधीनां व्रीहियवादीनां दशधान्यानां मन्थं पिष्यम्‌ । दधिमधुनोः दधिमधुभ्यामुपमथ्य संमिश्ऱ्यज्येष्ठाय श्रेष्ठाय स्वाहेति मन्त्रेणाग्नावाज्यस्य अज्यं तत्संस्कृतं मन्थं हुत्वा स्रुवलग्नमाज्यं मन्थे होम्येपिष्ये । सम्पातं पातनं यथा तथा वनयेत्‌ । एवमन्यत्‌ ॥ 4 ॥ 5 ॥ होमावशिष्यं मन्थ विनियोगमाह ॥ अथेति ॥ अथ होमानन्तरं होमावशिष्यं प्रतिसृप्याग्नावीषदुपसृप्यां जलावाधाय जपति जपेत्‌ । यज्ञदेवतां प्राणमिति शेषः । त्वममोनामासि । कुतः सर्वमिदं जगत्ते तव अमामानं परिमितं न भवेदित्यर्थः । ते त्वया सहितं वर्तत इति वा । सः मुख्यप्राणोज्येष्ठो गुणतः राजारंजकोऽधिपतिः आधिक्येन पालको यस्मात्त्मात्‌ सः मामां ज्यैष्ठयं श्रैष्ठयं राज्यमाधिपत्यं गमयति गमयतु प्रापयतु । अहमेवेदं सर्वमसानि । इदं सर्वं योग्यं मदधीनं करिष्यामीत्यर्थः । इति जपतीति सम्बन्धः ॥ 6 ॥ अथैवं प्राण जपानन्तरं होमावशिष्यं मन्थं ग्रास चतुष्ययं कृत्वै तया वक्ष्यमाणया ऋचापच्छः पादशः आचामति आचामेन्मन्थम्‌ । तदेव विशदमाह ॥ तत्सवितुरिति ॥ तत्सवितुरिति पादेन प्रथमं ग्रासमाचामेत्‌ । वयमिति पादेन द्वितीयं ग्रासमाचामेत्‌ । श्रेष्ठमिति पादेन तृतीयं । तुरमिति पादेन सर्वं निःशेषं पिबति पिबेत्‌ ॥ 7 ॥ कंसंकांस्यं च मसं वौदुम्बरमयं मन्थ पात्रं निर्णिज्यप्रक्षाल्याग्नेः पश्ऱ्चाच्चर्मणिवास्थं डिलेवा केवलायां वाभूमौ वाचं यमोयत वागप्रसाहः स्त्रीरहितः संविशति संविशेत्‌ । सः यजमानो यदि स्वप्नेषु स्त्रियं पश्येत्‌ तदा समृद्धं ममेदं कर्मेति विद्यात्‌ ॥ 8 ॥ अत्रैव श्लोकमाह ॥ तदिति ॥ तत्तत्रोक्तार्थे एषः वक्ष्यमाणः श्ऱ्लोको भवति तं पठति ॥ यदेति ॥ काम्येषु कर्मसु क्रियमाणेषु यदा स्वप्नेषु स्त्रियं पश्यति तत्र तर्हि तस्मिन्स्वप्नाख्ये निदर्शने जाते समृद्धिं जानयादित्यर्थः । द्विरुक्तिः प्रामाणिकत्व ज्ञापनार्था ॥ द्वितीयः खण्डः ॥ 2 ॥ एवं अपरब्रह्म प्राण विषयाविद्यानिरूपिता । इदानीं राग्यजननाय परब्रह्मविषयां पंचाग्निविद्यां धूमार्चिरादिमार्गं चाख्यायिकापुरःसरं निरूपयति । श्ऱ्वेतकेतुः इत्यादिना खण्डाष्यकेन । असौ वाव लोको गौतमाग्निरित्यादिना स्वर्गादेः अग्नित्वकल्पनोच्यत इत्यसत्‌ । तथासति अब्रह्मविद्यात्वप्रसंगात्‌ । तथा कल्पनायाः मिथ्याज्ञानत्वेन अनर्थहेत्वाच्च । तद्य इत्थं विदुरित्यादिना पंचाग्निविद्यावेत्तॄणां अर्चिरादिमार्गापुनः आवत्तिफलकथन विरोधाच्चेति भावेन तां विद्यां भगवत्परतयैव प्रमाणेनैव व्याचष्ये ॥ नारायणादय इत्यादिना ॥ द्युपर्जन्यधारापुंस्त्रीरूपाः पंचाग्नयः क्रमान्नारायणादय एव स्मृता इत्यर्थः । तर्हि नारायणादिषु अग्निशब्दः कथम्‌ । तस्य अन्यत्र रूढत्वादिति चेत्‌ स्वर्गादावपि कथं होमाधिकारणत्व गुणयोगेनेति चेत्‌ । गौण्यपेक्षया योगस्य प्रबरलत्वादिति भावेन अग्निशब्दस्य नारायणादिषु योगं दर्शयति ॥ अदनादिति ॥ पूर्वेण अन्वयः । अदनादत्तृत्वात्‌ । अत्तेः कर्तरिनिप्रत्ययोदस्यगः । स्वतो न गच्छति न प्रवर्तते । यद्विश्ऱ्वं तस्य प्रवर्तकत्वादित्यर्थः । अगशब्दोपपदान्नय
तेः कर्तरिडिप्रत्ययः । उपपदाकारलोपश्ऱ्च । नितरां गच्छति न चलतीति चाग्निरित्यर्थः । नञुपपदाद्गमेः कर्तरिडेनीत्युपसर्गः । अकारलोपश्ऱ्चेति भावः । अनेन औ वाव लोको गौतमाग्निः पर्जन्यो वाव गौतमाग्निरित्यादि वाक्यपंचकं व्याख्यातम्‌ । इदानीं प्रत्यग्निसमिद्धृमाचिरं गारविष्फुलिंगा इति पंचोक्ताः । तदपि पूर्ववत्प्रसिद्धार्थं इति प्रअतीति निरासायाह ॥ समेधनादित्यादिना ॥ समेधनात्‌ सम्यग्वर्धनात्‌ सर्वात्तमत्वदिति यावत्‌ । धूत्कारात्‌ । शत्रूणां कम्पानात्‌ । धूञ्‌ कम्पन इति धातुः । अरमरलंचितत्वात्‌ पूजितत्वात्‌ । अंगरतेः । जीवदेहेरतेः अंगमंगीसमादायेति प्रयोगात्‌ । स्वंगरतेः वा । विविधं ज्ञानिनां स्फुरणात्‌ । नारायणाद्यात्माविष्णुः प्रत्येकं पुनः पंचरूपवान्‌ । समेधनात्समिदित्युच्यत इत्यादिरूपा योजना । तर्ह्यादित्य एव समित्‌ इत्यादि सामानाधिकरण्यं कथमित्यतः प्रथमाग्नौ श्रुतानादित्यरश्म्यहश्ऱ्चं द्रनक्षत्राशब्दान्निर्वक्ति ॥ आदित्य इति ॥ आदानादायुरादेः । रतिसुखरूपत्वतः । रतिः अलं बुद्धिः । तमसाऽज्ञानेनाऽहननीयत्वात्‌ नित्यास्पृष्याऽज्ञानत्वादित्यर्थः । च दनाच्चन्द्रः । अस्य क्षत्रमन्यन्नास्तीति नक्षत्रमित्यर्थः । बहुरूपत्वाद्बहुवचनमिति भावः । इदानीं द्वितीयाग्नौ श्रुतान्वाय्वभ्रविद्युदशनिह्रादुनिशब्दान्निर्वक्ति ॥ वायुरित्यादिना ॥ ज्ञानादायुष्ट्वाच्च वायुः । अपां भरणादित्यर्थः । अशनात्सर्वस्य भक्षणात्‌ । निर्ह्रादान्नितरां हर्षणात्‌ । तृतीयाग्नौ श्रुतान्‌ संवत्सराकाशरात्रिदिगवान्तरदिक्‌ शब्दान्निर्वक्ति ॥ संवत्सर इत्यादिना ॥ चशब्दः सम्यगित्यस्य रमणादित्यस्य च समुच्चयार्थः । सम्यग्वासनाद्रमणाच्चेत्यर्थः । सम्यक्‌ वत्सान्‌ रमयतीत्यर्थान्तरसमुच्चयो वा । आ इत्यस्यार्थः प्रेति । रं रमणं त्राति ददाति इति रात्रिः । दिशति परतत्वमादिशति । अवान्तरमपरतत्वम्‌ । चतुर्थाग्नौ श्रुतान्‌ वाक्‌ प्राणजिह्वाचक्षुः श्रोत्र शब्दान्निर्वक्ति ॥ वचनादिति ॥ अननात्‌ प्रणयनात्‌ । होमतो होमाधिकरणत्वात्‌ । होमकर्तृत्वाद्वा । हुदानादनयोरिति धातुः । पंचमाग्नौ श्रुतौ पस्थादिशब्दपंचकं व्याचष्ये ॥ उपस्थितेरित्यादिना ॥ सर्वजीवानां हृद्गत्वेन मीपस्थितेरित्यर्थः । यदुपमन्त्रयतं इत्यस्यार्थः । त्रपमन्त्रकृदेवेति । यनिक्ति संयोजयति । यदन्तः करोतीत्यस्यार्थः । सर्वान्तःकृदिति । नारायणादयः पंचक्रमात्पंचाग्नयः स्मृता इत्युक्तम्‌ । पंचाग्निष श्रुतानसौ लोकपर्जन्यपृथिवी पुरुषयोषाशब्दान्निर्वक्ति ॥ असाविति ॥ प्राणस्थत्वात्प्रकाशवत्त्वाच्चेति वैपरीत्येन योज्यम्‌ । असुमुख्यप्राणस्तस्य सप्तमी असाविति । तस्य अर्थः प्राण इति । सप्तम्या अनन्वयशंकापरिहाराय प्राणस्थत्वादित्‌ इत्युक्तम्‌ । ज्योष्यः सेव्यः । जुषीप्रीति सेवनयोरिति धातोः । धूमो भूत्वा अभ्रं भवतीत्यादि सामानाधिकरण्य श्रुतेः कमिर्णो धूमादि देवतैक्यं तत्पदप्राप्तिः वाकथ्यत इत्याशंकां प्रमाणेनैव वारयति ॥ अभ्रेति ॥ अभ्रादिसंस्थितिः । अभ्रादिषु प्रविश्यतद्गतौ गतिः तत्स्थितौ स्थितिरित्यादि रूपतत्स्वाभाव्यपत्तिरेव नत्वैक्यं तत्पदप्राप्तिः वेत्यर्थः । तथाचोक्तम्‌ । तत्स्वाभाव्यापत्तिरुपपत्तेरिति । कुत एवं मुख्येबाधकाभावात्‌ । अन्यस्य अन्यभावायोगेन ऐक्यायोगेपि तत्पदप्राप्त्युपपत्तेरित्यत आह ॥ अभ्रेति ॥ रूपशब्दो धर्मवचनः । तथाच अभ्रादिमानित्वं तत्पदप्राप्तिरिति यावत्‌ । तद्योग्यैः एव ज्ञान प्राप्यं कर्मिणस्तु न ज्ञानमिति भावः । पर्जन्यो जनकोयस्मादित्युक्तम्‌ । तत्र जनकत्वं कथं पर्जन्यशब्दार्थ इत्यतस्तं स्वयं निर्वक्ति ॥ परमिति ॥ परमुत्तमम्‌ । चतुर्मुखाख्यं वस्तु अस्य सकाशाज्जन्यमिति पर्जन्यः । तथाच जनकः परस्येति लब्धार्थोक्तिः । अन्येषां शब्दानां प्रमाण एव स्पष्यार्थत्वात्‌ वाजसनयक पंचाग्नि विद्या भाष्यकृत व्युत्पादनाच्च न व्युत्पादनं कृतम्‌ । तस्यादित्य एव समिदित्यादौ श्रुता आदित्यादि पंचविशंति शब्दा असौ लोकादि पंचशब्दाश्ऱ्च योगेनैव भगवत्परतया व्याख्याताः । तत्र रूढार्तपरित्यागेन योगार्थांगीकारः कुत इत्यतो रूढार्थोपि भगवानेवेत्याह ॥ पंचेति ॥ स्वर्गादौ स्थितः । चशब्दोऽवधारणे । हरिरेव तन्नामा आदित्यादिनामा ॥ खं0-3-10 ॥ ततश्ऱ्चायं खण्डार्थः ॥ श्ऱ्वेतकेतुः नामतोऽरुणस्य अपत्यं आरुणिस्तस्य अपत्यं आरुणेयोह पित्रानुशिष्यः स्वपाणिडत्यख्यापनाय पंचालानां पंचालदेशाधिपतीनां समितिं परिषदं प्रत्याजगाम । तं श्ऱ्वेतकेतुं प्रावाहणो जैबलिस्तस्य अहंकारशान्त्यर्थं उवाच ह । हे कुमार तव पिता त्वात्वं अन्वशिषत्‌ । अन्वशिक्षयत्किमिति शेषः । हे भगवः अनुहि अन्वशिषद्धीति श्ऱ्वेतकेतुः ॥ 1 ॥ एवमुक्ते प्रवाहणः पृच्छति ॥ वेत्थेति ॥ प्रजाः इतो लोकाल्लोकान्तरं प्रयन्त्यो यदधिकृत्ययं मार्गमधिकृत्य ब्रह्मलोकं चन्द्रलोकं वा प्रतिप्रयान्ति तं मार्गं वेत्थकिमिति । एवं पृष्यः श्ऱ्वेतकेतुः न वेद्मिभगव इति होवाच ॥ द्वितीयं पृच्छति ॥ वेत्थेति ॥ पुनरावृत्तिमत्‌ चन्दलोकं गताः प्रजाः यथा येन मार्गेण इमं लोकं पुनरावर्तं इति वेत्थकिमिति । किं गतेनैव मार्गेण पुनरागमनं अन्यथा वेति भावः । न भगव इति श्ऱ्वेतकेतुः । तृतीयं पृच्छति ॥ वेत्थपथोरिति ॥ पथोरित्यस्य विवरणं देवयानस्य पितृयाणस्यचेति । व्यावर्तनाः इतरेतरव्यावृत्तीर्वेत्थकिम्‌ । यत्साधनसाध्यत्वेन देवयानपितृयाणयोः इतरेतव्यावृत्तिस्तत्साधनं वेत्थकिमित्याशयः । अन्यथा प्रथमप्रश्ऱ्नेन गतार्थत्वप्रसंगात्‌ । वाजसनेकविरोधाच्च । न भगय इति होवाच श्ऱ्वेतकेतुः ॥ 2 ॥ चतुर्थं पृच्छति ॥ वेत्थयथेति ॥ पुनः पुनः प्रयद्भिरप्यसौ लोकः परलोको यथा येन हेतुना न संपूर्यते तं वेत्थकिमिति । न भगव इति श्ऱ्वेतकेतुः । पंचमं पृच्छति ॥ वेत्थयथेति ॥ यथा येन क्रमेण प्रकारेण च पंचम्यामाहुतौ हुतायामापः पुरुष वचसो भवन्ति । अद्भिः सम्परिप्वक्तो जीवो लब्धदेहः पुरुषनामवान्‌ भवति । किं तं क्रमं प्रकारं च वेत्थेति । नैव भगव इति होवाच । अवधारणषन अतः परं प्रश्ऱ्नं व्यावर्तयति ॥ 3 ॥ अथ तर्हि एवं अज्ञः सन्‌ किंनु कस्मान्नु अनुशिष्यो अस्मि इत्य वाचथाः । यो हीमानि मया पृष्यान्यर्थ जातानि न विद्यात्‌ । स्वपितुरर्धं स्थानमेयाय गत्वा तं पितरमुवाच । अननुशिष्यसम्यग्विद्योपदेशं अकृत्वैव किलमामां प्रति भगवान ब्रवीदनुत्वाशिषम्‌ । त्वामन्वाशिषमिति ॥ 4 ॥ यतः पंचसंख्कान्‌ प्रश्ऱ्नान्‌ प्रष्यव्यार्थान्‌ राजन्यबन्धुः क्षत्रियाभासः मा मां अप्राक्षीत्‌ । राज श्रेष्ठस्य अपि कोपादियमुक्तिः । तेषां प्रश्ऱ्नानां मध्ये एकं च नैकमपि प्रश्ऱ्नं विवक्तुं अर्थविशषेण निर्णेतुं नाशकमिति । कतमेते प्रश्ऱ्ना इत्युक्तः प्रश्ऱ्नवाक्यान्युदाजहारेति ग्राह्यम्‌ । एवमुक्तः सपिता पुत्र क्रोधमुपशमयन्नुवाच । हे तात त्वं यथा एतान्‌ प्रश्ऱ्नान्‌ मामं प्रत्यवदः तथा अहं एषां प्रश्ऱ्नानां मध्ये एकमपि यथा यथावन्नवेदन जानामि । कुतः यद्यहमिमान्प्रश्ऱ्नानवेदिष्यन्त तर्हि कथं ते प्रियाय नावक्ष्यमिति । यदहं किंच वेदसर्वं अहं तुभ्यं अवोचम्‌ । यदि राजष्यविद्येच्छा तर्हि राजनं प्रत्येहि । तत्र गत्वा ब्रह्मचर्यं वत्स्याव इति पित्रोक्तो भवानेव गच्छत्वित्याहेति ग्राह्यम्‌ । वाजसनेयकेतथा श्रवणात्‌ ॥ 5 ॥ स एवं पुत्रोक्तो गोथतो गौतमोराज्ञोर्धं स्थानमेयाय । तस्मै प्राप्तायगौतमायार्हां पूजंचकार राजा । सः गौतमः कृत आतिथ्य उषित्वा परेद्युः प्रातः काले राज निसभागे सभां गते सति उदेयायह । स भागः सभाग्य इति वा । तमागतं गौतमं प्रत्युवाचराजा । हे भगवन्‌ पुर्जर्ह गौतममानुषस्य वित्तस्य वरं हिरण्यादिविषयं वरं वृणीथा इति । एवमुक्तः सगौतमोहोवाच । हे राजन्‌ मानुषं वित्तं तवैवास्तु । त्वं कुमारस्य मत्पुत्रस्यान्ते समीपे यामेव वाचं प्रश्ऱ्नरूपामभाषथास्तामेव मे ब्रूहीति ॥ 6 ॥ सः राजा स्वपृष्यस्य गोप्यत्वात्कृच्छ्री बभूव । सकृच्छ्रीभूतोऽप्रत्याख्येयं ब्राह्मणं मन्वानस्तं गौमं चिरं वसेत्याज्ञापयांचकार ह । चिरवासा ज्ञापने निमित्तं वदन्‌ राजातं होवाच । हे गौतममां प्रति यथावत्‌ अस्तामेव मे ब्रूहीति । तथैव अहंकरिष्ये त्वयि चिरोषित इत्यर्थः । नासंवत्सरवासिन इति श्रुतेः इति भावः । वक्ष्यमाणां विद्यां स्तौति ॥ यथेति ॥ इयं वक्ष्यमाणाविद्या प्राक्‌ तदेव विवृणोति ॥ त्वत्तुपुरेति ॥ त्वत्त एव पुराब्रह्मणान्‌ यथा यथावत्‌ न गच्छति न गतवती । क्षत्रस्यैव असाधारणविद्येयमिति भावः । कुत इत्यतस्तत्र क्षत्रगामिविद्याफलमेव हेतुमाह ॥ तस्मादिति ॥ तस्मात्‌ विद्यायाः क्षत्रमात्रनिष्ठत्वात्‌ एव खलु एतद्विद्यानुष्ठानेन सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनं प्रशास्तृत्वं अभूदित्युक्त्वा तस्मै होवाच विद्यां राजा ॥ तृतीयः खण्डः ॥ 3 ॥ इतरप्रश्ऱ्नोत्तराणां प्रश्ऱ्नोत्तरसापेक्षत्वात्‌ औ तस्योत्तरं वक्तुं वैराग्यार्थं जीवस्य अगतिं निरूपयन्‌ पंचाग्निविद्यामाह ॥ असावित्यादिना ॥ हे गौतमासौ मुख्यप्राणे स्थितो लोकः प्रकाशरूपोद्युलोकस्थो नारायण एव अग्निरदनादिकर्तृत्वात्‌ । अयं द्युलोकस्थो नारायणः पुनर्नारायणाद्यात्मकत्वेन पंचरूपः तस्य द्युलोकस्थनारायणाख्य अग्नेरादानादादित्य नामादित्यस्थो नारायण ए । स मेधनात्समिदित्युक्तः । समित्स्थानीयः रश्मयोरतिशरूपतो रश्मिनामा तदन्तर्गतो वासुदेवो धूत्काराद्धूम इत्युक्तो धूमस्थानीयः अहननीयत्वात्‌ अहर्नामतत्स्थः संकषर्णोऽरचितत्वात्‌ अर्चिरित्युक्तोऽर्चिः स्थानीयः । सुखरूपत्वात्‌ चन्द्रनामातत्स्थः प्रद्युम्नोंगतरेरंगारा इत्युक्तोंगारस्थानीय अनन्य राजत्वान्नक्षत्रनामकोऽनिरुद्धोविष्फुलिंगो विविधं स्फुरणात्तथोक्तः तत्स्थानीयः ॥ 1 ॥ तस्मिन्‌ द्युस्थे नारायणाख्ये एतस्मिन्नुक्त समिदादिविशिष्येऽग्नौ देवाः द्युलोकाधिपतयः श्रद्धां श्रद्धयेष्यवन्तं उत्क्रान्तं यजमानं जुह्वति । अत्र श्रद्धा शब्दो जहल्लक्षणया श्रद्धायाद्भिश्ऱ्च विशिष्यं जीवमाह ॥ तेन यजमानो उत्क्रान्तिकाल एव अपः श्रद्धावत्सहागता इति सिद्धयति । अन्यथा अपामप्रासप्तत्वे । इति तु पंचम्यामाहुतावाप इत्यनुवादानुपपत्तेः । तथाच सूत्रम्‌ । प्रथमे श्रवणादिति चेन्न ता एवाह्युपपत्तेरिति । एवं द्युलोके देवैः निक्षिप्तो यजमानः स्वपुण्य अवसाने मर्त्यलोकोन्मुखस्तस्याः अहुतेः सकाशात्सोमोराजा सम्भवति । सोमलोकान्तर्गतो भवति ॥ 2 ॥ चतुर्थः खण्डः ॥ 4 ॥ पर्जन्यः तन्नामातत्स्थो वासुदेवोग्निः सोपि पूर्ववत्पंचरूपः । तस्य वाय्वभ्रविद्युदशनिहआदुनिनामकाः तदन्तर्गताः नारायणशदयः समिदादिस्थानीया इत्यथर्ः । तस्मिन्ने तस्मिन्नग्नौ देवाः सोमं राजानं तदन्तर्गतं यजमानं जुह्वति । तस्या आहुतेः वर्षो वृष्ययंतर्गतो भवति ॥ 2 ॥ पंचमः खण्डः ॥ 5 ॥ पृथिवी तन्नामा तत्स्थः संकर्षणोग्निः तस्याः अग्निस्थानीयायाः पृथिव्याः संवत्सराकाश रात्रिदिगवान्तरदिङ्‌नामानः तत्स्थाः नारायणादयः समिदादिस्थानीया इत्यर्थः ॥ 1 ॥ तस्मिन्ने तस्मिन्नग्नौ देवाः वर्षं वषर्ान्तर्गतं जीवं जुह्वति । तस्या अहुतेः अन्नमन्नांतर्गतः सम्भवति ॥ 2 ॥ षष्ठः खण्डः ॥ 6 ॥ पुरुषः तन्नामातत्स्थः प्रद्युमनो अग्निः तस्य वाक्‌ प्राणजिह्वाचक्षुः श्रोत्रस्थाः तन्नामनोनारायणादयः समिदादिस्थानीया इत्यर्थः ॥ 1 ॥ तस्मिन्ने तस्मिन्नग्नौ देवा अन्नमन्नान्तर्गतं जीवं जुह्वति । तस्या अहुतेरेतः तदन्तर्गतः सम्भवति ॥ 2 ॥ सप्तमः खण्डः ॥ 7 ॥ योषातत्स्थः तन्नामानिरुद्धोग्निः तस्याः अग्निरूपाया योषित उपस्थादिनामानः तदन्तर्गताश्ऱ्च नारायणादयः समिदादयः ॥ 1 ॥ तस्मिन्ने तस्मिन्नग्नौ देवाः रेतः तदन्तर्गतं जीवं जुह्वति । तस्या आहुतेः गर्भोगर्भस्थः सम्भवति ॥ 2 ॥ अष्यमः खण्डः ॥ 8 ॥ 8 ॥ किंतत इत्यतः पंचमप्रश्ऱ्नस्योत्तरं जातमित्याह ॥ इति त्विति ॥ इत्येव पंचम्याहुतौहुतायां अपोजीवेन मरणकाले सहागताः भूतानीति यावत्‌ । पुरुषवचसो भवन्ति । तैः लब्ध देहोजीवः पुरुषनामवान्‌ भवतीत्यर्थः । एवं वैराग्यार्थं आगमनं निरूप्यगर्भवासादिदुःखं च निरूपयति ॥ स इति ॥ स उल्बेन जरायुणाऽवृतो गर्भस्थो जीवो दशवामासान्‌ यावत्स्थात्यं तावद्वा अन्तर्मातुः कुक्षौ शयित्वाथ जायते ॥ 1 ॥ सजातो जीवोयावदायुषं जीवति। अथ यदामि्रयते तदा तं प्रेतं दिष्यं सादृष्यमितो लोकादग्नय एव हरन्ति । प्रकृत होतारोदेवाः । अग्निं विशिनष्यि ॥ यत इति ॥ यत एव द्युपर्जन्य वृष्ययाख्याग्नेः सकाशद्भूलोकमितः प्राप्तस्तत्र चयतः पुरुषयोषाग्नेः सम्भूतस्तस्मा एव अग्नये हरन्तीत्यर्थः ॥ 2 ॥ नवमः खण्डः ॥ 9 ॥ इदानीं प्रथमतृतीयप्रश्ऱ्नयोरुत्तरमाह ॥ तदिति ॥ तत्तस्मात्काम्यकर्मणो गमनागमनहेतुत्वात्‌ तत्र विरक्ताये इत्थं पंचाग्निविद्योक्तरीत्या भगवन्तं विदुः । ये चेमेरण्ये मनो हरप्रदेशे श्रद्धातप इत्युपासते । श्रद्धा तपः प्रभृतिनिवृत्तकर्मानुतिष्ठन्यि ज्ञानप्रधानाः येच कमर्प्रधाना इत यावत्‌ । ते अर्चिषं अभिसम्भवन्ति । प्राप्नुवन्तीत्यादि देवयानः पन्था इत्यन्तं व्याख्यातं चतुर्थे ॥ 1 ॥ 2 ॥ एवं देवयानं ससाधनं विरूप्य पितृयाणं ससाधनं निरूपयति ॥ अथेति ॥

य इमे काम्यकर्मिणो ग्रमे इष्यापूर्ते । यजनखाते दत्तं दानं इति शब्दः प्रभृत्यर्थः । पितृ श्राद्धादिकमुपासते । आतिष्ठन्ति ते धूमं धूमदेवता लोकमभि सम्भवन्ति । प्राप्नुवन्ति । धूमाद्रात्रिंरात्ऱ्यभिमानि देवताम्‌ । रारिपरपक्षं कृष्ण पक्षाभिमानि देवतां अपरपक्षात्‌ यान्‌ षण्मासान्‌ दक्षिणादक्षिणतः एत्यादित्यस्तान्मासान्‌ दक्षिणायन देवता लोकं प्राप्नुवन्ति । ततः संवत्सरगमनं निषेधति ॥ नैत इति ॥ 3 ॥ तर्हि ततः क्वगच्छन्तीत्यत आह ॥ मासेभ्य इति ॥ मासेभ्योदक्षिणायन संज्ञिकेभ्यः पितृलोकं पितृलोकात्‌ आकाशं विनायकलोकमाकाशात्‌ चन्द्रमसं प्राप्नुवन्ति । काम्यकर्मिग्यं चन्द्रमसमेव विशिनष्यि ॥ एष इति ॥ एषः चन्द्रः सोमोराजा सोमलताभिमानीत्यर्थः । तदेव देवानां अन्नं तस्तं चन्द्रं देवाभक्षयन्ति । लताभिमानित्वेन इयमुक्तिः । अन्नविवक्षया तदिति न पुंसकप्रयोगः ॥ 4 ॥ वेत्थयथा सौ लोको न सम्पूयर्त इति प्रश्ऱ्नस्योत्तरमाह ॥ तस्मिन्निति ॥ तस्मिश्ऱ्चंद्रलोके कमिर्णो यावत्सम्पातमुषित्वाऽथकर्मक्षये एतमेव अध्वानं पुनरावर्तन्ते । इदानीं वेत्थ यथा पुनरावर्तन्त इत्यस्योत्तरं वदन्नेतमेवेत्युक्तं विवृणोति ॥ यथेति ॥ यथा येन मार्गेण स्वयमितं चन्द्रलोकं प्रतिप्राप्तं तेनैव अध्वनापुनरावर्तन्त इत्यर्थः । गतेनैव मार्गेण अगमनेऽनतिक्लेशेन न स्वर्गेति वैराग्यं स्यादित्यतो मार्गान्तरं निरूपयति ॥ आकाशमित्यादिना ॥ चन्द्रलोकात्‌ आगच्छन्‌ आकाशमाप्नोति । आकाशद्वायुमाप्नोति वायुस्थो भूत्वा धूमस्थो भवतीत्याद्यर्थः ॥ 5 ॥ प्रवर्षति वर्षान्तर्गतो भवति । ते कर्मिणः इहलोके केचिद्ब्रीहियावाः केचिदोषधिवनस्पतयः केचित्तिलमाषाः । इति शब्दोन्योपलक्षणार्थः । जायन्ते । अन्यधिष्ठिते व्रह्यादिशरीरे प्रविशन्ति । नतु तदभिमानिनः तथा चोक्तमन्याधिष्ठिते पूर्ववदभिलापादिति । अतो व्रीह्यादि भावानन्तरं खलु दुर्निष्प्रपतनं निररां दुष्यपतनं भवति वै तदेव विशदमाह ॥ य इति ॥ योयः पुरुषो ह्यन्नमत्तियच्चरेतः सिंचति तद्भूय एव भवति । तमेवानुप्रविशति ॥ 6 ॥ तत्ततस्तत्र कर्मिषु ये रमणीय चरणाः साधुयज्ञादिमन्तस्ते इह भूमौ रमणीयां योनिमापद्येरन्‌ । आपद्येरन्निति यत्‌ तच्चाभ्याशः कलसामीप्येन इवेत्यर्थः । स्वर्गाल्लोकात्‌ अवाक्‌ प्राप्तो वत्सरात्पूर्वमेवतु । मातुः शरीरमाप्नोति इति वचनात्‌ । रमणीयां योनिमित्युक्तं विशदमाह ॥ ब्राह्मणयोनिमित्यादिना ॥ अथेत्यादिकं समानम्‌ । कपूयचरणाः असाधुयज्ञादिमन्तः ॥ 7 ॥ नन्वस्तु ये विद्यामार्गाः कर्ममार्गा वा तेषामुक्तरीत्या ब्रह्मचन्द्रप्राप्तिः येषां तदुभयमपि नास्ति । तेषां कागतिरित्यत आह ॥ अथेति ॥ एतयोरुक्तयोः पथोः विद्याकर्ममार्गयोः मध्ये यान्येकतरेणापि यथानगच्छन्ति । तानीमानिक्षुद्रमिश्राणि अल्पानिसुखदुःखमिश्राणि असकृदावर्तीनि सदा गत्यादिमन्ति जाय्वम्रियस्वपुनः पुनः जायन्ते म्रियन्ते च । इत्येतत्स्वर्गापवर्गयोः अन्यत्तृतीयं स्थानमित्यथर्ः । ततश्ऱ्च यथा सौ लोको न सम्पूर्याते इति प्रश्ऱ्नोत्तरं जातमित्याह ॥ तेनेति ॥ केषांचित्तत्र गमनाभावाद्गतानां अपि न रावृत्तेरसौ लोको न सम्पूर्यत इत्यर्थः । यदर्थं गत्यादि निरूपणं तदाह ॥ तस्मादिति ॥ यस्मादेवं ज्ञानमार्गात्‌ अन्यत्रगतागतादि क्लेशस्तस्मात्तत्र जुगुप्सेत । विरक्तो भवेदित्यर्थः ॥ 8 ॥ पंचाग्नि विद्यावेत्तुः पातकिसंसर्गदोषा भावं फलं वक्तुं तत्संसर्गस्य दोषत्वे श्ऱ्लोकं प्रमाणयति ॥ तदिति ॥ तत्तत्र अभिप्रेते पातकि संसर्गस्य तत्सदृशदोषित्वे एष वक्ष्यमरणः श्ऱ्लोको भवति । तमेव पठति ॥ स्तेन इति ॥ इत्यते चत्वारः पतन्ति । पंचमश्ऱ्चतैः सहचरन्पतति ॥ 9 ॥ किंतत इत्यत आह ॥ अथेति ॥ य एतानेवं पंचाग्नीन्वेदतैः चतुभिॅ पातकिभिः सहाचरन्नपि पाप्मनानलिप्यते । न केवलमेतावत्‌ । य एवं वेदसशुद्धः पूतः अन्तर्बहिश्ऱ्च शुद्धः स्वयं शुद्धः पावयत्वन्यानिति पूत इति वा । निवृत्तपुण्यसाध्यो लोकः प्राप्योयस्यासौ पुण्यलोको भवति । तथाचोक्तम्‌ । द्विपर्जन्यधारा पुंस्त्रीसंस्थितं पंचरूपिणं नारायणम्‌ । वासुदेवं तथा संकर्षणं प्रभुम्‌ । प्रद्युम्नं चानिरुद्धं च क्रमाद्धयायंस्तु सर्वदा । पंचाग्निविन्नामभवेत्सयाति परमं पदम्‌ । नास्य संसर्गदोषोस्ति कदाचन भविष्यतीति । 10 ॥ दशमः खण्डः ॥ 10 ॥ एवं परब्रह्मविषया पंचाग्निविद्योक्ता । इदानीं तद्विषयमेव वैश्ऱ्वानरव्यिमाख्यायिकयाह ॥ प्रचीनशाल इत्यादि खण्डचतुर्दशकेन ॥ महाशालोविस्तीर्ण गृहवान्‌ । महाश्रोत्रियः छन्दः पाठमात्रवानिति प्रतीतिनिरायाय प्रमाणेनैव तद्वयचष्ये ॥ प्रत्यब्देति ॥ वैश्ऱ्वानरशब्दश्रवणादग्निरत्रोच्यत इत्यन्यथा प्रतीतिनिरासाय प्रमाणेनैव तां विद्यां विष्णुपरतया व्याचष्ये ॥ क्रीडात्मकत्वादित्यादिना ॥ वैश्ऱ्वानरस्य द्युत्वादिना कल्पनोच्त इति प्रतीतिनिरासाय तावत्‌ औपन्यवेति खण्डतात्पर्यमाह ॥ क्रीडेति ॥ द्विवुक्रीडेत्यादि धातोः । स्वर्गादारमिति द्वयाख्यत्वेनिमित्तान्तरम्‌ । सत्ययज्ञमिति खण्डतात्पर्यमाह ॥ सर्वेति ॥ विष्णोः चक्षुः सर्वरूपातिदर्शनाद्विश्ऱ्वरूपाख्यं आदित्याख्यं चेत्यन्वयः । आदित्याख्यत्वेनिमित्तान्तरमाह ॥ सूर्यस्यापीति ॥ इन्द्रद्युम्नं भाल्लवेयमिति खण्डतात्पर्यमाह ॥ वाय्वादीति ॥ हरेः प्राणरो यतोवाय्वादिप्राणशक्यं यन्नभवति तत्कर्ता तेन पृथग्वत्मर्ावायुश्ऱ्चेति सम्बन्धः । वायुनामकत्वे निमित्तान्तरं वायोरपीति । जनं शार्कराक्ष्यमिति खण्डतात्पर्यमाह ॥ बहुत्वादिति ॥ बुडिलमाश्ऱ्वतराश्ऱ्मिति खण्डतात्पर्यमाह ॥ व्याप्तत्वादिति ॥ रमापतेः वस्तिः कटिप्रदेशः । मध्यदेह वस्त्योराकाशाम्नामक्त्वे निमित्तान्तरमाह ॥ आकाशेति ॥ आकाशवारिणोः । उद्दालकमारुणिमिति खण्डतात्पर्यमाह ॥ प्रथनादिति ॥ पृथिवीनामेत्यादौ द्विवचनं ग्राह्यम्‌ । एकवचनप्रयोगस्तु श्रुत्यनुसारात्‌ । पृथिवी नामकत्वे निमित्तान्तरं पृथिवीति । एवेत्यभेदव्यावृत्तिः । ननु विष्णोः पादस्य तद्विष्णोः परमं पदं दिवीवचक्षुराततमित्यात तत्वश्रवणात्कथं पृथिव्याश्रयत्वेन पृथिवीमात्रस्थत्वाक्तिरित्यत आह ॥ उत्तमानामिति ॥ हि यस्मात्पादशब्देन उत्तमानां सर्वं रूपं कथ्यते । न पादमात्रमस्माद्विष्णोः पदमिति वैदिकी प्रथितिः स्मृता । तथाच श्रुतेः स्वरूपव्याप्तत्वपरत्वात्पादस्य पृथिवी स्थत्वेन तद्विरोध इति भावः । यद्वा ननु स्थूलभुग्वैश्ऱ्वानरः प्रथमः पाद इति श्रुत्यन्तरे पादशब्दस्य समग्रवैश्ऱ्वानर रूपे प्रयुक्तत्वादत्र पृथिव्येव पादौ इति एकावयवे प्रयोगः कथमित्यत आह ॥ उत्तमानां हीति ॥ तत्कुत इत्यतः तत्पर्यायशब्दप्रयोगादित्यत आह ॥ विष्णोः पदमिति ॥ तथाच श्रुत्यन्तरस्थ पादशब्दस्य सर्वरूपवाचित्वादत्र त्यस्य प्रसिद्धचरणवाचित्वान्नतद्विरोध इति भावः । तद्यद्भक्तमिति खण्डे प्राणाहुति तृप्यतयोक्तानां प्राणचक्षुरादित्यानां भेदे थयोस्य प्राङ्‌सुषिः सप्राणः तच्चक्षुः स आदित्य इति देवसुषिविद्योक्तविरोध इत्यत आह ॥ प्राण इति ॥ अत एवोत्तरत्र द्यौश्ऱ्चादित्यश्ऱ्चेति आदित्यस्यैव अनुवाद इति भावः । यानाहुतितृप्यतयोक्तानां व्यानश्रोत्र चन्द्रमसां भेदेऽथयोस्य दक्षिणः सुषिः सव्यानः तच्छ्रोत्रं सचन्द्रमा ति प्रागुक्तविरोधश्ऱ्चन्द्रमस एव अनुवादायोगश्ऱ्चेत्यत आह ॥ व्यान इति ॥ अपानाहुति तृप्यतयोक्तानां अपानवागग्नीनां भेदेऽथ योस्य प्रत्यङ्‌सुषिः सोऽपानः सावाक्‌ सोग्निरित्यक्तविरोधोग्नेः एव अनुवादायोगश्ऱ्चेत्यत आह ॥ वागिति ॥ समानाहुति तृप्यतयोक्तानां समानमनः पर्जन्यानां भेदेऽथयोस्तयोदङ्‌सुषिः स समानस्तन्मनः सपर्जन्य इति प्रागुक्तविरोधो अनुवाद अनुपपत्तिश्ऱ्चेत्यत आह ॥ समान इति ॥ मन एवेत्येव शब्दश्ऱ्चशब्दार्थः । इन्द्र इत्यनेन सम्बध्यते । इन्द्र इति पर्जन्य शब्द व्याख्यानम्‌ । पर्जन्योमघवांश्ऱ्चैव पुरुहूतः पुरन्दर इत्यभिधानात्‌ । अतिनीचस्य द्वारपत्वोक्त्याविशेषादतिशया लाभाच्चेति भावः । उदानाहुति तृप्यतयोक्तयोरुदानवाय्वोः भेद शंकायां तावदाह ॥ उदान इति ॥ आकाशस्य अपि भेदशंकामपाकरोति ॥ स एवेति ॥ अन्यथाऽयोस्योः ध्वःसुषिः स उदानः सवायुः स आकश इत्युक्तविरोधो अनुवादायोगश्ऱ्चेति भावः । ननु वायोरेव आकाशनामत्वे वायुश्ऱ्चाकाशश्ऱ्चेति पृथगुक्तिरनुपपन्नेत्यत आह ॥ लक्ष्म्ाविष्य इति ॥ रूपान्तरस्यापि लक्ष्म्ाविष्यत्वात्‌ विशेषत इत्युक्तम्‌ । एवं च केवलो वायुर्वायुशब्देन उच्यत इति न पृथगुक्तिरनुपपन्नेरिति भावः । वायुश्ऱ्चेति वाक्यविचारप्रसंगात्‌ । द्यौश्ऱ्चादित्यश्ऱ्चदिशश्ऱ्चन्द्रमाश्ऱ्चपृथिवी चाग्निश्ऱ्चविद्युच्चपर्जन्यश्ऱ्चेत्युक्तानां द्युदिक्‌ पृथिवी विद्युच्छब्दानामभिधेयमाह ॥ पृथिवीति ॥ तुशब्दो अवधारणे । वायुपत्न्नयेव । नन्वेवं आदित्ये तृप्यति द्यौस्तृप्यतीत्यादिना आदित्यतृप्तौ कथं दृवादीनां तृप्त्युक्तिः । अन्यतृप्तावन्यतृप्तेः कारणविशेषमन्तरेण असम्भवादित्यत आह ॥ तत्तदिति ॥ ते पृथिव्यादिनामकाश्ऱ्च । तत्र पृथिवीनामिकाश्रीः पश्ऱ्चिमद्वारपावायुपत्नीतु पूर्वदक्षिणोत्तरद्वारपेति विवेकः । नन्वादित्यादीनां पृथिव्यादीनां द्वार पत्वं नात्र श्रुतावुक्तमित्यत आह ॥ अधितिष्ठन्तीति ॥ तस्मादधितिष्ठन्तीत्युक्तिरिति शेषः । अनामयमामयोपलक्षितदोषशून्यं इति नारायणशब्द व्याख्यानम्‌ । ननु श्रुतौ यत्किंचेति श्रवणात्कथं नारायणमित्युक्तमित्यतोयत्किंच शब्दावपि भगवत्परतया व्याचष्ये ॥ यदिति ॥ चशब्दो विशेषणसुमुच्चायक इति भावः । तत्तृप्यतीति वाक्यं पंचकं व्याचष्ये ॥ एतेष्विति ॥ कथमन्यतृप्तावन्यतृप्तिरित्यत आह ॥ एषामिति ॥ तस्यानुतृप्तिं तृप्यति प्रजयापशुभिरित्यादि वाक्यपंचकेनोपासकस्य ऐहिकमेव फलमुच्यते । न केलमेतावत्‌ । मौक्तं चास्ति । प्रतिपद्यते वर्गं लोकं एतनेवं पंचब्रह्मपुरुषान्वेदेत्युक्तेरिति भावेन तत्र विशेषमाह ॥ सूर्येति ॥ अनेन नराः पूर्वद्वारपोपासका इत्यादि विशेषो ज्ञायते । हृदयस्थ पूर्वद्वारपोपासनेन श्ऱ्वेतद्वीपादि लोके पूर्वद्वारेण केशवं प्राप्नुवन्तीत्द ज्ञेयम्‌ । किं सूर्यादिप्रसादेनैव हरिं यान्ति नेत्याह ॥ वैश्ऱ्वानरेति ॥ नरादिसुरान्तानां सम्यग्ज्ञानं किमेक प्रकारं नेत्याह ॥ वैश्ऱ्वानर ज्ञानेति ॥ अत्र ज्ञानमुपासनम्‌ । साक्षान्मुख्यतः तत्कुत इत्यत आह ॥ तस्मादिति ॥ तस्मादेव फलं श्रुत्युक्तम्‌ । एवं वैश्ऱ्वानरविद्यायामेव । वैश्ऱ्वानारविद्याया भगवत्परतया व्याख्यातत्वाद्विष्णुः एव वैश्ऱ्वानरोन देवता भूतं चेत्युक्तम्‌ । प्रकारणसमाख्याभ्यां चायं निश्ऱ्चयो भवतीत्याह ॥ कोन इति ॥ कोन आत्माकिं ब्रह्मेति विचारपूवर्कं वैश्ऱ्वानर विद्याया आरभ्याधीतत्वेन विष्णुप्रकरणत्वाच्चवैश्ऱ्वानरो विष्णुः इति सिद्धम्‌ । अनात्तत्वादनात्मन इति वचनेन विष्णोः अन्येषां आत्मत्वाद्यसम्भवादित्यर्थः । माण्डूके स्थूलभुग्वैश्ऱ्वानर इति विष्णौ वैश्ऱ्वानरशब्दप्रयोगात्‌ । अत्रापि वैश्ऱ्वानरोविष्णुः इति सिद्धम्‌ । नच तत्रापि विष्णुः कुत इति वाच्यम्‌ । सोयमात्मेत्युपक्रमेन्यत्र असम्भव्यात्मब्द श्रवणेन अस्य विष्णुप्रकरणत्वादिति भावः । आत्मानं वैश्ऱ्वानरमित्युक्तो वैश्ऱ्वानरो विष्णुः एव । अग्नाविष्णोः साधारणस्य अपि वैश्ऱ्वानरशब्दस्य विष्णावेव प्रसिद्धात्मशब्देन विशेषणादिति सूत्रार्थः । आदिपदेन शीर्ष्णो द्यौः समवर्तत । चक्षोः सूयर्ो अजायत । प्राणाद्वायुरजायत । पद्य्भां भूमिरित्यादि पूरुषसूक्तसमाख्याग्रहणम्‌ । अत्रापि मूर्धैवसुतेजा इत्यादिश्रवणात्‌ । तथा चोक्तम्‌ । पुरुष विधमपि चैनमधीयत इति । वायुश्ऱ्चाकाशश्ऱ्चाधितिष्ठत इत्युक्ता आकाशो वायुरेवेत्युक्तम्‌ । तच्छ्रौतार्थापत्त्या समर्तयते ॥ सवायुरिति ॥ देवसुषिविद्ययां स उदानः सवायुः स आकाश इत्यभेद वचनादाकाशस्तावत्‌ वायुरेव । अत्र वायुश्ऱ्च अकाशश्ऱ्चेति भेदवचनादाकाशाख्यं वायोरूपमन्याधिष्ठितं वायुस्तकेवलं वायोः स्वरूपमिति विज्ञायत इत्यर्थः । लक्ष्म्ाविष्यत्वेन वायुराकाश इत्युक्तम्‌ । तत्र लक्ष्मीवाय्वोराकाश नामकत्वे अभिधानमाह ॥ आकाशेति ॥ ननु भगवदंगानां परस्परं भेदादन्योन्यनां अवत्त्वाच्च कथं मूर्धैव सुतेजाश्ऱ्चक्षुः विश्ऱ्वरूप इत्यादि भेदेन व्यपदेश इत्यतः उपासकदृष्ययनुसारेणेति स्मृत्याह ॥ सुतेज इति ॥ ततश्ऱ्चेयं खण्डचतुर्दशकस्याक्षरयोजना ॥ प्राचीनशालोनामतः उपमन्योः अपत्यं औपमन्यव इत्येकः । सत्ययज्ञोनामतः पुलुषस्य अपत्यं पौलुषिरित्यपरः । इन्द्रद्युम्नो नामतः भल्लवेरपत्यं भाल्लवेय इत्यन्यः । जनोनामतः शर्कराक्षस्य अपत्यं शार्कराक्ष्य इत्येकः । बुडिलोनामतः अश्ऱ्वतराश्ऱ्वस्य अपत्यं आश्ऱ्वतराश्ऱ्विरित्यपराः । ते है ते पंचमहाशालाः सम्यक्‌ प्रत्यब्दयज्ञकृतो महाश्रोत्रियाः सम्यग्वेदवेदार्थविदः समेत्यमिलित्वामीमांसां विचारं चक्रुः । नोस्माकमुपास्यः आत्मावैश्ऱ्वानराख्यः किं लक्षणकः । ब्रह्म च तदाख्यं किमिति ॥ 1 ॥ एवमात्मसुपरस्परं विचारेणापि विशेषनिर्णयमलभमानास्ते विशेषनिर्णयार्थं उद्दालकं सम्पादयांचक्रुः । सम्पादनप्रकारमेवाह ॥ उद्दालक इति ॥ हे भगवन्तः उद्दालको नामतः अरुणस्य अपत्यमं आरुरिः । सम्प्रतीदानीं अस्मदभिमतं आत्मानं वैश्ऱ्वानर मध्ये इत्यधिकं जानाति । तं हाभ्यागच्छमेत्युक्त्वा तमुद्दालकं प्रत्याजग्मुः ॥ 2 ॥ तदा सः उद्दालकः तदागमन प्रयोजनं बुद्‌ध्वा सम्पादयांचकार एतेषशं अन्यमुपदेष्यारं । स्वयमेव कुतो नोक्तमित्यत आह ॥ प्रक्ष्यन्तीति ॥ इमे महाशालत्वादिगुणाः मां प्रक्ष्यन्ति तेभ्यो वक्तुं सर्वमेवतत्पृष्यं न प्रतिपत्स्येहं ताहमन्यमेषां अनुशासकं अनुशासानीति विचिन्त्य ॥ 3 ॥ तान्‌ होवाच ॥ हे भगवन्तो श्ऱ्वपतिः नामतः कैकेयः केकयदेशाधिपतिः सम्पतीमं आत्मानं वैश्ऱ्वानरमध्येति । तं हाभ्यागच्छामेति । एवमुक्ताः ते तमश्ऱ्वपतिं प्रत्याजग्मुर्ह ॥ 4 ॥ तेभ्यो ह प्राप्तेभ्यो ब्राह्मणेभ्यः पृथक्‌ पृथक्‌ । अर्हाणि अर्हणानि । कारयांचकार । स राजा परेद्युः प्रातः संजिहानः शयनीयादुत्तिष्ठन्नुवाच । युष्मदागमने किं कारणम्‌ । नतावत्‌ स्तेनादिभयम्‌ । तेषां मद्राष्य्रेऽभावादित्याह ॥ नेति ॥ कदर्योऽदातासति विभवे यथाकालमाचारहीनो वा । स्वैर्यभावे स्वैरिणीकुतः । धनार्थिनश्ऱ्चेद्दास्यामीत्याह ॥ यक्ष्यमाण इति ॥ हे भगवन्तो अहं यक्ष्यमाणोस्मि वै । तत्र यावदेकैकस्मा ऋत्विजेधनं दास्यामितावत्‌ भगवद्भयो दास्यामि वसन्तु भगवन्तः इत्युचेति सम्बन्धः ॥ 5 ॥ एवमुक्ताः ते होचुः । येनैवेहाथर्ेन ज्ञानादिरूपेण साधितेनेति शेषः । पुपुषः चरेत्‌ गच्छेत्‌ मोक्षादिकं तमेव वदेत्‌ भवदादिः । यद्वा येनैवेहाथर्े न प्रयोजनेन साधितेन आगतः पुरुषश्ऱ्चरेत्‌ परावृत्त्यस्वग्रामादिकं गच्छेत्‌ तदेव वदेदित्यर्थः । तर्हि किं भवदागमने प्रयजनमित्यत आह ॥ आत्मानमिति ॥ 6 ॥ तान्होवाच राजा प्रातर्वः प्रतिवक्तास्मीति । ते षट्‌ब्राह्मणाः समित्पाणयः परेद्युः पूर्वाह्णे राजानं प्रतिचक्रमिरे । तान्हाऽनुपनीयशिष्यतया उपगमनं अकारयित्वैवै तद्वक्ष्यमाणं उवाच । ब्राह्मणानां क्षत्रियादुत्तमत्वात्‌ ॥ 7 ॥ एकादशः खण्डः ॥ 11 ॥ हे औपमन्यवत्वमात्मानं वैश्ऱ्वानरं कं किन्नामकमुपास्स इति । हे भगवो भगवन्‌ राजन्‌ दिवमेव कीडात्मकत्वाद्द्वयाख्यं स्वर्गाधारमेव आत्मानं वैश्ऱ्वानर उपास्स इति होवाच । वक्ष्यमरणविशेषव्यावृत्त्यर्थ एव शब्दः तत्र स्वयं विशेषमाह ॥ एष इति ॥ यमात्मानं वैश्ऱ्वानरं त्वमुपास्से एषः द्युस्थो वैश्ऱ्वानरो विश्ऱ्वनरसम्बन्धित्वात्‌ वैश्ऱ्वानराख्यः । आत्मा भगवान्‌ सुतेजाः अतितेजसा सुतेजो नामकः यत्तवास्ति तत्तदुपासनाफलमेवेत्याह ॥ तस्मादिति ॥ द्युस्थवैश्ऱ्वानरोपासकत्वात्‌ तवकुले स्वर्गप्राप्त्यर्थं सोमरूपं द्रव्यं सुतं प्रसुतं आसुतम्‌ । सवनत्रयकथनमेतत्‌ । दृश्यते अतीवकर्मिणः त्वत्कुलीना इत्यर्थः । सुतं प्रसुतमासुतं पुत्रपौत्रतत्पुत्रा इति वा॥ 1 ॥ अन्नमत्सिदीप्ताग्निः सन्‌ प्रियं पश्यसि । एवं अन्यस्यापि वैश्वानरज्ञानिनः फलमाह ॥ अत्तीति ॥ योधिकारी एतमात्मानं वैश्ऱ्वानरं विष्णुं उपास्ते । सोप्यन्नं अत्ति प्रियं पश्यति । अस्योपासकस्य कुले ब्रह्मवर्चसम्भवति । विशेषान्तरमाह ॥ मूर्धेति ॥ एषः द्युस्थोद्युनामकः सुतेजो नामकश्ऱ्च आत्मनो वैश्ऱ्वानरस्य मूर्धैवेति होवाच । किं एतत्‌ ज्ञानेन यावन्माया ज्ञातं तावदेवालमित्यत आह ॥ मूर्धेति ॥ यद्यदि मां प्रतित्वं नागमिष्यस्तर्हि ते मूर्धोपास्य वैश्ऱ्वानरमूर्धृाऽपरिज्ञानपराधेन व्यपतिष्यत्‌ । इतिशब्दः औपमन्यवोपदेशसमाप्त्यर्थः ॥ 2 ॥ द्वादशः खण्डः ॥ 12 ॥ अथौपमन्यवोपदेशानन्तरं सत्ययज्ञं पौलुषिं प्रत्युवाचेत्यादिकं समानम्‌ । प्राचीनयोग्यानादि योग्यतावान्‌ । आदित्यमेव आदानादादित्यनामकं आदिस्थत्यमेव । सर्वरूपातिदर्शनाद्विश्वरूपाख्यः बहुविश्ऱ्वरूपमित्युक्तं विशदमाह ॥ 1 ॥ प्रवृत्त इति ॥ चक्षुस्तुचक्षुरेव ॥ 2 ॥ त्रयोदशः खण्डः ॥ 13 ॥ वैयाघ्रपद्य व्याघ्रपाद्गोत्रापत्य वायु वायुस्थं ज्ञानायुरूपतो वायुनामानमेव । पृथग्वर्त्मा पृथक्‌ विलक्षणोवर्त्मामार्गो यस्यासौ तथोक्तः । वाय्वादिप्राणशक्यं यन्नतत्कर्तृत्वात्‌ । पृथक्‌ बलयोविलक्षणपूजासाधनानि पृथग्रथ श्रेणयो विलक्षणरथपंक्तयः ॥ 1 ॥ प्राणः प्राणवायुः ॥ 2 ॥ चतुर्दशः खण्डः ॥ 14 ॥ आकाशं आकाशस्तमानीप्तेराकाशनामकमेव । बहुत्वाद्ब्रहुलः । प्रजया च धनेन च । बहुलः प्रभूतोसि ॥ 1 ॥ सन्दोहो मध्यदेहः ॥ 2 ॥ पंचदशः खण्डः ॥ 15 ॥ आप एव व्याप्तत्वात्‌ अम्नामकमप्स्थमेव । रयिः रतिकरत्वतः । रयिमान्‌ धनवान्‌ ॥ 1 ॥ वस्तिः कटिप्रदेशः ॥ 2 ॥ षोडशः खण्डः ॥ 16 ॥ पृथिवीं एव प्रथनात्पृथिवीनामकं पृथिव्याधारमेव । प्रतिष्ठा प्रतिस्थितेः ॥ 1 ॥ व्यम्लास्येतां भज्येयातातम्‌ ॥ 2 ॥ सप्तदशः खण्डः ॥ 17 ॥ एवं प्रत्येकं उपदिश्यतान्‌ ब्राह्मणान्‌ होवाच । एते वैखलुयूयमिमं आत्मानं वैश्ऱ्वानरं पृथगिव विद्वांसो उन्नमत्थ । भगवदंगानां भेदाभावादिव शब्दः । इदानीं समग्रात्मोपासकस्य फलमाह ॥ यस्त्विति ॥ यस्त्वधिकारी एतं आत्मानं वैश्ऱ्वानरं भगवन्तं अन्तः प्रादेशमात्रं तावत्‌ मात्रपरिमाणकम्‌ । तथाचोक्तम्‌ । हृद्यपेक्षया तुमनुष्याधिकारत्वादिति । अभि अभितो विविगतं मानं मर्यादायस्य तं अभिविमानं सर्वगतम्‌ । मानं ज्ञानं लयश्ऱ्चेति मर्यादाचेति कथ्यत इति वचनात्‌ । एवं वक्ष्यमाणरीत्योपास्ते । सः सर्वेषु लोकेषु स्थितेषु सर्वेषु भूतेषु सर्वेष्वात्मसु अन्नमत्ति । देवतापेक्षयैतत्‌ ॥ 1 ॥ भगवदंगानां उक्तं नामधेयं सर्वथामनसिधार्यं इत्याशयेन तदनुवादन्‌ समग्रं वैश्ऱ्वानरमुपदिशति ॥ तस्येति ॥ प्रकृत वैश्ऱ्वानरे होमं वक्तुं तदपेक्षितमाह ॥ उर एवेति ॥ वेद्याद्यभिमानि देवताः तस्योरः प्रभृतिषु तिष्ठन्तीत्यर्थः ॥ 2 ॥ अष्यादशः खण्डः ॥ 18 ॥ होमशेषमेव वक्ति ॥ तदिति ॥ तत्तदाभोजन वेलायां यद्भक्तं अन्प्रथममागच्छेदास्य प्रतितद्धोमीयं होमद्रव्यं सः भोक्तायां अहुतिं प्रथमां जुहुयात्तां जुहुयात्‌ प्राणायस्वाहेति अनेन मन्त्रेण आहुरितृप्यानाह ॥ प्राण इत्यादिना ॥ प्राणश्ऱ्चक्षुरादित्य इत्येकैव देवता । द्यौः वायुपत्नीतृप्यति । दिवितृप्यंन्त्यां यत्किंच ज्ञानरूपमानन्दरूपं च ब्रह्मा द्यौश्ऱ्चादित्यश्ऱ्च आधिष्ठतः । हृदये पूर्वद्वारपत्वेन तद्ब्रह्म तृप्यति । एषां प्रियत्वात्‌ । किं तत इत्यत आह ॥ तस्येति ॥ तस्य ब्रह्मणः तृप्तिमनुयजमानः प्रजादिभिः तृप्यति ॥ खं0-॥ 19 ॥ एवं उत्तरखण्डचतुष्ययं नेयम्‌ । दिशस्तन्नाम्नीवायुपत्नी । अधितिष्ठति । दक्षिणद्वारपत्वेन । खं0-20 ॥ पृथिवी श्रीः । अधितिष्ठतः पश्ऱ्चिमद्वारपत्वेन ॥ खं0-21 ॥ पर्जन्यः इन्द्रः । विद्युत्‌ वायुपत्नी । अधितिष्ठतः उत्तरद्वारपत्वेन ॥ खं0-22 ॥ आकाशोवायुः अधितिष्ठतः अधितिष्ठतः ऊर्ध्वद्वारपत्वेन ॥ खं-23 ॥ एवं वैश्ऱ्वानररूपं तद्विषयहोमप्रकारं च निरूप्यज्ञानपूर्वहोम एव अवश्यंभावीति भावेन तदज्ञानेन होमेऽनर्थं तज्ज्ञानेन होमेफलं चाह ॥ सय इति ॥ सः प्रसिद्धो यः कश्ऱ्चिदिदं वैश्ऱ्वानरस्वरूपादिकं अविद्वान्‌ प्राणाग्नि होत्रं जुहोति । तस्य तदग्निहोत्राख्यं कमर्यथांगारानपोह्यभस्मनिजुहुयात्‌ मूर्खः तादृक्‌ स्यात्‌ ॥ 1 ॥ अथ योधिकारी । एतद्वैश्ऱ्वानरस्वरूपं एवं उक्तरीत्याविद्वान्‌ प्राणाग्निहोत्रं जुहोति । तस्य सर्वेषु लोकेषु स्थितेषु भूतेषु तदन्तर्गतेषु सर्वेष्वात्म सुहुतं भवति ॥ 2 ॥ ततः किमित्यतो निष्यनिवृत्तिं फलमाह ॥ तदिति ॥ तन्निदशर्नं यथेपीकातूलं चाग्नौप्रोतं प्रविष्यं प्रदूयेत । परितप्तं भवेत्‌ । भस्मीभवेत्‌ । एवं हास्य वैश्ऱ्वानरज्ञानिनः सवर्े पाप्मानः प्रदूयन्ते विनश्यन्तीत्यर्थः । ज्ञानमपरोक्षं चेत्सर्वे पाप्मानोऽनारब्धाः । परोक्षं चेद्यथायोग्यम्‌ । तस्माद्वैश्ऱ्वानरज्ञानस्य सर्वपापक्षयहेतुत्वादेवहैवं वित्‌ । यद्यपि चण्डालाय स्मरणायोग्यायापि स्वोच्छिष्यं प्रयच्छेत्‌ । ततापि नतत्त्य पापहेतुः । किन्तु तद्दत्तमुच्छिष्यं अय चण्डालस्यान्तर्यामिणि वैश्ऱ्वानरे आत्मन्येव हुतं स्यात्‌ । वैश्ऱ्वानरज्ञानपूर्वं कृतं अग्निहोसिर्वलोकस्थ सर्वभूतांतर्यामितृप्तिकरमित्येतत्‌ श्ऱ्लोकेन द्रढयति ॥ तदिति ॥ सर्वाणि भूतान्यभीष्यापेक्षारि ॥
इति श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितस्य श्रीमच्छन्दोगोपनिषद्भाष्यस्य टीकायां श्रीमद्वेदव्यासतीर्थ पूज्यपादशिष्येण वेदाशभिक्षुणा विरचितायां पदार्थकौमुद्यां पंचमोऽध्यायः समाप्तः ॥ 5 ॥

************************************************************************************************************

षष्ठोऽध्यायः

तस्मै नमो भगवते चिदचित्परमायते ॥
पुरुषोत्तमाय देवाय पूर्णानन्दैकरूपिणे ॥ 1 ॥
पूवर्ं जीवजडात्मकात्प्रपंचात्परमार्थत एवात्यन्तभिन्नं निखिलगुणोदारं सर्वोत्तमं भगवन्तं जानतां मोक्ष तदितरफलका उपास्त य उक्ताः । तत्र जीवेश्ऱ्वरभेदविषयेयः सन्दिग्धोविपर्यस्तो वा तं प्रतिसभेदोयुक्तिभिः साध्यतेनेन षष्ठप्रपाठकेन । तत्र तावत्‌ श्ऱ्वेतकेतुं निमित्तीकृत्य जीवानां भगवता भेदं बोधयन्‌ भेदबोधनस्य अभेदप्रसक्तिं विनाऽयोगात्तत्पूर्वकं भेदं समर्तयते ॥ श्ऱ्वेतकेतुरित्यादिना ॥ ननु चतुर्विंशति वर्षः सर्वान्‌ वेदानधीत्य एयायेत्यनुपपन्नम्‌ । सर्वान्‌ वेदान्‌ श्ऱ्वेतकुतुरधीत्यद्वादशाब्दकः । पितुः समीपं एयायेत्यादौ भारतवाक्येऽध्ययनं समाप्यपुनरागतस्यापि श्ऱ्वेतकेतोरुत्पत्त्यपेक्षयैव द्वादशाब्दत्वप्रतीतेरित्यतः तदभिप्रायं प्रामरणेनैवाह ॥ अधीत्यब्देति ॥ अध्ययनं समाप्यपुनरागतोपि श्ऱ्वेतकेतुरधीत्यब्दानां द्वादशत्वाद्द्वदशाब्द इतीरितः । नोत्पत्त्यपेक्षयाऽब्दाननां द्वादशत्वात्‌ । अत एव द्वादशवर्ष उपेत्य चतुर्विंशति वर्ष इत्युक्तम्‌ । आह ॥ सर्वं खल्विदं ब्रह्मति सर्वय प्रपंचस्य ब्रह्मात्मकत्वोक्तौ कथमित्याशंकायां तज्जलानिति शंन्त उपासीतेति । तज्जत्वात्‌ तल्लत्वात्‌ दनत्वादिति यत्‌ सर्वस्यब्रह्मोपादानत्वं ब्रह्मण्यारोतत्वरूपं प्रागुक्तं यत्पुनरेकस्मिन्‌ विदुषि भुक्ते सर्वं जगत्तृप्यतीति सर्व भूतस्थात्म्यैक्यमुक्तम्‌ तदुभयं प्रपंचयितं अयं षष्ठाध्याय आरभ्यते । तत्र श्ऱ्वेतकेतुं प्रत्युद्दालकेन ब्रह्मविज्ञानेन सर्वविज्ञानोक्तौ अन्यज्ञानेन अन्यज्ञानस्य क्वाप्यदर्शनादित्यभिप्रायेण कथमिति श्ऱ्वेतकेतुना आक्षिप्तेकार्य स्योपादानानन्यत्वात्‌ नानुपपत्तिरित्याशयवतो उद्दालकेनमृत्पिण्डादि दृष्यान्तताः कथिताः । हे सोम्यैकेन मृत्पिण्डेन चरुकुण्डादि कारणभूतेन विज्ञातेन सवर्ं अन्यन्मृण्मयं मृद्विकार जातं विज्ञातं स्यात्‌ । कार्यस्य कारणानन्यत्वे इदं कारणं अयं अस्य विकार इति कथमित्यत उक्तम्‌ ॥ वाचेति ॥ वाचारम्भणं वागारंमणं वागालम्बनमिति यावत्‌ । विकारः । नामधेयं नामैव नामधेयं स्वार्थे देयप्रत्ययः । नामैवकेवलम्‌ । नविकारोनामवस्त्वस्ति परमाथर्तो मृत्तिकेत्येव मृत्तिकेकैवतु सत्यं वस्त्वस्तीति । तदसत्‌ । सर्वं खल्विदमित्यस्य तस्मादुहैवं विदित्यस्य चान्यथैव प्राग्व्याख्यात्वात्‌ । ब्रह्मज्ञानेन तदारोपित सर्वज्ञानं चायुक्तम्‌ । अधिष्ठान यथात्म्यज्ञानेन अध्यस्तज्ञानस्य क्वाप्यनुपलब्धत्वात्‌ । अतः सादृश्य प्राधान्याभ्यामेव एकविज्ञानेन सर्वविज्ञानं अभिप्रेतम्‌ । तत्राद्ये दृष्यान्तं वक्तुं यथा सोम्येत्यादि वाक्यत्रयम्‌ । द्वितीयेद्दृष्यान्ताभिदानाय वाचारम्भण वाक्यत्रयम्‌ । नन्वेवं तर्हि दृष्यान्त त्रयोपादानं व्यर्तमिति चेत्‌ त्वत्पक्षेपि साम्यात्‌ । दृढप्रतीत्यर्थमित्यस्य अस्माकमपि साम्यात्‌ । दार्ष्यान्तिकेऽनेकाभेदानुगमार्थमिति चेत्‌ कार्यकारणयोः अनन्यत्वस्येकेनैव ज्ञापिततया अस्यापि वैयर्थ्यात्‌ अप्रमाणिकत्वात्‌ प्रमाणविरोधाच्चेति भावेन यथासोम्येत्यादि दृष्यान्त वाक्यत्रयेपि विवक्षाविशेषं प्रमाणेनैवाह ॥ यथेति ॥ एकमृत्पिण्डे इत्यर्थः । सादृश्यादेव मृत्त्वादि सादृश्यमात्रात्‌ । प्रतियोग्याद्यधिक्यं विनेत्यर्थः । तताच सादृशमात्र ज्ञानात्सदृशमात्र ज्ञानं भवतीत्यत्र प्रथमदृष्यान्त इत्यर्थः । एवं सोम्य स आदेशो भवतीति दार्ष्यान्तिक वाक्यं व्याचष्ये ॥ तथेति ॥ एवमुत्तरत्रापि । सादृश्यादेवेति सम्बन्धः । दृष्यान्त समुच्चयार्थश्ऱ्चशब्दः । विष्णौ सत्त्वेन ज्ञाते प्रामाणिकत्व सादृश्याज्जगदपि तथाविज्ञायत इत्यर्थः । स्वर्णस्य प्राधान्यात्‌ लोहमयाः लोहत्वेन विज्ञायन्ते इत्यनुवर्तते । तथाच प्रदानभूत सदृशज्ञानात्‌ अप्रधान सदृशज्ञानं भवतीत्यत्र अयं दृष्यान्त इत्यर्थः । प्राधान्यात्‌ विष्णोः इति शेषः । ज्ञानानन्दादि रूपेण विष्णुविज्ञानाच्चेतनत्व सादृश्याज्जिवा अपि तथा विज्ञायन्ते । ननु चेतनत्व हेतुना ईश्ऱ्वरदृष्यान्तेन ज्ञानानन्दनुमानं न सम्भवति । तथासति तत एव हेतोः परिच्छिन्नानन्दानुमान आपत्तेः इति चेत्‌ । मैवम्‌ । अबाधित विषय एवानुमान प्रवृत्तेः नातिप्रसंग इति भावः । तृतीय दृष्यान्ते विवक्षाविशेषमाह ॥ अत्यल्पेपीति ॥ नखकृन्तन्याज्ञातया सर्वमयोमयमयस्त्वेन ज्ञायेत । अनेन नखनिकृन्तनशब्दः कृष्णाय सपिण्डो उपलक्षक इत्यसदित्युक्तं भवति । ननु विष्णोः बहुत्वाज्जगतश्ऱ्च अल्पत्वात्‌ नायं दृष्यान्तः प्रकृतोपयुक्त इत्यतो अपिशब्दः सूचित कैमुत्यमेव विशदयति ॥ किम्विति ॥ ईदृशं ज्ञायत इति वक्तव्यमिति शेषः । वाचरम्भणमित्यादि वाक्यत्रयं तात्पर्यतो व्याचष्ये ॥ अनन्येति ॥ अनन्याधीनस्य विष्णोः विज्ञानात्‌ अन्याधीनं विज्ञातफलं भवति । श्रौतमृत्तिकादिशब्दाः वैदिकशब्दमात्रोपलक्षका इति भावेन शब्दान्तरोपादानम्‌ । नचेदं लोहमणि दृष्यान्ते न गतार्थम्‌ । तत्र प्रधानाप्रधानयोः सादृश्यविवक्षायाः सत्त्वात्‌ अत्र पुनस्तदभावादिति । सांकेतिकं यथाविज्ञातफलं भवति । ननु ततापि वाचारम्भण वाक्यं त्रिवारं कस्मात्पठ्यते । शब्दांतरं दृष्यान्तीकर्तुमिति ब्रूमः । तर्हि संस्कृतशब्द दृष्यान्तत्रयमेक त्रैववक्तव्यम्‌ । मैवम्‌ । तत्तदभिधेय प्रसंगायातस्य तत्तदभिधानस्य तदैव वक्तव्यत्वात्‌ । तथापि प्रतिशब्दं दृष्यान्तीकरणेऽपर्यवसानप्रसक्तेः उपलक्षणत्वे त्वेकेनापि कृतत्वाच्छब्दत्रयोपादानमनुपपन्नमिति चेत्‌ न । उक्तरीत्यामृत्पिण्डादि दृष्यान्तत्रयोपादनस्य अवश्यकत्वे तत्तदभिदेय प्रसंगायात तत्तदभिधानोपादनस्य अदोषत्वात्‌ । प्रमाणे तु विवेकर्थं वाक्यत्रयमेकीकृत्य व्याख्यातम्‌ । लोहमाणिशब्दः स्वर्णपरत्वेन व्याख्यातः । तत्राभिदानमाह ॥ स्वर्णमिति ॥ स्वर्णमेवेति सम्बन्धः । इतिशब्दोध्याहारार्थः । स्वर्णलोहमणिशब्दो योगरूढ इति मन्तव्यम्‌ । रूढिज्ञापकाभिदानस्य त्रोक्तत्वात्‌ । मणिः मुखं प्रधानं चेत्युत्तमस्य वचो भवेदित्यन्यक्त्यियोग प्रतीतेः । एवं यथासोम्येत्यादिकं स्वमते प्रमाणेनैव व्याख्याय परव्याख्यानं दूषयति ॥ विकारत्वेति ॥

