[[गोपालतापनीयोपषत् टीकायुता Source: EB]]
[
गोपालतापनीयपूर्वोपनिषद् ।
श्रीश्रीनिम्बार्कसम्प्रदायधुरन्धरैः
सर्वशास्त्रविशारदैर्श्रीयुक्तभगीरथझामैथिलैर्
विरचितया वेदान्ततत्त्वसमीक्षानामकटीकया समलङ्कृता ।
श्रीगोपालतापनीयोपनिषद्
पूर्वाभासः
गोपालतापनीयोपनिषच्छब्देन निरतिशयपरिपूर्णस्य परमात्मनस्तादृशनिरतिशयस्वरूपगुणमाहात्म्यप्रकाशिका परा विद्यैवोच्यते । तथा हि—यो गोपान्जीवान्वै आत्मत्वेनासृष्टिपर्यन्तमालाति, स गोपालो भवति [गो.ता.उ. २.४८] इति गोपालोत्तरतापिन्यामेव गोपालशब्दव्युत्पत्तेः । सोऽयं गोपालः परिपूर्णतम एव परमात्मा, नांशकलादिरूपः । कः परमो देवः ? [गो.ता.उ. १.३], कृष्णो वै परमं दैवतं [गो.ता.उ. १.४], तस्मात्कृष्ण एव परो देवः [गो.ता.उ. १.४८] इत्यविशेषप्रश्नप्रतिवचनाभ्यामुपक्रमोपसंहाराभ्यां च पूर्वतापिन्याम्, उत्तरतापिन्यां च, योऽसौ जाग्रत्स्वप्नसुसुप्तिमतीत्य तुर्यातीतो गोपालः [गो.ता.उ. २.१०५] इत्यादिना तथैव निर्णयात।
एवं तापिनीशब्दघटकतपधातुरपि तादृशज्ञानविशेषार्थक एव । यथा तैत्तरीये, स तपोऽतप्यत , स तपस्तप्त्वा इदं सर्वमसृजत, यदिदं किं च [छा.उ. २.६.१] इत्यत्र प्रकरणानुकूलज्ञानविशेषार्थकः । तथा च तादृशज्ञानविशेषपरतपधातोस्ताच्छिल्ये णिनिप्रत्ययान्निष्पन्नस्तापिनीशब्दसाक्षात्परब्रह्मवाचकगोपालशब्दसंयोगात्साक्षात्परब्रह्मस्वरूपगुणमाहात्म्यविषयकनिगूढज्ञानप्रकाशिका विद्यैव गोपालतापिन्युपनिषत्पदवाच्येति विज्ञायते ।
अत एव—
कृषिर्भूर्वाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ [गो.ता. १.१]
इति तत्स्वरूपगुणलक्षणाभ्यां विचारप्रस्तावः ।
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥ [गो.ता.उ. २.९३]
इति विचारपरिसमाप्तिश्चेति । अधिकं तु भाष्यमुखेनैव ज्ञातव्यमिति ।
सेयं गोपालतापिन्युपनिषतथर्ववेदे पिप्पलादशाखायां ब्राह्मणभागे पठ्यते इति सर्वोपनिषदां टीकाकृतः प्रसिद्धतमा अद्वैतवेदान्तानुसारिणो नारायणभट्टाः । अन्ये च सर्वे तापिनीव्याख्यातारो विभिन्नसम्प्रदायगता विद्वांसः । न च प्रश्नोपनिषत्सत्त्वविप्रतिषेध आशङ्कनीयः । एकस्यामपि शाखायामनेकोपनिषत्सद्भावे विरोधाभावात। दृश्यन्ते हि परमप्रसिद्धायां तैत्तरीयशाखायां चित्ति शिक्षानन्दवल्ली भृगुवल्ली नारायणोपनिषद्भेदात्पञ्चोपनिषदः । वाजसनेयशाखायां च ईशावास्याग्निरहस्यबृहदारण्यकभेदाच्च विविधोपनिषद इति ।
यच्चास्यामुपनिषदि परमपुरुषोपासनमुपदिष्टं तस्य नानाशाखोपसंहारेण साङ्गोपाङ्गोपासनस्वरूपप्रकाशिका अनेके कल्पग्रन्थाः । तत्र महर्षये गौतमाय परमर्षिणा नारदेनोपदिष्टं गौतमीयतन्त्रं बृहद्गौतमीयतन्त्रं च प्रसिद्धतमे । तथा जगद्गुरुणा सनत्कुमारेणोपदिष्टं सनत्कुमारतन्त्रं, सनत्कुमाराय सर्वगुरुणा शिवेनोपदिष्टा सनत्कुमारसंहिता, ज्ञानामृतसंहिता चेति । तेऽपि प्रसिद्धतमा एव कल्पग्रन्थाः । ते चैते आर्षग्रन्थाः सर्वशिष्टपरिगृहीताः प्रमाणमूर्धन्याश्चेति तन्त्रसम्प्रदायविदां सुगोचर एवेति बोद्धव्यम् ।
तत्र हि प्रतीकग्रहणपूर्वकं गोपालतापिनीवाक्यं विचार्यते । यथा गोपालपूर्वतापिन्यां पठितम्—कादापो लात्पृथिवी ईतोऽग्निर्बिन्दोरिन्दुस्तत्सम्पातातर्क इति क्लींकारादसृजं [गो.ता.उ. १.२६] इति वाक्यप्रतीकमादाय गौतमीयतन्त्रे द्वितीयाध्याये श्रीगोपालदशार्णमन्त्रव्याख्यायां क्लींकारव्याख्याने—
क्लींकारादसृजद्विश्वमिति प्राह श्रुतेः शिरः ।
लकारात्पृथिवी जाता ककाराज्जलसम्भवः ॥
ईकाराद्वह्निरुत्पन्नो नादाद्वायुरजायत ।
बिन्दोराकाशसम्भूतिरिति भूतात्मको मनुः ॥
स्वशब्देन च क्षेत्रज्ञो हेति चित्प्रकृतिः परा ।
तयोरैक्यसमुद्भूतिर्मुखवेष्टेन वर्णकः ॥
अत एव हि विश्वस्य लयः स्वाहार्णवे भवेत॥
गोपीति प्रकृतिं विद्याज्जनस्तत्त्वसमूहकः ।
अनयोराश्रयो व्याप्त्या कारणत्वेन चेश्वरः ॥
सान्द्रानन्दं परं ज्योतिर्वल्लभत्वेन कथ्यते ।
त्रिपादूर्ध्वमुदैत्पुरुष इत्याहुः परमा गिरः ॥
बीजोच्चारणमात्रेण चित्स्वभावः प्रजायते ।
वल्लभेन तु तद्दार्ढ्यं स्वाहयाज्ञाननाशनम् ।
इत्येवं कथितं तत्त्वं मुने वै ब्रह्मसंमतम् ॥ [गौ.त. २.१५२१]
अत्र हि स्फुटं क्लींकारादसृजमिति तापिनीवाक्यप्रतीकग्रहणपूर्वकं व्याख्यानं क्लींकारादसृजद्विश्वमिति प्राह श्रुतेः शिरः इत्यादिना दृश्यते । श्रुतेःशिरः इत्यस्य वेदशिर इति स्पष्टार्थः । तच्चात्र गोपालतापिनीरूपमेव, तत्रैव तद्वाक्यपाठादिति । अत्र त्रिपादूर्ध्वमुदैत्पुरुष इत्याहुः परमा गिरः इति पुरुषसूक्तप्रतीकग्रहणात। प्रकृतमूलमन्त्रस्य पुरुषसूक्तपरमार्थगर्भितत्वमप्युक्तम् । प्रणवार्थगर्भितत्वं तु क्लीमोंकारयोरेकत्वं पठ्यते ब्रह्मवादिभिः [गो.ता.उ. २.५८] इति तापिन्यामेवोक्तम् ।
एतेन श्रीशङ्कराचार्यैरव्याख्यातत्वादनतिप्राचीनत्वं स्यादिति कुकल्पनावसरः पराहतः । श्रीशङ्कराचार्यतोऽपि प्राचीनतमे आर्षनिबन्धे गौतमीयतन्त्रादौ प्रतीकग्रहणपूर्वकं विस्तरेण व्याख्यानत्वादिति ।
किं च, न हि श्रीशङ्कराचार्यैर्यावन्तो वेदा उपनिषदो वा व्याख्याताः । गोपालतापिन्यादीनां तन्मते उपासनाविषयकत्वेन ज्ञेयस्वरूपनिर्णायकत्वान्न व्याख्यातेति । नृसिंहतापिन्युपनिषदस्तु शेषे जगन्मिथ्यात्वप्रतिपादनेऽनुकूलतमत्वात्तद्व्याख्यानविषयत्वमिति वेदितव्यम् ।
अत्र प्रामाणिकपाठभेदस्तु शाखाभेदात्समाधेयः । प्रसिद्धतमा एव बृहदारण्यके काण्वमाध्यन्दिनशाखाभेदात्बहुशो पाठभेदाः । तैत्तरीयके नारायणोपनिषदि कौषीतकिनृसिंहतापिन्यादौ चेति ।
तदस्यास्तापिन्याः श्रीसुन्दरभट्टनारायणभट्टजीवगोस्वाम्यादिकृताः प्राचीना अर्वाचीनाश्च बहव्यष्टीकाः सन्त्येव । तथापि स्वमनःपरिशुद्धये मयापि यथाबुद्धि टीकैका लिखिता येयं भगवत्कृपया प्रकाशमागता । तदत्र यत्सुष्ठु लिखितं तदपि श्रीभगवत एव, यदप्यसुष्ठु तदपि श्रीभगवत एव । अहं तु कुलालचक्रवन्निमित्तमात्रम् ।
चक्रस्य चक्रभ्रम्यादेः कुलालः कारणं यतः ।
अतो न लिप्यते दोषैश्चक्रं घटगतैः किल ॥ इति ।
कृतज्ञता ः परमुपकारभारं वहामः परमविरक्तानां परमभागवतानां श्रीविहारिदासमहोदयानां येषां सकलद्रव्यसाहाय्येनेदं पुस्तकं मुद्रणद्वारा लोकलोचनगोचरतामुपगतमिति ।
ग्रन्थस्यास्य प्रणेता विदुषां वशंवदः,
श्रीभगीरथझामैथिलः
श्रीवृन्दावनधाम, विजया दशमी सं २००६.
श्रीसर्वेश्वरो जयति ।
श्रीनिम्बार्कमहामुनीन्द्राय नमः ।
संशोधकानामवधेयवचनम् ।
अनन्तकोटिब्रह्माण्डाधिपतेः समस्तचराचरनियन्तुर्निखिलनिगमागमवेद्यस्य सकलसद्गुणगणार्णवश्रीसर्वेश्वरप्रभोः प्रसादाय कर्म ज्ञानं भक्तिश्चेति त्रीण्येव वेदप्रतिपादितानि साधनानीति प्रसिद्धम् । यद्यपि वेदशिरोभागीयोपनिषत्सु क्वचिदधिकारिविशेषानुसारेण ज्ञानस्य क्वचिच्च भक्तेर्भगवत्प्राप्तौ प्रधानसाधनत्वेन प्रतिपादनं समुपलभ्यते, तथापि भक्तिरेवैनं प्रापयति [मा.श्रु.] इति श्रुतिकदम्बेन भक्तेरेव सर्वसाधनेषु गरीयस्त्वं संसूच्यते ।
तासु भगवतः स्वरूपगुणधामतत्प्राप्तिसाधनादिवर्णनपराथर्ववेदीया प्रसिद्धेयमुपनिषत्साधकजनेभ्यः कल्पवल्लीस्वरूपा सुगमविधया परमतत्त्वरहस्यं विशदीकरोति, येन साधारणमतिसाधकोऽपि तत्त्वबुभूत्सां सुखेन शमयितुमलंभवेत। अत एव विविधैरेव विद्वद्भिः संस्कृतहिन्दीभाषादिविभिन्नासु भाषासूपनिषदेषानूदिता । परं च ताः सर्वाः प्रायः शब्दार्थमात्रवर्णनपराः सूक्ष्मकलेवराः, अत एव विशिष्टजिज्ञासूनां तत्तद्विशिष्टजिज्ञासात्मकपिपासां निवर्तयितुमपर्याप्ता इति विभावयन्ति सर्वे हि वेदान्तशास्त्रनिपुणा विचक्षणाः ।
तस्माद्विशिष्टजिज्ञासूनामस्यामेकस्यामेव ब्रह्मसलिलात्मिकायां सुरसरितायां निमज्जनात्परमतत्त्वरहस्यरसरसिकानां परमोत्कटपिपासाशान्त्यै तस्यैव परब्रह्मपरमेश्वरान्तर्यामिणः श्रीसर्वेश्वरप्रभोः प्रेरणया, अथ चानन्तकोटिप्रभाकरादितेजोनिकरस्य मूलभूततेजःस्वरूपश्रीसुदर्शनावतारभगवच्छ्रीनिम्बार्कस्यानुग्रहेण समुपलब्धमेधाविकासेन न्यायवेदान्ताचार्यझोपाह्वयमैथिलविद्वद्वर्यपरमवैष्णवश्रीभगीरथशर्मणा वेदान्ततत्त्वसमीक्षाभिधं श्रीगोपालतापिन्या विशदं भाष्यं विरचितम् ।
भाष्येऽस्मिन्श्रीराधाकृष्णयोः परात्परपरमेश्वरत्वं, रामनारायणनृसिंहशिवशक्त्यादीनां च्पनयोरेव प्रकाशान्तरत्वम्, वेदस्मृतिपुराणसूत्रकल्पतन्त्रादिसर्वशास्त्रकदम्बस्यैतत्परकत्वं, तैः सर्वैरेतदुपनिषत्प्रतिपादितार्थसमर्थकत्वं च, श्रीराधाकृष्णयोर्नित्यदाम्पत्यभावः, भगवद्विग्रहतद्धामगुणस्वरूपादीनां च विशदविवेचनं, साकेतवैकुण्ठकैलासादिनामाभिधानां धाम्नामस्यैव श्रीसर्वेश्वरस्य गोलोकधाम्नि सङ्गतत्वं, भगवद्धामविग्रहतत्परापरात्मकशक्तिस्वरूपजीवप्रकृत्यादीनां चानेन सह भेदाभेदसम्बन्धः । विशदार्थः श्रीराधाकृष्णयोः परमदेवत्वे श्रुतियुक्तिप्रमाणादीनामुपपन्नता चेत्यडि बहवो हि विषयाः समीचीनतया संनिबद्धाः ।
अथ चैतद्भाष्यस्य विशेषतो चेयं यदस्मिन्नन्यान्यसम्प्रदायिकविद्वद्भिरिवैकस्यैव स्वोपास्यदेवस्य माहात्म्याभिधानम् । तदतिरिक्तानां च निन्दाकल्पवचनं तस्य गन्धलेशोऽपि नैव दृश्यते, अपि तु सर्वेषामेव विष्णुशिवशक्त्यादितत्तदुपास्यदेवानां परमतत्त्वतोऽभिन्नत्वं प्रतिपाद्य तेषां गौरवमेव सुरक्षितं, तद्विषयकश्रद्धा च समर्थिता ।
यद्यपि प्रसङ्गोपात्तस्थले तद्विधानां केषांचिल्लेखकानां मतान्यालोचितानि यैः पूर्वाचार्याणां शास्त्रस्य च सत्पद्धतिं विहाय श्रीराधायाः परकीयात्वादि समर्थितं, तथापि तदालोचनमपि तेषामेव पूर्वपूर्वपुरुषाणामुक्तिभिस्तदुक्तग्रन्थादिप्रमाणैश्च विनम्रभावेन मधुरशब्दैरेव कृतं, न तु श्रुतिविरुद्धेन रवेण ।
अपि च भाषापि सरसा शरणिश्च सरला भाष्यस्यास्य चमत्कारात्मकं भूषणमेवैतत्, यत्सुमनसां मनांसि प्रबोधयत्सत्परमतत्त्वरहस्यरसमास्वादयित्वा विनोदयिष्यतीति मे मतम् ।
किं बहुना यथेयमुपनिषत्जिज्ञासूनां कृते कल्पवल्लीभूता तथैव भाष्यमिदं कल्पवल्लीफलस्वरूपमेवास्तीति नेह काप्यतिशयोक्तिः । यतो हि एतद्रसास्वादनावसरे विद्वांसः स्वयमेवैतदनुभविष्यन्ति भाष्यकर्तुर्वैदुष्यं सर्वशास्त्रावगाहित्वं लेखनकलाकुशलत्वं च, सभाष्यमस्या उपनिषदः पठनमननानन्तरं निपुणमनुमोदयिष्यन्ति । भाष्यकारस्य परिश्रमं च संस्तावयिष्यन्ति । याश्च क्वचिद्दृष्टिदोषादक्षराशुद्धय आपतितास्तत्क्षन्तव्यं सुधीभिर्नेत्रशक्तिदोषैर्बाल्यादेव तदापतितमिति ।
किं च, एककालावच्छेदेनैवानेकनिबन्धसंशोधनकार्यसम्पातात्, सहायकान्तराभावात्, प्रतिदिनं मुद्रणसम्पातान्निशायामेव संशोधनसमयावकाशाच्च, बहूनां बकारादीनां रूपपदे ह्रस्वोकारस्य च व्यत्ययोऽत्रावशिष्टः, विशेषत आदिभागे । क्वचिच्च पूर्वे सन्त्योऽपि ओकाररेफाद्या मात्राः कण्टकदौर्बल्यान्मुद्रणासरे निपतिता इति । वाक्याशुद्धयस्तु प्रायो न सन्त्येवेति संशोधनकार्यकाठिन्यमनुभवद्भिर्विद्वद्भिः क्षन्तव्यमिति ॥
पण्डितः श्रीव्रजवल्लभशरण वेदान्ताचार्यः
विद्याभूषणसाङ्ख्यसाहित्यवेदान्ततीर्थः
श्रीनिकुञ्ज, वृन्दावनधाम
विजया दशमी
श्रीनिम्बार्काब्दाः ५०४४,
विक्रमाब्दाः २००६
गोपालतापनीयोपनिषद्
पूर्वतापनी
श्रीराधाकृष्णाभ्यां नमः
ओं तत्सत्परब्रह्मणे नमः । ओं गुरुभ्यो नमः । परमगुरुभ्यो नमः । परात्परगुरुभ्यो नमः । सर्वगुरुभ्यो नमः । अस्मद्गुरुभ्यो नमः ।
पूर्वोद्घातः ॥
अथ मैथिलझोपाख्यश्रीभगीरथशर्मप्रणीतं वेदान्ततत्त्वसमीक्षाख्यं श्रीगोपालतापिन्युपनिषद्भाष्यम् ।
वन्दे कृष्णं गुणातीतं परंब्रह्माच्युतं यतः ।
आविर्बभूवुः प्रकृतिब्रह्मविष्णुशिवादयः ॥
श्रियं वन्दे हिरण्याभां सच्चिदानन्दविग्रहाम् ।
वृषभानुकुलोत्तंसां कृष्णवामार्धरूपिणीम् ॥
विद्यया सहितं देवं विज्ञानानन्दरूपिणम् ।
गुरुमाद्यं परं वन्दे दक्षिणामूर्तिविग्रहम् ॥
श्रीगुरुं वैष्णवदेवं सनकादिस्वरूपिणम् ।
गोवर्धनगुहासीनं भूयो भूयो नमाम्यहम् ॥
नमो गुरुभ्यः पूर्वेभ्यः सनकादिभ्य आदरात।
यत्कृपालेशमात्रेण शास्त्रतत्त्वं विविच्यते ॥
मैथिलान्वयजातेन मिथिलाभूमिवासिना ।
भगीरथेन विप्रेण श्रुतितत्त्वं विविच्यते ॥
उपनिषदन्तरेषु क्वचिदप्राकृतासाधारणानन्तस्वाभाविकयावदात्मभाविकल्याणगुणनिरूपणमुखेन, यथा—सर्वकामः सर्वगन्धः सर्वरसः [छा.उ. ३.१४.४], यः सर्ववित्स सर्वज्ञः [मु.उ. २.२.७], इत्यादौ ।
क्वचित्हेयधर्मनिरसनमुखेन हेयस्वरूपनिरसनमुखेन च, यथा—अस्थूलमनणु [बृ.आ.उ. ३.८.८], पुरुषः दिव्यो ह्यमूर्तः [मु.उ. २.२.२]
यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ [के.उ. १.६] इत्यादौ,
क्वचिदुभयप्रधानेन यथा केवलं निर्गुणश्च [श्वे.उ. ६.११] इत्यनेन प्राकृतगुणनिषेधपूर्वकं, योनिर्विदात्मकृद्विश्वविदात्मयोनिः ज्ञः कालकारो गुणी सर्वविद्यः [श्वे.उ. ६.१६] इत्यादिवाक्ये, नेति नेति इत्यादिना हेयविशेषनिषेधपूर्वकं, विज्ञातारमरे केन विजानीयात्[बृ.आ.उ. ४.५.१५] इत्यादिना स्वाभाविकधर्मप्रतिपादनपरे मैत्रेयीब्राह्मणादिवाक्ये च ।
क्वचित्स्वरूपनिरूपणप्राधान्येन, यथा सत्यं ज्ञानमनन्तं ब्रह्म [तै.उ. २.१.३] विज्ञानमानन्दं ब्रह्म [बृ.आ.उ. ३.९.२८] इत्यादौ । क्वचित्कार्यनिरूपणमुखेन यथा यतो वा इमानि भूतानि जायन्ते [तै.उ. ३.१.१] इत्यादौ । क्वचिदेकविज्ञानेन सर्वविज्ञानजनकत्वेन यथा—कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति [मु.उ. ३.१.३] इति, उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति [छा.उ. ६.१.३] इत्यादौ ।
क्वचित्परमदेवत्वादिना, यथा—तमीश्वराणां परमं महेश्वरं, तं देवतानां परमं च दैवतं [श्वे.उ. ६.७] इत्यादौ । इत्येवं विविधप्रकारेण निखिलहेयप्रत्यनीकस्वभावयावदात्मभाविनित्यनिरतिशयानन्तकल्याणगुणशक्तिस्वभावं निखिलजगदभिन्ननिमित्तोपादानं नित्यनिरतिशयसच्चिदानन्दघनं परमदेवं प्रतिपादयन्ति श्रुतयः । तथा—आत्मैवेदमग्र आसीत्पुरुषविधः [बृ.आ.उ. १.४.१], अन्योऽन्तर आत्मानन्दमयः… अन्वयं पुरुषविधः [तै.उ. २.५.१] इत्यादिवाक्येन तस्य मूलरूपं निर्भिन्नसच्चिदानन्दघनं पुरुषाकारमित्यपि बोधयन्ति श्रुतयः ।
एवमपि तद्ब्रह्मणो मूलरूपं शिवब्रह्माद्याकारं वा, अन्यविधं वा, इति जिज्ञासाया विशेषतो विनिवृत्तये—एको ह वै नारायण आसीत्, न ब्रह्मा नेशानः… स एकाकी नर एव [म.उ. १] इत्याद्युपक्रमेण, तस्य ध्यानान्तःस्थस्य ललाटात्त्र्यक्सः शूलपाणिः पुरुषो जायते बिभ्रच्छ्रियंयशः सत्यं ब्रह्मचर्यं तपो वैराग्यं तस्मादीशानो महादेवो महादेवः इत्याद्युपपत्त्या, सहस्रशीर्षकं देवमित्याद्युपसंहारेण च महोपनिषदि विष्णोरेव सर्वमूलरूपत्वं निर्णीयते । नारायणसुबालादावपि, नारायणाद्ब्रह्मा जायते नारायणाद्द्रुतो जायते शुद्धो देव एको नारायणो न द्वितीयोऽस्ति कश्चित्[ना.उ.], दिव्यो देव एको नारायणः [सु.उ. ६] इत्यादिना तथैव निर्णीयते । तच्चाग्रे उत्तरतापिन्यामेको ह वै पूर्वं नारायणो देवः [गो.ता.उ. २.] इत्यत्र सुव्यक्तं भविष्यतीति ।
तत्रापि विष्णोरनन्तेषु चिदानन्दविग्रहेषु कतरद्रूपं सर्वमूलमूलं समानाभ्यधिकशून्यमिति सोपपत्तिकं निर्णयाय पूर्वोक्तनानाप्रकारेण परमतत्त्वनिरूपकाणां वेदान्तवाक्यानामेकत्र समन्वयाय तदुपासनादीनां विशेषतो विवेचनाय च गोपालतापन्याख्यं निजस्वरूपमथर्ववेदीयपिप्पलादशाखायां श्रावयति भगवती श्रुतिः ।
तां वेमां ब्रह्मा ब्रह्मसंहितायां, श्रीकुमाराः सनतकुमारसंहितादौ श्रीनारदादिभ्यः, श्रीनारदादयश्च गौतमीयतन्त्रादौ गौतमादिमुनिभ्य उपबृंहयामासुः । तेनैतासां संहितानामियमेवोपनिषद्विशेषतो मूलभूता । गौतमीयतन्त्रे—क्लींकारादसृजद्विश्वमिति प्राह श्रुतेः शिरः [गौ.त. २.१५] इति पूर्वतापिनिस्थवाक्योदाहरणात।
अध्यायशतसम्पन्ना भगवद्ब्रह्मसंहिता ।
कृष्णोपनिषदां सारैः सङ्क्षिप्तं ब्रह्मनोदिता ॥ इति ब्रह्मसंहिता ॥
क्याच्च जायते इति । तां चेमां विश्वतो विततविग्रहामपि श्रीनारदो भगवदाज्ञया द्वापरान्तेऽवतीर्णाय श्रीसुदर्शनावताराय निम्बार्काय समुपदिदेश—
सुदर्शनो द्वापरान्ते कृष्णाज्ञप्तो भविष्यति ।
निम्बादित्य इति ख्यातो धर्मग्लानिं हरिष्यति ॥ इति भविष्ये प्रतिसर्गपर्वणि व्यासवाक्यात।
नारायणमुखाम्भोजान्मन्त्रस्त्वष्टादशाक्षरः ।
आविर्भूतः कुमारैस्तु गृहीत्वा नारदाय वै ॥
उपदिष्टः स्वशिष्याय निम्बार्काय च तेन तु ।
एवं परम्पराप्राप्तो मन्त्रस्त्वष्टादशाक्षरः ॥
इति विष्णुयामलवाक्यात्तथैव तत्सम्प्रदायेतिहासगुरुपरम्पराप्रसिद्धेश्च ।
अथ स भगवान्हंसकुमारनारदप्रणीतनैष्ठिकवंशसत्सम्प्रदायप्रवर्तकः श्रीनिम्बार्कः श्रीनिवासौडुम्बरगौरमुखादिभ्यः स्वशिष्येभ्यः सहोपनिषदन्तरैः स्वगुरुपरम्परानुसारेणानुश्रावयामास । श्रीश्रीनिवासौदुम्बराचार्यादिभिश्च वेदान्तसूत्रभाष्यकौस्तुभादिषु तथौदुम्बरसंहितादिषु च तत्तत्प्रसङ्गानुसारेण तस्याः कतिचिद्वाक्यखण्डानि विवेचितानि । तदनुगताः ततश्चतुर्थीं पीठिकामारूढा श्रीपुरुषोत्तमाचार्याः निजाद्याचार्योदितवेदान्तकामधेनुभाष्ये वेदान्तरत्नमञ्जुषायां तत्प्रसङ्गतस्तानि तानि वाक्यानि व्याचख्युः ।
अथ च, श्रीनिम्बार्काचार्यतश्चतुर्दशतमीं पीठिकां समारूढा साम्प्रतं वर्तमानश्रीबालकृष्णदेवाचार्यतः षट्त्रिंशतमीं पूर्वपीठिकामारूढा जाह्नवीसेतुप्रपन्नसुरतरुमञ्जरीमन्त्ररहस्यव्याख्यादिप्रणेतारः सिद्धान्तजाह्नवीप्रणेतृश्रीदेवाचार्यशिष्यश्रीसुन्दरभट्टाचार्यपादाः विस्तृतेन भाष्येणालङ्कारयामासुर्विवेचयामासुश्च रहस्यषोडशीव्याख्यानादौ प्रकीर्णरूपेण ।
ततस्तत्पीठपरम्परया श्रीसुन्दरभट्टाचार्यतः सप्तदशमीं पिठिकामारूढाः श्रीकाश्मीरिकेशवभट्टाचार्याः वेदान्तकौस्तुभप्रभायां ब्रह्मसूत्रवृत्तौ प्रसङ्गानुसारेण कानिचिद्वाक्यखण्डानि विवेचयामासुः ।
अन्ये च विभिन्नसम्प्रदायानुयायिनः सर्वप्रसिद्धोपनिषट्टीकाकृच्छ्रीनारायणश्रीपुरुषोत्तमगोस्वामिश्रीजीवगोस्वामिप्रभृतयस्तथा विवेचयामासुः । तामहमपि तेषां पूर्वाचार्याणां तात्पर्यानुसारेण विशेषतो द्वैताद्वैतसिद्धान्तानुसारेण स्वबुद्धिपरिशोधनाय वेदान्ततत्त्वसमीक्षाख्यया निजयुग्मतत्त्वसमीक्षासहोदरया व्याख्यया समलङ्करोमि ।
यद्यपीयं महासूक्ष्मा नाज्ञेया मादृशैर्नरैः ।
तथापि शास्त्रं सद्वाक्यं शरणं मे भविष्यति ॥
शास्त्रं च वेदाः स्मृतयः पुराणं च तदात्मकम् ।
इतिहासः पञ्चरात्रं भारतं च विदुर्बुधाः ॥
ऋग्यजुः सामाथर्वाख्या भारतं पञ्चरात्रकम् ।
मूलरामायणं चैव शास्त्रमित्यभिधीयते ॥
मूलस्कन्धमया वेदाः पञ्चरात्रं च यत्परम् ।
अन्यच्च तत्परं ग्राह्यं शास्त्रं नान्यादृशं पुनः ।
यच्चानुकूलमेतस्य तद्धि शास्त्रं परं मतम् ।
प्रतिकूलं भवेद्यद्वै नैव शास्त्रं कुवर्त्म तत॥
एतैरेव महाविष्णोर्ज्ञेयो नान्यैः कथञ्चन ।
नावेदविदमुं विष्णुं मनुते न नरः क्वचित॥ [श्का.पु.]
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ॥ [गीता १६.२४]
नावेदविन्मनुते तं बृहन्तं
नाब्रह्मवित्परमं प्रैति धाम ।
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥ [म.सं.]
इत्यादिश्रुतिवाक्यैश्च स्मृतिवाक्यैश्च निश्चितैः ।
शास्त्रैरेवोर्ध्वं सम्प्रोक्तैः कर्तव्यस्तत्त्वनिर्णयः ॥
अन्यथा भ्रंस्यते स्वार्थात्स्वेच्छाचारी द्विपत्पशुः ।
प्रत्यक्षशास्त्रेणाविरुद्धं युक्तिभिश्च सुसंस्कृतम् ।
सद्वाक्यमपि मानं स्यात्सूक्ष्मतत्त्वविनिर्णये ॥
इति निश्चित्य सच्छास्त्रैः सद्वाक्यैरेव निर्णयः क्रियते, परतत्त्वस्य तद्विरुद्धश्च त्यज्यते ॥
इति वेदान्ततत्त्वसमीक्षायां गोपालोपनिषद्व्याख्यायां झोपाख्यमैथिलभगीरथशर्म ग्रथितायामुपोद्घातः समाप्तः ॥
(१)
अथ उद्देशग्रन्थः ॥
वस्तुतत्त्वे विवेचनीये निबन्धतात्पर्यनिर्धाराय उपक्रमोपसंहारादिवतुद्देशलक्षणपरीक्षा अपि वक्तव्या भवन्ति । ताश्चैताः क्वचिदुपक्रमादिष्वेव गतार्था भवन्ति क्वचिदुपक्रमाद्यैवोद्देशादिषु, यथा तैत्तरीये ब्रह्मानन्दवल्ल्यां, तत्र हि—ब्रह्मविदाप्नोति परमित्यंशेन ब्रह्मस्वरूपतद्वेदनतत्प्राप्तीनां क्रमेण स्वस्वनाम्ना ब्रह्मवित्, आप्नोति परमिति पदत्रयेणोद्देशः । सत्यं ज्ञानमनन्तं ब्रह्म [तै.उ. २.१.३] इति ब्रह्मस्वरूपलक्षणं, यो वेदनिहितं गुहायामिति वेदनलक्षणम्, सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता [तै.उ. २.१.२] इति प्राप्तेर्लक्षणम् । तस्माद्वा इत्यादि शेषग्रन्थेन परीक्षा इत्युपक्रमादयस्तत्रान्तर्भवन्ति । क्वचित्परीक्षामात्रे उपक्रमादयो गतार्था भवन्ति । उद्देशलक्षणे च पृथगुक्ते भवतः । इत्यादि बहुविधं साङ्कर्यं तयोरूहनीयम् । इह तु उद्देशो लक्षणं च पृथगुक्ते भवतः । परीक्षामात्रे उपक्रमाद्या गतार्था भवन्ति इति ।
तत्र नाम्ना वस्तुसमर्पणमुद्देशः । स्वरूपधर्मैः कार्यैर्वान्यतो व्यावृत्तिबोधनं लक्षणम् । अत एव स्वरूपलक्षणकार्यलक्षणभेदेन लक्षणं द्विविधम् । उद्दिष्टस्य लक्षितस्य च वस्तुनः युक्तिप्रतियुक्तिभ्यां परिशोधनं परीक्षा । अत्रैवोपक्रमादीनां विशेषत उपयोगस्तात्पर्यावबोधाय इति । अत्र कृषि भूवाचकः शब्द इति प्रथममन्त्रोद्देशः । ओं सच्चिदानन्दरूपाय इति द्वितीयेन लक्षणम् । शेषग्रन्थेन उत्तरतापिन्यन्तेनोपक्रमादिभिः परीक्षा इति प्रकरणसङ्गतिर्बोध्येति ।
कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥ इति ।
समुपबृंहितश्चैष मन्त्रो गौतमीयतन्त्रे वक्ष्यमाणपञ्चपदीमन्त्रव्याख्यायां—
कृषिशब्दश्च सत्तार्थो णश्चानन्दस्वरूपकः ।
सुखरूपो भवेदात्मा भावानन्दमयत्वतः ॥ [गौ.त. २.६०] इति ।
तथा च निरतिशयस्वतन्त्रसत्तायुक्तो यो निरतिशयानन्दः तादृशानन्दस्वरूपो यः परमात्मपरब्रह्मशब्दाभिधेयः स कृष्णपदवाच्य इत्युद्देशवाक्यार्थः । गौतमीयतन्त्रे भावपदविशेषणात्तस्य रसो वै सः इति श्रुत्युक्तरसानन्दत्वं सूचितम् । वस्तुतस्तु भावपदं तत्र कृष्शब्दार्थभूतसत्तार्थकमेवाभाति ।
रसरूपत्वं तु तस्य रसो वै सः इति श्रुत्यन्तरैकवाक्यतयानुक्तलब्धमेव । चिद्रूपत्वमपि सत्यं ज्ञानमनन्तं ब्रह्म [तै.उ. २.१.३] इत्यत्र, विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं [बृ.आ.उ. ३.९.२८] इति श्रुत्यन्तरैकवाक्यताबलादानन्दरूपत्ववत्सत्यं ज्ञानमित्यादिश्रुत्यैकवाक्यताबलात्सच्चिदानन्दरूपाय इति वक्ष्यमाणश्रुतेश्च लब्धमेव । निरतिशयत्वं तु तत्र वक्ष्यमाणप्रकरणबलातिति वक्ष्यमाणस्वरूपलक्षणलक्षितं सर्वतःपूर्णमेव ब्रह्म इह समुद्दिष्टमिति न काच्चिन्न्यूनतेति ।
एवं पुराणादावपि कृष्णशब्दो बहुधा विवृतः । यथा ब्रह्मवैवर्तब्रह्मखण्डे प्रकृतिखण्डे च,
कृषिश्च सर्ववचनो नकारश्चात्मवाचकः ।
सर्वात्मा च परं ब्रह्म कृष्ण इत्यभिधीयते ॥
कृषिश्च सर्ववचनो नकारो बीज एव च ।
सर्वबीजं परं ब्रह्म कृष्ण इत्यभिधीयते ॥
कृषिश्च सर्ववचनो नकारो मोक्षवाचकः ।
सर्वमोक्षप्रदाता च कृष्ण इत्यभिधीयते ॥
कृषिश्च भक्तिवचनो नकारश्दास्यवाचकः ।
भक्तिदास्यप्रदाता च कृष्ण इत्यभिधीयते ॥ इति ।
तानि सर्वाणि निर्वचनानि तस्मिन्निसर्गतः सङ्गच्छन्ते तस्यैव सर्वमूलरूपत्वातिति ।
इदमत्रानुसन्धेयम् । कृष्णशब्दार्थो हि द्विविधः—सखण्डार्थोऽ खण्डार्थश्च । सखण्डार्थोऽपि द्विविधः—व्याकरणव्युत्पन्न आर्षव्युत्पन्नश्च । तत्रोपरितनोक्ताः सर्वा व्युत्पत्तयोऽन्याश्चैतादृशा आर्षव्युत्पत्तावन्तर्भवन्ति । व्याकरणव्युत्पन्नार्थस्तु वक्ष्यमाणावयवचतुष्टयवृत्तिद्वारा बोध्यः । अखण्डार्थस्तु अखण्डवृत्तिगम्यः । ताश्चैते सर्वा व्युत्पत्तयः श्रीसुन्दरभट्टाचार्यपादैर्भगवदाद्याचार्यपादप्रणीताया वक्ष्यमाणपञ्चपदीमन्त्रव्याख्यारूपाया मन्त्ररहस्यषोडश्या व्याख्याने मन्त्रार्थरहस्ये सुष्ठूपपादिताः । इति समुपयुक्तत्वात्तद्ग्रन्थभाग एवोद्ध्रियते । तद्यथा—
तथा हि कृष्णशब्दो द्विविधः । सखण्डार्थोऽखण्डार्थश्चेति । सखण्डार्थोऽपि द्विविधः । व्याकरणव्युत्पन्न ऋषिव्युत्पन्नश्चेति । तत्र व्याकरणमुखेन व्युत्पत्तिं दर्शयन्विव्रियते । चतुर्थ्यं तं चतुष्पदमिदं वाक्यम् । कृशब्दस्यात्र तन्त्रपाठः । कृ कृष्ण अ पदानि तत्र डुकृञ्करणे, कृष्विलेखने इत्यनयोः क्विप्प्रत्यययोगे अत्र तुगभावश्छान्दसः । कृकृषिति द्वितीयस्य च लोपे अदर्शने कृसिति शब्दो व्युत्पन्नः । स च कर्तृसंहर्तृवाचकः । वस्तुलाभकरो णस्तु इति वचनात। मोक्षलाभकरो णशब्दः । अव रक्षणे इत्यस्माद्धातोः क्विप्प्रत्यययोगेन अकारस्यावशेषात्पृषोदरादित्वादूठभावो बोध्यः, छान्दसत्वाद्वा । रक्षकत्वसिद्धिः । एवं च जगत्कर्तृत्वं, संहर्तृत्वं, मोक्षदातृत्वं, रक्षकत्वं च लक्षणं क्लर्थस्य कृष्णस्य सिद्धम् । यतो वा इमानि भूतानि जायन्ति, येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति [तै.उ. ३.१.१], संसारबन्धस्थितिमोक्षहेतुः—
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति श्रुतिस्मृतिभ्यश्च ।
आर्षव्युत्पत्तिपक्षे च—
कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥ इति ।
सत्यं ज्ञानमनन्तं ब्रह्म [तै.उ. २.१.३] इत्यादिश्रुत्युक्तद्वितीयलक्षणसिद्धिः । अखण्डार्थत्वे श्रुत्युक्तसच्चिदानन्दरूपश्रीकृष्ण इति । सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे [गो.ता.उ. १.१] इति मन्त्रवर्णात।
एवं जगज्जन्मादिकारणत्वं सूत्रकारोक्तलक्षणं श्रीकृष्णे समन्वितम् । तेन च स्वसमानाधिकरणवृत्तिसार्वज्ञ्यादिकारुण्यवात्सल्यादिगुणशक्त्यादयोऽप्याक्षिप्ता अन्यथानुपपत्तिप्रमाणसिद्धाः । तथा च, जगज्जन्मादिहेतुर्मोक्षदाता सच्चिदानन्दरूपः सार्वज्ञ्यवात्सल्याद्यनन्तासङ्ख्येयस्वाभाविकयावदात्मवृत्तिगुणशक्त्यादिपूर्णो भगवान्श्रीकृष्णपदार्थाभिन्नक्ÿपदार्थ इति सङ्क्षेपार्थः । गुणाश्च ज्ञानशक्तिबलैश्वर्यतेजोवीर्यादयो जगत्सृष्ट्याद्युपयोगिनः । वात्सल्यसौशील्यस्वामित्वसत्यप्रतिज्ञत्वकृतज्ञत्वस्थैर्यपूर्णत्वौदार्यकारुण्यादयो भगवदाश्रयणे प्रपन्नरक्षणे चोपयोगिनोऽनन्ताश्च । तत्र ज्ञानं सर्वदेशकालवस्तुविषयकनिरन्तरप्रत्यक्षानुभवः । शक्तिः अघटघटनापटीयस्त्वाभिन्नसामर्थ्यम् । बलं विश्वधारणशक्तिः । ऐश्वर्यं नियमनशक्तिः । श्रमहेतौ विद्यमाने तच्छून्यत्वं वीर्यम् । तेजःपरैरभिभूयमानत्वे सति पराभिभवनसामर्थ्यम् । वात्सल्यं प्रपन्नदोषादर्शित्वम् । जात्यादिमहत्त्वमनपेक्ष्यातिमन्दैः सहायासंश्लेषत्वं सौशील्यम् । स्वजनरक्षाशीलत्वं स्वेतरसमस्तवस्तुनि स्वकीयत्वाध्यवसायो वा । सत्यप्रतिज्ञत्वममृषाजल्पता । कृतज्ञत्वमल्पकृतं बहुमन्यता । स्थैर्यं स्थिरव्रतत्वं, युद्धादावचलत्वं वा । पूर्णत्वं प्रत्युपकाराकाङ्क्षा राहित्यम् । औदार्यमात्मपर्यन्तदातृशीलत्वम् । कारुण्यं परदोषक्षपणस्वभावः । दया निर्हेतुकपरदुःखदुःखित्वे सति तन्निराचिकीर्षा । अन्येऽपि आर्जवमार्दवसौहार्दशरण्यत्वादयोऽनुसन्धेयाः । विवक्षितगुणोपपत्तेश्च । सर्वोपेता च । स्वाभाविकी ज्ञानबलक्रिया च । विष्णोर्नु कं वीर्याणि प्रावोचं यः पार्थिवानि विममे रजांसि न ते विष्णोर्जायमानो न जातो देवस्य महिम्नः परमं तमाप सहस्रधा महिमानः सहस्रम् ।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ।
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥
तेजोबलैश्वर्यमहावबोधः
स्ववीर्यशक्त्यादिगुणैकराशिः ।
परः पराणां सकला न यत्र
क्लेशादयः सन्ति परावरेशे ॥ इत्यादि शास्त्रात। इति ।
अत्र गुणानां यानि लक्षणान्युक्तानि तानि तेषां कार्यलक्षणान्येव स्वरूपलक्षणस्य वागगोचरत्वातित्यपि ध्येयम् । तदेतत्कृष्णशब्दार्थस्य साकल्येन परिज्ञानाय वक्ष्यमाणग्रन्थोपयोगाच्च रहस्यषोडशीतो मया सङ्गृहीतमिति ।
एवं च कृषि भूर्वाचकः शब्द इति मन्त्रेणार्षव्युत्पत्त्या निरतिशयसत्यचिद्रसानन्दरूपः परब्रह्माख्यः श्रीकृष्ण इहोद्दिष्टः । नाम्ना वस्तुसमर्पणमुद्देश इति निरुक्ततल्लक्षणात।
इति मैथिलभगीरथशर्मविरचितायां वेदान्ततत्त्वसमीक्षाख्यायां श्रीगोपालतापिन्युपनिषद्व्याख्यायामुद्देशग्रन्थः ॥
(२)
अथ लक्षणग्रन्थः ।
एवं प्रतिपाद्यं वस्तुतत्त्वं समुद्दिश्य स्वरूपतो धर्मतः कार्यतश्च तल्लक्षणं दर्शयन्नमस्करोति—
ओं
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥
सत्त्वं नाम त्रिकालावध्यत्वं परमसत्त्वत्वापरपर्यायम् । सत्यं ज्ञानमनन्तं ब्रह्म [तै.उ. २.१.३] इति श्रुत्यन्तरात। चित्त्वं नाम स्वतः प्रकाशत्वं परप्रकाशत्वं च, यत्साक्षादपरोक्षाद्ब्रह्म [बृ.आ.उ. ३.४.१],
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति ॥ [मु.उ. २.११] इत्यादिश्रुतेः ।
परमानुकूलवेदनीयत्वमानन्दत्वम् । रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात। एष ह्येवानन्दयति [तै.उ. २.५.१], तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा [बृ.आ.उ. १.४.८] इति श्रुतेः ।
तथा च प्रधाने सत्त्वरजस्तमोगुणवन्न ब्रह्मणि सच्चिदानन्दरूपमंशत्रयम् । अपि तु एकमेव निरतिशयाखण्डं तत्त्वं त्रिकालाबाध्यत्वात्सच्छब्देन स्वतः प्रकाशत्वात्प्रकाशकत्वाच्च चिच्छब्देन निरतिशयानुकूलवेदनीयत्वादानन्दशब्देन च शास्त्रे व्यपदिश्यते इति बोध्यम् । अत्र सच्चिदानन्दाय इत्यनुक्त्वा सच्चिदानन्दरूपाय इति यदुक्तं तेन तस्य पुरुषाकारत्वमपि तस्य तथा भूतस्यैव सूचितं भवति । तथा च वक्ष्यति—तमेकं गोविन्दं सच्चिदानन्दविग्रहं [गो.ता.उ. १.३३] इति । कृष्णशब्दार्थस्त्रिविधो भवति इत्युक्तं तत्राखण्डार्थस्य सच्चिदानन्दरूपायेति स्वपदेनैवोक्तत्वात। आर्षव्युत्पन्नार्थस्यापि कृषिर्भूर्वाचकः शब्द इति पूर्वमन्त्रेणैवोक्तत्वाच्च इह कृष्णशब्दः पूर्वनिरुक्तव्याकरणव्युत्पन्नार्थमात्रगमकः । स चोक्त एवेति स एव स्मृत्वात्र योजनीयः इति ।
एवं कृष्णपदार्थस्य जगज्जन्मादिकर्तृत्वमोक्षदातृत्वस्वस्याविद्याकर्माद्यनुपहतस्वतन्त्रेच्छाप्रयुक्तत्वबोधनायाह—अक्लिष्टकारिणे इति । अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः [यो.सू. २.३] इति योगसूत्रोक्ताः पञ्चक्लेशा बोध्याः । तेन च क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः [यो.सू. १.२४] इतीश्वरलक्षणं सूत्रोक्तानां कर्मविपाकाशयवानपि वक्ष्यमाणसूत्रान्तरोक्तानामुपलक्षकाः । तथा च स्वभावतेभिर्दोषैर्वर्जिता जगज्जन्मादिकृतिर्यस्य तस्मै नम इत्यर्थः । एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पः [छा.उ. ८.१.५], स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्[बृ.आ.उ. ४.४.२२] इत्यादिश्रुतिभ्यः ।
नमो वेदान्तवेद्याय इति । वेदान्तैकसमधिगम्याय समस्तवेदान्तवेद्याय चेत्यर्थः । नावेदविन्मनुते तं बृहन्तं [शा.उ. १], तं त्वौपनिषदं पुरुषं पृच्छामि [बृ.आ.उ. ३.९.२६], सर्वे वेदा यत्पदमामनन्ति [क.उ. १.२.१५], नावेदविदमुं विष्णुं मनुते न नरः क्वचित्[स्क.पु.], वेदैश्च सर्वैरहमेव वेद्यः [गीता १५.१५] इत्यादिश्रुतिस्मृतिभ्यः । वक्ष्यति च गोभूमिवेदविदित [गो.ता.उ. १.५] इति, यो वेदैर्गीयते [गो.ता.उ. २.२२] इति चेति ।
गुरवे इति । स्वात्मप्रकाशनेन सर्वज्ञानसम्पादकाय सर्वश्रेयःप्राषकाय सर्वविद्याप्रवर्तकाय चेत्यर्थः । गोपीजनवल्लभविज्ञानेनाखिलं विज्ञातं भवति [गो.ता.उ. १.३], तस्मादसौ गोपरूपः प्रयत्नात्प्रकाशयेदात्मपदं तदेव [गो.ता.उ. १.२१], यो ध्यायति रसयति भजति सोऽमृतो भवति [गो.ता.उ. १.६],
यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास्तस्मै गोपायति स्म कृष्णः ।
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणं व्रजेत ॥ [गो.ता.उ. १.२२]
इत्यादि वक्ष्यमाणश्रुतिभ्यः । आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितं [बृ.आ.उ. ४.५.६], ददामि बुद्धियोगं तं येन मामुपयान्ति ते [गीता १०.८] इत्यादिश्रुत्यन्तरेभ्यः स्मृतिभ्यश्चेति ।
बुद्धिसाक्षिणे इति । बुद्धिप्रेरकाय बुद्धिगतसर्वदृष्टे—धियो यो नः प्रचोदयातित्यादिवक्ष्यमाणश्रुतेः । तथा च निरतिशयसच्चिदानन्दविग्रहाय सृष्टिस्थितिसंहारकर्त्रे मोक्षदाय सर्वदोषविवर्जिताय यावदात्मभाविनिःशेषकल्याणगुणशक्तिस्वभावाय स्वभावापास्तसमस्तदोषगुणाय समस्तवेदान्तवेद्याय स्वात्मप्रकाशेनाशेषज्ञानसम्पादकाय गायत्रीमन्त्रार्थभूताय नम इति समग्रमन्त्रार्थः ।
एतेन पूर्वमुद्दिष्टः कृष्णपदार्थः स्वरूपतो गुणतः कार्यतश्च लक्षितः । सच्चिदानन्दरूपाय इत्यंशेन स्वरूपलक्षणाय कृष्णायेत्यंशेन निरुक्तदिशा जगज्जन्मादिबोधकेन कार्यलक्षणस्य, अक्लिष्टकारिणेत्यंशेन, एष आत्मा अपहतपाप्मा [छा.उ. ८.१.५] इति श्रुतिप्रोक्तं, क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः [यो.सू. १.२४] इति योगसूत्राद्युपबृंहितस्वधर्मलक्षणस्य च स्फुटं सूचनात।
एवमनुबन्धचतुष्टयभूता विषयप्रयोजनसम्बन्धोऽधिकारी च दर्शिताः । तथा हि निरुक्तसमग्रवाक्यार्थभूतः श्रीभगवान्विषयः । तद्भावापत्तिः प्रयोजनम् । अन्येच्छानधीनेच्छाविषयो हि स्वतः प्रयोजनमित्युच्यते । तादृशं चात्यन्तिकदुःखनिवृत्तिर्नित्यनिरतिशयानन्दश्चेति द्वयमेव परोक्षकानुभवसिद्धम् । तत्रापि नित्यनिरतिशयानन्द एव मुख्यं, तत्प्राप्तावात्यन्तिकदुःखनिवृत्तेरयत्नसिद्धत्वात्सूर्यमण्डलप्रवेशे तमोनिवृत्तिवत। नित्यनिरतिशयानन्दश्च श्रीभगवानेव नान्यः । भूमैव सुखं नाल्पे सुखमस्ति [छा.उ. ७.२३.१] इति छान्दोग्यश्रुतेः । एतस्यैवा ऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति [बृ.आ.उ. ४.३.३२],
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन ॥ [तै.उ. २.३.१]
इत्यादि बृहादारण्यकतैत्तरीयादिश्रुतिभ्यश्च । इति निरन्तरतदनुभूत्या स्थितिलक्षणतद्भावापत्तिरेव परमं प्रयोजनम् । भूमैव सुखं नाल्पे सुखमस्ति, भूमा त्वेव विजिज्ञासितव्यः [छा.उ. ७.२३.१], सलिल एको द्रष्टाद्वैतो भवत्येष ब्रह्मलोके सम्राडिति हैवमनुशशास याज्ञवल्क्य, एषोऽस्य परमा गतिः, एषास्य सम्पद्, एषोऽस्य परमलोकः, एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति [बृ.आ.उ. ४.३.३२], जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमेति वीतशोकः [मु.उ. ३.१.२], निरञ्जनः परमं साम्यमुपैति [मु.उ. ३.१.३], मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते [गीता १३.१८] इत्यादिश्रुतिस्मृतिभ्यः ।
तच्च प्रयोजनमिह सच्चिदानन्दरूपाय इति पूर्वार्धेन सूचितं भवति । तादृशस्य विषयभूतस्य भगवत उपनिषदश्च प्रतिपाद्यप्रतिपादकभावः सम्बन्धः । स च वेदान्तवेद्याय इति पदेन सूच्यते । अधिकारी चात्र सर्वत्र ममत्वहीनोऽत एव शमदमाद्युपेतो मुमुक्षुः शरणार्थी । स च नमःशब्देन सूच्यते । मशब्दस्य जीववाचकत्वात्, नशब्दस्य स्वातन्त्र्यनिषेधेन भगवदीयत्वबोधकत्वात्समष्टिनमःशब्दस्यापि समर्पणबोधकत्वेन समर्पणलक्षणशरणागतिसमर्पकत्वाच्च । तच्चाग्रे व्यक्तीभविष्यति । मशब्दस्य जीववाचकत्वमुक्तं रहस्यषोडश्यां श्रीमदाद्याचार्यैर्मकारार्थो जीवजातो विज्ञेया वैष्णवोत्तरैरिति । व्याख्यातं च श्रीसुन्दरभट्टाचार्यपादैः—
जीवत्वसामान्यावच्छिन्नो मकारशब्दवाच्य इत्यर्थः । पञ्चविंशोऽयं पुरुष इति श्रुतेः । यथा तत्त्वानां मध्ये पञ्चविंशो विज्ञानात्मा तथा वर्णानां मध्ये पञ्चविंशो मकारः क्षेत्रज्ञवाचकस्तद्वाच्यश्चायं पुरुष इति श्रुत्यर्थः । [तत्र ३] इति ।
नमःशब्दस्य शरणागतिपरत्वमुक्तं बृहद्ब्रह्मसंहितायां षष्ठाध्याये नारायणमन्त्रव्याख्याने—
ममत्वे तु मकारः स्यान्नकारस्तन्निषेधने ।
अतो नैवास्य कर्तृत्वं केवलं शरणं विना ।
सर्वधर्मान्परित्याज्य मामेकं शरणं व्रज [गीता १८.६६] इत्यादिनेति न किञ्चिदनुपपन्नमिति ।
॥ इति श्रीवेदान्ततत्त्वसमीक्षायां गोपालोपनिषद्व्याख्यायां
अनुबन्धलक्षणग्रन्थः ॥
—ओ)०(ओ—
(३)
अथ परीक्षाग्रन्थः । अथोद्दिष्टं लक्षितं चार्थमुपक्रमोपसंहारादिभिरविशेषप्रश्नप्रतिवचनाभ्यां च विशेषतो निरूपयति—
ओं. मुनयो ह वै ब्राह्मणमूचुः—कः परमो देवः ?
कुतो मृत्युर्बिभेति ? कस्य विज्ञानेनाखिलं विज्ञातं भाति ?
केनेदं विश्वं संसरतीति.
एको देवः सर्वभूतेषु गूढः [गो.ता.उ. २.९३] इति उत्तरतापिनीग्रन्थेनेति । मुनयः इति मननशीला आदिज्ञानिन ऊर्ध्वरेतसः सनकादयः ब्रह्माणं कमलोद्भवमूचुरिति सम्बन्धः । ब्राह्मणमिति पाठेऽपि स एवार्थः । ब्रह्मसदनं चरतो मे ध्यातः इत्याद्यग्रिमग्रन्थपर्यालोचनया तथैव निर्णयात्, तथोपसंहारे ब्रह्मणे ब्रह्मपुत्रेभ्यो नारदाच्च श्रुतं मया [गो.ता.उ. २.१०६] इत्यत्र ब्रह्मपुत्रेभ्य इति शब्दपर्यालोचनया सनत्कुमारसंहितादिपर्यालोचनया पूर्वव्याख्यातृप्रसिद्धेश्च मुनिशब्दस्य सामान्यत्वेऽपि तेन सनकादय एव गृहीता इत्यपि बोध्यम् । एवं च वक्टृश्रोतृवैशिष्ट्यादेतदुपनिषदर्थस्य वैशिष्ट्यमपि ध्वनितम् । पितृपुत्रसंवादात्परमरहस्यत्वमपि ध्वनितं भवति, तथा च श्रीब्रह्मणा श्रीसनकादिभ्यः, तैश्च श्रीनारदायोपदिष्टमिति बोध्यम् ।
इदं त्विहावधेयम् । यत्र विशेषरूपेण प्रश्नप्रतिवचने भवतस्तत्र नैकान्ततो वस्तुतत्त्वस्य परमार्थरूपेणावधारणम्, तत्र प्रतिवचनस्य वक्तृजिज्ञासानुरोधसम्भवात। यथा कश्चिज्जिज्ञासते गण्डकी कीदृशी पावनी नदी तदा वक्ता श्रोतुर्गण्डकीविषयरुचिं बुद्ध्वा तं प्रति गण्डकीमेव सर्वनदीश्रेष्ठत्वेन वर्णयति, यस्य श्रोतुः प्ररोचनार्थं तदा गण्डकी सर्वश्रेष्ठा सरित्गङ्गाद्यास्तु ततोऽपकृष्टा इत्येव प्रतिवक्तुस्तात्पर्यमिति न परीक्षकैर्निर्णीयते । किं च, यदा गङ्गापर्यन्तं गन्तुमशक्तैर्गण्डकीं गन्तुं शक्तैः कैश्चिद्दुर्बलैः पुरुषैः पृच्छ्यते, “का सर्वश्रेष्ठा सरित्?” इति तदा सामान्यप्रश्नेऽपि गण्डकी सर्वश्रेष्ठा सरिदिति प्रतिवचनं श्रुत्वापि परीक्षकैर्नैकान्तता निर्णीयते यद्गण्डक्येव सर्वश्रेष्ठा सरिदिति प्रतिवक्तुराशय इति । जिज्ञासोर्गङ्गापर्यन्तगमनेऽनधिकारं गण्डकीपर्यन्तगमनाधिकारं च दृष्ट्वा बुद्धिमान्वक्ता जिज्ञासोरधिकारानुसारेणोक्तवानिति शङ्कासम्भवात्तस्मात्तादृशाधिकारहीनजिज्ञासुकृताविशेषप्रश्नेऽपि न वस्तुतत्त्वनिर्णयः । इति तादृशतादृशसम्भावनारहिताविशेषप्रश्नप्रतिवचनाभ्यां यत्र पदार्थविचारोपक्रमः, तत्रैव परमार्थनिर्णय इति ।
प्रकृते तु सर्वज्ञानिगुरवो निवृत्तिमार्गपरमाचार्याः परमतत्त्वनिर्णयप्रचारैकपरायणा वीतरागाः सर्वत्र निरपेक्षाः सर्वपक्षपातविवर्जिताः आत्मारामाः सनकादयो जिज्ञासवः, तत्पिता सर्वविद्यानिधिर्वेदतातः सर्वपक्षपातशून्यो ब्रह्मैव वक्ता, अविशेषप्रश्नप्रतिवचने च इति नात्र निर्णयन्यूनताप्रयोजकीभूतः कोऽप्युपरितनोक्तदोष इति । अत एव यत्र प्रकरणे निरूपिता एते निर्णायकहेतवो न भवन्ति । अपि तु तद्विपरीतविशेषप्रश्नप्रतिवचनादिकं भवति, तत्र निर्णीतसिद्धान्तापेक्षयास्य सिद्धान्तस्योत्कृष्टत्वमपि बोध्यं बुभुत्सुभिरिति ।
अथ प्रथमा जिज्ञासा—कः परमो देवः ? इति । यस्मात्परो नास्ति, स परमः सर्वस्मात्परः स्वसमानाभ्यधिकशून्यो देवः कः ? इति प्रथमप्रश्नवाक्यार्थः । यस्मात्परं नापरमस्ति किञ्चित्[श्वे.उ. ३.९], न तत्समश्चाभ्यधिकश्च दृश्यते [श्वे.उ. ६.८], पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः [क.उ. १.३.११],
केनेषितं पतति प्रेषितं मनः
केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति
चक्षुः श्रोत्रं क उ देवो युनक्ति [के.उ. १.१],
तं दुर्दशं गूढमनुप्रविष्टं
गुहाहितं गह्वरेष्टं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं
मत्वा धीरो हर्षशोकौ जहाति ॥ [क.उ. १.२.१२]
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति [क.उ. १.२.२१], ज्ञात्वा देवं मुच्यते सर्वपाशैः [श्वे.उ. १.११], देवं स्वचित्तस्थमुपास्य पूर्वं [श्वे.उ. ६.७], तमः परे देवे एकीभवति परस्तान्न सन्नासन्न सदसदित्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनमिति [सु.उ. २], एष सर्वभूतान्तरात्मा दिव्यो देव एको नारायणः [सु.उ. ७], दिव्यो देव एको नारायणो न द्वितीयोऽस्ति कश्चित्[ना.उ.],
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥ [श्वे.उ. ६.११]
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि इत्यादि केनकठश्वेताश्वतरसुबालनारायणाद्युपनिषत्सु परमदुर्ज्ञेयत्वसर्वजीवमोक्षहेतुज्ञानविषयपरमदेवत्वपरममहेश्वरत्वस्वसमानातिशयशून्यत्वसर्वपतित्वतमःपर्यन्तलयाधिकरणत्वतमःपरत्वतमःपर्यन्तनियामकत्वाविद्यादिसर्वमलस्पर्शशून्यत्वसर्वभूतगूढत्वसर्वव्यापित्वसर्वभूतान्तरात्मत्वकर्माध्यक्षत्वसर्वभूताधिवासत्वसाक्षित्वचेतृत्वनिर्गुणत्वसर्वसवितृत्ववरेण्यत्वादिना निरूपितः
परमदेवः किंलक्षणः किंस्वरूपः इति पर्यवसितप्रथमजिज्ञासावाक्यार्थः ।
एतेन ब्रह्मादिदेवानां मध्ये यज्ञेषु त्यागोद्देश्यदेवतानामिन्द्रोपेन्द्रवरुणादीनां मध्ये वा श्रेष्ठो देवः कः ? इत्येतावन्मात्रमेव प्रथमप्रश्नवाक्याभिप्रायः । तेन नात्र सर्वातिशायिसर्वात्मभूतप्रकृतिपरपरब्रह्मविचारस्यैकान्ततः प्रसरः इत्यपि शङ्काबीजं निरस्तम् । तावन्मात्रेण परमदेवत्वानिर्वाहारत्वात्, उपर्युक्तश्रुतिसिद्धसर्वातिशायिदेवस्यैव परमदेवत्वसम्भवाच्च । तस्मात्स एव परमदेव इह जिज्ञास्यत्वेन प्रस्तुतः । अत एव परमोपसंहारे उत्तरतापिन्यन्ते—एको देवः सर्वभूतेषु गूढः [श्वे.उ. ६.११] इति श्वेताश्वतराद्युपनिषदन्तरप्रसिद्धे स्वासाधारणधर्मपुरस्कारेण सर्वोपनिषत्प्रसिद्धपरमदेवप्रतिपादकमन्त्रेणैवोपसंहारः कृतः । उपक्रमोपसंहारयोरेकवाक्यत्वस्य सर्ववादिसम्मतत्वादुपक्रमेऽपि स एवोपनिषत्प्रसिद्धः परमदेवः परब्रह्मादिशब्दान्तरव्यपदेश्यो ग्राह्यः इति बोध्यम् । इति प्रथमा जिज्ञासा ॥
अतिमृत्युहेतुजिज्ञासा । अथ द्वितीया जिज्ञासा—कुतो मृत्युर्बिभेति ? इति । कस्मात्सकाशात्मृत्युः जन्ममरणपरस्परात्मिका संसारावस्था बिभेति स्वनाशमाशङ्कते इति । कस्य साक्षात्कारेण मृत्युरत्यन्तं विलीयते इत्यर्थः ।
भयादस्याग्निस्तपति भयात्तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ [क.उ. २.३.३]
यस्य ब्रह्म क्षत्रं चोभे भवत ओदनः मृत्युर्यस्योपसेचनं [क.उ.], तमेव विदित्वातिमृत्युमेति [श्वे.उ. ३.८], ज्ञात्वा देवं मुच्यते सर्वपाशैः [श्वे.उ. १.८], क्षीणैः क्लेशजन्ममृत्युप्रहाणिः [श्वे.उ. १.११]
इत्यादिश्रुतिप्रतिपाद्यः साक्षान्मृत्युविरोध्यतिमृत्युलक्षणमुक्तिप्रदत्त्वेन मृत्योरात्यन्तिकोच्छेदजनकः क इति द्वितीयजिज्ञासावाक्यस्य पर्यवसितार्थः ।
अथ तृतीयजिज्ञासा—कस्य विज्ञानेनाखिलं विज्ञातं भवति ? इति । कस्य परमतत्त्वस्य विज्ञानेन साक्षादनुभवेन अखिलं दिक्कालाद्यवच्छिन्नमनवच्छिन्नं च सर्वं विज्ञानं साक्षाद्युगपच्चानुभूतं भवतीत्यर्थः । अयं भावः—मुण्डके कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति शौनकप्रश्ने, तदेतत्सत्यं
यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः
सहस्रशः प्रभवन्ते सरूपाः ।
तथाक्षराद्विविधाः सौम्यभावाः
प्रजायन्ते तत्र चैवापि यन्ति ॥ [मु.उ. २.१.१] इत्यादिना,
तथा छान्दोग्ये श्वेतकेतुप्रश्ने—यथा सोम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृण्मयं विज्ञातं स्यात्, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं [छा.उ. ६.१.४] इत्यादिना च निरूपितः निखिलजगदभिन्ननिमित्तोपादनत्वादिना स्वविज्ञानेनाशेषविज्ञानहेतुः सदादिपदार्थः किंलक्षणः किंस्वरूपः क इति तृतीयजिज्ञासावाक्यार्थः ॥
अथ चथुर्थी जिज्ञासा—केनेदं विश्वं संसरति ? इति । इदं नामरूपाभ्यां व्याकृतं जीवजडात्मकं जगत्केन अवान्तरहेतुना संसरति भ्रमति इत्यर्थः ।
स्वभावमेके कवयो वदन्ति
कालं तथान्ये परिमुह्यमानाः ।
देवस्यैष महिमा तु लोके
येनेदं भ्राम्यते ब्रह्मचक्रम् ॥ [श्वे.उ. ६.१]
इत्यादिश्रुतिषु प्रतिपादितं निखिलप्रापञ्चसंसरणेऽवान्तरहेतुभूतं महिमादिशब्दवाच्यं किमिति तुरीयजिज्ञासावाक्यार्थः ।
इदमत्र विशेषतोऽवधेयम् । निरुक्तप्रश्नचतुष्टयेष्वेकतरप्रश्नेन तदुत्तरेण चापि परब्रह्मतत्त्वनिरूपणसम्भवे प्रश्नचतुष्टयस्य किं प्रयोजनं ? न चैकतरप्रश्नप्रतिवचनाभ्यामंशतो ब्रह्मतत्त्वनिर्णयेऽपि साकल्येन निर्णयाभावात्साकल्येन निर्णयजिज्ञासासम्भवात्प्रश्नचतुष्टयमिति वाच्यम् । यथा मुण्डकोपनिषदि—कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति प्रश्ने । यथा वा छान्दोग्ये—कथं नु भगवः स आदेशो भवति इत्यत्र सर्वविज्ञानविषयकप्रश्ने इतरे सर्वे प्रश्ना गतार्था भवन्ति, तथात्रापि स्यातिति कस्य विज्ञानेनाखिलं विज्ञातं भवति इत्येकैकः प्रश्नोऽस्तु । इतरेषामपि तत्रैवार्थत अन्तर्भावसम्भवात। इति चेत्, तत्रोच्यते—
नहि सर्वविज्ञानविषयकजिज्ञासाप्रतिवचनमात्राभ्यामितरप्रश्नार्थौ निरूपितत्वेन गतार्था भवितुमर्हन्ति । निखिलप्रपञ्चस्य भगवदात्मकत्वनिरूपणमात्रेणैव एकविज्ञानेन सर्वविज्ञाननिरूपणसम्भवात। तावन्मात्रनिरूपणेऽप्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञानिर्वाहसम्भवाच्च । एवं च सर्वभगवदात्मकं भगवांश्च सर्वात्मा न ततो व्यतिरिक्तं किञ्चितित्येवंरूपेण तत्त्वतो ज्ञानेऽपि भगवान्किंस्वरूपः मोक्षप्रदानेन मृत्युनिवर्तको न वा, सर्वशक्तिमानुत जडस्वभाव एव साङ्ख्यकल्पितप्रधानादिवतित्यादिसंशयानुपरमात।
न चैवं छान्दोग्येऽपि सद्विद्यायां समग्रं ब्रह्म न निरूपितमित्युक्तं स्यात्तच्चायुक्तम् । तद्धास्य विजज्ञौ [छा.उ. ६.७.६] इत्यंशेन श्रुत्यैव श्वेतकेतोः ब्रह्मज्ञानकथनादिति वाच्यम् । सद्विद्यायां श्वेतकेतोः सर्वविज्ञानविषयकजिज्ञासानुसारेण ब्रह्म केवलं कारणात्मनैव निरूपितं, न सर्वतोभावेन तावन्मात्रेणैव जिज्ञासानिवृत्तेः सम्भवात। अत एव ब्रह्मणः स्वरूपभूताभ्यां चिदानन्दाभ्यामपि तत्र स्पष्टतो ब्रह्म न निरूपितम् । ईक्षणेन प्रक्रान्तत्वात्यथा कथञ्चित्सच्चिदात्मना निरूपणस्वीकारेऽपि आनन्दात्मना निरूपणं तत्र नास्त्येवेति विस्पष्टं वक्तुं शक्यते । वस्तुतस्तु तत्र सदात्मनैव ब्रह्म निरूपितं सर्वविज्ञाननिर्वाहार्थं प्रपञ्चस्य ब्रह्मात्मकत्वनिरूपणे तावन्मात्रस्यैवोपयोगात। ईक्षणस्य तु तदुपयोगितया सद्धर्मत्वेनैव निरूपणान्न तु सद्रूपत्वेनैव स्वातन्त्र्येण ।
न च ब्रह्म सन्मात्रं, किन्तु सच्चिदानन्दं ब्रह्म—सत्यं ज्ञानमनन्तं ब्रह्म [तै.उ. २.१.३], विज्ञानमानन्दं ब्रह्म [बृ.आ.उ. ३.९.२८] इत्यादिस्वरूपलक्षणश्रुतिभ्यः । तस्मात्तत्र न सर्वतोभावेन ब्रह्मनिरूपणं, सर्वतोभावेन ब्रह्मनिरूपणं तु अध्यायत्रयेणैव । तत्र सद्विद्यायां सदात्मना भूमविद्यायामानन्दात्मना, चिदादिशेषात्मना तु चरमाध्यायेनेति चरमाध्याये एव ब्रह्मविद्या समाप्तिः ।
एवं मुण्डकेऽपि कारणत्वप्राधान्येनैव ब्रह्मनिरूपणम्, अन्येषां ब्रह्मधर्माणां तु तच्छेषत्वेनैव तेन तत्रापि न साकल्येन ब्रह्मस्वरूपनिरूपणमिति तद्विद्यायामपि गुणोपसंहारन्यायेन विद्यान्तरपठितस्वरूपधर्मान्तराणामुपसंहारोऽपेक्षित एव । श्वेतकेतोर्हि विज्ञानकथनं तु निखिलप्रापञ्चिकपदार्थानां ब्रह्मात्मकत्वविज्ञानाभिप्रायेण, न तु सर्वतोभावेन ब्रह्मज्ञानाभिप्रायेण इत्यपि वक्तुं शक्यते ।
न चैवं तस्य मोक्षकथनानुपत्तैः प्रतिपाद्यते च । तत्र तादृशज्ञानवतः तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्यते इत्यंशेन प्रारब्धनाशानन्तरं कैवल्यमोक्षः । ततः पूर्वं जीवन्मुक्तिरिति वाच्यम् । सच्चिदंशमात्रप्राधान्येन ब्रह्मज्ञानेन निजस्वरूपलाभरूपकैवल्यमुक्तेः सम्भवात। साक्षात्पुरुषोत्तमसायुज्यलाभरूपमुक्तावेव पुरुषोत्तमस्वरूपौपायिकयावद्धर्मप्राधान्येन पुरुषोत्तमस्वरूपज्ञानमपेक्षितमिति न काप्यनुपपत्तिः । यदि च श्वेतकेतुविद्यादिषु यावद्धर्मपुरस्कारेण ब्रह्मस्वरूपनिरूपणमस्त्येवेति विभाव्यते, तदापि यथा प्रश्नचतुष्टयेन जिज्ञास्यतत्त्ववर्गीकृत्य निरूपणे पुरोदीरितसर्वश्रुतीनां स्फुटं समन्वयः समवबोधश्च, यथा भक्तस्तथा नैकप्रश्नेनेति सर्वश्रुतीनां स्फुटं समन्वयार्थं स्पष्टतया सर्वतोभावेन पुरुषोत्तमस्वरूपज्ञानार्थं च प्रश्नचतुष्टयमिति विभावनीयम् । वस्तुतस्तु मुण्डकविद्यापेक्षया सद्विद्यापेक्षया चात्र महद्वैलक्षण्यं तत्र केवलं कारणातमनैव प्रक्रान्तं, न तु स्वशब्दवाच्यत्वेन ब्रह्मस्वरूपानुबन्धियावद्धर्मविशिष्टत्वेन ।
अत्र तु ओं सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे इति मन्त्रवर्णप्रतिपादितदिशा निरतिशयसच्चिदानन्दघनत्वेन स्वभावतोऽपास्तसमस्तदोषत्वेन निखिलजगदभिन्ननिमित्तोपादानभूतत्वेन तत एव निखिलजगज्जन्मस्थितिमोक्षहेतुत्वेनानन्तकल्याणगुणशक्तिस्वभावत्वेन निखिलवेदैकवेद्यत्वेन निखिलनिजात्मकतत्त्वप्रकाशकत्वेन सर्वसाक्षित्वेन च समग्रं ब्रह्म जिज्ञास्यत्वेन प्रक्रान्तम् । तच्च प्रश्नचतुष्टयमन्तरा न सम्यक्निरूपितं भवितुमर्हतीति प्रश्नचतुष्टयमावश्यकमिति न विस्मर्तव्यम् ।
ननु प्रश्नचतुष्टयकृतेऽपि कथं तत्र निखिलस्वासाधारणधर्मोपपन्नत्वेन स्वरूपेण च ब्रह्मणो जिज्ञास्यत्वमिति चेत्, शृणु—प्रथमः प्रश्नस्तावत्—कः परमो देवः इति । तत्र परमत्वं स्वसमानाभ्यधिकशून्यत्वमेवेति पूर्वमुक्तम् । वृत्तिसङ्कोचे कारणाभावात। अत एव प्रतिवचने—कृष्णो वै परमं दैवतमिति । अत्र एवकारार्थकेन वै इत्यव्ययेनान्ययोगव्यवच्छिन्नत्वेनैव परमदैवतत्वं कृष्णे निरूपितम् । न चात्र वैशब्दस्यैवकारार्थकत्वे मानाभावः । उपसंहारे—तस्मात्कृष्ण एव परमो देवः इत्यत्रैवकारघटितेनैव वाक्येन निगमनात। तस्मात्प्रतिवचनोपक्रमेऽपि वैशब्द एवकारार्थक एव । उपक्रमोपसंहारयोरेकवाक्यतायाः परमावश्यकत्वात। अत एव परमोपसंहारे उत्तरतापिन्यन्ते—
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥ [श्वे.उ. ६.११]
इति मन्त्रेणाद्वितीयत्वादिघटितदेवत्वादिबोधकेनैकादिपदघटितवाक्येनैव उपसंहारः । अतो जिज्ञासावाक्येऽपि परमपदेन स्वसमाधिकशून्यत्वेनैवोपक्रमः इति बोध्यम् । इति परमशब्दार्थविचारः ॥
अथ देवशब्दार्थो विचार्यते । एवं देवशब्दश्च यदन्यतोऽपि प्रयुक्तो यथासम्भवं स्वरूपतो धर्मतश्च दोषविनिर्मुक्तं विविधसद्गुणशक्त्यादियुक्तं नित्यं चेतनविशेषमेवार्थं गमयति । तदा उक्तार्थकपरमपदसमभिव्याहृतः प्रश्णान्तरसमभिव्याहृतश्च देवशब्दः स्वभावत एव ततो विशेषं प्रकरणोपयुक्तं चेतनविशेषं बोधयेदेवेति निर्विवादसिद्धम् । एवं चात्र देवशब्दः अनादिसिद्धनिजस्वरूपमहिम्नैवानादित एवापास्ताविद्यास्मितारागद्वेषाभिनिवेशादिसमस्तदोषकदम्बं, अनादिस्वरूपसिद्धाशेषानन्तयावदात्मभाविकृतिकालातीतनिजस्वरूपात्मकगुणशक्तिस्वभावं नित्यनिरतिशयविविधक्रीडापरायणं सर्वातिशायिचेतनविशेषमेव बोधयति ।
अपि च, दिवुधात्वर्थ—विचारेणापि स एवार्थः प्रमीयते । तथा हि, दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु इति धातुपाठात्क्रीडादिदशविधेऽर्थे दिवुधातुः प्रयुज्यते । तेन निष्पन्नो देवशब्दवृत्तिसङ्कोचे कारणाभावात्फलतः सर्वानेव निर्दुष्टधात्वर्थान्गमयति । तत्रापि स्वसमानाभ्यधिकशून्यत्वार्थकपरमपदसमभिव्याहृतप्रश्नान्तरसममित्याहृतश्च देवशब्दः स्वसमानातिशयशून्यान्, अत एव निजस्वरूपमहिमातिरिक्तसाधननिरपेक्षान्, अत एवःअनादिसिद्धानेव ताडृशानर्थान्बोधयति ।
तथा च—दिव्यति क्रीडते इति देवः । तच्च क्रीडनमन्तरङ्गबहिरङ्गभेदेन द्विविधम् । तत्र अन्तरङ्गं प्रकृतिपरे परमे व्योम्नि निजार्धाङभूतया श्रीदेव्या, अन्यैश्च नित्यमुक्तैः साधनमुक्तैश्च सह । तथा च वक्ष्यति—कृष्णाय गोपीनाथाय [गो.ता. १.३६], रमामानसहंसाय [गो.ता. १.४१], वल्लवीवदनाम्भोजमालिने नृत्यशालिने [गो.ता. १.५२] इत्यादिना । अन्यत्र जितंतेस्तोत्रादौ—लोकं वैकुण्ठनामानमित्याद्युपक्रम्य, क्रीडन्तं रमया सार्धं लीलाभूमिषु केशवमित्यादिनेति ।
बहिरङ्गं तु विश्वसर्गादिलक्षणम् । तत्रान्तरङ्गरमणं विशेषतः निजस्वरूपनिजाधिदैवतरसात्मक एव । स च रसो रतिस्थायिकः सुखातिशय एव सर्वत्र पर्यवस्यति । प्रकृते तु परमपदसमभिव्याहारात्प्रश्नान्तरसमभिव्याहाराच्च निरतिशयं रसात्मकं सुखमेव गमयति । भगवतः शृङ्गाररसाधिदैवतत्वाच्छान्तरसाधिदैवत्तत्त्वाच्च सुतरां स्वरूपमपि—रसो वै सः रसं ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यत्कः प्राण्यात्यदेष आकाश आनन्दो न स्यात। एष ह्येवानन्दयति [तै.उ. २.७.१],
यतो वचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन ॥
इत्यादितैत्तरीयादिश्रुतिसिद्धं परमकाष्ठापन्नरसानन्दरूपं गमयति । स्वरूपस्य निरतिशयरसानन्दरूपत्वमन्तरा निरतिशयपरमानन्दस्वस्वरूपात्मकसाधनातिरिक्तसाधननिरपेक्षरसलीलासम्भवात। तदेव च ताद्र्शनिरतिशयरसानन्दलीलौपयिकं नित्यनिरतिशयस्वरूपात्मकं सर्वविधगुणशक्त्यादिमत्त्वं सर्वदोषवर्जितत्वं च गमयति ।
बहिरङ्गरमणमपि विश्वसर्गादिलक्षणं सर्वजगत्कर्तृत्वं गमयन्, तदविनाभावसिद्धं निरतिशयसर्वविधसाधर्म्यवत्त्वं गमयति । तथा च, प्रथमव्युत्पत्त्या देवशब्देन नित्यनिरतिशयानन्दलक्षणं सर्वैश्वर्यमयं निखिलजगज्जनिनिमित्तोपादानं वस्तुतत्त्वं सूचितम् ।
दीव्यति द्योतते इति देवः । द्युतिः प्रकाशः । सोऽपि च परमपदसमभिव्याहारमहिम्ना स्वरूपतो धर्मतश्च अविद्यापर्यन्तसर्वतमोविरुद्धस्वभावं निरतिशयचिद्रूपतत्त्वमेव गमयति । प्राकृते प्रकाशे सर्वातिशायिलक्षणस्य समभिव्याहृतपरमपदार्थत्वस्यासम्भवात।
एवं च व्युत्पत्तिद्वयेनोक्तं चिदानन्दस्वरूपत्वमन्यथानुपपत्त्याविनाभावेन च परमसत्यत्वलक्षणं सद्रूपत्वमपि गमयति । निजस्वरूपमहिमातिरिक्तसाधनान्तरनिरपेक्षस्वरूपात्मकविविधलीलामयत्वसूचनेन तदविनाभूतनित्यनिरतिशयस्वाभाविकस्वरूपात्मकानन्तकल्याणगुणशक्त्यादिकमपि सूचितमेवेत्युक्तमेव । इतरेऽपि विजिगीषादिधात्वर्था यथायथं तादृशस्वरूपगुणशक्त्यादिकमेव बोधयति । तथा हि—विजिगीषा सामर्थ्यसाध्यत्वात्तादृशसामर्थ्यवत्त्वम् । प्रशस्तगुणकथनरूपायाः स्तुतेः गुणातिशयसाध्यत्वात्तादृशगुणवत्त्वं मादनस्य सर्वातिशायिसौन्दर्यमाधुर्यादिगुणसाध्यत्वात्तादृशसौन्दर्यादिधर्मवत्त्वमानन्दोद्रेकरूपमोदस्यानन्दरूपत्वात्तादृशानन्दरूपत्वं च सुतरामुक्तं भवति । तत्रापि परमपदसमभिव्याहारात्तेषां सर्वेषां निरतिशयत्वमेव बोधितं भवति । एवमन्येऽपि दिवुधात्वर्थात्तत्रोहनीयाः । तथा रूढिविचारेण योगार्थविचारेण चात्र अनादिसिद्धनिजस्वभावापास्तसमस्तहेयसम्बन्धः नित्यनिरतिशयकल्याणमयानन्तयावदात्मभाविगुणशक्तिस्वभावाः । नित्यनिरतिशयानन्तविविधक्रीडामयः, नित्यनिरतिशयसच्चिदानन्दस्वरूपः पुरुषविशेषः परमपदसमभिव्याहृतप्रश्नानन्तरसमभिव्याहृतदेवशब्दार्थः । एतादृशार्थमादायैव वेदान्तेषु देवशब्दः प्रयुज्यते, न तु यज्ञादौ त्यागोद्देश्यत्वादिरूपदेवत्वादिमात्राभिप्रायेण । स एव चार्थोऽत्र प्रथमजिज्ञासाविषयः ।
एवमेव वेदान्तरत्नमञ्जुषायां पुरुषोत्तमाचार्यपादैरपि देवशब्दार्थो व्याख्यातः । तथा हि—
देवशब्दार्थमाह—ब्रह्मेति स्वरूपगुणशक्त्यादिभिर्निरतिशयबृहद्वस्तु ब्रह्मशब्दाभिधेयमित्युक्तं पुरस्तात। तदेव देवपदेनाभिधीयते ।
तथा हि, (१) दीव्यति क्रीडति विश्वसर्गादिभिरिति देवः । ओं नमो विश्वरूपाय विश्वस्थित्यन्तहेतवे इति मन्त्रवर्णात। अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [गीता १०.८] इति भगवद्वचनाच्च ।
(२) विजिगीषतेऽसुरानिति देवः । कंसवंशविनाशाय केशिचाणूरघातिने [गो.ता.उ. १.३८] इति मन्त्रवर्णात्, संरक्षणाय साधूनां विनाशाय च दुष्कृतां [गीता ४.६] इति वाक्याच्च ।
(३) सर्वभूतेष्वन्तर्यामितया व्यवहरतीति देवः । य आत्मानमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः [बृ.आ.उ. ३.७], सर्वस्य चाहं हृदि सन्निविष्ट [गीता १५.१५] इति ।
(४) द्योतते इति देवः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ।
येन सूर्यस्तपति तेजसेद्धः [क.उ. २.२.१५] इत्यादिश्रुतेः ।
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकं [गीता १५.१२] इति स्मृतेश्च ।
(५) स्तूयते ब्रह्मादिभिरिति देवः । तमेकं गोविन्दं सच्चिदानन्दविग्रहं वृन्दावनसुरभूरुहतलासीनं सततं मरुद्गणोऽहं परमया स्तुत्या स्तोषयामि [गो.ता.उ. १.३३] इति श्रुतेः । स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः [गीता ११.२१] इति स्मृतेश्च ।
(६) सर्वत्र गच्छतीति देवः । यः सर्वज्ञः स सर्ववित्[मु.उ. १.१.९] ।
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ [गीता ७.२६]
अनेजदेकं मनसो जवीयः [ई.उ. ९], मया ततमिदं सर्वं जगदव्यक्तमूर्तिना [गीता ९.४] इति । एको वशी सर्वगः कृष्ण ईड्यः [गो.ता.उ. १.१९] इति ।
(७) मोदते वेति देवः । एष ह्येवानन्दयति [तै.उ. २.५.१] इत्यादिनिर्वचनेभ्यो देवशब्दो ब्रह्मवाचक इति ग्रन्थेन इति ।
एवमेव प्रपन्नसुरतमञ्जर्यां श्रीसुन्दरभट्टाचार्यचरणैरपि देवशब्दार्थो व्याख्यातः । तथा तत्रत्यग्रन्थसन्दर्भः—
सर्वज्ञः सर्ववशी विश्वात्मा विश्वप्रकाशको विश्वनियन्ता विश्वसर्गादिहेतुः सर्वजेता ब्रह्मादि सर्वदेवस्तुत्यः स्वरूपानन्दमुदितः स्वाश्रितमोददाता सत्यकामो भगवान्वासुदेवः श्रीनिवासो देवशब्दार्थः । दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु इत्यादिधातुपाठात। तथा हि—
(१) दीव्यति क्रीडति विश्वसर्गादिभिरिति देवः । कंसवंशविनाशाय केशिचाणूरघातिने [गो.ता.उ. १.३८] इति मन्त्रवर्णात।
(२) दिव्यते स्तूयते इति देवः । यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवादिनश्च [], वृषभध्वजवन्द्याय [गो.ता.उ. १.३८] इत्यादिश्रुतेः ।
(३) गच्छतीति देवः । गत्यर्थस्त्रिविधः, ज्ञानगमनप्राप्तिभेदात। तत्र सर्वं गच्छति गमनं करोतीति देवः । अनेजदेकं मनसो जवीय [ई.उ. ९] इति श्रुतेः । विश्वं गच्छतीति प्राप्नोतीति वा देवः । एष सर्वभूतान्तरात्मा इत्यादिश्रुतेः ।
(४) विश्वं दीव्यति द्योतते इति देवः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति । येन सूर्यस्तपति तेजसेद्धः [क.उ. २.२.१५] इत्यादिश्रुतेः ।
(५) सर्वस्मिंस्तदन्तर्यामितया व्यवहरतीति देवः । अन्तःप्रविष्टः शास्ता जनानां, दिव्यो देव एको नारायणः इति श्रुतेरिति सङ्क्षेपार्थ इत्यन्तेन इति ।
एतावान्परं विशेषः । यदत्र देवो मुक्तिप्रदो हरिरित्यनेन विशेषस्य निर्णीतत्वात्श्रीनिवासो भगवान्वासुदेव इति विशेषनिर्धारणमपि दर्शितम् । प्रकृते तु, कः परमो देवः इति विशेषस्य जिज्ञास्यत्वान्न श्रीनिवासवासुदेवादिपदवाच्यत्वेन विशेषनिर्धारणमिति न प्रश्नस्याविशेषत्वहानिरिति ध्येयम् ।
तथा च, स्वरूपतो धर्मतश्च परे ब्रह्मणि जिज्ञासिते स्वरूपतो धर्मतश्च ब्रह्मनिरूपकाणां वेदान्तवाक्यानां—सत्यं ज्ञानमनन्तं ब्रह्म [तै.उ. २.१.३], विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं [बृ.आ.उ. ३.९.२८], यत्तददृश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं [मु.उ. ३.१.६], अस्थूलमनणु [बृ.आ.उ. ३.८.८], आनन्दं ब्रह्मणो विद्वान्[तै.उ. २.४.१], एष आत्मा अपहतपाप्मा [छा.उ. ८.१.५], सत्यकामः सत्यसङ्कल्पः सर्वकामः सर्वगन्धः [छा.उ. ८.७.१], यः सर्वज्ञः सर्ववित्[मु.उ. १.१.९],
आत्मैवेदमग्र आसीत्[बृ.आ.उ. १.४.१७], वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा… आत्मानमेव प्रियमुपासीत [बृ.आ.उ. १.४.८], स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु, य एषोऽन्तर्हृदय आकाशस्तस्मिञ् छेते… एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यते… [बृ.आ.उ. ४.४.२२], एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान्[बृ.आ.उ. ४.४.२३], स वा एष महानज आत्माऽअन्नादो वसुदानो विन्दते वसु य एवं वेद [बृ.आ.उ. ४.४.२५], स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघनः [बृ.आ.उ. ४.५.१३], स एष नेति नेत्यात्मागृह्यो न हि गृह्यते । [बृ.आ.उ. ४.५.१५] ।
भूमैव सुखं नाल्पे सुखमस्ति [छा.उ. ७.२३.१], अपाणिपादो जवनो ग्रहीता [श्वे.उ. ३.१९], परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च [श्वे.उ. ६.८], इत्यादीनामवतारिकायामुदाहृतानां,
केनेषितं पतति प्रेषितं मनः
केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति
चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ [के.उ. १.१]
इत्यादि देवपदघटितानां चैकत्र यस्मिन्नर्थे समन्वयः स पदार्थः कः इति जिज्ञासितो भवति । तेषां समन्वयं विना निरुक्तलक्षणपरमदेवत्वस्य निर्धारणासम्भवात। अतस्तेषां वेदान्तवाक्यानां पूर्वतापिन्यामुत्तरतापिन्यां च समन्वयं दर्शयिष्यतीत्युत्तरत्र क्रमशो दर्शयिष्यामि च ॥
ननु निदर्शितरूढिप्रकारेण योगप्रकारेण वा प्रकृते देवपदार्थपरिग्रहे मतान्तररीत्या देवपदार्थस्य सगुणसोपाधिब्रह्मविषयकत्वमेवायाति । उपहितब्रह्मण एव मतान्तरे तादृशगुणशक्त्यादिमत्त्वात। तथा चैतज्जिज्ञासाया उपहितब्रह्मविषयकत्वे निरुपधिब्रह्मविषयकत्वे वा तात्पर्यमिति चेतुच्यते—न ह्यत्र जिज्ञासायाः सोपहितब्रह्मविषयकत्वे निरुपधिब्रह्मविषयकत्वे वा तात्पर्यम्, अपि तु सगुणवाक्यानां निर्गुणवाक्यानां च सर्वेषां वेदान्तानां यत्र समन्वयः स पदार्थः कः इत्येव तात्पर्यम् । एवमेव वस्तुतत्त्वनिर्धारो भवितुमर्हति, न तु विशिष्य सगुणजिज्ञासया निर्गुणजिज्ञासया वा । सर्वे वेदा यत्पदमामनन्ति [क.उ. १.२.१५] इति श्रुतेः । वेदैश्च सर्वैरहमेव वेद्यः [गीता १५.१५] इति स्मृतेश्च समस्तवेदान्तप्रतिपाद्यं यद्वस्तु तदेव परमं तत्त्वं, न तु केवलं निर्गुणवाक्यप्रतिपाद्यं सगुणवाक्यप्रतिपाद्यं वा । मया देवशब्दार्थस्तथैव व्याख्यातो यथा सोऽर्थो निर्गुणवाक्यरूपाणां सगुणवाक्यरूपाणां च सर्वेषां वेदान्तानां विषयो भवति । युक्तं चैतत्—
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥ [श्वे.उ. ६.११]
तमीश्वराणां परमं महेश्वरं
तं देवतानां परमं च दैवतम् ।
पतिं पतीनां परमं परस्ताद्
विदाम देवं भुवनेशमीड्यम् ॥ [श्वे.उ. ६.७]
इत्याद्युदाहृतश्रुतिषु देवशब्दस्य सगुणनिर्गुणोभयप्रतिपादकशब्दसामानाधिकरण्येनैव श्रुतत्वेन विशेषाभावात।
एवं च यद्यपि सर्वेषामेव वेदान्तवाक्यानां समन्वयोऽर्थतोऽस्यामेव जिज्ञासायामन्तर्भूतः, तथापि मुक्तिवाक्यानां कारणवाक्यानां संसृत्यवान्तरहेतुवाक्यानां च तथा तद्बोधितानां मोचकत्वनिखिलजगदभिन्ननिमित्तोपादानत्वसंसृतिहेतुत्वादीनां च पूर्वोक्तस्वरूपप्रतिपादकधर्मप्रतिपादकवाक्यानामिव स्फुटं स्वरूपानुबन्धित्वाभावात्तन्निरूपणमन्तरापि परमदेवस्वरूपनिरूपणसम्भवात्स्वातन्त्र्येण स्वशब्दवाच्यत्वेन च स्वरूपवाक्यानां धर्मवाक्यानां च समन्वयाय क्रमेण त्रयः प्रश्नाः—
-
कुतो मृत्युर्बिभेति ?
-
कस्य विज्ञानेनाखिलं विज्ञातं भवति ?
-
केनेदं विश्वं संसरति ? इति बोध्यम् ।
तत्र प्रथमेन मुक्तिहेतुत्वबोधकानां पूर्वोक्तानां, तमेव विदित्वातिमृत्युमेति [श्वे.उ. ३.८], मृत्युर्धावति पञ्चमः इत्यादिवेदान्तवाक्यानां तत्प्रतिपाद्यमुक्तिहेतुत्वस्य चैकत्र समन्वयो जिज्ञासितः ।
द्वितीयेन कारणवाक्यानां निखिलजगदभिन्ननिमित्तोपादानत्वबोधकानां पूर्वपठितानां, सदेव सोम्येदमग्र आसीतेकमेवाद्वितीयं [छा.उ. ६.२.१], सन्मूलाः सोम्येमाः प्रजाः सदायतनाः सत्प्रतिष्ठानाः [छा.उ. ६.८.६], ऐतदात्म्यमिदं सर्वं [छा.उ. १.८.७], तथाक्षराद्विविधाह्सौम्य भावाः प्रज्ञन्ते तत्र चैवापि यन्ति, तथाक्षरात्सम्भवतीह विश्वं [मु.उ. १.१.७], पुरुष एवेदं सर्वं, यतो वा इमानि भूतानि जायन्ते [तै.उ. ३.१] इत्यादिवाक्यानामेकत्र समन्वयो जिज्ञासितः ।
तृतीयेन संसृत्यवान्तरहेतुभूतानां मायादिप्रतिपादकवेदान्तवाक्यानां समन्वयो जिज्ञासितः । इति चतुर्धा वर्गीकृत्य सर्वेषामेव वेदान्तवाक्यानामेकत्र समन्वयो जिज्ञासितो भवति इति न किञ्चिदवशिष्यते । तदेवं सर्वेषां वेदान्तवाक्यानां यस्मिन्नेकस्मिन्नर्थे समन्वयः स एव सर्वे वेदा यत्पदमामनन्ति [क.उ. १.२.१५] इति श्रुत्युक्तलक्षणः समग्रवेदान्तानां परमार्थभूतो न ततोऽधिकं किञ्चिदवशिष्यते इति प्रश्नकृतां तात्पर्यमिति भावः ॥
—ओ)०(ओ—
अथ प्रतिवचनम्—
तदु होवाच ब्राह्मणः । कृष्णो वै परमं दैवतम् ।
गोविन्दान्मृत्युर्बिभेति । गोपीजनवल्लभज्ञानेन तज्ज्ञानं भवति । स्वाहयेदं संसरतीति ।
तत्तदनन्तरं प्रश्नचतुष्टयश्रवणानन्तरम्, सर्वेषां वेदान्तानामेकत्र समन्वयं समीक्ष्य । ह स्फुटम् । उवाच तेषां प्रश्नानां क्रमेणोत्तरचतुष्टयमुवाच ब्राह्मणः ब्रह्मतत्त्वदर्शी हिरण्यगर्भ इत्यर्थः । य एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः [बृ.आ.उ. ३.८.१०], विष्णुक्रान्तं वासुदेवं विजानन्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी [शा.उ.], यो ब्रह्माणं विदधाति पूर्वं यो वै विद्याश्च तस्मै गोपायति स्म कृष्णः [गो.ता.उ. १.२२] इत्यादिश्रुतेः ।
कृष्णो वै परमं दैवतमिति । अत्र वैशब्द एवकारार्थकः । तस्मात्कृष्ण एव परमो देवः [गो.ता.उ. १.५०] इत्युपसंहारेणैकवाक्यत्वात। उपक्रमोपसंहारयोरेकवाक्यत्वस्य परमावश्यकत्वात। तथा चात्र वै इत्यव्ययस्यान्ययोगव्यवच्छेद एवार्थः । परमशब्दो दैवतशब्दश्च निरुक्तार्थकावेव । तथा च कृष्ण एव पूर्वोक्तलक्षणस्वसमानाभ्यधिकशून्यो देवो नान्यः कश्चिदिति निर्धारणगर्भितः प्रथमवाक्यार्थः । एवमुत्तरवाक्यान्तरेष्वपि बोध्यम् । वैशब्दस्य समानन्यायेन उत्तरचतुष्टयेऽन्वये तात्पर्यप्रतीतेः । देहलीदीपन्यायोऽत्रानुसन्धेयः । तथा च कृष्ण एव परमो देवः ।
गोविन्दादेव मृत्युर्बिभेति । गोपीजनवल्लभविज्ञानेन एव अखिलं विज्ञातं भवति । स्वाहैवेदं विश्वं संसरति । इत्युत्तरवाक्यचतुष्टयार्थः । यथा च गोपीजनवल्लभविज्ञानेनाखिलविज्ञानं तथाग्रे गोपीजनाविद्याकलाप्रेरकः इति व्याख्यानावसरे व्यक्तीभविष्यतीति ॥
—ओ)०(ओ—
तदु होचुः । कः कृष्णः । गोविन्दश्च कोऽसाविति ।
गोपीजनवल्लभः कः । का स्वाहेति ॥
ननु प्रश्नचतुष्टयेन सर्वेषां वेदान्तानामेकत्र समन्वयो जिज्ञासितः । भवद्भिस्तु कृष्णादिचतुष्टये तानि समन्वीयन्ते । तर्हि किं वेदान्तवाक्यान्यनेकनिष्ठान्येव नैकनिष्ठानि । तर्हि—सर्वे वेदा यत्पदमामनन्ति [क.उ. १.२.१५], एकमेवाद्वितीयं [छा.उ.] इत्यादिश्रुतीनां का गतिः । सर्ववेदवेद्यैकाद्वितीयतत्त्वाभावात। उत प्रवृत्तिनिमित्तभेदेन नाममात्रं भिद्यते धर्मितत्त्वं तु नामचतुष्टयप्रतिपाद्यमेकमेवाद्वितीयम् । तथापि नामचतुष्टयेन वस्तुप्रतिपादने किं प्रयोजनं ? किं च, कथं कृष्णः परमो देवः कथं च गोविन्दान्मृत्युर्बिभेति कथं च गोपीजनवल्लभविज्ञानेनाखिलं विज्ञातं भवति इत्यप्युपपादनीयमित्यादिकं हृदि निधाय प्रतिवचनपरिशुद्धये मुनयः पप्रच्छुः—कः कृष्ण इत्यादि ।
(५)
तानुवाच ब्राह्मणः—
पापकर्षणो गोभूमिवेदविदितो विदिता
गोपीजनविद्याकलाप्रेरकः ॥
प्रवृत्तिनिमित्तभेदेन नाममात्रं भिद्यते प्रतिपाद्यं धर्मितत्त्वं त्वेकमेव नामभेदेनोत्तरचतुष्टयप्रदानं प्रतिपाद्यतत्त्वपरिशुद्धय एवेत्यभिप्रायेण तत्तन्नामधेयानामंशतः प्रवृत्तिनिमित्तानि कथयन्नुत्तरमाह—पापकर्षणः इत्यादि । इह निखिलहेयतत्त्वं पापशब्देनोच्यते । हेयतत्त्वमात्रस्यैव पतनहेतुत्वेन दुःखहेतुत्वेन च पापपातकादिपदवाच्यत्वात्, वृत्तिसङ्कोचे कारणाभावात। निरुक्तलक्षणपरमदेवत्वप्रत्यनीकधर्ममात्रस्यैवात्र पापशब्देन ग्रहितुमुचितत्वाच्च ।
तथा च, निरुक्तलक्षणदेवत्वप्रत्यनीकभूताः—अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्चक्लेशाः [यो.सू. २.३] इति योगसूत्रोक्ताः पञ्चक्लेशाः । तन्मूलका असर्वज्ञत्वासत्यकामत्वासत्यसङ्कल्पत्वासमर्थत्वादयो निरनुकोशत्वनिष्ठुरत्वादयोऽसत्यत्वजडत्वदुःखत्वादयः, सातिशयत्वास्वतन्त्रत्वानीश्वरत्वादयश्च दोषा यथायथं नाभ्यधिकशून्यत्वस्वतन्त्रत्वसर्वेश्वरत्वादिप्रत्यनीकभूताः प्रकृते पापशब्देनोच्यन्ते । तेषां कर्षणः, तेषां साक्षाद्विरुद्धस्वभावतया तमसः सूर्यप्रकाश इव साधनान्तरमनपेक्ष्यैव निजस्वरूपमहिम्नैव स्वतोऽस्पृष्टस्वभावः भक्तानां तन्निराशकश्चेत्यर्थः । एतेन कृष्णपदवाच्यत्वेनैव प्रकृते परमदेवत्वाभिधाने बीजमपि सूचितम् । नहि पापतत्फलयुक्तो देवो भवति सुतरां परमदेवैत्यप्यनुसन्धेयम् । अत्र कृषिर्भूवाचकः शब्द इति मन्त्रव्याख्याने पूर्वमुक्ताः सर्वाः सखण्डाखण्डव्युत्पत्तयस्तात्पर्येणान्तर्भूताः ।
तथा हि, पापकर्षणः इत्यस्य निजानादिसिद्धस्वरूपमहिम्नैव स्वतोविरुद्धस्वभावतया साधनान्तरमनपेक्ष्यैवाविद्यास्मितादिपापानां विनाशकतया तैरस्पृष्टस्वभावत्वमेवार्थः । तच्चाविद्यादिसर्वदोषविरुद्धस्वभावं निजानादिसिद्धस्वरूपमाहात्म्यमपहतपाप्मात्वादियुक्तसच्चिदानन्दत्वसर्वात्मत्वसर्वादित्वसर्वज्ञत्वसर्वशक्तिमत्त्वसत्यसङ्कल्पत्वसर्वकारणत्वादिकमेव ।
एवं च पूर्वनिरुक्तार्थानां सर्वेषामत्रैवान्तर्भावात्तादृशसर्वविधव्युत्पत्तीनामप्यन्तर्भावः सुवच एवेति । श्रीकृष्णस्य सर्वदोषविरुद्धस्वभावस्वरूपधर्मादिकमिह—एको वशी सर्वगः कृष्णः [गो.ता.उ. १.१९], नित्यो नित्यानां, ततो विशुद्धं विमलं विशोकम्, नमो विज्ञानरूपाय परमानन्दरूपिणे [गो.ता.उ. १.२०] इत्यादिवाक्यैः सङ्क्षेपतो दर्शयिष्यति वेशेषतस्तु प्रकरणविभागेन उत्तरतापिन्यां—साक्षात्प्रकृतिपरोऽयमात्मा गोपालः [गो.ता.उ. २.२१], जाग्रत्स्वप्नसुषुप्तिमतीत्य तुर्यातीतो गोपालः [गो.ता.उ. २.९२],
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥ [गो.ता.उ. २.९३] इत्यादौ सोपपत्तिकं निरूपयिष्यते ।
इह तु सूत्रमात्रमुक्तमिति नात्र शाङ्कावसर इति ।
अथ गोविन्दपदार्थविचारः—गोभूमिवेदविदितो विदिता च इति । अत्र योऽसौ सूर्ये तिष्ठति, योऽसौ गाः पालयति, योऽसौ सर्वेषु गोपेषु तिष्ठति, योऽसौ सर्वेषु वेदेषु तिष्ठति, योऽसौ सर्ववेदैर्गीयते, योऽसौ सर्वेषु भूतेष्वाविश्य भूतानि विदधाति [गो.ता.उ. २.२०] इत्युत्तरतापिन्यां वक्ष्यमाणाः श्रुतयोऽनुसन्धेयाः ।
स्वर्गेषुपशुवाग्वज्रदिग्नेत्रघृणिभूतले लक्ष्यदृश्यास्त्रियां पुंसि गौः इति नैर्घण्टुकोक्तेः । गोविन्दवदघटकगोशब्देन सर्व एते सूर्यादयोऽर्थाः सङ्गृहीता भवन्ति ।
तथा च गोभूमिवेदविदितः इत्यत्र भूमिवेदातिरिक्ता उत्तरतापिन्युक्ता सर्वे सूर्यादयोऽर्था गोशब्देन क्रोडीकृता वेदितव्याः । गोभूमिवेदशब्दाश्च पञ्चविंशतेरपि तत्त्वानां समष्टिव्यष्टिभूतानामुपलक्षकः । तथा च तेष्वन्तर्यामितया प्रकाशकतया च विदितः वेदवाक्यैर्ज्ञात इति । विदिता इति तत्तदात्मतया साक्षित्वेन तेषु तेषु विद्यमानतया विदिता ज्ञाता च यतोऽतः स एव परमो देवः ।
कृष्णो गोविन्दशब्देनाप्युच्यत इति भावः । शब्दवानाकाशः । शब्दाकाशाभ्यां भिन्नः ।
तस्मिन्नाकाशे तिष्ठति । स ह्याकाशस्तं न वेद । स ह्यात्माऽहं कथं भोक्ता भवामि [गो.ता.उ. २.१०], द्वा सुपर्णौ भवतो ब्रह्मणोऽंशभूतस्तथेतरो भोक्ता भवति । अन्यो हि साक्षी भवतीति [गो.ता.उ. २.१७], योऽसौ सूर्ये तिष्ठति [गो.ता.उ. २.२०] इत्याद्युत्तरतापिनीवाक्यानुसन्धानेन, सुबालबृहदारण्यकाद्युक्तान्तर्यामिवाक्यानां जडचेतनात्मकनिखिलप्रपञ्चस्य भगवन्नियम्यत्वनिरूपकाणां—यस्य पृथिवी शरीरं यः पृथिवीमन्तरे सञ्चरन्यं पृथिवी न वेद । यस्यापः शरीरं… यस्य तेजः… यस्य वायुः… यस्याकाशः… यस्य मनः… यस्य बुद्धिः… यस्याहङ्कारः… यस्य चित्तं… यस्याव्यक्तं… यस्याक्षरं… यस्य मृत्युः शरीरं यो मृत्युमन्तरे सञ्चरन्यं मृत्युर्न वेद, एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः [सुबाल.उ. ६], यः पृथिव्यां तिष्ठन्, पृथिव्या अन्तरो यं पृथिवी न वेद, यस्य पृथिवी शरीरं, यः पृथिवीमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः [बृ.आ.उ. ३.७.३], नान्योऽतोऽस्ति द्रष्टा, नान्योऽतोऽस्ति श्रोता, नान्योऽतोऽस्ति मन्ता, नान्योऽतोऽस्ति विज्ञातैव, त आत्मान्तर्याम्यमृतः [बृ.आ.उ. ३.७.२३] ।
तथा,
भीषास्माद्वातः पवते भीषोदेति सूर्यः ।
भीषास्मादग्निश्चन्द्रश्च मृत्युर्धावति पञ्चमः ॥ [तै.उ. २.८.१] ।
यस्य ब्रह्म क्षत्रं चोभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ [क.उ. १.३.२०]
इत्यादिवाक्यानामनुसन्धानेन च पृथिव्यादिमृत्युपर्यन्तानामचेतनानां चेतनानां च भगवदायत्तस्थितिप्रवृत्तिकत्वं सुज्ञातं भवति । तथा च वस्तुतो भगवानेव संसारबन्धस्थितिमोक्षहेतुः, यदज्ञानादेव जीवाः संसारिणो भवन्ति । भगवदधिष्ठित एव मृत्युर्देहिनं ग्रसति । न हि केवलाविद्या मृत्युश्च जीवान्व्यामोहयितुं मारयितुं वा शक्त इति । एतेन सर्वाण्येवान्तर्यामिवाक्यानि साक्ष्यादिवाक्यानि च—सर्वे वेदा यत्पदमामनन्ति [क.उ. १.२.१५], तं त्वौपनिषदं पुरुषं पृच्छामि [बृ.आ.उ. ३.९.२६] इत्यादिसर्ववेदवेद्यत्वप्रतिपादकानि वाक्यानि विभिन्नोपनिषत्पठितान्येतन्निष्ठान्येवेत्यपि सूचितम् ।
गोभूमिवेदविदितो विदिता च इति कर्मप्रत्यायान्तकर्तृप्रत्ययान्तार्थद्वयनिर्देशेन गोविन्दपदे कर्मप्रत्ययान्तं कर्तृप्रत्ययान्तं च व्युत्पत्तिद्वयं सूचितम् । तत्रोभयत्र नुमागमश्छान्दसः ।
अथवा, विदिर्लाभे इति धातुरेवात्र विद्ज्ञाने इति धात्वर्थे प्रयुक्तः, धातूनामनेकार्थत्वातिति बोध्यम् । सर्ववेदवेद्यत्वं सर्ववेदवेत्तृत्वं चोभयमपि भगवतः शास्त्रसिद्धं—सर्वे वेदा यत्पदमामनन्ति [क.उ. १.२.१५], तं त्वौपनिषदं पुरुषं पृच्छामि [बृ.आ.उ. ३.९.२६], वेदांश्च प्रहिणोति [श्वे.उ. ६.१८], वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहं [गीता १५.१५] इति शास्त्रवाक्येभ्यः ।
निरुक्तमृत्युपर्यन्तसर्वान्तर्यामिलक्षणगोविन्दपदप्रवृत्तिनिमित्तनिरूपणेन, गोविन्दपदवाच्यत्वेनैव मृत्युनिष्ठभयहेत्वभिधाने बीजमप्युक्तं भवति । तथा हि—सर्वेषां कार्याणां भगवदायत्तप्रवृत्तिस्थितिकत्वात्मृत्योरपि स्वतो निःशक्तित्वमस्वतन्त्रत्वं च । दर्शितं चैतत्केनोपनिषदि देवयज्ञप्रसङ्गे यद्भगवदिच्छामन्तरा तृणमपि दाहयितुं चालयितुं वाग्निवायू अपि न समर्थौ बभूवतुरिति । अत एव गीतायं—
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥
गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ।
अहं वैश्वानरो भूत्वा पचाम्यन्नं चतुर्विधम् ॥
सर्वस्य चाहं हृदि सन्निविष्टो
मत्तो स्मृतिर्ज्ञानमपोहनं च । [गीता १५.१३१५] इत्यादिभगवद्वाक्यानि ।
तथा च मोचयितापि स एव—संसारमोक्षस्थितिबन्धहेतुः [श्वे.उ. ६.१६], तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय [श्वे.उ. ३.८], यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वां [क.उ. १.२.२३] इत्यादिश्रुत्यन्तरेभ्यश्चेति ।
तथा च, यदा सर्वं विहाय तमेव सर्वभावेन शरणं गच्छन्ति, तदा तेन प्रसन्नो भगवान्स्वात्मप्रकाशनेन सर्वबन्धात्प्रमोक्ष्य स्वात्मभावं सम्पादयति । तदैव मृत्युतो निर्भयो भवन्ति, नान्यथेति भावः । तथा चाग्रे वक्ष्यति—
यो ब्रह्माणं विदधाति पूर्वं
यो वै विद्यास्तस्मै गोपायति स्म कृष्णः ।
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणं व्रजेत ॥ [गो.ता.उ. १.२२] इति ॥
स्वप्रपत्त्यैव प्रसन्नो भगवान्स्वरूपं दर्शयति इत्यभिप्रायेणाह—
ओंकारेणान्तरितं ये जपन्ति
गोविन्दस्य पञ्चपदं मनुम् ।
तेषामसौ दर्शयेदात्मरूपं
तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्त्यै ॥ [गो.ता.उ. १.२३]
एष पञ्चपदमन्त्रः प्रपत्तिगमक एवेत्यग्र एतन्मन्त्रव्याख्यानावसरे दर्शयिष्यामि । भगवच्छरणमन्तरा न निस्तार इत्याह—
एको वशी सर्वगः कृष्ण ईड्य
एकोऽपि सन्बहुधा यो विभाति ।
तं पीठगं येऽनुयजन्ति धीरास्
तेषां सुखं शाश्वतं नेतरेषाम् ॥ [गो.ता.उ. १.१९]
नित्यो नित्यानां [गो.ता.उ. १.२०] इति । ये तु सर्वभावेन प्रपन्नास्तेषामवश्यं भावीत्यभिप्रायेणाह—
एतद्धि विष्णोः परमं पदं ये
नित्योद्युक्ताः संयजन्ते न कामान।
तेषामसौ गोपरूपः प्रयत्नात्
प्रकाशयेदात्मपदं तदैव ॥ [गो.ता.उ. १.२१] इति ।
सर्वभावश्चात्र शरणेऽङ्गभूतं ध्यानरसनभजनयजनादिकमेव—यो ध्यायति रसयति [गो.ता.उ. १.६] इत्यादिसमानप्रकरणोक्तं बोध्यम् । तच्चाग्रे शरणं व्रजेत [गो.ता.उ. १.२२] इति मन्त्रव्याख्यानावसरे विशेषतो निरूपयिष्यामि ।
भवन्ति चात्रान्यान्यपि श्रुतिस्मृतिवाक्यानि ।
यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै ।
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ [श्वे.उ. ६.१८]
अणोरणीयान्महतो महीयान्
आत्मा गुहायां निहितोऽस्य जन्तोः ।
तमक्रतुः पश्यति वीतशोको
धातुः प्रसादान्महिमानमीशम् ॥ [श्वे.उ. ३.२०]
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ [क.उ. १.२.२३]
यदा पश्यः पश्यते रुक्मवर्णं
कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान्पुण्यपापे विधूय
निरञ्जनः परमं साम्यमुपैति ॥ [मु.उ. ३.१.३]
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ [गीता ७.१४]
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ [गीता १८.६१६२]
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता १८.६५६६]
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ [गीता ११.५३५४]
बन्धको भवपाशेन भवपशाच्च मोचकः ।
कैवल्यदः परं ब्रह्म विष्णुरेव न संशयः ॥ [स्क.पु.]