यथासोम्य इत्यादिवाक्ये मृण्मयादीनां मृदादि विकारत्व विवक्षायामेक पिण्डमणिशब्दाः उपलक्षणमेतत्‌ । व्यर्थाः विगतार्थाः विरुद्धार्थाश्ऱ्चस्युः । तथाहि । मृदाविज्ञातया मृण्मयं विज्ञातं स्यात्‌ । लोहेन विज्ञातेन लोहमयं विज्ञातं स्यात्‌ । कृष्णायसेन विज्ञातेन कृष्णायसं विज्ञातं स्यादित्येतावता पूर्णत्वेन त्रयाणामेक शब्दनां पिण्डमणि नखनिकृन्तन शब्दनां सर्वशब्दानां च विगतार्तत्वं स्यात्‌ । र्समृण्मयादीनामकमृत्पिण्डडे आरोपितम्‌ । कारणव्यतिरेकेण कायर्ासत्त्वविवक्षायां मृण्मयस्य मृदात्मना सत्त्ववत्‌ प्रपंचस्यापि ब्रह्मात्मना सत्त्वापातादिति । अस्माकं तु सादृश्य विवक्षायामेक सर्वशब्दौ तावत्‌ सार्थकावेव । एकमृत्त्वस्य अनुयोगिन्यपि सत्वात्‌ न तत्सादृश्य प्रतियोगितावच्छेकमिति पिण्डशब्दोपादानम्‌ । प्रतियोगिप्राधान्यात्यल्पत्व ज्ञापनार्थमेव मणिनखकृन्तन शब्दोपादानम्‌ । मणिर्मुखं प्रधानं चेति वचनेन मणिशब्दस्य प्राधान्यवाचकत्वावगतेः । नखनिकृन्तनस्यरूपस्य अत्यल्पत्वादिति । एवं यथासोम्येत्यादिवाक्य व्याख्यानं दूषयित्वा वाचारम्भणवाक्यत्रय व्याख्यानमपि दूषयति ॥ मृत्तिकेतीति ॥ तदेव विवृणोति ॥ विकारेति ॥ वाचारम्भण वाक्ये विकारमिथ्यात्व विवक्षायां कृतायां वाचारम्भणं विकारोमृत्तिकैव सत्यं वाचारम्भणं विकारोलोहमणिव सत्यं वाचारम्भणं विकारः कार्ष्णायसं एव सत्यमित्येवस्यात्‌ । नतु नामदेय शब्दा इति शब्दाश्ऱ्च । नामधेयं नामैवकेवलमिति त्वया व्याख्यातत्वेन वाचरम्भणमित्यनेन पुनरुक्तत्वात्‌ । मृत्तिकाशब्दस्य शब्दपरार्थकत्वमनंगीकृत्यार्थपादार्थकत्वांगीकृता वितिशब्दस्य अप्यनपेक्षणात्‌ । पदार्थविपर्यास एव ह्यति शब्दः । अर्थान्तरासम्भवात्‌ । सच शब्दप्रकरणे शब्दपदार्तकत्वं निवार्यार्थपदार्तकत्वं व्यवस्थापयति यथान वेति विभाषेति । अर्थप्रकरणे तु शब्दपदार्थकत्वं यथागौरित्ययमाहेति । अर्थशास्त्रं चेदम्‌ । ततो विनैवेति शब्देन प्रकारणादेवमृत्तिकाशब्दस्य अर्थपदार्थकत्वे सिद्धे किमिति शब्देन । अस्माकं तु शब्दपदार्थकत्व व्यवस्थापनार्तकत्वात्सार्थक एवेति भावः । किं च कथमिदं वाक्यं विकारमिथ्यात्व परम्‌ । मिथ्यात्व वाचिशब्दाभावात्‌ । वाचारम्भणशब्दोस्तीति चेत्‌ सकिं मिथ्यात्वेरूढः किं वायौगिकः । नाद्यः । अभिधानाद्यभावात्‌ । न द्वितीयः । अवयववृत्त्यामिथ्यात्वालाभात्‌ । ननु यथा अन्नमात्रं भुक्तमित्युक्ते व्यंजना नचैवम्‌ । ततश्ऱ्चाश्रुत कल्पनमेव दोष इत्यथर्ः । नचात्राब्भक्षोवायु भङक्ष इत्यादिवत्‌ अवधारणकल्पकं किंचिदस्तीति भावः । किंच वाचा केवलं अस्तीत्यारभ्यत इति योगमभिप्रेत्य वाचारम्भणं वागालम्बनमिति व्याख्यानमयुक्तम्‌ । आरम्भण शब्दस्य ल्युडन्तत्वात्‌ । ल्यटश्ऱ्चकर्मणि विधानाभावात्‌ । नच कृत्यल्युटो बहुलमिति कर्मणिल्युट्‌ प्रबलनियामकमन्तरेण बुहुलग्रअहणस्य व्याख्यातुं अशक्यत्वादिति भावेनाह ॥ नचेति ॥ आरभ्यं चेन्नारम्भणम्‌ । किं तर्हि तदित्यत आह ॥ क्रियेति ॥ उत्पादनापरपर्यायारम्भणक्रियैव आरम्भणशब्देनोच्यते । ल्युटो भवे विदानस्य प्रसिद्धत्वादित्यर्थः । यद्यपि करणाधिकरणयोरपि ल्युड्‌िवहितः । तथापि तस्य प्रकृतानुपयोगादग्रहणम्‌ । एवं वाचारम्भण वाक्यस्य परव्याख्यां दूषयित्वा स्वयं व्याचष्ये ॥ अत इति ॥ परव्याख्यानस्य अनुपपन्नत्वदित्यर्थ इति सम्बन्ध; । वाचावागिन्द्रियेण नाम्नां संस्कृतातिरिक्तनानां आरम्भणमुच्चारणं विकार इत्यनुवादेन विविधाकार इति व्याख्यानम्‌ । ननु विविधाकारो विविधकरणम्‌ । नच नाम्नां आरम्भणं विविधकरणमित्यत उक्तम्‌ ॥ विक्रयमाण इति ॥ विविधत्वेन क्रियमाण इत्यर्थः । नायं कारशब्दो भावसाधनः किन्तु कर्मसाधन इति भावः । नामधेयं मृत्तिकेत्येव सत्यमित्येतदन्वयं दर्शकन्‌ व्याचष्ये ॥ सत्यमिति ॥ सत्यशब्दः कथं सर्वदाविद्यमानत्वार्थः । तत्र तस्य योगरूढ्योरभावादिति चेत्‌ । न । एतत्सत्यं ब्रह्मपुरमित्युत्तरत्र सत्यशब्दस्य नित्ये प्रयोगाद्रूढिसिद्धेः । योगोप्यस्तीत्याह ॥ सत्त्वेति ॥ सत्यमित्यत्र सदित्यस्यार्थः सत्त्वेनेति । त इत्यस्य ततमिति । ततिः कालिकी विवक्षितेति भावेन कालत इत्युक्तम्‌ । यमित्यस्य अर्थो ज्ञायत इति । विद्वाद्भिरिति योग्यतयालब्धम्‌ । अयमपि सच्छब्दाथर्ो वा । नित्यत्वेन प्रसिद्धमिति निर्वचनलभ्यार्थोक्तिः । संस्कृतातिरिक्तनाम्नां आरम्भणं विविधाकार इत्युक्तम्‌ । तत्कुत इत्यत आह ॥ संकेतेनेति ॥ हि यस्मात्संस्कृतातिरिक्तानि नामानि पुरुषमति वै(श्ऱ्व)रूप्य जन्मनासंकेतेन क्रियमाणान्यतो विकार रूपाणि । विविधत्वेन क्रियमाणानि । ततश्ऱ्च अनित्यानीत्यर्थः । नन्वारम्भणं विकार इति कथं विशेषणविशेष्यभावः । आरम्भण शब्दस्य नपुंसकलिंगत्वाद्विकार शब्दस्य चपुल्लिंगत्वादित्यत आह ॥ विकारशब्दस्येति ॥ आरम्भणशब्दस्य भावविहितल्युडन्तस्य नियतनपुंसकलिंगत्वादिति शेषः । तथाभूतयोः अपि विशेषणविशेष्यभावः क्वदृष्य इत्यत उक्तम्‌ ॥ वेदा इति ॥ नन्वत्र प्रमाणशब्दो भावसाधनः करणसाधनो वा । नाद्यः । सामानाधिकरण्यानुपपत्तेः । न द्वितीयः । करणे विहितल्युडन्तस्य विशेष्यनिघ्नत्वेन प्रमाणशब्दस्यापि पुल्लिंगनिर्देशापत्तेरिति । मैवम्‌ । भावसाधनत्वाभ्युपगमात्‌ । सामानाधिकरण्यं तु भाक्तम्‌ । अत एव सुधायां पिपीलिकालिपिश्ऱ्चापि प्रमाणमिति वाक्यव्याख्यानावसर एवं एवोक्तम्‌ । ननु करणसाधनत्वेपि प्रमाणमिति सामान्येनोद्दिश्य वेदत्वविधानान्नदोष इति चेत्‌ । तर्ह्यत्राप्यारम्भणमित्युद्दिश्य विकारत्व विधानमिति साम्यादिति । न्वस्त्वत्र सांकेतिकसंस्कृतनाम्नां विकारत्वसत्यत्वेकत्येते इति । तेन नेति शब्दवैयर्थ्यादि दोषः । तथापि सांकेतिकं नामसंस्कृतनामविकार इत्येव तात्पर्यं किं न स्यात्‌ । एवं चास्य दृष्यान्तान्तरत्वेपि जगतो ब्रह्मविकारत्व एव दृष्यन्तो भविष्यतीत्यत आह ॥ नचेति ॥ मंणुमातीत्यादि सांकेतिकनाम्नः संस्कृतापभ्रष्यत्प न संस्कृतोपादानकत्वम्‌ । उभयोरप्याकाशोपादानकत्वात्‌ । तयोः परस्परं भेदेनैवोपलम्भाच्चेति भावः । यदि वाचारम्भण दृष्यान्तेन ब्रह्मणो जगदुपादानत्वं न विवक्षितम्‌ । तर्हि किं विक्षतमित्यत आह ॥ प्राधान्यमेवेति ॥ सांकेतिकनाम वज्जगतो प्राधान्यंचेत्प ग्राह्यम्‌ । एव शब्दः परोक्तनि रासकः । अयमर्थः । उक्तं तावद्विकारत्वात्सांकेतिकं नामाऽनित्यं संस्कृतं तु नित्यमिति । तेनानित्यत्वात्‌ सांकेतिकं नामा प्रधानम्‌ । नित्यत्वात्‌ संस्कृतं प्रधानमिति लभ्यते । एवंच तद्दृष्यान्तेन ब्रह्मजगतोः प्राधान्याप्राधान्ये एव विवक्षिते । ततश्ऱ्च यथा प्राधान्यात्‌ संस्कृतज्ञानमात्रेण सांकेतिकं ज्ञातं भवति । तज्ज्ञानफलस्य विद्वद्वयवहारगोचरत्वादेरनेनैव सिद्धेः । तथा प्राधान्यात्‌ भगवज्ज्ञानेनैव अप्रधानं देवता कर्मादिमिश्रयंसकलमपि विश्ऱ्वं ज्ञातं भवति । तज्ज्ञानफलस्य अपि अत्रैवान्तर्भावादिति । ननु यद्यत्र जगतो ब्रह्मविकारत्वं न विवक्षितम्‌ । तर्ह्युत्तरत्र सदेव सोम्य इदमग्र आसीदित्यादिना सृष्यिकथनमसंगतम्‌ स्यात्‌ । तद्धिजगतो ब्रह्मविकारत्वं प्रपंचयितुं प्रवृत्तमित्यत आह ॥ सृष्यिश्ऱ्चेति ॥ स्यादेवं यद्यत्र जगतो ब्रह्मविकारत्वं प्रपंचयितुं सृष्यिरुच्यते । नचैवं किं नाम यन्मृत्तिकादिनामवत्‌ भगवतः प्राधान्यं विवक्षितं तत्कथमित्याकांक्षायां जगन्निमित्तकारणत्वादिना भगवतो जगत्प्राधान्य ज्ञापनार्थमेव सृष्यिरत्रोच्यत इत्यर्थः ॥ खं-1 ॥ ततश्ऱ्चायं खण्डार्थः ॥ श्ऱ्वेतकेतुः नामतः आरुणे यो अरुणस्य पौत्रोऽरुणायाः पुत्र इति वा । आसह । तं प्रति पितोद्दालक उवाचह किलकिमिति । हे श्ऱ्वेतकेतोवस ब्रह्मचर्यं वेदाध्ययनार्थं गुरुकुलवासं कुर्वित्यर्थः । कुतः । हे सोम्याऽस्मत्कुलीनोऽननूच्य वेदाननदीत्य ब्रह्मबन्धुरिव नैव भवतीति हेतोः । ब्राह्मणान्‌ बन्धून्‌ व्यपदिशति न स्वयं ब्राह्मणो असौ ब्रह्मबन्धुः । ब्राह्मण्यां ब्राह्मणाज्जातो संस्कृतो वा ब्रह्मबन्धुः ॥ 1 ॥ स पित्रोक्तः श्ऱ्वेतकेतुः द्वादशवर्षः सन्नुपेत्याचार्यकुलं द्वादशाब्दतः सर्वान्‌ वेदानधीत्यमहामनाः प्रायशोनास्मिमानुषः । देवो वा केशवांशोवेति स्वस्मिन्नति महत्त्व बुद्धिः । तत्र हेतुरनूचानमानी । सांगवेदाध्ययनवान्‌ अहमित्यभिमानवान्‌ । अहमेव प्रज्ञाधिक इति मन्यमान इति यावत्‌ । अत एव स्तब्धोऽविनीतो दर्पपूर्ण इति यावत्‌ । चतुर्विंशति वर्षः सन्नेयायपितुः सकाशम्‌ । तं स्वात्माननुरूपं पुत्रं दृष्ट्वा पितो उवाच । स्वातन्त्ऱ्ाभिमानिनः तस्याहंकार शान्त्यर्थम्‌ । हे सोम्य यत्‌ यदा इदं महामनाः इत्थमहंकारवान्‌ अनूचानमानी स्तब्धोसि । तर्हि कस्तेतिशयः प्राप्त उपाध्यायात्‌ । यज्ञादि समस्तकर्मविषयो देवताविषयश्ऱ्च सर्वोपि वेदः सांगोपांगोमयाधीत इति चेत्‌ किं कर्मादि विषयवेदाभ्यासेन वृथाश्रान्ततोसि । उत शब्दार्थः । तं सर्ववेदप्रसिद्धं आदिश्यत इत्यादेशं नारायणं अप्राक्ष्यः किं । प्रायो नारायणं देवं नैवत्वं पृष्यवानसि । कथं तस्मिन्‌ ज्ञाते एवं अहंकारः स्यादिति भावः ॥ 2 ॥ तमादेशं विशिनष्यि ॥ येनेति ॥ येन श्रुतेन अश्रुतमपि देवताकमर्ादिकं श्रुतं भवति । येन मतेन अमतमपि मतं भवति । येन विज्ञातेन ध्यतेनाविज्ञातमपि विज्ञातं भवति तमिति पूर्वेण सम्बन्धः । एवं पित्रोक्तेन श्ऱ्वेतकेतुना हे भगवोभगवन्‌ । स आदेशो भगवज्ज्ञानेन देवताकर्मादिज्ञानं भवतीत्युपदेशः कथमेवोपपन्नो भवति ॥ 3 ॥ अन्यज्ञानेन अन्यज्ञानस्य क्वप्यदर्शनादित्याक्षिप्ते सादृश्यात्‌ प्राधान्यत्‌ कारणत्वाच्चैक विज्ञानेन सर्वविज्ञानोपपत्तेः नानुपपत्तिरित्याशयवान्‌ उद्दालकः सादृश्यादेकविमानेन सर्वविज्ञानेतावत्‌ दृष्यान्तमाह ॥ यथेति ॥ हे सोम्ययथैकेन मृत्पिण्डेन विज्ञातेन मृत्त्वादिना तत्सादृश्यात्‌ सर्वं मृण्मयं विज्ञातं स्यात्‌ । एवं सोम्य स आदेशो भवति । एकेन ब्रह्मणासत्त्वादिना ज्ञातेन तत्सादृश्याज्जगदपि तथाविज्ञातं स्यादित्यर्थः । प्राधान्यादेक विज्ञानेन सर्वविज्ञाने मृत्पिण्डाभिधेय प्रसंगायातं तदभिधानरूपं दृष्यान्तमाह ॥ वाचेति ॥ यथा सोम्य तेन तद्विज्ञातं स्यादित्यनुवर्तनीयम्् । वाचावागिन्द्रियेण नाम्नां संस्कृतातिरिक्तानां मंणुमातीत्यादीनां आरम्भणमुच्चारणम्‌ । विकारोविक्रियमाण अतोऽनित्यः । सत्यं सर्वदाविद्यमानं नामधेयं मृत्तिकेत्येवेत्यर्थः । तथाच यथा सोम्य नित्यत्वात्‌ प्राधानभूतेन संस्कृतनाम्ना विज्ञातेन अनित्यत्वात्‌ अप्रधानं सांकेतिकं नामविज्ञातं स्यात्‌ । विज्ञातफलं स्यादिति यावत्‌ । एवं सोम्य स आदेशो भवति । प्रधानभूतेन परमात्मना ज्ञातेनाऽप्रधानभूतं देवता कर्मादिमिश्रं जगद्विज्ञातं स्यात्‌ । विज्ञातफलं स्यादिति भावः ॥ 4 ॥ एवं सदृशमात्र ज्ञानात्‌ सदृशान्तरज्ञानं भवतीत्यत्र दृष्यान्तमभिदाय प्रधानभूत सदृशज्ञानात्‌ अप्रधानभूत सदृशज्ञानं भवतीत्यत्र दृष्यान्तमाह ॥ यथासोम्येति ॥ हे सोम्य यथैकेन लोहमणिनालोहप्रधानेन स्वर्णेन विज्ञातेन स्वर्णत्वेन लोहत्वेन वा । तत्सादृश्यात्‌ सर्वं लोहमयं कटकमुकुटादिकं विज्ञातं स्यात्‌ । एवं सोम्य स आदेशो भवति एवं एकेन ब्रह्मणाविज्ञातेन ज्ञानानन्दादिना तत्सादृश्यात्‌ जीवरूपमपि विज्ञातं स्यादित्यर्थः । प्राधान्यात्‌ एक विज्ञानेन सर्वविज्ञाने लोहमणिलक्षणाभिदेय प्रसंगायातं तदाभिदानरूपं दृष्यान्तं चाह ॥ वाचारम्भणमिति ॥ योजनापूर्ववत्‌ ॥ 5 ॥ सादृश्यादेकविज्ञानेन सर्वविज्ञाने दृष्यान्तान्तरमाह ॥ यथेति ॥ हे सोम्य यथाऽत्यल्पेनापि नखनिकृन्तनेन विज्ञातेन तत्सादृश्यात्‌ बह्वपि सर्वं कार्ष्णायसं विज्ञातं स्यात्‌ । एवं सोम्य स आदेशो भवति । किमु तदाबहुना विष्णुना विज्ञातेन इदृशमत्यल्पं जगद्विज्ञायत इति वक्तव्यमिति भावः । यद्वाऽयमपि सदृशमात्र ज्ञानात्‌ सदृशान्तर ज्ञानं भवतीत्यत्र दृष्यान्तः । अभ्यासस्तात्पर्यार्थ इत्यन्यत्रोक्तम्‌ । प्राधान्यादेक विज्ञानेन र्वविज्ञाने कार्ष्णायसरूपाभिदेय प्रसंगायातं तदभिदानरूपं दृष्यान्तमाह ॥ वाचरम्भणमिति ॥ एवं हे सोम्य स आदेशो येनाश्रुतं भवतीत्युपदेशो भवतीत्यर्थः ॥ 6 ॥ इत्युपदिष्यः पुत्र आप्रियशिष्यायनावक्ष्यन्‌ । इति तस्मात्‌ । भगवानेवं इमं अयत्‌ वाचारम्भण दृष्यान्तेन भगवतः प्राधान्यादिकमुक्तम्‌ । तत्तुविशेषाकारेण ब्रवीत्विति पुत्रेण अर्थितः पिता तथेति होवाच ॥ 7 ॥ प्रथमः खण्डः ॥ 1 ॥ प्राधान्यप्रतिपत्त्यर्थं एव सृष्यिमाह ॥ सदेवेति ॥ यद्वा भगवांस्त्वेवं एतत्‌ ब्रवीतु यत्कारणत्वादेक विज्ञानेन सर्वविज्ञानं भवतीत्युक्तम्‌ । तत्कारणत्वं एव विशेषाकारेण ब्रवीत्विति पुत्रेण प्रार्थितः पिता तषति होवाच । तदेवकारणत्वमाह ॥ सदेवेति ॥ अत्र एकमेवाद्वितीयं इति वाक्यं शंकरेणेत्थं व्याख्यातम्‌ ।
स्वकार्यपतितमन्यन्नास्तीत्येकमेवोच्यते । मृद्वयतिरेकेण मृदो यथान्यत्‌ घटाद्याकारेण परिणामयितृकुलालादिनिमित्तकारणं दृष्यं । तथा सद्वयतिरेकेण सतः सहकारिकारणं द्वितीयं प्राप्तं प्रतिषिध्यते । अद्वितीयमिति नास्यद्वितीयं वस्त्वंरविद्यत इति । तदसत्‌ । अद्वितीयपदेन एवकार्यकारणमध्यपतितद्वितीयंमात्र निषेध सम्भवेन एकमेवेत्यस्य वैयर्थ्यात्‌ । अत्र कश्ऱ्चित्‌ । वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः । वृक्षान्तरात्‌ सजातीयो विजातीयः शिलादितः । ततासद्वस्तुनो भेदत्रयं प्राप्तं निषिध्यते । एक्यावधारणद्वैत प्रतिषेधैस्त्रिभिः क्रमादिति । तदप्यसदिति भावेन स्वयं तावत्‌ अनूद्य व्याचष्ये ॥ एकमेवेति ॥ एकमेवेत्यस्य अर्थः स्वगतभेदवर्जितमिति । स्ववयवगुणकर्मादि भेद वर्जितमित्यर्थः । अद्वितीयमित्यस्य समानवर्जितमिति । स्वकृतं व्याख्यानं प्रमाणेन द्रढयति ॥ एकमेवेति ॥ तच्छाश्ऱ्वतं ब्रह्मस्वगतानां भेदानां अभावादेकमेवेत्युच्यते । समाभ्यधिक वर्जनादद्वितीयं इत्युच्यत इति सम्बन्धः । अधिकवर्जनं कैमुत्य लब्धमिति स्फुटमनुपदमेव । एतदेव प्रमाणान्तरेण विशदयति ॥ भेदाभेदेति ॥ अभेदप्रतिपत्त्वर्थमेकशब्द इत्यादौ योज्यम्‌ । नारायण्य स्वावयवादिनेति शेषः । एवशब्दस्य अर्थान्तरत्वे भेदाभेदनिरासकत्वानुपपत्तेरवधरक इत्युक्तम्‌ । नन्वेकं अभिन्नमित्येकशब्देन एव भेदनिरासे भेदाभेस्यापि निवृत्तिलाभात्‌ अवधारणं व्यर्थमित्यत आह ॥ भेदाभेदेपीति॥ अवयविनिघटादौ भेदाभेदेविद्यमानेपि एकशब्दः स्थितोयतः । तस्य अभेदमात्र बोधकत्वेन भेदनिरासकत्वासम्भवात्‌ । अतः तद्वदत्राप्येकमित्यनेन भेदाभेदप्रसक्तौ तन्निवृत्त्यर्थं एकमेवेत्याहेत्यर्थः । नारायणमित्यनेन श्रुतौ सच्छब्दो नारायण पर इत्युक्तं भवति । समाधिकनिवृत्त्यर्थं अद्वितीयपदमित्ययुक्तम्‌ । अद्वितीयपदेन द्वितीयमात्र निषेधावगतेः इत्यतः तद्वयुत्पादयति ॥ सम इति ॥ तथाचोक्तं महाभाष्ये । अस्य गोर्द्वितीयेन भाव्यमित्युक्ते सदृशोगौरेवोपादीयते नाश्ऱ्वोन गर्दभ इति । द्वितीयपदेन द्वितीयमात्रोक्तावद्वितीयशब्देन एव स्वेतरसवर्निषेधसम्भवेन सजातीयनिषेधकैव शब्दादिवैयर्थ्यम्‌ । तदवैयर्थ्याद्वितीयशब्दस्य विजातीय परत्वेन संकोचेच अग्र इत्यनेनाऽविरोधाय समद्वितीय परत्वेनापि संकोचः स्यादिति भावः । अस्तु तर्हि समराहित्यमेवाऽद्वितीयशब्दार्थो नाधिकराहित्यमित्यतः पदार्तस्तुस एव । अयं त्वार्थिकार्थ इति भावेनाह ॥ साधिक इति ॥ अत एव प्राक्‌ समानवर्जितमित्येवोक्तम्‌ । एवं स्वयं व्याख्याय यदुक्तं विजातीयभेदवर्जनं अद्वितीयशब्दार्थ इति तद्दूषयति ॥ नचेति ॥ स्यादेव अद्वितीयपदं विजातीयभेदनिरासार्थकम्‌ । यदि विजातीयभेदवर्जनं नाम कुत्रचित्‌ प्रसिद्धं स्यात्‌ । नह्यर्थस्य अप्रसिद्धौ पदस्य तदर्थकत्वं युज्यते । व्युत्पत्तेः एव अनुपपत्तेः । नच तत्प्रसिद्धम्‌ । वृक्षस्य शिलादितोभावः । ननु शशविषाणादेः अप्रसिद्धत्वेपि शशविषाणादिपदस्य तदर्थत्ववद्विजातीयभेद वर्जनस्य अप्रसिद्धत्वेप्यद्वितीपदं तदर्थकं किं न स्यादिति चेन्न । यतः फलितमस्मन्मनोरथद्रमेण । विजातीयभेदाभावस्याऽप्रामाणिकत्वे विजातीय भेदस्य प्रामाणिकत्वप्राप्तेः । दूषणान्तरमाह ॥ तत्प्रमाणेति ॥ तत्तत्र अद्वितीयशब्दस्य विजातिभेदराहित्यार्थत्वे । अस्ति शशविषाणादिशब्दस्य शशविषाणाद्यर्थत्वे प्रमाणम्‌ । तेन तदुपस्थितेः । नच अत्र तथास्तीति भावः । श्रुतिविरोधाच्च नत्वं दुक्तोऽद्वितीयशब्दार्थः । किं त्वस्मदुक्त एवेति भावेन श्रुति वाक्ये पठति ॥ एक इति ॥ अद्वितीयपदस्यैव व्याख्यानमिदम्‌ । श्रुतिश्ऱ्चेति चशब्दान्वयः । किंच विजातीयस्यैव अभावाद्विजातीय भेदोपि नास्तीत्युच्यते । अथवा विजातीयं किंचिदंगीकृत्यभेदमाप्रितिक्षिप्यते । नाद्यः । विजातीयाभावेपि तद्भेदस्य सम्भवात्‌ । अन्यथा पारमार्थिकेऽनिर्वचनीये च असद्वैलक्षण्यासिध्यापातात्‌ । दूषणान्तरमाह ॥ विजातीयेति ॥ सति ब्रह्मविजातीये द्वितीये वस्तुनितस्या श्रुतत्वादि विशेषणं भवेत्‌ । तदभावे तद्विरुद्धार्थमित्यर्थः । द्वितीयं पक्षं दूषयति ॥ यस्येति ॥ यदि विजातीयमंगीकृत्य तद्भेदमात्रं निरस्य ते तर्हि घटादेः ब्रह्मणश्ऱ्च भेदाभावाद्यस्य कस्यचिद्घटादेः ज्ञानमेव ब्रह्मज्ञानं भवतीति येन विज्ञातेन अविज्ञातं विज्ञातं स्यादिति विरुद्धाथर्ं स्यात्‌ । नहि घटज्ञानेन अन्यत्‌ सर्वं विज्ञातं भवतीत्यथर्ः । दूषणान्तरमाह ॥ अज्ञानमपीति ॥ विजातीय भेदस्यैव अभावे ज्ञानज्ञानयोः अपि भेदाभावात्‌ अज्ञानमपि ज्ञानमेव स्यात्‌ । ततश्ऱ्चाविज्ञातं विज्ञातं स्यादित्युक्तिः न स्यादिति भावः । यद्वा विजातीय भेदाभावे जगदुपादान ब्रह्मणोरपि भेदाभावात्‌ ज्ञानमपि ज्ञानरूपं ब्रह्मैव स्यादित्यर्थः । यदुक्तं यस्य कस्यचित्‌ ज्ञानमेव ब्रह्मज्ञानमिति तदयुक्तम्‌ । घटादिकं मिथ्याब्रह्मतु सत्यमिति तयोः भेदात्‌ । अत एव अज्ञानमपि ब्रह्मैव स्यादित्यप्ययुक्तमित्यत आह ॥ नचेति ॥ कुतो नेत्यत आह ॥ तस्यैवेति ॥ यदि घटादेः ब्रह्मणश्ऱ्च मिथ्यात्वसत्यत्वाभ्यां भेदोंगीक्रियते । तर्हि तस्यैव मिथ्याभूतस्य ब्रह्मभिन्नस्य घटादेः अज्ञानस्य वा विजातीयत्व प्राप्तेः विजातीयभेदराहित्यमद्वितीयशब्दार्त इति भग्नमित्यर्थः । स्यादेवं यदि मिथ्यासत्ययोः भेदः सत्यःस्यात्‌ । नचैवम्‌ । किं नाम । सोपि मिथ्यैव । तथाच सत्यपि मिथ्याभूते विजातीयभेदे तस्यापि मिथ्यात्वात्‌ अद्वितीयमिति तन्निषेधो युज्यत इत्यत आह ॥ तद्भेदस्येति ॥ मिथ्यासत्ययोः भेदस्य मिथ्यात्वे तदभेदस्य सत्यत्वं स्यात्‌ । परस्परविरुद्धयोः अन्यतरनिषेधस्य अन्यतरविधिनां तरीयकत्वात्‌ । शुक्तौ शुक्तिभेदस्य मिथ्यात्वे तदभेदस्य सत्यत्व दर्शन्नाच्च । तथाच घटादेः ब्रह्मत्वमज्ञानस्यापि ज्ञानत्वं स्यादिति साधूक्तमिति भावः । एतेन सजातीयभेदवर्जनं अवधारणार्थ इत्येतदपि परास्तम्‌ । नच सजातीयभेदवर्जनं नामकुत्रचित्प्रसिद्धम्‌ । वृक्षस्य वृक्षान्तराद्भेदेपि तद्राहित्यस्य कुत्राप्यभावात्‌ । अन्यथा वृक्षस्य वक्षान्तरेणाभेदप्राप्त्या तद्भेदघटितसाजात्यस्यैव अनुपपत्तेरित्यादिन्यायसाम्यात्‌ । इदानीं सजातीयविजातीय स्वरूपमंगीकृत्य तद्भेदमात्र प्रतिक्षेपेऽति प्रसंगान्तरमाह ॥ मिथ्येति ॥ जीवेश भेदादेः अपि सत्यत्वप्रसंग इत्युपलक्षणम्‌ । ब्रह्मणोपि मिथ्यात्वप्रसंग इत्यपि द्रष्यव्यम्‌ । यदि मिथ्याभूतस्नय सजातीयस्य विजातीयस्य सत्यभूत ब्रह्मणश्ऱ्चैक्यमंगीक्रियते । तदासर्वं मिथ्यैव वासत्यं वास्यात्‌ । नतु मिथ्यासत्यविवेकः । तथाच एकविधेतस्मिन्निदं सत्यमिदं मिथ्येति विवेकाभावात्‌ ब्रह्मणोपि मिथ्यात्वं जीवेशभेदादेरपि सत्यत्वं वा स्यादित्यर्थः । अत्र जीवेशेति सजातीय ग्रहणम्‌ । भेदादेरिति विजातीय ग्रहणम्‌ । किंतत इति चेत्‌ । तथासति ब्रह्मैकमेव परमार्थसत्यं अन्यन्मिथ्येति सिद्धान्तोपि भग्नः स्यादित्याह ॥ अत इति ॥ ब्रह्मणोपि मिथ्यात्वस्य जीवेशभेदादेः सत्यत्वस्य चांगीकारादित्यर्थः । किंचैकमिति स्वगतभेदनिषेधोऽर्थ इत्यनुपपन्नम्‌ । एकशब्दस्य अभेदमात्र बोधकस्य भिन्नाभिन्ने घटादावपि सत्त्वेन भेदनिषेधकत्वाभावादित्युक्तत्वात्‌ । एवशब्द सहितस्य स्वगतभेदनिषेधकत्वे तु सजातीय भेदनिषेधासिद्धिः । तन्निषेधक पदाभावात्‌ । तस्मात्त्वदुक्तरीत्यैव अर्थोवक्तव्य इति निर्बन्धश्ऱ्चेत्तर्ह्यत्र वाक्येऽद्वितीयपदेन सदृशाख्यः सजातीयः एकमेवेत्यनेन स्वगतभेदोऽद्वितीयपदेन एव अर्थादधिकाख्यं विजातीयं च निषिध्यत इत्येव अर्थोस्त्विति भावेनोपसंहरति ॥ अत इति ॥ हीनस्य विजातीयस्य सत्त्वादधिकायमित्युक्तम्‌ । यद्यपि स्वगतभेद इत्यनन्तरं सजातीय इति वक्तव्यम्‌ । तथाप्यत्र परकृताद्वितीय पदव्याख्याननिरासस्यैव प्रस्तुतत्वात्‌ द्वितीयपदप्रतिपाद्योक्तिरादौ । तदनन्तरं एकमेवेत्यस्य प्रतिपाद्योक्तिः । ततोऽद्वितीयपदार्थिकार्थोक्तिः इत्यवगन्तव्यम्‌ । एवं श्रोतुः श्रुत्योद्विग्नत्वनिरासायैकमेवाऽद्वितीयमिति वाक्यं व्याख्यायेदानीं अप्रतिपत्तिविप्रतिपत्तिनिरासाय सदेवेत्यादि प्रकरणं प्रमाणेनैव व्याचष्ये ॥ सर्वोत्तमत्वादिति ॥ सच्छब्द उत्तमं ब्रूयादित्युक्तेः । सदित्यस्तितामात्रं निर्विशेषं सर्वगतमेकं निरंजनं नित्यं निरवयवं यदवगम्यते सर्ववेदान्तेभ्य इति व्याख्यानमसत्‌ । मात्रशब्दाश्रवणेन अस्ति तामात्रमिति व्याख्यानायोगात्‌ । सूक्ष्मत्वादेः सच्छब्दार्थत्वे मानाभावात्‌ । मात्रशब्देन असद्वयावृत्तिलाभेपि स्थौल्यादिव्यावृत्तेरलाभात्‌ । स्वरूपकथनमात्रपरत्वे तु सूक्ष्मत्वादेः एव विशेषत्वेन निर्विशेषत्वोक्ति व्याघातात्‌ । सूक्ष्मत्व सर्वगतत्वयोः विरोधाच्च । ऐश्ऱ्वर्यांगीकारात्‌ । वेदान्तनामन्यथा तत्र तत्र व्याख्यातत्वाच्च । अतो निखिलगुणगणाढ्यमेव ब्रह्मसच्छब्दाभिदेयमिति भावेनोक्तम्‌ ॥ नारायण इति ॥ एवं तत्तेजोऽसृजतेति वाक्यस्थ तच्छब्दपरामर्श्य प्रदर्शनाय सच्छब्दं व्याख्याय तद्वाक्यं व्याचष्ये ॥ स इति ॥ अनेन सच्छब्दस्य निर्विशेषपरत्वे तदैक्षत तत्तेजो सृजतेत्यादि परामर्शानुपपत्तिः । निर्विशेषस्य स्रष्यृत्वाद्ययोगात्‌ । मायाशबलस्य सच्छब्दानुक्त्वादिति सूचितं भवति । तेज आख्यांश्रियं इत्यादिना तेजोबन्नशब्दाः भूतमात्रपरा इति व्याख्यानं निरस्तम्‌ । तत्तेज ऐक्षत ता आप ऐक्षन्ते तीक्षणकर्तृत्वालिंगेन चेतनत्व अवगमात्‌ । नच कूलं पिपतिषतीत्यादि वदीक्षणमुपचरितमिति वाच्यम्‌ । तदैअक्षतेत्यप्युपचरितत्वप्रसंगेन प्रधानस्यैव जगत्कारणत्व प्रसंगात्‌ । अन्यथा प्रायपाठविरोधात्‌ । अभिमान्यधिकरणन्यायेन तेजोबन्नशब्दानां देवतापरत्वाच्च । अस्ति च अत्रापि इमाः तिस्रो देवता इत्यादि बहुशोदेवता श्रुत्यभ्यासः । तदिदं वक्ष्यति । ईक्षणादिना चेतनत्वावगतेरिति । किंच भूतसृष्यिविवक्षायामात्मन आकाश इत्यादाविवाऽकाशाद्यारभ्यैव सृष्यिः कुतो नोक्ता । आकाशवायुसर्गानंतरं तत्तेजो सृजतेत्यर्थांगीकारे अश्रुतकल्पनापातात्‌ । सृष्यिक्रमाविवक्षायां तेजोबन्नेष्वपि व्यत्यासोक्त्यापातात्‌ । भूतविवक्षयां पंचीकरणस्यैव विवक्षणीयत्वेन त्रिवृत्करणविवक्षाया अप्ययोगात्‌ । तस्माद्भगवतः प्रथमोत्पन्नत्वेन उयमानास्तेज आद्यालक्ष्म्ादय एव । तदिदमुक्तम्‌ ॥ प्रथममिति ॥ वक्ष्यति च प्राथम्याच्चतेज आद्यालक्ष्म्ात्‌ अय इति सिद्धमिति ॥ तर्ह्यत्र भूतमपि विवक्षितं न वा । विवक्षितमिकति ब्रूमः । नच प्राथम्यरूपयक्तिकथनविरोधः । प्रत्यक्षभूतेषु तेजसः प्राथम्याभिप्रायेण तदुपपत्तेः । अन्यथा महत्तत्वादेः सव्वेन आत्मन आकाश इत्याकाशस्यापि प्राथम्यानुपपत्तेः । ईक्षणाद्युक्तिः च सोमो वै राजागन्धर्वेष्वासीदिति वदभिमानि विवक्षया भविष्यति । तथाचोक्तम्‌ । अभिमन्यमान सहितास्त्रय एते अभिमानिनः । विष्णोः जाताः क्रमेणैव पूवर्स्मादुत्तरमिति । ननु तेज आख्यां श्रियमिति कथं तेजः शब्दस्य तत्र रूढेः अभावादिति चेत्‌ न । द्योतमानत्व लक्षणतेजस्त्वस्य सत्त्वन रूढेः अनावश्यकत्वादिति भावेनोक्तम्‌ । देवीं द्योतमानामिति । सदेव सोम्येदमग्र आसीदित्युक्तत्वेप्यस्याः प्रलयेन अभावः शंकनीय इति भावेनोक्तम्‌ ॥ सतीमिति ॥ अनादितो विद्यमानामित्यर्थः नचैवं ब्रह्मणः सकाशात्सर्जनानुपपत्तिः । रूपान्तरेण सत्त्या अपि रूपान्तरेण सर्जनोपपत्तेः । नच तत्र मानाभावः । तेजः शब्दस्यैव तदवगमकत्वादिति भावेन तं शब्दं तस्यां द्वेधानिर्वक्ति ॥ तत इति ॥ तते व्याप्तेनारायणेस्थिते न रूपेण यतः सा सदाऽजैवहिप्रसिद्धा तस्मात्सातेज इत्युच्यत इत्यर्थः । अनेन ते स्थितेन रूपेण न जायत इति तेज इति व्याख्यातम्‌ । त तेव्याप्ते भगवति निमित्ते सत्येव रूपविशेषेण जनेर्वातेज इत्युच्यत इत्यर्थः । तदव विवृणोति ॥ यदिति ॥ तेन रूपेणेति शेषः । तेजोभिमानवान्‌ ब्रह्मेति व्याख्यानं त्ववान्तराभिमानि विवक्षयेत्यवगन्तव्यम्‌ । तदपोसृजतेत्येतद्वयाचष्ये ॥ मन्वाख्य इति ॥ विद्याख्यं मन्वाख्य इति ग्रन्थान्तराविरोधायोक्तम्‌ । तदर्थमेवाह अथ प्राणोत्पत्त्यनन्तरं ब्राह्मणादि चतुर्वर्णाभिमानी ब्रह्माचास्य अजायत इति । वायुरेव ब्रह्मा भवितुमहतीति दर्शयितुं वायोः सृष्यिः प्रथममुक्ता । वायुरेव यतो ब्रह्मपदं नियमतो व्रजेत्‌ । सहैव जननेप्यस्मात्पूर्वं वायोः जनिं वदेत्‌ । क्वचित्तु ब्रह्मणः पूर्वं प्राधान्यात्‌ तत्पदस्य चेति ब्रह्मतर्कवचनात्‌ । प्राणस्यैव विशषणमेतदित्यप्याहुः । ता अन्नमसृजन्तेत्येतद्वयाचष्ये ॥ ततश्ऱ्चेति ॥ जायत इत्यनुवर्तते । नन्वत्र तेजोबन्नशब्दानां देवतार्थत्वे तस्माद्यत्र क्वचशोचति स्वेदतेवापुरुषस्तेजस एव तद्वयापोजयन्त इत्युक्तिरयुक्ता । नहि देवतयोः कार्यकारणभावे भूतयोः कार्यकारणभावोक्तिः प्रमाणमित्यतो भिमान्यमान सहितानामेव अत्र विवक्षितत्वान्नानुपपत्तिरिति भावेनाह ॥ तेजः संस्थेति ॥ तेज स एव प्रसिद्धात्‌ । धर्मादिरूपावेदादिरूपा आपो जायन्त इत्यर्थः । तस्माद्यत्र क्वचवर्षति तदेवभूयिष्ठमन्नं भवतीत्येतदपि घटयति ॥ अन्नस्थित इति ॥ ननु श्रुत्यन्त्यरे अद्‌य्भः पृथिवी पृथिव्या ओषधयः ओषधीभ्योऽन्नमिति ओषधीभ्योऽन्नसृष्येः उक्तत्वेन कथमत्राद्‌य्भोन्नसृष्यिरुच्यत इत्यत आह ॥ पृथिवीत्विति ॥ नात्रान्नशब्दन प्रसिद्धान्नमुच्यते । किन्तु पृथिव्येव । भूताधिकारत्वात्‌ । यत्कृष्णं तदन्नस्येति कृष्णरूपश्रवणात्‌ । कार्ष्ण्यप्रचुराच पृथिवी । नान्नस्य तथाविशेषः । पृथिवी वा अन्नमित्यादि शब्दान्तरादन्नशब्दस्य पृथिव्यां शक्तिमत्त्वाच्चेति भावः । तता च सूत्रम्‌ । पृथिव्यधिकाररूप शब्दान्तरादिभ्य इति ॥ खं-2 ॥ सेयं देवतेत्यादिकरवाणीत्यन्तं वाक्यं प्रसिद्धजीवरूपेणेति प्रतीतिं निवारयन्‌ संसगतिकं व्याचष्ये ॥ सृष्येष्विति ॥

सेयं देवतेत्यादि नामरूपे व्याकरोदित्यन्तं वाक्यं ससंगतिकं व्याचष्ये ॥ इति मत्त्वेति ॥ तेभ्य इन्द्रादिनामिन्द्रादीनामिति शेषोक्तिः । तासां त्रिवृतं त्रिवृतमेकैकामकरोदित्येतद्वयाचष्ये ॥ तांश्ऱ्चेति ॥ त?ाल्लक्ष्म्ादींश्ऱ्चान्योन्यप्रवेशिनः कृतवानित्यनुवर्तते । यदग्नेरित्याद्युत्तरप्रकरणं संगमयितुमाह ॥ कृत्वेति ॥ तांश्ऱ्चान्योन्यप्रवेशिनः इत्यनुवर्तते । एत?ाल्लक्ष्म्ादीन्‌ पुनः विदधेनुनः प्रवेशितवान्‌ ॥ खं-3 ॥ इदानीं दग्नेरोहितं रूपमित्यादि व्याचष्ये ॥ अत इति ॥ लक्ष्म्ादीनां अग्न्यादिषु प्रविष्यत्वादित्यर्थः । अग्निसोमसूर्यादिष्वित्येतत्‌ अनुवर्तते । वायुजं वायुरूपजं शिवोद्भवं शिवरूपोद्भवम्‌ । श्रौतसामानाधिकरण्य व्यपदेशस्तु ब्राह्मणोस्य मुखमासीदित्यादिवत्‌ जन्यजनकभावाभिप्रायेणेति भावः। अपागादग्नेः अग्नित्वमित्यसंगतं किमुच्यत इत्यतो मध्ये वक्तव्यमाह ॥ तस्मादिति ॥ श्रीवायुशिवरूपजन्यरूपत्वेन तदधीनत्वात्‌ अग्नः अग्निनामप्रवर्तकं यदत्तृत्वं तल्लक्ष्म्ादि देवतानां एव मुख्यमित्यर्थः । अतो अग्निनाम तासामेव मुख्यमिति भावः । इदानीं अपागादग्नेरग्नित्वमित्येतद्वयाचष्ये ॥ नैवेति ॥ ततोग्निनाम प्रवर्तकस्य अत्तृत्वस्य तदाविष्यलक्ष्मयादिष्वेव मुख्यत्वादग्नरग्निताऽत्तृत्व लक्षणामुख्यानैवेत्यर्थः । ततो लक्ष्म्ादेः इत्यवधिनिरूपणं वा । अतोग्निनामनाग्नौमुख्यमिति भावः । अपागादादित्यादादित्यत्वमित्येतत्‌ अप्येवं व्याख्योयमिति भावेनाह ॥ एवमिति ॥ यथाग्नित्वमेवं आदित्यस्य आदित्यनामप्रवर्तकं आददानत्वं अपि लक्ष्म्ादि देवतानां एव मुख्यं नादित्यस्येति योजना । कुत इत्यत आह ॥ आदित्यस्येति ॥ यस्मादादित्यस्य तत्‌ रूपं तदुद्भवं लक्ष्म्ादि देवतारूपोद्भवं तत्तस्मादित्यर्थः । अस्त्वाददानत्वं लक्ष्म्ादीनां एव मुख्यं नादित्यस्य किंतत इत्यत आह ॥ अत इति ॥ एषां एव मुख्यतो वर्तत इति सम्बन्धः । अपागाच्चन्द्राच्चन्द्रत्वमित्यतत्तात्पर्यमाह ॥ यदिति ॥ यथा आददानत्वं तथा यच्चन्द्रस्य अह्लादकत्वं चन्द्रताचन्द्रशब्द प्रवृत्तिनिमित्तं तत्तेषामेव मुख्यं न चन्द्रस्य । तद्रूपोद्भूतरूपत्वेन तस्य तदधीनत्वात्‌ । अतश्ऱ्चन्द्रनामैषामेव । नैवचन्द्रस्य मुख्यत सत्यर्थः । अपागाद्विद्युतो विद्युत्त्वमित्येतत्तात्पर्यमाह ॥ विद्युदिति ॥ विद्युतो विद्योतनं विद्योतकत्वमपि तेषामेव मुख्यं न विद्युतः उक्तादेव हेतोः । अतो विद्युन्नामैषामेव । नैव विद्युतो मुख्यत इत्यर्थः । एतेन वाचरम्भणं विकोनामधेयं त्रीणिरूपाणीत्येव सत्यमिति वाक्यचतुष्ययमपि तात्पर्यतो व्याख्यातम्‌ । नन्वेतावताग्न्यादि नाम चतुष्ययमुख्यार्थत्वं लक्ष्म्ादीनां प्राप्तम्‌ । तावता कोतिशयस्तेषामित्यत आह ॥ तत इति ॥ तत्तद्देवता शब्दप्रवृत्तिनिमित्तस्य तेष्वेव मुख्यत्वात्‌ ते सर्वदेवनां अमुख्यवाच्या इत्यर्थः । तत्तद्देवता शब्द प्रवृत्तिनिमित्तस्य तत्रैव मुख्यत्वं कुत इत्यत आह ॥ तथैवेति ॥ यथाग्न्यादिरूपं ततैव सर्वदेवतारूपं च रोहितादिकं तद्रूपोत्पन्नं तस्मात्तत्तच्छब्दप्रवृत्तिनिमित्तं तेषामेवेत्यर्थः । एवं च श्रुतौ यद्विद्युतो रोहितं रूपमित्यादिकमुपलक्षणम्‌ । यन्मित्रस्य रोहितं रूपमित्याद्यपि ग्राह्यम्‌ । अत एव अग्न्यादि देवता चतुष्ययोपादानम्‌ । ततश्ऱ्च यदुरोतिमिव अभूदिति तेजसस्तद्रूपमिति सामान्यतो विद्वत्संमति कथनमपि नांगतमिति भावः । स्यादेतत्‌ । यद्यग्न्यादि सर्वदेवतारूपं तद्रूपोत्पन्नमित्यतेतदेव स्यात्‌ । तदेवक्तुत इत्यत आह ॥ सर्वरूपा इति ॥ चोयस्मादित्यर्थे । यस्मादग्न्यादि सर्वदेवतारूपं तद्रूपप्रतिबिम्बितं तस्मादेव ते अग्न्याद्याः सर्वे देवाः लोहितादिक्रमेण सर्वरूपवन्तः । अन्यथा तन्नस्यात्‌ । स्वतो रूपशून्यत्वात्तेषशमित्यर्थः । इदानीं वाचारम्भणं विकारोनामधेयमित्येतत्स्पष्यं व्याचष्ये ॥ अत इति ॥ अन्य वाचकत्वेन प्रसिद्धमप्यग्निरित्यादिनामधेयं अन्यत्र विकारोऽमुख्य एव । कुतः वाचारम्भणहेतुतः । अनेन वाचारम्भणमिति हेत्वर्थगर्भमित्युक्तं भवति । तस्यैव विवणणम्‌ ॥ सांकेत्येनेति ॥ वाचारम्भणशब्दस्य सांकेत्यपर्यायत्वस्य सुधायामुक्तत्वात्‌ । तत्र हेतुरत इति ॥ अग्न्यादिशब्दप्रवृत्तिनिमित्तस्य अग्नित्वादेः लक्ष्म्ादावेव मुख्यत्वेन अग्न्यादिनाम्नां मुख्यतः तन्नामत्वात्‌ असिंकेतितत्वमित्यर्थः । त्रीणिरूपाणीत्येव सत्यमित्यस्य तात्पर्यमाह ॥ त्रयाणामेवेति ॥ नित्यता अग्न्यादिशब्दमुख्यार्थतेत्यर्थः । इदं च स्फुटीकरिष्यत्याचार्यः । वाचारम्भण वाक्यस्योक्तार्थे दृष्यान्तव्युत्पादनपरतयापि देववाक्यं व्याचष्ये ॥ यथेति ॥ यथा लोके लक्ष्म्ादिकानां एव नाम लक्ष्मीरित्यादिकं वाचारम्भण हेतोः । कोर्थः । संकेततोन्यगंस्त्रीपंसादिपिण्हगतं तत्तस्मात्संकेततोऽयगतत्वात्‌ तन्नाम तत्र विकार एव । नमुख्यतो वर्तते । तथान्यनामधेयमिति पूर्वेण सम्बन्धः । ननु यद्यग्न्यादि नामदेयानामपि लक्ष्म्ादौ मुख्यत्वं तर्हि त्रीणिरूपाणि इत्येव सत्यमिति त्रीणिरूपाणि इति नामधेयस्यैव मुख्यत्वोक्तिविरोध इत्यतस्तदभिप्रायमाह ॥ मुख्यमिति ॥ त्रीणिरूपाणि इत्यस्य बहुशः सत्त्वादित्याद्यमित्युक्तम्‌ । त्रीणिरूपाणि इति वेदोदितं नाम । परं मुख्यं देवतान्तरे सकेतं विना तत्रैव मुख्यत्वात्‌ । यथा भगवति नारायणादि नाम । अतोग्न्यादि नाम्नां अपि तत्रैव मुख्यत्वेपि तदेवत्रीणिरूपाणि इत्यादिनामैव सत्योक्तं सत्यमित्युक्तमित्यर्थः । मिथ्यात्वशंकाभावात्‌ सत्यवोक्तिरसंगतेत्यत आह ॥ मुख्यमिति ॥ तेभ्य इन्द्रादिनामपि । नामरूपाणि कृतवानित्यादिना इन्द्रादीनां अग्न्यादीनां सर्वेषां देवानां नामरूपाणि लक्ष्म्ादिष्वेव मुख्यानीत्युक्तम्‌ । एवं सत्रतियाणां साम्यप्रतीतावाह । इनद्रादीत्यादिना लक्ष्म्ा इत्यन्तेन । तत्र हेतुः तदधीनत्वतः तेषामिन्द्रादीनामिति । तत्रापि हेतुरेषां लक्ष्म्ादित्रयाणामिति । नामानि सर्वाणि यमाविशन्ति रूपोपन्यासाच्चेत्यादि विरोधपरिहारायाह ॥ तदीयानिहरेरिति ॥ यस्मात्तदीयान्यपि नामरूपाणि हरेरेव मुख्यतः तस्मात्‌ स एव सर्वरूपः । स एव सर्वनामाचोक्तः । तत्रेहेतुः सर्वेश इति । तत्रापि हेतुः तथैव स एक एव सर्वशक्तिश्ऱ्चेति । ननु स एव सर्वरूपः सर्वनामाचेत्यनुपपन्नम्‌ । अन्येषामपि रूपादिमत्त्वादित्यत आह ॥ अन्येषामिति ॥ तस्माद्धरिरूपादेः । ननु देवोवाकेशवांशोवेति मन्यमानं स्तब्धं श्ऱ्वेतकेतुं प्रतितन्निरासाय सदेवसोम्येत्यादिकमुपदिश्यते कथमनेन तन्निरासोजात इत्यत आह ॥ एक एवेति ॥ यत एक एवाद्वितीय इत्याद्युच्यते । अतः सत्वं नासिकथं च नेति सम्बन्धः । सत्ततिज्ञानरूपतः सत्यमित्युच्यते । सत्वं नासिकथंचनेति । तत्‌ सत्वं अत त्वमसिश्ऱ्वेतकेतो इत्यस्यार्थः । यद्यपीदं वाक्यमुत्तरनव प्रकारणीगतमेव । तथापि स य एषो णिमैतदात्म्यमित्यादि वाक्यमत्रापि ग्राह्यमित्यनेन अवगम्यते । ततश्‌चकिमित्यत आह ॥ अत इति ॥ नन्वेवं तर्हि सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं स एषोणिमैतदात्म्यमित्यादिकमेवालम्‌ । तेजो बन्नसृष्यिः तेभ्य इन्द्रादीनां नामरूपसूष्यिश्ऱ्चपिकमर्थमुच्यते । स्तम्भनिरासानुपयोगादित्यत आह ॥ त्वत्तोधिका इत्यादिना॥ श्रियादय इत्यादि पदेन वाच्यादि ग्रहणम्‌ । महानस्मीति वामनस्ते तव न स्यात्‌ ॥ खं-4 ॥ नन्वथापीदं प्रकणं देवतापरतया व्याख्यातुं न युक्तम्‌ । योमध्यमस्तस्मांसमिति मांसादिशब्द श्रवणात्‌ । तेषां च प्रसिद्ध मांसादि वाचित्वादित्यत आह ॥ देवता एवेति ॥ तेजोबन्नाख्या एव देवता मांसादिशब्दवाच्या इत्यर्थः । एकैकात्रिवृत्रिवृद्भवतीत्युक्तत्वात्‌ । तर्हि पुरीषादिशब्दवाच्या इत्येव वक्तव्यम्‌ । सत्यं तथापि तस्य श्रुतितोऽमांगलिकत्वात्त्यागः । नचैवं वाक्यशेषेमनः प्राणवाचामेवा अन्नमयत्वात्‌ उक्तिविरोधः । तत्र तेषां मुख्याभिमानोक्तेः । अत एव हि मयट्‌ प्रत्ययः । साधारणाभिमानः तुरुद्रादीनां पुरीषादावप्यविरुद्धः । देवतानां मांसादिशब्दवाच्यत्वं कुत इत्यत आह ॥ तत्रेति ॥ मांसादौ देवतानां नियामकतया प्रवेशात्‌ । नियम्यवाचकशब्दानां नियामकेवृत्तेरित्यर्थः । नन्वथाप्यन्नादयोनदेवता इति निश्ऱ्चयो युज्यते । अन्नस्य अश्यमानस्य अपां पीयमाननामित्युक्ति विरोधादित्यत आह ॥ अश्यमानाश्ऱ्चेति ॥ देवता एवोपजीव्यत्वात्‌ अश्यमानाश्ऱ्चेत्यर्थः । अयथा तेजसोश्यमानस्येत्यस्य प्रसिद्ध तेजस्यप्यसम्भवादिति भावः । नन्वश्यमानान्तर्गतानां देवतानां तदशनेदुःख प्रसंगः । नहि दह्यमानगेहान्तर्गतस्य नदाह इति युक्तमित्यत आह ॥ नचेति ॥ कुत इत्यत आह ॥ ऐश्ऱ्वर्यादिति ॥ दह्यमानगेहान्तस्थस्य अपि अग्निस्तं भनशक्तिमतोदाहाभाव वत्त्वासामघटितघटकसामर्थ्याद्दुःखाभावोपपत्तिरित्यर्थः । किमेवं अन्नादीनां देवतात्व ग्रहेण प्रसिद्धान्नादिकं एव किं न स्यादित्यत आह ॥ तिस्र इति ॥ इति देवतानां प्रस्तुतत्वात्‌ प्रसिद्धार्थत्वे तद्विरोध इत्यर्थः । किंच अस्मिन्‌ प्रकरणेन्नादिशब्दैः प्रसिद्धान्नादिमात्रांगीकारे इमाः तिस्रोसेवता अनेन जीवेन आत्मना अपुप्रविश्येति वाक्यमप्ययुक्तं स्यादिति भावेन तावत्‌ जीवशब्दस्य परमात्मवाचित्वे श्रुतिमप्याह ॥ जीव इति ॥ श्रुतिश्ऱ्चेति सम्बन्धः । प्रागुदाहृतस्मृतिसमुच्चयार्थः च शब्दः । किमनिरुद्धस्य जीवाभेदेन जीवाख्या न जीवाख्या न किं तर्हि जीवस्य जीवत्वप्रत्वेनेति भावेन तत्र श्रुतिमाह ॥ प्राणस्थेति ॥ प्राणत्वादिप्रद इत्यर्थः । मूर्तिविवेकीवचनान्तरादवगन्तव्यः । जीवशब्दप्रवृत्तिनिमित्त प्राणधारकत्वस्य हरावेव सत्त्वादसावेव जीवशब्दवाच्य इति स्मृत्याह ॥ प्राणाधार इति ॥ अनिच्छतोपि मरणदर्शनादिति भावः । तर्हि संसारिणि जीवशब्दप्रवृत्तिः कथमित्यत आह ॥ संसारिण इति ॥ जननात्‌ जीः । जनेः डीप्रत्यय इति भावः । वानतोलोकान्तरगमनाद्वः । गत्यर्थद्वातेः कप्रत्यय इति भावः । अस्तु जीवशब्दस्य परमात्मनिशक्तिस्तथाप्यत्र तद्विवक्षाकुतः । संसारिविवक्षैव किं न स्यात्‌ इत्यत आह ॥ जीवशब्देनेति ॥ आदिपदेन ता आप ऐक्षन्त इमाः तिस्रोदेवता इत्यस्य ग्रहणम्‌ । तेषामेव इमाः तिस्र इत्युक्तानामेव । इदमुक्तं भवति । यदीमास्तिस्र इत्युक्तानितेजोबन्नान्नान्यचेतनानि स्युः तदातेषां चेतनानधिष्ठितानां कार्याक्षमत्वात्‌ नामरूपव्याकरणार्थं तत्र संसारिजीवानुप्रवेशोपेक्षितः स्यात्‌ । नचैवं तेषामेव इक्षणलिंगेन देवता श्रुत्याच चेतनत्वावगमात्‌ । नहि चेतनेचेतनान्तरप्रवेशोपेक्षितः । अतो नात्रजीव शब्दः संसारिवाचीति । एवं तर्हि भगवदनुप्रवेशोपि तत्र व्यर्थः स्यादिति चेन्न । चेतनानामपि स्वतः प्रवृत्त्यसामर्ध्येनेश्ऱ्वरप्रवेशसार्थक्यादिति भावेन तत्र प्रमाणमाह ॥ प्रसुप्तेति ॥ प्रसुप्तलोकतन्त्राणां अनाविर्भूतलोकसृष्यिशक्तीनां गतिं स्थितम्‌ । शब्दाद्याः नभ आद्याश्ऱ्च मनोयुक्तेन्द्रियाणि च । अहंकारो महांश्ऱ्चैव त्रयोविंशति कोगणः । युगपदाविशदिति भागवते च भगवत एव तेषु स्वतः प्रवृत्त्यसमर्थेषु तत्वेषु प्रवेशोक्तेः नेश्ऱ्वरप्रवेशोव्यर्थ इत्यर्थः । ननु त्रयोविंशतितत्वान्यप्यचेतनानि किं न स्युः । तेषां स्वतः प्रवृत्तिशून्यत्वेन भगवत्‌ प्रवेशसाथर्क्यसम्भवादित्यत उक्तं यावत्‌ बलिमित्यादि तत्वानां प्राथर्नानन्तरमिति । नह्यचेतनानां प्रार्थनमुपपद्यत इति भावः । हे अजवयं यत्र स्थित्वा कालेकालान्तरे यावद्यथा ते बलिं हराम वयं च यथान्नमदाम अमूढाः त इमेलोका उभयेषां तव अस्माकं च यथाबलिं हरन्तोन्नमदन्ति तादृशं स्वविहारतन्त्रं लोकसिसृक्षयात्वयासृष्या अपि वयं न कर्तुं शक्नुम इति पूर्वेण सम्बन्धः । हे देव यदनुग्रहेण यदनुप्रवेशेन एवं वयं क्रियार्थेशक्ताः स्वतोस्माकं प्रवृत्तिसामर्थ्याभावात्‌ । सत्वं नोदिव्यदृष्यिं परिदेहीत्यर्थः । अनेन जीवेनेत्युक्तजीवशब्दस्य भगवत्परत्वे युक्त्यन्तरं चाह ॥ यतश्ऱ्चेति ॥ इत्युत्तरवाक्ये यतः प्रयुज्यते अतश्‌चायं जीवशब्दो भगवत्पर इत्यर्थः । ननु तत्रापि जीवशब्दः परमात्मपर इति कुतः । संसारिपर एव किं न स्यात्‌ । पेपीयमान इत्युक्तवृक्षशरीरे संसारिजीव प्रवेशस्य अपेक्षितत्वात्‌ इत्यत आह ॥ नहीति ॥ पेपीयमानोमोदमान इति न तावत्‌ वृक्षशरीरं निर्दिश्यते । अचेनस्य मोदमानत्वात्‌ यनुपपत्तेः । मोदमानशब्दोक्तयोः सुखविषयानुभवयोः चेतनधर्मत्वप्रसिद्धेः । अन्तःकरणपरिणतत्वेपि चेतनस्वामिकत्वात्‌ । अतः पेपीयमानोमोदमानः तु संसार्येव । तथाच जीवेन अनुप्रभूत इत्युच्यमानः पुनः संसारिप्रवेशोव्यर्थः स्यात्‌ । अतोत्र जीवशब्दस्य संसारिपरत्वानुपपत्तेः । परिशेषत्‌ परमात्मपरत्वं निश्ऱ्चीयत इति भावः । नन्वथाप्यनेन जीवेन इति स एष जीवेन इति जीवशब्दो न भगवत्परः । तस्यान्तः प्रवेश; पहिः व्यापाराभावापत्तेरित्याशंकापरिहरन्नुपसंहरति । अत इति ॥ ततश्ऱ्च सेयं देवता स एष इति परामृष्यस्य सन्नामकस्य बहिष्ठरूपस्य सत्त्वात्‌ नानुपपत्तिरिति भावः । जीवनामकस्यान्तस्थत्वे सन्नामकस्य बहिष्ठत्च स्मृतिमाह ॥ भोक्तुरिति ॥ ननु वाचरम्भणं विकरोनामधेयमित्यस्य अतोन्यनामदेयं तु वाचारम्भणहेतुतः । सांकेत्येन विकारः स्यादिति व्याख्यानमयुक्तम्‌ । अन्येत्यश्रुतकल्पनापत्तेरित्यतो विकारोनामधेयमित्यतावद्योजयति ॥ अग्नेरिति ॥ नामदेयमित्यस्य अर्थो नामेति । धेय प्रत्ययस्वार्थिकत्वस्य परस्यापि संमतेः । विकार इत्यस्य अर्थो मुख्यतो नास्तीति । अपागादग्नेरित्यतो अग्नेरित्यनुवर्तते । अतोनाश्रुत कल्पना । अग्निरितीति योग्यतया लब्धमिति भावः । तथापि त्रीणिरूपाणीत्येव सत्यमितयस्य त्रयाणामेव नित्यतेति तात्पर्यवर्णनमयुक्तम्‌ । श्रुतौ त्रीणिरूपाणीति नामदेयस्यैव लक्ष्म्ादौ मुख्यत्वस्योक्तत्वेन अग्निशब्द मुख्यत्वस्य अनुक्तत्वादित्यतः किंचिदध्याहरेण तद्वाक्यं योजयति ॥ अग्निनामानीति ॥ अग्निनामानि त्रीणिरूपाणीति नामधेयं च सत्यम्‌ । त्रयाणामेव मुख्यमित्यादि योज्यमित्यर्थः । नाग्निरिति नामैव मुख्यं किंतु सर्वमपीति ज्ञापनाय बहुवचनम्‌ । आदिपदेना आदित्यस्य आदित्य इति नाममुख्यतोनास्ति । आदित्यनामानि त्रीणिरूपाणीति नामधेयं च सत्यमित्यादि वाक्यान्तर व्याख्यानसंग्रहः । ततश्ऱ्च स्मृतौ त्रयाणामिति श्रौत शेषोक्तिः । अग्न्यादिनामानि तेषामेव मुख्यानीत्युक्ते तेषां तच्छब्दमुख्यार्थत्वं लब्धमेवेति भावः ॥ खं-7 ॥ ततश्ऱ्चेयं खण्डषट्‌कस्याक्षरयोजना ॥ हे सोम्य सदेवसर्वोत्तमत्वात्‌ सन्नामकं नारायणाख्यं ब्रह्मैव इदमग्रे अस्याग्रे आसीत्‌ । ननु नारायणावयवगुणकर्मादीनां सत्त्वात्‌ कथं सदेवेत्युक्तमित्यत आह ॥ एकमेवेति ॥ एकमभिन्नं स्वावयवादिना । एकमपि घटादिकं अवयवभेदवदुपलब्धमत एवेत्युक्तम्‌ । तथापि रमादीनां तदासत्त्वात्‌ कथं सदेवेत्युक्तमित्यत आह ॥ अद्वितीयमिति ॥ समानवार्जितमधिकवर्चितमिति किमुवक्तव्यमिति भावः । रमादीनां सवर्ेषां नीचत्वं अभिप्रेत्य सदेवेत्युक्तमिति तात्पर्यम्‌ । स्वोक्तर्थदार्ढ्यायशून्यवादिपक्षं दूषयितुमनुवदति ॥ तदिति ॥ तत्तत्र जगत्कारणे निरूपणीये । एकेशून्यवादिनः । आहुर्हप्रसिद्धम्‌ । किमाहुः । असदेवेदमग्र आसीत्‌ । आसिच्छब्देन शून्यमुच्यते । एकमेवेति स्वकार्यपतितमन्यन्नास्तीत्येकमेवोच्यते । शून्यातिरेकेण शून्यस्य सहकारिकारणं द्वितीयं प्रतिषिध्यते अद्वितीयमिति । विप्रतिपत्त्यन्तरमाह ॥ तस्मादिति ॥ तस्मादसतः सज्जगदुत्पद्यत इति ॥ 1 ॥ एवमनुदितं पक्षं दूषयति ॥ कुत इति ॥ तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । हे सोम्य एवमसदादीदिति कुत एवस्य अन्नकुतोपि व्याहतेः । प्रमाणाभावाच्चेति होवाच । विप्रतिपत्त्यन्तरं दूषयति ॥ कथमिति ॥ कथमसतः सदुत्पद्येत । अदृष्यत्वात्‌ असतः कारणत्वानुपपत्तेरिति भावः । इति होवाचेति सम्बन्धः । एवं पूर्वपक्षमुन्मथ्यस्वपक्षसिद्धिमुपसंहरति ॥ सत्त्वेवेति ॥ तुशब्दः तस्मादित्यर्थे । तस्मात्‌ सदेवसोम्य इदमग्र आसीतत्‌ एकमेवाद्वितीयमिति सिद्धमित्यर्थः ॥ 2 ॥ तस्य प्रलयवर्तिनः सदाख्यब्रह्मणः सृष्यिकाले प्राप्तेः कर्तवयव्यापारमाह ॥ तदिति ॥ तत्‌ सदाख्यं ब्रह्मैक्षतविचारमकरोत्‌ । किमिति । अहं बहुस्यां जगन्नियामकतया बहुरूपं स्याम्‌ । तदर्थं प्रजायेय सृज्यं प्रजनयेयमिति । तदित्थं विचिन्त्यतेजोसृजत । तेजो नामकरं आसहितं तदभिमन्यमानं तेजोभूतं असृजतेत्यर्थः । तत्तेजोरमापमैक्षत । अहमपि बहुरूपं स्यं तदर्थं जगदुत्पादयामीति । इत्थं विचिन्त्यतत्तेजोपासृजत । अम्नामकप्राणसहितं तदभिमन्यमानमबाख्यं भूतमसृजतेत्यर्थः । अपान्तेजः कार्यत्वे प्रमाणमाह ॥ तस्मादिति ॥ यस्मादादावाप एव तेजसोजायन्ते । तस्मादेव अद्यापि पुरुषः यत्र क्वचदेशे काले वा शोचतिरोदिति । स्वेद ते वास्विद्यते वा तेज स एव । ताश्ऱ्चता आपश्ऱ्चेति तदा आपो जायन्त इति हि प्रसिद्धम्‌ । अन्वयव्यतिरेकसिद्धत्वात्‌ ॥ 3 ॥ एवं तेजः सृष्याः ता आप ऐक्षन्त तदभिमानी मुख्यप्राणोव्यचिन्तयत्‌ । बह्वय इति पूर्ववत्‌ । इत्थं विचिन्त्यता आपोन्नमसृजन्त । अन्ननामक रुद्रसहितं तदा अभिमन्यमानं पृथिव्याख्यं भूतमसृजन्ते इत्यर्थः । पृथिव्या अप्‌ कार्यत्वं उपपादयति ॥ तस्मादिति ॥ तस्मात्‌ अन्नस्याप्‌ कार्यत्वात्‌ एव यत्र क्वचदेशे काले वा वर्षति । तत्तत्रैव भूयिष्ठं अन्नं अन्नाद्यं भवति । अन्यथासिद्धिं निरस्यति ॥ अद्य्भएवेति ॥ तदन्नाद्यं प्रसिद्धान्नप्रभृति पार्थिवमद्य्भ एव जायते नान्यस्मादित्यर्थः ॥ 4 ॥ द्वितीयः खण्डः ॥ 2 ॥ एवं उत्पन्नंनान्तेजोबन्नानां सर्वभूतकारणत्वरूपं आह आत्म्यमाह ॥ तेषामिति ॥ तेषां प्रसिद्धानामेषां वक्ष्यमाणानां भूतानां त्रीण्येव खलु प्रागुक्त तेजोबन्नान्येव बीजानिकारणानि । एषामित्युक्त भूतान्येवाह ॥ अण्डजमिति ॥ अण्डजं पक्ष्यादि जीव जंजरायुजं मनुष्यादि भुवमुद्भिद्वयजायत इत्युद्भिज्जं वृक्षादि इत्यषामित्यन्वयः ॥ 1 ॥ भूतसहित तेजोबन्नाख्य देवतात्र यसृष्ययनन्तरं भगवद्वयापारमाह ॥ सेयमिति ॥ सेयं सदाख्यादेवतैक्षत हन्तेत्यास्वादने । अहमिमाः पुरासृष्याः । तिस्रोदेवताः तेजोबन्नानामकलक्ष्मीप्राणरुद्ररूपाः । अनेन जीवेन जीवनामकेन अनिरुद्धाख्ये नात्मनास्वात्मनान्तयामिरूपेण अनुप्रविश्यनामरूपे व्याकरवाणीत्येवैक्षत ॥ 2 ॥ विचारान्तरमाह ॥ तासामिति ॥ तासां देवतानां मध्ये एकैकां त्रिवृतं त्रिवृतमन्योन्यप्रविष्यां करवाणीति चैक्षत । इति मत्त्वा सेयं देवता इमाः तिस्रोदेवताः अनेन जीवेन आत्मनानुप्रविश्यताभ्यः इन्द्रादीनां नामरूपे व्याकरोत्‌ व्याकृतवती । तासां देवमध्ये एकैकां त्रिवृतं त्रिवृतमन्योन्यप्रविष्यां च अकरोत्‌ । एवन्ताः अन्योन्यप्रविष्याः कृत्वाग्निसोमसूर्यादिषु पुनः विदध इति वक्तव्यम्‌ ॥ 3 ॥ नन्वन्योन्य प्रविष्यानां तेजोबन्नाख्य देवतानां पुनरग्न्यादिष प्रवेशे एकैकत्रकार्यत्रयेण भव्यम्‌ । तत्कथमित्यतः तद्वक्तुं प्रतिजानीते ॥ यथात्विति ॥ हे सोम्य इमाः तिस्रो देवताः एकैकाप्यग्न्यादौ त्रिवृत्रिद्यथैव भवति येन प्रकारेण भवति तन्मेविजानीहीति हवोच ॥ 4 ॥ तृतीयः खण्डः ॥ 3 ॥ प्रतिज्ञातमाह ॥ यदग्नेरित्यादिना ॥ अग्नेः यद्रोहितं लोहितं रूपं तत्तेजसोरूपं तेनजोनामक श्रीरूप सम्भवंविद्यात्‌ । अग्नेः यच्छुक्लं रूपं तदपां रूपं वायुरूपजन्यं विद्यात्‌ । अग्नेः यत्कृष्यरूपं तदन्नस्य रूपं शिवरूपोद्भवं विद्यादित्यर्थः । एवं तेजोबन्नाधीनत्वात्‌ अग्नेरग्नित्वं अग्निनाम प्रवृत्तिनिमित्तभूतं अत्तृत्वरूपं अग्नेः अपागात्‌ मुख्यतो नास्ति । किं तु लक्ष्म्ादीनामेव मुख्यतोस्ति । ततश्ऱ्चाग्नेरग्निरिति नामधेयं वाचारम्भणं सांकेतिकम्‌ । लक्ष्म्ादीनामेव अन्यत्र व्यवहारार्तं समाकृष्यमिति यावत्‌ । अतो विकारोऽमुख्यमित्यर्थः । यथा प्रसिद्धस्त्रीपुंसपिण्डे लक्ष्म्ादिम वाचारम्भणं सांकेतिकं अतोविकारोऽमुख्यं तथैवेत्यपि योज्यम्‌ । तर्हि क्वतन्मुख्यमित्यत आह ॥ त्रीणीति ॥ अग्निरिति नामधेयं त्रयाणामेव सत्यं मुख्यमित्यध्याहारेण आदौ योज्यम्‌ । तर्हि देवतान्तरे प्रयुज्यमानं त्रयाणां नामधेयं किमित्यपेक्षायामुक्तम्‌ ॥ त्रीणीति ॥ त्रयाणां त्रीणिरूपाणीत्येव नामधेयं सत्यं परं मुख्यमित्यर्थः । त्रीणिरूपाणीति नामधेयं इत्यनेन तेजोबन्नानीति नामदेयानि । तथाभूतमेव वा नामधेयं विवक्षितमिति ॥ 1 ॥ एवं उत्तरत्रापि । आदित्यत्वं आददानत्वम्‌ ॥ 2 ॥ चन्द्रत्वमाह्लादकत्वम्‌ ॥ 3 ॥ विद्युत्त्वं विद्योतकत्वम्‌ । उपलक्षणमेतत्‌ । यन्मित्रस्य रोहितं रूपमित्याद्यपि ग्राह्यम्‌ ॥ 4 ॥ येनाश्रुतं श्रुतं भवतीत्यारभ्य यदग्नेरोहितं रूपमित्यंतमुक्तं विद्वात्‌ संमत्याद्रढयति ॥ एतद्धस्मेति ॥ पूर्वेमाहाशालाः सम्यक्‌ प्रत्यब्दयज्ञकृतः । महाश्रोत्रियाः सम्यक्‌ वेदवेदार्थविदः । एतत्‌ ब्रह्मज्ञानेन सर्वं विज्ञातं भवतीत्युक्तं प्रमेयं विद्वांसः एतद्वक्ष्यमाणमाहुः । हस्मेति वृत्तांत तद्योतकम्‌ । किमाहुः । नोस्माकमद्युस्मद्‌कुरूपदेशप्राप्त्यनन्तरं कश्ऱ्चन ब्रह्मातिरिक्तं किमपि अश्रुतममतमविज्ञातं नोदाहरिष्यति । अस्माभिः ब्रह्म
श्रवणमननविज्ञानैः सर्वश्रवण मनन विज्ञानफलस्य लब्धत्वात्‌ । इत्याहुः इति सम्बन्धः । एभ्यः सदेवेत्युक्तप्रकारेण विदित भगवत्प्राधान्येभ्यः पूर्वेभ्यो विद्वद्य्भोन्ये विद्वांसः विदांचक्रुर्विदितवन्तः ॥ 5 ॥ किमिति । यदेव अग्न्यादाविति परिदृश्यमान प्रकारेण किंचित्‌ रोहितमभूत्‌ । तत्तेजसोरूपं श्रियोरूप सम्भवमित्यनेन प्रकारेण इदं तस्मत्‌ उक्तमेव विदांचक्रुः । एवमुत्तरत्रापि ॥ 6 ॥ यदपि रूपमिति दृश्यमानप्रकारेण अविज्ञातमिव । किंचिद्रोहितत्वादिना विशषतोगृह्यमाणं अभूत्‌ । तदप्येतासामेव तेजोबन्ननामकानां देवतानां समासः संकोचः । तदपि समासेन तेजोबन्ननामकदेवता त्रयरूपजन्यमित्यर्थः । एवं अधि दैवतं तेजोबन्ननामकानां देवतानां त्रिवृत्करणप्रकारमभिदायाऽध्यात्ममपि तं वक्तुं प्रतिजानीते ॥ यथेति ॥ हे सोम्य इमाः तिस्रोदेवताः पुरुषं शरीरं प्राप्य यथा अनुखलु येनैव प्रकारेण एकैकात्रिवृत्रिवृद्भवति तन्मे विजानीहीति होवाच ॥ 7 ॥ चतुर्थः खण्डः ॥ 4 ॥ प्रतिज्ञातमाह ॥ अन्नमित्यादिना ॥ अन्नं प्रसिद्धान्नगतं शिवादिरूपं पुरुषेण अशितं उपजीवितम्‌ । त्रेधाविधीयते । कथम्‌ । तस्य अन्नागतस्य शिवादेः यः स्थविष्ठो धातुः स्थूलतमधात्वन्तर्गं रूपं तत्पुरीषं पुरीषनामकं भवति । तत्र प्रवेशात्‌ । योमध्यमोधातुः यन्मध्यमदात्वन्तर्गतं रूपं तन्मांसं मांसनामकं भवति । तत्र प्रवेशात्‌ । योणिष्ठः सूक्ष्मतमोधातुः यत्सूक्ष्मतमधात्वन्तर्गतं रूपं तन्मनोमनोनामकम्‌ । तत्र प्रवेशात्‌ ॥ 1 ॥ एवमुत्तरपि योज्यम्‌ ॥ 2 ॥ 3 ॥ नैतासां देवतानां पुरीषमांसादौ साम्येन अभिमानः किन्तु प्राधान्येन मनः प्राणादावेवेत्याह ॥ अन्नमयं हीति ॥ हे सोम्यमनोन्नमयं प्राधान्येन अन्ननामक रुद्राद्यभिमन्यमानं हीति प्रमाण प्रसिद्धिमाह ॥ प्राण आपोमयः प्राधान्येन अम्नामक वाय्वाद्यभिमन्यमानः । वाक्‌ तेजोमयीप्राधान्येन तेजोनामक रमाद्यभिमन्यमाना । इति पित्रोपदिष्येन श्ऱ्वेतकेतुना अन्नमयं हीत्येतदव तत्वं भूय एव स्पष्यं दृष्यान्तेन मामां भगवान्विज्ञापयत्विति प्रार्थितः पिता तथा सोम्येति होवाच ॥ 4 ॥ पंचमः खण्डः ॥ 5 ॥ यथा खलु दधनोमथ्यमानस्य योणिमाभाव भवित्रोरभेदेन सूक्ष्मभागो नवनीतरूपः स ऊर्ध्वः सन्‌ सर्वापेक्षयाश्रेष्ठस्सन्‌ समुदीषति सम्यगुदय सम्भावनाविषयो भवति । तत्सर्पिभर्वति ॥ 1 ॥ एवमेवखलु सोम्यान्नस्य अन्नस्थस्य शिवादेः अश्यमानस्योपजीव्यमानस्य योणिमासूक्ष्मभागस्तदन्तर्गतं रूपं स ऊध्वर्ः समुदीषति ॥ तन्मनोभवति । मनः प्रविष्यं भवति ॥ 2 ॥ 4 ॥ उपसंहरति ॥ अन्नमयं हीति ॥ तस्मादित्युपस्कर्तव्यम्‌ । इत्युपदिष्येन श्ऱ्वेतकेतुना अन्नमयं हि सोम्यमन इत्यादिकं ममैवानुभवारूढं कुर्वित्याशयेन भूय एवेति प्रार्थितः पिता तथा सोम्येति होवाच ॥ 5 ॥ षष्ठः खण्डः ॥ 6 ॥ हे सोम्य पुरुषो जीवः षोडशकलः षोडशकला देवताः यस्य असौ तथोक्तः । कलादेवताश्ऱ्च अन्यत्रोक्ताः । तन्मध्ये मनश्ऱ्चैकाकला । तत्र मनसोन्नमयत्वं प्रत्यक्षीकर्तुमिच्छसि चेत्‌ तर्हि पंचदशसंख्याकान्यहानिमाशीरशनंमाकार्षीः । काममिच्छातोपः पिब । कुतः । यस्मादपोनपिबतः प्राणोविच्छेत्स्यते । विच्छेदमापत्स्यते । तदपि कुतः । यस्मादापोमयः प्राण इत्युवाच ॥ 1 ॥ स हैवं श्रुत्वामनसोन्नमयत्वं अनुभवारूढं कर्तुमिच्छन्‌ पंचदशाहानिनाश अशनं न कृतवान्‌ अपः पीतवांश्ऱ्च । अथ षोडशे हनि एनं पितरमुपससाद उपगम्योवाच । किं ब्रवीमि भो इति । इतर आह ॥ ऋचः सोम्ययजूंषि सामान्यधीष्वेति । एवं पित्रोक्तः सहोवाच । भोभगवन्‌ मामामृगादीनि नैव प्रतिमान्ति मेमनसिनैव दृश्यन्ते । कुतो वदामीत्यर्थः ॥ 2 ॥ तं पितोवाच । ृणुतत्र कारणम्‌ । यथा सोम्य महतोग्नरभ्याहितस्य क्रमादेकैकांगारेण अपचितस्यैकोंगारः खद्योतमात्रः परिशिष्यः स्यात्‌ । तेन तावदेव खद्योतपरिमितमेव वस्तुदहेत्‌ । ततः तत्परिमाणानीषदपि बहुनदहेत्‌ तृणादिसहकारिविरहात्‌ । एवं सोम्य ते तव षोडशानां कलानां मध्ये एकाकला प्राणरूपातिशिष्या स्यात्‌ । इतराः शान्ताः ततः तया खद्योतमात्रांगारतुल्यकलयै तर्हीदानीं च लस्येवकेवलं नतु मनसावेदाननुभवसि । अन्नाख्य सहकारिविरहात्‌ । ततः कुतो वदसि । एवं अन्नव्यतिरेकेमनोव्यापारव्यतिरेकं उक्त्वा तदन्वयेतदन्वयमाह ॥ अशानेति ॥ भुंक्ष्वतावत्‌ । अथ भोजनानन्तरं मे ममसकाशाद्यच्छतं तत्सर्वं विजिज्ञास्य सीत्युवाच ॥ 3 ॥ एवमुक्तः स पुत्रोहाशभुक्तवान्ह । अथैनं पितरमुपससादह । तमुपागतं पुत्रं यत्किंच पप्रच्छपि तातत्सर्वं ऋगादि प्रतिपेदेहमनसावाचचोवाच पुत्रः ॥ 4 ॥ तं होवाचपुनः पिता । यथा सोम्यमहतोऽभ्याहि तस्याग्नेरेकमंगारं खद्योतमात्रं परिशिष्यम्‌ । तं तृणैरुपसमाधाय प्रज्वलयेत्‌ । तेन ततोपि बहुदहेत्‌ । सहकारिलाभात्‌ ॥ 5 ॥ एवं सोम्य ते तव षोडशानां कलानां मध्ये एकाकलाति शिष्याभूत्‌ । सान्नेनोपसमाहिताप्राज्वालीत्‌ तयाऽन्नो पचितया कलयै तर्हीवेदाननुभसिमनसा वाचा च वदसि ॥ एवं व्यावृत्यनुवृत्तिभ्यामन्नमयत्वं मनसः सिद्धमित्युपसंहरति ॥ अन्नमयं हिसोम्यमन इति ॥ तस्मादिति ग्राह्यम्‌ । यथेतन्मनसोन्नमयत्वं अन्वयव्यतिरेकेण सिद्धम्‌ । तथा प्राणवाचोरप्यप्तेजोमयत्वं प्रतिपत्तव्यमित्याशयेनाह ॥ आपोमय इति ॥