भागवते एकादशे भगवदुक्तिः—
तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च ॥
मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।
याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः ॥ [भा.पु. ११.१२.१४१५]
हरिवंशे घण्टाकर्णं प्रति शिवोक्तिः—मुक्तिप्रदाता सर्वेषां विष्णुरेव न संशयः इत्यादि । तस्माद्भगवतः शरणगमने तत्प्रसादेन तद्दर्शनात्तत एव मुक्तिरिति भावः । विशेषस्तु, मुमुक्षुर्वै शरणं व्रजेत्[गो.ता.उ. १.२२] इत्यत्र दर्शयिष्यामि ।
एवं च भगवतो मृत्युनिवारकत्वलक्षणामृतत्वप्रापकत्वस्य सोपपत्तिकत्वसूचनायैव सूत्रभूतेन गोविन्दपदेनात्र भगवतो मृत्युभयहेतुत्वाभिधानमिति ध्येयम् । गोविन्दपदव्याख्यानमिषेणैव सर्वाण्येव पूर्वोक्तानि मुक्तिवाक्यानि परमदेवे कृष्णे समन्वितानि इत्यपि बोध्यम् ।
एवमेव गोविन्दपदार्थः श्रीसुन्दरभट्टपादैरपि रहस्यषोडशीव्याख्यायां गोविन्दाय इति मन्त्रावयवव्याख्यानावसरे व्याख्यातः—
गोविन्दायेति । गां वेदलक्षणां भारतीं स्वस्मिन्प्रमाणतया समन्वितां विन्दते इति गोविन्दः । वेद एवात्र प्रमाणमिति यावत। सर्वे वेदा यत्पदमामनन्ति [क.उ. १.२.१५], नामानि सर्वाणि यमाविशन्ति, तं त्वौपनिषदं पुरुषं पृच्छामि [बृ.आ.उ. ३.९.२६], नमो वेदान्तवेद्याय [गो.ता.उ. १.१],
वेदे रामायणे चैव पुराणे भारते तथा ।
आदावन्ते च मध्ये च हरिः सर्वत्र गीयते ॥
वेदैश्च सर्वैरहमेव वेद्यः [गीता १५.१५], शास्त्रयोनित्वात्[वे.सू. १.१.३] इत्यादिश्रुतिस्मृतिभ्यः ।
यद्वा, गोभूमिवेदविदित इत्यादिश्रुत्या गवि सूर्ये तत्प्रकाशकत्वेन तदन्तरात्मत्वेन वा विदित इति गोविन्दः । य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद [बृ.आ.उ. ३.७.९] इति श्रुतेः ।
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ [गीता १५.१२]
इति श्रीमुखोक्तेश्च । गवि भूमौ तदाधारशक्त्यात्मना विदित इति गोविन्दः । यः पृथिव्यां तिष्ठन्न्[बृ.आ.उ. ३.७.३] इति श्रुतेः । गामाविश्य च भूतानि धारयाम्यहमोजसा [गीता १५.१३] इति गानाच्च ।
गोषु वेदेषु तत्प्रतिपाद्यतया विदित इति गोविन्दः । वेदैश्च सर्वैरहमेव वेद्यः [गीता १५.१५] इति गानात। इत्याद्यन्या अपि श्रौतव्युत्पत्तयोऽत्रानुसन्धेया । योऽसौ सौर्ये तिष्ठति योऽसौ गोषु तिष्ठति योऽसौ गाः पालयति । योऽसौ गोपेषु तिष्ठति । योऽसौ सर्वेषु वेदेषु तिष्ठति । योऽसौ सर्ववेदैर्गीयते [गो.ता.उ. २.२२] इत्यादिश्रुतिः । ताः श्रुत्यादय एवात्र मानमित्यर्थः । इति गोविन्दपदार्थः । [मन्त्ररहस्यषोडशी ११] इति वृत्ता गोविन्दपदव्याख्या ।
अथ गोपीजनवल्लभपदव्याख्यानम् । गोपीजनाविद्याकलाप्रेरक इति । गोपी त्रिगुणात्मिका सकार्या प्रकृतिः । काश्च विष्णुपत्न्यो गोप्यो नाम । या आत्मना ब्रह्मानन्दैकरूपं कृष्णं धामाजयंस्ता जगत्सृष्टिस्थित्यन्तःकारिण्यः प्रकृतिमहदाद्यामहामायाः इति गोपीचन्दनोपनिषच्छ्रुतेः । गोपीं तु प्रकृतिं विद्यातिति गौतमीयतन्त्रोक्तेश्च । जनस्तया सम्पादितदेहादिसङ्घातो जीवसमूहः । गोप्या प्रकृत्या जन्यन्ते देहादिसङ्घातैरुत्पद्यन्ते इति व्युत्पत्तेः ।
तेषामविद्याकलाऽविद्यांशभूतं ज्ञानावरणं ययाऽऽवृतस्वाभाविकनिजचैतन्यो जीवः सर्वज्ञस्वभावोऽपि मौढ्यमापन्नो देहदैहिकातिरिक्तं किमपि न जानाति । सेयमविद्याकला व्याख्येयगोपीजनवल्लभपदे वल्लशब्देनोच्यते, वल्ल संवरणे इति धातुपाठात। संवरणं संवृत्तिकरणं चैतन्यावरणमिति यावत। वल्लभः तादृशाविद्याकलानां प्रेरकः । निरतिशयप्रकाशानन्दस्वरूपनिजसाक्षात्कारेण सर्वाविद्यापनोदक इत्यर्थः ।
एवमेव व्याख्यातं श्रीसुन्दरभट्टपादाचार्यैरपि—
गोपीत्यादि । गाः इन्द्रियाणि स्वस्वविषयेषु स्वीयत्वेन पातीति गोपी प्रकृतिः । तया जन्यन्ते, देहादिभिः संयुज्यन्ते इति गोपीजना जीवात्मानः । तेषु मुमुक्षूणां स्वप्रपन्नानां वल्लमज्ञानरूपावरणं, तस्माद्भातीति । तथा ल्यप्लोपे पञ्चमी । तेषां वल्लमज्ञानं ब्रह्मविद्यया पराकृत्य स्वपरत्वविषयकं ज्ञानं प्रकाशयतीति स गोपीजनवल्लभ [मन्त्ररहस्यषोडशी ११] इत्यन्तेन ग्रन्थेनेति ।
भा दीप्तौ इति धातुपाठात्वल्लभ इति व्याख्येयवाक्यघटकभशब्देनाज्ञानविरोधिस्वरूपसाक्षात्कारलक्षणज्ञानलाभ इत्यपि बोध्यम् । गोपीजनवल्लभपदव्याख्यामुखेनैव कथं गोपीजनवल्लभविज्ञानेनाखिलं विज्ञातं भवति ? इत्यपि जिज्ञासा समाहितेति ।
तेन एतदुक्तं भवति—भगवान्हि निजाज्ञापालनमिषेण तोषितो यदा निजस्वरूपं परिपूर्णतमं सर्वतोभावेनानुभावयति, तदा जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः [मु.उ. ३.१.२] इत्यादिश्रुत्यनुसारेण भगवत्साक्षात्कारेण सहैवानाद्यविद्यातिरोहितं निजस्वरूपमाहात्म्यं सर्वज्ञत्वसत्यसङ्कल्पत्वसत्यकामत्वापहतपाप्मत्वादिकं भगवत्स्वरूपसाक्षात्कारमहिम्नाविद्यावरणनाशे विस्मृतकण्ठमणिन्यायेन भगवदनुग्रहादाविर्भवति । सहैव च निखिलवस्तुतत्त्वं युगपदेवानुभवति । यथा श्रीभागवते प्रथमस्कन्धे—
भक्तियोगेन मनसि सम्यक्प्रणिहितेऽमले ।
अपश्यत्पुरुषं पूर्णं मायां च तदपाश्रयम् ॥
यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् ।
परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥ [भा.पु. १.७.४५]
इति श्रीव्यासेनानुभूतम् । एवं च न किञ्चिदपि ज्ञातव्यमवशिष्यते इति ॥
यद्वा, गोपीपदेन अन्तरङ्गा बहिरङ्गा तटस्था च—परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च [श्वे.उ. ६.८] ।
शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः ।
यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ।
भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥ [वि.पु. १.२.२]
इत्यादिश्रुतिस्मृत्युक्ताः सर्वाः शक्तयो विवक्षिताः । जनपदेन तेषां समूहः अविद्याकलापदेन आवरणशक्तिः । भगवत इच्छाशक्त्यन्तर्भूताः प्रापञ्चिकलीलानिर्वाहिका । तासां सर्वासां शक्तीनामनन्याश्रयोऽनन्याधिपतिश्च श्रीभगवानेव । तेनैव स गोपीजनवल्लभशब्देनोच्यते इति । एवं च तादृशसर्वशक्तिविशिष्टस्यैव भगवतस्तत्त्वतोऽनुभवे न किञ्चिदपि ज्ञातव्यमवशिष्यते । यथा—अपश्यत्पुरुषं पूर्णं मायां च तदपाश्रयमित्यत्र व्यासेनानुभूतम् । सर्वेषामेव प्रापञ्चिकाप्रापञ्चिकवस्तुतत्त्वानां भगवतस्तत्तच्छक्तिविक्षेपरूपत्वेन तादृशभगवत्स्वरूपकुक्षिनिविष्टत्वात॥
एतदुक्तं भवति—परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च [श्वे.उ. ६.८] इत्यादिश्रुतिसिद्धा भगवच्छक्तयः सामान्यतस्त्रिधा, अन्तरङ्गबहिरङ्गतटस्थभेदात।
विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ।
अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ [वि.पु. ६.७.६१] इति विष्णुपुराणोक्तेः ।
तत्र या सच्चिदानन्दरूपस्य श्रीभगवतः स्वरूपशक्तिः सा अन्तरङ्गा इत्युच्यते, स्वरूपानुबन्धित्वात। सा ह्लादिनीसन्धिनीसंविद्भेदात्त्रिविधा । एवं हि शक्तयस्त्वनेकधा, ह्लादिनीसन्धिनीज्ञानेच्छाक्रियाया बहुविधाः शक्तयः इति राधोपनिषच्छ्रुतेः ।
ह्लादिनी सन्धिनी संवित्त्वय्येका सर्वसंश्रये ।
ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ [वि.पु. १.१२.६९] इति विष्णुपुराणोक्तेश्च ।
तदेतत्सोपपन्नमुपपादितं मया युग्मतत्त्वसमीक्षायामिति तत एवालोचनीयम् ।
बहिरङ्गा जगत्कारणभूता त्रिगुणमयी मायाशक्तिः । सा इच्छाशक्त्यन्तर्भूता । माया सत्त्वरजस्तमोमयी जगत्कारणभूता सैवाविद्यारूपेण जीवबन्धनहेतुभूता इति राधोपनिषच्छ्रुतेः ।
अजामेकां लोहितशुक्लकृष्णां
बह्वीः प्रजाः सृजमानां सरूपाः [श्वे.उ. ४.५] इति श्रुतेश्च ।
सैषा बटबीजसामान्यवदनेकबटबीजशक्तिः इत्यादि नृसिंहतापिनीश्रुतेश्च ।
एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा ।
परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत॥ [वि.पु. १.२२.५६] इति विष्णुपुराणोक्तेः ।
प्रकृतिपुरुषं चैव विद्ध्यनादी उभावपि [गीता १३.१९] इति गीतोक्तेश्च ।
तटस्था शक्तिर्जीवनिकायः ।
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत॥ [गीता ७.५]
इति गीतादौ प्रकृतित्वकथनेन भगवच्छक्तित्वोपगमात। तस्य संसारदशायां बहिर्मुखत्वेन तद्दृष्टा तटस्थत्वात्स्वरूपशक्त्यपेक्षयानन्तरङ्गत्वाच्च तटस्थत्वोक्तिः । एवं कालोऽपि शक्तिरेव भगवतो बहिरङ्गभूता—कालसंज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रमः [भा.पु. ३.६.२] तृतीयस्कन्धे भागवतोक्तेः ।
एवमन्या अपि अनन्ताः शक्तयः । सत्यं ज्ञानमनन्तं ब्रह्म [तै.उ. २.१.३] इति श्रुतेः, भगवतः स्वरूपतो गुणतः शक्तितश्चानन्तत्वात। ताश्च सर्वाः शक्तयो भगवतो भिन्नाभिन्नस्वभावा भगवदात्मिकाः प्रकाशाश्रयवत। ऐतदात्म्यमिदं सर्वं तत्सत्यं [छा.उ. १.८.७], पुरुष एवेदं विश्वं [मु.उ. २.१.१०] इत्यादिश्रुतेः । प्रकाशाश्रयवद्वा तेजस्त्वात्[वे.सू. ३.२.२८] इत्यादिवेदान्तसूत्राच्च ।
भेदाभेदस्तादात्म्यमित्यनर्थान्तरम् । तच्चाभेदप्रधानगुणीभूतभेदं क्वचित्, क्वचिद्भेदप्रधानगुणीभूताभेदमिति स्वरूपादिशक्तिषूह्यम्, यथा साधर्म्याधिक्यात्स्वरूपशक्तिषु अभेदाधिक्यं, बहिरङ्गशक्तिषु वैधर्म्याधिक्याद्भेदाधिक्यम् । जीवशक्तिषु बहिरङ्गशक्त्यापेक्षया ज्ञत्वादिसाधर्म्याधिक्यात्तदपेक्षयाभेदाधिक्यमित्याद्यूह्यम् । ताश्च सर्वाः शक्तयः प्रकृते गोपीजनपदेन सङ्गृह्यन्ते, गोपीपदस्य प्रकृते शक्तिवाचकत्वात्, जनपदस्य तत्समूहवाचकत्वाच्च ।
अविद्यायाः पृथगुक्तिस्तु जीवनिष्ठस्वाभाविकापहतपाप्मत्वसर्वज्ञत्वादिधर्माणामावरकत्वेन विशेषतः सर्वविज्ञानपरिपन्थित्वबोधनाय, यथा
अपश्यत्पुरुषं पूर्णं मायां च तदपाश्रयम् ।
यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् ।
परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥ [भा.पु. १.७.४५]
इति भागवतपद्ये पूर्णपुरुषपदेन पूर्णपुरुषशक्त्यन्तर्गताया मायायाः सङ्ग्रहेऽपि तस्याः पृथगुक्तिः, तथात्रापि बोध्यम् । एवं च तादृशीभिः सर्वाभिः शक्तिभिः स्वाभाविकगुणधर्मैश्च यथायथमुपेतमेव ब्रह्म, पूर्णं ब्रह्म, समग्रं ब्रह्म, पूर्णपुरुषः, साक्षाद्भगवान्, स्वयं भगवान्, इत्यादिशब्दैरुच्यते ।
एवं च प्रकृते तादृशं समग्रमेव ब्रह्म भगवत्स्वरूपं गोपीजनवल्लभपदेन विवक्षितम् । यथा गीतायां—
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ [गीता ७.१]
इत्यनेन समग्रनिजस्वरूपज्ञानं प्रतिज्ञाय, भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च [गीता ७.४] इत्यादिना सर्वशक्त्युपेतमेव निजस्वरूपं ज्ञत्वेनोपदिष्टम् । तादृशनिजस्वरूपज्ञानेनैव च सर्वज्ञानमस्य परिसमाप्तिः, यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते [गीता ७.२] इत्यनेनोपदिश्यते । इति तेन सर्वशक्त्युपेतस्यैव भगवतः समग्ररूपत्वं, तादृशसमग्रस्वरूपविज्ञानस्यैव च सर्वविज्ञानत्वमित्युक्तं भवति तथा । एवं च, यदा भगवान्निजासाधारणभक्त्या तुष्टो व्यासस्येव भक्तियोगेन मनसि [भा.पु. १.७.४] इत्याद्युक्तदिशा सर्वतः परिपूर्णं निजस्वरूपं प्रकटयति, तदा च किञ्चिदपि ज्ञातव्यमवशिष्यते, सर्वस्यैव विश्वस्य शक्तिरूपेण तत्रैव तादात्म्येन स्थितेः । तदुक्तं, यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते [गीता ७.२] इति । इत्येकस्यैव गोपीजनवल्लभपदार्थस्य तत्त्वतो ज्ञानेऽखिलं विज्ञातं भवति इति न किञ्चिदप्यनुपपन्नमिति ।
अथैवमपि, उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति [छा.उ. ६.१.३] इत्यादिश्रुतीनामत्र समन्वयो न यथावन्निरूपितो भवति । तत्र, यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात्, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं [छा.उ. ६.१.४] इत्यादिदृष्टान्तेनोपादानोपादेयभावमूलक एवैकविज्ञानेनाखिलविज्ञानप्रतिज्ञानिर्वाहस्योपपादितत्वात। अत्र तु न तथेति चेत्, न । उपादानोपादेयभावमूलकैकविज्ञानेनाखिलविज्ञानस्याप्येतद्विज्ञान एवान्तर्भूतत्वात। तथा हि, ब्रह्मैव स्वात्मकनिजशक्तिविक्षेपणेनैव निखिलजगदुपादानं, जगच्च तथैव ब्रह्मण उपादेयम्, यथा आकाशः स्वात्मकसूक्ष्मतमशब्दरूपनिजशक्तिविक्षेपेणैव स्थूलशब्दनिकायस्य ।
एवं च यथा योगादिमहिम्ना भगवत्प्रसादविशेषेण वा पूर्णाकाशसाक्षात्कारे जाते भूतवर्तमानभविष्यसन्निकृष्टस्थूलसूक्ष्मनिखिलशब्दराशिः, तदानीमेव साक्षात्कारे जाते सर्वस्यैव साक्षात्कारः, समग्रस्यैव विश्वस्य तत्रैव तादात्म्येनैव सर्वदैव विद्यमानत्वात्, तस्यैवोपादेयत्वाच्च ।
अयं भावः—यदि कार्यं सूक्ष्मतमशक्त्यात्मना कारणे निजोत्पत्तेः प्राक्पश्चाच्च प्रलयात्विद्यमानं न स्यात्, तर्हि निःशक्तिकोपादानमात्रसाक्षात्कारे भूतं भविष्यं च कार्यजातं तत्तद्विशेषात्मना योगिभिः कथं साक्षात्कृतं स्यात्? स्मर्यते किल योगिनां सनकादीनां भूतभविष्याणामपि कार्याणां तत्तद्विशेषात्मना साक्षात्कारः । स चोपादाने किञ्चिदपि विशेषमनन्तकार्यं नोपपादयितुं शक्यते । यथा मृन्मात्रत्वेन मृत्तिकासाक्षात्कारे हि मृन्मात्रत्वेनैव निखिलमृत्कार्यजातं विज्ञातं भवति, न तु द्राक्षादाडिमसीतोपलाद्यात्मनापि । इति तावदंशसाक्षात्कारेऽपि विशेषजिज्ञासा वर्तत एव । अत एवाहर्निशं मृत्तिकां साक्षात्कुर्वन्तोऽपि लौकिकसमीक्षकाः तत्तद्वस्तूनां विशेषतो जिज्ञासायां प्रवर्तमाना दृश्यन्ते । तथापि न मृत्तिकाकार्याणि तत्तद्वस्तुतत्त्वानि साक्षात्कुर्वन्ति । इति न केवलोपादानसाक्षात्कारो निखिलसाक्षात्कारजनक इति निश्चीयते । योगिनस्तु उपादानसाक्षात्कारेण भूतं भविष्यं च सर्वं कार्यं साक्षात्कुर्वन्ति । तस्माल्लौकिकोपादानसाक्षात्कारात्योगजोपादानसाक्षात्कारे वैलक्षण्यं वक्तव्यम् । तच्च वैलक्षण्यमन्यथानुपपत्त्या तत्तत्कार्यसूक्ष्मरूपात्मकशक्तिमत्त्वेनोपादानसाक्षात्कार एव पर्यवस्यति । इति कार्योत्पत्तेः प्राक्पश्चाच्च प्रलयात्तत्तत्कार्यसूक्ष्मशक्तीनामुपादाने तादात्म्येनावस्थानं सिद्ध्यति । तथा च तत्तत्कार्योपादानत्वमपि तत्तत्कार्यसूक्ष्मशक्तिमत्त्वमेव । अत एव न दाडिमादिबीजानां जम्बोराद्युपादानत्वम्, तत्र जम्बोरादि कार्यशक्त्यभावात।
एवं च तत्तत्कार्यशक्तिमत्त्वेन मृत्तिकादिसाक्षात्कार एव तत्त्वत उपादानसाक्षात्कारः, न तु स्वरूपमात्रतो मृत्तिकादिसाक्षात्कारोऽपि तत्त्वतः साक्षात्कारः । तथा च प्राकृतानां स्वरूपतो मृत्तिकादिसाक्षात्काराभावेन न निखिलमृत्कार्यसाक्षात्कारः । योगिनस्तु तत्तत्कार्यसूक्ष्मशक्तिमत्त्वेन मृत्तिकादिसाक्षात्कारात्तत्त्वत उपादानसाक्षात्कारसत्त्वेन भूतभविष्याणां मृत्कार्याणां द्राक्षादाडिमादीनामपि साक्षात्कारो भवति भूतभविष्याणामपि कार्याणां निजसूक्ष्मशक्त्यात्मना तादात्म्येन उपादाने सर्वदा विद्यमानत्वात।
एवं चोपनिषत्सु यत्रोपादानसाक्षात्कारेण सर्वसाक्षात्कारो निरूप्यते तत्र सर्वत्र निखिलकार्यजातस्य सूक्ष्मशक्तिमत्त्वेनोपादानसाक्षात्कारादेव सर्वसाक्षात्कारे तात्पर्यम् । अत एव तादृशप्रकरणे, सदेव सोम्येदमग्र आसीत्[छा.उ. ६.२.१] इत्यादौ इदंपदेन निखिलस्य नामरूपात्मकप्रपञ्चस्य सृष्टिप्राक्कालेऽपि तादात्म्येन सत्त्वं तत एव च उद्भवः । उद्भवावस्थायामपि ऐतदात्म्यमिदं सर्वं [छा.उ. १.८.७] इत्यादिना कारणतादात्म्यं प्रतिपाद्यते । एवं च स्वशक्तिविशेषविक्षेपेणैव ब्रह्म निखिलजगदुपादानम् । सा च निखिलजगद्बीजरूपा शक्तिः । सर्वादिसृष्टेः प्राक्पश्चादपि च सर्वप्रलयाताकाशेऽनभिव्यक्तशब्दराशिरिव नामरूपविभागानर्हतया तादात्म्येन परे देवे तिष्ठति । सृष्टिदशायां क्रमेण प्रस्फुटितसर्वाङ्गतया तदुपयुक्तधर्मा । अत एव स्थूलजगद्भावमापन्नापि ब्रह्मात्मकतया तिष्ठति । उभयावस्थायामपि ब्रह्मात्मकत्वं न विजहाति ।
एतच्च स्फुटमुपपादितं सुबालोपनिषदि । तत्र प्रथमखण्डे—
किं तदासीत्? तस्मै स होवाच—न सन्नासन्न सदसदिति तस्मात्तमः सञ्जायते । तमसो भूतादिर्भूतादेराकाशमाकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी…
इत्यादिना जडजीवात्मकनिखिलप्रपञ्चसृष्टिं निरूप्य द्वितीयेन प्रलयक्रम उच्यते—
पृथिव्यप्सु प्रलीयत, आपस्तेजसि प्रलीयन्ते, तेजो वायौ विलीयते, वायुराकाशे विलीयत, आकाशमिन्द्रियेषु, इन्द्रियाणि तन्मात्रेषु, तन्मात्राणि भूतादौ विलीयन्ते, भूतादिर्महति विलीयते, महानव्यक्ते विलीयते, अव्यक्तमक्षरे विलीयते, अक्षरं तमसि विलीयते, तमः परे देवे एकीभवति । परस्तान्न सन्नासन्नासदसदित्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ।
इति सृष्टितः प्राक्पश्चाच्च सर्वप्रलयात्नामरूपविभागानर्हतया तादात्म्येनैव सर्वकार्यबीजरूपायाः तमःपदवाच्याया नितान्तत्रिगुणसाम्यावस्थापन्नया प्रकृतेः परे देवे स्थितिमाह श्रुतिः । एकीभावस्तादात्म्यमेव, न तु सर्वार्थाभेदाभावः भेदाभेद एव, च्युतप्रत्ययविधानात। अत एव दिवाभूता रात्रिः इत्यादि तदुदाहरणमिति । सृष्ट्यवस्थायामपि सर्वजडजीवात्मकप्रपञ्चस्य ब्रह्मतादात्म्यमाह—
दिव्यो देव एको नारायणश्चक्षुश्च द्रष्टव्यं च नारायणः श्रोत्रं च श्रोतव्यं च नारायणः इत्यादिना वरुणोऽर्यमा चन्द्रमाः कला कलिर्धाता ब्रह्मा प्रजापतिर्मघवा दिवसाश्चार्धदिवसाश्च कलाः कल्पाश्चोर्ध्वं च दिशश्च सर्वं नारायणः ॥ पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् । इति षष्ठखण्डेनेति ।
व्याख्याता चैषा श्रुतिः काश्मीरिकेशवभट्टाचार्यपादैः वेदान्तकौस्तुभप्रभायां विपर्ययेण क्रमोऽत उपपद्यते [वे.सू. २.३.१३] इति ब्रह्मसूत्रवृत्तौ समुद्धृतं चात्रोत्तरतापिन्यां मया, एकमक्षरं यद्विश्रुतमनेकाक्षरं कथं सम्भूतं [गो.ता.उ. २.५९] इत्यत्रेति तत्रैव द्रष्टव्यम् ।
दर्शितश्चायं सिद्धान्तो वेदान्तकौस्तुभप्रभायामात्मकृतेः परिणामात्[वे.सू. १.४.२६] इति ब्रह्मसूत्रवृत्तौ केशवकाश्मीरपादैरेव—
सर्वज्ञत्वसर्वाचिन्त्यानन्तशक्त्यादिनिलयः परब्रह्मभूतः श्रीपुरुषोत्तमः स्वात्मकस्वाधिष्ठितनिजशक्तिविक्षेपेण जगदाकारं स्वात्मानं परिणामयति । यथाप्रच्युतस्वरूपादिभ्य एवाकाशोर्णनाभ्यादिभ्यः शब्दवाय्वोस्तन्त्वादेश्च जन्मादिकमित्यादिना इति ।
विस्तरस्तु तत्रैवानुसन्धेयः ।
येषां स्वरूपपरिणाम एवाभिमतः । तैरप्यंशत एव स वाच्यः । अन्यथापरिणतब्रह्मविलोपापत्तेः । एवं च फलतः शक्तिविक्षेपपरिणामवाद एवायाति, शब्दमात्रं भिद्यते । एवं चिदचिच्छरीरब्रह्मवादेऽपि बोध्यम् । सूक्ष्मसमीक्षायां तेषां मतानामेकत्वावगमात्सम्प्रदायभेदमात्रस्यैव मतभेदापादकत्वात। अत एवाणुभाष्यप्रकाशे अहिकुण्डलाधिकरणे प्रकाशाश्रयवद्वा तेजस्त्वात्[वे.सू. ३.२.२८] इत्यत्र गोस्वामिश्रीपुरुषोत्तममहानुभवचरणैः ।
तथा चोक्तं विष्णुपुराणे प्रथमांशसमाप्तौ,
एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा ।
परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत॥ [वि.पु. १.२२.५६]
इति विष्णुपुराणसिद्धान्तः शक्तिविक्षेपपरिणामवादपरः स्वीकृतः । भेदाभेदाख्यं तादात्म्यमपि किञ्चित्प्रकारभेदेन तैः स्वीकृतमेव तत्र इति । अत एव च चिदचिच्छरीरवादिभिः श्रीरामानुजाचार्यचरणैः स्मरन्ति च [वे.सू. २.३.४५], एवं प्रभाप्रभावद्रूपेण शक्तिशक्तिमद्रूपेण शरीरात्मभावेन चांशांशिभावं जगद्ब्रह्मणोः पराशरादयः स्मरन्ति,
एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा ।
परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत॥ [वि.पु. १.२२.५६]
यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज ।
तस्य सृज्यस्य सम्भूतौ तत्सर्वं वै हरेस्तनु ॥ [वि.पु. १.२२.३८]
इति विष्णुपुराणवाक्योदाहरणेन जगद्ब्रह्मणोः शक्तिशक्तिमद्भावेनांशांशिभावः । प्रकाशाश्रयवद्वा तेजस्त्वात्[वे.सू. ३.२.२८] इत्यत्र । यथा प्रभातदाश्रययोरपि तादात्म्यम् । एवमचित्प्रपञ्चस्य ब्रह्मणो रूपत्वमिति तादात्म्यं च समर्थिते ।
एवं च सूत्रान्तरभाष्येष्वपि तत्र तत्र तथा तेषां प्रतिपत्तिर्दृश्यते इति । तथा च निखिलस्य प्राकृताप्राकृतस्य जीवकालादिसहितस्य प्रपञ्चस्य चिदचिच्छक्तिकस्य पुरुषोत्तमस्यैव शक्तिविशेषविलासरूपत्वेनोपादेयत्वात्तादृशपुरुषोत्तमस्यैवोपादानत्वात। तादृशपुरुषोत्तमस्वरूपस्यैव तत्त्वतो ज्ञाने समस्तविश्वस्य विज्ञानमुपादानोपादेयभावमूलकत्वमपि निजकुक्षीकरोत्येवेति, किञ्चिदनुपपन्नम् । एवं च एकविज्ञानेन सर्वविज्ञानस्य सोपपत्तिकत्वायैव सर्वविज्ञानजनकभगवज्ज्ञाने तादृशनिरुक्तार्थकगोपीजनवल्लभत्वं विशेषितं न कृष्णत्वं गोविन्दत्वं वा, तयोः स्फुटतः तादृशोपपत्त्यसमर्पकत्वादिति ।
नन्वेतावतापि न छान्दोग्यसमन्वयः ? निरुक्तप्रक्रियोपादानोपादेयविषयाप्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञानिर्वाहेऽपि दृष्टान्तासमवयात। तत्र हि, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं [छा.उ. ६.१.४] इत्यनेन विकारपदवाच्यस्योपादेयस्य वाचारम्भणत्वकथनेन मृत्तिकापदोपलक्षितस्योपादानमात्रस्य सत्यत्वकथनेन चोपादेयांशस्य मिथात्वसूचनमुद्रयाखिलस्यैव कार्यप्रपञ्चस्य मिथ्यात्वसूचनादिति चेन्, न । तत्रोपादेयस्य सर्वथा मिथ्यात्वे तात्पर्याभावात। अपि तु सर्वथा विशेषभेदानां स्वतन्त्रसत्त्वप्रतिषेधेन ब्रह्मात्मकत्वमेवोपपादितं, तदुपपादकग्रन्थेनापि ।
यदि विशेषाणां मिथ्यात्वे तात्पर्यं भवेत्तर्हि प्रतिज्ञावाक्ये, उत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवत्यमतं मतं भवति [छा.उ. ६.१.३] इत्यादिना एकविज्ञानेन सर्वविज्ञानं नोच्येत, विशेषाणां कारणविज्ञानानन्तरं मिथ्यात्वस्यैव निश्चयेन सर्वपदार्थाभावेन सर्वविज्ञानासम्भवात्प्रतारकत्वापत्तेः । “उत तमादेशमप्राक्ष्यः येन विज्ञानेन तदन्यत्सर्वं मिथ्यात्वेन ज्ञातं भवति” इत्येवं प्रतिज्ञाया उचितत्वापत्तेः सुलभापत्तेश्चेति ।
नन्वेवमपि, वाचारम्भणम्… मृत्तिकेत्येव सत्यं [छा.उ. ६.१.४] इत्यादेः कोऽर्थः ? अत्रेदमवधेयम्—द्विविधानि किल वाक्यानि जगद्विषये शास्त्रे पठ्यन्ते, कानिचित्सत्यत्वप्रतिपादनानुगुणानि कानिचित्मिथ्यात्वानुगुणानि । तत्र कारणवाक्यानि प्रायः जगत्सत्यत्वानुगुणान्येव पठ्यन्ते, यथात्रैव सदेव सोम्येदमग्र आसीतेकमेवाद्वितीयं [छा.उ. ६.२.२] । अत्र हि इदंपदगोचरस्य नामरूपात्मकदृष्टश्रुतप्रपञ्चस्य सृष्टप्राक्कालेऽपि सदात्मकत्वप्रतिपादनेन तस्य सत्यमेव निश्चितं भवति, न त्वनिर्वचनीयत्वलक्षणं मिथ्यात्वम् । अत एव तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत [छा.उ. ६.२.१] इत्यनेनासत्कार्यकारणत्वादिमतवादमनूद्य, कुतः खलु सोम्येदं स्यात्? इति होवाच कथमसतः सज्जायेतेति । सत्त्वेव सोम्येदमग्र आसीत्[छा.उ. ६.२.१२] इति तन्मतं प्रतिक्षिप्य सत्कार्यवादं सिद्धान्तयति । यदि जायमानस्य प्रपञ्चस्य मिथ्यात्वमभिप्रेतं स्यात्, तर्हि कथं सतः पूर्वमस्य सद्भावसाधनाय, कथमसतः सज्जायेत इति कार्यप्रपञ्चं सत्त्वेन हेतुं कुर्यात्? स्वयमसतः कार्यप्रपञ्चस्य सत्त्वसाधकतापत्तेश्च ।
न च सज्जायेत इति कार्यस्य सत्त्वकथनं न परमार्थसत्त्वाभिप्रायेणापि तु अनिर्वचनीयत्वापरपर्यायव्यावहारिकसत्त्वाभिप्रायेणेति वाच्यम् । तर्हि कारणेऽनुमेयस्यापि सत्त्वस्यानिर्वचनीयत्वमेव सिद्ध्येत, न तु परमार्थिकत्वं तथैव हेत्वानुण्यात्(?) । न चानिर्वचनीयतत्त्वस्याध्यस्तत्वादध्यासस्याधिष्ठानमन्तरासिद्धेः । अधिष्ठानस्य लोके सत्यत्वेनैवोपलब्धेर्ब्रह्मणि परमार्थसत्यसिद्धिरिति वाच्यमम् । भवन्मते परमार्थसद्भिन्नमपि शुक्तिकादिकमवलम्ब्याध्यासस्वीकारात्, सर्वमतेऽपि स्वप्नाद्यवस्थायामध्यस्तेऽपि नगरादौ हस्तितुरगाद्यापणाद्यध्यासमुद्रया ब्रह्मणि परमार्थसत्त्वासिद्धेः । न चैवमपि अध्यासपरम्परायाः क्वचिद्विश्रामो वाच्यमः । तथा च यत्र विश्रामः तदेव परमार्थसद्वस्तु, तदेव परमकारणमद्वितीयं ब्रह्म इति व्यावहारिकसद्वस्तुजगतो हेतूकरणेऽपि परमार्थ्सद्वस्तुसिद्धिरिति वाच्यमम् । तर्कस्यानवस्थितत्वान्माध्यमिकानां नये शून्य एवाध्यासपरम्पराविश्रामाङ्गीकारात। नैकान्ततः सद्वस्तुसिद्धिः । न वा शून्यकारणवादनिरासः । प्रकृतश्च, तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत [छा.उ. ६.२.१] इति शून्यवादनिरास इति । यदपि तत्सत्यं स आत्मा इत्यंशेन पुनः पुनः सत्यत्वकथनं तदपि कुतार्किककल्पितस्यात्मन्यप्यसत्यत्वस्य निरासायैव, न तु जगतो मिथ्यात्वबोधायेति ।
तस्मात्कारणस्य ब्रह्मणः परमार्थसत्त्वसाधनान्यथानुपपत्त्या कारणनिष्ठपरमार्थसत्त्वसाधनीभूतकार्यनिष्ठश्रुत्युक्तसत्त्वस्य पारमर्थिकत्व एव श्रुतेस्तात्पर्यं निश्चीयते । तस्मात्छान्दोग्यस्थमिदं कारणवाक्यं जगतः सत्यत्वप्रतिपादनानुगुणमेव ।
एतेन—आत्मा वा इदमेक एवाग्र आसीत्[ऐ.उ. १.१], आत्मैवेदमग्र आसीत्[बृ.आ.उ. ४.१.१], ब्रह्म वा इदमग्र आसीत्[बृ.आ.उ. १.४.१०], असद्वा इदमग्र आसीत्[तै.उ. २.७] इत्यादीन्यपि ऐतरेयबृहदारण्यकतैत्तिरीयादिकारणवाक्यानि जगत्सत्यत्वानुगुण्येन व्याख्यात्तानि । तेष्वपि वाक्येषु इदंपदेन निखिलकार्यप्रपञ्चं परामृश्य सृष्टेः प्रागपि ब्रह्मात्मकत्वबोधनात।
नासद्वस्तु कदाचिदपि सदात्मकं भवितुमर्हति, तथा सति तस्यासत्त्वस्वरूपहानात। तैत्तरीये तु, तदात्मानं स्वयमकुरुत [तै.उ. २.७] इति स्वस्यैव ब्रह्मणो जगद्रूपेण परिणामकथनात्स्फुटं जगतः सत्यत्वं सूचयति । अत एव यदिदं किं च, तत्सत्यमित्याचक्षते [तै.उ. २.१.६] इति स्वशब्देनापि सत्यत्वं तत्सुकृतमुच्यते इति सुकृतत्वं चोच्यते इति ।
एवं, स यथोर्णनाभिस्तन्तुनोच्चरेत्, यथाग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति । तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यं [बृ.आ.उ. २.१.२०] इति । इयं श्रुतिः काण्वपाठे बृहदारण्यके—सर्वमेव आत्मानः इत्येतावदंशहीना पठ्यते । माध्यन्दिनपाठे तु तत्सहिता वर्तते इति बोधयितव्यम् । एवं मुण्डके—तदेतत्सत्यं—
यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः
सहस्रशः प्रभवन्ते सरूपाः ।
तथाऽक्षराद्विविधाः सौम्य भावाः
प्रजायन्ते तत्र चैवापि यन्ति ॥ [मु.उ. २.२.१]
इति सृष्टिश्रुतिः पठ्यते । उभावपि वाक्यौ जगत्सत्यत्वानुगुणौ तथैव दृष्टान्तवाक्येऽग्निः कारणस्थानीयः, विस्फुलिङ्गः कार्यस्थानीयः । ऊर्णनाभिः कारणस्थानीयः, तन्तुः कार्यस्थानीयः । तथा मुण्डके प्रथमे—
यथोर्णनाभिः सृजते गृह्णते च
यथा पृथिव्यामोषधयः सम्भवन्ति ।
यथा सतः पुरुषात्केशलोमानि
तथाऽक्षरात्सम्भवतीह विश्वम् ॥ [मु.उ. १.१.७]
इत्यपि वाक्यं पठ्यते । तत्राप्युक्ताः कारणदृष्टान्ताः कार्यदृष्टान्ताश्च सजातीया एव, न तु शुक्तिरजतादिवद्विजातीयाः । तथा च, तादृशजातीयकार्यकारणदृष्टान्तकथनेन दार्ष्टान्तिकयोः कारणकार्यभूतयोर्ब्रह्मजगतोरपि तिलतैलयोरिव समानसत्ताकत्वस्यैव प्रतिपादने । अत एव, प्रभवन्ते सरूपा इति कार्यकारणयोः सारूप्यं स्वशब्देनैवोक्तम् । जगतो मिथ्यात्वे सारूप्यमपि सुदूरपराहतम् । एवमन्यान्यपि कारणवाक्यानि तत्त्वतः पर्यालोच्यमाने जगत्सत्यत्वानुगुणान्येव ।
एवं पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यं [श्वे.उ. ३.१५] इत्यादिवाक्यान्यपि तदनुगुणान्येव, अर्थान्तरकल्पने यथाश्रुतार्थत्यागात। एवं लयवाक्यान्यपि निरुक्तसुबालाद्युक्तानि तथाभूतान्येव सर्वान्तिमलयदशायामपि ब्रह्मणा सह एकीभवति इत्येकीभावस्यैव कथनात्, बाधककथनाच्च । इति निर्वाणानुशासनमिति तत्रैव विद्यापरिसमाप्तेः सूचनाच्च । एवं नियम्यनियामकभावादिबोधकानि, नित्यो नित्यानां [श्वे.उ. ६.१२, गो.ता.उ. १.३७] इत्यादिवाक्यानि च जगत्सत्यत्वानुगुणानि ।
तथा स्मृतयोऽपि—
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥ [गीता १६.८]
तदेतदक्षयं नित्यं जगन्मुनिवराखिल ।
आविर्भावतिरोभावजन्मनाशविकल्पवत॥
शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः ।
यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ।
भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥ [वि.पु. १.३.२]
एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा ।
परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत॥ [वि.पु. १.२२.५६]
यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज ।
तस्य सृज्यस्य सम्भूतौ तत्सर्वं वै हरेस्तनुः ॥ [वि.पु. १.२२.३८]
इत्याद्याः जगतः सत्यत्वानुगुणाः । अत्र प्रथमे गीतावाक्ये जगतोऽसत्यत्वाप्रतिष्ठितत्ववादिनामासुरत्वमाह—एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः [गीता १६.९] इत्यादिना । तेन जगत्सत्यत्ववादस्य दैवसिद्धान्तत्वं सुतरामयतीति ।
द्वितीये विष्णुपुराणवाक्ये जगतः सत्कार्यवादमाश्रित्य अक्षयत्वं नित्यत्वं चात्रेत्याह—आविर्भावतिरोभावजन्मनाशविकल्पवतिति तेन जन्म आविर्भावः, विनाशस्तिरोभावः, न तु नैय्यायिकादीनामिव तद्विलक्षणमिति, न नित्यत्ववादव्याघात इति ।
तृतीयविष्णुपुराणवाक्ये सर्गादिभावशक्तीनां वह्यौष्ण्यदृष्टान्तेन स्वाभाविकत्वकथनात्सृज्यस्य जगतः सत्यत्वमेव सूचयति ।
चतुर्थेऽपि विष्णुपुराणवाक्ये अग्नेः प्रभाया इव ब्रह्मजगतोर्नित्यसम्बन्धसूचनात्भगवत्तनुत्वकथनात्तत्सत्यत्वं सूचयति ।
एवं सर्ववेदानां तात्पर्यावधारणार्थप्रवृत्तेषु वेदान्तसूत्रेष्वपि जगत्सत्यत्वानुगुणान्येव प्रायः सूत्राणि दृश्यन्ते । यथा—प्रकृतिश्च प्रतीज्ञादृष्टान्तानुरोधात्[वे.सू. १.४.२३], आत्मकृतेः परिणामात्[वे.सू. १.४.२६], योनिश्च हि गीयते [वे.सू. १.४.२७] इत्यादि । अत्र हि ब्रह्मण उपादानत्वलक्षणं प्रकृतित्वं जगतश्चोपादेयत्वलक्षणं परिणामत्वं साधयति, न त्वधिष्ठानत्वं विवर्तत्वं वा । दृष्टान्ततयापि श्रौतं मृत्पिण्डाद्येव दर्शयति, न तु शुक्तिरजतादि । यदि च प्रकृतिपदाच्छुक्त्यादिवदधिष्ठानं परिणामपदेन रजतादिवद्विवर्तोऽभिप्रेतः स्यात्सूत्रकृतां, तदा “अधिष्ठानं च कार्यस्य वाचारम्भणमात्रत्वात्”, “आत्मकृतेर्विवर्तनात्”, इत्येवं सूत्रौ प्रणयेत। तथा सति भ्रमाभावेन बोधसौकर्यात।
किं च, अधिष्ठानस्य प्रकृतित्वकथनं विवर्तस्य परिणामत्वकथनं च भवतां परिभाषामात्रं लोके तथाप्रसिद्धेः । तस्मादत्र सूत्रेषु मृद्घटादिवत्कनककुण्डलादिवत्क्षीरदध्यादिवच्च प्रकृतिपरिणामभाव एवाभिप्रेतः, न तु शुक्तिरजतादिवदधिष्ठानविवर्तभावः । एवं दृश्यते तु [वे.सू. २.१.६], न तु दृष्टान्तभावात्[वे.सू. २.१.९], स्वपक्षे दोषाच्च [वे.सू. २.१.१०] इत्यत्र वृश्चिकगोमयादि दृष्टान्तं पुरुषकेशलोमादिदृष्टान्तं पृथिव्यादौ केशकर्पटादिलयेऽपि विक्रियाभावः इति दृष्टान्तं च वदन्वास्तविकपरिणामवादमेव दृढीकरोति, न तु विवर्तवादम् । तथा तात्पर्ये तदनुसारिशुक्तिरजतादिदृष्टान्तमेव दद्यात। तथा सति बोधसौकर्यात।
एवं, तदनन्यत्वमारम्भणशब्दादिभ्यः [वे.सू. २.१.१४], भावे चोपलब्धेः [वे.सू. २.१.१५], सत्वाच्चावरस्य [वे.सू. २.१.१६], असद्व्यपदेशान्नेति चेन्न, धर्मान्तरेण वाक्यशेषात्[वे.सू. २.१.१७], युक्तेः शब्दान्तराच्च [वे.सू. २.१.१८], पटवच्च [वे.सू. २.१.१९], यथा च प्राणादिः [वे.सू. २.१.२०], इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः [वे.सू. २.१.२१], अधिकं तु भेदनिर्देशात्[वे.सू. २.१.२२], अश्मादिवच्च तदनुपपत्तिः [वे.सू. २.१.२३], उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि [वे.सू. २.१.२४], देवादिवदिति लोके [वे.सू. २.१.२५], कृत्स्नप्रसक्तिर्निरवयवशब्दव्याकोपो वा [वे.सू. २.१.२६], श्रुतेस्तु शब्दमूलत्वात्[वे.सू. २.१.२७], आत्मनि चैवं विचित्राश्च हि [वे.सू. २.१.२८], स्वपक्षे दोषाच्च [वे.सू. २.१.२९], न प्रयोजनवत्त्वात्[वे.सू. २.१.३२], लोकवत्तु लीलाकैवल्यं [वे.सू. २.१.३३], इत्यादिसूत्राणां स्वातन्त्र्येण पर्यालोचनायां विवर्तवादस्य व्यासाशयविरुद्धत्वमेव
निश्चीयते ।
अत्र हि, तदनन्यत्वमारम्भणशब्दादिभ्यः [वे.सू. २.१.१४] इत्यनेन कार्यजातस्य ब्रह्मानन्यत्वमेव साध्यते । अनन्यत्वमभेदस्तादात्म्यं मृद्घटयोरिव, न तु तदत्यन्ताभावो रजतादेरिव । एतेन कार्यस्य वाचारम्भणत्वकथनात्, मृत्तिकेत्येव सत्यं [छा.उ. ६.१.४] इति कारणमात्रस्य सत्यत्वकथनाच्च कार्यमिथ्यात्वमेव श्रुत्यभिप्रेतमिति शङ्कानिराकरणद्वारा, तथा ये केचित्कार्यप्रपञ्चस्य सत्यत्वमङ्गीकुर्वन्तोऽपि नित्यभिन्नत्वं स्वतन्त्रसत्त्वं च मन्यन्ते, तान्प्रति ब्रह्मानन्यत्वब्रह्मात्मकप्रतिपादनद्वारा च पूर्वोक्तस्य प्रकृतिश्च प्रतीज्ञादृष्टान्तानुरोधात्[वे.सू. १.४.२३], आत्मकृतेः परिणामात्[वे.सू. १.४.२६] इत्यादि सूत्रोक्तवास्तविकपरिणामवाददृढीकारणायैवात्र सूत्रकाराणां प्रवृत्तिः, न तु विवर्तवादसाधनाय । तथा सति, “तद्विवर्तत्वमारम्भणशब्दादिभ्यः” इत्येवं सूत्रं कुर्यात्, बोधसौकर्यात।
किं च, भावे चोपलब्धेः [वे.सू. २.१.१५], सत्त्वाच्चावरस्य [वे.सू. २.१.१६] इत्यादिसूत्राणां शङ्करभाष्यादिशापि पर्यालोचनायां कारणात्मकतया कनककुण्डलपटादिवत्कार्यसत्यत्व एव तात्पर्यं प्रतीयते, न तु मिथ्यात्वे ।
आत्मनि चैवं विचित्राश्च हि [वे.सू. २.१.२८] इति सूत्रस्य स्वप्नदृष्टान्तेन विवर्ते तात्पर्यं विवर्तवादिभिर्वर्ण्यते, तत्रापि न स्वप्नदृष्टान्तेन वितर्के तात्पर्यम् । यदि चैवं स्यात्, तर्हि भावे चोपलब्धे [वे.सू. २.१.१५], सत्वाच्चावरस्य [वे.सू. २.१.१६] पटवच्च क्षीरवद्धि इत्यादि न वदेत्, किं च, वैधर्म्याच्च न स्वप्नादिवद्[वे.सू. २.२.२९] न भावोऽनुपलब्धे [वे.सू. २.२.३०] इति विज्ञानवादिमतखण्डने जगत्सृष्टौ स्वप्नादिदृष्टान्तं न खण्डयेत।
किं च, यदि कार्यप्रपञ्चस्य स्वप्नादिवद्विवर्तत्वे सूत्रकाराणां तात्पर्यं स्यात्, तर्हि यथा स्वप्नप्रपञ्चस्य मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्[वे.सू. ३.२.३] इत्यधिकरणेन मायिकत्वमुक्तं, तथा जगतो मायामात्रत्वसाधनायापि स्पष्टशब्दार्थकस्पष्टदृष्टान्तकमधिकरणं रचयेत। न रच्यतेऽपि तु तद्विपरीतं, प्रकृतिश्च प्रतीज्ञादृष्टान्तानुरोधात्[वे.सू. १.४.२३] इत्याद्यधिकरणं रचयति । तस्मान्न सूत्रकाराणां शङ्कराचार्याणामिव जगतः स्वरूपतो मिथ्यात्वे तात्पर्यं प्रतीयते इति ।
तथापि कानिचित्वाक्यान्यंशतो जगन्मिथ्यात्वपराण्यपि प्रतीयन्ते, यथा नृसिंहोत्तरतापनीये नवमखण्डे,
न ह्यस्ति द्वैतसिद्धिः, आत्मैव सिद्धोऽद्वितीयो मायया ह्यन्यदिव स वा एव आत्मा पर एवैष सर्वं, तथा हि प्रज्ञेयैष विद्या जगत्सर्वमात्मा परमात्मैव स्वप्रकाशोऽप्यविषयज्ञानत्वाज्जानन्नेव ह्यन्यत्रान्यन्न विजानात्यनुभूतेर्माया च तमोरूपानुभूतिस्तदेतज्जडमोहात्मकमनन्तमिदं रूपमस्यास्य व्यञ्जिका नित्यनिवृत्तापि मूढैरात्मेव दृष्टास्य सत्त्वमसत्त्वं च इत्यादि ।
यद्यप्यत्र मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं [श्वे.उ. ४.१०] इत्यादिश्रुतिसिद्धायाः पूर्वं व्याख्याताया भगवतो बहिरङ्गशक्तिरूपाया वैभवमेव वर्ण्यते । तथा जीवेशावाभासेन करोति, माया चाविद्या च स्वयमेव भवति, इत्यंशेन जीवस्य वैराजास्व्येश्वरस्य चाभासत्वकथनमपि चिदंशत्वबोधनपरमेव, न तु शाङ्करमतप्रसिद्धप्रतिबिम्बपरं, न वा मूलरूपेश्वरपरम्,
तमीश्वराणां परमं महेश्वरं
तं देवतानां परमं च दैवतम् ।
पतिं पतीनां परमं परस्ताद्
विदाम देवं भुवनेशमीड्यम् ॥
न तस्य कार्यं करणं च विद्यते
न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते
स्वाभाविकी ज्ञानबलक्रिया च ॥ [श्वे.उ. ६.७८]
मायां तु प्रकृतिं विद्यान्
मायिनं तु महेश्वरं [श्वे.उ. ४.१०]
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते [भा.पु. ७.१५]
इत्यादिश्रुतिस्मृतिषु भगवत ईश्वरादिपदवाच्यस्य सर्वतः स्वतन्त्रत्वस्य मात्र्यास्तु भगवदेकतन्त्रत्वस्य बहुधा निरूपणात।
तथापि अंशविशेषे जीवाज्ञानकल्पितत्वनिरूपणेऽपि नृसिंहतापिनीश्रुतेस्तात्पर्यं प्रतीयते—एवं मृत्तिकेत्येव सत्यं [छा.उ. ६.१.४] इत्यत्रापि कार्यांशे किञ्चिदंशस्य जीवाज्ञानकल्पितत्वे तात्पर्यं प्रतीयते । ये तु अथात आदेशो नेति नेति [बृ.आ.उ. २.३.६], एकमेवाद्वितीयं [छा.उ. ६.१.१] इत्याद्यपि श्रुतिवाक्यं जगन्मिथ्यात्वे उदाहरन्ति, तान्प्रति पश्चाद्वक्तव्यम् । एवं जीवानां स्वात्मविषये, अविद्यास्मितारागद्वेषाभिनिवेशाः स्वाज्ञानकल्पितास्तु प्रसिद्धा एव सर्वशिष्टसम्मताः ।
एवमीश्वरविषयेऽपि जीवानामज्ञानं प्रसिद्धतरमेव ययोरर्थे उपनिषदुपदेशः । ते सर्वेऽपि जगत्यंशविशेषे जीवाज्ञानकल्पितत्वं प्रथयन्ति । जागतिकपदार्थेऽन्यथाबुद्धिरेव जीवेश्वरस्वरूपेऽप्यन्यथाबुद्धिं जनयति । अन्यथाबुद्धिसम्भिन्नजगद्बुद्धिरेव जगत्कारणं ब्रह्मस्वरूपं तिरोधापयति च । यदि जगद्बुद्धिः शुद्धा स्यात्, अन्यथाबुद्धिसमवेता न स्यात्, तर्हि जगत्कारणं ब्रह्मस्वरूपं याथातथ्येन ज्ञापयेदेव, न तु तिरोधापयेत्, कार्यभूतस्य प्रभादेर्ज्ञानं वह्निस्वरूपं कारणं तिरोधापयति, अपि तु ज्ञापयत्येव । अत एव यतो वा इमानि भूतानि जायन्ते [तै.उ. ३.१.१] इति श्रुतौ, जन्माद्यस्य यतः [वे.सू. १.१.२] इति सूत्रे च कार्यं जगद्ब्रह्मस्वरूपप्रतिपत्तौ ज्ञापकतया प्रदर्श्यते इति । तस्मादस्ति जगति अंशद्वयं पूर्वोदाहृतश्रुतिसिद्धं सत्यत्वं तथानुपदमुपपादितोपपत्तिसिद्धं जीवाज्ञानकल्पितत्वं च । तत्रेश्वरकल्पितांशे सत्यत्वं, जीवाज्ञानकल्पितांशे मिथ्यात्वमिति ।
ननु, एकस्मिन्जगति अंशभेदेन सत्यत्वं मिथ्यात्वं च कथं प्रतिपत्तव्यम् । परस्परविरुद्धस्वभावयोस्तयोः सहावस्थानासम्भवातिति चेत्, अत्रोच्यते—“इदं रजतं, एष भुजगः” इत्यादिविसंवादिज्ञाने रजतांशे भुजगांशे च तावदंशद्वयं भासते, उद्देश्यांशो विधेयांशश्च, तावेव च क्रमेण विशेष्यांशः प्रकारांशश्चोच्येते । तत्र इदमंशः प्रथमः, रजतांशो द्वितीयः । तत्र चाक्चिक्यादिविशिष्टं विशेषापन्नं चक्षुःसन्निकृष्टं सद्वस्तु इदमंशः । लाभालाभप्रयुक्तसुखदुःखमोहजनकं बहुमूल्यत्वादिव्यवहारप्रयोजकीभूतं रजतमिति व्यवहारप्रयोजकतावच्छेदकरूपं रजतत्वं द्वितीयोऽंशः ।
भुजङ्गस्थले वर्तुलत्वायतत्वादियुतसन्निवेशविशेषविशिष्टं चक्षुः सन्निकृष्टं वस्तु इदमंशः । भयजनकत्वप्रयोजकीभूतं द्विजिह्वत्वफणित्वादिप्रयोज्यं सर्प इति व्यवहारप्रयोजकतावच्छेदकं सर्पत्वं द्वितीयोऽंशः ।
तदेतदंशद्वयं सम्मील्यैव रजतमिति वा सर्प इति वा विसंवादिव्यवहारो भवति । तदेवं मिथ्यात्वेनाभिमतेऽपि इदंत्वविशिष्टरजतभुजङ्गादिवस्तुनि प्रथमांशः सत्य एव भवति बाधोत्तरमपि तस्योपलम्भात। किन्तु द्वितीय एव मिथ्या । सम्यक्दर्शनानन्तरं बहुमूल्यत्वलाभालाभप्रयुक्तसुखदुःखमोहजनकत्वरजतत्वादिव्यवहारप्रयोजकत्वादीनां भयजनकत्वादीनामेव च तत्र बाधदर्शनात।
तदेवं व्यावहारिकमिथ्यात्वेनाभिमतेऽपि वस्तुनि, अंशविशेष एव मिथ्या भवति, तावदंशमादायैव विशिष्टेऽपि मिथ्यात्वव्यवहारः । एवं व्यावहारिकसत्यत्वेनाभिमतेऽपि पित्तलकनककुण्डलादौ । यदा कुण्डलादिकं कनकत्वकनकात्मकत्वकनकांशत्वादिना, कनकत आविर्भूतकनकात्मककुण्डलत्वादिना च ज्ञानविषयः, तदा सत्यमित्युच्यते । तथाभूतं च ज्ञानं प्रमा इत्युच्यते । तदेव च कुण्डलादिबालकविशेषादिना नेदं स्वर्णम्, अपि तु कुण्डलं, नेदं स्वर्णांशः, अपि तु स्वतन्त्रं वस्तु इत्यादिदिशा स्वर्णभिन्नत्वेन स्वतन्त्रतत्त्वान्तरत्वेन स्वर्णापेक्षया उचितादधिकप्रेमास्पदत्वेनोचितादधिकमूलकत्वादिना च गृहीतं, तद्विषयकज्ञानं च तात्त्विकदृष्ट्या मिथ्यैव भवति । अत एव संस्थानविशेषापन्नं तत्चमत्कारविशेषमावहन्नपि स्वर्णमेव स्वर्णांश एव स्वर्णात्मकमेव न स्वर्णभिन्नं, न वा स्वतन्त्रं वस्त्वन्तरम् । स्वर्णाज्जातत्वात्स्वर्णे स्थितत्वात्स्वर्णे पर्यवसानाच्च । अत एव च स्वर्णमात्रार्थिनां वणिक्विशेषाणां न शुद्धस्वर्णापेक्षयाधिकमूलकं वा शुद्धस्वर्णभिन्नं वा बालानां तु तद्विपरीतम् । इति ताड्र्शविशेषदृष्ट्या बालानां प्रतीतिर्मिथ्यैव । नैतावता स्वर्णस्य कुण्डलाकारता विलक्षणकार्यकारिता कुण्डलत्वाख्यस्वर्णविशेषता वा मिथ्या भवति । अपि तु बालबुद्धिकल्पितं स्वर्णभिन्नत्वस्वर्णानात्मकत्वादिकमेव मिथ्या । तावन्मात्रोपचारेणैव कुण्डलमपि बालबुद्धिकल्पितं मिथ्याभूतं बालानां ताड्र्शं ज्ञानं चान्यथार्थकं विपश्चिद्भिरुच्यते ।
तथा विवादास्पदे जगत्यपि तावदंशद्वयं भासते सामान्यविशेषभेदेन, तत्र अस्तित्वभातित्वप्रियत्वाद्यंशः पृथिव्यादिसन्निवेशविशेषांशश्च प्रथमः । स एव सामान्यांश इत्युच्यते । तस्यापामरसर्वजनं प्रतिभासमानत्वात्सामान्यत्वम् । द्वितीयो विशेषांशोऽपि द्विविधः ब्रह्मविन्मात्रप्रतीतिगोचरतद्भिन्नमात्रप्रतीतिगोचरभेदात। तत्र ब्रह्मात्मकत्वब्रह्मायतनत्वब्रह्मप्रतिष्ठानत्वादिरूपः प्रथमोऽंशः । ब्रह्मानात्मकत्वद्वेषास्पदत्वाद्यंशो द्वितीयः । एवं च यदा सामान्यांशेषु जगदिति व्यवहारनिर्वाहको मुख्योऽंशः पृथिव्यादिसन्निवेशविशेषरूपः स्वेतरसामान्यांशेनास्तित्वभातित्वप्रियत्वादिना विशेषेण च ब्रह्मात्मकब्रह्ममूलकत्वादिना च स्वाभाविकेन सर्वेण समनुगतः प्रतीयते, तदा सा प्रतीतिः, ताड्र्शप्रतीतिविषयीभूतताड्र्शसर्वधर्मोपपन्नं च जगत्सत्यमित्युच्यते । ताड्र्शप्रतीतेर्विषययस्य बाध्यत्वाभावात्संवादिप्रवृत्तिजनकत्वाच्च । स एव च पृथिव्यादिसन्निवेशविशेषो यदि ब्रह्मात्मकत्वादिजगत्स्वाभाविकधर्मविपरीतेन ब्रह्मानात्मकत्वब्रह्माप्रतिष्ठानत्वादिना सहचरितः प्रतीयते, तदा सा प्रतीतिः तद्विषयश्च पृथिव्यादिसन्निवेशविशेषरूपं जगत्, असत्यमित्युच्यते वेदान्तपरिशोधितब्रह्मात्मकत्वादिविषयकसम्यक्ज्ञानं बाध्यत्वविसंवादिप्रवृत्तिजनकत्वाच्च ।
तथा च, एकमेव जगत्, ब्रह्मात्मकत्वाद्युक्तस्वभाविकधर्मविशिष्टतया सत्यमिति शास्त्रेषु सत्यमित्युच्यते । ज्ञायमानं च सत्जन्माद्यस्य यतः [वे.सू. १.१.२] इति सूत्रोक्तदिशा ब्रह्मानुभवोपयोगि च भवति । अविद्यापिहितसदसद्विवेकरहितप्राकृतजनप्रतीतिसिद्धताड्र्शविपरीतधर्मविशिष्टतयासत्यमित्यप्युच्यते, ब्रह्मस्वरूपविधायि च भवति । इति युगपदेव जगति सत्यत्वमसत्यत्वं ब्रह्मज्ञानोपयोगित्वं ब्रह्मज्ञानप्रतिबन्धकत्वं च भवति । अत एव जगत्सदसदपि क्वचिदुच्यते ।
तदेवमज्ञकल्पितब्रह्मानात्मकत्वादिपूर्वोक्तविशेषणांशमादायैव मिथ्यात्वं तावदंशमादायैव शास्त्रेषु क्वचिज्जगतो मिथ्यात्वकथनम् । शुक्तिरजतादिदृष्टान्तश्च । दृश्यते हि, शिखी नष्टः इत्यादौ विशेषणांशे यादृशधर्मवत्त्वं विशिष्टांशेऽपि ताड्र्शधर्मवत्त्वव्यवहारः, नैतावता विशेष्यांशेऽपि तथात्वम् । तथा पृथिव्यादिसन्निवेशविशेषरूपे जगति निरुक्तविशेषणांशस्य मिथ्यात्वात्, विशिष्टे ब्रह्मानात्मकत्वादिविशिष्टतया कल्पिते जगति मिथ्यात्वव्यवहारः ।
तथा चायं निर्गलितोऽर्थः—एकमेव जगत। तस्य ब्रह्मात्मकत्वब्रह्मप्रतिष्ठानत्वब्रह्माधिष्ठितत्वादिः स्वाभाविको धर्मः । ब्रह्मानात्मकत्वब्रह्मानप्रतिष्ठानत्वस्वतन्त्रत्वाहङ्कारममकारास्पदत्वादिकमस्वाभाविको धर्मः । तथा च, यदि स्वाभाविकधर्मोपपन्नतया ज्ञायते, तदा ज्ञायमानं जगत्ज्ञानं च सत्यमित्युच्यते, तावदंशमायायैव वेदान्तेषु जगत्सत्यत्वादिवादः परिणामवादश्च । यदा च विपरीतधर्मवत्तया ज्ञायते, तदा विशेषणांशस्य सम्यक्ज्ञानबाध्यत्वात्, व्यामोहकत्वाच्च जगन्मिथ्यात्ववादो विवर्तवादश्च । इत्युभयोः श्रुत्योः विषयभेदान्न विप्रतिषेधः । नैतावतापि जगतः स्वरूपांशे स्वाभाविकधर्मांशे वा मिथ्यात्वम्, अपि तु ब्रह्मानात्मकत्वादिविशेषणांश एवेति ॥
इदं पुनरिहावधेयम्—यद्वस्तु यावत्स्वाभाविकधर्मोपपन्नं भवति, तद्वस्तु तावत्स्वभाविकसर्वधर्मोपपन्नतया ज्ञातं सदेव सर्वथा सत्यं भवति । तथा सत्येव तद्वस्तुन अंशतोऽपि बाध्यत्वाभावात। यदि च किञ्चिदपि तादृशस्वाभाविकधर्मविहीनतया परकीयधर्मसम्पन्नतया वा ज्ञायते, तदा तावदंशमादाय मिथ्यापि भवत्येव, तावदंशस्य सम्यक्ज्ञानबाध्यत्वात। यथा स्वर्णखण्डे पलपरिमितं पीतं सुन्दरं पञ्चशतमुद्रामूल्यकमिति वस्तुस्थितिः । तच्च यदि स्वर्णखण्डं पलपरिमितं पीतं सुन्दरं पञ्चशतमुद्रामूल्यकमित्येवंरूपेण यावद्धर्मोपपन्नतया ज्ञायते, तदा अंशतोऽपि बाध्यत्वाभावात्सर्वथा सत्यमित्युच्यते । यदि च अंशतोऽपि हीनतया परधर्मोपपन्नतया वा स्वर्णखण्डमपीतमसुन्दरं वा पलपरिमितं पञ्चशतमुद्रामूल्यकमित्यादिरूपेण रजतखण्डादिरूपेण वा ज्ञायते, तदा स्वर्णखण्डं पीतं सुन्दरं पञ्चशतमुद्रामूल्यकमित्येवंरूपसम्यक्ज्ञानबाध्यत्वात्तदंशेन मिथ्यापि भवत्येव । तथा जगदपि यावत्स्वाभाविकब्रह्मात्मकत्वादिधर्मोपपन्नं तावत्सर्वधर्मोपपन्नत्वेन ज्ञायमानमेव सर्वथा सत्यम् । ब्रह्मात्मकत्वादिकिञ्चिद्धर्मविहीनतया वा स्वतन्त्रत्वादिपरधर्मवत्तया वा ज्ञायमानमंशतो मिथ्यापि भवत्येव तावदंशमादाय सम्यक्ज्ञानबाध्यत्वात्, इति जगतः सत्यत्वेऽप्युभयश्रुतिसामञ्जस्यमिति । विसंवादिप्रवृत्तिजनकत्वादिलक्षणजीवब्रह्मात्मस्वरूपपिधायकत्वादिलक्षणमोहकत्वाद्युक्तिसामञ्जस्यं चेति ॥
ननु तदैवैतद्व्यवस्थाया युक्तं स्यात्, यदा सत्यत्वासत्यत्वावेदकयोः प्रमाणयोः समबलत्वं भवेत। विषयवेलत्वे तु दुर्बलस्य सत्यत्वावेदकप्रमाणस्य मुख्यार्थात्प्रच्याव्य, सबलमिथ्यात्वश्रुत्यनुगुणतात्पर्यकल्पनमेव युक्तम् । न च श्रुतित्वाविशेषाद्द्वयोः समबलत्वं युक्तम् । मिथ्यात्वावेदकवाक्यस्य प्रमाणान्तरानधिगतार्थविषयकत्वेन नित्यशुद्धमुक्तस्वभावात्मस्वरूपस्य प्रतिपत्तेः प्रत्यनीकाशुद्धत्वादिज्ञाननिरसनमुखेनोपयोगित्वेन च बलवत्त्वात। प्रपञ्चसत्यत्वावेदकशास्त्रस्य प्रत्यक्षादिप्रमाणसिद्धार्थावेदकत्वादनुवादकत्वेनापूर्वत्वाभावात। तथा निर्विचिकित्सात्मस्वरूपप्रत्यनीकार्थग्राहकत्वाच्चेति ।
तथा च सृष्टिवाक्यं प्रपञ्चसत्यत्ववाक्यं च न प्रपञ्चसत्त्वपरमपि तु निषेधार्थमनुवादमात्रपरम् । तदुक्तं—अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इति । अयं भावः—यदि लौकिकप्रमाणसिद्धजगतः स्वशब्देन ब्रह्मकार्यत्वेनानुवादमकृत्वा निषेधति, तदा नास्त्येव घटः इत्यादौ यथा एकत्र निषिद्ध्यमानोऽपि घटोऽन्यत्र सिद्ध्यति, तथा जगदपि ब्रह्मणि निषिद्ध्यमानमन्यत्र क्वचित्सिद्ध्येत। तथा च, न निर्विचिकित्साद्वितीयब्रह्मात्म्यैक्यप्रतिपत्तिः । यदि तु जगतो ब्रह्मजत्वब्रह्मायतनत्वब्रह्मपर्यवसानत्वादिना सम्यगनूद्य प्रतिषिद्ध्यते, तदा ब्रह्मोपादेयत्वेन ब्रह्मण्यध्यस्तस्य जगतो ब्रह्मणि प्रतिषेधे सर्वथा मिथ्यात्वमेव सिद्ध्येत्, नान्यत्र सत्यत्वम् । यथा मृदादिकार्यत्वेनाध्यस्तस्य घटादेः मृदादावसत्त्वे सिद्धेऽन्यत्राप्यसत्त्वमेव सिद्ध्येत्, कार्यस्योपादाने सत्त्वाभावेऽन्यत्र सत्त्वासम्भवात्, तथा च निर्विचिकित्साद्वयब्रह्मात्मैक्यप्रतिपत्तिरिति चेन्, न । प्रपञ्चसत्त्वावेदकवाक्यानामपि तथैवापूर्वत्वात। तत्त्वदृष्ट्या विचार्यमाणे तु मिथ्यात्वावदेकवाक्यादपि विशेषतोऽपूर्वत्वात्ब्रह्मस्वरूपप्रतिपत्तावधिकमन्तरङ्गत्वात्मिथ्यात्वावेदकवाक्यस्यैव सत्यत्वावेदकवाक्याङ्गतानिर्णयाच्च । तथा हि, यादृशं जगत्, श्रुत्या आवेद्यते न तादृशं जगत्प्रत्यक्षाद्वा अनुमानाद्वा सिद्ध्यति, येन श्रुतीनामनुवादकत्वम् । श्रुतिर्हि—आत्मन आकाशः सम्भूत आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी इत्येवं जगत्सृष्टिं वदति नह्येतत्प्रत्यक्षेण सिद्ध्यति अग्निजलयोरुपादानोपादेयभावस्य नितरां प्रत्यक्षविरुद्धत्वात। एवमितरेषामपि वाय्वाकाशादीनां तथाभावः प्रत्यक्षासिद्ध एव । नाप्यनुमानसिद्धः परमाणुकारणवादक्षणिकविज्ञानवादशून्यवादमायावादादीनामेव नैयायिकबौद्धाद्युद्भाविततर्कसिद्धत्वात।
यद्यनुपदोक्तश्रुत्युक्तव्योमादिकारणवादस्य तर्कसिद्धत्वं भवेत्, तदा नैयायिकबौद्धादितार्किकैः साध्येत, न त्वारम्भवादमिथ्यात्ववादादिः । तथा च, त्वदुक्तमिथ्यात्ववाद एव तर्कसिद्ध इति त्वदुक्तश्रुतिरेव तदनुवादिकेति । न च त्वदुक्ताकाशादिसृष्टिवादोऽपि साङ्ख्यैस्तर्केण साध्यत एवेति तस्यापि तार्किकत्वं सिद्ध्यत्येवेति वाच्यम् । तथापि न तस्य तर्कसिद्धा सृष्टिः ब्रह्मकारणवादपर्यवसन्ना । यदि च श्रुतिसिद्धब्रह्मपरिणामवादस्य प्रत्यक्षसिद्धत्वं वा तर्कसिद्धत्वं वा साङ्ख्यतर्कसिद्धत्वं वा भवेत्, तर्हि साङ्ख्यादिभिः नैयायिकादिभिश्च कृत्स्नप्रसक्तिर्निरवयवत्वशब्दव्याकोपो वा इत्यादिना तर्कविरोधो नोद्भावयेत । व्यासश्च श्रुतेस्तु शब्दमूलत्वात्[वे.सू. २.१.२७] इत्यादिना श्रुत्येकसमधिगम्यत्वं तर्कागोचरत्वं च न वदेत। तस्माद्ब्रह्मपर्यवसन्ना आकाशादिसृष्टिः श्रुतिमात्रसिद्धा अपूर्वैव इति तत्प्रतिपादिका श्रुतिरप्यपूर्वैव, नानुवादिका ।
नन्वस्तु सृष्टिश्रुतेरपूर्वत्वं, तथापि जगत्सत्यत्वश्रुतेः कथमपूर्वत्वं ? इति वाच्यम् । सृष्टिश्रुतेरपूर्वत्वेन सृष्टेः सत्यत्वे सिद्धे, तदनुगृहीतजगत्सत्यत्वश्रुतेरपूर्वत्वाभावेऽपि न जगत्सत्यत्वव्याघातः । इति तद्बोधकत्वश्रुतेरपि न स्वार्थबाधः ॥
वस्तुतस्तु, जगत्सत्यत्वश्रुतेऽप्यपूर्वत्वमस्त्येव, बौद्धाद्युद्भाविततर्कप्रसक्तमिथ्यात्वनिषेधकत्वात। अयं भावः—बौद्धादिभिर्हि तर्कबलमाश्रित्य जगतः क्षणिकपरमाणुपुञ्जमयत्वं मिथ्यात्वं च मतभेदेन कल्प्यन्ते, तस्य च प्रामाणिकत्वे निर्विचिकित्सब्रह्मपर्तिपत्तिर्न सम्भवति । वस्तुतस्तु, अंशतोऽपि ब्रह्मप्रतिपत्तिर्न सम्भवति, ब्रह्मणो जगदात्मकलक्षणलक्ष्यत्वात्, यतो वा इमानि भूतानि जायन्ते [तै.उ. ३.१] इति श्रुतेः । जगतः सत्यत्वे सत्यब्रह्मणः सुतरां प्रतिपत्तिः । आह च श्रुतिः स्वमुखेनैव—तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयम् । तस्मादसतः सज्जायत । कुतस्तु खलु सोम्यैवं स्यात्? इति होवाच कथमसतः सज्जायेत ? इति । सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयं [छा.उ. ६.२.१२] इति व्याख्यातं पूर्वम् । दर्शयति चोपादानोपादेयभावमुद्रया जगतो ब्रह्मप्रतिपत्त्युपायत्वं— सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः [छा.उ. ६.८.४] इति ।
अत एव च जन्माद्यस्य यतः [वे.सू. १.१.२] इति सूत्रं प्रणयति । महता प्रबन्धेन च जगतो ब्रह्मोपादेयत्वं व्यवस्थापयति प्रतिषेधति च प्रधानकारणवादं परमाणुकारणवादमविद्याकारणवादं च, रचनानुपपत्तेश्च नानुमानं [वे.सू. २.२.१], वहद्दीर्घवद्वा ह्रस्वपरिमण्डालाभ्यां [वे.सू. २.२.११], वैधर्म्याच्च न स्वप्नादिवत्[वे.सू. २.२.२९] इत्यादिभिः । तस्माद्ब्रह्मप्रतिपत्तौ जगत्प्रतिपत्तेरावश्यकत्वात्, “न कलञ्जं भक्षयेत्” इत्यादिश्रुतेरपूर्वत्वं स्वार्थोपामाण्यं च तथा जगत्सत्यत्वश्रुतेरपि तार्किकप्रसक्तमिथ्यात्वप्रतिषेधकत्वात। अपूर्वत्वं स्वार्थे प्रामाण्यं च निर्बाधम् । सत्यश्रुतेः ब्रह्मप्रतिपत्तावुपयोगित्वमपि व्याख्यातमेव पूर्वोक्तेनेति ।
एवं च मिथ्यात्वावेदकश्रुतिरेव सत्यत्वावेदकश्रुतेरङ्गमित्यपि व्याख्यातम् । सत्यश्रुतिर्हि जगतः सत्यत्वं ब्रह्मोपादेयत्वं ब्रह्माधिष्ठितत्वं ब्रह्मजत्वादि च व्यवस्थापयदभिन्ननिमित्तोपादानकं निखिलचिदात्मकजगदात्मभूतं स्वतन्त्रसत्ताश्रयं स्वसमानाभ्यधिकशून्यं तादृशसर्वशक्त्युपेतं ब्रह्म बोधयति । मिथ्यात्वश्रुतिस्तु तादृशप्रतिपत्तिविरोधिभूतं जगति स्वतन्त्रसत्ताश्रयत्वं ब्रह्मानात्मकत्वादि च साङ्ख्यादितर्कसिद्धं, प्रतिषेधयन्नुपकरोति । इति सुतरां मिथ्यात्वश्रुतेः सत्यत्वश्रुतेरङ्गत्वमिति ।
ननु, अथात आदेशो नेति नेति । न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्य सत्यमिति । प्राणा वै सत्यम् । तेषामेष सत्यं [बृ.आ.उ. २.३.६] इति बृहदारण्यके मूर्तामूर्तब्राह्मणे मूर्तामूर्तात्मकं द्विविधप्रपञ्चस्वरूपमनूद्यप्रतिषेधात्प्रपञ्चस्य स्वरूपत एव सत्त्वप्रतिषेधे मिथ्यात्वश्रुतेस्तात्पर्यं निर्धारयितुं शक्यते इति चेत्, न । नेति नेति इति श्रुतेः पूर्वोक्तमूर्तामूर्तप्रपञ्चप्रतिषेधे तात्पर्याभावात। अपि तु, द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च [बृ.आ.उ. २.३.१] इत्यादिनोक्तं मूर्तामूर्तप्रपञ्चमात्रं, नहि ब्रह्मस्वरूपम्, अपि तु एतस्मादधिकमपि प्रपञ्चातीतं सत्यज्ञानानन्दलक्षणम् । तादृशधामवैभवपरिकरपरिच्छदसहितं—आदित्यवर्णं तमसः परस्तात्[श्वे.उ. ३.८] इत्यादिश्रुतिप्रसिद्धम् । एवं च, द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च [बृ.आ.उ. २.३.१] इत्युक्ततावन्मात्रब्रह्मस्वरूपत्वभ्रमनिरासार्थं, ततोऽप्यधिकब्रह्मस्वरूपबोधनार्थं च नेति नेति इति श्रुतिः ।
तथा च, तावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति [छा.उ. ३.१२.६] इति मन्त्रवर्णेन यदुक्तं, तदेवात्र विचारितम् । अत्रापि पुरुष एवेदमित्यंशेन परमात्मनस्तावन्मात्ररूपत्वशङ्कासम्भवात। ततो ज्यायांश्च पुरुषः इति प्रपञ्चातीतस्वरूपं पुनरुक्तम् । तेन च त्वदुक्तार्थसिद्धिः । तदुक्तं सूत्रकृता—प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः [वे.सू. ३.२.२२] प्रकृतं यन्मूर्तामूर्तप्रपञ्चत्वं तु तावदेव ब्रह्म न भवति इति नेतिनेतिवाक्येन प्रतिपाद्यते, न तु प्रपञ्चस्वरूपं निषिद्ध्यते, अतत्परत्वाद्वाक्यस्य । द्वौ नञौ द्वित्वसङ्ख्यावच्छिन्नरूपमेतावत्त्वं प्रतिषेधतः ।
भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्[श्वे. १.१२] इति श्वेताश्वतरेऽपि ब्रह्मणस्त्रिरूपत्वप्रतिपादनात्न द्विरूपत्वमात्रम् । तदेवाह—ततो ब्रविति च भूयः । ततः पूर्वोक्तात्मूर्तामूर्तरूपद्वयाद्भूयस्त्वं ब्रवीति च वाक्यमिति शेषः । न ह्येतस्मादिति नेत्यन्यत्परमस्तीति । एतस्मात्पूर्वोक्तात्मूर्तामूर्तरूपद्वयातन्यद्ब्रह्मस्वरूपं नहीति न वक्तव्यम् । यतः, अन्यत्परमस्तीति एतस्मात्परमुत्कृष्टमिन्द्रियाग्राह्यमेतद्रूपद्वयनियन्तृ सत्यज्ञानानन्दलक्षणं पुरुषोत्तमाख्यमन्यद्रूपमस्तीति । स्वयं श्रुतिरेव तत्रैव ब्रवीति इति सूत्रार्थः । एतेन अन्यत्परमस्ति, एतत्पर्यन्ता श्रुतिरपि व्याख्यातैव ।
अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेव सत्यं [बृ.आ.उ. २.१.२०] इत्यस्यार्थ उच्यते । अत्र प्राणा इत्याद्युत्तरार्धं पुरुषार्धस्य निर्वचनं तथा चायमर्थः । सत्यस्य जीवस्यापि सत्यं ब्रह्म, तदेवाह प्राणा इत्यादि । प्राणशब्देन प्राणवन्तो जीवा उच्यन्ते—ते हि ब्रह्माधीनसत्ताका अपि नित्यत्वाच्चेतनत्वाच्चानित्याचेतनवियदाद्यपेक्षयाधिकस्वतन्त्रसत्ताश्च यत्त्वात्वियदाद्यपेक्षयासत्यामुच्यन्ते । तेऽपि ब्रह्मांशा अंशिभूतब्रह्मसत्ताधीना इति सर्वतः स्वतन्त्रसत्ताश्रयनिरतिशयज्ञानानन्दघनम्, इति जीवानामपि सत्यं तदिति । तदेतद्विस्पष्टं व्याख्यातं वेदान्तकौस्तुभप्रभायामत्रैव वृत्तिकृद्भिः । तेन न जगतः स्वरूपतो मिथ्यात्वसिद्धिः ।
ननु तथापि, एकमेवाद्वितीयं [छा.उ. ६.२.१], सलिल एको द्रष्टाद्वैतो भवति [बृ.आ.उ. ४.३.३२],
मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ [बृ.आ.उ. ४.४.१९]
इत्याद्यद्वैतश्रुतिविरोधो दुष्परिहरः । तत्र सजातीयविजातीयस्वगतास्त्रयस्य त्रिविधस्यापि भेदस्य प्रतिषेधात्, तथा चांशतोऽपि जगत्सत्यत्वस्वीकारासम्भवः । तदुक्तं,
वृक्षस्य स्वगतो भेदः, पत्रपुष्पफलादिभिः वृक्षान्तरात्स्वजातीयो विजातीयः शिलादितः । तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते एकावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमातिति व्याख्यातं चाद्वैतसिद्धौ स्वतगभेदो नानात्वरूपो जीवेश्वरभेदः । सजातीयभेदोऽत्र द्रव्यत्वादिना पृथिव्यादिभेदः । विजातीयभेदो गुणादिभेदः, अन्यथा जडभेदो विजातीयभेदः । चैतन्यभेदः सजातीयभेदः । ज्ञानात्मादिधर्मभेदः स्वगतभेदः । ते च एकावधारणद्वितीयप्रतिषेधैर्निवार्यते । अन्यथा अद्वितीयपदेनैव भेदत्रयनिषेधः, एकावधारणपदे तु सङ्कोचशङ्कापरिहाराय इति ।
तथा च भेदत्रयनिषेधान्यथानुपपत्त्यैव जगतो मिथात्वसिद्धिः । एवं नेह नानास्ति किञ्चन इत्यत्र ब्रह्मणि नानात्वदर्शननिन्दनाच्चान्यथानुपपत्त्या जगतो मिथ्यात्वसिद्धिरिति चेत्, न ।
शृणु तत्त्वग्राहिदृष्ट्या शृणु, सदेव सोम्येदमग्र आसीतेकमेवाद्वितीयं [छा.उ. ६.२.१] इत्यत्र प्रथम एवकारः, अन्ययोगव्यवच्छेदार्थको वैशेषिकमाध्यमिकाभ्यां तर्कितमसत्कार्यवादमसत्कारणवादं च व्यवच्छिन्नत्ति । तथा च वक्ष्यति स्वयमेव श्रुतिः । तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयम् । ततो वै सदजायत । कुतः खलु सोम्येदं स्यात्? कथमसतः सज्जायेत । सत्त्वेव सोम्येदमग्र आसीत्, एकमेवाद्वितीयम् [छा.उ. ६.२.१२] । व्याख्यातं च पूर्वम् ।
तथा च सदेव इत्यत्रैवकारः क्रमेण माध्यमिकवैशेषिकमतप्रसिद्धमसत्कारणवादासत्कार्यवादरूपं मतद्वयं, तद्धैक आहुरसदेव इत्यादिना स्वयमनूद्य निराकरिष्यमाणं व्यवच्छिन्नत्ति । न च तस्य सन्मात्रमित्येव कथनार्थ इति वाच्यम् । प्रतिज्ञावाक्यनिगमनवाक्ययोरेकार्थत्वभङ्गापत्तेः । सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमिति प्रतिज्ञावचनम् । सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयमिति निगमनवाक्यम् । निगमनवाक्यैवकारस्य तद्धैक आहुः इत्याद्यनूदितासत्कारणासत्कार्यवादव्यवच्छेदकत्वमेव । तथा हि, एवकारस्यैवं स्वभावो यत्स्वप्रकरणोक्तविरुद्धानेकपक्षसम्भवे स्वसमभिव्याहृतवाक्यसिद्धपक्षविरुद्धस्वप्रकरणोपपादितपक्षमेव नियमतः प्रतिक्षिपति । अत एव “ममैवेदं गृहं, न द्वितीयस्य कस्यचित। केचन वदन्ति देवदत्तस्येदं गृहमिति, कथं मम नित्यनिवासभूतं देवदत्तस्य स्यात्? ममैवेदं गृहं न द्वितीयस्य कस्यचित।” इति वाक्ये गृहे न देवदत्तस्वामिकत्ववत्वक्तुरनुजपुत्रादिस्वामिकत्वमपि प्रतिषिद्ध्यते इति ।
तथा च सत्त्वेव सोम्य इति निगमनवाक्यस्थ एवकारः स्वसमभिव्याहृतं सदेवेत्यादिवाक्यसिद्धसत्कारणवादसत्कार्यवादसिद्धान्ताद्विरुद्धं तत्प्रकरणोक्तमसत्कार्यवादासत्कारणवादाख्यं मतद्वयमेव व्यवच्छिनत्ति, न तु सदेव सोम्येदमिति स्वशब्देनैव सदात्मकतयोक्तं जगदपि । एवं च निगमनवाक्यैकवाक्यतया प्रतिज्ञावाक्येऽप्येवकारोऽसत्कारणकार्यवादव्यवच्छेदक एव । एवमप्येवकारस्य स्वभावो यदग्रेऽनुपदं प्रतिपक्षत्वेनोद्भाव्य निषेध्यं भवति । अत एव उक्तनिदर्शनवाक्य एव प्रथमेनाप्येवकारेण न गृहे भ्रातुर्वा पुत्रस्य वा स्वस्वामिकत्वं प्रतिषिद्ध्यते इति ।
तथा च सदेव इत्येवकारेणासत्कारणकार्यवादावेव व्यवच्छिद्येते । यदि च निगमनवाक्ये सत्त्वेव इति तुशब्दघटितः पाठः, तदा तुशब्देनासत्कारणवादः एवकारेणासत्कार्यवादो व्यवच्छिद्यते । यदि तुशब्देनापि वादद्वयव्यवच्छेदसम्भवात्, एवकारस्यापि तदर्थकत्वमित्येवकारस्य निगमनवाक्यस्थस्य व्यवच्छेद्यान्तरमेव मृग्यमिति विभाव्यते, तदापि एवकारस्य निगमनवाक्यस्थस्यासत्कार्यवादासत्कारणवादान्यतरव्यवच्छेदकत्वमेव ।
अत्र तद्धैक आहुरित्यनेनासत्कार्यवादं केचिदवतारयन्ति, केचिदसत्कारणवादमवतारयन्ति । एवं च तदन्तरं निषेधतयोक्तस्य तुशब्दस्याप्यन्यतरव्यवच्छेदकत्वमेव । तथा चैवकारोऽन्यतरं व्यवच्छिनत्ति । एवं च इदं कार्यमग्रे सृष्टेः प्रागपि सदेव सद्भूतमेव आसीत्, न तु वैशेषिकाणामिव कारणव्यापारात्प्रागसद्भूतमिति वा । इदं कार्यमग्रे सृष्टेः प्रागपि सदेव सद्रूपकारणतादात्म्यापन्नमासीत्, न तु माध्यमिकानामिव कारणव्यापारात्प्राकसद्भूतं शून्यभूतमिति वा एवकारान्वितसत्पदार्थः ।
एवं च प्रथमैवकारेण कार्यस्य कारणस्य च, तुशब्दपक्षेऽपि अन्यतरस्यैव वा सत्त्वमेव निर्धारितं, न तु तयोरेकत्वमपि । सम्भवति च वैशेषिकसाङ्ख्यादिवत्कार्यकारणयोः चिदचिदोश्च स्वतन्त्रसत्ताद्वैतेऽपि कार्यकारणयोः चिदचिदोश्च सत्त्वमिति । तदर्थमाह—एकमिति । नामरूपविभागानर्हतया तन्तूच्चारात्प्रागूर्णनाभिवत्, शब्दाभिव्यञ्जनात्प्राकाकाशवतौषध्युद्भवात्प्राक्पृथिवीवतेकीभूतमित्यर्थः । कार्यं तु सर्वविधवैचित्र्यसम्पन्नमपि तत्र तथैवैकीभूतमासीत्, यथोर्णनाभ्यादौ तन्त्वादि, यथा वा व्यजनादिव्यापारात्प्राक्सर्वस्वभाविकगुणसम्पन्नमपि वाय्वादिप्रज्वालनात्प्राक्पश्चाच्च निर्वाणात्वायौ वह्न्यादि । वाय्वग्नी व्याप्तौ, अत एव व्यजनादिना सर्वत्राभिव्यज्यते, एवमपि व्यजनादिव्यापारात्प्राक्, अण्वप्याकाशभिन्नतया स्वरूपतो वा नानुभूयते, तथा चिदचिदात्मकः प्रपञ्चः विविधवैचित्र्यविशिष्टः कारणे ब्रह्मणि सृष्टिप्राक्काले विद्यमानापि, अननुभूयमानत्वान्न कारणे स्वसद्भावप्रयुक्तं भेदांशप्रत्यायति । तदुक्तं प्रलयावस्थामधिकृत्य सुबालोपनिषदि—तमः परे देवे एकीभवति [सु.उ. १] एकीभावः, सत्यपि भेदे भेदाप्रतीतिः, न तु सर्वथा भेदविलोपः, अभूततद्भाव एव च्युतप्रत्ययविधानात्दिवाभूतारात्रिः इत्यपि तदुदाहारणादपि तथैव निश्चयात। तथा च सर्वथा भिन्नप्रतीत्यगोचरीभूतं निलीनसर्वस्वकार्यप्रपञ्चमिति । एकमित्यस्यार्थः ।
एवमपि ब्रह्माण्डान्तरीयगोलकान्तरीयकार्यजातमप्येवंभूतमेव नानैवंभूतमिति न निर्धार्यते इति तादृशसम्भावनाव्यवच्छेदायाह—एवेति । तथा च किञ्चिदपि कार्यजातं ततो विभक्तं नासीदित्यर्थः । अन्यथा एतादृशमविभक्तप्रपञ्चात्मभूतयदपि सद्वस्तु स्यातिति सजातीयद्वितीयं व्यवच्छिनत्त्येवकारः । अद्वितीयशब्दस्तु तादृशविभक्तपूर्व्परम्तोऽन्यदुत्कृष्टं तस्यापि कारणभूतं तटस्थं ततोऽपकृष्टां वा स्वतन्त्रं वा ततो विजातीयं स्यादिति तत्सदृशविजातीयतत्त्वं व्यवच्छिनत्ति ।
तथा च “तन्तु”शब्दवायुदहनादीनामूर्णनाभ्याकाशवाय्वादिवत्सर्वप्रपञ्चबीजं सजातीयविजातीयभेदद्वयशून्यं सदात्मकं ब्रह्मासीतिति वाक्यार्थः पर्यवस्यति । तथा च न तेनापि जगतो मिथ्यात्वसिद्धिः स्वगतभेदनिषेधकपदाभावात। चिदचिदात्मकप्रपञ्चस्य ब्रह्मशक्तित्वेन ब्रह्मण्येव निविष्टत्वस्योपपादितत्वाच्चेति । यदि च सदेव इत्यत्रैवकारस्य कार्यकारणयोरैक्यावधारणमेवार्थ इत्यत्रैवाग्रहः, तदाप्यैक्यं मदुक्तमेवावधारणीयं, न तु मायावाद्युक्तं प्रपञ्चमिथ्यात्वमूलकं मात्रात्मसवलब्रह्मकार्यत्वप्रयुक्तं वा इदानीं प्रपञ्चमिथ्यात्वस्यानिर्णयेन तथा वक्तुमशक्यत्वात। तथा च शब्दमर्यादया कार्यस्य कारणरूपत्वमात्रं प्रतीयते इति तावदेव ग्राह्यम् । तथा च कारणस्य सत्यत्वात्तद्रूपस्य कार्यस्य सत्त्वमेव सिद्ध्यति । कारणरूपत्वं तु भेदगर्भिततादात्म्यपर्यायमिति ऐतदात्म्यमिदं सर्वं [छा.उ. १.८.७] इति वक्ष्यमाणग्रन्थादवसेयम् ।
यद्वा, एकशब्दस्तूत्कर्षातिशयबोधकः । एवशब्दः स्वोत्कृष्टनिषेधपरः । अद्वितीयशब्दः स्वसामाननिषेधपरः । तथा च, क्षराक्षराभ्यामुत्कृष्टः स्वसमानाभ्यधिकशून्य इत्यर्थः । तदुक्तं श्रीकेशवभट्टकाश्मीरिचरणैः, यथा च प्राणादिः [वे.सू. २.१.१९] इति सूत्रविवृत्तौ—
श्रुत्यर्थस्तु सदेवेत्यत्र स्वतन्त्रसत्ताश्रयः सत्पदार्थः । आत्मा हि परमः स्वतन्त्रोऽधिगुण इति श्रुतेः । एकपदं ब्रह्मणः क्षराक्षराभ्यामुत्कृष्टरूपप्राधान्यं विधत्ते, एके मुख्यान्यकेवलाः इत्यमरओक्तेः । एकशब्दोऽयमन्यप्रधानासहायसङ्ख्याप्रथमसमानवाची इति । एको गोत्रे [पा. ४.१.९३] इति सूत्रे कैयटोक्तेश्च । सहायान्तरशून्यत्वोत्कर्षपरो वा, ष्णान्ता षट्[पा. १.१.२४] इति सूत्रे एकशब्दोऽयं बह्वर्थः इति महाभाष्यकारोक्तेश्च ।
तथा च, क्षराक्षराभ्यामुत्कृष्टमन्यसहायहीनमेकसङ्ख्याकमेकपदार्थः । प्रधानक्षेत्रज्ञपतिः, अक्षरात्परतः परः [श्वे.उ. ६.१६] इति श्रुतेः । यस्मात्क्षरमतीतोऽहं मत्तः [गीता १५.१८], परतरं नान्यत्[गीता ७.७] इति श्रीमुखोक्तेश्च । अन्ययोगव्यवच्छेदार्थः प्रथम एवशब्दः । तदधिकोत्कृष्टव्यवच्छेदपरो द्वितीयः, स्वातिशयवस्तुशून्य इत्यर्थः । अद्वितीयशब्दश्च समाननिषेधपरः । न तत्समश्चाभ्यधिकश्च दृश्यते [श्वे.उ. ६.८] इति श्रुतेः । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः [गीता ११.४३] इति स्मृतेश्च ।
यद्वा, एकशब्दः सङ्ख्यापरः । एवाद्वितीयशब्दयोश्चेतनाचेतननिषेधपरत्वमुभयोरपि ब्रह्मसमस्वतन्त्रसत्ताकत्वाभावात। किं च, स्वगतानन्तासङ्ख्येयज्ञानादिधर्माणामपि स्वरूपेतरस्वतन्त्रसत्ताभावेन तद्गतस्वतन्त्रसत्तानिषेधोऽप्यविरुद्धः, तदासीत्तदधीनमासीतिति श्रुतेः ।
तथा च चेतनाचेतनानां स्वगतधर्माणां च तदात्मकत्वाद्यविशेषेण तदपृथक्सिद्धत्वातैतदात्म्यमिदं सर्वं [छा.उ. १.८.७] इति वाक्यात। वासुदेवात्मकान्याहुः इति स्मृतेश्च । एष एव स्वतन्त्रसत्ताश्रयः सत्पदार्थः, आत्मा यस्य सदात्मा तस्य भावत्वमित्यर्थः सदात्मकमिति यावतित्यन्तग्रन्थेन ।
एवमत्राप्युत्तरतापिन्यां—एकमेवाद्वितीयं ब्रह्म [गो.ता.उ. २.४८] इत्यत्र तथैवार्थः । तथा तदाहुः—किं तस्मै सहोवाच न सन्नासन्न सदसदिति तस्मात्तमः सञ्जायते इति सुबालश्रुतौ । सत्स्थूलं तेजोऽवन्नात्मकं नासीत। असत्सूक्ष्मं प्रधानादिरूपं च नासीत्, सदसद्वायुरूपं च नासीत्, तर्हि किमासीदिति चेत्? तत्तद्विलक्षणं सूक्ष्मचिदचिच्छक्तिकं ब्रह्मैवासीदिति शेषः । यथा श्रुतार्थाग्रहणे तु सतोऽपि प्रतिषेधात्शून्यवादप्रसक्तेः । तथा च, तमःपरे देवे एकीभवति, परस्तान्न सत्, नासत्, न सदसतिति निर्वाणानुशासनमित्यग्रिमवाक्यविरोधः तत्र परमदेवस्यैव सर्वपर्यवसानतत्त्वताभिधानात। नैतावता जगन्मिथ्यात्वसिद्धिः एकीभावस्याप्रतीयमानभेदांशकतादात्म्यार्थकत्वस्योक्तत्वात्, च्वीप्रत्ययस्य तत्रैव विधानात्“दिवाभूता रात्रिर्” इत्यादिवदित्युपपादितम् ।
इदं त्विहाधेयम् । यथा सुबाले प्राक्सर्वसृष्टेः पश्चाच्च सर्वलयात्—तमःपरे देवे एकीभवति [सु.उ. २] इत्यनेनैकत्वसम्पत्त्यपरपर्यायं निगूढभेदांशं तादात्म्यं कार्यकारणयोरभिहितं, न सदित्यादिभिश्च त्रिभिः क्रमेण स्थूलानि तेजोऽन्नानि सूक्ष्माणि प्रधानादीनि स्थूलसूक्ष्मात्मको वायुश्च निषिद्ध्यते । तथा छान्दोग्येऽपि प्रथमैवकारेण सत्पदोक्तकारणेदंपदोक्तकार्ययोस्तादृशतादात्म्यमवधारयति । तथापि कार्यमात्रस्य तादृशतादात्म्यमवधारितमुत इदंपदोक्त्या पुरतो दृश्यमानमात्रस्य वा इति संशयनिरासाय एकैवाद्वितीयपदैः क्रमेण सूक्ष्मं प्रधानादि स्थूलं क्षित्यादि वायुश्च स्वतन्त्रसत्त्वाद्ध्यवच्छिध्यन्ते इत्यपि वक्तुं शक्यते इति । अत एव आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्[ऐ.उ. १.१] इत्यैत्तरेयके “मिषत्” इति विशेषितम् । यद्येकावधारणादिपदानां जगन्मिथ्यात्वे तात्पर्यं स्यात्, “मिषत्” इति न वदेत्, प्रयोजनाभावात्, भ्रामकत्वापत्तेश्च ।
तस्मादपि चैकावधारणादिपदानां नामरूपप्रतीत्यनर्हनिरुक्तैकत्वसम्पत्तावेव तात्पर्यमवसेयमिति । छान्दोग्यश्रुतिव्याख्यानेनैव अन्येऽपि कारणवाक्यस्था एकावधारणवाचकशब्दा व्याख्याता इति पृथक्तन्यते इति ।
इदं त्विहावधेयम् । एकमेवाद्वितीयमित्यादिवाक्यं स्वशब्दशक्त्या जगन्मिथ्यात्वं बोधयति इति जगन्मिथ्यात्ववादिभिरपि नोच्यते, तत्र जगन्मिथ्यात्ववाचकपदाभावात। अपि तु, तद्वाक्यघटकैकाद्वितीयादिपदानां स्वगतादिभेदत्रयनिषेधपरत्वे निश्चिते तस्य जगन्मिथ्यात्वमन्तरानुपपत्तौ श्रुतार्थापत्त्या जगन्मिथ्यात्वं कल्प्यते । यथा, “पीनोऽयं देवदत्तो दिवा न भुङ्क्ते” इत्यादौ पीनत्वान्यथानुपपत्त्या रात्रिभोजनं कल्प्यते । तथा च, एकादिपदानां जगन्मिथ्यात्ववाद्युक्तप्रकारकस्वगतादिभेदत्रयनिषेधपरत्वनिर्णय एव जगन्मिथ्यात्वकल्पनाबीजम् । न च तादृशनिर्णयो निरुक्तदिशा प्रकृतिकादिपदानामर्थान्तरसम्भवेऽपि सम्भाव्यते, इति न निर्विचिकित्सश्रुतार्थापत्तिसम्भवः, येन जगन्मिथ्यात्वं निश्चितं भवेत।
किं च, श्रुतार्थापत्तिः श्रुतितो दुर्बलैव श्रुत्युपजीवित्वात। तथा च, यदिदं किं च तत्सत्यमित्याचक्षते [तै.उ. २.१.६] इत्यादिपूर्वोदाहृतश्रुतिभिर्जगतः सत्यत्वब्रह्मात्मकत्वे च निश्चिते श्रुतार्थापत्तिः सुतरामकिञ्चित्करैवेति ।
एवमेव नेह नानास्ति किञ्चन [बृ.आ.उ. ४.४.१९] इत्यादौ अपि बोध्यम् । तत्रापि नानात्वनिषेधस्य कथञ्चिदप्यन्यथोपपत्तौ न जगन्मिथ्यात्वप्रसङ्गावरः । तथा हि मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन [बृ.आ.उ. ४.४.१९] इत्यादौ इहपदोपस्थापिते प्रक्रान्ते कारणे ब्रह्मणि नानात्वं प्रतिषिद्ध्यते । न च तत्र नानात्वाप्रसक्तेः निषेधप्रयोजनाभाव इति वाच्यम् । एको वै नारायण आसीत। एको रुद्रो न द्वितीयाय तस्थुः । ब्रह्मा देवानां प्रभवश्चोद्भवश्च । सदेव सोम्येदमग्र आसीत। असद्वा इदमग्र आसीत। इत्यादिवाचकभेदाद्वाच्यस्य कारणस्य भेदशङ्कासौलभ्यात।
तथा च तादृशशङ्कासत्त्वे मनसश्चाञ्चल्यान्न मनसा ब्रह्मदर्शनं स्यादिति कारणब्रह्मनानात्वभ्रमो निरस्यते । यद्वा, निष्कलमित्यादिश्रुतिवत्स्वरूपेऽवयवायविकृतभेदो निरस्यते अवयवावविकृतभेदो ब्रह्मस्वरूपे कुतः प्रसक्त इति न वाच्यम् । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा [तै.उ. २.४.१] इति तैत्तरीयश्रुतेरेव तत्प्रसक्तिसम्भवात।
अत एव एवं सूत्रितं श्रीबादरायणाचार्यैः—प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे [वे.सू. ३.३.१२] इति । किं च, सच्चिदानन्दादिकृतोऽपि नानात्वशङ्कासम्भव इति सर्वं हृदिकृत्याह—नेह नानास्ति किञ्चन [बृ.आ.उ. ४.४.१९] इति, एकधैवानुद्रष्टव्यं [बृ.आ.उ. ४.४.२०] इत्यादि चेति । उपबृंहितं च नारदपञ्चरात्रे लक्ष्मीतन्त्रे—
निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो
निश्चेतनात्मकशरीरगुणैश्च हीनः ।
आनन्दमात्रकरपादमुखोदरादिः
सर्वत्र च स्वगतभेदविवर्जितात्मा ॥ इति ।
वेदान्तरत्नमञ्जुषायां श्रीपुरुषोत्तमाचार्यैरपि सर्वगन्धः सर्वरसः, आप्रणखात्सर्व एव सुवर्णः [छा.उ. १.६.६] इत्यादिश्रुतिभ्यः सर्वदर्शनस्पर्शनगमनादिशक्तिमत्त्वान्न तत्रेन्द्रियादिविभागकल्पनापेक्षा गौरवात। श्रुतिः—अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः [श्वे.उ. ३.१९] इति । यस्मादनीन्द्रियोऽपि सर्वतः पश्यति सर्वतः शृणोति सर्वतो गच्छति सर्वत आदत्ते इत्यादिना तदेवोक्तम् । नैतावता तस्य आत्मैवेदमग्र आसीत्पुरुषविधः [बृ.आ.उ. १.४.१], अन्वयं पुरुषविधः [तै.उ. २.५.१] इति श्रुत्युक्तपुरुषाकारत्वबाधः ।
अपि तु, प्राकृतपुरुषाकारत्वस्यावयवावयविविभागसापेक्षत्वस्यैव बाधः । न चावयवावयविविभागमन्तरा पुरुषाकारत्वं सम्भवत्येव, नहीति वाच्यम् । प्राकृतविग्रहस्यावयवसंयोगजन्यतया तत्र तत्सत्त्वस्यावश्यंभावेऽपि अप्राकृतभगवत्स्वरूपस्य तु पुरुषाकारत्वेनैवानादिसिद्धत्वस्य वक्ष्यमाणश्रुतिसिद्धत्वात्, तत्र तदसम्भवात। अत एवोक्तं पञ्चरात्रे ब्रह्मसंहितायां ब्रह्मस्तवे—
अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति
पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति ।
आनन्दचिन्मयसदुज्ज्वलविग्रहस्य
गोविन्दमादिपुरुषं तमहं भजामि ॥ [ब्र.सं. ५.३२] इति ।
इदं यथा तथानुपपदं निरूपयिष्ये ।
यत्तु, स हायमीक्षां चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद्ध्यभेष्यत्द्वितीयाद्वै भयं भवति [बृ.आ.उ. १.४.२] इति बृहदारण्यके पुरुषविधब्राह्मणे द्वितीयनिषेधेन भयाभावबोधनं प्रपञ्चमिथ्यात्वे पर्यवस्यति । तदपि तुच्छम्, आत्मैवेदमग्र आसीत्पुरुषविधः [बृ.आ.उ. १.४.१] इत्युपक्रम एव इदंपदेन निखिलचिज्जडात्मकप्रपञ्चस्य तदानीं परमात्मना सह छान्दोग्योक्तदिशा एकीभावबोधनेन सत्यत्वकथनात। तथा च, निखिलस्यैव चिदचिदात्मकप्रपञ्चस्य तच्छक्तित्वात्तदधीनस्थितिप्रवृत्तिकत्वेन स्वात्मकोटिनिविष्टत्वे नान्यत्वाभावात। अत एव तस्य भयजनकत्वाभावादन्यस्य च स्वतन्त्रसत्ताकस्य द्वितीयस्याभाद्भयाभाव इत्यर्थस्तत्र बोध्यः ।
न चेदं न परमात्मप्रकरणम्, अपि तु कर्मज्ञानसमुच्चयलब्धविग्रहहिरण्यगर्भाख्यजीवप्रकरणम् । तथा च त्वदुक्तदिशा तस्य सच्चिदानन्दत्वाभावान्न तादृशद्वितीयाभावकृतभयाभावेऽपि तु ब्रह्मात्मैक्यज्ञानजन्यजगन्मिथ्यात्वानुभवप्रयुक्त एवेति वाच्यम् । अस्य प्रकरणस्य सदेव सोम्येदमग्र आसीतेकमेवाद्वितीयं [छा.उ. ६.२.१], आत्मा वा इदमेक एवाग्र आसीत्, एको ह वै नारायण आसीत्, न ब्रह्मा नेशानः [म.उ. १] इत्यादिश्रुतिसमानयोगक्षेमत्वेन परमात्मपरत्वात।
न च पुरुषविध इति पुरुषाकारत्वविशेषभिया फलायनं युक्तं परमात्मानो मूर्तरूपस्य पुरुषाकारत्वस्योपपादयिष्यमाणत्वात्, सर्वतन्त्रसिद्धत्वाच्च । आत्मपदप्रयोगोऽपि परमात्मान्येव मुख्यः, प्रजापतौ क्वाप्यात्मपदस्योपनिषदि सूत्रे च प्रयोगादर्शनात। अग्रे तस्मादयमाकाशः स्त्रिया पूर्यते [बृ.आ.उ. १.४.३] इति वक्ष्यति । तत्राप्याकाशशब्दप्रयोगः प्रजापतौ न घटते । भूताकाशे परमात्मानि चैवाकाशशब्दस्य लोकतः, आकाशस्तल्लिङ्गात्[वे.सू. १.१.२२] इति सूत्रतश्च सिद्धेः । तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा… आत्मानमेव प्रियमुपासीत [बृ.आ.उ. १.४.८] इत्यग्रे तस्यात्मनः सर्वाधिकप्रेमास्पदत्वाच्च ।
न चात्रात्मपदं न पुरुषविधात्मपरम्, अपि तु तद्व्यतिरिक्तपरमात्मपरमेव, निरतिशयप्रियत्वात्, निरतिशयप्रेमप्रदत्वेनात्मत्वेन चोपास्यत्वाच्च । न चात्रात्मपदं न पुरुषविधात्मपरत्वाभावे, आकस्मिकत्वापत्तेः पूर्वं क्वचिदप्यात्मतत्त्वस्य तदतिरिक्तस्थलेष्वनिरूपणेन आत्मेत्येवोपासीत [बृ.आ.उ. १.४.७] इत्यादि न झटिति तदुपासनस्यैव विधानस्याप्रवर्तकत्वापत्तेश्च ।
तथा मध्ये—
स नैव रेमे । तस्मादेकाकी न रमते । स द्वितीयमैच्छत। स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ । स इममेवात्मानं द्वेधापातयत। पतिश्च पत्नी चाभवताम् । तस्मादिदमर्धबृगलमिव स्व इति ह स्माऽऽह याज्ञवल्क्यस्तस्मादयमाकाशः स्त्रिया पूर्यत एव । तां समभवत्ततो मनुष्या अजायन्त [बृ.आ.उ. १.४.३] ॥
इति पूर्वं निरतिशयाश्लिष्टयुगलात्मकत्वाद्बाह्यरमणाभावः । ततो बाह्यरमणेच्छया, स हैतावानास यथा स्त्रीपुमांसौ इत्युक्तलक्षणानादिसिद्धयुगलात्मकनिजरूपस्य स्फुटयुगलात्मतया प्रकटीकरणमुभयोर्मिलितस्यैव पूर्णात्मत्वं च सर्वं परमात्मानः श्रीपुरुषोत्तमस्य रसो वै सः इति श्रुत्युक्तरसरूपतया समुपपद्यत एवेति न कश्चिद्विरोधः । यथा चैतत्प्रकरणस्य श्रीराधाकृष्णयुगलपरमात्मपरतया पुराणपञ्चरात्रादौ व्याख्यातमिति तत्रैव द्रष्टव्यम् । तस्मान्नैतावतापि जगन्मिथ्यात्वसिद्धिरिति ।
यद्वै तन्न पश्यति, पश्यन्वै तन्न पश्यति, न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्, न तु तद्द्वितीयमस्ति, ततोऽन्यद्विभक्तं यत्पश्येत॥ [बृ.आ.उ. ४.३.२३]
इति बृहदारण्यके ज्योतिर्ब्राह्मणश्रुतिस्तु सुषुप्तिप्रकरणीया, सुषुप्तिदशायां करणलयात्करणजन्यं बाह्यपदार्थज्ञानं नास्ति इत्येव वक्ति । तथा च स्वयंज्योतिःस्वभावात्विभक्तान्यकरणग्रामो नास्ति इति स्वयंज्योतीरूपोऽपि जीवः सुषुप्तिदशायामन्यन्न पश्यति, नैतावता तस्य स्वयंज्योतिष्ट्वबाध इति तदर्थः । यत्र हि द्वैतमिव भवति । तदितर इतरं पश्यति इत्यादिना यत्र त्वस्य सर्वमात्मैवाभूत। तत्केन कं पश्येत्]बृ.आ.उ. ४.५.१५] इत्यनेनापि ब्रह्मसायुज्यप्राप्तस्य जीवस्य विध्वस्तसमस्तस्वयंज्योतिष्ट्वसङ्कोचकारणकर्मबन्धनस्यानवच्छिन्नस्वयंज्योतिष्ट्वाविर्भावेन, न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्… न हि घ्रातुर्घ्रातेर्विपरिलोपो विद्यतेऽविनाशित्वात्[बृ.आ.उ. ४.३.२३, २४] इत्यादिज्योतिर्ब्राह्मणोक्तानां स्वरूपात्मिकानां दर्शनघ्राणरसनादिशक्तीनामाविर्भावात। निजस्वरूपमहिम्नैव तदानीं सर्वं ज्ञातं भवति । तदानीं सर्वस्यैव ब्रह्मात्मकत्वेनानुभवात्स्वस्य च ब्रह्मसायुज्यप्राप्तत्वादनुभूयमानब्रह्मात्मकत्वेनात्मस्वरूपमहिम्नैव स्वरूपात्मकत्वेनैव सर्वानुभवः इत्येव प्रतिपाद्यते, न जगत्प्रतिषिध्यते । अन्यथा येनेदं सर्वं विजानाति इत्यत्र सर्वं न विशेषयेत॥
एतस्य मुक्त्यवस्थापरत्वं तु—प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः [बृ.आ.उ. ४.५.१३] इति पूर्वोक्तवाक्यादेवावसीयते । अत्रैवानुविनाशकथनात्संज्ञाभावकथनाच्च स्वरूपतो धर्मतश्च जीवस्वरूपविलोपशङ्का जाता इति मैत्रेयी पृच्छति—सा होवाच मैत्रेयी । अत्रैव मा भगवान्मोहान्तमापीपदन्न वा अहमिमं विजानामीति [बृ.आ.उ. ४.५.१४] इति । तच्छङ्कामपनुदति याज्ञवल्क्यः—स होवाच—न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा [बृ.आ.उ. ४.५.१४] इति ।
एवं चात्र आत्मान्तपदेन स्वरूपतो धर्मान्तपदेन धर्मतश्चात्मनो नित्यत्वं निगमितं, तत्र अनुच्छित्तिधर्मा इत्यनेन न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्[बृ.आ.उ. ४.३.२३] इत्यादिना ज्योतिर्ब्राह्मणे दर्शनघ्राणरसनस्पर्शनादिस्वरूपशक्तिनां यदविनाशित्वमुक्तं, तदेवात्र मुक्तिदशायामपि निगमितं, तदुपपादकश्चाग्रिमग्रन्थः ।
तथा च,
एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमपुरुषः । स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ् छरीरे प्राणो युक्तः ॥ [छा.उ. ८.१२.३]
अथ यत्रैतदाकाशमनु विषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माभिव्याहाराय वागथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् ॥ [छा.उ. ८.१२.४]
अथ यो वेदेदं मन्वानीति सात्मा मनोऽस्य दैवं चक्षुः स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते य एते ब्रह्मलोके ॥ [छा.उ. ८.१२.५]
इति छान्दोग्येऽन्तिमाध्यायान्तिमश्रुत्या यदुक्तं, तदेवात्रापि प्रकारान्तरेणोक्तमिति न जगन्मिथ्यात्वसिद्धिरिति ।
वस्तुतस्तु न प्रेत्य संज्ञास्ति इति प्रकरणं मुक्तौ स्वरूपाविर्भावप्राक्कालीनसम्पत्तिपरम्, न तु सम्पत्त्यनन्तरमाविर्भूतमुक्तस्वरूपपरमेतत। तथा च, चतुर्थस्य चतुर्थे ब्रह्मसूत्रं स्वाप्ययसम्पत्त्योरन्यतरापेक्ष्यमाविष्कृतं हि [वे.सू. ४.४.१६] इति । अत्र कौस्तुभभाष्यं द्रष्टव्यम् । विस्तृतं विवेचितं मया भगवत्तत्त्वसुधानिधौ उपोद्घाततरङ्ग इति तत्रैव द्रष्टव्यम् ॥
तथा च—वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं [छा.उ. ६.१.४] इत्यत्र यथा घटवृक्षादिविविधकार्यशक्तिसम्पत्त्या मृत्तिका इत्येव सत्यमिति । स्वतन्त्रसद्भवतीति सत्यमिति व्युत्पत्त्या सत्तावति कार्ये साधुः । तादृशसर्वकार्यशक्तिविशिष्टं ब्रह्मैव सत्यं स्वतन्त्रसत्ताश्रयः सत्तावति कार्यजनने तादृशशक्तिविशिष्टत्वात्साधुः ।
विकारो घटादि दार्ष्टान्तिके व्योमादिनामधेयं च वाचारम्भणं वाचा एवारभ्यते कारणपार्थक्येन स्वतन्त्रसत्त्वेन चेति । वस्तुतस्तु, कारणापृथक्सिद्धत्वात्कारणात्मकमेव तत्, न तु स्वतन्त्रसत्यमित्यर्थो बोध्यः, इति न तत्कृतकश्चिद्विप्रतिषेध इति ।
एतेनैव कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति [मु.उ. १.१.३] इति मुण्डकोक्ताः, आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञातमिदं सर्वं विज्ञातं भवति [बृ.आ.उ. ४.५.६] इति बृहदारण्यकोक्ता च सर्वविज्ञानप्रतिज्ञाः समाहिताः । प्रजायन्ते तत्र चैवापि यन्ति [मु.उ. २.१] यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्सम्भवतीह विश्वं [मु.उ. १.१.७], पुरुष एवेदं विश्वं [मु.उ. २.१.१०] इत्यादिना मुण्डके, अयं च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निःश्वसितानि [बृ.आ.उ. ४.५.११] ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद इत्यादिना, इदं सर्वं यदयमात्मा [बृ.आ.उ. २.४.६] इत्यन्तेन बृहदारण्यके च सर्वस्यैव प्रपञ्चस्य ऊर्णनाभितः तन्त्वादिवत्पुरुषादितः श्वासादिवच्चोद्गमकथनात्सर्वस्य मिथ्यात्वमनुक्त्वैवात्मरूपत्वकथनाच्च ब्रह्मात्मकत्वेनैव ब्रह्मज्ञानवेद्यत्वनिरूपणादुक्तार्थ एव पर्यवसानादित्युपरमे । भेदाभेदस्वरूपविचारविस्तरस्तु मद्विरचितद्वैताद्वैतविवेके द्रष्टव्यः इति संक्षेपेण प्रपञ्चविचारः ।
इति श्रीमैथिलोपाख्यभगीरथशर्मविवेचितायां वेदान्ततत्त्वसमीक्षायां
गोपीजनवल्लभविज्ञानेनाखिलं विज्ञातं भवति इत्यस्योपपादनम् ॥
—ओ)०(ओ—
तन्माया चेति सकलं परं ब्रह्मैव तत॥
तन्माया चेति । का स्वाहेति पूर्वजिज्ञासायामाह—तन्माया चेति । माया चात्र नाविद्याद्यपरपर्याया व्यामोहिता शक्तिरित्येतावन्मात्रम् । तस्या मुक्तामुक्ताज्ञानिसुज्ञानिजडचेतननिखिलविश्वसंसरणहेतुत्वाभावात। नित्यमुक्तानां कालादीनां चाविद्यापरतन्त्रत्वाभावात। न च नित्यमुक्ताख्यं ब्रह्मातिरिक्तं वस्त्वेव नास्ति कालादीनां चाविद्यात्मकत्वेनाविद्यातन्त्रत्वमस्त्येवेति वाच्यम् । यथा न कालादिपदार्थानामव्दियात्मकत्वम्, अपि तु परिणामादिसर्वविक्रियानर्हनित्याचेतनभगवच्छक्त्यन्तररूपत्वमेव तस्यैव च मायाविद्यादिपदार्थपरिणामकत्वं च तदुपपादितं प्राक्सर्वविज्ञाननिरूपणे इति । वेदान्तमञ्जुषादिग्रन्थतश्च नित्यमुक्तानामपि पृथक्सत्त्वं ज्ञातव्यमिति । तत्त्वप्रदीपिकाकृद्भिरप्येवमेवोक्तम्—
तस्य माया सङ्कल्परूपा श्रीः स्वाहाशब्देनोक्ता स्वाहयेदं विश्वं संसरतीति, परास्य शक्तिर्विविधैव श्रूयते [श्वे.उ. ६.८] इति श्रुतेः । न च मायाशब्दस्य प्रधाने शक्तत्वात्प्रसिद्धत्वाच्च । तदेव ग्राह्यमिति वाच्यम् । तस्य नित्यमुक्तादिषु प्रधाने च प्रवर्तकत्वाभावातित्यन्तग्रन्थेन ।
तथा च मीयते परिच्छिद्यते स्वात्मसात्क्रियते इदमित्थतया यथाभिलाषं नियोज्यते यया सा माया इति व्युत्पत्तेः सत्यसङ्कल्पादिपदवाच्या इच्छाशक्तिरेव माया । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च [श्वे.उ. ६.८] इति श्रुतौ बलशब्देनापि प्राय इयमेव गीयते, भागवतादौ च योगमायादिशब्देनेति । अस्या एवांशभूता अन्या वा माया इति ध्येयम् । भगवदिच्छायाश्च सर्ववशित्वं सर्ववेदान्तिविप्रतिपत्तिरहितमिति नेह तन्यते इति । इति स्वाहाशब्दार्थविचारः ॥
सकलं परं ब्रह्मैव ततिति । इतिशब्दः प्रकारे । तथा च निरुक्तलक्षणप्रवृत्तिनिमित्तभेदरूपप्रकारभेदात्निरुक्तलक्षणाभिप्रायविशेषसूचनार्थत्वाच्च कृष्णादिपदचतुष्टयप्रतिपाद्यं सकलं वस्तुतत्त्वं परं निरतिशयोत्कृष्टं तत्, कृषिर्भूवाचकः शब्दः [गो.ता.उ. १.१*], सच्चिदानन्दरूपाय [गो.ता.उ. १.१] इत्यादि मन्त्रवर्णप्रतिपादितं कृष्णाख्यमखण्डामेव परं ब्रह्म, न तु शब्दभेदाद्वस्तुभेद इत्यक्षरार्थः ।
नन्वत्र सकलं परं ब्रह्मैव ततित्यस्य तत्समग्रवेदान्तप्रसिद्धं परं ब्रह्मैव कार्यविशेषपुरस्कारेण कृष्णादिपदवाच्यतया व्यपदिश्यते इत्यर्थप्रतीतेः कार्यविशेषबोधकत्वेन कृष्णादिपदवाच्यतया तस्य परब्रह्मणो रूपान्तरत्वमेवोक्तं भवति, न तु मूर्तरूपत्वं समग्रब्रह्मधर्माणां कृष्णादिपदवाच्यत्वेनानुपसंहारात्परब्रह्मपदवाच्यत्वेनैवोपसंहाराच्चेति चेत्, न । समग्रतापिनीसूत्ररूपे, सच्चिदानन्दरूपाय [गो.ता.उ. १.१] इत्युपक्रममन्त्रवाक्ये कृष्णपदवाच्यत्वेनैव पूर्वोक्तदिशा समग्रवेदान्तप्रतिपादितसमग्रब्रह्मधर्मोपसंहारात्, तत्र कृष्णपदार्थस्यैव मुख्यविशेष्यत्वात्, तस्मादग्रिमग्रन्थस्य तदुक्तार्थस्यैवोपपादकत्वेन तदानुगुण्येनैव व्याख्यानस्योचितत्वाच्च ।
अत एवोपसंहारेऽपि, योऽसौ परं ब्रह्म गोपालः ओं तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः [गो.ता.उ. २.९३] इत्यत्रापि गोपालपदवाच्यत्वेनैव स्वप्रधानत्वम् । ब्रह्मपदवाच्यत्वेन तत्र गुणीभूतत्वेनैव प्रतीतेः, तुरीयातीतो गोपालः [गो.ता.उ. २.९६] इत्यत्रापि गोपालत्वेनैव तुर्यातीतत्वमुपदिष्टं, न तु ब्रह्मत्वेन । एको देवः [गो.ता.उ. २.१०६] इत्यत्रापि देवत्वेनैव । अत्रापि तस्मात्कृष्ण एव परो देवः [गो.ता.उ. १.४८] इत्यत्र कृष्णत्वेनैव स्वप्रधानत्वम् । तस्मात्तैत्तरीये नारायणानुवाके—नारायणः परं ब्रह्म तत्त्वं नारायणः परमित्यादौ नारायणपदवाच्यत्वेनैवात्र कृष्णादिपदवाच्यत्वेनैव स्वप्रधानत्वं विवक्षितं, नान्यप्रधानत्वेनेति बोध्यम् ।
तथा च तत्पदमत्र प्रकृतमन्त्रे कृष्णपदवाच्यत्वेनैव समग्रधर्मोपपन्नत्वेन निरूपितपरमतत्त्वस्मारकं, न तु पदान्तरवाच्यत्वेन । तथा सति, प्रकृतहानाप्रकृताभ्यागमप्रसङ्गात। एवं चात्र तत्पदमेव मुख्यविशेष्यसमर्पकम् । परब्रह्मपदं तु परब्रह्मपदवाच्यत्वेन परमतत्त्वप्रतिपादकानां वेदान्तवाक्यान्तराणां समग्राणां प्रकृततत्पदार्थे श्रीकृष्णे समन्वयाय परब्रह्मपदस्यानुपचारतस्तदेकनिष्ठत्वबोधनाय चेति बोध्यम् ।
यद्वा, “परब्रह्मैव तत्” इत्यंशेन,
कृषिर्भूवाचकः शब्दः णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥ [गो.ता.उ. १.१*]
इति प्रथममन्त्रोद्दिष्टं व्युत्पत्त्या कृष्णपरब्रह्मशब्दयोः समानवाच्यतया ग्राहितं, सच्चिदानन्दरूपाय [गो.ता.उ. १.१] इति द्वितीयमन्त्रेण स्वरूपलक्षणकार्यलक्षणाभ्यां व्याख्यातमेव स्वरूपं परामृश्यते । तथा च प्रथममन्त्रेणोद्दिष्टं द्वितीयमन्त्रेण लक्षितं यत्कृष्णाख्यं परं ब्रह्म, तदेव निरुक्तकार्यभेदसूचनाय गोविन्दादिशब्दैरप्युच्यते । परब्रह्मशब्दप्रयोगस्तु प्रकृते सर्वशाखासमन्वयाय, न तु कृष्णस्य ब्रह्मांशत्वसूचनाय । तथा सति उपक्रमोपसंहारादिविद्घातापत्तिरित्युक्तमेवेत्यपि ध्येयम् ।
तथा चोपनिषदन्तरेषु बहुषु परं ब्रह्मैव परमदेवादिशब्देन मृत्युनिवारकत्वादिना चोपदिश्यते । इह तु कृष्ण इति कथं सर्वसमन्वय इति ब्रह्मनिरासायैव परब्रह्मपदम् । तथा सति एष एव कृष्णो विभिन्नोपनिषत्सु परब्रह्मादिशब्देनोपदिश्यते । तदुक्तं तैत्तरीयारण्यके नारायणोपनिषदि प्रथमानुवाक एव—यमन्तः समुद्रे कवयो वयन्ति [म.ना.उ. १.३] इति परव्योमपयोधिशायिश्रीपुरुषोत्तमस्वरूपमधिकृत्य, तदेव र्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनां [म.ना.उ. १.६] इति । गीतायां च—
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ॥ [गीता १५.१५] इत्यादि ।
स्कान्दे वैष्णवखण्डे वैशाखमाहात्म्ये—
स विष्णुर्ब्रह्मसंज्ञोऽसौ कवीनां सम्मतो विभुः ।
साक्षाद्ब्रह्मेति तं प्राहुः पश्चाद्ब्रह्मादिकानपि ॥
ब्रह्मशब्दं सोपपदं ब्रह्मादिषु विदुर्बुधाः ।
नान्येषां ब्रह्मता कापि तच्छक्त्येकांशभागिनाम् ॥
तदेतच्छास्त्रगम्यं हि जन्माद्यस्य महाविभोः ॥ इत्यादिना ।
भाविवाल्मीकिव्याधं प्रति शङ्खेन महर्षिणा तथैव तैत्तरीयगतं ब्रह्मपदमनौपचारिकतया भगवदेकनिष्ठत्वेनैव निर्धारितम् । एवमन्यत्रापि द्रष्टव्यमिति ।
तथा च शब्दमात्रभेदो, वस्तुतत्त्वं त्वेकमेव । तदुक्तं ब्रह्मसंहितायां सूत्राध्यायोपक्रमे—
ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः ।
अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥ [ब्र.सं. ५.१] इति ।
अत एव गीतायामपि पुरुषोत्तमादिपदार्थतयैव स्वप्रधानत्वं, न तु ब्रह्मपदार्थतया । अत एव च ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इति चतुर्दशाध्याये पुरुषोत्तमत्वेन स्वोपस्थापकास्मच्छब्दवाच्यतयैव स्वप्रधानत्वं स्पष्टमेवोद्घोषितम् । अक्षरब्रह्मसाधारणब्रह्मपदार्थतया तु स्वशेषत्वमेवाभिव्यञ्जितम् । यच्च तत्र ब्रह्मपदं वेदवाचकं कार्यब्रह्महिरण्यगर्भादिवाचकं वा, तन्न ब्रह्मभूयाय कल्पते [गीता १४.२६] इत्यक्षरब्रह्मण एव ब्रह्मपदवाच्यत्वस्य युक्तत्वात। अत्र तत्परित्यागे प्रकृतहानाप्रकृताभ्यागमप्रसङ्गाच्च । अक्षरब्रह्मणः पुरुषोत्तमादवरत्वं तु, यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः [गीता १५.१८] इति पञ्चदशाध्याये स्पष्टमुक्तम् ।
न च तत्रापि अक्षरपदं मायाप्रधानादिवाचकमिति वाच्यम् । तस्य क्षरणस्वभावत्वेनाक्षरत्वस्य वारणात। आपेक्षिकाक्षरत्वस्याक्षरपदेनैव लाभात। पुनर्व्याख्यानस्य प्रयोजनहीनत्वापत्तेः । मायायाः कूटस्थत्वस्यासम्भवाच्च । किं च, भारते मोक्षधर्मे—
यच्च मूर्तिमयं किञ्चित्सर्वत्रैतन्निदर्शनम् ।
जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः ॥
स्थानं देहवतामस्ति इत्येवमनुशुश्रुम ।
कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञकम् ॥
अहन्यहनि भूतात्मा ततः क्षर इति स्मृतः ।
एतदक्षरमित्युक्तं क्षरतीदं यथा जगत॥ [म.भा. १२.२९१.३२]
अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम् ।
कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ।
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ॥ [म.भा. १२.२९०.७८]
इति स्वयं भगवता वेदव्यासेनैव, क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते [गीता १५.१६] इति गीतावाक्यस्य व्याख्यातत्वात। अपि च गीतायामपि,
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ [गीता ८.२१]
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ॥ [गीता १२.३]
इत्यादिना मायातीताक्षरब्रह्मपदार्थस्यैवाक्षरपदार्थतया निरूपणात्, तस्यैवात्रापि ग्रहणस्य युक्तत्वात्, तद्विपरीतस्याप्रकृतकल्पनस्यायुक्तत्वाच्चेति बोध्यम् । तस्मात्तापिन्यामपि श्रीकृष्णाख्याक्षरातीतपुरुषपदार्थतयैव स्वप्रधानत्वमिति ध्येयम् । पुरुषोत्तमाक्षरयोरभेदस्तु सूर्यतत्प्रकाशन्यायेन, प्रकाशाश्रयवद्वा तेजस्त्वात्[वे.सू. ३.२.२८] इति सूत्रानुसारेण बोध्यम् ।
तदुक्तं हयशीर्षपञ्चरात्रे—
आनन्दो द्विविधः प्रोक्तो मूर्तामूर्तप्रभेदतः ।
अमूर्तस्याश्रयो मूर्तोऽमूर्तानन्दोऽच्युतो मतः ॥
अमूर्तः परमात्मा च ज्ञानरूपश्च निर्गुणः ।
स्वस्वरूपश्च कूटस्थो ब्रह्म चेति त्रयं मतम् ।
अमूर्तमूर्तयोर्भेदो नास्ति तत्त्वविचारतः ।
भेदस्तु कल्पितो वेदैर्मणितत्तेजसोरिव ॥ इति ध्येयम् ।
एतावता प्रबन्धेन श्रीकृष्णस्य स्वभावत एवापास्तसमस्तदोषत्वनित्यनिरतिशयानन्तकल्याणगुणशक्तित्वनित्यनिरतिशयानन्तलीलामयत्वनित्यनिरतिशयानन्तसच्चिदानन्दरसमयफलप्रदत्वनित्यनिरतिशयानन्तसच्चिदानन्दस्वरूपत्वादिकम्, अत एव च स्वभावत एव नित्यनिरतिशयानन्तसच्चिदानन्दात्मकधामभूषणपरिकरपरिच्छदपार्षदाद्युपपन्नत्वम्, सर्वतोभावेन स्वसमानाभ्यधिकशून्यत्वं प्रथमप्रश्नप्रतिवचनाभ्यां परमदेवत्वनिरूपणांशेन, द्वितीयप्रश्नप्रतिवचनाभ्यां सर्वभूतवित्रासहेतुमृत्युभयहेतुत्वकथनमुखेन सर्ववशित्वादिकं परममुक्तिप्रापकत्वं चोक्तम् । तृतीयप्रश्नप्रतिवचनाभ्यां निखिलजगदुपादानत्वसर्वविज्ञानहेतुभूताखण्डैकविज्ञानविषयत्वतादृशसर्वशक्तिसमुपपन्नत्वादिकं च निरूपतया, चतुर्थप्रश्नप्रतिवचनाभ्यां भगवदिच्छाशक्तेः सर्वतः प्रबलत्वं निरूप्य, सर्वसाधननिरपेक्षप्रपत्त्येकलभ्यत्वसर्वेश्वरत्वादिकं च सूचितम् । एवं च तत्तद्रूपेण नामभेदेन च परमतत्त्वनिरूपकाणां वेदान्तवाक्यानां तदेकनिष्ठत्वावधारणेन सर्वमेव वैमत्यं निरस्तम् । इति न किमपि जिज्ञास्यं निरूपणीयं चावशिष्यते ।
तथापि यावत्सोपपन्नं तन्न निरूप्यते, न तावत्सामान्यप्रश्नप्रतिवचनाभ्यां निरूपितमपि वस्तुतत्त्वं सुदृढं परीक्षकबुद्धिगम्यं च भवितुमर्हति । इति तदेव सोपपन्नं निरूपयितुमवशिष्ट उत्तरतापिन्यन्तो ग्रन्थसन्दर्भः । अत एव तदन्त एव एको देवः सर्वभूतेषु गूढः [गो.ता.उ. २.१०६] इति मन्त्रेण परमोपसंहारः । पूर्वतापिन्यन्ते तस्मात्कृष्ण एव परमो देवः [गो.ता.उ. १.४८] इति तु सूक्ष्मरूपेण सोपपन्नत्वनिरूपणस्यैवोपसंहारादवान्तरोपसंहार एव, न तु परमोपसंहारः । तस्यापि परमोपसंहारत्वे पूर्वोत्तरतापिन्योः स्वतन्त्रोपनिषद्द्वयापत्त्या तयोः समुदायस्य एकोपनिषत्त्वाभावापत्त्या च एकस्यैव दलद्वयत्वसूचकपूर्वोत्तरत्वकथनं व्यर्थं स्यात। तस्मादुत्तरतापिन्यन्त एव परमोपसंहार इत्यपि विभावनीयम् ॥
—ओ)०(ओ—
(१.१.६)
एवं च सामान्यतो निरूपितमपि परमदेवत्वादिकं विशेषतो विवेचनीयम् । तत्र निरुक्तलक्षणपरमदेवत्वं मृत्युनिवारकत्वं च निरूपयितुं परमदेवत्वाविनाभूतेष्वनेकेषु निरुक्तलक्षणधर्मेषु निरूपणीयेषु निखिलजिज्ञासानिदानभूताभ्यां परमफलब्रह्मत्वमृत्युनिवारकत्वाभ्यामेव धर्माभ्यां निखिलं निरूपयितुं प्रक्रमते—
यो ध्यायति रसयति भजति सोऽमृतो भवति सोऽमृतो भवतीति ॥
तथा च,
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ [क.उ. १.२.२३]
इत्यादिश्रुत्युक्तदिशा निसर्गकरुणेन भगवता वृतः । अत एव
जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।
सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः ॥ [म.भा. १२.३३६.६८]
अत्रापि स विजानाति पुरुषं ब्रह्मवित्तमम् ।
नारायणपरो मोक्षस्ततो वै सात्त्विकः स्मृतः ॥ [म.भा. १२.३३६.६५]
एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते ॥ [म.भा. १२.३३६.७०]
इति भारते नारायणीयोक्तदिशा जन्मकाले भगवता वीक्षितः, अत एव इहामुत्रोपाधिनिरस्तः । मुमुक्षुर्वै शरणं व्रजेत्[गो.ता. १.२२] इति वक्ष्यमाणश्रुत्युक्तदिशा तदेकमात्रशरणः केवलं निसर्गप्रेम्णैव, न तु साधनादिबुद्ध्या ।
ध्यायति, वक्ष्यमाणस्वरूपं पूर्वोक्तनिखिलधर्मोपपन्नमखण्डगङ्गाप्रवाह्वन्निरन्तरं स्मरति ।
रसयति, वक्ष्यमाणलक्षणसर्वोपनिषत्सारभूतपञ्चपदीमन्तार्थानुसन्धानपूर्वकं विशुद्धप्रेमपेशलेन शान्तदास्यसख्यवात्सल्यमाधुर्यादिभावेष्वन्यतमभावमयेन तस्यैव परमफलतया फलान्तराभिलाषशून्येन स्वान्तेन, रसो वै सः [तै.उ. २.७.१] इति श्रुतेः परमानन्दरसघनं निसर्गमधुरं तमेवानुशीलयति ।
भजति, आन्तरेण विविधप्रेममयोपचारेण सेवते । बाह्योपचारेण परिचरणं तु यत्तस्य पीठं [गो.ता.उ. १.१८] इत्यादिना वक्ष्यति इति ।
सः, निरुक्तलक्षणो भगवदीयो जीवः भगवदेकमात्रशरणः क्रमेण भावनापरिपाके, आहारशुद्धौ सत्त्वशुद्धिः, सत्त्वशुद्धौ ध्रुवस्मृतिः, स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः [छा.उ. ७.२६.२] इत्यादिश्रुत्यनुसारेण ध्रुवास्मृत्यपरपर्यायायां निरवच्छिन्नप्रेमानन्दघनां स्वप्रकाशाह्लादिनीपदव्यपदेश्यपराशक्तिभावभूतां नित्यां निरवद्यां परां भक्तिं प्राप्य, तया सर्वग्रन्थिविप्रमोके जाते अमृतो भवति । निरञ्जनः परमं साम्यमुपैति [??], मम साधर्म्यमागताः [गीता. १४.१] इति श्रुतिस्मृतिदर्शितभगवत्परमसाम्यमवाप्य, तत एव निरतिशयानन्दरूपं भगवन्तं निरन्तरं विविधभावेनानुभवन्मृत्युभयतोऽत्यन्तं विनिर्मुक्तो भवति । तं यथायथोपासते तथैव भवति, यत्क्रतुर्हामुष्मिन्लोके पुरुषो भवति तथैतः प्रेत्य भवति, ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं [गीता ४.११], न स पुनरावर्तते [गीता ८.११],
मामुपेत्य पुन्मर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धं परमां गताः ॥ [गीता ८.१५]
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते [गीता ८.१६] इति श्रुतिगीतावचनेभ्यः । न चात्रामृतत्वपदेनात्रावान्तरमोक्ष आशाङ्कनीयः । पञ्चपदीं जपन्ब्रह्म सम्पद्यते [गो.ता. १.१२] इति वक्ष्यमाणवाक्येन भगवद्भावाप्तिलक्षणपरममोक्षस्य स्वशब्देनैवाभिधानात।
न चात्र तत्त्वमस्यादिवाक्यजन्यज्ञानादिव्य्वधानादिशङ्कापि कार्या । नृषिंहतापिन्यादौ सामरहस्याद्युपासकादीनामिव, देहान्ते तारकं ब्रह्म व्याचष्टे, तेनासावमृतीभूत्वा मोक्षी भवति इत्यादि प्रकारेण देहान्ते तारकोपदेशादीनामत्रोपनिषद्यनुक्तत्वात। चिन्तयंश्चेतसा कृष्णं मुक्तो भवति संसृतेः [गो.ता. १.११], पञ्चपदीं जपन्ब्रह्म सम्पद्यते [गो.ता. १.१२] इत्यादौ कारणांशे वर्तमानलडादिष्टशत्रन्तप्रयोगेण, भुञ्जन्तृप्तो भवति, ब्रह्म वेद ब्रह्मैव भवति [मु.उ. ३.२.९] इत्यत्रैव कारणान्तरव्यवधानराहित्येनैव तृप्तिरिव ब्रह्मभावाप्तिरिव च व्यवधानान्तरराहित्येनैव ब्रह्मभावाप्तिबोधने श्रुतितात्पर्यप्रतीतेः, तत्त्वमस्यादिमहावाक्यानामपि पञ्चपदीविद्यायामन्तर्भूतत्वाच्च ।
तदुक्तं श्रीसुन्दरभट्टाचार्यपादैः रहस्यषोडश्यां चरमेणात्महोमस्य [१२] इतिपद्यव्याख्यानावसरे—
एतेन वाक्यार्थोऽपि व्याख्यातः । तथा हि तत्पदार्थः प्रथमपदार्थोऽभिन्नो वासुदेवः, त्वंपदार्थश्च मकारार्थाभिन्नः क्षेत्रज्ञः । तस्य ब्रह्मात्मकत्वादिना तदभिन्नत्वबोधनार्हत्वात्स्वरूपेण भिन्नत्वेऽपि तदात्मकत्वादिनाभिन्नः । उभयपदार्थसम्बन्धाभिधायकः । असिपदार्थाभिन्न ईकारार्थ इति भिन्नाभिन्नत्वं सिद्धम् ॥ इत्यादिनेति ।
तत्र विशेषतो द्रष्टव्यमिति ।
नापि तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय [श्वे.उ. ३.८] इति सामान्यतो मुक्तेर्ज्ञानैकलभ्यतावादिश्रुतिवाक्याद्विरोधश्चाशङ्कनीयः । तादृशध्यानरसनभजनादीनां पराभक्तिरूपापन्नानां, सच्चिदानन्दैकरसे भक्तियोगे तिष्ठति [गो.ता.उ. २.७८] इति वक्ष्यमाणश्रुतेः स्वप्रकाशानन्दरूपत्वेन ज्ञानत्वस्यापि सत्त्वेन तेषामपि वेदनपदार्थत्वस्य निसर्गतः सत्त्वात्, विवृतं चैतं मया युगतत्त्वसमीक्षायां भक्तिरहस्ये च । अत्रापि च तत्तत्प्रसङ्गे विवेचयिष्य इति । अग्रे तेषामसौ दर्शयेदात्मरूपं तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्त्यै [गो.ता.उ. १.२३] इत्यत्र दर्शनं तु परमफलरूपमेव, न तु साधनरूपं महावाक्यादिक्जन्यं वृत्त्याकमिति न साधनान्तरव्यवधानं न वा कश्चिद्विरोधः । तस्मादत्रामृतपदेन मुख्यमेवामृतत्वमुक्तलक्षणमभिप्रेतम् । न तु क्रममुक्त्यादिकम् ।
ननूक्तलक्षणा मुक्तिः क्रममुक्तिरेव । तत्र विशेषानुभवात्मुख्यमुक्तौ तु, यत्र त्वस्य सर्वमात्मैवाभूत्, तत्केन कं पश्येत्? [बृ.आ.उ. २.४.१४] इति श्रुतेः सर्वविशेषदर्शनप्रतिषेधात्, इति चेत्, न । तत्रात्मानमविभागपूर्वकविशेषदर्शनस्यैव प्रतिषेधात। ब्रह्मात्मकत्वेनापि तद्दर्शनप्रतिषेधे तात्पर्याभावात। अत एव सर्वभूतात्मैवाभूतिति सर्वपदेन विशेषजातं श्रुतिप्रसिद्धं परिगृह्य तत्रात्मत्वं बोध्यते एव, न तु प्रतिषिध्यते । अत एव च, येनेदं सर्वं विजानाति तत्केन कं विजानीयात्? [इबिद्.] इति स्पष्टमेव सर्वविशेषदर्शनं कथयन्करणजन्यज्ञानमेव प्रतिषेधति ।
माध्यन्दिनपाठे तु तत्रैव पूर्वकण्डिकासु, यद्वै तन्न पश्यति पश्यन्वै तद्द्रष्टव्यं न पश्यति । नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते, अविनाशित्वात्, न तु तद्द्वितीयमस्ति, ततोऽन्यद्विभक्तं यत्पश्येति [बृ.आ.उ. २.४.१४] इति द्वितीयदर्शनप्रतिषेधस्य । विभक्तद्वितीयदर्शनप्रतिषेधे पर्यवसानस्य स्पष्टं दर्शनात्, ब्रह्मात्मकत्वेन विशेषदर्शनं न प्रतिषेधगोचरः ।
वस्तुतस्तु, अत्र न प्रेत्य संज्ञास्तीति [बृ.आ.उ. २.४.१४] इति याज्ञवल्क्योक्तेर्मुक्तिदशायां वैशेषिकादीनामिव ज्ञानाभावमाशङ्क्य चकितमत्रेय्याः, अहमिमं न विजानामि न प्रेत्य संज्ञास्तीति इति भ्रमनिरासाय याज्ञवल्क्यः करणजन्यज्ञानस्य प्रतिषेधे स्वरूपेणात्यन्तविभक्ततयानुभवस्य प्रतिषेधे एव च स्वतात्पर्यं, न तु स्वरूपधर्मभूतज्ञानस्यापि सर्वथा प्रतिषेधतात्पर्यमिति वदति ।
तदेवं स्वरूपधर्मभूतज्ञानस्य मुक्तिदशायां सत्त्वेऽपि लौकिकज्ञानवद्विभागेनानुभावाभावः, तस्य स्वरूपतो विभागाभावादेव, इत्येव यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति इत्यादिना प्रतिपादयति । न तु वस्तुमात्रस्य तदानीमनुभवं प्रतिषेधति । इति माध्यन्दिनमैत्रेयिब्राह्मणपर्यालोचनयावसीयते । काण्वपाठेऽपि गुणोपसंहारन्यायेन तदुपसंहारस्य युक्तत्वात। अत एव शङ्कराचार्यैरपि आत्मन्येवात्मानं पश्यति इत्यत्र काण्वपाठेऽपि आत्मन्येवात्मानं पश्येतिति माध्यन्दिनपाठबलेन विधिर्निर्णीयते इति ।
वस्तुतस्तु, न प्रेत्य संज्ञास्तीति [बृ.आ.उ. २.४.१४] इत्यादिप्रकरणं मुक्तिप्रक्कालीनसम्पत्तिपरमेव । न तु सर्वविमोक्षानन्तरमाविर्भूतमुक्तस्वरूपपरम् । तदुक्तं चतुर्थस्य चतुर्थपादे ब्रह्मसूत्रे—स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि [वे.सू. ४.४.१६] इत्यत्रेति । तदेतदुक्तं प्राक्विस्तृतं विवेचयिष्ये पश्चात। एतत्सूत्रे कौस्तुभभाष्यं रामानुजभाष्यं च तात्पर्येण द्रष्टव्यम् । तथा च सुषुप्त्यवस्थामधिकृत्य, यद्वै तन्न पश्यति इत्यादि ज्योतिर्ब्राह्मणवाक्यम् । उत्क्रान्तिकालिककरणसम्पत्त्यवस्थामधिकृत्य, तत्केन कं पश्येत्[बृ.आ.उ. ४.५.१५] इत्यादिमैत्रेयिब्राह्मणवाक्यम् । मुक्त्यवस्थामधिकृत्य वक्ष्यमाणछान्दोग्यवाक्यमिति बोध्यम् ।
छान्दोग्ये तु—एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं [छा.उ. ८.१२.३] इत्यत्र स्पष्टमलौकिकसर्वविशेषानुभवं निरूपयन्लौकिकोपजनशरीरादिस्मरणादिकमेव निषेधति । इदं त्विहावधेयम्—यदि परममुक्तौ विशेषज्ञानाभाव एव श्रुतेरिष्टः स्यात्, तर्हि कथं छान्दोग्ये प्रकृतप्रजापतिवाक्यसन्दर्भे, स होवाच नाह खल्वयं भगव एवं संप्रत्यात्मानं जानात्ययमहमस्मीति, नो एवेमानि भूतानि विनाशमेवापीतो भवति, नाहमत्र भोग्यं पश्यामीति [छा.उ. ८.११.२] इत्यादिना विशेषज्ञानशून्यत्वेनैव हेतुना सुषुप्तापन्नमात्मस्वरूपं विनाशतुल्यत्वेनोक्पपादयेत। स्वीकुर्याच्च तथैव, एवमेवैतन्मघवनित्यादिना, अवतारयेच्च, स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा [छा.उ. ८.१२.३] इत्यादिना । अलौकिकस्त्र्यादिविशेषज्ञानशून्यमुक्तिस्तु साङ्ख्यवैशेषिकबौद्धादीनामेव सम्मतेति ध्येयम् ।
नेदं गौणमुक्तिप्रकरणम्—परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत [छा.उ. ८.३.४] इत्युक्तेश्च । शङ्कराचार्यैरप्यस्यांशस्य परममुक्तिप्रकरणत्वेनैव स्वीकाराच्च । एतच्छ्रुतिस्वारस्यात्,
स यथेमा नद्यः स्यन्दमानाः समुद्रायमाणाः, समुद्रं प्राप्यास्तं गच्छन्ति, भिद्येते चासां नामरूपे, समुद्र इत्येव प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायमाणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे पुरुष इत्येव प्रोच्यते, स एषोऽकलोऽमृतो भवति । [प्र.उ. ६.५]
इति प्रश्नोपनिषद्वाक्यस्य,
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेर्विजानत आत्मा भवति गौतम ॥ [क.उ. २.१.१५]
इति कठवाक्यस्य,
निरञ्जनः परमं साम्यमुपैति,
गताः कलाः पञ्चदश प्रतिष्ठा
देवाश्च सर्वे प्रतिदेवतासु ।
कर्माणि विज्ञानमयश्च आत्मा
परेऽव्यये सर्वे एकीभवन्ति ॥७॥
यथा नद्यः स्यन्दमानाः समुद्रेऽ
स्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वान्नामरूपाद्विमुक्तः
परात्परं पुरुषमुपैति दिव्यम् ॥८॥
स यो ह वै तत्परमं
ब्रह्म वेद ब्रह्मैव भवति [मु.उ. ३.२.६९]
इति मुण्डकवाक्यस्य च लौकिकनामरूपादिविशेषप्रतिषेधे एव तात्पर्यम् । अत्रापि स्थलेषु जलान्तरे जलान्तरप्रवेशस्य दृष्टान्तीकरणेन तथैव तात्पर्यावगमात। न हि जलान्तरे जलान्तरप्रवेशे सर्वथास्वरूपैक्यं भवति, न वा तत्तज्जलगता क्रिया लुप्यते । एवं च यथा तत्र सर्वथा स्वरूपैक्याभावेऽपि तत्तद्गतक्रियायां सद्बेऽपि लौकिकनामरूपादीनां तदानीं विलोपाल्लौकिकानां पार्थक्येनानुभवाभावाज्जलीयसाधर्म्यविशेषाच्च समुद्र इत्यादिरेव लौकिकानां तटस्थानां व्यवहारः समुद्रगतानामाधिदैविकानां गङ्गायमुनासमुद्रादीनां तु विशेषस्याप्यनुभवाद्विशेषव्यवहारोऽपि । तथा परममुक्तावस्थायामागन्तुकषोडशपञ्चदशादिविभक्तरूपविग्रहरूपगुणशक्तिभोग्यभोगोपकरणादीनां,
एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा [छा.उ. ८.१२.३],
तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखतां सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति, स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः शतं च दश चैकश्च सहस्राणि च विंशतिः [छा.उ. ७.२६.२]
इत्यादिश्रुतिसिद्धानां विशेषाणां तत्तदनुभवस्य सत्त्वेऽपि सर्वेषां शुद्धसच्चिदानन्दघनत्वेन ब्रह्मस्वरूपत्वादात्मभूतत्वात्तद्विजातीयप्राकृतपदार्थसङ्कीर्णत्वाभावाच्च ब्रह्म इत्येव व्यवहारः । प्राकृतजीवदृष्ट्या तदानीं सर्वज्ञानां देवादीनां दृष्ट्यापि शुको वामदेवः, इत्यादि व्यवहारविलोपात्, तदभिप्रायेण पुरुष इत्येव प्रोच्यते, ब्रह्म वेद ब्रह्मैव भवति [मु.उ. ३.२.९] इत्यादि ।
मुक्तपुरुषदृष्ट्या तु लौकिकविशेषपरित्यागेऽप्यलौकिकविशेषव्यवहारो भवत्येवेत्यभिप्रायेण, सर्वं ह पश्यति, जक्षन्क्रीडन्रममाणः इत्यादि । एत सर्वमभिप्रेत्यैव
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेर्विजानत आत्मा भवति गौतम ॥ [क.उ. २.१.१५]
इत्यत्र तादृक्त्वं साधर्म्यसूचकं प्रोक्तम्, न तु तन्मात्रत्वमिति । परमं साम्यमुपैति इत्यत्रापि, तदेव भवति इति लघुशब्दं परित्यज्य परमं साम्यमिति महाश्रीअब्दप्रयोगस्तदभिप्रायकमेव । ज्ञत्वादिना यत्किञ्चित्साम्यस्यामुक्तावस्थायामपि सत्त्वात्, निरुक्तनिखिलसाधर्म्यलाभाय परमपदविशेषणम् । परे देवे एको भवति [सु.उ.] इत्यत्र अभूततद्भावार्थकच्युप्रत्ययोऽपि दिवाभूता रात्रिरित्यादाविव परमैकत्ववारणेन परमसाम्यलाभार्थकमेव । ब्रह्म वेद ब्रह्मैव भवति [मु.उ. ३.२.९] इत्यत्र ब्रह्मभावोक्तिरपि मुक्तानां स्वरूपतो विग्रहतो गुणादितो भोग्यभोगापकरणादितश्च ब्रह्मात्मकसच्चिदानन्दरूपत्वबोधनार्थमेव । सत्यं ज्ञानमानन्दं ब्रह्म [तै.उ. २.१.३], विज्ञानमानन्दं ब्रह्म [बृ.आ.उ. ३.९.२८] इत्यादिश्रुतिभ्यः सच्चिदानन्दघनत्वस्यैव ब्रह्मस्वरूपलक्षणत्वात। तैत्तरीयेऽपि परममुक्त्यवस्थायां, ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे योमन्सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता [तै.उ. २.१.२] इत्युपक्रमे । उपसंहारे च, स इमान्लोकान्कामान्नीकामरूप्यनुसञ्चरन। एतत्साम गायन्नास्ते हावु हावु । अहमन्नमहमन्नमहमन्नम् । अहमन्नादोरहमन्नादोऽहमन्नादः । अहं श्लोककृदहं श्लोककृदहं श्लोककृत्[तै.भृ.ब. ६] इत्यादि पद्यते । तस्मात्परममुक्त्यवस्थायामपि न सर्वथा विशेषानुभवप्रतिषेध इति ध्येयं भगवत्प्रपन्नैरिति । इति मुक्तिविषयकशङ्कानिरासः ॥
—ओ)०(ओ—
(७)
तदेवं निरुक्तलक्षणस्य परब्रह्मणः श्रीकृष्णस्य निजसङ्केतितध्यानादिद्वारमिषेण निरुक्तलक्षणामृतत्वप्रदत्वनिरूपणात्परदेवत्वानुबन्धिपरमफलप्रदत्वमृत्युनिवारकत्वरूपाभ्यां धर्माभ्यामंशतः कार्यमुखेन परमदेवत्वं गोविन्दत्वं च निरूपिते । अथ स्वरूपतः कार्यतश्च विस्तरेन तथात्वं निरूपयितुं प्रक्रमते—
ते होचुः । किं तद्रूपं ? । किं रसनम् । कथं वाहो तद्भजनम् ।
तत्सर्वं विविदिषतामाख्याहीति ॥
तदु होचुरिति । सामान्यरूपेन स्वरूपतः कार्यतश्च निरुक्तलक्षणं परब्रह्मस्वरूपं श्रुत्त्वा अवधार्य च पुनर्विशेषतस्तत्स्वरूपावधारणाय जिज्ञासां चक्रुरित्यर्थः । अयमाशयः—उपनिषदन्तरेषु तावत्, सत्यं ज्ञानमनन्तं ब्रह्म, विज्ञानमात्मां ब्रह्म इत्यादि स्वरूपलक्षणपरैर्वाक्यैर्निरतिशयानन्तसच्चिदानन्दस्वरूपं ब्रह्म इत्येव निर्णीतम् । तत्पुनराकाशादिवन्निर्विशेषमेव विग्रहादिवत्सविशेषमेव वा । इति नेदं मिथ्यतया निर्धारितम् । यद्यपि सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता [तै.उ. २.१.२] इत्यनेन, रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्[तै.उ. २.७.१] इत्यादिना च फलवाक्येन तादृशसर्वकामभोगान्यथानुपपत्त्या ब्रह्मणः साकारत्वं श्रुतार्थापत्तिसिद्धमेव । तत एव च, अन्योऽन्तर आत्मा आनन्दमयः । अन्वयं पुरुषविधः [तै.उ. २.५], इति स्वशब्देनैवानन्दघनपुरुषाकारत्वं स्पष्टमामनन्ति । एवं स एतस्माज्जीवधनात्परात्परं पुरिशयं पुरुषमीक्षते [प्र.उ.],
दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥ [मु.उ. ३]
यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिं [मु.उ. ३.१.३] इति प्रश्नमुण्डकवाक्यगताभ्यां साभिप्रायकपुरुषपदाभ्यामपि च परब्रह्मणः सच्चिदानन्दात्मकं पुरुषाकारत्वमुक्तं भवत्येव । एवं ततोऽप्यधिकतया, आत्मैवेदमग्र आसीत्पुरुषविधः । सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्[बृ.आ.उ. १.४.१],
स नैव रेमे । तस्मातेकाकी न रमते । स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ । स इममेवात्मानं द्वेधापातयत। पतिश्च पत्नी चाभवताम् ॥ [बृ.आ.उ. १.४.३] इति ।
इत्याथर्वणमहोपनिषद्वाक्येन, पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति नारायणात्प्राणो जायते, मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी इति नारायणोपनिषद्वाक्येन च पुरुषविधनरपुरुषपदाभ्यां सर्वमूलरूपस्य पुरुषाकारत्वं निरूपितमेव । यथा चैतानि वाक्यानि परब्रह्मपराण्येव नापरब्रह्मपराणि तथोपपादितानि मया विस्तरेण युग्मतत्त्वसमीक्षायां साकारत्वनिरूपणावसरे, इति ग्रन्थगौरवभिया नेह तन्यते । तत्रैव द्रष्टव्यमिति ।
तथापि तानि वाक्यानि न साकारत्वनिरूपणे स्फुटतराणीति सूक्ष्मविचारकाणामेव तादृशार्थगमकानि । इति स्फुटं वाक्यमपेक्ष्यत एव । न च कैवल्योपनिषदि, यथा—
आश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच—
अधीहि भगवन्ब्रह्मविद्यावरिष्ठां
सदा सद्भिः सेव्यमानां निगूढाम् ।
ययाचिरात्सर्वपापं व्यपोह्य
परात्परं पुरुषं याति विद्वान॥
तस्मै स होवाच पितामहश्च
श्रद्धाभक्तिध्यानयोगादवैहि । इत्युपक्रम्य,
अन्त्याश्रमस्थः सकलेन्द्रियाणि
निरुद्ध्य भक्या स्वगुरुं प्रणम्य ।
हृत्पुण्डरीकं विरजं विशुद्धं
विचिन्त्य मध्ये विशदं विशोकम् ॥
अचिन्त्यमव्यक्तमनन्तरूपं
शिवं प्रशान्तममृतं ब्रह्मयोनिम् ।
तमादिमध्यान्तविहीनमेकं
विभुं चिदात्मानमरूपमद्भुतम् ॥
उमासहायं परमेश्वरं प्रभुं
त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
ध्यात्वा मुनिर्गच्छति भूतयोनिं
समस्तसाक्षिं तमसः परस्तात॥
स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट।
स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः ॥
स एव सर्वं यद्भूतं यच्च भाव्यं सनातनम् ।
ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥
इति निर्धारणात्त्रिलोचनादिविशिष्टमेव परम्णो मूलरूपमिति साकारत्वं निर्णीतमेवेति वाच्यम् । तत्र ध्येयरूपस्य त्रोलोचनत्वादिना निरूपितत्वेऽपि ज्ञेयत्वेन प्राप्यत्वेन च त्रिलोचनादिभिन्नरूपस्यैव प्रत्यभिज्ञायमानत्वेन त्रिलोचनादिवाक्यानां मूलस्वरूपनिर्णायकत्वासम्भवात। अयमाशयः—अत्र हि आश्वालयनेन मुनिना परमपुरुषप्राप्तिफलकब्रह्मविद्या जिज्ञासिता । पितामहश्च अन्यानि साधनान्यनुक्त्वा गुरुप्रणामं कर्तव्यत्वेन ज्ञापयित्वा ध्येयं चिदानन्दमयं शिवस्वरूपमुक्त्वा ज्ञानानन्तरं गन्तव्यत्वेन—भूतयोनिं समस्तसाक्षिं तमसः परस्तातित्यनेन परात्परं पुरुषं याति विद्वानिति वाक्यजिज्ञासितं, वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्[श्वे.उ. ३.८] इत्यादिपुरुषसूक्तोत्तरनारायणप्रतिपादितं परमपुरुषं प्रत्यभिज्ञापयामास । तस्यैव च, स ब्रह्मा स शिवः इत्यनेन निरुक्तध्येयशिवस्वरूपवमपि ब्रह्मेन्द्रादिरूपत्ववदुक्तम् । तज्ज्ञानस्यैव च तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय [श्वे.उ. ३.८] इत्युत्तरनारायणीयवाक्यसमानार्थकेन, तं ज्ञात्वा मृत्युमत्येति इति वाक्येन मोक्षहेतुत्वमपि प्रतिपादितम् । एवं चैतदुपनिषदो यदि ध्येयत्वेनोपदिष्टशिवरूपस्यैव परमकाष्ठापन्नत्वे तात्पर्यं स्यात। तदा ब्रह्म वेद ब्रह्मैव भवति [मु.उ. ३.२.९] इत्यादाविव ध्यात्वा मुनिर्गच्छति तमित्येव फलवाक्यं विशेषयेत्, न तु भूतयोनिं समस्तसाक्षिं तमसः परस्तातिति प्राप्यस्योक्तधेयरूपादधिकत्वसूचकमधिकं विशेषणमिति । न च भूतयोनित्वादिं पि ध्येयतयोक्तरूपे विशेषणमेवेति वाच्यम् । प्रमाणाभावात्, आकाङ्क्षापरमाच्च ।
उत्थापिताकाङ्क्षया तदन्वये वाक्यदोषापत्तेश्च । किं वात्र ध्येयगन्तव्ययोरेकतात्पर्ये, ब्रह्म वेद ब्रह्मैव भवति [मु.उ. ३.२.९], चिन्तयंश्चेतसा कृष्णं मुक्तो भवति संसृतेः [गो.ता. १.११], पञ्चपदीं जपन्ब्रह्म सम्पद्यते तदा [गो.ता. १.१२], इत्यादिवत्, ध्यायन्मुनिर्गच्छति तमियमेव वाक्यं योजयेत। तथा सति, ध्यानरूपसाधनगमनरूपफलयोरव्यवधानेन बोधो भवेदिति ।
अपि च, स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः इत्यनेन ब्रह्मादिवत्शिवस्यापि गन्तव्यतमपरमपुरुषविभूतित्वं न वदेदेव । यथा नारायणत्वेन परमतत्त्वताप्रतिपादकमहोपनिषदि, स ब्रह्मा स ईशानः इत्यादिना । ब्रह्मा स नारायणः शिवश्च नारायणः इत्यादिना नारायणोपनिषदि च सर्वेषां ब्रह्मादीनां नारायणविभूतित्वं प्रतिपादयन्नपि नारायणपदवाच्यत्वेन तस्य विभूतित्वं, स ब्रह्मा स नारायणः इत्येवं न वदति । एवं गोपालोत्तरतापिन्यामुपसंहारे प्रद्युम्नात्निरुद्धसङ्कर्षणवासुदेवानां, अन्येषां च, योऽसौ प्रधानात्मा गोपालः इत्यादिवाक्योक्तानां गोपालविभूतित्वनिरूपणप्रसङ्गे गोपालस्यापि तथात्वं न भवेदिति । गोपालाय निजस्वरूपाय इत्यन्यत्राविशेषितनिजत्वं विशेषितम् ।
यद्यप्यत्रान्तिमपर्यायपर्यन्तं गोपालपदवाच्यत्वेनैव विशेषस्य निर्देशात्, न तस्य विभूतित्वशङ्कासम्भवः, तथाप्यणुमात्रं पि न शङ्कासम्भवो भवतु, इति निजत्वं विशेषितम् । तथात्र न निर्विचिकित्सितनिर्णायकः कश्चिच्छब्दः । तस्मात्त्रिलोचनरूपस्य मूलरूपत्वनिरूपणे कैवल्योपनिषत्तात्पर्यम् । अपि तु परविद्यायां क्रमेणावतारा यद्दत्तात्रेयहयग्रीवोपनिषदादौ दत्तात्रेयहयग्रीवादिस्वरूपध्यानमन्त्रजपादिवदिहापि त्रिलोचनस्वरूपध्यानशतरुद्रीयजपाद्युपदेशः । किं च, शिवस्य सर्वविद्यागुरुत्वेन गौरवीशक्तिरूपत्वाद्ब्रह्मविद्याप्रकरणे ध्येयत्वमुक्तम् ।
अयमाशयः—सर्वासु विद्यासु प्रथमं गौरवीशक्तिर्ध्येयत्वेनोपदिश्यते इति शास्त्रसम्प्रदायः । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ [श्वे.उ. ६.२३] इति श्वेताश्वतरश्रुतेः ।
तथा गौरवीशक्तेर्दक्षिणामूर्तित्वमप्युपदिश्यते शास्त्रेषु । शिवश्च दक्षिणामूर्तिरित्यपि प्रसिद्धम् । अत एव शिवाकारैव गौरवीशक्तिः सच्चिदानन्दविग्रहा परेऽप्राकृते धाम्नि विराजते । यथा च परे धाम्नि आधिदैविकी तत्तद्देवाद्याकारा शक्तिः । तद्व्युत्पादयिष्ये, रुद्रेषु रौद्री गाणेशेषु गाणेशी इत्यादि वक्ष्यमाणग्रन्थव्याख्यानावसरे इति तत्रैव ध्येयम् ।
एवं च प्रकृते गुरुं प्रणम्य इति ब्रह्मविद्याभ्यासारम्भे गुरुप्रणामो विहितः । परोक्षगुरुप्रणामसु ध्यानविशेषरूपेणैव । ध्यानस्य च ध्येयस्वरूपज्ञानसापेक्षत्वम्, ध्येयाधिदैविकगुरुस्वरूपं निर्दिश्यते, हृत्पुण्डरीकमित्यादिनेति नैकान्ततः परमात्मस्वरूपनिर्णयो न वा कश्चिद्विरोध इति ।
अथ निराकारत्वेन स्वरूपनिर्णयः स्यात्—अशब्दमस्पर्शमरूपमव्ययम्, अस्थूलमनण्वह्रस्वमदीर्घमद्रक्ष्यमग्राह्यम्, अपाणिपादो जवनो ग्रहीता, नैव स्त्री न पुमानित्यादिश्रुतिस्मृतिभ्य इति चेत्, न । पूर्वोदाहृतसाकारत्वसमर्पकश्रुतीनां
विश्वतश्चक्षुरुत विश्वतोमुखो
विश्वतोबाहुरुत विश्वतस्पात।
सं बाहुभ्यां धमति सम्पतत्रैर्
द्यावाभूमी जनयन्देव एकः ॥ [श्वे.उ. ३.३]
त्वं स्त्री त्वं पुमान्त्वं कुमार उत वा कुमारी,
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ [गीता १३.१३]
इत्यादिश्रुतिस्मृतिपर्यालोचनया । अशब्दमित्यादिश्रुतीनां निरतिशयसच्चिदानन्दघनात्मकब्रह्मस्वरूपातिरिक्तस्य विविधभावविकारयुक्तस्य चेष्टावदन्त्यावयवीत्यादि लक्षणलक्षितस्य सङ्घातरूपस्य,
पञ्चात्मकं पञ्चसु वर्तमानं
षडाश्रयं षड्गुणयोगयुक्तम् ।
तं सप्तधातुं त्रिवलिं द्वियोनिं
चतुर्विधाहारमयं शरीरम् ॥
इति गर्भोपनिषदुक्तशरीरस्यैव प्रतिषेधे तात्पर्यमवसीयते । न तु
यदा पश्यः पश्यते रुक्मवर्णं
कर्तारमीशं पुरुषं ब्रह्मयोनिम् । [मु.उ. ३.१.३]
अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी ॥ [छा.उ. १.६.७]
अस्माद्विज्ञानमयादन्योऽन्तर आत्मा आनन्दमयः अन्वयं पुरुषविधः [तै.उ. २.३]
आत्मैवेदमग्र आसीत्पुरुषविधः [बृ.आ.उ. १.४.१], स एकाकी नर एव इत्यादिश्रुतिसहस्रप्रसिद्धस्य,
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥
नित्यानन्दतनुः शौरिर्योऽशरीरीति भाष्यते ।
वाय्वग्निनाकभूमीनामङ्गाधिष्ठितदेवता ।
निरूप्यते ब्रह्मणोऽपि तथा गोविन्दविग्रहः ।
सेन्द्रियोऽपि यथा सूर्यस्तेजसा नोपलक्ष्यते ।
तथा कान्तियुतः कृष्णः कालं मोहयति ध्रुवम् ।
न तस्य प्राकृतीमूर्तिर्मेदोमां सास्थिसम्भवा ।
योगीचैवेश्वरश्चान्यः सर्वात्मानित्यविग्रहः ।
काठिन्यं देवयोगेन करकाघृतयोरिव ।
कृष्णस्यामिततत्त्वस्य पादपृष्ठं न देवता । [प.पु. ५.४०.४१४४]
इत्यादि गीतापुराणाद्युपबृंहितस्य—
निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो
निश्चेतनात्मकशरीरगुणैश्च हीनः ।
आनन्दमात्रकरपादमुखोदरादिः
सर्वत्र च स्वगतभेदविवर्जितात्मा ॥
अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति
पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति ।
आनन्दचिन्मयसदुज्ज्वलविग्रहस्य
गोविन्दमादिपुरुषं तमहं भजामि ॥ [ब्र.सं. ५.३२]
इत्याद्यनुकूलतर्कोपबृंहितपञ्चरात्रवाक्यानूदितस्य सर्वविक्रियारहितस्य निरतिशयसच्चिदानन्दघनस्यावयवसङ्घातजन्यत्वरहितस्यावयवावयिकृतभेदशून्यस्यानन्दचिन्मयतया सर्वतोभावेनैव दर्शनस्पर्शनादिशक्तिमत्तया प्रतिनियतेन्द्रियकार्यकारितारहितस्य, अपरिच्छिन्नत्वेऽपि परिच्छिन्नतया नराकारतया च प्रमीयमाणस्य आत्मानतिरिक्ततया स्वरूपभूतस्य यदा पश्यः पश्यते रुक्मवर्ण [मु.उ. ३.१.३], स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते इति श्रुतेर्मुक्तमात्रगम्यस्य विग्रहस्य निषेधे तात्पर्यं प्रतीयते ।
तस्मात्तत्तच्छ्रुतिभ्यां साकारत्वेन निराकारत्वेन च सूचितम् । अत्रापि सच्चिदानन्दरूपाय इति मन्त्रवर्णे सूत्रितस्य परमात्मनः स्वरूपस्य तत्त्वतो निर्धारणाय ते पुनर्यः पप्रच्छुः—किं तद्रूपं ? इत्यादि, कः परमो देवः इत्यारभ्य, सकलं परं ब्रह्मैव ततित्यन्तेन निरूपितस्य सर्वातिशयिपरमाकाष्ठापन्नस्य परब्रह्मणः परमं स्वरूपं किंलक्षण्मिति जिज्ञासावाक्यार्थः । अशरीरमियादि श्रुतिनिर्णयात्सच्चिदानन्दात्मकं सदपि व्योमवन्निर्विशेषमात्रं, पुरुषविधः नर एव, पुरुषं ब्रह्मयोनिमित्युदाहृतश्रुतिभ्यः सच्चिदानन्दात्मकपुरुषाकारमन्यविधं वेति भावार्थः ।
तथा च निरुक्तपरमदेवत्वस्य स्वरूपतः सोपपन्ननिरूपणायैव स्वरूपजिज्ञासा । इदमित्थतया स्वरूपनिर्णयं विना परमदेवत्वनिर्धारासम्भवात। तेन ध्यानाङ्गतयात्र स्वरूपजिज्ञासा निरूपणं चेत्याशङ्काया नावसरः ।
वस्तुनो ध्यानादीनामपि निरुक्तपरमदेवत्वगोविन्दत्वानुबन्धिपरमफलप्रदत्वमृत्युनिवारकत्वादिद्वारतयैव प्रक्रान्तत्वेन परमदेवस्वरूपनिर्णयशेषत्वेन तत्स्वरूपनिर्णयस्य ध्यानादिशेषत्वासम्भवात। एतेन रसनादिनिरूपणस्यापि परमदेवत्वोपपादक्तयिवात्रोपयोग इत्यप्युक्तमेवाधिकं त्वग्रे निरूपयिष्ये इति ।
—ओ)०(ओ—
(८)
एवं प्रश्नं श्रुत्वा प्रथमतः स्वरूपनिर्धारणमाह—
तदु होवाच हैरण्यः । गोपवेशमभ्राभं
तरुणं कल्पद्रुमाश्रितम् ।
तत्प्रश्नविषयभूतं स्वरूपादिकमु विमृश्य ह अवधार्य उवाच स्वरूपनिर्णयमुवाच इत्यर्थः । गोपवेशमिति गोपायति साक्षात्परोक्षतो वा नित्यनिरतिशयचिदानन्दनिजस्वरूपानुभावनेन सौन्दर्यमाधुर्याद्यनुभावनेन च । विषयद्वारा निजस्वरूपानन्दलेशानुभावनेन च निखिलान्मुक्तानमुक्तांश्च जीवान्पालयति प्राणिति यः स नित्यनिरतिशयचिद्रसानन्दविग्रहो गोपः—रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात। एषा ह्येवानन्दयाति [तै.उ. २.७.१], एतस्यैवानन्दस्य अन्यानि भूतानि मात्रामुपजीवन्ति [बृ.आ.उ. ] । तमेकं गोविन्दं सच्चिदानन्दविग्रहं [गो.ता.उ. १.३३] इत्यादिश्रुतिभ्यः ।
अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति
पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति ।
आनन्दचिन्मयसदुज्ज्वलविग्रहस्य
गोविन्दमादिपुरुषं तमहं भजामि ॥ [ब्र.सं. ५.३२]
आनन्दचिन्मयरसात्मतया मनःसु
यः प्राणिनां प्रतिफलन्स्मरतामुपेत्य ।
लीलायितेन भुवनानि जयत्यजस्रं
गोविन्दमादिपुरुषं तमहं भजामि ॥ [ब्र.सं. ५.४२]
इति ब्रह्मसंहितावाक्येभ्यः ।
नित्यानन्दतनुशौरिर्योऽशरीरीति भाष्यते इत्याद्युदाहृतपद्मपुराणवाक्येभ्यः । तथा पार्वती उवाच—
परमं कारणं कृष्णं गोविन्दाख्यं महत्पदम् ।
वृन्दावनेश्वरं नित्यं निर्गुणस्यैककारणम् ॥
तत्तद्रहस्यमाहात्म्यं किमाश्चर्यं च सुन्दरम् ।
तद्ब्रूहि देवदेवेश श्रोतुमिच्छाम्यहं प्रभो ॥
ईश्वर उवाच—
यदङ्घ्रिनखचन्द्रांशुमहिमान्तो न गम्यते ।
तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं मुदा शृणु ॥
अनन्तकोटिब्रह्माण्डे अनन्तत्रिगुणोच्छ्रये ।
तत्कलाकोटिकोट्यंशा ब्रह्मविष्णुमहेश्वराः ॥
सृष्टिस्थित्यादिना युक्तास्तिष्ठन्ति तस्य वैभवाः ।
तद्रूपकोटिकोट्यंशाः कलाः कन्दर्पविग्रहाः ॥
जगन्मोहं प्रकुर्वन्ति तदण्डान्तरसंस्थिताः ।
तद्देहविलसत्कान्तिकोटिकोट्यंशको विभुः ॥
तत्प्रकाशस्य कोट्यंशरश्मयो रविविग्रहाः ।
तस्य स्वदेहकिरणैः परानन्दरसामृतैः ॥
परमामोदचिद्रूपैर्निर्गुणस्यैककारणैः ।
तदंशकोटिकोट्यंशा जीवन्ति किरणात्मकाः ॥
तदङ्घ्रिपङ्कजद्वन्द्वनखचन्द्रमणिप्रभाः ।
आहुः पूर्णब्रह्मणोऽपि कारणं वेददुर्गमम् ॥
तदंशसौरभानन्तकोट्यंशो विश्वमोहनः ।
तत्स्पर्शपुष्पगन्धादिनानासौरभसम्भवः ॥
तत्प्रिया प्रकृतिस्त्वाद्या राधिका कृष्णवल्लभा ।
तत्कलाकोटिकोट्यंशा दुर्गाद्यास्त्रिगुणात्मिकाः ।
तस्या अङ्घ्रिरजःस्पर्शात्कोटिविष्णुः प्रजायते ॥ [प.पु. ५.६९.१०७११८]
इत्यादि समुपबृंहकपद्मपुराणपातालखण्डवृन्दावनमाहात्म्यगतवाक्येभ्यश्चेति ।
इदमत्र बोध्यम् । श्रीभगवत्स्वरूपनिरूपणपरेषु श्रुतिस्मृतिपुराणेषु गोपशब्दो गोपवेशशब्दश्च बहुशः समायाति, यथा, त्रीणि पादा विचक्रेम विष्णुर्गोपा अदाभ्यः इत्यादि वेदेषु । पुराणेषु च, आद्यसृष्टिप्रकरणे ब्रह्मवैवर्तदेवीभागवतादिषु । तत्र सर्वत्र न तस्य शब्दस्य गवादिपशुपतिपालकवेश इत्येतावन्मात्रमर्थः । अपि तु गोपशब्दस्य निरुक्तलक्षणनिखिलजडजीवात्मकमुक्तामुक्तप्रपञ्चपालकत्वधर्मयोगादेव तत्र प्रयोगः । तस्मातत्र गोपस्य उपयुक्तो वेशो गोपवेश इति मध्यमपदलोपिसमासानन्तरमर्थाद्यच्करणात। तादृशार्थगमकबहुव्रीहिकरणाद्वा निष्पण्णो गोपवेशशब्दोऽत्र ग्राह्यः । तथा च निरुक्तलक्षणगोपस्वरूपस्य भगवतो निरुक्तलक्षणगोपनोपयुकाः परमरसपोषकाः सौन्दर्यमाधुर्यसौकुमार्यसौगन्ध्यमार्दवादिदिव्यविग्रहस्वरूपगुणाः, विग्रहालङ्कारभूता रसपोषका भूषणवसनाद्याश्च गोपवेशशब्देन सङ्गृह्यते । तथा च तादृशरसोद्दीपकसर्वगुणोपपन्नं निरतिशयप्रेमानन्दविग्रहमिति गोपवेशमिति वाक्यार्थः ।
एवं च गोपवेशपदेन—अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा [तै.उ. २.५], सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता [तै.उ. २.१.२], रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात। एषा ह्येवानन्दयाति [तै.उ. २.७.१] इति तैत्तरीयोक्ताः ।
तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा [बृ.आ.उ. १.४.८], सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः [छा.उ. ३.१४.२], यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा [छा.उ. ७.२४.१], एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड्भवति [छा.उ. ७.२५.२], तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस्तेजः [छा.उ. ७.२६.१] इत्युपक्रम्य, न पश्यो मृत्युं पश्यति न रोगं नोत दुःखतां, सर्वं ह पश्यः पश्यति, सर्वमाप्नोति, सर्वश इति स एकधा भवति, त्रिधा भवति, पञ्चधा सप्तधा नवधा चैव । पुनश्चैकादशः स्मृतः शतं च दश चैकश्च सहस्राणि च विंशतिः [छा.उ. ७.२६.२] इति छान्दोग्ये शाण्डिल्यविद्यायां भूमविद्यायां च प्रोक्ता रसधर्माः समुपसंहृता भवन्तीति ।
तथा नाट्यशास्त्रे षष्ठाध्याये—
सुखप्रायेष्टसम्पन्नऋतुमाल्यादिसेवकः ।
पुरुषः प्रमदायुक्तः शृङ्गार इति संज्ञितः ॥
ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः ।
उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥ [ना.शा. ६.४६४७]
इत्यादि भरतमुनिनिरूपितरीत्या शृङ्गाररसौपपयिकसर्वोपकरणोपपन्ननिरतिशयदिव्यशृङ्गाररसरूपत्वमप्यत्र निरूपितं भवति । तच्च सर्वादिसृष्टिप्राक्कालीनरूपनिरूपणपरायणब्रह्मवैवर्तब्रह्मखण्डप्रकृतिखण्डदेवीभागवतनवमस्कन्धनारदीयस्कन्दवासुदेवमाहात्म्यपाद्मवृन्दावनमाहात्म्यबृहद्वामनपुराणपञ्चरात्रब्रह्मसंहिताबृहद्ब्रह्मसंहिताज्ञानामृतसंहितासनत्कुमारसंहितागौतमीयतन्त्राद्यार्षनिबन्धपर्यालोचकानां सहृदयानां हृदयगोचरमेव । तेषु ग्रन्थेषु, अनाद्यनन्तानिर्वचनीयस्वात्मकविच्छक्तिविलासमयतादृशसर्वोपकरणविशिष्टपरमपुरुषश्रीकृष्णरूपस्य तथैवोपबृंहणात।
यथा च पाद्मे पातालखण्डे वृन्दावनमाहात्म्ये—
गोविन्दस्य किमाश्चर्यं सौन्दर्याकृतविग्रहम् ।
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ॥ [प.पु. ५.६९.७९]
इति श्रीपावर्त्या पृष्टः भगवानीश्वर उवाच—
मध्ये वृन्दावने रम्येमञ्जुमञ्जीरशोभिते ।
योजनाश्रितसद्वृक्षशाखापल्लवमण्डिते ॥८०॥
तन्मध्ये मञ्जुभवने योगपीठं समुज्जवलम् ।
तदष्टकोणनिर्माणं नानादीप्तिमनोहरम् ॥८१॥
तस्योपरि च माणिक्यरत्नसिंहासनं शुभम् ।
तस्मिन्नष्टदलं पद्मं कर्णिकायां सुखाश्रयम् ॥८२॥
गोविन्दस्य परं स्थानं किमस्य महिमोच्यते ।
श्रीमद्गोविन्दमन्त्रस्थबल्लवीवृन्दसेवितम् ॥८३॥
दिव्यव्रजवयोरूपं कृष्णं वृन्दावनेश्वरम् ।
व्रजेन्द्रं सन्ततैश्वर्यं व्रजबालैकवल्लभम् ॥८४॥
यौवनोद्भिन्नकैशोरं वयसाद्भुतविग्रहम् ।
अनादिमादिं सर्वेषां नन्दगोपप्रियात्मजम् ॥८५॥
श्रुतिमृग्यमजं नित्यं गोपीजनमनोहरम् ।
परं धाम परं रूपं द्विभुजं गोकुलेश्वरम् ॥८६॥
बल्लवीनन्दनं ध्यायेन्निर्गुणस्यैककारणम् ।
सुश्रीमन्तं नवं स्वच्छं श्यामधाम मनोहरम् ॥८७॥
नवीननीरदश्रेणीसुस्निग्धं मञ्जुकुण्डलम् ।
फुल्लेन्दीवरसत्कान्तिसुखस्पर्शं सुखावहम् ॥८८॥
दलितां जनपुञ्जाभचिक्कणं श्याममोहनम् ।
सुस्निग्धनीलकुटिलाशेषसौरभकुन्तलम् ॥८९॥
तदूर्ध्वं दक्षिणे काले श्यामचूडामनोहरम् ।
नानावर्णोज्ज्वलं राजच्छिखण्डिदलमण्डितम् ॥९०॥
मन्दारमञ्जुगोपुच्छाचूडं चारुविभूषणम् ।
क्वचिद्बृहद्दलश्रेणीमुकुटेनाभिमण्डितम् ॥९१॥
अनेकमणिमाणिक्यकिरीटभूषणं क्वचित।
लोलालकवृतं राजत्कोटिचन्द्रसमाननम् ॥९२॥
कस्तूरीतिलकं भ्राजन्मञ्जुगोरोचनान्वितम् ।
नीलेन्दीवरसुस्निग्धसुदीर्घदललोचनम् ॥९३॥
आनृत्यद्भ्रूलताश्लेषस्मितं साचिनिरीक्षणम् ।
सुचारून्नतसौन्दर्यनासाग्रातिमनोहरम् ॥९४॥
नासाग्रगजमुक्तांशुमुग्धीकृतजगत्त्रयम् ।
सिन्दूरारुणसुस्निग्धाधरौष्ठसुमनोहरम् ॥९५॥
नानावर्णोल्लसत्स्वर्णमकराकृतिकुण्डलम् ।
तद्रश्मिपुञ्जसद्गण्डमुकुराभलसद्द्युतिम् ॥९६॥
कर्णोत्पलसुमन्दारमकरोत्तंसभूषितम् ।
श्रीवत्सकौस्तुभोरस्कं मुक्ताहारस्फुरद्गलम् ॥९७॥
विलसद्दिव्यमाणिक्यं मञ्जुकाञ्चनमिश्रितम् ।
करे कङ्कणकेयूरं किङ्किणीकटिशोभितम् ॥९८॥
मञ्जुमञ्जीरसौन्दर्यश्रीमदङ्घ्रिविराजितम् ।
कर्पूरागुरुकस्तूरीविलसच्चन्दनादिकम् ॥९९॥
गोरोचनादिसंमिश्रदिव्याङ्गरागचित्रितम् ।
स्निग्धपीतपटीराजत्प्रपदां दोलितां जनम् ॥१००॥
गम्भीरनाभिकमलं रोमराजीनतस्रजम् ।
सुवृत्तजानुयुगलं पादपद्ममनोहरम् ॥१०१॥
ध्वजवज्राङ्कुशाम्भोजकराङ्घ्रितलशोभितम् ।
नखेन्दुकिरणश्रेणीपूर्णब्रह्मैककारणम् ॥१०२॥
केचिद्वदन्ति तस्यांशं ब्रह्म चिद्रूपमद्वयम् ।
तद्दशांशं महाविष्णुं प्रवदन्ति मनीषिणः ॥१०३॥
योगीन्द्रैः सनकाद्यैश्च तदेव हृदि चिन्त्यते ।
त्रिभङ्गं ललिताशेषनिर्माणसारनिर्मितम् ॥१०४॥
तिर्यग्ग्रीवजितानन्तकोटिकन्दर्पसुन्दरम् ।
वामांसार्पितसद्गण्डस्फुरत्काञ्चनकुण्डलम् ॥१०५॥
सहापाङ्गेक्षणस्मेरं कोटिमन्मथसुन्दरम् ।
कुञ्चिताधरविन्यस्तवंशीमञ्जुकलस्वनैः ॥१०६॥
जगत्त्रयं मोहयन्तं मग्नं प्रेमसुधार्णवे ।
श्रीपार्वत्युवाच—
परमं कारणं कृष्णं गोविन्दाख्यं महत्पदम् ॥१०७॥
वृन्दावनेश्वरं नित्यं निर्गुणस्यैककारणम् ।
तत्तद्रहस्यमाहात्म्यं किमाश्चर्यं च सुन्दरम् ॥१०८॥
तद्ब्रूहि देवदेवेश श्रोतुमिच्छाम्यहं प्रभो ।
ईश्वर उवाच—
यदङ्घ्रिनखचन्द्रांशुमहिमान्तो न गम्यते ॥१०९॥
तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं मुदा शृणु ।
अनन्तकोटिब्रह्माण्डे अनन्तत्रिगुणोच्छ्रये ॥११०॥
तत्कलाकोटिकोट्यंशा ब्रह्मविष्णुमहेश्वराः ।
सृष्टिस्थित्यादिना युक्तास्तिष्ठन्ति तस्य वैभवाः ॥१११॥
तद्रूपकोटिकोट्यंशाः कलाः कन्दर्पविग्रहाः ।
जगन्मोहं प्रकुर्वन्ति तदण्डान्तरसंस्थिताः ॥११२॥
तद्देहविलसत्कान्तिकोटिकोट्यंशको विभुः ।
तत्प्रकाशस्य कोट्यंशरश्मयो रविविग्रहाः ॥११३॥
तस्य स्वदेहकिरणैः परानन्दरसामृतैः ।
परमामोदचिद्रूपैर्निर्गुणस्यैककारणैः ॥११४॥
तदंशकोटिकोट्यंशा जीवन्ति किरणात्मकाः ।
तदङ्घ्रिपङ्कजद्वन्द्वनखचन्द्रमणिप्रभाः ॥११५॥
आहुः पूर्णब्रह्मणोऽपि कारणं वेददुर्गमम् ।
तदंशसौरभानन्तकोट्यंशो विश्वमोहनः ॥११६॥
तत्स्पर्शपुष्पगन्धादिनानासौरभसम्भवः ।
तत्प्रिया प्रकृतिस्त्वाद्या राधिका कृष्णवल्लभा ॥११७॥
तत्कलाकोटिकोट्यंशा दुर्गाद्यास्त्रिगुणात्मिकाः ।
तस्या अङ्घ्रिरजसः स्पर्शात्कोटिविष्णुः प्रजायते ॥११८॥ इति ।
पुनश्च सपरिकरं भगवत्स्वरूपं श्रोतुं श्रीपार्वती पृच्छति तत्रैवाग्रिमाध्याये पार्वती उवाच—
यदाकर्णनमेतस्य ये वा पारिषदाः प्रभोः ।
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ॥१॥
ईश्वर उवाच—
राधया सह गोविन्दं स्वर्णसिंहासने स्थितम् ।
पूर्वोक्तरूपलावण्यं दिव्यभूषाम्बरस्रजम् ॥२॥
त्रिभङ्गीमञ्जुसुस्निग्धं गोपीलोचनतारकम् ।
तद्बाह्ये योगपीठे च स्वर्णसिंहासनावृते ॥३॥
प्रत्यङ्गरभसावेशाः प्रधानाः कृष्णवल्लभाः ।
ललिताद्याः प्रकृत्यंशा मूलप्रकृती राधिका ॥४॥
संमुखे ललिता देवी श्यामला वायुकोणके ।
उत्तरे श्रीमती धन्या ऐशान्यां श्रीहरिप्रिया ॥५॥
विशाखा च तथा पूर्वे शैब्या चाग्नौ ततः परम् ।
पद्मा च दक्षिणे पश्चान्नैरृते क्रमशः स्थिताः ॥६॥
योगपीठे केसराग्रे चारु चन्द्रावती प्रिया ।
अष्टौ प्रकृतयः पुण्याः प्रधानाः कृष्णवल्लभाः ॥७॥
प्रधानप्रकृतिस्त्वाद्या राधा चन्द्रावती समा ।
चन्द्रावली चित्ररेखा चन्द्रा मदनसुन्दरी ॥८॥
प्रिया च श्रीमधुमती चन्द्ररेखा हरिप्रिया ।
षोडशाद्याः प्रकृतयः प्रधानाः कृष्णवल्लभाः ॥९॥
वृन्दावनेश्वरी राधा तथा चन्द्रावली प्रिया ।
अभिन्नगुणलावण्यसौन्दर्याश्चारुलोचनाः ॥१०॥
मनोहरा मुग्धवेषाः किशोरीवयसोज्ज्वलाः ।
अग्रेतनास्तथा चान्या गोपकन्याः सहस्रशः ॥११॥
शुद्धकाञ्चनपुञ्जाभाः सुप्रसन्नाः सुलोचनाः ।
तद्रूपहृदयारूढास्तदाश्लेषसमुत्सुकाः ॥१२॥
श्यामामृतरसे मग्नाः स्फुरत्तद्भावमानसाः ।
नेत्रोत्पलार्चिते कृष्णपादाब्जेऽर्पितचेतसः ॥१३॥
श्रुतिकन्यास्ततो दक्षे सहस्रायुतसंयुताः ।
जगन्मुग्धीकृताकारा हृद्वर्तिकृष्णलालसाः ॥१४॥
नानासत्त्वस्वरालापमुग्धीकृतजगत्त्रयाः ।
तत्र गूढरहस्यानि गायन्त्यः प्रेमविह्वलाः ॥१५॥
देवकन्यास्ततः सव्ये दिव्यवेषा रसोज्ज्वलाः ।
नानावैदिगध्यनिपुणा दिव्यभावभरान्विताः ॥१६॥
सौन्दर्यातिशयेनाढ्याः कटाक्षातिमनोहराः ।
निर्लज्जास्तत्र गोविन्दे तदङ्गस्पर्शनोद्यताः ॥१७॥
तद्भावमग्नमनसः स्मितसाचिनिरीक्षणाः ।
मन्दिरस्य ततो बाह्ये प्रियया विशदावृते ॥१८॥
समानवेषवयसः समानबलपौरुषाः ।
समानगुणकर्माणः समानाभरणप्रियाः ॥१९॥
समानस्वरसङ्गीतवेणुवादनतत्पराः ।
श्रीदामा पश्चिमे द्वारे वसुदामा तथोत्तरे ॥२०॥
सुदामा च तथा पूर्वे किङ्किणी चापि दक्षिणे ।
तद्बाह्ये स्वर्णपीठे च सुवर्णमन्दिरावृते ॥२१॥
स्वर्णवेद्यन्तरस्थे तु स्वर्णाभरणभूषिते ।
स्तोककृष्णं सुभद्राद्यैर्गोपालैरयुतायुतैः ॥२२॥
शृङ्गवीणावेणुवेत्रवयोवेषाकृतिस्वरैः ।
तद्गुणध्यानसंयुक्तैर्गायद्भिरपि विह्वलैः ॥२३॥
चित्रार्पितैश्चित्ररूपैः सदानन्दाश्रुवर्षिभिः ।
पुलकाकुलसर्वाङ्गैर्योगीन्द्रैरिव विस्मितैः ॥२४॥
क्षरत्ययोभिर्गोविन्दैरसंख्यातैरुपावृतम् ।
तद्बाह्ये स्वर्णप्राकारे कोटिसूर्यसमुज्जवले ॥२५॥
चतुर्दिक्षु महोद्यानं मञ्जुसौरभमोहिते ।
पश्चिमे संमुखे श्रीमत्पारिजातद्रुमाश्रये ॥२६॥
तदधस्तु स्वर्णपीठे स्वर्णमण्डनमण्डिते ।
तन्मध्ये मणिमाणिक्यदिव्यसिंहासनोज्ज्वले ॥२७॥
तत्रोपरि परानन्दं वासुदेवं जगत्प्रभुम् ।
त्रिगुणातीतचिद्रूपं सर्वकारणकारणम् ॥२८॥
इन्द्रनीलघनश्यामं नीलकुञ्चितकुन्तलम् ।
पद्मपत्रविशालाक्षं मकराकृतिकुण्डलम् ॥२९॥
चतुर्भुजं तु चक्रासिगदाशंखाम्बुजायुधम् ।
आद्यन्तरहितं नित्यं प्रधानं पुरुषोत्तमम् ॥३०॥
ज्योतीरूपं महद्धामपुराणं वनमालिनम् ।
पीताम्बरधरं स्निग्धं दिव्यभूषणभूषितम् ॥३१॥
दिव्यानुलेपनं राजच्चित्रिताङ्गमनोहरम् ।
रुक्मिणी सत्यभामा च नाग्नजिती सुलक्षणा ॥३२॥
मित्रविन्दानुविन्दा सुनन्दा जाम्बवती प्रिया ।
सुशीला चाष्टमहिला वासुदेवप्रियास्ततः ॥३३॥
उद्भ्राजिताः पारिषदा वृतयोर्भक्तितत्पराः ।
उत्तरे सुमहोद्याने हरिचन्दनसंश्रये ॥३४॥
तत्राधस्तु स्वर्णपीठे मणिमण्डपमण्डिते ।
तन्मध्ये हेमनिर्माणदले सिंहासनोज्जवले ॥३५॥
तत्रैव सह रेवत्या सङ्कर्षणहलायुधम् ।
ईश्वरस्य प्रियानं तमभिन्नगुणरूपिणम् ॥३६॥
शुद्धस्फटिकसंकाशं रक्ताम्बुजदलेक्षणम् ।
नीलपट्टधरं स्निग्धं दिव्यभूषास्रगम्बरम् ॥३७॥
मधुपाने सदासक्तं मधुघूर्णितलोचनम् ।
प्रवीरदक्षिणे भागे मञ्जुनाभ्यन्तरस्थिते ॥३८॥
संतानवृक्षमूले तु मणिमन्दिरमण्डितम् ।
तन्मध्ये मणिमाणिक्यदिव्यसिंहासनोज्ज्वले ॥३९॥
प्रद्युम्नं चरती देवं तत्रोपरिसुखस्थितम् ।
जगन्मोहनसौन्दर्यसारश्रेणीरसात्मकम् ॥४०॥
असितां भोजपुञ्जाभमरविन्ददलेक्षणम् ।
दिव्यालङ्कारभूषाभिर्दिव्यगन्धानुलेपनम् ॥४१॥
जगन्मुग्धीकृताशेषसौन्दर्याश्चर्यविग्रहम् ।
पूर्वोद्याने महारण्ये सुरद्रुमसमाश्रये ॥४२॥
तत्राधस्तु स्वर्णपीठे हेममण्डपमण्डिते ।
तस्य मध्ये स्थिते राजद्दिव्यसिंहासनोज्ज्वले ॥४३॥
दिव्योषयासमं श्रीमदनिरुद्धं जगत्पतिम् ।
सान्द्रानन्दघनश्यामं सुस्निग्धं नीलकुन्तलम् ॥४४॥
सुभ्रून्नतलताभङ्गीं सुकपोलं सुनासिकम् ।
सुग्रीवं सुन्दरं वक्षो मनोहरमनोहरम् ॥४५॥
किरीटिनं कुण्डलिनं कण्ठभूषाविभूषितम् ।
मञ्जुमञ्जीरमाधुर्यादतिसौन्दर्यविग्रहम् ॥४६॥
प्रियभृत्यगणाराध्यं यत्र सङ्गीतकप्रियम् ।
पूर्णब्रह्म सदानन्दं शुद्धसत्त्वस्वरूपकम् ॥४७॥
तस्योर्ध्वे चान्तरिक्षे च विष्णुं सर्वेश्वरेश्वरम् ।
अनादिमादिचिद्रूपं चिदानन्दं परं विभुम् ॥४८॥
त्रिगुणातीतमव्यक्तं नित्यमक्षयमव्ययम् ।
समेघपुञ्जमाधुर्यसौन्दर्यश्यामविग्रहम् ॥४९॥
नीलकुञ्चितसुस्निग्धकेशपाशातिसुन्दरम् ।
अरविन्ददलस्निग्धसुदीर्घचारुलोचनम् ॥५०॥
किरीटकुण्डलोद्गण्डशुद्धसत्त्वात्मभिर्वृतम् ।
आत्मारामैश्च चिद्रूपैस्तन्मूर्तिध्यानतत्परैः ॥५१॥
हृदयारूढतद्ध्यानैर्नासाग्रन्यस्तलोचनैः ।
क्रियतेऽहैतुकी भक्तिः कायहृद्वृत्तिभाषितैः ॥५२॥
तत्सव्ये यक्षगन्धर्वसिद्धविद्याधरादिभिः ।
सुकान्तैरप्सरः सङ्घैर्नृत्यसङ्गीततत्परैः ॥५३॥
तदङ्गभजनं कामं वाञ्छद्भिः कृष्णलालसैः ।
तदग्रे वैष्णवैः सर्वैश्चान्तरिक्षे सुखासने ॥५४॥
प्रह्लादनारदाद्यैश्च कुमारशुकवैष्णवैः ।
जनकाद्यैर्लसद्भावैर्हृद्बाह्यस्फूर्तितत्परैः ॥५५॥
पुलकाकुलसर्वाङ्गैः स्फुरत्प्रेमसमाकुलैः ।
रहस्यामृतसंसिक्तैरर्धयुग्माक्षरो मनुः ॥५६॥
मन्त्रचूडामणिः प्रोक्तः सर्वमन्त्रैककारणम् ।
सर्वदेवस्य मन्त्राणां कैशोरं मन्त्रहेतुकम् ॥५७॥
सर्वकैशोरमन्त्राणां हेतुश्चूडामणिर्मनुः ।
जपं कुर्वन्ति मनसा पूर्णप्रेमसुखाश्रयाः ॥५८॥
वाञ्छन्ति तत्पदाम्भोजे निश्चलं प्रेमसाधनम् ।
तद्बाह्ये स्फटिकाद्युच्चप्रावारे सुमनोहरे ॥५९॥
कुङ्कुमैः सितरक्ताद्यैश्चतुर्दिक्षु समाकुलैः ।
शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम् ॥६०॥
शङ्खचक्रगदापद्मकिरीटादिविभूषितम् ।
रक्तं चतुर्भुजं पद्मशंखचक्रगदायुधम् ॥६१॥
किरीटकुण्डलोद्दीप्तद्वारपालकमुत्तरे ।
गौरं चतुर्भुजं विष्णुं शुङ्खचक्रगदायुधम् ॥६२॥
किरीटकुण्डलाद्यैश्च शोभितं वनमालिनम् ।
पूर्वद्वारे द्वारपालं गौरं विष्णुं प्रकीर्तितम् ॥६३॥
कृष्णवर्णं चतुर्बाहुं शंखचक्रादिभूषणम् ।
दक्षिणद्वारपालं तु श्रीविष्णुं कृष्णवर्णकम् ॥६४॥
श्रीकृष्णचरितं ह्येतद्यः पठेत्प्रयतः शुचिः ।
शृणुयाद्वापि यो भक्त्या गोविन्दे लभते रतिम् ॥६५॥ इति ।
एवमेव च गौतमीयतन्त्रे बृहद्गौतमीयतन्त्रे बृहद्ब्रह्मसंहितायामनन्तसंहितायां च विस्तरेण प्रतिपादितम् ।
एवमेव च पुरुषार्थबोधिन्यामाथर्वणोपनिषदि सप्तमप्रपाठकमारभ्य श्रूयते, यथा —
अथ सुषुप्तौ रामः सुबोधमाधाय इव किं मे देवि क्वासौ कृष्णः, योऽयं मम भ्रातेति । तस्य कान्तिच्छाये ब्रूहीति ।
सा वैष्णव्युवाच—राम ! शृणु । भूर्भुवः स्वर्महः जनस्तपः सत्यमतलं वितलं सुतलं रसातलं तलातलं महातलं पातालमेव पञ्चाशत्कोटियोजनबहुलं स्वर्णाण्डं ब्रह्माण्डमिति । अनन्तकोटिब्रह्माण्डानामुपरि कारणजलोपरि महाविष्णोर्नित्यस्थलं वैकुण्ठम् ।
स पृच्छति—कथं शून्यमण्डले निरालम्बनम् ।
साप्युक्ता—पद्मासनासीनः कृष्णध्यानपरायणः शेषदेवोऽस्ति । तस्यानन्तरोमकूपेषु अनन्तकोटिब्रह्माण्डानि अनन्तकोटिकारणजलानि । तस्य मस्तकोपरि सहस्राश्रमिता फणानि । फणोपरि रुद्रलोकं शिववैकुण्ठमिति दशकोटियोजनविस्तीर्णं रुद्रलोकम् । तदुपरि विष्णुलोकं, सप्तकोटियोजनविस्तीर्णं विष्णुलोकम् । त्रदुपरि सुदर्शनचक्रं त्रिकोटियोजनविस्तीर्णं, तदुपरि गोकुलाख्यं मथुरामण्डलं सुधामयसमुद्रेणावेष्टितमिति ।
तत्राष्टदलकेशरमध्ये मणिमयसप्तावरणकं किं रूपं स्थानं, किं पद्मं किं यन्त्रः किं सेवकाः किमावरणाः इत्युक्ते साप्युक्ता—गोकुलाख्ये मथुरामण्डले वृन्दावनमध्ये सहस्रदलपद्ममध्ये कल्पतरोर्मूले अष्टदलकेशरे गोविन्दोऽपि श्यामः पीताम्बरो द्विभुजो मयूरपिच्छशिरो वेणुवेत्रहस्तो निर्गुणः सगुणो निराकारः साकारो निरीहः सचेष्टो विराजते इति ।
द्वे पार्श्वे चन्द्रावली राधा चेति यस्यांशेन लक्ष्मीदुर्गादिका शक्तिरिति पश्चिमे सम्मुखे ललिता, वायव्ये श्यामला, उत्तरे श्रीमति, ऐशन्यां हरिप्रिया, पूर्वे विशाखा, चाग्नौ श्रद्धा, याम्यां पद्मा नैरृत्यां भद्रा । षोडशदलाग्रे चन्द्रावली, तद्वामे चित्ररेखा, तत्पार्श्वे श्रीशशिरेखा, तत्पार्श्वे कृष्णप्रिया, तत्पार्श्वे कृष्णवल्लभा, तत्पार्श्वे चन्द्रावती, तत्पार्श्वे मनोहरा, तत्पार्श्वे योगानन्दा, तत्पार्श्वे परानन्दा, तत्पार्श्वे प्रेमानन्दा चित्रकरा, तत्पार्श्वे मदनसुन्दरी नन्दा, तत्पार्श्वे सत्यानन्दा, तत्पार्श्वे चन्द्रा, तत्पार्श्वे किशोरीवल्लभा, करुणा, कुशला एवं विविधा गोप्यः कृष्णसेवां कुर्वन्तीति ।
आथर्वणे परमरहस्ये पुरुषबोधिन्याः सप्तमः प्रपाठकः ।
ओं साप्युक्ता—तस्य बाह्ये शतदलपत्रेषु योगपीठेषु रामक्रीडानुरक्ता गोप्यस्तिष्ठन्ति । एतद्बाह्ये स्वर्णप्राचीरं चतुर्द्वारपालाश्च तिस्रो गोप्यस्तिष्ठन्ति । ततः पारिजातं संमुह्य ततो दलपानिव ततः प्रथमावरणे पश्चिमे संमुखे स्वर्णमण्डपे गोपकन्या । द्वितीये श्रीदामादिः । तृतीये किङ्किण्यादिः । चतुर्थे लवङ्गादिः । पञ्चमे कल्पतरोर्मूले उषासहितोऽनिरुद्धोऽपि । षष्ठे देवाः । सप्तमे रक्तवर्णो विष्णुरिति द्वारपालम् ।
एतद्बाह्ये राधाकुण्डम् । तत्र स्नात्वा राधाङ्गं भवति, ईश्वरस्य दर्शनयोग्यं भवति । तत्र स्नात्वा नारद ईश्वरस्य नित्यस्थलसमीपयोग्यो भवति । राधाकृष्णयोरेकासने एकबुद्धिरेकं मन एकं ज्ञानमेक आत्मा एकपद्मैकाकृतिरेकं ब्रह्मतयासनं हेममुरलीं वादयन्हेमस्वरूपामनुरागसंवलितां कल्पतरोर्मूले सुरभिविद्यामरक्षितविमलाश्रुरिव परमा सिद्धा सात्त्विका शुद्धा सात्त्विकी गुणातीतस्नेहभावरहिता । अत एव द्वयोर्न भेदः कालमायागुणातीतं स्यात।
तदेव स्पष्टयति अथेति । अथानन्तरं मङ्गले वा । अत्र श्रीवृन्दावनमध्ये ऋग्यजुःसामस्वरूपं रूपात्मको मकारः । यजुरात्मक उकारः । श्रीरामरसात्मकोऽपि अकारः । श्रीकृष्णोऽर्धमात्रात्मकोऽपि यशोदा इव बिद्नुः परब्रह्मसच्चिदानन्दराधाकृष्णयोः परस्परसुखाभिलाषरसास्वादन इव तत्सच्चिदानन्दामृतं कथ्यते । एतल्लक्षणं यत्प्रणवं ब्रह्मविष्णुं शिवात्मकं स्वेच्छाख्यज्ञानशक्तिनिष्ठं कायिकवाचिकमानसिकभावं सत्त्वरजस्तमःस्वरूपं सत्यत्रेताद्वापरानुगीतं तुरीयं गोकुलमथुराद्वारकाणां तुरीयमेव तद्दिव्यं वृन्दावनमिति पुरैवोक्तं सर्वसम्प्रदायानुगतं त्रयम् ।
अथानन्तरम्—
भद्रश्रीलोहभाण्डीरमहातालखदिरकाः ।
बहुलाकुमुदाकाम्यं मधुवृन्दावनानि च ॥
द्वादशवनानि । कालिन्द्याः पश्चिमे सप्तवनानि पूर्वे पञ्चवनानि । उत्तरे तु गुह्यमस्तीति । महावनं गोकुलाख्यं मथुरा मधुवनमिति । खदिरवनं भाण्डीरवनं नन्दीश्वरवनं नन्दनानन्दखण्डेव वनं पलाशाशोकवनं केतद्रुमभद्रवनशेषशायिक्रीडावन उत्सववनान्येतेषु चतुरश्चतुर्विंश वनानि नानालीलया नित्यस्थलानि कृष्णः क्रीडति ।
तस्य वसन्तऋतुसेवितं नन्दाद्युपवनयुक्तम् । तत्र दुःखं नास्ति, सुखं नास्ति, जरा नास्ति, मरणं नास्ति, क्रोधं नास्ति । तत्र पुर्णानन्दमयः श्रीकैशोरः कृष्णः शिखण्डदललम्बितत्रियुग्मगुञ्जावतंसमणिमयकिरीटीशिरो गोरोचनातिलकः कर्णयोर्मकरकुण्डले वन्यस्रग्वी मालतीदामभूषितशरीरः करे कङ्कणः केयूरं कट्यां किङ्किणीपीताम्बरधरो गम्भीरनाभिकमलः सुवृत्तनासायुगलो ध्वजवज्रादिचिह्नितपादपद्मस्तदंशांशेन कोटिमहाविष्णुरिति । एवंरूपं कृष्णचन्द्रं चिन्तयेन्नित्यशः सुधीरिति ।
तस्य आद्या प्रकृतिः राधिका नित्या निर्गुणा सर्वालङ्कारशोभिता प्रसन्ना अनेकलावण्यसुन्दरी । एवं भूतस्य सिद्धिमहिम्ना सुखसिन्धुरशोनोत्पन्न इति मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुतिमानसेन सर्वेण नित्यस्थलं प्राप्नोतीति नान्येनेति नान्येनेति वेदवचनं भवतीति वेदवचनं भवतीति वेदवचनं भवतीति ।
इत्यथर्वणीयपुरुषबोधिन्यामष्टमः प्रपाठकः ॥
॥३॥
नवमः प्रपाठकः
अथ पुरुषोत्तमस्यानिशं तुरीयं साक्षाद्ब्रह्म । यत्र परमसंन्यासस्वरूपः कृष्णन्यग्रोधः कल्पपादपः । यत्र लक्ष्मीर्जाम्बवतीराधिकाविमलाचन्द्रावलीसरस्वतीललितादिभिरिति साक्षाद्ब्रह्मस्वरूपो जगन्नाथः । अहं सुभद्राशेषांशो ज्योतीरूपः सुदर्शनो भक्तश्च । एवं ब्रह्म पञ्चधा विभूतिर्यत्र मथुरागोकुलद्वारकावैकुण्ठपुरीश्वेतद्वीपपुरीरामपुरी । एताः देवतास्तिष्ठन्ति । यत्र सुरसापातालगङ्गाश्वेतगङ्गारोहिणीकुण्डममृतकुण्डमित्यादि नानापुरी । यत्रान्नं सिद्धान्नं ब्रह्मस्पर्शाद्दोषरहितं शूद्रादिसंस्कारापेक्षारहितम् । यत्र श्रीजगन्नाथस्य योग्यमित्यर्थः । अन्यवर्णोदीरितनानाभ्यासी सीदति मन्त्रः । अन्नपात्तेऽन्नस्य इति मन्त्रः । अन्नाद्याय व्यूहध्वं सोमो राजाय मगमन्स मे सुखं प्रमायं तेजसा च बलेन च इत्यनेन मन्त्रः । विश्वकर्मणे स्वाहा इति मन्त्रेशायोज्यो रसोऽमृतं ब्रह्मे भूर्भुवः स्वरोम् । पृथ्वी ते पात्रन्धोऽपिधानं ब्राह्मणस्य मुखे अमितममृतं जुहोमि स्वाहा । इत्यनेन मन्त्रेण अन्नब्रह्मेति श्रुतिरिति वैकल्पं मुक्तिरुच्यते ।
यत्रान्नं ब्रह्म परमं पवित्रं शान्तो रसः कैवल्यं मुक्तिः सिद्धा भूर्बुद्धिर्हि तत्त्वमित्यादि । यत्र भार्गवी यमुना समुद्रममृतमयं वासो वृन्दावनानि नीलपर्वतो गोवर्धनम् । सिंहासनं योगपीठप्रासादमणिमण्डपं विमलादिषोडशचण्डिका गोपी । यत्र समुद्रतीरे निरंशका माघनोऽष्टेदम् । यत्र नृसिंहादयो देवता आवरणानि । यत्र न जरा न मृत्युर्न कालो न भङ्गो न यमो न विवादो न हिंसा न भ्रान्तिर्न स्वप्न एवं लीलाकामभरा स्वविनोदार्थं भक्ताः सोत्कण्ठिताः । अस्यां क्रीडति कृष्णः ।
एको देवो नित्यलीलानुरक्तो
भक्तव्यापी भक्तहृदयान्तरात्मा ।
कर्माध्यक्षो भक्तभावानुरक्तो
लीलासाक्षी भक्तजीवो व्रजेन्द्रः ॥
इत्याथर्वणे पुरुषबोधिन्यां दशमः प्रपाठकः ॥ इति ॥
तदेतदुपनिषद्भागः सप्तमप्रपाठकमारभ्य दशमप्रपाठकपर्यन्त इह प्रकृतवाक्यार्थस्य सुखबोधाय पठितः । सा चेयं पुरुषार्थबोधिन्युपनिषतथर्ववेदे पिप्पलादशाखाया ब्राह्मणभागे गोपालतापिन्या सह तस्यैवोत्तरार्धतया पठ्यते इति सिद्धान्तरत्नतट्टीकाकृतो बलदेवविद्याभूषणाः । गोपालतापिन्युपनिषत्पिप्पलादशाखायां पठ्यते इति तु सुन्दरभट्टनारायणभट्टादयः सर्वे तट्टीकाकृतः । एवं च पञ्चप्रपाठकात्मिका पञ्चाध्यायात्मिका वा गोपालपूर्वतापिनी, षण्डचतुष्टयात्मकप्रपाठकैकोत्तरतापिनीति षष्ठप्रपाठकपर्यन्ता समग्रगोपालतापनी । सप्तमप्रपाठकादारभ्य द्वादशतमप्रपाठकपर्यन्ता पुरुषबोधिनीत्येवं सम्पद्यते इति युक्तं तस्याः गोपालतापिन्यर्थसमवेतत्वम् । तस्या अत्र दशमप्रपाठकपर्यन्तभाग उद्धृतः । शेषपाठकद्वयं—यत्तस्य पीठं हिरण्याष्टपलाशमम्बुजं [गो.ता.उ. १.१८] इत्यत्र पठिष्यामीति ।
प्रश्नोपनिषदपि पिप्पलादशाखायां पठ्यते । न च कथमेकस्यां शाखायामेतावत्य उपनिषद इति शङ्क्यम् । एकस्यामेव तैत्तरीयशाखायां चित्तिशिक्षाब्रह्मवल्लीभृगुवल्लीनारायणोपनिषद्भेदात्पञ्चो भेदाद अनेकोपनिषदां प्रत्यक्षदर्शनाच्चेति बोध्यम् ॥
इहापि गोपवेषमित्यंशेन गोपवेषत्वमुक्त्वा, सत्पुण्डरीकनयनमित्यादि मन्त्रवर्णेन तादृशमेव गोपवेषत्वमुपपादयति । तस्मात्यथा गोविन्दगोपालादिनाम्नां सामान्यतस्तादृशार्थप्रत्यायकत्वेऽपि प्रकृतोपनिषदि न तावन्मात्रमर्थः, अपि तु, गोभूमिवेदविदितः, योऽसौ सूर्ये तिष्ठति…योऽसौ सर्वेषु वेदेषु तिष्ठति । योऽसौ सर्ववेदैर्गीयते [गो.ता.उ. २.२२], गोपान्जीवान्… आ सृष्टिपर्यन्तमालाति स गोपालो भवति [गो.ता.उ. २.४०] इत्यादि वक्ष्यमाणश्रुतिपर्यालोचनयान्य एव विलक्षणोऽर्थः प्रतीयते । यथा गोपवेषशब्दस्यान्य एव पूर्वोक्तलक्षणार्थः । यथा च पद्मपुराणे पातालखण्डवृन्दावनमाहात्म्ये बृहद्ब्रह्मसंहितायां च चिन्तामणिमन्त्रव्याख्यानावसरे—
बहिरङ्गैः प्रपञ्चस्य स्वांशैर्मायादिशक्तिभिः ।
अन्तरङ्गैस्तथा नित्यविभूतैस्तैश्चिदादिभिः ॥
गोपनादुच्यते गोपी राधिका कृष्णवल्लभा ।
देवी कृष्णमयी प्रोक्ता राधिका परदेवता ॥
सर्वलक्ष्मीस्वरूपा सा कृष्णाह्लादस्वरूपिणी ।
अतः सा प्रोच्यते विप्र ह्लादिनीति मनीषिभिः ॥ [प.पु. ५.८१.५१३] इति ।
गोपीचन्दनोपनिषदि च—गोपीनाम संरक्षिणी । कुतः संरक्षिणी ? मृत्योर्भयाच्च संरक्षिणी इति गोपीशब्दस्य सर्वातिशायिसर्वपालकत्वरूपोऽर्थोऽभिप्रेतस्तथात्रापि गोपशब्दस्य तादृशरक्षकवेशविशेषार्थकत्वमेव निर्णेतुं युक्तम् । अत्र—
विष्णुर्गोपाः परमं पाति पाथः
प्रिया धामान्यमृता दधानः ।
अग्निष्टा विश्वा भुवनानि वेद
महद्देवानामसुरत्वमेकम् ॥ [ऋग्.वे. ३.३.२९]
इत्यादि मन्त्रेष्वपि गोपपदं तथानुसन्धेयम् । अत्र, परमं पाथः परमं व्योम, पाथोऽन्तरीक्षं यथा व्याख्यातमिति निरुक्तवाक्यात। तथा च परमव्योमविष्णुपदादिवाच्यं भगवद्धामैव तत्, इत्यपि बोध्यम् । तथा च सर्वातिशायिसर्वजीवपालकत्वस्य रसो वै सः [तै.उ. २.७.१] इत्युदाहृततैत्तरीयश्रुत्या रसानन्द एव निर्धारात्परमरसरूपः इत्येव गोपशब्देनाभिप्रेतोऽर्थः ।
रसस्य च बहुविधत्वाद्भगवतश्च सर्वरसः इति श्रुतेः सर्वरसरूपत्वेऽपि शृङ्गारस्य प्रधानत्वादितरेषामपि रसानामङ्गाङ्गिभावेन तत्र समाहारात्शृङ्गाररसरूपतयैवात्र विशेषतो भगवत्स्वरूपस्य निरूपयितुं युक्तत्वात। शृङ्गाररसरूपतयैवात्र भगवत्स्वरूपं निरूप्यते । इति गोपवेशशब्देन तदेव रूपमुच्यते । युक्तं चैतत्, भगवतः सर्वरसरूपत्वेऽपि शृङ्गाररसरूपत्वं मुख्यम् । अत एव शृङ्गारो विष्णुर्दैवतः इति रसशास्त्रसिद्धान्तः । वात्सल्यसख्यदास्यादीनां तत्राप्यङ्गतया सत्त्वात। एषु च शृङ्गारप्रवेशासम्भवात। हास्यकरुणादीनामपि तत्राङ्गभावेन सत्त्वाच्च । न च शान्त एव प्रधानः, तस्यापि श्रीनारायणो दैवतः इति रसशास्त्रात्, भगवद्दैवत्वनिश्चयात। तथा तद्रूपमेव स्वरूपं निरूपणीयमिति वाच्यम् । तथापि तस्य मनोनिष्ठविषयोपरमरूपत्वेन दृश्सर्वाभाव एवं पर्यवसानेन साक्षात्सुखरूपत्वाभावात। अत एव तस्य विषयोपरतिलक्षणो वैराग्यापरपर्यायो निर्वेद एव स्थायिभावः ।
एवं च तस्य हास्यरसादीनामिव साक्षात्परम्परया रसशास्त्रोक्तप्रणाल्या सुखजनकत्वादेव रसरूपत्वम् । रसस्य परमाकाष्ठा तु साक्षात्सुखरूपत्व एव भवति । रस्यते इति रसः इति व्युत्पत्त्या रसनीयतत्त्वस्य रसपदार्थत्वात्प्रयोजनान्तरेच्छानधीनरसनीयत्वं तु आनन्दमात्रस्यैव साक्षातानन्दरूपत्वं तु रसेषु शृङ्गारस्यैव । निसर्गप्रेमास्पदत्वं हि आनन्दस्यासाधरणो धर्मः । ब्रह्मणोऽपि स एव मुख्यो धर्मः । तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मात्[बृ.आ.उ. १.४.८] इति श्रुतेः । शृङ्गारश्च रतिस्थायिकः । रतिश्च प्रेमा च इत्यनर्थान्तरम् । प्रेमा च आह्लादात्मा आनन्दस्वरूपः सन्नेवानन्दधर्म इति ।
न च शृङ्गाररसस्य विषयसंओगाभिव्यज्यमानत्वेन बाह्यसाधनसापेक्षत्वात्, विषयोपरमे तदुपरमाद्विकारत्वात्परिणामदुःखयुक्तत्वादनित्यत्वाच्च, नोत्कृष्टत्वसम्भव इति वाच्यम् । भगवद्रूपालौकिकशृङ्गारस्य सर्वबाह्यसाधननिरपेक्षत्वान्नित्यत्वाच्च नोक्तदूषणावकाशः ।
लौकिकशृङ्गारस्यापि तादृशदोषसम्पन्नत्वेन तादृशदोषरहितशान्तरसदृष्ट्या परिणामतो निकृष्टत्वेऽपि रसनीयत्वदृष्ट्या साक्षातानन्दरूपत्वात्तस्यैवोत्कृष्टत्वं स्वरूपतः । यथा सितोपलशर्करादीनामनेकरोगजनकत्वेन अनेकरोगनाशकरसान्तरापेक्षया कार्यतो निकृष्टत्वेऽपि मधुररसरूपत्वाद्रसनीयत्वदृष्ट्या स्वरूपतः सर्वरसोत्कृष्टत्वमेवेति ।
तस्मात्सर्वरसप्रधानत्वात्सर्वरसमयत्वात्सर्वरसबीजत्वाच्च शृङ्गार एव परमो रसः । इति तद्रूपतयैव रसरूपः परमात्मात्र विशेषतो निरूपितो भवति । शृङ्गारश्च—
सुखप्रायेष्टसम्पन्नऋतुमाल्यादिसेवकः ।
पुरुषः प्रमदायुक्तः शृङ्गार इति संज्ञितः ॥
ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः ।
उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥ [ना.शा. ६.४६४७]
इति नाट्यशास्त्रे षष्ठाध्याये भरतवाक्यात। शृङ्गाररसस्य तादृशोपकरणविशिष्टत्वात्, तादृशरूपगुणपरिकरपरिच्छदधामादिविशिष्ट एव भगवान। अत्र गोपशब्देनोच्यते इत्युक्तमेव । वस्तुतस्तु पुरुषः प्रमदायुक्तः शृङ्गार इति संज्ञितः इति भरतवाक्ये, पुरुषपदार्थः पुरुषोत्तमः शृङ्गाररसाधिदेवो विष्णुरेव परमः । प्रमदापदेन च परमाह्लादरूपा परमा लक्ष्मीरेव । पुरुषान्तरग्रहणे शृङ्गार इति संज्ञितः इत्यंशस्यान्वयापत्तेः । पुरुषान्तरस्य शृङ्गाररसालम्बनत्वसम्भवेऽपि शृङ्गाररसरूपत्वाभावेन शृङ्गाररसनामधेयत्वासम्भवात। भगवतस्तु तदधिदैवत्वानेन तद्रूपत्वसम्भवाद्युक्तं शृङ्गारपदाभिधेयत्वमिति । पुरुषपदवाच्यत्वमपि तस्यैव परमपुरुषस्यैवानुचारेण पुरुषपदवाच्यत्वात।
भगवानिति शब्दो वै तथा पुरुष इत्यपि ।
वर्तते निरुपाधी च वासुदेवेऽखिलात्मनि ॥
इति पाद्मोत्तरखण्डे पार्वतीं प्रति शिववाक्यात। पुराणपुरुषो यज्ञः पुरुषो नरकान्तकः इति निर्घण्टुकोक्तेश्च । तस्मादुक्तभरतवाक्ये पुरुषपदार्थः शृङ्गाराधिदेवः शृङ्गाररूपः परमो विष्णुरेव वाच्यः । प्रमदापदेन शृङ्गारस्थायिभूतरूपरतिप्रेमाद्यपरम्पराया महाभूतरूपा भगवदभिन्ना महालक्ष्मीरेव । तदेवं, आत्मैवेदमग्र आसीत्पुरुषविधः [बृ.आ.उ. १.४.१] इत्युपक्रम्य, स नैव रेमे, इममेवात्मानं द्वेधापातयत्, पतिश्च पत्नी चाभवतां [बृ.आ.उ. १.४.३] इति बृहदारण्यकप्रसिद्धः परमप्रेमानन्दरसघनः पुरुषोत्तम एव परमश्रीयुक्तः भरतवाक्यविषयः । स एव वाचात्रापि गोपवेषपदेन निर्दिष्टः ।