अत्र स एषोणिमैतदात्म्यं इदं सर्वं तत्सत्यं स आत्मा तत्वमसि वेतकेतो इति वाक्यं ग्राह्यम्‌ । स्तम्भनिरासोपयोगात्‌ । व्याख्‌यानं तु भविष्यति । इति पिपिदिष्योयं श्ऱ्वेतकेतु र्हविगलिता भेदमोहोदुपदिष्यं भगवत्प्राधान्यादिकं तद्धा अबाधितं विजज्ञौ बुबोधेति श्रुतिवाक्यम्‌ । अस्येति कतर्रिषष्ठी । इति शब्दः समाप्तयर्थः । सर्वस्यापि विद्यार्थस्य प्रामाणिकत्व अवदाणार्थं द्विर्वचनम्‌ । अत्र तदेष श्ऱ्लोकः । पंचेन्द्रियस्य पुरुषस्य यदेवस्यादनावृतम्‌ । तदस्य प्रज्ञास्रवति दृतेः पादादिवोदकम्‌ । दृतेः पादादिवोदकमिति क्वाचित्कपांः । तस्यायमर्थः । तत्तत्र मनसोन्नमयत्वे अयं श्ऱ्लोको भवति । तमुदाहरति ॥ पचेन्द्रियस्येति ॥ चक्षुरादिपंचेन्द्रियवतोपि पुरुषस्य मनो यदेव यदैवानावृतं अन्नेनेति शेषः । तथाच अन्नावृतं न स्यात्‌ । तत्तदास्य प्रज्ञा स्रवति । किमिव । दृतेः पादादुदकमिवेति ॥ 7 ॥ सप्तमः खण्डः ॥ 7 ॥ पूर्वं जीवेश्ऱ्वरयोः अत्यन्तभेदबोधनाया सहयस्यैव भगवतः तेजोबन्नादि समस्त जगन्निमित्तकारणत्वादिरूपं जीवेष्वसम्भव्यमानं महन्माहात्म्यं उपवर्णिते ॥ तत्त्वागममात्र वेद्यम्‌ । न पुनरनुभवसिद्धमित्यतो जगरे जीवस्य स्वातन्त्ऱ्ाभिमानत्‌ स्वापे च तदभावात्तत्र जीवस्य भगवदाश्रयत्वं अनुभवारूढं कतर्ुं उपक्रमते ॥ उद्दालको हेत्यादिना ॥ यद्यत्र स्वप्नान्त उच्चावचमीयमान इत्यादाविवस्वप्नान्त शब्देन स्वाप्नाख्योन्तः स्थानं स्वप्नान्त इति स्वप्नावस्था गृह्येत तदासतासोम्य तदासम्पन्नो भवतीत्युत्तरवाक्यं युक्तं स्यात्‌ । स्वप्नावस्थायां परात्मप्रवेशाभावादित्यतः स्वप्नान्त शब्दं व्याचष्ये ॥ स्वपनस्येति ॥ अन्तोवसानम्‌ । कः स्वप्नस्यान्त इत्यत उक्तम्‌ ॥ सुषुप्तिरिति ॥ स्वप्नान्तरं सुडषुप्तिस्तदनन्तरं जागरणमिति अवस्थाक्रमं अभिप्रेत्यैवं उक्तम्‌ । सुषुप्त्यनन्तरं स्वपनस्तदनन्तरं जागरणमित्यपि क्रमोस्ति । उक्तं च । सुप्तेरुत्थाने प्राज्ञाद्विभक्तो भवति विश्ऱ्वः । स्वप्नादुत्थाने तैजसादिति । अनेन स्वप्नान्तं सुषुप्तमित्येतदपव्याख्यानमिति सूचयति । अशनापिपासेसोम्य विजानीहीति वदत्रापि स्वप्नान्तशब्देन सुषुप्त्यवस्थाया एव ग्राह्यत्वेन तद्ग्रहणस्यानुचितत्वात्‌ । स्वमपीतो भवतीत्यत्र जीवः स्वंस्वात्मभूतं ब्रह्मापीतो भवतीति ब्रह्मणि स्वात्मवाचिस्वशब्द प्रयोगादैक्यप्रतीतिं वारयितुं शब्दार्थमाह ॥ स्वातन्त्ऱ्ादिति ॥ एवं पदार्थं उक्त्वावाक्यार्थमाह ॥ तमिति ॥ एतेन अपीति शब्देनैक्यं उच्यत इत्यपास्तम्‌ । स्वमपीत इत्यत्र पूर्ववाक्यात्‌ पुरुषशब्दोनुवर्तते । सच संसारिपर एव । मुक्तस्योपक्रमोपसंहारवाक्योक्त सुप्तिजागरावस्थानुपपत्तेः इति भावेनोक्तम्‌ ॥ संसारीति ॥ एतन्मन इत्युपसंहाराविरोधाय मनोनामेत्युक्तं तं प्राणनामानमित्यपि ग्राह्यम्‌ । ननु जीवः सुप्तौ स्वमाप्नोतीति कुत इत्यतः सुप्तेस्वपिति शब्दप्रयोगादित्याह ॥ स्वपितीति ॥ यतः स्वमपीतो भवत्यतः स्वपितीत्याचक्षते विद्वांस इत्यर्थः । अनेन तस्मादेनं स्वपितीत्याचक्षत इत्युक्तार्थम्‌ । ननु मनो नामा संसारीप्राण नामा भगवानित्ययुक्तम्‌ । तत्र तस्य रूढेरभावादित्यतो योगं दर्शयति ॥ मननादिति ॥ प्राणनात्‌ प्राणनामा भगवानित्यपि ग्राह्यम्‌ । अनेन मनः प्राण शब्दाभ्यां तत्‌ प्रविष्यौ जीव परमात्मानौ लक्ष्येते इत्यपास्तम्‌ । योगस्य लक्षातोमुख्यत्वात्‌ । तत्रै तच्छुंगमुत्पतितमित्यादौ उक्तस्य शुंगशब्दस्यार्था प्रतीतेराह ॥ शुंगमिति ॥ तर्हि कथमंकुरस्योत्तरभिप्रेतानुमाने दृष्यान्तत्वम्‌ । तत्र साध्यानिश्ऱ्चयादित्यत आह ॥ तन्मूलमिति ॥ अंकुरं समूलं कार्यत्वात्‌ । घटवदिति अनुमानात्‌ परिशेषसहितात्तन्निश्ऱ्चय इति भावः । श्रौतदाष्यान्तिक वाक्यसमुदाय तात्पर्यमाह ॥ जगतो मूलमपीति ॥ जगतोपीत्यन्वयः । अपि शब्देन दृष्यान्तसमुच्चयः । अत्र जगच्छब्देन शूरीरान्नाप्तेजसां ग्रहणम्‌ । तेषां एव श्रुत्युक्तत्वात्‌ । शरीरादि मूलत्वं चान्नादिद्वारेति द्रष्यव्यम्‌ । शरीरादिकं सभूलं कायर्त्वात्‌ अंकुरवदिति सामान्यसिद्धिपरिशेषाभ्यामेतन्निश्ऱ्चय इति भावः । अंकुरं जगच्चप्रति भगवतो मूलत्वमुपादानत्वमिति कश्ऱ्चित्‌ । तद्दूषयति ॥ जगत इति ॥ अंकुरस्य जगतश्ऱ्च मूलमप्येषनिमित्तं कर्तैव । नतु विकारवानित्यर्थः । एतेनैतदपि परिहृतम्‌ । यदि शरीरादेः समुलत्वं सोपादानत्वं सकारणकत्वं वा तर्हि अंकुरे साध्यस्य सिद्धत्वेन प्राचीनसाध्यवैकल्योद्दारोनुपपन्न इति । नन्वंकुराद्युपादाने बीजादावेव मूलशब्द प्रयोगो दृष्यः । नतु निमित्तकारणे । इत्यतो दृष्यान्ताभ्यां तदेवोपपादयति ॥ बीजेति ॥ पितापि तृजीवः पुत्रतन्वाः । अविकारतो मूलमिति सम्बन्धः । तर्हि किं तत्र विकारतो भूलमित्यत आह ॥ तद्देह इति ॥ बीजजीवदेहोबीजम्‌ । पितृदेहोरेतो रूपः तद्धातुरित्यर्थः । अनेन सन्मूला इत्यस्य सत्परं ब्रह्म मूलं उपादानं घटस्य मृदिव । भुजंगस्य रज्जुरिव वा । यासां स्थावरजंगमात्मकानां ताः सन्मूला इति परकीयं व्याख्यानं अपहस्तितं भवति । मुलशब्दो हि नोपादानेनियतः । किन्तु कारणमात्र वाची । तत्र आगमान्तररानुसारेण बीजजीवोमूलमित्यादिवन्निमित्तकारणपर एव अवगम्यते । किंच घटस्य मृदिवेत्यप्यसंगतम्‌ । त्वन्मते शुद्धब्रह्मण उपादानत्वाभावात्‌ । नच मायावच्छिन्नस्य ब्रह्मणो जगदुपादानत्वे आद्यो दृष्यान्तः । शुद्ध ब्रह्मणस्तदुपादानत्वे द्वितीय इति वाच्यम्‌ । मायाया एव जगदुपादानत्वोपपत्तौ ब्रह्मणोपि तदुपादानत्वे मानाभावात्‌ । श्रुतिस्तु नास्तीत्युक्तमन्यत्र । भुजंगस्य रज्जुरेवेत्यप्यसत्‌ । भुजंगस्य रज्ज्वध्यासाधिष्ठानत्व व्यवहारेपि तदुपादानत्व व्यवहाराभावात्‌ । ननु तस्य क्वमूलं स्यादन्यत्रान्नादित्यादौ शरीरस्य अन्नं तस्य चापस्तासांच तेजोमूलमित्युच्यते । तत्र मूलत्वं उपादानत्वमेव स्फुटम्‌ । एवं च तेजसा सोम्य शुंगेन सन्मूलमन्विच्छसन्मूला इत्यत्रापि सतो जगदुपादानत्वमेवोच्यत इत्यावश्यकम्‌ । अन्यथा प्रायपाठविरोधादिति चेन्न । अन्नादीनां देवतात्वेन शरीरादिकं प्रत्युपादानत्वाभावात्‌ । तदेव कुत इति चेत्‌ । यथा तु खलु सोम्येमास्तिस्रोदेवता इति देवता शब्दप्रयोगात्‌ । हेत्वन्तरमाह ॥ प्राथम्यादिति ॥ चशब्दः प्रागुक्तदेवता श्रुतिसमुच्चयार्थः । यद्वा तत्तेजोसृजत इत्यदि वाक्यव्याख्यानरूप प्रागुदाहृत आगमसमुच्चयार्थः । तत्रोक्तनामेव अत्र कथनात्‌ । प्राथम्यात्‌ क्रमात्प्रथमोत्पन्नत्वादित्यर्थः । लक्ष्मीस्तु सिसृक्षुत्व विशेषं तत्साक्षाद्भगवदिच्छया । प्राप्तैव सृष्य्रेत्युदिता । इदमुक्तं भवति । आदिसृष्यौ तेज आदिकं भगवता क्रमात्‌ प्रथमोत्पन्नत्वेन उच्यते । यद्यदादौ भगवता प्रथममुत्पन्नं तत्र तदुत्तममिति व्याप्तिः प्रमिता । ततस्तेजोबन्नानि क्रमात्‌ सर्वोत्तमानि भवेयुः । नच भगवदतिरिक्ते लक्ष्म्ादिकं विनाऽन्यत्‌ सर्वोत्तममस्तीति लक्ष्म्यादिकं एव तेज आदिकमिति । तेज आद्यालक्ष्म्ादय एव प्रथमोत्पन्ना इत्यत्र स्मृतिमप्याह ॥ तेज इति ॥ सर्वेभ्यः पुरासृष्या इति शेषः । प्राणबन्धनं हि सोम्यमन इत्यत्र मनो नामा संसारीप्राणनामा भगवान्‌ कथ्यत इत्युक्तम्‌ । तत्कुतः । नच मननान्मन उद्दिष्य इति प्राणः प्रणयनादेष इति च स्मृतेरिति वाक्यम्‌ । तावता तत्र तस्य शक्तत्वेप्यत्र तत्परत्व ज्ञापकाभावादित्यत आह ॥ यत्रेति ॥ नह्यन्यत्‌ प्रतिज्ञाय दृष्यान्तमुक्त्वादार्ष्यान्तिक अन्यदुच्यत इत्रत सम्भवत्यति प्रसंगादिति भावः। एवमुपक्रमानुग्रुयं दर्शयित्वा तत्रैवोपसंहारानुगुण्यमप्याह ॥ सन्मूला इति ॥ उपसंहारवाक्ये प्रजाशब्दोक्त जीवानां सच्छब्दोक्त भगवदाश्रयत्वोक्तेः अत्रापि मनः प्राणशब्दाभ्यां जीवेश्ऱ्वरावेव ग्राह्यावित्यर्थः । यद्यपि मनो नाम पुरुषः प्राणनामा भगवानिति परस्यापि संमतम्‌ । तथापि शिष्यव्युत्पादनार्थं एतदुक्तम्‌ । ननूपसंहारवाक्यस्थ सच्छब्दानुरोधेन प्राणशब्दस्य भगवत्परत्वेपि प्रजाशब्दानुरोधेन मनः शब्दो न जीव परोंगीकर्तुमुचितः । प्रजाशब्देन स्थावरजंगमात्मकानां अचेतनानां एव ग्रहणात्‌ । सन्मूला इति सन्नामके ब्रह्मण्यारोपितत्वं हि प्रजानामुच्यते । नहि चेतनस्यारोपितत्वं सम्भवतीति चेत्‌ न । किं प्रजाशब्दोक्तानां ब्रह्मण्यारोपितत्वोक्त्यन्यथा अनुपपत्त्यैव व्याख्यायते उत प्रजाशब्दस्यैव अचेतनेषु प्रसिद्धयनुरोधात्‌ । नाद्यः । सन्मूला इत्यस्यान्यथैव व्याख्यातत्वाम्येत्यादि पुरस्तादिनत्यन्त वाक्यं किमर्थम्‌ । प्राचीनोक्त्यैव ज्ञातुं शक्यत्वादित्यतः प्रमाणोदाहरणपुरः सरन्तदभिप्रायमाह ॥ शरीरेति ॥ चशब्दस्तुशब्दर्थः । भगवत्समुच्चयार्थो वा । चशब्देन भूतग्रहणेधातुकृत्त्वेनेत्यनन्वितम्‌ । भूतानां शरीरधातुकर्तृत्वायोगात्‌ । श्रुतौ देवताशब्दप्रयोगायोगश्ऱ्च । इत्युक्तमिति ज्ञायत इति शेषः। तेन वचनादित्यस्यान्वयोपपत्तिः । अस्य सोम्यपुरुषमात्रत्वावगमात्‌ । देवानां च मुक्तौ मरणेच मार्गप्रतिपादकमिदम्‌ । वाङ्मनसिदर्शनाच्छब्दाच्च । तन्मनः प्राण उत्तरात्‌ । सोध्यक्षेतदुपगमादिभ्य इति सूत्रकारेण वागाद्यभिमानि देवतानां मुक्तिकाले अन्योन्यदेह लयस्यैतच्छत्यवष्यम्भेन निर्णीतत्वात्‌ । पुरुषं सोम्योपतापिनं इत्युत्तरखं डानुसारेण अस्य ममरणपरत्वावगतेश्ऱ्चेति भावेन मुक्तिमरणोभयपरत्वेन प्रमाणेनैव तद्वयाचष्ये ॥ मुक्ताविति ॥ मृतावित्यपि ग्राह्यम्‌ । रुद्रं याति रुद्रेदेहलयं प्राप्नोति । रुद्रेण ग्रस्तव्यापराभवतीति चार्थः । मनः प्राण इत्यस्यार्थो वायुं याति शिवश्ऱ्चेति । अपिशब्दस्योत्तरत्रान्वयः। अत्र मुक्तिपक्षे उमारुद्रवायुशब्दैः वारुणीसुपर्णीशेषसुपर्णहिरण्यगर्भाः कथ्यन्ते । प्राणस्तेजसीत्यस्यार्थो वायुरिति । वायुरपीति सम्बन्धः । तेजः परस्यां देवतायामित्यस्यार्थमाह ॥ वायुमिति ॥ ननु प्राणस्तेजसीति चतुर्मुखस्य रमायां देहलयोनवक्तुं युक्तः । तथासति चतुर्मुखस्य पुनः संसारप्राप्तिप्रसंगात्‌ । तथाचोक्तं सूत्रकृता । तदपीतेः संरव्यपदेशादिति । कथं चैवंसति सूत्रकृतासोध्यक्ष इति प्राणस्य परमात्मन्येव साक्षाल्लय उक्त इत्यतः प्राणस्तेजसीत्यस्य तात्पर्यमाह ॥ द्वारमात्रेति ॥ चतुर्मुखस्य तेजसिलयोनाम तत्‌ प्राप्तिमात्रम्‌ । नतत्र देहलयः । तस्य साक्षात्परमात्मनिलययोग्यत्वादिति भावः। प्राणत्वे त्वस्त्येव तेजसिलय इति विशेषद्योतनार्थस्तु शब्दः । एवं तर्हि उमादिव्यतिरिक्तानां देहलयाभावेन मोक्षाभावः । मरणकाले म्रियमाणानां भगवत्प्राप्त्यभावे प्राज्ञेनात्मनान्वारूढ इत्यादिविरोधश्ऱ्चेत्यत आह ॥ मृतिकालेचेति ॥ पुरुषाः म्रियमाणाः मुच्यमानाश्ऱ्च । स य एषोणिमेत्यादिकं परेणैवं व्याख्यातम्‌ । सयः सदाख्यः एष उक्त अणिमा अणुभावोजगतो मूलम्‌ । ऐतदात्म्यमेतत्सदात्मायस्य सर्वस्य तदेतदात्मातस्य भावः ऐतदात्म्यम्‌ । एतेन सदाख्येन आत्मना आत्मवत्सर्वमिदं जगन्नान्योस्त्यस्य आत्मासंसारीति यावत्‌ । येन चात्मनात्मवत्सर्वं तदवसदाख्यं कारणं सत्यं परमार्थसत्‌ । अतः सदात्मा जगतः प्रत्यक्‌ स्वरूपं सत्तत्वं याथात्म्यम्‌ । आत्मशब्दस्य निरुपपदस्य प्रत्यगात्मनिरूढत्वात्‌ । अतः तत्सत्‌ । त्वमसि भवसीति । तदिदमसत्‌ । सय एष इत्यस्य अनुवादपरत्वे तच्छब्दवैयर्थ्यात्‌ । अणोरेव जगन्मूलत्वेन अणुभावस्य जगन्मूलत्वाभावाच्च । यथा श्रुतेनैवोपपत्तौ जगतो मूलमित्यध्याहारायोगाच्चेति भावेन सय इत्यादिकं प्रमाणेनैव यथावद्वयाचष्ये ॥ योसाविति ॥ नामानि सर्वाणि यमाविशन्तीति श्रुतेः सय इत्यादिकं भगवन्नामैवेति भावेन तन्निर्वचमिदम्‌ । यमयतीति व्युत्पत्त्यानियमनादौ विष्णुर्य इति स्मृतः सर्वस्येष्य इति ह्येष इति ग्राह्यम्‌ । सूक्ष्मतोगम्यः । सूक्ष्मज्ञानविषयः । अणीयसासूक्ष्मेण ज्ञानेनमीयत इत्यणिमा । ऐतदात्म्यमित्यस्यैतेन सदाख्येन इति तात्पयवर्णनमयुक्तम्‌ । सन्निहितरूपत्वात्‌ एषः आदानादिकर्तृत्वात्‌ आत्मैष चासावात्माचैतदात्मा । स एव चैतदात्म्यं अपरोक्षत्वादिदं पूर्णत्वात्‌ सर्वमिति पदसमन्वये नास्याप्यन्यार्थत्वोपपत्तेः वाक्यान्वयपक्षमंगीकृत्याह ॥ ऐतददात्म्यमिति ॥ ऐतदात्म्यमित्यनुवादेन तद्वशमिति व्याख्यानम्‌ । अयमाशयः एतत्‌ सदात्मायस्येत्येवास्तु व्याख्यानं आत्मशब्दस्तु स्वामिवाची । भाव प्रत्ययस्तु परस्यापि व्यथर्ः । तेनैतत्‌ स्वामिकं तद्वशमित्यर्थः सिध्यति । अथवा एष चासावात्माचैतदात्मा । विचित्राहि तद्धितगतिरिति वचनादेतदात्मन इदमिर्त्थे तद्धितोयमित्युक्तं भवति । वैयर्थ्यादर्तान्तरग्रअहणस्य ज्यायस्त्वात्‌ । एवं च नेदं वाक्यं त्वदुक्तरीत्या जीवेश्ऱ्वराभेदपरमिति । तदेव सत्यमित्यप्यसत्‌ । अश्रुतैवकारकल्पनाप्रसंगात्‌ । सर्वस्यापि परमार्थसत्त्वस्य व्यवस्थापि तत्वाच्चेति भावेन तत्सत्यमित्येतद्वयाचष्ये ॥ परेति ॥ ततत्वात्तदित्यपि ग्राह्यम्‌ । किं च स आत्मातत्वं याथात्म्यमिति व्याख्यानेतत्सत्यमित्यनेन पुरुक्तिः । तत्वमित्येतदनावर्त्यसोणिमैवात्माजी
व इत्यैक्यार्थत्वांगीरेत्वैतदात्म्यमित्युक्तत्वादिदं व्यर्तमिति भावेनाह ॥ आत्मेति ॥ सादनाच्चस इत्युक्त इत्यपि ग्राह्यम्‌ । तत्वमसीत्यैक्यमुच्यत इत्यसत्‌ । एतदात्म्यमित्यादिना गतार्थत्वप्रसंगात्‌ । पदसमन्वयेन अस्यापि भगवन्नामत्वोपपत्तेश्ऱ्च । वाक्यान्वयश्रद्धायामपि अतत्‌ त्वमपि अतत्‌ त्वमसीति पदच्छेदेन भेदपरत्वस्यैव अवगतेश्ऱ्चेति भावेनातत्वमिति तत्वमित्युभयथापि पदच्छेदमभ्युपेत्यव्याचष्ये ॥ सत्यत इति ॥ अनेन हे श्ऱ्वेतकेतोत्वं तत्वतः त्वं अतत्‌ तदन्यद्वस्त्वसीति व्याख्यातं भवति । अतत्वमसीति पदच्छेदेन भेद परत्वांगीकारेपि भेदोमिथ्यैवेत्यप्यत एव परास्तम्‌ । उपदेशस्य प्रयोजनमाह ॥ माभूदिति ॥ यदि तव ब्रह्मत्वं स्यात्तर्हि तज्ज्ञानेन अविनीतत्वलक्षणास्तब्धताकर्तुं शक्येत । तदेवनास्ति । तस्मात्‌ स्तब्धतातेमाभूदित्यर्थः । अन्यथा तवाप्यसुरत्व प्राप्तिरिति भावेन असुरपक्षमनुवदति ॥ असुरा इति ॥1 सुखदुःखादिरूपस्य जगतः सत्यत्वेकथं तेषां ब्रह्माहमित्यभिमान इत्यत उक्तम्‌ ॥ असत्यमिति ॥ प्रत्यक्षादिप्रमाणेन जगतः सत्यत्वावगमात्‌ कथमेवं आहुरित्यत उक्तम्‌ ॥ सिद्धोहमिति ॥ सिद्धोहं अतोमद्वचनमेव सत्यम्‌ । तद्विरोधात्‌ प्रत्यक्षादिकमप्रमाणमिति भावः । प्रमाणसिद्धपदार्थापलापिनोराजादिकशंकावाकथं नास्तीत्यत उक्तम्‌ ॥ बलवानितीति ॥ भेदप्रतिपादकान्वेदान्‌ पश्यन्तः कथमेवं आहुरित्यत आह ॥ चेतनेति ॥ विमतानिशरीराणि देवदत्तस्यैव भोगायतनानि इत्यादिकुतर्कपरमाः । अथापि यः सर्वज्ञ इत्यादि श्रुतसार्वज्ञादिगुणविशिष्येन ब्रह्मणाकथमैक्यं ब्रूयुरित्यत आह ॥ न सहन्त इति ॥ अत्रापि ब्रह्मनिर्गुणम्‌ । अद्रव्यत्वात्‌ । गुणवदिति कुतर्कपरमा इति संबध्यते । तत्वमसीत्यादिवेदार्तस्यैव एक्यस्य कथना)वेदना)त्‌ कथमयमसुरपक्ष इत्यत आह ॥ शास्त्रेति ॥ एकतां प्रतिपाद्याम्‌ । तेषां फलमाह ॥ यान्तिचेति ॥ किंतत इत्यत आह ॥ आलम्ब्येति ॥ एवं स्तब्धतां निरस्य महामनस्त्वं च निरस्यति ॥ एकत्वाभावत इति ॥ एकत्वाभावे सन्मूला इत्यत्रैवोक्तां युक्तिमाह ॥ तन्निष्ठाहीति ॥ एतेन सदायतनाः सत्प्रतिष्ठाः इत्यनयोः पनरुक्तिः परिहृताभावति ॥ खं-8 ॥ भूय एवं अभगवान्विमापयत्विति पुनः प्रश्ऱ्नाभिप्रायः परेण वर्णितः । यद्भवदुक्तमहन्यहनिसर्वाः प्रजाः सुषुप्तेसत्सम्पद्यन्त इति तत्सन्दिग्धं । यतः सत्संपद्यनविदुः सत्सम्पन्नावयमिति । अतो दृष्यान्तेन प्रत्यापयत्वित्यर्थ इति । सनयुक्तः । तथासति ते यथातत्र विवेकं लम्भते मधुभावं प्राप्तावयमित्येव वक्तव्यत्वापातात्‌ । नदीसमुद्र दृष्यान्तोक्तिवैयर्थ्याच्च । नच यथालोके स्वकीये गृहेसुषु प्तउत्थाय ग्रामान्तरं गतो जानाति स्वगृहादागतो स्मीति एवं सत आगतोस्मीति जन्तूनां कस्माद्विज्ञानं न भवतीति पुनः प्रश्ऱ्नोतत्कथनमिति वाच्यम्‌ । तथासति ताः समुद्रादागतानविदुरितोवयमागता इत्येव वक्तव्यत्वापातेन नदीनां समुद्रप्राप्तेः परस्पराज्ञानस्य च कथनायोगात्‌ । नानावृक्षसा यथा तत्तद्वृक्षादागत्यनविदुरित आगतोस्मीति त आगतोस्मीति पूर्वखण्ड एव तपि दृष्यान्तस्योक्त प्रायत्वाच्चेति भावेन स्वयं पुनः प्रश्ऱ्नाभिप्रायं प्रमाणेनैवाह ॥ यदीति ॥ स्वतः स्वस्मात्‌ मत्त इत्यर्थः । न दृश्यते भेदेनेति शेषः । नमत्तोन्योस्मिन्देहेस्ति । मया भेदेन अनुपलभ्यमानत्वात्‌ । योयमात्मनोभेदेन न पश्यति सततोनभिद्यत इति व्याप्तेरिति भावः। किमत्र ज्ञानिभिरदृश्यमानत्वं हेतुरथवाऽज्ञानिभिः । नाद्यः । असिद्धेः । द्वितीये व्याप्तिभंगमाह ॥ अज्ञैरिति ॥ कुत इत्यतस्तत्र यथासोम्यमध्विति खण्डोक्तव्यभिचारस्थानमाह ॥ यथेति । एवमेव खलुसोम्येत्यादिदार्ष्यान्तिक वाक्यतात्पर्यमाह ॥ अजान्तोपीति ॥ इति भूय एव मा भगवन्विज्ञापयत्वित्येतद्वयाचष्ये ॥ इति पित्रेति ॥ पित्रोपदिष्यः सन्निति शेषोक्तिः । प्रश्ऱ्नाभिप्रायमाह ॥ चेतनानामिति ॥ भवत्वचेननानां नानावृक्षरसानां भेदापरिज्ञानं मयातु चेतनत्वेन हेतुः विशेष्यत इति भावः । तथासोम्य इति होवाचेत्यर्थः तं प्रत्याहेति ॥ खं-9 ॥ प्रश्ऱ्नोत्तरत्वेन इमाः सोम्य नद्य इति खण्डतात्पयर्माह ॥ यथानद्य इति ॥ नदीशब्दस्य चेतनपरत्वं अभिमान्यधिकरणन्यायसिद्धम्‌ । चशब्दोपि शब्दार्थः । नदीनेवतानामियं इहमस्मीयमहमस्मीति न विदुरित्युक्तस्वस्वरूपापरिज्ञानं कथमित्यत उक्तम्‌ ॥ स्वंवारीति ॥ सर्वस्यापि नदीजलस्य सामुद्रजलप्रवेशेन मिश्रीभावात्‌ क्षीरनीरयोरिवस्वीयोदकभेदाज्ञानं युक्तमिति भावः । प्रजानामालयः आश्रयस्तस्मिन्‌ प्रजालये परमेश्ऱ्वरे स्थित्वापि तश्रिताःस्म इति न विदुरिति शेषः । अनेन श्रुतौ दृष्यान्तवाक्यानुसारेण सत आगम्य न विदुरित्येतदुपलक्षणपरमित्युक्तं भवति । एतेन चेतनत्वविशिष्यस्यापि हेतोरनैकान्त्यमुक्तं भवति । दृष्यं लोके जलेबीचीतरंगफेन बुद्बुदादय उत्थिताः पुनः तद्भावं गताः विनष्या इति । जीवास्तु तत्कारणभावं प्रत्यहं गच्छन्तोपि यन्मरणप्रलययोश्ऱ्च न विनश्यन्तीत्येतद्भूय एव मा भगवान्विज्ञापयतु दृष्यान्तेनेति प्रश्ऱ्नाभिप्रायवर्णनमयुक्तम्‌ । जलयीचीरतंगादावुपादानोपादेयभावसत्त्वात्‌ । प्रकृते च तदभावेन वैषम्यात्‌ । पेपीयमानोमोदमानस्तिष्ठतीत्यन्तस्व कथंचिद्वक्तव्यत्वेन अस्य यदैकाशाखां जीवोजहातीत्यादि वैयर्थ्याच्चेति भावेन भूय एवेति पुनः प्रश्ऱ्नाभिप्रायं स्वयमाह ॥ स्वत इति ॥ परःपरमात्मा । स्वतोन्योदेहेऽस्तीति सत्यम्‌ । तथापि जीवस्य तदधीनत्वमिति शेषः । खं-10 ॥ वृक्षदृष्यान्तोक्त्या कथमस्योत्तरं जातमित्यतः तदभिप्रायमाह ॥ अभिमानिन इति ॥ वृक्षजीवस्य भेदेन तन्नियामकत्वेन च । अनेन वृक्ष जीवः केनचिन्नियम्योऽस्वतन्त्ऱ्ा्वत्‌ रथादिवदित्यनुमानं सूचितम्‌ । किमुमनुष्येति कथं कैमुत्यमिति चेत्‌ । मनुष्याणां बहुलं संकल्पत्न अस्वातन्त्ऱ्यं प्रत्यक्षसिद्धम्‌ । वृक्षजीवेत्वस्वातन्त्ऱ्यं कार्यलिंगानुमेयमतोयुक्तं कैमुत्यमित्याशयेनाह ॥ शोष इति ॥ अस्य वृक्षजीवस्य अनुपहतात्यक्तदेहेन मयाभवितव्यमितीच्छायामप्यस्वातन्त्ऱ्ादेव हि शरीरशोषछेदाद्यनिष्यं भवत्यन्यथातन्नस्यादित्यर्थः ॥ खं-11 ॥ कथं पुनरिदमत्यंतस्थूलं पृथिव्यादि जगदत्यन्तसूक्ष्मात्सो जायत इत्येतदृष्यान्तेन भूय एव मा भगवान्विज्ञापयत्विति पृष्ये यथा सूक्ष्मदानासामर्थ्यात्‌ तत्परिणामोमहान्न्यग्रोधस्थिष्ठत्येवं परमसुक्ष्मपरमात्मसामर्थ्यात्‌ तत्परिणामोयं प्रपंच इत्युत्तरमुच्यत इति परकीयप्रश्ऱ्नोवराभिप्राय वर्णनमयुक्तम्‌ । अस्यार्थस्याव्यवधानेन प्रागनुक्तत्वेन तत्र दृष्यान्ताकांक्षायोगात्‌ । सतःशुद्धस्य सौक्ष्म्यस्याप्यभावेन विशिष्यस्य तु सौक्ष्म्यवत्स्थौल्यस्यापि भावेन प्रश्ऱ्नायोगाच्च । एतस्य वैसोम्य एषोणिम्न इत्युक्ताणिमशब्दस्य धानापरत्वांम्भवेन परिहारायोगाच्च । तथाहि । धानानां किमत्र पश्यसीति अण्व्य इवेमाधानाभगव इति भावप्रत्यय रहितेन स्त्रीलिंगेन बहुवचनान्तेन एव शब्दशिरस्केण चाणुशब्देन निर्दिष्यतया तद्विपरीताणिमशब्दानर्हत्वात्‌ । ननिभालयस इत्युक्ता दृश्यत्वायोगाच्च । धानाया एव वटोपादानत्वेन धानाभेदनादि वैयर्थ्याच्चेति भावेन स्वयं प्रश्ऱ्नाभिप्रायं तावदाह ॥ ज्ञायत इति ॥ सूक्ष्मेजीवे । एवं जीवस्य सत्तादिप्रदोहरिरत्रैव शरीरे जीवे वर्तते चेज्जीवेन कुतो न दृश्यते सूक्ष्मत्वादिति चेत्‌ जीवस्य सूक्ष्मस्वात्मदर्शिनः सूक्ष्मदर्शनशक्तिसद्भावादिति भावः । प्रश्ऱ्नोत्तरत्वेन यं वैसोम्यैतमणिमानं न निभालय स इति वाक्यतात्पर्यमाह ॥ वटबीज इति ॥ अभिमानीबीजाभिमानी । स एवमहावृक्षाभिमानीत्युक्तं महांश्ऱ्चासौ न्यग्रोधश्ऱ्च तस्मिन्‌ भावयुगिति । अनेनैतस्य वैसोम्यैषोणिम्न इति वाक्यमुक्तार्थम्‌ । सूक्ष्मे वटबीजे दृश्यमाने यथातदभिमानीन दृश्यतेऽतिसूक्ष्मत्वात्‌ । एवं सूक्ष्मेजीवे दृश्यमानेपि जीवगतोहरिः न दृश्यते । परमसूक्ष्मत्वादित्यर्थः । नन्वनेन यं वैसोम्यैतमणिमानं ननिभालयस एतस्य वैसौम्यैषोणिमन इत्युक्ताणिमशब्दोबीजजीव परतया व्याख्यातः । तथासति नहि धानापरमात्मनोरभेदोस्तीत्युत्तरवाक्यविरोधः । अणिमशब्दस्य परमात्मपरत्वं विनातस्यायोगात्‌ । अणिमशब्देन पर एवाभिहित इति तत्वनिर्णयविरोदाच्चेति चेन्न । अयमभिप्रायोभाष्यकारस्य । अणिमशब्दोहि परेण धानापरोव्याख्यातः सर्वतासनयुक्तः । प्रागुक्तबहुबाधकसद्भावात्‌ । किन्तु परमात्मपर एव । स एषोणिमेत्यणिमशब्देन प्रकृतत्वात्‌ । तत्रैव तच्छब्दस्य मुख्यत्वाच्च । अथवाजीवपर एवास्तु । धानापरत्वपक्षोक्तदोषाणामत्राभावात्‌ । बहुबाधकवशेनाणिमशब्देनाप्रकृतस्याप्यस्य सोम्य महतो वृक्षस्येत्यादिना प्रकृतस्य वृक्षजीवस्याणिमशब्देन ग्रहणोपपत्तेः । वृक्षाभिमानिन एव बीजाभिमानित्वात्‌ । अत एव महान्यग्रोधभाव युगिति बीजाबिमिभिमानि विशेषणमुक्तमिति ॥ द्वादशः खण्डः ॥ 12 ॥ यदितत्सज्जगतोमूलं तर्हि कस्मान्नोपलभ्यत इत्येतदृष्यान्तेन विज्ञापयत्विति प्रश्ऱ्नाभिप्राय वर्णनमयुक्तम्‌ । त्वन्मते सन्घट इत्यादावप्यधिष्ठानसदार्थोपलब्धेः एवं प्रश्ऱ्नायोगात्‌ । परमसूक्ष्मत्वात्‌ न दृश्येत तर्हि तस्यादर्शनेतच्छक्तिः कथं दृश्येत । दृश्यते च वटावस्थानादिनानाविधकार्येण इश्ऱ्वरसामर्थ्यं तावत्‌ प्रत्यक्षमिव । एवं तत्सामर्थ्ये दृश्यमाने तस्यादर्शनमित्येतत्कथं इति भावयुतमिति भावः । तदुत्तरत्वेन लवणरसदृष्यान्तकथनाभिप्रायमाह ॥ यथेति ॥ अप्सुव्याप्तमित्यन्वयः । यथाप्सुव्याप्तं लवणमत एव तद्भिन्नं तद्गुणरसदृष्यावपि न दृश्यते । एवं चेतनगस्तद्भिन्नो विष्णः तत्सामथ्यर्े दृश्यमानेपि न दृश्यत इत्यर्थः ॥ खं-13 ॥ जगन्मूलसदुपलब्धौ क उपाय इति विज्ञापयिति परकीय प्रश्ऱ्नाभिप्रायवर्णनमयुक्तम्‌ । विवर्ताधिष्ठानस्य सतः सर्वप्रत्यय वेद्यत्वांगीकारेणाचार्योपदेशानपेक्षणात्‌ । किंच आचार्योपदेशस्य विशिष्यज्ञापकत्वे त्वप्रमाण्यम्‌ । स्वरूपमात्र ज्ञापकत्वे सिद्धार्थत्वम्‌ । स्वरूपमात्रस्य पूर्वमेव सिद्धत्वादिति भावेन स्वयं प्रश्ऱ्नाभिप्रायमाह ॥ कथमिति ॥ कथं केनोपायेन सः जीवगोभिन्नोविष्णुरविद्यापटलपि हितनयनेन कतं केनोपायेन दृश्यते प्राप्यते चेत्यर्थः । तदुत्तरत्वेन यथासोम्य पुरुषमिति खण्डतात्पर्यमाह ॥ यथेति ॥ पूर्वं बद्धाक्षः अनन्तरं मुक्ताक्षबन्ध इत्यपि ग्राह्यम्‌ । व्रजेत्‌ जानीयात्‌ गच्छच्च ॥ खं-14 ॥ ननु विद्वान्‌ केनक्रमेण ब्रह्माप्नोतीति जिज्ञासायां तत्क्रमप्दर्शनार्थं पुरुषं सोम्योपतापि न मित्याद्युच्यत इति व्याख्यानमसत्‌ । अस्य सोम्यपुरुषस्य प्रयतो वाङ्मनसिसम्पद्यत इति प्रागेवोक्तत्वात्‌ । पूर्ववदत्रापि तस्य वाङ्मनसिसम्पद्यत इत्यादि तेजः परस्यां देवतायामित्यन्तेनैव पूर्तेस्तस्य यावन्नवाङ्मनसिसम्पद्यत इत्यादिना ज्ञानेजीव्य पराधीनत्वोक्तिवैयर्थ्याच्च । यदा प्राणान्‌ ददातीशस्तदाचेतनकोखिलम्‌ । जानाति ग्रस्तकरणस्न वेत्तिनकिंचनेति स्मृतिविरोधाच्चेति भावेन प्रश्ऱ्नाभिप्रायमाह ॥ यथेति ॥ अवगतं वृक्षशरीरे भगवदधीनत्वं जीवस्य मानुषशरीर एव तज्ज्ञापयत्वित्यर्थः । तेन न सिद्धार्थत्वं प्रश्ऱ्नस्य । तदुत्तरत्न पुरुषं सोम्येति खण्डतात्पर्यमाह ॥ ज्ञानेहीति ॥ ज्ञानस्य वागादिव्यापारान्वय व्यतिरेकानुविधायित्वोक्तेरित्यर्थः ॥ खं-15 ॥ यदि वागादिलयक्रमेण मयिष्यतोमुमुक्षतश्ऱ्च तुल्यासत्ससम्पत्तिः तत्र विद्वान्‌ सम्पन्नोनावर्तते आवर्ततेत्व विद्वानित्यत्र किं कारणमिति जिज्ञासायां सत्यब्रह्मात्मत्वाभिसन्धित्यागात्यागौ तत्र कारणमिति प्रदर्शनार्थं पुरुषं सोम्येत्यादि वाक्यं पठ्यत इत्यसत्‌ । दूषयिष्यमाणत्वादिति भावेन प्रश्ऱ्नाभिप्रायमाह ॥ अभेदेति ॥ दोषोनर्थः । भेदमानिनां च कीद्दृशः पुरुषार्थः स्यादित्यपि ग्राह्यम्‌ । तदुत्तरत्न पुरुषं सोम्येति खण्डतात्पर्यमाह ॥ यस्मादिति ॥ यदेत्यर्थः । राज्ञोपहर्त्ता सत्यपि राज्ञिराजाहमिति वदन्नित्यर्थः । स्वव्यतिरिक्तराजाभावोक्तेरिति भावः । यथाराजापहर्तैवम्‌ । श्रुतावपहर्त्रादि दृष्यान्तेन अभेद ज्ञानिनः फलमुक्तम्‌ । तत्तुनपरस्वापहर्त्रादि दष्यान्तेन ऐक्यज्ञानिनः तत्साम्याभावात्‌ । किं नाम राजापहदिदृष्यान्तेनैव । ततश्ऱ्च हत्याधिक्यं तस्य फलमित्यनेनोक्तं भवति । ननु कथमभेदज्ञानिब्रह्मस्तेनत्वम्‌ । कुत्रवासनिह9न्यत इत्यत आह ॥ सर्वेषामिति ॥ शास्तृशिक्षकम्‌ । स्वस्वरूप्यतिरेकेण ब्रह्माभावस्मरणाद्ब्रह्मस्तेन इत्यर्थः । ननु राजाहमिति दृढाभिमानमतदर्हं राजपुरुषाबाधन्ते । ब्रह्मस्तेनं केबाधन्त इत्यत आह ॥ दोषाहीति ॥ दोषा इति तदभिमानिनोदेवावायुकिं कराः । मिथ्याज्ञानपूर्वा इत्यर्थः । वस्तुतः किमयं विष्णोरपहर्ता नेत्याह ॥ अमिमानेति ॥ ब्रह्मैवाहमित्यभिमाने कृतास्पदमित्यर्थः । एवं सदह्यतेथ हन्यत इत्यन्तेनोक्तसाम्यं दार्ष्यान्तिके प्रदर्श्य सयदितस्याकतर्ा भवतीत्यारभ्य स यथा तत्र न दाह्येतेत्यन्तेनोक्तसाम्यमपि दार्ष्यान्तिके दर्शयति ॥ तत इति ॥ तत इति बुद्धिस्थपरामशर्ः । आनयनानन्तरमित्यर्थः । एनं भेदज्ञानिनम्‌ । अपभ्रष्यैः ब्रह्मस्तेनत्न सूचितम्‌ विचारयन्ति । परशुतापादिना । इदं पूर्ववाक्येपि ग्रह्यम्‌ । न केवलं तापाभावमात्रं किं नाम यथा राजाशिक्षकेभ्यः तं मोचयित्वा मृषावादिनः पिशुनान्हत्वा स्वकीय कुरुते एवं विष्णुरपीत्याह ॥ तदेति ॥ तेभ्योऽज्ञानादि दोषेभ्यः तमिति शेषः । मिथ्याभिशंसिनोपभ्रष्य देवान्‌ । अवश्यमेतदेव सम्पद्यमिति भावेन विपक्षेबाधकं सूचयन्नुक्तं विशदयति ॥ अन्यथेति ॥