न च भरतेन यस्य विष्णोः शृङ्गाररसाधिदेवत्वमुक्तं, स न वेदान्तवेद्यः परब्रह्माख्यो विष्णुः । अपि तु पादेन्द्रियाद्यधिष्ठातृविष्णुवत्परमविष्ण्वंशभूतः कश्चिदन्य एवेति वाच्यम् । यतस्तस्मिन्नेव नाट्यशास्त्रे षोडशाध्याये—
विष्णुः सृजति भूतानि विष्णुः संहरसे प्रजाः ।
विष्णुप्रसूतं त्रैलोक्यं विष्णुर्लोकाधिदैवतम् ॥ इत्यादिना ।
यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यं प्रयन्त्यभिसंविशन्ति [तै.उ. ३.१], आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति [तै.उ. ३.६] इत्यादितैत्तरीयाद्युक्तपरब्रह्मलक्षणश्रुतिसमन्वयनेन परब्रह्माख्यविष्णोरेव विषयीकरणात। तस्मात्तादृशस्वलक्षणलक्षित एव विष्णुः शृङ्गाररसाधिदेवत्वेन भरतस्याभिमत इति युक्ततमः सिद्धान्तः । विष्ण्वन्तरपरिग्रहे बीजाभावात्, प्रकृतहानाप्रकृताभ्यामप्रसङ्गाच्च । न च विष्णोः शृङ्गाररसाधिदेवत्वेऽपि शृङ्गाररसरूपत्वे प्रमाणाभाव इत्यपि वाच्यम् । यो देवो यदधिदेवता भवति, स तद्विग्रह इति सामान्यन्यायः, यथा वाय्वग्निवरुणादयः, ते हि वायुतेजोजलादीनामधिदेवता इति वाय्वग्निजलविग्रहा इति, तथा शृङ्गाररसाधिदेवः श्रीपुरुषोत्तम इति शृङ्गाररसविग्रहः ।
किं च, यत्र यस्य निरतिशयत्वं तस्यैव तदधिदैविकत्वं युक्तम् । भगवांश्च शृङ्गाररसाधिदेव इति तत्र स्वरूपतो धर्मतश्च शृङ्गाररसस्य निरतिशयत्वं वाच्यम् । युक्तं तत्, शृङ्गारो हि उत्तमस्त्रीपुरुषप्रकृतिः, पुरुषोत्तमश्च सर्वोत्तमः पुरुषः, श्रीश्च सर्वोत्तमा नारी । तदेतत्सर्वं सूचितं, ऋग्वेदे द्वितीयेऽष्टके द्वितीयाध्याये षड्विंशे विष्णुसूक्ते—
यः पूर्व्याय वेधसे नवीयसे
सुमज्जानये विष्णवे ददाशति ।
यो जातमस्य महतो महि ब्रवन्
सेदु श्रवोभिर्युज्यं चिदभ्यसत॥ [ऋ.वे. १.१५६.२]
अस्यार्थः—पूर्व्याय पूर्वेषां ब्रह्मादीनामपि पूर्वाय, आदिकारणाय जगद्बीजपुरुषायेत्यर्थः । वेधसे अखिलजगत्कर्त्रे प्रकटितसर्वविश्वाय । एवं सति वृद्धत्वं शीर्णत्वं च स्यादित्याह नवीयसे अत्यन्तनवीनायेत्यर्थः । एतावता सर्वजगद्बीजपुरुषत्वेऽपि तस्य नित्यनवयौवनत्वं निर्धारितम् । अत एवाह—सुमज्जानये इति । सुष्ठु मादनशीलो स्वानुरूपा नित्यनवयौवना परमप्रेमाह्लादस्वरूपा श्रीर्जाया यस्येति तदर्थः । विष्णवे सर्वव्यापनशीलाय स्वरूपगुणशक्तिभिः सर्वतः परिपूर्णाय परमपुरुषायेत्यर्थः ।
एवंभूताय तस्मै यः जीवः ददाशति आत्मानमात्मीयं च ददाति भक्तिभावेन समर्पयति । अथ च, यो जातमस्य महतो महि ब्रवन्, यश्च भक्तः अस्य विष्णोः जातं जन्मादि महतो ब्रह्मादेरपि महि पूजनीयं ब्रवन्कीर्तयति । सेदु यथाशीघ्रं युज्यं चिद्युज्यं चिन्मयं स्थानमभ्यशत्प्राप्नोति । इत्येवं सायनभाष्यानुसारेण बोध्यः । तथा चात्र नवीयसे सुमज्जानये इति पदद्वयेन पूर्वोक्तार्थ एव शृङ्गाररसाधिदैवतभावपूर्णः श्रीपुरुषोत्तमयुगलरूपः, पूर्व्यत्वादिना विशेषतः परमकाष्ठापन्न एव सूत्ररूपेणोक्तिः ।
अत एव च तत्पूर्वविष्णुसूक्तमन्त्रे—बृहच्छरीरो विमिमान ऋग्भिर्युवा कुमारः प्रत्येत्याहवं [ऋ.वे. १.१५५.६] इति तादृशयुगलभावपोषकनित्यनवयौवनत्वस्य स्फुटीकरणाय तयोर्दम्पत्योर्युवत्वकुमारत्वयोर्नित्यसाहित्यमुक्तम् । उपबृंहितं च पद्मपुराणे उत्तरखण्डे—
बृहच्छरीरोऽग्निसमानरूपो
युवा कुमारत्वमुपेयिवान्हरिः ।
रेमे श्रियासौ जगतां जनन्या
स्वज्योत्स्नया चन्द्र इवामृताम्बुधौ ॥ [प.पु. ६.२२६.६]
अत एव वृन्दावनमाहात्म्ये च तथैव—
न राधिकासमा नारी न कृष्णसदृशः पुमान।
वयः परं न कैशोरात्स्वभावः प्रकृतेः परः ॥ [प.पु. ५.७७.५२] इति ।
अत एव च भागवते—साक्षान्मन्मथमन्मथः [भा.पु. १०.३२.२] इत्यादिवाक्यानि । कामाख्यदेवविशेषस्य तु शृङ्गाररसोद्दीपकत्वान्मन्मथत्वम् । भगवतस्तु साक्षात्शृङ्गाररसरूपत्वादेव मन्मथत्वम् ।
किं च, लौकिकमन्मथोऽपि तत्सापेक्ष एव मन्मथः । तदुक्तं ब्रह्मसंहितायां ब्रह्मणा—
आनन्दचिन्मयरसात्मतया मनःसु
यः प्राणिनां प्रतिफलन्स्मरतामुपेत्य ।
लीलायितेन भुवनानि जयत्यजस्रं
गोविन्दमादिपुरुषं तमहं भजामि ॥ [ब्र.सं. ५.४२] इति ।
अत एव तादृशनिरतिशयरसात्मनो भगवतः श्रीपुरुषोत्तमस्य प्रेमसौन्दर्यमाधुर्यरसास्वादनरूपोपासनायां कामबीजस्य कामगायत्र्याः काममालामन्त्रस्य च विनियोगो वक्ष्यते । न ह्येते मन्त्रा देवान्तरालम्बनाः फलातिशयायात्र पुरुषोत्तमोपासनायां विनियुक्ताः इति वक्तुं युज्यते, क्लीमोंकारस्यैक्यत्वं पठ्यते ब्रह्मवादिभिः [गो.ता.उ. २.५७] इति वक्ष्यमाणोत्तरतापिनीश्रुतेः, ओंकाररूपत्वात्तस्य । ओंकारस्य च पुरुषोत्तमैकनिष्ठत्वस्य नैसर्गिकत्वात। एवं च गायत्र्या यथा प्रणवविस्तारत्वात्ब्रह्मनिष्ठत्वं तथानङ्गगायत्र्या अपि प्रणवाभिन्नकामबीजविस्तरत्वात्तन्निष्ठत्वमेव । तस्मान्न कामबीजादीनां देवान्तरपरत्वम् । फलातिशयाय प्रणववद्देवतान्तरोपरसनायामेव विनियोगात।
कामबीजस्य कामगायत्र्याः काममालामन्त्रस्य च गायत्रीसमानार्थकत्वेऽपि प्रेमशृङ्गाररसोद्दीपकत्वांशस्याधिकतया शृङ्गारस्वरूपत्वेन परब्रह्मरसास्वादौपायिकोपासनायां नितरामुपयुक्तत्वादत्र तस्यैव विशेषत उपयोगः । इति तेषामेवात्र पाठः । यथा च कामबीजकामगायत्रीकाममालामन्त्रप्रतिपाद्यतं श्रीपुरुषोत्तमस्य, तथाग्रे कामादिकृष्णायेत्येकं पदं [गो.ता.उ. १.१२] इत्यत्र, अनङ्गगायत्र्या यथावद्व्यालिख्य [गो.ता.उ. १.१८] इत्यत्र च वक्ष्यते ।
एवं च काम्यते यः स कामः इति कर्मव्युत्पत्त्या श्रीपुरुषोत्तम एव कामशब्दस्यानौपचारिकोऽर्थः । तस्यैव स्वभावतस्त्रैकालिकतया च सर्वदोषविनिर्मुक्तपरमानन्दरसघनत्वेन निसर्गप्रेमास्पदतयान्येच्छानधीनेच्छाविषयत्वात। एवं तत एव तस्मिन्नेव मन्मथादिशब्दोऽपि व्युत्पाद्यः, प्रेमानन्दरसघने तत्रैव मनसः कृतकृत्यतया परमलयसम्भवात। अन्यत्रापि तत्सम्बन्धादेव लयसम्भवाच्च । तदुक्तं भागवते यज्ञपत्नीं प्रति स्वयमेव—
प्राणबुद्धिमनःस्वात्मदारापत्यधनादयः ।
यत्सम्पर्कात्प्रिया आसंस्ततः को न्वपरः प्रियः ॥ [भा.पु. १०.२३.२७]
तृतीये —अहमात्मात्मनां धातः प्रेष्ठः सन्प्रेयसामपि [भा.पु. ३.९.४२] । एतेन तदेतत्प्रेयः पुत्रा प्रेयो वित्तात्प्रेयान्यस्मात्सर्वस्मात्[बृ.आ.उ. ४.४.२२] इति श्रुतिरेवोपबृंहिता ।
अत एव श्रीशङ्करभगवत्पादाचार्यैर्ब्रह्ममोहलीलामधिकृत्य प्रबोधसुधाकरे उक्तं, तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽस्माच्च सर्वस्मात। अन्तरतरं यदात्मेत्युपनिषदः सत्यताभिहिता इति । तस्मात्सर्वसमञ्जसमिति सङ्क्षेपः । एतद्विग्रहस्य सच्चिदानन्दघनत्वं तु किञ्चिदग्रे निरूपयिष्ये इति ।
अभ्राभमिति । अभ्रं मेघस्तद्वदाभा कान्तिर्यस्य तथाभूतम्, इषच्छ्याममित्यर्थः । अगाधवस्तूनां समुद्राकाशादीनामतिस्वच्छानामपि, इषाच्छ्यामतया प्रमीयमाणत्वं दृश्यते, तच्च रूपान्तरादविरुद्धमेव स्वाभाविकमेव च । व्यष्टिजलादावगृह्यमाणत्वेऽपि, अगाधतया गृह्यमाणावस्थायां सर्वदैवानुभावादबाधाच्च ।
यद्वा, तेजोगतशौक्ल्यविलक्षणभास्वरत्वादिवत्जलरूपेऽपीषच्छ्यामत्वं स्वरूपसिद्धमेव यदगाधतायामेव प्रतीयते, तदेव समुद्रजले मेघे च प्रतीयते । मेघस्यापि जलराशिरूपत्वादन्यथा केवलशौक्ल्यस्यैव मेघे भानात। एवं च भगवद्रूपे मेघदृष्टान्तीकरणस्य ।
अयमेवाभिप्रायः—यदानन्दस्य स्वतः प्रकाशत्वेन स्वच्छत्वेऽपीषच्छ्यामत्वमस्त्येव, तदेवागाधानन्दस्वरूपे भगवत्स्वरूपे प्रतीयते इति । तच्च गौरत्वाविरुद्धमेव । अत एव क्वचित्तैत्तरीये नारायणोपनिषदादौ, ऋतं सत्यं परब्रह्म पुरुषं कृष्णपिङ्गलमित्यादौ श्यमत्वं समुपदिश्यते । क्वचिच्च, उत्तरनारायणे मुण्डकोपनिषदि च, आदित्यवर्णं तमसः परस्तात्[श्वे.उ. ३.८], यदा पश्यः पश्यते रुक्मवर्णं [मु.उ. ३.१.३] इत्यादौ वर्णान्तरमुपदिश्यते, इति न विरोधः ।
वस्तुतस्तु पुरुषं कृष्णपिङ्गलमिति तैत्तरीयनारायणानुवाकमन्त्रे श्रीपुरुषोत्तमे युगलरूपे वामांशे श्रीविग्रहे गौररूपत्वं दक्षिणांशे पुरुषविग्रहे श्यामरूपत्वमुपदिष्टम् । आदियवर्णं तमसः परस्तात्[श्वे.उ. ३.८] इति मन्त्रेऽपि तथैव रूपद्वयमुक्तम् । आदित्यवर्णेऽपि, अथ यदादित्यस्य शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदभः [छा.उ. १.६.६] इति छान्दोग्ये स्पष्टं रूपद्वयोक्तेः । मण्डलांशे श्यामत्वस्य प्रभांशे शुक्लत्वस्य प्रत्यक्षदर्शनाच्च । अन्यत्र हिरण्यवर्णत्वोक्तिस्तु कमनीयत्वमामात्राभिप्रायेणेति बोध्यम् ।
किं च, शृङ्गाररसरूपत्वात्श्यामावभासः—श्यामो भवति शृङ्गारः इति रसशास्त्रोक्तेः । शान्तरसरूपत्वाच्छुक्लत्वावभासः । कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः इत्यपि बोध्यम् । इदं च श्यामरूपं पुरुषविग्रहे सर्वातिशायिमाधुर्यपोषकम् । तदुक्तं पद्मपुराणे—
न राधिकासमा नारी न कृष्णसदृशः पुमान।
वयः परं न कैशोरात्स्वभावः प्रकृतेः परः ॥
ध्येयं कैशोरकं ध्येयं वनं वृन्दावनं वनम् ।
श्याममेव परं रूपमाद्यमेव परो रसः ॥ [प.पु. ४.७७.५२५३] इति ।
अत एव लोके सर्वातिशायिसुन्दरतया प्रसिद्धे कामदेवविग्रहेऽपि श्याममेव रूपं स्मर्यते पुराणादिषु इति ।
तरुणमिति नवयौवनमित्यर्थः । यौवनोद्भिन्नकैशोरमिति यावत। यत्र वयसि बालत्वयुवत्वयोः शाश्वतसामानाधिकरञं, तदेव कैशोरम् । तस्य परमाकाष्ठा पञ्चदशवर्षापूर्यमाणे वयसि भवति । तदेवं यौवनोद्भिन्नकैशोरनवयौवनादिशब्दैर्व्यपदिश्यते । तदेव शाश्वते भगवत्स्वरूपे वर्तते । तदुक्तं ऋग्वेदे विष्णुसूक्ते—बृहच्छरीरो विमिमान ऋक्भिर्युवा कुमारः प्रत्येत्याहवं [ऋ.वे. १.१५५.६] इति । व्याख्यात्तं च पद्मपुराणे उत्तरखण्डे त्रिपाद्विभूतिनिरूपणे पार्वतीं प्रति भगवता शिवेन—
बृहच्छरीरोऽग्निसमानरूपो
युवा कुमारत्वमुपेयिवान्हरिः ।
रेमे श्रियासौ जगतां जनन्या
स्वज्योत्स्नया चन्द्र इवामृताम्बुधौ ॥ [प.पु. ६.२२६.६]
युवापि कुमारत्वं बालत्वमुपेयिवान्प्राप्तवानिति तदर्थः । तदेतत्पूर्वमेवोक्तम् । पाद्मे वृन्दावनमाहात्म्येऽप्येवम्—
न राधिकासमा नारी न कृष्णसदृशः पुमान।
वयः परं न कैशोरात्स्वभावः प्रकृतेः परः ॥
ध्येयं कैशोरकं ध्येयं वनं वृन्दावनं वनम् ।
श्याममेव परं रूपमाद्यमेव परो रसः ॥
बाल्यं पञ्चमवर्षान्तं पौगण्डं दशमावधि ।
अष्टपञ्चमकैशोरं सीमा पञ्चदशावधि ॥
यौवनोद्भिन्नकैशोरं नवयौवनमुच्यते ।
तद्वयस्तस्य सर्वस्वं प्रपञ्चमितरद्वयः ॥
बाल्यपौगण्डकैशोरं वयो वन्दे मनोहरम् ।
बालगोपालगोपालं स्मर गोपालरूपिणम् ॥
वन्दे मदनगोपालं कैशोराकारमद्भुतम् ।
यमाहुर्यौवनोद्भिन्नश्रीमन्मदनमोहनम् ॥
अखण्डातुलपीयूषरसानन्दमहार्णवम् ।
जयति श्रीपतेर्गूढं वपुः कैशोररूपिणः ॥
एकमप्यव्ययं पूर्वं वल्लवीवृन्दमध्यगम् ।
ध्यानगम्यं प्रपश्यन्ति रुचिभेदात्पृथग्धियः ॥
यन्नखेन्दुरुचिर्ब्रह्मध्येयं ब्रह्मादिभिः सुरैः ।
गुणत्रयमतीतं तं वन्दे वृन्दावनेश्वरम् ॥ [प.पु. ४.७७.५२६०]
एवमेव ब्रह्मवैवर्ते ब्रह्मखण्डादौ पुराणान्तरे च निरूपितम् । यथा चेदमेव रूपं सर्वश्रुतिगोचरं तथोपपादितं मया वेदान्ततत्त्वबिन्दाविति । ततोऽवधेयम् ।
कल्पद्रुमाश्रितमिति । अत्र किं तद्रूपं ? ? इति स्वरूपमात्रजिज्ञासायां सर्वोपकरणविशिष्टत्वैव तत्स्वरूपनिरूपणात्तस्योपकरणान्यपि सर्वाणि परमानन्दरसात्मकतया निजात्मकचिच्छक्तिविलासरूपत्वेन स्वात्मकत्वेन स्वतो भिन्नाभिन्नतया स्वरूपकोटिप्रविष्टान्येवेत्यपि सूचितम् । यथोपबृंहितं पञ्चरात्रे ब्रह्मसंहितायां पञ्चमाध्याये—
श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो
द्रुमा भूमिश्चिन्तामणिगणमयि तोयममृतम् ।
कथा गानं नाट्यं गमनमपि वंशी प्रियसखि
चिदानन्दं ज्योतिः परमपि तदास्वाद्यमपि च ॥ [ब्र.सं. ५.५६] इति ॥
—ओ)०(ओ—
(९११)
अथ भोक्तृभोग्यभोगोपकरणानां च सर्वेषां चिदानन्दरूपत्वं निरूपयन्तथात्वं सूचयति । तथैतद्दृढीकरणायाह—
तदिह श्लोका भवन्ति—
सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥
गोपगोपीगवावीतं सुरद्रुमतलाश्रयम् ।
दिव्यालङ्करणोपेतं रत्नपङ्कजमध्यगम् ॥
कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।
चिन्तयंश्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ इति ।
इयं ऋग्रूपश्लोकोद्धरणप्रक्रिया बृहदारण्यकादवपि दृश्यते, यथा तत्र चतुर्थाध्याये—तदेष श्लोको भवति, तदेव सक्तः सह कर्मणेति इत्यादि । तदित्यव्ययम् । एवं च यस्मात्निरुक्तलक्षणकमेव परब्रह्मणः स्वरूपं, तस्मात्मन्त्रभागे शाखान्तरे वा एताड्र्शार्थप्रतिपादकाः श्लोका भवन्ति इत्यर्थः । एतेन ताड्र्शार्थे मन्त्रसम्मतिः ब्राह्मणेन प्रदर्शिता ।
के ते श्लोकाः ? इति श्लोकान्पठति—सत्पुण्डरीकनयनमित्यादि । द्विभुजमिति । एतेन द्विभुजत्वमेव तस्य सर्वोत्कृष्टमिति सूचितम् । तदुक्तं पद्मपुराणे वृन्दावनमाहात्म्ये शिवेन—
भुजद्वयवृतः कृष्णो न कदाचिच्चतुर्भुजः ।
गोप्यैकया वृतस्तत्र परिक्रीडति सर्वदा ॥ इति ।
युक्तं चैतत। पुरुषविधः, अन्वयं पुरुषविधः [तै.उ. २.५] इत्याद्युदाहृतश्रुतीनामपि तथैव सङ्गेः । पुरुषविधत्वं, तत्र दृष्टान्तीभूताः नराः सर्वे द्विभुजा एव स्वभावतः । अतः पुरुषविधत्वेन निरूप्यमाणे ब्रह्मण्यपि द्विभुजत्वमेव सर्वाधिकतया निश्चीयते इत्युपपादितं मया युग्मतत्त्वसमीक्षायां, महता प्रपञ्चेन सिद्धान्तबिन्दौ च । श्रीबलदेवविद्याभूषणेनापि सिद्धान्तरत्ने इति ततोऽवधेयम् ।
ज्ञानमुद्राढ्यमिति । ज्ञानमुद्रा वंशी । ज्ञानं ज्ञायतेऽनेनेति व्युत्पत्त्या शब्दब्रह्मात्मको वेदः । स मुद्रयते प्रकाश्यतेऽनया इति व्युत्पत्तेः ।
शब्दब्रह्ममयं वेणुं वादयन्तं मुखाम्बुजे ।
विलासिनीगणवृतं स्वैः स्वैरंशैरभिष्टुतम् ॥
अथ वेणुनिनादस्य त्रयीमूर्तिमयी गतिः ।
स्फुरन्ती प्रविवेशाशु मुखाब्जानि स्वयम्भुवः ॥ [ब्र.सं. २६२७]
इति ब्रह्मसंहित्यायां नारदपञ्चरात्रे वेणोः शब्दब्रह्ममयत्वस्य वेदत्रयीप्रादुर्भावकत्वस्य च निरूपणात। तेन ज्ञानमुद्रापदेन योगशास्त्रप्रसिद्धा हस्तविन्यासविशेषरूपा ज्ञानमुद्रा नात्राभिमता ।
गोपगोपीगवावीतमिति गोपविलासिनीगणवृते शृङ्गाररसमयविग्रहेऽत्र तदुपयोगाभावात्रसाभासापत्तेश्च । तादृशश्रीपुरुषोत्तमध्यानप्रसङ्गे पुराणपञ्चरात्रादिषु सर्वत्र मुरलीशोभितत्वेनैव निरूपणात। अत्राप्युत्तरतापिन्यां वेणुशृङ्गधरं तु वा इत्येव वक्ष्यति चेति ।
ज्ञानमुद्रया आढ्यमुत्कर्षयुक्तमित्यर्थः । उत्कर्षश्चात्र तया निरन्तरं रसोद्दीपकगानशीलत्वेनोद्दीप्तरसमयनिखिलनिजपरिकरविशिष्टत्वेनोद्दीप्तरसमयनिजस्वरूपत्वेन च बोध्यम् । वक्ष्यति च, वेणुनादविनोदाय, वल्लवीवदनाम्भोजमालिने नृत्यशालिने इति ।
ईश्वरमिति । अविद्यादिसर्वविधक्लेशरहितनिरङ्कुशपारमैश्वर्यवत्त्वेन सदा सम्पन्नमित्यर्थः । तदेतत्परमदेवत्वादिचतुष्टयनिरूपणादेव सिद्धमिति तस्यात्र पुनरनुवादः तथात्वेन सर्वदानुचिन्तनार्थम्, वक्ष्यमाणपरिकरगोप्यादिभिः सह रममाणेऽपि स तथाविध एव न जातुचिदपि कदाचिदपि निजस्वरूपमाहात्म्यं विस्मरति, इति सूचनार्थं च । तेन रसलीलायां न भगवता निजमाहात्म्यानुसन्धानं, न वा रसलीलाचिन्तकानां भगवन्माहात्म्यचिन्तनस्यावश्यकतेति कस्यचित्प्रलापाः प्रत्युक्ता इति । एतेन सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति, एष सर्वेश्वर एष भूतपालः [बृ.आ.उ. ४.४.२२] इत्यादिश्रुतयः स्वसङ्गतीकृताः । इति ।
गोपगोपीगवावीतमिति । गोपा निरुक्तगोपरूपस्य भगवतः सायुज्यं प्राप्ताः नित्यमुक्ताः बद्धमुक्ताश्च श्रीदामवासुदामाद्या सखायः । गोप्यस्तु तादृशगोपरूपस्य भगवतोऽनुरूपसौभगाः प्रेयस्यः, ताः सर्वाः लक्ष्म्य एव । तदुक्तं—
चिन्तामणिप्रकरसद्मसु कल्पवृक्ष
लक्षावृतेषु सुरभिरभिपालयन्तम् ।
लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं
गोविन्दमादिपुरुषं तमहं भजामि ॥
श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो
द्रुमा भूमिश्चिन्तामणिगणमयी तोयममृतम् ।
कथा गानं नाट्यं गमनमपि वंशी प्रियसखि
चिदानन्दं ज्योतिः परमपि तदास्वाद्यमपि च ॥ [ब्र.सं. २९,५५]
इति ब्रह्मसंहितायामुपबृंहणात। तत्र राधावृषभानुजादिपदोपलक्षिता परमलक्ष्मीः । अन्याश्च तस्या सायुज्यं प्राप्ताः । नित्यमुक्ता विमलाद्या वृन्दावत्याद्या ललिताचन्द्रावल्याद्याश्च सर्वा लक्ष्म्य एव । ताः सर्वा भगवतः पत्न्य एव, न तु नित्यलीलायामाभासतोऽपि गोपान्तरसम्बन्धवत्यः । यथा चोक्तं गोपीचन्दनोपनिषदि गोप्यो नाम विष्णुपत्न्यः इति । एवं च महालक्ष्म्याः तत्सखीनां गोपीपदवाच्यत्वं तु, गोपवेषम्, गोपरूपः प्रयत्नात्[गो.ता.उ. १.२१] इत्यादिप्रकरणश्रुतेर्निरुक्तगोपरूपस्य भगवतः पत्नीत्वात। गोपी का नाम ? संरक्षिणी, मृत्योर्भयाच्च संरक्षिणी इति गोपीचन्दनोपनिषद्श्रुतेः ।
बहिरङ्गैः प्रपञ्चस्य स्वांशैर्मायादिशक्तिभिः ।
अन्तरङ्गैस्तथा नित्यविभूतैस्तैश्चिदादिभिः ॥
गोपनादुच्यते गोपी राधिका कृष्णवल्लभा ।
सर्वलक्ष्मीस्वरूपा सा कृष्णाह्लादस्वरूपिणी ॥
अतः सा प्रोच्यते विप्र ह्लादिनी तु मनीषिभिः ।
सा तु साक्षात्महालक्ष्मी कृष्णो नारायणः स्वयम् ॥ [प.पु. ५.८१.५१५३]
इति पाद्मे वृन्दावनमाहात्म्ये बृहद्ब्रह्मसंहितायां च युगलमन्त्रव्याख्याने शिवनारायणयोरुक्तेश्च सर्वजगद्गोपनशीलत्वाच्च बोध्यम् । तथा च गुपू रक्षणे इति धातोरेव गोपीशब्दस्य निष्पत्तिः पक्षद्वयेऽपि । न तु गाः पातीति गोपः, तस्य पत्नी गोपी इति प्राकृतव्युत्पत्तिः । एवं च गोवंशपालकस्याभिमन्युगोवर्धनादेर्गोपस्य पत्नीत्वमर्थस्तु स्थूलबुद्धीनामेवेति बोध्यम् ।
परमलक्ष्म्या वृषभानुनन्दिन्या तदन्तरङ्गसखीभिश्च सह परमविष्णोर्नन्दनन्दनस्य सम्बन्धतो भावतश्च यथा दाम्पत्यमेव तथोपपदयिष्ये विस्तरतः श्रीकृष्णं ध्यायन्तः [गो.ता. १.४५] इति वाक्यव्याख्यानावसरे पूर्वतापिनीशेषे, स वो हि स्वामी भवति [गो.ता. २.२२] इत्युत्तरतापिन्यां चेति तत्रैव द्रष्टव्यम् ।
ननु अत्र स्वरूपे चिदानन्दघनत्वस्यानुक्तत्वादतल्लक्षणमेतद्रूपं न स्वाभाविकम्, अपि तु प्राधानिकमेवेच्छोपात्तं सङ्घातरूपमिति चेत्, न । पूर्वसच्चिदानन्दघनस्वरूपत्वस्य निरुक्तलक्षणपरमदेवत्वनिरूपणावसर एव निरूपितत्वात्तद्विषयकजिज्ञासाया अनुदयात। स्वरूपे आकारस्यानिरूपितत्वेन तावन्मात्रस्यैव जिज्ञासितत्वात। तावन्मात्रमुक्तम् । तथा च सच्चिदानन्दमयस्वरूपस्यैवाकारजिज्ञासनात्, आकरस्य सच्चिदानन्दत्वमनुक्तसिद्धमेव । वक्ष्यति च—तमेकं गोविन्दं सच्चिदानन्दविग्रहं वृन्दावनसुरभूरुहतलमासीनं [गो.ता.उ. १.३३] इत्यनेन विग्रहत्वेनापि सच्चिदानन्दघनत्वमिति न शङ्कावसर इति ।
अत्र पुनरिदं बोध्यम्—यदत्र चिन्तयंश्चेतसा कृष्णं [गो.ता. १.११] इति, सत्पुण्डरीकनयनमिति निरूपितविग्रहसामानाधिकरण्येन कृष्णपदं विशिष्यते तत्र कृष्णशब्दो नाव्युत्पन्ननामधेयमात्रं प्रयोजनविरहात। किं तद्रूपं ? इति तच्छब्देन कृष्णाख्यब्रह्मपरामर्शादेव तत्प्रयोजनसिद्धेः । तस्मादत्र कृष्णशब्दः सामानाधिकरण्येन प्रयुक्तः, तादृशविग्रहे कृषि भूर्वाचकः शब्दः इत्याद्युक्तस्वार्थभूतसच्चिदानन्दत्वबोधनार्थकतयैवोपयुज्यते ।
किं च, चिदानन्दशब्देन चिदानन्दघनत्वकथने तावन्मात्रमुक्तं भवेत्, कृष्णशब्देन तत्कथने तु स्वरूपतश्चिदानन्दघनत्वेन साकं निरुक्तकृष्णशब्दार्थभूतजगत्कर्तृत्वादिसर्वधर्माणामपि तत्रोक्तिर्भवतीत्यभिप्रायः प्रतिभाति ।
किं च, किं तद्रूपं ? ? इति जिज्ञासया परब्रह्मणः स्वरूपमेव जिज्ञासितं, न त्विच्छयोपात्तप्राधानिकादिविग्रहरूपं, तस्य जिज्ञासाघटकतत्पदार्थपरब्रह्मस्वरूपत्वाभावात। तथा च स्वाभाविकं यद्रूपं तदेव वक्तव्यम्, न तु यादृक्षिकं प्रतारकत्वापत्तेः । न च भृगुवारुणीविद्यावत्, भूमविद्यावच्च क्रमेण परमरूपत्वेऽवतारार्थं तदुक्तिरिति वाच्यम् ।
तत्र तत्र अन्नब्रह्मनामब्रह्मादिक्रमेणानन्दब्रह्मभूमब्रह्मपर्यन्तमुत्तरोत्तरं स्वरूपान्तरनिरूपणवदत्र स्वरूपान्तरानिरूपणात। अपि तु अस्यैव रूपस्य परमकाष्ठापन्नत्वेन, तमेकं गोविन्दं सच्चिदानन्दविग्रहं [गो.ता.उ. १.३३], योऽसौ ब्रह्म परं ब्रह्म गोपालः, योऽसौ जाग्रत्स्वप्नसुसुप्तिमतीत्य तुर्यातीतो गोपालः इत्यादिना पुनः पुनरन्तपर्यन्तमभ्यस्यमानत्वात।
किं च, किं तद्रूपं ? इत्यनेन निरुक्तस्य परब्रह्मणः परममेव स्वरूपं जिज्ञासितं, न तु कल्पितम् । कः परमो देवः इति परमत्वेनैवात्र वस्तुतत्त्वनिरूपणस्योपक्रान्तत्वेन सर्वत्र जिज्ञासायां तात्पर्यतस्तदन्वयस्य युक्तत्वात। अन्यस्यैच्छिकरूपस्यानन्तत्वात्, अन्यथैव ज्ञातत्वेन चाजिज्ञास्यत्वाच्च । एवं च परब्रह्मणः परमस्वरूपजिज्ञासायां यद्रूपमुपदिष्टं, तदेव परमरूपं तस्यान्यथा कल्पनं नितरामयुक्तमित्यपि विभावनीयम् ॥
अथात्र स्वरूपनिरूपस्योपासनविधिशेषत्वं निराक्रियते ।
अथ “यो ध्यायति” इत्यनेन ध्यानस्य प्रक्रान्तत्वात्, तदनन्तरं “किं तद्रूपं ?” इति जिज्ञासादर्शनात। निरुक्तश्लोकेऽपि चिन्तयंश्चेतसा कृष्णं [गो.ता. १.११] इति ध्यानगोचरत्वेनैवोपसंहारात। ध्यानस्य चोपासनाविशेषरूपत्वात। उपासनाविधिशेषभूतमेवेदं स्वरूपनिरूपणम् । तथा च, वाचं धेनुमुपासीत इत्यादाविव तादृशविग्रहस्य ब्रह्मस्वरूपत्वाभावेऽप्युपासनसम्भवान्नैतस्य ब्रह्मस्वरूपनिरूपकत्वमिति चेत्, न, उक्तहेतुभ्यः—
(१) प्रस्तुतध्यानादेर्विधिरूपत्वाभावात्,
(२) उपासनारूपत्वाभावात्,
(३) निदिध्यासनरूपत्वात्,
(४) फलसामानाधिकरण्येनोक्तेः,
(५) साक्षादमृतत्वप्रापकत्वात्,
(६) स्वरूपानुरूपणशेषत्वस्योक्तत्वाच्च,
(७) स्वरूपनिरूपणस्यैवोपक्रमोपसंहारादिभिरेतदुपनिषत्तात्पर्यगोचरत्वस्य प्रमीयमाणत्वात्,
(८) अस्यैव स्वरूपस्य निर्गुणत्वसर्वांशित्वतुरीयातीत्वोपदेशाच्च,
(९) न तद्रूपं वचसि धेनुत्ववत्, उपासनाङ्गतयारोपरूपम् ।
अपि तु परमकाष्ठमापन्नं सर्वातिशायिसच्चिदानन्दरूपं, सर्वासां तेजोराशीनां सूर्यरूपमिव सच्चिदानन्दतत्त्वस्यापि, ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च [गीता १४.२७] इति गीतोक्तरीत्या परमप्रतिष्ठाभूतमिति भगवद्वीक्षितैरवधेयम् ।
तथा हि—प्रस्तुतध्यानादेर्न विधिरूपत्वं, वाचं धेनुमुपासीत इत्यादाविव विधायकानां लोड्लिङादीनामभावात। चिन्तयंश्चेतसा कृष्णं [गो.ता. १.११], पञ्चपदीं जपनिति शतृप्रत्ययान्तपदाभ्यां लट्लकारस्यैव निश्चयात्, तस्य चाविधायकत्वात। अत एव यथा यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति [मु.उ. ३.२.९] इत्यादिश्रुतीनां न विधायकत्वं, अपि तु फलमात्रकथकत्वादुपदेशमात्रत्वं, तथा ध्यायति रसयति इत्यादिश्रुतीनामपि बोध्यम् । उभयत्र फलसामानाधिकरण्येन लड्विधानात।
किं च, ध्यायेत्रसयेत्यजेत्भजेतिति वक्ष्यमाणश्रुतीनां लिङन्तत्वेन विधायकत्वाङ्गीकारेऽपि नैतेषां वाचं धेनुमुपासीत इत्यादाविव काल्पनिकोपासनारूपत्वं, तथा सति धेनुत्वेन वागुपासनादिवदस्यापि ध्यानादेः साक्षान्मोक्षपर्यवसायित्वं न स्यात्, निरूप्यते चैतेषामुक्तरीत्या साक्षान्मोक्षपर्यवसायित्वं, सोऽमृतो भवति सोऽमृतो भवति, ब्रह्म सम्पद्यते ब्रह्म सम्पद्यते [गो.ता. १.१२], अखिलं भवति अखिलं भवति [गो.ता.उ. १.१८], सिद्धिः शाश्वती नेतरेषां [गो.ता.उ. १.१९,२०], तेषामसौ गोपरूपः प्रयत्नात्प्रकाशयेदात्मपदं तदेव [गो.ता.उ. १.२१], मुमुक्षुर्वै शरणं व्रजेत [गो.ता.उ. १.२२], दर्शयेदात्मरूपमित्यादिश्रुतिभिः ।
तस्मादत्र विधीयमानं ध्यानादिकं, ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात्[मु.उ. २.२.६], यः पुनरेतत्त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत [प्र.उ. ५.५], आत्मेत्येवोपासीत [बृ.आ.उ. १.४.७], आत्मानं प्रियमुपासीत [बृ.आ.उ. १.४.८], आत्मानं लोकमुपासीत [बृ.आ.उ. १.४], आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः [बृ.आ.उ. ४.५] इत्यादौ विहितध्यानोपासननिधिध्यासनवत्परमात्मासाक्षात्कारोपायभूतमखण्डं स्मृतिसन्ततिमात्रं बोध्यम् । एवं चैतेषां शब्दभेदेन सर्वास्वप्युपनिषत्सु विधीयमानत्वेऽपि तत्र तत्रोपनिषत्सु प्रतिपादितानां तत्त्वमसि, अहं ब्रह्मास्मि [बृ.आ.उ. १.४.७], अयमात्मा परब्रह्म, यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्[बृ.आ.उ. ४.५.१५], नेति नेति, अस्थूलमनणु, केवलो निर्गुणश्च इत्यादिश्रुतीनां यथा नोपासनाशेषत्वं तथात्रापि बोध्यम् ।
न च, आत्मेत्येवोपासीत [बृ.आ.उ. १.४.७], निदिध्यासितव्यः इत्यादिश्रुतीनां न मुख्यं विधायकत्वं, अपि तु विधिच्छायापन्नत्वमेव, अनाद्यविद्यया विषयेषु प्रवृतानां जीवानामभिमुखीकरणार्थम् । भव्ये हि विधिर्भवति ब्रह्म ब्रह्मभावश्च न भव्यौ तथात्वेऽनित्यत्वापत्तेरिति व्यवस्थापितं भगवत्पादाचार्यैर्वाचस्पतिमिश्रैश्च समन्वयाधिकरणभाष्ये । इत्युच्यते, तदात्रापि तथैव जानीहि । तदेतदुपपादयिष्ये विस्पष्टमुपरिष्टात।
तथा चात्र ध्यानादिकं हि—तेषामसौ दर्शयेदात्मरूपं [गो.ता. १.२३], तेषामसौ गोपरूपः प्रयत्नात्प्रकाशयेदात्मपदं तदेव [गो.ता.उ. १.२१] इत्यादि वक्ष्यमाणश्रुत्युक्तभगवद्दर्शनासाधारणहेतुभूतं ध्रुवास्मृत्यपरपर्यायं निदिध्यासनरूपमेव तेनात्र तस्य विहितत्वाङ्गीकारेऽपि नात्र शेषित्वसम्भवः निदिध्यासनस्य शेषित्वे समग्रमैत्रेयिब्राह्मणस्य निदिध्यासनशेषत्वं स्यात। तथा सति त्वन्मते तस्यापि स्वार्थपरत्वं भज्येत । तच्च न भवतामप्यभिमतम् । तथा सति, तत्केन कं पश्येत्[बृ.आ.उ. ४.५.१५] इत्यादिवाक्यानां स्वातन्त्र्येणाद्वैतप्रतिपादकत्वं न स्यादिति ॥
किं चात्र स्वरूपनिरूपणस्योपासनाशेषत्वाङ्गीकारे तेन च स्वरूपनिरूपणपराणां किं तद्रूपं ? इत्यादि प्रश्नप्रतिवचनवाक्यानां स्वार्थपरत्वानङ्गीकारे तेन च तत्प्रतिपाद्यस्वरूपस्य परमार्थिकत्वानङ्गीकारे च तद्रूपध्यानादीनां, अमृतो भवति, ब्रह्म सम्पद्यते [गो.ता. १.१२] इत्यादिश्रुत्युपदिष्टः साधनान्तरावय्वधानेन साक्षादमृतत्वोपदेशो भज्येत । वेदाहमेतं पुरुषं महान्तं भादित्यवर्णतमसः परस्तातित्यादिश्रुतिभिः, तमसः परस्तातेव परमार्थिकपरमपुरुषस्वरूपदर्शनस्यैव मोक्षजनकत्वस्य निर्धारात। अत्रोक्तध्यानादीनां त्वदुक्तरिशापारमार्थिकस्वरूपविषयकत्व्न तत्साक्षात्कारस्यैव नियतत्वात। न चात्र गौणामृतत्वोपदेशः साधनान्तरव्यवधानेन वामृतत्वोद्देश इति शङ्क्यं तस्य पूर्वमेव निरस्तत्वात।
वस्तुतस्तु, नात्रोपासनायाः प्राधान्यम्, अपि तु निरुक्तलक्षणपरमदेवत्वाद्विनाभूतपरमफलप्रदत्वोपपादकतयैवात्रोपासनतत्फलादीनां प्रवेशादित्युपपादितं पुरस्तात। किं तद्रूपं ? इत्यादिना स्वरूपनिरूपणस्यापि परमदेवत्वोपपादकतयैवोपक्रान्तत्वादित्यप्युपपादितं पुरस्तात। तेन नात्र स्वरूपनिरूपणस्योपासनाशेषत्वम्, अपि तु तदुपासनाया एव तच्छेषत्वमिति ।
अत एव च तस्य परब्रह्मणोऽत्रोपनिषदि आसर्वोपसंहारं प्रतिज्ञातार्थं परमदेवत्वादिकं तादृशस्वरूपकत्वेनैव पुनः पुनरभ्यासेनालोचयति—तेषामसौ गोपरूपः प्रयत्नात्प्रकाशयेदात्मपदं तदेव [गो.ता.उ. १.२१], गोपवेशो मे पुरुषः प्रस्तादाविर्बभूव पुनस्ते सिसृक्षतो मे प्रादुरभूवन्तमेकं गोविन्दं सच्चिदानन्दविग्रहं वृन्दावनसुरभूरुहतलासीनं [गो.ता.उ. १.३३], नमो विज्ञानरूपाय परमानन्दरूपिणे कृष्णाय गोपीनाथाय, नमः कमलनेत्राय नमः कमलमालिने, निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे, अद्वितीयाय महते श्रीकृष्णाय नमो नमः [गो.ता.उ. १.४२], साक्षात्प्रकृतिपरोऽयमात्मा गोपालः, ओं तत्सत्कृष्णात्मको नित्यानन्दैकस्वरूपः, ओं तत्सद्गोपालोऽहमेव परं सत्यमेवाधितम्, ध्यायेन्मनसि मां नित्यं वेणुशृङ्गधरं तु वा, योऽसौ ब्रह्म परब्रह्म गोपालः, जाग्रत्स्वप्नसुषुप्तिमतीत्य तुर्यातीतो गोपालः इत्यादिना । तदेतत्स्थले व्यकीभविष्यति ।
अस्य विग्रहस्य सच्चिदानन्दघनत्वे पुराणादिवाक्यानि सङ्क्षेपतः पूर्वमेवोक्तानि गोपपदार्थव्याख्यानासरे । सङ्गृहीतानि च युग्मतत्त्वसमीक्षायाम् ।
॥ इति स्वरूपविचारसङ्क्षेपः ॥
—ओ)०(ओ—
(१२)
अथ ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात्[मु.उ. २.२.६], आत्मेत्येवोपासीत [बृ.आ.उ. १.४.७], आत्मनं प्रियमुपासीत तस्मान्यासामेषां तपसामतिरिक्तमाहुः [ना.उ.] ब्रह्मणे त्वा महसे ओमित्यात्मानं युञ्जीत [ना.उ. ७२], मुमुक्षुर्वै शरणमहं प्रपद्ये [श्वे.उ. ६.१८] इत्यादिश्रुत्युक्तलक्षणमात्मार्पणन्यासप्रपत्तिशरणागतिप्रभृतिशब्दव्यपदेश्यम्—
यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास्तस्मै गोपायति स्म कृष्णः ।
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणं व्रजेत ॥ [गो.ता.उ. १.२२]
इति वक्ष्यमाणं साङ्गमात्मन्यासयोगमुपपादयितुं तन्निर्वाहकमन्त्रं च निरूपयितुमाह—
तस्य पुना रसनमिति । जलभूमीन्दुसम्पातकामादिकृष्णायेत्येकं पदम् । गोविन्दायेति द्वितीयम् । गोपीजनेति तृतीयम् । वल्लभायेति तुरीयम् । स्वाहेति पञ्चममिति । पञ्चपदीं जपन्पञ्चाङ्गं द्यावाभूमी सूर्याचन्द्रमसौ साग्नी तद्रूपतया ब्रह्म सम्पद्यते ब्रह्म सम्पद्यत इति ॥१२॥
॥ इति श्रीगोपालपूर्वतापिन्यां प्रथमः प्रपाठकः सम्पूर्णः ॥
अत्र रसनशब्दो हि रस आस्वादने इति चुरादिधातुनिष्पन्न एव प्रतिभाति । साम्प्रदायिकपुस्तकेषु उपक्रमे उपसंहारे च रसयति रसयेतिति स्वार्थणिजन्तपाठोपलम्भात्तथैव टीकाकृद्भिर्व्याख्यातत्वाच्च । क्वचित्पुस्तके उपक्रमे रसतीत्येवं पाठस्योपलभ्यमानत्वेऽपि उपसंहारे रसयेदित्येवं पाठोपलम्भात। उपक्रमेऽपि तथैव स्यादित्येव प्रतिभाति । तेनास्वादनं धात्वर्थः । प्रकरणवशाच्च सर्ववेदान्तसारभूतवक्ष्यमाणपञ्चपदीमन्त्रानुसन्धानेनासीममाहात्म्यज्ञानपूर्वकं स्वस्य तदेकशरणत्वाभावनपूर्वकं च विशुद्धप्रेम्णा तत्स्वरूपानुशीलनं वाक्यार्थः । एवं च मन्त्रस्य तज्जपस्य च तादृशरसनीयभगवत्स्वरूपस्मारकत्वेनोपयोगः । तेन करणव्युत्पन्नो रसनशब्दस्तत्र प्रयुज्यत इत्युक्तं भवति । शब्दार्थकरसधातुनिष्पन्नत्वे शब्दोच्चारणविशेषस्तु रसनशब्दस्य वाच्यार्थः, शेषस्तु प्रकरणबलात। तेनात्रापि पक्षे तथैव तात्पर्यम् । तदेतदग्रे स्पष्टं भविष्यति ।
यद्वा, रस्यते माहात्म्यानुसन्धानपूर्वकं शरण्यत्वेनास्वाद्यतेऽनुशील्यते प्रतिपाद्यते वा येन शब्दसमूहेन तत। रसनंशब्दसमुदायविशेषात्मा मन्त्रविशेषः इति तदर्थः । तथापि करणप्रत्ययनिष्पन्नोऽयं शब्दः । शेषस्तु स्मान एवेति ।
तामेव विद्यामाह—जलभूमीन्दुसम्पाताः इति । अत्र जलपदेन तद्वाचकः ककारो भूमिशब्देन तद्बीजं लकारः भूमीन्दुः इत्यत्र मध्ये ईकारः इन्दुशब्देन बिन्दुश्च गृह्यते तेन क्लीमिति कामबीजमुद्धृतं भवति । तदेवाह कामादि इत्यादि । अत्र क्लीमिति बीजंकृष्णायेत्यादि पदपञ्चकं तु तस्यैव विवरणमभूतम् ।
तदुक्तं रहस्यषोडशश्यां श्रीमदाचार्यचरणैर्निम्बार्कमुनिभिः—एतस्यैव हि मन्त्रस्य शिष्टं विवरणं स्मृतं [१०] इति । तेन कृष्णायेत्यादि पञ्चानां पदानां जलभूमीन्दुसम्पातात्मके क्लीमिति बीज एवान्तर्भावः । तत एव रसनं तु जलभूमीन्दुसम्पाताः इत्येवोक्तम् । विवरणवाक्य एव कामादिकृष्णायेत्यादि पञ्चपदमुक्तम् ।
तथा च क्लीं कृष्णाय इत्येकं पदं, गोविन्दायेति द्वितीयं, गोपीजनेति तृतीयं, वल्लभेति तुरीयं, स्वाहेति पञ्चमं पदमिति । पञ्चपदात्मको मन्त्रः ॥
अत्र कीं कृष्णायेत्यस्य पदद्वयरूपत्वेऽप्येकपदत्वं गोपीजनवल्लभायेत्यस्यैकपदत्वेन प्रतीयमानत्वेऽपि पदद्वयात्मकत्वं श्रौतविभागात्तथैव गौतमीयतन्त्रसनत्कुमारसंहितादौ व्यवस्थापनाच्चेति बोध्यम् ।
पञ्चपदीं जपन्पञ्चाङ्गं द्यावाभूमी सूर्याचन्द्रमसौ साग्नी तद्रूपतया ब्रह्म सम्पद्यते ब्रह्म सम्पद्यते इति । अत्र यत्तदोर्नित्यसम्बन्धात्, इतरत्र तच्छब्दाद्यच्छब्दो लभ्यः । एवं च पञ्चपदीं जपन्नरः ये द्यावाद्याः पञ्च तद्रूपतया तत्प्रकाशकतया यन्मन्त्ररूपं पञ्चाङ्गं ब्रह्म तत्सम्पद्यते मन्त्रदेवतयोरभेदात्परब्रह्मस्वरूपं कृष्णं प्राप्नोतीत्यर्थः । द्विरुक्तिः प्रथमोपनिषसमाप्त्यर्था । इति तत्त्वप्रकाशिकाकाराः ।
इदं त्वत्राधिकं बोध्यम् । अत्र पञ्चाङ्गमिति पदं देहलीदीपन्यायेन पञ्चपद्यां ब्रह्मणि चोभयत्रान्वेति । तदर्थमेव पञ्चाङ्गं ब्रह्म सम्पद्यते । अन्यथा पञ्चाङ्गपञ्चपदीर्जपनित्येवमव्यवधानेन पञ्चाङ्गपदमपठित्वा मध्ये पठितम् । एवं च पञ्चाङ्गं यथा स्यात्तथा पञ्चपदीं जपन्द्यावाभूमी सूर्याचन्द्रमसौ साग्नी तद्रूपतया पञ्चाङ्गं ब्रह्म सम्पद्यते इत्यन्वयार्थः समीचीनः प्रतिभाति । पञ्चपदीमित्यत्र पञ्चपदमिति पाठे तु न क्रियान्वयापेक्षा किन्तु पञ्चाङ्गं पञ्चपदं जपन्द्यावाभूमीसूर्याचन्द्रमसौ साग्नी तद्रूपतया ब्रह्म सम्पद्यते इत्येवान्वयार्थः ।
तत्र मन्त्रस्य पञ्चाङ्गानि (१) समर्पणाङ्गत्वेन [शरणाङ्गत्वेन], (२) स्वरूपावयवत्वेन, (३) स्पष्टाक्षरोच्चारणरूपजपाङ्गत्वेन, (४) मन्त्रार्थानुशीलनाङ्गत्वेन च सामान्यतश्चतुर्विधानि । तत्र यान्येव परब्रह्मणः श्रीकृष्णस्य वक्ष्यमाणलक्षणानि पञ्चाङ्गानि तान्येव शब्दब्रह्मरूपस्य पञ्चपदीमन्त्रस्य शब्दात्मना पञ्चाङ्गानि भवन्ति । पञ्चपदीमन्त्रस्य श्रीकृष्णस्य च यत्तत्पदं पञ्चपदं तदेव स वासुदेवो न यतोऽन्यदस्ति [गो.ता.उ. १.३२] इत्यनेन शब्देनासौ पञ्चपदो विभाति इत्यनेन चैकत्वावधारणस्य वक्ष्यमाणत्वात। तत्र (१) आत्मयज्ञ, (२) जपयज्ञ, (३) योगयज्ञ, (४) द्रव्ययज्ञरूपाणि ।
(इ) समर्पणाङ्गत्वेन पञ्चाङ्गानि रहस्यमीमांसायां पञ्चज्ञाधिकरणोक्तानि ज्ञेयानि ।
(इइ) स्वरूपावयवत्वेन पञ्चाङ्गानि । कीं कृष्णायेत्यादि पञ्चपदानि ।
(इइइ) जपाङ्गत्वेन पञ्चाङ्गानि—(१) बीज (२) शक्ति (३) किलक (४) ऋषि (५) न्यासरूपाणि । (१) भूतशुद्धि (२) प्राणप्रतिष्ठा (३) मातृकान्यास (४) केशवादिन्यास (५) पीठन्यासादिरूपाणि न्यासाः । रहस्यमीमांसायां क्रमदीपिकायां च ज्ञेयाः ।
(इव्) तुरीयपञ्चाङ्गानि (१) अन्तरङ्गतमान्तरङ्गतरान्तरङ्गबहिरङ्गभेदाच्चतुर्विधम् । (१) तत्र प्रथमं ककारेकारलकारबिन्दुनादात्मकं मन्त्राङ्गभूतम् । अर्थाङ्गं तु विविधभावापन्नं स्वयं युगलमेव—
ककारो नायकः कृष्णः सच्चिदानन्दविग्रहः ।
ईकारः प्रकृती राधा महाभावस्वरूपिणी ॥
लश्चानन्दात्मकः प्रेमसुखं च परिकीर्तितम् ।
चुम्बनाश्लेषमाधुर्यं बिन्दुनादमुदीरितम् ॥ इति बृहद्गौतमीयोक्तेः ॥
द्वितीयं तु क्रमेण मन्त्रावयवप्रतिपाद्यानि वासुदेवसङ्कर्षप्रद्युम्नानिरुद्धनारायणाख्यानि,
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।
नारायण इति ख्यातः पदपञ्चात्मकः परः ॥
इत्येतन्मन्त्रकल्पे गौतमीयतन्त्रोक्तेः । ते च वासुदेवादयो मन्त्रगतपञ्चावयवार्थतया पञ्चावयवरूपाः, तत्तदवयवार्थतया तत्तदङ्गरूपाः सन्तः समग्रमन्त्रार्थभूतस्य श्रीकृष्णस्याङ्गानि भवन्त्, इति मन्त्रार्थभावनाकाले [समग्रमन्त्रार्थभूतस्य परब्रह्मणः श्रीकृष्णस्यांशिनः इति] समग्रमन्त्रार्थभूतं श्रीकृष्णाख्यं परब्रह्मणः तेषामंशित्वेन भावनीयम् ॥
एवं च वासुदेवादिचतुष्टयेन व्यूहचतुष्टयं पञ्चमेन नारायणेन च तदंशभूता वैभवाः पुरुषावतारा लिलावतारा गुणावताराश्च श्रीकृष्णांशत्वेन भाविता भवन्ति । तत्र वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धा व्यूहाः । केशवनारायणमाधवगोविन्दमधुसूदनत्रिविक्रमवामनश्रीधरहृषीकेशपद्मनाभदामोदरवासुदेवा ऊर्ध्वपुण्ड्रदेवतारूपा वैभवा द्वादश । कारणोदशायिगर्भोदशायिक्षीरोदशायिनः त्रयः पुरुषावतारपदवाच्याः । मत्स्यकूर्मादयो लीलावतारपदवाच्याः । ब्रह्मविष्णुशिवाः गुणावतारपदवाच्या वेदान्तमञ्जुषायां व्यूहाङ्गिनमिति पद्यव्याख्याने पुरुषोत्तमाचार्यचरणैर्निरूपिताः, विलासात्मके प्रथमावतारे वक्ष्यमाणलक्षणनारायणे अन्तर्भवन्ति । तेऽपि अङ्गत्वेन भावणीयाः । अत एव चैते जाग्रत्स्वप्नसुसुप्तितुरीयतुर्यातीतोऽन्तर्यामी गोपालः [गो.ता.उ. २.९५] इत्यनेन वक्ष्यमाणेन मन्त्रार्थस्य श्रीगोपालस्य परब्रह्मणः विभूतित्वेनानुप्रतिपाद्यन्ते । अत्र क्रमेण जाग्रदाद्यवस्थाधिष्ठातारः सङ्कर्षणप्रद्युम्नानिरुद्धवासुदेवा विवक्षिताः ।
रोहिणीतनयो रामो अकाराक्षरसम्भवः ।
तैजसात्मकः प्रद्युम्नो उकाराक्षरसम्भवः ॥
प्राज्ञात्मकोऽनिरुद्धो मकाराक्षरसम्भवः ।
अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् ॥ [गो.ता.उ. २.५४५५]
इति वक्ष्यमाणवाक्ये विश्वादिरूपत्वेन प्रणवायवभूताकारादिमात्राप्रतिपाद्यत्वेन तेषां निरूपणात। विश्वादीनां च माण्डूक्योपनिषै जाग्रदाद्यधिष्ठातृत्वेन निरूपणात। एवं च जाग्रत्स्वप्नेत्यादि वक्ष्यमाणमन्त्रे जाग्रत्पदेन तदधिष्ठाता विश्वात्मकः सङ्कर्षणः स्वप्नपदेन तदधिष्ठाता तैजसात्मकः प्रद्युम्नः सुषुप्तिपदेन तदधिष्ठाता प्राज्ञात्मकोऽनिरुद्धः तुरीयपदेन तदवस्थो वासुदेवः । तुरीयातीतोऽन्तर्यामी इत्यनेन, कृष्णो वै हरिः परमो देवः षड्विधैश्वर्यपरिपूर्णो भगवान। गोपीगोपसेव्यो वृन्दाराधितो वृन्दावनाधिनाथः । तस्य द्वे तनू नारायणोऽखिलब्रह्माण्डाधिपतिरेकोऽंशः प्रयोजएः पराचीनो नित्यश्च इति राधोपनिषच्छ्रुत्युक्तः । अत्रापि चतुर्भुजं शङ्खचक्रशार्ङ्गपद्मगदान्वितमित्यादिनोत्तरतापिन्यां निरूपितः । ब्रह्मवैवर्तनारदीयमहापुराणादौ द्विभुजस्य श्रीकृष्णस्य प्रथमावतारत्वेन प्रतिपादितः । स्वेतरसर्वावताराणामंशित्वेन तेषामन्तर्यामिभूतो नारायणो विवक्षितः । तस्य तुरीयातीतत्वविशेषणं तु सङ्कर्षणादितदंशेभ्य उत्कृष्टत्वबोधनायान्तर्यामित्वकथनेन प्राप्तप्राज्ञत्ववारणाय चेति बोध्यम् । अयमेव च स्वरूपनिरूपणप्रस्तावे समुद्धृतपद्मपुराणीयवृन्दावनमाहात्म्यवाक्ये आवरणक्रमे तस्योर्ध्वं चान्तरिक्षे च विष्णुं सर्वेश्वरेश्वरं [८.३२] इत्यादिना ब्रह्मदिगावरणत्वेनोक्त इत्यपि ध्येयम् । तेषां सर्वेषां प्रतिपाद्यश्रीगोपालविभूतित्वमेव । रुद्राणां शङ्करश्चास्मि इत्यादि गीतावाक्यमिव तेषामपि ओं प्राणाय स्वाहा इत्यादि वक्ष्यमाणमन्त्रस्तुतौ गोपालात्मकत्वोपदेशात। तत्र विभूतिप्राये पाठात। गोपालाय निजस्वरूपाय इत्यनेन, सत्पुण्डरीकमित्यादिना निरूपितगोपालरूपमात्रस्यैव निजस्वरूपत्वविशेषणेन सर्वांशित्वाभिधानाच्चेत्यग्रे स्फुटीभविष्यति । अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितामित्यत्र कृष्णपदवाच्यो वासुदेवव्यूह एव ।
न तु तेषामंशी तुरीयातीतः कृष्णो वै परमं दैवतं, गोपालाय निजस्वरूपाय, तुरीयातीतोऽन्तर्यामी गोपालः इत्यादि लक्षणः परमः । तस्य तस्मादोंकारसम्भूतो गोपालो विश्वसंस्थितः इत्यनेन वक्ष्यमाणत्वात। तदप्यग्रे स्फुटीभविष्यति । एवं च तत्र अकारार्थो विश्वः सङ्कर्षणः, उकारार्थस्तैजसः प्रद्युम्नो, मकारार्थः प्राज्ञोऽनिरुद्धः अर्धमात्रात्मकस्तुरीयो वासुदेवः ।
नारायणस्य तत्र तुरीये अर्धमात्रात्मके एवान्तर्भावः । अत एव कृष्ण इति सामान्य शब्दप्रयोगः । एवमेव—ओं कृष्णाय देवकीनन्दनाय ओं तत्सत्भूर्भुवः स्वस्तस्मै वै नमो नमः इति वक्ष्यमाणमन्त्रस्तुतावपि देवकीनन्दनपदेन वासुदेवव्यूहस्य निरुक्तलक्षणनारायणस्य च परिग्रहो बोध्यः । यद्वा, तस्यापि परब्रह्मगोपालविलासरूपत्वेन तुरीयातीतत्वाच्चात्र गोपालो विश्वसंस्थितः इति गोपाल एव तुरीयातीतेऽन्तर्भाव इति ।
तृतीयं तु प्रकृतिपुरुषकालतत्त्वेश्वराख्यान्यपि पञ्चाङ्गानि तत्र प्रकृतिस्त्रिगुणात्मिका ॥१॥ पुरुषाः क्षेत्रज्ञाः ॥२॥ शकालः तयोर्नियामकरतत्त्वविशेषः ॥३॥ तत्त्वानि अप्राकृततत्त्वपदव्यपदेश्यानि स्वरूपतः सच्चिदानन्दमयानि धर्मतश्चैतन्यरहितानि भगवद्धामादिपदवाच्यानि । अन्यथा त्रिगुणप्रकृतिकार्याणि महत्तत्त्वादीनि ॥४॥ ईश्वरः सर्वेषां नियामकः सर्वात्मा स्वसमानाभ्यधिकशून्यं श्रीकृष्णाख्यं परब्रह्म । तदुक्तं गौतमीयतन्त्रे कामबीजव्याख्याने—
प्रकृतिः पुरुषश् चैव नित्यौ कालश्च सत्तम ।
तत्त्वानि चेश्वरश्चैव ब्रह्मैतत्पञ्चकं मतम् ॥ [गौ.त. १.११] इति ।
ईश्वरो जगतां बीजमाद्यं ब्रह्म तदुच्यते ।
तस्य माया समाख्याता शक्तिर्गुणमयी तु या । [गौ.त. १.१०]
एतद्बीजं समाख्यातं कृष्णतत्त्वं परमात्मानि ॥ इति चेति ।
तत्र पुरुषकालतत्त्वप्रकृतय ईश्वरश्च क्रमेण बीजावयवभूतैः ककारलकारेकारनादबिन्दुरूपैः प्रतिपाद्यन्ते । तदुक्तं तत्रैव—
सर्गान्तः पुरुषश्चेति तुर्याख्या प्रकृतिः स्मृता ।
तत्त्वानि मांसरूपाणि कालश्च तत्स्वरूपकः ॥
ईश्वराख्यो भवेन्नादो बिन्दुश्चतन्यचिन्मयः ।
एतद्विज्ञानमात्रेण जीवन्मुक्तो महीं चरेत॥ [गौ.त. १.१२१३] इत्यनेन ।
अत्र सर्गान्तः ककारः । तुर्याख्या तूर्यस्वर ईकारः, मांसं लकारः, अग्रे स्पष्टम् । अत्रेश्वरस्याङ्गित्वेऽपि अङ्गनिष्ठपञ्चसङ्ख्यापूरकत्वं यजमानपञ्चमा इडां भक्षयन्ति इति न्यायेन बोध्यम् । एवं चैतान्यपि मन्त्रोपासनसमये सर्वमूलभगवत्स्वरूपध्यानात्प्राक्भगवत्स्वरूपशेषतया भावनीयानि भगवत्येव शक्त्यात्मना प्रविलापनीयानि च । अत एव पञ्चपदीमन्त्रजपाङ्गतया निरुक्तसर्वार्थप्रकाशकाः केशवादिमातृकान्यासा व्यूहन्यासाः तत्त्वन्यासाः पीठन्यासा अन्ये च केचिन्न्यासा विधीयन्ते गौतमीयतन्त्रादिषु सनत्कुमारकल्पादिषु चेति । तथा सति सर्वांशितया समग्रं ब्रह्म सर्वव्यूहवैभवाद्यङ्गि पुरुषोत्तमाख्यं भावितं भवति । एतेनैव जपाङ्गतयातिविस्तृतन्यासविधानस्यातिस्पष्टं सप्रयोजनत्वमुक्तं भवतीत्यवधेयम् ।
इदं पुनरिहानुसन्धेयम् । सर्वशास्त्रेषु यावदर्थः प्रणवेनोच्यते तावत्सर्व एवार्थः प्रकृतशास्त्रे कामबीजेनोच्यते । प्रणवकामबीजयोरेकत्वावधारणात। तच्छ्रुतं भविष्यत्युत्तरतापिन्याम्—
रोहिणीतनयो रामो अकाराक्षरसम्भवः ।
तैजसात्मकः प्रद्युम्नो उकाराक्षरसम्भवः ॥
प्राज्ञात्मकोऽनिरुद्धो मकाराक्षरसम्भवः ।
अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् ॥
कृष्णात्मका जगत्कर्त्री मूलप्रकृती रुक्मिणी ।
व्रजस्त्रीजनसम्भूतश्रुतिभ्यो ब्रह्मसङ्गतः ।
प्रणवत्वेन प्रकृतिं वदन्ति ब्रह्मवादिनः ॥ [गो.ता. २.५४५६] इत्यन्तेन ।
तस्मात्प्रणवप्रकरणे माण्डूक्योपनिषदादौ व्याख्याताः सर्वे पदार्था अत्राप्युक्ता भवन्त्तीत्यङ्गप्रत्यङ्गभावेन सर्वाङ्गिनि सर्वात्मनि परमात्मनि श्रीपुरुषोत्तमे गोपालात्मके भावनीयाश्च भवन्त्ति तदेतत्सर्वमभिप्रेत्यैवोत्कम्—
तस्मादोंकारसम्भूतो गोपालो विश्वसम्भवः ।
क्लीमोंकारस्यैक्यत्वं पठ्यते ब्रह्मवादिभिः ॥ [गो.ता. २.५७] इति ।
एकतत्त्वमिति । एकमेव तत्त्वं प्रतिपाद्यं परमार्थवस्तु प्रणवकामबीजयोरिति तदर्थः । अत एव रोहिणीतनयो रामो अकाराक्षरसम्भवः इत्यादिना प्रणवार्थस्य विश्वतैजसादेः शाखान्तरपठितस्य रामप्रद्युम्नाद्यात्मनात्रानुवादः । क्लीमोंकारस्यैक्यत्वं पठ्यते ब्रह्मवादिभिः [गो.ता. २.५८] इति रहस्यमीमांसायां श्रीसुन्दरभट्टपादोद्धृतः शाखान्तरीयः पाठः ।
व्याख्यातं तु तैरेव—
गोपालोत्तरतापनीये ह्याम्नायते—क्लीमोंकारस्यैक्यत्वं पठ्यते ब्रह्मवादिभिः [गो.ता.उ. २.५८] इति । एकत्वं नाम एकार्थत्वं तुल्यार्थवाचकत्वम् । यथा प्रणवः सर्ववेदस्य बीजभूतः सर्ववेदार्थगर्भकः । प्रणवः सर्ववेदेषु [गीता ७.८] इति श्रीमुखोक्तेः । तथैव बीजमन्त्रोऽपि तथाभूतस्तथाभूतार्थज्ञापकश्चेति । प्रणवपर्यायस्वरूपत्वादस्य वर्णस्येति श्रुतितात्पर्यार्थः । प्रकृतिवद्विकृतिः इति चोदकश्रुतेः [५] इत्यन्तग्रन्थेनेति ।
अत्र यदधिकं वक्तव्यं तदत्रैव प्रकरणे, जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीतोऽन्तर्यामी गोपालः इत्यत्र विवेचयिष्ये इति ततोऽवधेयम् ॥
मन्त्रस्यावयवार्थव्याख्यानं तु, उपक्रमे कृष्णगोविन्दगोपीजनवल्लभेति पदत्रयव्याख्यानेन, पापकर्षणो गोभूमिवेदविदितो विदिता गोपीजनाविद्याकलाप्रेरकः [गो.ता.उ. १.५] इत्यंशेनैवोक्तं व्याख्यातं चास्माभिस्तत्रैव विस्तरतः । कामबीजार्थस्तूक्तप्रणवार्थेनैव व्याख्यातः ।
स्वाहापदार्थस्तु तादृशे परे ब्रह्मणि श्रीकृष्णे, आत्मात्मीयसर्वार्थस्य समर्पणरूपस्त्याग एवेत्यपि स्पष्टम् । स्वाहाशब्दस्य सर्वत्र स्वसमभिव्याहृतचतुर्थ्यन्तपदार्थोद्देश्यकस्त्याग एव प्रसिद्धेः । अत्रापि स एव गृह्यते इति व्याख्यातप्राय एव पञ्चपदीमन्त्रः । स्वाहापदेन गोपीजनवल्लभान्तपदसमभिव्याहृतेन तादृशपरिपूर्णतमकृष्णाख्यपरब्रह्मसम्प्रदानकात्मात्मीयसर्वसमर्पणबोधनाच्छरणागतिप्रकाशकत्वमपि स्पष्टमेव । तथापि विस्तरद्व्याख्यानं रहस्यषोडश्यां द्रष्टव्यम् । अत्र तु एतन्मन्त्रकल्पग्रन्थसनत्कुमारसंहितागौतमीयतन्त्रबृहद्गौतमीयतन्त्ररासोल्लासादितन्त्रतः कानिचित्तात्पर्यगमकानि वाक्यानि उद्ध्रियन्ते । अत्र सनत्कुमारसंहितायां श्रीनारदं प्रति भगवता सनत्कुमारेण कामबीजस्य श्रीपुरुषोत्तमविग्रहात्मकत्वमुक्तम्, यथा—
अथ कामबीजस्य शरीरं श्रीविग्रहात्मकम् ।
श्रीकृष्णशरीराभिन्नान्यक्षराणि क्रमाच्छृणु ॥
ककारेण शिरोमौलौ करनासौ नेत्रकर्णकौ ।
लकारेण भवेद्गण्डस्तदन्तो हनुरूपकः ॥
चिबुकोऽथ गृइवां चैव कण्ठः पृष्ठं च सुव्रत ।
ईकारः स्कन्धो बाहुश्च कफोणिरङ्गुलीनखः ॥
अर्धचन्द्रो वक्षस्तुन्दः पार्श्वे नाभिः कटिस्तथा ।
चन्द्रबिन्दावुरुर्जानुर्जङ्घा गुल्फश्च पादकः ॥
पार्ष्णिश्चाप्यङ्गुली चैव नखेन्दुरपि नारद ।
इति विग्रहरूपश्च कामबीजात्मको हरिः ॥ इति ।
श्रीपुरुषोत्तमस्य साक्षान्मन्मथमन्मथस्य बाणपञ्चकमुक्तं तत्रैव, यथा—
बीजाक्षरं पञ्चपुष्पबाणक्रमाच्छृणु ।
ककारश्चाम्रमुकुलो लकारश्चाशोककः स्मृतः ।
ईकारो मल्लिकापुष्पं माधवी चार्धचन्द्रकम् ।
बिन्दुश्च बकुलपुष्पमेते बाणाः प्रकीर्तिताः ॥ इति ।
गौतमीयतन्त्रे कामबीजस्वरूपमुच्यते—
विना बीजेन मन्त्राणां विफलं जायते फलम् ।
पञ्चालङ्कारसंयुक्तं बीजं तु परमाद्भुतम् ॥
ककारश्च लकारश्च ईकारश्चार्धचन्द्रकः ।
चन्द्रबिन्दुश्च तद्युक्तं कामबीजमुदाहृतम् ॥ इति ।
एतेन निरूपिततुरीयपञ्चाङ्गे प्रथमप्रभेदः समर्थितो भवतीत्यवधेयम् । कामबीजस्याङ्गभूताया ब्राह्मणमादायानङ्गगायत्रीं यथावदालिख्य इत्युपासनप्रकारे वक्ष्यमाणकामगायत्र्याः स्वरूपमेवमाह सनत्कुमारकल्पे—
आदौ मन्मथमुद्धृत्य कामदेवपदं वदेत।
आयोऽन्ते विद्महे पुष्पबाणायेति पदं ततः ।
धीमहीति तथोक्त्वाथ तन्नोऽनङ्गः प्रचोदयात॥ इति ।
अस्य माहात्म्यमाह—
गायत्री सा महामन्त्रः कामपूर्वाथ कथ्यते ।
साधका यां गृहीत्वैव जायते व्रजमण्डले ॥ इति ।
बृहद्गौतमीयतन्त्रे युगलात्मकत्वमाह बीजमन्त्रस्य, यथा—
ककारो नायकः कृष्णः सच्चिदानन्दविग्रहः ।
ईकारः प्रकाशी राधा नित्यं वृन्दावनेश्वरी ॥
लश्चानन्दात्मकः प्रेम सुखं तयोश्च कीर्तितम् ।
चुम्बनानन्दमाधुर्यं नादबिन्दुसमीरितम् ॥ इति पाठः ।
अर्थस्तु समानप्राय एव । रासोल्लासतन्त्रे कामबीजेन सह रतिबीजस्यापि साहित्यमाह—
कामबीजात्मकः कृष्णो रतिबीजात्मिका राधा ।
तयोः सङ्कीर्तनादेव राधाकृष्णौ प्रसीदतः ॥ इति ।
श्रीपुरुषोत्तमस्य साक्षान्मन्मथमन्मथरूपत्वं तु स्वरूपनिरूपणप्रस्ताव एव महता प्रपञ्चेन निरूपितमिति । तत एवावधेयम् । गोपीजनवल्लभशब्दार्थस्तु प्रकाशमन्त्रकल्पे दर्शार्णमन्त्रव्याख्यायां गौतमीयतन्त्रे ज्ञानामृतसारसंहितायां क्रमदीपिकायां चैवमाह—
कृष्शब्दः सत्तार्थो णश्चानन्दात्मकस्ततः कृष्णः ।
भक्ताघकर्षणादपि तद्वर्णत्वाच्च मन्त्रमयवपुषः ॥
गोशब्दवाचकत्वाज्ज्ञानं तेनोपलभ्यते गोविन्दः ।
वेत्तीति शब्दराशिं गोविन्दो गोविचारनादपि च ॥ [क्र.दी. २.२०२१]
गोपायति सकलमिदं गोपायति परं पुमांसमिति गोपी प्रकृतिः ।
तस्या जातं जन इति नादादिकं पृथिव्यन्तम् ॥
अनयोर्गोपीजनयोः समीरणादाश्रयत्वाद्व्याप्त्या ।
वल्लभ इत्युपदिष्टं सान्द्रानन्दं निरञ्जनं ज्योतिः ॥
स्वाहेति स्वात्मानं गमयामीति स्वतेजसे तस्मै ।
यः कार्यकारणेशः परमात्मेत्यच्युतैकतास्य मनोः ॥ [क्र.दी. २.१५७] इति ।
एतेन विज्ञानमानन्दं ब्रह्म [बृ.आ.उ. ३.९.२८], सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे इति श्रुतिसमुद्दिष्टं परमात्मनः स्वरूपलक्षणं च स्वशब्देन प्रत्यक्षरूपेणाभिव्यक्तम् ।
परोक्षरूपेण यद्यपि गुणशक्त्यादिकमप्युक्तमेव, तथापि स्फुटतयावबोधाय प्रत्यक्षरूपेण पुनराह—
अथवा गोपीजन इति समस्तजगदवनशक्तिसमुदायः ।
तस्य स्वानन्यस्य स्वामी वल्लभ इति ह निर्दिष्टः ॥ [क्र.दी. २.१८]
एवमपि कामबीजविवरणरूपस्यास्य मन्त्रस्योक्तकामबीजव्याख्याननिरूपिता धर्मा न स्फुटतया निरूपिता इति तदर्थं परिकरवैशिष्ट्यमाह—
अथवा व्रजयुवतीनां दयिताय जुहोमि मां मदीयमपि ।
इत्यर्पयेत्समस्तं ब्रह्मणि सगुणे सकल सम्पत्त्यै ॥ [क्र.दी. २.१९] इति ।
गुणपदेनात्र छान्दोग्यादौ भूमविद्यादहरविद्याशाण्डिल्यविद्याद्युक्ता । ये च किल गोपालतापिन्यां विवेचितास्ते ज्ञेयाः, न तु प्राकृताः प्रयोजनशून्यत्वादिति ।
तथा उक्तमन्त्रव्याख्यानकल्पत्रयं न परपरनिरपेक्षम्, अपि तु समुच्चितमेव । तथा च, अथवेत्यत्र वाशब्दश्चकारार्थे प्रयुक्त इत्यवधेयम् । तथा, मन्त्रघटकगोपीभिः सह दाम्पत्यमुक्तं गौतमीयतन्त्रे मन्त्रव्याख्यान एव, यथा—
अनेकजन्मसिद्धानां गोपीनां पतिरेव वा ।
नन्दनन्दन इत्युक्तस्त्रैलोक्यानन्दवर्धनः ॥ इति ।
पूर्वं व्रजयुवतीदयितत्वमुक्त्वा पुनः पतित्वाभिधानं परकीयात्वव्यावर्तनाय स्वशब्देन दाम्पत्याभिधानायैव चेत्यपि बोध्यम् । गोपीजनवल्लभशब्दस्य स्फुटतया सर्वार्थमाह पद्मपुराणे वृन्दावनमाहात्म्ये—
बहिरङ्गैः प्रपञ्चस्य स्वांशैर्मायादिशक्तिभिः ।
अन्तरङ्गैस्तथा नित्यविभूतैस्तैश्चिदादिभिः ॥
गोपनादुच्यते गोपी राधिका कृष्णवल्लभा ।
देवी कृष्णमयी प्रोक्ता राधिका परदेवता ॥
सर्वलक्ष्मीस्वरूपा सा कृष्णाह्लादस्वरूपिणी ।
ततः सा प्रोच्यते विप्र ह्लादिनीति मनीषिभिः ॥
तत्कलाकोटिकोट्यंशदुर्गाद्यास्त्रिगुणात्मिकाः ।
सा तु साक्षान्महालक्ष्मीः कृष्णो नारायणः प्रभुः ॥ [प.पु. ५.८१.५१४]
अनन्तरं राधाकृष्णयोः सर्वात्मकत्वं निरूप्य,
सैषा हि राधिका गोपीजनस्तस्याः सखीगणः ।
तस्याः सखीसमूहस्य वल्लभौ प्राणनायकौ ॥ [प.पु. ५.८१.६१]
राधाकृष्णौ इत्यादिना चेति । कामबीजव्याख्यायां तु तयोः साहित्यं पूर्वमेव—
ककारः पुरुषः कृष्णः सच्चिदानन्दविग्रहः ।
ईकारः प्रकृती राधा नित्यवृन्दावनेश्वरी ॥
इत्यादिबृहद्गौतमीयतन्त्रादिवाक्येनोक्तमिति ध्येयम् ।
एवं च ध्यायति रसयति भजति इत्युक्त तापिनीवाक्ये आस्वादनार्थकचोरादिकरसधातुरेव प्रकाशः इत्येव निश्चयः प्रतिभाति । तथा सति सुष्ठुतया रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति [तै.उ. २.७] इत्यादिश्रुत्युक्तलक्षणव्याख्यातकामबीजार्थः सङ्गतो भवति । अथ कामबीजस्य शरीरं श्रीविग्रहात्मकमित्यादिसनत्कुमारसंहिताद्युक्तवाक्यैः—भावविशेषेण कामबीजद्वारा साक्षान्मन्मथमन्थमथात्मकसर्वातिशायिनिरवच्छिन्नप्रेमानन्दरसघनश्रीपुरुषोत्तमस्वरूपगुणादिरसास्वादनार्थप्रवर्तनस्यैव तात्पर्येणानुविधानावगमात। मन्त्रार्थस्वरूपध्यानादिवाक्यैरपि तथैवावगमाच्च ।
किं च, यो ध्यायति रसयति भजति इति वाक्ये कर्माकाङ्क्षायां सन्निधिपठितं परं ब्रह्मैव ततित्येव वाक्यं कृष्णाख्यपरब्रह्म स्वरूपात्मककर्मसमर्पकतयान्वीयते । तदैव कृष्णाख्यं परं ब्रह्म यो ध्यायति इत्यर्थः सङ्गच्छते । एवं च रसनस्य शब्दार्थकधातुनिष्पन्नत्वे यः कृष्णाख्यं परं ब्रह्म रसति शब्दति, इत्यन्वयार्थः स्यात्, स च न समीचीनः प्रतिभाति । तस्मात्चोरादिकणिजन्तास्वादार्थकरसधातुनिष्पण्ण एव ।
तस्य पुना रसनमित्यत्र रसशब्दः । यो ध्यायति इयनन्तरमपि रसयति, इत्येव पाठः समीचीनः । तं ध्यायेत्रसयेत्[गो.ता. २.४८] इत्याद्युपसंहारे सर्वपुस्तकेषु णिजन्त एव रसधातुप्रयोगे उपलभ्यते इत्युक्तमिति सङ्क्षेपः ॥
इति मैथिलझोपाख्यभगीरथशर्मसङ्कलिते
गोपालतापिन्युपनिषद्भाष्ये पूर्वतापिनीविभागे
प्रथमोपनिषद्सम्पूर्णतामगात॥
—ओ)०(ओ—
अथ द्वितीयोपनिषत्प्रारभ्यते
(१.२.१)
पूर्वोपनिषदि निरूपितमर्थमुपपत्त्या पुनर्ग्राहयितुं प्रक्रमते—
तदेष श्लोकः—
क्लीमित्येतदादावादाय कृष्णाय
गोविन्दाय गोपीजनवल्लभायेति ।
बृहद्भानव्या सकृद् उच्चरेद्योऽसौ
गतिस्तस्यास्ति मङ्क्षु नान्या गतिः स्यात॥१३॥ इति ।
तदेषः—यस्मात्पञ्चाङ्गं पञ्चपदं जपन्पञ्चाङ्गं ब्रह्म सम्पद्यत एव, न तत्र साधनान्तरव्यवधानम्, न वा गत्यन्तरं, तस्मात्तदर्थग्राहक एष श्लोकः ऋग्रूपः वेदेषु पठ्यत इति ।
किं पठ्यते ? इत्याह—क्लीमित्येतदादाय इति । बृहद्भानव्या इति बृहद्भानुरग्निः, तत्पत्नी बृहद्भानवी स्वाहा, तया सह कृष्णायेत्यादिपदपञ्चात्मकं क्लीमित्येतदादावादाय ।
सकृदप्युच्चरेत्, एकवारमप्युच्चरेत्निरूपितश्रीकृष्णाख्यपरब्रह्मसम्प्रदानकस्वात्मात्मीयसर्वसमर्पणरूपतदर्थानुसन्धानपूर्वकं गुरूपसत्तिपूर्वकं च य एतत्परब्रह्मसम्बन्धप्रकाशकं मन्त्रमुच्चरेत्, तस्य श्रीपुरुषोत्तमाख्ये परे ब्रह्मणि सर्वसमर्पितस्य मङ्क्षु अतिशीघ्रमेव असौ गतिः, ब्रह्म सम्पद्यते [गो.ता. १.१२] इति पूर्वोक्तलक्षणा क्लीं कृष्णायेत्यादिपञ्चावयवमहामन्त्रप्रतिपाद्यनिरतिशयप्रेमानन्दरसमयश्रीपुरुषोत्तमप्राप्तिस्वरूपा गतिः, प्राप्तिरित्यनर्थान्तरम्, अस्ति मन्त्रद्वारा भगवत्सम्प्रदानकस्वात्मात्मीयसर्वसमर्पणसमय एव निश्चितं प्राप्तास्तीति भावः । प्राप्तेरवश्यंभावबोधनाय अस्तीति वर्तमानप्रयोगः, अतिशीघ्रत्वबोधनाय मङ्क्षु इति शब्दप्रयोगः । नान्या गतिः स्यादिति ताड्र्शब्रह्मसम्पत्तिलक्षणगतेरन्या भिन्ना गतिः न स्यादित्यर्थः ।
अत्र,
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता १८.६६]
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ [गीता १८.६५] इति गीतावाक्यम् ।
वाल्मिकीये विभीषणशरणागतौ—
सकृदेव प्रपन्नो यस्तवास्मीति च याचते ।
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥
इति श्रीरामवाक्यम् । पद्मपुराणे वृन्दावनमाहात्म्ये नित्यलीलारहस्याख्याने श्रीमहादेवं प्रति—
सकृदावां प्रपन्नो यस्त्यक्तोपाय उपासते ।
गोपीभावेन देवेश स मामेति न चेतरः ॥
सकृदावां प्रपन्नो वा मत्प्रियामेकिकामुत ।
सेवतेऽनन्यभावेन स मामेति न संशयः ॥
यो मामेव प्रपन्नश्च मत्प्रियां न महेश्वर ।
न कदापि स चाप्नोति मामेवं ते मयोदितम् ॥
सकृदावां प्रपन्नो यस्तवास्मीति वदेदपि ।
साधनेन विनाप्येव मामाप्नोति न संशयः ॥ [प.पु. ५.८२.८२८५] इत्यादि ।
तदुपबृंहकाणि श्रीमुखवाक्यान्यनुसन्धेयानि । अत्र,
यो मामेव प्रपन्नश्च मत्प्रियां न महेश्वर ।
न कदापि स चाप्नोति मामेवं ते मयोदितम् ॥
इत्यस्य परमाह्लादिनीशक्तेः परमश्रियाः राधायाः समुपसत्तिमन्तरा तद्भावाभावात्तद्भावाभावे तादृशरसरूपपुरुषोत्तमरसानुशीलनासम्भवात्तस्या उपसत्तिः परमावश्यकीति भावार्थः । अत एव मामेवमिति तात्पर्यविशेषाभिव्यञ्जकम् । अस्मच्छब्देन सहैवम्पदं विशेषितमिति बोध्यम् ।
प्रकृतपञ्चपदीमन्त्रमाराध्य श्रीपुरुषोत्तमस्वरूपध्यानं तु यद्यपि पूर्वं स्वस्वरूपनिरूपणप्रस्तावान्तर्भूतमेव, तथापि सङ्क्षेपेण बुद्धौ समारोहाय समानप्रकरणीयपाद्मवृन्दावनमाहात्म्योपान्त्याध्यायादिहोद्ध्रियते—
शिव उवाच—
अथ ध्यानं प्रवक्ष्यामि मन्त्रस्यास्य द्विजोत्तम ।
पीताम्बरं घनश्यामं द्विभुजं वनमालिनम् ॥३५॥
बर्हिबर्हकृतोत्तंसं शशिकोटिनिभाननम् ।
घूर्णायमाननयनं कर्णिकारावतंसिनम् ॥३६॥
अभितश्चन्दनेनाथ मध्ये कुङ्कुमबिन्दुना ।
रचितं तिलकं भाले बिभ्रतं मण्डलाकृतिम् ॥३७॥
तरुणादित्यसंकाशं कुण्डलाभ्यां विराजितम् ।
घर्माम्बुकणिकाराजद्दर्पणाभकपोलकम् ॥३८॥
प्रियास्यन्यस्तनयनं लीलापाङ्गोन्नतभ्रुवम् ।
अग्रभागन्यस्तमुक्ताविस्फुरत्प्रोच्चनासिकम् ॥३९॥
दशनज्योत्स्नया राजत्पक्वबिम्बफलाधरम् ।
केयूराङ्गदसद्रत्नमुद्रिकाभिर्लसत्करम् ॥४०॥
बिभ्रतं मुरलीं वामे पाणौ पद्मं तथैव च ।
काञ्चीदामस्फुरन्मध्यं नूपुराभ्यां लसत्पदम् ॥४१॥
रतिकेलिरसावेशचपलं चपलेक्षणम् ।
हसन्तं प्रियया सार्धं हासयन्तं च तां मुहुः ॥४२॥
इत्थं कल्पतरोर्मूले रत्नसिंहासनोपरि ।
वृन्दारण्ये स्मरेत्कृष्णं संस्थितं प्रियया सह ॥४३॥
वामपार्श्वे स्थितां तस्य राधिकां च स्मरेत्ततः ।
नीलचोलकसंवीतां तप्तहेमसमप्रभाम् ॥४४॥
पट्टाञ्चलेनावृतार्धसुस्मेराननपङ्कजाम् ।
कान्तवक्त्रे न्यस्तनेत्रां चकोरीचञ्चलेक्षणाम् ॥४५॥
अङ्गुष्ठतर्जनीभ्यां च निजकान्तमुखाम्बुजे ।
अर्पयन्तीं पूगफलं पर्णचूर्णसमन्वितम् ॥४६॥
मुक्ताहारस्फुरच्चारुपीनोन्नतपयोधराम् ।
क्षीणमध्यां पृथुश्रोणीं किङ्किणीजालमण्डिताम् ॥४७॥
रत्नताटङ्ककेयूरमुद्रावलयधारिणीम् ।
रणत्कटकमञ्जीररत्नपादाङ्गुलीयकाम् ॥४८॥
लावण्यसारमुग्धाङ्गीं सर्वावयवसुन्दरीम् ।
आनन्दरससंमग्नां प्रसन्नां नवयौवनाम् ॥४९॥
सख्यश्च तस्या विप्रेन्द्र तत्समानवयोगुणाः ।
तत्सेवनपरा भाव्याश्चामरव्यजनादिभिः ॥५०॥ [प.पु. ५.८१.३४५०] इति ।
सपरिकरस्य साक्षान्मन्मथमन्मथस्य परमपुरुषस्य नन्दनन्दनस्य भावनायां प्रकारविशेषोऽपि स्वरूपनिरूपणप्रस्ताव एव पद्मपुराणीयवाक्येन पुरुषार्थबोधिनीवाक्येन च दर्शितमेवेति ध्येयम् । इदमेव च परमपुरुषस्य युगलरूपं बृहदारण्यके प्रथमाध्याये—
आत्मैवेदमग्र आसीत्पुरुषविधः । सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यतित्युपक्रम्य स वै नैव रेमे । तस्मादेकाकी न रमते । स द्वितीयमैच्छत्स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ । स इममेवाऽऽत्मानं द्वेधाऽअपातयत। ततः पतिश्च पत्नी चाभवतां [बृ.आ.उ. १.४.१३] इत्यादिना,
चतुर्थाध्याये च, द्वितीयब्राह्मणे—
इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्ध सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः ॥ अथैतद्वामेऽक्षणि पुरुषरूपमेषाऽस्य पत्नी विराट्तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशः ॥ [बृ.आ.उ. ४.२.२३] इत्यादिना,
शतपथब्राह्मणेऽग्निरहस्यकाण्डे पञ्चमाध्याये द्वितीयब्राह्मणे—
एष हिरण्मयः पुरुषोऽयमेव । योऽयं दक्षिणेऽक्षन्पुरुषः, तस्यैतन्मिथुनम् । योऽयं सव्येऽक्षन्पुरुषोऽर्धम्, अथैतदात्मनो यन्मिथुनं यदा वै सह मिथुनेनाथ सर्वः स एष एवेन्द्रः । योऽयं दक्षिणेऽक्षन्पुरुषोऽथेयमिन्द्राणी । तौ हृदयाकाशं प्रत्यवेत्य मिथुनीभवतः ॥ इत्यादिना,
एकात्मभूतयुगलरूपतया पारमैश्वर्यवत्तया इन्द्रशब्देनेन्द्राणीशब्देन च निरूप्यते । तथा च तयोरेकात्मत्वादेवान्योन्यरमणेऽपि नात्मारामत्वव्याघातादि, इत्यपि बोध्यम् । तदेतत्सर्वं विस्तृतं विवेचितं मया भगवत्तत्त्वसुधानिधावुपोद्घातरङ्गे बृहदारण्यकविभागे चेति ।
इदमेव स साक्षान्मन्मथमन्मथस्वरूपं श्रीपुरुषोत्तमयुगलं प्राकृतबुद्ध्यतीतं निखिलोपनिषन्निगूढज्ञानगोचरं विशेषतः, रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्[तै.उ. २.५.१] इति तैत्तरीयरसश्रुतिगोचरम् । छान्दोग्ये च, यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमित्युपक्रम्य, यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा [छा.उ. ७.२२.१२] इत्यादिना प्रेमरसधर्मपरमाकर्षकनिरतिशयानन्दरूपतया, भूमविद्यायां नारदं प्रति भगवता सनत्कुमारेणोपदिष्टं वस्तु, यत्तादृशरसाभिव्यञ्जकनिरूपितकामबीजेनोपास्यते ।
तदुपासनस्य परमफलमपि तत्रैव भूमविद्यायामुच्यते—तात्पर्यविशेषयुक्तशब्दव्यूहेन एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः, स स्वराड्भवति [छा.उ. ७.२५.२] इत्यादिना, तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखतां सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः शतं च दश चैकश्च सहस्राणि च विंशतिः [छा.उ. ७.२६.१] इति ।
तैत्तरीयेऽपि सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता [तै.उ. २.१.२] इति, आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः [छा.उ. ७.२५.२] इत्यत्रात्मपदार्थो भूमाख्यः परमात्मा श्रीपुरुषोत्तम एव परमप्रेष्ठः, न तूपासकस्य स्वात्मा तेन मिथुनासम्भवात। स्त्रीपुम्भिर्मिथुनं युगमिति वाक्यात। तथैव, एकधा भवति इत्याद्युत्तरग्रन्थसङ्गतेश्चेति । इति ।
एतयोरपि व्याख्यानविस्तरस्तु मत्कृतभगवत्तत्त्वसुधानिधौ मुक्तिस्वरूपनिरूपणे तैत्तरीयविभागे छान्दोग्यविभागे च द्रष्टव्यम् । एतदेव प्रकृतोपनिषद्यपि ब्रह्म सम्पद्यते [गो.ता. १.१२] इत्यंशेनापि सूत्रितम् ।
ननु व्याख्यातकामबीजपुरस्कृतश्रीपुरुषोत्तमोपासनस्य कामसम्भिन्नप्रेमरूपत्वात्, कथं तेन ब्रह्म सम्पद्यते, योऽसौ तस्यास्ति गतिर्मङ्क्षु नान्या गतिः स्यातिति, इति झटित्योक्तलक्षणब्रह्मभावाप्तिरूपमोक्षसिद्धिः । श्रूयते चोपनिषत्सु—
काममय एवायं पुरुष इति । स यथाकामो भवति तत्क्रतुर्भवति । यत्क्रतुर्भवति तत्कर्म कुरुते । यत्कर्म कुरुते तदभिसम्पद्यते [भा.पु. ४.४.५] ॥
तदेव सक्तः सह कर्मणैति
लिङ्गं मनो यत्र निषक्तमस्य ।
प्राप्यान्तं कर्मणस्तस्य
यत्किं चेह करोत्ययम् ॥
तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति ॥ [भा.पु. ४.४.६] इति ।
सकामस्य संसारप्राप्तिः, निष्कामस्यैव च ब्रह्मभावाप्तिरिति चेत्, न । एतद्वाक्येनापि श्रीपुरुषोत्तमकामस्य पुरुषोत्तमभावप्राप्तिरपि नियम्यत एव । सांसारिकवस्तुकामस्य तदभिनिवेशपरम्परया तदभिसम्पत्तिः परमात्मकामस्य तदभिनिवेशेत तदभिसम्पत्तिः फलं समानन्यायात। अत एवोत्तरवाक्ये अकामनिष्कामत्वादिवतात्मकामः इत्यंशेन परमात्मकामत्वमपि विशेषितम् । उक्तन्यायेन परमात्मकामत्वमन्तरा परमात्माभिसम्पत्तेरभावात्, परमात्मकामत्वे तूक्तन्यायादेवातिशीघ्रं परमात्माभिसम्पत्तेः सम्भवाच्चेति । युक्तं चैतत। ज्ञानेन रागनाशो बहुकालानन्तरम् । उत्कृष्टरागेण रागनाशस्तु झटित्येव । तथा च परमात्मरागेणातिशीघ्रमेव संसाररागनाशः परमात्माभिसम्पत्तिश्चेति । तदुक्तं भागवते दशमे कात्यायनीव्रतचर्यायां व्रजकिशोरीभावप्राप्तानृषीन्तादृशश्रुतीश्च प्रति स्वयं भगवतैव—
न मय्यावेशितधियां कामः कामाय कल्पते ।
भर्जिताः क्वथिता धाना प्रायो बीजाय नेष्यते ॥ [भा.पु. १०.२२.२६] इति ।
रासपञ्चाध्याय्यां ताभिरपि—
सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्बितम् ।
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम् ॥ [भा.पु. १०.३१.१४] इति ।
तथा च सर्वापेक्षया रागद्वारा परमपुरुषप्राप्तेरतिशीघ्रभावित्वबोधनायैव प्रकृते कामादि कृष्णाय इति वाक्येऽतिशीघ्रार्थकं मङ्क्षुपदं विशेषितमिति ।
छान्दोग्ये वाजसेनयके च शाण्डिल्यविद्याश्रुतिभिरप्येवमेव समर्थितं भवतीत्यवधेयं सङ्क्षेपेणेति । प्रकृतमन्त्राराधनरहस्यविशेषस्तु गुरुमुखादेव ज्ञातव्यः—
श्रुतं ह्येव मे भगवद्दृशेभ्य आचार्याद्ध्येव विद्या विदिता साधिष्ठं प्रापयतीति तस्मै हैतदेवोवाच [छा.उ. ४.९.३] इति छान्दोग्यश्रुतेः ।
ये किल निर्मलान्तःकरणा जितेन्द्रियास्तादृशभावविशेषेण श्रीपुरुषोत्तमस्वरूपानुरूपानुशीलनेऽधिकारयुक्तास्तेषां निष्ठामाह पद्मपुराणे वृन्दावनमाहात्म्ये भगवन्तं नारदं प्रति भगवान्महादेवः—
दास्यः सखायः पितरौ प्रेयस्यश्च हरेरिह ।
सर्वे नित्या मुनिश्रेष्ठ वसन्ति गुणशालिनः ॥३॥
यथा प्रकटलीलायां पुराणेषु प्रकीर्तिताः ।
तथा ते नित्यलीलायां सन्ति वृन्दावने भुवि ॥४॥
गमनागमने नित्यं करोति वनगोष्ठयोः ।
गोचारणं वयस्यैश्च विनासुरविघातनम् ॥५॥
परकीयाभिमानिन्यस्तथा तस्य प्रियाजनाः ।
प्रच्छन्नेनैव भावेन रमयन्ति निजप्रियम् ॥६॥
आत्मानं चिन्तयेत्तत्र तासां मध्ये मनोरमाम् ।
रूपयौवनसम्पन्नां किशोरीं प्रमदाकृतिम् ॥७॥
नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् ।
प्रार्थितामपि कृष्णेन तत्र भोगपराङ्मुखीम् ॥८॥
राधिकानुचरीं तत्र तत्सेवनपरायणाम् ।
कृष्णादप्यधिकं प्रेम राधिकायां प्रकुर्वतीम् ॥९॥
प्रीत्यानुदिवसं यत्नात्तयोः सङ्गमकारिणीम् ।
तत्सेवनसुखाह्लादभावेनाति सुनिर्वृताम् ॥१०॥
इत्यात्मानं विचिन्त्यैव तत्र सेवां समाचरेत।
ब्राह्मं मुहूर्तमारभ्य यावत्स्यात्तु महानिशा ॥ [वृ.मा. १२.३११] इति ।
एवं नारदीयपुराणेऽपि पूर्वखण्डे श्रीयुगलमन्त्रव्याख्यायां सनत्कुमारवाक्येऽन्यत्र च बहुशो द्रष्टव्यम् ।
इदं त्वत्र चिन्तनीयम् । यदि कामबीजमेतादृशसर्वभावगमितं, तर्हि पूर्वोक्तं—क्लीमोंकारस्यैकतत्त्वं वदन्ति ब्रह्मवादिनः [गो.ता.उ. २.५७] तयोरैक्यं कथं सङ्गतं स्यात्, प्रणवस्य तादृशार्थगर्भकत्वाभावात्? इति । अत्रोच्यते प्रणवेऽपि तादृशसर्वार्थोऽत्यन्तनिगूढतया वर्तत एव । अत एव वृद्धहारीतस्मृतौ दशमाध्याये भगवान्हारीत आह—
ओंकारः स्यात्परं ब्रह्म सर्वमन्त्रेषु नायकः ।
त्र्यक्षरं तत्त्रयाणां च वेदानां स्थानमुच्यते ॥
अजायन्त ऋचः पूर्वमकाराद्विष्णुवाचकात।
श्रीवाचकादुकारात्तु यजूंषि तदनन्तरम् ।
अजायन्त तयोः सङ्गात्सामान्यन्यान्यनेकशः ॥ इति ।
अकारस्य पुरुषोत्तमवाचकत्वमुकारस्य श्रीवाचकत्वं, मकारस्य सामजनकस्य तात्पर्येण श्रीपुरुषोत्तमयोः प्रेमसङ्गमप्रकाशकत्वमिति । एतदेव कामबीजेऽपि—ककारः पुरुषः कृष्णः इत्यादिना पूर्वमुक्तम् । परमश्रीरेव राधा परमविष्णुरेव कृष्णः इत्यप्युक्तमिति ध्येयम् ।
अथ तादृशभावनं कर्तव्यमाह भगवान्सदाशिवः पद्मपुराणे वृन्दावनमाहात्म्ये—
अथ तुभ्यं प्रपन्नानां धर्मान्वक्ष्यामि नारद ।
यानास्थाय गमिष्यन्ति हरिधाम नराः कलौ ॥२२॥
इत्थं गुरोर्लब्धमन्त्रो गुरुभक्तिपरायणः ।
सेवमानो गुरुं नित्यं तत्कृपां भावयेत्सुधीः ॥२३॥
सतां धर्मांस्ततः शिक्षेत्प्रपन्नानां विशेषतः ।
स्वेष्टदेवधिया नित्यं वैष्णवान्परितोषयेत॥२४॥
ताडनं भर्त्सनं कामिभोग्यत्वेन यथा स्त्रियः ।
गृह्णन्ति वैष्णवानां च तत्तद्ग्राह्यं तथा बुधैः ॥२५॥
ऐहिक्यामुष्मिकीचिन्ता नैव कार्या कदाचन ।
ऐहिकं तु सदा भाव्यं पूर्वाचरितकर्मणा ॥२६॥
आमुष्मिकं तथा कृष्णः स्वयमेव करिष्यति ।
अतो हि तत्कृते त्याज्यः प्रयत्नः सर्वथा नरैः ॥२७॥
सर्वोपायपरित्यागः कृष्णीयात्मतयार्चनम् ।
सुचिरं प्रोषिते कान्ते यथा पतिपरायणा ॥२८॥
प्रियानुरागिणी दीना तस्य सङ्गैककाङ्क्षिणी ।
तद्गुणान्भावयेन्नित्यं गायत्यपि शृणोति च ॥२९॥
श्रीकृष्णगुणलीलादिस्मरणादि तथा चरेत।
न पुनः साधनत्वेन कार्यं तत्तु कदाचन ॥३०॥
चिरं प्रोष्यागतं कान्तं प्राप्य कान्तधिया यथा ।
चुम्बन्तीवाश्लिष्यन्तीव नेत्रान्तेन पिबन्त्यपि ॥३१॥
ब्रह्मानन्दगते वाशु सेवते परया मुदा ।
श्रीमदर्चावतारेण तथा परिचरेद्धरिम् ॥३२॥
अनन्यशरणो नित्यं तथैवानन्यसाधनः ।
अनन्यसाधनार्थत्वात्स्यादनन्यप्रयोजनः ॥३३॥
नान्यं च चिन्तयेद् देवं न नमेत्तं स्मरेन्न च ।
न च पश्येन्न गायेच्च न च निन्देत्कदाचन ॥३४॥
नान्योच्छिष्टं च भुञ्जीत नान्यशेषं च धारयेत।
अवैष्णवानां सम्भाषावन्दनादि विवर्जयेत॥३५॥
ईशवैष्णवयोर्निन्दां शृणुयान्न कदाचन ।
कर्णौ पिधाय गन्तव्यं शक्तौ दण्डं समाचरेत॥३६॥
आश्रित्य चातकीं वृत्तिं देहपातावधि द्विज ।
द्वयस्यार्थं भावयित्वा स्थेयमित्येव मे मतिः ॥३७॥
सरःसमुद्रनद्यादीन्विहाय चातको यथा ।
तृषितो म्रियते वापि याचते वा पयोधरम् ॥३८॥
एवमेव प्रयत्नेन साधनानि विचिन्तयेत।
स्वेष्टदेवः सदा याच्यो गतिस्त्वं मे भवेरिति ॥३९॥
स्वेष्टदेवतदीयानां गुरोरपि विशेषतः ।
आनुकूल्ये सदा स्थेयं प्रातिकूल्यं विवर्जयेत॥४०॥
सकृत्प्रपन्नो वक्ष्यामि कल्याणगुणतान्तयोः ।
विचिन्त्य विश्वसेदेतौ मामिमावुद्धरिष्यतः ॥४१॥
संसारसागरान्नाथ मित्रपुत्रगृहाकुलात।
गोप्तारौ मे युवामेव प्रपन्नभयभञ्जनौ ॥४२॥
योऽहं ममास्ति यत्किञ्चिदिहलोके परत्र च ।
तत्सर्वं भवतोरद्य चरणेषु समर्चितम् ॥४३॥
अहमस्म्यपराधानामालयस्त्यक्तसाधनः ।
अगतिश्च ततो नाथौ भवन्तावेव मे गतिः ॥४४॥
तवास्मि राधिकाकान्त कर्मणा मनसा गिरा ।
कृष्णकान्ते तवैवास्मि युवामेव गतिर्मम ॥४५॥
शरणं वां प्रपन्नोऽस्मि करुणानिकराकरौ ।
प्रसादं कुरुतं दास्यं मयि दुष्टेऽपराधिनि ॥४६॥
इत्येवं जपता नित्यं स्थातव्यं पद्यपञ्चकम् ।
अचिरादेव तद्दास्यमिच्छता मुनिसत्तम ॥४७॥
बाह्यधर्मामया ह्येते सङ्क्षेपेणोपवर्णिताः ।
आन्तरः परमो धर्मः प्रपन्नानामथोच्यते ॥४८॥
कृष्णप्रियासखीभावं समाश्रित्य प्रयत्नतः ।
तयोः सेवां प्रकुर्वीत दिवा नक्तमतन्द्रितः ॥४९॥
उक्तो मन्त्रस्तदङ्गानि तथा तस्याधिकारिणः ।
तद्धर्माश्च तथा तेभ्यः फलं मन्त्रस्य नारद ॥५०॥
अनुतिष्ठ त्वमप्येतत्तयोर्दास्यमवाप्स्यसि ।
स्वाधिकारक्षये विप्र सन्देहो नात्र कश्चन ॥५१॥
सकृन्मात्रप्रपन्नाय तवास्मीति च याचते ।
निजदास्यं हरिर्दद्यान्न मेऽत्रास्ति विचारणा ॥ [प.पु. ५.८२.२२५२] इति ।
अत्र नान्यं च चिन्तयेद्देवं (३४) इत्यादि, नान्यशेषं च धारयेत्(३५) इत्यन्तं वाक्यं स्वातन्त्र्येण फलविशेषकामनया च देवान्तराराधननिषेधपरम् । तेन वर्णाश्रमधर्ममध्यपाति नित्ये नैमित्तिके च कर्मणि तदङ्गभूता देवाः पितरश्च भगवद्विभूतिरूपतया पूजनीया एव, अन्यथा नित्यकर्मविलापापत्तेः । तथा च,
नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ [गीता १८.७]
इति गीतोक्तभगवदाज्ञाभङ्गापत्तेः । एवं च यथा सीतारुक्मिण्यादिसदृशपतिव्रतापि देवरादीनपि पतिपरिवारतया यथोचितसत्कारेण सम्भावयन्ति, तथा भाव्यं श्रेयोऽर्थिभिरिति सर्वं समञ्जसम् । श्रीराधाकृष्णार्पणमस्तु ॥
इदं त्विहावधेयम्—अत्र कामबीजव्याख्याप्रसङ्गेन श्रीपुरुषोत्तमस्य शृङ्गारोपासनरहस्यं सङ्क्षेपतो मया लिखितम् । तदेतस्य प्रकृतप्रकरणविशेषेष्वन्तरङ्गतमविषयत्वेनात्रोपनिबन्धनमन्तरा प्रकृतप्रकरणस्य यथावदुपपादनाभावात्तादृशभावस्य शास्त्रीयत्वोपपादनस्यावश्यकत्वाच्च बोध्यम् । यथा राजसूयाश्वमेधादीनामिदानीं तादृशतादृशाधिकारियजमानाभावेऽपि तत्तत्कल्पव्याख्यायां तस्य तस्य यज्ञस्याङ्गचिन्तनमिदानीमपि विद्वद्भिः क्रियते इति । निगूढतमोऽयं भावः—इदानीन्तनैः प्राकृतैर्जनैः सर्वथाशक्यानुष्ठेय एवेति जानीमः । दृश्यन्ते चेदानीं रसिकभक्तंमन्याः सर्वमार्गभ्रष्टा भक्तिं कलङ्कयन्तो बहवो जनाः, इति पुरुषविशेषैः स्त्रीविशेषैरेव चायं गम्यः । तस्मादिदमुपासनं न कदाचिदप्यन्धपरम्परयानुकरणीयं प्रचारयितव्यं चेति शान्तदास्यवात्सल्यादिकं सर्वजनाधिकारमिति तदाश्रित्यैव भगवान्भजनीयः । मन्त्रस्त्वयं सर्वभावसमनुगत इति तत्कल्पग्रन्थान्निश्चितमेवेति ध्येयम् ॥१३॥
—ओ)०(ओ—
(१.२.२)
व्याख्यातं ध्यानं रसनं च । अथातः परं यो ध्यायति रसयति भजति इत्यत्रैव सूत्रितं भक्तेः स्वरूपं व्याख्यायते, यया विना ध्यानस्य रसनस्य च न विवक्षितस्वरूपनिर्वाहः, यया विना भगवान्श्रीपुरुषोत्तमो न कदाचिदपि वशीक्रियते । यस्याः परमस्वरूपलाभे झटित्येव भगवान्प्रकटीक्रियते इति । अत्रार्थे श्रुतयः शाखान्तरेऽपि भवन्ति—तस्मादात्मानमेव प्रियमुपासीत [बृ.आ.उ. १.४.८] इति । यतः परमात्मैव तत्त्वतो निरतिशयप्रेमास्पदः, तस्मात्तं प्रियं प्रियत्वगुणविशिष्टतया परमप्रेम्णा समुपासीत इति तदर्थः ।
अन्यच्च—
धनुर्गृहीत्वौपनिषदं महास्त्रं
शरं ह्युपासा निशितं सन्धयीत ।
आयम्य तद्भावगतेन चेतसा
लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ [मु.उ. २.२.३]
भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् ।
कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ [श्वे.उ. ५.१४]
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ [श्वे.उ. ६.२३]
हृत्पुण्डरीकमध्ये तु भावयेत्परमेश्वरम् ।
साक्षिणां बुद्धिवृत्तीनां परमप्रेमगोचरम् ॥
अगोचरं मनोवाचामवधूतादिसम्प्लवम् ।
सत्तामात्रप्रकाशैकप्रकाशं भावनातिगम् ॥ [मैत्री.उ. १.४.८]
इत्याद्युपनिषद्वाक्येषु भावभक्तिपरमप्रेमशब्दगोचराया यस्या भगवत्साक्षात्कारे परमावश्यकहेतुभावो बोध्यते । तस्या प्रकृतार्थे समन्वयमाह भगवती श्रुतिः—
भक्तिरस्य भजनम् । तदिहामुत्रोपाधिनैरास्येनामुष्मिन्
मनःकल्पनम् । एतदेव च नैष्कर्म्यम् ॥१४॥
अस्य “कः परमो देवः?” इत्यादिना मीमांसितस्य कृष्णाख्यस्य परब्रह्मणो भजनम् । भजनमेव भजतीत्यत्र भक्तिपदार्थः । भजनशब्दस्य भक्तिपर्यायमात्रत्वान्न पर्यायान्तरमात्रकथनेन भक्तेः परिचय इति तस्य कार्यलक्षणमाह—तदिहामुत्रोपाधिनैराश्येनामुष्मिन्मनःकल्पनमिति । तद्भजनमिहामुत्रोपाधिनैराश्येन उक्तलक्षणश्रीपुरुषोत्तमस्वरूपलाभातिरिक्ताया ऐहिकामुष्मिकफलकामनायाः सर्वथा परित्यागेन अमुष्मिन्निरूपितलक्षणे श्रीपुरुषोत्तमे मनःकल्पनं, मनो योगादिसाधनमन्तरैवानायासेनैव स्थिरीक्रियते, येन तन्निरतिशयप्रेमानन्दघनपरमात्मस्वरूपश्रीकृष्णाख्यपरब्रह्मविषयकं भावविशेषात्मकं परप्रेमाख्यं वस्तु भक्तिपदार्थः । इति वाक्यार्थः ।
अथ पदार्थः मनःकल्पनमित्यत्र षष्ठीसमासः । कल्पनमित्येव कल्प्यते अनेनेति करणे ल्युट। तथा च, मनःकल्पनमित्यस्य मनः कल्प्यते स्थिरीक्रियते येनेत्यर्थः । कुत्र स्थिरीक्रियते ? इत्याकाङ्क्षायां निरुक्तादःशब्दार्थस्य श्रीकृष्णस्याधिकरणतया अन्वयः ।
एवं च, निरुक्ते कृष्णाख्ये परे ब्रह्मणि यन्मनसः स्थितिः, तत्साधनमिति । अमुष्मिन्मनःकल्पनमित्यस्यार्थः । तत्रेहामुत्रोपाधिनैराश्येनेत्यस्य निरुक्तलक्षणैहिकामुष्मिकानां स्वातिरिक्तानां साधनफलात्मकानामुपाधीनामत्यन्ताभावरूपस्य नैराश्यस्य सामानाधिकरण्येनान्वयः । तथा ऐहिकामुष्मिकानां स्वातिरिक्तानां साधनफलस्वरूपाणामत एवोपाधिभूतानामत्यन्ताभावेन सहैव भगवति स्थितिकारणं यत्तत्भक्तिशब्दवाच्यमिति फलति । तादृशं च स्वतः फलरूपं भगवत्स्वरूपत्वाभावे निरुक्तलक्षणं किञ्चिदप्युपाधिमन्तरा तेन मनसोऽव्युच्छिन्नस्थितेरनुपपत्तेः । तस्य भगवत्स्वरूपातिरिक्तेऽपि मनसः प्रवृत्त्यापत्तेः । स्वप्रकाशत्वाभावे तस्य स्वतः फलत्वानुपपत्तेः । अत एव सच्चिदानन्दिकरसे भक्तियोगे तिष्ठति [गो.ता.उ. २.] इत्यत्र भक्तेः सच्चिदानन्दरूपत्वमुत्तरतापिन्यां वक्ष्यते । तथा च स्वतः फलरूपः स्वयंप्रकाशानन्दरूपो भगवत्स्वरूपात्मक्धर्मविशेष एव भक्तिः । स च धर्मो भगवन्निष्ठतया निसर्गसिद्धं निरतिशयं प्रियत्वमेव । स्वस्मिन्निरतिशयप्रियत्वस्यैव सर्वोपाधिविनिर्मोकेन स्वस्मिन्मनसा निरतिशयस्थिरीभावहेतुत्वात।
ननु जीवानां निसर्गप्रियत्वं जीवे एव, न तु भगवति आत्मन एव निसर्गप्रियत्वातिति चेन्न । ब्रह्मण्यात्मनि वा प्रियत्वानुभवो नात्मत्वकृतोऽपि त्वानन्दानुभवकृत एव । अत एव निरानन्दे जीवने देहोच्छेदे देहात्मवादिनामपि प्रवृत्तिः । तस्मात्प्रियत्वानुभव आनन्दकृत एव । आनन्दस्य च पुराकाष्ठा भगवत्येव । तैत्तरीये,
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन ॥ [तै.उ. २.३.१]
इत्यनेनानन्दस्य तत्रैव परमा काष्ठेति निर्धारात। एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति [बृ.आ.उ. ४.३.३२] इति श्रुतेस्तदानन्दस्यैव सर्वानन्दमूलत्वावधारणाच्च । प्रियत्वानुभवस्यात्मत्वकृतत्वेऽपि न क्षतिः, तस्यैव सर्वेषामात्मनामप्यात्मत्वात। तस्माद्भगवत्येव परमप्रियत्वनिर्धारः । तदुक्तं श्रुतिस्मृतिभ्यां—तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्माच्च सर्वस्मादनन्तरं यदात्मा [बृ.आ.उ. १.४.८] इति,
अहमात्मात्मनां धातः प्रेष्ठश्च प्रेयसामपि ।
अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रियः ॥ [भा.पु. ३.९.४२] इति ।
एवमेव च निर्धारितं भागवते दशमे—
ब्रह्मन्परोद्भवे कृष्णे इयान्प्रेमा कथं भवेत।
योऽभूतपूर्वस्तोकेषु स्वोद्भवेष्वपि कथ्यताम् ॥ [भा.पु. १०.१४.४९]
इति राजप्रश्नानन्तरं श्रीशुकः—
सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः ।
इतरेऽपत्यवित्ताद्यास्तद्वल्लभतयैव हि ॥ [भा.पु. १०.१४.५०] इत्यादिना,
कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् ।
जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥
वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च ।
भगवद्रूपमखिलं नान्यद्वस्त्विह किञ्चन ॥
सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः ।
तस्यापि भगवान्कृष्णः किमतद्वस्तु रूप्यताम् ॥ [१०.१४.५५५७] इत्यन्तेन ।
तस्मात्प्रियत्वं निरतिशयानन्दरूपस्य सच्चिदानन्दभूतस्य श्रीकृष्णस्यैवासाधारणो धर्मो नान्यस्य इति । स एव धर्मो भक्तिशब्देनोच्यते, प्रियत्वमेव प्रेमा प्रियशब्दाद्भावे त्वप्रत्यये । प्रियत्वस्य तस्मिन्नेव निच्प्रत्यये कृते प्रेमशब्दस्य च निष्पत्तेः प्रेमा ना प्रियता हार्दमिति निर्घण्टुकोक्तेश्च, तयोः समानार्थकत्वात।
अत एव च अथातो भक्तिं व्याख्यास्यामः इत्युपक्रम्य, सा त्वस्मिन्परमप्रेमरूपा [ना.भ.सू. १२] इत्यादिनारदभक्तिसूत्राणि । अथातो भक्तिमीमांसा इत्युपक्रम्य सा परानुरक्तिरीश्वरे [शा.भ.सू. १२] इत्यादिशाण्डिल्यभक्तिसूत्राणि चानुगृहीतानि भवन्ति । भक्तिरूपप्रेम्णः कार्यमुक्त्वा स्वरूपमपि तत्रैव श्रीनारदेन सूत्रितम्—
अनिर्वचनीयं प्रेमस्वरूपम् ॥५१॥ मूकास्वादनवत॥५२॥ प्रकाशयते क्वापि पात्रे ॥५३॥ गुणरहितं कामनारहितं प्रतिक्षणवर्धमानमविच्छिन्नं सूक्ष्मतरमनुभवरूपम् ॥५४॥ तत्प्राप्य तदेवावलोकयति, तदेव शृनोति, तदेव भाषयति, तदेव चिन्तयति ॥५५॥ इत्यादि ।
सा च भगवन्निष्ठप्रियत्वधर्मभूता भक्तिः दैन्यादियुक्ते स्वानन्यशरणे जीवविशेषे करुणयैव भगवता भक्तसङ्गादिप्राणालिकयावतार्यते, यथा दैन्यादियुक्तायां भूमौ ब्रह्मप्रार्थनाप्रणालिकया निजस्वरूपं यदा कदाचिदवतार्यत इति भक्तिर्भक्तमानसीना भवति । सेयं फलरूपा भक्तिः विध्यगोचरा भगवत्कृपैकलभ्या । यदा चेयं प्रस्फुटितनिखिलस्वधर्मा तदा साधनरूपा भवति । श्रद्धादौ तु गौण्येव भक्तिशब्दप्रयोगः । सैवेयं भक्तिः—भावग्राह्यमनीडाढ्यं भावाभावकरं शिवमिति । श्रद्धाभक्तिध्यानयोगादवेहि—यस्य देवे परा भक्तिः [श्वे.उ. ६.२३] इति श्वेताश्वतरादौ, भागवतेन चेतसा [मु.उ. २.२.३] इति मुण्डके च । भावशब्देन भक्तिशब्देन च क्वचित्साधनरूपा क्वचित्फलरूपा च गृह्यते । इयमेव च आत्मानं प्रियमुपासीत [बृ.आ.उ. १.४.८] इति बृहदारण्यके आत्मपदवाच्यस्य प्रकृतस्य परमात्मनो भगवत उपासनायां परिचर्याप्युपासनमिति नैघण्टुकोक्तेः । परिचर्यालक्षणायामन्तरङ्गततमत्वेनोक्ता । तथा च आत्मानं प्रियमुपासीत [बृ.आ.उ. १.४.८] इत्यस्य आत्मानं परं ब्रह्मात्मानं प्रियमिति भावप्रधाननिर्देशः । तृतीयार्थे द्वितीया । तथा च प्रेम्णा स्वाभाविकेन प्रेम्णा भावयीत परिचरीत चेति । तथा च मनःकल्पनमित्यनेन प्रकृते तादृशानुराग एवोच्यते इति स एव भक्तिरिति परमार्थः ॥
एतदेव नैष्कर्म्यमिति मूलम् । निरुक्तभावविशेषरूपमेतादृशभजनमेव नैष्कर्म्यम् । नैष्कर्म्यशब्दो हि मोक्षशास्त्रे अनादिकर्मबन्धनस्य सवासननिमोके प्रयुज्यते । तेन तादृशाभावलाभे एव सवासनादिकर्मपाशात्मुक्तिर्भवति इति सूचितम् । तदुक्तं श्रीनारदेन—
सा त्वस्मिन्परमप्रेमरूपा ॥२॥ अमृतस्वरूपा च ॥३॥ यल्लब्ध्वा पुमान्सिद्धो भवत्यमृतो भवति तृप्तो भवति ॥४॥ यत्प्राप्य न किञ्चिद्वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति ॥५॥ यज्ज्ञात्वा मत्तो भवति स्तब्धो भवत्यात्मारामो भवति ॥६॥ [ना.भ.सू. २६]
इति भक्तिसूत्रेभ्यः । आहारशुद्धौ सत्त्वशुद्धिः, सत्त्वशुद्धौ ध्रुवस्मृतिः, स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः [छा.उ. ७.२६.२] इति भूमविचारशेषे छान्दोग्यश्रुतेश्च । अत्र ध्रुवा स्मृतिः विशुद्धप्रेमलक्षणा परा भक्तिरेव । या तत्रैव यत्र नान्यत्पश्यति इत्यादि भूमलक्षणे निरूप्यते । तदेव सूत्रेष्वपि विवृतमिति । सा निरतिशयप्रकाशानन्दघना भगवदास्मिका भक्तिः भगवत्स्वरूपवत्स्वभावतोऽखण्डाप्यनन्तप्रकाशा भवति । अत एव भक्तभावानुसारेण शान्तदास्यवात्सल्योज्ज्वलादिभेदेनानेकधा भासते । तत्रोज्ज्वलभावे जारभावादिकं तु नाश्रयणीयं तसौपाधिकत्वाच्छुद्धभावापेक्षया नितरां हीनत्वेन शुद्धभावानधिकारिभिरेवाश्रयणीयत्वात। दक्षिणमार्गानधिकारिणां रजस्तमश्चेतसां कृते वाममार्गवत।
जारभावे विशुद्धप्रेणोऽभावस्तु श्रीनारदैरुक्तः । भक्तिसूत्रे विशुद्धप्रेमप्रसङ्गे,
यथा व्रजगोपिकानाम् ॥२१॥ तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः ॥२२॥ तद्विहीनं जाराणामिव ॥२३॥ नास्त्येव तस्मिंस्तत्सुखसुखित्वम् ॥२४॥ इति ।
गोपीप्रेमा तु न जारभावमूलकः, अपि तु भगवद्भावमूलक एव । तच्च रासपञ्चाध्याय्यां ताभिरेव स्फुटीकृतम् । प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा इति एतस्यान्यथा व्याख्यानं, जन्मजन्मतो जारभावभावितान्तःकरणानामेव रोचत इति ध्येयम् ॥२॥
—ओ)०(ओ—
[१.२.३]
अथातीतग्रन्थतात्पर्यानुवादपूर्वकमग्रिमग्रन्थसङ्गतिरुच्यते ।
अथ कृषिर्भूर्वाचकः शब्दः इति मन्त्रेण ब्रह्मपदकृष्णपदयोरेकपर्यायत्वं निर्णीय, द्वितीयेन सच्चिदानन्दरूपाय इत्यनेन मन्त्रेण तस्मिन्सङ्क्षेपतः स्वरूपलक्षणं कार्यलक्षणं च समन्वीय, सर्ववेदवेद्यत्वं सर्वविद्याप्रवर्तकत्वं सर्वसाक्षित्वं च निर्धारितं सूत्ररूपेण ।
अथ तदेव तत्त्वं सोपपत्तिकं द्रढयितुं सर्वोत्कृष्टगुरुशिष्यसंवादरूपेणाविशेषप्रश्नेनेति वचनात्मकेन चतुर्था विभज्य समीक्षितम् । तत्रापि परब्रह्मपदकृष्णपदयोरेकपर्यायत्वमभ्यस्तम् । पुनश्च, तदेव तत्त्वं स्वरूपतः फलतः साधनतश्च निरूपयितुमजिज्ञासितमपि ध्यानादिकं स्वयमेवावतारितं जिज्ञासोत्पादनाय । ततश्च स्वरूपं फलं साधनं च निरूपितानि । तत्र स्वरूपं परब्रह्मणोर्निरतिशयसच्चिदानन्दघनं पुरुषाकारमेव सर्वातिशायिसौन्दर्यमाधुर्योपपन्न्मनन्तकल्याणगुणशक्तिस्वभावं, फलमपि तदेवेति पञ्चाङ्गं ब्रह्म सम्पद्यते ब्रह्म सम्पद्यते [गो.ता. १.१२] इत्यनेनावधारितम् । साधनानि च भगवत्कृपाडवान्तरव्यापारभूतानि ध्यानादीनीति । तान्यपि प्रतिज्ञातपरमदेवत्वपरममुक्तिप्रदत्वनिरूपणौपयिकतया सङ्क्षेपया निरूपितानि ।
अथ निरूपितान्येव तान्युपपत्त्याभ्यासादिभिश्च प्रकारान्तरेण द्रढयितुं प्रक्रमते—
कृष्णं तं विप्रा बहुधा यजन्ति
गोविन्दं सन्तं बहुधाऽऽराधयन्ति ।
गोपीजनवल्लभो भुवनानि दध्रे
स्वाहाश्रितो जगदेजयत् सुरेताः ॥१५॥
तत्र कृष्णं तं विप्राः इत्यारभ्य, भूतिकामैर्यथावत्[गो.ता.उ. १.२६] इत्यन्तेन प्रधानतया परदेवसर्वाराध्यत्वसर्वात्मकत्वानन्तरूपत्वसर्वकामपूरकत्वपरमधामसंस्थत्वपरमधामप्रापकत्वसर्वविद्याप्रवर्तकत्वसर्वात्मबुद्धिप्रकाशकत्वमुमुक्षुशरण्यत्वपरममोक्षरूपपरमफलदप्रदत्वनिजात्मपर्यन्तदर्शकत्वभूतिप्रदत्वादिभिरुपपत्तिभिर्निरुक्तार्थानां पुनः पुनः शब्दतोऽर्थतश्चाभिधानरूपैरभ्यासैश्च परमदेवत्वं परममुक्तिप्रदत्वं सर्वप्रेरकत्वं च प्रधानतया निरूपयति । तेन प्रथमद्वितीयचतुर्थप्रतिज्ञाविषया अर्थान्निरूपिता भवन्ति । गौणरूपेण च, कृष्णं तं विप्रा बहुधा यजन्ति [गो.ता.उ. १.१५], कृष्णस्तथैकोऽपि जगद्धितार्थशब्देनासौ पञ्चपदो विभाति [गो.ता.उ. १.१६], एको वशी सर्वगः कृष्ण ईड्य एकोऽपि सन्बहुधा यो विभाति [गो.ता.उ. १.१९] इत्यादिभिः एकस्यैव कृष्णस्य सर्वात्मकत्वोपपादनेन तदेकविज्ञानेन सर्वविज्ञानप्रतिज्ञामप्यंशत उपपादयति । एतैरेव वाक्यैरवान्तरतात्पर्येण निरूपितभगवत्स्वरूपनिर्णायकाणामुपनिषदन्तरपठितानां शृङ्गग्राहिकया वाक्यानामप्यंशतः समानशब्दयोजनानुसन्धानेन श्रीकृष्ण एव तेषां पर्यवसानम्, स एव तत्तत्प्रकरणपठितपरब्रह्मादिदेवादिशब्दार्थ इत्यपि सूचयति ।
अथ ते पप्रच्छुर्[गो.ता.उ. १.२५] इत्यारभ्य, स वासुदेवो न यतोऽन्यदस्ति [गो.ता.उ. १.३३] इत्यन्तेन मुख्यतो गोपीजनवल्लभविज्ञानेनाखिलविज्ञातं भवति इति तृतीयप्रतिज्ञामाकाशादिनिखिलप्रपञ्चस्य भगवच्छक्तिविक्षेपरूपत्वोपपादनेन तदात्मकत्वमुपपत्त्याभ्यासेन भूतार्थवादेन चोपपाद्य द्रढयति । गौणरूपेण च प्रथमद्वितीयचतुर्थप्रतिज्ञाः साधनानि फलं च निरूपयति ।
न च निरुक्तग्रन्थभागस्य मुख्यतः प्रतिज्ञाचतुष्टयोपपादकत्वे किंबीजम्, तत्तद्वाक्यपर्यालोचनया साधननिरूपणस्यैव मुख्यतया प्रतीतेः । तस्मादेषां वाक्यानां साधननिरूपण एव मुख्यतात्पर्यप्रतिज्ञाचतुष्टयोपपादकत्वं त्वर्थलभ्यमेवेति वाच्यम् । तथा सति, तस्मात्कृष्ण एव परमो देवः [गो.ता.उ. १.५०] इत्युपसंहारस्यासङ्गतत्वापत्तेः ।
उपक्रम्य सोपपन्ननिरूपणानन्तरमेव ह्युपसंहार इति न्यायः, न तूपक्रममात्रानन्तरम् । तथा चोपक्रमोपसंहारयोर्मध्ये पठिता श्रुतय उपपत्त्यादिपरत्वेनापि मुख्यत एव व्याख्येयाः । अत एव तस्मात्कृष्ण एव परमो देवः [गो.ता.उ. १.५०] इत्युपसंहारवाक्ये “परमो देवस्” तत्रेत्यंशेन कृष्णो वै परमदैवतं [गो.ता.उ. १.३] इत्युपक्रमार्थमनुवदति । “तस्माद्” इत्यनेन च प्रतिज्ञानन्तरमुपसंहारपर्यन्तमुपपाद्यमानं प्रकरणतात्पर्यनिर्णायकमुपक्रमोपसंहारातिरिक्तमभ्यासापूर्वताफलोपपत्त्यादिकमाक्षिपति ।
एवं च मध्ये तन्निरूपणाभावे गौणतया निरूपणे वा सर्वमुख्यतया तस्मात्कृष्ण एव परमो देवः [गो.ता.उ. १.५०] इत्युपसंहारनिर्धारो न सम्भवेत। तस्माद्यथा काठके—तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत्[क.उ. १.२.१५],
एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ [क.उ. १.२.१७]
यमेवैष वृणुते तेन लभ्यः [क.उ. १.२.२३] । यथा च मुण्डके, प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते [मु.उ. २.२.४], ओमित्येवं ध्ययथ आत्मानं[मु.उ. २.२.६], उपासते ये पुरुषं ह्यकामा [मु.उ. ३.२.१], नायमात्मा प्रवचनेन लभ्यः [मु.उ. ३.२.३], यथा च माण्डूक्ये, ओमित्येतदक्षरमिदं सर्वं [मा.उ. १] इत्यादिमुख्येनोपासनामन्त्रादिलिङ्गकेन शब्देन वस्तुतत्त्वनिरूपणेऽपि न तत्तत्प्रकरणस्य तात्पर्यविषयः साधनचिन्तनम्, अपि तु ब्रह्मतत्त्वनिरूपणमेव । साधनचिन्तनं तु तदुपयोगितयावन्तरतात्पर्यविषय एव । तथा प्रकृतेऽपि साधनलिङ्गकेनापिशब्देन निरुक्तप्रतिज्ञातार्थचिन्तनमेव मुख्यतात्पर्यगोचरम् । साधनचिन्तनं तु तदुपयोगितयावान्तरतात्पर्यविषय एव । अत एव न तस्यात्र स्वातन्त्र्येणोपक्रमोपसंहार इति बोध्यम् ।
अनेनैव चान्यप्रतिज्ञात्रयोपसंहारोऽपि सूचितः । तत्र तं ध्यायेद्[गो.ता.उ. १.५०] इत्यादिसाधनोपसंहारस्तु तच्छेषतयैव तथैव प्रतीतेरिति निरुक्तक्रम एव साधुः । तदेव स वासुदेवो न यतोऽन्यदस्ति [गो.ता.उ. १.२६] इत्यन्तग्रन्थतात्पर्यसङ्गृह्योक्तं सुबोधाय । अथ तदेव खण्डशो दर्शयितुं तत्तद्वाक्यानि सङ्क्षेपतो व्याख्यायन्ते ।
ननु कथं कृष्ण एव परमो देवः ? तत्तद्यज्ञेषूपासनेषु चाग्निरुद्रादीनामपि यजनीयत्वोपासनीयत्वादिना शास्त्रेषु विधानात्, वैष्णवशास्त्रेष्वपि पञ्चरात्रादिषु नानारूपाणामुपासनाभिधानाच्च । तथा मृत्युनिवारकत्वेन जगदुपादाननिमित्तत्वेन विश्वप्रेरकत्वेन च तत्तदुपनिषत्सु तत्तन्नामभिस्तत्तद्देवोपस्थापनाच्च । न कृष्णस्यैव परमदेवत्वं, गोविन्दाभिधानस्य तस्यैव मृत्युनिवारकत्वं, गोपीजनवल्लभाभिधानस्यैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानिर्वाहकत्वं, स्वाहया च तस्यैव संसारकत्वमिति । अत आह—कृष्णं तमिति निरुक्तलक्षणं कृष्णं लीलाविस्तारार्थं साक्षादंशत आवेशत अन्तर्यामिरूपेण वा विविधनामरूपापन्नम् । विप्रा वेदनिपुणाः । विप्रा इत्यस्य क्रियाभेदेन सर्वत्रान्वयः । लीलानिर्वाहार्थमविकृतवेदविद्यानुसारेण बहुधा बहुविभूतिसम्पन्नं बहुप्रकारेण च यजन्ति । विष्णुक्रान्तं वासुदेवं विजानन्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी इति शय्यायनीश्रुतेः । तमेव गोविन्दं विभिन्ननामरूपात्मनावस्थितं मृत्युभीरवो विप्रा बहुधाराधयन्ति मोक्षसिद्धयोऽनुकूलयन्ति इत्यर्थः ।
तथा स एव गोपीजनवल्लभो निरुक्तलक्षणो भुवनानि दध्रे धारयति पालयति च । स्वाहाश्रितो निरुक्तलक्षणस्वाहाश्रयभूतो नानानामभिः इति विप्रा जानन्ति । एवं च, एक एव कृष्णः स्वलीलया विविधनामरूपैर्विविधेषु यज्ञेषु समुपास्यते । तत्तत्कार्याणि च कुर्वन्, तनुरूपैर्नामभिः स्वरूपैश्च वेदेषु निरूप्यते, न तु वस्तुतत्त्वभेदाभिप्रायेण । अतः कृष्णस्यैव सर्वमूलरूपस्य तानि विभिन्नप्रकाशात्मकानि रूपाणि प्रकाशी तु सर्वमूलभूतः कृष्ण एवेत्यर्थः ॥३॥
—ओ)०(ओ—
(१.२.४)
ननु कथमेकस्य श्रीकृष्णस्य तावन्नानारूपेण स्थितिः ? इत्याह—
वायुर्यथैको भुवनं प्रविष्टो
जन्ये जन्ये पञ्चरूपो बभूव ।
कृष्णस्तथैकोऽपि जगद्धितारेथं
शब्देनासौ पञ्चपदो विभातीति ॥१६॥
यथा वायुः वायुदेवता स्वयमेकोऽपि भुवनं प्रविष्टो, जन्ये जन्ये जन्तौ जन्तौ पञ्चरूपः प्राणापानव्यानोदानसमानात्मकपञ्चवृत्तिको बभूव, तथा स्वयमेकोऽद्वितीयोऽपि कृष्णो लीलाविशेषार्थं व्यूहवैभवगुणावतारलीलावतारपुरुषावतारान्तर्याम्यादिभेदेन, तथा प्रकृतिपुरुषकालप्राकृतेश्वरभेदेन भिन्नाभिन्नरूपेण प्रपञ्चरूपो विभाति इत्यर्थः । अत्र विभातीति क्रियापदप्रयोगः, तेषां प्रकृतरूपत्वबोधनेन, प्रकाशाश्रयवद्वाते जरत्वात्[वे.सू. ३.२०] व्याससूत्रानुसारेण प्रकाशिनः श्रीकृष्णात्तेषां भिन्नाभिन्नत्वबोधनाय ।
नन्वत्र, शब्देनासौ पञ्चपदो विभाति इत्यंशेन पञ्चपदात्मकमन्त्रविभागमात्रस्य सूचितात्कथं तादृशोऽर्थः ? इति चेत्, सत्यम् । निरूपितं हि मया नात्र मन्त्रमात्रनिरूपणे तात्पर्यम् । तथा सति तस्मात्कृष्ण एव परमो देवः [गो.ता.उ. १.५०] इति वक्ष्यमाणनिगमनभङ्गापत्तेरिति मन्त्रद्वारेण परमदेवत्वादिकमेव पुनः पुनर्निरूपयति । अतः पञ्चपदः इत्यस्य न मन्त्रमात्रमर्थः, तावन्मात्रस्य कृष्णात्मकत्वप्रतिपादनेऽपि निरुक्तप्रतिज्ञोपपादनाभावात। मन्त्रमात्रस्य तत्तद्देवतात्मकत्वस्यानुक्तसिद्धत्वेन विशेषालाभात। तस्मात्पञ्चपदशब्देनात्र व्यष्टिरूपेण कार्यरूपेण च पञ्चपदस्य तत्तदवयवद्वारा प्रतिपाद्या सर्वेऽप्यर्था विवक्षिताः । ते चार्था व्यूहवैभवादयः प्रकृतिपुरुषकालादयश्च भवन्तीति निरूपितमेवानुपदं पञ्चपदीं जपन्ब्रह्म सम्पद्यते [गो.ता. १.१२] इति श्रुतिव्याख्याने । तथाकाशादयोऽपि पञ्चपदस्य तत्तदवयवकार्यरूपाः । तदिह काज्जलमित्यादि वक्ष्यमाणलक्षणा ते सर्वेऽत्र पञ्चपदेन विवक्षिता भवन्ति । अत एव पञ्चपदमिति नपुंसकान्तमपहाय पञ्चपद इति पुंलिङ्गान्तः प्रयुक्तः ।
तथा च, यथा माण्डूक्ये—ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानभूतं भवद्भविष्यदिति सर्वमोंकार एव यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव ॥ सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म [मा.उ. १२] इत्यादिना निखिलस्य जगत ओंकारात्मकत्वं, ओंकारस्य जगतश्च ब्रह्मात्मकत्वं प्रतिपादयन्ती सर्वस्य ब्रह्मात्मकत्वमेव निर्धारयति श्रुतिः ।
तथा प्रकृतेऽपि तेष्वक्षरेषु विभज्य भविष्यज्जगद्रूपं प्राकाशयं [गो.ता.उ. १.२७] इत्यनेन सर्वस्यापि जगतः सृष्टेः पूर्वमपि मन्त्रात्मना मन्त्रवर्णेषु स्थितिमुपपाद्य, ततश्च लोकप्रतीतिगोचरीभूतानां केषांचिद्वस्तुतत्त्वानां नामनिर्देशपूर्वकं सृष्टिमुपपाद्य, तदुत्तरात्स्त्रीपुंसादिभेदं सकलमिदं सकलमिदं [गो.ता.उ. १.२७] इत्यंशेन । तत एव सर्वकार्याणां माण्डूक्यश्रुतिवदेव प्रणवात्मकपञ्चपदीमन्त्रात्मकत्वमुक्त्वा, यत्तत्पदं पञ्चपदं तदेव स वासुदेवो न यतोऽन्यदस्ति [गो.ता.उ. १.३३] इत्यनेन मन्त्रस्य पीठस्य च भगवदात्मकत्वं तद्व्यतिरिक्तस्य चासत्त्वं निगमयतीति सर्वस्य भगवदात्मकत्वोपपादनायैव पञ्चपदो विभाति इति वाक्यम् । तथा च पञ्चपदेन प्रणववदेव प्रणवात्मके पञ्चपदीमन्त्रेऽपि सर्वस्यैव वस्तुतत्त्वस्यान्तर्भावात्, तस्य च शब्देनासौ पञ्चपदो विभाति इत्यनेन भगवदात्मकत्वनिरूपणात्सर्वस्यैव वस्तुतत्त्वस्य भगवदात्मकत्वं निर्धारितं भवति इति नास्ति कृष्णाद्व्यतिरिक्तः स्वतन्त्रसत्ताकः कश्चित्पदार्थः, अपि तु कृष्ण एव तत्तदात्मना ते सर्वे इति अवान्तरोपक्रमवाक्यार्थ इति बोध्यम् ।
अपि चैताभ्यां च मन्त्राभ्यां—
इन्द्रं मित्रं वरुणमग्निमाहुर्
अथो दिव्यः स सुपर्णो गरुत्मान।
एकं सद्विप्रा बहुधा वदन्त्य्
अग्निं यमं मातरिश्वानमाहुः ॥ [ऋ.वे. १.१६४.४६]
अग्निर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश्च ॥
वायुर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश्च ॥ [क.उ. २.२.९१०]
इति ऋक्कठादिमन्त्राणामपि तात्पर्यमुक्तं भवति इत्याद्यपि बोध्यम् । तथा च, कृष्णं तं [गो.ता.उ. १.१५] एताभ्यां मन्त्राभ्यामुपपत्त्याभ्यासेन च परमदेवत्वादिकं निरूपितमिति ॥४॥
—ओ)०(ओ—
(१.२.५)
अथ,
गोपगोपीगवातीतं सुरद्रुमतलाश्रितम् ।
दिव्यालङ्करणोपेतं रत्नपङ्कजमध्यगम् ॥
कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।
चिन्तयंश्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ [गो.ता.उ. १.१०११]
इत्यत्र सङ्क्षेपेण निरूपितं परमदेवत्वस्याविनाभूतं सर्वतो विलक्षणधामपरिकरपरिच्छदादिकं निरुक्तलक्षणपरदेवत्वस्योपपत्तये च परममुक्तिफलकं तदुपासनं निरूपयितुं प्रश्नमवतारयति—
ते होचुः—उपासनमेतस्य परमात्मनो
गोविन्दस्याखिलाधारिणो ब्रूहीति ॥१७॥
तानुवाच—यत्तस्य पीठं हैरण्याष्टपलाशमम्बुजं, तदन्तरालिकेऽनलास्रयुगं, तदन्तराद्यर्णाखिलबीजं, कृष्णाय नम इति बीजार्ढ्यं सब्रह्माणमाधाय, अनङ्गगायत्रीं यथावद्व्यालिख्य, भूमण्डलं शूलवेष्टितं कृत्वा, अङ्गवासुदेवरुक्मिण्यादिखशक्तीन्द्रादिवसुदेवादिपार्थादिनिध्यावीतं यजेत। सन्ध्यासु प्रतिपत्तिभिरुपचारैस्तेनास्याखिलं भवत्यखिलं भवतीति ॥१८॥
॥ इति द्वितीयोपनिषद॥
अत्र ते होचुरुपासनं ब्रूहीति इत्येतावतापि वक्ष्यमाणग्रन्थावतारसम्भवे । यत्पुनः एतस्य परमात्मनो गोविन्दस्याखिलाधारिणः इत्युक्तं, तेन प्रतिज्ञातचतुष्टयानां पुनरभ्यासः । प्रकरणतात्पर्यनिर्णयाङ्गभूतः कृत इति सूचितं भवति । तथा च, एतत्पदेन सामान्यतो निरुक्तार्थकत्वस्य, परमात्मपदेन तद्घटकसर्वात्मकत्वस्य सर्वेषामात्मनामात्मतत्त्वस्य, गोविन्दपदेन मृत्युनिवारकत्वस्य गोभूमिवेदविदितत्वादीनां च, अखिलाधारिण इतिपदेन गोपीजनवल्लभो भुवनादिदध्रे स्वाहाश्रित जगत्सुरेता [गो.ता. १.१३] इत्युक्तार्थकेनेतरस्य च प्रतिज्ञाद्वयस्य सूचनं कृतम् ।
अपि च, परमात्मन इत्यनेन परमात्मत्वेन परमतत्त्वनिरूपकाणां सर्वेषामेव—
तमेवैकं जानथ आत्मानमन्या
वाचो विमुञ्चथामृतस्यैष सेतुः ॥ [मु.उ. २.२.५],
दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ [मु.उ. २.२.७],
एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः [छा.उ. ८.१.५],
स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु,
य एषोऽन्तर्हृदय आकाशस्तस्मिञ् छेते,
सर्वस्य वशी, सर्वस्येशानः, सर्वस्याधिपतिः,
स न साधुना कर्मणा भूयान्, नो एवासाधुना कनीयान।
एष सर्वेश्वरः, एष भूताधिपतिः, एष भूतपालः,
एष सेतुर्विधरण एषां लोकानामसंभेदाय ।
तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति,
यज्ञेन दानेन तपसानाशकेनैतमेव विदित्वा मुनिर्भवति ।
एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति ।
एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते ।
किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति ।
ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च
लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति ।
या ह्येव पुत्रैषणा सा वित्तैषणा, या वित्तैषणा सा लोकैषणा ।
उभे ह्येते एषणे एव भवतः । स एष नेति नेत्यात्मागृह्यो
न हि गृह्यतेऽशीर्यो न हि शीर्यते । असङ्गो न हि सज्यते ।
असितो न व्यथते, न रिष्यत्येतमु हैवैते न तरत इति ।
अतः पापमकरवमिति, अतः कल्याणमकरवमित्युभे उ
हैवैष एते तरति । नैनं कृताकृते तपतः ॥ [बृ.आ.उ. ४.४.२२]
इत्यादिवेदान्तवाक्यानामत्रार्थे समन्वयः सूचितो भवति इत्यप्यवधेयम् ।
तानुवाच यत्तस्य पीठमिति । तान्मुनीनुवाच ब्रह्मेति शेषः । तस्येति निरुक्तलक्षणस्य परमात्मनो गोविन्दस्याखिलधारिण इत्यर्थः । यदिति यत्पदस्य तत्पदसाकाङ्क्षत्वात्, तत्सर्ववेदान्तप्रसिद्धं यदित्यर्थः । पीठमिति परमं पदमित्यर्थः, एतद्विष्णोः परमं पदमिति वक्ष्यमाणश्रुतेः । परमं पदं स्वप्रकाशानन्दघनमपरिच्छिन्नं सदातनं भगवद्धाम । परमपदशब्दस्य भगवद्धामपर्यायमुक्तं पाद्मे उत्तरखण्डे षट्पञ्चाशदधिकद्विशततमाध्याये—
मोक्षं परं पदं दिव्यममृतं विष्णुमन्दिरम् ।
अक्षरं परमं धाम वैकुण्ठं शाश्वतं पदम् ॥
नित्यं च परमं व्योम सर्वोत्कृष्टं सनातनम् ।
पर्यायवाचकान्यस्य परधाम्नोऽच्युतस्य च ॥ [प.पु. ६.२२६.७९८०] इति ।
एवमन्यान्यपि तस्य नामानि ब्रह्मपुरब्रह्मलोकगोलोकादीनि प्रसिद्धानि—यद्ब्रह्मपुरमित्याहुर्भगवद्धाम सात्वताः इति स्कान्दवैष्णवखण्डवासुदेवमाहात्म्ये सप्तदश्याध्यादिवाक्येभ्यः । ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात्पुरा इति भागवतदशमे अष्टाविंशाध्यायादिवाक्येभ्यश्च । तथा च—
यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि ।
दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ [मु.उ. २.२.७]
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म ॥ [छा.उ. ८.१.१]
एतत्सत्यं ब्रह्मपुरमस्मि कामाः समाहिताः एष आत्मापहतपाप्मा… सत्यकामः सत्यसङ्कल्पः [छा.उ. ८.१.५]
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषं ज्योतिस्तद्यदात्मविदो विदुः ॥ [मु.उ. २.२.१०]
एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम् । स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते ॥ [प्र.उ. ५.५]
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ [क.उ. १.३.९]
यो वेद निहितं गुहायां परमे व्योमन॥ [तै.उ. २.१]
इयं विसृष्टिर्यत आबभूव
यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन्
सो अङ्ग वेद यदि वा न वेद ॥ [ऋ.वे. १०.१२९.७]
अणुः पन्था विततः पुराणो
मा स्पृष्टोऽनुवित्तो मयैव ।
तेन धीरा अपि यन्ति ब्रह्मविदः
स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः ॥ [बृ.आ.उ. ४.४.८]
इत्यत्र बृहदारण्यके ब्रह्मवित्प्राप्य स्वर्गलोकमपि अपाकृतं भगवद्धामैव, न चात्रोत्क्रान्तिनिषेधः । माध्यन्दिनेऽत्र उत्क्रम्य इति उत्क्रान्तेरप्युक्तत्वात्प्राणोत्क्रान्तिनिषेधस्तु तत्रैव स्वरूपे लयार्थम् ।
ऋचोऽक्षरे परमे व्योमन्
यस्मिन्देवा अधि विश्वे निषेदुः ।
यस्तं न वेद किं ऋचा करिष्यति
य एतद्विदुस्त इमे समासते ॥ [श्वे.उ. ४.८]
यस्मिन्निदं सं च वि चैति सर्वं
यस्मिन्देवा अधि विश्वे निषेदुः ।
तदेव भूतं तदु भव्यमा इदं
तदक्षरे परमे व्योमन॥ [म.ना.उ. १.२]
येनावृतं खं च दिवं मही च
येनादित्यस्तपति तेजसा भ्राजसा च ।
यमन्तःसमुद्रे कवयो वयन्ति
यदक्षरे परमे प्रजाः ॥ [म.ना.उ. १.३]
न कर्मणा न प्रजया धनेन
त्यागेनैके अमृतत्वमानशुः ।
परेण नाकं निहितं गुहायां
बिभ्राजते यद्यतयो विशन्ति ॥ [म.ना.उ. १२.१४]
दह्रं विपापं वरवेश्मभूतं
यत्पुण्डरीकं पुरमध्यसंस्थम् ।
तत्रापि दह्रे गगनं विशोकं
तस्मिन्यदन्तस्तदुपासितव्यम् ॥ [म.ना.उ. १२.१६]
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ [म.ना.उ. १२.१७] इति ।
एतदेव विशकृतं सहस्रशीर्षकं देवं [म.ना.उ. १३.१] इत्यग्रिमग्रन्थेन परमात्मा व्यवस्थितः इत्यन्तेन महानारायणोपनिषदि ।
पुरुषो मानस एत्य ब्रह्मलोकान्गमयति, ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति । तेषां न पुनरावृत्तिः । [बृ.आ.उ. ६.१.१५]
तस्य ह वा एतस्य ब्रह्मलोकस्यारो हृदो मुहूर्ता येष्टिहा विरजा नदी तिल्यो वृक्षः सायुज्यं संस्थानमपराजितमायतनमिन्द्रप्रजापती द्वारगोपौ विभुं प्रमितं… श्रीरुपबर्हणं तस्मिन्ब्रह्मास्ते ॥ [कौ.उ. १.३…५]
इत्यादि मुण्डकछान्दोग्यप्रश्नकठश्वेताश्वतरतैत्तरीयश्वेताश्वतरमहानारायणबृहदारण्यककौषीतकिब्राह्मणादिवाक्येषु प्रसिद्धं तस्य परमात्मनो ब्रह्मपुरहिरण्मयकोशब्रह्मलोकविष्णुपदपरमव्योमादिपदवाच्यं, तथात्रापि एतद्विष्णोः परमं पदं [गो.ता.उ. १.२१], तद्विष्णोः परमं पदं [गो.ता.उ. १.२८] इत्यादिनोक्तं परमपदापरपर्यायं यत्पीठमित्यर्थः ।
एताः श्रुतयः पद्मपुराणे एवमेव व्याख्याताः, यथा चोक्तं श्रुतिषु ब्रह्मपुरपरव्योमादिशब्दा भगवतः परमधामप्रतिपादका एव, न तु शरीरहृदयादिमात्रप्रतिपादका इति तथोपपादितम् । समीचीनतया स्मृतिपुराणादिवाक्यैर्युक्तिभिश्च तत्तच्छ्रुतिपर्यालोचनया युग्मतत्त्वसमीक्षायां मयेति तत एवावधेयम् । तच्च एतद्विष्णोः परमं पदमित्यस्य शेषे द्रष्टव्यम् ।
हैरण्याष्टपलाशमम्बुजमिति । अत्र हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः [छा.उ. १.६.६] इति छान्दोग्यश्रुताविव हिरण्यपदं तेजोविशेषवाचकम् । तच्च तेजः सत्यचिदानन्दरूपमेव स्वप्रकाशात्मकम् । तथा च निरुक्तं भगवद्धाम तत्रत्यं सर्ववस्तु च सच्चिदानन्दरूपमेव । अत एव स्वप्रकाशात्मकं सर्वविक्रियारहितमपरिच्छिन्नं नित्यं कालकर्माद्यतीतं च । तथा च वक्ष्यति—
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततं [गो.ता.उ. १.२८]
ततो विशुद्धं विमलं विशोकम्
अशेषलोभादिनिरस्तसङ्गम् ।
यत्तत्पदं पञ्चपदं तदेव
स वासुदेवो न यतोऽन्यदस्ति ॥ [गो.ता.उ. १.३२]
अनेजदेकं मनसो जवीयो
नैतद्देवा आप्नुवन्पूर्वमर्षद॥ [गो.ता.उ. १.४७] इति ।
समुपबृंहितं चैतन्नारदपञ्चरात्रे ब्रह्मसंहितायां पञ्चमाध्याये—
सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् ।
तत्कर्णिकारं तद्धाम तदनन्तांशसम्भवम् ॥२॥
कर्णिकारं महद्यन्त्रं षट्कोणं वज्रकीलकम् ।
षडङ्गषट्पदीस्थानं प्रकृत्या पुरुषेण च ॥
प्रेमानन्दमहानन्दरसेनावस्थितं हि यत।
ज्योतीरूपेण मनुना कामबीजेन सङ्गतम् ॥३॥
इत्युपक्रम्य,
श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो
द्रुमा भूमिश्चिन्तामणिगणमयि तोयममृतम् ।
कथा गानं नाट्यं गमनमपि वंशी प्रियसखि
चिदानन्दं ज्योतिः परमपि तदास्वाद्यमपि च ॥ इत्यादिनेति ।
अत्र स्पष्टमेव धाम्नस्तत्रत्यानां च सच्चिदानन्दरूपत्वमुक्तम् । नारायणाथर्वशिरस्यपि—ओं नमो नारायणायेति मन्त्रोपासको वैकुण्ठभुवनं गमिष्यति इत्युपक्रम्य, तदिदं विज्ञानघनं तस्मात्तडिदाभमात्रमित्यनेन तत्पदेन वैकुण्ठभुवनमनुकृष्य तस्य विज्ञानघनमिति चिदात्मकत्वमुक्तम् । तस्माद्भगवद्धाम सत्यचिदानन्दस्वरूपमेव । एवमेव च निरूपितं पद्मब्रह्मवैवर्तादिषु पुराणेषु पञ्चरात्रेषु च, तदुपपादितं मया युग्मतत्त्वसमीक्षायाम् ।
इदमत्र बोध्यम्—यथा गङ्गासमुद्रादेरग्निवाय्वादेश्च द्विविधं स्वरूपं मूर्तामूर्तं च, तत्र यन्मूर्तं साकारस्वरूपं तदमूर्तस्य भिन्नाभिन्नं नियामकत्वं सत्, स्वोपासकेतरागोचरमेव तिष्ठति, देवतारूपं चेत्युच्यते । यच्चामूर्तं, तत्सर्वान्लोकान्व्याप्य तिष्ठति, सामान्यजनानामपि चक्षुष्मतां गोचरं भवति । पुरुषस्य मूर्तरूपस्य स्वनियामकस्य धामगृहादिशब्दव्यपदेश्यं न भवति । उभयमपि च रूपं गङ्गासमुद्रादिशब्दैरग्निवाय्वादिशब्दैश्च मुख्यवृत्त्यैव व्यपदिश्यते, उभयोरेकात्मत्वात। तथैकमेव सच्चिदानन्दघनं ब्रह्म मूर्तामूर्तरूपं भवति । तत्र यन्मूर्तं साकारं रूपं पुरुषाकारं, तदमूर्तस्य निराकारस्याधिदैविकं पुरुषोत्तमपदवाच्यं भक्तिमात्रगम्यं च भवति । यच्चामूर्तं रूपं, तन्निराकारतया योगिसमाधिगम्यं भवति । तदेव च प्रेमिभक्तानां पुरुषोत्तमधामतयावभासते ।
ये च न प्रेमिभक्ताः, तेषां तु तत्पुरुषोत्तमधामरूपं सदपि न धामरूपतया भासते, अपि तु निर्विशेषतयैवावभासते, यथा गङ्गानद्यादौ देवतारूपस्य गङ्गादेवस्य तत्र विद्यमानत्वेऽपि, न तथात्वेन तदुपासकेतरेषां प्रतीतिः । न वा नद्यां देवतारूपायाः गङ्गाया जलादिमयधाम्नः प्रतीतिः, तथात्रापि बोध्यम् । तदेतत्सर्वमभिप्रेत्यैव स्मृतयो भवन्ति पुराणेषु पञ्चरात्रेषु च । यथा पाद्मे पातालखण्डे—
नित्यानन्दतनुः शौरिर्योऽशरीरीति भाष्यते ॥४०॥
वाय्वग्निनाकभूमीनामङ्गाधिष्ठितदेवता ।
निरूप्यते ब्रह्मणोऽपि तथा गोविन्दविग्रहः ॥४१॥
सेन्द्रियोऽपि यथा सूर्यस्तेजसा नोपलक्ष्यते ।
तथा कान्तियुतः कृष्णः कालं मोहयति ध्रुवम् ॥४२॥
काठिन्यं देवयोगेन कारकाघृतयोरिव ।
कृष्णस्यामिततत्त्वस्य पादपृष्ठं न देवता ॥४४॥ इति ।
हयशीर्षपञ्चरात्रे—
आनन्दो द्विविधः प्रोक्तो मूर्तामूर्तप्रभेदतः ।
अमूर्तस्याश्रयो मूर्तो मूर्तानन्दोऽच्युतो मतः ।
अमूर्तः परमात्मा च ज्ञानरूपश्च निर्गुणः ।
स्वस्वरूपश्च कूटस्थो ब्रह्म चेति त्रयं मतम् ।
अमूर्तमूर्तयोर्भेदो नास्ति तत्त्वविचारतः ।
भेदस्तु कल्पितो वेदैर्मणितत्तेजसोरिव ॥ इति ।
अत्र यदमूर्तं रूपं, तदेव गीतायामक्षरशब्देन धामशब्देन च उच्यते ।
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ [गीता ८.२०२१] इति ।
अत्र “तत्रैवाव्यक्तसंज्ञके” इत्यनेन निरूपितान्त्रिगुणात्मकादव्यक्तात्परमन्यदव्यक्तं निरूपयन्, तस्य सनातनत्वमक्षरनामधेयत्वं परमगतित्वं तत्प्राप्तस्यापुनरावृत्तिं च कथयन्, तस्य “तद्धाम परमं मम” इत्यंशेन स्वधामत्वमपि स्फुटं वक्ति । केचित्त्वत्र धामपदं स्वरूपार्थकत्वेन, ममेत्यत्र षष्ठी चौपचारिकभेदगर्भितत्त्वेन च वर्णयन्ति । तेन तेषां मते तदेव परब्रह्मणः सर्वातिशायिस्वरूपमित्युक्तं भवति । तन्मन्दम् । पञ्चदशाध्याये—
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ [गीता १५.१६१८] इति ।
अनेन क्षराक्षरातीतपुरुषोत्तमस्यैव सर्वातिशायित्वावधारणात। अत्रापि,
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ [गीता ८.२२]
इत्यनेन तस्यैव सर्वातिशायित्वं सूच्यते । न चात्र परपुरुषपदेन निरुक्तोऽव्यक्तो भावो गृह्यते । तथा सति “यस्यान्तःस्थानि” इति विशेषणस्यानतिप्रयोजनकत्वापत्तेः समाप्तपुनरातत्त्वापत्तेश्च । अत एवात्र परपुरुषपदेन पञ्चदशाध्याये निरुक्तस्थल इव ततः पर एव पुरुषो गृह्यते । तस्य “यस्यान्तःस्थानि” इत्यादिविशेषणं तु सप्तमाध्याये समग्रं मां यथा ज्ञास्यसि तच्छृणु [गीता ७.१] इत्युपक्रम्य, रसोऽहमप्सु [गीता ७.८], मत्तः परतरं नान्यत्[गीता ७.७] इत्यादिना निरूपितत्वेन पुनःस्मारणायेति बोध्यम् । अयमेव चाक्षराख्यो भावः पञ्चदशेऽप्यध्याये,
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ [गीता १५.६]
इत्यत्रापि स्वधामत्वेन निरूप्यते इति । तस्माद्भगवद्धामापि ब्रह्मरूपमेव । अत एव उत्तरतापिन्यां वक्ष्यति—तासां मध्ये साक्षाद्ब्रह्म गोपालपुरीति [गो.ता.उ. २.२६] गीतायां चतुर्दशे ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इत्यनेनाप्ययमेवाभिप्रायः सूचित इति । अत एव भगवतः परमधामापि सच्चिदानन्दघनात्मकमेव । न तु लोकान्तरवज्जडं मायाकार्यं च । इदमेव अप्राकृतं प्राकृतरूपकं च [३] इति वेदान्तकामधेनुश्लोके अप्राकृततत्त्वपदेन गृह्यते ।
तस्याचेतनत्वकथनं तु धर्मरूपज्ञानाभावाभिप्रायेण तथैव व्यवस्थापितं श्रुत्यन्तसुरद्रुमे—
पारशून्यपरधाम तेऽद्भुतं
चिद्घनं जयति लोकमूर्धनि ।
व्यापकं च परिखा सरिद्वरा
चिन्त्यशक्ति नवमङ्गलध्वनि ॥
इति श्लोकव्याख्याने इति । इदं च सर्वातिशायि गुणातीतं भगवद्धाम । प्रपञ्चान्तर्वर्तीनि चानन्तानि भगवदंशभूतानां निवासयोग्यानि धामानि तु नैता भवन्ति इत्यपि बोध्यम् ।
एतत्पीठरूपं तु परमेव धाम, प्रकृतोपनिषदि परमरूपस्यैव निरूपणीयत्वात। तस्य परमात्मन [गो.ता.उ. १.१७] इत्यादिना परमरूपस्योपासनस्यैव जिज्ञासितत्वात। एतद्विष्णोः परमं पदं, तद्विष्णोः परमं पदं [गो.ता.उ. १.२१], यत्तत्पदं पञ्चपदं तदेव स वासुदेवः [गो.ता.उ. १.३२], अनेजदेकं [गो.ता.उ. १.४७], तासां मध्ये साक्षाद्ब्रह्म गोपालपुरी भवति [गो.ता.उ. २.२६] इत्यादिवक्ष्यमाणश्रुतिभ्यश्च ।
न च तस्य परमधाम्नः अनङ्गगायत्रीं यथावद्व्यलिख्य इत्याद्युल्लिख्यमानपीठरूपत्वं कथमिति वाच्यम् । बाह्यसेवायां भगवत्स्वरूपानुकारिप्रतिमेव तस्य परमधाम्नोऽप्युल्लेखनानुकरणे तात्पर्यात। एवमेव निरूपितं बृहद्ब्रह्मसंहितादौ—गोलोकं पट्टवस्त्रे यो लिखित्वा सम्प्रपूजयेतित्यादिनेति । मानससेवायां तु नालेखनापेक्षा, न चालेखे मन्त्रादीनामपि समुल्लेखो विहितः । स च परधाम्नि न सम्भवतीति वाच्यं, परधाम्नि तेषां तत्स्थलेषु मूर्तिमत्त्वेनावस्थानात। तदेतन्निरूपितं ब्रह्मसंहितायां पञ्चमाध्याये—
सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् ।
तत्कर्णिकारं तद्धाम तदनन्तांशसम्भवम् ॥२॥
कर्णिकारं महद्यन्त्रं षट्कोणं वज्रकीलकम् ।
षडङ्गषट्पदीस्थानं प्रकृत्या पुरुषेण च ॥
प्रेमानन्दमहानन्दरसेनावस्थितं हि यत।
ज्योतीरूपेण मनुना कामबीजेन सङ्गतम् ॥३॥
चतुर्भिः पुरुषार्थैश्च चतुर्भिर्हेतुभिर्वृतम् ।
शूलैर्दशभिरानद्धमूर्ध्वाधो दिग्विदिक्ष्वपि ॥
अष्टभिर्निधिभिर्जुष्टमष्टभिः सिद्धिभिस्तथा
मनुरूपैश्च दशभिर्दिक्पालैः परितो वृतम् ॥ इत्यादिना ।
अत्राङ्गमन्त्राणां दिक्पालादिरूपत्वकथनान्मूर्तिमत्त्वेन तेषां तत्र सत्त्वं निश्चितं भवतीति बोध्यम् । यन्त्रोद्धारप्रकार उपासनाप्रकारश्च परिशिष्टं वक्ष्यते मयेति ततोऽवधेयम् ।
यजेदिति विधिस्त्वग्रे चिन्तयिष्ये पूर्वतापिनीसमाप्तौ । प्रतिपत्तिभिः ज्ञानमयैरित्यर्थः । अनेन बाह्यपूजायामपि भावनापूर्वकत्वं सूचितम् । उपचारैः इति सेवोपयिकवस्तुभिरित्यर्थः । तेन इति तादृशेन मानसेन बाह्येन चोपासनारूपेण यजनेनेत्यर्थः । अखिलं धर्मार्थकाममोक्षाख्यं चतुर्विधमपि काम्यं भवति, कामनाभावे तु भगवद्भावापत्तिरेव भवतीत्यर्थः । तथा च वक्ष्यति—
एतद्विष्णोः परमं पदं ये
नित्योद्युक्तास्तं यजन्ति न कामात।
तेषामसौ गोपरूपः प्रयत्नात्
प्रकाशयेदात्मपदं तदेव ॥ [गो.ता.उ. १.२१] इति ।
तस्मात्प्रपन्नैरापत्तिकालेऽपि न कामनया यष्टव्यम् । सकामयजनस्यापि शरणमार्गे परमापराधरूपत्वेन शास्त्रेषु निर्णयात। अखिलं भवत्यखिलं भवति इति द्विरुक्तिर्द्वितीयोपनिषत्समाप्त्यार्थाध्यायसिद्धान्तदार्ढ्यार्था चेति । इति द्वितीयोपनिषत॥
—ओ)०(ओ—
अथ तृतीयोपनिषत्
(१.३.१)
अथ परमतात्पर्येण निरुक्तप्रतिज्ञाः प्रकारान्तरेण दृढीकुर्वन्नवान्तरतात्पर्येण निरुक्तामुपासनां द्रढयितुं त्रीन्मन्त्रान्पठन्ति ।
तदिह श्लोका भवन्ति—
एको वशी सर्वगः कृष्ण ईड्य
एकोऽपि सन्बहुधा यो विभाति ।
तं पीठं येऽनुभजन्ति धीरास्
तेषां सिद्धिः शाश्वती नेतरेषाम् ॥१९॥
मूले तदिह श्लोका भवन्ति इति तदित्यव्ययम् । तेन यत उक्तप्रकारेण श्रीकृष्णयजनेनाखिलं भवति, तत्तस्माद्धेतोः इह तादृशयजने फले चैवंविधाः श्लोका भवन्तीत्यर्थः ।
एको द्वितीयरहितः, अद्वितीयाय महते [गो.ता.उ. १.४२] इति वक्ष्यमाणश्रुतेः । स्वसमानस्वोत्कृष्टसत्ताकद्वितीयरहित इत्यर्थः, स्वतन्त्रसत्ताकद्वितीयरहितमिति यावत। प्राकृताप्राकृतजीवानां निजशक्तिरूपाणां स्वतोभिन्नाभिन्नानां सत्त्वेऽपि तेषां स्वतन्त्रब्रह्मात्मकत्वेनैव सत्त्वात्स्वतन्त्रसत्त्वाभावेन नानुपपत्तिः ।
वशी स्वतन्त्रसत्ताकः सर्वसत्ताश्रयश्चेत्यर्थः । एतेन एकमेवाद्वितीयं [छा.उ. ६.२.१], नेह नानास्ति किञ्चन [बृ.आ.उ. ४.४.१९],
तमीश्वराणां परमं महेश्वरं
तं देवतानां परमं च दैवतम् ।
पतिं पतीनां परमं परस्ताद्
विदाम देवं भुवनेशमीड्यम् ॥ [श्वे.उ. ६.७]
न तस्य कार्यं करणं च विद्यते
न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते
स्वाभाविकी ज्ञानबलक्रिया च ॥ [श्वे.उ. ६.८]
न तस्य कश्चित्पतिरस्ति लोके
न चेशिता नैव च तस्य लिङ्गम् ।
स कारणं कारणाधिपाधिपो
न चास्य कश्चिज्जनिता न चाधिपः ॥ [श्वे.उ. ६.९]
स विश्वकृद्विश्वविदात्मयोनिर्
ज्ञः कालकालो गुणी सर्वविद्यः ।
प्रधानक्षेत्रज्ञपतिर्गुणेशः
संसारमोक्षस्थितिबन्धहेतुः ॥ [श्वे.उ. ६.१६] इति श्वेताश्वतरे,
नान्यो यतोऽस्ति श्रोता, सर्वस्य वशी, सर्वस्येशानः, सर्वस्याधिपतिः, स न साधुना कर्मणा भूयान्, नो एवासाधुना कनीयान्, एष सर्वेश्वरः, एष भूताधिपतिः, एष भूतपालः [बृ.आ.उ. ४.४.२२] इत्यादयः श्रुतय उपसंहृताः ।
सर्वग इति सर्वव्याप्त इत्यर्थः ।
ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म
पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्वं च प्रसृतं
ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ [मु.उ. २.२.१२]
अणोरणीयान्महतो महीयान्[क.उ. १.२.२०] इत्याद्युपसंहृता ।
कृष्ण इति निरुक्तलक्षणः । तेन कृष्ण एव निरुक्तः सर्वा श्रुतयः पुनरुपसंहृताः । कृष्ण इत्यत्र विभुरित्यनुक्त्वा सर्वग इति कथनेन अपाणिपादो जवनो गृहीता [श्वे.उ. ३.१९] इत्यादिश्रुतिलक्षणः सर्वत्रालौकिकगतिशालित्वमपि सूचितं भवति ।
ईड्यः, स्तुत्य इत्यर्थः । सर्ववेदैर्मुनिभिर्देवैश्च सर्वतो भावेन स्तुत्य इति भावः । एतेन सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति [क.उ. १.२.१५] इति । वृषभध्वजवन्द्याय [गो.ता.उ. १.३८], अथैवं स्तुतिभिराराधयामि [गो.ता.उ. १.४६], विदाम देवं भुवनेशमीड्यं [श्वे.उ. ६.७] इत्याद्या श्रुतय उपसंहृताः ।
एकोऽपि सन्यो बहुधा विभाति इति । एकोऽपि निरुक्तलक्षणाद्वितीयोऽपि सन। कालानवच्छिन्नतया सदा अखण्ड एव वर्तमान एव बहुधा । जपन्पञ्चाङ्गमित्यत्र व्याख्यातप्रकारेण तादृशसर्वविधरूपतया विभाति विशेषेण भासते इत्यर्थः । अत्र वक्ष्यति चोत्तरतापिन्यन्ते,
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥ [गो.ता.उ. २.१०६] इति ।
अत्र विभाति इति प्रयोगात्तेषां पञ्चाङ्गानां व्यूहवैभवादिरूपाणां श्रीकृष्णस्य विभानमात्रत्वकथनेन कायव्यूहरूपत्वं निराकृतं, सूचितं च प्रकाशान्तररूपत्वम् । तेनाखण्ड एव कृष्णो निजासाधारणस्वरूपमहिम्ना तावद्रूपेण नित्यमुक्तैः शास्त्रैश्च प्रमीयते इत्युक्तं भवति ।
तमिति तादृशमित्यर्थः । पीथमिति निरुक्तलक्षणपीठस्थत्वभावनपूर्वकमित्यर्थः । क्वचित्"पीठगम्" इत्येव पाठः । ये प्रपन्ना अनुयजन्ति उक्तप्रकारेणार्चयन्ति सेवन्ते । तेषां सिद्धिः शाश्वती नेतरेषामिति । शाश्वती सिद्धिः, भगवत्प्राप्तिरूपेत्यर्थः । एवं चात्र मन्त्रेऽनुपदव्याख्यातप्रकारेण सर्वातिशायिवस्तुतत्त्वताप्रतिपादनेन तन्मात्रस्यैव च परमफलप्रदताप्रतिपादनेन च श्रीकृष्णे सोपपत्तिकम्, प्रतिज्ञाचतुष्टयं महातात्पर्येणोपपादितमर्थताभ्यस्तं च । अवान्तरतात्पर्येण तूपासनं स्तुतमिति बोध्यम् । एवमग्रिममन्त्रेऽपि बोध्यम् ।
अत्र,
एको वशी सर्वभूतान्तरात्मा
एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीराः
तेषां सुखं शाश्वतं नेतरेषाम् ॥ [क.उ. २.२.१२]
एको वशी निष्क्रियाणां बहूनाम्
एकं बीजं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्
तेषां सुखं शाश्वतं नेतरेषाम् ॥ [श्वे.उ. ६.१२]
इति कठश्वेताश्वतरमन्त्रयोरप्युपसंहार उक्तार्थे तात्पर्येण सूचितः । अत्राप्यात्मस्थमित्यत्रात्मपदं निरुक्तपीठपदव्यपदेश्यपरमव्योमब्रह्मपुरादिपदवाच्यं भगवद्धामसूचकमेव ।
यो वेद निहितं गुहायां परमे व्योमन्
सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता [तै.उ. २.१.२]
दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ [मु.उ. २.७]
यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म ॥ [छा.उ. ८.१.१]
एतत्सत्यं ब्रह्मपुरमस्मि कामाः समाहिताः एष आत्मापहतपाप्मा… सत्यकामः सत्यसङ्कल्पः [छा.उ. ८.१.५]
इत्यादिश्रुत्यन्तरप्रसिद्धपरमव्योमब्रह्मपुरादिशब्दानां भगवद्धामवाच्यत्वं तथोपपादितं, तस्यापि ब्रह्मरूपत्वोपपादनेन पीठपदव्याख्यान एवेति ध्येयम् ॥१॥
—ओ)०(ओ—
(१.३.२)
नित्यो नित्यानां चेतनश्चेतनानाम्
एको बहूनां यो विदधाति कामान।
तं पीठगं येऽनुभजन्ति धीरास्
तेषां सिद्धिः शाश्वती नेतरेषाम् ॥२०॥
कालावच्छिन्नानां ध्रुवसत्यानां स्वभावतश्चैतन्यगुणानां चैतन्यस्वरूपाणां च क्षेत्रज्ञानां,
न जायते म्रियते वा विपश्चिन्
नायं कुतश्चिन्न बभूव कश्चित।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥ [क.उ. १.२.१८]
तथा नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः, ज्ञोऽत एव [वे.सू. २.३.१६१७] इत्यादिश्रुतिसूत्रेभ्यः ।
अत्र गुणगुणिभावो न नैयायिकानामिव, अपि तु जलतच्छैत्ययोरिव, प्रदीपतत्प्रकाशयोरिव चेति । तथा च परमार्षं सूत्रं गुणाद्वा आलोकवत्[वे.सू. २.३.२४] इति ।
चैतन्यस्य धर्मो हि प्रभा भानोरिवामला ।
तथा स्फुरति जीवोऽसौ स्वत एवानुरूपया ॥
इति नारदपञ्चरात्रोक्तेश्चेति बोद्ध्यम् । स्वरूपतस्तु जीवोऽणुरनन्तश्च । एषोऽणुरात्मा चेतसा वेदितव्यः [मु.उ. ३.१.९]
बालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ [श्वे.उ. ५.९]
नित्योऽनित्यानां चेतनश्चेतनानां
एको बहूनां यो विदधाति कामान। [क.उ. २.२.१३]
इति मुण्डकश्वेताश्वतरकठश्रुतिभ्यः । उत्क्रान्तिगत्यागतीनां [वे.सू. २.३.१८] इति पारमर्षसूत्राच्च । तदुक्तं च दशश्लोक्यां—
ज्ञानस्वरूपं च हरेरधीनं
शरीरसंयोगवियोगयोग्यम् ।
अणुं हि जीवं प्रतिदेहभिन्नं
ज्ञातृत्ववन्तं यदनन्तमाहुः ॥ [द.श्लो. १] इत्यादि ।
गुणतस्तु विभुः, चैतन्यस्य धर्मो हि प्रभा भानोरिवामला इत्यनुपदोक्तस्मृतेः । विशेषस्त्वाकारे द्रष्टव्यः ।
प्रसङ्गादिदमुक्तम्—बहूनामिति । अनन्तानामित्यर्थः । एतेन जीवानामनन्तत्वमुक्तम् । य इति कृष्ण इत्यर्थः । नित्यः कालानवच्छिन्नः । ज्ञः कालकारो गुणी सर्वविद्यः [श्वे.उ. ६.२], स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः [श्वे.उ. ६.१३], नास्ति सतोऽनुपत्तेः [वे.सू. २.३.८] इत्यादिश्रुतिसूत्रेभ्यः ।
चेतनः इति । चैतन्य गुणश्चैतन्यस्वरूपश्च, सत्यं ज्ञानमनन्तं ब्रह्म, यः सर्वज्ञः स सर्ववितित्यादि द्विविधश्रुतिभ्यः । अत्रापि गुणगुणिभावः पूर्ववदेव प्रकाशाश्रयवद्वा तेजस्त्वात्[वे.सू. ३.२.२८] इति पारमर्षसूत्रात। न तु नैयायिकसम्मतेश्वरवत। एक इति एको वशी [गो.ता.उ. १.१९] इत्यत्र निरुक्तैकपदार्थः ।
कामान्धर्मार्थकामनाख्यान्चतुर्वर्गरूपान्विदधाति एष ह्येवैनं साधु कर्म कारयति तं यमूर्ध्वमुन्निनीषति, एष एवैनमसाधु कर्म कारयति तं यमधो निनीषति [कौ.उ. २.९, श.ब्रा. ३.४] इति । एष आत्माऽअन्नादो वसुदानो विन्दते वसु य एवं वेद [बृ.आ.उ. ४.४.२४], प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः [श्वे.उ. ६.१६] इत्यादिकौषीतकीबृहदारण्यकश्वेताश्वतरादिश्रुत्यन्तरेभ्यः, फलमत उपपत्तेः [वे.सू. ३.२.३८], लभते च ततः कामान्मयैव विहितान्हि तान्[गीता ७.२२] इत्यादिसूत्रगीतादिवाक्येभ्यश्च । शेषं पूर्ववत।
अनेन,
नित्योऽनित्यानां चेतनश्चेतनानां
एको बहूनां यो विदधाति कामान।
तमात्मस्थं येऽनुपश्यन्ति धीराः
तेषां शान्तिः शाश्वती नेतरेषाम् ॥ [क.उ. २.२.१३]
नित्यो नित्यानां चेतनश्चेतनानाम्
एको बहूनां यो विदधाति कामान।
तत्कारणं सांख्ययोगाधिगम्यं
ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ [श्वे.उ. ६.१३]
इत्यादि कठश्वेताश्वतरादिश्रुतयो व्याख्याता इति ॥२॥
—ओ)०(ओ—
(१.३.३)
एतद् विष्णोः परमं पदं ये
नित्योद्युक्तास्तं यजन्ति न कामात् ।
तेषामसौ गोपरूपः प्रयत्नात्
प्रकाशयेदात्मपदं तदेव ॥२१॥
अत्र मन्त्रे अंशद्वयम् । एतद्विष्णोः परमं पदमिति प्रथमोऽंशः । ये नित्योद्युक्तास्तं यजन्ति न कामातित्यादि द्वितीयोऽंशः । तत्र प्रथमेनांशेन निरुक्तपीठाख्य एव परमे धाम्नि श्रुत्यन्तरप्रसिद्धविष्णुपरमपदत्वं बोध्यते । द्वितीयेन तत्र तमिति तत्पदार्थभूतस्य भगवतो यजनेन भगवत्कर्तृकभगवत्पददर्शनरूपफलमुच्यते । तथा च, एतद्विष्णोः परमं पदमित्यस्यायं तात्पर्यार्थः—
तदस्य प्रियमभि पाथो अस्यां
नरो यत्र देवयवो मदन्ति ।
उरुक्रमस्य स हि बन्धुरित्था
विष्णोः परमे पदे मध्व उत्सः ॥
तां वां वास्तून्युश्मसि गमध्यै
यत्र गावो भूरिशृङ्गा अयासः ।
अत्राह तदुरुगायस्य वृष्णः
परमं पदमवभाति भूरि ॥ [ऋग्वेद १.१५४.५६] इति ।
या ते धामन्युष्मसि गमध्यै
यत्र गावो भूरिशृङ्गा अयासः ।
अत्राह तदुरुगायस्य विष्णोः
परमं पदमवभारि भूरि ॥ [शु.य.वे.]
ये ते धामन्युष्मसि गमध्यै
यत्र गावो भूरिशृङ्गा अयासः ।
अत्राह तदुरुगायस्य विष्णोः
परमं पदमवभाति भूरेः ॥ [कृ.य.वे.]
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः
दिवीव चक्षुराततम् ।
तद्विप्रासो विपन्यवो जागृवासः
समिन्धत्ते विष्णोर्यत्परमं पदम् ॥
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ [क.उ. १.३.९]
इत्यादि ऋग्वेदशुक्लयजुर्वेदकृष्णयजुर्वेदसंहितामन्त्रकठोपनिषदादिप्रतिपाद्यं निरूप्यते । सामान्येनोक्तस्य विशेषेणोपसंहार अनुभवसिद्धः । तथात्रापि च पुनर्वक्ष्यति—तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः, दिवीव चक्षुराततमिति । एवं च तदेतत्पदं ये हृदि भावयन्तस्तत्र तं निरुक्तलक्षणं कृष्णं यजन्ति भावकुसुमैरहर्निशं यथाकालं यथायोगं यथाभावमर्चयन्ति सेवन्ति तत्सेवातिरिक्तकामांश्च न कामयन्ते, तेषां तादृशभावयुक्तभक्तानाम् ।
असौ अनुपदनिरुक्तलक्षणः कृष्णह। गोपरूपः निरुक्तरसरूपगोपस्वरूपः, प्रयत्नात्भक्तप्रयत्नानपेक्षनिजप्रयत्नेनैवम्, तदेव निरुक्तलक्षणमात्मपदं स्वस्य पदं धाम दर्शयति । आत्मशब्दप्रयोगात्प्राधान्येन तत्र स्वस्वरूपं चानुभावयति । तं यथोपासते तदेव भवति [श.ब्रा. १०.६], ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं [गीता ४.११] इति श्रुतिस्मृतिभ्याम् । साधनायां पीठे भगवत्सेवनस्योक्तत्वात्फलावस्थायामपि पीठे भगवत्स्वरूपानुभवस्यैव वक्तुं युक्तत्वादात्मपदं दर्शयेदिति फलांशवाक्यं च तथा व्याख्यातम् ।
एवं च तैत्तरीये—सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद विहितं गुहायां परमे व्योमन्सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता [तै.उ. २.१.२] इत्यनेन यो वेद इत्याद्यंशेन ब्रह्मोपासनं वेदनापरपर्यायं तत्फलं च संक्षेपतो दर्शितम् । तदेवोपासनं, एतस्य इत्यारभ्य, प्रकाशयेदत्मपदं तदेत्यन्तेन विस्ट्र्तमिति बोध्यं सुधीभिः ॥
अस्य पीथस्य यन्त्रादेश्च स्वरूपं प्रकारश्च पुरुषार्थबोधिन्यामाथर्वणोपनिषद्येकादशतमप्रपाठकादावेवं पठ्यते, यथा—
अथ यन्त्रं प्रवक्ष्यामि यतः स्थलं नित्यमुच्यते ।
क्षणार्थं कृष्णचन्द्रस्तु यत्स्थानं न परित्यजेत॥१॥
प्रेमरूपा यथा राधा तादृक्कृष्णश्च कौतुकी ।
स्वशक्त्या विहरेत्तत्र स्वस्थानं न परित्यजेत॥२॥
दिव्यं वृन्दावनं स्थानं शेषाङ्गस्थं च सर्वदा ।
ब्रह्मरूपमिदं स्थानं सच्चिदानन्दरूपकम् ॥३॥
अष्टकोणं लिखेदादौ दशार्णं यत्र वै लिखेत।
तन्मध्ये कामराजं तु ध्यात्वा कृष्णं लिखेद्बुधः ॥४॥
नवभिः शक्तिभिः सार्धं सह कृष्णं तु राधया ।
सम्पूज्य योगपीठं च मध्ये वेदीं स्मरेत्ततः ॥५॥
षट्कोणं च लिखेद्बाह्ये षड्बीजं तत्र च न्यसेत।
वृन्दावत्यादि षट्भवस्या पुजयेत्साधकोत्तमः ॥६॥
वृन्दावती रङ्गदेवी सुभद्रा च प्रियंवदा ।
रत्नलेखा च नित्या च शक्तयः परिकीर्तिताः ॥७॥
इमाः षट्शक्तयः कृष्णे निगूढप्रेमदायिकाः ।
आसां मन्त्रं बीजषट्कं नमोऽन्तं प्रणवादिकम् ॥८॥
गोपनीयं प्रयत्नेन कृष्णप्रेमबहिर्मुखात।
तद्बाह्ये प्रथमावृत्ते रेखामष्टौ तद्धि लाञ्छितम् ॥९॥
ललिताद्यास्तेषु प्ज्याः तासां मधेये पुरा तथा ।
द्वात्रिंशदूर्ध्वरेखासु षोडशान्तं विभावयेत॥१०॥
सिद्धा षोडश साहस्रं गोपीनामेषु पूजयेत।
चतुरस्रं चतुर्द्वारं लिखेत्पीठचतुष्टयम् ॥११॥
दक्षिणे श्रुतिसिद्धानां सचरोविंशत्सहस्रम् ।
प्रतिसव्यां मुनिसिद्धानामष्टाशीतिसहस्रकम् ॥१२॥
पूजयेत्पुरचरीणां तु षट्त्रिंशत्पूर्वलक्षकम् ।
मण्डलं हि चतुर्लक्षं साहस्रं पूजयेत्ततः ॥१३॥
आसां मन्त्रं हि आगमसंवादि विज्ञायते च ।
चत्वारो वेदा गीयन्ते वेदानामतो गायत्री तत्र तत्र पूज्यो भवति ॥१४॥
चतुर्दिक्षु चतुर्धा च अधिष्ठात्री देवता ।
त्रिपुरारि चतुःशक्तिः सायुधसपरिवारा सगणा पूज्यते ॥१५॥
क्रीडास्थलमिदं ज्ञेयं द्वितीयावृतमेव तु ।
तद्बाह्ये चतुर्दिक्षु सरस्यो ह्यत्र निर्मलाः ॥१६॥
चतस्रोऽमृतपानीया हंसपद्मादिसङ्कुलाः ।
पूर्वे सिद्धिप्रदा नाम्ना रत्नसोपानसंयुता ॥१७॥
तज्जलस्पर्शमात्रेण ज्ञानचक्षुर्भवेन्नृणाम् ।
प्रेमभक्या तु पश्यन्ति न पश्यन्तीतरे जनाः ॥१८॥
पतत्त्रीविशालस्तत्र कृष्णप्रेमसुविह्वलाः ।
ये च माया गुणातीताः प्रेमभक्तिसमन्विताः ॥१९॥
तज्जलं ते तु पश्यन्ति महात्मानो महोदरम् ।
पश्चिमद्वारसङ्कीर्णा नाम्ना पुष्कारिणी परा ॥२०॥
नानामणिसमाकीर्णा सोपानैरुपशोभिता ।
तज्जलस्पर्शमात्रेण साधका दिव्यरूपिणः ॥२१॥
भवन्ति तत्क्षणादेव श्रीकृष्णप्रेमभाजनाः ।
उत्तरद्वारितत्रस्थो नाम्ना मलयनीविडः ॥२२॥
मणिवैदूर्यसोपानः पुष्परत्नसमाकुलः ।
वसन्तोत्सवयात्रां तु कुरुते तत्र केशवः ॥२३॥
ततो मण्डलबाह्ये च रेखायां केशवस्य च ।
सखायः षोडश तेष्वेव सगणान्पूजयेत्सुधीः ॥२४॥
रेखाया बाह्यभागे तु सन्ति कल्पमहीरुहाः ।
तेषां मध्यस्थवेदिकायां सुरभीवृन्दमर्चयेत॥२५॥
कालिन्दीं पूजयेत्तत्र वृन्दावनभूषणाम् ।
स्फुरद्रत्नोमयतटीं श्यामलामृतवाहिनीम् ॥२६॥
एतत्पीठं पुण्डरीकं पञ्चावरणसंयुतम् ।
तत्रैव सुरभीवृन्दं तत्प्रधानाष्टकं शृणु ॥२७॥
सुरभी वृन्दा निषिद्धा चित्राङ्गी कामधेन्वपि ।
कृष्णा कृष्णमुखी पीता पूर्वादिक्रमसंस्थिताः ॥२८॥
तद्बाह्येऽष्टदलं वृक्षव्रजमों प्रणवं पुटम् ।
तेषु चाक्षरान्मन्त्रान्विलिख्य तत्र पूजयेत॥२९॥
पूर्वपत्रं कामकूटं तत्र केशिनिपातितम् ।
महारासपरे तत्र कृष्णगोपीकदम्बकैः ॥३०॥
श्रीपुरं वह्निदिश्यस्ति तत्र कृष्णं प्रपूजयेत।
वासो हरन्तं गोपीनां नीपशाखायताश्रयम् ॥३१॥
पीठमानन्दकान्यं च निरोधोत्तरदिग्दलम् ।
यत्र वेणुं वादयन्तौ रामकृष्णौ रसान्वितौ ॥३२॥
अन्वितौ युवतीवृन्दैर्गोगोपैर्गीतमोहितैः ।
ऐशन्यां यद्दलं प्रोक्तं रतिसारं तदुच्यते ॥३३॥
यज्ञपत्नीभिरुल्लासैर्नानोपायनपाणिभिः ।
अन्वितौ रामकृष्णौ तौ ध्येयौ विश्वेश्वरेश्वरौ ॥३४॥
पश्चिमे यद्दलं प्रोक्तं महापीठं विदुर्बुधाः ।
यत्राभिषिक्तो भगवान्शक्रेणेशः स्वयंभुवा ॥३५॥
वायुकोणदले पीथं वर्धनं विश्वमङ्गलम् ।
यत्र गोवर्धनं शैलं धृतवान्भगवान्प्रभुः ॥३६॥
दक्षिणे यद्दलं प्रोक्तं जयं नाम पीठकम् ।
तत्रैव भावयेन्मन्त्रं सख्युः षोडशमण्डलान॥३७॥
सखिनां बाह्यभागे तु द्वात्रिंशद्दलमुच्यते ।
जन्मादिलीलया तत्र देवदेवो विराजते ॥३८॥
नानाक्रीडरसं तत्र कृष्णं च परिचिन्तयेत।
तद्बाह्ये स्वर्णप्राचीरे कोटिसूर्यसमुज्ज्वले ॥३९॥
चतुर्दिक्षु महोद्याने मन्दमारुतसेविते ।
पश्चिमे सम्मुखे श्रीमत्पारिजातद्रुमाश्रये ॥४०॥
तत्राधस्तु स्वर्णपीठे स्वर्णमण्डपमण्डिते ।
तन्मध्ये मणिमाणिक्यरत्नसिंहासनोज्ज्वले ॥४१॥
तत्रोपरि परानन्दं वासुदेवं जगद्गुरुम् ।
त्रिगुणातीतचिद्रूपं सर्वकारणकारणम् ॥४२॥
चतुर्भुजं महद्धाम ज्योतीरूपं सनातनम् ।
शङ्खचक्रगदापद्मधारिणं वनमालिनम् ॥४३॥
रुक्मिणी सत्यभामा च नाग्निजिती सुलक्षणा ।
मित्रविन्दा सुनन्दा च तथा जाम्बवती प्रिया ॥४४॥
सुशीला चाष्ट महिषी वासुदेवावृतास्तथा ।
उद्धवाद्याः परिषदावृतास्तद्भक्तितत्पराः ॥४५॥
उत्तरे दिव्य उद्याने हरिचन्दनसम्भृते ।
तत्राधस्तु स्वर्णपीठे मणिमण्डपमण्डिते ॥४६॥
तत्रोपरि च रेवत्या सङ्कर्षणहलायुधम् ।
पूर्वोद्याने महारम्ये सुरद्रुमतलाश्रये ॥४७॥
तस्याधस्तु महापीठे हेममण्डपमण्डिते ।
श्रीमत्या उषया श्रीमदनिरुद्धं जगत्पतिम् ॥४८॥
प्राचीरे दक्षिणे भागे मञ्जुमुक्तान्तरस्थिते ।
अनन्तवृक्षमूलस्य मणिमण्डितमन्दिरे ॥४९॥
प्रद्युम्नेन रती देवी तत्रोपरि समास्थिता ।
तस्याधस्तु महापीठे आधारशक्तिकल्पिते ॥५०॥
तत्रस्थतद्रूपध्यानतत्परम् ।
तद्बाह्ये स्फटिके श्रीमत्प्राचीरे सुमनोहरे ॥५१॥
चतुर्दिक्ष्वावृते दिव्ये प्रतिदीप्तसमुज्ज्वले ।
अग्रे सुरगणाः सर्वे सुरेन्द्रविधिशङ्कराः ॥५२॥
दक्षिणे मुनिवृन्दैश्च शुद्धसत्त्वान्वितात्मभिः ।
तत्पृष्ठे गोपमुख्यैश्च सनकाद्यैर्महात्मभिः ॥५३॥
वाञ्छन्ति तत्पदाम्भोजे निश्चलं प्रेमसाधनम् ।
तद्बाह्ये तु प्रवालाद्यैः प्राचीरे सुमनोहरे ॥५४॥
कृष्णं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम् ।
शङ्खचक्रगदापद्मकिऋईटादिविभूषितम् ॥५५॥
रक्तं चतुर्भुजं विष्णुं शङ्खचक्रगदाधरम् ।
किरीटकुण्डलोद्दीप्तं द्वारपालं समुत्तरे ॥५६॥
गौरं चतुर्भुजं विष्णुं शङ्खचक्रगदायुधम् ।
पूर्वद्वारे द्वारपालं हरिवर्णं चतुर्भुजम् ॥५७॥
कृष्णवर्णं चतुर्बाहुं दक्षिणे द्वारपालकम् ।
एतद्यन्त्रं महागोप्यं वैष्णवानां सुदुर्लभम् ॥५८॥
इत्थं चिन्तयित्वा पूजयति मनसा वा ये परमं ज्ञानं लभन्ते ते प्रेमभक्त्या सुवैष्णवा भवन्ति । इत्याथर्वणे पुरुषबोधिन्यां यन्त्रराजकथने एकादशः प्रपाठकः ।
पश्चिमादौ क्रमेण सेव्यं—ललिता मूलमण्डलं, पश्चिमे ललिता ताम्बूलं, वायव्ये श्यामला गन्धपात्रं, कौरवे श्रीमती चमरं छत्रमैशन्यां हरिप्रिया रत्नमालां पूर्वे विशाला श्वेतपत्रमश्लेषा तुलसीमालां, अग्नौ शैव्या, वाम्ये पद्मा भोजपात्रं, नैरृते भद्रा पट्टवस्त्रं, अग्रे चन्द्रावली मुक्तामालां, चित्ररेखा वनमालां, चित्रतल्पा सुधापात्रं, मृगाङ्गी पद्ममालां, श्रीदेवी रत्नछत्रं, शशिरेखा पीतवस्त्रं, कृष्णप्रिया मणिपादुकां, कृष्णवल्लभा चित्रकाष्ठं, वृन्दावती नीलछत्रं, धूपपात्रं मनोहरा, घनसारं योगानन्दा, परमानन्दा व्यजनं, सत्यानन्दा स्वर्णस्थालीं करेण प्रेमानन्दा जलपात्रं कृष्णसेवानियोजिताः ।
किशोरी रहस्यालापे प्रथमा सहजानन्दा, परानन्दा परात्मिका एता गोप्यः कृष्णाग्रे नृत्ययुक्ता सेव्या । रामानन्दा सिद्धा च सिद्धगा गायिनी । एवं गीतगायनं जया भद्रा पद्मा पद्मावती एता मृदङ्गं वाद्यं सत्यानन्दा जयानन्दा सानन्दा शुभा दया सुदया च क्षेमलोमा कृपालोमा कात्या वेणुवाद्यं, कृष्णप्राणकरौ प्रेमविलासिनी ईश्वरी प्रेमरमा प्रेमपूर्वत एवेश्वरी अज्ञमृदङ्गादिवादनं प्रेमोन्मदा प्रेमसिद्धा प्रेमधारा प्रियंवदा प्रेमोन्मादा प्रेमसाध्या प्रेमगीता प्रियकरी वीणावादनतत्पराः ॥
प्रथमा दया साध्या प्रपन्ना जयन्ती जया निश्चला यमुना गङ्गा सुभद्राङ्गी शुभ्रभूषणा रवावादनं, विमला निर्मला बाला नीला सुशीला स्वर्णरूपा स्वरूपिका कांस्यवाद्यं, हेला चेला सुवेला तरला विमला स्वरूपा शुभ्ररूपा स्वर्णगात्री शुभदा यन्त्रवाद्यादि, कमला सुबला लेखा सानन्दा कुमुदा मन्दा सुमन्दरा सुखदा रेखा रत्नगात्री जयप्रदा तालवादनम्, कपिला पिङ्गलाक्षी कुटिला कृष्णपिङ्गला कुण्डला हारी मण्डली मण्डनप्रिया काष्ठवाद्यम् ।
सोमपा अमृतपा सौम्या शुभा राधा स्वयंवरा शङ्खं वाद्यं, सिद्धैश्वर्या तु वेताला गण्डपाली शुचिस्मिता सूत्रवाद्यं, रुक्मिणी वेताली सिद्धैश्वर्या एता मृद्दलावाद्यं, तत्परा बालेश्वरी सुकृष्णा नेपाली नाकुला तथा एता गोप्यः सावधाना नियुक्ताः ।
इत्याथर्वणे पुरुषबोधिन्या उपनिषदो द्वादशतमः प्रपाठकः ।
सेयं पुरुषार्थबोधिन्याहर्वणोपनिषद्यावत्युपलभ्यते तावतीह पाथिता । तत्र षष्ठप्रपाठकमारभ्य दशमप्रपाठकपर्यन्ता स्वरूपनिरूपणप्रसङ्ग एव पठिता । द्वादशप्रपाठकपर्यन्ता त्विह पठितेति शम् ।
एवं भगवत्स्वरूपप्रतिपादकाः परमधामप्रतिपादकाश्च केचिद्वेदमन्त्राः पद्मपुराणे उत्तरखण्डे पञ्चपञ्चाशदधिकशततमाध्यायमारभ्योमामहेश्वरसंवादेन व्याख्यातास्तदत्र समुद्ध्रियते, यथा—
पार्वत्युवाच—
तद्विष्णोः परमं धाम व्यूहभेदांस्तथा हरेः ।
सर्वमाख्याहि तत्त्वेन मम सर्वसुरेश्वर ॥
ईश्वर उवाच—
शृणु देवि प्रवक्ष्यामि स्वरूपं परमात्मनः ।
विभूतिगुणसङ्घातं तदवस्थात्मकं हरेः ॥
विश्वतः पाणिपादश्च चक्षुष्मान्विश्वतः प्रभुः ।
विश्वानि भुवनान्यस्मिन्धामानि परमाणि वै ॥
धारयन्सोऽप्यत्यतिष्ठन्मनांसि च महर्षिणाम् ।
एवं बृहत्स्वरूपोऽसौ श्रीपतिः पुरुषोत्तमः ॥
ईश्वरर्या सह भोगार्थं दिव्यमङ्गलरूपवान॥
बृहच्छरीरो विमिमानरूपो
युवा कुमारत्वमुपेयिवान्हरिः ।
रेमे श्रियासौ जगतां जनन्या
स्वज्योत्स्नया चन्द्र इवामृतांशुः ॥
अयं च जगदीश्वर्या कुमारो नित्ययौवनः ।
कन्दर्पकोटिलावण्यः तस्थौ स परमे पदे ॥
भोगार्थं परमं व्योम क्रीडार्थमखिलं जगत।
भोगक्रीडतया विष्णोर्स्वरूपद्वयमास्थितम् ॥
भोगे नित्या स्थितिस्तस्य लीलां संहरते यदा ।
भोगो लीला उभौ तस्य धार्येते शक्तिमत्तया ॥
त्रिपाद्यपि परं धाम पादोऽस्येहाभवत्पुनः ।
त्रिपाद्विभूतिर्नित्या स्यादनित्यं पादमैश्वरम् ॥
नित्यं तद्रूपमीशस्य परे धाम्नि स्थितं शुभम् ।
अच्युतं शाश्वतं दिव्यं सदा यौवनमाश्रितम् ॥
नित्यं सम्भोगमीश्वर्या श्रिया भूम्या च संवृतम् । [प.पु. ६.२२६.२१२]
सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात।
स भूमिं सर्वतः स्पृष्ट्वात्यतिष्ठद्दशाङ्गुलम् ॥ [प.पु. ६.२२६.६४]
पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनाति रोहति ॥
एतावानस्य महिमा ततो ज्यायांश्च पुरुषः ।
पादोऽस्य विश्वभूतानि त्रिपादस्यामृतं दिवि ॥
नित्यैवेषा जगन्माता विष्णोः श्रीरनपायिनी ॥
यथा सर्वगतो विष्णुस्तथा लक्ष्मीः शुभानने ।
ईशाना सर्वजगतो विष्णुपत्नी सदा शिवा ॥
सर्वतः पाणिपादान्ता सर्वतोऽक्षिशिरोमुखी ।
नारायणी जगन्माता समस्तजगदाश्रया ॥
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजङ्गमम् ।
जगत्स्थितिलयौ यस्या उन्मीलननिमीलनात॥ [प.पु. ६.२२६.१३१६]
इति द्वयोः श्रीपुरुषोत्तमयोः स्वरूपगुणमात्रात्मकत्वमुक्त्वा तयोः परमधामस्वरूपमाह—
त्रिपाद्विभूतिरूपं तु शृणु भूधरनन्दिनि ।
प्रधानपरमव्योम्नोरन्तरे विरजानदी ॥५८॥
वेदाङ्गस्वेदजनितैस्तोयैः प्रस्राविताशुभा ।
तस्याः पारे परे व्योम्नि त्रिपाद्भूतिः सनातनी ॥२॥
अमृतं शाश्वतं नित्यमनन्तं परमं पदम् ।
अनेककोटिसूर्याग्नितुल्यवर्चसमव्ययम् ॥३॥
सर्ववेदमयं शुद्धं सर्गप्रलयवर्जितम् ।
हिरण्मयं मोक्षपदं ब्रह्मानन्दसुखावहम् ॥४॥
समानाधिक्यरहितमाद्यन्तरहितं शुभम् ।
तेजसात्यद्भुतं रम्यं नित्यमानन्दसागरम् ॥५॥
एवमादिगुणोपेतं तद्विष्णोः परमं पदम् ।
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं हरेः ॥६॥
तद्विष्णोः परमं धाम शाश्वतं नित्यमच्युतम् ।
न हि वर्णयितुं शक्यं कल्पकोटिशतैरपि ।
हरेः पदं वर्णयितुं न शक्यं
मया च धात्रा च मुनीन्द्रवर्यैः ।
यस्मिन्पदे ह्यच्युत ईश्वरो यः
स वेद चेदं यदि वा न वेद ॥
यदक्षरं वेदगुह्यं
यस्मिन्देवा अधि विश्वे निषेदुः ।
यस्तन्नो वेद किं ऋचा करिष्यति
ये तद्विदुस्त इमे समासते ॥७॥
तद्विष्णोः परमं धाम सदा पश्यन्ति सूरयः ।
अक्षरं शाश्वतं दिव्यं देवि चक्षुरिवाततम् ॥८॥
तत्प्रवेष्टुमशक्यं च ब्रह्मरुद्रादिदैवतैः ।
ज्ञानेन शास्त्रमार्गेण वीक्ष्यते योगिपुङ्गवैः ॥९॥
अहं ब्रह्मा च देवाश्च न जानन्ति महर्षयः ।
सर्वोपनिषदामर्थं दृष्ट्वा वक्ष्यामि सुव्रते ॥१०॥
विष्णोः पदे हि परमे पदे तत्सुसमासते ।
यत्र गावो भूरि शृङ्गा आसते सुसुखाः प्रजाः ॥११॥
अत्राह तत्परं धाम गोपवेषस्य शार्ङ्गिणः ।
तद्भाति परमं धाम गोभिर्गोपैः सुखाह्वयैः ॥१२॥
नित्या सर्वे परे धाम्नि ये चान्ये च दिवौकसः ।
ये तैः प्राकृतनाकेऽस्मिन्ननित्या त्रिदिवेश्वराः ॥१३॥
ते ह नाकं महिमानः सचन्ते इति वै श्रुतिः ।
एवं परं पदं नित्यैर्मुक्तिभागपरायणैः ॥१४॥
दिव्याभिर्महिषीभिश्च राजते प्रभुरीश्वरः ।
न तद्भासयते सूर्यो न शशाङ्को न पावकः ॥१५॥
यद्गत्वा न निवर्तन्ते योगिनः शंसितव्रताः ।
सामान्या वर्तते भूमिरन्तेऽस्मिन्शाश्वते पदे ॥१६॥
तस्थतुर्जागरूकेऽस्मिन्युवानौ श्रीसनातनौ ।
यतः स्वसारौ युवतीभूनीले विष्णुवल्लभे ॥१७॥
अत्र पूर्वे ये च साध्या विश्वेदेवाः सनातनाः ।
तत्र विज्ञानिनो विप्रा जागृवांसः समिन्धते ॥१८॥
तत्पदं ज्ञानिनो विप्रा यान्ति संवासमिच्छवः ।
तद्विष्णोः परमं धाम मोक्ष इत्यभिधीयते ॥१९॥
अस्मिन्बन्धविनिर्मुक्ताः प्राप्यन्ते परमं सुखम् ।
तत्प्राप्य न निवर्तन्ते तस्मान्मोक्ष उदाहृतः ॥२०॥
मोक्षं परं पदं दिव्यममृतं विष्णुमन्दिरम् ।
अक्षरं परमं धाम वैकुण्ठं शाश्वतं पदम् ॥२१॥
नित्यं च परमं व्योम सर्वोत्कृष्टं सनातनम् ।
पर्यायवाचकान्यस्य परधाम्नोऽच्युतस्य च ॥२२॥ इत्यादिनेति ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् ।
सत्यं ज्ञानमनन्तं यत्ब्रह्म ज्योतिः सनातनम् ॥२३॥
श्रीदामानं च नत्वासौ प्रविष्टोऽन्तस्तदाज्ञया ।
महाचतुष्के वितते तेजोऽपश्यन्महोच्चयम् ॥२४॥
तत्त्वे ककालसम्भूतं कोटिसूर्यसमप्रभम् ।
स व्यचष्ट महत्तेजो दिव्यं सिततरं मुने ॥२५॥
दिशश्च विदिशः सर्वा ऊर्ध्वाधो व्याप्नुवान्यत ।
अक्षरं ब्रह्म कथितं सच्चिदानन्दलक्षणम् ॥२६॥
प्रकृतिं पुरुषं चोभौ तत्कार्याण्यपि सर्वशः ।
व्याप्तं यद्योगसंसिद्धाः षट्चक्राणि निजान्तरे ॥२७॥
व्यतीत्य मूर्ध्नि पश्यति वासुदेवप्रसादतः ।
यद्भासा भासितः सूर्यो वह्निरिन्दुश्च तारकाः ॥२८॥
भासयन्ति जगत्सर्वं स्वप्रकाशं तथामृतम् ।
यद्ब्रह्मपुरमित्याहुर्भगवद्धाम सात्वताः ॥२९॥
इत्यादिना स्कान्दे पुराणे वैष्णवखण्डे वासुदेवमाहात्म्ये च तथा गोलोकस्वरूपनिरूपणादिति विस्तरतो युग्मतत्त्वसमीक्षायामुत्तरार्धं द्रष्टव्यम् ।
अत्र,
विश्वतश्चक्षुरुत विश्वतोमुखो
विश्वतोबाहुरुत विश्वतस्पात।
सम्बाहुभ्यां धमति सम्पतत्रैर्
द्यावाभूमी जनयन्देव एकः ॥ [श्वे.उ. ३.३]
चतुर्भिः साकं नवतिं च नामभिश्
चक्रं न वृत्तं व्यतीन्रवीविपत।
बृहच्छरीरो विमिमान ऋक्वभिर्
युवा कुमारः प्रत्येत्याहवम् ॥ [ऋ.वे. १.१५५.६]
इति विष्णुसूक्तं पुरुषसूक्तं श्रीसूक्तं च स्वरूपपरतया लीलापरतया च व्याख्यानि । तथैव—
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥
तदस्य प्रियमभि पाथो अस्यां
नरो यत्र देवयवो मदन्ति ।
उरुक्रमस्य स हि बन्धुरित्था
विष्णोः परमे पदे मध्व उत्सः ॥
तां वां वास्तून्युश्मसि गमध्यै
यत्र गावो भूरिशृङ्गा अयासः ।
अत्राह तदुरुगायस्य वृष्णः
परमं पदमवभाति भूरि ॥ [ऋग्वेद १.१५४.५६] इति ।
इत्यादिविष्णुसूक्तमन्त्राः,
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ [ऋ.वे. १०.९०.१७]
ते ह नाकं महिमानः सचन्त
यत्र पूर्वे साध्याः सन्ति देवाः । [ऋ.वे. १०.९१.६]
इत्यादि पुरुषसूक्तमन्त्रास्, तथान्ये च—ऋचोऽक्षरे परमे व्योमन्, इयं विसृष्टिर्यत आबभूव, इत्यादि वेदसंहितामन्त्राः, दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः इत्याद्युपनिषदश्च स्वरूपनिरूपणप्रस्तावे, यत्तस्य पीठमित्यस्य व्याख्याने, एतद्विष्णोः परमं पदमित्यस्य व्याख्याने च पठिता वेदमन्त्रा व्याख्याता भवन्तीत्यनुसन्धेयम् ॥३॥
—ओ)०(ओ—
(१.३.४)
अथ यान्येतानि ध्यानरसनभजनोपासनानि अमृतत्वप्राप्तये कर्तव्यत्वेनोपदिष्टानि तानि क्मुक्तौ स्वतन्त्रसाधनरूपाणि भवन्ति—साधनान्तरव्यापाररूपाणि वा, तत्र स्वतन्त्रसाधनानि तु न भवितुमर्हन्ति—
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ [क.उ. १.२.२३]
इति श्रुतौ साधनान्तरप्रतिषेधेन वरणमात्रलभ्यत्वस्य निर्धारात। मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते [गीता ७.१४], सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज [गीता १८.६६] इति गीतावाक्ये च प्रपत्तिमात्रस्यैव तानि भवितव्यानि । एवं च यस्य साधनस्यैतानि व्यापाराणि तत्साधनमाह—
यो ब्रह्माणं विदधाति पूर्वं
यो वै विद्यास्तस्मै गोपायति स्म कृष्णः ।
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणं व्रजेत् ॥२२॥
अत्र वै इति शब्दद्वयमेवकारार्थकम् । तत्र प्रथमो यत्पदार्थद्वयान्वयी । द्वितीयत्वे मुमुक्षुर्वै शरणं व्रजेतित्यर्थप्रतीतेरार्तादीनां मुमुक्षारहितानां द्रौपदीगजेन्द्रप्रभृतीनां च शरणगमनं विप्रतिषिद्धं स्यादिति स वैशब्दः शरणशब्देनैवान्वेति । ह इति शब्दोऽप्येवकारार्थकस्तच्छब्देनान्वेति । वेदे मात्रामात्रस्यापि प्रयोजनविशेषशून्यत्वकल्पनस्यानुचितत्वेन पादपूरणार्थकत्वमात्रासम्भवात।
तथा च य एव कृष्णः पूर्वं सर्वादिसृष्टेरादौ ब्रह्माणं हिरण्यगर्भं विदधाति जनयति पोषयति च । य एव तस्मै ब्रह्मणे विद्या गोपायति तमुपदिश्य सम्प्रदायप्रवर्तनेन रक्षयति । क्वचित्“गापयति” इत्येव पाठः । तथा च गीतादिवदुपदिशति । ततः प्रणतो मयाऽनुकूलेन हृदा मह्यमष्टादशार्णं स्वरूपं सृष्टये दत्त्वान्तर्हितः [गो.ता.उ. १.२६] इति वक्ष्यमाणश्रुतेः । वस्तुतस्तु अत्र ब्रह्मपदं जीवमात्रोपलक्षणम् । विद्यापदं विद्यामात्रोपलक्षणम् । विदधाति इति क्रियापदं जननधारणपोषणसंहारादिसृष्टिः, तदुपयोगिसर्वक्रियोपलक्षणम् ।
तथा च,
यथोर्णनाभिस्तन्तुनोच्चरेद्यथाग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्ति, एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एव आत्मनो व्युच्चरन्ति [बृ.आ.उ. २.१.२०],
यतो वा इमानि भूतानि जायन्ति, येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति [तै.उ. ३.१], आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति [तै.उ. ३.६], एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः [बृ.आ.उ. ३.८.९], को ह्येवान्यात्कः प्राण्यात्[तै.उ. २.६],
इत्यादि तैत्तरीयबृहदारण्यकादिश्रुत्युक्तदिशा यः सर्वजगज्जननधारणपोषणादिकर्ता या एव च तस्मै तदर्थं जगतोऽर्थं च, एतस्यैव महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदः [बृ.आ.उ. ४.५.११] इत्यादिश्रुत्युक्तदिशा सर्वविद्याजनकः प्रवर्तकश्च तमेव कृष्णं, कृषिर्भूवाचकः शब्दः, सच्चिदानन्दरूपाय इत्यादि व्याख्यातदिशा निरतिशयसच्चिदानन्दघनरूपं, तथा देवं निरुक्तपरमदेवमात्मबुद्धिप्रकाशमात्मनो बुद्धेश्च प्रकाशकं स्वतः स्वप्रकाशं मुमुक्षुः निरुक्तलक्षणमोक्षेच्छुः, वै शरणमन्यत्र साधनत्वबुद्धिं परित्यज्य शरणमेव व्रजेत। एवकारार्थकेन शरणान्वितेन वैशब्देन शरणातिरिक्तस्य मोक्षसाधनत्वप्रतिक्षेपः सूचितो भवति । वैशब्दस्य सामान्यतोऽवधारणार्थकत्वेऽपि तादृशार्थतया मुमुक्षुपदान्वितत्वस्वीकारेऽपि च शरणगमनस्यावश्यकर्तव्यत्वं तूक्तं भवत्येव । वस्तुतस्तु, यमेवैष वृणुते तेन लभ्यः [क.उ. १.२.२३] इति वरणश्रुत्यैकवाक्यतया शरणातिरिक्तस्य मोक्षसाधनत्वनिषेधरूपान्ययोगव्यवच्छेदार्थक एवात्र वैशब्दस्तेन निरुक्तार्थ एव साधुः ।
एतेन—
यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै ।
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ [श्वे.उ. ६.१८]
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ [क.उ. १.२.२३]
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात॥ [क.उ. १.२.२४]
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ [मु.उ. ३.२.३]
नायमात्मा बलहीनेन लभ्यो
न च प्रमादात्तपसो वाप्यलिङ्गात।
एतैरुपायैर्यतते यस्तु विद्वांस्
तस्यैष आत्मा विशते ब्रह्मधाम ॥ [मु.उ. ३.२.४]
न कर्मणा न प्रजया धनेन
त्यागेनैके अमृतत्वमानशुः ।
परेण नाकं निहितं गुहायां
विभ्राजते यद्यतयो विशन्ति ॥ [म.ना.उ. १२.१४]
तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः ।
ब्रह्मणे त्वा महसे ओमित्यात्मानं युञ्जीत ॥ [म.ना.उ. ७९.१८]
इत्यादिश्रुतयः शरणागतिसमर्पकत्वेन व्याख्याताः ॥
ननु, प्रकृतमन्त्रे व्रजेतिति लिङन्तप्रयोगाद्विधिप्रतीतेर्भवतु नाम शरणागतिसमर्पकत्वम् । तथापीतरेषां कथं शरणागतिसमर्पकत्वं, मुमुक्षुर्वै शरणमहं प्रपद्ये [श्वे.उ. ६.१८] इत्यादौ विधिबोधकप्रत्ययाभावादिति चेत्, उच्यते—यद्यपि तेषु विधिवत्ययो न श्रूयते, तथापि रात्रिसत्रन्यायेन तेषां शरणागतिविधायकत्वं सम्भवति । तथा हि—प्रतितिष्ठति इत्यादिना तत्र रात्रिसत्रस्वरूपं प्रतिष्ठारूपं फलं च श्रूयते, न तु तस्य स्वशब्देन लिङादिप्रयोगेन कर्तव्यत्वं विधीयते । तथापि फलाद्यन्यथानुपपत्त्या विधिः कल्प्यते । अन्यथा तद्वाक्यस्य वैयर्थ्यं स्यादिति निर्णीतं पूर्वमीमांसायाम् । तथा प्रकृतेऽपि लिङाद्यभावेऽपि आप्ततमस्य वेदऋषेर्मोक्षार्थं व साधनान्तरपरित्यागेन परमेश्वरशरणगमनं तात्पर्येण विधीयत एव । अज्ञातार्थं ज्ञापकत्वस्य वेदत्वस्य चोभयत्र समानत्वेन ।
किं च, यथा तत्त्वमसि, अहं ब्रह्मास्मि इत्यादि महावाक्ये न जीवकर्तव्यत्वात्स्वनिष्ठब्रह्मात्मकृतत्वभावनाया विधिः । लिङाद्यभावात। न वा स्वशब्देन जीवसामान्यं प्रत्ययमुपदेशः । जीवविशेषस्यैव श्वेतकेतुहिरण्यगर्भादेस्तत्र प्रस्तुतत्वात। तथैव मध्यमोत्तमपुरुषप्रयोगाच्च । तथापि तेन वाक्येन स्वस्मिन्ब्रह्मात्मकत्वभावनं मुमुक्षुमात्रकर्तव्यतया बोध्यते, मोक्षप्रकरणत्वात। जीवविशेषस्य तत्र जीवसामान्यप्रतिनिधित्वोपगमात। आत्मेत्येवोपासीत [बृ.आ.उ. १.४.७] इत्यादाविव लिङाद्यभावेऽपि वाक्यान्तरसम्भिव्याहारेण तथा तात्पर्योपगमाच्च । तथैव प्रकृतेऽपि बोध्यम् । न च तथापि “तत्त्वमस्य्” आदिवाक्येन विधिः, अपि तु वस्तुस्थितेरेवोपदेशः । जीवस्य ब्रह्मात्मकत्वं तु स्वभाविकमेव तच्चानाद्यविद्यया विस्मृतकण्ठमणिन्यायेनाविद्यमानमिव वर्तते, तदेव “तत्त्वमस्य्”आदिवाक्येन स्मार्यते इति वाच्यम् । प्रकृतेऽपि तथैव शरणागतिपदार्थतात्पर्यार्थभूतं भगवदाश्चितत्वमपि जीवस्य स्वाभाविकमेव धर्मः, सन्मूलाः सोम्येमाः प्रजाः सदायतनाः सत्प्रतिष्ठानाः [छा.उ. ६.८.६] इत्यादिश्रुतेः, सर्व एत आत्मानः समर्पिताः [बृ.आ.उ. २.५.१५] इति बृहदारण्यकश्रुतेश्च । एवं च “तत्त्वमस्य्”आदिवाक्यप्रतिपादितं जीवस्य ब्रह्मात्मकत्वमपि तत्रैवान्तर्भूतम् । तथैव व्यवस्थापितं श्रीसुन्दरभट्टाचार्यैः रहस्यषोडशीभाष्ये—एतेन वाक्यार्थोऽपि व्याख्यातः इत्यादिना । विधिविशेषस्य तु नाग्रहः । केवलं तादृशभावनानुबोधनमात्रमपेक्षते । तच्चोभयत्र समानमिति ।
इदं त्ववधेयम् । शरणागतिर्हि सन्मूलाः सोम्येमाः प्रजाः सदायतनाः सत्प्रतिष्ठानाः [छा.उ. ६.८.६], तत्त्वमसि श्वेतकेतो, स वा अयमात्मा सर्वेषां भूतानामधिपतिः, सर्वेषां भूतानां राजा । तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः, एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ [बृ.आ.उ. २.५.१५], अहं ब्रह्मास्मि, ब्रह्मदाशा ब्रह्मदाशा ब्रह्मेमाः कितवाः, ममैवांशो जीवलोके जीवभूतः सनातनः [गीता १५.६], अंशो नानाव्यपदेशात्[वे.सू. २.३.४१] इत्यादिश्रुतिस्मृतिसूत्रेभ्यः, सर्वात्मनि सर्वाश्रये सर्वेशे सर्वनियामके भगवति स्वभावतस्तदात्मकस्य तदाश्रितस्यात्मात्मीयस्य वस्तुनोऽनाद्यविद्ययाध्यस्तस्वतन्त्रत्वस्वकीयत्वादिबुद्धिपरिहारपूर्विका भगवदात्मकत्वभगवदधीनत्वभगवदाश्रितत्वादिभावनया स्थितिरेव । अत्रैव शरणागतिशब्दार्थभूतानामन्येषां सर्वेषामर्थानां तात्पर्येणान्तर्भावात। शरणशब्दो हि सर्वमनोरथसाधनभूते आशृअये प्रयुज्यते । पद्मपूर्णे विशेषमाहात्म्ये बृहद्ब्रह्मसंहितायां च पञ्चपदीमन्त्रव्याख्याने—
राधाकृष्णौ तयोः पादाः शरणं स्यादिहाश्रये ।
प्रपद्ये गतवानस्मि जीवोऽहं भृशदुःखितः ॥
सोऽहं यः शरणं प्राप्तो मम तस्य यदस्ति च ।
सर्वं ताभ्यां तदर्थं हि तद्भोग्यं न ह्यहं मम ॥ इत्यादौ ।
तथा व्याख्यानोपलब्धेः । आगतिरपि तथा भावनायाः स्थितिरेव । सन्मूला सोम्येमाः प्रजाः इत्यादिश्रुत्यादिभ्यो जीवस्यानादित एव स्वभावत एव च भगवदाश्रितत्वेन समर्पितत्वेन तदात्मकत्वादिना चानागन्तुकसदातनस्थितिमत्त्वेन तत्र क्रियात्मकतदाश्रितत्वतदधीनवादिभावनया स्थितौ यो भावनापदार्थभूतो ज्ञानविशेषः, सोऽपि भगवदात्मकत्वादिवत्स्वभावसिद्ध एव जीवस्य चैतन्यगुणांशभूतः । एवं च शरणागतिपदार्थभूतं त्रितयमपि जीवेऽणुत्वचेतनत्वादिवत्स्वभावसिद्धमेव, न त्वागन्तुकम्, किन्तु तत्कर्मात्मकानाद्यविद्यया स्वनिष्ठचैतन्यादिवत्पिहितमिव यदा भवति, तदा स स्वस्मिन्स्वतन्त्रत्वादिकमध्यस्य संसारी भवति । यदा च भगवत्कृपया शास्त्राचार्यसंसर्गवत्त्वेन स्वकल्पितं स्वतन्त्रत्वादिबुद्धिं परित्यज्य भगवदेकशरणो भूत्वा प्रपन्नवृत्तिमाचरन्नवतिष्ठते, तदा भगवत्कृपया संसारो निवर्तते भगवद्भावापत्तिं च प्राप्नुते । तदर्थमेव शरणागतिशास्त्रम् ॥
एवमेव च रहस्यषोडशीभाष्ये चरमार्थं च ब्रह्माग्नावात्मानं जुहुयादुधः इति कारिकाव्याख्याने,
ब्रह्मणि जुहुयात्, आत्मन्यासं कुर्यात्स्वतन्त्रसत्तामनादिकर्मप्रयुक्तां ब्रह्मणि त्यजेत। आत्मानं कर्तृत्वभोक्तृत्वज्ञानाज्ञानपुण्यापुण्यकर्मभिर्देहेन्द्रियमनोबुद्ध्यादिभिश्च आत्मात्मीयवर्गैश्च सह श्रीगुरौ निधाय श्रीभगवति पुरुषोत्तमे प्रथमपदार्थे समर्पयेदित्यर्थः ।
आत्मवृत्तिस्वातन्त्र्यस्य चानादिकर्मात्मिकाविद्याप्रयुक्तत्वात। इत्यारभ्य,
हुत्वात्मानं बुधश्चैवं कृतकृत्योऽभिजायते ।
भवबन्धविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात॥
इत्यन्तेन विस्तृतं विचारितम् ।
इयमेव शरणागतिप्रपत्त्यात्मभरन्यासात्मार्पणादिशब्दैश्च व्य्वहार्यते । तात्पर्य्भारद्वाजसंहितायामयमात्मभरन्यासः प्रपत्तिरिति चोच्यते [भा.सं १.७] इति । श्रद्धया परया युक्तो हरिं शरणमाव्रजेत्[भा.सं १.१३] इति च ।
युगलार्थस्तथा न्यासः प्रपत्तिः शरणागतिः ।
आत्मार्पणमिमे पञ्चपर्यायास्ते मयोदिताः ॥ [प.पु. ५.८१.६५]
इति पाद्मे वृन्दावनमाहात्म्ये नारदं प्रति श्रीईवोक्तेश्च । एवं च प्रपत्तिन्यासात्मार्पणादिशब्दैरपि अनाद्यविद्याकल्पितस्वातन्त्र्यादित्यागपूर्वकतदेकशरणतया स्थितिरेवोच्यते । त्यागस्तु अनादिकर्मात्मिकाविद्याकल्पितस्वातन्त्र्यादेरेव फलतो भवति । न तु आत्मत्मीयस्य तस्य प्रागपि अत्वायांदृशीयत्वात्तु परन्तु ततविद्याकल्पितस्वकीयत्वादिनावृतं सतविद्यमानमिव भवति स्वकीयत्वादि बुद्धिनिवृत्तौ व्यक्तं भवति । तेन जीवे भगवदीयत्वादिकं शरणगमनादिना नोत्पाद्यं किन्त्वनादिसिद्धमेव तेन “शरणं व्रजेत्,” “प्रपद्ये,” इत्यादिवाक्यानां तत्त्वमसि, आत्मेत्येवोपासीत [बृ.आ.उ. १.४.७] इत्यादिवाक्यानामिव मनसो विषयतो”पकृष्य तदुन्मुखीकरणमात्रं कर्तव्यम् । न तु जुहुयादित्यादिवत्कृतिसाध्ये प्रवर्तनमिति । एतेन एष त आत्मा, स म आत्मेति विद्यातित्यादिं श्रुतयो व्याख्याताः, आत्मेति तूपगच्छन्ति ग्राहयन्ति च [वे.सू. ४.१.३] इति सूत्रं च । उक्तदिशा तेषामपि निरुक्तशरणागतिसमर्पकत्वाद्बाधकाभावाच्चेति बोध्यम् ।
एवं सर्वात्मनो भगवतो ध्यानरसनभजनोपासनान्यपि जीवस्यानादिसिद्धानि स्वाभाविका एव धर्माः । ध्यानं स्मृतिसन्ततिः । रसनं निरुक्तलक्षणात्मसम्पर्पणपूर्वकतत्स्वरूपगुणमाहात्म्याद्यनुशीलनम् । भजनं प्रेममयमानससेवा उपासनं प्रेममयबाह्यसेवा । तदेतच्चतुष्टयमपि स्वात्मविषयकं सत्स्वाभाविकमेव भवति सर्वो हि प्रेक्षावान्स्वात्मानं स्मरति । अनुशीलयति अन्तर्बहिश्च प्रेम्णा सेवते । तथा आत्मनामप्यात्मभूतभगवत्कर्मकमेतच्चतुष्टयं स्वाभाविकमनादिसिद्धमेव वर्तते । अत एव श्रुतिः—तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा [बृ.आ.उ. १.४.८] इति श्रुतेः । तथा चैतदपि चतुष्टयं स्वभावसिद्धमेवाविद्ययापिहितमभ्यासेनोद्घाटनायोपदिशति श्रुतिः, “ध्यायेत्रसयेत्भजेत्यजेत्” इत्यादि । तस्मादेतच्चतुष्टयमपि नित्यमेव । तेन न तत्रापि जुहुयादित्यादिवज्जीवकृतिसाध्ये प्रवर्तनमित्यपि बोध्यम् ।
एतेन यदुक्तं, आत्मेत्येवोपासीत, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्यादौ यद्यपि विधिप्रत्ययः तथापि नात्र प्रमाणतन्त्रत्वेन च विधेरसम्भवात। इति विधिच्छायापन्नान्येव तानि वाक्यानि इति तत्तत्प्रकरणस्य न विधिविशेषत्वम् । इति व्यवस्थापितं भाष्ये भामात्यां चेति । प्रकृते तु तादृशप्रतिबन्धकाभावाद्विधिः सम्भवति इति विधिशेष एव प्रकृतविचार इति शङ्कावसरो निरस्तः । उक्तदिशा ध्यानरसनभजनोपासनानां शरणागतेश्च नित्यत्वेन आत्मविषयकतया स्वारसिकत्वेन च पुरुषतन्त्रत्वाभावात। तदावरणाविद्यापनोदार्थमभ्यासोपदेशस्तूभयत्र समान इत्यप्यनुसन्धेयम् । विधिशेषात्वाभावे हेत्वन्तराणि तूक्तान्येव पूर्वमिति ।