अभेदज्ञाने तैः पूर्वाभेदज्ञानिभिः सह पातयति वायु किंकरैः । महातमस्त्रिधाप्रोक्तमूर्ध्वं मध्यं तताधरमित्युक्तेरभेदज्ञानतारतम्यानुसारेणेयं फलोक्तिः । एवमेव खलुसोम्याचार्यवान्‌ पुरुषो वेदेति वाक्यं स्थानान्तरस्थमपि र्सत्रा सम्बध्यत इत ज्ञापतिमेतद्वाख्यतात्पर्यमाह ॥ तस्मादिति ॥ जीवभेदेन ॥ षोडशः खण्डः ॥ 16 ॥ ननु स्वमपीतो भवतीत्यस्य विष्णावेव रूढिं साधयितुमाह ॥ स्वयं भूरितीति ॥ इति शब्देन स्वयं स्वात्‌ स्वतन्त्राद्भवतीति व्युत्पत्तेरित्यर्थः । ननु स्वयमेव भगवतीति स्वयं भूरिति किं न स्यात्‌ । तेन न स्वयं शब्दोविष्णुवाचीति सिद्धयतीत्यत आह ॥ नहीति ॥ आत्माश्रयप्रसंगादिति भावः । अथापि भवदुक्तार्थेकिं नियामकम्‌ । व्युत्पत्त्यन्तरस्यापि सम्भवादित्यतो ब्रह्मणोविष्णुत्वे तावत्‌ प्रमाणमाह ॥ य इति ॥ विदधाति करोति । किं चात्मभूशब्दस्तावद्विरिंचवाचकः । सच तस्य विष्णुजत्वमेवाभिधत्ते । नतु स्वात्मोत्पन्नत्वं आत्माश्रयप्रसंगादेव । नापि जीवोत्पन्नत्वंश्रुतिविरोधात्‌ । ततश्ऱ्च तत्समाख्यानात्‌ स्वयं भूशब्दोप्युक्तार्थ एवेति भावेनाह ॥ आत्मेति ॥ भूतत्वादुत्पन्नत्वात्‌ । आत्मभूरिति विरिंच उच्यत इति सम्बन्धः । आत्मा भगवानिति कुत इत्यतः तत्र स्मृतिमाह ॥ दत्तमिति । किंचाजशब्दः तावद्विरिंचवाचीति प्रसिद्धम्‌ । सोपि तस्य विष्णुजत्वमेवाभिधत्ते । नतु न जायत इत्यज इत्यनुत्पत्तिम्‌ । यो ब्रह्माणमिति श्रुतिविरोधात्‌ । ततः तत्समाख्यानाच्च स्वयं भूशब्द उक्तार्त एवेति भावेनाह ॥ अ इतीति ॥ अज इति विरिंच उच्यते । अशब्दस्य विष्णुवाचित्वे प्रमाणमाह ॥ अः इतीति ॥ नन्वत्र ब्रह्माकारवाच्यं प्रतीयते न विष्णुरित्यतो ब्रह्मशब्दस्य विष्णुपरत्वे तस्यैवाकारवाच्यत्व प्राप्तिरिति भावेन ब्रह्मशब्दस्य तद्वाचित्वे स्मृतिमाह ॥ वासुदेवादिति ॥ अस्त्वेवं स्वयं भूरिति विष्णुजत्वात्‌ विरिंच उच्यत इति किंतत इति चेत्‌ । स्वशब्दस्य विष्णुरूढत्व समर्थनमपि प्रकृतानुपयुक्तमित्यत आह ॥ तत इति ॥ यतः स्वशब्दो विष्णावेव प्रसिद्धस्ततः स्वमपीतो भवतीत्यस्य विष्णुं आप्नोतीति व्याख्यानं युज्यत इत्यर्थः । ननु स्वशब्दस्य विष्णुपरत्वेप्यपीतशब्देनैक्यमुच्यते । यावदुक्तं भवत्येकीभवतीति तावत्‌ अपीतो भवतीति । अतो अपीतो भवतीत्यस्य आप्नोतीति व्याख्यानं न युज्यते । तथा सति इतो भवतीत्येव वक्तव्यतया अपी इत्यस्य वैयर्थ्यापत्तेरिति चेन्न । त्वन्मते स्वशब्दस्य अप्यैक्यपरत्वेन अस्य वैयर्थ्यापत्तेः । किंच किमपीतशब्दस्य अण्डवृत्तिमाश्रित्यैक्यार्थत्वं उच्यते उत अवयववृत्तिम्‌ । नाद्यः । अपीत इत्यस्य भवतेश्ऱ्चाकर्मकत्वेन श्रुतद्वितीयायोगात्‌ । अश्रुततृतीयाकल्पनाप्रसंगाच्च । द्वितीये तु नैक्यमस्माल्लभ्यत इत्याशयवानाह ॥ अप्यय इति ॥ यद्यप्यत्रापीतिनर्ामेति वक्तव्यम्‌ । तथाप्यप्यय इति तत्समानार्तक शब्दनिर्वचनं तदन्येषामदर्शनं अप्ययोयं समुद्दिष्यो न स्वरूपैकताक्वचिदिति श्रुति सूचनार्थम्‌ । अदर्शनमदर्शनविशिष्याप्राप्तिरिति श्रौतपदार्थः । अविज्ञेयत्वेन प्राप्तिरिति शेषः । अपिरपिधाने वर्तते । अयपगतौ । भावेक्विप्‌ । ततश्ऱ्चाविज्ञेयत्वेन तिरोदानेन गतिः प्राप्तिरप्ययशब्दार्थः । प्रवेशस्त्वर्थलब्धः । अपि हि तस्य प्रप्तिः प्रवेशे सति सम्भवतीति । प्रलयेप्यप्ययशब्दस्यैतदेव निर्वचनम्‌ । प्रध्वंसस्तु प्रमाणान्तरगम्यः । एवं च तमाप्नोतीति प्रागुदाहृतवचनेऽविज्ञेयत्वेनेति पूरणीयमिति न दोष इति भावः । अनेनापीत इत्यस्याविज्ञषयत्वेन प्राप्तः प्रविष्य इत्यर्थ उक्तो भवति । इणोगत्यर्थत्वात्‌ निष्ठाप्रत्ययस्य कर्त्रर्थत्वात्‌ । अत्र स्मृतिं चाह ॥ अविज्ञातमिति ॥ क्रियाविशेषणमेतत्‌ । प्राप्तमिति शेषः । प्रविष्यमित्यर्थ लब्धम्‌ । समुद्रेसमुद्रमपीता इत्युच्यन्ते । ताः समुद्रमेवापि यन्तीत्यादौ एतेन समुद्रमपि यन्तीत्यस्य समुद्रात्मपैकतां गच्छन्तीति व्याख्यानं प्रमाणविरुद्धमिति सूचितम्‌ । प्रजा अपीता इत्युच्यन्ते । किंच तिष्ठतु तावदयं शब्ददोषः । यदि जीवस्य ब्रह्मभावः स्यात्‌ तदास्वमपीतो भवतीति वाक्यं तदर्तकं स्यात्‌ । नच सोस्ति । अतो बाधितार्थं स्यादिति भावेनाह ॥ नचेति ॥ तद्भावोब्रह्मभावः । कुतो नेति चेत्‌ । स्वमपीतो भवतीति वाक्यं तावत्सुप्तमुक्तो भयपरम्‌ । स्वप्नान्तं मे सोम्य इत्युपक्रमात्‌ । सुप्तिप्रकारणस्य मुक्तिपरतायाश्ऱ्च स्वाप्ययसम्पत्त्योरन्यतरापेक्षमिति सूत्रकृतानिर्णीतत्वात्‌ । नचेदं सूत्रं वाजसेनय कसुप्तिप्रकारणनिर्णायकमिति वाच्यम्‌ । तथासति श्ऱ्वेतोमुखत्वहानेः । नचैवं स्वप्नस्यान्तः सुषुप्तिरिति तमाप्नोति मनो नामा संसारीति व्याख्यानविरोधः मुक्तिपरताया अनिवारणेन तदुपपत्तेः । स्वर्गः सुषुप्तिरित्याख्यां उक्तेरपि यतः समेति वचनेन भाष्यस्थ सुषुप्तिशब्दस्य मुक्तिपरताया अप्युपपत्तेश्ऱ्च । तथाच स्मृतिः । स्वं कुलायं यथापीतः पक्षीस्यादेवमीश्ऱ्वरम्‌ । अप्येति जीवःप्रस्वापेमुक्तौ चान्योपि सन्‌ सदेति । ततश्ऱ्च स्वमपीतो भवतीत्युच्यमानो जीवस्य ब्रह्मभावः किं सुप्तस्य मुक्तस्या वा । पक्षद्वयमपि दूषयति ॥ उत्थितस्येति ॥ न जीवस्य सुप्तस्य मुक्तस्य वातद्भावोस्ति । सुप्तिसंसारयोः सकाशात्‌ । उत्थितस्य प्रबुद्धस्य मुक्तस्य वा सुप्तिसंसारयोः परामर्शदर्शनात्‌ । नच ब्रह्मणो जीववदहमस्वाप्संदुःख्यासमित्यादि रूपेण सुप्तिसंसारपरामर्शोस्ति । सर्वज्ञस्य तस्य तत्कारणाज्ञानस्यैव अभावात्‌ । नच विरुद्धधर्माधिकरणयोः ऐक्यं दृष्यमिति भावः । नन्वस्तु सुप्तेरुत्थिस्य सुप्तिपरामर्शः अस्वाप्समिति प्रत्यक्षसिद्धत्वात्‌ । संसारादुत्थितस्य मुक्तस्य संसारपरामर्शोस्तीति कुत इत्यत आह ॥ अहमिति ॥ अहं सर्वं जगदभि अभिभूयाधिपतित्वेननाभवमिति मुक्तब्रह्मवाक्यम्‌ । अस्य मुक्तपरत्वे विप्रतिपन्नं प्रतिस्पष्यां स्मृतिं चाह ॥ आजन्मेति ॥ जन्मारभ्य मरणपर्यन्तं अनुभूतं दुःखं स्मृत्वा इदानीं एतादृशदुःखाद्विमुक्ता इति मुक्ता हर्षमवाप्नुयुरित्यर्थः । अत्र मुक्तज्ञानस्य स्मरणत्वं नामपूर्वानुभूतार्थविषयीकरणोन्मुखत्वम्‌ । अत एव ईशस्य भक्तविषयकस्मरणं निरुक्तमन्यत्र । भक्तानां स्मरणं विष्णोर्नित्यज्ञप्तिस्वरूपतः । अनुग्रहोन्मुखत्वं तु नैवान्यत्किंचिदिष्यत इति । किंच यदि जीवस्य सुप्तौ ब्रह्मभावः स्यात्‌ तर्हि तदा ब्रह्मभावानुभवः स्यात्‌ । तथाच सुप्तेरुत्थितेन सुषुप्त्यादिकं इव तद्भावः परामृश्येत अन्यथा सुप्त्यादिकमपि न परामृश्यत । नच परामृश्यते । कस्यापि प्रबुद्धस्य अहं ब्रह्मीभूतोस्मीति परामर्शादर्शनात्‌ । अतो न सुप्तौ जीवस्य ब्रह्मभाव इति भावेनाह ॥ तद्भावस्येति ॥ नच जीवस्येति पूर्वेण सम्बन्धः । किंच सुप्तौ मुक्तौ वा न जीवस्य ब्रह्मभावोस्ति । तदा प्राज्ञात्मसम्परिष्वंग श्रुतेः । नचाभेदे सम्परिष्वंगः सम्भवतीत्याह ॥ प्राज्ञेनेति ॥ सम्परिष्वंगोप्येकीभावः किं न स्यादित्यतः श्रुत्यर्थनिर्णायकं सूत्रं पठति ॥ सुषुप्तीति ॥ प्राज्ञेनात्मना सम्परिष्वक्तः प्राज्ञेनात्मनान्वारूढ इति सुषुप्त्युत्क्रान्ति प्रकारणयोः जीवस्य ईश्ऱ्वरात्‌ भेदेन व्यपदेशादिति सूत्रार्थः । श्रुति सूत्रेमुक्तिपेच भवतः । सुप्तिप्रकरणस्य मुक्तिपरतायाः सुत्रकृतैव निर्णीतत्वात्‌ । किंच न स्वमपीत इति वाक्यं जीवस्य ब्रह्मभावाभिदायकम्‌ । यतो अत्रैव नवप्रकरण्यामाद्यप्रकरणे सन्मूला इति जीवस्य सन्मूलकत्वादिकम्‌ । सम्पत्स्यामह इति त इह व्याघ्रोवेति द्वितीय प्रकरणे आगच्छामह इति त इह व्याघ्रोवेति तृतीयप्रकरणे च भिन्नस्य वस्तुनो भेदापरिज्ञानात्‌ व्याघ्रादित्वापत्तिरूपोनर्थः । स एष इति चतुर्थप्रकरणे जीवस्य भगवदधीनत्वम्‌ । अण्व्य इवेमा इति पंचमप्रकरणे जीवस्य सुज्ञेयत्वेपि भगवतः परमसूक्ष्मत्वेन दुर्विज्ञेयत्वम्‌ । लवणमेतदिति षष्ठप्रकरणष च भगवत्सामर्थ्यस्य दृश्यमानत्वेपि भगवतो दुर्विज्ञेयत्वम्‌ । एतां दिशं गन्धारा इति सप्तमप्रकरणे च आचार्योपदेशमन्तरा भगवतो दुर्विज्ञेयत्वं अत एव तद्भेदस्यापि दुर्विज्ञेयत्वम्‌ । तेज इत्यष्यमप्रकरणे ज्ञाने जीवस्य भगवदधीनत्वम्‌ । अपहाषर्ीदिति नवमप्रकरणे चाभेद भेदज्ञानयोः हतिमुक्तिफलकत्वं चोच्यते । नचैतदभेददेसम्भवतीति भावेनाह ॥ सन्मूला इत्यादिना ॥ इत्यादिवाक्यमिति शेषः । चशब्दात्‌ पूर्वोक्तन्मूलत्वादि स समुच्चयः । नवकृत्वः सदृष्यान्तति तात्पर्यद्योतकम्‌ । अभ्यासोपपत्त्योस्तात्पर्यलिंगत्वात्‌ । नवकृत्व इत्युक्तोभ्यासोभेदमात्रे द्रष्यव्यः । नन्वत्र नवप्रकरण्यां जीवेशभेदोप्युच्यते । तत्वमसीति नवकृत्वः श्रवणात्‌ । अतः तदनुसारेणस्वमपीत इत्युपक्रमवाक्यमपि जीवस्य ब्रह्मभावाभिदायकमिति चेन्न । स आत्माऽतत्वमसीत्यत्रोभयथापि पदच्छेदसम्भवेपि भेदाभिदायक असन्दिग्धदृष्यान्तवाक्यबलेन अतत्वमसीति पदच्छेदेन भेदपरमेवेदमिति निश्ऱ्चयात्‌ । यथा स धर्मघट दृष्यान्ताभिदानसामर्थ्याच्छब्दो नित्य इति प्रतिज्ञासन्दिग्धाथर्ाप्यनित्यताविषयेति निश्ऱ्चीयते तद्वत्‌ । यदातु एकमपि भेदविषयत्वेन असन्दिग्धाभिधानं सन्दिग्धप्रतिज्ञावाक्यार्थनिश्ऱ्चयायालं तदाकिमुवक्तव्यं न वस्वपि प्रकारणेषु नवासन्दिग्धार्थानिभेदविषयाणि दृष्यान्ताभिदानानानि । नचैवं अभेदे कश्ऱ्चिद्दृष्यान्तः अभिहितः । येन तत्वमसीति पदं विच्छद्यतस्याभेदपरतानिश्ऱ्चीयेतेति भावेनाह ॥ नचेति ॥ तदेव विवृणोति ॥ नहीति ॥ अल्पाच्‌तरमित्यस्य अनित्यत्वात्‌ शकुनिसूत्रयोरिति साधु ॥ वृक्षपरमात्मनोरिति ॥ जीववृक्षयोरित्यन्यत्रोक्तस्याप्ययमेवार्थः । धानापरमात्मनोरित्यनेनाणिमशब्दः परमात्मपरोवगम्यते । अत एवान्यत्राणिमधानयोरित्युक्तम्‌ । नियतं पराधीनं ज्ञानं यस्यासौ नियत ज्ञानोजीवः । अनियतमपराधीनं ज्ञानं यस्यासावनियतज्ञानो भगवांस्तयोरित्यर्थः । स्वमपीत इत्यत्र जीवेशाभेदे प्रतिपाद्यतया विवक्षिते सति दूषणान्तरमाह ॥ महेति ॥ स्यान्महातात्पर्यविरोधोऽभेदे यदि तद्विरोध्यर्थे तात्पर्यं प्रमितं स्यात्‌ । तदेव कुत इत्यत आह ॥ विष्णोरिति ॥ हिशब्दो हेतौ । अभिहितं हीति अभिदानप्रसिद्धिद्यतोको वा । सर्वप्रमाणानां प्रत्यक्षादीनाम्‌ । अत्र प्रत्यक्षानुमाने आगमानुकूले विवक्षिते । महातात्पर्यमतिशयेन तत्सिध्यर्थं प्रवृत्तत्वम्‌ । भगवता वासुदेवेन । तेन योमामित्याद्यस्मच्छब्द विषयोदशिर्तः । वेदव्यासेनेति वा । नचाभेदे सर्वोत्कर्षः सम्भवतीति भावः । कुत्राभिहितमित्यतः तद्वाक्यमुदाहरति ॥ द्वाविमावित्यादिना ॥ क्षरः सर्वाणीत्यारभ्यैव कुत्रचित्पाठः । तत्र तावतैव विवक्षितार्थसिद्धेः पूर्वार्धानुदाहरणम्‌ । इदं श्ऱ्लोकपंचकं अन्यत्र व्याख्यातम्‌ । अत्र भवतो वासुदेवस्य क्षराक्षरोत्तमत्वे पौरुषयापौरुषय आगमस्य महातात्पर्यं अस्तीति योमामिति वेत्तुः फलकथनात्‌ अवगम्यते । इत्यभिहितमित्यन्वयः । किंच यज्ज्ञानान्मोक्षोभवति तत्रैव मोक्षप्रयोजनकसर्वागमानां महातात्पर्यं युक्तम्‌ । मोक्षश्ऱ्चसर्वलोकमहेश्ऱ्वरत्वादि विशिष्यस्य भगवतो वासुदेवस्य ज्ञानादेव । अतः तत्रैव महातात्पर्यं सर्वागमानामि भावेनाह ॥ भोक्तारमिति ॥ शान्तिं मोणम्‌ । किंच ज्ञानं ते हमिति प्रतिज्ञाय यज्ज्ञात्वे हवेदादिषु ज्ञातव्यं नावशिष्यते इति प्रशस्य मत्तः परतरं नान्यदिति मयि सर्वमिति च भगवतः सर्वोत्कर्षोक्त्या च तत्रैव सर्वागमानां महातात्पर्यमिति भावेनाह ॥ ज्ञानमिति ॥ अत्र ज्ञानविज्ञानशब्दौ ज्ञेयविज्ञेय भगवन्माहात्म्यपरौ । अहमेव परतरोमत्तोन्यत्परतरं न किंचिदपीत्यर्थः । तेन तरपोऽन्यशब्दस्य च न वैयर्थ्यम्‌ । भगवतः सर्वोत्कर्ष एव सर्वागमानां महातात्पर्यमित्यत्र वाक्यान्तरमप्याह ॥ राजेति ॥ राजेव राजा । राजाचासौ विद्याचेति राजविद्या प्रधानविद्या । प्रत्यक्षनामकं ब्रह्मावगम्यते येन तत्‌ प्रत्यक्षावगमम्‌ । सर्वं जगद्धत्त इति धर्मो भगवान्‌ तद्विषयं धर्म्यम्‌ । प्रतिज्ञातविद्यायाः वक्ष्यमाणार्थे तात्पर्यद्योतनाय तत्र निष्ठा रहितानां निन्दामाह ॥ अश्रद्दधाना इति ॥ प्रतिज्ञात विद्यामाह ॥ मयेति ॥ तर्हि किमिति न दृश्यत इत्यत उक्तम्‌ ॥ अव्यक्तमूर्तिनोति ॥ मत्स्थत्वेपि यथा पृथिव्यां स्पृष्ट्वास्थितानि न तथा मयि इत्याह ॥ नच मत्स्थानीति ॥ अत्र राज विद्येति प्रतिज्ञायाश्रद्दधाना इति तात्पर्यज्ञापनायार्थवादमुक्त्वामयाततमित्यादिना भगवदुत्कर्षस्यैवोक्तत्वेन तत्रैव सर्वविद्यानां तात्पर्यमिति ज्ञायते । तर्हि केचित्‌ कतंत्वामवजानन्तीत्यत आह ॥ अवजान्तीति ॥ मानुषीन्तनुं मूढानां मनुष्यवत्प्रतीतां नतु मनुष्यरूपामीत्यर्थः । भूतं सर्वदा विद्यमानम्‌ । महत्‌ देशतो व्याप्तम्‌ । ईश्ऱ्वरं गुणतोनन्तमिति भूतमहेश्ऱ्वरम्‌ । भावं याथार्थ्यम्‌ । काच तेषां गतिरित्य आह ॥ मोघाशा इति ॥ मोघाशाः वृथाशाः । भगवद्द्वेषिभिराशासितं आमुष्मिकं न किंचिदाप्यत इत्यर्थः । मोघकमा
र्णः । यज्ञादिकर्माणिच तेषां वृथैवेत्यर्थः । मोघं ज्ञानं तत्वविषयं येषां ते तथोक्ताः । केनापि ब्रह्मरुद्रादि भक्त्याद्युपायेन न कश्ऱ्चित्‌ पुरुषार्थः आमुष्मिकः तैराप्यत इति भावः । द्वेषकारणमाह ॥ राक्षसीमिति ॥ नेतरेद्विषन्तीति दशर्यितुं देवानाह ॥ महात्मान इति ॥ अत्रावजानन्तीत्यादिना निन्दारूपस्य महात्मान इति स्तुति रूपस्य चार्थवादस्योक्त्या च तात्पर्यं ज्ञायते । भगवदुत्कर्षज्ञानस्यैव मोक्षसाधनत्वोक्तेः तत्रैव तत्फलकैरागमैः तात्पर्यवद्भिर्भवितव्यमिति भावेनाह ॥ योमामिति ॥ अनश्ऱ्चेष्ययिता आदिश्ऱ्चसर्वस्येत्यनादिः अजत्वेन सिद्धेरितरस्य किं च ज्ञानानामुत्तमं ज्ञानं प्रवक्ष्यामीति प्रतिज्ञाय यज्ज्ञात्वेति वेदार्तविचारकाणां एतत्‌ ज्ञानादेव मोक्ष इत प्रशस्य मम योनिरिति प्रकृतिपतित्वात्‌ उत्कर्षाभिधानात्‌ तत्तैव तात्पर्यं सर्वागमानामिति भावेनाह ॥ परमिति ॥ महद्ब्रह्मप्रकृतिः । एवं गीतावचनैः भगवदुत्कर्ष एव सर्वागमानां महातात्पर्यमवगम्यत इत्युक्तं । तत्रैव स्पष्यं वचनान्तरमप्याह ॥ येमामित्यादिना ॥ न केवलं ज्ञानस्थैर्यं मोक्ष हेतुरपि तु भक्तिस्थैर्यमपीति भावेनाह ॥ येत्विति ॥ तद्विपरीतज्ञानिनामनर्थमाह ॥ य इति ॥ परायणं प्राप्यम्‌ । निगमयति ॥ यश्ऱ्चेति ॥ तस्मादित्यादौ योज्यम्‌ । चशब्दः प्रकृतत्वानुसन्धानार्थः । किंतत इत्यत आह ॥ प्रमाणानीति ॥ तस्मादित्यादौ ग्राह्यम्‌ । प्रमाणानि प्रत्यक्षानुमानागमाः । तर्का इति दूषणानुमानम्‌ । यस्मादेवं भगवद्गुणपूर्ति ज्ञानमेव तत्प्रीति द्वारामोक्ष हेतुस्तिस्मान्मोक्ष प्रयोजनकान्यखिलानि प्रमाणानितर्काश्ऱ्चैतत्परा एव । गुणपूर्णत्व ज्ञानजननायैव प्रवृत्ता इत्यर्थः । तथाच श्रुतिः । नतादशी प्रीतिरीड्यस्येत्यादिका । इत्यदौ अभिहितमित्यन्वयः । भगवदुत्कर्षज्ञानादेव मोक्षं वदन्ती श्रुतिरपि विष्णोरुत्कर्ष एव सर्वप्रमाणानां महानोपास्यः । कस्मात्‌ । भूमा भूमगुणोगुणराशितो यतः क्रतुवद्विशिष्यः । कथम्‌ । यस्माद्भूमैवोपासितः फलं विधत्ते नैवाभूमा तस्मादित्यर्थः । यस्ते मयस्त्वप्रधानो न भवति । त्वद्दूषक इति यावत्‌ । तमसुन्वन्तं सवनोपलक्षितं स्वकर्माकुर्वाणमत एव दुर्नशमाधिक्येन दुःखाख्यनाशयोग्यम्‌ । समन्तद्योग्यतानुसारेणेति यावत्‌ । जहितमसिपातय । अस्मभ्यं त्वत्प्रधानकेभ्यः सुन्वद्भयश्ऱ्चास्य पूर्वोक्तस्य त्वन्माहात्म्यस्य वेदनं दद्धिदेहि । कुतः यतः सूरिश्ऱ्चित्‌ ज्ञान्येव । ओहते ओहाक्‌ त्यागे संसारं त्यजति । मोक्षं प्राप्नोतीतित्यर्थः । अस्य परमेश्ऱ्वरस्य समहिमासत्य एव । शवोमोक्षसुखमुद्दिश्य । विप्रधानकेषु यज्ञेषु तं गृणे । अस्य पुरुषस्यैतावान्‌ पूवर्ोक्तो महिमानकेवलमेतावान्‌ । किन्तु पुरुषोतः पूर्वोक्तादपि महिम्नोज्यायानित्युक्तमेव तमेवं इति परामृश्यतज्ज्ञानस्य मोक्षसाधनत्वमुच्यते । ननु तत्र तत्र सृष्ययाद्युक्तेः कथं सर्वागमानां विष्णूत्कर्षतात्पयमित्य आह ॥ सृष्यिरिति ॥ मोक्षौचेत्येतेकथ्यन्ते वेदादौ । तत्र हेतुमाह ॥ यस्येति ॥ प्रवृत्ता इति शेषः । चोयस्मादित्यर्थे च । इदमपि कुत इत्यत आह ॥ ज्ञात्वेति ॥ चोहेतौ । अद्यातमस्य अवगतिसाधनत्वात्‌ अववो वेदाः । अस्येन्द्रस्य तं महिमानम्‌ । पूवर्थापूर्वमिव । अद्यापि स्वयोग्यतानुसारेण स्तुवन्तीत्यर्थः । विष्णूत्कर्ष एव सर्वागमतात्पर्यं चेद्धर्मादिसिद्धिर्नस्यादित्यत आह ॥ महेति ॥ ततोन्यत्र । विशेषतो महातत्परतेति वा विशेषत उत्कर्ष इति वान्वयः । अत्रैव सूत्रमप्याह ॥ भूम्न इति ॥ सर्वगुणेषु भूमगुणस्य ज्यायस्त्वं मुख्यतो वेदप्रतिपाद्यत्वमिति भगवतः पूर्णत्वदृष्यिरेवाधिक्येन वेदादि साध्येति च सूत्रार्थोत्राभिमतः । यद्वा भाष्यदिशासूत्रद्वयेपि विष्णोः पूर्णत्वोपासनेनैव मोक्षोक्तः तदन्यथानुपपत्त्या सर्ववेदानां तत्रैव महातात्पर्यमित्यवसीयते । अद्वैतवादिनस्त्वाहुः । शारीरपराभेद एव सर्वागमानां महातात्पर्यम्‌ । तत्वमसि पुरुष एवेदं सर्वमेकमेवाद्वितीयमहं ब्रह्मास्मि । योसौ सोहमित्यादाव भेदस्यैवोक्तेः । अभ्यासफलादिना तत्परत्वावगतेश्ऱ्च । एवं चैतदनुरोधेन अन्यस्याप्यागमगस्य तत्रैव यथायथं तात्पर्यं वर्णनीयमिति । तन्निराकरोति ॥ नचेति ॥ न केवलं प्रमाणाभावः । किन्तु तद्विरोधश्ऱ्चेत्याह ॥ अतत्वमसीति ॥ ननु तत्त्वमसीति पदच्छेदेन अभेदाभ्यास एवायं किं न स्यात्‌ । न स्यात्‌ । नचाभेदे कश्ऱ्चिद्दृष्यान्त उक्त इत्युक्तत्वात्‌ । सूत्रविरोधं चाह ॥ भेदेति ॥ यदुक्तं परुष एवेदं सर्वमिति श्रुतिरभेदेमानमिति तदसत्‌ । श्रुत्यैव तस्य अन्यथा व्याख्यातत्वादिति भावेन तां श्रुतिमुदाहरति ॥ पुरुष इत्यादिना ॥ पुरुष एवेदं सर्वमिति वाक्यं च यद्भूतं यच्चभव्यं तदिदं सर्वं पुरुषेण व्याप्तमित्यर्थः । सर्वाभेद एवार्थः किं न स्यादित्यत उक्तम्‌ ॥ नचेति ॥ प्रतीतिः एव वस्तूपगमेशरणम्‌ । प्रतीयते च सर्वाभेदः तत्कथं न भवतीत्यतः सामिथ्या दृष्यिरित्याह ॥ आतृणादिति ॥ ननु पुरुष एवेदं सर्वमित्यस्य पुरुषेदं सर्वं व्याप्तं इत्यपि व्याख्यानं न युज्यते । सप्तसुप्रथमेति सूत्रेण पुरुष इति प्रथमायाः तृतीयार्थत्वेपि व्याप्तशब्दाश्रवणादित्यतः श्रुतिः स्वयमेवाह ॥ दधीति ॥ दधिसक्तवोघृतौदनमित्यादौ वाक्ये यथासिक्त शब्दाभावेपि दधिसिक्ताः सक्तवोघृतस्तिक्तमोदनमिति सिक्तशब्दोवगम्यते तथा प्रकृतेपि व्याप्तशब्दोवगम्यते योग्यताबलादित्यर्थः । अन्येतु ननु व्याप्तशब्दाभावात्‌ पुरुष एवेदं सर्वमित्यस्य पुरुषेण व्याप्तमिति कथं व्याख्यानमित्यतः तद्दृष्यान्तोक्त्या घटयति ॥ दधिसक्तव इति ॥ व्याप्तशब्दोगम्यते तदथर्ोवगम्यते । तथा प्रकृतेपीति भावः । उदाहृतः उदाहरणे व्याप्तशब्दाभावेपि तदर्थोवजम्यत इत्युक्तम्‌ । तज्ज्ञापि कां श्रुतिं पठति । दधीति इत्याहुः । प्रकारान्तरेण पुरुष एवेति वाक्यव्याख्यानरूपां श्रुतिं पठति ॥ पुरुष इति ॥ इति वाक्यं नेनीयत इत्यर्थकमित्यर्थः । नेनीयते पुनः भृशंवानियम्यते । यद्वा नेनीयते विशेषेण प्राप्यते व्याप्यत इत्यर्थः । णीञ्‌ प्रापण इति धातोः । एवं च पूर्वोक्त दार्ढ्याय श्रुत्यन्तरमिदम्‌ । एवं महातात्पर्यविरोधश्ऱ्च अभेद इत्युक्तमुपपाद्योपसंहरति ॥ अत इति ॥ ऐक्ये तात्पर्यमित्यत्र प्रमाणाभावात्‌ स्वपक्षेप्रमाणसद्भावाच्चेत्यर्थः । यद्यपि वक्ष्यमाणरीत्या वक्तव्यशेषो अस्त्येव । तथापि यदैक्ये सर्वागमतात्पयर्साधकत्वेन उदाहृतं वाक्यं तदुक्तरीत्या भगवदुत्कर्षसाधकमेव । अतः तेनैव सर्वप्रमाणानां भगवदुत्कर्ष एव महातात्पर्यावगतेः शारीरपराभेदं वदतां तद्विरोधः । एवं च भवत्प्रयुक्तापि शाचीभवन्तमेव अनुधावतीति सूचयितुमत्र अयं उपसंहारः । स्यादेवं यदि शारीपराभेदे भगवदुत्कर्षविरोधी भवेत्‌ । स एव कथमित्यतः तत्प्रकारं प्रमाणेनैव दर्शयति ॥ अज्ञानेति ॥ सर्वदा ज्ञानसुखरूपं विष्णुमहमस्मीति ये विदुस्ते विष्णोः अज्ञानदुःखमन्तारः । कुतः शरीरिणोऽद्वैतज्ञानिनो यावज्ज्ञानं तावदज्ञानदुःख सम्बन्धात्‌ । यत एवं ततः तेनीचतां विदुरिति योजना । नीचता चोत्कर्षविरोधिनीति सिद्धमिति भावः । तज्ज्ञानस्य मिथ्याज्ञानत्वख्यापनाय तद्भवमनर्थमाह ॥ विष्णोरिति ॥ हरणमत्रान्यथाज्ञानमेव । ननु दुःखाद्यनर्थस्य पापफलत्व श्रवणात्‌ कथं विष्णूत्कर्षहरण फलत्वमित्यत आह ॥ य इति ॥ सर्वमपि पापं कर्मकृतमेवेत्यर्थः । तदेवाह ॥ चोरेणेति ॥ चोरत्वस्यैव विवरणमीशापहारिणषति । अभेदे खल्वेकशेषः स्यात्‌ । तत्र जीवावशेषे ध्यातेस्फुटं परमात्मापहारित्वम्‌ । जीवभाव प्रविलयेप्यैश्ऱ्वर्यापलापात्परमात्मापहारित्वमेव । ऐक्यज्ञानिनो ब्रह्मस्तेन त्वं वचनान्तरेणाप्याह ॥ ऐकात्म्यमिति ॥ यदैकात्म्यं सर्वात्मनां ब्रह्मैक्यं नाम इदमनैपुणाः अविद्यमान नैपुणाः केचिद्ब्रूयुः । तेषां तथा वचने किं मूलमित्यत उक्तम्‌ ॥ शास्त्रेति ॥ अहं ब्रह्मास्मीत्यादि शास्त्राणां तत्वमभिप्रेताथर्मविज्ञाय ब्रूयुः । कथमज्ञानमात्रेण तदुक्तिरित्यत उक्तम्‌ ॥ तथेति ॥ ऐक्य प्रतिपादकवादसदृशोयोवादः एकविभक्तित्वादिरूपः सः बलं एषान्ते तथोक्ताः । अहं ब्रह्मास्मीत्यादि वाक्यानां तात्पर्यमविज्ञाय आपाततः प्रतीत एवार्थे भ्रान्ता इत्यर्थः । सर्वेषां अविद्यमानं शास्त्रतत्वाज्ञानादिकं तेषां एव किं निमित्तमित्यत उक्तम्‌ ॥ कामेति ॥ कामक्रोधादीनां मिथ्याज्ञानहेतुत्वमिच्छाद्वेष समुत्थेन द्वन्द्वमोहेनेति स्मृति सिद्धम्‌ । एवं ऐक्यं मन्यमानाः ब्रह्मस्तेनाः । कामादीनां आगन्तुकत्वात्‌ मूलकारणमाह ॥ निरानन्दा इत्यादिना ॥ एतेन अधमानां स्वरूप योग्यतां लक्षयति । ननु द्वासुपर्णेत्यादि शास्त्रेषु विरोधिष सत्सु कथमैक्यं ब्रूयुरित्यत आह ॥ याथातथ्यमिति ॥ भेदपराणां शास्त्राणां याथार्थ्यं अविज्ञाय शास्त्रदस्य वस्तान्यतत्वावेद कानीति मन्यमाना इत्यर्थः । तथापि सर्वज्ञत्वाल्पज्ञत्वादि विरुद्धधर्माधिकरणत्व अनुमान विरुद्धमैक्यं कथं ब्रूयुरित्यत आह ॥ वैगुण्यमेवेति ॥ जीवब्रह्मणोः तत्वतो निर्गुणत्वमेव पश्यन्तो गुणान्‌ सार्वज्ञादि गुणान्नविनियंजते तत्स्वरूपेण न योजयन्ति । एवं भूतानां फलमाह ॥ तेषामिति ॥ तमोगुण प्रचुरशरीराणाम्‌ । तमो नरकविशेषः । परायणं प्राप्यम्‌ । नन्वहं ब्रह्मास्मीत्यादिना स्फुटमैक्यं प्रतीयते । अतः तद्बलाद्भेद शास्त्रादेः अतत्वावेदकत्व कल्पनं युक्तमेवेत्यत आह ॥ यत इति ॥ स्वरूपतः परिमाणभेदतो जातितो जीवत्वादि जातिभेदतः श्रुतितः द्वासुपर्णेत्यादि श्रुतेः । अर्थतः प्रयोजनभावाभावाभ्यां यतः स भगवानन्यः प्रतीयते अतः सोस्मीति सम्बन्धोन्वयो संहितोऽयोग्यः कथमेव स्यादित्यर्थः । अहं ब्रह्मास्मीत्यादि वाक्यानां ऐक्य परत्वे निश्ऱ्चितेन्येषां अतत्वावेदकत्वादिककल्पनं युक्तं स्यात्‌ । नचैवम्‌ । अनुमानागमविरोधेन प्रतीतान्वययोग्यता विरहात्‌ । अन्यथा अन्योन्याश्रयत्वादिति भावः । ननु शारीरपराभेद तात्पर्यमित्यत्र तत्वमसीत्यस्य पुरुष एवेदमित्यस्य चोक्तरीत्याप्रमाणत्वासम्भवेपि एकमेवाद्वितीयं अहं ब्रह्मास्मि योसौ सोहमित्यादि श्रुतिरेव मानं स्यात्‌ । तत्राभेदस्य स्फुटमुक्तत्वात्‌ । उपक्रमादि बलेन तत्रैव तात्पर्यावगतेश्ऱ्चेति चेन्न । एकमेवेति वाक्यस्यापि भगवदुत्कर्षपरतयैव व्याख्यातत्वेन त्वत्प्रतिकूलत्वात्‌ । मोक्षधर्मवचनेपि तथा व्याख्यातमिति भावेन तदुदाहरति ॥ बहव इति ॥ हे ब्रह्मन्‌ पुरुषाः किं भेदवाक्याद्ब्रहर्वोगीकायर्ाः । उत एकत्वोक्तेः एक एव । बहुत्वपक्षेपि सर्वेषां साम्यासम्भवादेकः श्रेष्ठोवाच्यः । सकस्त्वं वक्तुमर्हतीत्यर्थः । तत्र पुरषैक्यपक्षं दूषयति ॥ नैतदिति ॥ विद्वांसः। एतदित्यस्य विवरणमेकं पुरुषमिति । किन्तु बहव एव । तर्ह्येकमेवाद्वितीयं इत्यादि श्रुतिविरोध इत्यतो विशिष्यैक्यार्थतया तां व्याकुर्वन्‌ कोहीति द्वितीयप्रश्ऱ्नोत्तरमाह ॥ बहूनामिति ॥ मोक्षधर्मवचनाच्चसर्वप्रमाणानां भगवदुत्कर्ष एव महातात्पर्यमिति सम्बन्धः । इदानीं अहं ब्रह्मास्मि योसौ सोहं इति वाक्यमपि परप्रातिकूल्यमेव आचरतीति भावेन तदथर्निश्ऱ्चायकं प्रमाणमाह ॥ हंनामेति ॥ हं न भवतीत्यहमित्यहंशब्दं व्याख्यायास्मिशब्दं व्याख्यातुं तत्स्थं स्मीति शब्दं व्याचष्ये ॥ स्मीतीति ॥ स्मीतिशब्देन जीवः समुद्दिष्यः । कथं स्मीत्यल्पमुच्यते । कुतः । सुमितत्वतः । जीवोप्यल्प एवेति भावः । इदानीं अस्मीत्यस्यार्थमाह ॥ पूर्णत्वादिति ॥ नञो विरुद्धार्थत्वादिति भावः । तर्हि ब्रह्मशब्दोव्यर्थः स्यादित्यत आह ॥ पूर्णेति ॥ ब्रह्मत्वोक्त्या कथमयमर्थोलब्ध इत्यतः तमेव हेतुं विवृणोति ॥ बृहत्पूर्ण इति ॥ तथाच अस्मीत्युक्तं पूर्णत्वं नौपचारिकमिति भावेन ब्रह्मत्वं तद्विशेषणमुक्तमिति भावः । अनेन अहं जीवभिन्नत्वेन अहं नामा विष्णुः ब्रह्मास्मि बृहत्‌ पूर्ण इति वाक्यं व्याख्यातं भवति । योसौ सोहमिति वाक्यमप्यसावहमित्यनयोः अर्थोकित्मात्रेण कृतव्याख्यानमिति भावेन तयोः अर्थभेदमाह ॥ असाविति ॥ एवं च सूर्यजीवान्तर्योमिणोः ऐक्यपरं तद्वाक्यमिति भावः । ब्रह्माण्ड पुराणवचनाच्च सर्वप्रमाणानां भगवदुत्कर्ष एव महातात्पर्यमवगम्यत इति सम्बन्धः । किंचन तत्वमसीत्यादि वाक्यानामैक्यार्थत्वं वक्तुं युक्तम्‌ । भेदवाक्यविरोधात्‌ । नच वैपरीत्यं शंकनीयम्‌ । भेदवाक्यानां बहुत्वान्निरवकाशत्वाच्च । ऐक्यवाक्यस्य चाल्पत्वात्‌ उक्तरीत्यासावकाशत्वाच्च । नच भेदवाक्यमपि व्यावहारिकभेदपरमिति वाच्यम्‌ । मोक्षेपि भेद श्रुतेः इति भावेन मोक्षेपि भेदपराणि स्पष्यानि बहूनि पठति ॥ परमित्यादिना ॥ श्रुतिस्मृतिषु सतात्पर्यं मुक्तानां विष्णोः भेदस्यैवोक्तेः तद्विरोधेन नत्वमसीत्यादिवाक्यानामैक्यार्थत्वम्‌ । किन्तूक्तार्थत्वं एवेत्यर्थः । अत्र समीपप्राप्त्यादिना भेदोवगम्यते । अस्माच्छरीरात्‌ समुत्थाय स्वेन रूपेणाभिनिष्पद्यत इत्युक्त्या मोक्ष्परत्वं च । स एकधा इति मुक्तस्य भेदेन अवस्थानमुच्यते । नच परपक्षेतद्युज्यते । अस्य मोक्षपरत्वं वक्ष्यति । गुहायां हृदये । व्योमन्‌ व्योम्नि । ब्रह्मणासहेति भेदोक्तिः । ब्रह्मविदापनोति परमित्युक्तब्रह्मप्राप्तिस्वरूपकथनपरत्वात्‌ मुक्तपरम्‌ । आनन्दमयस्य परब्रह्मत्वं त्वन्यत्र निर्णीतम्‌ । उपसंक्रम्येति समीपप्राप्त्युक्त्या भेदोक्तिः । अस्माल्लोकात्‌ प्रेत्येत्युपक्रमात्‌ मुक्तपरम्‌ । आत्मानं परमात्मानम्‌ । लोकं सर्वाश्रयम्‌ । उपास्ते जानाति । अस्य ज्ञानिनः कर्मनक्षीयते । सः मुक्तो यद्यत्कामयते तत्तत्परमात्म प्रसादद्वाराकर्म सृजति । अत्र परमात्मप्रसादायत्त भोगोक्त्या भेदः । मुक्तपरत्व ज्ञापनाय सय इत्यादि पूर्ववाक्यमुदाहृतम्‌ । नह्यमुक्तस्य कमर्ाक्षयोस्ति ॥

तेन पुनः महात्मानो देवाः स्वाधिकारावसाने । नाकं पूर्णसुखात्मकं मोक्षं संच त अवाप्नुवन्‌ । यत्र मोक्षे । पूर्वकल्पे मुक्ताः साध्द देवाः सन्तीत्यर्थः । परमं साम्यमुपैतीति भेदोक्तिः । पुण्यमनिष्ठम्‌ । तादृगेव भवति । नतु तदेव । एवं मुनेः विजानत आत्माभवति गोतमेति वाक्य शेषः । एवं विजानतां मुनीनां आत्माधिपतिः हिरण्यगर्भोपि मुक्तः परमात्मानं प्राप्य तादृगेव भवति किमुतान्य इत्यर्थः। तदामोक्षेपुरुषाः नानात्वेन भेदेनाभिसम्बद्धाः । नायं भूतपर्वगत्या व्यवहार इत्याह ॥ तत्काल भाविनेति ॥ मुक्तिकालेपि विद्यमानेनेत्यर्थः । मुक्तज्ञापकमाह ॥ प्रकृताविति ॥ प्रकृतिनिमित्तकेन्द्रिय रहिता इत्यर्थः । स्वात्मन्येव स्थिताः स्वस्वरूप एव रताः । कुतः । प्रकृतौ करणातीताः । प्रकृतिसम्बन्धस्यैव अभावादित्याह ॥ संयोग इति ॥ तत्र हेतुस्तत्वदर्शनादिति । प्रकृति पुरुषविवेकज्ञानादित्यर्थः । ननु दृष्यतत्वापि प्रकृतिः पुनः मुक्तबन्धनाय प्रवर्तते किं नेत्याह ॥ प्रतीतेति ॥ तर्हि निर्व्यापारा किं नेत्युक्तम्‌ ॥ पुरुषेति ॥ पुरुषेभ्यः प्रकृतमुक्तेभ्योऽन्येषां संसारिणां बहुत्वेन तत्रैव लब्धव्यापारात्र न वर्तत इत्यर्थः । प्रलयकाले मुक्तानां प्रकृतिसंयोगाभावेपि सृष्यिकालेस्यादित्यत उक्तम्‌ ॥ प्रवर्ततीति ॥ सर्गे प्रवर्तति प्रवर्तमाने सत्यपि तेषां मुक्तानां सानप्रवर्तत इत्यथर्ः । व्यत्ययो बहुलमिति परस्मैपदम्‌ । साधर्म्यमिति भेदोक्तिः । वाक्यशेषान्मुक्तपरम्‌ । यत्र विष्णुलोके । माया प्रकृतिः नेति मुक्तत्वज्ञापकम्‌ । अपरे संसारिणोरागादयोवानेति किमुवक्तव्यम्‌ । सुरासुरार्चिताः हरेरनुव्रताः यत्र संन्तीति भेदोक्तिः । असुराः साधवोपि सन्ति । एवं स्थानान्तरस्थ वाक्यविरोधात्‌ न तत्वमसीत्यादि वाक्यमैक्यपरमित्युक्तमिदानीं इमेतत्‌ प्रकरणगतवाक्य विरोधाच्च नैवमित्याह ॥ सन्मूला इति ॥ सन्मूला इत्यस्य भेदपरत्वं प्रागुक्तसमाख्यावाक्यादवगम्यते । सीत्यादौ भेदः स्फुट एव । नहि गृहे प्रविष्यस्य गृहादागतस्य च तदैक्यमिति भावः । परस्परभिन्ननानावृक्षरसनदीसमुद्रदृष्यान्तोक्तिः एव तात्पर्यज्ञापिकातो भेद एव ह्यत्र प्रतिपादितः । तथाच तद्विरुद्धमैक्यं तत्वमसीत्यादौ कथमुच्यतेति भावः । ननु नानावृक्षरसानामेकतां इत्यैक्यमेवोतमिति चेत्‌ । न । एकतामित्यस्य मिश्रतामित्यर्थोपपत्तेः । नहि नानावृक्षरसा अन्योन्यभेदपरित्यागेन प्राक्‌ सिद्धेन मधुनैक्यमापद्यन्ते । किन्तु तं तव इव पटमन्योन्यं भिन्ना एव प्रागसिद्धं मधूत्पदयन्ति । तथापि नदी समुद्र दृष्यान्ते स समुद्र एव भवतीति नदीनां समुद्रेणैक्यमुच्यत इति चेत्‌ । न । तथा सति वृद्धिदर्शनानुपत्तेः । अस्ति चेषत्समुद्रेपि द्वारि । महत्त्वादन्यत्र अदृष्यिः इति भावेन ताः समुद्रादिकं यथावद्वयाचष्ये ॥ ता इति ॥ समुद्रान्नियत जलराशिरूपात्‌ । खातरूपाद्वादेवतारूपाद्वेत्यर्थः । आगत्येति शेषोक्तिः । समुद्रमपि यन्तीत्यस्यार्थः समुद्रं प्रविशन्तीति । श्रौतैवकारान्वयो भविष्यति । एतावता नदीनां समुद्रेणैक्यं न मन्तव्यमित्याह ॥ स इति ॥ स समुद्रः समुद्र एव भवति । अवधारणव्यावृत्तिमाह ॥ नेति ॥ यतो अवधारणं ततोन्यत्र तत्फलं इत्यतः एतल्लभ्यते । एवं समुद्र एव भवतीति वाक्यं यथा श्रुतान्वयेन समुद्रस्य नदीभावनिषेधपरत्वेन व्याख्याय नदीनां समुद्रभाव निषेधपरत्वेन अपि व्याख्यातुमवधारणान्वयं तावदाह ॥ स एवेति ॥ यथा श्रुतैवशब्द परित्यागेन समुद्रमेवापि यन्तीत्युक्तैव शब्दस्य अन्वयकथनमिदम्‌ । अन्यथा तद्वैयर्थ्यापत्तेः । अवधारणद्वयानुरोधेन एव हि स समुद्र इति इति वाक्यं द्वेधाव्याख्यायत इति मन्तव्यम्‌ । चशब्दो व्याख्यानांतरत्वद्योतनार्थः । तच्छब्दपरामृश्यं दर्शयंस्तद्वयाचष्ये ॥ समुद्र एवेति ॥ अवधारणव्यावृत्यमाह ॥ नेति ॥ समुद्रभावं प्राप्नुवन्तीति शेषः । इति भेदस्यैव अवधारणं क्रियते । तथाच तद्दृष्यान्तेन सत आगम्येत्यादि दार्ष्यान्तिक वाक्येपि भेद एव प्रतिपाद्यत इति भावः । किंच चोरापहार्य दृष्यान्ते ह्यैक्यज्ञानिनो अनर्थः फलत्वेन कथ्यते । तेनैक्याभावोगम्यते । निन्दायाः प्रतिषेधेतात्पर्यात्‌ । तत्कथं तद्विरुद्धमैक्यं तत्वमसीत्यादौ प्रतिपाद्येत । स्यादेतत्‌ यदि पुरुषं सोमेत्यादिकं उक्ताभिप्रायं स्यात्‌ । नचैवं किन्नाम । यदि वागादिलय क्रमेणमरिष्यतो मुमुक्षतश्ऱ्च तुल्यासत्संपत्तिः तत्र विद्वान्‌ सत्सम्पन्नोनावर्तते । आवर्तते त्वविद्वानित्यत्र किं कारणमिति जिज्ञासायां सत्य ब्रह्मात्मत्वाभिसन्धितत्त्यागौ हि तत्र कारणमिति प्रदर्शनार्थं पुरुषं सोम्येत्यादि प्रवृत्तम्‌ । एवं च सत्यब्रह्मात्मत्वाभिसन्धित्यागवान्‌ भेदज्ञान्येव अपहार्षीत्स्तेयमकार्षीदिति दृष्यान्तपूर्वकं उच्यत इति भेदज्ञानिन एव तद्दृष्यान्तेन अनर्थः फलत्वेन कथ्यत इत्यतः परव्याख्यानं दूषयति ॥ नचेति ॥ त्वन्मते जीवस्य ब्रह्मभावोहि विद्यमान एव । अन्यथा तदज्ञानेन अनर्थोक्त्यनुपपत्तेः । तथाच विद्यमानस्य स्वकीयस्य ब्रह्मभावस्य अज्ञस्तदभिसन्धित्यागवानिति यावत्‌ । नापहर्त्रुपमो भवतीत्यर्थः । कस्तर्ह्यपहर्त्रुपम इति पृच्छति ॥ किंत्विति ॥ उत्तरमाह ॥ अविद्यमानेति ॥ स्वस्येति पूरणीयम्‌ । स्वस्याविद्यमानो ब्रह्मण्येव विद्यमानो यो ब्रह्मभावस्तं स्वस्मिन्नभिमन्तैव अपहर्त्रुपमो भवतीत्यर्थः । स्वकीय ब्रह्मभावाभिसन्धित्यागवान्नापहर्त्रुपम इति कुत इति चेत्‌ । लोकानुसारादित्याह ॥ नहीति ॥ लोके इति शेषः । किन्तु मन्दोवाविरक्तो वा भवति । तथाच भेदज्ञानिनो नापहर्त्रुपमत्वमिति भावः । कस्तर्ह्यपहर्तेति पृच्छति ॥ किन्त्विति ॥ उत्तरमाह ॥ परस्वेति ॥ अस्तु परस्वापहर्तैवापहर्ता किं तत इत्यत आह ॥ तस्मादिति ॥ लोकानुसारादित्यर्थः । ततश्ऱ्च अभेदज्ञानिन एव द्दृष्यान्तेन अनर्थः फलत्वेन कथ्यत इति तद्विरोधान्नतत्वमस्यादि वाक्यानामैक्यार्थत्वमिति भावः । नन्वेतदयुक्तम्‌ । लोके इदं वित्तं परकीयमेव मदीयं न भवत्येवेति जानतो वंचनया तत्स्वात्मीयं कुर्वतः स्तैन्यम्‌ । पश्यतो पहारं कुर्वतोह्यपहारः । नचैक्यज्ञानिना परकीयं ब्रह्मत्वं वंचनया बलाद्वास्वकीयं कर्तुं शक्यम्‌ । तत्कथमैक्यज्ञानीस्तेनोपहर्ताचेत्यत आह ॥ अदुःखित्वेति ॥ अनर्थ अतिशयद्योतनाय महातस्करत्वोपपादनार्थं अदुःखित्वेत्यादि बहुविशेषणम्‌ । ज्ञात्वैवेत्यन्तस्य ब्रह्मत्वं परकीयमेव न स्वकीयमिति ज्ञात्वेत्यर्थः । ज्ञात्वैव तद्भावाभिमतेरित्यनेन स्व वंचनं लभ्यते । स्वगतदुःखित्वापूर्णत्वात्‌ अनुभव वंचनात्‌ । स्तैन्यमैक्यज्ञानिनः । परकीयाभिमतेः परकीयस्य ब्रह्मभावस्य स्वात्मन्यभिमतेः उपपादनात्‌ पश्यतो उपहरणादपहारः । तथा अभिमान एवात्र विवक्षित इति भावः । नन्वेवं तर्हि कथमैक्यज्ञानीस्तेनोपहर्ता वा । नहि परकीयं वित्तं स्वात्मीयं मन्यमानः तेनोपहर्तावेति चेन्न । ऐक्यज्ञानिनोहि स्तेनापहर्त्रुपमत्वं उच्यते । नहि दृष्यान्तिकयोः सर्वसाम्यम्‌ । अत एवोक्तं दृष्यान्तपूर्वकमुच्यत इति । ब्रह्मणोऽभेदवेत्तापरकीय स्वभावाभिमतेः अपहर्ता । स्वानुभव वंचनात्स्तेनश्ऱ्च । अत एव तस्यानर्थातिशय इत्यत्र स्मृतिंचाह ॥ परेति ॥ अत्र कश्ऱ्चित्‌ । यदुक्तं स्तेनापहर्तृ दृष्यान्तेनैक्यज्ञानिनो अनर्थः कथ्यत इति तदयुक्तम्‌ । स्यादेतदेवं कथंचित्‌ । यद्यत्र दृष्यान्त वाक्ये थहन्यते थमुच्यत इत्युक्तयोः हतिमुक्तयोः अपहारतदभावकारणत्वं विवक्षितं स्यात्‌ । नचैवम्‌ । ज्ञापकाभावात्‌ । किं नाम स्तेयकर्त्रकत्रोः मध्येयः शपथपुरस्सरं विचारितेपि सुदृढः स मुच्यते । यस्त्वदृढः स हन्यत इति मुक्तिहननयोः दार्ढ्यामात्र निमित्तकत्वमेव । एवं च तद्दृष्यान्तेन ब्रह्मात्मत्वेसाक्षेपं चिरितेपि सुदृढश्ऱ्चेन्मुच्यतेऽदृढश्ऱ्चेद्धन्यत इत्यर्थो लभ्यत इति । तदेतद्दूषयति ॥ नचेति ॥ दार्ढ्यमात्रेदार्ढ्यमात्रस्य मुक्तिकारणत्व इत्यर्थः । दार्ढ्यस्य मुक्तिकारणत्वं सिद्धान्तेऽपि अंगीकृतमेव । यथोक्तम्‌ । यदाकुर्यात्‌ दार्ढ्यं शपथपूर्वकमिति । अतोमात्र शब्दः । एवं अदार्ढ्यमात्रस्य हतिकाणत्वे इत्यपि ग्राह्यम्‌ । कुतोनेत्यतो हतिमुक्त्योरपहारानपहारहेतुकत्वे ज्ञापकमाह ॥ स इति ॥ परोक्ताथर्े बाधकमाह ॥ अन्यथेति ॥ मुक्तिहननयोः दार्ढ्यादार्ढ्यमात्र हेतुकत्वे स यदि दृढो भवत्यमुच्यते । स यद्यदृढो भवत्यथ हन्यत इत्येव वक्तव्यमित्यर्थः । संकरस्त्वाह ॥ अत्र दृष्यान्तवाक्ये सत्यानृताभिसन्धिमात्रं विवक्षितम्‌ । तप्तपरशुहस्ततलसंयोगस्य तुल्यत्वेपि स्तेय कर्त्रकर्त्रोरनृताभिसन्धो दह्यते । नतु सत्याभिसन्ध इति । एवं सत्यब्रह्मात्मत्वाभिसन्धो विद्वान्‌ सत्संपद्यन पुनरावर्तते । अविद्वांस्तु विकारानृताभिसन्धः पुनरावर्तत इति । तदिदं दूषयति ॥ नचेति ॥ सत्यानृताभिसन्धिमात्रमिह विवक्षितमिति च नेत्यर्थः । कुतो नेत्यत आह ॥ तदेति ॥ यदि सत्यानृताभिसन्धिमात्रमिह विवक्षितं स्यात्तदाससत्याभिसन्ध इत्यादिना मुच्यत इत्यन्तेन सोनृताभिसन्ध इत्यादिना हन्यत इत्यन्तेन सत्यानृतवाग्दृष्यान्तेन एव पूर्तेः । स यदि तस्य कर्ता भवतीत्याद्यपहारदृष्यान्तो न स्यादित्यर्थः । अपव्याख्यानदूषणस्योपयोगं दर्शयन्‌ स्वमते खण्ड तात्पर्यमुपसंहरति ॥ तस्मादिति ॥ परव्याख्यानस्यायोगादित्यर्थः । अथ हन्यत इत्यन्तेन स्तेनापहर्तृ दृष्यान्तेन जीवेश्ऱ्वराभेदज्ञानेन महान्तं विनाशं प्रदर्श्याथमुच्यत इत्यन्तेन अनपहर्तृ दृष्यान्तेन भेदज्ञानेन मुक्तिप्रदर्शकमे पुरुषं सोम्येतत्यादि महावाक्यमित्यर्थः । तथाच एतत्‌ प्रकरणविरोधान्नतत्वमस्यादि वाक्यस्य जीवेशाभेदार्थकत्वम्‌ । अतो न शारीरपराभेदे तात्पर्यमित्यत्र किंचिन्मानमिति विष्णोः परमोत्कर्ष एव सर्वप्रमाणानां महातात्पर्यान्महातात्पर्य विरोधश्ऱ्च भेद इति स्थितम्‌ । अत्राहुः भेदाभेदवादिनः । अस्तु विष्णोः परमोत्कर्षे महातात्पर्यम्‌ । तथाप्यभेदांगीकारे तद्विरोधः कथम्‌ । भेदाभेदांगीकारेण अनुपपत्त्यभावादिति । तान्‌ प्रत्याह ॥ भिन्नस्यैवेति ॥ एवशब्दोऽभेद व्यावर्तकः । अन्यस्यैव अन्यस्मादुत्कर्षो दृष्य इति सर्वाभिन्नस्य कुत उत्कर्षः स्यात्‌ । नच भेदस्यापि विद्यमानत्वेन तदुपपत्तिः । अभेदेन अनुत्कर्षापरिहारादित्यर्थः । जीवाभिन्नस्योत्कषर्ाभावे हेत्वंतरमाह ॥ अज्ञानेति ॥ अज्ञानादि विशिष्य जीवाभेदेस्वस्यापि तदापत्तेरुत्कर्षः कुतः । किंत्वपकर्षः स्यादित्यर्थः । ननु ब्रह्मणो जीवाभेदेपि नोत्कर्षहानिः । ब्रह्मणो भ्रान्त्यैव दुःखाज्ञानयुक्तत्वात्‌ । जीवस्य तु परमार्थत एव दुःखादियुक्तत्वात्‌ । नच भ्रान्त्यादुःखादि युक्तस्य पारमाथिर्कोत्कर्षहानिः । तथासति रामकृष्णादावपि तदभाव प्रसंगादिति चेन्न । पारमार्थिक दुःखि जीवाभेदे परमार्थतो दुःखित्वाद्यपरिहारात्‌ । किंच भ्रान्त्यादुःखादि युक्तस्यापि परमार्थ दुःखि जीववदुत्कर्षाभाव एव भवेत्‌ । भ्रान्तस्य बाधोत्तरं तदभावानुसन्धानेपि तत्काले दुःखानुभवस्योभयत्रापि तुल्यात्वात्‌ । नहि वस्तुतो मृत पुत्रस्य परमार्थ दुःखिनो पुत्रमरणभ्रान्त्यादुःखिनः च तत्काले कश्ऱ्चिद्विशेषोस्तीत्याह ॥ तत्पक्षेपीत्यर्थः । तेनोभय सम्मतमेतदित्याह ॥ किंच यदि ब्रह्मणो भ्रान्त्यादुःखित्वमंगीक्रियते । तदाभ्रान्तत्वेन तस्यास्वातत्ऱ्यं स्यादिति भावेन व्याप्तिमाह ॥ अस्वातन्त्ऱ्ामिति ॥ स्वेच्छानुसारित्वाभावः । चशब्दः प्रसंगसमुच्चयार्थः । भ्रान्तस्यापि स्वेच्छानुसारित्वं किं न स्यादित्यत आह ॥ नहीति ॥ ननु यथा स्वस्वरूपापरिज्ञानेन भ्रान्त्यादुःखिनोपि राघवस्य नोत्कर्षहानिः तथा ब्रह्मणोपि किं न स्यादित्यतो सम्प्रतिपन्नो दृष्यान्त इति भावेनाह ॥ स्वात्मानमिति ॥ जीव ब्रह्मणोः भेदाभेदांगीकारे सूत्रविरोधं चाह ॥ जगद्वयापारेति ॥ एवेत्यभेदं व्यावर्तयति । ननु ब्रह्मवेद ब्रह्मैव भवतीत्यादौ वेदेमुक्तस्य ब्रह्माभेदोक्तः गौणमुक्तिपरमेवेदं सूत्रं किं न स्यादित्यत आह ॥ ब्रह्मसूत्रेति ॥ निर्णायक निर्णेययोः निर्णायकस्यैव प्रबलत्वादिति भावः । अत एवोक्तं निर्णीतत्वादिति । किंचात्रैव श्रुतौ चोरदृष्यान्तेन अभेदज्ञानिनोऽनर्थश्ऱ्चोरदृष्यान्तेन भेदेनैव उत्कर्षवेत्तुः मुक्तिश्ऱ्चकथ्यते । ततश्ऱ्च तद्विरोधत्‌ न जीवब्रह्मणोः अभेदोवक्तुं युक्त इति भावेन श्रुत्यर्थनिश्ऱ्चायकं प्रमाणमाह ॥ चोरेति ॥ यस्य कस्यापि । ननु ब्रह्मसूत्रानुसारेण वेदाद्यं योज्यमित्युक्तम्‌ । तत्र भेदप्रतिपादक सूत्रानुसारेण तत्वमसीत्याद्यभेद वाक्यं कथं योज्मं इत्यतः प्रमाणेन एव तद्योजनाप्रकारं दर्शयति ॥ सारत्वादिति ॥ यद्यपि स य एष इत्यादिकं प्रागेव व्याख्यातम्‌ । तथापि अस्मिन्‌ खण्डे स य एष इत्यादेः अश्रवणादितर खण्डदत्रापि तदध्याहार्यमिति सूचयितुं प्रागव्याख्यात पदव्याख्यानार्थं च सर्वथानेदमभेदपरमिति दार्ढ्यां च सामसंहितागतं एव उपसंहारवाक्यं उदाहृतम्‌ । मानानां ज्ञानानां मानाभिमानि देवतानां वा अणकश्ऱ्चेष्यक इत्यर्थः । त तेः व्याप्तेस्त
त्‌ । अध्यायार्थ गुणविशिष्यत्वेन भगवन्नमनरूपं मंगलमाचरति संहिताकारः ॥ इति य उक्त इत्यादिना ॥ नव कृत्व इत्यनेन नव प्रकरणीगतस्यापि वाक्यस्य अयमेवार्थ इति द्रढयति । तदनुसारेण स्वयमप्यध्यायार्थं उपसंहरति ॥ अत इति ॥ खं-8-16 ॥ ततश्ऱ्चेयं खण्डनवकस्याक्षरयोजना ॥ उद्दालको ह किल आरुणिः श्ऱ्वेतकेतुं पुत्रमुवाच ॥ किमिति ॥ स्वप्नस्यान्तः सुषुप्तिः तं स्वप्नान्तं सुषुप्तिस्वरूपं मे मम सकाशात्‌ विजानीहीति । ननु कः सुषुप्तौ विशेषो येन तज्ज्ञात्यमित्यत आह ॥ यत्रेति ॥ यत्र काले । एष चासौ पुरुषश्ऱ्चेत्येतत्‌ पुरुषो जीवः स्वपिति तदासता परमात्मना सम्पन्नः संगतो भवति । यत्रायं पुरुष इति शाखान्तरपाठः । किं तत्र मानमित्यतः सुप्ते स्वपिति शब्दप्रयोग एवेति वक्तुमुक्तमेव विशदमाह ॥ स्वमिति ॥ तदा प्रस्वापकाले स्वं स्वतन्त्रं भगवन्तं अपि इतो भवति अविज्ञेयत्वेन प्राप्तः प्रविष्यो भवति । एष पुरुष इति वर्तते । सुषुप्तौ जीवस्य भगवत्प्राप्तिसद्भावे प्रमाणमाह ॥ तस्मादिति ॥ हि यस्मात्‌ स्वमपीतो भवति तस्मादव एनं सुषुप्तं स्वपितीत्याचक्षते विद्वांसः । अन्यथा तन्न स्यात्‌ । स्वपिति शब्दप्रयोगादेव सुषुप्तस्य स्वनामक भगवत्प्राप्तिरवगम्यत इत्यर्थः । मुक्तिपक्षे तु स्वप्नस्यान्तो मुक्तिः । स्वप्नशब्देन जीवन्मुक्तिरूपायाः सन्ध्यावस्थायाः ग्रहणात्‌ । सन्ध्यं तृतीयं स्वप्नस्थानमित्यतत्र तथा निर्णीतत्वात्‌ । तं स्वप्नान्तं मुक्तिं मे विजानीहि । यत्रैतत्पुरुषो मुक्त जीवः । स्वपिति नाम मुक्तो भवति । तदा सतासंगतो भवति । तत्र प्रमाणं वक्तुं तदेव विशदमाह ॥ स्वमिति ॥ तदा मुक्तौ स्वं स्वतन्त्रं भगवन्तं संसारिभिः अविज्ञेयत्वेन प्राप्तः प्रविष्यो भवति मुक्तजीवः । मुक्तस्य भगवत्प्राप्तौ स्वपिति शब्दमेव प्रमाणमाह ॥ तस्मादिति ॥ योजनापूर्ववदेव ॥ 1 ॥ एवं जागरस्वप्नयोः संसारे वा शरीरेन्द्रियमनसामितः ततो विक्षेपण श्रान्तस्य जीवस्य श्रमापनोदनाय सुप्तौ मुक्तौ वा परमेश्ऱ्वराश्रयरणमभिधाय तत्र दृष्यान्तमाह ॥ सयथेति ॥ स वक्ष्यमाणोदृष्यान्तः यथा । शकुनिः पक्षी शकुनिघातकस्य हस्तगतेन सूत्रेण प्रबद्धः । दिशं दिशं बन्धनमोक्षर्थी सन्‌ प्रतिदिशं पतित्वान्यत्र बन्धनादायतनमाश्रयं विश्रमणायालब्ध्वाऽप्राप्बन्धनमेवोपश्रवते एवमेव खलु हे सोम्यै तन्मनःपूर्व प्रकृतो मननान्मनो नामा जीवः स्वप्नजागरणयोः संसारेवादिशं दिशं पतित्वा प्राणादन्ययितनमलब्ध्वा प्राणमेव प्राणनात्‌ प्राणनामकं परमात्मानमेवोपश्रयते । दृष्यान्ते बन्धनमेव उपश्रयत इत्युक्तत्वात्‌ अत्रापि प्राणस्य बन्धनत्वमुपपादयति ॥ प्राणेति ॥ हि यस्मान्मनो जीवः प्राणबन्धनं प्राण एव बन्धनं बन्धको यस्य तत्तथोक्तम्‌ । तस्मात्‌ प्राणमेवोपयश्रयत इत्यर्थः ॥ 2 ॥ एवं सुप्तौ मुक्तौ च जीवस्य भगवदधीनत्वं अभिधाय जाग्रदवस्थायां अपि अशनापिपासयोः स्वरूपपर्यालोचनया जीवानां भगवदधीनत्वं प्रतिपादयितुं प्रस्तावयति ॥ अशनेति ॥ हे सोम्याशितुं इच्छाऽशनाया या लोपः छान्दसः । अशनायेत्यपि क्वचित्पाठः । पातुमिच्छा पिपासा ते अशनापिपासे तयोः स्वरूपं विजानीहीत्युवाचेति सम्बन्धः । कस्तत्र विशेष इत्यत आह ॥ यत्रेति ॥ यत्र यदैत्पुरुषः संसार्य शिशिषति अशितुं इच्छति नाम तत्तदातदशितमन्नं पीता आप एव तदभिमानी प्राण एवेति यावत्‌ । नयन्ते रसवीर्यादि परिणामयन्ते । अन्नं रसादिरूपेण प्राणः परिणयत्यसाविति वचनात्‌ । अशितनेतृत्वं अपां कुत इत्यतो अशनाया शब्दाभिधेयत्वादिति सदृष्यान्तमाह ॥ तद्यथेति ॥ तत्‌ वक्ष्यमाणं निदर्शनं यथा गां नयतीति गोनाय इत्युच्यते गोपालो यथा वा अश्ऱ्वं नयतीत्य अश्ऱ्वनाय इत्यच्यते अश्ऱ्वपालः । यथा च पुरुषात्‌ नयतीति पुरुषनाय इत्युच्यते राजासेनापतिः वा । एवं तत्तस्मादशित नेतृत्वात्‌ अपस्तदभिमानि देवतां प्राणमशनायेत्याचक्षते विद्वांसः । नन्वेतावता जीवस्य अबभिमानि प्राणाधीनत्वेपि भगवदधीनत्वं कुत इत्यत आह ॥ तत्रेति ॥ तत्रैवं सति अद्भीरसादिभावेन अशितस्य जीर्णीभावे सति तद्रेतो द्वारा एतत्‌ प्रत्यक्ष सिद्धं शिशुशरीरमुत्पतितं सोम्य विजानीहि । शुंगमिति दृष्यान्तोक्तिः । वटबीजात्‌ परिणताच्छुंगमं कुरमिवेत्यथर्ः । किं तत इत्यत आह ॥ नेति ॥ हे सोम्य इदमुत्पतितं शरीररूपं कार्यं अमूलमकर्तृकं न भविष्यतीति विजानीहि । अयमत्र प्रयोगः । इदं सकर्तृकं कार्यत्वादंकुरवदिति । नच दृष्यान्तः साध्यविकलः । घटादि दृष्यान्तेन तत्रापि कर्तृकत्वानुमानात्‌ । तर्हि घट एव दृष्यान्तत्वेन उपादीयताम्‌ । न शरीरस्य सर्वात्मनां कुरु साम्यमिति वस्तुस्थिति ज्ञापनाथर्म्‌ । तथाच श्रुतिः । यथा वृक्षो वनस्पतिः तथैव पुरुषो मृषा । तस्य लोमानि पर्णोनि त्वगस्योत्पाटिका बहिरित्यादिका ॥ 3 ॥ एवं शरीरस्य कार्यत्वेन कर्तृसामान्येऽनुमिते किं तदिति जिज्ञासायां परिशेषेणान्नमेवेति भावेन प्रसक्तप्रतिषेधं विधत्ते ॥ तस्येति ॥ तस्य शरीरस्य अन्नादन्यत्र क्व किं मूलं स्यात्‌ । न किमपि । तस्मादन्नमेव परिशेषेण मूलमित्यर्थः । अत्रान्नमिति तदभिमानी रुद्रः । अन्नस्यापि कायर्त्वाच्छुंगवत्‌ सकारणकत्वमनुमाय परिशेषेणाप्‌ कारणकत्वं अनुमेयमेवेत्याह ॥ एवमेवेति ॥ यथा शरीरे एवमेव खलु सोम्य अन्नेन कार्येण शूंगेन दृष्यान्तेन कर्तृ सामान्यमनुमाय परिशेषेणापोमूलं अन्विच्छानुमातुं इच्छेत्यर्थः । आप इति तदभिमानी प्राणः । एवमेव सोम्याद्भिः कायर्ेण शुंगेन दृष्यान्तेन कर्तृ सामान्यमनुमाय परिशेषेण तेजोमूलमन्विच्छ । तेज इति श्रीः । एवमेव हे सोम्य तेजसा कार्येण शुंगेन दृष्यान्तेन । कर्तृसामान्यं अनुमाय सत्परं ब्रह्ममूलमन्विच्छेत्यर्थः । तर्हि सतः ते=जोमात्रमूलत्वम्‌ । न सर्वमूलत्वं इत्याशंकां परिहरन्नुपसंहरति ॥ सन्मूला इति ॥ हे सोम्य इमाः सर्वाः प्रजाः सत्परं ब्रह्म मूलं कतर्ृ यासान्ताः सन्मूलाः । न केवलं एतावत्‌ । किन्तु सत्परं ब्रह्मायतनमाश्रयो यासान्ताः सदायतनाश्ऱ्च । न केवलं उक्तरीत्या जीवस्य संसार एव भगवददीनत्वम्‌ । किन्तु मोक्षेपीत्याह ॥ सत्प्रतिष्ठा इति ॥ सत्परं ब्रह्म प्रतिष्ठाप्रतिस्थापकं यासां मुक्तप्रजानां ताः सत्प्रतिष्ठा इत्यर्थः ॥ 4 ॥ एवं अशनाया स्वरूप पर्यालोचनया जीवानां भगवदधीनत्वं उपपाद्य पिपासास्वरूप पर्यालोचनयापि तदुपपादयति ॥ अथेति ॥ योजना तु पूर्ववदेव । तत्तेज आचष्ये विद्वानुदन्येति । उदंनतीति व्युत्पत्तेः । पूर्वं अन्नकार्यस्य प्रक्रान्तत्वात्‌ शरीरेण अन्नद्वारा सदनुमानं इह त्वपकार्यस्य प्रक्रान्तत्वात्‌ तद्द्वरैवानुमानमित्यवधेयम्‌ ॥ 5 ॥ ननु पूर्वोक्ताः तेजोबन्नाभिमानिदेवताः शरीरं प्राप्यकथं शरीरधातुं कुर्वन्तीत्यतः तत्प्रागेव उक्तमनुसन्धेयमित्याह ॥ यथेति ॥ हे सोम्य इमाः तिस्रो देवताः तेजोबन्नाभिमानिन्योलक्ष्म्ाद्याः पुरुषं शरीरिणं प्राप्य यथा तु येनैव प्रकारेण एकैका देवता त्रिवृत्‌ त्रिवृद्भवति । तत्पुरस्तादेवोक्तं भवति । अन्नमशितं त्रेधाविदीयत इत्यादिना । तदेव अनुसन्धेयमिति भावः । किंच भगवतो मोक्षे देवैः प्राप्यत्वाच्च । सिद्धं जीवानां तदधीनत्वमिति भावेन देवानां देहलयप्रकारमाह ॥ अस्येति ॥ अस्य पुरुषस्य चतुर्मुखस्य प्रयतो मुच्यमानस्य सतः चतुर्मुक्तिकाले प्राप्ते इति यावत्‌ । अत्र सर्वे देवा वाचि सम्पद्यन्ते इति वक्तव्यम्‌ । वागभिमानिन्युमामनसिमनोभिमानि रुद्रे सम्पद्यते देहलयमाप्नोति । मनोरुद्रः प्राणेमुख्यवायौ सम्पद्यते । प्राणः तेजसिलक्ष्म्ां सम्पद्यते । तेजः परस्यां देवतायां सम्पद्यते । हरेः अत्यन्तं सामीप्यं लयोलक्ष्म्याः प्रकीर्तित इति स्मृतेः । अथवा सर्वसाधारण मरणेपि जीवस्य भगवदधीनत्वं प्रतिपत्तव्यमिति भवेन त तत्वाभिमानि देवता यापारे जीव्य मरणानुपपत्तेः तद्वयापारोपरमप्रकारमाह ॥ अस्येति ॥ अस्य पुरुषस्य यतो म्रियमाणस्य यावक्‌ वागभिमानिन्युमासामनसिसम्पद्यते ग्रस्तव्यापारा भवति । इतरेन्द्रिय देवताः सजीवा वाचिसम्पद्यन्त इत्यादौ वक्तव्यम्‌ । मनो रुद्रः प्राणे मुख्यप्राणे सम्पद्यते । प्राणस्तेजसि सम्पद्यते । तेजः परस्यां देवतायां सम्पद्यते ॥ 6 ॥ एवं सर्वात्मना जीवस्य भगवदधीनत्वात्‌ न जीवस्य तदभिन्नत्वशंका कार्येत्युक्तम्‌ । इतोपीत्याह ॥ सय इति ॥ प्रकृतः परदेवताख्योविष्णुः सारत्वात्‌ स इत्युच्यते । यमनात्‌ ज्ञानरूपत्वात्‌ बाधः । सर्वस्वेष्य इति ह्येषः । अणीय सासूक्ष्मेण ज्ञानेन मीयते विषयीक्रियत इत्यणिमा । मानानामाणक इति वाणिमा । इदं सर्वं जगदैतदात्म्यमेतदात्मवशम्‌ । ततत्वात्तत्‌ । परानन्दत्वतः साधुस्वरूपत्वात्‌ वा सत्यम्‌ । सादनात्सः । पूर्णगुणत्वात्‌ आत्मा । अतत्वमिति तत्वमिति च पदच्छेदः । एवं सति हे श्ऱ्वेतकेतो तत्वं तत्वतः । त्वमतदसि तस्मादन्यद्वस्त्वसीत्यर्थः । इति पित्रोपदिष्येन श्ऱ्वेतकेतुना जीवानां भगवदाश्रयत्वं कथमुपपन्नम्‌ । यतो न मत्तोन्योस्मिन्‌ देहेऽस्ति । मया भेदेन अनुपलभ्यमानत्वात्‌ इत्याशयेन भूय एव मामां भगवान्‌ विज्ञापयत्विति पृष्ये तथा सोम्येति होवाच पिता । त्वच्छंकाया यथोत्तरं स्यात्तथावक्ष्यामीत्याहेत्यर्थः ॥ 7 ॥ अष्यमः खण्डः ॥ 8 ॥ किमुवाचेत्यत आह ॥ यथा सोम्येत्यादि ॥ हे सोम्य यता मधुकृतो भ्रमराः मधुनिस्तिष्ठन्ति निर्मिमते । कथं नानात्ययानां नानागतीनां पऱ्परविलक्षणानां वृक्षाणां रसानां समवहारं समूहमेकतां मिश्रतां गमयन्ति । रसान्समवहारमिति पाठे रसानितिद्वितीया षष्ठयर्थे ॥ 1 ॥ यथा च ते नानावृक्षरसाः तत्र मिश्रतयां विद्यमानमपि विवेकं पऱ्परभेदं न लभन्ते न जानन्ति । अमुष्य वृक्षस्याम्रस्याहंरसोस्म्ययंत्वन्यस्येति । तथा परोप्यमुष्यपनसस्या हंरसोस्म्ययं त्वन्यस्येति । एवमेव खलु सोम्येमाः सर्वाः प्रजाः जीवाः परमेश्ऱ्वर शक्तिभिः एव स्वेस्वेशरीरे सति परमेश्ऱ्वरे सम्पद्य तेन मिश्रीभावं प्राप्यसति सम्पत्स्यामहे उपलक्षमेतत्‌ । सम्पन्नाः सम्पद्यामहे इति न विदुः ॥ 2 ॥ अज्ञानभवमनर्थमाह ॥ त इत्यादिना ॥ इह लोके ते प्रसिद्धाः । व्याघ्रोवेत्यादि यद्यद्भवन्ति तत्तदातस्मात्‌ परमेश्ऱ्वराश्रितत्वाज्ञानापराधाद्भवन्तीति । एतेन योयमात्मनो भेदेन न पश्यति सततोन भिद्यत इति व्याप्तेः भगोदर्शितो भवति ॥ 3 ॥ सय इत्याद्यभ्यासस्तात्पर्यद्योतनार्थः । आत्मा वा अरे दृष्यव्यः श्रोतव्योमन्तव्योनिदिध्यादितव्य इत्युक्तानां श्रवणादीनां नाग्निष्योमादिव देकवारेणैव फलप्राप्तिः । किन्त्वावृत्तिः कर्तव्येति ज्ञापनार्थे च अयमसकृदुपदेशः । तथाच उक्तं सूत्रकृता । आवृत्तिरसकृदुपदेशादिति । इति पित्रोपदिष्येन श्ऱ्वेतकेतुना भवत्वचेननानां नानावृक्षरसानां भेदापरिज्ञानम्‌ । मयातु चेतनत्वेन हेतुः विशेष्यत इत्यभिप्रायेण भूय एव मा भगवान्‌ विज्ञापयत्विति पृष्ये पिता तथासोम्येति होवाच ॥ 4 ॥ नवमः खण्डः ॥ 9 ॥ किमुवाच ॥ इमाः सोम्येत्यादि ॥ हे सोम्य इमाः प्रसिद्धाः गंगाद्याः नदी देवताः । प्राच्यः प्रागंचनात्‌ प्राचीशब्दवाच्याः पुरस्तात्‌ स्यन्दते स्रवन्ति । तथा प्रत्यगंचनात्‌ प्रतीचीशब्दवाच्याः पश्ऱ्चात्‌ स्यन्दन्ते । एवं अत्यन्तविलक्षणाः तानद्योमेघादिद्वारेण समुद्रादागत्य उत्पन्न जलत्वात्‌ समुद्रमेवापि यन्ति । एव शब्दस्योत्तरत्रन्वयः । अविज्ञेयत्वेन प्रापनुवन्ति । प्रविशन्तीति यावत्‌ । ततापि स समुद्र एव भवति । न नदीभावं प्राप्नोतीत्यर्थः । स एव समुद्रो भवतीति पूर्ववाक्यगतैवकारन्वयः । समुद्र एव समुद्रो भवति । न नद्य इत्यर्थः । ता नदी देवताः यथा तत्र समुद्रे इयं गंगाहमस्मीयं तु यमुनाऽयं च समुद्र इत्येवं अन्या अपि न विदुः । स्वं स्वं वारिनैव जानन्ति ॥ 1 ॥ एवमेव खलु सोम्येमाः सर्वाः प्रजाः सतः परमेश्ऱ्वरादागम्योत्पद्यापि सत आगच्छामहे उत्पन्नास्म इत न विदुः । एवं परमेश्ऱ्वरे स्थित्वापि तमाश्रितास्म इति न विदुः । त इहेत्यादि पूर्ववत्‌ । अनेन चेतनत्व विशिष्यस्यापि हेतोः अनैकान्त्यमुक्तं भवति । इति पित्रोपदिष्येन पुत्रेणास्तीश्ऱ्वरः स्वतोभिन्नः तथापि जीवस्य तददीनत्वं कुत इत्याशयवता भूय एव मा भगवान्विज्ञापयत्विति पृष्ये तथासोम्येति होवाच पिता ॥ 3 ॥ दशमः खण्डः ॥ 10 ॥ किमुवाच । अस्येत्यादि ॥ हे सोम्य महतो वृक्षस्य योयः कश्ऱ्चिद्यदि मूलेभ्या हन्यात्तदा जीवन्‌ जीवेनानिरुद्धाख्येन परमेश्ऱ्वरेणाऽधिष्ठितश्ऱ्चेत्तदा स्रवेत्‌ रसमेवोद्गिरेत्‌ । नतु म्रियते । अंकुरमात्रस्याऽभ्याघातेऽवस्थानासम्भवात्‌ महत इत्युक्तम्‌ । एवं योमध्येभ्याहन्यादित्यादिकमपि व्याख्येयम्‌ । एवं स एषः वृक्ष जीवोनेन प्रकृतेन जीवेन आत्मना परमात्मना अनुप्रभुतः प्राप्तोधिष्ठित देहः पेपीयमानः पुनः पनुः भृशं वा पिबन्‌ मोदमानास्तिष्ठति ॥ 1 ॥ एं वृक्षजीवस्य सर्वदानुपहताऽत्यक्तदेहेन सुखिनैव मया स्थातव्यमितीच्छायामपि कदाचिदेवेश्ऱ्वरानुग्रहे सति विघातिषु बाह्यकारणेषु सत्स्वप्येवं अवस्थानं भवतीत्युक्तम्‌ । इदानीं इश्ऱ्वरानुग्रहाभावे बाह्यकारणबलवत्त्वाभावेपि शरीरशोषाद्यनिष्यं भवत्येवेत्याह ॥ अस्येति ॥ अस्य वृक्षजीवस्य यदैकांशाखां जीवः परमात्मा जहात्यथ तदासाशुष्यति । यदा द्वितीयां शाखां जहाति तदासापि शुष्यति । यदा तृतीयां जहाति तदा सापि शष्यति । यदा सर्वं जहाति तदा सर्वोपि शुष्यति । यथा अयं दृष्यान्तः एवमेव खलु सोम्य मानुष शरीरेपि जीवस्येश्ऱ्वराधीनत्वं विद्धीति होवाचपिता ॥ 2 ॥ तदेव विशदमाह ॥ जीवापेतमिति ॥

जीवेन परमात्मनाऽपेतं त्यक्तम्‌ । त्यक्तदेहमिति यावत्‌ । इदं संसारिजातं म्रियते प्राणैः वियुज्यते । तताच स्मृतिः । ब्रह्मणात्यक्त देहस्तु मृत इत्युच्यते बुधैरिति । एवं भगवतोपि मरणं चेत्कोविशेषः तस्येत्यत आह ॥ न जीव इति ॥ जीवः परमात्मातु कदापि न म्रियत इत्येवं अत्यन्त विलक्षणौ जीव पराविति शेषः । अत्र प्रकरणे जीवशब्देन परमात्मैवाभिहितः । जीव इति भगवतो अनिरुद्धस्य अख्येति श्रुतेः । विष्णुः जीव इति प्रोक्तः सततं प्राणधारणादित्यादि स्मृतेश्ऱ्च । नहि संसारिणोमुख्यतः प्राणदारकत्वं युज्यत इत्यवगंन्तव्यम्‌ । इत्युपदिष्येन पुत्रेणण एवं जीवस्य सत्तादि प्रदः परमात्मात्रैव शरीरे जीवान्तर्वर्तमानोजीवेन कुतो न दृश्यते । सौक्ष्म्ादिति चेत्‌ । जीवस्य सूक्ष्मस्वात्मदर्शिनः सूक्ष्मदर्शनशक्तिसद्भावादित्याशयेन पुनः पृष्ये पिताऽवोचत्‌ ॥ 3 ॥ एकादशः खण्डः ॥ 11 ॥ किमवोचत्‌ ॥ न्यग्रोधफलमित्यादि ॥ हे सोम्य अतोवृक्षान्न्यग्रोधफलमाहरेत्युवाचपिता । आहृत्येदं न्यग्रोधफलमाहृतं भगवोभगवन्निति पुत्रः । इदं फलं भिन्धीति पिता । तद्भित्वा भिन्नं भगव इति पुत्रः । अत्र भिन्ने फले किं पश्यसीति पिता । अण्व्य इव सूक्ष्मा इवेमाधाना बीजानि पश्यामीति पुत्रः । हे अंग असां दानानां मध्ये एकां धानां भिन्दीति पिता । भित्त्वाभिन्ना भगव इति पुत्रः । अत्र भिन्नायां धानायां किं पश्यसीति पिता । न किंचन पश्यामि भगव इति पुत्रः ॥ 1 ॥ एवमुक्तवन्तं तमुवाच पिता । यमेतमणिमानं भावभवित्रोरभेदात्‌ । अतिसूक्ष्मं बीजजीवं ननिभालयसेन पश्यसि । एतस्याणिम्नः सामर्थ्यादेवं परिदृश्यमान प्रकारेण महान्न्यग्रोधस्तिष्ठति । यद्वा णिमशब्दः परमात्परः । नात्रान्यथात्व शंकाकार्येत्याह ॥ श्रद्धत्स्वत्सोम्येति पिता । अत्र वृक्षः प्रपञ्चः । फलं शरीरम्‌ । धाना जीवः । तत्र यथा सूक्ष्मवटबीजे दृश्यमानेपि यत्प्रभावाद्वटावस्थानं स बीजान्तर्गतो बीज जीवः परमात्मा वा यथा परमसूक्ष्मत्वात्‌ न दृश्यते । तथा जीवादपि सूक्ष्मत्वात्‌ तदन्तर्गतः इत्युक्तं भवति ॥ 2 ॥ सय इत्यादिकमुक्तार्थम्‌ । इत्युपदिष्येन श्ऱ्वेतकेतुना । ननु वटावस्थानादिना कार्येणेश्ऱ्वरसामर्थ्यं तावत्‌ प्रत्यक्षमिव दृश्यते । एवं तत्सामर्थ्ये दृश्यमानेपि तस्यादर्शनमित्येतत्‌ कथं अहं विजानीयामित्याशयवता भूय एव मा भगवान्विज्ञापयत्विति प्रार्थिते पिता तथा सोम्येति होवाच ॥ 3 ॥ द्वादशः खण्डः ॥ 12 ॥ लवणमित्यादि ॥ हे अंगैतत्पिण्डरूपं लवणमुदकेघटादिस्थेवऽधायनिक्षिप्यमा मां प्रातरुपसीदथाः उपागच्छेति पित्रोक्तः सहतथा चकार । तद्धतथा चकारेति क्वचित्पाठः । तत्र यथा पित्रोक्तं तत्तथाचकार पुत्र इत्यर्थः । तं होवाच पिता । हे अंगदोषारात्रौ यल्लवणमुदकेऽवधाः अवाधास्तदाहरेति । तत्‌ लवणमुदकेहस्तेन अवमृश्य न विवेद पुत्रः । यथा विलीनमेवात्यन्तं विनष्यं वस्तुन विन्दति तथा । अंगास्योदकस्यान्तात्पूर्वदिगवस्थितात्‌ अवयवादुद्धृत्यैकदेशमाचामेति पिता । आचांतवन्तं कथं तिष्ठतीति पप्रच्छपिता । लवणं लवणरसोपेततमित्याह पुत्रः । एवं मध्यादित्यादि व्याख्येयम्‌ । अन्त्यात्पश्ऱ्चिमदिगवस्थितात्‌ । एतत्‌ उदकमभिप्रास्य निरस्याथमामां उपसीदथा इति पिता । तद्धतथा चकार पुत्रः । तल्लवणं शश्ऱ्वदुदक एवं संवर्तते । नह्यपगतमिति श्रुतेः स्ववाक्यं तत्‌ । तद्धतथा चकारेति वाक्यं शश्ऱ्वदं गतदाहरेत्याद्यनन्तरं संवर्तते । अनुवर्तनीयमिति वा । तं होवाच पिता । हो सोम्य अत्र वा वात्रैवोदके सत्‌ विद्यमानं लवणं तद्गुणे दृश्यमानेपि न निभालसे । अत्रैव किलेति पुनः वचनमादरार्थम्‌ । इत्युवाचेति सम्बन्धः । यथेदं तथासाम्यर्थ्ये दृश्यमानेपि भगवान्नदृश्यत इति भावः ॥ 2 ॥ इति पित्रोपदिष्येन पुत्रेणैवं विधोहरिरविद्यापि हि तनयनेनानेन केनोपायेन दृश्यते प्राप्यते चेति जिज्ञासावता भूय एवेति पृष्ये तथा सोम्येति होवाच पिता ॥ 3 ॥ त्रयोदशः खण्डः ॥ 13 ॥ हे सोम्य यथा पुरुषं धनिकं गन्धरेभ्यो गन्धारसंज्ञिकेभ्यो जनपदेभ्योऽभिनद्धाक्षं अक्षिणीबध्वेति यावत्‌ । आनीयतं ततो नन्तरं अतिजनेजनरहितेरण्ये विसृजेच्चोरः । सः विसृष्यो यथा तत्र अरण्ये प्राङ्‌वोदङ्‌वाधराङ्‌वासर्वदिगभिमुखः प्राध्मादीत उच्चैः शब्दं कुर्यात्‌ । किमिति । अभिनद्धाक्षः आनीतोस्मि अभिनद्धाक्षोविष्योस्मीति ॥ 1 ॥ यथा सम्यक्‌ तद्वाक्यं श्रुत्वा कश्ऱ्चित्‌ कृपावांस्तस्याभिनहनं बन्धनं प्रमुच्यमुक्त्वा ब्रूयात्‌ । एतां दिशमस्यां दिशिगन्धाराः सन्ति । अत एतां दिशं व्रजेति । सः तेनोपदिष्याद्ग्रामान्निर्गत्या परं ग्रामं पृच्छन्‌ पण्डितः प्राज्ञोमेधावीस्मृतिमान्‌ गन्धारानेवोपसम्पद्यते पश्यति प्राप्नोति च । एवमेव अनाद्य विद्यादिभिः आच्छादित निजज्ञानः पुरुषो जीवः संसारे पतितः परमेश्ऱ्वरानुग्रहाज्जातजिज्ञासः आचार्यवान्‌ गुरूपदेशं लब्धेति यावत्‌ । क्रमापन्नानि श्रवणादीनि साधनान्यनुष्ठाय स्वजन्मभूमिं भगवन्तं वेद पश्यति प्राप्नोतीति चेत्यर्थः । ननु यथा अन्योपदेशेन बद्धाक्षः स्वगृहं पश्‌यति व्रजति च तथा पुमानाचार्योपदेशेन भिन्नमीशं पश्यति व्रजति चेत्यनुपपन्नम्‌ । दर्शनाव्यवहितोत्तरकालं भगवत्प्राप्तेः अभावादित्यत आह ॥ तस्येति ॥ तस्यापरोक्षज्ञानिनः । तावदेव मोक्षायचिरं क्षेपोयावन्नविमरोक्ष्ये विमोक्ष्येत प्रतिबन्धेन प्रारब्धकर्मणा । यथा ज्ञानानन्तरमपि न मोक्षस्तथाकमर्क्षयानन्तरमपीति शंकामाभूदिति भवेनाह ॥ अथेति ॥ अथारब्धपुण्यपापस्य भोगेन क्षपणादनु । ब्रह्मसम्पत्स्यत एव । अथ शब्दोनियमसूचकश्ऱ्च । इत्युवाचेति पूर्वखण्डस्थेनान्वयः ॥ 2 ॥ इति पित्रोपदिष्येन अवगतं वृक्षशरीरे भगवदधीनत्वं जीवस्य मानुषारीर एव तज्ज्ञापय इत्याशयवताभूय एव मा भगवान्विज्ञापयत्वित्युक्तः पिता तथा सोम्येति होवाच ॥ 3 ॥ चतुर्दशः खण्डः ॥ 14 ॥ हे सोम्य उपतापिनं रोगिणं पुरुषं ज्ञातयः पर्युपासते । परित उपरिशन्ति । किं कुवर्न्तः । हे देवदत्तत्वं मां जानासिमां जानासीति वदन्तः । एवमेभिः उक्ते स कदाजानाति कदाचन जानातीत्यत आह ॥ तस्येति ॥ तस्य म्रियमाणस्य पुरुषस्य वाक्‌ वागभिमानिन्युमा मनसि मनोभिमानि निरुद्रे यावन्न सम्पद्यते ग्रस्तव्यापारान भवति । मनश्ऱ्च प्राणेन सम्पद्यते । प्राणः तेजसि न सम्पद्यते । तेजः परस्यं देवतायां न सम्पद्यते । तावज्जानाति ॥ 1 ॥ अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणः तेजसि तेजः परस्यां देवतायां सम्पद्यते । अथ तदा न जानाति । एवं मानुषशरीर एव जीस्व मरणकाले ज्ञात्यादि स्वरूपज्ञानेऽस्वातन्त्ऱ्यं दृष्यमिति भावः ॥ 2 ॥ इति पित्रोपदिष्येन पुत्रेणैवं सर्वप्रेरकं महानुभावं भगवन्तं योत्यन्तभेदेन जानाति यश्ऱ्च स एवाहमस्मीति । तयोः कीदृशं फलं भवतीति जिज्ञासया भूय एवेत्युक्तः पिता तथेति होवाच ॥ 3 ॥ पंचदशः खण्डः ॥ 15 ॥ हे सोम्य राज द्रव्येऽपगते सति शंकास्पदं वा राजा हमिति वदन्तं अतदर्हं वा पुरुषं हस्तगृहीतं वद्धहस्तमानयन्ति राजभटाः । किं कृतवानयमिति पृष्याश्ऱ्च अपहाषर्ीत्‌ अपाहर्षीत्स्तेयमकार्षीदिति वदन्तः आनयन्तीति सम्बन्धः । पश्यतो हरत्वमपहारः । अन्यत्स्तेयम्‌ । ततस्तेन नेदं मया कृतमित्युक्ते भटान्‌ प्रतिराजावक्ति । परशुमस्मै अस्य परीक्षर्थं तपतेति । सः गृहीतो यदि तस्यापहारादेः कर्ता भवति अथ चनेति ब्रूते । सः तत एवं कृत्वापिनेति वचनादेवात्मानं अनृतमनृतभाषिणं कुरुते । सोनृतो अभिसन्धोऽभिसन्धिरस्येति तथोक्तोऽनृते नात्मनां अन्तर्धाय आच्छाद्यपरशुं तप्तं प्रतिगृह्णाति । सदह्यते थ हन्यते राजभटैः । हतिश्ऱ्चापराधाधिक्य क्रमेण नानाविधा । कस्याचित्‌ महाकारागृहे पातनं यतो न विमोकः । कस्याचिद्धस्ताद्यवयवच्छेदः । कस्यचित्‌ अवध एवेति । अत्र स यथा तत्र दह्यते हन्यते चैवमेव ब्रह्मस्तेनं अभेद ज्ञानिनं हस्तगृहीतमानयन्ति वायु किंकराः । अयं ब्रह्मापहार्षीद्ब्रह्मस्तेयमकार्षीदिति वदन्तः । ततस्तेन न मया ब्रह्मा पहारादिकं कृतमिकत्युक्ते भटान्‌ प्रतिराजा वक्तिपरशुमस्मै तपेति । स यदि तस्य कर्ता भवति । तथाच नेति ब्रूते । तत एवात्मानं अनृतं कुरुते । सोनृताभिसन्धोऽनृतेन आत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति । स दह्यतेऽथ हन्यते । अपराधाधिक्य क्रमेण तमसि पात्यत इत्यपि ग्राह्यम्‌ ॥ 1 ॥ अथ सगृहीतो यदि तस्यापहारादेरकर्ता भवति नेति ब्रूते च । तत एवाकृत्वैव नेति वचनदार्ढ्या देवात्मानं सत्यं सत्यभाषिणं कुरुते । स सत्याभिसन्धः सत्येन आत्मानमन्तर्धायपरशुं तप्तं प्रतिगृह्णाति । स नदह्यते थमुच्यते शिक्षकेभ्यः । न केवलमेतावत्‌ । किन्तु मिथ्याभिशंसिहनन पुरः सरंराज्ञास्वीक्रियते च । किंतत इत्यत आह ॥ स इति ॥ सो उपहाराद्यकर्ताति दृढो यथा तत्र तप्त परशु परीणायां नादाह्यत ईषदपि न दह्यते । एवमेव अयं विष्णुरित्युक्तरीत्या दार्ढ्यं शपथवद्यदा कुर्यात्‌ तदा तप्त परशुपरीणायां न दह्यते । मुच्यते च शिक्षकेभ्यः । मिथ्याभि शंसिहननपुरःसरं विष्णुना स्वीक्रियते चेति वाक्य शेषः ॥ 2 ॥ अत्रापि सय एषोणि मेति वाक्यं ग्राह्यम्‌ । अथस्तूक्त एव । इति पित्रोपदिष्योयं श्ऱ्वेतकेतुः विगलिताभेदमोहोयदुपदिष्यं भगवत्प्राधान्यादिकं तत्‌ हाऽबाधितं विजज्ञौ बुबोधेति श्रुति वाक्यम्‌ । अस्येति कर्मणि षष्ठी । इति शब्दः समाप्त्यर्थः । द्विर्वचनमादरार्थम्‌ ॥ 3 ॥ षोडशः खण्डः ॥ 16 ॥ अत्र तदेष श्ऱ्लोक इत्यादिः क्वाचिकःपाठः । तस्य चायमर्थः । तत्तत्र सत्यवचनात्‌ न दाहो भवति किं तु मुक्तिरेवेत्यत्रैषः वक्ष्यमाणः श्ऱ्लोको भवति । श्ऱ्लोकमुदाहरति ॥ सर्वेषां खलु भूतानां आत्मासत्ये प्रतिष्ठितः ॥ तेनात्मानमन्तर्धाय नकिंचित्पापमृद्धतीति ॥ आत्मा स्वामी । सत्ये सत्यवचने तेन सत्यवचनेन आत्मानं स्वात्मानं न केवलं सत्यवचनमात्रं पापालेपहेतुः । किन्तु भगवति प्रीतिश्ऱ्चेति भावेनाह ॥ आत्म सत्यात्मसाक्षीसतां धर्मः प्रतापवान्‌ ॥ न स पापानिकुरुते यस्मात्माभवति प्रियो इति ॥ आत्मा परमात्मैव । सत्यासत्यः । सत्यवचननियामकः । आत्मा परमात्मैव साक्षादीक्षत इति साक्षी । धर्मोधारकः । प्रतापवान्‌ । कीर्तिमान्‌ । यस्याधिकारिणः आत्मा परमात्माप्रियो भवति । सः नन पापानि कुरुत इत्यन्वयः । भगवति प्रीतिमांश्ऱ्च भेदज्ञान्येवेति हृदयम्‌ । एवं भेदज्ञानिनः फलमुक्त्वा ब्रह्मस्तेनस्य अभेदज्ञानिनः फलमाह ॥ जायत्येको म्रियत्वेको श्ऱ्नात्येकः शुभाशुभमितीति ॥ एकः एकत्व ज्ञानी । जायति जायते । म्रियति म्रियते । शुभाशुभमिति द्वन्द्वैकवद्भावः । पापाभिवृद्धावशुभमेव अश्ऱ्नातीति तात्पर्यम्‌ । तानहं द्विषत इत्यादि वचनात्‌ । इति शब्दः श्ऱ्लोकसमाप्तिद्योतकः । तच्छ्लोकोक्तं अप्ययं श्ऱ्वेतकेतुः अबाधितं बुबोधेति श्रुतिः स्वयमाह ॥ तद्धस्य विजिज्ञावितीति ॥ अभ्यासस्तात्पर्यार्थः । विजिज्ञावित्युक्तं किं तज्ज्ञानेनेत्यतो ज्ञानसामर्थ्ये श्ऱ्लोकोप्यस्तीत्याह ॥ तदेषश्ऱ्लोक इति ॥ तमुदाहरति ॥ सर्वभूतात्म भूतेभ्यः सम्यग्भूतानि पश्यतो ॥ देवा अपि मार्गेमुह्यन्ति पदज्ञानात्पदैषिणः ॥ पदज्ञानात्‌ पदैषिण इतीति ॥ छान्दसत्वात्‌ उत्तरार्धस्थ दकारमादाय पश्यत इति रोरुत्वम्‌ । एवं भवति प्रियो इति प्रागुक्तमपि ज्ञेयम्‌ । सर्वभूतानां आत्मभूतेभ्यः स्वामिभूतेभ्यो देवेभ्यः तत्प्रसादादिति यावत्‌ । भूतानि सर्वभूतान्तर्गतानि भगवद्रूपाणि । पूर्णानि वा । सम्यक्‌ पश्यन्तो अपरोक्षीकुर्वन्तो मार्गे पदज्ञानात्‌ भगवत्स्वरूपज्ञानात्‌ पदैषिणः स्वपदप्राप्तीच्छवोदेवा अपि मुह्यन्ति । देवैरप्याकांक्ष्यो अयं ज्ञानिमार्ग इति स्तुतिः इयम्‌ । द्विवर्चनमध्यायार्थस्य सर्वस्यापि प्रामाणिकत्व सूचनार्थम्‌ ॥ इति श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचितस्य श्रीमच्छन्दोगोपनिषद्भाष्यस्य टीकायां वेदेशभिक्षुविरचितायां पदार्थकौमुद्यां षष्ठोऽध्यायः ॥ 6 ॥

*************************************************************************************************

सप्तमोऽध्यायः

नामादि प्राणपर्यं तदव श्रेष्ठाय विष्णवे ॥
सत्याद्यात्मान्तरूपाय नमो भगवते सदा ॥ 1 ॥
पूर्वं जीवभिन्नत्वादिना विष्णोः सर्वोत्तमत्वं निरूपितम्‌ । इदानीं तद्देवतातारतम्यपुरःसरमेव तारतम्यान्तगत्वेन ज्ञातं फलवन्नान्यथेति भावेन देवतातारतम्यकथन पुरःसरं विष्णोः सर्वोत्तमत्वमेव निरूपयत्यनेनाध्यायेन । तत्र यद्वेत्थते नमोपसीदेत्यत्र मेत्यस्य निषेधार्थत्वं प्रतीयते । अस्मच्छब्दरूपत्वेपि तेन मामुपसीदेत्युक्तम्‌ । स्वज्ञानपरित्यागेन आगमनासम्भवेन स्वज्ञानेन सहैव नारदेन आगतत्वादित्यतः तद्वयाचष्ये ॥ यद्वेत्थेति ॥ ननु नारदोक्त विद्यामध्ये ऋग्वेदादि पुराणान्ताः विद्याः प्रसिद्धाः । पित्ऱ्यं राशिमित्यादिकं अप्रसिद्धमतो प्रतिपत्तिनिरासाय पित्ऱ्यमित्यादिकं क्रमात्‌ प्रमाणेनैव व्याचष्ये ॥ पितृलक्षणमित्यादिना ॥ पितॄणां लक्षणं यस्मिंस्तत्पितृलक्षणं श्राद्धकलापः । पूगलक्षणं संख्यासमूहलक्षणं गणितशस्त्रम्‌ । देवानां यथाक्रमं द्वात्रिंशल्लक्षणादि प्रतिपादकं शास्त्रं देवतालक्षणं दैवमुत्पातज्ञानमित्यप्रामाणिकम्‌ । निधिलक्षणमेतादृशस्थले निधिरस्तीत्यादि प्रतिपादकम्‌ । मूलवेदःप्रागेवङ्‌िर्वगदिरूपेण विभक्तः । ततश्ऱ्च प्रागृगादिशब्दैः अवान्तरोवेदोग्राह्य इति भावः । वेदासारोपसंहृतिःमूलवेदसारस्यावान्तरवेदस्य उद्धारश्ऱ्चतुर्विंशत्यादि शाखारूपः । वाकोवाक्यं तर्कशास्त्रमेकायनं नीतिशस्त्रमित्यप्रामाणिकम्‌ । देवविद्यादैवमित्युक्तैवेत्यसत्‌ । तथासति पुनरुक्त्यापातादिति भावेनोक्तम्‌ ॥ देवेति ॥ तुशब्दः पूर्वोक्ताद्विशेषज्ञापनार्थः । देवैरेव ज्ञेयाया विद्यासादेव विद्या । अवधारणव्यावृत्त्यमाह ॥ अमानुषीति ॥ नमानुषैः ज्ञेयेत्यर्थः । अरण्ये अधीयत इत्यारणमुपनिषत्‌ । ब्रह्मविद्याशिक्षाकल्पादिकमित्यप्रामाणिकम्‌ । भूतचिह्नं देवतरभूतचिह्नप्रतिपादकं सामुद्रम्‌ । नीतिकानीति शास्त्रम्‌ । क्षत्रविद्याधनुवेद इत्यप्रामाणिकम्‌ । सर्पलक्षणं गारुडम्‌ । देवपरिचारगागान्धवर्म्‌ । नन्वेवं तर्हि नारदस्य सर्वविद्यावेत्तृत्वेन आत्मविद्यावित्त्वात्‌ कथं सोहं मन्त्रविदेव अस्मिन्न आत्मविदिति स्वस्याज्ञत्वमुच्यते । तन्माभगवांच्छोकस्य पारन्तरयत्विति किमिति कुमारः प्रार्थ्यत इत्याशंकां प्रमाणेनैव परिहरति ॥ विद्यानामिति ॥ सर्व विद्याविदपि पुमानद्धाविद्यानां निणर्याज्ञानादविद्यानित्युच्यते यस्मात्तस्मात्‌ सर्वविद्याविदपि देवर्षिरद्धानिर्णय वित्तयेकुमारमैच्छदित्यन्वयः । ब्रह्मवित्तममिति गुरुत्वप्रयोजकोक्तिः । तेन देवर्षिर्नारदः स्वयं श्रेष्ठोपि प्राकृतपुरुषवत्‌ सनत्कुमारमाससदेति निरस्तम्‌ । सनत्कुमारस्य स्कंदत्वेन तदपेक्षयाप्युत्तमत्वात्‌ । नारदप्रार्थितः कुमारोयद्वैकिंचैतदध्यगीष्ठानामैवैतन्नामवा ऋग्वेद इत्यादिना सर्वविद्यानां नामत्वमाहातत्कस्य नामेत्यत आह ॥ विष्णोरिति ॥ नामोपास्वेतीति विधिवाक्यस्थ नामशब्दस्य प्रसिद्धार्थत्व प्रतीतिं निवारयंस्तदर्थमाह ॥ नामाभिमानिनीति ॥ ननु विधिवाक्ये ब्रह्मेति पूरणीयम्‌ । अन्यथेति शब्दानुपपत्तेः । नाम ब्रह्बमेत्युपास्त इत्यनुवादायोगाच्च । ततश्ऱ्च नाम ब्रह्मशब्दयोः प्रथमान्तत्वेनैक्यदृष्यिः अत्र कर्तव्येत्युच्यत इत्यबुधानां शंकावारणशय तद्वयाचष्ये ॥ तस्यामिति ॥ ननु उषसोश्ऱ्विभार्यायाः नामत्वमेव कथम्‌ । तदभिमानित्वादित्युक्तमेव । तर्हि सर्वविद्याभिमानित्वे भारत्यादिवदमेयत्वं स्यादित्याशंकां नाम शब्नदनिर्वचनेनैव परिहरति ॥ यदिति ॥ एषा यस्मात्‌ अमेयानैव ततो नामेति स्मृता । अमा अमेयान भवतीति नामेति निर्वचनात्‌ । इयं कुतो नामेयेत्यत उक्तम्‌ ॥ मीयत इति । रात्रिमानं अजानद्भिः उषस्युषः काले ध्रुवं मीयते । तदभिमानित्वात्‌ । यस्मात्तस्मान्नत्वमेयेत्वन्वयः । खं-1 ॥ वाग्वाव नाम्नो भूयसीति द्वितीयखण्डतात्पर्यमाह ॥ तस्या इति ॥ स्वाहाग्निः भार्या । तथाशब्द उपमायाम्‌ । सर्वदेत्यस्य विवरणं विमुक्तौ बन्धेचेति । श्रुतौ वाग्भूयसीति श्रवणात्‌ कथं स्वाहेत्युक्तिरित्यत आह ॥ वाच इति ॥ वागिन्द्रियस्य । वसोरग्नेरंचनात्‌ पूजनाच्च वाङ्‌नाम्नीः । खं-2 ॥ मनःशब्दस्य प्रसिद्धार्थत्वं प्रतीतिमपाकुर्वन्‌ मनोवाव वाचोभूय इति खण्डतात्पर्यमाह ॥ एवमिति ॥ चशब्दाद्बन्धे च । पर्जन्यः कश्ऱ्चिदादित्यः । सर्वतः सर्वैः गुणैः । कथं तर्हि श्रुतौ मनःशब्दप्रयोग इत्यतः पर्जन्ये श्रौतमनःशब्द प्रयोगं द्वेधा घटयति ॥ मनोभिमानीति ॥ वष्ययांकुरादेः निर्माणतश्ऱ्चमनः । मानिर्माण इति धातोः ॥ ख-3 ॥ संकल्पोवाव मनोभूयानित्येतद्वयाचष्ये ॥ तथेति ॥ श्रौत संकल्पशब्दोपपत्तिः संकल्पदेवतेति । यस्मादह्निसंकल्पयेत्‌ । प्रजानां संकल्पमुत्पादयेत्ततः संकल्पनामक इत्यर्थः । अह्नीति विशेषणकृत्यमाह ॥ स्वप्स्यन्तीति ॥ निशि संकल्पाभावादेव अह्नीत्युक्तमिति भावः । अह्नीति स्वापकालातिरिक्तकालपरम्‌ । चित्तं वाव संकल्पाद्भूय इत्येतद्वयाचष्ये ॥ तथेति ॥ श्रौत चित्तशब्दं द्वेधा घटयति ॥ चित्तस्येति ॥ चितत्वात्‌ यज्ञकुण्डेचितत्वाच्च । ध्यानं वावचित्ताद्भूय इत्येतद्वयाचष्ये ॥ तस्मादिति ॥ एवेति प्रसिद्धार्थं व्यावर्तयति । तस्मादग्नेः वरुणोमुक्तौ वर इत्यर्थः । तत्र ध्यानशब्दं द्वेधा घटयति ॥ ध्यानस्येति ॥ सत्यानृतविवेकार्थं ब्रह्मणानिधानतश्ऱ्च तन्नामाध्याननामेत्यर्थः । विज्ञानं वावध्यानाद्भूय इत्येतद्वयाचष्ये ॥ तथेति ॥ सत्यस्य विवेचनात्‌ तन्नामेत्यन्वयः । बलं वावविज्ञानात्‌ भूय इत्येतद्वयाचष्ये ॥ तस्माच्चेति ॥ चस्त्वर्थः । प्रधानवायुव्यावृत्त्यर्थं भूतात्मक इत्युक्तम्‌ । बलात्मको बलस्वरूप इति बलशब्दोपपत्तिः । तथाशब्देन बलदेवतात्वं समुच्चीयते । अन्नं वावबलाद्भूय इत्येतद्वयाचष्ये ॥ तस्मादिति ॥ अन्नदेव इत्यन्नशब्दोपपत्तिः । अनुनादित्वात्‌ युद्धादौ शुत्रुभीषक शब्दवत्त्वादित्यर्थः । अपोवावान्नाद्भूय इत्येतद्वयाचष्ये ॥ तैजसेति ॥ तथा ततो अनिरुद्धात्तैजसाहं भवस्तैसाहंकारादुत्पन्नो वविष्ठ इत्यन्वयः । सक इत्युक्तम्‌ । प्राणाख्योवायुरिति । परप्राणव्यावृत्त्यर्थं तैजसाहंभव इत्युक्तम्‌ । अप्‌शब्दमुपपादयति ॥ स इति ॥ देहसंव्याप्तेश्ऱ्च अम्नामाम्‌ । तेजोवावाद्भयोभूय इत्येतद्वयाचष्ये ॥ तथेति ॥ वरिष्ठ इत्यनुवर्तते । तेजःशब्दं योजयति ॥ तेजोभिमानीति ॥ तेज आत्मकश्ऱ्चेति शेषः । प्रकाशरूपस्य तेजसः सूर्यादिधर्मत्वदाह ॥ तेज इति ॥ ओजः पराभिभवशक्तिः । आकाशो वाव तेजसोभूयानित्येतद्वयाचष्ये ॥ तथेति ॥ तथाशब्द उपमायाम्‌ । एवशब्दः प्रसिद्धव्यावृत्त्यर्थः । चशब्दो वा आरुण्यादि समुच्चयार्थः । स्मरोवाव आकाशाद्भूयानित्येतद्वयाचष्ये ॥ तस्या इति ॥ सदाशिव एव । स्मरब्दं योजयति ॥ स्थिरेति ॥ सममेकप्रकारमेव । रतेः भगवतिरमणाच्च स्मर इत्यर्थः । आशावाव स्मराद्भूयसीत्येतद्वयाचष्ये ॥ मूख्येति ॥ मुख्यवायुः ब्रह्म । तस्मातथ सादाशिवात्‌ सरस्वत्येव । सर्वगुणैः बन्धमुक्त्योः परमेत्यन्वयः । आशाशब्दोपपादनमाशास्वरूपिणीति आशादेवता च । आशाशब्दं तस्यां निर्वक्ति ॥ शमिति ॥ प्राणोवा आशायाभूयानित्येतद्वयाचष्ये ॥ तस्या इति ॥ प्राण शब्दं निर्वक्ति ॥ प्रकृष्यानामिति ॥ प्रकृष्यानां नामादि सरस्वत्यन्तानाम्‌ । नायको यतोतः प्राण नामा । चशब्देन प्राणदेवतात्वं समुच्चीयते । प्रकारान्तरेण प्राणशब्दं निर्वक्ति ॥ ण इति ॥ हि यस्मात्‌ ण इत्यनेनैव शब्देन आनन्दः समुदीरितः तस्मात्‌ आणासरस्वती । पूर्णानन्दत्वात्‌ । ततश्ऱ्च तदपेक्षयाप्रकृष्य सुखात्मको वायुः प्राण इत्युच्यते । आणायाः प्रकृष्यः प्राणः प्रकृष्यत्वं च सुखरूपत्वेन एवेति भावः । नामादि प्राणान्तानां आधिक्यमुक्तम्‌ । तत्र विशेषमाह ॥ सर्व इति ॥ दशशब्दो यथायोग्यं बहुत्ववाची । उक्तापवादमाह ॥ पर्जन्येति ॥ स्वाहायाः पर्जन्यः तस्मान्मित्रस्तस्मात्‌ शिखी अग्निः । सोमाद्भूत वायुः द्विगुणः इति द्विगुणा एव । अनिलाद्भूत वायोः पादेनोनः पादोनः । सः वरुणः सोमतोऽध्यर्धोनः पादपादार्धोनः । आशामुख्यवायुश्ऱ्चेत्तौ शिवात्‌ । अस्याः आशायाः क्रमेण शतोत्तरावित्यर्थः । एवं च दशोत्तरा इति सामान्य वचनस्योक्तातिरिक्त विषयत्वं मन्तव्यम्‌ । ततश्ऱ्चायं विवेको भवति । पुष्करोनाम कर्माभिमानी सर्वावरोग्राह्यः । अन्यत्रोक्तत्वात्‌ । ततो नामदशोत्तरम्‌ । नाम्नः स्वाहादशोत्तरा । तस्याः पर्जन्योद्विगुणोत्तरः । ततो मित्रो द्विगुणः । मित्रादग्निः द्विगुणः । अग्नेः वरुणः पादाधिकः । वरुणात्‌ सोमः पादार्धतोधिकः । सोमात्‌ प्रवहः द्विगुणोत्तरः । भूतवायोः अनिरुद्धः पंच गुणः । अनिरुद्धा त्तैजसाहंभवो दशेत्तरः । तस्मात्‌ पुरंदरोदशोत्तरः । तस्मात्‌ उमादशोत्तरा । उमायाः शिवोदशोत्तरः । शिवादाशाशतोत्तरा । तस्यामुख्यवायुः शतोत्तर इति । ननूक्तानां क्वचिदन्यथापि संख्योक्तेः कथमयं नियम इत्यत आह ॥ संख्येति ॥ यत्रोक्तानां संख्यान्यथात्वं स्यात्तत्रोत्तमावेशविशेषतः तद्घटनीयमित्यर्थः । आवेश विशेषतोपि संख्यान्यथात्वे भवदुक्तं नियमभंग इत्यत आह ॥ अवराणामिति ॥ परमीयत्वतः उत्तमाधीनत्वात्‌ । तथाच अधमगुणानामप्यत्तमीयत्व विवक्षयोत्तमानां क्लृप्तापेक्षयाधिक्योक्तिरति भावः । प्रश्ऱ्नप्रतिवचनाध्याहारेण सत्यं वाव प्राणाद्भूय इति वाक्यं नामादि प्राणान्तनामिव परिमितत्वशंकां निवारयन्‌ व्याचष्ये ॥ प्राणादिति ॥ यो वैभूमातदमृतमित्यस्यार्थो नित्यमुक्त इति । यत्र नान्यत्‌ पश्यतीत्यस्य अर्थो नित्यशक्तिरिति । स एवाधः तादित्यादेः तात्पर्यं नित्योद्रिक्तेति । नामादि प्रकरणं मुक्तावपि तारतम्यपरमिति प्रमाणेनैव व्याख्यातम्‌ । तत्र तैत्तिरीयसमाख्यामप्याह ॥ सैषेति ॥ इयं च मुक्ततारतम्यपरेत्यन्यत्रोक्तम्‌ । तैत्तिरीय श्रुतावपि नामादि क्रमाभावान्नामादीनामेव मुक्तौ तारतम्यपरं श्रुत्यन्तरमाह ॥ अथेति ॥ सम्भूतिरुत्पत्तिः कथ्यते । विद्यारमाजायत इति प्रत्येकं सम्बध्यते । श्रद्धातत्पत्नी । बुद्धिरुमा । तेषां पूर्वोक्तानां मध्येपरःपरः पूर्वपूर्वक्तो गुणैः र्ज्यायान्‌ । उत्तर उत्तरः उत्तरोत्तरोक्तः प्रत्यवर इत्यर्थः । तत्र हेतुमाह ॥ परस्मादिति ॥ मुक्तमेव विवृणोति ॥ स्वमिति ॥ मुक्तिः हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिरिति वचनात्‌ । उक्तपारावर्यस्य मोक्षावधिकत्वशंकां परिहरति ॥ नैषामिति ॥ स्वाभाविकस्यापि प्रबलकारणवशादुच्छित्तिशंकायामाह ॥ नैषामिति ॥ नाम ब्रह्मेत्युपास्वेत्यारभ्य प्राणो ब्रह्मेत्युपास्वेत्यं तेषु बहुषु स्थलेषु सामानाधिकरण्य श्रवणात्‌ तत्तदभेदेनैवोपास्तिः कार्येति प्रतीतिं निवारयंस्तानिवाक्यानि प्रमाणेनैव व्याचष्ये ॥ नामादीति ॥ ननु प्रतिमायां विष्णूपास्तिवत्‌ नामादिषु ब्रह्मोपास्तौ तदभेदेनोपास्तिः प्राप्तेत्यत उक्तम्‌ ॥ एभ्योभेदतश्ऱ्चेति ॥ नमादि प्राणान्तेषु ब्रह्मोपास्तिः कर्तव्येत्य युक्तम्‌ । नामादीनां तरतमभावे न तद्गत ब्रह्मणो पितरतमभावापत्तेरित्याशंकां स्मृत्यैव परिहरति ॥ उषादीति ॥ उषेत्याकारान्तोप्यस्ति । सूषा च मे सुदिनं चम इत्यादि प्रयोगदर्शनात्‌ । समः स्वरूपेण । उत्तरोत्तरेध्यात इत्यन्वयः । कुत इत्यत आह ॥ उत्तमेष्विति ॥ यत उत्तमेषूत्तमाप्रीतिः भगवतः ततस्तत्रोत्तमेषु स्मृतोध्यातुरप्युत्तमां प्रीतिं यायादित्यन्वयः । न केलवमुत्तमोत्तमेषु भगवदुपास्तेः एव फलहेतुत्वम्‌ । किन्तु तत्तारतम्यज्ञानपुरःसरमेवेत्याह ॥ तारतम्येति ॥ तदविहाय । ध्यातोध्यानेन प्रीतः । अन्यथा तारतम्यपरिज्ञानं विना । नाम ब्रह्मेत्यादौ नामादिशब्दः सप्तम्यर्थतया व्याख्यातः । तदेव स्पष्यप्रमाणेन द्रढयन्नर्थान्तरमाह ॥ नामादीति ॥ प्राणपयर्न्ताः सर्वशः शब्दाः तृतीयार्थत्वेन अम्ना ब्रह्मोपास्व इति । पंचम्यर्थत्तु नाम्नोभ्यिक्तं ब्रह्मेति ॥ षष्ठयर्थत्वे नामनः प्रीतिविषयो ब्रह्मेति । चतुर्थ्यत्वे तु नाम्ने फलप्रदं ब्रह्मेति । उपास्वेति वाक्य योजनाद्रष्यव्या । यद्वै किंचिदध्यगीष्यानामेव एतदित्यादौ यत्र कुत्रचिच्छतानां नामादि प्राणान्तशब्दानां सप्तम्याद्यर्थत्व प्राप्तावाह ॥ त इति ॥ तदासप्तम्यर्था इति पूर्वेण सम्बन्धः । ननु प्रथमासप्तम्याद्यर्थेति इत्युक्तम्‌ । प्रयोगावात्‌ । नियामकाभावाच्चेत्यतः प्रयोगं तावदाह ॥ ब्राह्मण इति ॥ ब्राह्मणोस्य मुखमित्यत्र मुखमिति प्रथमायद्वत्‌ यथापंचम्यर्था । यथा आत्मावै पुत्रनामासीत्यत्रात्मेति प्रथमा आत्मनः पुत्र इति षष्ठयर्था यथा चादित्योयूप इत्यत्र यूप इति प्रथमा सप्तम्यर्था । सामानाधिकरण्यस्य बाधितत्वात्‌ । एवमेष नामादिशब्दः पंचम्याद्यर्थः प्रकीर्तित इत्यर्थः । नियामकं सूत्रं पठति ॥ सप्तस्विति ॥ प्रतीतं नामादेः ब्रह्मैक्यमेवार्थः किं न स्यादित्यतः तत्र बाधकमाह ॥ भूयोभूयस्त्वत इति ॥ वाग्वावनाम्नो भूयसीत्यादिना वागादीनां नामादिभ्य उत्तरोत्तरं भूयस्त्वोक्तेः ब्रह्मरशष नामाद्यात्मकत्वे ब्रह्मण एवोत्तमाधमत्व प्रसंगान्नैवमित्यर्थः । अस्त्वेवं मनो हि ब्रह्मेत्यादि वाक्यस्यार्थः । स योनाम ब्रह्मेत्युपास्ते वाचं ब्रह्मेत्युपास्त इत्यादि वाक्यस्य तु कथम्‌ । नहि प्रथमावत्‌ द्वितीयायाः सप्तम्याद्यथर्त्वे नियामकमस्तीत्याह ॥ षट्‌त्वति ॥ नामरूपे व्याकरोदिति श्रुतेः । परस्य नामात्‌ उत्पत्तिकारणत्वाच्च । न तदात्मकं ब्रह्मांगीकार्यमित्याह ॥ कारणत्वादिति ॥ ननु वयमपि न नामात्‌ आत्मकं ब्रह्मेति ब्रूमः । किन्तु नामाद्यात्मकतया ध्यानं कार्यमिति । अविद्यमानस्यापि ध्यानसम्भवादित्य आह ॥ नहीति ॥ न केवलं पुरुषार्थाभावः । किन्त्वित्यत आह ॥ अनर्थश्ऱ्चेति ॥ तस्मादधमस्योत्तमत्व ध्यानात्‌ । तत्र दृष्यान्तमाह ॥ भृत्य इति ॥ बोधोध्यानम्‌ । ननु न वयं नामादौ ब्रह्मत्वबोधः कार्य इत्यर्तं ब्रूमः । किन्तु ब्रह्मणीवानामदौ पूजाकायर्ेति । तद्भिन्नत्वेन ज्ञानेपि तत्पूजाकरणोपपत्तेरित्यतः तत्रप्यनर्थं सदृष्यान्तमाह ॥ राजेति ॥ कुर्याद्यस्तमिति शेषः । भृत्यश्ऱ्च हिनस्ति । स्वपूजकं कथं हिनस्तीत्यत उक्तं तद्वशत्वादिति । राजवशत्वात्‌ । अन्यथाराजोल्लंघनेन स्वस्यापराध प्राप्तेः । उपास्ते पूजयति । इतराणि नामादीनि । उपसंहरति ॥ तस्मादिति ॥ तान्‌ नामादीन्‌ तथा ब्रह्मत्वेन । किंच नामादि प्राणपर्यन्तं च त्वन्मते ह्यचेतनमेव । नच तद्ब्रह्मत्वेन उपासितं फलदमिति भावेनाह ॥ अचेतनमिति ॥ अयोग्यं यथा ब्रह्मणि सोरोदीदित्यादि प्रतीतं रोदनादि । अतात्विकमिति वचनेनातात्विकमेवैक्यं तताध्येयमिति निरस्तम्‌ । ननु यज्ञेदर्भचर्मादीनां अचेतनानामेव फलप्रदत्वं श्रूयते । तथाच कथमचेतनोपास्तिः अनर्थफलेत्यत आह ॥ दर्भेति ॥ अतः अचेतनोपास्तेः अनर्थफलत्वादेव । तत्र श्रुतौ दर्भादिशब्दाः तदभिमानि देवता परा इत्यर्थः । ननु यस्य कस्याचिदचेदनस्य फलदत्वाभावेपि यज्ञाद्युपयुक्तं
फलप्रदं किं न स्यादित्यत आह ॥ नहीति ॥ ननु रसौषधादीनां अचेतनानामेव सेवितानां आरोग्यादिफलप्रदत्व दर्शनात्‌ कथमेततदित्यत आह ॥ औषदेति ॥ स्थिता इति शेषः । एतस्मादचेतनस्य फलदत्वाभावात्‌ । एवं चेदौषधादिः तदेव अज्ञस्यौषधगअहणे फलं न स्यादित्यतो देवानां स्वभावमुत्तरमाह ॥ औषधादि स्थिता इति ॥ अनेन वरप्रदा इत्युक्तं विवृतम्‌ । उक्तमर्थं सदृष्यान्तमुपपादयति ॥ यथेत्यादिना ॥ ग्रामप्राप्तिः ग्रामलाभः राजाज्ञस्याप्यन्यस्मात्‌ ग्रामलाभदर्शनादुक्तम्‌ ॥ तत इति ॥ राज्ञः । एवमिति दार्ष्यान्तिकोक्तिः । अल्पतः दृष्यफलस्य भोजनवदल्पत्वात्‌ । नचौषधादिस्थिता देवा अज्ञस्यापि दृष्यफलं दद्युश्ऱ्चेत्कथं औषधस्वकीरेपि रोगानिवृत्तिः इत्यतः तद्दानेपि निमित्तमाह ॥ किंचिदिति ॥ तच्च दृष्यमपि फलम्‌ । किंचिज्ज्ञानपूवर्कृता दृष्य सहकारादेव भवेत्‌ । अन्यता नव । ततश्ऱ्च तस्यादृष्याभावादेव रोगानिवृत्तिः इति भावः । अचेतनमयोग्यं चेत्युक्तमुपसंहरं स्तदुपासावर्जनाधिकारिणमाह ॥ तस्मादिति ॥ असत्यां अयोग्यामिति तदुपासोपलक्ष्यते । हरिप्रियानिच्छायां बाधकं सूचयति ॥ अथेति ॥ दर्भचर्मादयश्ऱ्चातो देवता ह्यभिमानिन इत्युक्तोर्थे सूत्रं पठति ॥ अभिमानीति ॥ मृदब्रवीत्‌ आपो ब्रुवन्‌ इत्यादौ मृदाद्यभिमानि देवता व्यपदिश्यत इत्यर्थः । यदुक्तं नह्यचेतनकं किंचित्फलदं स्यादिति । तदयुक्तम्‌ । पयसोऽचेतनस्यापि दध्याकारेण परिणामदशर्नात्‌ । अचेतनस्यैव अम्बुनोगति दर्शनात्‌ । कूलस्य पतन दर्शनात्‌ । तद्वदचेतनस्यापि दर्भादेः फलदानादौ प्रवृत्तिः किं न स्यादित्याक्षिप्यसमादधत्‌ सूत्रमेव उन्यस्यति ॥ पयोम्बुवदिति ॥ न पयोम्ब्वादि निदर्शनात्‌ अचेतनस्यापि फलदानादौ प्रवृत्तिः कल्प्या । तत्रापि पयोम्ब्वादि प्रवृत्तावपि ईश्ऱ्वरनिमित्तत्वाभिधायक श्रुतेः इत्यर्थः । साचैतस्य वाऽक्षरस्य प्रशासने गार्गिप्राच्योन्यानद्यः स्यन्दन्ते इत्यादिका । दर्भचर्मादय इत्युक्तार्थेऽभिमानीति सामान्य सूत्रं पठतम्‌ । विशिष्यतत्परमेव देवतामीमांसा सूत्रं पठति ॥ देवेष्विति ॥ अचेतनं अयोग्यं चेत्युक्तार्थेपि तत्सूत्रमेव पठति ॥ अचेतनेति ॥ अचेतनमसत्यमयोग्यं च नोपास्यं फलाभावात्‌ । विपरीतफलप्राप्तेः च इति सूत्रार्थः । देवेष्विति सूत्रविषयवाक्यं दर्शयति ॥ ओषधय इति ॥ राज्ञासोमेन लतारूपेण सहौषधयः संवदन्ते संवादं कुर्वन्तीत्यर्थः । हे ग्रावाणो वोयुष्मान्‌ सविता देवो धर्मेण प्रसुवत्वित्यर्थः । चर्मादेः फलदत्व श्रुतिरप्युदाहर्तव्या । तता चौषधि चर्मग्रावादिनामानि । तदभिमानि देवेष्वेव वर्तन्ते । न अचेतनेषु । ओषधीनां संवाद श्रुतेः । चर्मदर्भानां फलदत्व श्रुतेः । ग्राव्णां सवितृसुतत्वं श्रुतेः । तच्च देवेष्वेव सम्भवति । नाचेतनेष्विति सूत्रार्थः । न केवलं जडे संवादकतर्ृत्व फलदातृत्वाद्यसम्भवः । किन्तु सर्वप्रवृत्तीनां ईश्ऱ्वर निमित्तत्वस्य श्रुतिसिद्धत्वाच्च किंचिदपि न स्वतन्त्रमित्याह ॥ न ऋत इति ॥ ननु चेतन देवता ग्रहेण संवादोपपत्तावपि फलदातृत्वं कथमुपपन्नम्‌ । देवानां यजमानफलदानेच्छायामपि अन्येन विघातकरण सम्भवादिति चेत्‌ । न । किमन्योमनुष्यः । उत देवः । नाद्यः । तत्र तस्याऽसमर्तत्वादिति भावेन श्रुतिमाह ॥ नेति ॥ देवानां व्रतं संकल्पमतिक्रम्य शतायुरपि न जीवति । किम्वल्पायुरित्यर्थः । न द्वितीयः । अन्यदेव कृतविघ्नसद्भावे देवानां फलदानेच्छाया एवाभावात्‌ । देवानां अमोघेच्छत्वादिति भवेन श्रुतिमाह ॥ अनेहस इति ॥ हे देवाः वः ऊतयः इच्छाः । अनेहसोनिष्पापाः अमोघा इति यावत्‌ । अत एव वोयुष्माकमूतयः इच्छाः । सु ऊतयः सम्यग्रक्षका इत्यर्थः । श्रूयते चाब्देवतानां फलदातृत्वादि सामथ्यर्मिति भावेन श्रुतिमाह ॥ द्यावापृथिवीति ॥ आपोम्नामानो देवासोदेवाः द्यावापृथिवी व्रतानियज्ञादि कर्माणि वनिनानि वन्यानि यज्ञियानि यज्ञयोग्यानि ओषधीश्ऱ्च अभिजनयन्नभ्यजनयन्त । अन्तरिक्षं स्वश्ऱ्चोतयेरक्षायै आपप्रुरापूरयन्‌ । तत्र वशं यथेच्छंन्तन्वीः तनूःयोग्यं शरीराणि निमेमृजुः । शुद्धान्यकुर्वन्नित्यर्थः । ननु नर्तेत्वत्क्रियते किंचनार इति श्रुति बलादीश्ऱ्वर व्यतिरेकण अचेतनप्रवृत्त्यभावेपि देवतायतिरेकेण किं न स्यादित्याशंकां परिहर्तुं स्मृतिमाह ॥ अचेतनमिति ॥ अचेतनादिकं चेतनादिभ्य एव स्वभावादिकं प्राप्नोतीत्येतद्वयतिरेकेणोपपादयति ॥ कश्ऱ्चिदिति ॥

एतच्चेतनादिक मृते तेषां अचेतनादीनां काचन कोपि भावोनस्यादिति योजना । नन्वचेतनं चेतनेभ्य इत्ययुक्तम्‌ । चेतनं विहायाचेतनस्यैव प्रवृत्तिसम्भवादिति चेत्‌ न । तत्र प्रमाणाभावात्‌ । न तावत्‌ तत्र प्रत्यक्षम्‌ । दृष्यान्ताभावेन अचेतनप्रवृत्तेः अनुमातुं अशक्यत्वादित्याह ॥ अचेतनेति ॥ तुशब्दः स्वत इति विशेषार्थः । एवमचेतनस्य स्वतः प्रवृत्तिरित्येतत्‌ । प्रमाणाभावेन निराकृत्यचेतनेभ्य एव प्रवृत्तिरित्यत्र प्रमाणं चाह ॥ चेतनानामिति ॥ विप्रतिपन्नं कार्यं चेतनेच्छाधीनं कार्यत्वात्‌ पटादिवदित्यनुमानसत्त्वादचेतनस्य चेतनेभ्य एव प्रवृत्तिः । नच पटादि सृष्ययादावपि न चेतनव्यापार इति वाच्यम्‌ । अहंकरोमीति चेतनस्य प्रवृत्तिदर्शनादिति भावः । न चेदं व्यवहारमात्रम्‌ । बाधकाभावात्‌ । अन्यथा विशिष्यज्ञानमात्र लोपप्रसंग इति । नन्वचेतन प्रवृत्तौ न दृष्यान्तोस्तीत्ययुक्तम्‌ । अदृष्यकतर्ृक कूलपतनादि दर्शनेत त्यैव दृष्यान्तातत्वोपपत्तेरित्यत आह ॥ अदृष्यमिति ॥ विप्रतिपन्नं कूलपतनं सकर्तृकं पतनत्वात्‌ देवदत्तकृतपतनवदिति वा । कार्यत्वात्‌ घटवदिति वा । दृष्यकर्तृकवददृष्यकर्तृकमपि सकर्तृकमनुमेयमित्यथर्ः । नन्वदृष्यकर्तृकं कूलपतनादिकं अचतनाधीनमेव किं न स्यात्‌ । तद्वद्दृष्य कर्तृकस्याप्यचेतननाधीनत्वोपपत्तेः इत्याशंकां परिहरति ॥ यथेति ॥ अदृष्यप्रणेतृकं विसर्पत्तण्डुलं दृष्ट्वा तत्र यथा पिपीलिका कल्प्या । विप्रतिपन्नं तण्डुलं पिपीलिका अधीनविसर्पणवत्‌ । अनुपलभ्यमान प्रणेत्रन्तरत्वे सति विसर्पत्तण्डुलत्वात्‌ । सम्प्रतिपन्नवदित्यनुमेयम्‌ । नतु तददृष्यप्रणेतृकं तण्डुलं दृष्ट्वैव दृष्यप्रणेतृका नाम पिपीलिकसर्पणं कल्प्यम्‌ । प्रत्यक्षबाधात्‌ । एवं दृष्यकर्तृका चेतनानसिरेण अदृष्यकर्तृकमचेतनं चिदधीनम्‌ । नत्वदृष्यवद्दृष्यमित्यर्थः । इदमुक्तं भवति । यद्यदृष्यकर्तृकं कूलपतनमचेनाधीनं स्यात्‌ । तर्हि अदृष्यकर्तृकं तण्डुलविसर्पणमपि अचेतनाधीनं स्यात्‌ । अविशेषात्‌ । नच तदस्तिदूरतः । पिपीलिकानुपलम्भेपि समीपे तदुपलम्भात्‌ । यदि चादृष्यपतंनवद्दृष्यमपि न चेतनाधीनं तर्हि दृष्यपिपीलिका विसर्पणमपि न चेतनाधीनं स्यात्‌ । अविशेषादिति । न्वथापि दैवतेभ्यश्ऱ्चेतना इत्याद्यनुपपन्नम्‌ । अदृष्यानामेव देवतेश्ऱ्वरादीनां कल्पने कल्पनागौरवापातात्‌ । ततो वरं चेतनानामेव स्वतः प्रवृत्तिरिति लाघवादित्यत आह ॥ दुर्घटेति ॥ न देवतानां ईश्ऱ्वरस्य वाकर्तृत्वांगीकारे कल्पनागौरवम्‌ । श्रुत्यादि सिद्धत्वात्‌ । नचानुपलब्धिविरोधः । तेषां दुर्घटशक्तियोगेन अनुपलब्ध्युपपत्तेः । नच सापि कुतः । लोके पिशाचादीनां अनीश्ऱ्वराणां तादृशशक्तिमत्त्वे सर्वेश्ऱ्वराणां सुतरां तत्सिद्धेरिति भावः । एवं नाम ब्रह्मेत्युपास्वेत्यादौ नामादिशब्दा देवतापरा एव । नाचेतनपरा इति संक्षेपविस्तराभ्यां व्याख्यायेदानीमादितः प्रकरण शुध्याव्याख्यास्यन्‌ वाग्भूय्त्वखण्डे हृदयज्ञशब्दं मनोज्ञत्व प्रतीतिं निवारयन्‌ व्याचष्ये ॥ हृदयज्ञ इति ॥ ननु हृदयशब्दस्य मनसि रूढत्वात्‌ कथं भगवत्परत्वमित्यतः तत्र योगं दर्शयति ॥ हृदीति ॥ अयनाद्गमनात्‌ प्रवर्तनादित्यर्थः । तथापि मुख्यरीढिपरित्यागेन अमुख्ययोगांगीकारो न युक्त इति चेत्‌ । हृदयशब्दस्य ब्रह्मण्येव विद्वद्रूढिसद्भावेन मुख्यत्वादिति भावेन श्रुतिमाह ॥ उदरमिति ॥ हृदयं ब्रह्मेत्यस्यैव प्रकृतो उपयोगेपीति शब्दान्वयप्रतीत्यथर्ं प्राचीनवाक्योदाहरणम्‌ । ब्रह्मप्रकरणमेतदिति ज्ञापयितुं वा । मनोभूयस्तु अखण्डे द्वेवाव कोलेबदरफले इत्यन्यथा प्रतीतिनिरासाय कोलशब्दार्थमभिदानेनाह ॥ कोलमिति ॥ संकल्पभूयस्त्वखण्डे संकल्पनामकस्य मित्रस्य समक्लृकतां द्यावापृथिवीत्यादिना सर्वं संकल्प्यत इत्यन्तेन भूतभौतिकादि सर्वसंकल्पकत्वमुच्यते । तत्र विशेषप्रमाणेनैव आह ॥ भूतानामिति ॥ भूतानां द्वयादिषण्णां भौतिकानां वषर्ान्न प्राणानाम्‌ । आहुतिगणेति कर्मशब्द व्याख्यानम्‌ । चशब्दाल्लोक सर्वयोर्ग्रहणम्‌ । भूतानामित्याद्यनुवादेन अचेतनगणस्येति व्याख्यानम्‌ । नन्वेतेषशं चिदचित्त्वविभागे सत्येवं व्याख्यानं युक्तम्‌ । स एव कुतः । अचेतनगणकल्पकोमित्रश्ऱ्चेतनगणकल्पकः क इत्यत आह ॥ प्राणा इति ॥ क्रमोनि विवक्षितः । उभयकार्ययापि दर्शनादिति भावः । चितां वाय्वादय इत्यनेन बलभूयस्त्वखण्डे बलेनैव पृथिवी तिष्ठति बलेनान्तरिक्षमित्यादिकं व्याख्यातम्‌ । ननु सर्वं संकल्प्यत इत्युपसंहारे सर्वशब्द श्रवणात्‌ कथं अचितां कल्पक इति व्याख्यातमित्यतो विशेषवचनानुसारेण सामान्य सर्वशब्दः संकोचनीय इति भावेनाह ॥ सर्वमिति ॥ ननु चित्तशब्दस्य स्मरणार्थत्वात्‌ स्मरशब्देनैकार्थतेत्याशंकां तयोः अर्थ भेदकथनेन परिहरति ॥ अस्थिरेति ॥ यदयं वेद यद्वा अयं विद्वानित्यत्र पुनरुक्तिं परिहरति ॥ वेदनमिति ॥ चित्तं ह्येवैषामेकायनं चित्तम्‌ । प्रतिष्ठेत्यत्रायतनप्रतिष्ठा शब्दयोरेकार्थत्वप्रतीतिं निवारयति ॥ मोक्ष इति ॥ उपचारतो मुख्यतो अवस्थामायतनमित्यर्थः । ध्यानभूयस्त्वप्रकरणे ध्यायन्तीवदेव मनुष्या इत्युच्यते । तत्र मनुष्याश्ऱ्च देवाश्ऱ्चेति वा । मनुष्या एव देवसमादेव मनुष्या इति वान्यथा प्रतीतिनिरासाय प्रमाणेनैव व्याचष्ये । देवा इति ॥ ततश्ऱ्च कर्मधारय एवाश्रयणीय इति भावः । ध्यायन्तीव । न वस्तुतो ध्यायन्तीति प्रतीति निरासाय तद्वयाचष्ये ॥ ध्यानमिति ॥ युधिष्ठिरादीनामपि बहभाषित्वात्‌ कथमेदित्यतः तदेव विवृणोति ॥ ब्रूयुरिति ॥ तेषामपि द्यूतहेतुवचन दर्शनात्‌ प्रायश इत्युक्तम्‌ । ननु विज्ञानात्‌ बलस्य भूयस्त्वं कथमुच्यते । अज्ञानिनोपि शारीर बलदर्शनादित्यत आह ॥ बलमिति ॥ बलशब्देन द्विविधमपि बलं विवक्षितम्‌ । तत्र बाह्मबलस्य ज्ञानात्‌ भूयस्त्वाभावेपि मुक्तिज्ञतालक्षणज्ञान बलस्य भूयस्त्वोरिति भावः । एवं तर्ह्यन्नस्य बलाद्भूयस्त्वोक्तिः अनुपपन्ना । बाह्यबलं प्रत्येवान्नस्य कारणत्वेन भूयस्त्व सम्भवेपि ज्ञानफलं प्रत्यनुपपत्तेरित्यत आह ॥ अन्नमिति ॥ तर्ह्यपां कथमन्नाद्भूयस्त्वमुच्यते । द्विविधान्नादपां भूयस्त्वाभावादित्यत आह ॥ आपश्ऱ्चेति ॥ द्विविधाः प्रोक्ताः । आन्तराबाह्याश्ऱ्चेति शेषः । उभयं क्रमेण लक्षयति ॥ तृप्तिरिति ॥ द्रवरूपकाः स्वाभाविक द्रवत्वोपेताः । तर्हि तेजसः कथमद्य्भोभूयस्त्वोक्तिः इत्युक्तशंकानिरासायाह ॥ एवमिति ॥ परमित्यतो बाह्याद्य्भोबाह्यन्तेजः परमिति शेषः । एवं सत्याकाशस्य तेजसो भूयस्त्वोक्तिं घटयति ॥ आकाश इति ॥ आकाशश्ऱ्च द्विधैव अन्तस्थो बाह्यगश्ऱ्चेति शेषः । उभयं क्रमेण दर्शयति ॥ स्थिरेति ॥ किंतत इत्यत आह ॥ स्थिरेति ॥ चंचलायाः प्रतिभायाः चंचलप्रतिभज्ञानात्स्थिरा प्रतिभा श्रेष्ठा । एवं बाह्य तेजसो बाह्याकाशश्ऱ्च पर इति ज्ञातव्यम्‌ । स्मरोवावाकाशाद्भूयानिति वाक्यं योजयति ॥ स्मराभिधेति ॥ अकारप्रश्ऱ्लेषेणा चंचलाया इत्यत्रापि सम्बध्यते । अचंचलायाः स्थिरप्रतिभायाः स्मराभिधैकधैव स्मृतिध्यर्ानरूपा श्रेष्ठेत्यर्थः । आशावाव स्मराद्भूरसीत्यस्यार्थमाह ॥ आशेति ॥ एकधैव स्मृतेः आशाख्यमपरोक्ष दृगात्मकं सुखं श्रेष्ठम्‌ । दृगात्मकमित्यभेदोपचारः । प्राणोवा आशाया भूयानिति वाक्यं योजयति ॥ तत इति ॥ ततो परोक्षदृगात्मकसुखान्मोक्षे प्राप्यं प्राणाख्यं परमं सुखं श्रेष्ठे । स्मराशाप्राणानां केवलान्तःपदार्थत्वेन द्वैविध्याभावात्‌ तदनुक्तिः । नन्वेवं अन्नादिशब्दैः बाह्यान्तः भिन्नं जडमेव गृहीतं न देवता । अतः पूर्वोत्तरव्याघात इत्यत आह ॥ उत्तरोत्तरमिति ॥ एतदन्नं आरभ्य ब्राणपर्यन्तं बाह्यबलान्नाप्तेजोभ्यो बाह्यान्नाप्तेज आकाशाः श्रेष्ठ इत्यत्र युक्तिमाह ॥ बाह्याद्य्भ इति ॥ चशब्दाद्बाह्यं बलं बाह्याननाज्जायत इत्यादेः संग्रहः । कार्यकारणयोः कारणं श्रेष्ठम्‌ । पितुस्तद्दर्शनादिति भावः । अन्यत्‌ आन्तरान्नादिकम्‌ । तदन्यथेत्युक्तं विशदमाह ॥ व्यक्तिरिति ॥ ज्ञानबलात्‌ ज्ञानरतिः रतेस्तृप्तिस्तृप्तेः चलप्रतिभा । चलप्रतिभायाः स्थिरप्रतिभेत्यादि बाह्यबलान्नादिकार्यकारणभाव क्रमापेक्षया विपरीतक्रमेण कार्यकारणभावोभवेदित्यर्थः । वृत्तिरूपाणां जननेपि स्वरूपभूतानां रत्यादीनां ज्ञानबलादितोव्यक्तिरेव भवतीत्यभिप्रेत्य व्यक्तिरित्युक्तम्‌ । पूर्वपूर्वदेवादुत्तरोत्तरदेवाभिव्यक्तिरित्यप्याहुः । नन्वेवं रत्यादि मोक्षान्तनामुक्तरीत्याकार्यत्वेनोत्तमत्वं न स्यात्‌ । कारणस्यैव उत्तमत्वेन अभिप्रेतत्वादित्यत आह ॥ तथापीति ॥ यद्यपि उक्तरीत्यारत्यादिव्यंग्योमोक्षः तथापि प्राणजोगुणः परमसुखरूपः सवर्स्माद्वरिष्ठ इत्युपरिसम्बन्धः । तत्कथमित्यतो मोक्षादेरपि कयाचिद्विवक्षया पूर्वपूर्वकारणत्वादित्याशयेन तदुपपादयति ॥ मोक्षगमित्यादिना ॥ यस्मात्‌ मोक्षगं सुखं स्वभावः तस्मान्नित्य एव । यतो नित्योतः तस्मात्‌ मोक्षगसुखात्‌ तद्योग्यतायां सत्यामिति यावत्‌ । आपरोक्ष्यं जायते । अन्तःकरण विकारत्वेन अपरोक्षज्ञानस्य कादाचित्कत्वादित्यर्थः । मोक्षयोग्यताधीनत्वं अपरोक्षज्ञानोत्पत्तेः अत्रोच्यत इति न कश्ऱ्चिद्विरोधः । इयमेकधा स्मृतिश्ऱ्च दृष्ययधीना दृष्यियोग्यताधीनेत्यर्थः । स्थिराप्रतिभा च स्मृतियोग्ता सम्भवेत्यर्थः । प्रतिभास्थैर्यमालम्ब्य निमित्तीकृत्य चलं प्रतिभं स्थिरप्रतिभायोग्यस्यैव चलप्रतिभा । अन्यथा तद्योग्यता भावेनैव तिष्ठतीत्यर्थः । प्रतिभातश्ऱ्चलप्रतिभायोग्यताया एव तृप्तिः स्यात्‌ । अतृप्तस्य तृप्त्ययोग्यस्य काज्ञानरतिः न कापीत्यथर्ः । किं तत इत्यत आह ॥ तत इति ॥ उक्तरीत्या मोक्षस्य अपरोक्षज्ञानात्‌ उत्पत्तौ कारणत्वादित्यर्थः । एवं क्रमादेवरतेः तृप्तिः वरिष्ठेत्यादि क्रमादेव ॥ खं-4-14 ॥ ततश्ऱ्चेयं खण्डचतुर्दशकस्याक्षरयोजना ॥ नारदो देवर्षिः सनत्कुमारं स्वापेक्षया ब्रह्मवित्तममधीहि मामध्यापय । भगवो भगवन्निति होपससाद । नारदं प्रत्युवाच सनत्कुमारः । त्वं यद्वेत्थतेन तदुक्त्वा मामुपसीद । तत ऊर्ध्वं तदनन्तरं ते तव वक्ष्यामि । अज्ञातस्यैव उपदेष्यव्यत्वात्‌ ॥ 1 ॥ एवमुक्तः सः नारदोहावाच ऋग्वेदमित्यादि । इतिहासश्ऱ्च पुराणां चेति द्वन्द्वैकवद्भावः । इतिहासपुराणं वेदं ग्रन्थम्‌ । वेदानामृगादीनां पंचमं पंचत्व संख्यापूरणम्‌ । वेदमध्येमीत्यर्थः । अत्र सामान्योक्तावपि प्रमाणान्तर बलाद्वेदानुकूलयोः एव इतिहासपुराणयोः ग्रहणम्‌ । इतरत्‌ पूर्वमेव स्पष्यम्‌ ॥ 2 ॥ हे भगवः सोहमेवं सर्वविद्यावेत्तापि मन्त्रविदेव आत्म नाम विदेवास्मि । तन्निर्णय अज्ञानात्‌ नात्मवित्‌ । अलमात्मप्रतिपातकज्ञानेन किं तत्प्रतिपाद्य ज्ञानेनेत्यत आह ॥ श्रुतमिति ॥ अस्त्वात्मज्ञानस्य शोकतरणलक्षणमुक्तिसाधनत्वम्‌ । त्वं तीर्ण शोकश्ऱ्चेद्वयर्थ उपदेश इत्यत आह ॥ सोहमिति ॥ हे भगवः सोहं शोचामि । विद्या नाम द्धानिर्णयाज्ञानेन आत्मावित्त्वात्‌ । तत्तस्मात्‌ मामां भगवांच्छोकस्य शोकसागतस्य पारमन्तं तारयत्विति प्रार्थितः कुमारस्तं होवाच । यद्वै यदेव किमप्येतत्‌ प्रागुक्तमृगादिकं अध्यगीष्ठाः अधीतवानसि । एतदात्मनो विष्णोः नामैव ॥ 3 ॥ एकदेशस्य नामत्वात्‌ सर्वस्य नामत्वोक्तिः उपचरित इत्याशंकापरिहाराय उक्तं विवृणोति ॥ नामवा इत्यादिना ॥ इतिहासपुराण इत्यत्र द्वन्द्वैकवद्भाव प्रयुक्तं नपुंसकत्वं नाश्रितम्‌ । पुराणशब्दस्य विशेष्यलिंगत्वात्‌ ग्रन्थविशेषणत्वेन पुल्लिंगत्वमेवाश्रितम्‌ । नामैवेतदिति निगमनम्‌ । प्रकृतसर्वविद्यारूपनामावान्तराभिमानिन्यामुपोनामिकायां अश्ऱ्भिभार्यायां ब्रह्मसन्निहितमित्युपास्तिः कार्येत्याह ॥ नामोपास्वेतीति ॥ द्वितीया सप्तम्यथर्े । ब्रह्मपदं पूरणीयम्‌ ॥ 4 ॥ नाम्नि ब्रह्मोपासकस्य फलमाह ॥ सय इति ॥ सः प्रसिद्धो योधिकारी नाम्नि ब्रह्मेत्युपास्ते नामवतोह सलोकानभिसिध्यतीति ग्राह्यम्‌ । उत्तरत्र तथा श्रवणात्‌ । फलान्तरमाह ॥ यावदिति ॥ योनामब्रह्मेत्युपास्ते । अस्योपासकस्य नाम्नो यावद्गतं गमनमस्ति तत्र लोके यथा योग्यताऽनतिक्रमेण कामचारो भवति । एवं नामाभिमानिन्यां ब्रह्मोपास्तावुक्तायां किं नाम्नो भूयोस्ति नावा । आद्ये तत्रैव ब्रह्मोपास्तिः विधेया । द्वितीयेमानान्तर विरोध इत्याशंकायां पृच्छति ॥ अस्तीति ॥ किं शब्दो अध्याहार्यः । परिहारमाह ॥ नाम्न इति ॥ हे भगवोनाम्नो भूयोधिकमस्ति किमिति पृष्यः कुमारोनाम्नो भूयोस्त्येवेति परिहारमाह ॥ उपासकविशेषं प्रत्येव नामाख्यप्रतीकोक्तिरिति भावः । तन्नामधिकं वस्तु मे भगवान्‌ ब्रवीत्विति नारदः ॥ 5 ॥ प्रथमः खण्डः ॥ 1 ॥ सनत्कुमार आह ॥ वागिति ॥ वाक्‌ वागिन्द्रियाभिमानिनी स्वाहैव नाम्नो भूयसी । तत्कथमित्यत आह ॥ वाग्वेति ॥ अयमृग्वेद इत्यादि रूपेण वागेवर्ग्वेदादिकं विज्ञापयति यतो तो भूयसीत्यर्थः । ज्ञाप्यज्ञापकयोः ज्ञापकस्य प्राधान्यादिति भावः । न केवलं नामात्म प्रपंच ज्ञापकत्वं वाचः किन्तु रूपात्मक प्रपंचज्ञापकत्व
मपि अस्तीत्याह ॥ दिवंचेत्यादिना ॥ हृदयज्ञं भगवत्तत्वज्ञं भगवत्तत्वाज्ञं विज्ञापयतीति पूर्वेण सम्बन्धः । ननु धमर्ाधर्मयोः सत्यनृतादेः वा ऋग्वेदादि ज्ञापकत्वोपपत्तेः किं वाचः तद्ग्रहणेनेत्यत आह ॥ यद्वा इति ॥ यदि वाङ्‌वा भविष्यन्न तर्हि धर्मादिकमृग्वेदादिकं व्यज्ञापयिष्यत्‌ । वागभावेऽध्ययनाभावेन ज्ञानस्य दूरोत्सारितत्वादिति भावः । उपसंहरति ॥ वागेवेति ॥ 1 ॥ अन्यत्समानम्‌ ॥ 2 ॥ द्वितीयः खण्डः ॥ 2 ॥ मन इत्रत ॥ मनो मनोनामकः तदभिमानी पर्जन्य एव वाचोभूयः । तत्सामर्थ्यं सदृष्यान्तमाह ॥ यथेति ॥ यथावा द्वेवाऽऽमलके आमलक फलेद्वेवाकोले पूगफले द्वौवाक्षौ द्यूतसाधने फलविशेषौ वामुष्यिरनुभवति । तदेव विशदयति ॥ स इति ॥ सपुरुषो यदा मनसामन्त्रानधीयेति अथ तदा अधीते । कर्माणि कुर्वीयेति यदा मनस्यतीत्यन्वयः । एवमुत्तरत्रापि । मनोह्यात्मा स्वामीमनो हि लोकः सर्वाश्रयो मनो हि ब्रह्म । प्रथमा सप्तम्यर्थे । मनसि ब्रह्म । अतो मनसि ब्रह्मेत्युपास्व ॥ 1 ॥ 2 ॥ तृतीयः खण्डः ॥ 3 ॥ संकल्पाभिमानी मित्र एव मनसोभूयान्‌ । तन्महिमानमाह ॥ यदेति ॥ यदा वैपुरुषः संकल्पयते इदमहं करोमीति । अथ तदा मनस्यति मनः प्रेरयति । अथ मनो व्यापारानन्तरमेव वाचमीरयति । किं विषय इत्यत आह ॥ तामिति ॥ यद्वा न केलवं लौकिक शब्द विषये वाचमीरयति । किन्तु तां नाम्नि ऋग्वेदादिरूपेपीरयति । नाम्नि सर्वविद्यायां मन्त्रा एकं भवन्ति अन्तर्भवन्ति । सामान्ये विशेषान्तर्भावात्‌ । मन्त्रेषु कमर्ाण्यन्तर्भवन्ति । तत्प्रकाश्यत्वात्‌ । अतः स्तन्येतानि मन आदिकर्मान्तानि । संकल्पैकाश्रयाण्यमुक्तौ । संकल्पस्वामिकानि । मुक्तौ संकल्पे प्रतिष्ठितानि । द्यावापृथिव्याद्यचेतन कल्पकत्व रूपं महिमान्तरमाह ॥ समक्लृपतामित्यादिना ॥ द्यौश्ऱ्च पृथिवीचेति द्यावापृथिव्यौ समक्लृपतां संकल्पोत्पन्ने इत्यर्थः । तेषां द्वयादि तेजोन्तानां संक्लृप्त्यै वर्षं संकल्पयते मित्रः । एवमन्यत्‌ । लोकानां संक्लृप्त्यै सर्वमचतनं संकल्पयते । निगमयति ॥ स एष इति ॥ 2 ॥ ध्रुवान्‌ नित्यान्‌ । प्रतिष्ठितान्‌ सदैकप्रकारेण स्थितान्‌ । अव्यथ मानान्‌ दुःखरहितान्‌ । लोकान्‌ स्वयं तादृशोभिसिध्यति प्राप्नोति ॥ 3 ॥ चतुर्थः खण्डः ॥ 4 ॥ चित्तमस्थिर स्मरणाख्यचित्ताभिमान्यग्निः संकल्पाद्भूयः । यदा वैचेतयते स्मरति अथ संकल्पयत इत्यादि पूर्ववत्‌ ॥ 1 ॥ अन्वयव्यतिरेकाभ्यां चित्तस्यैव प्रेक्षावत्त्वप्रयोजकत्वमाह ॥ तस्मादिति ॥ तस्मात्‌ चित्तस्योत्तमत्वादेव । हि यदि बहुविदप्यचित्तो भवति नायमस्तीत्येवैन माहुः । नायं विद्वानित्येवै नमाहुः । तदेव विशदमाह ॥ यदयमिति ॥ यद्यदि अयं वेदसामान्येन जानीयात्‌ । यद्वा अयं विद्वान्‌ विशेषतो जानीयात्‌ तर्ह्यापि नेत्थमचित्तः स्यादतोऽज्ञानीत्यर्थः । यतो यमचित्तोजात इत्याहुः । व्यतिरेकमुक्त्वान्वयमाह ॥ यद्यल्पविदिति ॥ शुश्रूषं ते सेवकाः ॥ 2 ॥ चितान्‌ चित्तक्लृप्तान्‌ ॥ 3 ॥ पंचमः खण्डः ॥ 5 ॥ ध्यानं ध्यानाभिमानी वरुणश्ऱ्चित्ताद्भूयः । तस्य सर्वगतत्वरूपं महिमानमाह ॥ ध्यायतीवेति ॥ पृथिव्यादि शब्दाः तदभिमानि देवतापराः । ध्यायतीवनबहुभाषिणीत्यर्थः । देवा एव मनुष्यत्वं प्राप्तादेव मनुष्याः । तस्मात्‌ ध्यानस्य श्रेष्ठत्वादिह लोके ये मनुष्याणां मध्ये धनैः विद्ययागुणैः वामहत्तां प्राप्नुवन्ति ते ध्यानापादं शा इवैव भवन्ति । ध्यानस्य आपादनं ध्यानपात्‌ । ध्यानलाभ इति यावत्‌ । तस्यांशो येषान्ते तथोक्ताः । ध्यान लामैकदेशवन्त इवैव । नतु पूणर्ध्यानवन्त इव । अतो ध्यानमेव श्रेष्ठमित्यर्थः । किंच येल्पाः क्षुद्राः कलहिनः कलह शीलाः । पिशुनाः परदोषोद्भावकाः । उपवादिनः परदोपसामीप्ययुक्तवदनशीलाः तेथयेप्रभवः प्राप्तमहत्त्वाः ते च ध्यानाऽपादंशा इवैव भवन्ति ॥ 1 ॥ ध्यानं ब्रह्मेत्युपास्ते । सः ध्यानवतोह लोकानभिसिध्यतीति ग्राह्यम्‌ ॥ 2 ॥ षष्ठः खण्डः ॥ 6 ॥ विज्ञानं विज्ञानाभिमानी सोम एव ध्यानाद्भूयः । तत्सामर्थ्यमाह ॥ विज्ञानेनेति ॥ विज्ञानाभिमानि देवता प्रसादेनैव र्ग्वेदं विजानाति पुरुषः । यजुर्वेदादिकं परलोकान्तं च विज्ञानेनैव विजानाति ॥ 1 ॥ विज्ञानवतो ज्ञानवतश्ऱ्च सामान्यविशेषज्ञानवतो लोकान्‌ प्राप्नोतीत्यर्थः ॥ 2 ॥ सप्तमः खण्डः ॥ 7 ॥ बलं बाह्मान्तर्बलाभिमानी प्रवह एव विज्ञानाद्भूयः । तदेव उपपादयति ॥ अपीति ॥ इह लोके विज्ञानवतां शतमप्येक एव बलवानाकं पयते तस्माद्विज्ञानात्‌ बलं भूयः युक्तिज्ञतालक्षणानतर्बलस्य विज्ञानात्‌ भूयः त्वोपपत्तिः । बलस्य सर्वव्यापारहेतुत्वमाह ॥ सयदेति ॥ सः प्रसिद्धः पुरुषो यदा बली भवत्यथतदोत्थतोत्थानस्य कर्ता भवति । उत्तिष्ठन्‌ गुर्वादीनां परिचरिता शुश्रूषको भवति । परिलरंश्ऱ्चोपसत्ता तेषां समीपर्गोऽन्तरंगः प्रियो भवति । उपसीदन्नुपदेष्युरेकाग्रतया द्रष्या भवति । ततस्तदुक्तस्य श्रोता भवति । श्रुतस्यैव मन्ता भवति । मतस्यैव बोद्धा भवत्येव मे वेदमिति । यद्वा बोद्धाध्याता भवति । न केवलमेतावत्‌ । तदुक्तार्थस्य कर्ता अनुष्ठाता भवति । विज्ञातानुष्ठान फलस्य नुभविता भवतीत्यर्थः । महिमान्तरमाह ॥ बलेनैवेति ॥ अत्र पृथिव्यादिशब्दाश्ऱ्चेतन पराः ॥ 1 ॥ बलं ब्रह्मेत्युपास्ते । बलवतोह सलोकानभिसिध्यतीति ग्राह्यम्‌ ॥ 2 ॥ अष्यमः खण्डः ॥ 8 ॥ अन्नं बाह्मान्तरान्नाभिमान्यनिरुद्ध एव बलाद्भूयः । तस्मादन्नस्य भूयस्त्वाद्यदिदशारात्रीरपि नाश्ऱ्नीयात्‌ तदा यदुहयद्यपि जीवेत्‌ । अथाप्यद्रष्यृत्वा श्रोतृत्वादिमान्‌ भवति । यदा अन्नमश्ऱ्नीयात्‌ तदा दृष्यृत्वादिमान्‌ भवतीत्यन्नमेव भूय इत्यर्थः ॥ 1 ॥ 2 ॥ नवमः खण्डः ॥ 9 ॥ आपः उभय विधाबभिमानी तैजसः प्राणोन्नाद्भूयान्‌ । तस्मात्‌ अपामन्नकारणत्वादेव हि यदा सुवृष्यिः सस्य हितावृष्यिः न भवति । तदा प्राणाः प्राणिनः व्याधीयन्ते दुःखिनो भवन्ति । किन्निमित्तम्‌ । कनीयोन्नं भविष्यतीति । एवमन्यत्‌ । आप एवेत्युक्तं विशदमाह ॥ येयमिति ॥ पृथिव्यादि पिपीलिकान्तं यत्‌ । इमाः मूर्ताः आप एवेति योजना ॥ 1 ॥ 2 ॥ दशमः खण्डः ॥ 10 ॥ तेजः द्विविधते जोभिमानी इन्द्र एवाद्य्भोभूयः । तत्तस्मादेतस्मिन्‌ काले यदा वायुमा गृह्यावष्यभ्यकाशमभितपत्यादित्यस्तदाहुः लौकिकाः आदित्योनिशोचति नितपति । नितरां प्राणिनः शोचयति । यतोयं नितरां तपति । अतो वर्षयिष्यति वा इति । अतोप्‌ सृष्येः पूर्वं तेज एव दर्शयित्वाथापः सृजते । किंच तस्मादेवैतस्मिन्‌ काले ऊर्ध्वाभिश्ऱ्चतिरश्ऱ्चीभिः च विद्युद्भिः सहाह्रादाः स्तनयित्नुशब्दाः चरन्ति प्रवर्तन्ते । तस्नमादहुः लौकिकाः । द्योतते स्तनयति वर्षयिष्यति वा इति । शिष्यं पूर्ववत्‌ ॥ 1 ॥ 2 ॥ एकादशः खण्डः ॥ 11 ॥ आकशो बाह्यान्तराकाशाभिमानिन्युमातेजसो भूयान्‌ । तस्य सर्वदेवताधारत्वमाह ॥ आकाश इति ॥ सूर्याद्यग्न्यंतान्याकाशे स्थितानीति शेषः । आकाशेन तत्प्रेरणयैव देवताद्याह्वानं करोति पुरुषः । आकाश इति निमित्तसप्तमी । नरमते व्यथत इत्यर्थः । आकाशे जायत इत्यौपचारिकं नेत्याह ॥ आकाशमभिजायत इति ॥ 1 ॥ असम्बाधान्‌ व्यथारहितान्‌ । उरुगायतो भगवद्वतः भगवतो ह्युरुगायनाम प्रसिद्धम्‌ ॥ 2 ॥ द्वादशः खण्डः ॥ 12 ॥ स्मरः स्थिरस्मृत्यभिमानीरुद्र एव आकाशाद्भूयान्‌ । तस्मात्‌ स्मरस्य भूयस्त्वादेव यद्यपि लोके बहवः पुरुषा आसीरंस्ते यदि न स्मरन्तस्तदानैव ते कांचन शृणुयुः नमन्वीरन्न विजानीरन्‌ । यदा वै तेस्मरेयुः अथ श्रवणादिव्यापारवन्तो भवेयुः । किंच स्मरेणैव पुत्रादिकं विजानाति उपास्ते । सस्मरवतोह लोकानाभिसिध्यति ग्राह्यम्‌ ॥ 1 ॥ 2 ॥ त्रयोदशः खण्डः ॥ 13 ॥ आशातदभिमानिनी सरस्वती स्मराद्भूयसी कुतः । आशयेद्धोऽभिवृद्धो वैस्मरोरुद्रोमन्त्रानधीते । कर्माणि कुरुते । पुत्रादिकं चेच्छते इच्छति । अस्योपासकस्य सर्वे कामाः काम्याः आशयासमृद्धयन्ति ॥ 1 ॥ 2 ॥ चतुर्दशः खण्डः ॥ 14 ॥ अथ भाष्यार्थः ॥ प्राणभूयस्त्व खण्डे प्राणेन स्वशक्त्यैव याति प्राणः प्राणं स्वात्मानकेव ददातीति प्रतीतिनिरासाय प्राणः प्राणेन यातीत्यादि व्याचष्ये ॥ योसाविति ॥ आद्यः प्रथमान्तः प्राणशब्दः आशोत्तमतया प्रकृतप्राणपरः । द्वितीयः परब्रह्मपरः । तृतीयोप्यव्यवधानेन प्रकृतपरब्रहमपर इति भावः । नच प्राणशब्द परब्रह्मपरत्वेऽप्रकतस्वीकारः । प्राणो वा आशायाभूयानित्युक्तप्राणस्यान्तर्यामितया विष्णुत्वस्य भूमाधिकरणे समर्थितत्वात्‌ । प्राणशब्दस्य परब्रह्मपरत्वे श्रुतिमाह ॥ प्राणस्येति ॥ यद्वा उक्तार्थे श्रुतिमाह ॥ प्राणस्येति ॥ प्राणस्य प्राणत्वप्रदं भीष्यदं चेति श्रुत्यर्थः । प्राणाय ददातीत्येतद्वयाचष्ये । प्राण इति ॥ पूर्ववाक्यात्‌ प्राण इत्येतदनुवर्तत इति भावेन प्राणो वायुरित्युक्तम्‌ । प्राणायेति चतुर्थी द्वितीयार्थेति भावेनोक्तं परमात्मानमिति । चशब्दोपि शब्दार्थः । असम्भव वारणायोक्तं ज्ञानेनेति । ददाति शिष्येभ्य इति योज्यम्‌ । अतिवादी वाचाल इत्यन्यथा प्रतीतिनिरासाय तद्वयाचष्ये ॥ सर्वस्मादिति ॥ सर्वस्मात्‌ नामदेः उत्तमं प्राणम्‌ । एष तु वा अतिवदतियः सत्येनातिवदतीत्यत्र प्रकृतप्राणादिवाद्येव सत्यादि वादित्वेनोच्यते । ततश्ऱ्च प्राण एव सत्य इति तस्यैव भूमादित्वप्राप्तौ भूमाद्यधिकरणविरोधः स्यादित्याशंका निरासाय प्रकाणभेदकं दर्शयति ॥ एष तु वेति ॥ प्राणवादिनोति वादित्वमुक्त्वा सत्यवादिनोप्यतिवादित्यमुच्यते । तत्र प्राणातिवादिनः सत्यातिवादीतु शब्देन विशेष्यते । तेन ज्ञायतेऽन्योसावन्योयमितीति भावः । अर्थान्तरवाची प्रकरणान्तरज्ञापक इत्यर्थः । ननु यदि प्राणादुत्तमः सत्योन्यस्तर्हि नामादि प्रकरणवदस्ति भगवः प्राणाद्भूय इति प्राणाद्वावभूयोस्तीति तन्मे भगवान्‌ ब्रवीत्विति सत्यं वाव प्राणाद्भूय इति प्रश्ऱ्नप्रतिवचनेस्यातामित्यत आह ॥ अस्तीति ॥ प्रश्ऱ्न इत्युपलक्षणम्‌ । प्राणाद्वाव भूयोस्तीत्युत्तरमपि ग्राह्यम्‌ । व्यतिहार्योध्याहार्यः । अध्याहारज्ञापकस्तु शब्द एवेति भावः । ननु यदि प्रश्ऱ्नाद्यध्याहारः तर्ह्यस्ति भगवः प्राणाद्भूय इति प्रश्ऱ्नेनास्ति प्राणाद्भूय इति प्रतिवचनाध्याहारः किं न स्यात्‌ । अध्याहारस्य निरंकुशत्वादित्यत आह ॥ यत्रेति ॥ यत्र वाक्ये यत्पदं विनान्यत्रार्थान्तरेऽनवसरोथर्ान्तरस्य अघटना तत्र वाक्ये तदव पदं प्रतिष्ठितम्‌ । यत्र महावाक्ये यत्प्रमाणं वाक्यं वाविनान्यत्रानवसरोर्थान्तरस्य अघटना तत्र महावाक्ये तत्प्रमाणं वाक्यं वा प्रतिहार्यमिति वचनादक्तिरीत्यैव प्रश्ऱ्नाद्यध्याहारः । अन्यथा तु शब्दा एषतु वा अतिवदतीति तुशब्देन विशिंषन्ति हीत्यर्थः । उक्तमथर्ं प्रमाणेन द्रढयन्‌ सत्याद्यात्मान्तप्रकरणानि तेनैव व्याचष्ये ॥ अतिवादीति ॥ श्रुतौ सत्यवादिनः श्रवणात्‌ कथं विष्णुवादीत्युक्तमित्यत आह ॥ स इति ॥ कुत इत्यत आह ॥ यदिति ॥ यद्यस्मान्निर्दोषोनियामकः तस्मात्‌ सत्यः । ननु सत्यो न विष्णुः तदुपर्यपि विज्ञानमति श्रुद्धानिष्ठाकृति सुखभूमाहंकारात्मनां उक्तत्वादित्यतः तान्यपि प्रकाणानि विष्णुपरतयैव योजयन्‌ विज्ञानमतिशब्दयोः अर्थभेदमाह ॥ विशिष्येति ॥ श्रद्धा निष्ठा कृतिसुखभूमशब्दार्थान्‌ क्रमेणाह ॥ नित्य श्रद्धेत्यादिना ॥ सुखशब्देन सुखमात्र ग्रहणप्रतीतिनिरासाय उक्तं सुपूर्णेति ॥ सर्वगुणैः पूर्णोयतो तो भूमेत्युच्चार्यते । यत्र भूमतत्वेऽन्यद्द्रष्यव्यं न पश्यत्यभावादिति प्रतीति निरासाय यत्र नान्यत्पश्यतीत्यादि सभूमेत्यन्त वाक्यतात्पर्यमाह ॥ यदधीनमिति ॥ अतिपूर्णत्वादित्युक्तानुवादः । यत्रान्यत्पश्यतीत्यादि तदल्पमित्यन्तवाक्य तात्पर्यमाह ॥ अन्यदिति ॥ भगवतोन्यत्‌ । स एवाधस्तादित्यादि वाक्यं व्याचष्ये ॥ स इति ॥ स इत्यनुवादेन सर्वगुण सम्पुर्ण इति परामृश्यकथनम्‌ । तस्यैव भूमशब्दार्थत्वात्‌ । स एवेदं सर्वमिति वाक्यं भूम्नः सर्वाभेदपरमिति प्रतीति निरासायतात्पर्यतो व्याचष्ये ॥ स्वतन्त्र इति ॥ यदा वै विजानात्यथ सत्यं वदतिना विजानन्‌ सत्यं वदतीत्यादिना विज्ञानादीनां सत्यद्यविनाभावोक्त्या लब्धमुत्तरोत्तरस्य पूर्वपूर्वत्र हेतुत्वमेव वैपरीत्येनाह ॥ पूर्णत्वादित्यादिना ॥ आस्तिक इति श्रद्दाशब्दार्थकथनम्‌ । निर्दोषः सर्वस्यापि नियामक इति सत्यशब्दार्थः । भूमप्रकरणे यो वैभूमेति पूवर्वैलक्षण्येन उपदेशतात्पर्यमाह ॥ भूमेति ॥ प्राचीनं तु भूमगुणनिरूपणमेव । न पृथङ्मूर्ति निरूपणमिति भावः । अथातो अहंकार इत्यादिना प्रसिद्धाहंकार एव चिदचित्संवलनात्मकः कथ्यत इत्यसदिति भावेनाह ॥ स एवेति ॥ अहंकार शब्दं भगवति निर्वक्ति ॥ आकार्य इति ॥ नन्वहमित्याकार्यत्वं जीवस्यैव प्रसिद्धमित्यत आह ॥ जीवस्थ इति ॥ अनेन अथात इति पूर्वविलक्षणोपदेशभिप्रयोपि सूचितः । ननु जीवस्याणुत्वेन तदन्तर्गतस्यापि भगवतो णुत्वात्‌ कथमहमेवाधस्तादित्यादिना व्याप्ततमुच्यत इत्यत आह ॥ सोपीति ॥ नन्वस्तु परमैश्ऱ्वर्यं घटकम्‌ । तथापि भगवत्यणुत्व महत्त्वसमावेशे किं मानम्‌ । अन्यथा शशविषाणदि कल्पनापत्तेरित्यतो मार्कण्डेय प्रत्यक्षमाह ॥ यथेति ॥ अणुरूपोपीति पूर्वत्रान्वेति । अथात आत्मादेश इति जीवपदेश इत्यसदिति भावेन तत्तात्पर्यमाह ॥ भगवानिति ॥ आत्मैव अधस्तादित्यादि व्याचष्ये ॥ सचेति ॥ तर्हि भूमा अहंकारात्मलक्षणानां परस्पराति व्याप्तिः स्यादित्यत आह ॥ नचेति ॥ ननु यो वै भूमातत्सुखमित्यत्र भूम्नः सुखस्वरूपं लक्षणमुक्त्वानात्पले सुखमस्तीत्यतिव्याप्तिपरिहारोभिहितः सोनुपपन्नः । अन्यस्यापि मुक्तस्य सुखस्वरूपत्वादित्यतः तद्वाक्यं व्याचष्ये ॥ भूमप्रसादमिति ॥