अथ न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः, तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः इत्यादि तुरीयाश्रमतावकश्रुतिषूक्तानां त्यागन्यासादिपदानां कथं शरणागतिसमर्पकत्वमिति चेत्, न । तत्र संन्यासविधेरभावेन तेषां तच्छेषत्वासम्भवात। दहरं विपायं परवेश्म भूतं यत्पुण्डरीकं पुरमध्यसंस्थम् । तत्रापि दहरं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यमिति मन्त्रेणाग्रे छान्दोग्ये दहरविद्यायामिव प्रकृतोपनिषदि निरुक्तपीठभावनायामिव च भगवदुपासनस्यैव निरूपणात। तथा तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः इत्यस्याप्यग्रे, ब्रह्मणे त्वा महसे ओमित्यात्मानं जुहीत इत्यनेन, प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन बोद्धव्यं शरवत्तन्मयो भवेतित्यादिवत्प्रणवद्वारा प्रणवप्रतिपाद्ये भगवति आत्मन्यासयोगापरपर्यायशरणगतिपरत्वमेव तत्प्रकरणपठितवाक्ययोस्तयोर्युक्तम् । न्यासशब्दस्य च शरणागत्यपरपर्यायत्वं सर्ववैष्णवशास्त्रप्रसिद्धमेव । अत एव भारद्वाजसंहितायां प्रथमाध्याये—
श्रूयतां सम्प्रवक्ष्यामि न्यासाख्यं योगमुत्तमम् ।
सिद्धिं चैवास्य परमां द्वयमेतच्छ्रुतं मया ॥
अयं हि योगो वेदेषु वेदान्तेषु च गीयते ।
तथैव धर्मशास्त्रेषु दिव्यशास्त्रगणेषु च ॥ [भा.सं १.४५]
इत्यादिनोपक्रम्य,
अयमात्मभरन्यासः प्रपत्तिरिति चोच्यते । [भा.सं १.७]
श्रद्धया यस्माद्युक्तो हरिं शरणमाव्रजेत॥ इत्याद्युक्तम् ।
पाद्मेऽपि वृन्दावनमाहात्म्ये युगलमन्त्रप्रसङ्गे—
युगलार्थस्तथा न्यासः प्रपत्तिः शरणागतिः ।
आत्मार्पणमिमे पञ्चपर्यायास्ते मयोदिताः ॥ [प.पु. ५.८१.६५]
इति न्यासप्रपत्तिशरणागत्यात्मार्पणशब्दानां समानपर्यायत्वमुक्तम् । अत एव च श्रीसुन्दरभट्टपादादिभिराचार्यै रहस्यषोडश्यादिभाष्ये (९)—स च भगवत्साक्षात्कारो भगवत्प्रसादजन्यः ।
तमक्रतुः पश्यति वीतशोको
धातुः प्रसादान्महिमानमीशम् ॥ [श्वे.उ. ३.२०]
यमेवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा वृणुते तनुं स्वाम् ॥ [क.उ. १.२.२३] इत्यादिश्रुतिभ्यः ।
प्रसादश्च तस्मान्न्यासमेतेषां तपसामतिरिक्तमाहुः इति श्रुत्युक्तात्मन्यासविद्याजन्यः तस्मान्न्यासविद्यैवात्र विधेया ।
यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै ।
तं ह दैवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ [श्वे.उ. ६.१८]
यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास्तस्मै गोपायति स्म कृष्णः ।
तं ह दैवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणं व्रजेत ॥ [गो.ता.उ. १.२२] इति मन्त्राभ्याम् । इत्यादिना ।
तस्मान्न्यासमिति श्रुतेरात्मन्यासपरत्वं, तस्य च शरणागतिसमानार्थकत्वमुक्तम् । निरुक्तत्यागश्रुतेरपि न्याससमानार्थकत्वादुक्तहेतोश्च शरणागतिरेवार्थः । युक्तं चैतत। तुरीयाश्रमग्रहणरूपत्यागमात्रेण मोक्षासम्भवात। तस्य स्वतो मोक्षसाधकत्वे वचनान्तराभावात। शुष्कत्यागस्य बौद्धत्यागवन्निरर्थकत्वात। भगवत्यात्मभरन्यासरूपत्यागस्य मोक्षाधारणोपायत्वं तु स्वयंभगवतैव मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते [गीता ७.१४],
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ [गीता १८.६२]
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता १८.६६] इत्यादिना उक्तम् ।
श्रुतिरपि—यमेवैष वृणुते तेन लभ्यः, मुमुक्षुर्वै शरणमहं प्रपद्ये [श्वे.उ. ६.१८], मुमुक्षुर्वै शरणं व्रजेत [गो.ता.उ. १.२२] इत्यादिना तथैवाह । तस्मान्निरुक्तार्थ एव सार इति ।
ननु, यमेवैष इति श्रुतेः कथं शरणागतिसमर्पकत्वमिति चेत्, शृणु—
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ [क.उ. १.२.२३] इत्यस्यायमर्थः ।
अयमात्मा , तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणमित्यादिना निरूपितः । पुरुषान्न परं किञ्चिदित्यादिना निरूपयिष्यमाणश्च परमात्मा प्रवचनेन स्वाध्यायोऽध्येतव्यः । तमध्यापयीत इत्याद्यध्ययनाध्यापनविधिप्रयुक्तवेदाद्यध्ययनाध्यापनेन च न लभ्यो दृश्यः प्राप्यश्च । तदुक्तं गीतायां नाहं वेदैर्न तपसा [गीता ११.५३] इत्यादि । “मेधया” ज्ञानेन शास्त्रादिजन्यज्ञानेन । “बहुना श्रुतेन” श्रोतव्य इत्यादि विधिप्रयुक्तश्रवणेन इतमन्येषामपि साधनानामुपलक्षणम् । तेन स न केनापि साधनेन लभ्यो भवतीत्युक्तं भवति । किन्तु यं जीवमेव एष निरुक्तपरमात्मा वृणुते स्वकीयत्वेनाङ्गीकुरुते, तेनैव जीवेन एष परमात्मा लभ्यो, नान्येन, यत एव आत्मा परमात्मा तस्य स्वीयत्वेन वृतस्य सम्बन्धसामान्ये षष्ठी, तथा च तमुद्दिश्यैव तदर्थमेव वा स्वां स्वकीयां तनुं स्वरूपं विवृणुते प्रकाशयति नान्यमुद्दिश्येति वाक्यार्थः । तथा च—
तं यथा यथोपासते तदेव भवति तद्धैनान्भूत्वावति ।
तस्मादेवंवित्सर्वैरेवैतैरुपासीत सर्वं हैतद्भवति सर्वं हैन्मेतद्भूत्वावति । [श.ब्रा. १०.५.२.२०]
इति शतपथब्राह्मणेऽग्निरहस्यकाण्डे मण्डलब्राह्मणश्रुतेः । ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं [गीता ४.११] इति गीतायां भगवदुक्तेश्च यो जीवः सच्चिदानन्दभावेन भगवन्तं वृणुते शरणीकरोति, तमेव जीवं भगवानपि आत्मसात्करोति, नान्यमिति भवति ।
“यमेवैष वृणुते” इत्यादिश्रुतेर्भगवच्छरणागतिप्रकाशकत्वमिति । तथा—
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात॥ [क.उ. १.२.२४]
नायमात्मा बलहीनेन लभ्यो
न च प्रमादात्तपसो वाप्यलिङ्गात।
एतैरुपायैर्यतते यस्तु विद्वांस्
तस्यैष आत्मा विशते ब्रह्मधाम ॥ [मु.उ. ३.२.४]
इति कठे मुण्डके च वरणवाक्यशेषः प्रपन्नवृत्तिप्रकाशक इत्यवधेयम् ।
इदं पुनरनुसन्धेयम् । शरणं व्रजेतित्यस्यावतरणिकायामुक्तरीत्या ध्यानरसनभजनयजनानां शरणागतिपारतन्त्र्यात्शरणस्याङ्गित्वं तेषामङ्गत्वमिति । गीतायामपि अष्टादशाध्यायशेषे—
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ [गीता १८.६२] इत्यत्र ।
“सर्वभावेन” इति तृतीया श्रुत्या सर्वभावपदोक्तानां ध्यानादीनां, “तमेव शरणं गच्छ” इत्यंशेनोपस्थापितशरणगमनस्याङ्गत्वबोधनात। सर्वभावपदेन तत्रापि मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु [गीता १८.६५] इति सजातीयवाक्योपस्थापितत्वात्ध्यानादीनामेव ग्रहणेन तापिनीश्रुतिसमानरूपत्वमेव । भागवतेऽपि—
तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च ॥
मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।
याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः ॥ [भा.पु. ११.१२.१४१५]
इत्येकादशस्कन्धवाक्ये सच्चिदानन्दभावपदेन मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु [गीता १८.६५] इत्यादि गीताद्युक्तानां ध्यानभजनादीनामेव परिग्रहात। तेषां च तृतीया श्रुत्या, “याहि” इति क्रियापदोक्तशरणगमनाङ्गत्वस्यैव बोधनाच्च । तस्माच्छरणागतिरङ्गी, अङ्गानि च ध्यानरसनभजनयजनानि ।
ननु गीतायां भागवते च “सर्वभावेन”, “सर्वात्मभावेन” इति तृतीयाश्रुत्या तेषामङ्गभावनिश्चयेऽपि प्रकृते तादृशश्रुतेरभावात्कथं ध्यानादीनां शरणगमनाङ्गतानिश्चय इति चेत्, तादृशश्रुतेरभावेऽपि प्रमाणान्तरादेव ध्यानादीनामात्मात्मीयसर्वसमर्पणरूपशरणागतावङ्गभावः । तथा हि, शरणं व्रजेतिति विधिः । “अग्निहोत्रं जुहोति” इत्यादि विध्यन्तरवत। साधनमिति कर्तव्यतां चापेक्षते तत्र साध्याकाङ्क्षायां, आत्मबुद्धिप्रकाशं मुमुक्षुः इत्यंशेन शरण्यभगवद्विशेषणतया शरणगमनाधिकारिविशेषणतया च श्रुतौ भगवत्साक्षात्कारो मोक्षश्च साध्यतयान्वीयेते । साधनाकाङ्क्षायां भगवत्सम्प्रदानकमात्मात्मीयसर्वसमर्पणं साधनतयान्वेति इति कर्तव्यताकाङ्क्षायां प्रकरणपठितानि ध्यानरसनभजनयजनानीति कर्तव्यतयान्वितानि भवन्ति । तत्र शरणगमनस्य भगवत्सम्प्रदानकात्मात्मीयसर्वसमर्पणात्मकत्यागरूपस्य, यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन् इति श्रुत्या दानसम्प्रदानदेवताध्यानसाकाङ्क्षत्वात्प्रकरणपठितमेव ध्यानमङ्गभावं भजते । तथा तादृशसमर्पणस्य तादृशदेवतातादृशद्रव्यतादृशत्यागस्वरूपप्रकाशकत्वात्, चतुर्थ्यंशेन स्वाहांशेन च तादृशसम्प्रदानकतादृशसम्प्रदेयसमर्पणप्रकाशकत्वाच्च समर्पणरूपशरणागतावङ्गभावं लिङ्गादेव भजते ।
एवं भक्तेरपि,
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ [गीता ९.२६]
इति गीतावाक्यात्सर्वसमर्पणाङ्गभावनिश्चयान्नियमत एवात्मसमर्पणाङ्गत्वम् । तत्र गीतायां तृतीया श्रुत्यैव । अत्र तु तादृशश्रुतेरभावात्प्रकरणादेव भक्तेरात्मसमर्पणाङ्गता । न च उभयाकाङ्क्षा प्रकरणं ध्यानरसनभजनयजनानामत्रोक्तानां तु सोऽमृतो भवति इति तद्वाक्यशेषेण स्वातन्त्र्येणापि फलसम्बन्धावगमान्निराकाङ्क्षत्वमेवेति वाच्यम् । “यमेवैष वृणुते” इति व्याख्यातश्रुतेः स्वातन्त्र्येण भगवत्प्राप्तिफलसम्बन्धस्य वक्तव्यत्वेन इत्यमृतत्वरूपमुख्यफलस्योक्तस्य स्वसम्बन्धनिर्वाहाय वरणान्तरङ्गे साधने आमन्यासे नित्यसाकाङ्क्षत्वात। शरणविधेर्ध्यानादिसाकाङ्क्षत्वं तूक्तमेवेति भवत्युभयोः साकाङ्क्षत्वात्प्रकरणादप्यङ्गाङ्गिभावः । यदि च भक्तेरपि प्रपत्तिवदेव साक्षादपि भगवदनुग्रहसाधनत्वमभिप्रेयते तदापि तयोः स्थानाख्यप्रमाणात्परस्परमङ्गाङ्गिभावः । प्रेमभक्तिहीनप्रपत्तेर्नीरसत्वात्प्रपत्तिहीनप्रेम्णो निर्भरत्वाभावाच्चेति तेन प्रेमप्रपत्त्योर्नितरामङ्गाङ्गिभावः । तत्रापि भावविशेषेण भगवत्प्राप्तीच्छायां सत्यां त्वतितरामङ्गाङ्गिभाव इति बोध्यम् ।
एवं च ध्यानादीनां प्रपत्त्यङ्गतायामारादुपकारकवं सन्निपत्त्योपकारकत्वं चोभयमपि सम्मतम् । ध्यानादीनां पूर्वोक्तदिशात्मात्मीयसर्वसमर्पणरूपप्रपत्तिस्वरूपनिर्वाहकत्वात्सन्निपत्त्योपकारकत्वम् । कृतसर्वार्पणस्य शरणागतस्य तस्य भगवदनुग्रहस्वरूपयोग्यताभिव्यक्तिरूपापूर्वहेतुत्वादारादुपकारकत्वमित्यपि बोद्धव्यम् ।
तदेतत्सर्वं भगवत्प्राप्तिलक्षणपरमामृतस्वरूपपरमफलमपेक्ष्योक्तम् । त्रिवगकामनायां तु निर्भरात्मसमर्पणरूपप्रपत्तेः पुराणताया असम्भवाद्यजनस्यैव सम्पूर्णतया सम्भवाच्च । अत एव तत्रैव तेनास्याखिलं भवत्यखिलं भवति [गो.ता.उ. १.१८] इत्यादिना चतुर्वर्गफलसम्बन्धाभ्यासमाहेति यजनस्यैवाङ्गित्वं ध्यानादिप्रपत्तिपर्यन्तानामङ्गत्वमेव तदप्यङ्गत्वं स्थानाख्यप्रमाणादिति बोध्यम् । पञ्चपदीमन्त्रस्य तु तत्र श्रुत्या लिङ्गाच्च तत्तत्कार्यविशेषेऽङ्गभाव इति विशेषः । एवं च तत्रापि मन्त्रस्य सन्निपत्त्योपकारकत्वमारादुपकारकत्वं च निश्चितम् । ध्यानस्य सन्निपत्त्योपकारकत्वं निशितम् । भक्तेः शरणागतेश्चारादुपकारकत्वं निश्चितमिति मम प्रतिभाति । अधिकं त्वन्यत्र द्रष्टव्यम् ।
न्यासविद्यात्मार्पणविद्याद्यपरपर्यायाः शरणागतेः परमात्मनः प्रसादहेतुतायामसाधारणत्वे भारद्वाजसंहितायां सोपपत्तिकानि महर्षिभारद्वाजवचनान्येवं पठ्यते—
भारद्वाज उवाच—
श्रूयतां सम्प्रवक्ष्यामि न्यासाख्यं योगमुत्तमम् ।
सिद्धिं चैवास्य परमां द्वयमेतच्छ्रुतं मया ॥
अयं हि योगो वेदेषु वेदान्तेषु च गीयते ।
तथैव धर्मशास्त्रेषु दिव्यशास्त्रगणेषु च ॥
अनेनैव हि कर्माद्या योगाः सिद्ध्यन्ति देहिनाम् ।
सिद्धिर्न तद्व्यपेक्षास्य तस्मादेनं परं विदुः ।
निष्किञ्चनस्य साध्यस्य परत्रेष्टस्य साधने ।
अयमात्मभरन्यासः प्रपत्तिरिति चोच्यते ॥
प्रायो गुणवतामेव कृतः सर्वत्र देहिनाम् ।
सर्वेषां साधयत्येव तांस्तथानर्थानभीप्सितान॥
अनन्तज्ञानश्रुत्क्यादिकल्याणगुणसागरे ।
परे ब्रह्मणि लक्ष्मीशे मुखोऽयं सर्वसिद्धिकृत॥
प्रशासितुरशेषाणामात्मनां परमात्मनः ।
नहि प्रसादनं विष्णोरन्यदात्मार्पणादृते ॥ इति ।
एवं श्रीसनकादिनारदानुगैराद्याचार्यैः श्रीनिम्बार्कमहामुनिभिः पञ्चपदीमहामन्त्रव्याख्यामुखेनात्मन्यासस्वरूपं रहस्यमीमांसायां रहस्यषोडशीश्लोकैरेवमाह—
श्रीमद्धंसं प्रणम्याथ कुमारान्नारदं मुनिम् ।
ब्रह्मविद्यां प्रवक्ष्यामि गुह्याद्गुह्यां सनातनीम् ॥१॥
यां प्राप्य साधवः पूर्वे भगवद्भावमागताः ।
तस्मात्सर्वात्मभावेन धारणीया मुमुक्षुभिः ॥२॥
अकारार्थो हरिः प्रोक्तो मध्यमार्थो गुरुस्तथा ।
मकारार्थो जीवजातो विज्ञेयो वैष्णवोत्तमैः ॥३॥
तथैव क्लर्थः कृष्णः स्याद्द्वितीयो गमयिता गुरुः ।
चरमार्थश्च क्षेत्रज्ञ इति शास्त्रानुशासनम् ॥४॥
यद्वदागमबीजस्य सामान्या गतिरीरिता ।
तथैव बीजमन्त्रस्य ज्ञातव्या हि मुमुक्षुभिः ॥५॥
मङ्गलायाप्यखण्डार्थः शास्त्रारम्भे प्रकीर्त्यते ।
भगवन्नामधेयत्वात्प्रोच्यते च महर्षिभिः ॥६॥
ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ओमित्येकाक्षरं ब्रह्मेत्युक्तिरर्जुनसारथेः ॥७॥
चरमार्थं हविः कृत्वा मध्यमं चार्पणं तथा ।
प्रथमार्थे च ब्रह्माग्नावात्मानं जुहुयाद्बुधः ॥८॥
हुत्वात्मानं बुधश्चैवं कृतकृत्योऽभिजायते ।
भवबन्धविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात॥९॥
एतस्यैव हि मन्त्रस्य शिष्टं विवरणं स्मृतम् ।
तेषु क्लर्थश्च व्याख्यातो द्वाभ्यां पद्भ्यां बुधोत्तमैः ॥१०॥
स लक्षणप्रमाणाभ्यां स्वरूपगुणशक्तिभिः ।
एकेन चरमार्थस्य गुरुणा योग उच्यते ॥११॥
चरमेणात्महोमस्य विधानं परीकीर्तितम् ।
अनेनैवास्य शास्त्रस्य ह्यनुबन्धाः प्रकीर्तिताः ॥१२॥
गुर्वर्थं यस्य प्राणादि यौवनं धनमेव च ।
आत्मात्मीयेषु निर्विण्णोऽधिकारी सम्यगीर्यते ॥१३॥
विषयः प्रथमार्थः स्यात्तद्भावापत्तिलक्षणम् ।
श्रेयः प्रयोजनं ज्ञेयं ज्ञाप्यज्ञापकयोगता ॥१४॥
आदौ गुरौ न्यसेत्प्राणानात्मानं धनमेव च ।
सर्वसम्बन्धविषयं कृत्वा सेवेत नित्यशः ॥१५॥
देहेन्द्रियमनःप्राणैर्मायां हित्वा समाहितः ।
भृत्यवत्पुत्रवत्सेवेत्प्रियावन्मित्रवत्तथा ॥१६॥
या देया गुरुणा विद्या भवसम्बन्धध्वंसिनी ।
तां तदुक्तेन मार्गेण धारयेद्वैष्णवोत्तमः ॥१७॥
इति गुह्यतमं शास्त्रं रहस्यं साधुसत्तमैः ।
ऋते शिष्यान्न देयं चानुष्ठेयं गुरुयोगतः ॥१८॥
इति श्रीभगवन्निम्बादित्यविरचिता रहस्यमीमांसायां रहस्यषोडशी समाप्ता । सैषा रहस्यषोडशी श्रीसुन्दरभट्टपादैर्विस्तृतभाष्येण विवेचितं रहस्यमीमांसायामिति ।
एवं च साङ्गं प्रपत्तिप्रकाशकत्वादेव पञ्चपदीमहामन्त्रस्य गोपालतापिन्यां विस्तरेण विवेचनं माहात्म्यकथनं चेत्यपि बोध्यम् ॥४॥
—ओ)०(ओ—
(१.३.५)
अथ येन मन्त्रेण शरणं गन्तव्यं तन्मन्त्रमाह—
ओंकारेणान्तरितं ये जपन्ति
गोविन्दस्य पञ्चपदं मनुम् ।
तेषामसौ दर्शयेदात्मरूपं
तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्त्यै ॥२३॥
ओंकारेण प्रणवेनान्तरितमन्तरालीकृतमित्यर्थः । तथा च स्वरूपतो व्याख्यानतश्च प्रणवात्मकम् । क्लीमोंकारयोरेकत्वं वदन्ति ब्रह्मवादिभिः [गो.ता.उ. २.५८] इत्युत्तरतापिन्यां वक्ष्यमाणश्रुतेः । क्लींकारस्य प्रणवपर्यायत्वात्पञ्चपदीमन्त्रस्य क्लींकारव्याख्यानरूपत्वेन प्रणवव्याख्यानरूपत्वाच्च । अत एवोक्तं रहस्यषोडश्यां—
यद्वदागमबीजस्य सामान्या गतिरीरिता ।
तथैव बीजमन्त्रस्य ज्ञातव्या हि मुमुक्षुभिः ॥ [र.षो. ५] इति ।
एतस्यैव हि मन्त्रस्य शिष्टं विवरणं मतमिति चेति । असौनिरुक्तलक्षणः परमो देवो निरुक्तलक्षणगोपरूपः । प्रयत्नात्जीवसाधननिरपेक्षः शरणातैकवल्लभः, प्रकाशयेत्दर्शयेत्, आत्मरूपं निरतिशयसच्चिदानन्दघनं वरणैकलभ्यं, सत्पुण्डरीकनयनमित्यादि विशेषितम् । नित्यशान्त्यै भगवद्भूताप्तये, अभ्यसेत्निरन्तरमनुसन्ध्यात।
जपो हि मानसो विवक्षितः । जपो मानसे च इति स्मृतेः । स च पञ्चाङ्गं जपनित्यत्रोक्तलक्षणः । तथा शरणभूतनाप्रधानः शब्दजन्यः भगवन्मयश्चित्तसन्नतिरूपः इति । अन्यथा ओङ्कारेणान्तरितमित्यस्य प्रणवपुटितमित्यर्थः । तत्सर्वं साधु ॥
—ओ)०(ओ—
(१.३.६)
पञ्चपदीमन्त्रस्यैव सर्वगोविन्दमन्त्रमूलत्वमाह—
एतस्मादन्ये पञ्चपदादभूवन्
गोविन्दस्य मनवो मानवानाम् ।
दशार्णाद्यास्तेऽपि सङ्क्रन्दनाद्यैर्
अभ्यस्यन्ते भूतिकामैर्यथावत॥२४॥
एतस्मादेवेति मनवो मन्त्रा मानवानां चतुर्वर्गेप्सूनाम् । दशार्णाद्याः—गोपीजनवल्लभाय स्वाहेत्याद्याः । ते दशार्णाद्या भूतिकामैश्चतुर्वर्गकामैः सङ्क्रन्दनाद्यैरिन्द्राद्यैः इत्यादि । शेषं स्पष्टम् । एतेन त्रिवर्गप्रदत्वलक्षणमपि देवत्वमुपपादितमिति ॥६॥
—ओ)०(ओ—
(१.३.७८)
यदेतस्य स्वरूपार्थं वाचा वेदयन्ति ॥ ते पप्रच्छुः ॥२५॥
यदेतस्य स्वरूपार्थं वाचा वेदयन्तीति यत्यस्मादेते दशार्णाद्याः एतस्य पञ्चपदीमन्त्रस्यैव स्वरूपार्थं स्वरूपघटकमर्थं वाचा स्वस्वशब्देन वेदयन्ति अंशतो ज्ञापयन्ति तस्मात्ते मन्त्रा एतदंशा इत्यर्थः ॥७॥
अथ मुख्यतात्पर्येण विशेषतः सर्वविज्ञानप्रतिज्ञामुपपादयितुमेवान्तरतात्पर्येण तन्मन्त्रस्य परमोपादेयत्वमुपपादयितुं तद्द्वारेण निरुक्तमात्मन्यासं स्तोतुं प्रक्रमते—ते पप्रच्छुरिति । ते सनकाद्याः पप्रच्छुः—पञ्चपदीविद्याया सम्प्रदायं तस्य निखिलजगदात्मत्वभगवदात्मकत्वादि पप्रच्छुः । पञ्चपदीविद्याया निखिलजगदात्मत्वे भगवदात्मकत्वे च साधिते भगवद्विज्ञानेन सर्वविज्ञानप्रतिज्ञा निरुक्तमाण्डूक्यन्यायेनार्थत एव समुपपादिता भवति । वस्तुमात्रस्य भगवदात्मकत्वे पर्यवसानादित्यर्थः ॥८॥
—ओ)०(ओ—
(१.३.९)
उत्तरमाह—
तदु होवाच—ब्रह्मसवनं चरतो मे ध्यातः स्तुतः
परमेश्वरः परार्धान्ते सोऽबुध्यत ।
गोपवेशो मे पुरुषः पुरस्तादाविर्बभूव ॥२५॥
ब्रह्मसवनं ब्रह्मयज्ञः । स्वस्य सर्वस्य च ब्रह्मात्मकत्वभावनम् । चरतः कुर्वतः । ब्रह्मसदनमिति पाठे तु ब्रह्मणः स्वस्य गृहं स्वोद्भवस्थानं विराड्पुरुषनाभिकमलरूपम् । चरतः इतस्ततः स्वकारणनिश्चयार्थं परिभ्रमतः । ध्यातः पूर्वसंस्कारेण चिन्तितः स्तुतः परमेश्वरः, यस्मात्पर ईश्वरो नास्ति तथाविधः । परार्धान्ते ब्रह्मप्रलयकालस्य परार्धस्यान्ते । सः सर्ववेदप्रसिद्धः परमेश्वरः । अबुध्यत प्रसन्नो मह्यं निजस्वरूपदर्शनोन्मुखो जातः । ततः गोपवेशो निरुक्तरसानन्दरूपः पुरुषः पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः इति श्रुत्युक्तलक्षणः परमपुरुषः । अत एव निर्भेदनिरतिशयानन्दघनपुरुषाकारः । मे मम पुरस्तातग्रे आविर्बभूव प्रकटो जातः ॥९॥
—ओ)०(ओ—
(१.३.१०)
ततः प्रणतो मयाऽनुकूलेन हृदा
मह्यमष्टादशार्णस्वरूपं सृष्टये दत्त्वान्तर्हितः ।
पुनः सिसृक्षतो मे प्रादुरभूत॥२७अ॥
ततः तदनन्तरमनुकूलेन तदा प्रणिहितेन मनसा मया प्रणतः प्रकर्षेण नतः प्रणतिविषयीकृतः, स इति शेषः । स मह्यं मामुद्दिश्य । अष्टादशार्णस्वरूपं पञ्चपदमन्त्रम्, सृष्टये जगत्सर्गाय दत्त्वा अन्तर्हितः अगोचरो बभूव पुनः सिसृक्षतः स्रष्टुमिच्छतो मे प्रादुरभूतित्यादि ।
तदेतत्सर्वमुक्तं ब्रह्मसंहितायां पञ्चमाध्याये ईश्वरः परमः कृष्णः इत्यारभ्य, विधे विधेहि त्वमथो जगन्ति इत्यन्तेन । यथा कतिपयश्लोकानन्तरं पठ्यन्ते—
तत्र ब्रह्माभवद्भूयश्चतुर्वेदि चतुर्मुखः ॥
स जातो भगवच्छक्त्या तत्कालं किल चोदितः ।
सिसृक्षायां मतिं चक्रे पूर्वसंस्कारसंस्कृतः ।
ददर्श केवलं ध्वान्तं नान्यत्किमपि सर्वतः ॥
उवाच पुरतस्तस्मै तस्य दिव्य सरस्वती ।
कामः कृष्णाय गोविन्द हे गोपीजन इत्यपि ।
वल्लभाय प्रिया वह्नेर्मन्त्रं ते दास्यति प्रियम् ॥
तपस्त्वं तप एतेन तव सिद्धिर्भविष्यति ॥
अथ तेपे स सुचिरं प्रीणन्गोविन्दमव्ययम् ।
श्वेतद्वीपपतिं कृष्णं गोलोकस्थं परात्परम् ॥
प्रकृत्या गुणरूपिण्या रूपिण्या पर्युपासितम् ।
सहस्रदलसम्पन्ने कोटिकिञ्जल्कबृंहिते ॥
भूमिश्चिन्तामणिस्तत्र कर्णिकारे महासने ।
समासीनं चिदानन्दं ज्योतीरूपं सनातनम् ॥
शब्दब्रह्ममयं वेणुं वादयन्तं मुखाम्बुजे ।
विलासिनीगणवृतं स्वैः स्वैरंशैरभिष्टुतम् ॥ इति ॥१०॥
(१.३.११)
तेष्वक्षरेषु भविष्यञ्जगद्रूपं प्राकाशयम् ॥२७ब॥
(१.३.१२)
तदिह कादापो, लात्पृथिवी, ईतोऽग्निर्, बिन्दोरिन्दुस्,
तत्सम्पातातर्क इति क्लींकारादसृजम् ॥
कृष्णाद् आकाशं, खाद्वायुरित्युत्तरात्सुरभीर्
विद्याः प्रादुरकार्षम् । तदुत्तरात्स्त्रीपुंसादि
चेदं सकलमिदं सकलमिदमिति ॥२७च॥
इति गोपालतापन्युपनिषदि तृतीयोपनिषत॥
—ओ)०(ओ—
अथ चतुर्थोपनिषत्
(१.४.१)
एतस्य मन्त्रस्य महदुपास्यत्वे भूतार्थवादमाह—
एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेद,
इत्योंकारान्तरालिकं मनुमावर्तयेत्,
सङ्गरहितोऽभ्यानयत॥२८॥
चन्द्रध्वजः चन्द्रशेखरः शिवः । अन्यो वा कश्चिदृषिः । विशेषुत्तं शिव एव, वर्तमानकालप्रयोगात। गतमोहं ध्वस्ताविद्यातमस्कं सन्तमात्मानं परमात्मानं गोविन्दं वेद जानाति । इति हेतोः परमात्मविविदिषुः । ओंकारन्तरालिकमोंकारमयमोंकारयुक्तमोंकारपुटितं वा मनुं पञ्चपदम् । आवर्तयेत्निरन्तरमभ्यसेत। सङ्गरहितः ऐहिकामुष्मिककामनारहितः । ततः अभ्यानयत्परमात्मानं प्रत्यक्षमानयेत्, चन्द्रध्वजवदित्यर्थः । यत्र परमात्मानं प्रत्यक्षं प्राप्नुयात।
—ओ)०(ओ—
(१.४.२३)
तत्पदं पूर्वं यत्तस्य पीठं [गो.ता.उ. १.१८] इत्यादिना, एतद्विष्णोः परमं पदमित्यन्तेन विशेषितं पदं स्वप्रकाशचिद्घनत्वेन विशेषयति—
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् ।
तस्मादेनं नित्यमभ्यसेन्नित्यमभ्यसेदिति ॥२८॥
इति गोपालतापिन्युपनिषदि चतुर्थोपनिषत।
विष्णोः निखिलकार्यकारणव्यापनशीलस्य परमकारणस्य श्रीकृष्णस्य तत्यत्तस्य पीठं [गो.ता.उ. १.१८], एतद्विष्णोः परमं पदमित्यत्र समुदाहृतसर्वश्रुतिप्रसिद्धं परमं पदं पीठधामत्रिपाद्विभूतिपरमव्योमाद्यपरपर्यायम् ।
सूरयः विद्वांसो नित्यमुक्ताः शेषगरुडाद्याः स्वयं वेदाश्च सदा कालानवच्छेदेन पश्यन्ति साक्षात्कुर्वन्ति । तत्किं प्रकाशान्तरसाहित्येन पश्यन्ति नेत्याह—दिवीव चक्षुराततमिति । यथा दिवि आकाशे आततनासमन्तात्ततं विस्तृतं व्याप्तं सर्वतो व्याप्तं सूर्यप्रकाशं चक्षुः प्रकाशान्तरनिरपेक्षतयैव पश्य्ति । वस्तुत एव स्वप्रकाशत्वात्तथा परमपदमपि प्रकाशान्तरासाहित्येनैव मुक्ताः पश्यन्तीत्यर्थः । एतेन परमपदस्य स्वप्रकाशत्वुक्तं भवति । नारायणाथर्वशिरस्यपि वैकुण्ठभुवनं गमिष्यति इति वैकुण्ठमुपक्रम्य—तदिदं पुण्डरीकं विज्ञानघनमित्यनेन तस्य विज्ञानघनत्वकथनेन स्वप्रकाशत्वमुक्तम् ।
एवमेव च गीतायां पञ्चदशे—
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ [गीता १५.६]
इत्यनेन प्रकाशान्तराभास्यत्वकथनमुखेन स्वलोकस्य स्वप्रकाशचैतन्यघनत्वमुक्तम् । भागवतेऽपि दशमेऽष्टाविंशततमाध्याये—
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥
सत्यं ज्ञानमनन्तं यत्ब्रह्म ज्योतिः सनातनम् ।
ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्धृताः ।
ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात्पुरा ॥ [भा.पु. १०.२८.१४१६]
इत्यत्र तमःपरत्वं सत्यज्ञानानन्दघनत्वं च तस्योक्तम् । क्वचिदचेतनत्वकथनं तु धर्मभूतज्ञानाभावाभिप्रायेण तथोपपादितं चिद्घनं जयति लोकमूर्धनीति पद्यव्याख्याने श्रुत्यन्तसुरद्रुमे पुरुषोत्तमप्रसादचरणैः, विस्तृतं तु युग्मतत्त्वसमीक्षायां द्रष्टव्यम् । तदेतदिहापि विस्तृतमुक्तमेव एतद्विष्णोरित्यस्य व्याख्यायामिति सङ्क्षेपः ।
तस्मातेतन्नित्यमावर्तयेदिति, यस्मातेष पञ्चपदीमन्त्रः सर्वजगन्निदानगुणरूपः प्रणवार्थस्वरूपः सर्वविमोहात्ययेन परमात्मास्वरूपदर्शकः परमधामप्रापकश्च, तस्मातेनं पञ्चपदं मनुं नित्यमयोगव्यवच्छेदेन अवश्यमेव परममुमुक्षुः आवर्तयेत्शब्दतोऽर्थतश्च निरतरमनुसन्दध्यादिति वाक्यार्थः । अभ्यासश्चतुर्थोपनिषत्समाप्त्यर्थः । उक्तार्थदार्ढ्यार्थश्चेति ।
॥ इति पूर्वतापिन्यां चतुर्थोपनिषत॥
—ओ)०(ओ—
अथ पञ्चमोपनिषत्
(१.५.१)
अथ भगवद्रूपमन्त्रावयवतः हिरण्यगर्भकृतव्यष्टिसृष्टिरुक्ता तदिह कादाप [गो.ता.उ. १.२७] इत्यादिना । नैतावन्मात्रेण समष्टिव्योमवाय्वादीनां मन्त्रात्मकत्वस्य तन्मुखेन भगवदात्मकस्य च सिद्धिः । तथा च, नैकविज्ञानेन सर्वविज्ञानप्रतिज्ञासमर्थनं सूपपन्नमिति तेषामपि व्योमादीनां मन्त्रतः सृष्टिमाह—
तदाहुरेके यस्य प्रथमपदाद्भूमिर्, द्वितीयपदाज्जलं, तृतीयपदात्तेजश्, चतुर्थपदाद्वायुश्, चरमपदाद्व्योम ।
इति वैष्णवपञ्चव्याहृतिमयं मन्त्रं कृष्णावभासकं कैवल्यसृत्यै सततमावर्तयेत्सततमावर्तयेदिति ॥२९॥
एके वेदशाखिन इत्यर्थः । पञ्चव्याहृतिमयमिति पञ्चपदमयमित्यर्थः । कृष्णावभासकं निरुक्तलक्षणकृष्णसाक्षात्कारजनकम् । तेषामसौ दर्शयेदात्मरूपं [गो.ता. १.२३] इति पूर्वमुक्तः । कैवल्यस्य सृत्यै भगवद्भावापत्तिलक्षणपरममोक्षप्राप्तये इत्यर्थः । केवलस्य भावः कैवल्यं, तच्च प्रकृतिप्राकृतादिरूपनिजस्वरूपाननुबन्धिवस्तुसम्बन्धे नैरास्येन स्वरूपावस्थितिः । मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः [भा.पु. २.१०.६] इति भागवते द्वितीयस्कन्धोक्तेः । सा च निरुक्तभगवद्भावापत्तिलक्षणमोक्षेऽपि सम्भवतीति न विरोधः । सततमावर्तयेतिति सततमनवरतमावर्तयेतनुसन्दध्यातित्यर्थः । एतस्य शरणमन्त्रत्वेन निरन्तरमेतन्मन्त्रार्थभावनेन स्वस्य भगवदेकशरणत्वमनुसन्धध्यादिति पर्यवसितार्थः ॥१॥
—ओ)०(ओ—
(१.५.२)
तदत्र गाथाः—
यस्य पूर्वपदाद्भूमिर्द्वितीयात्सलिलोद्भवः ।
तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः ॥३०॥
पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत।
चन्द्रध्वजोऽगमद्विष्णोः परमं पदमव्ययम् ॥३१॥
तदेतन्मन्त्रपाठेन द्रढयति—तदत्र गाथाः इत्यादि स्पष्टार्थम् । एवमाकाशादीनां व्यष्टिसृष्टिः समष्टिसृष्टिश्च पञ्चपदीमन्त्रादिति दर्शिता । न च, यतो वा इमानि भूतानि जायन्ते [तै.उ. ३.१.१] इत्यादिश्रुतौ सर्वत्र ब्रह्मणः सकाशात्सर्वसृष्ट्युक्तेः, मन्त्रतः सृष्टिविप्रतिषिद्धेति शङ्कनीया, मन्त्रतद्देवतयोरभेदात। तथा च वक्ष्यति—यत्तत्पदं पञ्चपदं तदेव स वासुदेवो न यतोऽन्यदस्ति [गो.ता.उ. १.३२] इति । प्रणवस्यैव परिस्फुटं रूपं पञ्चपदमित्युपपादितं पुरस्तात। प्रणवस्य च सर्वजगद्बीजत्वं माण्डूक्येऽप्युक्तमित्यपि निरूपितं पुरस्तात्तस्मान्न कोऽपि विप्रतिषेध इति । अथ पञ्चपदी विद्यया श्रीकृष्णमाराधाधयतुः पूर्वम्, सोऽमृतो भवति, ब्रह्म सम्पद्यते [गो.ता. १.१२], मुमुक्षुः शरणं व्रजेत्, कैवल्यस्य सृत्यै सततमावर्तयेतित्यादिवाक्याभ्यासैरपुनरावृत्तिलक्षणा भगवद्भावाप्तिः फलत्वेन निरूपिता ।
इह च चन्द्रध्वजोऽगमद्विष्णोः परमं पदमव्ययमिति विष्णुपदप्राप्तिः फलमिति सूच्यते । एवं च महाविप्रतिषेध, लोकविशेषप्राप्तेः स्वर्गादिप्राप्तिवत्क्षयिष्णुत्वस्यावश्यंभावेन मुख्यामृतत्वाभावात। लोकविशेषस्य प्रकृतिविकाररूपत्वेन तत्प्राप्तेः ब्रह्म सम्पद्यते इति निरुक्तब्रह्मभावाप्तिरूपत्वाभावाच्च । किं च यदि सर्वजगदुपादानं पञ्चपदात्मकमन्त्र एव तर्हि, आत्मन आकाशः सम्भूतः, यतो वा इमानि भूतानि जयन्ते, आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते इत्यादिश्रुतिविप्रतिषेधोद्दुष्परिहरः । तत्र ब्रह्मण एव कारणत्वावधारणात॥२॥
—ओ)०(ओ—
(१.५.३)
किं च, गोपीजनवल्लभविज्ञानेन पूर्वोक्तसर्वविज्ञानप्रतिज्ञाहानिरपि । तद्व्यतिरिक्तस्य मन्त्रस्य धाम्नोऽपि स्वीकारादित्याह—
ततो विशुद्धं विमलं विशोकम्
अशेषलोभादिनिरस्तसङ्गम् ।
यत्तत्पदं पञ्चपदं तदेव
स वासुदेवो न यतोऽन्यदस्ति ॥३२॥
विशुद्धमिति । अशुद्धिर्हि वृद्धिह्रासादिभावविकारेण भवति तद्रहितं शुद्धं विशेषतः शुद्धं विशुद्धं कालानवच्छेदेन सर्वभावविकाररहितमप्राकृतत्वात। विमलमविद्यास्मितारागद्वेषाभिनिवेशादिमलशून्यं चिद्घनत्वात। विशोकमिति शोको हि अभीष्टविप्रयोगादिना भवति, तद्रहितम् । आनन्दरूपत्वात्सर्वतः पूर्णत्वाच्च । अशेषलोभादि इति । शिष्यत इति शेषः, न शेषः अशेषः, अशेषो लोभादिर्यत्र तथेत्यर्थः वासनारूपेणापि लोभो न विद्यते यत्रेति भावः । लोभो हि अप्राप्तप्राप्तीच्छारूपः, स च तत्र न सम्भवति तत्र सर्वस्य सर्वतः परिपूर्णत्वेन अप्राप्तवस्त्वभावात। निरस्तसङ्गमिति सङ्गो हि स्वार्थासक्तिः । सा च अहमेवं ममेदं रूपोऽहङ्कारममकारापरपर्यायाः । स च तत्र न सम्भवति तत्र सर्वेषां निरस्ताविद्यत्वेन स्वाभाविकरूपेणैव तत्र सर्वेषां सर्ववस्तुषु स्वात्मपर्यन्तेषु भगवदीयत्वभगवदात्मकत्वभगवदेकभाग्यत्वादीनां निरन्तरं स्फुरणात। यत्तत्पदमिति । यत्तत्पदं यत्तस्य पीठं, एतद्विष्णोः परमं पदम्, तद्विष्णोः परमं पदम्, परमं पदमव्ययमित्यादिना निरूपितं भगवदेकशरणैर्गम्यं गोलोकब्रह्मपुरादिपदव्यपदेश्यं परमं पदं तदेव पञ्चपदमपि । तदुभयमपि वासुदेवः परः परमात्मा श्रीकृष्ण एव तत्र हेतुः, यतोऽन्यदस्ति इति । यस्मादन्यत्किञ्चिदपि नास्ति । अथवा यत्तादृशं पदं तत्पञ्चपदं तदेव स वासुदेवः । यः वासुदेवो व इदमग्र आसीतित्यादिश्रुतिप्रसिद्धः परब्रह्माख्यः स श्रीकृष्ण एव नान्यः । वासुदेवस्य विशेषपरिचयं सहेतुकमाह—न यतोऽन्यदस्ति इति यस्माद्वासुदेवातन्यत्किञ्चिदपि नास्ति । सदेव सोम्येदमग्र आसीत्, एकमेवाद्वितीयमिति श्रुतेः । एतेन सच्चिदानन्दरूपाय, कृष्णो वै परमं दैवतमित्यादिना प्रस्तुतं यत्कृष्णाख्यं परमं ब्रह्म तदेव वासुदेवपदे व्यूनात्रोक्तं, न तु व्यूहरूपमित्यप्युक्तं भवति । तथा च मन्त्रपरमपदयोर्जगद्विलक्षणविशुद्धभगवत्स्वरूपत्वेनैक्यात्पूर्वोक्ताः सर्वे विप्रतिषेधाः परिहृताः । इति ।
एतेन गोपीजनवल्लभविज्ञानेन सर्वविज्ञानप्रतिज्ञायामुपपत्तिरप्युपसंहृताः । तथा च अत्राभेदः प्रकाशवच्चावैयर्थ्यात्[वे.सू. ३.२.१५] इति सूत्रसिद्धः स्वाभाविकभिन्नाभिन्नत्वलक्षणस्तादात्म्यापरपर्यायः । अत एव उभयनिर्वाहः । अन्यथा, यत्तस्य पीठमित्यादिना एकतरस्य धामत्वकथनमन्यतरस्य धामित्वकथनं विरुद्ध्येतेत्यपि बोध्यम् । एवं च मन्त्रकार्यतया सर्वजगतो मन्त्रात्मकत्वं प्रतिपाद्य ततो मन्त्रस्य धाम्नश्च भगवदात्मकत्वप्रतिपादने सर्वस्यापि कार्याकार्ययोः भगवदात्मकत्वमर्थत एव प्रतिपादितं भवतीत्यर्थत एवैकविज्ञानेन सर्वविज्ञानप्रतिज्ञायामुपपत्तिः समुपसंहृता इत्यप्यनुसन्धेयम् ।
ननु प्रधानमहदादीनामत्र भगवदात्मकत्वस्योपपादनाभावात्कथं सर्वविज्ञानप्रतिज्ञोपपत्तिनिर्वाह इति चेत्, न । कल्पविशेषस्य प्रधानादिमनन्तर्भाव्यैवाकाशादीनां सृष्टेः, तदानीं प्रधानादीनामस्फुटत्वादाकाशादीनां भगवदात्मकत्वोपपादनेऽपि सर्वविज्ञानप्रतिज्ञानिर्वाहसम्भवात। अत एव छान्दोग्ये प्रधानादिवायुपर्यन्तानां सृष्टेरनुक्तत्वेऽपि सर्वविज्ञानप्रतिज्ञोपपादनम् । अत एव च तैत्तिरीयेऽपि, आत्मन आकाशः सम्भूतः इत्यादिना आकाशादिपञ्चानामेव सृष्टिरुक्ता । वस्तुतस्तु तु, वायुमब्दादव्विशेष्श्रीविशेषाभ्यामिति मार्गोपसंहारन्यायेन प्रधानादिक्षित्यन्तेषु कार्येषु यत्र यत्र श्रुतं तत्रोपनिषदन्तरेषु श्रुतं तदुपसंहर्तव्यम् । एवं चात्र तापिनामश्रुतं यथायोगमुपसंहर्तव्यम्, ब्रह्मकार्यतया । अत एवोत्तरतापिन्यां वक्ष्यति—
सहोवाच तं हि वै पूर्वमेकमेवाद्वितीयं ब्रह्मासीत्, तस्मादव्यक्तमव्यक्तमेवाक्षरम् । तस्मादक्षरात्महान। महता वै अहङ्कारः । तस्मादेवाहङ्कारात्पञ्चतन्मात्राणि तेभ्यो भूतानि तैरावृतमक्षरं भवति । अक्षरोऽहमोंकारोऽहमजरोऽमरोऽभयोंऋतो ब्रह्माभयं हि वै स मुक्तोऽहमस्म्यक्षरोऽहमस्मि इति ।
अस्यार्थस्तु, स ह नारायणो ब्रह्माणं प्रत्युवाच पूर्वं सर्वादिसृष्टेः पूर्वम् । एकमेवाद्वितीयं ब्रह्मासीत।
कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥
पापकर्षणो गोभूमिवेदविदितो विदिता गोपीजनविद्याकलाप्रेरकः, तन्माया चेति सकलं परं ब्रह्मैव तत्
इत्यादि पूर्वोक्तलक्षणं सूक्ष्मचिदचिच्छक्तिकं कृष्णाख्यं ब्रह्मैवासीत। तस्मादव्यक्तमुत्पन्नम् । यदेव तिर्गुणसाम्यावस्थापन्नं प्रधानमुच्यते । तदेव च क्वचिदक्षरशब्देनाप्युच्यते । तदाह अव्यक्तमेवाक्षरमिति । इदं च सुबालोपनिषदि स्फुटं निरूपितम् । ततो महत्सततमहङ्कारः इत्यादि तदेतद्विचेतिते श्रीकाश्मीरकेशवभट्टाचार्यपादैः—विपर्ययेण क्रमोऽत उपपद्यते [वे.सू. २.३.१३] इति सूत्रव्याख्याने वेदान्तकौस्तुभप्रभायाम् । तदेतत्स्पष्टं निरूपयिष्य उत्तरतापिन्यामेतद्व्याख्याने ॥३॥
—ओ)०(ओ—
(१.५.४)
तमेकं गोविन्दं सच्चिदानन्दविग्रहं
पञ्चपदं वृन्दावनसुरभूरुहतलासीनं
सततं समरुद्गणोऽहं परमया स्तुत्या स्तोषयामि ॥३३॥
अथ निरूपितं निखिलमप्यर्थं क्रमेण सङ्कलयन्सुखबोधाय आह तमेकमित्यादि । तमिति निरुक्तलक्षणमित्यर्थः । तदेवाह एकमिति । स्वरूपतां धर्मतश्च स्वतन्त्रसत्ताकद्वितीयतत्त्वशून्यम् । गोविन्दमिति । निरुक्तलक्षणगोभूमिवेदविदितम् । सच्चिदानन्दविग्रहमिति स्वरूपतो धर्मतश्च निभिन्ननिरतिशयसच्चिदानन्दात्मकपुरुषाकारमित्यर्थः । तदुक्तं लक्ष्मीतन्त्रे—
निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो
निश्चेतनात्मकशरीरगुणैश्च हीनः ।
आनन्दमात्रकरपादमुखोदरादिः
सर्वत्र च स्वगतभेदविवर्जितात्मा ॥ इति ।
विशेषतस्तूपपादितं स्वरूपनिरूपणप्रस्तावे सत्पुण्डरीकनयनमित्यत्रैवेति तत एवावधेयम् । वृन्दावनसुरभूरुहतलासीनमिति । एतदप्युपपादितम् । सततं निरन्तरम् । मरुद्गणोऽहं नित्यसिद्धदेवतागणोऽहं परमया सर्वाभ्यहितया स्तुत्या स्तोषयामीत्यर्थः । ब्रह्मादीनां नित्यसिद्धाधिदैविकशक्तिरूपेण भगवतः परमे पदे स्थितिः, आद्याः अव्यक्ता द्वादशमूर्तयः इत्यारभ्य, स्वपदे तिष्ठति इत्यादिनोत्तरतापिन्यां वक्ष्यत इति तत्रैव विषयतो मयापि विवेचयिष्यते इति तत एवावधेयम् ॥४॥
—ओ)०(ओ—
(१.५.५)
स्तुतिमाह—
ओं नमो विश्वरूपाय विश्वस्थित्यन्तहेतवे ।
विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ॥३४॥
सर्वे वेदा यत्पदमामनन्ति
तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ओमित्येतत॥
ओं तत्सदिति निर्देशो ब्रह्मणः तिर्विधः स्मृतः ॥
इत्यादिश्रुतिस्मृत्युक्तदिशाखण्डशक्त्या माण्डूक्योक्तदिशा, रोहिणी तनयो विश्व आकाराक्षरसम्भवः इत्युत्तरतापिन्यां वक्ष्यमाणदिशा च सखण्डशक्त्या प्रणवासाधारणवाच्यो यः श्रीकृष्णः, तस्मै नमः आत्मात्मीयं सर्वं समर्पयामीत्यर्थः ।
ओमित्युक्तस्य प्रणवार्थस्य विशेष्यभूतस्य विशेषणान्याह—विश्वरूपाय इति । विश्वं जगद्रूपं समुद्रस्य तरङ्गवत्स्वरूपं यस्य । अन्यथा विश्वं जगत्तस्य रूपमात्मभूतं यत्तस्मै इत्यर्थः । अत्र पुरुष एवेदं विश्वं पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यमित्यादिश्रुतयोऽनुसन्धेयाः । एतेन जगदुपादानत्वमुक्तम् । विश्वस्थित्यन्तहेतवे इत्यनेन जगन्निमित्तत्वम् । विश्वेश्वराय इत्यनेन सर्वनियामकत्वम् । विश्वाय इत्यस्य विश्वात्मने इत्यर्थः । तेन तस्यैव स्वात्मकशक्तिविस्तारेण सर्वरूपत्वमुक्तम् । तथा चाभिन्ननिमित्तोपादानत्वमभिहितम् । तत्र प्रमाणमाह—गोविन्दाय इति । गोभूमिवेदविदित इति गोविन्दपदार्थात। निरुक्ताभिन्ननिमित्तोपादानतया वेदवेद्यायेति समग्रार्थः । तथा च वेदा एव तत्र प्रमाणमिति भावः । एतेन जन्माद्यस्य यतः शास्त्रयोनित्वातिति सूत्रावनुग्रहीतौ । नमःशब्दाभ्यासः समर्पणरूपप्रपत्तिदार्ढ्यार्थः ॥५॥
—ओ)०(ओ—
(१.५.६)
एवं जगदभिन्ननिमित्तोपादानस्वरूपकार्यलक्षणपुरस्कारेण स्तुत्या स्वरूपलक्षणपुरस्कारेण स्तौति—
नमो विज्ञानरूपाय परमानन्दरूपिणे ।
कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः ॥३५॥
विज्ञानरूपायेति चिद्रूपायेत्यर्थः । परमानन्दरूपिणे निरतिशयानन्दरूपायेत्यर्थः । सद्रूपत्वमपि श्रुत्यन्तरादुपसंहर्तव्यम् । कृष्णाय इत्यपहत्पाप्मनेत्यर्थः । पापकर्षण इति पूर्वं कृष्णपदार्थोक्तेः । गोपीनाथाय इति गोपी सर्वशक्तिसमष्टिरूपा महालक्ष्मी श्रीरमाद्यपरपराया श्रीराधा ।
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिस्तवेशितुः ।
तवांशमात्रमित्येषा मनीषा मे प्रवर्तते ॥
मायाविभूतयोऽचिन्त्यास्तव मायार्भमानिनः ।
परेशस्य महाविष्णोस्ताः सर्वास्ते कलाकलाः ॥
आनन्दरूपिणी शक्तिस्त्वमीश्वरी न संशयः ॥ [प.पु. ५.७१.५४५६]
बहिरङ्गैः प्रपञ्चस्य स्वांशैर्मायादिशक्तिभिः ॥
अन्तरङ्गैस्तथा नित्यविभूतैस्तैश्चिदादिभिः ॥
गोपनादुच्यते गोपी राधिका कृष्णवल्लभा ।
सर्वलक्ष्मीस्वरूपा सा कृष्णाह्लादस्वरूपिणी ।
अतः सा प्रोच्यते विप्र ह्लादिनी तु मनीषिभिः ॥
सा तु साक्षान्महालक्ष्मी कृष्णो नारायणः स्वयम् ॥ [प.पु. ५.८१.५१५४]
इति पाद्मपुराणपातालखण्डोक्तेः । तस्या नाथः पतिरित्यर्थः । तथा चैतेन निरतिशयसच्चिदानन्दरूपत्वमपहतपाप्मत्वं स्वाभाविकसर्वशक्तिसमुपेतत्वमुक्तम् । तेन समग्रं स्वरूपलक्षणमुक्तं भवति । तथात्वे पुनः प्रमाणमाह गोविन्दाय इति । तादृशस्वरूपलक्षणलक्षितत्वेन वेदप्रतिपाद्यायेत्यर्थः । एवं च—सत्यं ज्ञानमनन्तं ब्रह्म, विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं [बृ.आ.उ. ३.९.२८], एष आत्मा अपहतपाप्मा विजरो विमृत्युर्विजिघित्सोऽपिपासः, परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इत्यादिश्रुतयः समुपसंहृताः ॥६॥
—ओ)०(ओ—
(१.५.७)
एवं कार्यलक्षणस्वरूपलक्षणाभ्यां स्तुत्वा विग्रहधर्मपुरस्कारेण स्तौति—
नमः कमलनेत्राय नमः कमलमालिने ।
नमः कमलनाभाय कमलापतये नमः ॥३६॥
नमः कमलनेत्राय इत्यनेन सर्वेन्द्रियसौन्दर्यं सूचितम् । नमः कमलमालिने इति अनेन भूषणसौन्दर्यमुक्तम् । नमः कमलनाभाय इति अनेन सर्वाङ्गसौन्दर्यमुक्तम् । कमलापतये नमः इति अनेन सर्वकमनीयलक्ष्मीकमनीयत्वकथनेन निरतिशयसौन्दर्यादिगुणवत्त्वमुक्तम् ॥७॥
—ओ)०(ओ—
(१.५.८)
बर्हापीडाभिरामाय रामायाकुण्ठमेधसे ।
रमामानसहंसाय गोविन्दाय नमो नमः ॥३७॥
बर्हापीडाभिरामाय इत्येतेन वेशौज्ज्वल्यमुक्तम् । रामाय इति
रमन्ते योगिनोऽनन्ते नित्यानन्दे परात्मनि ।
इति रामपदेनासौ परब्रह्माभिधीयते ॥
इत्युक्तलक्षणायेत्यर्थः । अकुण्ठमेधसे अक्षीणाज्ञानशक्तिस्वभावायेत्यर्थः । रमामानसहंसाय निरतिशयसौन्दर्यमाधुर्यादिभिर्भगवन्तं रमयतीति रमा परमलक्ष्मी तस्याः मानसे राजहंसः निरन्तरं विहारशीलः, तस्मै इत्यर्थः । सर्वप्रेमास्पदपरमलक्ष्मीप्रेमास्पदत्वकथनेन सर्वेषां परमप्रेमास्पदत्वमुक्तम् । तत्र प्रमाणमाह—गोविन्दाय इति । पूर्ववतात्मैवेदमग्र आसीत्पुरुषविधः [बृ.आ.उ. १.४.१], स इममेवात्मानं द्वेधापातयत्पतिश्चपत्नी चाभवतां, एषोऽन्तरादित्ये हिरण्मयपुरुषो दृश्यते, आनन्दरूपममृतं यद्विभाति इत्यादिश्रुतयोऽनुसन्धेयाः ॥८॥
—ओ)०(ओ—
(१.५.९)
कंसवंशविनाशाय केशिचाणूरघातिने ।
वृषभध्वजवन्द्याय पार्थसारथये नमः ॥३८॥
सर्वापन्निवारकत्वमाह—कंसवंशविनाशाय इति । केशीचाणूरघातिने इति च । सर्ववन्द्यत्वं भक्तवश्यत्वं चाह—वृषभध्वजवन्द्याय इति, पार्थसारथये इति च ॥९॥
—ओ)०(ओ—
(१.५.१०११)
विविधलीलत्वं सर्वदोषविनाशकत्वं सर्वपालकत्वं चाह द्वाभ्यां—
वेणुवादनशीलाय गोपालायाहिमर्दिने ।
कालिन्दीकूललोलाय लोलकुण्डलधारिणे ॥४०॥
वल्लवीवदनाम्भोजमालिने नृत्यशालिने ।
नमः प्रणतपालाय श्रीकृष्णाय नमो नमः ॥४१॥
वल्लवीवदनाम्भोजमालिने इत्यादि श्रीकृष्णाय इति श्रिया सहिताय इत्यर्थः । एतेन श्रियः कृष्णस्य चोभयोः निरुक्तसर्वलक्षणसबलत्वमुक्तम् ॥१०११॥
—ओ)०(ओ—
(१.५.१२)
नमः पापप्रणाशाय गोवर्धनधराय च ।
पूतनाजीवितान्ताय तृणावार्तासुहारिणे ॥४२॥
ननु ब्रह्मणो जगदुपादाननिमित्तत्वे विकारित्वं नियामकत्वे वैषम्यनैर्घृण्यादिदोषवत्त्वं गोपीजनादिभिः सह विविधलीलत्वे, असुरादिहन्तृत्वे च कामक्रोधादिदोषवत्त्वेनाशुद्धत्वम् । विग्रहविग्रहिधर्मधर्मिकृतभेदवत्त्वे सखण्डत्वम् ॥१२॥
—ओ)०(ओ—
(१.५.१३)
तथा च निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं,
निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो
निश्चेतनात्मकशरीरगुणैश्च हीनः ।
आनन्दमात्रकरपादमुखोदरादिः
सर्वत्र च स्वगतभेदविवर्जितात्मा ॥
इत्यादिश्रुतिस्मृतिव्याकोप इत्याह—
निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।
अद्वितीयाय महते श्रीकृष्णाय नमो नमः ॥४२॥
निष्कलाय इति सर्वजगदभिन्ननिमित्तोपादानभूतोऽपि पुरुषाकारोऽपि निष्कलः निरवयवः, अत एव सर्वविक्रियरहित इत्यर्थः । विमोहाय इति सर्वनियन्तापि विमोहः सर्वप्रकारकाज्ञानरहितः, चिद्घनत्वात। अत एव तज्जन्यरागद्वेषरहिततया वैषम्यनैर्घृण्यरहितः । तदुक्तं सूत्रकृता, वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति [वे.सू. २.१.३४] इति । शुद्धायाशुद्धवैरिणे इत्यनेन भगवतः नितरां शुद्धत्वमुक्तं, तेन तादृशी लीला न कामक्रोधादिप्रयुक्ता, येनाशुद्धत्वं स्यात्, भगवतोऽपहतपाप्मत्वात। तदेतद्वक्ष्यति गोपीदुर्वासःसंवादे इति तत्रैव द्रष्टव्यम् । विग्रहविग्रहिधर्मधर्मिकृतं केवलमन्योन्याभावलक्षणं भेदं निराकरोति—अद्वितीयाय इति । तथा च निरतिशयसच्चिदानन्दघनं स्वरूपमेव स्वतःसिद्धपुरुषाकारं, गुणशक्त्यादिकं तु तत्र जले शैत्यमाधुर्यादिवत्स्वभावतः स्वरूपापृथक्सिद्धमेव ज्ञेयमिति न सखण्डताप्रसङ्गः पुरुषाकारत्वे प्राप्तपरिच्छेदं वारयति । महते इति । परिच्छिन्नत्वं चापि स्वभावतः स्वरूपमहिम्नैव सर्वसम्भवात। अत्रापि गोविन्दाय इति पदं पूर्वपद्यादनुवर्तनीयम् । तथा च अत्रापि वेदा एव तादृशत्वे प्रमाणं तर्कागोचरत्वातिति पूर्ववद्बोध्यम् । तदुक्तं कृत्स्नमसक्तिनिरवयवशब्दव्याकोपो वा इत्याशङ्क्य श्रुतेस्तु शब्दमूलत्वात्[वे.सू. २.१.२७], आत्मनि चैवं विचित्राश्च हि [वे.सू. २.१.२८] इत्यादिनेति । युक्तं चैव उभयविधत्वस्य श्रुतिसिद्धत्वात। तर्कागोचरत्वात्श्रुतेस्तु शब्दमूलत्वात्[वे.सू. २.१.२७] इति पारमर्षसूत्राच्च । श्रीकृष्णाय इति श्रिया सहितायेत्यर्थः । तथा च विशिष्टे प्रतिपादितो धर्मो बाधविरहे विशेषणेऽप्युक्तो भवतीति न्यायेन श्रीदेव्यामपि तथात्वं बोध्यम् । स इममेवात्मानं द्वेधापातयत। पतिश्च पत्नी चाभवतां [बृ.आ.उ. १.४.३] इति श्रुतेः । तयोरेकात्मत्वात। तदेतदुपपादितं युग्मतत्त्वसमीक्षायाम् ॥१३॥
—ओ)०(ओ—
(१.५.१४१६)
जीवानां सर्वविधपुरुषार्थसिद्धौ भगवत्प्रसादस्यैवासाधारणहेतुत्वात्, अन्येषां तदुपरञ्जकत्वेनैव सार्थकत्वात्, प्रसादप्राप्तावपि दीनतापूर्वकशरणागतेरेव च मुख्यहेतुत्वात्दीनतापूर्वकं प्रसादं प्रार्थयति त्रिभिः श्लोकैः—
प्रसीद परमानन्द प्रसीद परमेश्वर ।
आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो ॥४३॥
श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर ।
संसारसागरे मग्नं मामुद्धर जगद्गुरो ॥४४॥
केशव क्लेशहरण नारायण जनार्दन ।
गोविन्द परमानन्द मां समुद्धर माधव ॥४५॥
प्रसीद इति परमानन्द इति निरतिशयानन्द इत्यर्थः ।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन ॥ [तै.उ. २.३.१] इति श्रुतेः ।
प्रसीद परमेश्वर एष सर्वेश्वर इति श्रुतेः सर्वेश्वरं गोपालमिति वक्ष्यमाणश्रुतेश्च स्पष्टं सर्वम् ॥१४१६॥
—ओ)०(ओ—
(१.५.१७)
अथैवं स्तुतिभिराराधयामि यथा
यूयं तथा पञ्चपादं जपन्तः
श्रीकृष्णं ध्यायन्तः संसृतिं
तरिष्यथेति होवाच यः ॥४६॥
अथ यथा अहमेवं स्तुतिभिराराधयामि तथा यूयं सनकाद्याः पञ्चपदमष्टादशाक्षरीं ब्रह्मविद्यां जपन्तः सर्वतोभावेनानुशीलयन्तः श्रीकृष्णं ध्यायन्तः संसृतिः संसारं तरिष्यथ । भगवद्भावं प्राप्स्यथ इति ह निर्णयमुखे स्फुटं हैरान्यः हिरण्यगर्भः तान्प्रत्युवाचेत्यर्थः । अत्र कृष्णं ध्यायन्त इत्यनुक्त्वा यत्श्रीकृष्णमित्युक्तं तेन कृष्णध्यानादौ श्रीसाहित्यस्य नित्यत्वं तदुपेक्षायां ध्यानादेः फलपर्यवसायित्वाभावश्च सूचितः । तयोर्नित्यसाहित्यं च उदुम्बरसंहितावेदान्तरत्नमञ्जुषाश्रुत्यन्तसुरद्रुमोज्ज्वलनीलमणिसिद्धान्तरत्नादौ श्रीमददुम्बराचार्यपुरुषोत्तमाचार्यपुरुषोत्तमप्रसादरूपगोस्वामिबलदेवविद्याभूषणाद्युद्धृते राधया माधवो देवो माधवेन च राधिका विभ्राजते जनेष्वा । योऽनयोः पश्यते भेदं न मुक्तः स्यात्स संसृतेः इति ऋक्परिशिष्टश्रुतौ । स्फुटमन्वयव्यतिरेकाभ्यामुक्तं वेदान्तमञ्जूषादितोऽपि परमप्राचीनौदुम्बरसंहितायां समुद्धृतऋकपरिशिष्टश्रुतौ, योऽनयोः पश्यते भेदं न मुक्तः स्यात्स संसृतेः इत्यधिकं पाठितं तेन तयोर्भेददर्शनस्य नितरां निषेधातुपासनादौ तयोर्नित्यसाहित्यत्यागे दोषोऽपि श्रावितः । किं च उदम्बरसंहितायां चतुर्थव्रतप्रकरणे—
वामाङ्गसहिता देवी राधा वृन्दावनेश्वरी ।
योऽनयोः स्याद्व्यवच्छेदी ध्रुवं स तु बहिर्मुखः ॥
इति कृष्णोपनिषद्वाक्येनापि तयोर्नित्यसाहित्यत्यागे दोष उक्तः । यद्यपि साम्प्रतमुपलभ्यमानकृष्णोपनिषदि इदं वाक्यं नोपलभ्यते । तथापि तादृशवाक्यस्य कृष्णोपनिषत्स्थितित्वेन शिष्टैः समुद्धरणाच्छ्रुतित्वं मन्तव्यं यथा मन्वादिवाक्यत्वेन केषाञ्चिद्वाक्यानां मिताक्षरादौ समुद्धृतानां साम्प्रतमुपलभ्यमानमनुस्मृतावनुपलभ्यमानत्वेऽपि स्मृतित्वं मन्यन्ते सर्वैरास्तिकैरिति ।
गोकुलाख्ये मथुरामण्डले वृन्दावनमध्ये सहस्रदलपद्ममध्ये कल्पतरोर्मूले अष्टदलकेशरे गोविन्दोऽपि श्यामः पीताम्बरो द्विभुजो मयूरपिच्छशिरो वेणुवेत्रहस्तो निर्गुणः सगुणो निराकारः साकारो निरीहः सचेष्टो विराजते इति । द्वे पार्श्वे चन्द्रावली राधा चेति यस्यांशेन लक्ष्मीदुर्गादिका शक्तिरिति ।
अत्र यद्यपि राधिका चन्द्रावली च इति वक्तव्यं श्रीराधायाः प्राधान्यात्तथापि यस्या अंशे इत्यत्र यत्पदार्थेन सह राधायाः साक्षादन्वयाय तथोक्तमिति बोध्यम् । एवं तत्रैव नवमे प्रपाठकेऽपि,
तत्र दुःखं नास्ति, सुखं नास्ति, जरा नास्ति, मरणं नास्ति, क्रोधोऽक्रोधं नास्ति । तत्र पुर्णानन्दमयं किशोरवयसोर्नित्यमष्टकोणनिर्मितं योगपीठं तत्र माणिक्यसिंहासने स्थितः गोपीजनवल्लभो दिव्यव्रजवयोरूपो व्रजेन्द्रो व्रजबालैकवल्लभोऽनादिरादिः श्रुतिमुखो द्विभुजो दलिताञ्जनश्यामदेहो नीलकुन्तलशिखण्डदलमण्डितः । तिर्यक्कृतगुञ्जावतंसशशाङ्कमाणिक्यकिरीटशिरो गोरोचनतिलकः कर्णयोर्मकरकुण्डले नासाग्रे मुक्ताफलं सिन्दूरारुणाधरः तिर्यग्ग्रीवः श्रीवत्सकौस्तुभधरो मुक्ताहारविभूषितो वन्यस्रग्वी मालतीदामभूषितश्चन्दनभूषितशरीरः करे कङ्कणकेयूरौत्कट्यां किङ्किणीपीताम्बरधरो गम्भीरनाभिः कमलहृतजानुयुगलः । पद्मवज्रादिचिह्नितपादतलस्तदंशांशेन कोटिमहाविष्णुरिति । एवंरूपं कृष्णचन्द्रं चिन्तयेन्नित्यशः सुधीरिति । तस्य आद्या प्रकृती राधिका नित्या निर्गुणा सर्वालङ्कारशोभिता प्रसन्ना अशेषलावण्यसुन्दरी । अस्मदादीनां जन्मदात्री यस्या अंशा बहवो ब्रह्मविष्णुरुद्रादयो भवन्ति ॥ इति ।
एवं च एकमेवाखण्डमद्वयं निरतिशयचिदानन्दघनं, रसो वै सः इति श्रुतिसिद्धरसरूपतत्त्वं रसरूपत्वादेव निजस्वरूपमहिम्नैवानादित एव युग्मरूपेण स्थितम् । तदुक्तं बृहदारण्यके पुरुषविधब्राह्मणे,
स नैव रेमे । तस्मातेकाकी न रमते । स द्वितीयमैच्छत। स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ स इममेवात्मानं द्वेधापातयत। पतिश्च पत्नी चाभवताम् । तस्मादिदमर्धबृगलमिव स्व इति ह स्माऽऽह याज्ञवल्क्यस्तस्मादयमाकाशः स्त्रिया पूर्यत एव [बृ.आ.उ. १.४.३]
अत्र हि एकस्यैव परमात्मनो दम्पतीरूपत्वं पत्नीरहितस्यार्धबृगलत्वं तत्सहितस्य च पूर्णत्वमुक्तम् । एवमेव श्रीपुरुषोत्तमगोस्वामिचरणैः खलालपनविध्वंसवादे श्रीवल्लभाचार्यपादैरपि भागवते दशमे भ्रमरगीते श्रीर्वधूः साकमास्ते [भा.पु. १०.४७.२०] इत्यस्य सुबोधिन्यामुक्तम्—दम्पतीरूपेण स्वरूपं विभज्यैव श्रीकृष्णो भगवानवतीर्ण इत्यवोचाम तथा व्रज एव कुमारश्च कुमारी चाभवद्धरिः इति चोक्तम् ।
राधोपनिषदि—येयं राधा यश्च कृष्णो रसाब्धिर्देहेनैकः क्रीडनार्थं द्विधाभूतिति । राधातापिन्यामपि—येयं राधा यश्च कृष्णो रसाब्धिः, देहेनैकः क्रीडनार्थं द्विधाभूतिति । पुरुषार्थबोधिन्यां—राधाकृष्णयोरेकमासनपद्मम्, एका बुद्धिः, एकं मनः, एकं ज्ञानम्, एक आत्मा, एकं पदम्, एकाकृतिः इत्यादि । विष्णुपुराणे पराशरेणाप्युक्तं—
नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी ।
यथा सर्वगतो विष्णुस्तथैवैषा द्विजोत्तम ॥ [वि.पु. १.८.१७] इति ।
अत्र सर्वगतत्वं सर्वेषां भगवद्धर्माणामुपलक्षणम् । तथा च यथा भगवान्स्वरूपतो गुणतः स्वभावतो निरस्तसमस्तदोषः, अशेषकल्याणगुणशक्त्यादिस्वभावो निरतिशयानन्दविग्रहः, तथा सापीति बोध्यम् । तदुक्तं प्रपन्नसुरतरुमञ्जर्यां श्रीसुन्दरभट्टाचार्यपादैः—
बृंहयति बृंहति तस्मादुच्यते परब्रह्म इति श्रुतेर्यथा स्वरूपेण गुणशक्त्यादिभिश्च सर्वपरिपूर्णो नित्यमुक्तजनतानुभूयमानो भगवान्श्रीपुरुषोत्तमः तथैषापीति बोध्यमिति पत्नी [बृ.आ.उ. १.४.३] इति वचनात्वक्ष्यमाणानां भगवदीयगुणानामत्रादिदेशोऽवगम्यते इति चेति ।
एवमेव भगवता आद्याचार्येण निम्बभानुना वेदान्तकामधेनौ—
स्वभावतोऽपास्तसमस्तदोषम्
अशेषकल्याणगुणैकराशिम् ।
व्यूहाङ्गिनं ब्रह्म परं वरेण्यं
ध्यायेम कृष्णं कमलेक्षणं हरिम् ॥
अङ्गे तु वामे वृषभानुजां मुदा
विराजमानामनुरूपसौभगाम् ।
सखीसहस्रैः परिसेवितां सदा
स्मरेम देवीं सकलेष्टकामदाम् ॥ [दशश्लोकी ४५]
इति ब्रह्मलक्षणपरे निजमहावाक्ये अनुरूपसौभगामित्यंशेन सूचितम् । तस्यायमर्थः—पत्न्यां पत्यनुरूपसौभगत्वं हि पतिनिष्ठनिखिलसमुचितसाधर्म्यविशिष्टत्वमेव कृष्णानुरूपसौभगत्वम् । तथा च, यथा कृष्णो भगवान्स्वभावतोऽपास्तसमस्तदोषोऽशेषकल्याणगुणैकराशिः व्यूहवैभवपुरुषावतारगुणावतारलीलावतारविलासावताराणामंशी ब्रह्मशब्दार्थस्य परमकाष्ठापन्नः, परात्परः मुमुक्षुवरेण्यः निरतिशयानन्दविग्रहः, तथा श्रीवृषभानुजापि स्वभावतोऽपास्तसमस्तदोषा निःशेषकल्याणगुणशक्तिरस्वभावा व्यूहवैभवपुरुषावतारगुणावतारलीलावतारविलासावताराणां पत्नीनामंशिनी ब्रह्मशब्दार्थस्य परमकाष्ठापन्ना परात्परा मुमुक्षुवरेण्या निरतिशयानन्दविग्रहा चेति तात्पर्यार्थः । एतेन यथा श्रीकृष्णस्वरूपमेवं विष्णुसूक्तादि प्रतिपाद्यस्य विष्णोः परमकाष्ठापन्नं रूपम्, अन्यानि रूपाणि तु तदंशभूतानि, तथा श्रीराधिकास्वरूपमेव श्रीसूक्तादिप्रतिपाद्यायाः श्रियः परमकाष्ठापन्नं स्वरूपं परमश्रीपरमलक्ष्मीमहालक्ष्मीशब्दानां मुख्यं वाच्यं चेत्यपि सूचितम् ।
तदुक्तं पाद्मे पातालखण्डे वृन्दावनमाहात्म्ये—
बहिरङ्गैः प्रपञ्चस्य स्वांशैर्मायादिशक्तिभिः ।
अन्तरङ्गैस्तथा नित्यविभूतैस्तैश्चिदादिभिः ॥
गोपनादुच्यते गोपी राधिका कृष्णवल्लभा ।
सर्वलक्ष्मीस्वरूपा सा कृष्णाह्लादस्वरूपिणी ॥
अतः सा प्रोच्यते विप्र ह्लादिनी तु मनीषिभिः ।
सा तु साक्षात्महालक्ष्मी कृष्णो नारायणः स्वयम् ॥ [प.पु. ५.८१.५१५३]
ब्रह्मवैवर्तप्रकृतिखण्डेऽपि—वैष्णवास्तां महालक्ष्मीं परां राधां वदन्ति हि इति । गौतमीयतन्त्रे—सर्वलक्ष्मीमयी सर्वकान्तिः सर्वसंमोहिनी परा इति । सिद्धान्तरत्ने बलदेवविद्याभूषणैरप्युक्तं—श्रीकृष्णप्रेयस्यः सर्वलक्ष्म्य एव । सा तु महालक्ष्मीः इति । इयमेव हि सर्वशक्तिसमष्टिरूपा । अन्याश्च शक्तय एतस्या एवांशभूताः । तदुक्तं पाद्मे वृन्दावनमाहात्म्ये वृषभानुगेहं गतेन नारदेन—
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिस्तवेशितुः ।
तवांशमात्रमित्येषा मनीषा मे प्रवर्तते ॥
आनन्दरूपिणी शक्तिस्त्वमीश्वरी न संशयः ॥ [प.पु. ५.७१.५४५५] इत्यादि ।
इयमेव च भागवते दशमे श्रीरमालक्ष्म्यादिशब्दैः व्यपदिश्यते, सततमुरसि सौम्य श्रीर्वधूः साकमास्ते [भा.पु. १०.४७.२०] इत्यादौ व्यपदिश्यते ।
लक्ष्मीर्वाणी च तत्रैव जनिष्यते महामते ।
वृषभानोस्तु तनया राधा श्रीर्भविता किल ॥
इदमेव धोद्राधा सवितुः द्य इत्यत्र राधःशब्देनोच्यते । इयमेव प्रेमानन्दाधिष्ठात्रीस्वरूपं द्विधाप्रत्याज्यश्रीपदवाच्यतया लक्ष्मीपदवाच्यतया च भगवत्पार्श्वेऽवतिष्ठते तदभिप्रायेणैव । श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे [शुक्लयजुर्वेद ३१.२२] इति । अत्र श्रीपदवाच्या प्रेमानन्दाधिष्ठात्री श्रीराधैव लक्ष्मीपदवाच्या । ऐश्वर्याधिष्ठात्री तदेवोक्तं स्कान्दे वासुदेववैष्णवखण्डे—
जयासुशीलाललितामुखानां
वृन्दैः सखीनां सह राधया च ।
समर्च्यमानं रसमया च भामा
कलिन्दजाजाम्बवतीमुखानामित्यत्र ॥ इत्यत्र ।
कदाचिच्च श्रीभूलीलारूपेणापि सा भवतीत्यपि ज्ञेयम् । अनयोः दाम्पत्यं स्वरूपवदनादिसिद्धमेव, उभयोर्नित्यसिद्धत्वात्, एकात्मत्वाच्च । एकात्मत्वादेव नेश्वरद्वैतापत्तिः । अन्योन्यरमणेऽप्यात्मारामत्वादिव्याघातश्च । तयोरेकात्मत्वे भवति श्रुतिः—
स नैव रेमे । तस्मातेकाकी न रमते । स द्वितीयमैच्छत। स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ स इममेवात्मानं द्वेधापातयत। पतिश्च पत्नी चाभवतां [बृ.आ.उ. १.४.३] इति ।
अत एव तयो मिलितस्यैव पूर्णत्वम् । तथा च श्रुतिः—तस्मादयमाकाशः स्त्रिया पूर्यत एव [बृ.आ.उ. १.४.३] इति । एवं च—
इदं ह्यन्वोजसा सुतं राधानां पते,
पिबात्वस्य गीर्वणः ॥ [ऋ.वे. ३.३.१६]
स्तोत्रं राधानां पते गीर्वाहो
वीर यस्य ते विभूतिरस्तु सूनृता ॥ [ऋ.वे. १.२.२८]
इत्याद्या ऋक्सामसंहितामन्त्रा अप्यनुसन्धेयाः । बहुवचनं तु श्रीलक्ष्मीवसुमतीदेवीति त्रितयाभिप्रायेणेति ।
अधिकं तु मत्कृतयुग्मतत्त्वसमीक्षायां द्रष्टव्यम् । इति तत्रैव हि पुराणपञ्चरात्रादीनि मतमतान्तराणि च सर्वाणि संगृह्य प्रतिप्रश्णं समालोचितानि इत्यवधेयम् ॥१७॥
—ओ)०(ओ—
(१.५.१८)
अमुं पञ्चपदं मन्त्रमावर्तयेद्यः
स यात्यनायासतः केवलं पदं तत॥४७अ॥
अथ शरणागतेस्तद्व्यापाराणां ध्यानरसनभजनयजनादीनां च प्रकृतोपनिषदवान्तरतात्पर्यविषयाणां फलप्राप्त्युपसंहारमाह—अमुं पञ्चपदमावर्तयेदित्यादि । यः निष्कामः सनैहिकामुष्मिकभावनारहितः केवलं भगवदेकपरायणो गुरूपसत्तिपूर्वकममुं निरुक्तलक्षणं पञ्चपदं निरुक्तलक्षणपञ्चाङ्गं शरणागतिध्यानरसनभजनोपासनपुरस्कारेणावर्तयेत्, आवृत्तिरसकृदुपदेशात्[वे.सू. ४.१.१], ध्यानाच्च [वे.सू. ४.१.८] इति फलाध्यायस्थब्रह्मसूत्रोक्तप्रकारेण निरन्तरं भावयेत्, स अनायासतः,
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥
तेषामहं समुद्धर्ता मृत्युसंसारसागरात।
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ [गीता १२.६७]
इति गीतायां भगवदुक्तप्रकारेणायासं विनैव, केवलं प्रकृतिस्पर्शशून्यं तत्पदं तस्य भगवतः पदं स्थानं निरुक्तलक्षणं त्रिपाद्विभूतिगोलोकपरमपदपरव्योमविष्णुपदब्रह्मधामादिपदव्यपदेश्यम्, तत्तेन शब्देन सर्ववेदप्रसिद्धं याति प्राप्नोतीत्यर्थः ।
तत्र प्रविश्य प्रकृतिस्पर्शशून्यसच्चित्प्रेमानन्दविग्रहः स निरतिशयप्रेम्णा निरतिशयप्रेमानन्दविग्रहं श्रीपरमपुरुषमनुशीलयन्ति । तदुक्तं
एतद्विष्णोः परमं पदं
ये नित्योद्युक्तास्तं यजन्ति न कामान।
तेषामसौ गोपरूपः प्रयत्नात्
प्रकाशयेदात्मपदं तदेव ॥ [गो.ता.उ. १.२१]
पञ्चपदं पञ्चाङ्गं जपन्द्यावाभूमी सूर्याचन्द्रमसौ साग्नी तद्रूपतया ब्रह्म सम्पद्यते [गो.ता. १.१२], सोऽमृतो भवति [गो.ता. १.६] इत्यादि । वक्ष्यति च, सच्चिदानन्दैकरसे भक्तियोगे तिष्ठति [गो.ता. २.८८] इत्यादि ॥१८॥
—ओ)०(ओ—
(१.५.१९)
अथ यत्पदे यत्स्वरूपं प्राप्नुयात्, तत्पदनिरूपणं तद्भगवतः स्वरूपनिरूपणं चैकेनोपसंहरति—
अनेजदेकं मनसो जवीयो
नैतद्देवा आप्नुवन्पूर्वमर्शदिति ॥४७ब॥
एजृ कम्पने धातुतः शतृप्रत्यये एजदिति निष्पन्नं तस्य नञायोगे अनेजदिति रूपम् । तथा च कम्पनादिविक्रियारहितमित्यर्थः । इदं तूपलक्षणमन्येषां भावविकाराणां तथा च सर्वभावविक्रियारहितमिति परमार्थः । तच्च प्राकृतत्वे न सम्भवतीत्यप्राकृतं ज्ञानानन्दघनमित्युक्तं भवति । एकमिति स्वतन्त्रसत्ताकद्वितीयरहितमित्यर्थः । मनसो जवीयः—मनसोऽप्यगम्यगतिमित्यर्थः । यन्मनसा न मनुते, येनाहुर्मनो मतं, तदेव ब्रह्म त्वं विद्धि [के.उ. १.६] इत्यादिश्रुतेः ।
नैनद्देवा आप्नुवत्—देवा ब्रह्मादय एनद्भगवत्स्वरूपं भगवत्पदं च नाप्नुवन्स्वबलेन न प्राप्तवन्तः । तदा अन्यः स्वबलेन प्राप्नुयातिति तु शङ्कापि न कार्येत्यभिप्रायः । पूर्वमिति पुराणमनादिसिद्धमित्यर्थः ।
एवं च तद्भगवतो भगवद्धाम्नश्चोभयोः साधर्म्यमेतावता दर्शितम् । यद्वानेन मन्त्रेण तस्य परमात्मनस्तल्लोकस्य चाचिन्त्यमहिम्ना परस्परविरुद्धधर्माश्चर्यत्वं प्रसाध्यते यच्चापाततस्तर्काद्विरुद्ध्यते । तथा च अनेजत्सर्वप्रकारकक्रियारहितमित्यर्थः । एके मुख्यान्यकेवला इत्यभिधानिकोक्तेः ।
मनसो जवीयः इति । तथापि मनसोऽप्यतिवेगेन सर्वत्र गमनस्वभावम् । तदेवोपपादयति—नैतद्देवा आप्नुवन्पूर्वमर्शदिति । देवाः अतितरां वेगवन्तो वाय्वादयोऽपि अर्षतार्षन्पूर्वं निरन्तरं धावन्तोऽपि नाप्नुवन्तमनुगन्तुं न शक्नुवन्तः । इति अतो हेतोः सर्वविक्रियारहितोऽप्यसौ तल्लोकश्चाचिन्त्यमहिम्ना गोपगोपीगवावीतमित्यादि पूर्वोक्तं सर्वविधलीलालीलोपकरणैश्च सम्पन्न इति तात्पर्यार्थः । श्वेताश्वतरश्रुतिश्च—अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः इत्याद्येवमेवोक्तम् ।
पन्थास्तु कोटिशतवत्सरसम्प्रगम्यो
वायोरथापि मनसो मुनिपुङ्गवानाम् ।
सो ऽप्यस्ति यत्प्रपदसीम्न्यविचिन्त्यतत्त्वे
गोविन्दमादिपुरुषं तमहं भजामि ॥ [ब्र.सं. ५.३४]
अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति
पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति ।
आनन्दचिन्मयसदुज्ज्वलविग्रहस्य
गोविन्दमादिपुरुषं तमहं भजामि ॥ [ब्र.सं. ५.३२] इति ।
ब्रह्मसंहितायां पञ्चमाध्याये इत्येतदेवोक्तम् । तथा च तर्कागोचरत्वाद्वेदैकसमधिगम्यत्वाद्, यथोक्तं सर्वमेव साधु इति बोध्यम् ॥१९॥
—ओ)०(ओ—
(१.५.२०)
पूर्वतापिन्युक्तार्थोपसंहारमाह—
तस्मात्कृष्ण एव परो देवस्तं ध्यायेत्तं रसयेत्
तं यजेत्तं भजेदिति ओं तत्सदित्युपनिषत।
भद्रं कर्णेभिः इति शान्तिः ॥४८॥
इति श्रीगोपालपूर्वतापिन्युपनिषत्समाप्तिः ॥
तस्मादिति पञ्चम्यन्तेन तच्छब्देन यस्मात्पूर्वोपपादितप्रकारेण कृष्ण एव निरतिशयसत्यचिदानन्दघनः स्वभावतोपास्याविद्यादिसमस्तदोषः निरतिशयानन्तस्वाभाविकयावदात्मभाविकल्याणगुणशक्तिर्निखिलजगदभिन्ननिमित्तोपादानभूतः शरणमात्रेण परममोक्षप्रदः व्यूहवैभवपुरुषावतारगुणावतार्लीलावतारविलासावताराणामवतारी प्रकृतिकालादीनां नियन्ता सर्वदेवशरण्यश्च । तस्मात्कृष्ण एव परमः स्वसमानाभ्यधिकशून्यो देव इत्युपसंहारवाक्यार्थः ।
अवान्तरचिन्तितानामुपसंहारमाह—तं ध्यायेतित्यादि । तस्यैवानन्यगाः संज्ञाः—ओं तत्सदिति इत्याह—ओं तत्सदिति । एवं च कृष्ण एव क्वचिदोंकारवाच्यत्वेन निरूप्यते क्वचित्तच्छब्दवाच्यत्वेन च तेन शब्दमात्रभेदो न वस्तुभेद इति तात्पर्यार्थः । इदमुपलक्षणं ब्रह्मपुरुषविष्णुशिवरुद्रनारायणादिशब्दानां तेन एको रुद्रो न द्वितीयाय तस्थुः, न सन्न चासच्छिव एव केवलः, इत्यादिश्रुतिविरोधः परिहतः । न चात्र रुद्रादिशब्दानां कृष्णवाचकत्वं कथं तेषां पञ्चवक्त्रे त्रिनयने प्रसिद्धत्वातिति वाच्यम् । आत्मैवेदमग्र आसीत्पुरुषविधः [बृ.आ.उ. १.४.१], स एकाकी नर एव इत्यादिश्रुतितात्पर्यालोचनया सर्वथा पुरुषाकाररूपस्यैव मूलरूपत्वस्य वक्तुमुचितत्वात। तच्च व्यवस्थापितं पूर्वम् । तदेतत्सुष्ठूपपादितं सिद्धान्तबिन्दौ युग्मतत्त्वसमीक्षायां च । मूलनारायणस्तु सत्पुण्डरीकनयनमित्युक्तलक्षणपुरुषाकार एव । पुरुषविध नर एव इत्यादिश्रुतेरित्युपपादितं पूर्वतापिन्यां सत्पुण्डरीकनयनमित्यत्र तेन न कश्चिद्विरोधः । अन्यान्यश्रुतिविप्रतिषेधपरिहारस्तु । उत्तरतापिन्यां पूर्वं नारायणः इत्यस्य व्याख्यायां द्रष्टव्यमिति ॥
मैथिलान्वयजातस्य मिथिलाभूमिवासिनः ।
भगीरथस्य विप्रस्य कृतिः स्यात्कृष्णवल्लभा ॥
इति श्रीगोपालतापिन्युपनिषद्व्याख्यायां वेदान्ततत्त्वसमीक्षाख्यायां
मिथिलामहीमण्डलान्तर्गतहाटीतप्पान्तर्गतढङ्गाहरिपुरग्रामवासि
मैथिलझोपाख्यश्रीभगीरथशर्मविरचितायां
पूर्वतापिनीविभागः सम्पूर्णः
श्रीकृष्णपदार्पितश्च ॥
गोपालतापनीयौत्तरोपनिषद्
श्रीश्रीनिम्बार्कसम्प्रदायधुरन्धरैः
सर्वशास्त्रविशारदैर्श्रीयुक्तभगीरथझामैथिलैर्
विरचितया वेदान्ततत्त्वसमीक्षानामकटीकया समलङ्कृता ।
॥ श्रीश्रीराधाकृष्णाभ्यां नमः ।
श्रीगोपालतापनीयोपनिषत्
उत्तरतापनी ।
(१)
अथ झोपाख्यमैथिलश्रीभगीरथशर्मविरचितायां गोपालतापिन्युपनिषद्व्याख्यायां वेदान्ततत्त्वसमीक्षाख्यायामुत्तरतापिनीविभागः प्रारभ्यते—
एवं पूर्वतापिन्यामुपक्रमोपसंहारोपपत्त्यभ्यासापूर्वताफलार्थवादरूपैर्निबन्धतात्पर्यनिर्णायकैर्लिङ्गैः स्वरूपतः कार्यतश्च परब्रह्मस्वरूपं संलक्ष्य तस्यैव पर्मदेवत्वं पर्ममोक्षहेतुत्वसर्वविज्ञानहेतुभूताखण्डैकविज्ञानविषयत्वं विश्वचक्रसंसारकत्वं च सङ्क्षेपतो निर्णीय तत्तदंशनिरूपणमुखेन तत्तदुपनिषत्सु मुख्यतमानां श्रुतिवाक्यानां तत्तस्मिन्नर्थे समन्वयं निर्दिश्य तत्तदेवार्थं पुनर्व्व्याख्यारूपेण निरूपयितुमुत्तरतापिनी पठ्यते । एवं च पूर्वोत्तरतापिन्योः पूर्वापरीभावे प्रकृतसिद्ध्यनुकूलीभूतचिन्ताविषयत्वरूप उपोद्घात एव सङ्गतिरित्यपि बोध्यम् ।
तत्र श्रीकृष्णलीलायां कामावभासः प्राकृतजनप्रसिद्धः । तस्य वास्तविकत्वे श्रीकृष्णस्यापहतपाप्मत्वं भज्येत । काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा [गीता ४.३७] इति गीतायां तस्यैवोक्तेः कामस्य महापाप्मरूपत्वात। सति चैवं न परमदेवत्वादिसिद्धिः । परमतत्त्वस्य सर्वोपनिषत्सु— एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सो ऽपिपासः [छा.उ. ८.१.५] इत्यादिश्रुतिभिरपहतपाप्मत्वेन निरूपणात। तस्मात्सङ्क्षेपतो निरुक्तं निरूपयिष्यमाणं च सिद्धान्तमुपक्रमे “सर्वेश्वरं गोपालं कृष्णं” इति पदत्रयेण स्मारयनाख्याइकाविशेषेण निष्कामत्वनिरूपणमुखेनैव सङ्क्षेपतो निरूपितमर्थं प्रकारान्तरेण परिशोधयति ।
अवान्तरसङ्गत्या जीवस्यापि विशुद्धत्वनित्यत्वभगवदंशत्वादिकं च परिशोधयति निरुक्तशरणागत्यादिनिर्धारणार्थम् । जीवानां तथात्वेन परोक्षतोऽपि निजस्वरूपज्ञानाभावेऽशुद्धत्वानित्यत्वभगवदनात्मकत्वादिनिश्चये विशुद्धत्वनित्यत्वभगवदात्मकत्वादिघटितमोक्षेच्छानुदयप्रसङ्गात। नहि स्वभावतोऽशुद्धो वा बद्धो वाऽनित्यो वा कदाचिदपि केनापि साधनेन सर्वथा विशुद्धो वा मुक्तो वा नित्यो वा भवितुमर्हति । नहि घटादिः चिद्रूपो वा मुक्तो वा नित्यो वा भवितुमर्हति । जीवानां स्वभावतो विशुद्धत्वमुक्तत्वनित्यत्वादिनिर्धारे तु उपाधितोऽशुद्धत्वबद्धत्वादिसत्त्वेऽपि शरणागत्यादिसाधनपरिपाके भगवदनुग्रहात्सर्वोपाधिविलये सम्भवति मोक्षादिरिति तदर्थशरणागत्यादौ प्रवृत्तिरपि सम्भवति । इति सङ्क्षेपतो जीवतत्त्वमपि परिशोधयतीति बोध्यम् ।
एकदा हि व्रजस्त्रियः सकामाः शर्वरीमुषित्वा
सर्वेश्वरं गोपालं कृष्णमूचिरे । उवाच ताः कृष्णः ।
एकदेत्यादि । व्रजस्त्रिय इति सकामाः इति । कामो हि इन्द्रियविशेषतर्पणेच्छारूपो रजोगुणकार्यविशेषः । काम एष क्रोध एष रजोगुणसमुद्भवः [गीता ४.३७] इति गीतायां श्रीमुखगानात। तेन सहिताः सकामाः । एतेन तासां श्रीकृष्णे तादृशसकामत्वभ्रमे बीजमुक्तम् । यतस्ताः सकामाः, अत एव श्रीकृष्णेऽपि सकामत्वभ्रमवत्यो जाताः । यदि ताः स्वतो निष्कामा भवेयुः, तदा श्रीकृष्णे तादृशं भ्रमं न कुर्युः । यथा श्रीदेवी तदन्तरङ्गसख्यो ललिताद्याश्च ता हि श्रीकृष्णवन्निष्कामाः, केवलं विशुद्धप्रेमवत्यः । ता हि यत्कुर्वन्ति, तत्श्रीकृष्णार्थमेव कुर्वन्ति । श्रीकृष्णसुखमेव तासां स्वसुखं नेन्द्रियसुखं स्वसुखम् । अत एव ताः श्रीकृष्णमपि तथात्वेनैव जानन्ति श्रीकृष्णो हि भगवान्यत्करोति तत्सर्वं भक्तसुखार्थमेव करोति, न तु स्वार्थमिति विशुद्धप्रेमवतीनां तासां भावात।
इदमत्र बोध्यम् । अवतारकालीनलीलायां सामान्यतस्त्रिविधा गोप्यः—नित्यसिद्धासाधनसिद्धासाधनारूढाभेदात। तत्र श्रीस्तदङ्गसख्यश्च ललिताद्या नित्यसिद्धाः, तासां कदाचिदपि संसाराप्रवेशात। श्रीकृष्णवत्तासामपि तदन्तरङ्गतमशक्तिरूपाणां नित्यमुक्तत्वात।
साधनसिद्धाश्चित्रकलाद्याः । ता हि पूर्वं संसारिण्यः पश्चान्नित्यसिद्धगोपीभावसजातीयभावेन श्रीकृष्णप्रपत्त्या तत्प्रसादेन भर्जितनिखिलकर्मवासनाः, गोपीभावं प्राप्तवत्यः । ता इमा द्विविधाः श्रियः परमसाम्यं प्राप्ताः । श्रियः कृष्णस्य च सेवैकसुखाः तदतिरिक्ताभिलाषरहिताः, तयोरन्योन्यमिलनसुखेनैव नित्यतृप्ताः स्वरूपतो गुणतश्च श्रियः श्रीकृष्णस्य च नित्यनिरतिशयप्रेममययाथात्म्यज्ञानस्फुरणस्वभावाः । अवतारकालेऽपि तयोर्नित्यनिरतिशयविशुद्धप्रेममयसेवार्थमवतीर्णाः । तावेव नित्यनिरतिशयप्रेम्णा सदाऽनुकूलयन्ति ।
तृतीयाश्च दण्डकारण्यादिवासिनो मुनयः । तत्तदवतारकालेषु भगवद्रूपगुणमोहिताः स्त्रियश्च तत्र काश्चित्तादृशसाधनापरिपाके वरदानविशेषबलेनावतारकाले गोपीभावं प्राप्ताः । काश्चित्साधनामध्य एवावतारस्य जातत्वात्तत्रोत्पन्नाः । तत्रैव साधनापूर्तिः । श्रियः परमसाम्यप्राप्तिश्च भविष्यति । तेन तासां साधनाया अपूर्णत्वेन कर्मशेषस्य विद्यमानत्वात्नित्यनिरतिशयभगवद्याथात्म्यज्ञानस्य नित्यनिरतिशयविशुद्धप्रेम्णश्च स्फुरणाभावात्निरुक्तलक्षणसकामत्वादिकं भगव्त्यपि तादृशभ्रमश्च । चिरन्तनकर्मशेषत्वादेव तासां पुरुषान्तरसम्बन्धोऽपि । इति तासां श्रियः परमसाम्यरूपपरमफलसिद्ध्यर्थं श्रीवद्भगवद्याथात्म्यज्ञानं विशुद्धनिरतिशयप्रेम चाविर्भावनीये । तदर्थं च भगवति निजस्वरूपे चान्यथाज्ञानमप्यपनेतव्यम् । इति तदर्थं स्वयं भगवान्तासां हृदि स्थितो ब्राह्मणभोजनव्याजेन दुर्वासःसमीपं गन्तुं प्रेरितवान।
यद्यपि भगवान्स्वयं वा सिद्धसखीद्वारा वा ताः समुपदेष्टुं शक्नोति, तथापि स्वमुखेन स्वैकपरायणसिद्धसखीद्वारा वा स्वमहिमवर्णने तासां तथा विश्वासो न भवेत्, यथा तटस्थेन केनचिन्मुनिना भगवतो याथात्म्यवर्णने विश्वासो भवेदिति दुर्वाससो मुखेनैव स्वयाथात्म्यं श्रावयितुं दुर्वासस उपसत्त्यर्थमेव ताः प्रेरितवान। एवं च सिद्धसखीनां दुर्वाससः समीपगमनं प्रश्नादि च चौरेषु मिलितो राजेव तासामेव शिक्षार्थं, न तु स्वार्थम् । स्वेषां पूर्वमेवाविर्भूतस्वाभाविकज्ञानप्रेमवत्त्वादिति बोध्यम् । यथा च गोपीनामेवं भेदः, तथोपपादितं विस्तरेण मया युग्मतत्त्वसमीक्षायां ब्रह्मवैवर्तपाद्मनारदीयादिपुराणपर्यालोचनयेति तत्रैवावधेयम् ॥
शर्वरीमुषित्वेति । भगवता सह विविधविलासेन समापयित्वेत्यर्थः ।
सर्वेश्वरमिति । सर्वेषामीश्वरानामनीश्वराणां चेश्वरमित्यर्थः । ईश्वरानां ब्रह्मादीनां विश्वादितुरीयान्तानं व्यूहवैभवादीनां च । अनीश्वराणां तद्व्यतिरिक्तानां सर्वेषां प्रकृतिकालादीनां च ईश्वरं स्वरूपतो गुणतः शक्तितः सर्वतोभावेन चांशित्वात्स्वायत्तस्थितिप्रवृत्तिकत्वादिभ्यो नित्यामकोऽनन्यस्वामी चेति यावत। ओं कृष्णाय रामाय प्रद्युम्नायानिरुद्धाय [गो.ता.उ. २.८२] इत्यारभ्य, जाग्रत्स्वप्नसुसुप्तिमतीत्य तुर्यातीतोऽन्तर्यामी गोपालः [गो.ता.उ. २.९५] इति वक्ष्यमाणश्रुतिभिः ।
एतेन सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक्चेतो मुखः प्राज्ञस्तृतीयः पादः [म.उ. ५] एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानां [म.उ. ६] इति माण्डूक्यश्रुतेः । ओङ्कारं सर्वेश्वरं द्वादशान्ते [नृ.ता.उ. १.३] इति नृसिंहतापनीश्रुतेश्च सर्वेश्वरत्वं प्राज्ञान्तपर्यवसाय्येव ।
न तु सर्वान्तिमकक्षापन्नब्रह्मस्वरूपपर्यवसायी प्राज्ञादूर्ध्वस्य नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतः प्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः [म.उ. ७] । ओङ्कारं तुरीयमानन्दामृतरूपं षोडशान्ते [नृ.ता.उ. १.३] इत्यादिना सर्वेश्वराख्यात्प्राज्ञादूर्ध्वस्य तुरीयस्योभयत्रोपदेशातिति निरस्तम् ।
तत्र सर्वेश्वरशब्दस्य तदर्थस्य च प्राज्ञान्तमात्रपर्यवसायित्वेऽप्यत्र तथात्वाभावात। अपि तु विश्वतैजसप्राज्ञतुरीयेभ्योऽप्युत्कृष्टतुरीयातीतपर्यवसायित्वेनैव विवक्षितत्वात। अत्रोपक्रमे वृत्तिभेदेन सर्वेश्वरगोपालकृष्णशब्देभ्य उक्तस्यैव तत्त्वस्ययोऽसौ जाग्रत्स्वप्नसुसुप्तितुर्यातीतो गोपालः [गो.ता.उ. २.९५] इत्यन्तेन तुरीयातीतत्वेन निरूपणात।
एवं च प्राज्ञपर्यवसायिसर्वेश्वरशब्दो न निरुक्ताशेषनियामकत्वलक्षणः । प्राज्ञे प्राज्ञादूर्ध्वस्य तुरीयस्य निरुक्तलक्षणनियामकत्वाभावात। स्वभावतो निरवशेषैश्वर्यपूर्णत्वाब्भावाच्च । तस्मात्प्राज्ञस्य सर्वेश्वरतमापेक्षिकमेव, मुख्यं सर्वेश्वरत्वं तु तुरीयातीतस्यैव । तुरीयातीते सर्वसम्भवात। तत ऊर्ध्वस्य वस्तुत्वस्याभावात। स्वभावतो निरवशेषैश्वर्यपरिपूर्णत्वाच्च स एव मुख्यः सर्वेश्वरः ।
अत एव प्राज्ञादूर्ध्वतत्त्वं उपक्रम्य, स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ् छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय ।
तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनैतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति । ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति [बृ.आ.उ. ४.४.२२]
तमीश्वराणां परमं महेश्वरं
तं देवतानां परमं च दैवतम् ।
पतिं पतीनां परमं परस्ताद्
विदाम देवं भुवनेशमीड्यम् ॥
न तस्य कार्यं करणं च विद्यते
न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते
स्वाभाविकी ज्ञानबलक्रिया च ॥
न तस्य कश्चित्पतिरस्ति लोके
न चेशिता नैव च तस्य लिङ्गं
स कारणं करणाधिपाधिपो
न चास्य कश्चिज्जनिता न चाधिपः ॥ [श्वे.उ. ६.७९]
इत्यादिना बृहदारण्यकश्वेताश्वतरादौ परमात्मनः सर्वेश्वरत्वमहेश्वरत्वादिकमाम्नायते । नात्र प्राज्ञस्य ततो निकृष्टस्य वा तैजसादेः परिग्रहसम्भवः । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति [बृ.आ.उ. ४.४.२२] इति वाक्यांशेन तस्यैव विज्ञेयत्वेनापदेशात।
ननु सा जीवपरा श्रुतिः—योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ् छेते [बृ.आ.उ. ४.४.२२] इत्यादि जीवलिङ्गादिति चेन्न । पूर्वं, स विश्वकृत्स हि सर्वस्य कर्ता [बृ.आ.उ. ४.४.१३] इत्यादिना विश्वकर्तृत्वादिरूपब्रह्मलिङ्गेन तदवतारात। विश्वकर्तृत्वस्य समन्वयाध्याये ब्रह्मासाधारणलिङ्गत्वेन व्यवस्थापनात। इहापि सर्वस्य वशी सर्वस्येशानः [बृ.आ.उ. ४.४.२२] इत्यादिना ब्रह्मलिङ्गकीर्तनात। नहि सर्वेश्वरत्वसर्ववशित्वादिकं जीवे सम्भवति ।
न चास्माकमद्वैतवादिनां नये निजस्वरूपाविर्भावे जाते जीवेऽपि तत्सम्भवतीति वाच्यम् । तथा सति यतो वा इमानि [तै.उ. ३.१] इत्यादि वाक्यान्यपि जीवपराणि स्युः । तथा च जन्माद्यस्य यतः [वे.सू. १.१.२] इत्यादि सूत्राणि निर्विषयाणि । किं चाग्रे एष सेतुर्विधरण एषां लोकानामसंभेदाय [बृ.आ.उ. ४.४.२२] इत्याद्यापि श्रूयते । सेतुवाक्यानि सर्वोपनिषत्सु ब्रह्मपराण्येव पठ्यन्ते—य आत्मा स सेतुर्विधृतिः [छा.उ. ८.४.१]; यः सेतुरीजानां [?], अमृतस्यैष सेतुः [मु.उ. २.२.५] । अत्र सेतुवाक्यानां ब्रह्मपरत्वादत्रापि ब्रह्मपरमेव । सर्वत्र सेतुवाक्यस्य जीवपरत्वे परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः [वे.सू. ३.२.३१] इत्यादि सूत्राणि निर्विषयाणि स्युः । प्राणेषु इत्यादि तु अन्तर्यामित्वात्तु स आत्मा स विज्ञेयः इत्यादिनोक्तस्य प्राज्ञातीतस्यैव विज्ञेयत्वाच्च । श्वेताश्वतरेऽपि न प्राज्ञप्रकरणसम्भवः । न तत्समश्चाभ्यधिकश्च दृश्यते [श्वे.उ. ६.८], न चेशिता नैव च तस्य लिङ्गम्..न चास्य कश्चिज्जनिता न चाधिपः [श्वे.उ. ६.९],
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥ [श्वे.उ. ६.११]
इत्यादिना तस्यैव सर्वान्तिमत्वेन निरूपणात। तस्मादूर्ध्वं वस्तुतत्त्वसद्भावस्य पुनः पुनः प्रतिषेधाच्च ।
यच्चोक्तमीश्वरसर्वेश्वरत्वादिशब्दस्येशितव्यादिपदार्थरूपान्यसापेक्षत्वात्तन्न परब्रह्मणः स्वाभाविकी धर्म इति तदप्ययुक्तम् । ईशितव्यानां सर्वेषां प्राकृताप्राकृततत्त्वानां परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च [श्वे.उ. ६.८] इत्यादिश्रुत्युक्तस्वाभाविकस्वात्मकशक्तिविक्षेपरूपत्वेन स्वात्मकत्वात्तदीशित्र्ट्वस्यान्यानपेक्षत्वात। अत्राप्यन्ते एको देवः [गो.ता.उ. २.९६] इत्यादि मन्त्रेणैवोपसंहारेणैकवाक्यतावगमाच्च । तस्मात्सर्वेश्वरत्वमहेश्वरत्वादिकं न सर्वान्तिमतत्त्वपर्यवसायि । इति निरर्गलवाक्यमात्रमिति ॥
गोपालमिति । यो गोपान्जीवान्वै आत्मत्वेनासृष्टिपर्यन्तमालाति स गोपालो भवति [गो.ता.उ. २.४८] इति वक्ष्यमाणश्रुत्युक्तलक्षणम् ।
कृष्णमिति ।
कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ।
इत्यादिश्रुतिभ्यां सखण्डाखण्डव्युत्पत्त्या निरुक्तव्याकरणसखण्डव्युत्पत्त्या च लक्षितस्वरूपमित्यर्थः । एतावता पूर्वतापिनीनिरुक्तः प्रायः समग्र एवार्थोऽत्रोपक्रमे स्मारितः । वक्ष्यमाणप्रकारेण विषयपरिशोधार्थम् । अपि चेतेनावतारलीलायामपि परब्रह्म परिपूर्णतममेव प्रकटीभूतं, न त्वं शकलादिनियमनेनावतारान्तरवदित्यप्युक्तं भवति । अत एव एते चांशकलाः पुंसः कृष्णस्तु भगवान्स्वयं [भा.पु. १.३.२८] इति भागवते,
रामादिमूर्तिषु कलानियमेन तिष्ठन्
नानावतारमकरोद्भुवनेषु किन्तु ।
कृष्णः स्वयं समभवत्परमः पुमान्यो
गोविन्दमादिपुरुषं तमहं भजामि ॥ [ब्र.सं. ५.३९]
इति ब्रह्मसंहितायां पञ्चमाध्याये,
यतः कृष्णावतारेण भगभेदाः पृथक्पृथक।
सन्दर्शिताः पृथक्कार्ये तस्मात्सम्पूर्ण उच्यते ॥ [सा.त. ३.२७]
इति सात्वततन्त्रे चोक्तानि । अत्रापि वक्ष्यति अवताराणां मध्ये [गो.ता.उ. २.२४] इत्यादिनेत्यपि बोध्यम् ॥१॥
ओ)०(ओ
(२४)
अनु कस्मै ब्राह्मणाय भक्ष्यं दातव्यं भवति । दुर्वाससेति । कथं यास्यामोऽ तीर्त्वा जलं यमुनाया यतः श्रेयो भवति ।
अनु कस्मै इति । कस्मै ब्राह्मणाय भक्ष्यमनु दातव्यमित्यन्वयः । छन्दसि परेऽपि व्यवहिताश्च इति सूत्रात। अनु अनन्तरं यस्मै ब्राह्मणाय भक्ष्यदानेनास्मत्कामाः पूर्णा भवेयुस्तं ब्राह्मणं ब्रूहीत्यर्थः ॥२॥
दुर्वाससेति । दुर्वासस इत्यर्थः । सन्धिश्छान्दसः । दुर्वासा हि श्रीशङ्करांशः । अतो भगवत्तत्त्वं यथावज्जानाति इति व्रजोपान्त्यवासित्वात्परमप्रसिद्धतया च एतासां नितरां विश्वासविषयश्चेत्येतासां संशयं यथावच्छेत्स्यतीति तत्र प्रेषणे भगवतो निगूढाशयः । शेषं स्फुटम् ॥३॥
कृष्णेति ब्रह्मचारीति कृष्णेति सन्धिश्छान्दसः । शेषं स्फुटम् ॥४॥
ओ)०(ओ
(५१०)
कृष्णेति ब्रह्मचारीत्युक्त्वा मार्गं वो दास्यति ॥५॥
यं मां स्मृत्वाऽगाधा गाधा भवति । यं मां स्मृत्वाऽपूतः पूतो भवति । यं मां स्मृत्वाऽव्रती व्रती भवति । यं मां स्मृत्वा सकामो निष्कामो भवति । यं मां स्मृत्वाऽश्रोत्रियः श्रोत्रियो भवति ॥६॥
श्रुत्वा तद्वाचं हि वै रौद्रं स्मृत्वा तद्वाक्येन
तीर्त्वा तत्सौर्यां हि गत्वाश्रमं पुण्यतमं हि
नत्वा मुनिं श्रेष्ठतमं हि वै रौद्रं चेति ॥७॥
दत्त्वास्मै ब्राह्मणाय क्षीरमयं घृतमयमिष्टतमं ह वै मिष्टतमम् । तुष्टः स त्वाभुक्त्वा हित्वाशिषं प्रयुज्यान्वाज्ञां त्वदात॥८॥
कथं यास्यामोऽतीर्त्वा सौर्याम् ॥९॥
स होवाच मुनिः । दूर्वाशिनं मां स्मृत्वा वो दास्यतीति मार्गम् ॥१०॥
न व्याख्यातम् ।
ओ)०(ओ
(१११३)
तासां मध्ये हि श्रेष्ठा गान्धर्वी ह्युवाच—
तं ह वै ताभिरेवं विचार्य ॥११॥
कथं कृष्णो ब्रह्मचारी । कथं दुर्वाशनो मुनिः ॥१२॥
तां हि मुख्यां विधाय पूर्वमनु कृत्वा तूष्णीमासुः ॥१३॥