अल्पेमुक्त जाते । तथाच नन्याधीन सुखरूपत्वं प्राग्लक्षणत्न अभिप्रेत्यातिव्याप्तिपरिहारोयमिति भावः । अथ योवै भूमा तदमृतमिति भूम्नोऽमृतत्वं लक्षणमुक्त्वा थयदल्पं तन्मर्त्यमित्यतिव्याप्तिः परिह्रियते । तदनुपपन्नम्‌ । मुक्तत्वा परपर्यास्य अमृतत्वस्य मुक्तेपि सत्त्वादित्यत आह ॥ मत्यर्ंचेति ॥ विभक्तिविपरिणामेनाल्पमित्यनुवर्तते । अल्पं मुक्त जातम्‌ । तदानीं अमृतमपि पूर्वं मर्त्यं च । तथाच नित्यमुक्त्वं प्राग्लक्षणत्वेन विवक्षित्वात्यायमतिव्याप्तिपरिहार इति भावः । तर्हि रमायामतिव्याप्तिरित्यत आह ॥ अल्पापि हीति ॥ अमृता नित्यमुक्तादेवी श्रीरल्पापि पूर्णा । भगवतो अतिप्रियत्वात्‌ । तथाच तस्यापि भूमकोटिनिक्षेपण लक्ष्यत्वात्‌ नातिव्याप्तिरिति भावः । ननु भूमप्रसादं विनानाल्पे सुखमस्तीत्ययुक्तम्‌ । एवं विजानन्नात्मरतिरिति भगवदपरोक्षज्ञानिनो मुक्तौ स्वेनैव सुखोक्तेरित्तः तद्यथावद्वयाचष्ये ॥ आत्मरतिरिति ॥ भगवतारतिर्यस्यासीभगवद्रतिः । सः स्वराट्‌स्वतन्त्रः इत्यन्यथा प्रतीति वारणाय आदौ स्वशब्दार्थमाह ॥ स्व इति ॥ स्वतन्त्रत्वादिति भावः । स्वराट्‌ शब्दं व्याचष्ये ॥ स इति ॥ स्वः परमात्माराट्‌ आज्ञापित आज्ञपयिता यस्य सः स्वराट्‌ । नन्विदं संसारिसाधारणं कथं फलमित्यत उक्तम्‌ ॥ प्रत्यक्षत इति ॥ तस्य हवा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण इत्यादिना मुक्तस्वरूपात्‌ प्राणादि सृष्यिः उच्यत इत्यन्था प्रतीति निवारयत्तदनूद्य व्याचष्ये ॥ आत्मत इति ॥ इत्यादि वाक्यस्येति शेषः । द्वितीयादिशब्देन स्थित्यादिसप्तकस्यापि संग्रहः । तस्य मुक्तस्य पश्यतः सत आत्मतः प्राणादिः जायते स्थीयत इत्याद्युक्तौ मुक्तः तत्पश्यतीति लभ्यते । यथा चैत्रस्य पश्यतो मैत्र इदं करोतीत्युक्ते चैत्रस्तत्पश्यतीति लभ्यत इति भावः । स्वकृत व्याख्यानेनियामकमाह ॥ सर्वं हीति ॥ सर्वं भगवत्कर्तृकं प्राण सृष्ययादिकमित्यर्थः । अप्रतीतेः पश्यत इति पदं व्याचष्ये ॥ पश्य इतीति ॥ पश्यतीति व्युत्पत्तेरिति भावः । पश्यत इति पदेन द्रष्या जीव उच्यत इत्यत्र श्रुतिमाह ॥ यदेति ॥ भूमोपास्तौयः कोपि अधिकारी तस्य सर्वस्याप्यात्मरतिः इत्याद्युक्तं फलं भवतीति प्रतीति वारणाय फलप्रकरणं प्रमाणेनैव व्याचष्ये ॥ भूमेति ॥ आत्मक्रीड इत्यस्यार्थः तेनैवेति । आत्ममिथुन इत्यस्यार्थो मिथुनीभवेदिति । तेनैवेत्यनुवर्तते । चतुर्मुखस्य पुरुषस्य कथं परमपुरुषेण मिथुनीभाव इत्यत उक्तम्‌ ॥ स्थीरूप इति ॥ तेनानदोयस्यासौ तदानन्द इत्यात्मानन्द इत्यर्थः । स्वराडित्यस्यात्यर्थः स एवेति । आत्मतः प्राण इत्यादेः अर्थमाह ॥ पश्येच्चेति ॥ अथातो अहंकारादेश इति प्रकरणं जीवान्तस्थानिरुद्धपरमिति व्याख्यातम्‌ । तत्परिशुद्धये ये केचिदत्राविद्याकार्याहंकार ग्रन्थिर्निरूप्यत इति वदन्ति तद्दूषयति ॥ नचेति ॥ यद्यहंकारो भगवतोन्यः स्यात्तर्हि स एवाधस्तादित्यादिना यद्भूम्नः पूर्णत्वं लक्षणमुक्तं तस्यैव अहमेवाधस्तादित्यादिनाहंकारोपदेशोन युज्यते । अतिव्याप्ति प्रसंगात्‌ । नच स एवाधस्तादित्दकमपि अन्यस्यैव लक्षणमिति वाच्यम्‌ । भूमानं भगवो विजिज्ञास इति प्रश्ऱ्नोत्तरत्वादित्यर्थः । न केवलमतिव्याप्तेः इदं न युज्यते किं त्वहंकारस्य भगवदन्यत्वेऽसम्भविचेत्याह ॥ नचेति ॥ पूर्णत्वं सर्वगतत्वम्‌ । न वयं मुख्यतोहंकारं पूर्णं ब्रूमः । येनासम्भवः स्यात्‌ । किन्तु देहादि विषयत्न पूर्ण इत्युपचर्यत इत्यत आह ॥ नचेति ॥ अहंकारस्य भगवद्रूपत्वांगीकारेण मुख्ये पूर्णत्वे युज्यमाने तत्परित्यागेनोपचरितं पूर्णत्वमंगीकर्तुं न युज्यते । मुख्यार्थबाध एव अमुख्यास्य प्राप्तत्वादित्यर्थः । अथात इत्यस्याहंकार विषयत्वे दूषणान्तरमाह ॥ नचेति ॥ भूमाख्यस्य भगवतो निरूपणे तस्यैव रूपान्तर ज्ञापनाय अथात इत्युपदेश इत्यस्मन्मेऽस्ति प्रस्तुतिः । नचाहंकारस्य काचित्प्रस्तुतिः अस्ति । येनात्र तन्निरूपणं स्यादित्यर्थः । नन्वहंकारस्य पूर्वमप्रस्तुत्वेपि इदानीं एवारम्भः क्रियते । पूर्वप्रकरणविच्छेदकस्य प्रकरणान्तराम्भार्थस्य अथातः शब्दस्य सत्त्वात्‌ । नच पूर्वोत्तरप्रकरणयोः भगवत्परत्वे तदुपपद्यत इत्यत आह ॥ अथ शब्द इति ॥ भूम प्रकरणे नारायणाख्यं भगवद्रूपं निरूप्यतस्यैव अनिरुद्धाख्यरूपान्तरापेक्षया प्रकरणान्तरारम्भार्था थशब्दोपपत्तिरित्यर्थः । नन्वेवं तर्ह्यतः शब्दो व्यर्थः स्यात्‌ । प्रकरण भेदस्य अथशब्देनैव सिद्धेरित्यतः तस्यार्थान्तरपरतयोपपत्तिमाह ॥ अत इति ॥ इत्यर्थतया युज्यत इति सम्बन्धः । अशब्दः परमात्म वाची । अः इति ब्रह्मेति श्रुतेः । तस्मादिति पदार्तमभिप्रेत्यतत्प्रसादादिति तात्पर्यकथनम्‌ । आत्मरतिः भगवद्रतिः । स्वो भगवानित्यादिना आत्म स्वाशब्दौ भगवत्परतया व्याख्यातौ । तदुपपादयितुं तावदनुवदति ॥ आत्मरतिरिति ॥ उपपादयति ॥ यो ब्रह्माणमिति ॥ स्वयंभूरात्म भूरित्यादिषु विरिंचिवाचक प्रयोगेष यथा आत्मशब्दः स्वयं शब्दश्ऱ्च विष्णुवाचीतद्वदेवात्रापि आत्मरतिरित्यादावपि अत्माशब्दः स्वशब्दश्ऱ्च विष्णु वाच्येव । नतु स्वात्मार्थः । नच तत्रापि अत्मस्वयं शब्दौ विष्णुपरौ कुत इति वाच्यम्‌ । स्वजन्यत्वस्य आत्माश्रयग्रअस्ततया दुषितत्वात्‌ । तस्मादात्माच स्वयं च भगवांस्ततो भूतत्वात्‌ आत्मभूः स्वयम्भूरित्येव अर्थो वर्णनीयः । चतुर्मुखे विष्णुजातत्वस्य यो ब्रह्माणमित्यादि श्रुतिसिद्धत्वादित्यर्थः । आत्मतः प्राण इत्यादिकं मुक्तः सन्‌ प्राणादीनां सृष्ययादिकं पश्यतीति व्याख्यातम्‌ । तदयुक्तम्‌ । मुक्तात्मनः प्राणादिकमुत्पद्यत इत्येव अर्थांगीकारे बाधकाभावादित्यत आह ॥ नचेति ॥ कुतो नेत्यत आह ॥ जगद्वयापारेति ॥ बाधकान्तरमाह ॥ आत्मत एवेति ॥ आत्मत एव प्राणो जायत इति षट्‌ प्रश्ऱ्नोपनिषदि आत्मत एवेत्यवधारणाद्भगवत एव प्राणो जायते न ततोन्यस्मात्‌ ततश्ऱ्चात्मतः प्राण इत्यत्र न मुक्तजन्यत्वं प्राणस्याथर् इत्यर्थः । नन्वेवं अपि जीवात्मनि स्वात्मनिचात्मस्वशब्दप्रयोगदर्शनात्‌ अत्र तौ विष्णुपराविति कुतो निर्णय इत्यतो मुख्यामुख्ययोः मुख्ये संप्रत्यय इति न्यायं अनुसन्दधत्‌ स्वयं भूरित्याद्युक्तार्थे प्रमाणमाह ॥ आत्मेति ॥ तस्मात्‌ ततो भूतत्वात्‌ स एवेदं सर्वमहमेवेदं सर्वमात्मैवेदं सर्वमिति भूमाहंकारात्मनां सर्वात्मकत्वं उच्यत इति प्रतीतिवारणाय प्रमाणेनैव प्रकारान्तरेण व्याचष्ये ॥ इदमिति ॥ भूमाहमात्मेति त्रिविधोपिहरिः सर्वदापि सामीप्यादिदं नामेत्यादि योजना । एतेन अहमात्मानौ भूम्नो भिन्नावित्यपास्तम्‌ । नन्विदं सर्वमित्यस्यसामीप्य पूर्णार्थत्वे स एवायं सर्व इत्यादि प्रयोगः स्यादिति चेन्न । लिंगव्यत्ययोपपत्तेः । नच अतिप्रसंगः । नियामक विशेषसद्भावादिति भावेन प्रमाणमाह ॥ स्त्रीगुणा इति ॥ तत्र सर्वशः सर्वेषां लिंगानां व्यत्ययः स्यादिति योजना । लिंगव्यत्ययमेव विशदमाह ॥ क इति ॥ देवादयो देवशब्दादयः ततो भगवति वर्तन्त इति योज्यम्‌ । आहारशुद्धौ सत्वशुद्धिरित्यादौ यदि रस्याःष स्निग्धा इत्यादिना निरूपित एवाहारो भवेत्‌ तदा आहारशुध्यान्तःकरण शुद्धयुपपत्तावपि तन्मात्रेण ध्यानापरपर्यायं स्मृति स्थैयर्ं उच्यमानं अनुपपन्नं स्यादिति भावेनाहारशब्दर्थं वदंस्तद्वाक्यं प्रमाणेनैव व्याचष्ये ॥ गुरोरिति ॥ विद्याहृतिः शास्त्र श्रवणम्‌ । ज्ञानशुद्धिः मनशुद्धिः । अनेन सत्त्वशब्दो ज्ञानपर इत्युक्तं भवति । स्थिरास्मृतिः ध्यानम्‌ ॥ खं-15-26 ॥ ततश्ऱ्च प्राणो वा आशाया इत्यारभ्याऽऽध्यायसमाप्तेरयमक्षरार्थः । प्राणो मुख्यप्राण एव शायाभूयान्‌ । तत्सामथ्‌र्यं सदृष्यान्तमाह ॥ यथेति ॥ यथावा रथचक्रस्य अराः रथनाभौ समर्पिताः । एवमस्मिन्‌ प्राणे सर्वं जगत्समर्पितम्‌ । नचैतावता तस्यैव निरुपचरित सर्वाधारत्वं मन्तव्यमित्याशयेनाह ॥ प्राण इति ॥ यो सावाशोत्तमः प्राणः सप्राणेन परब्रह्मणायाति प्रवर्तते । प्राणस्य पराधीन प्रवृत्तिकत्वे नेष्यप्राप्तिः स्यादित्यत आह ॥ प्राणः प्राणमिति ॥ प्राणः परमात्मा प्राणं मुख्यप्राणं प्रत्यभीष्यं ददातीत्यर्थः । अन्यस्येष्यं नियमेन अप्रयच्छंस्तस्यैव कुतो ददातीत्यत आह ॥ प्राणायेति ॥ प्राण इत्यनुवर्तते । चतुर्थी द्वितीयार्थे । यस्मात्‌ प्राणो वायुः प्राणं परमात्मानं च ज्ञानेन दशर्यञ्छिष्येभ्ये ददाति तस्मात्‌ प्राणं प्रत्येव अभीष्यं परमात्मा ददातीति योज्यम्‌ । प्राणस्य पित्रादि पूज्यस्थानगतत्व रूपं माहात्म्यमाह ॥ प्राणो हेत्यादिना ॥ 1 ॥ तदेव अन्वय व्यतिरेकाभ्यां उपपादयति ॥ सपदीति ॥ सः यः कश्ऱ्चित्‌ यदि पित्रादिकं ब्राह्मणान्तं सति मुख्य प्राणे किंचिद्भूशमिव । त्वंकारादिनाप्रत्याह ॥ तदात्वात्वां प्रति धिगस्त्वित्येवैनमाहुः लौकिकाः । कुत इत्यत आह ॥ पितृहेति ॥ 2 ॥ अथ यद्यप्येनान्‌ पित्रादीनेव उत्क्रान्तप्राणाञ्छूलेन समासं समस्य व्यतिषन्दहेत्‌ व्यत्यस्तं सन्दहेत्‌ । तथापि नैवैनं ब्रूयुः । पितृहासीत्यादि ॥ 3 ॥ निगमयति ॥ प्राण इति ॥ तस्मात्‌ प्राण एवै तेषु स्थित इत्यर्थः । वेत्तुः फलमाह ॥ सवा इति ॥ स एषो अधिकारी एवं शृण्वन्नेवं मन्वानः एवं ध्यायन्नेवं पश्यन्नति वादी सर्वस्मात्‌ अतीतमुत्तमं प्राणाख्यं वदतीत्यति वादी भवति वै । तं प्राणातिवादिनं प्रति यदि त्वमतिवाद्यसीत्यन्ये ब्रूयुः तदाहं अतिवाद्यस्मीति ब्रूयात्‌ । नापह्नुवीत । प्राणवादिनाउभयाभावादित्यर्थः ॥ 4 ॥ पंचदशः खण्डः ॥ 15 ॥ अत्रास्ति भगवः प्राणशद्भूय इति प्राणाद्वाव भूयोस्तीति तन्मे भगवान्‌ ब्रवीत्विति सत्यं वाव प्राशद्भूय इति प्रश्ऱ्न प्रतिवचनेध्याहार्ये । सत्ववेत्तुः फलमाह ॥ एष तु वेति ॥ योधिकारी सन्निर्दोषश्ऱ्चासौ योनियामकश्ऱ्चेति सत्यो विष्णुः तेनातिवदति । तमतिवदतीति यावत्‌ । एष एव तु प्राणातिवाद्यपेक्षया विशेषेणाति वदति । अतीतमुत्तमं वस्तु वदतीत्यर्थः । तर्हि सोहं त्वां प्रपन्नोहं यथा सत्येनातिवदानि तथा मां विनियोजयेति नारदोक्तः कुमार आह सत्यं त्वेवेति ॥ तदतिवादित्व सिध्यर्थं तु विशेषेण सत्यमेव विजिज्ञासितव्यमित्युक्तो नारदः सत्यं भगवो विजिज्ञास इत्याह ॥ षोडशः खण्डः ॥ 16 ॥ एवं सत्याख्य भगवतो गुणजिज्ञासायां गुणत्वेन तदविना भूतं विज्ञानं वक्तुं विज्ञानस्य सत्या विना भावमाह ॥ यदेति ॥ अन्वयमुक्त्वा व्यतिरेकमाह ॥ नाविजानन्निति ॥ विजानन्नेवेति निगमनम्‌ ॥ तस्मात्‌ सत्यं विजिज्ञासता तदविना भूतं विज्ञानमेव विशेषेण विजिज्ञासितव्यमित्युक्ते तर्हि विज्ञानं भगवो विजिज्ञास इत्याह नारदः ॥ सप्तदशः खण्डः ॥ 17 ॥ एवमुत्तर खण्डपंचकमपि योज्यं ॥ 18 ॥ 19 ॥ 20 ॥ 21 ॥ 22 ॥ सत्यादि गुणा यस्या एव परदेवतायाः स्वरूपभूतास्तं भूमाख्यं नारायणं लक्षयति ॥ योवा इति ॥ यो वैभूमापूर्णो नारायणाख्यः तत्सुखमनन्याधीनसुखरूपम्‌ । अस्य अतिव्याप्तिं परिहरति ॥ नाल्प इति ॥ भूमप्रसादं विना नाल्पेमुक्तजाते सुखमस्ति । एवमतिव्याप्तिं परिहृत्य निगमयति ॥ भूमैवेति ॥ नैतावतोपदेश समाप्तिरिति भावेनाह ॥ भूमात्वेवेति ॥ एवमुक्ते नारदः पृच्छति ॥ भूमानमिति ॥ त्रयोविंशः खण्डः ॥ 23 ॥ भूम्नो सदृशत्वं लक्षणमाह ॥ यत्रेति ॥ यत्र यस्याधीनं विनान्यन्नपश्यत्यधिकारी सर्वमेतदधीनं पश्यति शृणोति विजानाति वा सभूमेत्यर्थः । अस्यातिव्याप्तिं निराह ॥ अथ यत्रेति ॥ अत्रापि यत्र यस्याधीनं विनान्यत्पश्यति । अन्यद्यदधीनं पश्यतीति यावत्‌ । तदल्पमित्यर्थः । भूम्नो नित्यमुक्तत्वं लक्षणान्तरमाह ॥ योवा इति ॥ अतिव्याप्तिमुद्धरति ॥ अथेति ॥ यदल्पं मुक्तजातं तदपि पूर्वं मर्त्यमेव अतो न तस्यातिव्याप्तिरिति भावः । जानन्नपि नारदो विशेषार्त ज्ञानायस्थापनाय वा भूमाश्रयं पृच्छति ॥ स इति ॥ उत्तरमाह ॥ स्व इति ॥ आश्रय प्रश्ऱ्नस्य प्रकारान्तरेणापि उत्तरमाह ॥ यदि वेति ॥ यद्वा नमहिम्नययमाश्रितः ॥ 1 ॥ ननु स्वमहिमाश्रयत्वे महिमाश्रयत्वं प्राप्तमेव अतो विरोध इत्यतः परिच्छिन्न महिमानश्रयत्वं अभिप्रेतमिति भावेनोक्तं विशदयति ॥ गो अश्ऱ्वेति ॥ यश्ऱ्चैत्रो महिम्नि प्रतिष्ठितः तं गो अश्ऱ्वमहिमेति गवाश्ऱ्वमहिमेत्याचक्षते विद्वांसः । क्वचित्तु गो अश्ऱ्वमिहमहिमोति पाठः । तदेह जगति गो अश्ऱ्वं तथा हस्ति हिरण्यं दासभार्यं द्वन्द्वैकवद्भावः । क्षेत्राण्यायतनानि गृहाण्यस्य महिमेत्याचक्षते । किं ततः । अहं भूमानमेवं चैत्रवत्‌ परिच्छिन्नमहिमाश्रयं न ब्रवीमीति होवाच कुमारः । स्वेमहिम्नीत्युक्तं नातिप्रसक्तमित्याह ॥ अन्य इति ॥ अयं तु स्वमहिम्नयेवेति तद्विलक्षण इत्यर्थः ॥ 2 ॥ चतुर्विंशः खण्डः ॥ 24 ॥ भूम्नः सर्वगतत्वाख्यं पूर्णत्वं च लक्षणमाह ॥ स एवेति ॥ सर्वगतत्वं सर्वसत्ताप्रदानायेति भावेनोक्तम्‌ ॥ स एवेदं सर्वमिति ॥ स एव स्वतन्त्रः सर्वं तदधीनमित्यर्थः । यद्वेदं सर्वमित्यस्य लिंगव्यत्यासेन अयं सर्व इत्यंगीकृत्य भूमासर्वत्र सन्निहितत्वादयं पूर्णत्वात्‌ सर्व इत्युच्यत इत्यर्थो वर्णनीयः । भूमाख्यस्यैव नारायणस्य रूपान्तरं वक्तुमारभते ॥ अथेति ॥ अथ भूमनिरूपणानन्तरं अतः तत्प्रसादात्‌ अहंकारस्याहमित्याक्रियमाणस्य जीवस्थ अनिरुद्धस्य आदेशः क्रियत इत्यथर्ः । कोसावहंकार इत्यतो भूमलक्षणमेव तल्लक्षणम्‌ । तयोरभेदादिति भावेनाह ॥ अहमेवेति ॥ 1 ॥ तस्यैव वासुदेवाख्यं रूपान्तरमाह ॥ अथात इत्यादिना ॥ तस्यापि तलक्षणमेव लक्षणमिति भावेनाह ॥ आत्मैवेति ॥ नामादि प्राणां तदेव उत्तमत्वेन उक्त विशेषणविशिष्यत्वेन च भगवज्ज्ञानिनः फलमाह ॥ स इति ॥ सवा एषोधिकारी एवं ृण्वन्नेवं मन्वान एवं ध्यायन्नेयं पश्यन्मुक्तः सन्नात्मरतिः आत्मना परमात्मना रतिः अलं बुद्धिः यस्य सतथोक्तः । आत्मना क्रीडत इत्यात्मक्रीडः । आत्मना स्वयं स्त्रीरूपः सन्मिथुनीभवतीत्यात्ममिथुनः । आत्मनैव आनन्दः स्वरूपभूतो यस्यासावात्मनन्दः । समुक्तः स्वोभगवान्‌ राट्‌ आज्ञापयिता प्रत्यक्षतो भवतीति स्वराट्‌ । तस्य मुक्तस्य सर्वेषु कामचारो भवति । इदं चतुर्मुखस्यैव मुख्यमन्येषां यथायोग्यमिति विवेकः । एवं भगवज्ज्ञानिनः फलमुक्त्वा विपरीत ज्ञानिनो नोक्तं फलं भवतीत्याह ॥ अथ य इति ॥ अतः पूर्वोक्तात्‌ अन्यथा ये विदुस्तेन्यराजानः स्वाधमनियामकवन्तो भवन्ति । तथा क्षय्याः क्षेतुं शक्या लोकाः येषांते क्षय्यलोकाः भवन्ति । न केवलमेतावत्‌ । तमः प्राप्तिश्ऱ्चेति ज्ञातव्यम्‌ ॥ 2 ॥ पंचविंशः खण्डः ॥ 25 ॥ मुक्तस्यैव महिमान्तरमाह ॥ तस्येति ॥ तस्य हवा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानतो मुक्तस्य पश्ततः सत आत्मतः प्राणो मुख्यप्राणो जायते स्थितः संह्रियते इत्यादि योज्यम्‌ । तथाच भगवत्‌ कर्तृकं प्राणादीनां सवर्जनादिकं मुक्तः पश्यतीत्यर्थः । आपोबाह्याः । आविर्भावतिरोभावावित्यन्तर्जलाभिप्ररयेण मन्त्राः कर्मणीति नामा अपेक्षयानी च कक्ष्योक्तिः । यद्यपि स्वाहावै मन्त्र देवतेत्यन्यत्रोक्तम्‌ । तथापि तारतम्यप्रकरणात्‌ तस्याश्‌च वाक्‌ शब्देन गृहीतत्वात अन्यत्र ग्राह्या । कर्मेति पुष्करः प्रोक्तः । न केवलमेतावत्‌ । किन्तु आत्मत एवेदं सर्वं जगज्जननादि प्राप्नोति ॥ 1 ॥ मुक्तस्य मरणाद्यभावं च श्ऱ्लोकेन वदन्नुक्तार्थेतामह ॥ तदिति ॥ तत्तत्र । मुक्तो भगवत्‌ कर्तृक जगत्सर्जनादि पश्यतीत्यादावेषः वक्ष्यमाणः श्ऱ्लोको भवति । पश्यतीति पश्योद्रष्या । मुक्तो मृत्युरोगदुःखानि न पश्यति । पश्यो द्रष्या सर्वं भगवत्‌ कर्तृकं जगत्‌ सर्जनादि पश्यति । सः मुक्तः सर्वशः सर्वं समाप्नोति । इति तस्यैव स्वेच्छानिबन्धनमेकरूपत्वं माहात्म्यमाह ॥ स इति ॥ नव धास्थित एव पुनरेकादशो भवति । शतं च दशचैकं चेत्येकः पक्षः । तेनैकधैकादश इत्युक्त्या न पुनरुक्तिः । प्रकृत मोक्षसाधनान्येव क्रमापन्नान्याह ॥ आहारेति ॥ गुरोर्विद्याहरणस्य श्रवणस्य शुद्धौ सत्त्वशुद्धिः ज्ञानशुद्धिः मननशुद्धिः । तच्छुद्धौ ध्रुवास्मृतिः ध्यानम्‌ । स्मृतिलम्भेस्थिरस्मृतिलाभेत्वापरोक्ष्यं हरेरिति ग्राह्यम्‌ । ततोऽविद्यादि सर्वग्रन्थीनां क्षिप्रं मोक्षो भवति । श्रुतिः स्वयमाह ॥ तस्मा इति ॥ तस्मै मृदितकषाया योत्सारितदुःखाय देवर्ष ये भगवज्ज्ञानिने नारयाय तमसो ज्ञानस्य पारमन्तं इत्थं दर्शयति ॥ दर्शितवान्‌ । भगवान्‌ सनत्कुमारः । कुमारस्येत्थं सामर्थ्यं कथमित्यत आह॥ तमिति ॥ द्विरुक्तिरवधारणार्था ॥ 2 ॥ षड्‌िवंशः खण्डः ॥ 26 ॥
इति श्रीमदानन्दतीर्थ भगवत्पादविरचितस्य श्रीमच्छन्दोगोपनिषद्भाष्यस्य टीकायां श्रीमद्वेदव्यासतीर्थ पूज्यपादशिष्येण वेदेशभिक्षुणा विरचितयां पदार्थकौमुद्यां सप्तमोऽध्यायः समाप्तः ॥ 7 ॥

***************************************************************************************************

अष्टमोऽध्यायः

हृत्पुण्डरीकगाकाशगतं आकाशनामकम्‌ ।
नानारूपं जग्रदादि प्रवर्तक महंभजे ॥ 1
पूर्वाध्यायेषु बाह्मया एव ब्रह्मविद्या निरूपिताः ।
इदां अन्तरीं सर्वमुमुक्षुसाधारणीं हृत्पुण्डरीक विद्यां निरूपयत्यननाध्यायेन । येषां बहिरुपासनेन मोक्षस्तेषामपि हृद्युपासनं किंचित्कार्यमेव । यदिदं अस्मिन्‌ ब्रह्मपुर इत्यत्र ब्रह्मपुरशब्देन षष्ठीसमासात्‌ शरीरमात्रं विवक्षितमिति प्रतीतिनिरासाय तदनूद्य व्याचष्ये ॥ यदिदमिति ॥ एतत्‌ सत्यं ब्रह्मपुरमिति वाक्यस्थ ब्रह्मपुरशब्द व्यावर्तनाय अनुवादः । तत्र परब्रह्मण एव विवक्षितत्वात्‌ । ब्रह्मणः कथं पुरत्वं तदधिष्ठातुः अभावादित्यत आह ॥ पूणर्त्वादिति ॥ इत्युभयं ब्रह्मपुरशब्देन विवक्षितमित्यन्वयः । तन्त्रन्यायेन कर्मधारय षष्ठीतत्पुरुषयोः आश्रयणादिति भावः। किमुभयविवक्षाज्ञापकमित्यतो ब्रह्मपुरशब्दस्य तावद्ब्रह्मविवक्षाज्ञापकौ समाख्यः उपसंहारावाह ॥ प्राप्त इत्यादिना ॥ तत्र निवासामिनिवासाम्यहमिति भगवद्वचनाच्चेति योज्यम्‌ । भगवद्वचनात्‌ तत्समाख्यानादित्यर्थः । समाख्यारूप भगवद्वचेनेपि ब्रह्मपुरशब्दस्य अवध्यत्वलिंगबलात्‌ परब्रह्मपत्वमिति द्रष्यव्यम्‌ । वाक्यशेषोक्त सर्वाश्रयत्वादि लिंगानां अन्यत्रा सम्भवाद्ब्रह्म पुरशब्देन ब्रह्मोच्यत इत्यवसीयत इत्यर्थः । शरीरं च ब्रह्मपुरशब्देन विवक्षितमित्यतेतत्समाख्याभ्यामुपपादयति ॥ यत्पुण्डरीकमिति ॥ यत्पुण्डरीकमिति तैत्तिरीयवाक्ये पुण्डरीकाश्रयत्वेन उक्तं पुरं तावत्‌ शरीरमिति प्रसिद्धम्‌ । तथाच तत्समाख्यानादत्रापि ब्रह्मपुरेदहरं पुण्डरीकाश्रयत्वेन श्रूयमाणं ब्रह्मपुरं शरीरमित्यवसीयते । यदिदमिति श्रुत्यन्तरे शरीरस्य देवसदनत्वोक्त्या ब्रह्मपुरत्वं लब्धम्‌ । तथाच तत्समाख्यानादत्रापि ब्रह्मपुरशब्दन शरीरमुच्त इत्यवसीयत इति भावः । ननु ब्रह्मपुरशब्देन भगवानपि चेद्विवक्षितस्तर्हि तस्यास्मिन्‌ ब्रह्मपुरेदहरं पुण्डरीकं वेश्मेत्युक्तं हृत्पुण्डरीकाश्रयत्वं कथम्‌ । तस्य शरीरधर्मत्वात्‌ । ब्रह्मणश्ऱ्च हृत्पुण्डरीकान्तर्गतस्य तदाश्रयत्वायोगादित्यतो भगवतोपि हृत्पुण्डरीकाश्रयत्वं उपपादयति ॥ यद्वैतदिति ॥ पुरुषात्‌ जीवाद्बहिर्द्धा देहव्यापीयोयमासमन्तात्‌ काशत इत्याकाशः तदिदं सर्वगं ब्रह्मेति ब्रह्मणः शरीरव्यापित्वं उच्यते । तथाच शरीरव्यापि भगवद्रूपविशेषस्य हृत्पुण्डरीकाश्रयत्वं मुपपद्यत एव । यस्त्वित्यनेन च परब्रह्मणः सर्वाश्रयत्वोक्त्या सर्वान्तः पातिहृदयं हृत्पुण्डरीकमपि तत्र स्थितं तदाश्रितमिति सिद्धमेव इति भावः । दहरोस्मिन्नन्तराकाश इति वादानुवादयोः आकाशशब्देन परं ब्रह्मविवक्षितमित्यतसत्‌ । तस्मिन्‌ यदन्तः किं तदत्र विद्यते इत्युत्तरवाक्य विरोधात्‌ । नहि ब्रह्मस्थमन्यदन्वेष्यव्यम्‌ । किन्तु ब्रह्मैव । नच किं तदत्र विद्यत इत्यस्य किंचन न विद्यत इत्यभिप्रायः । यदि नाम बदरमात्रं किमपि तत्र विद्यते तर्हि किं तस्यान्वेषणेन फलं स्यादतोयत्तत्रान्वेष्यव्यं विजिज्ञासितव्यं वानतेन प्रयोजनमित्याक्षेपार्थत्वात्‌ अदोष इति वाच्यम्‌ । तथापि तस्मिन्‌ यदन्तरिति वाक्यविरोधापरिहारात्‌ । आक्षेपार्तत्वे यदि नाम बदरमात्रं विद्यत इत्यध्याहारप्रसंगात्‌ प्रश्ऱ्नार्थत्वमेव वक्तव्यमतः कथमेतदित्यतः तदनूद्यार्थमाह ॥ दहरोस्मिन्निति ॥ नन्वस्त्वाकाश शब्देन भूताकाशो विवक्षित इति तथापि किं भूताकाशे विद्यत इति प्रश्‌नस्य ब्रह्मविद्यत इति परिहारं विनरवरन्वा अयमाकाश इत्यस्य अन्वयाभाव इत्याशंकां परिहरति ॥ किमिति ॥ अयमित्युक्तमेव विवृण्वन्‌ यावान्वा अयमिति वाक्यं यथा प्रश्ऱ्नोत्तरत्वहेन अन्वितं स्यात्‌ तथा तत्तात्पर्यमाह ॥ अस्मिन्निति ॥ अन्तर्हृदय इत्यस्यार्थोऽस्मिन्‌ भूताकाश इति । यावान्वा अयमाकाश इत्युक्ताकाश शब्दव्याख्यानं परब्रह्माख्य इति । परब्रह्माख्याकाशे आकाशशब्दं त्रेधानिर्वक्ति ॥ आसमन्तादित्यादिना ॥ कं सुखम्‌ । अस्मिन्‌ कामा इत्युत्तरत्र सम्बध्यते । ननु उक्तयोगेनापि अयमाकाश इत्युक्ताकाश शब्दस्य न परब्रपरत्वं युक्तम्‌ । तथा सति तस्य यावान्वा अयमाकाशः तावानेष इति हृद्गताकाशस्थेन अभेदोक्त्ययोगात्‌ । नहि हृद्गताकाशस्थस्य परब्रह्मणोल्पपरिमाणस्य बाह्येन व्याप्तेन आकाशनाम्नाऽभेदो युज्यत इत्याशंकां यावावा अयमाकाश इति वाक्यार्थं विशदयन्‌ परिहरति ॥ सचेत्यादिना ॥ पूर्णगुणत्वात्‌ उभयोरिति शेषः । विरुद्धपरिमाणयोरपि गुणत एवैक्यमितीदमभ्युपेत्यैवोक्तम्‌ । वस्तुतो अल्पपरिमाणस्यापि महत्परिमाणं अस्त्वेव इत्युपपादयितुमाह ॥ अल्पपरिमाण्यापीति ॥ युज्यतेचेत्यन्वयः । विरुद्धं कथं युज्यत इत्यत आह ॥ अचिंत्येति ॥ ननु यत्प्रमाणप्रसिद्धं लोकदृष्ययाविरुद्धं च तदेवाचिन्त्यशक्त्योपपाद्यत इति हिसिद्धन्तः । अन्यथाति प्रसंगात्‌ । नचेश्ऱ्वरस्य युगपदणुत्वं महत्त्वं च प्रामाणिकम्‌ । येनाचिन्त्यशक्त्योपपादनीयं स्यादित्यतः तत्र प्रमाणमप्याह ॥ यस्मिन्निति ॥ ननु यस्मिन्विरुद्धगतयो विरुद्धाश्रया अपिधर्माः । आनुपूर्व्याकालानुक्रमेण पतन्ति वर्तन्त इत कालभेदेन अणुत्वमहत्त्वादिरूपविरुद्धधर्म समावेशः कथ्यते । नच इदमलौकिकं येनाचिन्त्यशक्त्योपपाद्यं स्यादित्यत आनुपूव्यर्ेति पदमनूद्यव्याचष्ये ॥ आनुपूर्व्येति ॥ नन्वानुपूर्वी श्रुतिरिति कुत इत्यतः तत्राभिधानमाह ॥ अनुपूर्वीति ॥ ननु भवत्वानुपूर्वी श्रुतिः । अत्र साविवक्षितेति कुतः । अनुक्रम एव किं न स्यादित्यतः तत्र बाधकमाह ॥ अन्यथेति ॥ आनुपूर्वीशब्दस्य कालानुक्रमार्तत्वांगीकारे अनिशं पतन्तीत्युक्ति विरोधः स्यात्‌ । अतोयं न तदर्थः । किन्तु उक्ताथर् एवेत्यर्थः ॥ ततश्ऱ्चायं खण्डार्थः ॥ यस्मिन्विद्यादयो विविधशक्तयः पतति वर्तन्ते । न केवलमेतावत्‌ । किन्तु विरुद्धगतयोप्यन्यत्र विभिन्नाश्रया अप्यणुत्वमहत्त्वादयो वर्तन्ते । किं कालभेदेन नेत्याह ॥ अनिशमिति ॥ कुतः आनुपूव्यर्ाश्रत्येत्यर्थः । तद्ब्रह्माहं प्रपद्य इत्युत्तरार्धेन अन्वयः । भगवति युगपदणुत्वमहत्त्व प्रतिपादिकां स्पष्यां श्रुतिं चाह ॥ एष इति ॥ ननु यदि श्रुतिबलाद्युगपदणुत्वमहत्त्दयो विरुद्धा अपि धर्मा भगवति वर्तन्त इत्यंगीक्रियते । तदा दोषा अपि तत्र कुतो नांगीकार्याः तेषामपि जनितोत विष्णोः इत्यादौ श्रुत्वादित्याशंकां श्रुतिस्मृभ्यां परिहरति ॥ गुणा इति ॥ अश्रुता अपि सन्ति । अश्रुता अपि रमादि चिन्त्याः तदचिन्त्याश्ऱ्च । दोषाः श्रुता अपि न सन्ति । हि यस्मात्‌ अज्ञैः श्रुतितात्पर्यज्ञानशून्यैः तथाप्रतीता इत्यर्थः । अनेन लोकदृष्यया विरुद्धा अपि धर्मा भगवति सतीत्येतदपि प्रमाणान्तरेण उपपादितमिति द्रष्यव्यम्‌ । ननु तथापि अन्तर्हृदय इत्यस्य अस्मिन्‌ भूताकाश इति व्याख्यानं कथम्‌ तद्बोधकपदाभावादित्यत आह ॥ किमिति ॥ नात्र भूताकाश बोधकपदाभावः । हृदयपदस्यैव सत्त्वात्‌ । नचान्तःकरणमेव हृदयं किं न स्यादिति वाच्यम्‌ । किं तदत्र विद्यत इति हृद्गताकाशस्थ परब्रह्मलक्षण प्रश्ऱ्नेयावान्वा इत्यादिना तद्गतस्यैव लक्षणं वक्तव्यम्‌ । नत्वन्तःकारणरूप हृदयगतस्य । वैयधिकरण्यप्रसंगात्‌ । अतो हृदयपदं तत्स्थकाशपरमेवेति भावः । तर्हि लक्षणाप्रसंग इत्यत आह ॥ हृद्ययनादिति ॥ अत एवोच्यत इत्युक्तम्‌ । एवं पदार्थमुपपाद्येदानीं वाक्यार्थं पूर्वोक्तमेव स्फुटमाह ॥ तस्मिन्निति ॥ ननु हृदयाख्याकाशन्तः परब्रह्माख्याकाशो विद्यत इति कस्मादंगीकार्यम्‌ । अन्तर्हृदय आकाश इत्याकाशपदं भूताकाशपरमेव किं न स्यात्‌ । तस्य तत्र रूढत्वादित्याशंकायां तत्र बाधकमाह ॥ अन्यथेति ॥ यदि रूढिबलादन्तर्हृदय आकाश इत्याकाशशब्दस्य भूताकाशमेव अथः तर्हि यावान्वा अयमाकाशः तावानेष इत्युक्तं हृद्गताकाशस्य बहिराकाशेन परिमाणसाम्यमयुक्तं स्यात्‌ । अस्य दहरत्वात्‌ । तस्य व्याप्तत्वात्‌ । अत उक्तरीत्योभयाकाशशब्दं ब्रह्मैव तत्र च युगपदणुत्वमहत्वसमावेश उपपादित एवेति भावः । नन्विदमयुक्तम्‌ । दहरोस्मिन्‌ अन्तराकाश इत्याकाशशब्देन भूताकाशो विवक्षित इत्युक्तत्वेन तस्मिन्‌ च्छब्दवाच्यतया बुद्धिस्थेयावान्वा इत्दावाप्याकाशशब्देन तस्यैव ग्राह्यत्वात्‌ । बाधकं विना एकस्मिन्‌ प्रकारणे श्रुतस्य शब्दस्य अर्थद्वयकल्पनायोगादित्यतः तत्र बाधकमाह ॥ दहर इति ॥ दहरत्वं उक्तमतो भूताकाश एव स इति शेषः । एवं तर्हि पूर्वोक्ता आकाशोपि ब्रह्माकाश एव किं न स्यात्‌ । दहरत्वस्य तस्मिन्नपि सम्भवात्‌ । किं वृथैकप्रकरणगताकाशशब्दार्थ भेदकथनेनेत्यत आह ॥ पूर्वोक्तस्येति ॥ दहरोस्मिन्नन्तराकाश इति पूर्वोक्तक्तस्याकाश शब्दस्य भूताकाशार्थत्वमं अनंगीकृत्य परब्रह्मार्थत्वांगीकारे तस्मिन्नित्यादि वाक्यशेषः । दहरं विपापं परत्वेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थं तत्रापीति समाख्यावाक्कथं युज्यते । न कथमपीत्यर्थः । तत्रापि हृत्पुण्डरीकेपि दहरं गगनं तस्मिन्‌ यदन्तर्विशोकं ब्रह्म तदपासितव्यमिति समाख्यावाक्यार्थः । समाख्यावाक्येपि । तस्मिन्‌ यदन्तरित्युक्तं ब्रह्मेति कुत इति चेत्‌ । विशोकत्व लिंगात्‌ । अन्यत्र स्पष्यं परब्रह्म लिंगमाह ॥ सहस्रेति ॥ आदिपदेन विश्ऱ्वाक्षमित्यादि लिंगानां नारायण श्रुतेश्ऱ्च संग्रहः । तस्मिन्निति वाक्यशेषोनोपद्यत इत्युक्तमुपपादयति ॥ नहीति ॥ यदि दहरोस्मिन्नन्तराकाश इत्यत्राकाशं ब्रह्म विवक्षितं स्यात्तर्हि तस्मिन्यदन्तरित्युक्तत्वेन भगवदन्तः स्थितमेव अन्यत्किंचित्‌ विजिज्ञास्यं स्यात्‌ । नच तत्सम्भवति । तमेवैकं जानथेत्यादि श्रुतिविरोधादिति भावः । बाधकान्तरमप्याह ॥ तद्वावेति ॥ यद्यत्र भगवदति रिक्तं किंचिद्विजिज्ञास्यं विवक्षितं स्यात्तदातद्वाव विजिज्ञासितव्यमित्यत्र तद्वावेत्यन्ययोगव्यावच्छेदपरावधारणमनुपपन्नं स्यात्‌ । भगवत एव विजिज्ञास्य स्यासत्त्वादित्यर्थः । एवं पूर्वोक्ताकाशस्य भूताकाशत्वं समथ्यर्ोवास्तु । न भूताकाशत्वम्‌ । नचैवं तस्मिन्यदन्तरिति तदन्तस्थमुपास्यं इत्युक्ते किं तत्र स्थमिति प्रश्ऱ्नेतावानेषान्तर्हृदय आकाश इति परिहारा संगतिः । नहि ब्रह्मस्थं ब्रह्मैव उपास्यं इति सम्भवति वाच्यम्‌ । अन्तर्हृदय आकाश इत्यस्य परिहारत्वासम्मतेः । उभे अस्मिन्‌ द्यावापृथिवी इत्यादेः एव परिहारत्वात्‌ । तथाहि । किं तत्र स्थमिति प्रश्ऱ्नेयावान्वा अयमाकाश इति प्रागाधारत्वेन उक्ताकाशमेव द्यावापृथिव्याद्याश्रयत्व योग्यत्वाय बाह्याकाश तुल्यतया विशिष्योभे अस्मिन्नित्यादि परिहार संश्ऱ्लेषात्‌ । तथाच तदन्तर्गतं द्वयादिकमेव उपास्यं इति परिहाराभिप्रायः । नहि भगवदन्तस्थितमेव अन्यत्किंचिद्विजिज्ञासितव्यमित्युक्तमिति वाच्यम्‌ । प्रतिज्ञामात्रत्वात्‌ । अन्यस्यैव जिज्ञास्यत्वे बाधकाभावेना अवधारणविरोधाभावाच्चेत्यत आह ॥ किं तदत्र विद्यत इति ॥ तर्हि तद्वयर्थं स्यादित्यत आह ॥ तत्त्विति ॥ ननु कुत उभे अस्मिन्नित्यादेः परिहारत्वाभाव इति चेत्‌ । तथा सति द्यावापृथिव्यादीनामेव विजिज्ञास्य त्वमित्युक्तं स्यात्‌ । नच तदस्तीत्याह ॥ नहीति ॥ कुतोनेत्यत आह ॥ तमेवेति ॥ अनेन अवदारणविरोधोप्युपपादितः । ननु उभे अस्मिन्‌ द्यावापृथिवी उभावग्निश्ऱ्च वायुश्ऱ्च सूर्याचन्द्रमसा उभावित्यत्रो भशब्दो व्यर्थः । द्वित्वस्य द्यावापृथिवीत्यादिनैव ज्ञापितत्वादित्यत आह ॥ उभे इति ॥ इत्यदौ विद्यमान उभशब्द इत्यर्थः । अनेन द्यावापृथिवी इत्यादिशब्दाश्ऱ्चेतनपरा इत्युक्तं भवति । नन्वमुक्तसर्वाधारत्वमेव अत्रोच्यते । नतु मुक्ताधारत्वम्‌ । तज्ज्ञापकाभावात्‌ । ततश्ऱ्चोभ शब्दवैयर्थ्यं तदवस्थमित्यत आह ॥ यच्चास्येति ॥ ननु यच्चास्येति वाक्यशेषस्यापि मुक्तामुक्तपरता कुत इत्यतः तद्दर्शयितुमस्येत्यस्य तावदर्थमाह ॥ अस्येतीति ॥ नन्वेवं सत्यस्य संसारिणो यदस्तीत्यमुक्तो यच्चनास्तीति मुक्तः कथ्यत इत्यायातम्‌ । नच तत्सम्भवति । मुक्तानामपि संसारिणं प्रत्येव सत्त्वेन नास्तीति वचनायोगादित्यत आह ॥ नहीति ॥ तथाच मुक्तराशिः तदनुपकारित्वात्तं प्रतिनास्तीत्युच्यत इति भावः । सतोप्यनुपकारित्वेन असत्त्वव्यपदेशः कुत्र दृष्य इत्यत आह ॥ यद्यस्येति ॥

यथा ह्येवेह प्रजा अन्वाविशन्तीत्येतत्‌ । यथा शब्दस्योपमार्थत्व प्रतीतिं वारयन्‌ व्याचष्ये ॥ यथायोग्यमिति ॥ अमुक्तपरतवारणाय प्रजाशब्दमनूद्य व्याचष्ये ॥ प्रजा इति ॥ इहेत्यस्यार्थः एनं भगवन्तमिति । अन्वाविशन्तीत्यस्य कर्मसापेक्षत्वादेवं व्याख्यातम्‌ । यथानुशासनमित्यत्र यथाशब्दस्य अथर्ान्तरतपरत्वेऽसंगतिं आलोच्य अनतिक्रममार्थत्वं अभिप्रेत्य तद्वयाचष्ये ॥ तच्छासनेति ॥ यं यमन्तमभिकामा इत्यादिकं तं तमेवोपजीवन्तीति मुक्तानां तत्र स्वातन्त्ऱ्यप्तीतिं वारयन्‌ व्याचष्ये ॥ यं यमित्यादिना ॥ कामं काम्यत इति कामोन्तादिस्तम्‌ । अस्मादेवेत्यनेन यथानुशासनमित्येतदत्रापि अनुवर्तनीयमित्युक्तं भवति । तद्यथेह कर्मजितो लोक इत्यादि क्षीयत इत्यन्तं वाक्यमपि प्रकृतमुक्त परमेवेति प्रतीतिं वारयन्‌ व्याचष्ये ॥ तदविदुषामिति ॥ तदविदुषामित्यनेनेदं वाक्यं भगवत्परमित्युपपादितमिति ज्ञातव्यम्‌ । यं यमन्तमभिकामाभवन्तीत्युक्ता एव सत्याः कामा एतांश्ऱ्च सत्यान्‌ कामानिति परामृश्यन्त इत्यसत्‌ । भगवदितरसत्यकामा ज्ञानाज्ञानयोः वक्ष्यमाणफलान्वय यतिरेक अप्रयोजकत्वात्‌ । अतः सत्यकामा इत्याद्युक्ता भगवद्धर्मा एव अत्र परामृश्यन्त इत्याशयेनाह ॥ एतानिति ॥ श्रुतौ भाष्ये च बहुवचनमाध्यर्थे । तेन पूर्वोक्त सकलधर्मपरामर्शसिद्धिः । एवं परब्रह्म परतया शरीरपरतया च ब्रह्मपुरशब्दं सोपपत्तिकं व्याख्यायपुनः तदेव दृढीकुर्वन्नादित आरभ्य खण्डषट्‌कं अप्रतिपत्तिनिरासाय प्रमाणेन व्याचष्ये ॥ बृहत्त्वादित्यादिना ॥ तस्मिन्‌ हृदयमास्थितमिति सम्बन्धः । उक्तरीत्याशरीरव्यापि भगवन्मूर्ति विशेशस्य हृदयाश्रयत्वं ज्ञातव्यम्‌ । तस्य विष्णोः पुरं देहस्तस्मिन्‌ हृदयमास्थितमिति ब्रहमपुरशब्दस्य व्याख्यानान्तरम्‌ । हृदयाकाशगो विष्णुः इत्यनेन दहरोस्मिन्नन्तराकाश इत्यारभ्यतावानेषोन्तर्हृदय आकाश इत्यन्तं व्याख्यातम्‌ । विष्णुः व्याप्तः । उभे अस्मिन्‌ द्यावापृथिवी इत्यादिकं व्याचष्ये ॥ तस्मिन्निति ॥ सत्यकामा इत्येतदनूद्येच्छा सत्यत्वस्य सवर्साधारण्यात्‌ व्याचष्ये ॥ स इत्यादिना ॥ एतत्‌ साध्यतयाऽस्मिन्‌ समाहिताः कामाः इत्येतद्योज्यमित्याशयेनाह ॥ तस्मिन्निति ॥ अत एव व्यत्यासेन व्याख्यातम्‌ । तेन यतः सत्यकामोऽतोस्मिन्‌ सर्वेकामाः समाहिता इति योजनोक्ता भवति । यं यमन्तमभिकामा भवन्तीत्यादि व्याचष्ये ॥ सत्या इति ॥ पुंसां मुक्तानां ध्रुवमव्यभिचारेण । यदि मुक्तानामपि कामाः सत्याः तदाको विशेषो भगवत इत्यत आह ॥ तस्यैवेति ॥ भगवत्कामस्यैव । अनेन यथा अनुशासनमित्येतदत्रापि अनुवर्तनीयमित्युक्तं भवति ॥ प्रथमः खण्डः ॥ 1 ॥ सत्यत्वमुक्तं मुक्तकामस्य । अनेनैव सयदि पितृलोककामो भवतीत्यादि खण्डतात्पर्यमप्युक्तमिति ज्ञातव्यम्‌ । तदेव दृष्यान्तेन द्रढयति ॥ यथेति ॥ बिम्बानुसारेण बिम्बधर्मानुसारेण ॥ द्वितीयः खण्डः ॥ 2 ॥ यदि मुक्तौ सत्यकामत्वं तर्हि तत्पूर्वमपि स्यादेव । मुक्तधर्मणान्तत्‌ स्वभावत्वात्‌ । तथाच अनुपलम्भ बाधः । इत्याशंकापरिहाराय प्रवृत्तन्त इमे सत्याः कामाः अनृतापि धाना इति वाक्यं व्याचष्ये ॥ तस्मादिति ॥ अनेन सर्वेषामपि कामाः सत्या इति यथाश्रुत प्रतीतिरपि अपास्ता । तदज्ञानात्‌ भगवदज्ञानादित्यनेन अनृतशब्दो व्याख्यातः । क्वचित्‌ सत्या दृश्यंत एवेत्यत उक्तम्‌ ॥ तथाखिला इति ॥ यथा मुक्तौ तथेत्यर्थः । नन्वनृतापि धाना इति मिथ्याभूत वस्त्वाच्छादि तत्वोक्तेः कथमज्ञानात्‌ न दृश्यन्त इत्युक्तमित्यत आह ॥ अज्ञानमिति ॥ कुत इत्यत आह ॥ ऋगताविति ॥ गत्यर्थानां ज्ञानार्थत्वात्‌ निष्ठाप्रत्ययस्य च भावार्थत्वात्‌ । ऋतं ज्ञानं तद्विरुद्धमज्ञानमनृतमित्यर्थः । यो योह्यस्येतः प्रैतीत्यादि व्याचष्ये ॥ तस्मादिति ॥ सत्यकामत्वस्य पूर्वमज्ञानावृतत्वात्‌ । सर्वं तदत्रेत्यादि व्याचष्ये ॥ हरेः लोकमिति ॥ मुक्तः सन्‌ हरेः लोकं गत्वा द्रष्युं यदिष्यं स्यात्‌ तत्पश्यतीत्यन्वयः । इमाः सर्वा इत्यारभ्य प्रत्यूढा इत्यन्तवाक्यस्य तात्पर्यमाह ॥ अज्ञात्वादेवेति ॥ सवा एष इत्यारभ्य हृदयमितीत्यन्तस्य अर्थमाह ॥ असाविति ॥ अहरहर्वा एवमिति फलप्रतिपादकं वाक्यं प्रसिद्धस्वर्गप्राप्तिपरता प्रतीति वारणाय व्याचष्ये ॥ एवमिति ॥ अहरहरित्यस्य अथर्ोनित्यश इति । स्वरूपभूतरमण ज्ञानात्मको विष्णुः स्वगर्ः तस्य लोक इति पदार्थं अभिप्रेत्योक्तम्‌ ॥ विष्णुलोकेति ॥ विष्रु लोकगतेः अनन्तरमिति शेषः । स्वर्गश्ऱ्च असौ लोकश्ऱ्चेति पदार्थं अभिप्रेत्योक्तं विष्णुमिति । विष्णुलोके स्थित्वा यावत्‌ स्वस्वरूपाविर्भावानुगुणं पुण्यं सम्पाद्य ब्रह्मणा सह विष्णुं वअजेदित्यर्थः । य एष सम्प्रसाद इत्यत्र सम्प्रसादशब्दस्य सुप्तिपरत्व प्रतीतिवारणाय प्रकृतोपयुक्तमर्थमाह ॥ यस्येति ॥ स एवेति सम्बन्धः । वाक्यार्थमाह ॥ स उत्थायेति ॥ एष आत्मेत्यत्र आविर्भूत स्वरूपस्य मुक्तस्य परामर्शे एतदमृतमभयमित्यादि विरुद्धं स्यादतः तत्परामृश्यं दर्शयंस्तद्वाक्यं व्याचष्ये ॥ यं प्राप्येति ॥ तथाच परं ज्योतिः शब्दोक्तः प्राप्य एव भगवानेष इत्यनेन परामृश्यत इति भावः । इति होवाचेत्यत्र कर्त्रप्रतीतेराह ॥ इत्याहेति ॥ उपनिषदोरमावाक्यत्वादिति भावः । तस्य हवा एतस्येत्यादि वाक्यं व्याचष्ये ॥ सदिति ॥ अमृतत्वं धर्मो येषांते तथोक्ताः । मुक्त अपीति सम्बन्धः । तृतीयः खण्डः ॥ 3 ॥ सेतुः विधृतिरित्यस्य अर्थमाह ॥ सेतुरिति ॥ अपिशब्देन विधृतिः इति समुच्चीयते । विधारणात्‌ विधृतिः इत्यन्वयः । विधृतिशब्दागतार्थत्वेन सेतुशब्दं व्याचष्ये ॥ सितमिति ॥ सितं बद्धम्‌ । सम्बद्धमिति यावत्‌ । एतं सेतुं तीर्त्वा इति सेतुनामक परमात्मातिक्रमानन्तरं स्वरूपाविर्भावः कथ्यत इत्याशंकानिरासाय अपेक्षितं पूरयन्‌ व्याचष्ये ॥ एतं सेतुमिति ॥ प्रति गन्तुमिति शेषः । तद्य एवैतं ब्रहमलोकमित्यादि व्याचष्ये ॥ स प्राप्य इति ॥ अनेन ब्रह्मलोक शब्दो ब्रह्मचासौ लोकाश्रयश्ऱ्च इति व्याख्यात इत्यवगन्तव्यम्‌ । ननु ब्रह्मचर्यं नाम गुह्येन्द्रियनियमनम्‌ । तेन कथं ब्रह्मप्राप्तिः । ज्ञानमात्र साध्यत्वात्‌ तस्या इत्यतोत्र विवक्षितं ब्रह्मचर्यमाह ॥ मन इति ॥ चरणं ज्ञानमपि भवति । किं तत इत्यत उक्तं वाक्यार्थं विशदमाह ॥ तेनैवेति ॥ नन्वेवं तर्हि तेषामेवैष इति वाक्यं व्यर्थमित्याशंकायां यथा तन्नव्यर्थं तथा तदनूद्य व्याचष्ये ॥ एतेषामिति ॥ लोकनात्‌ अवलोकनकर्तृत्वादित्यर्थः । तताच एतान्‌ स्वलोकगान्‌ ब्रह्मावलोकत इत्युक्तं भवति । प्रकारान्तरेणापि ब्रह्मलोकशब्दार्थमाह ॥ तस्येति ॥ तता च एतेषामपि ब्रह्मविषयकावलोको भवतीत्युक्तं भवतीति ज्ञातव्यम्‌ । अथवा स प्राप्य इत्यनेन ब्रह्मलोक शब्दः कर्मधारय अभिप्रायेण व्याख्यातः । इदानीं तमेव षष्ठी तत्पुरुषत्व अभिप्रायेणापि व्याचष्ये ॥ तस्येति ॥ अत्र लोको वैकुण्ठादिः ॥ चतुर्थः खण्डः ॥ 4 ॥ अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तदित्यारभ्यारश्ऱ्चेत्यतः प्राक्तन ग्रन्थं व्याचष्ये ॥ यज्ञ इति ॥ तथा शब्देन आरण्यायनमपि ग्राह्यम्‌ । परस्य ब्रह्मणो ज्ञानमिति ब्रह्चर्यशब्दाथर्ः । यात्यपरोक्षतोजानातिज्ञं अनेनेति यज्ञः । इच्छत्यनेनेतीष्यम्‌ । सतस्त्राणं यस्मात्‌ तत्सत्रम्‌ । मनतेऽपरोक्षतोवगच्छत्यनेनेति मौनम्‌ । आनशंनीयते परोक्षतो ज्ञायतेऽनेनेत्यनशनम्‌ । अरण्यावयते अनेनेत्यरण्यायनमिति व्युत्पत्तिभ्य इति भावः । अरश्ऱ्च हवैण्यश्ऱ्चार्णवावित्यादि ब्रह्मलोकपदस्य सत्यलोकपरता प्रतीतिं वारयन्‌ व्याचष्ये ॥ परस्येति ॥ चिदानन्दरसात्मकौ इत्यनेन तौ समुद्रौ लक्ष्मयात्मकौ इति ज्ञायते । ननु श्ऱ्वेतद्वीपो ब्रह्मलोक इत्ययुक्तम्‌ । तस्य तृतीयस्य अमितो दिवीति इन्द्र सदनाख्यतृतीयद्युस्थत्वोक्तेः । श्ऱ्वेतद्वीपश्ऱ्च क्षीराब्धिगतो न तथा भवितुमर्हतीत्यत आह ॥ यावानुच्च इति ॥ दिविष्ठः तृतीयदिविष्ठः । तदैरं मदीयं सर इति वाक्यं व्याचष्ये ॥ तत्रेति ॥ तदश्ऱ्वत्थ इति वाक्यमेकवचनात्‌ एकत्वप्रतीतिं वारयन्‌ व्याचष्ये ॥ तत्राश्ऱ्वत्था इति ॥ सोमसवन इत्यस्यार्थः सुधास्रवा इति । तदपराजितापूरिति वाक्यं व्याचष्ये ॥ तत्रेति ॥ तदित्येतत्‌ तन्त्रेण तत्र लोके तस्य विष्णोः इति व्याख्यातम्‌ । प्रभुवमितमिति वाक्यं व्याचष्ये ॥ विमिताख्यामिति ॥ हिरण्मयमित्यस्य व्याख्याचित्सुवर्णमयमिति । तत्कथमित्यत आह ॥ लक्ष्मीरिति ॥ ग्रन्थान्तरा विरोधाय श्ऱ्वेतद्वीपस्थपर्यं कगतविष्णुनामाह ॥ स इति ॥ खं-5 ॥ अथ या एता हृदयस्य नाड्य इत्यारभ्य लोहितस्येत्यन्तवाक्यतात्पर्यमाह ॥ स एष इति ॥ ननु कथमिदं तात्पर्यम्‌ । श्रुतावप्रतीतेः इत्यतः तां व्याचष्ये ॥ विष्णोः इति ॥ अनेन या एत हृदयस्य नाड्यस्ताः पिंगलस्य शुक्लस्य नीलस्य पीतस्य लोहितस्य अणिम्नो धिष्यान भूता इति योनोक्ता भवति । कस्यां नाड्यां किं रूपमास्थितमिति जिज्ञासायामुक्तं विविच्य दर्शयति ॥ नारायणाख्यामित्यादिना ॥ सौषुम्नं सुषुम्नागतम्‌ । मध्यस्थं नाडीचतुष्यमध्यगसुषुम्नासंस्थमित्यर्थः । अग्रतः पुर्वभागेस्थितायां नादिन्यामिति सम्बन्धः । यद्यपि नादिनीशब्देन सुषुम्नैव अन्यत्रोक्ता ततापि पंचनाडीत्युक्तत्वात्‌ अन्यत्रान्यैव तन्नाम्नी ग्राह्यम्‌ । परिशेषात्‌ पिंगलेडा नाड्योः दक्षिणोत्तरभाग संस्थित्वं ज्ञातव्यम्‌ । असौ वा आदित्य इति वाक्यं प्रसिद्धादित्यपरमिति प्रतीतिवारणाय व्याचष्ये ॥ सूर्य इति ॥ अनेन श्रुतावादित्यशब्दः तदन्तर्गत भगवत्पर इत्युक्तं भवति । तत्कथमित्यतः तस्मिन्न आदित्यशब्दं निरुच्य दर्शयति ॥ आदित्येति ॥ अमुष्मादादित्यादित्यारभ्य तद्यत्रेत्यतः प्राक्तनं वाक्यद्वयं व्याचष्ये ॥ तद्वयाप्तमित्यादिना ॥ अत्र समस्ता नाडीस्थ रश्मयः तद्रश्मिभिः सूर्यान्तर्गत भगवद्रश्मिभिः व्याप्ताः । तता सूर्यमण्डलमपि तद्वयाप्तं सूर्यनामक भगवद्रश्मिभिः व्याप्तमिति पूर्ववाक्य व्याख्यानम्‌ । तथा समस्ताः सूयरश्मयोपि तद्रश्मिभिः नाडीस्थ भगवद्रश्मिभिः व्याप्ताः । तस्मिन्‌ नाडीस्थे भगवति नाडीषु च प्रोताव्याप्ता इति द्वितीय वाक्यव्याख्यानमिति विवेकः । तद्यत्रैतत्सुप्त इति वाक्ये नाडीषु जीवस्य सुप्तिरुच्यते । तदयुक्तम्‌ । सता सोम्य तदासम्पन्नो भवतीत्युक्ति विरोधात्‌ । नचोभयत्रापि परमात्मनो अन्यत्र सुप्त्यंगीकारे दुःखप्राप्तेः इति भावेन तद्वाक्यं व्याचष्ये ॥ तन्नाडीसंस्थितमिति ॥ तथाचोक्तम्‌ । तदभावोनाडीषु तच्छतेः आत्मनिहेति । तेजसा हितदासम्पन्नो भवतीति वाक्यं व्याचष्ये ॥ तत्तेजसेति ॥ अप्रतीतेः स ओमिति वाहोद्वानीयत इति वाक्यं व्याख्यातुं ओमिति वाट्‌शब्दं व्याचष्ये ॥ ओमित्येवेति ॥ इदानीं तद्वाक्यार्थमाह ॥ तेनेति ॥ अनेन स उपासकः ओमिति वाहावायुनोद्वामीयते । ऊर्ध्वगमन वेलायां वामत्वं प्राप्यत इति योजनोक्ता भवति । वामत्वमित्युक्त वामभावमेव विशदमाह ॥ दिव्येति ॥ सयावत्‌ क्षिपेन्मन इति वाक्यं व्याचष्ये ॥ यदेति ॥ विदषां प्रपदमिति विद्वद्गम्यत्वस्य वक्ष्यमाणत्वात्‌ स्वविद्ययेत्युक्तम्‌ ॥ खं-6 ॥ ततश्ऱ्चायं खण्डषट्‌कार्थः ॥ अथेत्यारम्भे । अस्मिन्‌ ब्रह्मपुरे ब्रह्मणः पुरे शरीरे यत्परं ब्रह्मारीरव्यापि अस्मिन्‌ ब्रह्मपुरे परे ब्रह्मणि स्थितम्‌ इदं बुद्धिसन्निहितम्‌ । यत दहरमल्पं पुण्डरीकं हृत्पुण्डरीकरूपं वेश्मा अस्मिन्नन्तः दहरः आकाशः भूताकाशोस्ति । किं तत इत्यत आह ॥ तस्मिन्निति ॥ न घटादिवत्‌ अस्यान्वेषणं अप्रत्यक्षत्वादित्यतः तदेव विवृणोति ॥ तद्वावेति ॥ वावेत्यवधारणे । तदव विजिज्ञासितव्यं मीमांसितव्यम्‌ । इति गुरुणोक्त इति शेषः ॥ 1 ॥ तं गुरुं प्रति यदि शिष्या ब्रूयुः पृच्छेयुः । यदिदमित्याद्युक्ता अनुवादः । यद्वाव विजिज्ञासितव्यम्‌ । तदत्र हृत्पद्भगताकाशे किं विद्यते ब्रह्म च न सम्भवति । तस्य व्याप्तस्य दहराकाशस्थत्वायोगादिति भावः । इति ब्रूयुरिति सम्बन्धः ॥ 2 ॥ तदा सगुरुः ब्रूयात्‌ । किमिति । अन्तःशरीररान्तः हृदये हृद्ययत इति हृदयशब्दवाच्ये हृत्पद्भगतेभूताकाशे आकाशः आकाशाख्यः परमात्मास्ति । एषः यावान्‌ अयं बहिः विद्यमानः आकाशः आकाशाख्यः परमात्मा तावान्वै गुणतः परिमाणतश्ऱ्च तावानेव । अनेन हृत्पद्भगतं ब्रह्मतदण्वपि व्याप्तम्‌ । लोक दृष्यया विरुद्धयुगपदणुत्व महत्त्वादीनां तस्मिन्‌ समावेशस्य प्रमितत्वादित्युक्तं भवति । ननु तथाप्यन्यपरित्यागेन अस्यैव विजिज्ञास्यत्वे कोहेतुरित्यतो अस्य सामर्थ्यमाह ॥ उभे इत्यादिना ॥ अस्मिन्न तरेवोभेमुक्ता मुक्ते द्यावापृथिव्यौ समाहिते । उभौ मुक्तामुक्तौ अग्निश्ऱ्च वायुश्ऱ्चेत्येतौ समाहितौ । उभौ मुक्तामुक्तौ सूयर्ाचन्द्रमसौ समाहितौ । उभयविधानि विद्युन्नक्षत्राणि अनन्तया प्रत्येकं वक्तुमशक्यत्वात्‌ क्रोडीकृत्याह ॥ यच्चेति ॥ अस्य संसारिणः उपकारकतया यच्चास्ति । अमुक्त जातमिति यावत्‌ । यच्चनास्ति उपकारितया मुक्त जातमिति यावत्‌ । तत्सर्वमस्मिन्‌ हृत्पद्मस्थाकाशगते ब
्रह्मणि समाहितमिति ब्रूयादिति पूर्वेण सम्बन्धः ॥ 3 । तं गुरुं प्रति यदि ब्रूयुः शिष्याः किमिति । अस्मिन्‌ ब्रह्मपुरे शरीरान्तर्गते ब्रह्मणि इदं प्रत्यक्षादिसिद्धं सर्वमित्यादि पूर्वोक्तानुवादः । यदैतत्‌ शरीरं जरावाप्नोति प्रध्वंसते वा शरीरं किंततः तदाऽतिशिष्यते । न किमपि स्वयमपि न श्यतीति यावत्‌ । तथाचोक्तमाहात्म्यं न विजिज्ञास्यत्व साधकम्‌ । जरानाशाख्यदोषेण तदभावस्यापि साधयितुं क्यत्वादित्युक्तं भवति । इति ब्रूयुरिति सम्बन्धः ॥ 4 ॥ तदा सगुरुः ब्रूयान्नास्य शरीरस्य जरयेतद्ब्रह्मजीर्यति । अस्य वधेन न हन्यते । कुतः एतद्ब्रह्म पुरं पूर्णं परंब्रह्म सत्यं नित्यं अचिन्त्यशक्ति च प्रमितं यतः । तथाच भवदीयोहेतुः स्वरूपासिद्ध इत्युक्तं भवति । जिज्ञास्यत्व उपपादकतया तस्यैव माहात्म्यांन्तरमाह ॥ अस्मिन्निति ॥ काम्यन्त इति कामाः अस्मिन्‌ समाहिताः पूर्णकाम इति यावत्‌ । नास्य जरयैतज्जीर्यत इत्याद्युक्तमेव सहेतुकं विशदयति ॥ एष इति ॥ एष हृत्पद्मस्थाकाशस्थः परमात्मा नित्यमेव स्वतोपहतापाप्मा । अत एव न तत्कार्य जरादिकमस्येत्याह ॥ विजर इत्यादि ॥ अविजिघत्सो पिपास इत्यनेन बुभुक्षादिना पीडाभाव उच्यते । तत्रापि हेतुमाह ॥ सत्यकाम इति ॥ यदिष्यं तस्य तत्सवत एव भवेदित्यर्थः । इदं च प्रागुक्तपूर्णकामत्वे च हेतुतया योज्यम्‌ । तथाच नादित एवं अपापादिकं माभूदिति तदीयकामनयैवैषोऽपहतपाप्मत्वादिरिति भावः । नचापहतपाप्मत्वादिकमेष न कामयत इति युक्तम्‌ । प्रेक्षावतः तदकामनायोगात्‌ । सत्यकामत्वेपि हेतुः सत्यसंकल्प इति । अमोघसंकल्प इत्यर्थः । संकल्पानुसारिणी इच्छेति प्रसिद्धमिति भावः । महिमान्तरमाह ॥ यथेति ॥ यथा यथा योग्यमेव । तारतम्येनेति यावत्‌ । इह एनं भक्षणं मुक्तानामपि सत्त्वादित्यतः पराधीनमेव सत्यकामत्वं तेषामित्याह ॥ यं यमिति ॥ प्रकृताः मुक्ताः यं यमन्तं देशंयं जनपदं राष्य्रं यं क्षेत्र भागं अभिप्रतिकामा भवन्ति । अन्तादिविषयकामनावन्तो भवन्तीत्यर्थः । तं तमेवोपजीवन्ति । यथानुशासनमित्येतदत्रापि संगमनीयम्‌ । तच्छासनानुसारेणैव । नस्वातन्त्ऱ्ेणेत्यथर्ः ॥ 5 ॥ महिमान्तरमाह ॥ तद्यथेति ॥ तन्निदर्शनं यथा । कमर्जितो लोको देहादिः क्षीयते । एवमेव अमुत्र भगवदज्ञानिनिपुण्यजितो लोकः स्वर्गादिः क्षीयते । यं यमन्तं अभिकामा भवन्तीति सत्यकामत्वमुक्तम्‌ तत्केन भवतीति जिज्ञासायां आत्मज्ञानादित्याह ॥ तद्य इहात्मानमिति ॥ तत्तस्मात्‌ भगवदज्ञानिनां क्षयिफलकत्वाद्ये इहाधिकारिवर्गे आत्मानं परमात्मानं एतान्‌ पूर्वोक्तान्‌ सत्यांश्ऱ्च कामान्व हुवचनमाद्यथर्े । सत्यकामत्वादीं स्तद्धर्मांश्ऱ्चानुविद्यसम्यग्ज्ञात्वा व्रजन्ति तेषां सर्वेषु लोकेषु कामचारो भवति स्वेच्छानुसारेणैव चरणं भवति सत्यकामा भवन्तीति यावत्‌ । एवं ज्ञानस्य सत्यकामत्व साधनत्वं उक्त्वा तदभावे तद्वयतिरेकमाह ॥ अथय इहेति ॥ क्वचित्तु तद्य इहात्मानं अननुविद्य व्रजन्त्येतांश्‌च सत्यान्‌ कामांस्तेषां सर्वेषु लोकेष्वकामचारो भवति अथ य इहात्मानं अनुविद्य व्रजन्त्येतांश्ऱ्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवतीति पाठो दृश्यते । तत्रत्थं योजना । भगवज्ज्ञानिनः फलं वक्तुं तदज्ञानिनो विपरीतं फलं सदृष्यान्तमाह ॥ तद्यथेति ॥ तत्तस्माद्ये इहाधिकार्यनाधिकारिवर्गे आत्मानं परमात्मानं एतांश्ऱ्च सत्यान्‌ कामान्‌ भगवदीयान्‌ पूर्वोक्त धर्मान्‌ अननुविद्य व्रजन्ति । तेषां यथा कर्मजितो लोको देहः क्षीयते एवं पुण्यजितो लोकः स्वर्गादिः क्षीयत एव । न केलवमिष्यहानिः इष्याप्राप्तिः चेत्याह ॥ तेषामिति ॥ ज्ञानिनः फलमाह ॥ अथेति ॥ ये आत्मानं तदीयान्‌ सत्यान्‌ कामांश्ऱ्च अनुविद्य व्रजन्ति । तेषां पुण्यान्‌ यक्षयफलान्येव भवन्तीति ग्राह्यम्‌ । तथा सर्वेषु लोकेषु कामाचारो भवतीति ॥ 6 ॥ प्रथमः खण्डः ॥ 1 ॥ यं यमन्तमभिकामा भवन्तीत्युक्तं मुक्तस्य भगवत्प्रसादाधीनं सत्यकामत्वमेव विशदयति ॥ सयदीत्यादिना ॥ सः मुक्तो यदि पितॄणां विष्णुलोको भवेत्‌ । तदनन्तरं तदेव लोकोपि मम भवेदिति पितृलोक कामो भवति तदास्य मुक्तस्य संकल्पादेव अस्य पितरः समुत्तिष्ठन्ति । संसारान्मुक्ताः सन्तः पुरतः स्थिता भवन्ति । ततश्ऱ्च तेन पितृलोकेन तदवलोकनेन लोकवद्भिः पितृभिः इति यावत्‌ । सम्पन्नो युक्तः सन्‌ महीयते स्वावरैः पूज्यते ॥ 1 ॥ एवमन्यत्‌ । अत्र पित्रादयः स्वचरमजन्मकालीना इति सम्प्रदायविदः । ते च योग्या एव विवक्षिताः । अयोग्यत्वे कामनायोगात्‌ । गन्धमाल्यादयस्तु तत्कालीना एव कामनया लभ्यन्ते । अत्र च लोकशब्देन दर्शनपर्यायेण भोगरूप एवार्थो विवक्षितः । नतु विष्णुलोकोपीति ध्येयम्‌ ॥ 2-9 ॥ एवं कुतूहलात्किंचित्‌ विशदमुक्त्वा गौरवभयात्पुनरुपसंहरति ॥ यं यमिति ॥ 10 ॥ द्वितीयः खण्डः ॥ 2 ॥ नन्विदं मुक्तस्य सत्यकामत्वं न तावदागन्तुकम्‌ । मुक्तेः अनागन्तुक विशेषरूपत्वात्‌ । नापि स्वाभाविकम्‌ । पूर्वमप्युपलब्धिप्रसंगादित्याशंकायामाह ॥ त इम इति ॥ मुक्तियोग्यस्य इमे पूर्वोक्ताः कामाः पुरापि सत्या एव सन्तोऽनृतापिधानाः न दृश्यन्ते । अनृतस्यापिधानमिति प्रतीतिवारणाय अनृतापिधाना इत्युक्तमे विशदयति ॥ तेषामिति ॥ तेषां सत्यानां सतां कामानां अनृतमज्ञानमपिधानमाच्छादनमित्यर्थः । अतः सत्यकामत्वादेः अनृतापिधानत्वात्‌ अस्याऽमुक्तस्य योग्यजीवस्य योयः पित्रादिः इतः प्रैति लोकान्तरं गच्छति तदा तद्दर्शनेच्छायामपि तद्दर्शनाय न लभते ॥ 1 ॥ न केवलं एतावत्‌ । ये चास्यअमुक्तजीवाः जीवन्तः ये च प्रेताः यच्चान्यत्‌ गन्धमाल्यादिकम्‌ । तत्ससर्वमिच्छन्नपि नियमेन न लभते । अज्ञाननिवृत्तौत्वाह ॥ सर्वमिति ॥ सर्वतत्‌ कामितं अत्र विष्णुलोके विंतते लभते । कुतः । हि यस्मादत्र लोके स्यमुक्तस्य सत्याः कामाः स्वरूपभूताः आविर्भूता इति शेषः । ननु हृत्पुण्डरीकाकाशे परमात्माचेत्तिष्ठति । तर्हि प्रतिदिनं तत्र गच्छद्भिरस्माभिः कुतो नोपलभ्यतेऽतः सतत्र नास्तीत्याशंकां सदृष्यान्तं परिहरति ॥ तद्यथेति ॥ तत्‌ निदर्शनं यथा । हिरण्यनिर्धिनिहितमप्यक्षेत्रज्ञाः निधानक्षेत्रं अजानन्तः उपर्युपरिसंचरन्तो न विन्देयुः न जानीयुः एवमेव इमाः सर्वाः प्रजाः अहरहर्गच्छन्त्यः एतं ब्रह्मलोकं विष्णुलोकं हृत्पद्मं तत्रत्यं ब्रह्मेति यावत्‌ । न विन्दन्ति । ब्रह्मैव सर्वाश्रयत्वात्‌ लोकपदोक्तमिति वा । अनुपलम्भेनिमित्तमाह ॥ अनृतेनेति ॥ अनृतेन अज्ञानेन हि यस्मात्‌ प्रत्युः आच्छादिताः ॥ 2 ॥ एवं अनुपलब्धेः अज्ञाननिमित्तत्वात्‌ न तद्बलात्‌ धृदितदभावः कल्प्य इत्याह ॥ सवा एष इति ॥ स एष आत्मापरमात्मा हृदि तत्रत्याकाशे वतर्ते वैवर्तत एव । हृत्पुण्डरीकाकाशस्थस्य आकाश इत्येकं नामोक्तम्‌ । तस्य नामान्तरमपि निर्वचनपूवकमाह ॥ तस्येति ॥ तस्य हृत्पद्मगतस्य भगवतः तत्यवक्ष्यमाणस्य हृदयमिति नाम्नः एतदेव निरुक्तं निर्वचनं हृद्ययमिति । अयपयगतौ हृदितमिति यस्मात्‌ तस्मात्‌ । हृदयं हृदयनामकम्‌ । एवं वेत्तुः फलमाह ॥ अहरिति ॥ अहरहर्वैनित्यशः एवमुक्तप्रकारेण हृदयनामक विष्णुवित्‌ । स्वर्गं लोकं विष्णुलोकमेति ॥ 3 ॥ हदब्जगतस्यैव माहात्म्यान्तरमाह ॥ अथेति ॥ अन्येतु न ज्ञानसामर्थ्यात्‌ मुक्तो भवति । किन्तु भगवत्प्रसादादेवेत्याह ॥ अथेतीत्याहुः । योधिकारी सम्प्रसादः सम्यक्‌ विष्णुप्रसादवानेषो स्माच्छारीराच्चरमशरीरात्‌ समुत्थाय परं ज्यातिरुपसम्पद्य प्राप्य स्वेन रूपेण अभिनिष्पद्यते । स्वस्वरूपाविर्भावं प्राप्नोति । ननु हृत्पद्मस्थ आत्मनिरूपणावसरे किं ज्योतिः प्रसंगेनेत्यत आह ॥ एष इति ॥ यं प्राप्यासौ स्वरूपतां आप्नोति स एषः प्रागुक्तः आत्मेति होवाच रमा । उक्त मुक्तप्राप्यत्वं उपपादयितुमाह ॥ एतदमृतमित्यादि ॥ एतत्‌ परंज्यातिः । अमृतं नित्यमुक्तम्‌ । अभयं कदापि भयास्पृष्यम्‌ । एतत्‌ ब्रह्मपूर्णमिति । पश्यन्तीरमोवाचेति सम्बन्धः । तस्यैव नामान्तरमाह ॥ तस्येति ॥ 4 ॥ तन्निर्वचनाय तदक्षराण्याह ॥ सदिति ॥ अत्र यद्यपि सदित्यक्षरद्यं तथाच त्रीणीत्यनुपपन्नम्‌ । तथापि तकारस्य व्यंजनमात्रत्वेन अविवक्षयैव मुक्तमित्यवसेयम्‌ । तन्निर्वक्ति ॥ तद्यदिति ॥ तत्‌ प्रसिद्धं यत्‌ सत्‌ सच्छब्दवाच्यं तदमृतं मुक्तजातम्‌ । अथ यत्तितन्मत्यर्ं संसारिजातम्‌ । अथ यद्यन्तेन उभेमुक्तमुक्त जातेच्छातीत्यर्थो लभ्यते । यद्यस्मात्‌ अनेन यमित्यक्षरेण उभेमुक्तामुक्तजाते यच्छतीत्यर्थो लभ्यते । तस्मात्‌ यं यन्नामकम्‌ । एवं वेत्तुः फलमाह ॥ अहरिति ॥ 5 ॥ तृतीयः खण्डः ॥ 3 ॥ हृद्गतस्यैव महिमान्तरमाह ॥ अथेति ॥ य आत्मा हृत्पद्मस्थत्वेन उक्तः सः एषां लोकानाम सम्भेदाय अमेलनाय अविदारणाय वा सेतुराश्रयः विधृतिः विधारणसमर्थः । यदि भगवानाश्रयो न स्यात्तदालोकानिराधारा एकत्रमिलिता विदारिता वास्युरिति भावः । पूर्वोक्तं अपहतपाप्मत्वं न मुक्तवत्प्राप्तस्य पापादेः ध्वंसरूपं किन्तु नित्यनिवृत्त्यभिप्रायमिति वक्तुमाह ॥ नैतं सेतुमित्यादिना ॥ एवं सेतुं भगवन्तं अहोरानि तरतः एतमतीत्यनगच्छतः । एतस्मिन्नस्वकृतविकारापादके इति यावत्‌ । तदेवाह ॥ नजरानमृत्युरिति ॥ जरादिकं नतरति न प्राप्नोतीत्यर्थः । किं बहुना । सर्वे पाप्मानोतो भगवतो निवर्तन्ते नित्यनिवृत्ता भवन्ति । अत एवैष ब्रह्मलोकः । ब्रह्मरूप सर्वाश्रयः अपहतपाप्माहिप्रसिद्धः ॥ 1 ॥ नैवं मुक्त इत्याह ॥ तस्मादिति ॥ तस्मादेतस्य अपहतपाप्मत्वादेवैतं सेतुं प्रतिगन्तुं अन्यत्तीर्त्वा पूर्वमन्धः सन्‌ अज्ञानावृतः सन्ननन्धो भवति तदनावृतो भवति । विद्धोदुरुक्ति बाणैः । उपतापीरोगी । उपलक्षणमेतत्‌ । सर्वपापविनिमर्ुक्तो भवतीत्यर्थः । तस्मादेवं अस्य मुक्तस्यापि निष्पापत्वादेव भगवत्प्रसादादेव वा । एतं सेतुं प्रतिगन्तुं अन्यत्तीर्त्वा विद्यमानस्य नक्तमप्यहरेव निष्पद्यते । तदेव विशदमाह ॥ असकृदिति ॥ एष ब्रह्मलोको विष्णुलोको वाऽसकृद्विभातो हि न मुक्तवदित्यर्थः ॥ 2 ॥ एवं भगवत्सरूपवेत्तुः फलं ज्ञानसाधनप्रदर्शन पूर्वकमाह ॥ तद्य इति ॥ तत्तत्राधिकारिषु य एवाधिकारिणः एतं ब्रह्मलोकं पूर्णं सर्वाश्रयं विष्णुं तल्लोकं वा ब्रह्मचर्येण परेब्रह्मणि मनो वाक्कर्मभिः चरणेन नुविन्दन्ति प्राप्नुवन्ति । तेषामेव एष ब्रह्मलोकः ब्रह्मकर्तृककृपावलोकः तत्कर्मकावलोको वा भवतीत्यर्थः । सर्वेषु लोकेषु स्वयोग्येषु ॥ 3 ॥ चतुर्थः खण्डः ॥ 4 ॥ ननु ब्रह्मचर्यस्य न ब्रह्मलोकप्राप्तिसाधनत्वं युक्तम्‌ । अन्यत्र यज्ञादेः एव तत्साधनत्वहेन उक्तत्वादित्यतो यज्ञादिकमपि ब्रह्मचर्यमेव इत्याह ॥ अथेति ॥ अथ ज्ञानस्यैव मोक्षसाधनत्वेन प्रमित्तवादित्यर्थः । यत्‌ यज्ञ इत्याचक्षते विद्वांसस्तद्ब्रह्मचर्यमेव ज्ञानमेव । एवमग्रेऽपि । नन्वस्तु यज्ञादिशब्दवाच्यस्य ज्ञानस्य मानसब्रह्मचर्याभेदः कायिकवाचिक ब्रह्मचर्ययोस्तु कथं यज्ञादिशब्दोदित ज्ञानाभेद इत्याशंकायां यज्ञादिशब्द निर्वचनलभ्यस्य मोक्षहेतुज्ञानस्य स्वकार्य जननेकायिकवाचिक ब्रह्मचर्यसापेक्षत्वात्‌ उपचारेण तत्रप्यभेदव्यपदेशोपपत्तिरित्यभिप्रेत्य मानसब्रह्मचर्यरूपे ज्ञाने यज्ञादिशब्दनिर्वचनमुक्ताभेदोपपादनाय दर्शयन्‌ तस्य स्वकायर्कारणे स्वेतरब्रह्मचर्यसापेक्षत्वं चोपपादयति ॥ ब्रह्मचर्येण ह्येवेत्यादिना ॥ कायिकेन वाचिकेन वा ब्रह्बमचयर्ेणेत्यर्थः । एवमग्र्रेऽपि । हि शब्देन ज्ञानमेतादृश ब्रह्मचर्यसहकृतमेव मोक्षहेतुः इति प्रसिद्धमिति दर्शयति । योज्ञातासः तं विन्दते इत्यनेन यात्यनेनज्ञमिति यज्ञशब्दनिर्वचनं ज्ञाने सूचयति । तेन ब्रह्मचर्यमेव तदित्युक्तमुपपादितमिति ध्येयम्‌ । एवमग्रेऽपि । इष्यमित्यत्रापि इच्छत्यनेन इतीष्यमिति निरुक्तिमभिप्रेत्य अनया च निरुक्त्या इच्छासाधनमेव प्राप्तं न मोक्षसाधनं ज्ञानमित्यतः तत्तात्पर्यं दर्शयति ॥ इष्ट्वात्मानमनुविन्दत इति ॥ इच्छानन्तरं भगवन्तमपि प्राप्नोतीत्यतो मोक्षहेतु ज्ञानमुक्तनिरुक्ति लभ्यमेवेति भावः ॥ 1 ॥ सत इत्यनूद्यात्मन इति व्याख्यानम्‌ । अनेन सतो भगवत स्त्राणमयतेऽनेनेति सत्रायणमिति निरुक्तिः सूचिता । आत्मानं भगवन्तम्‌ । अनुविद्यश्रवणादिना ज्ञानत्वामनुते परोक्षतो जानाति । अनुविद्यापरोक्षतो ज्ञात्वा मनुते मोक्षेध्यायतीति वार्थः । अनेनति मौनमिति निर्वचनं सूचितं भवति ॥ 2 ॥ यमात्मानं ब्रह्मचर्येणानुविन्दते स एष आत्मा मोक्षेतस्य न नश्यति हि न तं परित्यजतीति प्रसिद्धमित्यर्थः । अनेनापि अनाशकं नाशशून्यं ब्रह्मायते नेनेत्यनाशकायनमिति निर्वचनं प्रदर्शितम्‌ । एवमरण्यावयते=नेनेत्यरण्यायनमिति निर्वचनसूचकं वाक्यं प्रकरणादूह्यम्‌ । एवं चात्र यन्मानसं ब्रह्मचर्यं तस्य यज्ञाद्यभेद एव विवक्षितः । यज्ञादिश्ब
दः अपि ज्ञानलाभात्‌ । यच्चकायिकं वाचिकं ब्रह्मचर्यं तद्यज्ञादिशब्दवाच्य ज्ञानसहकारित्वात्‌ तदभिन्नमिति व्यपदिश्यत इत्युक्तं भवति । अरण्यावितिकौ कुत्रत्यौ यत्प्राप्तिसाधनं ब्रह्मचर्यमित्यपेक्षायामाह ॥ अरश्ऱ्चेत्यादिना ॥ यद्वा अरण्यायनमिति प्रसिद्धारण्यप्राप्तिसाधनं ब्रह्मचर्यअमित्यन्यथा प्रतीतिनिरासाय अरण्यशब्दार्थमाह ॥ अरश्ऱ्चेति ॥ इतो मे र्वपेक्षयातृतीयस्यां दिविविद्यमाने ब्रह्मलोके श्ऱ्वेतद्वपीरश्ऱ्चण्यश्ऱ्चेत्येवं नामानौ हवै प्रसिद्धौ । अर्णवौ समुद्रौ समुद्रोपमेवा । सरसीतिष्ठतः । एतत्‌ प्रसंगात्‌ पुनः परब्रह्मलोकमाहात्म्यमेवाह ॥ तदित्यादिना ॥ तत्तत्रैरमीराख्य वृक्षसम्बन्धिसुरापूर्णम्‌ । इराऽन्नं तन्मय ऐरोमण्डस्तेन पूर्णमैरमित्यापि कश्ऱ्चित्‌ । वस्तुतस्तु ऐरं लक्ष्म्ात्मकम्‌ । ऐरं श्रीश्ऱ्चेति गीतातात्पर्यवचनात्‌ । उपपादितं चैतट्टीकाकारैः । तदैरं मदीयं सर इति श्रुतेः ऐरं श्रीरिति मदीयं मदकारि । सरः सरोवचरं वर्तते । तत्र अश्ऱ्वत्थोऽश्ऱ्वत्थसमूहः सोमसवनः सुधास्रवोस्ति । तत्तत्र लोके तस्य ब्रह्मणो पराजिताऽपराजित नामकं पूःपुरमस्ति । तत्रापि प्रभुण ब्रह्मणाविमितं सम्मितं हिरण्मयं चित्सुवर्णमयं पर्यंकमस्ति ॥ 3 ॥ एवं अरण्यौ निरूप्येदानीं ब्रह्मचर्यस्य तत्प्राप्तिसाधनता रूपं तदयनत्वं दर्शयन्‌ अन्यदपि फलमाह ॥ तद्य इति ॥ तत्तस्मात्‌ य एवाधिकारिणः एतावरं च ण्यंचार्ण वौ ब्रह्मलोके विद्यमानौ ब्रह्मचर्येण अनुविन्दन्ति प्राप्नुवन्ति । तेषां एवैष ब्रह्मलोकः । व्याख्यातमेतत्‌ ॥ 4 ॥ पंचमः खण्डः ॥ 5 ॥ हृदयस्थोपास्ति प्रकारमेव विविच्याह ॥ अथेति ॥ अथ या एताहृदयस्य नाड्यः पिंगलानन्दि नीडावज्रिका सुषुम्नाख्यास्ताः अणिम्नः सूक्ष्मस्य पिंगलस्य संकर्षणस्य शुक्लस्य वासुदेवस्य नूलस्यानिरुद्धस्य पीतस्य प्रद्युम्नस्य लोहितस्य नाराटरस्य अधिष्ठानभूतास्तिष्ठन्ति । विष्णोरूपाणि पंचनाडीस्थितानीति यावत्‌ । इति उपासीतेति शेषः । प्रसंगाद्भावनार्थमेव आदित्येप्येवं पंचरूपो भगवानस्तीत्याह ॥ असाविति ॥ असावादित्यः आदानादादित्यनामा भगवान्‌ । पिंगलः संकर्षणः । एषः आदित्यस्थः शुक्लो वासुदेवः । एवमन्यत्‌ । अत्र नाडीस्थानीयं सूर्यमण्डलम्‌ । अत्र भूर्तिविवेको मधुविद्योक्तरीत्या द्रष्यव्यः ॥ 1 ॥ न केवलं हृदयस्थस्य सूर्यस्थेन रूपसादृश्यमपि तु परस्परं रश्मिसंसृप्तत्वं चेत्याह ॥ तद्यथेत्यादिना ॥ तत्‌ निदर्शनं यथा । महापथो महामार्गः । आतो विस्तृतः । उभौ ग्रामौ गच्छति । कौ तौ । इमं चामुंच । एवमेवादित्यस्य रश्मयः इमं चामुंचेत्युभौ लोकौ गच्छन्ति । उभौ लोकौ गच्छन्तीत्युक्तमेव प्रकारं विशदमाह ॥ अमुष्मादिति ॥ अमुष्मादित्यात्‌ तदन्तर्गत भगवद्रूपेभ्यो या रश्मयः प्रतायन्ते व्याप्ता भवन्ति ताः आसुनाडीषु सृप्ताः गताः । आभ्यो नाडीभ्यः तदन्तर्गत भगवद्रूपेभ्यः येनाडिस्था रश्मयः प्रतायन्ते व्याप्ता भवन्ति । तेऽमुष्मिन्नादित्ये सृप्ताः गताः । रश्मिशब्दस्य उभयलिंगत्वात्त इत्युक्तम्‌ ॥ 2 ॥ प्रकृतनाडीस्थस्यैव सुप्तव्याप्तत्वमाह ॥ तदिति ॥ तत्तत्रैवं सति यत्र यदा एतत्‌ एषः सुप्तोऽजीवः समस्तः उपसंहऽतेन्द्रियः सम्प्रसन्नः स्वरूपसुखानुभववान्‌ स्वप्नं न विजानाति तदा असुनाडीषु तदन्तर्गतविष्णुमध्ये सृप्तो गतो भवति । तं सुप्तं जीवं न कश्ऱ्चन पाप्मास्पृशति । कुतः । भगवत्‌ तेजसा हि तदा सम्पन्नः संगतो भवति ॥ 3 ॥ एवं उपासनया अपरोक्षीकृत भगवद्रूपास्य अधिकारिणः उत्क्रान्त्यादिकं फलमाह ॥ अथेति ॥ यत्र यदा एतत्‌ एषः ज्ञानी । अबलिमानं रोगादिना देहस्य अबलभवं नीतः प्राप्तो भवति । वैराग्यार्थं दौर्बल्यावस्थामेव विशदमाह ॥तमिति ॥ तं उपतापिनं ज्ञानिनमभित आसीनाज्ञातयः आहुः । किमिति । जानासि मां जानासिमामिति । स यावदस्माच्छरीरात्‌ अनुत्क्रन्तो भवति । तावत्‌ जानाति ॥ 4 ॥ अथ यत्र यदा एतत्‌ येषो स्माच्छरीरादुत्क्रमति अथ तदा एतैः एव रश्मिभिः नाडीस्थ सौरश्मिभिः प्रकाशितनाडीद्वारः ऊर्ध्वः ऊर्ध्वलोकानुसारी आक्रमते गन्तुं अभिमुखो भवति । सः ज्ञानी ओमिति वहतीति ओमिति वाट्‌ वायुः तेन तत्प्रासेन उद्वामीयते । दिव्यचिद्रूपाख्य वामभावं प्राप्नोति । सः वायुः यावत्‌ यदा एनं नेतुं मनः क्षिपेत्‌ । तावत्‌ तदाऽदित्यं तत्स्थं विष्णुं गच्छति । ब्रह्मज्ञानिना ब्रह्मलोकोस्यैव गन्तव्यत्वात्किमादित्यस्थ प्राप्त्येत्यतः तद्द्वारमेतदित्याह ॥ एतदिति ॥ एतद्वै आदिस्थं ब्रह्मैव खलु ब्रह्मलेकस्य द्वारम्‌ । अत एव विदुषां प्रपदं प्राप्यम्‌ । अविदुषां तु कथमित्यत आह ॥ निराधोऽविदुषामिति ॥ निराधनं निरोधः स्वपाप्तिहेतुभूतमागर् प्रतिमन्धक इत्यर्थः ॥ 5 ॥ हृदयस्थ नाडीरश्मिभिः ऊर्ध्व आक्रमत इत्युक्तम्‌ तत्र पंचभिरपि नाडीभिः उत्क्रमणे मोक्षो भवति किमित्यतो मोक्षहेतु नाडीविशेषं प्रमाणेन वाहै ॥ तदिति ॥ तत्तत्र मोक्षनाडी विशेषसद्भावे । एषः वक्ष्यमाणः श्ऱ्लोको भवति । तं पठति ॥ शतमिति ॥ हृद्ययनाद्‌ हृदयस्य भगवतो अधिष्ठनभूतानाड्यः । तया सुषुम्नाख्याया । विष्वगुत्क्रमणे लाकान्तरगमनार्थं द्विरुक्तिः विद्यावधारणार्थेत्युक्तम्‌ ॥ 6 ॥ षष्ठः खण्डः ॥ 6 ॥ पूर्वं ब्रह्मचर्यं मोक्षसाधनमित्युक्तम्‌ । तत्किमनुष्ठितं अनुतिष्ठतां सर्वेषां मोक्षमापादयति केषांचिदेव वेति जिज्ञासायां योग्यानामेवेत्येतमर्थं प्रस्ताव्याख्यायिकामाह ॥ य आत्मेत्याद्युत्तरखण्डषट्‌केन ॥ तत्र अप्रतिविप्रतिपत्ति निरासाय खण्डट्‌कं प्रमाणैनैव व्याचष्ये ॥ इन्द्र इत्यादिना ॥ आपतुः इत्यन्तेन आद्यखण्डद्वयतात्पर्यमुक्तम्‌ । आनन्दरूपमित्यात्मशब्द व्याख्यानम्‌ । आदेयं मातीति व्युत्पत्तेः । नन्विन्द्रः सम्यक्‌ ज्ञानमवापचेदक्षिगं श्रुत्वा योयमप्सुपरिख्यायते कतम एष इति कथं पप्रच्छ प्रतिबिम्बे परमात्मत्वाभावस्य निर्णीतत्वादित्यत आह ॥ तत्रेति ॥ तत्वं जानन्‌ तस्य मोहस्य अनुरूपाणिवाक्यन्युवाच । तस्य विरोचनस्येति वा । नन्वेवं तर्हि ब्रह्मावाकथमेष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच । विद्यार्थिनं प्रतिविशिष्यैव वक्तव्यत्वेन समुग्धोक्तेः प्रयोजनाभावादित्यत आह ॥ यथेति ॥ विरोचनोपि विष्णुं जानातु । स्ववाक्यं चानृतं भवतु । को दोष इत्यत आह ॥ अयोग्या इति ॥ हि शब्दो यस्मादित्यर्थे । अत इति वक्ष्यमाणेन सम्बध्यते । ननु प्रह्लादादिरसुरोज्ञानी दृष्यः तत्कथमयोग्या असुराज्ञान इत्युक्तिरित्यत आह ॥ मच्छपादिति ॥ आसुर एव स्वत इति वर्तते । तेनैव शब्दसम्बन्धः । अस्य विरोचनस्य ज्ञानाप्राप्तिः स्ववाक्यानृतत्वाभावश्ऱ्चेत्यभयं यथा स्यात्‌ तथा वक्ष्यामीत्यर्थः । तर्हि इन्द्रअस्यापि विपरीतज्ञानमेव स्यात्‌ । उपदेशस्य संमुग्धत्वादित्यत आह ॥ इन्द्रस्त्विति ॥ हरिः प्रोक्तः संमुग्धतया । यदि ब्रह्मणाक्षिगतो हरिरेव उक्तः तर्हि कथं विरोचनोथ योयं भगवोप्सुपरिख्यायते यश्ऱ्चायं आदर्शेकतम एष इति पप्रच्छेत्यतः तदभिप्रायमाह ॥ अयोग्यत्वादिति ॥ तुशब्दो अवधारणार्थः । तच्छत्वाय एषोन्तरक्षरीत्युक्तं श्रुत्वा प्रतिरूपं ब्रह्मेति मत्त्वा भूयोदर्शनायाऽप्स्वादर्शके च कतम इत्व पप्रच्छ । एष उ एव सर्वेष्वन्तेष्विति परिहाराभिप्रायमाह ॥ तत्रापीति ॥ हरेः अव्यक्तत्वात्‌ दृश्यत इति कथं उक्तमित्यत आह ॥ तत्ववेदीति ॥ आहेति वक्ष्यमाणेन अन्वयः ॥ सप्तमः खण्डः ॥ 7 ॥ उदशराव आत्मानमित्यादि खण्डतात्पर्यमाह ॥ तथापीति ॥ शरीरानलंकृतावनलंकृतस्य तदलंकृतावलंकृतस्य प्रतिबिम्बस्य यद्यपि अब्रह्मत्वं शक्यं स्फुटं ज्ञातुं शक्यं तथापि तेन तन्नज्ञातमतो योग्यतैव बलीयसीति दर्शयन्नित्यर्थः । प्रतिरूपाद्ब्रह्म विवेचयन्‌ प्रजापतिः प्रतिरूपस्य दोषान्‌ दर्शयन्‌ सूचयन्‌ अलंकारादिभिः युक्तः पश्यत्याह । अलंकारादिभिः युक्तः पश्येत्‌ उक्त्याकथं दोष सूचनं जातमित्यतः तस्याभिप्रायमाह ॥ यथेति ॥ गौण्यं गुणयुक्तत्वम्‌ । इति दोषान्‌ दर्शन्निति सम्बन्धः । न्यायसाम्येन दोषस्यापि प्रेक्षावताज्ञातुं श्यत्वादिति भावः । नन्वेवं ब्रह्मणादोषे सूचितेपि कथं सशान्तहृदय एव प्रवव्राचेत्यत आह ॥ तथापीति ॥ यद्यपि एवं ब्रह्माप्राहतथापीत्यर्थः । तद्गुणान्‌ तावद्गुणान्‌ । अनुपलभ्यात्मानमित्यारभ्यपराभविष्यन्तीत्यन्तस्य प्रजापतिवचनस्याभिप्रायमाह ॥ असुराणामिति ॥ एवं स्फुटोक्त्या विरोचननिवृत्तौ तस्य तत्वं वक्तव्यं स्यादित्यत आह ॥ जानन्निति ॥ वैरोचनं मनः ननिवर्तत इति जानन्‌ । सशान्त हृदय एवेति वाक्यं व्याचष्ये ॥ तथापीति ॥ यद्यपि अवमाह ब्रह्मातथापीत्यर्थः । तेभ्यो है तामुपनिषदं प्रोवाचेत्यादि वाक्यं व्याचष्ये ॥ गत्वाचेति ॥ प्रतिरूपात्मकमेवेति सम्बन्धः । दिदेशोपदिदेश । अलंकृतिं प्रतिरूपस्य । पुरुषो दृश्यत इत्युपदेशानुसारेणाह ॥ ब्रह्मण इति ॥ उपलंभितां चेति सम्बन्धः । तस्मादपि अद्येहाददानमित्यादि वाक्यं व्याचष्ये ॥ अत इति ॥ प्रेतस्य शरीरमित्यादि व्याचष्ये ॥ स्वभोगेनेति ॥ तदभिप्रायसिद्धमर्थं दर्शयति ॥ तत्संस्कारेति ॥ शरीरालंकृतौ प्रतिरूपालंकृतत्वस्य संस्कारवशेनेत्यर्थः । ब्रह्मणा जीवाभिमत शरीरालंकृतौ प्रतिरूपपालंकृत्युपदर्शनेन बिम्बप्रतिबिम्बभूतयोः तयोः अभेद एवोपदर्शितः । सच प्रतिरूपभूत ब्रह्माभेदो जवच्छरीरो बिम्बभूते बोध्यमानो जीवाभेदमादाय एव पर्यवस्यति । शरीरस्य मरण शीलत्वेन तत्र अमृत ब्रह्माभेदस्य बाधितत्वात्‌ । अतः शरीराभिमानिनो जीवस्यैव ब्रहमाभेद उपदिष्य इति सत्त्वा स्वयं ब्रह्मेति वादिन इत्यर्थः । तमसान्धयतीति तमोन्धम्‌ ॥ अष्यमः खण्डः ॥ 8 ॥ अथ हेन्द्रोप्राप्यैव देवानिति खण्डतात्पर्यमाह ॥ इन्द्रश्ऱ्चेति ॥ पश्ऱ्चात्् सदोषतां पश्यन्निव । सम्यगुपदेशमलब्ध्वा पुनः पुनः गत्वा निवर्तने प्रयोजनमाह ॥ पुनः पुनरिति ॥ मोहायेत्युक्तं विशदयति ॥ कथंचिदेवेति ॥ नवमः खण्डः ॥ 9 ॥ नन्वयोग्यस्य विरोचनस्य अपगतत्वादिन्द्रस्य च योग्त्वात्‌ तं प्रत्यपि य एष स्वप्ने महीयमानः चरतीति किमर्थं संमुग्धतया ब्रह्मोपदेश इत्यत आह ॥ तद्योग्यान्येवेति ॥ मोहयोग्यान्येव । दोष दर्शनेयोग्यतैव गरीयसी । य एष स्वप्ने महीसमान इत्युपदेशाभिप्रायमाह ॥ स्वप्नमिति ॥ सहाप्रप्यैव देवानित्यादि वाक्यतात्पर्यमाह ॥ तत्रापीति ॥ स्वप्न दृश्यविवक्षया स्वपनेप्रतीयमान जीवशरीरविवक्षयेत्यर्थः । दशमः खण्डः ॥ 10 ॥ तद्यत्रैतत्‌ सुप्तः समस्त इति खण्डतात्पर्यमाह ॥ ब्रह्मैनमिति ॥ सुप्तिस्थ इत्युक्तमेव विवृणोति ॥ यत्रेति ॥ यत्र भगवति नाहं खल्ववं सम्प्रत्यात्मानं जानातीति वाक्यं जानातीत्यस्य पुरुषव्यत्यासाश्रयणेन व्याचष्ये ॥ नाहमिति ॥ अनेन अहमेतदाश्रितः अयंतु मदाश्रयः इति मत्तोन्यमात्मानं परमात्मानं सम्प्रतिसुषुप्तौ न जानाति न जानामीति योजनोक्ता भवति । ननु सुषुप्तौ जीवस्य स्वाश्रयपरमात्म ज्ञानाभावेपि परमात्मास्वात्मानं तदाश्रयत्वेन प्रदर्शयतीति किं न स्यादित्याशंकानिवर्तकतयाऽयमहमस्मीत्येतदपेक्षितं पूरयन्‌ व्याचष्ये ॥ नान्योपीति ॥ अन्यः परमात्मा । सुप्ताविति वर्तते । स्वात्मानमिति शेषः । अन्योपि भगवानपि । तेनायं जीवाश्रयोहमस्मीत्ययमन्यो भगवानपि न स्वात्मानं जानाति दर्शयतीति योजनीयमिति भावः । नन्वेकेन जीवेन स्वाश्रयस्य भगवतः सुप्तावदृष्यत्वेपि न तदभावः । इतरेषां तज्ज्ञानसम्भवादित्याशंकायां प्राप्तस्य नोएवेमानि3 भूतानीत्यस्य व्याख्यानम्‌ ॥ भूतानीति ॥ भूतानि चेति सम्बन्धः । पश्यन्तीत्यनेन जानातीत्येतत्‌ वचनव्यत्ययेनानुवर्तत इत्युक्तं भवति । तथाच केषामप्यनुपम्भान्नसोस्तीति भावः । यदुक्तमनुपलम्भात्‌ न जीवाश्रयः परमात्मा सुप्तावस्तीति तदयुक्तम्‌ । जीवपरमात्मनोः सुप्तावन्यतरस्य अन्यतरस्मिन्‌ प्रविष्यत्वेन आश्रययाश्रयिभावानुपम्भोपपत्तेरित्यतः तत्र बाधतया विनाशमेव अपीतो भवतीति वाक्यं नाशार्थत्व प्रतीतिं वारयन्‌ व्याचष्ये ॥ यदीति ॥ अपीततां प्रविष्यताम्‌ । अयं भावः । यदि जीवः परमात्मन्यपि इतस्तदाशं विनैव भवेत्‌ । सुखरहितः स्यात्‌ । सुखानुभववात्‌ नस्यादिति यावत्‌ । अन्यगेहगतस्य लोके सुखादर्शनात्‌ । तथाच सुखमहमस्वाप्समित्यत्तरकालीनपरामर्शविरोधः । यदि वा परमात्मा जीवेऽपि इतस्तदासोप्युक्तरीत्याशं विनैव भवेत्‌ । तथाच श्रुत्यादिविरोध इति । एतेन विनाशमिति वाक्यावष्यम्भेन सुप्तौ अहंकारादि सकलकार्यविलयांगीकारवन्तो निरस्ताः ॥ एकादशः खण्डः ॥ 11 ॥ मघवन्मर्त्यं वावेत्याद्युपदेश्य पूर्वोपदेशसाधारण्यं परिहयस्तात्पर्यमाह ॥ इत्युक्त इति ॥ अंजसा संमुग्धोक्तिं विना स्पष्य वचनेन । मघवन्मत्यं वावेत्यत्रेदं शरीरमित्येतद्वयाचष्ये ॥ योयमिति ॥ योयं जीवः सः शरीरसम्बन्धीत्यवधार्यताम्‌ । अनेन इदं श्रुति जातं शरीरं शरीरसम्बन्धीति व्याख्यातं भवति । अशरीरसेत्युक्तं अशरीरत्वं कथं परमात्मलक्षणं मुक्तेऽति व्याप्तेरित्यत आह ॥ भूतेति ॥ स्वत इति शेषः । तेन रमाव्यावृत्तिः । विष्णुः व्याप्त इत्यात्मशब्द व्याख्यानम्‌ । अमृतस्य इत्युक्तं अमृतत्वमपि मुक्तेगतमत आह ॥ अमृत इति ॥ कालत्रयेपि स्वत एव आविर्भूत मूर्तिमानित्यर्थः । तदस्यात्मनो अधिष्ठानमित्यतद्वयाचष्ये ॥ अधिष्ठायेति ॥ तथापि अशरीरादित्वेपीत्यर्थः । यद्यपि पूर्वं शरीशब्दः तत्सम्बन्धिलक्षक इत्युक्तम्‌ । तथापि अत्र शरीरमेव तदिति परामृश्यत इति भावेनोक्तम्‌ ॥ देहमिति ॥ शरीराधिष्ठततृत्वोक्त्या जीववज्जरादि परीतत्वं स्यादित्याशंकां परिहरति ॥ स ईश्ऱ्वर इति ॥ यतो तो जरादिदोषरहित इति शेषः । तर्हि जरादि परीतः क इत्याशंकायां मर्थ्यमित्युक्तमर्त्यत्वोपपादनाय प्राप्तस्य अत्तं मृत्युनेति वाक्यस्य उपलक्षणत्वाभिप्रायेण तात्पर्यमाह ॥ जरेति ॥ अयं जीवात्मेत्यनेनदमित्यतदत्रापि अन्वितमिति सूचयति । देहसंगतेः देहाभिमानादित्यनेन शरीरपदोक्तं शरीरसम्बन्धित्वं अत्र हेतुतया विवक्षितमित्युक्तं भवति । प्रियाप्रिययात्‌ तत्वानात्तत्वाभ्यां जीवपरमात्मवैलक्षण्यं वक्तुमात्तोवा इत्यादि प्रवृत्तम्‌ । तद्वयाख्यातुं तावत्प्रियाप्रियशब्दार्था वाह ॥ परेणेति ॥ परेण अन्येनेयं प्राप्यं परमात्माधीनमिति यावत्‌ । अत्र प्रियशब्देन रूढ्यामुखमात्र गअहणे प्रियापहति राहित्यं परमात्मन्यपि अस्तीति न जीवस्यायं विशेषः स्यात्‌ । अतो योगाश्रयणेन परेणेयमित्युक्तमिति ज्ञातव्यम्‌ । अकारलोपश्ऱ्छान्द इति भावः । अशब्दः प्रतिषेधार्थको भद्रवाची प्रियमित्यस्य च परनिपातः इति भावेनोक्तं परेणेयम भद्रमिति । अप्रियापहति शून्यत्वं स्वातन्त्ऱ्ेण जीवेन सभवतीति दशर्यितुं अत्रापि योगाश्रयणमित्यवधेयम्‌ । इदानीं नहवा इति वाक्यार्थमाह ॥ नेति ॥ मुक्तेषु अप्युक्तं प्रियमस्त्येवेति भावः । अशरीरं वावेति वाक्यं व्याचष्ये ॥ अशरीरमिति ॥ ते प्रियाप्रिये । वावेत्यस्यार्थः एवेति । अशरीरो वायुः इति वाक्यं स्पष्यमित्यव्याक्याय अभ्रं विद्युत्‌ स्तनयित्नुर णीराण्येतानीति वाक्यं व्याक्यातुं प्रसिद्धा भ्रादिभ्रमवारणाय अभ्रादिशब्दार्थानाह ॥ अम्नामेत्यादिना ॥ यद्यपि श्रुतिभिः स्तनितत्वात्‌ तु स्तनयित्नुर्हरि स्मृतः । अभ्रं भूताभिभरणाच्छ्रीः वायुः भरतः स्मृतः । विद्युत्तुभारती प्रोक्ता एत एवाशरीरिण इत्यन्यत्रोक्तम्‌ । तथापि व्यत्यासेनापि नामस्यादेतेषां महतां सदेति तत्रैवोक्तत्वात्‌ न विरोधः । एवं पदार्थान्‌ अभिधाय ननु वाय ब्रह्मणोः सपत्नीकयोः सशरीरत्वात्‌ अशरीरत्वं कथमित्याशंकां अपाकुर्वन्निदानीं वाक्यार्थमाह ॥ एतेषामिति ॥ अतो शरीरत्वोक्तिः इति शेषः । अल्पस्वेनि स्वशब्दोक्तिः इवेति भावः । अशरीरो वायुः इत्यादि वाक्यस्य संगतिमाह ॥ अत इति ॥ अशरीरत्त्‌ । ब्रह्मणः परब्रह्मणः । तथा अशरीरत्वेन यत्परब्रह्मणः प्रियाप्रियास्पृष्यत्वं उक्तं तत्कैमुत्येन साधयितुं इदं वाक्यमिति संगतिरुक्ता भवतीति ज्ञातव्यम्‌ । ननु देहाभिमान शून्यानां तेषां अप्रियाभावेपि निरुक्तं प्रियमस्त्येव । वायब्रह्मणोः विष्ण्वधीन सुखस्य तत्पत्न्नयोश्ऱ्च स्वभर्त्रधीनस्यापि सुखस्य सद्भावादित्यत इत्याह ॥ विष्ण्वीयमिति ॥ स्वभर्त्रीयमपीति सम्बन्धः । तत्पत्योरिति शेषः । विष्णुस्वभर्त्रतिरिक्ताधीनं सुखमत्र प्रियं विवक्षितम्‌ । विष्णोः स्वभर्त्रोश्ऱ्च स्वकोटि निविष्यत्वेन परत्वाभावात्‌ । तादृशसुखराहितत्यात्तेपि प्रियवर्जिता इत्यर्थः । तद्यथेत्यारभ्य निष्पद्यन्त इत्यन्त वाक्यमाकाश शब्दस्य प्रसिद्धाकाशपरता प्रतीतिं वारयन्‌ व्याचष्ये ॥ एवमिति ॥ सम्प्रसादशब्द व्याक्यानं विष्णोः सम्यक्‌ प्रसादेनेति । योपरोमुक्तः सोपि विष्णोः प्रसादेन शरीरात्‌ समुत्थितः तमेव प्राप्यनैजमानन्दं संयातीति योज्यम्‌ । ननु स उत्तमः पुरुष इत्यस्य पकृतमुक्त परामर्शपरत्वेदहराधिकरणविरोध इत्यत आह ॥ यमिति ॥ ते मुक्ताः । केशव इति पुरुषस्य उत्तमत्वोपपादनार्थम्‌ । ब्रहमरुद्रप्रवर्तकत्वं हि तदर्थः । तथाच सूत्रमन्यार्थश्ऱ्च परामर्श इति । सतत्र पर्येतीत्यत्र प्रकृत भगवत्परामर्शे विहारोपदेशादिति सूत्रविरोध इत्यत आह ॥ तं प्राप्येति ॥ सयथा प्रायोग्यमित्यादि वाक्यं व्यांचष्ये ॥ यथैवेति ॥ प्राण शब्देन विष्णुरपि विवक्षित इत्याशयेन तत्रापेक्षितं पूरन्‌ एवमेवायमित्यादि व्याचष्ये ॥ यथारथीति ॥ प्राण शब्दस्य लक्षणयातद्वज्जवपरत्वमपि इत्याशयेन अपेक्षितं दर्शयन्‌ व्याचष्ये ॥ जीव इति ॥ यथान्याधिष्ठित रथगः कश्ऱ्चित्‌ पुमांस्तथा जीवोभगवदधिष्ठित शरीरग इत्यर्थः । इदमुपलक्षणम्‌ । इन्द्रियाणि हयायथेत्यपि ग्राह्यम्‌ । अथ यत्रैतदाकाशमित्यारभ्य दैवं चक्षरित्यन्तवाक्यस्य तात्पर्यमाह ॥ यदाश्रितनीत्यादिना ॥ इन्द्रियाणि चेति सम्बन्धः । प्राणश्ऱ्चापि यदाश्रयः । यदा आश्रयोप्ययं जीव इत्यनेन चाक्षुषः योवेदेदं जिघ्राणीत्यादि वाक्यं प्राण जीवपरमपि भवतीति सूचितं भवति । एषां प्राण जीवेन्द्रियाणां प्रवर्तनं प्राण जीवयोः यथायोग्यं भोक्तृत्वादि रूपमिन्द्रियाणां तु तत्तद्विषयकज्ञान जनकत्वरूपं योवेदेत्यर्थः । नन्विन्द्रिय तद्विषया ज्ञानेकथमिन्द्रियाणां तत्तद्विषयक ज्ञानजनकत्वं वेत्तुं शक्यमित्याशंकायां तत्सर्वं वेदेत्याह ॥ दर्शनमित्यादिना ॥