तासामिति । तासां सर्वासां व्रजस्त्रीणामित्यर्थः । मध्य इत्यनेनान्वयः । श्रेष्ठेति मूलभूतेत्यर्थः । स्वरूपत आवेशतश्च सर्वासां व्रजस्त्रीणामंशिनीति यावत। गान्धर्वीति । इयं हि श्रीश्च लक्ष्मीश्च पत्न्यौ [शुक्लयजुर्वेद ३१.२२] इति वाजसेयनीयपुरुषसूक्ताध्याये श्रीपदेनोक्ता भगवतः सर्वातिशायिनी सर्वस्त्रीबीजभूता—स वै नैव रेमे, स द्वितीयमैच्छत। स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ । स इयमेवात्मानं द्वेधापातयात। ततः पतिश्च पत्नी चाभवतामिति बृहदारण्यकपुरुषविधब्राह्मणोक्तलक्षणा श्रीसूक्तस्य परमार्थभूता च साक्षाच्छ्रीदेवी वृषभानुनन्दिनी ।
लक्ष्मीर्वाणी च तत्रैव जनिष्येते महामते ।
वृषभानोस्तु तनया राधा श्रीर्भविता किल ॥ इति ब्रह्मवैवर्तपुराणोक्तेः ।
तदेतत्सुष्ठूपपादितं मया युग्मतत्त्वसमीक्षायामिहापि लेशतः पूर्वतापिन्यामित्यनुध्येयम् ।
किं च, गान्धर्वी इति तस्या एव नाम । गान्धर्वी राधिका रम्या इति राधातापिन्यां तन्नामत्वेन परिगणनात। नारदीयपुराने युग्मसहस्रनाम्नि च, गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङ्गमा इत्यत्रापि तन्नामत्वेन परिगणनाच्च । गन्धर्व इति—प्रतद्वोचेदं ऋतं नु विद्वान्गन्धर्वे धाम विभृतं गुहा सत। त्रीणि पदानि निहिता गुहास्य वस्तानि वेद स पितुः पिता सत॥ [शुक्लयजुर्वेद ३२.७] इति शुक्लयजुःसंहितायां पुरुषसूक्तोत्तराध्यायपठितमन्त्रवर्णात्पुरुषसूक्तप्रतिपाद्यपरमात्मन एव त्रिपाद्विभूतिमतो जगद्बीजपुरुषस्य सर्वकालानां निरतिशयाधारत्वात्, रूपमिति गन्धर्वाः [श.ब्रा. १०.५.२०.२] इति शतपथश्रुतेः प्राकृतगन्धर्वगोचरसातिशयरूपस्य निरतिशयाधारत्वाच्च मुख्यतो नामधेयान्तरम् । एवं च गन्धर एव गान्धर्वः स परमात्मैव तस्य पत्नीत्वात्तादृशसर्वगुणपूर्णत्वाच्च, श्रीश्च लक्ष्मीश्च पत्न्यौ [शुक्लयजुर्वेद ३१.२२] इति पुरुषसूक्ताध्यायान्तिममन्त्रप्रसिद्धा श्रीदेव्येव गान्धर्वी गन्धर्वा च सैव वृषभानुसुता सर्वगोपबालावरिष्ठात्र गान्धर्वीपदेन विविक्षितेत्यपि बोध्यम् ॥११॥
एवं विचार्येति । वक्ष्यमाणलक्षणं तासामाशयं निर्धार्य, तासामसिद्धानां गोपीनां श्रीकृष्णेऽन्यथासन्देहोऽवश्यमपाकरणीय इति निर्धार्यदुर्वाससं पृष्टवतीति परमार्थः । अत्र श्रीदेव्या वृषभानुनन्दिन्याः प्रश्नादिकरणं न स्वार्थापि त्वसिद्धगोपीजनशिक्षितार्थमिति विस्मर्तव्यम् ॥१२॥
कथं कृष्णो ब्रह्मचारीत्यादि । तां हि मुख्यां विधायेत्यादि च स्पष्टार्थम् ॥१३॥
ओ)०(ओ
(१४)
शब्दवानाकाशः । शब्दाकाशाभ्यां भिन्नः ।
तस्मिन्नाकाशस्तिष्ठति । आकाशे तिष्ठति । स ह्याकाशस्तं न वेद ।
स ह्यात्माऽहं कथं भोक्ता भवामि ।
स्पर्शवान्वायुः । स्पर्शवायुभ्यां भिन्नः । तस्मिन्वायौ तिष्ठति ।
वायुर्न न वेद तं हि स ह्यात्माहं कथं भोक्ता भवामि ।
रूपवदिदं हि तेजः । रूपाग्निभ्यां भिन्नः । तस्मिन्नग्निस्तिष्ठति ।
अग्निर्न न वेद तं हि स ह्यात्माहं कथं भोक्ता भवामि ।
रसवत्य आपः । रसाब्भ्यो भिन्नः । तस्मिन्नापस्तिष्ठन्ति । अप्सु तिष्थाति । आपस्तं न विदुः । स ह्यात्माहं कथं भोक्ता भवामि ।
गन्धवतीयं भूमिः । गन्धभूमिभ्यां भिन्नः ।
तस्मिन्भूमिस्तिष्ठति । भूमौ तिष्थाति । भूमिस्तं न वेद ।
स ह्यात्माहं कथं भोक्ता भवामि ।
पूर्वतापिन्यां जीवानां मोक्षसिद्धये शरणगमनध्यानरसनभजनादिकमुपदिष्टम् । परं च तदर्थं जीवानां प्रवृत्तिस्तदैव स्यात्यदा स्वेषु मोक्षार्हत्वं ते जानीयुः । मोक्षो हि भगवत्परमसाम्यलक्षणा भगवद्भावापत्तिः । निरञ्जनः परमं साम्यमुपैति [मु.उ. ३.२.३], ब्रह्म ब्रह्म वेद ब्रह्मैव भवति, ब्रह्म सम्पद्यते ब्रह्म सम्पद्यते इत्यादिश्रुतिभ्यः । मद्भावायोपपद्यते [गीता १३.१८],
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ [गीता १४.२]
इत्यादिस्मृतिभ्यश्चेत्युक्तं पूर्वतापिन्याम् । स च भगवत्परमसाम्यलक्षणो मोक्षो जीवानां तदैव सम्भवति यदि जीवा अपि स्वभावतः शुद्धा नित्या भगवदंशाश्च स्युः । विपरीतत्वे तु तादृशमोक्षस्य सम्भावनापि न सम्भवति । स्वरूपयोग्यत्वाभावात। अतोऽसम्भावनाविपरीतभावनादिनिवृत्त्यर्थं स्वभावतः शुद्धत्वनित्यत्वभगवदात्मकत्वभगवदंशत्वादिरूपाणां भगव्ज्जीवसम्बन्धबोधकधर्मानां निरूपणेन जीवतत्त्वं प्रथमतः परिशोधयन्ति—शब्दवानाकाश इत्यादिना । एतेनैव च तन्नियन्तृत्वादिनाकाशादीनां भगवदधीनस्थितिप्रवृत्तिकत्वलक्षणं भगवदात्मकत्वमपि निरूपयति । तेन सर्वस्यापि चेतनाचेतनात्मकप्रपञ्चस्य भगवदायत्तस्थितिप्रवृत्तिकत्वनिरूपणात्निरुक्तसर्वेश्वरता, अंशतो निरुक्तसर्वविज्ञानप्रतिज्ञा चोपपादिता भवति । दुर्वासा अत्र जीवमात्राणां प्रतिनिधिः छान्दोग्ये सद्विद्यायां श्वेतकेतुवतिति ध्येयम् ।
शब्दवानाकाश इति । भूताकाश इत्यर्थः । आकाशसब्दो हि भूताकाशे ब्रह्मणि च प्रयुज्यते, आत्मन आकाशः सम्भूतः इत्यादिश्रुतेः । ब्रह्मणि च आकाशाद्ध्येव खल्विमानि भूतानि जायन्ते, आकाशो ह वै नामरूपयोर्निर्वाहिताः, आकाशस्तल्लिङ्गात्[वे.सू. १.१.२२], आकाशोऽर्थान्तरत्वादिव्यपदेशात्[वे.सू. १.३.४१] इत्यादिश्रुतिसूत्रेभ्यः ।
अत्र ब्रह्मरूपाकाशव्यावृत्त्यर्थमाकाशे शब्दवानिति विशेषितम् । यद्वा, « शब्दाकाशाभ्यां भिन्नः » इत्यादिना शब्दादिविशेषवैलक्षण्यबोधनार्थं शब्दाद्यपि विशेषितम् । तस्मिन्नाकाशे भूताकाशे शब्दाकाशाभ्यां भिन्नः विलक्षणः । शब्दाकाशादिगतदोषासंस्पृष्टस्वभावः शब्दाकाशयोरन्तर्यामी सर्वविक्रियारहितस्वभाव आकाशाख्यश्चेतनविशेषस्तिष्ठति, यं तमाकाशः शब्दवानाकाशस्तयोरभिमानी देवता वा, न वेद स एव सर्वविक्रियारहितस्वभावः सर्वान्तर्यामी अत एव निरतिशयचैतन्यस्वभावः सर्वशक्तिः आत्मा परमात्मा । अहं तदंशत्वात्तदात्मकोऽहमित्यर्थः ।
एतावता यः पृथिव्यां तिष्ठन्[बृ.आ.उ. ३.७.३], य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याऽऽकाशः शरीरं य आकाशमन्तरो यमयत्येष त आत्माऽअन्तर्याम्यमृतः [बृ.आ.उ. ३.७.१२], यो रेतसि तिष्ठन्.. एष त आत्माऽअन्तर्याम्यमृतो । अदृष्टो द्रष्टाऽअश्रुतः श्रोताऽअमतो मन्ताऽअविज्ञतो विज्ञाता । नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता
नान्योऽतोऽस्ति विज्ञातैष त आत्माऽअन्तर्याम्यमृतः । अतोऽन्यदार्तं [बृ.आ.उ. ३.७.२३] इति बृहदारण्यकोक्तप्रकारेण, यस्याकाशः शरीरं य आकाशमन्तरे सञ्चरन्यमाकाशो न वेद । यस्य मृत्युः शरीरं यो मृत्युरन्तरे सञ्चरन्यं मृत्युर्न वेद, स एव सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः [सुबा.उ. ७] इति सुबालोपनिषद्रीत्या च सर्वान्तर्यामित्वेनात्मत्वेनामृतत्वादृष्टत्वानन्यदृष्टत्वादिधर्मपुरस्कारेण सर्वभूतान्तरात्मत्वेनापास्तसमस्तदोषत्वं, सर्वात्नर्यामित्वेन सर्वशक्तिमत्त्वमदृष्टत्वसर्वद्रष्टृत्वामतमत्वमन्तृत्वाविज्ञातृत्वादिनानन्यदृष्टत्वादिलक्षणमसाधारणनित्यनिरतिशयस्वभाविककल्याणगुणकरत्वं च व्यवस्थापितानि भवन्ति ।
यद्यप्यत्राकाशादिपर्यायपञ्चकमेवोक्तं तथापि अन्येषामपि पर्यायाणामुपलक्षणमेतदिति । उपसंहारोऽर्थाभेदादिति गुणोपसंहारसूत्रोक्तन्यायेन अर्थैक्यादन्तर्यामिब्राह्मणोक्तनिखिलानामपि धर्मानामुपसंहारः परिहारश्च हेयधर्माणां सर्वेषां सूचित इति न न्यूनतेति बोध्यम् ।
एवं परमात्मनि स्वभावतोऽपास्तसमस्तदोषत्वं स्वाभाविकनिखिलगुणशक्तिमत्त्वं च निरूप्य जीवानामपि द्वा सुपर्णौ भवतो ब्रह्मणोऽंशभूतस्तथेतरो भोक्ता भवति [गो.ता.उ. २.१८] इति वक्ष्यमाणप्रकारेण, संशो ह्येष परमात्मनः [इबिद्.] ममिवांशो जीवलोके जीवभूतः सनातनः [गीता १५.६], आंशो नानाव्यपदेशात्[वे.सू. २.३.४१] इत्यादिश्रुतिस्मृतिसूत्रेभ्यो जीवानामपि ब्रह्मांशत्वात। तच्च स्वरूपतो धर्मतश्चापि वक्तव्यम् । एवं च यथा स्वरूपतः सच्चिदानन्दघनब्रह्मांशभूतत्वाज्जीवा अपि सच्चिदानन्दरूपाः, तथा ते धर्मतोऽपि स्वभावतोऽपास्तसमस्तदोषाः कल्याणगुणशालिनश्च । परन्त्वेतावान्विशेषो यत्परमात्मा स्वरूपतो गुणतश्च सर्वांशित्वात्स्वरूपतो गुणतश्च निरतिशयः परमस्वतन्त्रश्च । जीवास्तु अंशभूतत्वात्स्वभावत एव परमात्मापेक्षया स्वरूपतो गुणशक्तितश्च परमात्मतो न्यूनाः, तदेकतन्त्राश्च । अत एव तेषां परमात्मशेषत्वात्परमात्मेच्छया बद्धा मुक्ताश्च भवन्ति । एवमपि न तेषां स्वाभाविकं विशुद्धत्वं हीयते । इत्यभिप्रायेणाह—स ह्यात्माऽहं कथं भोक्ता भवामि इति हि । यतः यस्माद्धेतोः, स इति अनुपदनिरुक्तलक्षणः सर्वान्तर्यामी सर्वात्मा अदृष्टत्वद्रष्टृत्वादिविशेषितः, आनन्दामृतलक्षणोऽपहतपाप्मा आत्मेति परमात्मा, अहं स एव परमात्माहमहमर्थो जीव इत्यर्थः तदंशत्वाज्जीवसामान्यस्येति भावः ।
अत्र स इति तच्छब्दार्थो विधेयः । अहमित्यस्मच्छब्दार्थ उद्देश्यः । तथा च तरङ्गोऽपि समुद्र एव, सामुद्रिकापि कनक एव नान्या, तथा जीवोऽपि परमात्मैव । तदंशत्वात्तदात्मकत्वेन तच्छब्देन व्यपदिश्यमानः । एवं चायमर्थः—भोक्तृत्वमत्र भोजनक्रियाकर्तृत्वं द्विधा भवति । क्षुधया भक्तवात्सल्येन च । तत्र यत्क्षुधया भवति तत्स्वार्थम् । विक्रियाजन्यमज्ञानजन्यं च । क्षुत्खलु मनुष्यस्य भ्रातृव्यमिति श्रुतेः । कर्मात्मकाविद्यामूलकशरीरात्मैक्याध्यासजन्यमनःप्रतिकूलविक्रियार्थत्वात। अत एव सा आत्मनि न सम्भवति, आत्मनः विजिघित्सोऽपिपासः इत्यादिश्रुतेः क्षुत्पिपासादिविक्रियावर्जितत्वात। क्षुत्पिपासादिविक्रियाभावज्ञानार्थमेव हि जीवानां तरङ्गादीनां समुद्रादेरिव स्वरूपतो धर्मतश्च तादृशपरमात्मांशत्वमुक्तं सङ्गतं भवति । तथा च विजिघित्सोऽपिपासः इत्यादिश्रुतेर्यथा परमात्मा स्वभावत एव बुभुक्षापिपासादिविक्रियारहित इति कथं बुभुक्षानिवृत्त्यर्थं भोक्ता भवामि इत्यभिप्रायेणाह „अहं कथं भोक्ता भवामि ? इति । भक्तवात्सल्येन वा लीलाविशेषार्थं वा भोजनादिक्रियाकर्तृत्वात्न प्रतिषिद्ध्यते तत्प्रतिषेधे ह्यंशतः सामर्थ्यविशेषस्यैव प्रतिषेधात। अंशतोऽसमर्थत्वेऽप्यपूर्णत्वमेव परे ब्रह्मण्युक्तं स्यात। न तदश्नाति कश्चन न तदश्नाति कंचन इत्यादिश्रुतीनामप्येवमाशयः । एतदेव यो वेद निहितं गुहायां परमे व्योमन्, सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता [तै.उ. २.१] इति तैत्तरीयेऽपि मुक्तस्य परमात्मना सहैव निखिलकामिताशनं श्रूयते । अत एव च,
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ [गीता ९.२६]
इति गीतायां श्रीमुखोक्तेश्च नासङ्गतिः । तथा च, यदा खलु क्षुत्पिपासादिविक्रियाभावेऽपि लीलाविशेषार्थं वा भक्तविशेषानुरोधेन वा भुक्तं तदा भुञ्जन्नप्यभोक्तैव भवति । क्षुत्पिपासादिजन्यप्रतिकूलविक्रियाभावात्भोजनानन्तरं तृप्त्याद्यनुकूलविक्रियाभावाच्च । तथा च वक्ष्यतियो ह वै कामेन कामान्कामयते स कामी भवति । यो ह वै त्वकामेन कामान्कामयते सोऽकामी भवति । [गो.ता.उ. २.२०] इत्यन्वधेयम् ।
एवं च मनःशरीरादिविलक्षणेन परमात्मांशभूतेनात एव स्वभावतः सर्वविक्रियाआविवर्जितेन स्वांशिपरमात्माभिलाषभिन्नसर्वाभिलाषशून्येन मया केवलं भवतीनां परितोषार्थमेतावद्भोजने कृतेऽपि न मम दुर्वाशनत्वहानिरिति ।
एवं पञ्चसु पर्यायेषु बोध्यम् । अत्र “शब्दवानाकाशः शब्दाकाशाभ्यां भिन्नस्तस्मिन्नाकाशस्तिष्ठति आकाशे तिष्ठति स ह्याकाशस्तं न वेद” इत्येव केसाञ्चित्पाठः । केषांचित्तु “आकाशस्तिष्ठति” इत्यंशा नास्ति अन्यत्समानम् । एवमेव “आयुस्तिष्ठति, अग्निस्तिष्ठति” इत्यादावपि बोध्यम् । तत्सर्वं शाखाभेदादुपपन्नम् । एवमन्यत्रापि पाठभेदः शाखाभेदादुपपन्न इति बोध्यम् ॥
ओ)०(ओ
(१८)
ननु यदि जीवाः स्वभावत एव क्षुत्पिपासादिविक्रियारहितास्तन्मूलकनिरुक्तभोक्तृत्वरहिताश्च तर्हि कथं बुभुक्षापिपासाभ्यां व्यथन्ते भोजनपानाभ्यां तृप्ताश्च भवन्ति इत्याइ लोकसिद्धो व्यवहार इत्याशङ्कानिवृत्त्यर्थमाह—
इदं हि मनस्तेष्वेवेदं मनुते । तानिदं हि गृह्णाति ॥१८॥
इदं बुभुक्षापिपासाकामादिविक्रियाधारभूतं मन एव । हि यतः मन एव तेषु भोक्तव्यविषयेषु मनुते तत्तदिन्द्रियद्वारा आविश्य भोक्तव्यत्वादिधर्मैः सङ्कल्पयति । अध्यवस्यति च ततः तान्भोक्तव्यपदार्थानिदं मनः तत्तृष्णानिवृत्त्यर्थं तज्जन्यदुःखनिकृत्यर्थं च गृह्णाति भुङ्क्ते । आत्मनस्तु सच्चिदानन्दघनत्वेन सर्वविक्रियारहितत्वात्किमर्थः स विषयान्भोग्यत्वेन सङ्कल्पयेदध्यवस्येच्च । तस्मान्नात्मनि क्षुत्पिपासादिधर्माः न वा तन्निवृत्त्यर्थं भोक्तृत्वादि च परन्तु जीवस्यानादिकर्मात्मिकयाविद्यया स्वरूपस्य विस्मृतत्वातन्तःकरणेन सहैक्याध्यासात्तादृशभ्रममात्रं भवति ॥
अयं भावः—तत्तद्विषयभोगादौ प्रवृतेर्हि तृष्णा मूलमित्यन्वयव्यतिरेकसिद्धम् । तृष्णा हि समीहितभोग्याभावप्रयुक्तदुःखजन्यः समीहितभोग्यसद्भावसम्पादनेन तद्दुःखप्रहाणेच्छारूपश्चित्ताभिज्वलनस्वभावो मनसो रजोवृत्तिविशेषः । कामः सण्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव [बृ.आ.उ. १.५.३] इति बृहदारण्यश्रुतेः । काम इति तृष्णाविशेषस्यैव पर्यायान्तरम् । एवं च भोक्तृत्वमपि तत्तद्विषयसम्बन्धद्वारानुकूलवृत्तिरूपसुखसाक्षात्कारेण प्रतिकूलवृत्तिरूपदुःखनिवर्तकत्वरूपं निरुक्ततृष्णासहभावेनैव वाच्यं सुखदुःखतृष्णातद्विच्छेदादीनां सामानाधिकरण्येनैवानुभवसिद्धत्वात। तृष्णायाश्च कामरूपाया मनोवृत्तिरूपत्वस्य कामः सण्कल्प इति श्रुत्यैव निश्चितत्वात। तस्माद्भोक्तृत्वादिकं मनस एव धर्मा नात्मनो नित्याखण्डसंवित्सुखरूपस्य, तथाप्यनाद्यविद्ययात्ममनसोरैक्याध्यासे जाते दर्पणस्थमुखे दर्पणस्थमालिन्यादीनामिव मनोगतानां भोक्तृत्वादिधर्माणामात्मनि प्रतिभास एवेति ॥१८॥
(१९)
येषां तु निरुक्तशरणागत्यादिक्रमेण विशात्मभूतभगवत्प्रसादो जातः, निरस्तश्च तन्महिम्नैवाविद्यानिवृत्तावन्तःकरणाद्यध्यासः, प्रकटीभूता च ध्रुवा स्मृतिः ब्रह्मसम्पत्तिर्वा तदानन्दस्फुरणे क्षुत्पिपासादिविलयाच्च कुतो भोक्तृत्वादिव्यवहार इत्याह—
यत्र सर्वमात्मैवाभूत्तत्र वा कुत्र मनुते, क्व वा गच्छतीति
स ह्यात्माहं कथं भोक्ता भवामि ॥१९॥
यत्रेति । ध्रुवास्मृत्यनन्तरं ब्रह्मसम्पत्तौ च तदनन्तरं भगवत्परमसाम्यावस्थायां सर्वकार्यकरणकर्तृग्राममात्मैवाभूत। निरतिशयचिदानन्दघनपरमात्मविभक्ततयैव निरन्तरं स्फूर्यमाणमभूत। तत्रेति तदवस्थायां कार्यकरणादीनां विलयात। कुत्रेति कस्मिन्भोक्तव्ये विषये, नु वितर्के । ते इति इन्दिर्यादयः करणग्रामाः विलीनस्वरूपाः प्रवर्तेरन। क्वेति क्व कुत्र वा करणग्रामेषु विषयेषु भोक्तृत्वस्वभावो मनः भोगाय गच्छति ? न गच्छतीत्यर्थः । तदा सर्वमेव प्राकृतभोक्तृभोग्यादिव्यवहारविलोपादिति यावत।
तथा च श्रुत्यन्तरं बृहदारण्ये—यत्र त्वस्य सर्वमात्मैवाभूत। तत्केन कं पश्येत्? तत्केन कं जिघ्रेत्? [बृ.आ.उ. ४.५.१५] इत्यादि । एवं च यदात्मस्फूर्तौ मनऽदीनामपि भोक्तृत्वं लुप्यते स परमात्मैवाहं तदंशभूतः विशुद्धज्ञानानन्दरूपः विजिघित्सोऽपिपासः कथं वैषयिको भोक्ता भवामीति भावः ॥१९॥
ओ)०(ओ
(२०)
एवं प्रथमप्रश्नोत्तरेण स्वस्य भोक्तृत्वाभावनिरूपणेनाशनापिपासादिनिक्खिलप्राकृतधर्मरहितत्वं निरूप्य सामान्यतो जीवस्य ब्रह्मात्मकत्वनिरूपणेन च सामान्यतो जीवतत्त्वं परिशोध्य भगवत्तत्त्वं परिशोधयति—स आत्माहमित्यनेनोक्तं जीवस्य भगवदंशत्वं परिशोधयितुं च द्वितीयप्रश्नमुत्तरयितुं प्रक्रमते—
अयं हि कृष्णो यो वो हि प्रेष्ठः शरीरद्वयकारणं भवति ॥२०॥
प्रेमाञ्जनच्छुरितभक्तिविलोचनेन साक्षात्कुर्वन्नाह—अयमिति । वक्ष्यमाणमतितरां प्रेष्ठत्वे शरीरद्वयकारणत्वे निष्कामत्वे च हेतुगर्भसंज्ञया भगवन्तं स्मारयन्नाह—कृष्ण इति । कृषिर्भूर्वाचकः शब्दः, सच्चिदानन्दरूपाय, पापकर्षणः इत्यादि पूर्वतापिन्युक्तदिशा च निरतिशयसत्यचिदानन्दघनोऽपहतपाप्मा च योऽयं सर्वत्र भक्तानां स्फूर्यमाणः कृष्णः । य इत्यनन्तरं स इत्यध्याहार्यं, यत्तदोर्नित्यसाकाङ्क्षत्वात। तथा च, स एव च युष्माकं प्रेष्ठः, नितरां प्रेमास्पदो भवति ।
साङ्ख्ययोगाद्युक्ततटस्थेश्वरवादं निराकुर्वन्नाह—शरीरद्वयस्येति स्थूलसूक्ष्मद्वयस्य समष्टिव्यष्टियात्मकस्य च कारणं भवति । लोकवत्तु लीलाकैवल्यं [वे.सू. २.१.२७] इति पारमर्षसूत्रोक्तदिशा लीलैकप्रोयोजनिकया निजस्वतन्त्रेच्छया जनको भवतीत्यर्थः ।
स विश्वकृद्विश्वविदात्मयोनिर्
ज्ञः कालकालो गुणी सर्वविद्यः ।
प्रधानक्षेत्रज्ञपतिर्गुणेशः
संसारमोक्षस्थितिबन्धहेतुः ॥
स तन्मयो ह्यमृत ईशसंस्थो
ज्ञः सर्वगो भुवनस्यास्य गोप्ता ।
य ईशेऽस्य जगतो नित्यमेव
नान्यो हेतुर्विद्यत ईशनाय ॥ [श्वे.उ. ६.१६१७] इत्यादिश्रुत्यन्तरेभ्यः ।
बन्धको भवपाशेन भवपाशाच्च मोचकः ।
कैवल्यदः परं ब्रह्म विष्णुरेव न संशयः ॥ इत्यादि स्मृतिभ्यश् च ।
एतदुक्तं भवति—यः स्वत एव निरतिशयसच्चिदानन्दघनः अपहतपाप्मा समस्तजगदेककारणं स्वयमकारणं च, स कृष्णः कथं तुच्छविषयसुखलिप्सात्मककामरूपपिपासोपहतः स्यादिति । यश्च स्वयं सर्वकार्यकारणेशः स कथं कार्यभूतेन कामेन बद्धः स्यादिति । अत एव च श्रुत्यन्तरं बृहदारण्ये—स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वरः [बृ.आ.उ. ४.४.२२] इति, नैनं कृताकृते तपतः [बृ.आ.उ. ४.४.२२] इति, एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान्[बृ.आ.उ. ४.४.२३], नैनं पाप्मा तरति सर्वं पाप्मानं तरति । नैनं पाप्मा तपति सर्वं पाप्मानं तपति । विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति [बृ.आ.उ. ४.४.२३] इति चेति । तस्य तज्ज्ञानां च परैरनभिभवः प्रतिपाद्यत इति ॥२०॥
(२१)
ननु यथा जीवः भगवदंशत्वात्स्वतःसच्चिदानन्दरूपोऽपहतपाप्मापि अविद्यावशादिन्द्रियान्तःकरणाद्यध्यासेन निजानन्दस्य ज्ञानादीनां च तिरोहितप्रायत्वात्कामादिनापहतस्वभावो भवति, तथा कृष्णोऽपि स्यादित्याशङ्कानिवृत्त्यर्थं सामान्यतः सूत्रितमेवार्थं विशदयितुं कृष्णस्य जीवत्वसंशयनिराकरणेन सर्वांशिपरमात्मत्वव्यपस्थापनाय च दृष्टान्तदार्ष्टान्तिकभावरूपकेणाह—
द्वौ सुपर्णौ भवतो ब्रह्मणोऽंशभूतस्तथेतरो भोक्ता भवति ।
अन्यो हि साक्षी भवतीति ॥२१॥
वृक्षधर्मे तौ तिष्ठतः । अतो भोक्त्रभोक्तारौ ॥२२॥
द्वौ सुपर्णौ भवत इति सुपर्णौ पक्षिणाविव द्वे तत्त्वे भवतः अस्मिन्देहे तिस्ठतः । ब्रह्मणः परमात्मनोऽंशभूतः । तथेत्येवमित्यर्थः । इतरः अन्यस्तत्रैव भोक्ता भवति वैषयिकसुखदुःखाद्यध्यासी भवति । अन्य इति ब्रह्मणोऽंशभूतात्भोक्तृजीवाद्व्यतिरिक्तः जीवानां सर्वेषामंशी अभोक्ता स्वयं ब्रह्म साक्षी भवति ॥२१॥
वृक्षधर्मे वृक्षसाधर्म्ययुक्ते देहे तिष्ठतः इत्यर्थः । तथा च मुण्डके श्रुत्यन्तरम्—
द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्य्
अनश्नन्नन्यो अभिचाकशीति ॥ [मु.उ. ३.१.१] इति ।
एवं जीवस्य शरीरे स्थितिः कर्मफलयोगार्थम् । ब्रह्मणस्तु सर्वं व्यापकस्य तत्राभिव्यक्तिः तस्य फलभोगे मोक्षे च सहायतार्थम् । अत एव श्रुत्यन्तरम्—एष ह्येष साधुकर्म कारयति तं यमूर्ध्वमुन्निनीषत्येष ह्येवासाधु कर्म कारयति तं यमधो निनीषति [कौ.उ. २.९, श.ब्रा. ३.४] इति ।
समाने वृक्षे पुरुषो निमग्नो
ऽनिशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यमीशं
अस्य महिमानमिति वीतशोकः ॥ [मु.उ. ३.१.२] इति च ।
अतो भोक्त्रभोक्तारौ इति । यत एकोऽंशभूतोऽत एव परतन्त्रोऽन्यश्चांशिभूतः स्वयं ब्रह्म स्वतन्त्रः, अतोऽंशभूतो भोक्ता, लीलाप्रवृत्तब्रह्मणोऽभिध्यानात्सङ्कुचितज्ञानानन्दादिधर्मोऽविद्यादिवशात्, अन्तःकरणाद्यध्यासेनान्तःकरणादिधर्मैः भोक्ता भवति । अपरस्तु स्वयंब्रह्मत्वेन स्वतः परिपुर्णत्वात्, विषयादिस्पृहाभावात्, अभोक्ता नित्यतृप्तो भवति इत्यर्थः ॥२२॥
(२३)
तत्र यः स्वयं ब्रह्म सर्वप्राकृतधर्मनिर्लेपस्वभाव आनन्दामृतात्मा स युष्माकं प्रेष्ठः कृष्ण एव नान्य इत्याह—
पूर्वो हि भोक्ता भवति
तथेतरोऽभोक्ता कृष्णो भवतीति ॥२३॥
पूर्व इति तत्र यः पूर्वं ब्रह्मणोऽंशभूतः स एव भोक्ता भवति । हिशब्द एवकारार्थः । तथा एवमितरः अंशभूतानां जीवानामांशी स्वयं ब्रह्म कृष्ण एव भवति नान्य इत्यर्थः । एतेन शब्दवानाकाशः शब्दाकाशाभ्यां भिन्नः इत्यादिना प्रतिपादितो यः परमात्मा सर्वनियामकः सर्वात्मानन्दामृतरूपः स कृष्ण एव नान्य इत्युपपादितम् ॥२३॥
(२४)
फलितमाह—
यत्र विद्याविद्ये न विदामो विद्याविद्याभ्यां भिन्नो
विद्यामयो हि यः स कथं विषयी भवतीति ॥२४॥
यत्र यस्मिन्निरुक्तलक्षणे परे ब्रह्मणि कृष्णे नित्यसिद्धनिरतिशयज्ञानमये विद्याविद्ये साधनसाध्ये मोक्षबन्धहेतुभूते न विदामो वयं ब्रह्मविदोऽपि न जानीमः साधनसाध्याया विद्याया अविद्यायाश्च विरुद्धस्वभावायास्तत्र नितरामभावात। यश्चायं विद्याविद्याभ्यां भिन्नो विद्यामयः । अत एव नित्यनिरतिशयज्ञानैकधनः स कृष्णः कथं विषयी स्वतःसर्वानन्दस्फुरणस्वभावः विषयी स्यात्तुच्छवैषयिकसुखाध्यासी स्यादित्यर्थः ॥२४॥
(२५)
ननु ये विषयान्नोपभुङ्क्ते मा भवतु ते विषयिणः । यस्तु विषयान्भुङ्क्ते स न विषयीति विउर्द्धमित्याह—
यो ह वै कामेन कामान्कामयते स कामी भवति ।
यो ह वै त्वकामेन कामान्कामयते सोऽकामी भवति ॥२५॥
य एव कामेनेति विषयसम्पर्कजन्यसुखाभिलाषेन कामान्विषयान्कामयते भोक्तुमिच्छति स कामी भवति कामाख्यमनोविकारयुक्त इत्युच्यते । यो ह वै य एव । तु पक्षान्तरे । अकामेन विषयसम्पर्कजनितसुखाभिलाषशून्येन कामान्विषयान्कामयते केवलं परार्थमेव विषयान्भोक्तुमिच्छति सोऽकामी कामाख्यविकाररहित एव भवतीत्यर्थः ।
तथा च कृष्णः केवलं निरतिशयप्रेमभक्तानां भवतीनां सुखार्थमेव प्रेम्णैव भवतीर्भुङ्क्ते, न तु पृथक्स्वसुखार्थम् । तस्य स्वत एव निरतिशयानन्दवत्त्वात। न चैवमन्यतरप्रेम्ण भावात्रसाभास इति वाच्यम् । तत्सुखसुखित्वघटितः प्रेमा त्वन्योऽन्यं वर्तत एव तस्य निरतिशयानन्दरूपस्य ब्रह्मणः प्रियत्व्परपर्यायस्य प्रेम्णः स्वरूपधर्मत्वात्परं कामो न वर्तते रजोधर्मत्वात्पाप्मरूपत्वाच्च ब्रह्म च विरजा विपाप्म च । इति न रसाभासः, अन्योन्ऽन्यप्रेम्ण एव रसपोषकत्वाद्रसरूपत्वाच्च, न तु विक्रियाविशेषरूपस्य कामस्य पाप्मनः । अतः कृष्णो निष्कामोऽत एव त्ववरुद्धसौरतत्वाद्ब्रह्मचारी च भवत्येवेति भावः । तदुक्तं भागवते रासपञ्चाध्याये—सिषेव आत्मन्यवरुद्धसौरतः सर्वाः शरत्काव्यकथारसाश्रयाः [भा.पु. १०.३३.१५] इति ॥२५॥
(२६)
कामो हि विक्रियाविशेषरूपो ब्राह्मचर्यविनाशकः । स च भावविक्रियाशून्ये कृष्णे न सम्भवति । इत्याह—
जन्मजराभ्यां भिन्नः स्थाणुरयमच्छेद्योऽयं, योऽसौ सौर्ये तिष्ठति, योऽसौ गोषु तिष्ठति, योऽसौ गाः पालयति, योऽसौ गोपेषु तिष्ठति, योऽसौ सर्वेषु वेदेषु तिष्ठति, योऽसौ सर्ववेदैर्गीयते, योऽसौ सर्वेषु भूतेष्वाविश्य भूतानि विदधाति, स वो हि स्वामी भवति ॥२६॥
जन्मजरेत्युपलक्षणमन्येषां भावविकाराणाम् । तथा च जन्मजरादिसर्वभावविक्रियावर्जितः । अत एव स्थाणुः सदैकरसः । अत एवाच्छेद्यः । छेदश्च द्वैधीकरणम् । द्वैधीकरणे हि वस्तुनः पूर्वरूपविनाशो भवति । अयं तु अच्छेद्यः सदैकरसत्वाच्छेदादिविनाशहेतुरहितोऽत एव नित्यः सदातनः । तथा च अविक्रियेऽच्छेद्ये च कथं नाम विक्रियाविशेषस्य धातुच्छेदकरस्य च कामस्य ब्रह्मचारित्वभङ्गस्य च सम्भव इति ।
यद्वा, जन्मजराभ्यां भिन्नः कुतः ? यतः स्थाणुः । कुतः स्थाणुः ? यतोऽच्छेद्य इत्येवमन्वयः । अन्योऽन्यं वा हीतुहेतुमद्भावः । तथा च सर्वभावविक्रियारहितत्वेनोपपत्तिविरोधादपि न कृष्णः कामविक्रियायुक्त इति भावः । न चैतादृशसर्वभावविक्रियारहितत्वं प्रकृतिप्राकृतपरे परमात्मन्येव श्रूयते—एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वं [बृ.आ.उ. ३.८.८] इत्यादौ नान्यत्र ।
तर्हि श्रीकृष्णे कथमेवंभावः ? इत्यादि, “योऽसौ सौर्ये तिष्ठति” इत्यादि । यद्यपि “तथेतरोऽभोक्ता कृष्णो भवति” इत्यनेनैवेदमुक्तप्रायमिति न पुनर्वचनमपेक्षते, तथापि तत्र सामान्येन सूचित एवायमर्थः पुनरत्र विशदीक्रियते विशेषतोऽवधारणार्थमिति नानुपपत्तिः । सौर्ये तिष्ठतीति सूर्यसम्बन्धिनि मण्डले तदात्मनि चान्तर्यामितया, य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः [छा.उ. १.६.६] इत्यादिश्रुत्युक्तलक्षणः । य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्याऽऽदित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्माऽअन्तर्याम्यमृतः [बृ.आ.उ. ३.७.९] इत्यादिश्रुत्युक्तप्रकारेण विराजते इत्यर्थः । यश्चक्षुषि तिष्ठन्[बृ.आ.उ. ३.७.१८], यः श्रोत्रे तिष्ठन्[बृ.आ.उ. ३.७.१९], यो मनसि तिष्ठन्[बृ.आ.उ. ३.७.२०], यस्त्वचि तिष्ठन्[बृ.आ.उ. ३.७.२१] इत्यादि बृहदारण्यकश्रुतिभ्यः ।
योऽसौ गाः पालयति इति । गाः सौरभीः पृथिवीं च ताः पालयतीत्यर्थः । पृथिवीपक्षे बहुवचनं ब्रह्माण्डभेदेन पृथिवीभेदानां सङ्ग्रहायेति बोध्यम् । योऽसौ गोपेषु इति वयस्येषु जीवेषु च तिष्ठति नियामकतयेत्यर्थः । गोपशब्दो हि जीवेऽपि प्रयुज्यते । गोपदवाच्येन्द्रियपालकाभिप्रायेण, गोपान्जीवान्[गो.ता.उ. २.४०] इति वक्ष्यमाणात।
योऽसौ सर्वेषु वेदेषु इति । वेदा हि साङ्गाः सोपनिषदः सरहस्याः सेतिहासपुराण ऋग्यजुःसामाथर्वाख्याः, तेषु सर्वेषु आद्युपदेशकृत्तया तत्तदर्थप्रकाशकतया तदर्थप्रकाशकतया तदर्थनियामकतया च तिष्ठतीत्यर्थः । पूर्वं यो वै वेदांश्च प्राहिणोति इत्यादिश्रुतेः, वेदान्तकृद्वेदविदेव चाहं [गीता १५.१५] इति स्मृतेश्च ।
देवेष्विति पाठे तु सर्वदेवनियामकतयेत्यर्थः । इदमुपलक्षणमन्तर्यामिब्रह्मणोक्तानां पर्यायान्तराणाम् । एतावता सर्वमेवान्तर्यामिब्राह्मणं श्रीकृष्णे समन्वायितम् । तावतैव च स्वभावतः सर्वदोषविवर्जितत्वलक्षणमपहतपाप्मत्वं सर्वनियामकत्वं सर्वान्तरात्मत्वमानदामृतरूपत्वं सर्वनियामकत्वाक्षिप्तनिरङ्कुशसर्वशक्तिपूर्णत्वादिकं च सूचितम् । अन्तर्यामिब्राह्मणान्ते सुबाले बृहदारण्यके च यथाक्रमं—स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः [सुबा.उ. ७], एष त आत्माऽअन्तर्याम्यमृतः [बृ.आ.उ. ३.७.३] इति श्रुतेः ।
ननु भवतु नाम श्रीकृष्णस्य सर्वान्तर्यामित्वं तावतापि न मूलरूपत्वसिद्धिः । अन्तर्यामित्वस्यामूलरूपांशेऽपि सम्भवादित्याहयोऽसौ सर्ववेदैर्गीयते इति । मूलरूपमेव सर्वैर्वेदैर्गीयते, सर्वे वेदा यत्पदमामनन्ति इति श्रुत्यन्तरात। श्रीकृष्णस्तु सर्वैर्वेदैर्गीयते—वेदैश्च सर्वैरहमेव वेद्यः [गीता १५.१५] इति गीतोक्तेः ।
अत एव कृष्ण एव प्रकृतिपरः परमात्मा साक्षात्परं ब्रह्म सर्वमूलभूतो नान्य इति पर्यवसितार्थः । एवं च अस्थूलमनणु [बृ.आ.उ. ३.८.८] इत्यादि सर्वाणि वाक्यानि श्रीकृष्णपराण्येव, न तु तदतिरिक्तकिञ्शिद्वस्तुपराणीति । एवं च य एवंविधः स एव श्रीकृष्णः सर्वेश्वरः । वो युष्माकं स्वामीति प्रकरणार्थः । एतेन पापकर्षनो गोभूमिवेदविदितो विदिता च इत्यनेन सूत्रितौ कृष्णशब्दार्थौ गोविन्दशब्दार्थश्चापि सोपपत्तिकं दर्शितौ । तथा चैतावत्प्रबन्धेन सोपपत्तिकं स्वभावतोऽपास्तसमस्तदोषत्वमशेषकल्याणगुणशक्तिस्वभाववत्त्वं सर्वान्तर्यामित्वं सर्वात्मत्वं प्रकृतिपरत्वं परमात्मत्वादिकं च कृष्णैकनिष्ठत्वेन व्याख्यातम् । ब्रह्मचारित्वादिचिन्तनं तु तदुपपादनायैव तावन्मात्रस्योपनिषन्मुख्यतात्पर्यगोचरत्वाभावादित्यवधेयम् ।
श्रीराधायाः श्रीकृष्णेन सह दाम्पत्यविचारः
अथात्र प्रसङ्गात्श्रीराधाया गोपीनां च श्रीकृष्णेन सह दाम्पत्यं विचार्यते निराक्रियते च तद्विरुद्धयुक्त्याभासः । इदं तावद्विशेषतोऽवधेयम् । परमर्षिणा दुर्वाससात्र स वो हि स्वामी भवति इत्येवं गोपीः प्रति यदुक्तं तेन तासामौपपत्यं निराकृत्य मुख्यपतित्वानुबोधने एव श्रुतेस्तात्पर्यं निश्चीयते । तत्रापि सिद्धवत्कथनात्सिद्धवत्स्वीकाराच्च गोपीनामपि तदुपदेशात्प्रागपि भगवति भर्तृभाव एव निश्चीयते, न तु जारभावः । तासां पूर्वं जारभाववतीत्वे स वो हि स्वामी भवतीति दुर्वासस उपदेशानन्तरं तथात्वेऽवश्यं जिज्ञासावतारः स्यात। न चैवम् । तस्मान्निश्चितानुवादमात्रमिदं वचनम् ।
ननु पूऋवं भूतेष्वाविश्य भूतानि विदधाति इत्यन्तवाक्येन श्रीकृष्णस्य परमात्मत्वनिरूपणात्तन्मुखेनैव, स वो हि स्वामी भवति इत्युक्तम् । तथा च परमात्मनः सर्वजगत्स्वामित्वात्तल्लक्षणमेव गोपीनामपि स्वामित्वमुक्तं, न तु दाम्पत्यपर्यवसायिस्वामित्वमिति चेन्, न । तथा सति, स नो हि स्वामी भवति इत्येव ब्रूयात्तावता स्वस्य गोपीनां सर्वेषां जगतां च भगवत्स्वामिकत्वावबोधसम्भवात। वाक्यानां प्राय एवमेव नियमो यत्सामान्यशब्दस्य यत्र विशिष्योपसंहारः क्रियते तत्तात्पर्यविशेषेणैव क्रियत इति । तथा चात्र विशिष्य तासामेव स्वामित्वकथनं नियत उक्तार्थ एव पर्यवस्यति ।
न च तथाप्यत्रास्तु स्वामिशब्दः पत्युपपतिसाधारण इति वाच्यम् । तथा तात्पर्ये
”प्रेष्ठो भवति, कान्तो भवति” इत्यादिकं वदेत्, न तु स्वत्वस्वाकाङ्क्षं स्वामिशब्दम् । अयं भावः—स्वामिशब्दो हि नियमतः स्वत्वसाकाङ्क्षः । तथा च गोपीजनस्वामित्वे उक्ते गोपीजनेषु श्रीकृष्णनिष्ठस्वामित्वनिरूपितस्वत्वमपि नियमत उक्तं भवति, तथा चौपपत्यं बाध्यत एव, नहि स्त्रीपुंसोः तादृशस्वस्वामिभावसम्बन्धे सति तयोरौपपत्यसम्भवः । यत्र न तादृशस्वस्वामिभावस्तत्रैवौपपत्यनियमात।
न चात्र स्वामिशब्दो नोक्तमुख्यार्थपर्यवसायी, अपि तु यथा कथञ्चित्कामसम्बन्धिपुरुषपर्यवसाय्येवेति वाच्यम् । नेदं वाक्यं भवद्विरचितं भवादृशविरचितं वा काव्यम्, अपि तु श्रुतिः, यत्र मात्रामात्रमप्यन्यथा कल्पनं वेदैकशरणानां विगर्हितमेव । स्यादत्रापि शब्दवृत्तिसङ्कोचावसरो यदि तादृशश्रुतावेवौपपत्यं क्वचिदुपदिष्टं स्यात्, न चोपदिश्यते क्वचिदपि प्रत्युत तत्सजातीयोपनिषत्सु पुरुषार्थबोधिन्यादावपि—तस्याद्या प्रकृतिः राधिका नित्या निर्गुणा सर्वालङ्कारशोभिता [पु.बो. ३] इत्यादिना तदेकप्रकृतित्वकथनात्स्वकीयात्वमेवोच्यत इति । गोपीचन्दनोपनिषद्यपि—गोप्यो नाम विष्णुपत्न्यः इत्येव श्रूयते ।
तथा च—पत्नीशब्दाद्दाम्पत्यमेव तत्रापि श्रुतिर्निगमयति । एतमेवं कल्पग्रन्थे गौतमीयतन्त्रेऽपि दशार्णमन्त्रव्याख्याने—
अनेकजन्मसिद्धानां गोपीनां पतिरेव वा ।
नन्दनन्दन इत्युक्तस्त्रैलोक्यानन्दवर्धनः ॥
इति नन्दनन्दनत्वेन विशिष्य पतित्वाभिधानमवतारदशायामपि नन्दनन्दनस्य ताभिः सह दाम्पत्यमेव निगमयति । न चात्रापि त्वदुक्तकल्पनावसरः भवदुक्तकाव्यत्वाभावात। कल्पग्रन्थत्वेनान्तरप्रमाणत्वाच्चेति ।
अत एव श्रीजीवगोस्वामिभिरपि उज्ज्वलनीलमणिटीकायां—लघुत्वमत्र यत्प्रोक्तमित्यस्य व्याख्यायां—श्रीगोपालतापिन्यामपि तत्पतित्वमेव दुर्वाससा निश्चितं—“सो वो हि स्वामी भवति” इति । स्वामिशब्दश्चायं स्त्रीप्रसङ्गे पत्यामेव रूढः । स्वामिनो देवृदेवरौ इत्यमरकोशात। इत्यादिना । एवं श्रीराधाकृष्णार्चनचन्द्रिकायामपि तैरेव—स च पतित्व एव विश्रान्त इति वल्लभशब्देनैकार्थ्यमेव । जन्मजराभ्यां भिन्न [गो.ता.उ. २.२२] इत्यादौ स वो हि स्वामी भवति [गो.ता.उ. २.२२] इति तस्यामेव श्रुतौ, ताः प्रति दुर्वासावाक्यात। स्त्रीसम्बन्धे स्वामीशब्दः पत्यावेव रूढः । स्वामिनो देवृदेवरावित्यमरकोषातित्यादिना तथैव व्याख्यातमिति ।
न चास्तु सिद्धान्ततो दाम्पत्यमेव, तथापि लोकव्यवहारस्तथा न सम्भवः । विवाहाभावादिति वाच्यम् । नित्यसिद्धानां तासां लक्ष्मीरूपाणां नित्यसिद्धविष्णुपत्नीनां कृत्रिमविवाहाभावेऽप्यौपपत्यासम्भवात। साधनसिद्धानामपि नित्यसिद्धासाम्यप्राप्तानां लक्ष्मीत्वादेवौपपत्यासम्भवात।
किं च, कात्यायनीपूजाप्रसङ्गे ब्रह्मवैवर्तादिपुराणसंवादाद्गान्धर्वविवाहो जात एव निश्चीयते । भागवतेऽपि तत्प्रसङ्गे—पतिं मे कुरु ते नमः [भा.पु. १०.२२.४], मयेमा रंस्यथ क्षपाः [भा.पु. १०.२२.२६] इत्यादिनान्योन्यवरणाद्गान्धर्वविवाहो जात एव निश्चीयते । याश्च काश्चित्साधनारूढाः कर्मशेषात्परोढा अप्यापाततो जाताः, तासामपि भगवत्सम्बन्धात्कर्मशेषनिवृत्तौ नवतनुत्वप्राप्तित एव स्वरूपतो जारभावनिवृत्तौ दुर्वासस उपदेशानन्तरं तादृशभ्रमोऽपि निरस्त इति तासामपि दाम्पत्यमेव ।
न च सिद्धान्ततस्तथात्वेऽपि भावत औपपत्यमस्तु रसपोषकत्वादिति वाच्यम् । रसपोषकत्वस्य निर्मूलत्वात्तच्चाग्र उपयादयिष्ये । किं च, सिद्धान्ततो दाम्पत्ये भावत औपपत्यमज्ञानविशेषजन्यमेव त्वया वाच्यं तदसम्भव एव, मुक्तासु तासु भगवति चाज्ञानासम्भवात। साधनारूढानामपि दुर्वासस उपदेशानन्तरमज्ञाननिवृत्तेर्जातत्वात्भवतापि नित्यसिद्धानां नित्यमुक्तत्वमेवोच्यते । विशेषस्त्वग्रे वक्ष्यते इति ।
तस्मात्,
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ [गीता ७.२५]
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ [गीता ९.१११२]
अज्ञत्वं पारवश्यत्वं विधिभेदादिकं तथा ।
तथा प्राकृतदेहत्वं देहत्यागादिकं तथा ।
असुराणां विमोहाय दोषा विष्णोर्नहि क्वचित॥
इत्यादि वाक्यानुसारेण प्राकृतानां यथा तथा प्रतीतिर्भवतु नाम, श्रीभगवानपि प्राकृतान्प्रति निजयुगलरूपं यथा तथा प्रत्याययतु नाम, तथापि गोपीनां गोपीभर्तुः कृष्णस्य च परस्परं नियमतो दाम्पत्यानुभूतिरेव भगवदन्तरङ्गभक्तानामपि तथैवानुभूतिः । यथोक्तं गीतायां—
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ [गीता ९.१३] इति,
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ [गीता ७.२८] इति चेति ।
तत्रापि परमश्रीपरमनारायणयोः श्रीराधाकृष्णयोः, श्रीश्च लक्ष्मीश्च पत्न्यौ, स इममेवात्मानं द्वेधापातयात्पतिश्च पत्नी चाभवतामित्यादिश्रुत्यैकसमधिगम्ययोर्न कथञ्चिदपि जारभावः कल्पनीयः, परमापराधरूपत्वात्,
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥ इति स्मृतेः ।
ये किल परकीयाभावरसिकास्ते राधाकृष्णयोरवतारलीलायामुभयोः कुमारभावाश्रयणेनानुशीलयन्तु नाम, नात्र दोषः । तथापि श्रीदेव्यां राधायां गोपान्तरसम्बन्धस्तु मायिकोऽपि न कल्पनीय इति मम निश्चय इति ।
श्रीसनकनारदाद्यनुगृहीतश्रीनिम्बार्काचार्यसिद्धान्तेषु तु श्रीश्च इत्यादिश्रुत्युक्तलक्षणा श्रीरेव राधा औदुम्बरसंहितायां युग्मव्रतप्रकरणे, लक्ष्मीर्वाणीव तत्रैव जनिष्येते महामते वृषभानोस्तु तनया राधा श्रीर्भविता किल इति ब्रह्मवैवर्तपुराणवाक्योद्धरणेन स्वयमायाचार्यैरेव तथा निर्धारणात्, सर्वैरेव च तदनुगैस्तथैव स्वीक्र्टत्वाच्च । सदा दाम्पत्यमेव स्वीकृतम् । तथा हि दशश्लोकीव्याख्यायां सिद्धान्तरत्नाञ्जलौ—अङ्गे तु वामे वृषभानुजां मुदा इत्यस्य व्याख्यायां श्रीहरिव्यासदेवाचार्या आहुः—अयमाशयः—अनपायिनी भगवती श्रीः साक्षादात्मनो हरेः इति श्रीभागवतोक्तेः श्रियो नित्याविनाभावसम्बन्धः सर्वसम्मतः । तत्र श्रियो द्वे रूपे श्रीश्च लक्ष्मीश्चेति । तथा हि श्रुतिः—श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्र पार्श्वे इति । तत्र ब्रह्मवैवर्तपुराणवचनं प्रमाणमाहुरग्रे—
लक्ष्मीर्वाणी च तत्रैव जनिष्येते महामते ।
वृषभानोस्तु तनया राधा श्री भविता किल ॥ इति ।
अयं श्लोको ब्रह्मवैवर्तपुराणस्थतया औदुम्बरसंहितायामप्याद्याचारयैरेव पठित इत्युक्तमेवेति । पुनराहुः—तत्र श्री राधायाः सर्वरूपश्रैष्ठ्यं श्रुइत्प्रामाण्यात। तथा हि ऋक्परिशिष्टश्रुतिः—
राधया माधवो देवो, माधवेन च राधिका ।
विभ्राजते जनेषु ।
योऽनयोः पश्यते भेदं न मुक्तः स्यात्स संसृतेः ॥ इति ।
वामाङ्गसहिता देवी राधा वृन्दावनेश्वरी इति कृष्णोपनिषदि च । इत्यन्तेन ।
तदेतत्सर्वमौदुम्बरसंहितायां श्रीमदाद्याचार्यैरेवोक्तं चतुर्थव्रतनिरूपणे । तेन नासाम्प्रदायिकं किञ्चिदित्यवधेयं तदीयैरिति ।
श्रीवल्लभाचार्यैरपि भागवतदशमस्कन्धे श्रीसुबोधिन्यां, सततमुरसि सौम्य श्रीर्वधूः साकमास्ते इत्यत्र दम्पतीरूपेण स्वरूपे विभज्यैव श्रीकृष्णो भगवानवतीर्ण इत्यवोचाम । तथा व्रज एव कुमारश्च कुमारी चाभवद्धरिः इति चोक्तम् ।
श्रीपुरुषोत्तमगोस्वामिमहानुभावैश्च खलालपनविध्वंसवादादिनिबन्धे—पतिश्च पत्नी चाभवनामिति बृहदारण्यकवाक्यमादायैव राधाकृष्णतत्त्वं विचारितम्, तेन तत्सम्प्रदायेऽपि राधाकृष्णयोर्दाम्पत्यमेवेति बोध्यम् ।
अथापि केचिद्रसिकंमन्यास्तयोर्जारभावं साधयितुं प्रयतन्ते । तन्मतं यथा स्वस्य स्वसमानहृदयानां च बुद्धिपरिशुद्धयेऽत्र विचार्यते, न तु खण्डनमण्डनार्थम् । तस्मात्क्षन्तव्यं तदनुगैरिति भूयो भूयोऽभ्यर्थये । तथायमाद्यः श्लोकः—
न मे प्रवृत्तिः किल खण्डनार्था
न मण्डनार्थापि च वादिनां मतेः ।
स्वबुद्धिशोधाय मम प्रवृत्तिस्
तेन प्रसीदत्वखिलान्तरात्मा ॥ इति ।
इदं त्विहावधेयम्—ये किल रसिकभक्तमानिनः श्रीराधाकृष्णयोः सच्छास्त्रविरुद्धं जारभावं साधयितुं प्रगल्भन्ते, तेषां मतं जिज्ञास्यते । तदीयौ राधाकृष्णौ श्रुतिसिद्धौ, तादृशकविकल्पनामात्रसिद्धौ वा ? तर्हि भवतु नाम यथा तथा न हि तेन शास्त्रशरणानां प्रयोजनम् ।
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
ताः सर्वा निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥ इति मनूक्तेः [१२.९५] ।
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ इति श्रीमुखोक्तेश्च ।
अथ श्रुतिसिद्धौ तदापि नित्यसिद्धेश्वरतया जीवतया वा ? द्वितीयः पक्ष इति चेत्, तथापि न तेन नित्यसिद्धैश्वरैकशरणानां प्रयोजनम्, इन्द्रादिदेवतान्तरवत।
अथ नित्यसिद्धेश्वररूपौ तदा तयोरज्ञानादिकं कुतः ? इति वक्तव्यम् ।
यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि ।
दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥७॥
मनोमयः प्राणशरीरनेता
प्रतिष्ठितोऽन्ने हृदयं सन्निधाय ।
तद्विज्ञानेन परिपश्यन्ति धीरा
आनन्दरूपममृतं यद्विभाति ॥८॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥९॥
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषं ज्योतिस्तद्यदात्मविदो विदुः ॥१०॥
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति ॥ [मु.उ. २.२.७११]
इत्यादिश्रुतेः स्वभावेनैवास्तसमस्ताज्ञानस्य स्वप्रकाशस्य सर्वप्रकाशकस्य स्वदर्शनमात्रेण मूलतः सर्वाज्ञाननाशकस्याज्ञानादिकं कथं ? तथात्वे कथं वा नोपनिषत्सम्मतनित्यसिद्धेश्वरत्वव्याद्यातः (?) ।
अथ रसो वै सः इति श्रुतेः । तस्य नित्यसिद्धस्वरूपत्वात्, रसेषु च शृङ्गारस्यैव मुख्यत्वात्, तस्य शृङ्गाररसस्वरूपं वक्तव्यम् । शृङ्गारस्य च स्त्रीपुरुषरूपालम्बनद्वयनिष्पाद्यत्वात्, तत्रापि विप्रलम्भमानखण्डितादीनां वक्तव्यत्वात्, तेषां च विप्रयोगमन्तरासम्भवात। तत्रापि संयोगविप्रलम्भात्मके रसे विप्रलम्भस्यैव मुख्यत्वात्, विप्रलम्भस्य च स्वकीयापेक्षया परकीयायामाधिक्यसम्भवेन तत्रैव निरतिशयतया रसपुष्टेः सम्भवात्, स्वयं भगवान्तदर्थं योगमायया अनादित एवान्योन्यं जारभावं सम्पादितवानिति रसश्रुतिमूलकश्रुतार्थापत्तिसिद्धमेवाज्ञानमिति तस्मिन्नज्ञाननिषेधो व्यापोहिकामायांशभूततमोगुणांशजनिताज्ञाननिषेध एव पर्यवस्यतीति चेत्, न ।
स्यादेवं यदि बाधकं नोपलभ्येत, तच्च तस्मिन्नेव रसप्रकरणे—
यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । अथ यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति ॥ [तै.उ. २.६.१]
इत्यण्वपि तत्रानात्मबुद्धिर्भयहेतुस्तस्मात्तादृशपरमात्मरसबुभुक्षुभिरण्वप्यनन्तरं न कर्तव्यमिति रसप्रकरणीयतादृशरसानुभवप्रकारदर्शिकैव श्रुतिर्वदतीति, कुतस्तरां तद्विपरीतप्रकारवादिनीनां वाचां तत्र प्रवेशः ।
न च, यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा [छा.उ. ७.२४.१] इति भूमविद्याश्रुतावज्ञानं वदति इति वाच्यम् । भगवदनुभवकाले जीवानां वस्त्वन्तरस्फुरणं न भवति इत्येव श्रुतिः कथयति, न तु भगवतो मुक्तभक्तानां वा तदानीं विपरीतभानं भवतीति वदति । त्वया च राधायां भगवतोऽभिमन्युपत्नीत्वबुद्धिः भगवति राधाया जारबुद्धिरिति विपरीतभानं साध्यते । अथ च तद्बुद्धेर्मायिकत्वं राधायाः स्वरूपशक्तित्वं परमलक्ष्मीत्वं चोच्यते इति ।
अथ यदुक्तं तयोर्जारबुद्धिर्न व्यामोहिकामायाकल्पितापि तु योगमायाकल्पिता, सा हि भगवतो लीलोपायिकी शक्तिरिति । तत्रोच्यते—योगमायामायान्तरयोः को भेदः ? अन्यत्रान्यप्रत्यायनमेव व्यामोहनं तच्चोभयत्र समानं ? न चान्यत्र दुःखहेतुव्यामोहनमत्र तु सुखजनकमिति भेदः । लौकिकस्त्रीपुरुषप्रीतौ यद्व्यामोहनं भवति तदपि त्वदुक्तरीत्या समुकण्ठातिशयपोषकत्वात्, त्वदुक्तन्यायसामान्यात्सुखजनकमेवेति न भेदः । वस्तुतस्तु,
मायां तु प्रकृतिं विद्यान्मायिनं च महेश्वरम् ।
तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत॥ [श्वे.उ. ४.१०]
दैवी ह्येषा गुणमयि मम माया दुरत्यया ॥ इति ।
ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ इति ।
इत्यादिश्रुतिस्मृतिसिद्धा एकैव सा । सैव योगमायादिशब्दैरपि व्यपदिश्यते । तथा हि, ज्ञानिनामपि चेतांसि इति स्मृतिसिद्धमायया व्यामोहकत्वं त्वया वक्तव्यम्, तस्याः, बलादाकृष्य मोहाय महामाया प्रयच्छति इति स्वशब्देनैव व्यामोहकत्वकथनात्, तस्या एव च भागवते हरिवंशे च योगमायेत्यपि संज्ञाभिधीयते । तथा हि भागवते दशमे द्वितीयाध्याये—
भगवानपि विश्वात्मा विदित्वा कंसजं भयम् ।
यदूनां निजनाथानां योगमायां समादिशत॥ [भा.पु. १०.२.६] इति ।
अत्र तस्या एव,
दुर्गेति भद्रकालीति विजया वैष्णवीति च ।
कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च ।
माया नारायणीशानी शारदेत्यम्बिकेति च ॥ [भा.पु. १०.२.१११२] इति,
न सप्तशतीप्रोक्तान्भागवतोक्तामायाभिन्ना । रासप्रकरणेऽपि योगमायामुपाश्रितः [भा.पु. १०.२९.१] इत्यादिना सैवाभिधीयते जन्मप्रकरणीययोगमायातः रासप्रकरणीययोगमायाया भिन्नत्वे प्रमाणाभावात। तत्रापि गोपव्यामोहनार्थमेव तदुपयोगाच्च, न तु गोपीव्यामोहनार्थं प्रयोजनाभावात्—नासूयन्खलु कृष्णाय मोहितास्तस्य मायया [भा.पु. १०.३३.३८] इत्यादिना गोपान्प्रत्येव स्वशब्देन तदुपयोगकथनात्गोपीः प्रति स्वं प्रति च तदुपयोगस्य क्वाप्यकथनाच्च । यदि गोप्यः व्यामोहिताः भवेयुस्तर्हि कथं,
कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन्
नित्यप्रिये पतिसुतादिभिरार्तिदैः किम्? [भा.पु. १०.२९.३३]
इत्यादिना भगवन्तमात्मत्वेन नित्यप्रियत्वादिभिश्च परब्रह्मासाधारणधर्मैः जानीयुः ? किं च, त्वदुक्तदिशा जारत्वेनैवानुजानीयुः ।
न च यदि योगमाया व्यामोहिकामायातो न भिन्ना, तर्हि तस्याः कथं योगमाया महेशानी तस्याधिष्ठात्री इत्युक्तलक्षणगोपालमन्त्रतत्पीठाधिष्ठातृत्वं, नन्दगोपसुतं देव पतिं मे कुरुते नमः इत्युक्तं भगवत्प्रापकत्वं चेति वाच्यम् । तस्याधिष्ठातृत्वं न तत्स्वामित्वलक्षणमपि तु द्वारपालकत्वलक्षणमेव । तस्या भगवत्प्रापकत्वमपि स्वकृतव्यामोहापसारकत्वमात्रम्, भगवता हि भगवदेकशरणातिरिक्तजीवानां स्वलीलायां प्रवेशाभावय सा तत्र द्वारे स्थापिता । सा हि तत्र स्थिता भगवदेकशरणातिरिक्तान्जीवान्व्यामुह्य प्रपञ्चगोचरान्करोति । अत एव किल कमप्युच्यते भगवदेकशरणान्तु न व्यामोहयति । इति ।
तदुक्तं गीतायां—
दैवी ह्येषा गुणमयि मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ इति ।
अपि च तस्यां लीलायां मुक्तानामपि जीवानां केषाञ्चिदेव, यमेवैष वृणुते स तेन लभ्यः इति श्रुत्युक्तदिशां तल्लीलार्थं भगवद्वृतानामेव प्रवेशो भवतु नान्येषामिति ज्ञानिनोऽपि लीलांश्व्यामोहयति ।
ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ इति ।
गोपकन्यानां तु तत्पूजनं सीतारुक्मिण्यादिकृहं ततत्पूजनवत्कन्यकामर्यादारक्षार्थमेव । तासां नित्यसिद्धत्वात। तदुक्तं ब्रह्मवैवर्ते श्रीराधिकां प्रति स्वयं कात्यायिन्यैव व्रतं ते लोकशिक्षार्थमित्यादिना तत्रैवेति ।
यदप्युक्तं रसशास्त्रे परकीयाया एव रसातिशयो व्यवस्थाप्यते इति तदप्यज्ञानविजृम्भितमेव । भगवान्हि आउपनिषदः पुरुषः, तं त्वौपनिषदं पुरुषं पृच्छामि । नावेदविन्मनुते तं बृहन्तमित्यादिश्रुतेः ।
न तु लौकिककामादिशास्त्रसिद्धेः । एवं च नहि लौकिककामादिशास्त्रबलेन तस्य स्वरूपमन्यथयितुं शक्यते । तदीयरसशास्त्रमपि नारदादिप्रणीतं भक्तिसूत्रादिकमेव । तत्र तु सर्वासां गोपीनां जारभावो निषिद्ध्यते एव । किमुत भगवतः साक्षात्स्वरूपभूतायाः परमश्रियो वृषभानुनन्दिन्याः । तथा च तेषां सूत्राणि—
नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति ॥१९॥
अस्त्येवमेवम् ॥२०॥
यथा व्रजगोपिकानाम् ॥२१॥
तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः ॥२२॥
तद्विहीनं जाराणामिव ॥२३॥
नास्त्येव तस्मिंस्तत्सुखसुखित्वम् ॥२४॥ इत्यादि ।
किं च लौकिकरसशास्त्रेऽपि वात्स्यानीये भारते वा न क्वापि तदुक्तसमर्थकानि वाक्यान्युपलभ्यन्ते, महता प्रयत्नेनान्वेषणे कृतेऽपि येन जारभावे रसातिशयः सिद्ध्यते । तद्विरुद्धानि तु बहूनि वाक्यानि तत्र विद्यन्ते । सवर्णायामनन्यपूर्वायां शास्त्रतोऽधिगतायां धर्मोऽर्थः पुत्राः सम्बन्धः पक्षवृद्धिरनुपस्कृता रतिश्च [का.सू. ३.१] इति वात्स्यायने तृतीयेऽधिकरणे प्रथमेऽध्याये स्वकीयायामेवाकृत्रिं रतिर्निरूपिता । तथा तत्रैव तद्भाष्येऽपि, अनुपस्कृता रतिः, अकृत्रिमा विश्वासातिशययोगातित्युक्तम् । परकीयायां तु नास्त्येव रसः, तत्र लोकभयस्य धर्मभयस्य च सततं विद्यमानत्वेन रतिकालेऽपि विक्षेपस्य विद्यमानत्वात। सति विक्षेपे कुतः समृद्धा रतिः सत्त्वोद्रेकासम्भवात। अत एव प्राकृतैरप्युक्तं “पत्ता खटका वृन्दा भटका” ।
रममाणयोरपि जारयोः वाय्वादिनापि पत्रादिविक्षेपेऽपि रतिमध्येऽपि लोकागमनसंशयेन प्राणभयात्पलायनं भवति । आस्तिकानां तु स्वचित्तदोषात्यथा कथं चित्कृतेऽपि तथाभूते कर्मणि बुभुक्षानिवृत्त्यर्थं निगीर्णविषमिव चेतो दुनोतीति सहृदयहृदयसाक्षिकम्, तथापि तत्र स्वकीयापेक्षयाधिकसुखाभिमानः पामराणामेव भवति, तेषां ज्न्मजन्मान्तरतः दूषितसंस्कारवत्त्वादिति ।
अथ गोपिकानां श्रीकृष्णे सर्वात्मकत्वेन सर्वपतित्वेन सर्वेश्वरत्वेन च रतेः पूर्वं ज्ञानानन्तरमेव धर्मलोकभयादिकं न रतिसुखबाधकत्वेन समुदयात। तच्च त्वया जारभावरसिकेन स्वीक्रियत एव नहि ? तादृशज्ञाने जाते जारभावस्यैव विलयप्रसङ्गात। लोकवेदलङ्घनक्रियया साधितस्य महत्त्वस्य विनाशमसङ्गाच्च । तस्माज्जारभावे नास्त्येवानुपस्कृता रतिः ।
अत एवोक्तं तत्रैव—
विशुद्धिं विषयस्यादौ कारणानि च तत्त्वतः ।
प्रसमीक्ष्य प्रवर्तेत परस्त्रीषु न भावतः ॥ इति ।
तथा च वात्स्यायनकामशास्त्रविचारेणापि न जारभावे रसातिशयः । अनार्षग्रन्थानां तु प्रामाण्यमेव नास्ति, तत्र प्रायो लेखकानां निजनिजवासनाचित्रणस्यैव प्राधान्यात। याश्च पारदारिकेऽवस्था दर्शिताः, ता अपि कामावस्था एव, न प्रेमावस्था । अत एव न तत्र तत्सुखसुखित्वं कामप्रेम्णो नितरां विरुद्धस्वभावत्वात।
यत्तु दौर्लभ्यप्रयुक्त उत्कर्ष उक्तः, तदपि न । नहि दौर्लभ्यं वस्तुतत्त्वं वस्तुत उत्कर्षयति, अपि तु औत्कर्षमध्यासयत्येव । न वा वस्तु दौर्लभ्यं कश्चित्समीहते, तथा सति दारिद्र्यमेव सर्वः समीहेत, तदानीं सर्वेषां भोग्यानां दौर्लभ्यं यदा कदाचित्भोग्यकणिकालाभेऽपि परमानन्दानुभवात। नैतावता दारिद्र्यस्योत्कर्षः । दरिद्राणामानन्दस्य वा । तथा सति स एव सर्वैः काम्येत तस्माद्गोपिकानां श्रीकृष्णे प्रेमातिशयो न जारभावप्रयुक्तः । न वा दौर्लभ्यप्रयुक्तः, अपि तु तासां प्रेमशक्तिरूपत्वात्कृष्णस्य च प्रेम्णो निसर्गाधारनिरतिशयानन्दरूपत्वाच्च, साक्षान्मन्मथरूपतादनादिनिजस्वरूपमहिमसिद्ध एवेति सुधीभिरवधेयम् ।
यदपि भरतमुनिनामोल्लेखनं, तदपि असङ्गतमेव । भरतमुनिप्रणीतरसशास्त्रे तादृशवाक्यानुलम्भात्तद्विपरीतसिद्धान्तोपलम्भाच्च । तथा हि षष्ठाध्यये नाट्यशास्त्रे—
तत्र शृङ्गारो नाम रतिस्थायिभावप्रभव उज्ज्वलवेशात्मकः । यत्किञ्चित्लोके शुचिरुज्ज्वलं भवति तच्छृङ्गारेणोपमीयते ॥ यस्तावदुज्ज्वलवेशात्मवान्स शृङारवानित्युच्यते । यथा गोत्रकुलाचारोत्पन्नानि आप्तोपदेशसिद्धानि पुंसां नामानि । एवमेष आचाअसिद्धा हृद्योज्ज्वलवेशात्मकत्वाच्छृङ्गारो रसः । स च स्त्रीपुरुषहेतुक उत्तमयुवप्र्कृतिः इत्यादिना ।
अत्र आचारसिद्धत्वकथनात्स्फुटमौपपत्ये मुख्यरसत्वं व्यावर्त्यते । अत एव साहित्यकारैः परोढां वर्जयित्वा च इत्यादिना परोढाया मुख्यशृङ्गाररसालम्बनत्वं निसिद्ध्यते इति । लघुत्वमत्र यत्प्रोक्तमित्यादि वाक्यानि तु न भरतमुनेः, न वा स्वकीयभावापेक्षा जारभावस्य श्रेष्ठत्वबोधनाय । अपि तवतारकाले श्रीकृष्णलीलायामापातः प्राकृतानां प्रतीयमानस्य परोढाभावस्य लौकिकपरोढाभाववत्न लघुत्वं, परमार्थतः तस्य स्वकीयाभाव एव पर्यवसानातिति तत्तात्पर्यात। न चैतावता श्रीकृष्णे परे ब्रह्मणि परमलक्ष्म्यां श्रीवृषभानुजायां च जारत्वभ्रमं स्वरूपविस्मृत्यादिकं च कल्पयितुं शक्यते तस्य बद्धजीवत्वापादकत्वादिति सच्छास्त्रदृष्ट्यालोचनीयम् ।
इदं त्विह विशेषतोऽवधेयम् । परोढाभाववादिनः श्रीराधा साक्षान्महालक्ष्मीः । अन्यास्तु सर्वाः श्रीकृष्णस्य पत्न्यः । सर्वांशिनी परमलक्ष्मी श्रीराधा तु परकीयैव । यद्यपि अभिमन्युगोपे तस्याः पतिभावो योगमायाकृतः, न तु चिद्रूपस्तथापि स सदातन एव । तथा श्रीकृष्णेऽपि तस्याः, कृष्णस्य च तस्यां जारभावोऽपि योगमायाकृतो, न तु चिद्रूपस्तथापि नित्य एव त्रिकालेऽपि बाधाभावात। श्रीराधाकृष्णयोर्व्रजे दाम्पत्यं तु न पारमार्थिकं न वा भावमूलत एव न चिद्रूपं, न वा योगमायाकल्पितं तयोर्व्रजे विप्राग्निसाक्षिविवाहस्य भागवतादावश्रुतत्वात। तस्माच्छ्रीकृष्णस्तामभिमन्युपत्नीत्वेनैव जानाति, न तु निजपत्नीत्वेन लक्ष्मीत्वेन च, सापि तं निजोपपतित्वेनैव जानाति, न तु कदाचिदपि निजपतित्वेनेत्यादि वदन्ति । तत्र पृच्छ्यते, श्रीश्च लक्ष्मीश्च पत्न्यौ ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं
नित्यैवेसा जगन्माता विष्णोः श्रीरनपायिनी ।
यथा सर्वगतो विष्णुस्तथैवैषा द्विजोत्तम ॥
देवत्वे देवदेहेयं मानुषत्वे च मानुषी ।
विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ॥
इत्यादिश्रुतिस्मृतिसिद्धा या महालक्ष्मीः सैव राधापदवाच्या उतान्या । अथ सैव तर्हि तस्याः विष्ण्वेकपत्नीत्वस्य सर्वश्रुतिस्मृतिसदाचारसिद्धत्वात्तस्या अतत्पत्नीत्वकथनं महत्साहसं महापातकं च । न च तस्याः वैकुण्ठादिगतरूपे एव पत्नीत्वं, न तु व्रजस्थरूप इति वाच्यम् । नहि स्थानभेदेन मूलं रूपं तस्य स्वाभाविकधर्माश्च भिद्यन्ते । महालक्ष्म्याः विष्णुपत्नीत्वं स्वाभाविको धर्मः, तथैव श्रुतिस्मृतिसिद्धत्वात्, अस्येशाना जगतो विष्णुपत्नी, विष्णुपत्न्यघोरास्येशाना [कृ.य.वे.तै.सं. ४.४.१३.५], श्रीश्च ते लक्ष्मीश्च पत्नी [शु.य.वे.सं. ३१.१८], स इममेवात्मानं द्वेधापातयत्पतिश्च पत्नी चाभवत्[बृ.आ.उ. १] इत्यादिश्रुतौ तयोर्विवाहमन्तरैव दाम्पत्यस्य प्रतिपादितत्वात। एवं च यदि भवतो राधिका व्रजाख्यप्रदेशाच्छेदेनापि महालक्ष्मीः श्रुतिप्रतिपाद्या च, तर्हि तस्या विष्णुमात्रपत्नीत्वं स्वीकर्तव्यम् ।
अथ जारभावलोभात्, तन्न स्वीकर्तुं शक्यते, तर्हि तस्याः श्रुतिसिद्धमहालक्ष्मीत्वात्सन्तोषः क्रियताम् । अथ श्रुत्स्मृतिसिद्धमहालक्ष्मीत्वं तु वृन्दावनेश्वर्यामेव । पत्नीत्वं तु वैकुण्ठेश्वर्यामिति । तत्तु न सम्भवति—श्रीश्च लक्ष्मीश्च पत्न्यौ इत्यादिश्रुत्यधिगतयोर्महालक्ष्मीत्वविष्णुपत्नीत्वयोः साहित्येन सद्भावाद्विच्छेदे प्रमाणाभावाच्च ।
अथ श्रीश्च ते लक्ष्मीश्च इत्याद्युक्तप्रमाणसिद्धमहालक्ष्मीतो भिन्नैवेयं महालक्ष्मीर्या महालक्ष्मीर्भूत्वापि कृष्णस्य परकीयेवेत्युच्यते ? तदा रुक्मिणीवैकुण्ठेश्वरीप्रभृतीनां तदंशकथनमयुक्तमेव ।
अथ मन्त्रसिद्धापि महालक्ष्मी श्रुतिसिद्धा राधया माधवो देवो माधवेन च राधिका विभ्राजते जनेषु इत्यादि ऋक्परिशिष्टश्रुतेः, वामाङ्गसहिता देवी राधा वृन्दावनेश्वरी इति पूर्वाचार्योद्धृतकृष्णोपनिषच्छ्रुतेश्च । तस्या लक्ष्म्यन्तरानामंशिनीत्वमपि श्रुतिसिद्धम् । द्वे पार्श्वे चन्द्रावली राधिका च यस्या अंशे लक्ष्मीदुर्गादिका शक्तिः इति पुरुषबोधिनीश्रुतेरिति चेत्, न ।
नहि तत्र क्वचिदपि त्स्या अभिमन्युपत्नीत्वमुक्तं परकीयात्वं तत्सहचरितमन्यद्वा किञ्चित्त्वदुक्तम् । येन त्वदुक्तं स्यात। प्रत्युत, वामाङ्गसहिता देवी इति वामाङ्गसाहित्यकथनात्, तस्याद्या प्रकृती राधा इति आदि प्रकृतित्वकथनाच्च तयोः स्वाभाविकदाम्पत्यसूचनात। जारभावः प्रतिषिद्ध्यत एव । न च तयोर्दाम्पत्ये विप्राग्निसाक्षिकविवाहोऽपेक्षितस्तयोर्दाम्पत्यस्य स्वरूपवदनादिसिद्धत्वात। स नैव रेमे स इममेवात्मानं द्वेधापातयत्पतिश्च पत्नी चाभवतामिति श्रुतेः । नहि जग्पित्रोरनादिसिद्धयोर्दाम्पत्ये विप्राग्निसाक्षिकविवाहोऽपेक्षितः । तथा सति नित्यवैकुण्ठेश्वरयोर्लक्ष्मीनारायणयोरपि दाम्पत्यं न स्यात। न चैवं, तवापि सम्मतम् । तस्मादयुक्तमेषा तव कल्पना ।
न चास्तु नित्यलीलायां तथैव, अवतारलीलायां तु लोकव्यवहारानुरोधात्दाम्पत्यार्थं विप्राग्निसाक्षिकविवाह आवश्यकः । अन्यथा रुक्मिण्यादिभिः सहापि विवाहो निष्प्रयोजनः स्यादिति वाच्यम् । यथावतारलीलायां मनुष्यवद्व्यवहरणेऽपि न तस्य मनुष्यत्वमपि तु परम्ब्रह्मत्वमेव, मनुष्यत्वं त्वासुरजीवदृष्ट्यैव तत्र ब्रह्मत्वस्य स्वाभाविकत्वात। मनुष्यत्वस्यानुकरणमात्रत्वेन मायिकत्वाच्च । अत एवोक्तं—
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ [गीता ९.१११२] इति ।
यथा वा, व्याधशरसंयोगेन शरीरत्यागप्रतीतावपि वस्तुतो न कृष्णस्य शरीरत्यागः, तादृशप्रत्ययनस्यासुरव्यामोहनार्थत्वेन मायिकत्वात। तदुक्तं श्रीशुकेन—
राजन्परस्य तनुभृज्जननाप्ययेहा ।
मायाविडम्बनमवेहि यथा नटस्य ॥ [भा.पु. ११.३१.११] इत्यादिना ।
तथान्यत्रापि—
अज्ञत्वं पारवश्यत्वं विधिभेदादिकं तथा ।
तथा प्राकृतदेहत्वं देहत्यागादिकं तथा ।
असुराणां विमोहाय दोषा विष्णोर्न हि क्वचित॥ इत्यादि ।
तथा च नित्यसिद्धदम्पत्योस्तयोः कल्पविशेषे अवतारलीलायां विवाहाभावप्रत्यायनमन्यपत्नीत्वप्रत्यायनं चासुरजीवव्यामोहार्थमेव । अवतारकाले यथा दिअवजीवप्रबोधार्थमैश्वर्यमाधुर्यादिकं प्रकटयति, तथासुरव्यामोहार्थं परतन्त्रत्वादिकं जीवधर्ममपि प्रयाययत्येव । तत्र प्रमाणं तूक्तमेव—अज्ञत्वं पारवश्यत्वमित्यादि । अत एव ब्रह्मवैवर्ते शापदात्रा श्रीदाम्नैवोक्तम्—मूढा रायाण पत्नीत्वां वक्ष्यन्ति जगतीतले इति । अत्र तस्यां परोढात्वज्ञानवतां मूढत्वं श्रीदाम्नैवोक्तम् । तस्मादवतारलीलायामपि कल्पविशेषे तयोर्विवाहाभावेऽपि बाह्यतः परकीयावद्व्यवहरणेऽपि स्वाभाविकदाम्पत्यं न हीयते । न वा परोढात्वमाधीयते चेति बोध्यम् ।
वस्तुतस्तु तयोर्विवाहोऽपि जात एव । स च वर्णित आदिपुराणादौ । अत एव पञ्चरात्रे ज्ञानामृतसारसंहितायां श्रीराधासहस्रनाम्नि नन्दनन्दनपत्नी च, यशोदानन्दनपत्नी च इत्यादि नामपरिगणनम् । यस्मिन्कल्पे श्रीदामशापः तस्मिन्कल्पेऽपि ब्रह्मणा भाण्डीरवने तयोर्विवाहः कृत एव । तदेतद्वर्णितं ब्रह्मवैवर्ते जन्मखण्डपञ्चदशाध्याये गर्गसंहितायां च । गोपपत्नी तु छायाराधा तदन्यैव तदपि तत्रैवोक्तम् । श्रीदामशापानुरोधार्थं प्रकटविवाहो न कृतः । श्रीदामशापोऽपि भगवदिच्छयैवासुरव्यामोहार्थम् । श्रीकृष्णस्य देहत्यागाद्युक्तिवत। तदुक्तं श्रीदाम्नैव मूढा रायाणपत्नीत्वां वक्ष्यन्ति जगतीतले इति । अत एवोक्तं शिवपुराणेऽपि श्रीपार्वतीविवाहप्रसङ्गे मेनाचरितनिरूपणे—
कलावती सुता राधा साक्षाद्गोलोकवासिनी ।
गुप्तस्नेहनिबद्धा सा कृष्णपत्नी भविष्यति ॥ इत्यादि ।
अधिकं तु युग्मतत्त्वसमीक्षायां द्रष्टव्यम्, तत्रैतस्य महता प्रपञ्चेनास्माभिर्निरूपितत्वादिति ।
यदि च न मया वस्तुतस्तस्यां परकीयात्वं स्वीक्रियते, अपि त्वनादियोगमायाकल्पितः, अनादिसिद्धः परोढाभावो नैतावता स्वाभाविकदाम्पत्यं हीयते, अपि तु तदपि न फलोपधायि व्रजभूमौ, फलोपधायि तु प्रपञ्चातीते गोलोकादिधाम्न्येव, व्रजभूमौ तु परोढाभाव एवेत्युच्यते । एवमपि राधाकृष्णयोः तादृशभावस्य ज्ञानमन्तरासिद्धेरज्ञानस्वीकारे बद्धजीवतुल्यतापत्तेरौपनिषद्ब्रह्मत्वासिद्धेरिति ।
इदं पुनरिहावधेयम् । परोढाभाववादिभिर्भक्तैर्यथा श्रीराधायां परकीयात्वाज्ञत्वपरवश्यत्वादिकं साधयति । तथा स्वीकारे तस्यां महालक्ष्मीत्वं तु सुदूरपराहतम् । उपनिषद्व्याससूत्रदृष्ट्या विचार्यमाणे तयोर्मुक्तजीवत्वमपि न सम्भवति । निरञ्जनः परमं साम्यमुपैति [मु.उ. ३.२.३], स एकधा भवति द्विधा भवति, शतधा सहस्रधा च स स्वराड्भवति [छा.उ. ७.२६.२], स यदा मातृलोककामो भवति तदा सङ्कल्पादेवास्य मातरः समुपतिष्ठति, यं कामं कामयते ते सर्वे समुत्तिष्ठन्ति [छा.उ. ८.२.१], सङ्कल्पादेव तच्छ्रुतेः [वे.सू. ४.४.८], भोगमात्रसाम्यलिङ्गाच्च [वे.सू. ४.४.२१] इत्यादिश्रुतिसूत्राभ्यां मुक्तमात्रस्य सदैव सविभूतिसमग्रब्रह्मानुभवो निरन्तरं सिद्धः । तदुक्तं काश्मीरिकेशवभट्ताचार्यैर्वेदान्तकौस्तुभप्रभायां—
सङ्कल्पादेव सङ्कल्पमात्रादेवास्य सर्वप्राप्तिः, तच्छ्रुतेः । सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति [छा.उ. ८.२.१], लोके हि सत्यसङ्कल्पत्वाभावादेव प्रयत्नान्तरसापेक्षत्वं नहि परमात्मव्यतिरिक्तः कश्चित्सत्यसङ्कल्पोऽस्ति । मुक्तस्य तु तत्प्रसादात्तत्साम्यमुपगतस्य तथात्वमस्त्येवेति । इति ।
विकारवर्ति च तथा हि स्थितिमाह [वे.सू. ४.४.१९]—
विकारवर्ति जन्मादिविकारशून्यं निखिलदोषास्पृष्टमाहात्म्यं निरतिशयकल्याणगुणाब्धिसविभूतिकं ब्रह्मैव मुक्तोऽनुभवति । तद्विभूत्यन्तर्गतत्वेन हिरण्यगर्भादिभोगानुभवोऽप्यविरुद्धस्तदाश्रितत्वात्सर्वस्येति भावः । सविभूतिकब्रह्मानुभवितृत्वेनैव सर्वानुभवितृत्वात्मुक्तस्य तस्य सर्वेषु लोकेषु कामचारो भवति [छा.उ. ८.१.६] इत्याद्युच्यते ।
भोगमात्रसाम्यलिङ्गाच्च [वे.सू. ४.४.२१],
यथा सर्वज्ञत्वसर्वशक्तिमत्त्वादिसद्गुणाश्रयस्य परमात्मनः स्वविभूत्यनुभवानन्दरूपभोगः सदैकरसः तथा तन्मात्रभोगः सविभूतिब्रह्मयाथात्म्यानुभववित्èणां मुक्तानामपि समः, ब्रह्मविदाप्नोति परमित्युपक्रम्य, सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता [तै.उ. २.१] इति । निरञ्जनः परमं साम्यमुपैति [मु.उ. ३.२.३] इत्यादिश्रुतिभ्यः ॥ इति ॥
एवमेव श्रीरामानुजाचार्या अपि श्रीभाष्ये सङ्कल्पादेव तच्छ्रुतेः [वे.सू. ४.४.८],
मुक्तः परं ब्रह्मोपसम्पद्य ज्ञानस्वरूपापहतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्तगुणक आविर्भवति इत्युक्तम् । तमधिकृत्य सत्यसङ्कल्पत्वप्रयुक्ता व्यवहाराः श्रूयन्ते । स यत्र पर्येति जक्षण् क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा [छा.उ. ८.५.१३] इति । किमस्य ज्ञात्यादिप्राप्तिः प्रयत्नान्तरसापेक्षा, उत परमपुरुषस्येव सङ्कल्पमात्रादेव भवतीति विषये लोके राजादीनां सत्यसङ्कल्पत्वेन व्यवह्रियमाणानां कार्यनिष्पादने प्रयत्नान्तरसापेक्षत्वदर्शनात। अस्यापि तत्सापेक्षता । इति प्राप्ते उच्यते—सङ्कल्पादेव इति । तच्छ्रुतेः— स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति [छा.उ. ८.२.१] इति हि सङ्कल्पादेव पित्रादीनां समुत्थानं श्रूयते, न च प्रयत्नान्तरसापेक्षत्वाभिधायिश्रुत्यन्तरं दृश्यते येन सङ्कल्पादेव इत्यवधारणस्य विज्ञानघन एवेतिवद्व्यवस्थापनं क्रियते ॥ इति ॥
पुनश्च अत एवानन्याधिपतिः [वे.सू. ४.४.९] इति सूत्रभाष्ये—
यतो मुक्तः सत्यसङ्कल्पोऽत एवानन्याधिपतिः । अन्याधिपतिर्वं हि विधिनिषेधयोग्यत्वम् । विधिनिषेधयोग्यत्वे हि प्रतिहतसङ्कल्पत्वं भवेत। अतः सत्यसङ्कल्पत्वश्रुत्यैवानन्याधिपतित्वं च सिद्धम् । अत एव च स स्वराड्भवति [] इत्युच्यते ॥
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः [वे.सू. ४.४.१८] इति ।
आधिकारिकाः अधिकारेषू विनियुक्ताः हिरण्यगर्भादयः । मण्डलानि तेषां लोकाः तत्स्था अपि भोगाः । मुक्तस्याकर्मवश्यस्य भवन्ति इत्यर्थः । तस्य सर्वेषु लोकेषु कामचारो भवति [छा.उ. ७.२५.१] इत्यनेनोच्यते । अप्रतिहतज्ञानो मुक्तो विकारलोकान्ब्रह्मविभूतिभूतान्यथा कामं तृप्यति इत्यर्थः ।
यदि संसारिवन्मुक्तोऽपि विकारवर्तिनो भोगान्भुङ्क्ते तर्हि बद्धस्यैव मुक्तस्याप्यन्तवदेव भोग्यजातमल्पं स्यात्, तत्राह—विकारवर्ति च तथा हि स्थितिमाह [वे.सू. ४.४.१९] विकारे जन्मादिके न वर्तते इति विकारावति निर्धूतनिखिलविकारं निखिलहेयप्रत्यनीकगुणैकतानं निरतिशयानन्दं परं ब्रह्म सविभूतिकं सकलकल्याणगुणमनुभवति मुक्तः । तद्विभूत्यन्तर्गतत्वेन विकारवर्तिनां लोकानामपि मुक्तभोग्यत्वम् । तथा हि परात्परे ब्रह्मणि निर्विकारेऽनधिकातिशयानन्दे मुक्तस्यानुभवितृत्वेन स्थितिमाह—यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति इत्यादिका । तद्विभूतिभूतं च जगत्तत्रैव वर्तते तस्मिंल्लोकाः श्रिता सर्वे तदु नान्येति कश्चन इति श्रुतेः । अतः सविभूतिकब्रह्मानुभवन्विकारान्तर्वर्तिनोऽधिकारिकमण्डलस्थानपि भोगान्भुङ्क्ते इति सर्वेषु लोकेषु कामचारो भवति ॥ इत्यादिनोच्यते इत्यादि ॥
परकीयावादिनां मते राधाकृष्णौ सर्वेश्वरौ परं च स्वात्मानमपि नित्यसिद्धसर्वेश्वरत्वेन न जानीतः । श्रीकृष्णस्यैव वृन्दावनस्थस्यैव प्रकाशविशेष द्वारकास्थान्यपि रूपाणि श्रीराधाया एव कायव्यूहरूपा अंशविशेषा रुक्मिण्याद्याः परं सा द्वारकामपि न जानाति, कुतो रुक्मिणीं सत्यां वा, सा हि कृष्णस्य सर्वातिशायिनीशक्तिराहादिन्यादिपदाभिधेया परं कृष्णः, तां सा च स्वामभिमनुयपत्नीत्वेन जानति, न तु कृष्णीयत्वेनापि, सा वैकुण्ठेश्वरीमहालक्ष्मीतोऽपि वरा, तथाप्यभिमन्युतो नित्यमुद्विग्नचित्ता वृन्दावनेऽपि सुखं न लभते, यदा कदाचित्कृष्णसम्बन्धसुखं प्राप्य निःश्वसिति । वैकुण्ठेश्वरी महालक्ष्मी तु वृन्दावनस्थं श्रीकृष्णं समग्रमेव सर्वावतारविशिष्टमपि निरन्तरं निःसपन्नमनुवन्त्यपि राधाकिङ्करीतोऽपि न्यूनतमा इत्यादि परस्परविप्रतिषेधयुक्तो विचारः । तस्मादेतेषां विचारो वेदादिसच्छास्त्रैकशरणानां न बुद्धिगोचरतामारोहतीति जानीमः । वस्तुतस्त्वेतत्कविकल्पितराधापेक्षया नित्यसिद्धविमलादिशक्तयो वरीयस्यः । ता हि वैकुण्ठवृन्दावनादौ सर्वत्र योगपीठे स्थित्वा सर्वान्रसानास्वादयन्ति । एतेषां राधा तु जारभावमात्रमन्यत्किञ्चिदपि न जानात्येवेत्यादि । तस्माद्विप्रतिषिद्धैवेऐषा कल्पनेनेति सुधीभिरवधेयम् ।
तस्मात्सर्वतः परिपूर्णा सर्वशक्तिमयी योगमायया अपि योगमाया सर्वेश्वरस्य श्रीकृष्णस्य नित्यानपायिनी निरस्तसाम्यातिशया युगपदेव व्यूहवैभवगुणावतारलीलावतारपुरुषावताराद्यनेकरूपिणा भगवता साकं तत्तदनुरूपानन्तरूपैर्नित्यं रममाणा एकैव श्रीराधालक्ष्मीरमादिशब्दैर्व्यपदिश्यते । तयोर्दाम्पत्यं तु स्वभावत अनादिसिद्धमेव । तत्सर्वमुक्तं प्रपन्नकल्पवल्लीभाष्ये श्रीसुन्दरभट्टपादैः—बृंहति बृंहयति तस्मादुच्यते परं ब्रह्म इति श्रुतेर्यथा स्वरूपेण गुणशक्त्यादिभिश्च बृहत्तमो वेदान्तप्रतिपाद्यः सदा पश्यन्ति सूरयः इति श्रुतेर्नित्यमुक्तजनतानुभूयमानो भगवान्श्रीपुरुषोत्तमः, तथैवैषापि पत्नीति वचनात्वक्ष्यमाणानां भगवदीयगुणानामत्रातिदेशोऽवगम्यते । वक्ष्यमाणगुणादयोऽप्यत्रानुसन्धेया इत्यर्थः इत्यादिनेति ।
एवं च सैव हि महालक्ष्मीः श्रीराधा परमे व्योम्नि नित्यवृन्दावने परिपूर्णतमरूपेण परिपूर्णतमेन निजप्रियेण श्रीकृष्णेन साकमनन्ताभिः स्वानुरूपाभिः सखीभिः सह नित्यं लीलायते । यदा च कार्यविशेषाद्वा निजेच्छया वा परिपूर्णतमः कृष्णोऽवतरति, तदा साप्यवतरति । यदा च अंशविशेषभूतः सन्कृष्णोऽवतरति, तदा साप्यधिकारिणि जीवे स्वसौन्दर्यादेरंशांशं प्रकटीकरोति । इति सापि राधाशब्देन व्यपदिश्यते एतादृशीनां साधनारूढानां साधनसिद्धानां च चरितमुद्दिश्यैव
सुबोधिनीजागरपुण्यवैभवान्
प्रसन्न ईशो विधिवाक्यसत्यकृत।
चकार रासोत्सवनर्तनं सह
कदा वने वै विहरामि राधया ॥
इत्यादि वाक्यानि ता उद्दिश्यैव वस्तुतः पर्ढाभावादिप्रवादाः इति ।
यदि च नास्माकं श्रीराधायां तत्सहचरीषु वा परोढात्वस्य परोढाभावस्य वा सिद्धान्ततः स्थापने तात्पर्यं सिद्धान्ततस्तु पूर्वमुक्तं सर्वमेवास्माकमपि परमाभीष्टमेव । तथापि येषां संस्कारविशेषपारतन्त्र्यात्परोढाभाव एव रसातिशयः, तेषां परितोषाय तद्भावेऽपि श्रीकृष्णलीलायां चमत्कारातिशय एव नान्यत्रेव किञ्चिदपि न्यूनता इत्यवबोधाय । किं च एतादृशी श्रीकृष्णलीलैव यत्राविरोधेनैव सर्वविधरसस्य निरतिशयता निर्दुष्टता चेति तयोः सर्वरसपूर्णत्वाय च निरूप्यते इत्युच्यते, तर्हि उच्यतां नाम तादृशतात्पर्येण तावदंशवर्णने क्षत्यभावात।
अथात्रैते श्लोका भवन्ति—
एतादृशोऽपि भगवद्भक्ता लोके भवन्ति हि ।
स्ववासनानुसारेण वन्दन्ति रसपद्धतिम् ॥
वासनादेशभेदाच्च कालभेदात्तथा जनेः ।
जाता भक्तानपि बुधान्बाधते बलवत्तरा ॥
तस्माच्छास्त्रविरुद्धाहि भक्तानामपि भारती ।
प्रमाणतां न चाप्नोतीत्येतत्तत्त्वविदां मतम् ॥
इति निश्चित्य सच्छास्त्रैः सद्वाक्यैरेव निर्णयः ।
क्रियतां कृष्णतत्त्वस्य तद्विरुद्धं च त्यज्यताम् ॥ इति ।
योगमायास्वरूपविचारः
अत्र प्रसङ्गात्योगमायास्वरूपविचारः क्रियते—इदं त्विह विशेषतोऽवधेयम् । श्रीगोपालमन्त्रकल्पे गौतमीयतन्त्रपरमागमचूडामण्यादौ श्रीगोपालमन्त्रस्य कीलकं, अधिष्ठातृदेवता च दुर्गाशब्देन योगमायाशब्देन चोच्यते । यथा—कृष्णः प्रकृतिरुद्दिष्टो दुर्गाधिष्ठातृदेवता इति । अस्य मन्त्रस्य कारणमाराध्यं च कृष्णः । अधिष्ठातृदेवता च दुर्गा इति तद्वाक्यार्थः । योगमाया महेशानी तस्याधिष्ठातृदेवता इत्यपि कल्पान्तरवाक्यम् । तथा ह्रीं कीलकं दुर्गा कीलकमुच्यते इति च । तथा च दुर्गायोगमायादिपदवाच्यदेवीविशेषस्तन्मन्त्रस्याधिष्ठातृदेवता इति सर्वकल्पसम्मतः सर्ववादिसम्मतश्च निर्णयः । अत एव तन्मन्त्रस्याधिष्ठातृतदाराध्ययोर्दुर्गाकृष्णयोरभेदमाह गौतमीयतन्त्रे—
यः कृष्णः सैव दुर्गा स्याद्या दुर्गा कृष्ण एव सः ।
अनयोरन्तरादर्शी संसारान्नो विमुच्यते ॥ इत्यादिनेति ।
तत्र जिज्ञास्यते सेयं दुर्गायोगमायादिपदवाच्यतया प्रकृते का विवक्षिता ? किं योगनिद्रा हरेरेषा यया सम्मोह्यते जगतित्यादिना दुर्गासप्तशत्यादौ प्रसिद्धा, भागवते जन्मप्रकरणे योगमायां समादिशत्[भा.पु. १०.२.६],
दुर्गेति भद्रकालीति विजया वैष्णवीति च ।
कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च ।
माया नारायणीशानी शारदेत्यम्बिकेति च ॥ [भा.पु. १०.२.१११२]
इत्यादिना भगवद्दत्तवरा योगनिद्रा, उत भगवदर्धाङ्गरूपा परमा ह्लादिनी परमलक्ष्मी राधैव । या यः कृष्णः सा राधा या राधा कृष्ण एव सः इत्यादिना बहुधा निरूप्यते, या च बृहद्गौतमीयतन्त्रे गोपालमन्त्रबीजव्याख्यायां—ककारः पुरुषः कृष्णः सच्चिदानन्दविग्रहः । ईकारः प्रकृती राधा इत्यादिना प्रतिपाद्यते । तदेतत्पूर्वतापिन्यां मन्त्रव्याख्यायां द्रष्टव्यमिति ।
तदत्र गोपालमन्त्रोपासनसम्प्रदायविदः श्रीनिम्बार्कसम्प्रदायाचार्याः श्रीहरिव्यासदेवाचार्याः तथा बङ्गीयवैष्णवसम्प्रदायाचार्याः श्रीजीवगोस्वामिपादाश्च वक्ष्यमाणनारदपञ्चरात्रपरमागमचूडामणिश्रुतिविद्यासंवादस्थगोपालकल्पवाक्येन निर्णयमाहुः—यत्प्रकृतमन्त्रे अधिष्ठात्री देवता दुर्गायोगमायादिपदवाच्या श्रीराधैव परमेश्वरीति । तत्र परमागमचूडामणौ श्रुतिविद्यासंवादवाक्यानि, यथा—
जानात्येका परं कान्तं सैव दुर्गा तदात्मिका ।
या परा परमा शक्तिर्महाविष्णुस्वरूपिणी ॥
यस्या विज्ञानमात्रेण पराणां परमात्मनः ।
मुहूर्तादेव देवस्य प्राप्तिर्भवति नान्यथा ॥
एकेयं प्रेमसर्वस्वस्वभावा श्रीकुलेश्वरी ।
अनया सुलभो ज्ञेय आदिदेवोऽखिलेश्वरः ॥
भक्तिर्भजनसम्पत्तिर्भजते प्रकृतिः प्रियम् ।
ज्ञायतेऽत्यन्तदुःखेन सेयं प्रकृतिरात्मनः ॥
दुर्गेति गीयते सद्भिरखण्डरसवल्लभा ।
अस्या आवरिका शक्तिर्महामायाखिलेश्वरी ।
यया मुग्धं जगत्सर्वं सर्वदेहाभिमानतः ॥ इति ।
नन्वत्र दुर्गापदेन योगनिद्रादिविलक्षणा परमलक्ष्मीः श्रीराधैव विवक्षितेति न निश्चेतुं शक्यते ? श्रीराधालक्ष्म्यादिविशेषकपदाभावादिति चेन्, न । एकेयं प्रेमसर्वस्वस्वभावा गोकुलेश्वरी इति विशेषकवाक्यसद्भावात। अपि च, जानात्येका परं कान्तं सैव दुर्गा तदात्मिका इत्यत्र सैव दुर्गत्येवकारो लोकप्रसिद्धदुर्गातो व्यवच्छेदायैव प्रयुक्तस् तेनापि तथा निश्चेतुं शक्यते एव । किं च जानात्येका परं कान्तमित्यंशेन प्रकृतदुर्गायाः कान्तत्वं भगवत्युपक्रम्यैव सर्वमुच्यते तेन प्रकृतदुर्गायाः कान्तत्वं भगवत्युपक्रम्यैव सर्वमुच्यते तेन प्रकृतदुर्गाया भगवत्कान्तात्वं निश्चीयते एव प्रसङ्गश्चापि तत्र तथाविध एव, न च लोकप्रसिद्धदुर्गाया भगवत्कान्तात्वं, न वा तस्यास्तत्र प्रसङ्गः । तस्मातखण्डरसवल्लभा पर्यन्तवाक्येनोक्ता प्रसिद्धदुर्गातो विलक्षणैव दुर्गा भगवत्कान्ताभूतात्र प्रतिपाद्यते, या किल श्रीराधादिपदेनाख्यायते । अत एव तदर्थानुकूलव्युत्पत्त्यन्तरं पठ्यते । ज्ञायतेऽत्यन्तदुःखेन इत्यादि । आवरिकाशक्तिवाचकत्वे तु दुःखेन गन्तुं तर्तुं शक्या इति दुर्गापदार्थः । अत एव च—
अस्या आवरिका शक्तिर्महामायाखिलेश्वरी ।
यया मुग्धं जगत्सर्वं सर्वदेहाभिमानतः ॥ इति पृथगुच्यते ।
अत्र अस्या इतीदम्पदेन अखण्डरसवल्लभेत्यन्तवाक्येनोक्ता दुर्गा विवक्षिता । एवं च द्वे शक्ती अत्र विवक्षिते भगवत्स्वरूपान्तर्भूता परमा शक्तिः, आवरिकाख्या माया शक्तिश्च, यथा—या परा परमा शक्तिर्महाविष्णुस्वरूपिणी इति । अस्या आवरिका शक्तिर्महामायाखिलेश्वरी इति चेति । तत्र या परमा सा राधा । या च परमाशक्तेरावरिका सा सैवावरिका मायादिपदाभिधाना योगनिद्रा । तयोरुभयोरेव दुर्गा गोपालमन्त्राधिष्ठात्री । यदुक्तं—कृष्णः प्रकृतिरुद्दिष्टो दुर्गाधिष्ठातृदेवता इति । एवं च तदभिप्रायेणैव, यः कृष्णः सैव दुर्गा स्याद्या दुर्गा कृष्ण एव सः इति गौतमीयतन्त्र गोपालकल्पवाक्यम् ।
न च प्रसिद्धपदमपहाय दुर्गापदेन तत्र राधाभिधाने किं बीजमिति वाच्यम् । दुर्ज्ञेयत्वदुराराध्यत्वादिबोधनायैव दुर्गापदेन तदभिधानात। कल्पग्रन्थे बहुत्र प्रसिद्धपदमपहायाप्रसिद्धपदेन तदभिधानं दृश्यते । यथा योगियाज्ञवल्क्यानुसारिवाजसनेयिनां सन्ध्यावन्दने प्रणवस्य परमात्मदेवतस्यापि शब्दतोऽग्निदैवतत्वेनैवोपासनम्, तथापि व्याख्यानतस्तत्राग्निशब्दस्य परमात्मतात्पर्यकत्वकथनमिति । तथात्रापि बोध्यं परोक्षेणेति । या च द्वितीया मायाख्या आवरिका शक्तिः सा गोपालमन्त्रस्य तत्पीठस्य लीलायाश्चावरणकर्त्री, तन्मन्त्रस्य कीलकमुच्यते ह्रीं कीलकमिति गोपालकल्पात। अत एव गोपालपीठे तन्मन्त्रस्य कोणत्रये न्यासः । पुरुषार्थबोधिन्युपनिषदि त्रिपुरादिचतुःशक्तिः सायुधा सपरिवारा सगणा तत्र पूज्यते इति श्रुता त्रिपुराशक्तिरप्यावरिकैव तत्र पीठन्यासे विवक्षिता । सा हि चतुर्दिक्षु चतूरूपेणावस्थिता सलीलोपकरणं श्रीपुरुषोत्तममावृत्यानधिकृतेभ्यो रक्षति । गृहकपाटकीलकमिवात्र मन्त्रपीठयोरावरणकीलकमुच्यते । इयमेव च त्रिपुरसुन्दरी पाद्मे वृन्दावनमाहात्म्येऽर्जुनकृतलीलादर्शने सर्वप्रथममर्जुनेन दृष्टा पूजिता चेति । इयमेव च भागवते हरिवंशे च जन्मप्रकरणे योगमायायोगनिद्रादिपदेनाख्यायते, नन्दगेहे प्रकटीभूता च भवति । इयमेव च दुर्गासप्तशत्यां—
नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।
योगनिद्रा हरेरेषा तया सम्मोह्यते जगत॥
ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ इत्यादिना बहुधा स्तूयते ।
अत्राप्युच्यते—
अस्या आवरिकाशक्तिर्महामायाखिलेश्वरी ।
यया मुग्धं जगत्सर्वमिदं देहाभिमानिनः ॥ इति ।
इयमेव च कात्यायनीदेवी या भगवदाज्ञया स्वकृतलीलावरणस्यापनयार्थं भगवल्लब्धवरा भगवत्प्रेरणया गोपकुमारीभिः पूजिता ।
कात्यायनि महामाये महायोगिन्यधीश्वरि ।
नन्दगोपसुतं देवि पतिं मे कुरुते नमः ॥ [भा.पु. १०.२२.४] इति ।
एवं च जन्मप्रकरणे योगमायापदेनावरिका शक्तिरेव विवक्षिता । कंसादिव्यामोहनार्थं तदुपयोगात। रासलीलाप्रकरणे तु, योगमायामुपाश्रितः इति योगमायापदेन द्वे—अपि योगमाये विपक्षिते, परमा शक्तिरावरिका शक्तिश्चेति । तत्र परमशक्तेः श्रीराधाया रासलीलाधिष्ठातृरूपाया लीलारसानुभवार्थमेव परमोपयोगः । सा हि स्वस्वरूपेण स्वांशभूताभिर्गोपीभिः स्वाविष्टगोपीभिश्च भगवन्तं रासरसमनुभावयति । तदुक्तं तत्रैव—अखण्डरसवल्लभा इति । अत एव तस्या अधिष्ठातृत्वम् ।
आवरिकाख्यशक्तेस्तु लीलाधिकारहीनेभ्यो गोपादिभ्योऽन्येभ्यश्च प्राकृतेभ्यो लीलाया सङ्गोपनार्थं लीलायामावरणे समुपयोगः । यया व्यामोहिता लीलाधिकाररहिता जना न जानत्येवान्यथैव वा जानन्ति । यथोक्तमत्रैव—अस्या आवरिका शक्तिः इत्यादिनेति । अत्रेदंपदेन तात्पर्येण लीलाधिष्ठातृश्रीराधाप्रधानस्य सर्वलीलापरिकरस्य परिग्रहः । तथा च प्राकृतेभ्यो लीलाया आवरणार्थमावरिकाशक्तिरूपाया योगमायाया उपयोग इति सुधीभिरवधेयम् ।
एवं च श्रीराधायं कृष्णस्य परपत्नीभावः कृष्णे च राधाया उपपतिभावो योगमायाकृत इति सुतरामसिद्धः । प्राकृतानां व्यामोहनार्थमेव तस्या उपयोगात्, न तु तल्लीलापरिकराणाम् । परमशक्तिरूपायां श्रीराधायां श्रीकृष्णे चावरिकाख्यशक्तेरुक्तदिशा उपजीव्यविरोधात्सामर्थ्याभावाच्चापि नान्यथाबुद्धिजनकत्वसम्भवः । परमशक्तिरूपाया योगमायायाः श्रीराधायास्तु न स्वस्या एव स्वव्यामोहकत्वमात्मा, श्रयत्वादसंभवाच्चेति बोध्यम् ।
यथा च स्वरूपशक्तिमायाशक्त्योरुपजीव्योपजीवकभावस्तथोक्तं पुरुषार्थबोधिन्यामाथर्वणोपनिषदि तस्याद्या प्रकृती राधिका नित्या निर्गुणा सर्वालङ्कारशोभिता प्रसन्नाशलावण्यसुन्दरी । अस्मदादीनां जन्मदात्री [पु.बो. ३] इति । द्वे पार्श्वे चन्द्रावली राधा चेति यस्यांशेन लक्ष्मीदुर्गादिका शक्तिर्[पु.बो. १] इति चेति ।
पद्मपुराणे च वृन्दावनमाहात्म्ये पार्वतीमहेश्वरसंवादे—
तत्प्रिया प्रकृतिस्त्वाद्या राधिका कृष्णवल्लभा ।
तत्कलाकोटिकोट्यंशा दुर्गाद्यास्त्रिगुणात्मिकाः ॥ [प.पु. ५.७०.११७] इति ।
तत्रैव च श्रीवृषभानुगेहे नारदकृतश्रीराधास्तुतौ—
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिस्तवेशितुः ॥
तवांशमात्रमित्येवं मनीषा मे प्रवर्तते ।
मायाविभूतयोऽचिन्त्यास्तन्मायार्भकमायिनः ॥
परेशस्य महाविष्णोस्ताः सर्वास्ते कलाकलाः ।
आनन्दरूपिणी शक्तिस्त्वमीश्वरि न संशयः ॥ [प.पु. ५.७१.५४६] इति ।
सर्वज्ञसूक्ते च—
ह्लादिनी सन्धिनी संवित्सच्चिदानन्द ईश्वरः ।
स्वाविद्यासंवृतो जीवः सङ्क्लेशनिकराकरः ॥
विष्णुपुराणे च—
ह्लादिनी सन्धिनी संवित्त्वय्येका गुणसंश्रये ।
ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ [वि.पु. १.९.४५] इति ।
पद्मपुराणे च वृन्दावनमाहात्म्ये मन्त्रव्याख्यायाम्—
बहिरङ्गैः प्रपञ्चस्य स्वांशैर्मायादिशक्तिभिः ।
अन्तरङ्गैस्तथा नित्यविभूतैस्तैश्चिदादिभिः ॥
गोपनादुच्यते गोपी राधिका कृष्णवल्लभा ।
देवी कृष्णमयी प्रोक्ता राधिका परदेवता ॥
सर्वलक्ष्मीस्वरूपा सा कृष्णाह्लादस्वरूपिणी ।
अतः सा प्रोच्यते विप्र ह्लादिनीति मनीषिभिः ॥ [प.पु. ५.८१.५१३] इति ।
इत्यादि पूर्वतापिन्यामन्ते द्रष्टव्यम् । अन्यच्च नारदीयब्रह्मवैवर्तादिषु पुराणेषु द्रष्टव्यम् । तथा च तादृशलीलानुभवाधिकारहीनानामेव तत्रान्यथाबुद्धिरित्यवधेयम् ।