अनेन यच्चक्षुर्यद्ध्राणमित्यादि तद्वेदये चाकाशगन्धादि पदोक्ता रूप प्रभृतयो विषयास्तांश्ऱ्च वेदेति योजना सूचिता । अंजसैवेत्येवान्वयः । परमो ज्ञेय इत्यनेन इदं वाक्यजातं स उत्तमः पुरुष इत्युक्तमुत्तमत्वं उपपादयितुं प्रवृत्तमिति संगतिः सूचितेति ज्ञातव्यम्‌ । अत्र चक्षुर्घ्राणादि शब्दैः तदभिमानि देवता अपि विवक्षिता इति दर्शयन्नुक्तं विशदयति ॥ देवता इति ॥ यो वेदेत्यन्वयः । दर्शनाय चक्षुः गन्धाय घ्राणमित्यादेः अर्थान्तरमाह ॥ स इति ॥ अनेन गन्धादि शब्दैः तत्साध्योभोगोलक्ष्यत इत्युक्तं भवति । जीवेन्द्रियाणि विहाय विष्णुः भोगाननुभवितुमशक्तः किं नेत्याह ॥ स्वरूपेणैवेति ॥ लीलयैवेति भावः । नन्वेवं स्वयमिन्द्रियशून्य इत्यापन्नम्‌ । तथाच सहस्राक्षः सहस्रपादित्यादि विरोध इत्यांकापरिहाराय प्राप्तस्य अस्य दैवं चक्षुरित्यादेः तात्पर्यमाह ॥ छुरितैरिति ॥ स्वकैरिन्द्रियैः छुरितैः व्यप्तैः । तथाच दैवं चक्षुरित्येतदुपलक्षणमित्युक्तं भवति । नन्वेवं दुष्यविषयभोगोपि भगवतः स्यादित्याशंकामुक्तं विशदयन्‌ परिहरति ॥ जीवमिति ॥ स्वकैः इन्द्रियैः इति वर्तते । स्वरूपेणेति च । तथाच जीवं प्राणं च स्वरूपेण तत्तदिन्द्रियाणि स्वकैः इन्द्रियढः एवं उक्तरीत्या व्याप्येति योज्यम्‌ । गुणान्‌ शुभवषियान्‌ । दोषान्‌ दुष्यान्‌ अशुभविषयानिति यावत्‌ । तं वा एतं देवा इति वाक्यं व्याचष्ये ॥ तमेतमिति ॥ वाय्वाद्या इत्यनेन देव पदमशरीरोवायुरित्यादि वाक्यं प्रकृतदेव परमिति सूचयति । तस्मात्‌ तेषां सर्वे च लोका इत्यादि फलवाक्यं व्याचष्ये ॥ तमेतमिति ॥ यथेत्यस्य यथावदिति वायथायोग्यमिति वार्थः । अनुविद्य विजानातीत्यनयोः अथर्मेदमाह ॥ ज्ञात्वापश्येदिति ॥ सर्वकामांश्ऱ्चेत्यादावपि यतेति योज्यम्‌ । यथायोग्यमित्यर्थः । एवं ब्रह्मोपदेशात्‌ देहप्रतिबिम्बमेव ब्रह्म । बिम्बप्रतिबिम्बयोः चैक्यं तच्चोक्तरीत्या देहाभिमानि जीवैक्ये पर्यवस्यति रअतो जीवात्मापि ब्रह्मैव अतः स एवं अहय्य इत्यभिप्रायो ब्रह्मण इति मायावाद एव विरोचनेन अवबुद्धः । मायावादिभिः अपि वा आत्मनोः ब्रह्माभेदांगीकारात्‌ । स एव चासुरेभ्य उपदिष्यः । इन्द्रेण तु जीवस्य जाग्रदाद्यवस्थाप्रवर्तकः शरीराभिमानरहितः प्रियाप्रियास्पृष्यो मुक्तगम्योदेहरथो जीव प्राणेन्द्रियाद्याश्रयः सकलशुभभोक्ता वाय्वाद्युपास्य आत्मा । जीवस्त्वनेवं विधः । इति भेदवाद एवावबुद्धः । स एवोपदिष्यः सुरेभ्य इति प्रअमाणेन व्याख्याय तत्परिशुद्धये आत्मा देह एवं अहय्यः देहातिरिक्तात्मनोऽभावादिति लोकायतमतं अवबुद्धं उपदिष्यं च विरोछनेनेति केचित्‌ । तत्रानुपपत्त्युक्त्या तन्नेति वदन्नुक्तरीत्या मायावाद एवावबुद्ध उपदिष्यश्ऱ्चेत्याह ॥ उभाविति ॥ नात्रविरोचनेन लोकायतमतं अवबुद्ध मुक्तं चासुरेभ्य इति वक्तुं युक्तम्‌ । उभौ लोकौ अवाप्नोती मंचामुंचेति तदीयफलवाक्य विरोधात्‌ । न हि लोकायत पक्षेपरलोकास्ति । तर्हि किमवबुद्धमुक्तं च तेनेति पृच्छति ॥ किंत्विति ॥ उत्तरमाह ॥ बिम्बेति ॥ बिम्बप्रतिबिम्बयोः यदैक्यं तदुक्तरीत्या बिम्बभूत देहाभिमानि जीवैक्ये पर्यवस्यतीत्यभिप्रायेणेत्यर्थः । किंच यद्यत्र विरोचनेन अवबुद्ध आत्मालोकायतरीत्या देहः स्यात्तर्हि इन्द्रावबुद्धः सदेहातिरिक्तो जीव एवेति वाच्यम्‌ । ओमिति चेत्तत्राह ॥ नचात्रेति ॥ अत्रेन्द्रं प्रति ब्रह्मोपदेशे । कुतो नेति चेत्‌ । इन्द्रं प्रति ब्रह्मोपदिष्यस्य आत्मनोऽमृतत्वा शरीरत्व जीवदेहाधिष्ठतृत्व प्रियाप्रिया स्पृष्यत्वादि जीवव्यावृत्तधर्मवत्त्वेन जीवस्य चातादृशत्वेन उक्ततया जीवविलक्षणत्वादित्याह ॥ तदस्यामृतस्येत्यादिना ॥ लिंगबाहुल्यात्‌ सतात्पर्यमित्युक्तम्‌ । भेदाभिधानात्‌ जीववैलक्षण्याभिधानात्‌ । नन्वत्रोक्तं प्रियाप्रियास्पृष्यत्वं तदनुभवरूपं जीवस्यैव किं न स्यात्‌ । न स्यात्‌ । तथात्वे प्रियाप्रियानुभवतृत्वं जीवादन्यस्य शरीरस्य वाच्यं स्यात्‌ । नच तत्सम्भवतीत्याह ॥ नहीति ॥ नवयं जीवस्य प्रियाद्यस्पृष्यत्वे तदतिरिक्तस्य शरीरस्य तत्स्पृष्यत्वं ब्रूमो येन असम्भवः स्यात्‌ । किन्तु जीस्यैव संसारदशायां प्रयाद्यनुभवो मुक्तौ तु नेति । अतः कथमिदं जीवव्यावृत्तमित्यत आह ॥ नच मुक्तस्यापिति ॥ एवं च मुक्तस्यापि प्रियसद्भावात्‌ नतदस्पृष्यत्वं जीवेसावकाशमिति भावः । नन्वेवं प्रियाद्यस्पृष्यत्वं विष्ण्वप्यनवकाशं तस्यापि प्रियसद्भावादित्यत आह ॥ नचेति ॥ तदुपपादयति ॥ पराधीनेति ॥ मुक्तेतत्स्पृष्यत्व मुक्तमुपपादयति ॥ मुक्तानां त्विति ॥ प्रियाद्यस्पृष्यत्वं न जीवेसावकाशं किं तु भगवन्मात्र निष्ठमित्यत्र प्रमाणमाह ॥ जीवामुक्ता इत्यादिना ॥ मुक्ता अमुक्ताश्ऱ्च जीवाः प्रियवन्तः कुतः । पराधीनरतित्वतः । एवं च तेषां न प्रियापहतिः क्वपीत्यर्थः । स्वातन्त्ऱ्ादपराधीनत्वात्‌ । नन्वथापि प्रियाद्यस्पृष्यत्वं न विष्णुमात्रनिष्ठम्‌ । जीव विशेषेषु वाय्वादिष्वशरीरत्वस्य उक्तत्वेन तत्प्रयुक्तप्रियाद्यस्पृष्यत्व्यापि सम्भवादित्याशंकायां तेष्वपि न मुख्यं प्रियाद्यस्पृष्यत्वमपि तु गौणमेवेत्येतद्दृष्यान्तैराह ॥ हरेरित्यादिना ॥ ब्रह्मवायुवोः सुखस्येति शेषः । अत्रोवङादेशः च्छान्दसः । अप्रियतापि्रयास्पृष्यता । अमुख्येति शेषः । एवमग्रेऽपि । एवं प्रियास्पृष्यत्वस्य भगवन्मात्र निष्ठत्वात्‌ तथात्वे नेन्द्रं प्रत्युक्तो भगवानेवेत्युक्तम्‌ । इतश्ऱ्चैवमेवेत्याह ॥ स एष इत्यादिना ॥ स एष सम्प्रसाद इत्यादिना स्वप्राप्त्यामुक्त जीवस्वभावानन्दानुभव प्रदत्वमुच्यते । नचेदं जीवेसम्भावितमपीत्यर्थः । किंचेन्द्रं प्रत्युक्त आत्मा स उत्तमः पुरुष इति जीवादुत्तमतयोच्यते अतो न जीव इत्याह ॥ स उत्तम इति ॥ ननु स उत्तमः पुरुष इत्युक्तमुत्तमत्वं जीवेपि सम्भवति । नच स उत्तमत्वावधिरेव न स्वयमुत्तम इति वाच्यम्‌ । जडस्यैव तदवधित्व सम्भवादित्यत आह ॥ अपरेति ॥ तथाच पुरुषशब्द समभिव्याहारबलेन अपरपुरुषस्यैव अवधित्वं न जडस्य । तथात्वे पुरुषशब्द वैयर्थ्यादिति भावः । न केवलं उत्तमत्वावधित्वेन पुरुष एव वक्तव्य इति न्याय प्राप्तं अपि तु गीतायां अभिहितं चेत्याह ॥ उत्तम इति ॥ अन्यः पुर्वोक्ताभ्यां क्षराक्षरपुरुषाभ्याम्‌ । एवं च अत्र क्षराक्षरपुरुषयोः उत्तमत्वावधित्वं स्पष्यमिति भावः । नन्विदमुत्तमत्वं यद्यपि अस्मदादि स्वसम्भवि तथापि ब्रह्मादिषु जीवविशेषेषु सम्भावितं भविष्यति । तथाच अस्मदादय एवोत्तमत्वावधय इति न पुरुषशब्दवैयर्थ्यमित्याशंकायां नोत्तमपुरुषत्वं अन्यत्र कुत्रापि सावकाशमित्यागमाभ्यामाह ॥ ब्रह्मेशानादिभिः इत्यादिना ॥ यत्कैवल्यं सर्वोत्तमत्वं ब्रह्मेशानादिभिः प्राप्तुं नैवशक्यते तत्कैवल्यं यस्य स्वभावः स भवान्‌ केवलः सर्वोत्तम इत्यर्थः । महित्वं सर्वोत्तमत्वादिकम्‌ । ननु यदुक्तमपरपुरुषावधिकमेव उत्तमत्वमत्रोच्यत इति तदयुक्तम्‌ । मुक्त्यवस्थायां हीदमुच्यते । नच मुक्ताव परपुरुषसद्भावः प्रामाणिकः । प्रत्युतपरेव्यये सर्व एकीभवन्तीत्यादिना ऐक्यस्यैव तदावगमादित्याशंकायां मोक्षेपि अपरपुरुषसद्भावे प्रमाणान्युदाहरति ॥ इदं ज्ञानमित्यादिना ॥ इत्यादेः च अपरपुरुषसद्भावोमोक्षेपि अवगम्यत इति शेषः । अत्रार्थे एतदुपनिषद्गतवाक्ये अपि उदाहरति ॥ सतत्रेत्यादिना ॥ भेदेन अवस्थानु श्रुतेः । मोक्षे पुरुषाणामिति शेषः । किंच स उत्तमः पुरुष ति वाक्यं यत्र श्रूयते तत्रैव मुक्तवपरपुरुष सद्भाव ज्ञापकमस्तीत्याह ॥ उपशब्दादिति ॥ अन्तरशब्दाच्चेति शाखान्तरपाठं अनुसृत्योक्तम्‌ । तथाच हुप्रमाणविरोधात्‌ ऐक्यप्रतिपादकं वाक्यं स्थानैक्यादि विषयतया सावकाशमिति भावः । इतोपि नेन्द्रं प्रत्युपदिष्यो जीवात्मेत्याह ॥ नचेति ॥ अत्र हि तं वा एतं देवा अत्मानं उपासत इति देवोपास्यत्वं प्रतीयते न च तज्जीवे सम्भवतीति भावः । ननु जीवानामपि प्रतीकत्वादिना देवोपास्यत्वं अस्तयेवेत्यत उक्तम्‌ ॥ मात्रमिति ॥ भगवन्तं विनेत्यर्थः । कुतो नेति चेत्‌ । विष्णोः एव तदुपास्यत्वं श्रुतेः इत्याह ॥ ऊर्जमिति ॥ पूर्वोर्धगतं देवैः इत्येतत्‌ विभक्तिविपरिणामेनात्रानुवर्तते । तथाच देवाः पृथिव्या ऊजर्मन्नं भक्त्वाय भोक्तुमुरुगायं उपासत इति योजना । उरुगायश्ऱ्च विष्णुः इति प्रसिद्धमेव । इति श्रुतिः विष्णोः देवोपास्यत्वं अहेति शेषः । किंच चतुर्मुखोपास्यत्वे तदितरसर्वदेवोपास्यत्वं कैमुत्येनैव सिद्धमित्याशयेन देवोत्तम चतुर्मुखोपास्यत्वं भागवते भिहितमित्याह ॥ भेद दृष्ययेति ॥ भेद दृष्यया जीवादिभिन्नत्वेन भगवदुपासनया । अभिमानेन पूर्णज्ञानेन । कर्तृत्वात्‌ सगुणं ब्रह्मपुरुषं पुरुषर्षभम्‌ । ससंगत्वेत्युत्तरेण अन्वयः । यद्वा स उत्तमः पुरुष इत्युक्तमुक्तगम्यस्य सकलपुरुषोत्तमत्वं भागवतसंमत्या द्रढयति ॥ भेद दृष्ययेति ॥ अत्र ह्युत्तरार्धे पुरुषर्षभमित्यनेन मुक्तगम्यस्य पुरुषोत्तमत्वं स्पष्यमुच्यते । नन्वत्र दर्शनाय चक्षुगर्न्धाय घ्राणमित्यादि नेन्द्रियैः विषयभोक्तृत्वमिन्द्रं प्रत्युपदिष्यस्य आत्मन उच्यते । नच तजजीवभिन्नस्य सम्भवति । भगवतः पूर्णत्वेन विषयभोगासम्भवात्‌ । अतो जीव एवेन्द्रं प्रत्युपदिष्य आत्मेति शंकायां भगवत पूर्णत्वेपि लीलयामुख्यं विषय भोक्तृत्वमप्यस्तीत्याशयेन तत्र भागवतवाक्यं पठति ॥ भूतैरित्यादिना ॥ यत्‌ यस्मात्‌ अमूषुपूषर्ुशेते अतः चक्षुरादिदर्शेन्द्रियाणां मन आदिपंचानां साक्षिणाश्ऱ्च षोडशगुणान्‌ विषयान्‌ षोडशात्मकः उक्तषोडशव्यापीसन्‌ भुंक्ते । अत्र नुतिमप्याह ॥ ऋतं पिबन्ताविति ॥ यौ सुकृतनिर्मित शरीरे हृदयगुहां प्रविष्यौ तत्रापि सवर्जीवोत्तमेऽति पूर्णे वायौ प्रविष्यौ सुकतफलं भुंजानौ तौ ब्रह्मविदः च्छायातपौ वदन्तीति सम्बन्धः । नन्वस्याः श्रुतेः अयमर्थः कुत इत्यपेक्षायां सूत्रकृतातता निर्णीतत्वादित्याशयेन एतच्छत्यर्थनिर्णायकं सूत्रं पठति ॥ गुहां प्रविष्याविति ॥ गुहां प्रविष्यौ पिबन्तौ विष्णुरुपे एव । धर्मा समन्तेति तद्दर्शनादिति सूत्रार्थः । ननु यो वेदं जिघ्राणीत्यादिना विषयभोक्तृत्वानुसन्धातृत्वं जीवलिंगं प्रतीयते ।अतो विषयभोक्तृत्वमपि जीवस्यैव वाच्यमित्यतः तदनुसन्धातृत्वमपि न मुख्यतो जीवगतमपि तु भगवन्निष्ठमेवेति प्रमाणेनैवाह ॥ इदमिति ॥ पश्यामीत्यनेन चाक्षुष इत्यस्य तात्पर्यमुक्तमित्यवगन्तव्यम्‌ । विदुः मुख्यतः । स उत्तमः पुरुष इति ॥ कुत इत्यतः सूत्रकृता तथोक्तत्वादित्याह ॥ अन्यार्थ इति ॥ परमात्मार्थश्ऱ्च स इति परामर्श इत्यर्थः । गीतासमाख्ययाप्युत्तमपुरुषो भगवानेवेत्याह ॥ उत्तमः पुरुष इति ॥ पूर्वमुत्तमत्वं अपरपुरुषावधिकमित्यथर् इदमुदाहृतम्‌ । इदानीं तु भगवत एवोत्तमत्वे । अतो न पौनरुक्त्यम्‌ । नन्वेवमपि भगवानेवोत्तम पुरुषोभिमत इति कथं निर्णयः । जीवप्रापकनिरन्तर प्रकृतेरपि सद्भावेन जीवस्यापि तथात्व प्राप्तेरित्यतः तत्र बाधकमाह ॥ जगद्वयापारवर्जमिति ॥ अल्पैश्ऱ्वर्यस्य चोत्तमपुरुषत्वं न युक्तमिति भावः । एवं परामर्शस्य जीवान्य विषयत्वं प्रसाध्येदानीं उपसंहारव्याजेन तद्वाक्यार्थमाह ॥ अत इति ॥ परामर्शः परामर्शवाक्यार्थः ॥ किंच नेन्द्रं प्रत्युपादिष्य आत्मा जीवः तस्य स्वप्ने महीयमान इति स्वप्नावस्थायां पूज्यतया चरणशभिधानात्‌ । यत्रेतत्सुप्त इति सुप्तजीवाश्रयत्वोक्तेः चेत्याशयेनाह ॥ स्वप्नेमहीयमान इत्यादिना ॥ भेदोक्तेः भेदकधमर्ोक्तेः न जीव आत्मेति शेषः । स्वप्नेमहीयमानत्वं न जीवगमित्युपपादयति ॥ नहीति ॥ दुःखानुभवस्यापि सद्भावादिति भावः । अत्र महियमान एव चरतीत्यावधारणमभिप्रेतम्‌ । संमुग्धोक्तित्वादवधारणोक्तयभव इति ज्ञातव्यम्‌ । सुप्ताश्रयत्वं च भगवन्मात्र निष्ठमिति सतासोम्य तदा सम्पन्नो भवतीत्युपपादितमिति भावः । सयथा प्रायोग्य इत्यादिकं यथैव सारथिरिति प्रमाणेन व्याख्यातम्‌ । तदुपपादयितुं अनुवदति ॥ प्रायोग्यः सारथिरिति ॥ एतेन प्रमाणेन सारथिपदव्याख्येय पदमपि दर्शितं भवति । सारथिः कयावृत्त्या प्रायोग्यपदप्रतिपाद्य इति जिज्ञासायां योगेन रूढ्योचेति क्रमेणाह ॥ प्रयोगेनेत्यादिना ॥ अनेन प्रयुज्यत इति प्रयोग्योऽश्ऱ्वोबलीवर्दोवेत्यपव्याख्यानमित्युक्तं भवति । अस्य दैवं चक्षुरित्येतत्‌ दैवशब्दार्था प्रतीत्या व्याचष्ये ॥ अन्येभ्य इति ॥ मनो ग्रहणेन चक्षुरित्येतदुपलक्षणमिति सूचयति ॥ इदमपि सर्वेन्द्रियोपलक्षणमिति ज्ञातव्यम्‌ । य एते ब्रह्म लोके इत्यस्यान्याप्रतीतेः तं दर्शयति ॥ य एत इति ॥ अनुविद्यविजानातीत्येतत्‌ । यथा ज्ञात्वापश्ये द्विष्णुमिति प्रमाणेन व्याख्यातमुपपादयितुं विशदयन्ननुवदति ॥ अनुविद्येति ॥ अभिदानोक्त्या तदुपपादयति ॥ वेदनमिति ॥ खं-12 ॥ ततश्ऱ्चायं खण्डषट्‌कार्थः ॥ आख्यायिकां वक्तुं भूमिकामारचयति श्रुतिः ॥ य आत्मेत्यादिना ॥ व्याख्यातमेतत्‌ । य
ोधिकारीतमुक्तगुणमात्मानं अनुविद्यशास्त्राचार्याद्यनुसारेण परोक्षतो ज्ञात्वा विजानात्यापरोक्ष्येण स सर्वान्‌ लोकान्‌ विष्णुलोकादीन्‌ सर्वान्‌ कामान्‌ इच्छाविषयांश्ऱ्च योग्यता अनुसारेण आप्नोतीति प्रजापतिरुवाच । कदाचिद्दैवासुरसमक्षमिति शेषः ॥ 1 ॥ तदनुतदनन्तरम्‌ । तत्‌ आत्मज्ञानं सर्वलोकादि साधनमित्येतत्‌ । उभये केते देवासुराः । बुबुधिरेबोद्धुमारेभिः एहकिल । कथम्‌ । यमात्मानं अन्विष्यपरोक्षापरोक्षज्ञाने सम्पद्य सर्वान्‌ लोकान्‌ कामांश्ऱ्च यथायोग्यमाप्नोति तं आत्मानं वयमन्विष्यामोमीमांसया तत्परोक्षज्ञानादिकं सम्पदयिष्यामः । हन्तेत्यास्वादने । एतादृशफलसाधनमात्मज्ञानं कोनसम्पादयेदिति । इत्युचुः हकिल । इन्द्र विरोचनौ प्रतीति शेषः । अत एवेन्द्रोदेवानां अर्थे तेषां उपदेशायेति यावत्‌ । स्वयं तं आत्मानं श्रोतुं प्रजापतिं अभिप्रति प्रवव्राज प्रजापति सकाशं जगाम । हवै प्रसिद्धमेतदित्यर्थः । एवमेव विरोचनोपि असुराणां अर्थे प्रजापतिं अभिप्रवव्राज । एकगुरुकुल वासार्थिनोः तयोः गमनकारले परस्परं प्रीतिः अभूत्किं नेत्याह ॥ ताविति ॥ ता विन्द्रविरोचनौ असंविदानावेव सम्प्रीति रहितावेव अन्योयं संविदमकुर्वाणाविति वा । ह आश्ऱ्चर्यम्‌ । तस्मिन्नपि समये तयोः प्रीतिः नाभूदिति । विद्यार्थिता ज्ञापनाय समित्पाणी सन्तौ आजग्मतुः आगतवन्तौ ॥ 2 ॥ गत्वा च तावुक्तगुणकात्मश्रवणाय द्वात्रिंशतं द्वात्रिंशत्संख्याकानि वर्षाणि ब्रह्मचर्यं गुह्येन्द्रिय नियमनादि व्रतं चरन्तावूषतुः हकिल । तत्रैवेति शेषः । तौ एवं नयमेन स्वसमीप वासिनौ प्रजापतिः उवाच ॥ किमिति ॥ किमिच्छन्तौ युवामत्र अवास्तमिति । तावेवं पृष्या वुचतुः ह । य आत्मेत्यादिः पूवर्ोक्त प्रजापतिवाक्यानुवादः । इति एवं रूपं भगवतः पूज्यस्य तव वचोवाक्यं तदर्त भूतं आत्मानं वेदयन्ते वेत्तुमिच्छन्ति देवासुरा इति शेषः । अतः तमात्मानं तेभ्य उपदेष्युं त्वत्तोज्ञातुमिच्छन्तावा वामवाः तमवात्स्व । गुरुभयात्‌ पुरुष व्यत्यासेनोक्तिः । इति होचतुरित्यन्वयः ॥ 3 ॥ तावेवं प्रकटिताभिप्रायौ प्रजापतिः उवाच । स्वस्य नृतवक्तृता परिहाय विरोचनस्य सम्यक्‌ ज्ञानाप्राप्तये च इन्द्रस्य शुद्धभावेन पुनरागमनं जानन्‌ संमुग्धमेवोपादिदेश । हेत्याश्ऱ्चर्ये । अयोग्यानां महान्तो न सम्यगुपदिशन्तीति । किमिति । य एषः जागृदवस्थाप्रेरको क्षणि अन्तः पुरुषः पूर्ण षड्‌गुणो विश्ऱ्वनामा दृश्यते दिव्यदृष्यया स एष आत्मा सर्वलोकादि साधनज्ञानविषयत्वेन विषयत्वेन मयोक्तोपहतपाप्मत्वादि गुणक आत्मा इति होवाचेति पूर्वेणान्वयः । ननु कुतोस्य चक्षुरन्तः स्थस्य परमात्मत्वमित्यत आह ॥ होवाचेत्यादिना ॥ एतत्‌ चक्षुरन्तस्थं अमृतं नित्यमुक्तं अभयं कुतोपि भयशठून्यं ब्रह्मपूर्णगुणम्‌ । इति होवाचेति चार्थे । एवं सोपपत्तिकमक्षिस्थ भगवदभिप्रायेण ब्रह्मणोक्ते विरोचनोयाऽग्यत्वात्‌ य एषोन्तरक्षणिपुरुषो देह प्रति बिम्बो दृश्यते अस्माभिः एष आत्मा प्रागुक्तापहत पाप्मत्वादिगुणक आत्मेति ब्रह्मणोभिप्रायः । इति मत्त्वे मम अभिप्रायं भूयोदर्शनेन निश्ऱ्चेतुं इन्द्र सहित एव पुनरपि पृच्छति ॥ अथेति ॥ इन्द्रोपि तस्य विपरीतज्ञानय तदनुसारेणैव पप्रच्छेति ज्ञातव्यम्‌ । अथेति प्रश्ऱ्ने । भो भगवः पूज्य योयं पुरुषो देहप्रतिबिम्बोऽप्सुपरिख्यायते । यश्ऱ्चायं आदर्शे एष देहप्रतिबिम्बः कतमः किं उक्तरीत्यापहतपाप्मत्वादि गुणकात्मैवोततदन्यः इति विरोचनाभिप्रायः । इन्द्रस्य तु योमबाधिषु पुरुषः प्रतिबिम्बादि प्रवर्तको दिव्यदृष्यया परिख्यायते एष कतमः किमक्षिस्थ तया प्रकृतो हरिरेव ओतन्य इत्यभिप्रायः । इत्यूचतुरिति शेषः । संमुग्धमेवोत्तरमाह ॥ एष इति ॥ एषः जाग्रदवस्था प्रेरकतया प्रकृतो क्षिस्थः उ एव उत्कृष्यो हरिरेवैषु पूर्वोक्तेष्वबादिष्वन्तेषु स्थानेषु प्रतिबिम्बादि प्रेरकतया परिख्यायते समंतात्‌ ज्ञायते दिव्यदृष्ययेत्याभिप्रायण उवाच प्रजापतिः । एवं हर्यभिप्रायेण उक्तेपि अयोग्यत्वाद्विरोचनः एष एव देहप्रतिबिम्ब एवैषु सर्वेषु अन्तेषु अबादिषु अपहतपाप्मत्वादि गुणकात्मतया परिख्यायत इति मत्त्वा देह प्रतिबिम्ब एव सर्वत्रापहतपाप्मत्वादि गुणक आत्मेति ब्रह्माभिप्राय इति निश्ऱ्चितवान्‌ ॥ 4 ॥ सप्तमः खण्डः ॥ 7 ॥ अनन्तरं प्रजापतिः नेदं दृश्यमानं देहप्रतिबिम्बं ब्रह्म । तस्य देहगुणेन गुणवत्त्वमिव देहदोषेण दुष्यत्वमपि भविष्यति न्ययसाम्यादित्यभिप्रायेण प्रतिबिम्बे दोषान्‌ सूचयितुमाह ॥ उदशराव इत्यादिना ॥ उदपूर्ण शरावे आत्मानमात्मावच्छिन्नं देहमवेक्ष्यावलोक्य यदा आत्मनो विद्यमानं अंगादिकं न विजानीथः तदज्ञातमंगादिकं मे प्रब्रूतमित्युवाच । तौ चोदपूर्णशरावे आत्मानं अवेक्षांचक्राते इति श्रुतेः स्ववाक्यम्‌ । भो भगवः इमौ आवां सर्वमेवात्मानं पश्यावः । सर्वमित्यक्तमेव विशदमाहतुः ॥ आलोमभ्य इत्यादि ॥ लोमपर्यन्तं नखपर्यन्तं यत्‌ देहप्रतिबिम्बं तत्पश्याव इत्यूचतुरिति सम्बन्धः ॥ 1 ॥ परिष्कृतावनुलेपनादिमन्तौ । न खलोमादि रहितावित्यपि कश्ऱ्चित्‌ ॥ 2 ॥ यथैवेदं पूर्वोक्तं । किं तदित्यतः स्तदेव विशदयतः ॥ आवां भगव इत्यादि ॥ इत्यूचतुः । अनन्तरं एष एव बिम्बवानुरूप प्रतिबिम्बस्रष्या आत्मेत्याद्युवाच प्रजापतिः । एवंहर्यभिप्रायेण प्रतिबिम्बस्य अब्रह्मतायां न्याय साम्येन दोषसूचनायोक्तेपि अयोग्यत्वात्‌ विरोचनः प्रतिरूपमेव ब्रह्मतत्पूजायै स्वात्मपूजैव कार्येति मत्त्वाप्रजापति सूचितमपि दोषमपश्यन्निन्द्रेण सह जगामेत्याह श्रुतिः ॥ 3 ॥ तौ हेति ॥ शान्तहृदयौ सम्यग्ब्रह्मणा आत्मतत्वमुपदिष्यमित्यभिप्रायवन्तौ तौ गच्छन्तावन्वीक्ष्य प्रजापतिः स्वमाध्यस्थ्यज्ञापनाय योवाच ॥ किमिति ॥ आत्मानं अपहतपाप्मत्वादि गुणकमुपलभ्य सम्यक्‌ श्रवणादितोऽननु विद्यापरोक्षतः यतो व्रजतोतः यतरेयेकेचित्‌ । एतदेवाह देवा वा असुरा वा एतदुपनिषदः एतदुपनिषदापपातप्रतीतार्थवेत्तारो भविष्यन्त ते पराभविष्यन्ति । मदभिप्रेतार्थस्य दुरवगाहत्वात्‌ । इत्युवाचेति सम्बन्धः । एवमुक्तोपि सविरोचनः शान्तहृदय एव किमत्र गहनमित्यभिप्राय एवाऽसुरान्‌ प्रतिजगाम । हेत्याश्ऱ्चर्ये । एवं बलीयसीयोग्यतेति । एतां य एषोन्तरक्षरीत्येवं रूपं देहप्रतिबिम्बं एव ब्रह्म । बिम्बप्रतिबिम्बयोः चैक्यम्‌ । तच्चोक्तरीत्या देहाभिमानि जीवैक्येपर्यवस्यति । अतो जीवात्मापि ब्रह्मैव अतः स एवं अहय्यः इति स्वाभिप्रेतमर्थं दर्शयति ॥ आत्मैवेति ॥ इह जगति । आत्मा जीव एवं अह्यः पूज्यो अलंकारादिना । आत्मा जीवः परिचर्यः सेव्यः । परब्रह्मपूजाद्यर्थिभिः इति शेषः । उक्तरीत्या जीवस्य ब्रह्मत्वात्‌ । एवं जीवपूजादिकरणे फलमाह ॥ आत्मानमेवेत्यादिना ॥ इमं चामुंचेत्यभावित्यन्वयः । ब्रह्मपूजादिकं एव उभयलोकसाधनत्वेन श्रुत्यादिसिद्धम्‌ । जीवश्ऱ्चेक्तरीत्या ब्रह्मेति भावः । अनेन स सर्वांश्ऱ्च लोकानाप्नोतीत्यादि ब्रह्मोक्तमेव फलमुक्तमिति ज्ञातव्यम्‌ ॥ 4 ॥ इदं विरोचनेन अवबुद्धमसुरमतमित्युपपादयति श्रुतिः ॥ तस्मादपीति ॥ तस्मादसुरपक्षे जीवस्यैव ब्रह्मतया पूज्यत्वात्‌ अद्यापि इदानीमपि अददानं जीवातिरिक्तेश्ऱ्वरप्रीतिं उद्दिश्य दानशून्यं अश्रद्दधानं जीवातिरिक्तेश्ऱ्वरोस्तीति श्रद्धारहितं अयजमानं जीवातिरिक्तेश्ऱ्वरप्रीतिं उद्दिश्य यज्ञाकारिणं च केवलं स्वात्मपूजादिरतमिति यावत्‌ । दृष्ट्वा सज्जनाः एते आसुराबत आश्ऱ्चर्यं हरिं सर्वोत्तमं न जानन्तीत्याहुः । कुतः हि यस्मादेषो उपनिषत्‌ एवं उपनिषदर्थज्ञानमसुराणां प्रसिद्धं अत इत्यर्थः । एतदेव विशदयति ॥ प्रेतस्येति ॥ प्रेतस्य त्यक्त देहस्यापि जीवस्य सम्बन्धिशरीरं शवमपि भिक्षया यथा कथंचित्‌ भिक्षादिना प्राप्तेन वसनेनालंकारेण च इति उक्तरीत्या प्रतिरूपभूत ब्रह्मभिन्न जीवसम्बन्धिशरीरालंकृत्या ब्रह्मणोपि तृप्तिः स्यादित्यभिप्रायेण संस्कुर्वन्ति पूजयन्त्यसुराः । किमुजीवच्छरीरमिति भावः । एतेन बिम्बभूत जीवच्छरीरपूजादिना अमुं लोकम्‌ । उपलक्षणमतत्‌ । इमं चेत्यपि ग्राह्यम्‌ ॥ 5 ॥ अष्यमः खण्डः ॥ 8 ॥ एवं जाग्रदवस्था प्रेरकं अक्षिस्थं प्रतिबिम्बादि बाह्यपदार्थ स्रष्यरं अपहतपाप्मत्वादि गुणकात्मतया वगत्य विरोचनावगतं प्रतिबिम्बं तु नापहतपाप्मत्वादि गुणकमित्युपपादयति ॥ अथेति ॥ अत्रेन्दस्य विरोचनेन सह गमनादिकं ब्रह्मणोपि तदनुसारेण वचनमसुरमोहाद्यथर्मिति भाष्ये स्पष्यम्‌ । अथ विरोचनगमनानन्तरं इन्द्रो देवा न प्राप्यमध्य एवैतत्‌ वक्ष्यमाणं भयं भयं करं न्याय साम्येन ब्रह्माभिप्रेतं दोषं ददर्श । हेत्यास्वादने । महदभिप्रायोग्यानामेव स्फुरतिना योग्यानामिति । न्यायसाम्यं दर्शयन्‌ भयं ददर्शेत्युक्तमेव विशदयति ॥ यथैवेत्यादिना ॥ अयं प्रतिबिम्बभूतो देहः अस्मिन्बिबं भूते देहेस्रामे चक्षुर्नासिकावायस्य सदा स्रवति स्रामस्तस्मिन्‌ सतीत्यर्थः । परिवृक्णे हस्तात्‌ इच्छेदवति । अत्रैतज्ज्ञान सति भोग्यमुपादयं यन्मोक्षादि न पश्यामि । नहि इदृशवस्तु ज्ञानेन मोक्षादि तस्य निरवयवज्ञानसाध्यत्वादिति भावः । उपलक्षणमेतत्‌ । एतदमृतमभयमेतत्‌ ब्रह्मेत्युक्ता अमृतत्वादीनां प्रतिबिम्बे अनुपपत्तिश्ऱ्च द्रष्यव्या । इति भयं ददर्शेत्यन्वयः ॥ 1 ॥ अतो न विरोचनावगतं प्रतिबिम्बं ब्रह्म किन्तु मदवगतमेवेति निश्ऱ्चित्येममर्थं ब्रह्मणे निवेद्य तन्मुखेनापि प्रतिबिम्बस्य अब्रहमतां दृढीकर्तुं स्वप्नावस्था प्रवर्तकत्व रूपमुक्तात्मनो माहात्म्यान्तरं श्रोतुं च पुनराजगामेन्द्र इत्याह ॥ ससमित्पाणिरित्यादिना ॥ शिष्यं स्पष्यम्‌ ॥ 2 ॥ हे मघवन्‌ यशस्तिवन्निन्द्र एष प्रतिबिम्बः एमेव त्वदुक्त प्रकारेण दोषवानेव अतो नायं मदभिप्रेतः किन्तु यस्त्वयावबुद्धः स एव । एतं जाग्रदवस्थाप्रेरकत्वादिनोक्तं आत्मानमेव तु विशेषण स्वप्नाद्यवस्था प्रेरकत्वादिरूपेण अनुत्वद्योग्यतानुसारेण । शिष्यं समानम्‌ ॥ 3 ॥ नवमः खण्डः ॥ 9 ॥ एषः कण्ठदेशस्थः स्वप्ने जीवस्य स्वप्नावस्थायां महीयमानः इन्द्रियदेवैः प्रणादिभिः पूज्यमान एव चरति चारयत्यवगमयति स्वसृष्यान्‌ गजतुरगादीन्‌ जीवेन स्वयं चावगच्छति । एषः एवं विधमाहात्म्यः आत्मामदुक्तः एतदमृतमित्यादि पूर्ववत्‌ । एवं ब्रह्मोपदेशेन स्वप्नावस्थाप्रेरकं ब्रह्माभिप्रेतमात्मानं सम्यक्‌ ज्ञात्वा आपाततः प्रतीयमानं स्वाप्नशरीरावच्छिन्नस्य अपहतपाप्मत्वादि गुणकात्मत्वं न युक्तमित्युपपादयति ॥ सहाप्राप्येत्यादिना ॥ तदिदं शरीरं स्वाप्नपदार्थ द्रष्यृजीवशरीरं बाह्यं यदपि यद्यपि सः स्वप्नेप्रतीयमानो वासनामयदेहोऽनन्धादिः भवति । यतो अतो नैवैषोऽस्येत्यादीति हेतुहेतुमद्भावेन योज्यं ॥ 1 ॥ अनेन प्रतिबिम्बस्य ब्रह्मतापक्षेयोदोषोभिहितः सोत्र यद्यपि नास्तीत्युक्तं भवति । अस्य द्रष्यृजीवशरीरस्य दोषेण हस्तादिच्छेदरूपेण । तथापि दोषान्तरमस्तीत्याह ॥ घ्नन्तीति ॥ अस्यादौ तथापीति ग्राह्यम्‌ । एनं स्वप्नेप्रतीयमान देहावच्छिन्नमेव । अन्येचोराः । तु विशेषेण । एवशब्द इवार्थे । घ्नन्तीव विच्छादयन्तीव विशेषेणच्छादयन्ति गर्तादौ । विच्छययन्तीति पाठे विगतच्छायं कुर्वन्तीत्यर्थः । अप्रियवेत्तादुःखजनकविषयभोक्ता । अपि दोषान्तरमपि । अत्र सर्वत्र बाह्यवैलक्ष्यण्यादिव शब्दः । इति भयं ददर्शेत्यान्वयः ॥ 2 ॥ अतो न स्वप्नेप्रतीयमान वासनामयदेहावच्छिन्नस्यापहतपाप्मात्वादि गुणकात्मत्वं ब्रह्माभिप्रेतम्‌ । किन्तु स्वाप्नानेकपदार्थ निर्मातुः प्राणादि पूज्यस्य तैजसस्वेवेति निश्ऱ्चित्ये ममर्थं ब्रह्मणे निवेद्य तन्मुखेनाप्यापातप्रतीतार्थो न मदभिप्रेत इति दृढीकर्तुं सुप्त्यवस्थाप्रेरकत्वरूप माहाम्यान्तरं श्रोतुं चेन्द्रः पुनरागत इत्याह ॥ ससमित्पारित्यादिना ॥ शिष्यं समानम्‌ । अत्र यद्यपि इन्द्रेण ब्रह्मसमीप एव स्थित्वाऽऽपातप्रतीतार्थ दूषणादिकं कर्तुं शक्यं तथापि किंचिद्दूरं गत्वा तत्र दोषदर्शनेन पुनरागत इत्यादिकथनमिन्द्रेण कथंचिदेवेदं ज्ञातमित्यसुरमोहनायेति भाष्ये स्पष्यम्‌ ॥ 3-4 ॥ तशमः खण्डः ॥ 10 ॥ तत्तस्यामवस्थायां यत्र यस्मिन्‌ प्राज्ञे एतत्‌ एषः सुप्तः समस्तः संकुचितेन्द्रिय व्यापारः सम्प्रसन्नः स्वरूपसुखवान्‌ तदनुभववानिति यावत्‌ । स्वप्नं विजनाति । किमुजाग्रत्पदार्तमिति भावः । एषः सुप्ताधारः प्राज्ञ आत्मा । एवं सुप्तजीवाश्रये परमात्मनिनिरूपिते तं जीववैलक्षण्ये न सम्यक्‌ ज्ञातुमासुरमतमवलम्ब्य सुप्त्यवस्थायां जीव
ाश्रय इश्ऱ्वराभावं तावद्युक्त्यासाधयति ॥ नाहं खल्वित्यादिना ॥ सम्प्रति सुप्त्यवस्थायां अहं खलु तावत्‌ आत्मानं परमात्मानं अयं परमात्मना एवं सुप्तस्य स्वात्मानं तदाश्रयत्वेन प्रदर्शयतीतति किं नस्यादित्यत आह ॥ अयमहमस्मीति ॥ अयं जीवाश्रयोहं अस्मीत्ययमन्यो भगवानपि आत्मानं स्वात्मानं न जानाति न ज्ञापयतीति । नन्वेकेन जीवेन स्वाश्रयस्य भगवतः सुप्ताव दृष्यत्वेपि न तदभावः । इतरेषां तज्ज्ञान सम्भवादित्याशंकायामाह ॥ नो एवेमानीति ॥ इमानि भूतान्यपि सुप्त्यवस्थायां स्वाश्रयं नो एव जानन्ति । अतो अनुपलम्भात्सनास्तीति भावः । ननु तदा जीव ईश्ऱ्वरो वा जीवेप्रविष्य इति नाश्रयाश्रयिभावोपलब्धिश्ररित्यत आह ॥ विनाशमेवेति ॥ यदि जीव ईश्ऱ्वरेऽपीतः प्रविष्यः तर्हि शंविनैव भवति भवेत्‌ । स्वरूपसुखानुसन्धाता न स्यात्‌ । नहि परगृहं गतस्य सुखभोगोस्ति । तथाच तस्य सुखमहमस्वाप्समित्युत्तरकालीन परामर्शायोगः । यदि वा ईश्ऱ्वरो जीवेप्रविष्यः तर्हि शंविनैव भवेत्‌ । तथाच तस्य सदा सुखभोक्तृत्व प्रतिपादक श्रुत्यादि विरोध इत्यर्थः । तथाच जीवेश्ऱ्वरौ नान्योन्यस्मिन्नपि अयन्तौ भेदेन च नोपलभ्येते । सुखमहमस्वाप्समित्युत्तरकालीन परामर्श बलेन च जीव एवोपलभ्यते अतो जीवातिरिक्ते इश्ऱ्वरोनुपलम्भान्नास्तीति भयं भयहेतुं पूर्वपक्षं ददशर् ॥ 1 ॥ इमं च पूर्वपक्षं ब्रह्मणे निवेद्य सम्यक्‌ वैलक्षण्येन परमात्मानं ज्ञातुं पुनरागत इत्याह ॥ ससमित्पाणित्यादिना ॥ 2 ॥ हे मङवन्‌ एषः परमात्मा एवमेव सुप्त्यादौ जीव विलक्षणतया प्रत्यक्षेण नोपलभ्यत एव । किन्तु जीववैलक्ष्यण्यं जीवव्यावृत्तधर्मैः अनुमेयमेव अतः ते एतं जीव व्यावृत्तधर्मवन्तं व्याख्यास्यामि । एतस्मात्पुनः किंचित्कालं ब्रह्मचर्या चरणरूपाद्ब्रतादन्यत्र तस्मादृत इति यावत्‌ । नो एव नैव व्याख्यास्यामियतो तो वसापराणि पंचवर्षाणीत्युवाच प्रजापतिः । स एवं आदिष्य इन्द्रो पराणि पंचवर्षाण्युवासह । एवं मिन्द्रस्य चतुर्वारं गुरुकलवासे कियन्ति वर्षाणि सम्पन्नानीत्यपेक्षायां श्रुतिः स्वयमेवाह ॥ तानीति ॥ तानीन्द्रेणोषितानि वर्षाणि एकशतं एकेन अधिकं शतमेकाधिकशत संख्याकानि सम्पेदुः सम्पन्नानि बभूवुः । अयमर्तः प्रसिद्ध इत्याह ॥ एतत्तदिति ॥ यदाहुः ज्ञानिनः एकशतं वर्षाणि मघवान्‌ प्रजापतौ ब्रह्मचर्यं उवासेति तदेतत्‌ द्वात्रिंशतमित्यादिना दर्शितमित्याख्यायिकान्ते उपसंहृत्य श्रुत्योच्यते । तस्मै अनुष्ठित ब्रह्मचर्यायसः प्रजापतिः उवाचोपदिदेश । जीवव्यावृत्तधर्मजातं जीववैलक्षण्यानुमापकमिति शेषः ॥ 2-3 ॥ एकादशः खण्डः ॥ 11 ॥ तव तावज्जरामृत्युपरीत शरीरित्वाभाव रूपं भगवतो जीवव्यावृत्तधर्मं वक्तुं जीवे जरामृत्युपरीतत्वशरीरित्वे तावदाह ॥ मघवन्नित्यादिना । हे मघवन्‌ इदं जीवजातं मत्यं वाव मरणशीलमेव उपलक्षणमेतत्‌ । जराग्रस्तं च । शरीरं शरीर सम्बन्धि तदभिमानीति यावत्‌ । मर्त्यत्वं उपपादयति ॥ आत्तमिति ॥ इदानीं भगवतः तदभावं वदन्‌ शरीराधिष्ठातृत्वमपि असाधारणं धर्मान्तरमाह ॥ तदस्येति ॥ त्जीवाभिमतं शरीरं अमृतस्य जरामृत्युरहित नित्यशरीरस्य अशरीरस्य शरीराभिमानशून्यस्य अस्य पूर्वोक्तगुणस्य आत्मनः परमात्मनोऽधिष्ठानम्‌ । एवं भूतोपि लीलयामर्त्य शरीरमधितिष्ठतीति यावत्‌ । जीवस्तु न तदधितिष्ठतीति वक्ष्यति । प्रियाप्रियास्पृष्यत्वरूपं जीवव्यावृत्तधर्मान्तरं वक्तुं जीवेतात्‌ तदभावमाह ॥ आत्त इत्यादिना ॥ यः सशरीरोजीवः सः प्रियप्रियाभ्यामात्तः सम्बन्धः । एतदुपपादयति ॥ न हवा इति ॥ अपहतिरपगमोनास्ति हवैनास्त्येव खलु । मुक्तानामपि प्रियसद्भावादिति भावः । अत्र प्रियं नामपरेणेयं प्राप्यं सुखं अप्रियं तु परेणेयमभद्रं अकारस्य निषेधार्तत्वेन अभद्रवाचित्वात्‌ । प्रियशब्दस्य च परेणेयत्ववाचित्वात्‌ । तथा च परेणेयं अअप्रियमिति परनिपात इति ज्ञेयम्‌ । इदानीं भगवति तदस्पृष्यत्वमाह ॥ अशरीरमिति ॥ अशरीरं सदा शरीराभिमानशून्यं परमात्मानं प्रियाप्रिये नवाव नैव स्पृशतः । अभद्रं भगवति नास्त्वेव । सुखमपि न परप्राप्यमस्तीति भावः ॥ 1 ॥ भगवतः प्रियाद्यस्पृष्यत्वं कैमुत्येन साधयितुमाह ॥ अशरीर इत्यादिना ॥ वायुः मुख्यः अशरीरः ज्ञानवैशेष्येणन अत्यन्तं देहेन संगतः । अभ्रंब्रह्मा । व्याप्तत्वात्‌ अम्नामाविष्णुः तेनैव भ्रियमाणत्वात्‌ । विद्युत्‌ वायुपत्नी । विशेषेण द्योतनात्‌ । स्तनयित्नुः ब्रह्माणी । सर्वशब्दत्मकत्वात्‌ तस्याः । एतानि अभ्रादीनि अशरीराणि ज्ञानवैशेष्येण शरीरेण अत्यन्तं न सम्बद्धानि । अत एव न प्रियाप्रियवन्ति । एतच्च भाष्ये स्पष्यम्‌ । एवं च यदा कदाचित्कथंचित्‌ अशरीराणा प्रियाद्यस्पर्शः तदाकिमुवाच्यं सर्वथासवर्दाशरीरेण असम्बद्धस्येत्युक्तं भवति । मुक्तप्रायत्वात्‌ च भगवान्‌ जीवविलक्षण इत्याशयेनाह । तद्यथैतानीत्यादिना ॥ तत्‌ वक्ष्यमाणं निदर्शनं यथा । एतानि वाय्वादीनि अमुष्मादाकाशात्‌ असम्मतात्‌ काशमानात्‌ परमात्मनः तत्प्रसादादिति यावत्‌ । समुत्थाय शरीरादिति शेषः । परंज्योतिः परं ब्रह्म उपसम्पद्य तत्समीपं गत्वा स्वेनरूपेण स्वस्वरूपानन्दादिना भिनिष्पद्यन्ते सम्यक्‌ सम्पन्नानि भवन्ति ॥ 2 ॥ एवमेवैषो परोपि मुक्तः सम्प्रसादः सम्यक्‌ विष्णुप्रसादवान्‌ अस्मात्‌ चरमतात्‌ शरीरात्‌ समुत्याय यत्परं ज्यातिरुपसम्पद्य स्वेन रूपेण अभिनिष्पद्यते स उत्तमः पुरुषः । अनेन उत्तमपुरुषत्वेनापि जीववैलक्षण्यमुक्तमिति ज्ञातव्यम्‌ । केचित्तु वैलीण्य सिद्धार्थ प्रदर्शनाय इदमित्याहुः । मुक्त भोगप्रदत्वेनापि जीववैलक्षण्यमित्याशयेनाह ॥ सतत्रेति ॥ सः प्राप्तनिजानन्दाविर्भावः तत्र भगवल्लोके तदनुग्रहेणैव पर्येति परितो गच्छति । जक्षन्‌ भक्षयन्‌ हसन्वाज्ञातिभिः सहमुक्तैः अज्ञातिभिः पूर्वमुक्तैः । रमणातिशयप्रकारमाह ॥ नोपजनमिति ॥ उपजनं स्वसमीपवर्तिजनम्‌ । स्वस्येदं शरीरं च न स्मरन्‌ रममाणः पयेतीत्यन्वयः । केवलं हर्यनुसन्धानेनैव परमसुखभोक्तृणां तेषं उपजनर्शनादिकमपि नास्तीति भावः । तदमृतस्य अशरीरस्य अत्मनो अधिष्ठानमित्यनेन उक्तं शरीराधिष्ठातृत्वं कथं जीवव्यावर्तकमित्याशंकापरिहाराय शरीराधिष्ठातृत्वं विशदयन्‌ भावनार्थमीश्ऱ्वरस्य रथिकसाम्यमप्याह ॥ सयथेत्यादिना ॥ सः वक्ष्यमाणो दृष्यान्तो यथा । यानप्रयोक्तृत्वात्‌ प्रयोग्यः सारथिः । आचरत्यनेनेत्याचरणे रथे आचरणे तत्प्रवृत्त्यर्थम्‌ युक्तो नियुक्तः स्वामिना एवमेव अयं प्राणोस्मिन्‌ शरीराख्ये रथे तदाचरणार्तं युक्तो नियुक्त ईश्ऱ्वरेण । शरीररथे प्राणः सारथिस्थानीय इत्यर्थः । उपलक्षणमेतत्‌ । यथारथीयथान्यरथग इत्यादि ग्राह्यम्‌ । तथाच यथा रथी एवमेव अयं अस्मिन्‌ शरीरे प्राणः प्रकृष्यानन्दरूपत्वात्‌ तन्नामाविष्णुः रथाधिष्ठाता । यथाय रथगः अन्यस्वामिकरथगः कश्ऱ्चित्‌ पुमान्‌ एवमेवायं अस्मिन्‌ शरीरे प्राणः तद्वान्‌ जीवः । इति योजना ॥ इन्द्रियाणि हयस्थानीयानीत्यपि ग्राह्यम्‌ । एवं च जीवस्य अन्यरथगोपमत्वात्‌ न शरीराधिष्ठातृत्वमिति तज्जीव व्यावर्तकं भवत्येवेति भावः ॥ 3 ॥ प्रकृतप्राणेन्द्रिय विषयजीवाश्रयत्वं सर्वेन्द्रियैः तत्तद्विषय भोक्तृत्वरूपं जीवव्यावृत्तधर्मान्तरं वदन्नुक्तमुत्तमपुरुषत्वं उपपादयति ॥ अथ यत्रेत्यादिना ॥ अथ शब्दो साधारणधर्मान्तरकथन प्रारम्भार्थः । एवमुत्तरत्रापि । यत्र विष्णौ एतत्‌ आकाशं प्रकाशमानं रूपमनुविषण्णं तत्सम्बद्धं चक्षुः । स्वविषयेण सहचक्षुः इन्द्रियं यत्र श्रितमित्यर्थः । यस्य च दर्शनायभोगाय चक्षुः । यश्ऱ्च चाक्षुषः चक्षुषेदं पश्यामीति स्वातन्त्ऱ्ेण वेदनान्यः । इदं च तद्दर्शनाय चक्षुः कुत इत्याशंकायां तस्यैव तद्भोक्तृत्वानुसन्धानवत्त्वादित्युपपादनाथर्ं उक्तमिति ज्ञातव्यम्‌ । एवमग्रेऽपि । घ्राणादीन्द्रियं तद्भोगायकुत इत्याशंकायां तस्यैव तत्तद्विषय भोक्तृत्वानुसन्धानवत्त्वादित्युपपादनाय योवेदेदं जिघ्राणीत्यादिकं इति द्रष्यव्यम्‌ । यश्ऱ्चक्षुः इन्द्रियं तद्विषयादिकं च वेदेत्यपि ग्राह्यम्‌ । स उमत्तः पुरुष इति सम्बन्धः एवं यत्र गन्धादि सहितं घ्राणादि आश्रितं यस्य च गन्धादि भोगाय घ्राणादि यश्ऱ्चेदं पुष्पादिकं जिघ्राणीत्यादि वेदान्यः यश्ऱ्च घ्राणादीन्द्रियं तद्विषयादिकं च सम्यक्‌ वेद स आत्मा उत्तमपुरुषः । इति मननायमन इत्यन्तं योज्यम्‌ । एवं यत्र प्राणे जीवेवा स्वस्वविषयसम्बद्धं चक्षुरादीन्द्रियं यस्य च प्राणस्य जीवस्य वा भोगायचक्षुरादिकं यश्ऱ्च प्राणो जीवोवा इदं पश्यामीत्याद्यनुसन्धानवान्‌ स आत्मा प्राणो जीवो वा यत्र स उत्तमपुरुषः । इति प्राण जीवपरतयापि इदं वाक्य जातं योज्यम्‌ । तयोः अपि यथाक्रमं अमुख्यतया विषय भोक्तृत्वात्‌ । अत्र चक्षुरादि शब्दाः तदभिमानि देवता परा प्रतीति द्रष्यव्यम्‌ । नन्वेवं जीवेन्द्रियैः भगवतो विषयभोगे स्वयमिन्द्रियशून्य इत्यापन्नम्‌ । तथाच सहस्राक्ष इत्यादि श्रुतिविरोध सत्यत आह ॥ अस्य दैवं चक्षरिति ॥ अस्य भगवतः चक्षुः चक्षुरादिकं इन्द्रियं अन्येभ्यो दीप्यमानत्वात्‌ दैवं स्वरूपात्मकमस्तीत्यर्थः । किंतत इत्यतः तैः विषयभोगप्रकारमाह ॥ स वा इति ॥ स एष परमात्मा एतेन स्वस्वरूपात्मकेन दैवेन दीप्यमानेन चक्षुषा मनसेत्याद्यन्त ग्रहणेन सर्वेन्द्रियैः इति सूचितम्‌ । जीवेन्द्रियनिविष्येन इति शेषः । तथाच स्वकीयेन्द्रिय व्याप्तै जीवेन्द्रियैः एतान्‌ पुरोवस्थितान्‌ कामान्‌ विषयान्‌ पश्यन्नित्युपलक्षणम्‌ । जिघ्रान्नित्यादि द्रष्यव्यम्‌ । रमते स्वेच्छाया ॥ 4-5 ॥ नन्वेवं अशुभविषय भोगोपि भगवतः स्यादित्यत आह ॥ य एत इति ॥ य एते कामाः ब्रह्मलोके शुभविषयोपलक्षणमेतत्‌ । तेषु रमत इत्यर्थः । तथाच शुभमात्र भोक्तेति भावः । अथावा स्वस्वरूपेन्द्रियैः जीर्वेन्द्रियानधिष्ठितैः विषयभोगः कुत्रेत्यपेक्षायामाह ॥ य एत इति ॥ य एते ब्रह्मलोके वैकुण्ठादौ कामाः विषयाः सन्ति तेषु दैवेन चक्षुषा मनसेतरेन्द्रियैः च स्वरूपभूतैः एव रमत इत्यर्थः । वाय्वादि देवतो उपास्यत्वरूपमपि जीवव्यावर्तकं धर्मान्तरं वदन्नुक्तोपासनायाः फलं परकृति रूपार्थवादपूर्वकमाह ॥ तं वा एतमिति । तमपहतपाप्मत्वादिना उक्तमेतं सर्वभोक्तृत्वने प्रकृतमात्मानं परमात्मानं देवाः पूर्वोक्तवाय्वाद्याः उपासते । तस्मात्‌ उपासना साध्यभगवत्प्रसादात्‌ तेषां वाय्वादीनां देवानां सर्वेच लोकाः जनाः भुवनानि च सर्वेकामाश्ऱ्च आत्ताः अधीनाः । तस्मात्‌ अद्यतनोपि यस्तमुक्तगुणमात्मानं श्रवणादिना अनुविद्यापरोक्षतो विजानाति सोपि सर्वान्‌ लोकान्‌ सर्वान्‌ कामांश्ऱ्च योग्यतानुसारेण अप्नोति । एवं प्रजापतिना उक्तमात्मोपदेशमुपसंहरति वेदपुरुषः ॥ इतीति ॥ द्विरुक्तिरवधारणार्था ॥ 6 ॥ द्वादशः खण्डः ॥ 12 ॥ हृदयादिस्थस्य भगवतो रूपविशेषवत्त्वेनोपास्तिमाहानेन खण्डेन । तत्र श्यामादेः अधिष्ठानविशेषाप्रतीतेः तद्दर्शयन्‌ व्याचष्ये ॥ श्याम इति ॥ हृदिस्थितो विष्णुरित्यस्य पूर्वेणोत्तरेण च सम्बन्धः । श्यामः श्यामरूपवान्‌ । शबल इत्यनूद्य विश्ऱ्वरूपवानिति व्याक्यानम्‌ । नानारूपसमाहारवानित्यर्थः । एवं च श्यामशबलरूपवन्तौ भगवन्‌ मूर्तिविशेषौ हृदिस्थितौ तयोः च उपासनायां न क्रमः । किन्तु श्यामात्‌ तदुपासनात्‌ । अनन्तरं शबलं प्रपद्ये । अथवा शबलात्‌ तदुपासनानन्तरं श्यामं प्रपद्य इत्यनियम एवेत्याह वेदपुरुष इत्युक्तं भवति । इदमुलक्षणमित्याशयेनाह ॥ जीव वर्ण इति ॥ जीववणर्ः जीवोयादृशवर्णः तादृशरूपवानित्यर्थः । अनेन गायत्री विद्यायां यज्जीवव्यापि भगवत्‌ स्वरूपमुक्तं तज्जीववर्णमित्युपास्यं इत्युक्तं भवति । य एषोन्तरक्षणीत्युक्तः चक्षुषिस्थितो भगवान्‌ लोहितो लोहितरूपवान्‌ उपास्य इत्यर्थः । एवं हृदयादिगत मूर्तीनां रूपविशेषवत्त्वेन प्रतिपत्तिमभिधाय तत्प्रतिपत्तिकाले कर्तव्यं उनुसन्धान प्रकारमाह वेदपुरुषः ॥ अश्ऱ्व इत्यादिना ॥ अश्ऱ्वोरोमाणीव पापमप्रारब्धं अनायायेनैव विधूय चन्द्र इव राहोः मुखात्‌ प्रारब्धपापात्‌ शनैः भोगेन क्षीयमाणात्‌ प्रमुच्य शरीरं स्थूलं सूक्ष्मं च धृत्वा विहाय कृतात्मा आविर्भूतस्वरूपोमहकृतं नित्यं ब्रह्मलोकं अभिसम्भवामिगन्तास्मीत्यनेन अभिप्रायेण प्रपद्ये इत्याहवेद पुरुषः । नन्विदं अयुक्तम्‌ । हयग्रीवस्य रमाया वा एतदुपनिषद्द्रष्यृत्वात्‌ उभयोः च नित्यमुक्तत्वेनैतादृशाभिप्राया सम्भवात्‌ अदतः कथं एततदित्यतोत्रोपपत्तिं प्रमाणेनैवाह ॥ हयग्रीवेति ॥

नारद इत्युपलक्षणम्‌ । सोमोपि ग्राह्यः । सोमः साम्नामित्यन्यत्रोक्तत्वात्‌ । उत्तरेषां नारदानीनाम्‌ । भविष्याणीत्युपलक्षणम्‌ । एवंच हयग्रीवादयः अश्ऱ्व इव रोमाणीत्यादि प्रार्थनाभिप्रायकाणि वाक्यान्यतीतकल्पे नारदादयः प्रावोचन्‌ । उत्तरत्र वक्ष्यन्ति चेत्येव पश्यन्ति । नतु स्ववाक्यतया अतो नानुपपत्तिरित्यरित्यर्थः । यावाक्य संहतिः तैः दृष्यासेत्यथर्ः ॥ खं-13 ॥ पूर्वोक्त हृत्पुण्डरीकगताकाशनामक ब्रह्मोपास्तिं एव प्रकारान्तरेण आह ॥ आकाशो हवा इत्यादिनाखण्डेन ॥ तत्र अप्रतिपत्तिविप्रतिपत्तिनिरासाय खण्डं प्रमाणेनैव व्याचष्ये ॥ आकाश इत्यादिना ॥ अतिप्रत्याङोर्थः । ते इत्यस्यार्थोनामरूप इति ॥ अन्तरेत्यस्यार्थो ऋत इति ॥ तद्ब्रह्मेत्येतन्नचतुर्मुखपरमित्याह ॥ ब्रह्माख्य इति ॥ प्रजापतेः सभामित्यादि व्याचष्ये ॥ तद्वेश्मेति ॥ अनेन प्रजापतिशब्दो विष्णुपर इत्युक्तं भवति । यशोहं भवानि ब्राह्मणानामित्यादि व्याचष्ये ॥ यशोहमिति ॥ सर्ववर्णानां मध्ये हंयशोयशस्वीभवानीत्यर्थः । सहाहं यशसां यश इत्येतद्वयाचष्ये ॥ मत्तोन्येषामिति ॥ अनेन सोहं यशसां यशस्विनां अन्येषां यशः यशः प्रद इति व्याख्यतं भवति । यशसां यश इत्येतत्प्रकारान्तरेण व्याकुर्वन्‌ यशोहमनुप्रापत्सीत्येतद्वयाचष्ये ॥ सोहमिति ॥ अनेन सहाहमित्यत्र त्यस्य स इत्यस्यावृत्तिरित्युक्तं भवति । श्ऱ्वेतमित्यादिना ॥ अतः श्ऱ्वेतमित्यर्थः । अदत्कमित्येतदनूद्यते नाद्यमानं कं कीदृशमित्यपेक्षायां तद्दर्शयति ॥ अदत्कमित्यादिना ॥ लिंदुमित्येतदप्रतीतेः व्याचष्ये ॥ लिंद्विति ॥ तत्परं ब्रह्मयस्मात्‌ रतिदं तस्माल्लिंद्वित्यच्यते । रोल इति भावः । आभिगामित्येतत्तात्पर्यमाह ॥ तदहमिति ॥ सदेत्याङोथर्ः । खं-14 ॥ ततश्ऱ्चयं खण्डार्थः ॥ आकाशः आसमन्तात्‌ काशनादाकाशनामाहृत्पुण्डरीकस्थो विष्णुः नामरूपयोः नामरूपात्मकप्रपंचयोः निर्वहिताकर्ता वैनामेति निपातसमुदायोऽयमर्थः प्रसिद्ध इत्याह । तेनामरूपे अनामासोप्रसिद्धत्वात्‌ अरूपोभूतवर्जनात्‌ इत्युक्तदिशा अन्तरा विना यदस्ति तद्ब्रह्मतदमृतं नित्यमुक्तं आत्मा आदानादिकर्ता । तात्पर्यद्योतनाय पृथक्‌ योगकरणम्‌ । उपासनाकरणकालेकर्त व्यमभिसन्धिमाह ॥ प्रजापतेरिति ॥ प्रजेपतेः विष्णोः सभां समितिं वेश्मगृहं प्रपद्यते प्राप्नुयाम्‌ । ब्राह्मणानां मध्ये यशस्वीभवामीत्यर्थः । एवं यशोराज्ञामित्यादि योज्यम्‌ । स इत्येतद्वक्ष्यमाणमत्रापि सम्बध्यते । यशसायं यशस्विनाम्‌ यशः यशः प्रदः सोहं यद्यशसां यशः उत्तमयशोरूपं श्ऱ्वेतं श्ऱ्वसनरां कं स्वानन्दानुवात्मकं अत्तीत्यदत्कं परब्रह्म तदनुग्रहेण यशः प्रापत्सिप्राप्तवानस्मि । सहाहमित्यस्योत्तरवाक्ये अन्वयः । सोहं हेत्यास्वादने । यन्ममयशोदातृतदेवादत्कं श्ऱ्तं लिंन्दुंरतिदं आसदा अभिगां प्राप्नुवामिति वेदपुरुषस्य ब्रह्मणो वाक्यम्‌ । पुनरुक्तिः पूर्ववत्‌ ॥ चतुर्दशः खण्डः ॥ 14 ॥ एषामुमुक्षुभिः अवश्यमादरणीयेत्याशयेन वेदपुरुष एतदुपनिषत्प्रवर्तकान्‌ वदन्नेतदुपनिषदुक्तगुणोपासकानां अवश्यापेक्षितान्यमनियमान्‌ प्रदर्शयन्नपुनरावृत्तिरूपं फलं चाह ॥ तद्धैतदित्यादिना ॥ तत्रादि वाक्यं ब्राह्मणादीनां सर्वेषां यशः प्राप्नुयामित्यादेः सर्वोपासकविषयत्वानुपपत्तेः एवं वक्ताक इति जिज्ञासामपनुसन्‌ व्याचष्ये ॥ उपदिष्य इति ॥ परेणैव विष्णुनैव । अनेन ब्रह्मशब्दो विष्णुपर इत्युक्तं भवति । आचार्य कुलाद्वेदमधीत्येत्यादिनायं अनियममात्रेण ब्रह्मलोकप्राप्तिरः उच्यत इत्यन्यथा प्रतीतिवारणायापेक्षितं पूरयंस्तद्वयाचष्ये ॥ तस्मादिति । तस्मादेवं अस्या उपनिषदः परं परागतत्वेन तदुक्तार्थस्य अत्यन्तं विश्ऱ्वसनीयत्वात्‌ । पुरुषोत्तमे ईशे इत्यनेनैतदुपनिषदुक्तगुणवतीति सूचयति ॥ तं परमं विष्णुं दृष्ट्वेति शेषोक्तिः । नच पुनरावर्तत इत्यत्र च शब्दोवधारणार्थ इत्यभिप्रेत्योक्तम्‌ ॥ कदाचित्केनचित्क्वचिदिति ॥ खं-15 ॥ ततश्ऱ्चायं खण्डाथर्ः ॥ तत्‌ पूर्वोक्तं एतत्‌ श्यामच्छबलमित्यादिकं उपनिषद्रूपं वाक्यजातं ब्रह्माविष्णुः प्रजापतये चतुर्मुखायोवाच होपदिदेशकिल मनवेस्वायं भुवाय यत एवमियमुपनिषत्‌ परं परागता अत एवदुपनिषदुक्तार्तस्यावश्यमादरणीयत्वात्‌ अद्यतनोपियः कश्ऱ्चिन्मुमुक्षुः आचार्यकुलाद्वेदमधीत्य यथाविधानमित्येतत्‌ पूर्वोत्तराभ्यां सम्बध्यते । गुरोः कर्मसेवारूपं गुरुदक्षिणारूपं वा अतिशेषेण अशेषेण कुटुम्बीगृहस्थाश्रमवान्‌ । क्वचित्‌ कुटुमबे इति पाठः तदावर्तमान इति शेषः । इदमितराश्रमिणामुपलक्षणम्‌ । धार्मिकान्‌ व्यापारान्‌ विदधत्‌ कुर्वाणः । आत्मनि एतदुपनिषदुक्तगुणवति सर्वेन्द्रिणि सम्प्रतिष्ठाप्यनियम्य तीर्थेभ्यो यज्ञेभ्यो अन्यत्र विना सर्वाणि भूतान्यहिंसन्‌ हिंसामकुर्वाणः यावदायुषं वर्तयन्‌ वर्तमानः तं परमात्मानं दृष्ट्वा ब्रह्मलोकमभिसम्पद्यते प्राप्नोति । स्वर्गलोकं प्राप्त इव पुनरावर्तते किं नेत्याह ॥ नचेति ॥ चशब्दोवधारणार्थः । कदाचिदपि क्वचिदपि केनापि निमेत्तेन । नैवावर्तत इत्यर्थः । द्विरुक्तिः उक्ताशेषार्थावधारणार्था ॥ पंचदशः खण्डः ॥ 15 ॥ एवं समापित भाष्यो भगवानाचार्योन्तेपि एतदुपनिषदुक्तगुण विशिष्य भगवत्स्तुति प्रीतिप्रार्थने कृत्वा निबध्नाति ॥ पूर्णानन्देति ॥ परस्मात्‌ परतमः । गुणानां निधिः निदानमित्युक्ता एव गुणालेशतो दर्शिताः पूर्णानन्देत्यादिना । पूर्णोपरिच्छिन्नः । सदा सकलेशितेत्यन्वयः । नित्यमुत्सवोयस्मादसौ नित्योत्सवः । सर्वरमाद्रुदेः अधिकं यथास्यात्‌ तथा मम प्रियतमः परमपुरुषार्थरूपः । कुतः । तु शब्दोहेत्यर्थे । यस्मादिष्यादपीष्योत्तमः । अतिशयेन इष्यमेव परमपुरुषार्थरूपं भवतीति भावः । हि ततमः अतिशयेन आप्तः सुहृद्वा ॥ अथ स्वभाषितभाष्यस्य आप्तिमूलत्व समर्तनाय श्रुतिसिद्धं स्वस्य परमात्प्तत्वं दर्शयन्नाह ॥ यस्येति ॥ यस्य वायोः देवस्य बलित्थेत्यादि वेदवचने दिव्यानिक्रीडादि गुणविशिष्यानि त्रीणि रूपाणि उदितानि तस्य तृतीयं वपुस्तेनेदं भाष्यं हरौ हरिविषयतया कृतं हीत्यन्वयः । कीदृशं चास्य मूलरूपं कानि च त्रीणिरूपाणि कीदृशानि च तत्राह ॥ अलमिति ॥ तस्य वायोः मूलरूपं वट्‌बलात्मकं दर्शतं ज्ञानपूर्णम्‌ । तत्‌ इत्थमेव यादृशं मूलरूपं तादृशावतारायैव निहितं भगवताप्रेरितं अवतीर्णं च । भर्गो भरणगमनकर्तृ मच्छ्रेष्ठम्‌ । तत्र प्रथकं हनुमदाख्यं वपुः रामवचोनयं रामस्य वचांसिदीतां प्रतिनातवत्‌ रामविषयवचांसिमूलरामायाणरूपाणि शिष्येषु नीतवद्वा । रामवचसि योनयोन्याय आज्ञारूपः तद्युक्तं वा । द्वितीयं भीमनामकम्‌ । पृक्षः कुरुपृतनाक्षयकारि । तृतीयं वपुरानन्दतीर्थापरपर्योयमध्वाभिधमिति । अतः परमाप्तप्रणीतत्वादिदं भाष्यं सकलसुजनैः आदरणीयमिति भावः ॥ ननु बलित्थेत्यादि वेदवचने वायोः त्रीणिरूपाणि उदितानीत्यसत्‌ । तस्य सूक्तस्य त्रेताग्निपरत्वादित्यतः तत्सूक्तं वायुरूपत्रयपरतया प्रमाणेन व्याकुर्वन्‌ यदीमुपह्वरते साधतेमतिरित्युक्तमतिशब्दं तावद्वयाचष्ये ॥ हनशब्द इति ॥ हनशब्दस्य गत्यर्थक धातुनिष्पन्नस्य ज्ञानाचित्वेन मतिशब्दसमानार्थत्वात्‌ हनूमान्‌ मतिशब्देन उच्यत इत्यर्थः । अत्र यद्यपि मतिमानिति वक्तव्यम्‌ । तथापि मतिमतोपि मतस्वरूपताज्ञापनायं अतिरित्येवोक्तमिति ज्ञातव्यम्‌ । ऋतस्य देना अनयं तसस्रुत इत्येतद्वयाचष्ये ॥ रामस्येति ॥ ऋतस्य इत्यस्य अर्थः स्वृतरूपस्येति । सुष्युसर्वदासर्वत्र च सत्यरूपस्येत्यर्थः । यद्वा पूर्वावगतवत्सदा स्थितस्येत्यर्थः । यथोक्तम्‌ । ऋगताविति धातोस्तु पूर्वोवगतवत्‌ सदा । स्थितेः ब्रह्मर्तमित्युक्तमिति । धेना इत्यस्यार्थो वाच इति । वाचोयाः ताः नेतासीतां प्रतीति शेषः । रामस्य वचोरामप्रतिपादकमूलरामायणरूपाः शिष्येषु नेतेति वा । यदीमुपह्वरत इत्यातेः तात्पर्यं गुणोदधिरिति । सप्तशिवासुमातृषु इत्येतद्भीमशब्दार्थ प्रतिपादकमिति भावेन तावद्भीमशब्दाथर्माह ॥ भृतम इति ॥ भृताः धृताः माः प्रमाः प्रमाणानि येनासौ तथोक्तः । अस्त्वेवं भीमशब्दार्थः । किंतत इत्यतो मातृष्वित्युक्तमातृशब्दार्थं तावदाह ॥ वाच इति ॥ माः प्रमाणभूताः वाचोमापकत्वात्‌ मातरः स्मृता इत्यर्थः । सप्तशिवास्वित्युक्त सप्तशिवा शब्दार्थमाह ॥ ऋगाद्या इति ॥ ऋगाद्याः चत्वारः । अस्त्वेवं मातृसप्तशिवा शब्दार्थः तथापि किमित्यत आह ॥ तत्रेति ॥ यतो भृतमो भीम इत्युक्तः । यतः च मातृसप्तशिवा शब्दार्थ उक्तरूपः ततस्तत्रोक्तासु सप्तशिवासु मातृषु शयोनिष्णातो भीमः स्मृत इत्यर्थः । तृतीयमस्येत्यादेः आनन्दतीर्थाख्यतृतीयावतार प्रतिपादकत्व सिद्धयर्थं प्रदिवोमध्व आधव इत्युक्तमध्व शब्दस्य आनन्दतीर्थ समानार्थत्वमाह ॥ मध्वित्यानन्द इति ॥ मधुद्यौरस्तुनः पितेति प्रयोगात्‌ । वातेः अवगत्यर्थात्करणे घञर्थेक विधानमितिकः । मधु आनन्दकरं वं तीर्थं शास्त्रं यस्येति मध्व इत्यर्थः । स्वरित्यत्रे वोकारलोपः । आनन्दकरं तीर्थं यस्यासावानन्दतीर्थः । तृतीयमद्येत्यत्र वपुरित्येतत्‌ अनुवर्तत इति भावेन उक्तं तृतीयामारुतीतनुरिति । तृतीयामरुतीतनुर्मध्वः आनन्दतीर्थः स्यादिति सम्बन्धः । तात्पर्यद्योतनायै तज्ज्ञानफलमाह ॥ इतीति ॥ ततश्ऱ्चायं खण्डार्थः ॥ सहसः सहोरूपस्य देवस्य क्रीडादिगुणसम्पन्नस्य वायोः मूलरूपं बट्‌बलात्मकं दर्शतं ज्ञानरूपम्‌ । भर्गो जगद्भरणगमनगुणं तत्‌ इत्था इत्थं भूतमेव वपुषेरूपत्रयावताराय यतो यस्मात्‌ भगवता अधायिनिहितं भगवता प्रेरितमित्यर्थः । तस्मात्‌ अजनि । यद्वा यतो वायोः भगवानजनिव्यक्तो भूत्तस्य वायोः इति सम्बन्धः । प्रथमावतारस्वरूपमाह ॥ यदीमिति ॥ यदींयदेवं अतिर्हनुमदाख्यं प्रथमं रूपं उपह्वरते रामस्य समीपे तिष्ठति । साधते रामकार्याणि साधयति । तेन हनुमता ऋतस्य सत्यरूपस्य पूर्वागतवत्सदा स्थितस्य वा रामस्य सस्रुतो अमृत स्रावयुक्ताः धेनाः वाचोनन्तसीतां प्रतीति शेषः । द्वितीयावतारस्वरूपमाह ॥ पृक्ष इति ॥ द्वितीयं वपुः पृक्षः पृतनाक्षयकारि पितुमान्‌ अन्नवान्‌ बहुभुगिति यावत्‌ । नित्यः नित्यं सप्तशिवासुसप्तसंख्याकासु परममंगलरूपासु ऋगादि लक्षणासु मातृषु मा पयनतीति मातारस्तासु आशये शेते । मुहुः मुहुः विचारयतीत्यर्थः । अनेन भीमशब्दार्थ उक्तो भवति । तृतीयावतारस्वरूपमाह ॥ तृतीयमिति ॥ अस्य वृषभ्यस्य श्रेष्ठस्य वायोः तृतीयं वपुः । दोहसेज्ञानदोहाय दशप्रमतिं पूर्णप्रज्ञनामकं योषणोनार्यः । गुरुत्वात्‌ बहुवचनम्‌ । जनयन्त अजनयन्त ॥ निर्यदीमिति ॥ बुध्नात्‌ ज्ञानस्वरूपात्‌ । यदीं यस्मादेव महिषस्य महितषड्‌गुणस्य हरेः वर्पसोवरणीयत्वात्‌ पालकत्वात्‌ वर्पोनामकान्‌ गुणान्‌ ईशानासोरुद्राद्यादेवाः अन्ये सूरयोज्ञानिनः च शवसासुखेन । निराक्रन्त ज्ञातवन्तः । तृतीयं वपुरिति पूर्वेण सम्बन्धः ॥ यदीमिति ॥ यदीं य एव प्रदिवः प्रकृष्यप्रकाशरूपो मध्वः आनन्दतीर्थाख्यो मातरिश्ऱ्वा वायुः गुहासन्तं जीवेश्ऱ्वरैक्यं वदद्भिः गूहितं सन्तं हरिं आधवे आसमन्तात्पतित्वे मथायति मथ्‌नाति शास्त्रेण विचार्यनिश्ऱ्चायतीति भावः । शिष्यसूक्त व्याख्यानं ग्रन्थान्तरादवगन्तव्यम्‌ । तस्य यत्‌ तृतीयं वपुः तेनेदं भाष्यं कृतमित्युक्तम्‌ । तत्र भाष्यकर्तुः तृतीयावतारस्य नामनतावत्‌ मध्व शब्दसमानार्थकानन्दतीर्थ इति । दशप्रमतिं जनयन्त योषण इत्यनेन विरोधात्‌ । नापि दशप्रमतिरिति । आनन्दतीर्थनाकत्व प्रसिद्धि विरोधादित्याशंकां अपाकुर्वन्‌ स्वभाष्यं हरावर्पयति ॥ आनन्देति ॥ दशप्रमतिशब्दव्याख्यानं पूर्ण प्रज्ञेति । दशेति सर्वमुद्दिष्यं पूर्णं सर्वमिहोच्यते । प्रज्ञाप्रमतिः उद्दिष्यापूर्णप्रज्ञः ततः स्मृत इत्यन्यत्रोक्तत्वात्‌ । तथाच नामद्वयमपि तृतीयावतारस्य अस्तीति न विरोध इति भावः । हरेः प्रियमस्त्विति शेषः । न स्वस्वरूपनिरूपणेन ग्रन्थः समापनीय इति भावेनान्तेपि भक्त्युद्रेकात्प्रतीति प्रार्थननमनरूपं मंगलमाचरति ॥ नित्यानन्देति ॥ पूर्णो खिलगुणैः । नित्य देत्यनेन न मम मंगलाचरणं प्रयोजनोद्देशेनेति सूचयति । तस्मै उपनिषदुक्त गुणाय विष्ण्ववेन मश्ऱ्चास्तु । त्रिरुक्तिरादरार्थेत्यशेषमति मंगलम्‌ ॥ व्यासम्पूर्णमतेः विदोषहृदयांभोजे सदा वासिनं श्रीशंकं जभवादि सर्वविबुधैः नीचोच्चभावस्थितैः । उच्चैः गेयमनन्त सामविभवैः ओंकारवाच्यं परं वन्दे सुन्दरविग्रहं करुणया ज्ञानाभयेतं मुहुः ॥ 1 ॥ अगाधेस्मिन्‌ भाष्ये सुरवरहरेन्द्रादि विबुधैः अलं व्याख्येयेमेकृतिरहह हासास्पदतमा । तथापि श्रीव्यासालवमति पदासक्ति वशतो गुरूणां कारुण्यादपि भवति भूषाकृतिः इयम्‌ ॥ 2 ॥ छान्दोग्योपनिषद्भाष्य पंचिकाकरणेन यत्‌ । पुण्यं भवेत्‌ आवाप्नोतु सर्वं मम गुरुः स्वयम्‌ ॥ 3 ॥
इति श्रीमादानन्दतीर्थ भगवत्पादाचार्य विरचितस्य छन्दोगोपनिषद्भाष्यस्य टीकायां श्रीमद्वेदव्यासतीर्थ पूज्यपादानां शिष्येण वेदेशभिक्षुणा विरचितायां पदार्तकौमुद्यां अष्टमोऽध्यायः सम्पूर्णम्‌ ॥

********************************************************************************************

]