यच्च भागवते कासांचिद्गोपीनामन्यपूर्वात्ववर्णनं तद्भगवत्प्रेमभक्तिमाहात्म्यख्यापनाय । एतादृशी भगवत्प्रेमभक्तिर्यथ्पातिव्रत्यसदृशासाधारणस्त्रीधर्मत्यक्तानामपि गोपीनां भगवदसाधारणप्रसादप्राप्तिरिति । अपि च भगवतः श्रीकृष्णस्य कर्मवश्यत्वाभावबोधायापि तथा वर्णनम् । यथा च बृहदारण्यके कौषीतक्युपनिषदि च श्रूयते—स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वरः इत्यादि । अपि च भगवतः सर्वाधिकप्रियत्वाकर्षकत्वादिबोधाय तथावर्णनम् । यथैवंविधः प्रेमास्पदो भगवान्यं दृष्ट्वा कुलवधूजना अपि लोकवेदमर्यादां समुल्लङ्घ्य तमभिजग्मुरित्यादिकमूहनीयम् ।
नेयं प्रवृत्तिर्मम खण्डनार्था
न मण्डनार्था किल वादिनां मतेः ।
स्वबुद्धिशोधाय मम प्रवृत्तिस्
तेन प्रसीदत्वखिलान्तरात्मा ॥ इति दिक॥ ॥२६॥
ओ)०(ओ
(२७)
एतावदुपदेशेन अस्माकं स्वामी श्रीकृष्ण एव य आदित्यवर्णं तमसः परस्तात्, अक्षरात्परतः परः, इत्य् अदि श्रुत्युक्तलक्षणः कार्यकारणातीततमःपरमात्मा नान्य इति गोपीभिरवधारितम् । यथा च वक्ष्यति (सिच्) साक्षात्प्रकृतिपरो योऽयमात्मा गोपालः इति । अथ तस्यैव परिशुद्धये पुनः प्रश्नाष्टकं पृच्छति—
सा होवाच गान्धर्वी—कथं वास्मासु जातोऽसौ गोपालः ? कथं वा ज्ञातोऽसौ त्वया मुने कृष्णः ? को वास्य मन्त्रः ? किं वास्य स्थानं ? कथं वा देवक्यां जातः ? को वास्य ज्यायान्रामो भवति ? कीदृशी पूजास्य गोपालस्य भवति ? साक्षात्प्रकृतिपरो योऽयमात्मा गोपालः कथं त्ववतीर्णो भूम्यां हि वै ? ॥
तत्रायमाशयः—यदि कृष्ण एव सर्वतो निरतिशयज्ञानानन्दमयोऽपहतपाप्मा सत्यकामः सत्यसङ्कल्पः परमात्मा तर्हि किमर्थमस्मासु जातः ? आप्तकामत्वेन प्रयोजनविरहात। अपहतपाप्मत्वेन कर्मबन्धनाभावाच्चेत्ययमेकः प्रश्नः । अथ विद्यादार्ढ्याय द्वितीयो गुरुपरम्पराप्रश्नः । तत्प्राप्तये उपासनार्थं तृतीयो मन्त्रप्रश्नः । पूजाशब्दोऽत्रोपासनापरः, तत्र द्रव्ययज्ञरूपपूजाया अप्यन्तर्भावात। तस्यां ध्यानादीनां वक्ष्यमाणानामनन्तर्भावाच्च । प्रकारान्तरेण तद्विज्ञानार्थमुपासनासौकार्यसिद्ध्य्यर्थं च चतुर्थः स्थानप्रश्नः । पञ्चमः कथं वा देवक्यां जन्म इति यद्यपि प्रथमप्रश्नगतार्थ इव भाति, तथापि न पुनरुक्तिः प्रथमप्रश्नस्य प्राकट्यपरत्वादितरस्य जन्मपरत्वादिति । मतान्तरे तु श्रीकृष्णस्य यशोदायां देवक्यां च द्विधा प्राकट्यनिरूपणात। तत्र मूलरूपेण यशोदायां व्यूहरूपेण देवक्यामि ति तदेव प्रश्नभेदक इत्याद्यपि बोध्यम् । षष्ठः सप्तमश्च नामविषयकपूजाविषयकौ च प्रश्नावप्युपासनार्थावेव । अष्टमः प्रश्नस्तु अवतारप्रयोजनविषयकः । तेषां प्रश्नानामुत्तराणि पश्चात्सङ्गृह्य दर्शयिष्यते मया । यान्युत्तराणि ब्रह्मनारायणसंवादेनोक्तानि । तत्र यद्यपीदमस्य प्रश्नस्योत्तरमिदमस्येत्येवंरूपेण स्फुटतया नोक्तानि, तथापि सर्वाण्येवोत्तराण्युक्तानि भवन्त्येव । तथा हि न भवतीनां कृष्णस्य च जीववत्पृथक्जन्म, अपि तु निजस्वरूपात्मिकाभिरनपायिनीभिर्भवतीभिः सहैव कृष्णो निजाप्राकृतेऽक्षरे धाम्नि नित्यलीलायते । इहापि तादृशस्वरूप एव भवतीभिः सह प्रकटीभूत इति । तदेतद्धामस्वरूपनिरूपणेन व्रजस्त्रीजनसम्भूतः [गो.ता.उ. *२.५६] इत्यादिना च सूचितम् । द्वितीयप्रश्नस्तु ब्रह्मणे ब्रह्मपुत्रेभ्यो नारदात्तु श्रुतं मया इत्यनेनोत्तरितः । तृतीयस्तु, क्लीमोंकारयोरेकत्वं वदन्ति ब्रह्मवादिनः [गो.ता.उ. *२.५८] इत्यनेनोत्तरितः । चतुर्थस्तु, तासां मध्ये साक्षाद्ब्रह्म गोपालपुरी [गो.ता.उ. २.३२] इत्यनेनैव ।
पञ्चमस्य नास्य देवक्यां जन्म उत्पत्तिलक्षणः, किन्तु प्रादुर्भाव एव भक्तपरितोषार्थं महाराजस्य प्रजागृहगमनादिवत्तदेतद्येन लोकास्तुष्टा भवन्ति इत्यादि प्रश्नवाक्येन सूचितम् । मातृपितरावनन्तर्भाव्य प्रादुर्भावमात्रेण तथाविधवात्सल्यरसपरिपोषासम्भवादिति । ब्रह्मकृष्णनारायणगोविन्दगोपालादि सर्व एव तस्य ज्यायान्नाम भवति, स्वार्थसङ्ग्राहकत्वात। ओंकारक्लींकारौ सर्वमुख्यौ तत्र सर्वनाम्नामन्तर्भावनमेव मुख्यमुपासनं तदों तत्सत्गोपालः सोऽहमस्मीति भावयेत्[गो.ता.उ. *२.४०] इत्यादिना वक्ष्यति । अवतारेषु इच्छैव हेतुः सृष्टाविव लोकवत्तु लीलाकैवल्यमिति ॥२७॥
ओ)०(ओ
(२८)
अथ तेषां सर्वेषां शब्दत उक्तानां भावसूचितानां च प्रश्नानामुत्तरं वक्तुं तादृशनिखिलप्रश्नोत्तरमयं पूर्वतापिन्यां ब्रह्मसदनं चरतो मे ध्यातः स्तुतः परमेश्वरो गोपवेशो मे पुरुषः पुरस्तादाविर्बभूव [गो.ता.उ. *१.२०] इत्यनेन सूत्रितमेवार्थं कार्यब्रह्मपरब्रह्म संवादात्मकं दुर्वासोमुखेन श्रुतिः स्वयमेव पठति—
स होवाच तां ह वै—
एको ह वै पूर्वं नारायणो देवः,
यस्मिन्लोका ओताश्च प्रोताश्च ॥२८॥
स दुर्वासा मुनिः ह निश्चयेन प्रश्नतत्त्वमुत्तरतत्त्वं चावधार्य आह इत्यर्थः । पूर्वं हीति—तस्मादव्यक्तादव्यक्तमेवाक्षरं तस्मादक्षरात्महत्तत्त्वं [गो.ता.उ. *२.५१] इति वक्ष्यमाणलक्षणाव्यक्तमहदादिसृष्टेः पूर्व एकः, विभक्तनामरूपात्मकद्वितीयरहितः ।
नारायणो देवः । नारायणाख्यः परमकारणभूतः परमात्मा श्रीलक्ष्मीपतिरेवासीत। वैशब्द एवकारार्थकः । आसीदिति क्रियाध्याहारः । एवकारार्थको वैशब्दः । तदानीमन्ययोगं व्यवच्छिनत्ति तेनाव्यक्तादिसृष्टेः पूर्वं श्रीलक्ष्मीपतिरेवासीन्नान्यत्किमपीत्युक्तं भवति । एवमेव निरूपितं महोपनिषदि—
तदाहुर्—एको ह वै नारायण आसीत। न ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यो न चन्द्रमाः । स एकाकी न रमते.. तस्मिन्चतुर्दश पुरुषा जायन्ते । एका कन्या । दशेन्द्रियाणि.. पञ्चदशी बुद्धिः । भूतानि पञ्च तन्मात्राणि पञ्च महाभूतानि । स एकः पञ्चविंशतिः पुरुषः । तत्पुरुषं पुरुषो निवेश्य नास्य प्रधानसंवत्सरा जायन्ते । संवत्सरादधिजायन्ते । इत्यादि ।
अत्र देशशब्दप्रयोगात्नारायणशब्दप्रयोगाच्च सुबालोपनिषत्प्रक्रियापि स्मारिता भवति । तत्रापि हि तृतीयपर्याये षष्ठखण्डे—नैवेह किंचनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते [सुबा. ३.६] इत्यंशेन छान्दोग्ये श्वेतकेतुविद्यायां— तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत । कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति । सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयं [छा.उ. ६.२.१२] इतिवत्परमतमनूद्य तद्विपरीतसमूलसाधारांस्थसम्मतां सृष्टिमाह—दिव्यो देव एको नारायणः इति । तत्रैव च प्रलयेऽपि सर्वमविभक्तनामरूपतया, चक्षुश्च द्रष्टव्यं च नारायणः इत्यादिनान्तर्भावयन्नाह—सर्वं नारायण ति । अत्र आसीदिति क्रियाशेषः । तेन तत्राप्येवमेव निरूपितमेतेन—सदेव सोम्येदमग्र आसीत्[छा.उ. ६.२.२] इति सच्छब्दोऽपि नारायणस्यैव पर्यायान्तरमिति न वाक्यभेदः ।
ननु सुबालमहोपनिषदादौ भवतु नारायणशब्दो मूलकारणपरः । इह तु तु तथा न सम्भवति—अग्रे सहोवाच तं हि वै पूर्वं ह्येकमेवाद्वितीयं ब्रह्मासीदिति मूलकारणस्य ब्रह्मणः पूर्वकालीनत्वेन स्वभिन्नत्वेन च निरूपणादिति चेत्, न । तमोऽक्षराव्यक्तमहद्भूतादितन्मात्राकाशादिपञ्चकसृष्ट्यन्तरं ब्रह्मोत्पत्तेरिति बहुकालव्यवधानात। ब्रह्मोपदेशकाले तेषां भूतत्वेनोक्तेः । अहमासामित्युक्त्वा ब्रह्मासीदित्युक्तिस्तु ब्रह्मादिशब्दप्राधान्येन निरूपकाणां कारणवाक्यानां, नारायणादिशब्दप्राधान्येन निरूपककारणवाक्यैः सहैकवाक्यताबोधायैव । अत एवाग्रे तत्रैव अक्षरोऽहमोंकारोऽहमित्यादिना सर्वस्य स्वात्मकत्वोपदेशः ।
न च तृतीयपुरुषावताराद्गर्भजलशायिनारायणाद्ब्रह्मण उत्पत्तिर्भवति, न तु मूलपुरुषात। तस्मादत्र ब्रह्मोत्पत्तिकथनान्नात्र नारायणो मूलरूपमिति वाच्यम् । प्राथमिकसृष्टौ मूलपुरुषादपि ब्रह्मोत्पत्तिरित्यग्रे व्यक्तीभविष्यति इति । यदि तदानीं नारायण एवासीत्, नान्यत्किमपि, तर्हि इदानीमुपलभ्यमानं जीवजडात्मकं जगत्किमासीत्नासीदिति चेत्, तर्हि असत्कार्यप्रसङ्गः । आसीदित्युच्यते तर्हि नारायण एव आसीन्नान्यदिति कथमिति तदानीन्तननारायणस्वरूपवर्णनेनैवोत्तरमाह—यस्मिल्लोका ओताः प्रोताश्च इति । यस्मिन्परमदेवे नारायणे लोका लोकपदोपलक्षितानि जीवजडात्मकानि जगन्ति । ओताः प्रोताश्च इति अत्रौतप्रोतशब्दौ सम्मील्य एकमेव परमलयाख्यमर्थं बोधयति । तदुक्तं सुबालोपनिषदि द्वितीयखण्डे—
पृथिव्यप्सु प्रलीयते, आपस्तेजसि प्रलीयन्ते, तेजो वायौ विलीयते, वायुराकाशे विलीयते, आकाशमिन्द्रियेषु, इन्द्रियाणि तन्मात्रेषु, तन्मात्राणि भूतादौ विलीयन्ते, भूतादिर्महति विलीयते, महानव्यक्ते विलीयते, अव्यकमक्षरे विलीयते, अक्षरे तमसि विलीयते, तमः परे देवे एकीभवति परस्तान्न सन्नासन्नासदसदित्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनमिति ।
अत्र स्फुटं सर्वेषां पृथिव्यादितमः पर्यन्तानां कार्याणां परे देवे नारायणे एकीभावेन स्थितिरुक्ता । तृतीयपर्यायेऽपि तत्रैव, दिव्यो देव एको नारायणश्चक्षुश्च द्रष्टव्यं च नारायणः इत्युपक्रम्य, सर्वं नारायणः इत्यनेनेदमेवोपसंहृतम् । तस्मात्सर्गप्राक्काले आदिनारायणात्मनैव सर्वेषां स्थितिः । तदेवोक्तं श्रुत्यन्तरे—आत्मैवेदमग्र आसित्पुरुषविधः, ब्रह्म वा इदमग्र आसीत्, सदेव सोम्येदमग्र आसीतित्यादि । एतेषु सर्वत्र इदंशब्देन सर्गकाले नामरूपाभ्यां विभक्तस्य जीवजडात्मकप्रपञ्चस्य परामर्शः । तस्य परमात्मरूपेण स्थितिश्च प्रतिपाद्यते । तस्मात्सर्गप्राक्काले आदिनारायणात्मनैव सर्वेषां कार्याणां स्थितिः, तत एव प्रादुर्भावश्चेति । यथोक्तं सुबाले—तदाहुः किं तदासीत्? तस्मै स होवाच न सन्नासन्न सदसदिति ।
ग्रन्थखण्डे सत्पदेन स्थूलकार्यस्य पृथिव्यादेरसत्पदेन सूक्ष्मकार्यस्याकाशादितमःपर्यन्तस्य सदसत्पदेनोभयमिलितस्य स्वातन्त्र्येण सत्त्वं प्रतिक्षिप्य तेभ्यो विलक्षणस्याग्रिमखण्डे लयवाक्ये उक्तस्य परदेवाख्यस्य्;आविभक्तनामरूपात्मकस्य चिदचिच्छक्तिकस्य परदेवस्य सत्त्वमाक्षिप्य, तत एव तस्मात्तमः सञ्जायते तमसोर्भूतादिर्भूतादेराकाशः इत्यादिना सर्वसृष्टिमाह ।
तत्र लयप्रकरणे द्वितीयखण्डेऽन्तर्यामिप्रकरणेऽष्टमखण्डे चोक्तानामक्सराव्यक्तमहदिन्द्रियतन्मात्राणां मध्ये प्रथमत्रयाणां तमसि, इन्द्रियतन्मात्राणां भूतादावन्तर्भावेन सृष्टिश्चिन्तनीया ।
एवमेव महोपनिषद्यपि—एको ह वै नारायण आसीतित्यादिनानुपपदोक्तप्रकारेण नारायणमात्रसत्त्वमुपपाद्य, तत एव स एकाकी नर एव तस्मिन्चतुर्दश पुरुषा जायन्ते, एका कन्या, दशेन्द्रियाणि, पञ्चदशी बुद्धिः, भूतानि पञ्च, तन्मात्राणि पञ्च, महाभूतानि स एकः पञ्चविंशतिः पुरुषः इत्यादिना सर्वसृष्टिमाह । इति सर्वेषां कार्याणां सर्गप्राक्काले नारायणात्मनैव स्थितेः, सर्गकाले तत एवाविर्भावाच्च, नासत्कार्यवादप्रसङ्गो न वा एकत्वश्रुतिविरोधः । इति ॥
नारायणशब्दस्तु पुरुषाकारस्य श्रीलक्ष्मीपतेरेव संज्ञा, पूर्वपदात्संज्ञायमगः इत्यनेन संज्ञायामेव णत्वविधानात। तस्य पुरुषाकारत्वं तु आथर्वणिकपाठानुसारिमहोपनिषदि, स एकाकी नर एव इत्यंशेन नराकारत्वसमर्पणादेवावगम्यते । तदुपपादितं पूर्वतापिन्यां सत्पुण्डरीकनयनस्य इत्यस्य व्याख्यान इति । तत एवावधेयम्—तेन न देवान्तरवादप्रसङ्गः । एतेन एको रुद्रो न द्वितीयाय तस्थुः, यदा तमस्तन्न द्विआ न रात्रिर्न सन्न चासच्छिव एव केवलः इत्यादि श्वेताश्वतरादिश्रुतयोऽपि व्याख्याताः ।
इदमत्र बोध्यम्—श्वेताश्वतरे हि किं कारणं ब्रह्म इत्यादिना ब्रह्मजिज्ञासामाक्षिप्य तदुत्तरत्वेन ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निर्गुणमित्यादिनोपक्रम्य, तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति इत्युपसंहारपर्यन्तवाक्येन परमकारणं विचारितम् । तत्रोपक्रमे शब्दानरापेक्षया देवशब्दस्यैव पर्मकारणनामधेयत्वेन बहुशोऽभ्यासः । तथापि तत्र तत्रावान्तरवाक्येषु कारणवाक्येष्वपि च रुद्रशिवादिशब्दानामप्यभ्यासो दृश्यते, तेन प्रतीयते यत्श्वेताश्वतरे देवादिशब्दो शिवाख्यदेवतापर एवेति । तस्मात्श्वेताश्वतरपर्यालोचनया पञ्चवक्त्रत्रिनेत्राकारदेवताविशेष एव सर्वकारणत्वपर्यवसानं स्यादिति । यद्यपि तत्राकारो न श्रूयते, तथापि शिवरुद्रादिशब्दानां तादृशदेवतायामेव बहुशः प्रयोगस्य लोकप्रसिद्धेरिति ।
सुबाले च परमकारणं प्रथमपर्याये परदेवशब्देनैवाभिहिअम्—तमः परे देवे एकीभवति, परस्तान्न सन्नासन्न सदसतिति तत्रैव सर्वलयश्रुतेः । तथापि तत्र परदेवशब्दः किं पर इत्याकाङ्क्षायां तृतीयपर्याये परदेवत्वेन कारणनिरूपकप्रथमखण्डवदेव नैवेह किञ्चनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते इति शून्यवादमाक्षिप्य, दिव्यो देव एक नारायणः इत्युक्तम् । तेन सुबाले देवशब्दो नारायणपर एव इति निर्णीतो भवति । श्वेताश्वतरे रुद्रादिशब्दानामिव सुबाले विष्ण्वादिशब्दानां तदाकारसमर्पकानामभ्यासः समान एव । नारायणशब्दस्तु लक्ष्मीपतिरेव स एव परमकारणमिति प्रतीयते । तत्र जिज्ञास्यः—कः परमकारणं पञ्चवक्त्रस्त्रिनेत्रो वा पुरुषाकारो विष्णुर्वा ? न चोभयमपि सङ्गतं वेदोक्तत्वात्—श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ इति मन्वाद्युक्तेः । उदिते जुहोति अनुदिते जुहोति इत्यादौ तथा दर्शनाच्चेति वाच्यम् । अनुष्ठेयस्य कर्मणः पुरुषतन्त्रत्वेन तत्र तथा सम्भवात। ब्रह्मणस्त्वखण्डत्वेनैकरसत्वेनैकत्वेन च तथा निर्णेतुमशक्यत्वात। ईश्वरद्वैतापत्तेश्च । एतेन कल्पभेदेन व्यवस्थेत्यपि निरस्तम् । न च ऋसिमतभेद इत्यपि शङ्क्यम् । अपौरुषेयवेदमूर्धन्यरूपाया उपनिषदृषितन्त्रत्वाभावात। तत्तच्छाखाद्रष्टृत्वं तत्र तत्तदृसित्वं दृष्टत्वमात्रेण पठितत्वमात्रेण वा । उपनिषदस्तत्तदृषीणामसम्पृक्तनामधेयत्वात। समग्रवेदस्यैवेश्वरेनिःश्वसितत्वेनैकग्रन्थत्वादेकवाक्यताया परमावश्यकत्वाच्चेति ॥
अथैकमेव परं ब्रह्म अनन्तप्रकाशम् । तच्चान्तरान्तराकल्पभेदेन विभिन्नरूपेण भासते इति क्वचित्कस्यचिदाकारस्योक्तिः, क्वचिच्च कस्यचिदिति न विरोध इति चेत्, युक्तं चैतत्कल्पनम् । यदि अन्यथा विप्रतिषेधः परिहरिणीयो न भवेत्, परिहरिणीयत्वे तु यथा सम्भवं परिहारे यतितव्यम् । अन्यथा असद्वा इदमग्र आसीत्, सदेव सोम्येदमग्र आसीत्, आन्न्दाद्ध्येव खल्विमानि भूतानि जायन्ते, आकाशाद्ध्येव खल्विमानि भूतानि जायन्ते इत्यादावपि तथैवासङ्गतिः । असत्त्वसत्त्वानन्दत्वाकाशत्वादीनामपि ब्रह्मप्रकाशविशेषत्वमेव स्यात्, तथा सति तेषामेकार्थसमर्पकत्वाय सप्ताकार्षात्, आकाशस्तल्लिङ्गातित्यादि सूत्रप्रणयनप्रयासो व्यासचरणानां व्यर्थ एव कथं न स्यात्? [१] तस्मात्स्वरूपतो विग्रहतो गुणतो धर्मतः प्रकाशतश्चैकार्थप्रतिपादकत्वचिन्तनमेव ज्याय इति ।
न च सत्त्वासत्त्वयोर्नितरां विरुद्धत्वाद्गत्यन्तरचिन्तनं परमावश्यकम् । त्रिनेत्रत्वद्विनेत्रत्वादिकं तु न नितरां विरुद्धमिति न गत्यन्तरचिन्तनमावश्यकमिति वाच्यम् । तथापि एककालावच्छेदेन त्रिनेत्रत्वद्विनेत्रत्वैकवक्त्रत्वानेकवक्रत्वादीनां प्रकाशानां समवायाभ्युपगमः । तदा सम्भवेत्यदा तादृशविभिन्नार्थप्रतिपादकतया प्रतीयमानानां वाक्यानामेकतरार्थनिर्धारकत्वं न सम्भवेत। सम्भवे त्वेकतरार्थनिर्धारकत्वे सच्चिन्तनमेव । प्राणस्तथानुगमात्[वे.सू. १.१.२८] इति प्राणाधिकरणवैश्वावराधिकरणन्यायेन ज्यायोऽन्यथा तत्तदधिकाराणामपि वैयर्थमापतेदेवेति ।
अत्रोच्यते—श्वेताश्वतरे यद्यपि शिवरुद्रादिशब्दानां देवताविशेषवाचकत्वेन प्रसिद्धानामभ्यासो दृश्यते, तथापि तेषामन्यार्थकत्वेनाप्यन्यत्र प्रसिद्धत्वात्देवताविशेषस्याकारसमर्पकवाक्यानां पदानां वा तत्र समभिव्याहाराभावाच्च, शिवादिपदानां तत्रैकान्ततो देवताविशेषसमर्पकत्वं निर्धारयितुं न शक्यत एव । पूर्वकाण्डे क्वचिदुत्तरकाण्डे चार्थान्तरवाचकत्वेन प्रसिद्धानामपि इन्द्रधातृवैश्वानराकाशादिशब्दानां वेदान्ते—इन्द्रो मायाभिः पुरुरूप ईयते धातुः प्रसादात्महिमानमीशम्, यस्त्वेतमेव प्रादेशमात्रमभिविमानं वैश्वानरमुपास्ते इत्यादौ देवताविशेषरूपप्रसिद्धार्थपरित्यागेन स्पष्टवाक्यान्तराविरुद्धान्यार्थकल्पनस्य दृष्टत्वात।
तथा च सुबाले उपक्रमे सर्वादिसृष्टेः पूर्वं—तदाहुः किं तदासीतिति शिष्यप्रश्ने, तस्मै स होवाच न सन्नासन्न सदसतित्यंशेन सत्पदेन व्याकृतमसत्पदेनाव्याकृतं सदसत्पदाभ्यां ताभ्यां सम्मिलितं च सर्वं तत्त्वं प्रतिषिद्ध्य तत्सर्वविलक्षणपरमदेवसत्त्वमाक्षिप्य, ततः तस्मात्तमः संजायते तमसो भूतादिः इत्यादिना सर्वसदसत्पदार्थसृष्टिं वक्ति । तत्र सहस्रशीर्षविराडाख्यप्रजापतिसृष्टिमुक्त्वा प्रथमोत्पन्नस्य सहस्रशिरसः पुंसः सकाशात्ललाटात्क्रोधजो रुद्रः इति रुद्रसृष्टिमपि वक्ति ।
पुनश्च लयनिरूपणे पृथिव्यादिमहदन्तानामव्यक्ते तस्याक्षरे तस्य तमसि, तमसश्च तमः परे देवे एकीभवति इत्यंशेन परदेवे एकीभावमुक्त्वा परदेवादप्यूर्ध्वकक्षा स्यादिति शङ्कानिरासाय परस्मान्न सन्नासन्न सदसतित्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनमित्यंशेन तत्रैव सर्वकक्षाविश्रान्तिः, नातः परं तत्वान्तरमित्यवधारयति । तत्रैव सर्वमोक्षशास्त्रपरिसमाप्तिः सर्ववेदपरिसमाप्तिश्च दर्शयति । तेनेदं सिद्धं यत्र तम एकीभवति स एव परदेवः स्वसमानाभ्यधिकशून्यं परमकाष्ठापन्नं तत्त्वं परमकारणं च नातः परं किमपि इति ।
द्वितीयपर्याये चतुर्थखण्डेऽपि तमेव परमदेवमसद्वा इदमग्र आसीतित्यसच्छब्देन परिगृह्य, अजातमभूतप्रतिष्ठितमशब्दमरसमित्यादिना सर्वप्राकृतधर्मराहित्यनिरूपणेन परिशोधयति । तज्ज्ञानेनैव च—न तस्य प्राणा उत्क्रामति अत्रैव समलीयन्ते, ब्रह्मैव्सन्ब्रह्माय्येति इति परममोक्षं वक्ति । परं त्वेतावतापि न परदेवो ब्रह्मा शिवो विष्णुरन्या वा कश्चिदिति न निर्णीतो भवति इति तृतीयपर्याये षष्ठखण्डे प्रथमखण्डवदेव, नैवेह किञ्चनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते इति शून्यवादमाक्षिप्याथ तदानीं किमासीदित्याकाङ्क्षायां दिव्यो देव एको नारायणः इति पूर्वोक्तस्वसिद्धानमनुवदति ।
तत्रैतावान्परं विशेषो यत्प्रथमपर्याये लयनिरूपणे परदेव इत्येतावन्मात्रं सर्वान्तिमतत्त्वस्य पर्यायशब्द उक्तः । अत्र तु तस्य नारायण इइ प्रसिद्धसमाख्यान्तरमपि दर्शितम् । तत्र दिव्यपदैकपदसमभिव्याहृतपदविशेषणेन नारायणस्यैव तादृशपरदेवत्वं नान्यस्येत्यपि निर्धारितम् ।
पुनश्च चक्षुश्च द्रष्टव्यं च नारायणः इत्यादिना सर्वस्य नारायणात्मकत्वं निरूपयन्ती, धाता विधाता कर्ता विकर्ता दिव्यो देव एको नारायणः इति श्रुतिर्वक्ति ।
पुनश्च आदित्यरुद्रा इत्यादिना सर्वस्य नारायणात्मकत्वं वदन्ती, ऊर्ध्वं च दिशश्च्सर्वं नारायणः इति पुनः पुनः सोपपत्तिकाभ्यासेन नारायण एव सर्वमूलं स एवाद्वितीयो दिव्यः परो देव इति निर्धारयन्ती तदेव पुरुष एवेदं सर्वम्, तद्विष्णोः परमं पदमिति तस्य पुरुस्षादिविष्णुवादिसमाख्यान्तरघटितेन मन्त्रद्वयेन दृढीकुर्वन्ती पुरुषसूक्तविष्णुसूक्तादिभिः सहैकवाक्यत्वं च दर्शयन्ती प्रथमपर्यायवदेव, तदेतन्निर्वानानुशासनमिति वेदानुशासनमिति वेदानुशासनमिति सर्वेषां वेदातिरिक्तानां मोक्षशास्त्राणां समग्रवेदानां च तस्मिन्नर्थे सम्मतिं दर्शयन्ती विद्यां समुपसंहरति श्रुतिः ।
अपि च तदग्रिमे खण्डे—अन्तः शरीरे निहितो गृहायामज एको नित्यो यस्य पृथिवी शरीरं, यः पृथिवीमन्तरे सञ्चरन्, यं पृथिवीं न वेद इत्यादिना पृथिव्यप्तेजोवाय्वाकाशमनोबुद्ध्यहङ्कारचित्ताव्यक्ताक्षरतमः पर्यन्तानामन्तर्यामिणं निरूपयन्ती, स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः इति नारायणस्यैव प्रथमकार्यतमःपर्यन्तनियामकत्वं सर्वभूतान्तरात्मत्वमपहतपाप्मत्वं दिव्यत्वं तादृशैकदेवत्वं च निरूप्य, एतां विद्यामपान्तरतमाया इत्यादिना विद्यामुपसंहरन्ती,अन्ते इति निर्वानानुशासनमिति वेदानुशासनमिति वेदानुशासनमित्येवं निगमयति ।
तस्मान्निर्विचिकित्सरूपेण विष्णुपुरुसनारायणपदवाच्यदेव एव तमःपरं मूलकारणं परमदेवो नान्यः । तत्रैव सर्ववेदपरिसमाप्तिरिति सुबालेन निर्धारितं भवति । तेन श्वेताश्वतरेऽपि देवात्मशक्तिं स्वगुणैर्निगूढाम्, तदा देवमविज्ञाय दुःखस्यान्तो गमिष्यति, एको देवः सर्वभूतेषु गूढः इत्यादौ उपक्रमौपसंहारे मध्ये मध्ये च परिपठितो देवशब्दो नारायणपर एव । सुबाले, दिव्यो देव एक नारायणः इत्यत्र कारणवाक्येइत्यादिनान्तर्यामिवाक्ये च परदेवत्वस्य नारायण एव इदमित्थतया सोपपन्ननिर्णयदर्शनात। सर्वोपनिषत्सुपठितकारणवाक्यानामेकपर्यवसायित्वस्य परमावश्यकत्वाच्चेति । एवं च प्रायपठितानां रुद्रशिवादिशब्दानामपि न देवताविशेषसमर्पकत्वमेव, इन्द्रो मायामिः, धातुः प्रसादातित्यादिश्रुताविन्द्रधात्रादिशब्दवदिति निश्चयो युक्तः प्रतिभाति ।
न च सुबालपठितनारायणशब्द एव प्रसिद्धरुद्रदेवतार्थपरोऽस्त्विति वाच्यम् । श्वेताश्वतरेऽपि दर्शितोपक्रमे उपसंहारे देवशब्दवाच्यत्वेनैवोपक्रम उपसंहारश्च श्रूयेते । न रुद्रशिवादिशब्दवाच्यत्वेअन। तेन तत्र प्रधानतया देवशब्दवाच्यत्वेनैव परमतत्त्वनिरूपणं कृतं, न शिवरुद्रादिशब्दवाच्यत्वेनेति निश्चीयते । सुबाले तु दर्शितदिशा सोपक्रमं सोपसंहारं च तमःपर्यन्तकारणत्वेन तमःपर्यन्तनियामकत्वेन च विद्यासमाप्तिपर्यन्तं, दिव्यो देव एक नारायणः इति निर्णीयते । तत्रैव सर्ववेदसंमतिं च दर्शयति, इति वेदानुशासनमिति ।
तेन तत्त्वग्राहिदृष्ट्या विचार्यमाणे यथा सुबाल श्रुतेर्नारायणैककारणत्वसमर्पकत्वं, न तथा श्वेताश्वतरस्य शिवैकसमर्पकत्वमिति निश्चीयते इति । देवशब्दस्तु, दिव्यो देव एको नारायणः इत्येकत्वश्रुतिबलात्नारायण एव स्वार्थं समर्पयति । कैवल्योपनिषच्छङ्का तु गोपवेशमभ्राभमित्यस्यैव विमर्शे निरस्ता ।
किं च, रुद्रशिवादिशब्दानां केवलयौगिकत्वेनापि निर्वाहः सम्भवति , न तथा नारायणशब्दस्य । नारायणशब्दे पूर्वपदात्संज्ञायामेव णत्वविधानात। संज्ञात्वानङ्गीकारे णत्वाभावप्रसक्तेः । सा संज्ञा तु श्रीलक्ष्मीपतेरेवेत्यत्र न विप्रतिपत्तिरिति व्यवस्थापितमेव पूर्वाचार्यैः । तस्मादपि केवलयोगबलेन नारायणशब्दात्शिवादिकं ग्रहीतुं न शक्यते ।
अन्यच्च नारायणार्थशिरसि—पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजयेति । नारायणाद्ब्रह्मा जायते, नारायणाद्रुद्रो जायते इत्यादिना सर्वसृष्टिं निरूप्य, नित्यो नारायणो ब्रह्मा नारायणः शिवश्च नारायणः इत्यादिना शिवस्यापि नारायणात्मकत्वमुक्त्वा ब्रह्मशक्रकालदिग्विदिगूर्ध्वाधोऽन्तर्बहिर्भूतभवद्भव्यानां सर्वेषां नारायणापृथक्सिद्धत्वलक्षणं नारायणात्मकत्वं निरूप्य निष्कलङ्को निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणो न द्वितीयोऽस्ति कश्चित।इत्यनेन स्वशब्देनैव श्रुतिः श्रीलक्ष्मीभर्तुरतिरिक्ते तादृशसर्वातिशायिदेवत्वं प्रतिषेधयति ।
नात्र नारायणशब्दोऽन्यपर इति शङ्कामुद्भावयितुमपि शक्यते । अग्रे ओं नमो नारायणायेति मन्त्रोपासको वैकुण्ठभवनं गमिष्यति इति । ब्रह्मण्यो देवकीपुत्रो ब्रह्मन्यो मधुसूदनः इति चांशाभ्यां मन्त्रोपासनदेवकीपुत्रत्वाभ्यां स्पष्टलिङ्गाभ्यां नारायणशब्दस्य श्रीलक्ष्मीपतिपरत्वनिर्णयात। एतेन सुबालस्थोऽपि दिव्यो देव एको नारायणः इति शब्दः स्पष्टं लक्ष्मीपतिपरत्वेन व्याख्यातः । लक्ष्मीपतिभिन्ने तादृशसुद्धदेवत्वस्य, शुद्धो द्व एको नारायणः, न द्वितीयोऽस्ति कश्चितिति स्पष्टवाक्येन निराकरणात। तेनैव च श्वेताश्वतरादिपठितोऽपि देवशब्दो नितरां व्याख्यातः ।
अन्यच्च महोपनिषदि—तदाहुरेको ह वै नारायण आसीन्न ब्रह्मा नेशानः इत्यंशेन सर्गप्राक्काले नारायणमात्रस्य सत्त्वम् । तदितरस्य चासत्त्वमुपपाद्य पश्चान्महदादिसृष्टिमुक्त्वा, तत्पश्चाच्छिवस्यापि, तस्य ललाटात्त्र्यक्षः शूलपाणिः पुरुषो जायते बिभ्रच्छ्रियं यशः सत्यं ब्रह्मचर्यं तपो वैराग्यं मनाइश्वर्यं सप्रणवा व्याहतयो ऋक्यजुःसामाथर्वाङ्गिरसस्तान्यङ्गे समाश्रितानि । तस्मादीशानो महादेवो महादेवः इति सर्गात्प्रागसत्त्वं पश्चाच्च नारायणादेव तदुत्पत्तिं श्रुतिर्वक्ति । तच्च शिवस्य नारायणापेक्षयापि मूलकारणत्वे भज्यते । नात्रापि नारायणशब्दः शिवपर इत्याभासयितुं शक्यते । स्फुटं शिवस्योत्पत्तिनिरूपणात्पूर्वमसत्त्वप्रतिपादनाच्चेति ।
एको रुद्रो न द्वितीयाय तस्थुः, न सन्न चासच्छिव एव केवलः इत्यादि यच्छ्रूयते श्वेताश्वतरे, तत्र न कापि रुद्रशब्दवाच्यात्शिवशब्दवाच्याद्वा नारायणस्योत्पत्तः श्रूयते, न वा तदानीं नारायणस्यासत्त्वं वा श्रूयते, यत्रुद्रशिवादिशब्दानां नारायणातिरिक्तार्थसमर्पकत्वे बीजं स्यात। नारायणकारणवादे तु स्पष्टमेव शिवोत्पत्तिः श्रूयत इति निरूपितमेव । यच्च श्वेताश्वतरे रुद्रशिवादिशब्दानां तादृशार्थबोधकत्वे बीजाभावेऽपि अथर्वशिरोवाक्यबलेन तथा निर्णेतुं शक्यते, तत्र स्फुटं शिवदेवतानिरूपणादिति । तदपि निर्बलमेव । तत्रापि रुद्रान् नारायणस्योत्पत्तेरनुक्तत्वात।
किं चाथर्वशिरोवाक्यानि द्विधा विभज्यते । रुद्रवाक्यत्वेन स्तुतिवाक्यत्वेन च । ततः सोऽब्रवीदहमेकः प्रथममासमित्यारभ्य समाप्तिं यावत्स्तुतिवाक्यानि । एअं च रुरकृतस्वमहिमवर्णनस्य कौषीतक्युपनिषदि इन्द्रकृतस्वमहिमवर्णनस्येव, शास्त्रदृष्ट्या तूपदेशो वामदेववतित्युक्तन्यायानुसारेण इन्द्रवामदेववत्शास्त्रदृष्ट्यापि सम्भवात।
स्तुतिवाक्यानां च—नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि इति । तैत्तिरीयोक्तरीत्या, ब्रह्मदृष्टिरुत्कर्षातिति न्यायेन गुरुस्तुतिवच्चान्यथापि सम्भवादेकान्ततः परमतत्त्वनिर्णायकत्वाभावेन पूर्वोक्तसिद्धान्तसङ्कोचकत्वाभावात। अत एव च नृसिंहतापिन्यां—अथर्वशिरःशिखाध्यापकशतमेकेन मैत्रराजाध्यापकेन इति । अथर्वशिरसः साक्षान्मूलरूपपरत्वे तु नैवं सम्भवति । नृसिंहविद्याया अवतारपरत्वेनाथर्वविद्याया साक्षान्मूलरूपपरत्वे एवं कथनायोगात। कैवल्योपनिषद्विरोधस्तु पूर्वतापिन्यां सत्पुण्डरीकनयनमित्यस्य व्याख्यायां परिष्कृतमेवेति ।
अन्यच्च श्वेताश्वतरे शिवादिदेवतापरत्वाभ्युपगम यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः इति श्रुतिवचः, तमो वा इदमेकमास, तत्पश्चात्तत्परेणेरितं विषमत्वं प्रयाति इति मैत्रेयिणीश्रुतिवदवान्तरप्रलयविषयकमेव । मैत्रेयिणीश्रुतौ तमःपरयोरिव तमःसद्भावेन सहैव शिवसद्भावनिरूपणात्, यदा तमः इत्युक्तेः ।
सुबालवाक्यं तु आत्यन्तिकप्रलयविषयकम् । नैवेह किञ्चनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते दिव्यो देव एको नारायणः इत्यत्र तु तमःकारनत्वप्रतिपादनाद्विष्णोरेव सर्वादिकारणत्वम् । तदानीं नारायणातिरिक्तवस्तुमात्रप्रतिषेधात्प्रथमपर्यायेऽपि, तदाहुः किं तदासीत्तस्मै स होवाच न सन्नासन्न सदसतिति तस्मात्तमः संज्ञायते तमसो भूतादिः इति तमसोऽपि परे देवे नारायणे नामरूपविभागानरामकैकीभावनिरूपणाच्च । तथा च शिवदेवताया अवान्तरप्रलये विद्यमानत्वप्रतिपादनेऽप्यात्यन्तिकलये सर्वादिसृष्टौ च तत्सत्त्वप्रतिपादनाभावान्नारायणस्य तु तदानीमपि सद्भावप्रतिपादनात्तमसोऽपि कारणत्वस्य लयाधिकरणत्वस्य च नारायण एव प्रतिपादनाच्च्स एव परमं कारणमिति निविचिकित्सनिर्णयः ।
वस्तुतस्तु शिवादिशब्दस्य तत्र नारायणपरत्वमेवेत्युपपादितम् । अन्यच्च नारायणशब्दसमभिव्याहृतकारणवाक्येषु सुबालनारायणाथर्वमहोपनिषदादिवाक्येषु सर्वत्र ललाटात्क्रोधजो रुद्रो जायते, नारायणाद्रुद्रो जायते, तस्य ललाटात्त्र्यक्षः शूलपाणिः पुरुषो जायते, तस्मादीशानो महादेवो महादेवः इत्यादिना नारायणाद्रुद्रोत्पत्तिः श्रूयते । न तु कापि रुद्रान्नारायणोत्पत्तिः । तेनापि नारायण एव मूलकारणम् ।
अन्यच्च पुरुषसूक्तोत्तरनारायणप्रतिपाद्यः पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः इति श्रुत्युक्तलक्षणः । तमः परः सर्वान्तिमत्त्वभूतः स्वदर्शनमात्रेण परमामृतत्वप्रदः परमपुरुष एव ।
वेदाहमेतं पुरुषं महान्तं
आदित्यवर्णं तमसः परस्तात।
तमेव विदित्वातिमृत्युमेति
नान्यः पन्था विद्यतेऽयनाय ॥ इति तत्रैवोक्तेः ।
तस्य परमपुरुषस्य श्रीश्च ते लक्ष्मीश्च पत्न्यौ इत्यसाधारणं विष्णुलक्ष्मोपदिष्टमिमि विष्णुरेव । श्रियो लक्ष्म्याश्च विष्ण्वेकपत्नीत्वस्यैव निश्चयात्,
नित्यैव सा जगन्माता विष्णोः श्रीरनपायिनी ।
यथा सर्गगता विष्णुस्तथैव द्विजोत्तम ॥ [वि.पु.] इति विष्णुपुराणे पराशरोक्तेः ।
महालक्ष्मीं च विद्महे विष्णुपत्नीं च धीमहि इति श्रीसूक्तशेषे ऋक्संहितायां लक्ष्मीगायत्र्युक्तेः, श्रीसूक्तव्याख्याभूते सौभाग्यलक्ष्म्युपनिषदि, श्रीर्लक्ष्मी वरदा विष्णुपत्नी इति तस्या नामकथनात्, तस्या अन्यपत्नीत्वापादनस्या वैदिकत्वात्सदाचारविरुद्धत्वात्, तथैव सर्वदेशीयशिष्टाचाराच्च, श्रीश्च ते लक्ष्मीश्पत्न्यौ इति युग्मकथनं तु, तस्याः द्विभुजचतुर्भुजरूपादिभेदद्वयाभिप्रायेणेति न कापि क्षतिः । एवं च सुबाले श्वेताश्वतरेऽपि च पुरुषसूक्तमन्त्राणां बहूनां पाठात्तेऽपि उपनिषदा पुरुषसूक्तोपपादनपरे । एवेति तत्र नारायण एव प्रतिपाद्यः । पुरुषसूक्तस्य सम्पूर्णविचारस्तु श्रीभगवत्तत्त्वसुधानिधौ कृतो मयेत्युपरम्यते तत्रेति ॥
अन्यच्च तैत्तिरीये महानारायणोपनिषदि नारायणसूक्ते—
सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् ।
विश्वं नारायणं देवमक्षरं परमं प्रभुम् ॥१॥
विश्वतः परमं नित्यं विश्वं नारायणं हरिम् ।
विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ॥२॥
पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् ।
नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥३॥
नारायणः परं ब्रह्म तत्त्वं नारायणः परः ।
नारायणः परो ज्योतिरात्मा नारयणः परः ॥४॥
नारायणः परो ध्याता ध्यानं नारायणः परः ।
यच्च किञ्चिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥ [म.ना.उ. १३.१५]
इति सर्वं नारायणात्मकमेव न ततो व्यतिरिक्तं किमपीत्युक्त्वा । तस्य क्व स्थितः कथं वा भावनीय इति, अनन्तमव्ययमित्यादिना निरूप्य, तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः [म.ना.उ. १३.१२] इति तस्यैव पुनः परमात्मत्वमुक्त्वा, स ब्रह्मा शिवः सेन्द्रः सोऽक्षरः परमः स्वराट्[म.ना.उ. १३.१२] इत्यनेन ब्रह्मशिवादीनां नारायणस्यैव विभूतित्वमाह—तेनापि नारायण एव परमतत्त्वमन्ये तद्विभूतय एवेति निर्विचिकित्सं निर्धारितं भवति ॥
किं च नारायणं शिवमच्युतमिति मध्य उक्तेः । अच्युतादिशब्दवत। शिवशब्दोऽपि मुख्यवृत्त्या नारायणस्यैव वाचकान्तरमिति निश्चीयते । उपलक्षणं चिअतत्रुद्रादिशब्दानां, तेन श्वेताश्वतएऽपि रुद्रशिवादिशब्दानां नारायणपरत्वमेव, इत्यपि कल्पयितुं शक्यते ।
नारायणोपनिषदि रुद्रगायत्र्यादिपाठस्तु सूर्यगरुडगायत्र्यादिपाठवत्—तत्प्रतिपाद्यस्यादिनिरूपणवत। यः परः स महेश्वरः, रुद्रो महर्षिः,
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहितम् ॥ [म.ना.उ. १३.१]
इत्यादि वाक्यान्यपि मुख्यवृत्त्या योगेन च नारायणपराण्येव । तेषां नारायणानुवाक्शषत्वात। अत एव नृसिंहपूर्वतापिनीभाष्ये तत्र पठितानां—
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहितम् ॥
उमापतिः पशुपतिः पिनाकी ह्यमितद्युतिः । ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् । ब्रह्माधिपति ब्राह्मनोऽधिपतिः । इति ।
स्पष्टलिङ्गानामपि वाक्यानां नृसिंहपरत्वेनैव श्रीमदाद्याशङ्कराचार्यैरपि व्याख्यानं कृतं, न तु शिवपरत्वेनेति तत्र द्रष्टव्यम् ।
अन्यच्च गोपालतापिन्यां कः परमो देवः इति प्रश्नमुपक्रम्य, कृष्णो वै परमं दैवतम्, तस्मात्कृष्ण एव परमो देवः, एको देवः सर्वभूतेषु गूढः इत्यन्तेन उपक्रमोपसंहाराभ्यां विविधोपपत्तियुक्तैश्चाभ्यासैः श्रीकृष्णस्यैव परमदेवत्वं साध्यते । अन्ते च, एको देवः सर्वभूतेषु गूढ इति श्वेताश्वतरमन्त्रसमानानुपूर्वीकमन्त्रपाठेनैव परमोपसंहारः क्रियते । नैतादृग्रूपेणोपक्रमादिभिरुपसंहारान्तैर्वाक्यैः क्वाप्युपनिषदि कस्मिन्नपि देवे परमदेवत्वं निरूप्यते । तेनापि श्वेताश्वतरतात्पर्यमत्रैवावधार्यते इति ज्ञायते । यच्च नितान्ताप्रसिद्धे शरभोपनिषदि नृसिंहापकऋसवर्णनं, ततादिशङ्करविद्यारण्यभाष्यसुरेश्वरवार्तिकादिभूषितत्वेन परमप्रसिद्धनृसिंहतापिनीविरुद्धत्वादुपक्षणीयमेवेति ।
अन्यच्च । आत्मैवेदमग्र आसीति पुरुषविधः [बृ.आ.उ. १.४], स एकाकी नर एव [महा.उ.] इत्यादि कारणवाक्येषु पुरुषविधमेव मूलकारणं श्रूयते । पुरुषविधश्च पुरुषाकार एव, न तु पञ्चवक्त्रस्त्रिनेत्रः । तस्य सर्वथा पुरुषविधशब्दसूचितसादृश्यप्रतियोगिलौकिकपुरुषसदृश्यत्वाभावात। तस्मादपि सत्पुण्डरीकनयनमित्यादि पूर्वतापिन्युक्तलक्षणरूप एव मूलकारणमित्युपपादितं भवति । तत्रैव उमासहायं परमेश्वरं प्रभुं त्रिलोचनमित्यादि कैवल्यश्रुतिरपि चिन्तितेति न पुनस्तन्यते इति । भगवतः शिवस्यापि द्विभुजद्विनेत्रत्वादेरेव मुख्यतया स्वीकारे तत्सिद्धान्तभङ्गः नाममात्रभेदश्चेति सर्वथा मत्सिद्धान्तपरिग्रहादिति सङ्क्षेपतो बोध्यम् ।
एतेनैव शाक्तवादोऽपि निरस्तः । सर्वत्र वेदान्ते पुरुषत्वेनैव परमतत्त्वनिरूपणात। पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः इति श्रुतेः । शक्तयस्तु पुरुषशेषत्वेनैव निरूप्यन्ते ।
न तस्य कार्यं करणं च विद्यते
न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते
स्वाभाविकी ज्ञानबलक्रिया च ॥ [श्वे.उ. ६.८] इति श्रुतेः ।
यच्च, एको ह वै नारायण आसीतित्यादि कारणवाक्ये नारायणादिशब्दो मायोपहितचैतन्यपरो न तु पुरुषाकारचैतन्यपर इति तत्तुच्छम् । तदग्रे तत्रैवार्थणिकपाठे शङ्करानन्दादिभिर्व्याख्याते—स एकाकी नर एव इति स्पष्टमेव नराकारसमर्पकश्रुतेः । सामपाठेऽपि तस्य ध्यानान्तस्थस्य ललाटात्त्र्यक्षः शूलपाणिः पुरुषो जायते इति पुरुषाकारसमर्पकललाटश्रुतेश्च पुरुषाकारत्वनिश्चयात। बृहदारण्यकेऽपि ब्रह्मविद्योपक्रमे—आत्मैवेदमग्र आसीत्पुरुषविधः इति पुरुषविधत्वबोधनात। अन्यार्थकल्पनस्य प्रौढिमात्रत्वात। अशरीरमित्यादिश्रुतिविरोधस्य सत्पुण्डरीकनयनमित्यस्य व्याख्याने पूर्वतापिन्यां युग्मतत्त्वसमीक्षायां च समुपपादितत्वाच्चेति । तस्मात्सङ्घातात्मकशरीरनिषेध एव पर्यवसानं तद्वाक्यस्येति ध्येयम् ॥
ओ)०(ओ
(२९३०)
तस्य हृत्पद्माज्जातोऽब्जयोनिस्
तपित्वा तस्मै हि वरं ददौ ॥२९॥
स कामप्रश्नमेव वव्रे । तं हास्मै ददौ ॥३०॥
अथ प्रकृतप्रसङ्गः—तस्येति (२९) । तस्य निरुक्तलक्षणस्य नारायणस्य नराणां जीवानां चिच्छक्तिरूपाणां समूहो नारम्, तस्यायनभूतस्य श्रीलक्ष्मीपतेः कृष्णस्य । हृत्पद्मात्हृत्पद्मपदेनेह इच्छाशक्तिरुच्यते भगवतीक्षणशक्तिर्वा सत्यसङ्कल्पात्मिका । ततः तमोऽक्षराव्यक्तमहदहङ्कारतन्मात्राकाशादिपर्यन्तसमुत्पत्त्यनन्तरं जातोऽब्जयोनिहिरण्यगर्भ इत्यर्थः । अत्र हृत्पद्माद्जातोऽब्जयोनिः इत्युक्त्वा प्रकृतप्रसङ्गे ब्रह्मणा मानसाख्यं प्रथमं जन्म विवक्षित । स्वान्तं हृन्मानसं मनाः इत्यादि कोशात्तयोरेकपर्यायकत्वात। पठ्यते च महाभारते नारायणीये ब्रह्मणो मानसं जन्म—
यदासीन्मानसं जन्म नारायणमुखोद्गतम् ।
ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् ॥ [म.भा. १२.३६०.१३] इति ।
तथा चात्रादिकल्पविषयकसंवादे श्रुतेस्तात्पर्यमित्यवधेयम् । तपयित्वेति तपः कारयित्वेत्यर्थः । तमिति शेषः । तस्मै इति ब्रह्मणे इत्यर्थः ॥२९३०॥
ओ)०(ओ
(३१)
स होवाचाब्जयोनिः—
योऽवताराणां मध्ये श्रेष्ठोऽवतारः को भवति,
येन लोकास्तुष्टा देवास्तुष्टा भवन्ति,
यं स्मृत्वा मुक्ता अस्मात्संसाराद्भवन्ति ?
कथं वास्यावतारस्य ब्रह्मता भवति ?
स होवाचेति । अवताराणां मध्ये इति व्यूहवैभवपुरुषावतारगुणावतारलीलावताराणां मध्ये इत्यर्थः । वासुदेवसङ्कर्षणप्रद्युमानिरुद्धाश्चत्वारः पूर्वपूर्वमुत्कृष्टा व्यूहाः । केशवनारायणमाधवाद्या ऊर्ध्वपुण्ड्रविधायकमन्त्रप्रतिपाद्या द्वादश वैभवाः । कारणोदकशायिगर्भोदशायिक्षीरोदशायिरूपास्त्रयः पुरुषावताराः पूर्वपूर्वश्रेष्ठाः । ब्रह्मविष्णुशिवा रजसत्त्वतमोगुणनियामका गुणावताराः । मत्स्यादयो भागवतप्रथमस्कन्धोक्ता लीलावताराः । तेषु आवेशरूपा अंशरूपाः कलारूपाः पूर्णरूपाः पूर्णतररूपाः पूर्णतमरूपाश्च । तदेतद्वेदान्तरत्नमञ्जुषादौ द्रष्टव्यम् ।
एकश्च पूर्णतमातिरिक्तसर्वेषामवताराणामवतारी मूलपुरुषमधिकृत्यैव ब्रह्मसंहितायां पञ्चमाध्याये—
दीपार्चिरेव हि दशान्तरमभ्युपेत्य
दीपायते विवृतहेतुसमानधर्मा ।
यस्तादृगेव हि च विष्णुतया विभाति
गोविन्दमादिपुरुषं तमहं भजामि ॥ [ब्र.सं. ५.४६]
इति गोविन्दसमकक्षत्वेन निरूपितम् । श्रीराधोपनिषदि च—कृष्णो वै हरिः परमो देवः षड्विधैश्वर्यपरिपूर्णो भगवान्गोपीगोपसेव्यो वृन्दाराधितो वृन्दावनाधिनाथः । तस्य द्वे तनूर्नारायणोऽखिलब्रह्माण्डाधिपतिरेकोऽंशः इत्याद्युक्तम् । तदेतद्युग्मतत्त्वसमीक्षायां निरूपितं मयेति ।
तदेतेषां “अवताराणां मध्ये श्रेष्ठः” पूर्णतमोऽवतारः “को भवति” इति, “येन लोकास्तुष्टा भवन्ति” इति च, “यं स्मृत्वा अस्मात्संसाराद्मुक्ता भवन्ति” इति चेति । एतेन सर्वाधिकतया यत्र प्राकृतानामप्राकृतानां च सर्वेषां मनः प्रीतिं गच्छति यतश्च सर्वेषां मुक्तिरेव भवति, न तु प्राकृतभाववत्त्वेऽपि कदाचिदपि बन्धनं भवति, यथान्यत्र । तथा च, यर कामक्रोधवात्सल्यबान्धवविशुद्धप्रेमादिभावैः, प्राकृतरूपैरप्राकृतरूपैश्च प्रकटीभूतैः परममुक्तिरेव भवति, तमवतारं पूर्णतमं वद इत्यर्थः । “कथं वास्यावतारस्य ब्रह्मता भवति ?” इति अस्य मया जिज्ञासितस्य त्वया वक्ष्यमाणलक्षणस्य च सर्वावतारश्रेष्ठस्य ब्रह्मता पूर्णब्रह्मता भवतीति प्रश्नार्थः ।
अयं भावः—यदि स अवतार इत्युच्यते तर्हि तस्य पूर्णब्रह्मत्वं न सम्भवति । अवतारो हि जन्मविशेषः । अज्ञातप्रदेशान्तराज्ज्ञातप्रदेशान्तरे आगमनं वा । तदुभयमपि पूर्णब्रह्मत्वविरुद्धम् । तस्यापहतपाप्मत्वेन जन्मासम्भवाद्, दिक्कालाद्यनवच्छिन्नत्वेन प्रदेशान्तरात्प्रदेशान्तरे गमनासम्भवाच्चेत्यादि प्रश्नबीजम् । इदमुपलक्षणमुत्तरवाक्येनानुमीयमानानां प्रश्नान्तराणामपि । एतेषामुत्तरं तु ब्रह्मपरमात्मगोविन्दगोपालनारायणपुरुषोत्तमादिपदवाच्यः श्रीकृष्ण एव सर्वेषामवतारो सन्नपि पूर्णतमावतारः । स्वयं सर्वावतारी सन्नपि यदा स्वरूपतः सर्वधर्मतश्च निजावरणशक्तिभूतां मायामुद्घाट्य प्रकटो भवति, तदा सामान्यतोऽवतार इत्युच्यते । सर्वावतारिणोऽवतारत्वं तु प्राकट्याभिप्रायमात्रेण, न तु जन्मना देशाद्देशान्तरागमनेन वा । जन्मादिप्रतीतिस्तु वात्सल्यादिसविशेषतोषार्थं तस्य निजेच्छाकृतं, न तु कर्मक्र्टं, तेन न पूर्णत्वब्रह्मत्वादिविरोधः । अन्येऽपि तस्यैवावतारविशेषा अंशकलादिरूपा इति । तदेतत्सर्वं चतुःशब्दो भवेदेकः [गो.ता.उ. २.४६], गोपालोऽहमजो नित्यः [गो.ता.उ. २.५५], पूर्वं ह्येकमेवाद्वयं ब्रह्मासीत्[गो.ता.उ. २.६०], एकमेवाद्वयं ब्रह्म मायया च चतुष्टयं [गो.ता.उ. २.५३], तस्मादोङ्कारसम्भूतो गोपालो विश्वसंस्थितः [गो.ता.उ. २.५७], गोपालाय निजस्वरूपाय [गो.ता.उ. २.९८], योऽसौ परं ब्रह्म गोपालः [गो.ता.उ. २.१०३], जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीतोऽन्तर्यामी गोपालः [गो.ता.उ. २.१०५], एको देवः सर्वभूतेषु गूढः [गो.ता.उ. २.१०६] इत्यादि ग्रन्थभागेन निरूपयिष्यते । तत्सर्वं समग्रग्रन्थपर्यालोचनया बोद्धव्यमिति ॥३१॥
ओ)०(ओ
(३२)
स होवाच तं हि नारायणो देवः—
सकाम्या मेरोः शृङ्गे यथा सप्तपूर्यो भवन्ति ।
तथा निष्काम्याः सकाम्याश्च भूगोलचक्रे सप्तपूर्यो भवन्ति ।
तासां मध्ये साक्षाद्ब्रह्म गोपालपुरीति ॥
स होवाचेति । मेरोः शृङ्गे सर्वोपरि परवैकुण्ठे । मेरुशृङ्गशब्दस्योपरिलोकोपलक्षकत्वान्नात्र स्वर्णाद्रिः । तत्र नव पूर्योक्तेरिति तत्त्वप्रकाशकाराः । साक्षाद्ब्रह्म गोपालपुरीति । ब्रह्मत्वं नांअ स्वभावतो विनिर्मुक्ताशेषदोषत्वे सति स्वरूपतो गुणतो धर्मादितश्च स्वतः परिपूर्णत्वं सच्चिदानन्दरूपत्वं च, एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसङ्कल्पः सर्वकामः सर्वगन्धः [छा.उ. ८.१.५], सत्यं ज्ञानमनन्तं ब्रह्म, विज्ञानमानन्दं ब्रह्म इत्यादिश्रुतिभ्यः ।
तथा चानित्यत्वापरिच्छेदादिदोषासंस्पृष्टस्वभावत्वात्स्वरूपतो गुणधर्मादिभिश्च परिपूर्णस्वभावत्वात्सच्चिदानन्दरूपत्वाच्च तदपि ब्रह्मेत्यर्थः । भगवत्परमधाम्नस्तथात्वं च निरूपितं पूर्वतापिन्यां—एतद्धि विष्णोः परमं पदं ये [गो.ता.उ. १.२०], तद्विष्णोः परमं पदं [गो.ता.उ. १.२८], ततो विशुद्धं विमलं विशोकम्
[गो.ता.उ. १.३२] इत्यादिना ।
एवमेव पञ्चरात्रे जितंतेस्तोत्रे—
लोकं वैकुण्ठनामानं दिव्यषाड्गुण्यसंयुतम् ।
अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥
नित्यसिद्धैः समाकीर्णम् ॥ इत्यादिनेति ।
अत्रापि स्फुटं तद्धाम्नः सकार्यगुणत्रयरहितत्वं षाद्गुण्यपरिपूर्णत्वमुक्तम् । स्कान्देऽपि भागवतमाहात्म्ये पर्कीक्षिद्वज्रनाभौ प्रति शाण्डिल्यः—
शृणुतं दत्तचित्तौ मे रहस्यं व्रजभूमिजम् ।
व्रजनं व्याप्तिरित्युक्त्वा व्यापनाद्व्रज उच्यते ॥
गुणातीतं परं ब्रह्म व्यापकं व्रज उच्यते ।
तस्मिन्नन्दात्मजः कृष्णः सदानन्दाङ्गविग्रहः ॥
आत्मारामश्चाप्तकामः प्रेमाक्तैरनुभूयते ।
आत्मा तु राधिका तस्य तयैव रमणादसौ ।
आत्मारामतया विप्र प्रोच्यते गूढवेदिभिः ॥
कामास्तु वाक्षितास्तस्य गोपा गावश्च गोपिकाः ।
नित्याः सर्वे विहाराश्च आप्तकामस्ततस्त्वयम् ।
रहस्यं त्विदमेतस्य प्रकृतेः परमुच्यते ॥ इत्यादि ।
पाद्मेऽपि पातालखण्डे वृन्दावनमाहात्म्ये प्रथमाध्याये—
अदुःखं दुःखविच्छेदं जरामरणवर्जितम् ।
अक्रोधं गतमात्सर्यमभिन्नमनहङ्कृतम् ॥
पूर्णानन्दामृतरसं पूर्णप्रेमसुखार्णवम् ।
गुणातीतं महद्धाम पूर्णप्रेमस्वरूपकम् ॥ [प.पु. ५.६९.६६७]
इत्यादिना महता प्रपञ्चेन तथात्वं निरूपितम् । पुरुषार्थबोधिन्यामर्थर्वणोपनिषदि एकादशे प्रपाठके—
दिव्यं वृन्दावनं नाम शेषाङ्गस्थं च सर्वदा ।
ब्रह्मरूपमिदं स्थानं सच्चिदानन्दरूपकम् ॥
इत्यादिना ब्रह्मरूपत्वं सच्चिदानन्दरूपत्वं च निरूपितम् । न च भगवतो भगवद्धाम्नोश्चोभयोर्ब्रह्मत्वे ब्रह्मद्वैतापत्तेस्तदयुक्ततमम्—एकमेवाद्वितीयं ब्रह्म इति श्रुतेरिति वाच्यम् । भगवद्धाम्ना भगवत एव निजस्वाभाविकस्वात्मकचिच्छक्तिविलासरूपत्वेन तस्यापि भगवदपृथक्सिद्धत्वेन भगवदात्मकत्वेन च ब्रह्मरूपत्वेऽपि ब्रह्मद्वैतानापादकक्त्वात। अत एवोक्तं पूर्वतापिन्यां—
यत्तत्पदं पञ्चपदं तदेव
स वासुदेवो न यतोऽन्यदस्ति ॥ [गो.ता.उ. १.३२] इति ।
स्वात्मकचिच्छक्तिविलासरूपत्वं चोक्तं राधोपनिषदि—सन्धिनी तु धामभूषणशय्यासनादिमित्रभृत्यादिरूपेण परिणता इत्यादिनेति । तस्मादुपपन्नतमं—साक्षाद्ब्रह्म गोपालपूरी इति । विशेषस्तु पूर्वतापिनीविवरणे युग्मतत्त्वसमीक्षायामन्येषु च वैष्णवनिबन्धेषु द्रष्टव्यम् ।
एतेन पूर्वतापिन्यामेतद्धि विष्णोः परमं पदं ये [गो.ता.उ. १.२०], तद्विष्णोः परमं पदं [गो.ता.उ. १.२८] इत्यादिना निरूपितं, प्रकृतिकालातीतं त्रिपादविभूत्याख्यं परमं धामैव प्राकृतमण्डलेऽप्यंशतः प्रकाशते । तत्र प्राकृतत्वप्रतीतिस्तु मायिकी इत्यपि सूचितम् । तदुक्तं कृष्णोपनिषदि—गोकुलं वनवैकुण्ठमिति ।
पाद्मे च वृन्दावनमाहात्म्ये उपक्रमे—
सात्वतां स्थानमूर्धन्यं विष्णोरत्यन्तदुर्लभम् ।
नित्यं वृन्दावनं नाम ब्रह्माण्डोपरिसंस्थितम् ॥
पूर्णब्रह्म सुखैश्वर्यं नित्यमानन्दमव्ययम् ।
वैकुण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि ॥
गोलोकैश्वर्यं यत्किञ्चिद्गोकुले तत्प्रतिष्ठितम् ।
वैकुण्ठवैभवं यद्वै द्वारिकायां प्रतिष्ठितम् ॥
यद्ब्रह्म परमैश्वर्यं नित्यं वृन्दावनाश्रयम् ।
कृष्णधाम परं तेषां वनमध्ये विशेषतः ॥ [प.पु. ५.६९.८११]
इत्यादिनेति । हरिवंशेऽपि गोवर्धनपूजाप्रसङ्गे शक्रोक्तौ—
स्वर्गादूर्ध्वं ब्रह्मलोको ब्रह्मर्षिगणसेवितः ।
तत्र सोमगतिश्चैव ज्योतिषां च महात्मनाम् ॥
तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि ।
स हि सर्वगतः कृष्ण महाकाशगतो महान॥
उपर्युपरि तत्रापि गतिस्तव तपोमयी ।
यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ॥ [ह.वं. २.१९.२९३१]
इत्यनेन तत्र वृन्दावनाद्युत्कृष्टगुह्यस्थानादिसङ्केतं कृत्वा तस्य देवादीनामपि दुर्ज्ञेयत्वं निरूपयन्,
ब्राह्मे तपसि युक्तानां ब्रह्मलोकः परा गतिः ।
गवामेव तु यो लोको दुरारोहो हि सा गतिः ॥ [ह.वं. २.१९.३४] इति ।
इति ब्रह्मवादिनां ब्रह्मलोकप्राप्तिः । गोलोके तु तेषामपि सर्वेषां दुरारोहा गतिः । इति कथनेन तद्गतेर्भगवत्कृपैकलभ्यत्वं सूचयन्, स्वकृतविविधोपद्रवयुक्तस्य भूमिगोकुलस्यापि पूर्वनिरूपितगोलोकत्वमतिदेशेन वक्ति ।
स तु लोकस्त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघन्तोप्दद्रवान्गवाम् ॥ [ह.वं. २.१९.३५] इति ।
इत्यनेन तेनापि प्रकृतिपारवर्तिगोलोकभूमिगोलोकयोरेकत्वकथनेन स एव प्रकृतिपरो लोकः प्रपञ्चेऽपि प्रकाशते तत्र भौतिकतबुद्धिस्तु जीवाज्ञानकृतमित्येव सिद्ध्यति ।
एवं चावतारकालीनभगवल्लोकस्यापि साक्षाद्ब्रह्म गोपालपुरी इति स्फुटं ब्रह्मत्वकथनेन तत्र परकटीभूतस्य भगवतः प्रकटीभावमात्रेणावतारभूतस्य ब्रह्मत्वमर्थत एव सिद्ध्यति । तेनावतारस्य कथं ब्रह्मता इत्यप्यर्थत एव समाहितमिति बोध्यं विस्तरतस्त्वग्रे वक्ष्यते ॥३२॥
ओ)०(ओ
(३३)
सकाम्या निष्काम्या देवानां सर्वेषां भूतानां भवति ॥३३॥
सकाम्या निष्काम्या इति त्रिवर्गफलदा मोक्षदा चेत्यर्थः ॥३३॥
ओ)०(ओ
(३४)
ननु यदि गोपालपुरी साक्षाद्ब्रह्मैव, तर्हि तस्याः प्रकृतिविकृतिभूतभूम्यात्मना कथं स्थितिरित्याह—
यथा हि वै सरसि पद्मं तिष्ठति,
तथा भूम्यां तिष्ठतीति चक्रेण रक्षिता हि वै
मथुरा, तस्माद्गोपालपुरी भवति ॥३४॥
तथा च न तस्याः प्रकृतिविकृतिभूम्यात्मना स्थितिः, अपि तु तत्र तत्र प्रतिभासमानत्वमात्रं, जीवहृदये जीवस्येव भगवत इव वा । भूम्यात्मकत्वप्रतीतिस्तु मायिकीत्युक्तम् ॥३४॥
ओ)०(ओ
(३५)
बृहद्बृहद्वनं मधोर्मधुवनं तालस्तालवनं काम्यं काम्यवनं बहुला बहुलावनं कुमुदं कुमुदवनं खदिरः खदिरवनं भद्रो भद्रवनं भाण्डीर इति भाण्डीरवनं श्रीवनं लोहवनं वृन्दाया वृन्दावनमेतैरावृता पुरी भवति ॥३५॥
बृहद्बृहद्वनमिति बृहत्त्वाद्गोविन्दप्राकट्यस्थानं गोकुलं बृहद्वनमित्युच्यते इत्यर्थः । मधोरिति मधुवृक्षप्राधान्यात्द्वितीयं मधुवनमिति । ताल इति वनं तालप्रधानमित्यर्थः । एवमन्यत्रापीति ।
एतैरावृता पुरी भवतीति । आवृता आसमन्ताद्वृता वेष्टिता वर्तुलाकारेण युक्तेत्यर्थः । पुरी भवतीति मथुरामण्डले भवतीत्यर्थः । तत्र वृन्दावनं सर्ववनश्रेष्ठं कमलाकारस्य व्रजमण्डलस्य कर्णिकास्थानीयं परितो यमुनावेष्टितं मध्ये भवति । शेषवनानि तु दलस्थानीयानि वृन्दावनस्य परितो भवन्ति । एतेषु पञ्चवनानि यमुनायाः पूर्वमेव सन्ति, सप्त पश्चिमे भवन्ति । एतेषु सहस्रश उपवनानि भवन्ति मुञ्जवनादीनि । गिरिराजस्तु दक्षिणे दले वर्तते इति । तैः सर्वैर्वनैरावृतं मथुरामण्डलं भवति । लोकदृष्ट्या विंशतियोजनात्मकम् । तदेतत्पाद्मवृन्दावनमाहात्म्यात्पुरुषार्थबोधिन्यथर्वणोपनिष्तश्च ज्ञातव्यम् । विवेचितं मयाप्यंशतो युग्मतत्त्वसमीक्षायामितीहोपरम्यत इति ॥३५॥
(३६)
तत्र देवादीनामाधिदैविकशक्तीनामग्रे रुद्रेषु रौद्री इत्य् अदिना निरूपयिष्यमाणानां स्थितिमाह—
तत्र तेष्वेव गहनेष्वेवं देवा मनुष्या गन्धर्वा
नागाः किन्नरा गायन्तीति नृत्यन्तीति ॥३६॥
ओ)०(ओ
(३७)
आधिभौतिकतया लोकगोचरेषु तेष्वेव वनेषु तासामेव तत्तदेवावतारिणीनां शक्तीनां प्रतिमारूपेणापि स्थितिमाह—
तत्र द्वादशादित्या एकादश रुद्रा अष्टौ वसवः सप्तमुनयो ब्रह्मा नारदश्च पञ्च विनायका वीरेश्वरो रुद्रेश्वरो अम्बिकेश्वरो गणेश्वरो नीलकण्ठेश्वरो विश्वेश्वरो गोपालेश्वरो भद्रेश्वर आद्यानि लिङ्गानि चतुर्विंशतिर्भवन्ति ॥३७॥
ओ)०(ओ
(३८)
सामान्यतो वनद्वैविध्यमाह—
द्वे वने स्तः कृष्णवनं भद्रवनम् ।
तयोरन्तर्द्वादशवनानि पुण्यानि पुण्यतमानि ।
तेष्वेव देवास्तिष्ठन्ति सिद्धाः सिद्धिं प्राप्ताः ।
कर्णिकास्थानीयं कृष्णवनम् । तस्य वर्तुलाकारस्य परितो दलस्थानीयं भद्रवनमित्यर्थः । तयोरेव सर्वेषां वनानां सामान्यतोऽन्तर्भाव इत्याह—तयोरन्तर्द्वादश वनानीति । देवास्तिष्थन्तीति । आधिदैविका देवा भगवच्छक्तिभूताः प्राप;य्चिकानामादित्यादिदेवानामवतारिणो वक्ष्यमाणा इत्युक्तम् । सिद्धा इति । नित्यमुक्ता इत्यर्थः । सिद्धिं प्राप्ता इति भगत्प्रदत्तैश्वर्यं प्राप्ता इत्यर्थः ॥३८॥
ओ)०(ओ
(३९)
पूर्वतापिन्यां पञ्चाङ्गं जपन्[गो.ता.उ. १.१२] इत्यत्र निरूपितेषु परब्रह्मणः श्रीकृष्णस्य पञ्चाङ्गेषु व्यूहवैभवादिषु व्यूहानां वासुदेवादीनां तत्र सत्त्वमाह—
तत्र हि रामस्य राममूर्तिः प्रद्युम्नस्य प्रद्युम्नमूर्तिरनिरुद्धस्यानिरुद्धमूर्तिः कृष्णस्य कृष्णमूर्तिः ।
एष क्रमः प्रणवाक्षरानुसारी रोहिणीतनयो राम अकाराक्षरसम्भवः [गोईता.उ. २.५४] इति वक्ष्यमाणदिशा बोध्यम् । अत्र कृष्णपदं वासुदेवव्यूहपरं, न तु सत्पुण्डरीकनयनमिति सर्वेश्वरगोपालकृष्णमिति चोक्तमूलरूपपरम् । रामस्य राममूर्तिरिति व्यूहप्रायपाठात। न च वासुदेव एव मूलरूपमित्याशङ्क्यम् । पूर्वतापिन्यां पीठप्रस्तावे अङ्गवासुदेवादि इत्यंशेन वासुदेवव्यूहस्य अङ्गमिति विशेषणेन मूलरूपाङ्गत्वकथनात। मूलरूपकृष्णस्थानात्कर्णिकातो बहिर्द्वितीयावरणे स्थितिकथनाच्च । अत एवाग्रे स्तुतिमन्त्रे—ओं ठां कृष्णाय देवकीनन्दनाय इत्यनेनोक्ताद्वासुदेवव्यूहात्भिन्नस्यैव गोपालविग्रहस्य—गोपालाय निजस्वरूपाय [गो.ता.उ. २.९८] इत्यत्र निजरूपवमुक्तमत एव च तुरीय तुरीयातीतोऽन्तर्यामी गोपालः इत्यत्र, अर्धमात्रात्मकः कृष्णः इत्युक्तदिशा तुरीयात्मकाद्वासुदेवव्यूहादतीतत्वेन मूलरूपं निरूपितमिति तत्रैव विशदीकरिष्ये ।
एतेषां व्यूहानां स्थानं तु मूलकृष्णस्थानात्कर्णिकातो बहिः द्वितीयावरणे पश्चिमादिक्रमेण बोध्यम् । तदेतत्स्फुटमुपपादितं पुरुषार्थबोधिन्यामर्थर्वणोपनिषदि पाद्मे वृन्दावनमाहात्म्ये बृहद्ब्रह्मसंहितासनत्कुमारसंहितादावित्युक्तमेव पूर्वतापिनीयव्याख्यायामिति । तेनापि वासुदेवव्यूहस्य मूलरूपांशत्वमेव सिद्ध्यति न तु मूलरूपत्वमिति । वासुदेवो वा इदमत्र आसीतित्यादिश्रुतौ भारतादौ स्थलविशेषे वासुदेवशब्दो मूलरूपवाचक एव, न तु व्यूहवाचक इति न विरोध इति । किञ् च त्रिव्यूहादिपक्षे मूलरूपमेव वासुदेवः । तेन तत्र त्रयो व्यूहाः, चतुर्थो वासुदेवा मूलरूप एव । व्यूहानां कल्पभेदेन प्रकारभेदो महाभारते नारायणीये स्फुटमुक्तम्—
एकव्यूह विभागो वा क्वचिद्द्विव्यूह संज्ञितः ।
त्रिव्यूहश्चापि संख्यातश्चतुर्व्यूहश्च दृश्यते ॥ [म.भा. १२.३३६.५३] इति ।
प्रकृते तु चतुर्व्यूहपक्ष एव मुख्यः, तत्रैवोक्तोपासनकल्पसमन्वयादिति बोध्यम् ॥३९॥
ओ)०(ओ
== ३१ ==
एवं व्यूहस्थितिं व्युत्पाद्य केशवादिर्वैभवस्थितिमाह—
वनेष्वेवं मथुरास्वेवं द्वादशमूर्तयो भवन्ति ।
एकां हि रुद्रा यजन्ति । द्वितीयां हि ब्रह्मा यजति । तृतीयां ब्रह्मजा यजन्ति । चतुर्थीं मरुतो यजन्ति । पञ्चमीं विनायका यजन्ति । षष्ठीं वसवो यजन्ति । सप्तमीं ऋषयो यजन्ति । अष्टमीं गन्धर्वा यजन्ति । नवमीमप्सरसो यजन्ति । दशमी वै ह्यन्तर्धाने तिष्ठति । एकादशमेति स्वपदं गता । द्वादशमेति भूम्यां हि तिष्ठति ॥३१॥
वनेषु तु पूर्वोक्ता एव । अथ मथुरासु यानि भवन्ति तान्याह—द्वादश मूर्तयो भवन्तीति । केशवादयो द्वादश वैभवाः । ऊर्ध्वपुण्ड्रदेवतारूपाः । केशवनारायणमाधवगोविन्दविष्णुमधुसूदनत्रिविक्रमवामनश्रीधरहृषीकेशपद्मनाभदामोदरा इति तेषां नामानि भवन्ति । एतानि नामानि मूलरूपेऽपि प्रयुज्यत इति न सर्वत्र तत्तच्छब्देन वैभवभ्रमः कर्तव्य इति । एतेषां पत्न्यस्तु श्रियोऽंशभूताः कीर्तिकान्तितुष्टिपुष्टिधृतिशान्तिक्रियादयामेधाहर्षाश्रद्धालज्जाख्याः क्रमशो बोध्याः । वासुदेवादीनां तु रुक्मिणीरेवतीरत्युषा इत्येताः पत्न्यः श्रियो व्यूहभूताः । तासामेव नामान्तराणि लक्ष्मीसरस्वतीरतिप्रीतय इत्येवमप्याख्यायन्ते । एते एव च केशवादिन्यासमन्त्रेण न्यस्यन्ते इति । एतेषामुपासकान्देवानाह—एकां रुद्रा यजन्तीत्यादि । एत एव देवा अग्रे आद्या अव्यक्ता द्वादश मूर्तयो भवन्ति इत्यादिना प्रापञ्चिकदेवानामावेशावतारिशक्तित्वेन निरूपयिष्यन्ते । द्वादशी भूम्यां तिष्ठति इत्युक्तमूर्तेर्याजकानां प्रसङ्गतः फलमाह—तोये यजन्ति इति । ता इति पाठः प्रतिभाति । तथा च ता निरुक्तवासुदेवादिकेशवादिव्यूहवैभवमूर्तीरित्यर्थः ॥४१॥
ओ)०(ओ
(४२)
वस्तुतस्तु वृत्तं व्यूहवैभवरूपाद्यं गतिरूपणम् । गुणावतारपुरुषावताराणां प्राकृतमण्डलगोचरत्वात्प्रकृतिपरे धाम्नि तेषां तत्तद्रूपेण स्थित्यभावान्न स्थितिनिरूपणमपेक्षते । अतः स्थूलध्यानगोचरत्वेन अष्टदिक्पालैर्भूमिपद्मं विकसितं भवति इत्यादिना एकरूपेणैव त्रीण्यपि पुरुषरूपाणि निरूपयिष्यन्ते । लीलावताराणां मत्स्यादीनां तु विश्वरूपं परं ज्योतिरित्यत्र मूलनिरूपण एव दिग्मात्रेण निरूपणं करिष्यते । विलासावतारस्यापि अग्रे मूलरूपेण एव चतुर्भुजं शङ्खचक्रशार्ङ्गपद्मगदान्वितमित्यादिना निरूपणं करिष्यते । ततः परमेतेषां सर्वेषामंशिभूतं मूलरूपमेव निरूपयितुं प्रक्रमते—
तां हि ये यजन्ति ते मृत्युं तरन्ति मुक्तिं लभन्ते ।
गर्भजन्मजरामरणतापत्रयात्मकं दुःखं तरन्ति ॥
तथा च तामिति तच्छब्देन न केवलं पूर्वपरामर्शकोऽपिप्तु प्रसिद्धपरामर्शकः । परमप्रसिद्धस्तु मुख्यनिरूपणीयत्वेन मूलमूर्तिरेव, न तु वासुदेवादिव्यूहमूर्तयः । तासां मूलरूपशेषत्वेनैवात्र निरूपणीयत्वात। एवं च तां निरुक्तानां व्यूहवैभवादीनां वक्ष्यमाणां च लीलावतारादिमूर्तीनामत एव मूलभूतां मूर्तिं किं तद्रूपं, सत्पुण्डरीकनयनं तमेकं गोविन्दं सच्चिदानन्दविग्रहमित्यादिना पूर्वतापिन्यां निरूपितम् । « ये यजन्ति ते मृत्युं तरन्ति » इति सम्बन्धः । तस्य सर्वमूलरूपत्वं तद्यजनस्य मोक्षसाधनत्वं च समुपपादयितुं मन्त्रानेव पठितुं प्रतिजानाति तत्रेति पूरीतामित्यादि ॥४२॥
ओ)०(ओ
(४३४४)
तदप्येते श्लोकाः ॥४३॥
सम्प्राप्य मथुरां रम्यां सदा ब्रह्मादिसेविताम् ।
शङ्खचक्रगदाशार्ङ्गरक्षितां मुसलादिभिः ॥४४॥
तां साक्षाद्ब्रह्म गोपालपुरीति निरूपितलक्षणां, सदा ब्रह्मादिसेवितामिति, रुद्रा यजन्ति ब्रह्मा यजति इत्यादि प्रकारेणेत्यर्थः । शङ्खचक्रेत्यादि । एतेषां स्थितिः व्यूहादिहस्तेषु आवरणेषु च पीठभावनानुसारेण बोध्येति । अत्र सम्प्राप्यमथुरां रम्यामित्यपि पाठः, तथापि न विशेषतो भेदः ॥४३४४॥
(४५)
यत्रासौ संस्थितः कृष्णः स्त्रीभिः शक्त्या समाहितः ।
रामानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥४५॥
यत्रासौ इति । यत्रेति साक्षाद्ब्रह्मरूपे माथुरमण्डलाख्ये प्रकृतिं परे धाम्नि भूमाववतीर्णम् । असौ इति निखिलवेदप्रसिद्धः क्षराक्षरातीतः पुरुषोत्तमः कृष्णः । संस्थितः इति सम्यक्कालानवच्छिन्नतया निरतिशयपरिपूर्णतया च स्थित इत्यर्थः । कथम्भूतः ? इत्याह—स्त्रीभिः शक्त्या समाहित इति । स्त्रियोऽत्र ललिताविशाखाद्याः परमश्रियो राधाया अन्तरङ्गसख्यः । शक्त्येति शक्तिः सर्वशक्तिसमष्टिभूता परमश्रीः श्रीराधा । स्त्रीभिरित्यत्र सहार्थे तृतीया । साहित्यं च स्त्रीपदार्थानां शक्तिपदार्थस्य, न तु स्त्रीपदार्थस्य शक्तिपदार्थस्य च स्वातन्त्र्येण कृष्णेन । समुच्चायकचकाराभावात। तेन स्त्रीभिर्ललितादिभिरन्तरङ्गसखीभिः सहितया शक्त्या शक्तिसमष्टिरूपया परमश्रिया राधया समाहितः कृष्ण इत्यन्वयबोधः । तेन सखीनामपि श्रीद्वारैव कृष्णसम्बन्धो, न तु साक्षात। साक्षात्तु तस्या एव इत्युक्तं भवति । तदेतद्विशदीकृतं पुरुषार्थबोधिन्यामथर्वनोपनिषदि सप्तमखण्डे—
गोकुलाख्ये मथुरामण्डले वृन्दावनमध्ये सहस्रदलपद्ममध्ये कल्पतरोर्मूले अष्टदलकेशरे गोविन्दोऽपि श्यामः पीताम्बरो द्विभुजो मयूरपिच्छशिरो वेणुवेत्रहस्तो निर्गुणः सगुणो निराकारः साकारो निरीहः सचेष्टो विराजते इति ।
द्वे पार्श्वे चन्द्रावली राधा चेति यस्यांशेन लक्ष्मीदुर्गाविजयादिशक्तिरिति । सम्मुखे ललिता, वायव्ये श्यामला, उत्तरे श्रीमति, ऐशन्यां हरिप्रिया, पूर्वे विशाखा इत्यादिनेति ।
नवमेऽपि प्रपाठके भगवत्स्वरूपमुपवर्ण्य—तस्याद्या प्रकृती राधिका नित्या निर्गुणा सर्वालङ्कारशोभिता इति । एवमेव पाद्मेऽपि वृन्दावनमाहात्म्ये
राधया सह गोविन्दं स्वर्णसिंहासने स्थितम् ।
पूर्वोक्तरूपलावण्यं दिव्यभूषाम्बरस्रजम् ॥
त्रिभङ्गीमञ्जुसुस्निग्धं गोपीलोचनतारकम् ।
तद्बाह्ये योगपीठे च स्वर्णसिंहासनावृते ॥
प्रत्यङ्गरभसावेशाः प्रधानाः कृष्णवल्लभाः ।
ललिताद्याः प्रकृत्यंशा मूलप्रकृती राधिका ॥
संमुखे ललिता देवी श्यामला वायुकोणके । [प.पु. ५.७०.२५] इत्यादिनेति ।
एवमेव बृहद्ब्रह्मसंहितायां द्वितीयेऽध्याये—
यथा मधुरिमा नीरे स्पर्शने मारुते यथा ।
गन्धः पृथिव्यामनद्ये राधिकेयं तथा हरौ ॥
इत्यत्र कर्णिकायां राधाकृष्णस्वरूपमुक्त्वा, दलेषु ललिताद्याश्च शक्तयोऽष्टौ प्रकीर्तिता इत्यादिना पद्मपुराणवदेव निरूपितम् । एवमेवानन्तसंहितादौ द्रष्टव्यम् । श्रीदेव्याः सर्वशक्तिसमष्टिरूपत्वमपि तत्र तत्रोक्तं यथा पाद्मे वृन्डवनमाहात्म्ये—
तत्प्रिया प्रकृतिस्त्वाद्या राधिका कृष्णवल्लभा ।
तत्कलाकोटिकोट्यंशा दुर्गाद्यास्त्रिगुणात्मिकाः ॥ [प.पु. ५.६९.११७] इति ।
तत्रैव वृषभानुगेहं गतेन नारदेन—
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिस्तवेशितुः ।
तवांशमात्रमित्येवं मनीषा मे प्रवर्तते ।
मायाविभूतयोऽचिन्त्यास्तन्मायार्भकमायिनः ॥
परेशस्य महाविष्णोस्ताः सर्वास्ते कलाकलाः ।
आनन्दरूपिणी शक्तिस्त्वमीश्वरि न संशयः ॥ [५.७०.५४६] इति निरूपितम् ।
अधिकं तु पुरुषार्थबोधिन्यां श्रीकृष्णं ध्यायन्त इत्यस्य व्याख्याने युग्मतत्त्वसमीक्षायां च मया निरूपितम् ।
कर्णिकाबाह्ये द्वितीयावरणे परितो व्यूहसाहित्यमाह—रामानिरुद्धे इत्यादि । रामः सङ्कर्षणः अकाराक्षरसम्भूतो विश्वात्मकः, अनिरुद्धः प्राज्ञात्मको मकाराक्षरसम्भूतः प्रद्युम्नस्तैजसात्मक उकाराक्षरसम्भूतः । रोहिणीतनयो रामः इति वक्ष्यमाणाद्बोद्धव्यम् ।
रुक्मिण्या सहितः इति । एतेन वासुदेवव्यूहसाहित्यमुक्तं रुक्मिनीवासुदेवयोर्नित्यसहचरितत्वेन रुक्मिणीपदेन तत्सहितवासुदेवव्यूहसाहित्यसूचने तात्पर्यात। रुक्मिणीपदं सत्यभामाजाम्बवत्यादीनामप्युपलक्षणम् । तथा सङ्कर्षणादीनां रेवत्यादिसाहित्यस्याप्युपलक्षणम् । रुक्मिण्या सहितस्य वासुदेवस्य श्रीकृष्णेनाभेदोक्तिस्तु वासुदेवव्यूहस्य मूलर्पुपेणाधिकसम्भिन्नत्वबोधनाय अवतारलीलायां मूलरूपस्य वासुदेवव्यूहस्य च सङ्कर्षणादिवत्पार्थक्याननुभावाच्चेति बोध्यम् । तदेतत्सर्वं स्फुटीकृतं पुरुषार्थबोधिन्यामाथर्वणोपनिषदि एकादशे प्रपाठके—नानाक्रीडारसं तत्र कृष्णं च परिचिन्तयेतिति कर्णिकायां ससखीराधया सह मूलरूपभावनमुक्त्वा, तस्य परितः श्रीदामादिसखिनां भावनमुक्त्वा ततः परं द्वितीयावरणे, तद्बाह्ये स्वर्णप्राचारे कोटिसूर्यसमुज्ज्वले इत्यादिना तत्स्थानं निरूप्य,
तत्रोपरि परानन्दं वासुदेवं जगद्गुरुम् ।
त्रिगुणातीतचिद्रूपं सर्वकारणकारणम् ॥
चतुर्भुजं महज्ज्योतिर्ज्योतीरूपं सनातनम् ।
शङ्खचक्रगदापद्मधारिणं वनमालिनम् ॥
रुक्मिणी सत्यभामा च नाग्निजिती सुलक्षणा ।
मित्रविन्दा सुनन्दा च तथा जाम्बवती प्रिया ॥
सुशीला चाष्टमहिषी वासुदेवो वृतस्ततः ।
उद्धवाद्या पारिषदा वृतास्तद्भक्तितत्पराः ॥
इत्यादिना परितो व्यूहचतुष्टयसाहित्यमुक्तम् । तथैव पाद्मेऽपि वृन्दावनमाहात्म्ये बृहद्ब्रह्मसंहितायां च द्वितीयाध्याये सपरिकरं श्रीराधासहितं गोविन्दस्वरूपं कर्णिकायामुक्त्वा पुरुषार्थप्रबोधिनीवदेव—तद्बाह्ये स्वर्णप्राचीरे इत्यादिना तत्स्थानमुपर्ण्य तत्रोपरि परानन्दं वासुदेवं जगत्प्रभुमित्यादिना तत्स्वरूपं निरूप्य, रुक्मिणीसत्यभामा च इत्यादिना अष्टपत्नीवैशिष्ट्यं निरूपयति, तथैव बृहद्ब्रह्मसंहितादौ चेति ।
केचित्तु स्त्रीभिरित्यत्र त्रिभिरित्येवं पठन्ति । के ते त्रयः ? का च सा शक्तिरित्याकाङ्क्षायां रामादयस्त्रयः रुक्मिणी सा शक्तिरित्येवं व्याख्यातवन्तः । तच्चायुक्तमेव प्रतीयते । तथा सति त्रिभिः शक्त्या समन्वितः इत्यंशस्यैव वैयर्थ्यापत्तेः । रामानिरुद्धप्रद्युम्नेषु त्रित्वसङ्ख्या लाभस्य बहुवचनबलादेव सम्भवात। रुक्मिण्यां शक्तित्वस्य च स्त्रीत्वेन साहित्यादेव लाभसम्भवाच्च । उदाहृतग्रन्थासङत्यावत्तेश्च । अत एव वासुदेवव्यूहस्यैवात्र मूलरूप एव कथनमपि नितरामप्रसक्तम् । वासुदेवव्यूहस्य मूलरूपांशत्वेनैवात्र समुदाहृतग्रन्थान्तरे च निरूपणादित्युक्तमेवेति । स्त्रीभिरित्येव पाठः परमप्रसिद्धोऽपि इति न कश्चिच्चोद्यावसरः ॥
ओ)०(ओ
चतुःशब्दो भवेदेको ह्योंकारः समुदाहृतः ॥४६॥
चत्वारोऽपि व्यूहा मूलभूतस्य कृष्णस्यैवांशभूताः । अंशी तु कर्णिकास्थह्श्रीकृष्ण एव परमफलेप्सुभिः स एव शरणभावनपूर्वकमुपास्यः, व्यूहादि तु तदङ्गतयैवोपसनीयमित्यर्थं स्फुटयति—चतुःशब्द इत्यादिभिः । चतुःशब्द इति चत्वारो रामानिरुद्धप्रद्युम्नवासुदेवरूपाः शब्दा वाचका यस्य स चतुर्व्यूहः—एक इति । एक एव परमो देवः रामश्चाकारवाच्यः । श्रीकृष्णो भवति । कथं भवति ? इत्याह—ओंकारस्यांशकैः कृत इति । ओंकारस्य प्रणवस्यांशकैरवयवैरकाराद्यवयवैः कृतः । तथा च वक्ष्यति—रोहिणीतनयो राम अकाराक्षरसम्भवः इत्यादिना । एवं च यथा प्रणवस्यैवांशभूता अकारादयः तैर्मिलित एव समग्रप्रणवस्तथा—
सर्वे वेदा यत्पदमामनन्ति
तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं सङ्ग्रहेण ब्रवीम्य्
ओमित्येतत॥ [क.उ. १.२.१५] इति श्रुत्युक्तदिशा ।
ओं तत्सदिति पूर्वतापिन्युपसंहारोक्तदिशा च समग्रोंकारवाच्यस्य मूलश्रीकृष्णस्यैवांशभूताश्चात्वारो व्यूहाः । ततोऽपृथक्सिद्धाः इत्यर्थः । इदमुपलक्षणं वैभवादीनामपीति ध्येयम् । एतेन कृष्णं तं विप्रा बहुधा यजन्ति, एको वशी सर्वगः कृष्ण ईड्यः, इत्यादि पूर्वतापिन्युक्ता अपि मन्त्रा व्याख्याताः ॥४६॥
ओ)०(ओ
(४७)
तस्मादेव परो रजसेति सोऽहमित्य्
अवधार्यात्मानं गोपालोऽहमिति भावयेत्,
स मोक्षमश्नुते । स ब्रह्मत्वमधिगच्छति ।
स ब्रह्मविद्भवति ॥४७॥
तस्मादेवेति । यस्माद्गोपालाद्यपरपर्यायः परमदेवः समग्रप्रणववाच्यः श्रीकृष्ण एव व्यूहादीनामप्यंशी, तस्मादेव परो रजसेति । रजसेति सन्धिश्छान्दसः । तथा च रजसो रज इत्युपलक्षितात्त्रिगुणप्रकृतेः सकास्यात्परः गुणातीतः । इतिशब्दोऽपि हेत्वर्थः । एवं च सर्वांशित्वाद्गुणातीतत्वाच्च । सोऽहमिति स एव मूलरूपश्रीकृष्ण एव गोपालगोविन्दपुरुषोत्तमपरंब्रह्माद्यपरपर्यायः । अहमहमर्थः । आत्मेत्यर्थः । इत्यवधार्यात्मानमिति । आत्मानं परमात्मानमित्येवंप्रकारेण श्रवणमननाभ्यां निर्णीय गोपालोऽहमिति गोपाल एव अहमस्मच्छब्दस्यार्थभूत आत्मा अहं च तदात्मक एव, न ततो व्यतिरिक्तः, तदपृथक्सिद्धत्वात्स्वतन्त्रसत्ताशून्यत्वादंशत्वाच्च ।
इति भावयेतिति । इति एवंप्रकारेण भावयेतहर्निशं तमेवात्मत्वेन चिन्तयेत्स्वात्मानमात्मीयं च तदात्मकत्वेन तदधीनस्थितिप्रवृत्तिकत्वेन तदर्थकत्वेन च भावयेदिति परमार्थः । एतेन तत्त्वमसि इत्यादिमहावाक्यानि, मुमुक्षुर्वै शरणं व्रजेत इत्यादिशरणागतिवाक्यानि चैकार्थत्वेन व्याख्यातानि । रजसेति अत्र रजःशब्दस्य रागार्थकत्वे तु प्रेम्णा भावयेदिति विशेषः ।
एतादृशभावनापरानां फलमाह—स मोक्षमश्नुते, स ब्रह्मत्वमधिगच्छति, स ब्रह्मविद्भवति इति । मोक्षो नाम प्रकृतिबन्धविनिर्मोकः । ततश्च त्रिविधदुःखात्यन्तनिवृत्तिः साङ्ख्यादीनामिष्टतमा । ब्रह्मत्वप्राप्तिः ब्रह्मात्मना स्थितिः कैवल्यज्ञानिनामिष्टतमा । ब्रह्मवेदनं निरतरं ब्रह्मानुभूत्या स्थितिः निरुक्तभगवद्वाक्यापत्तिलक्षणा भक्तानामिष्टतमा । तत्त्रितयमपि भवतीत्यर्थः । भगवतः परे धाम्नि प्रकृतिकालातीते नित्यम्मुक्तवत्शश्वद्भगवदनुभूत्या स्थितौ अन्ययोरपि द्वयोरर्थत एवान्तर्भावात। प्रकृतिविनिर्मोकं विना ब्रह्मभावं च विना प्रकृतिपरे ब्रह्मरूपे परे धाम्नि प्रवेशासम्भवादिति ॥४७॥
ओ)०(ओ
(४८)
उक्तार्थमेव परिशोधयति—
यो गोपान्जीवान्वै आत्मत्वेनासृष्टिपर्यन्तमालाति
ह्यों तत्सद्गोपालो भवति, यत्सोऽहम् ॥
परं ब्रह्म कृष्णात्मको नित्यानन्दैकरूपः सोऽहम् ॥
एतद् गोपाल एव परं सत्यमबाधितम्
सोऽहमित्यात्मानमादाय मनसैक्यं कुर्यात॥
आत्मानं गोपालोऽहमिति भावयेत।
स एवाव्यक्तोऽनन्तो नित्यो गोपालः ॥
अत्र तावच्चतुष्टयं वाक्यम् । तत्र प्रथमोऽहमन्त एकोऽंशः । द्वितीयः सोऽहमन्तो द्वितीयः । मनसैक्यं कुर्यादित्यन्तस्तृतीयः । अवशिष्टस्तुरीयः ।
गोपान्जीवानिति । गोप्यन्ते आसृष्टिप्रलयं रक्ष्यन्ते भगवता इति गोपाः । गाव इन्द्रियाणि तानि पालयन्ति इति वा गोपाः जीवाः । तान्गोपान्जीवानात्मत्वेन स्वात्मकत्वेनात्मीयचिच्छक्तिरूपेण परमप्रलयदशायामात्मत्वेन स्वतोऽविभक्ततया च आसृष्टिपर्यन्तं सृष्टिश्च पर्यन्तश्च सृष्टिपर्यन्तं समाहारद्वन्द्वः । पर्यन्तः प्रलयः । एवं च आसृष्टिपर्यन्तमित्यस्य सृष्टिकालं प्रलयकालं चाभिव्याप्येत्यर्थः । सर्वकालावच्छिन्नतया कालानवच्छिन्नतया वेति परमार्थः । य आलाति आ समन्तात्लाति गृह्णाति स्वीयत्वेन स्वस्मिन्स्थापयन्नेव वर्तते, न तु कदाचिदपि अनात्मत्वेन स्वतो वियोजयतीत्यर्थः । हि इति यत इत्यर्थः । स च हेतुः गोपालत्वे । तथा च पाल्यत्वेन जीवानां स्वस्मिन्सदा स्थापकत्वात्कृष्ण एव गोपालो भवति इति गोपाल इत्युच्यते । जीव इत्युपलक्षणमचित्तत्त्वानामपि तेषामपि भगवदात्मकत्वेन स्थितिः । प्रलयावस्थायां भगवदात्मकत्वेन स्थितिः, पूर्वमेकमेवाद्वयं ब्रह्मासीतित्यादिना वक्ष्यति । श्रुत्यन्तरेऽपि, सदेव सोम्येदमग्र आसीत्, तमः परे देवे एको भवति इत्यादिनोक्तम् । सृष्ट्यवस्थायामपि, चक्षुश्च द्रष्टव्यं च नारायणः इत्यादिना निरूपितं सुबालादाविति । पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यमित्यादिनान्यत्रापि चेति । एतावता निखिलजडजीवात्मकप्रपञ्चोपादाननिमित्तत्वसूचनेन रक्षकत्वं सूच्यते । तेन तदविनाभूतं सर्वज्ञत्वसर्वशक्तिमत्त्वादिकं करुणावात्सल्यादिकं चापि आत्मत्वेन शरण्यत्वेन च भावनीये श्रीभगवति चिन्तनीयमित्यपि सूचितम् ।
अथ भावनीयधर्मान्तरं विशेषयति—ओं तत्सदिति । यः खलु समस्तवेदेषु ओंतत्सदादिभिः प्रसिद्धः । ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः [गीता १७.२३] इति गीतोक्तेः । तेन समस्तवेदवेद्यत्वमपि तत्र भावनीयमित्यपि सूचितम् । एवं च यो निखिलजडजीवात्मकजगदभिन्ननिमित्तोपादानभूतः, मुक्त्यादिदानेन पालकः, निसर्गतो निखिलकल्याणगुणशक्तिपरिपूर्णो निःशेषवेदवेद्यः श्रीकृष्णः, सोऽहं स आत्मा अहं तदंशस्तद्वत्सच्चिदानन्दरूपोऽपहतपाप्मा तदात्मकस्तदधीनस्थितिप्रवृत्तिकस्तदर्थश्चेति प्रथमांशार्थः ॥
परं ब्रह्म कृष्णात्मक इति । परमिति तमः परमित्यर्थः । परोरजसेत्युक्तम् । आदित्यवर्णं तमसः परस्तादिति श्रुत्यन्तराच्च । ब्रह्मेति स्वरूपतो धर्मतश्च सर्वतः परिपूर्णः, बृंहति बृंहयति तस्मादुच्यते परं ब्रह्म इति श्रुतेः । कृष्णात्मक इति कृष्णः, अपहतपाप्मा सच्चिदानन्द आत्मा स्वरूपं यस्य तथाभूतः ।
कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे । इत्याद्युक्तं श्रुतेः ।
तदेवाह—नित्यानन्दैक्यरूपः इति । नित्यनिरतिशयाखण्डानन्दघनः,
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचन ॥ [तै.उ. २.४.१] इति श्रुत्यन्तरात।
सोऽहमिति । तमः परः सर्वतः परिपूर्णो निरतिशयाखण्डसच्चिदानन्दस्वरूपो यो गोपालः, स आत्मा अहं तदंशस्तद्वत्सच्चिदानन्दघनोऽपहतपाप्मा तदात्मकस्तदधीनस्तदर्थस्तदेकशरण इति पूर्ववदिति द्वितीयवाक्यार्थः ॥
ओं तत्सद् इति प्रथमांशविवरणोक्तरीत्या समग्रवेदैकवेद्यः । गोपाल एव निरुक्तलक्षणगोपाल एव । एवकारोऽन्ययोगव्यवच्छेदकः । तथा च गोपालो गोपालः समस्तवेदवेद्योऽतः स एव अहमर्थः समस्तात्मभूतः । परमिति अबाधितमिति स्वसमानाधिकशून्यः । सत्यमिति परमार्थभूतं त्रिकालाबाध्यं, वस्तुतत्त्वमित्यर्थः । सोऽहमिति । एवंभूतो यो गोपालः स आत्मा अस्मच्छब्दार्थभूतो नान्य इति पूर्ववत। इत्यात्मानमादाय मनसैक्यं कुर्यातिति उक्तरीत्या स्वरूपतो गुणधर्मादितश्च परिपूर्णत्वेनात्मानं परमात्मानं श्रीगोपालमादाय याथातथ्येन विशुद्धबुद्ध्या गृहीत्वा ऐक्यं स्वजीवात्मनि ऐक्यं तादात्म्यं तदंशत्वतदात्मकत्वतदधीनत्वतदपृथक्सिद्धत्वे चिद्रूपत्वादिकं युञ्ज्यादित्यर्थः । इति तृतीयवाक्यार्थः ॥
आत्मानं गोपालोऽहमिति भावयेतिति । आत्मानमिति भगवच्चिच्छक्तिरूपं स्वात्मणमित्यर्थः । गोपालोऽहमिति उक्तलक्षणगोपाल एवाहम्, नाहं ततो व्यतिरिक्तः, तदंशत्वात्तदेकसत्ताकत्वाच्चेति । कथंभूतो गोपालोऽहमित्याह—स एवाव्यक्त इत्यादि । यत्तदोर्नित्यसाकाङ्क्षत्वात। य इति शिष्यते एवं च यो गोपालोऽव्यक्तः सर्वेन्द्रियातीतः, अपि च व्यज्यते कालादिभिर्वृद्धिह्रासादिभिर्विकार्यते इति व्यक्तः, ततो भिन्नोऽव्यक्तः, सर्वभावविक्रियारहितः । जन्मजराभ्यां भिन्नः स्थाणुरच्छेद्योऽयमित्यनुपदोक्तश्रुतेः । अस्थाणुमनणु इत्यादिश्रुत्यन्तराच्च । अनन्त इति । अन्तः परिच्छेदः, तद्रहित इत्यर्थः । दिक्कृतकालकृतवस्तुकृतादिभिः स्वरूपतो गुणशक्त्यादिभिश्च सर्वविधपरिच्छेदशून्य इति परमार्थः । नित्य इति सदैकरस इत्यर्थः । एतादृशो यो गोपालः स ममात्मा नान्य इत्यर्थः । इति तुरीयांशः ॥
अत्र प्रथमवाक्यांशेन जडजीवात्मकनिखिलजगदभिन्ननिमित्तोपादानत्वेन तदविनाभावसिद्धनित्यनिरतिशयज्ञानैश्वर्यादिवात्सल्यकारुण्यादिसर्ववेदवेद्यत्वादिमत्त्वेन, द्वितीयांशेन प्रकृतिकालाद्यतीतत्वेन स्वरूपतो गुणधर्मादिभिश्च परिपूर्णत्वेन निरतिशयसच्चिदानन्दघनत्वादिभिः, त्र्टीयांशेन स्वसमानाभ्यधिकशून्यत्वेन परमार्थभूतत्वेन त्रिकालाबाध्यत्वादिभिः, चतुर्थेन सर्वभावविक्रियारहितत्वेनानन्तत्वेन नित्यत्वेन च सहित एव भगवान्, आत्मत्वेन शरण्यतया भावनीय इति निरूपितम् । सर्वांशित्वं तु तस्य चतुःशब्दो भवेदेकः [गो.ता.उ. २.४६] इत्यादिनैव निरूपितम् । तथा च सर्वतः परिपूर्ण एव भगवानात्मत्वेन शरण्यतया भगवद्भावेच्छुभिर्भावनीयः । अन्यथा भावनायाः परिपूर्णता न भवति । अपि त्वंशत एव भगवान्भावितो भवेत। तथा च तत्फलमप्यंशत एव, न तु पूर्णतः । क्रतुमयः पुरुषो यथाक्रतुरस्मिन्लोके पुरुषो भवति तथेतः प्रेत्य भवति [छा.उ. १.३.१४] इति छान्दोग्यश्रुतेः ॥
एतदेव च सूचितं भगवता व्यासेन गुणोपसंहारपादे—आनन्दादयः प्रधानस्य [वे.सू. ३.३.१२] इति । व्याख्यातं च केशवभट्टकाश्मीरिचरणैः—आनन्दत्वसर्वज्ञत्वसर्वात्मत्वज्ञानानन्दादिस्वरूपा ब्रह्मस्वरूपगुणा ब्रह्मस्वरूपपरासु श्रुतिषु श्रूयन्ते, तत्र संशयः किं तेषां सर्वासु ब्रह्मोपासनासूपसंहारोऽस्ति, उत न । तत्र प्रकरणपठितानामेवोपसंहारदर्शनातप्रकरणपठितानामुपसंहारे प्रमाणाभावात। किं च, तेषामसङ्ख्येयत्वेनापसंहारासम्भवश्चेति नोपसंहर्तव्या इति प्राप्ते आह—आनन्दादय इति । सर्वाभेदाद्[वे.सू. ३.३.११] इत्यनुवर्तते प्रधानस्य ब्रह्मणः सर्वाभेदाद्गुण्यव्यतिरेकात्गुणानां सर्वत्रानन्दादयस्तद्गुणा उपसंहर्तव्याः । यत्र प्रधानं तत्रैव तैर्भवितव्यमिति भावः इति ॥
भगवानात्मत्वेनैव भावनीयः । असौ ममात्मा इति,, न तु नैयायिकादिवत्पातञ्जलवद्वा स्वतोऽत्यन्तभिन्नत्वेन । तदुक्तं चतुर्थे प्रथमपादे—आत्मेति तूपगच्छन्ति ग्राहयन्ति च [वे.सू. ४.१.३] इति सूत्रेण । तत्राह भगवान्भाष्यकारः—यस्य ध्यानं नैरन्तर्येण निर्णीतं सोऽशेषदोषासंस्पृष्टमाहात्म्यः सार्वज्ञ्याद्यसङ्ख्येयस्वाभाविकसद्गुणशक्तिवैभवः सर्वात्मा परंब्रह्माख्यः श्रीमुकुन्दः किं स्वस्मादन्यत्वेनानुसन्धेयः, उत स्वस्वात्मत्वेनेति संशये किं तावद्युक्तं ? बहुशो भेदोपपादनादन्यत्वेनेति प्राह—आत्मेतीति । स ममात्माहं च तदात्मक इति तादात्म्यसम्बन्धेऐवानुसन्धेयः । कुतः ? यतः एष म आत्मा य एष सर्वभूतान्तरात्मा इति पूर्वे महान्तोऽभुपगच्छन्ति । एष त आत्मा सर्वान्तरः, एष त आत्मान्तर्याम्यमृतः, ऐतदात्म्यमिदमर्वं तत्त्वमसि इत्यादिना शिष्यांस्तथैव ग्राहयन्ति च । अहमात्मा गुडाकेश [गीता ] , क्षेत्रज्ञं चापि मां विद्धि [गीता ], वासुदेवः सर्वमिति [गीता ], सकलमिदमहं च वासुदेवः, वासुदेवात्मकन्याहुः [ना.पु. १.३८.१८] इत्यादि स्मृतेश्चेति । एवं च सपरिकरा शरणागतिः तत्त्वमस्यादि वाक्यार्थश्चैकवाक्यतया विचारितौ ।
कीदृशी पूजा चास्य गोपालस्य भवति [गो.ता.उ. २.२७] इति गान्धर्वीप्रश्नश्चोत्तरितः । एतादृशसर्वाभिप्रायगर्भितोऽष्टादशाक्षरो मन्त्र इत्यपि सूचितम् । अष्टादशार्णमन्त्रस्य तथाभूतसर्वार्थसङ्ग्राहकत्वं रहस्यषोडशीभाष्ये स्फुटमुपपादितं श्रीसुन्दरभट्टाचार्यपादैरिति । तादृशभावनयैव सर्वातिशायिप्रेमलक्षणभक्तिप्राप्तिः भगवद्भावापत्तिश्चेत्यपि ब्रह्म सम्पद्यते इति पूर्वतापिनीवाक्यैकवाक्यतया स मोक्षमाच्नुते स ब्रह्मत्वमधिगच्छति स ब्रह्मविद्भवति इति फलवाक्येन सूचितम् । अत्र ब्रह्मवित्पदेन मोक्षब्रह्मभावोत्तरभाविपरधाम्नि निरन्तरभगवदनुभव एव प्रोच्यते । न तु मोक्षहेतुभूतसाधनात्मकं ब्रह्मज्ञानम् । तथा सति, स मुक्तो भवति इति वाक्यात्प्रागेव तत्पाठस्योपगान्, न तु सर्वतः पश्चातित्यपि बोध्यमिति सङ्क्षेपः ॥४८॥
ओ)०(ओ
(४९)
ननु यदा प्राकृतमण्डलान्तरमभिव्यक्ते मथुरामण्डले प्रपञ्चस्थभक्तानुग्रहार्थं प्रकटीभवति, भवान्तदैव तत्र भवत्स्थितिरुत तदानीमभिव्यक्तरूपेणान्यदानभिव्यक्तरूपेण सर्वदा स्थितिरिति संशये आह—
मथुरायां स्थितिर्ब्रह्मन्सर्वदा मे भविष्यति ।
शङ्खचक्रगदापद्मवनमालावृतस्तु वै ॥
प्राकृतमण्डल आविर्भूतावपि मथुरायां मथुरामण्डले शङ्खचक्रगदापद्मवनमालावृतस्य मे मम सर्वदा त्रिकालावच्छेदेन स्थितिर्भविष्यति । यथा अप्राकृतमण्डलस्थे माथुरमण्डले मम नियता स्थितिस्तथा प्राकृतमण्डलस्थेऽपि भविष्यतीत्यर्थः । भविष्यत्प्रयोगः प्राकृतमण्डलसम्बन्धापेक्षया अयं गृहस्थो भविष्यति इतिवद्विशेषणाभिप्रायेण, विशेषणस्य प्राकृतमण्डलसम्बन्धस्य तयोः संवादकालेऽजातत्वात।
अयं भावः—प्राकृतमण्डलस्थाप्राकृतमण्डलस्थौ माथुरमण्डलौ स्वरूपतो न भिन्नौ, यथा निरवच्छिन्नघटावच्छिन्नाकाशौ । भेदस्तु तत्तदुपाधिकृत एव । इति स भेदः प्राकृतांश एव, न तु माथुरमण्डलांशे माथुरमण्डलं तु साक्षाद्ब्रह्मैव इति, साक्षाद्ब्रह्म गोपालपुरी [गो.ता.उ. २.३२] इत्युपपादितम् । इति यथा एक एव आकाशदेवता निरवछिन्ने घटावच्छिन्ने च एकरूपेणैव वर्तते, न तु तरप्तमब्भावेन, तथा भगवानपि प्राकृताप्राकृतमण्डलगते निजधाम्नि एकरूप एव विराजत इति । स एव भगवान्यदा भक्तानुग्रहार्थं चिच्छक्त्या मायां व्युदस्य प्राकृतजनगोचरो भवति तदावतरित इत्युच्यते इति भावः ।
अत्र शङ्खचक्रादिधारणं मूलद्विभुजरूपे पादपद्मयोरसाधारणचिह्नरूपेण बोध्यम्, वज्राङ्कुशादिवत। तथा च वक्ष्यति—शङ्ख ध्वजातपत्रैस्तु चिह्नितं चरणद्वयं [गो.ता.उ. २.६८] इति । तथा जितन्तेस्तोत्रं—शङ्खचक्रगदापद्मैरङ्कितं पादपङ्कजमिति । किं च तेषां धारणं नात्र वेणुपङ्कजादिवन्नियततया हस्तयोरपि तु तद्धाम्नि तेषां शेषगरूदादिवत्स्वाधिकारेण स्थितिः । हस्ते तु मूलरूपे नियततया वेणुपङ्कजादीनामेव स्थितिः । तथा च वक्ष्यति वेणुशृङ्गधरं तु वा [गो.ता.उ. २.७१] इति । गोपालविग्रहस्यैव द्विभुजस्यात्र सत्पुण्डरीकनयनमित्यादिनान्तपर्यन्तसर्वमूलरूपतया प्रतिपाद्यत्वात्तस्य वेणपङ्कजादिधारणस्यैव सर्वत्र प्रसिद्धत्वाच्चेति ॥४९॥
(५०)
तस्यैव रूपस्य सर्वमूलरूपत्वमप्राकृतत्वं च, तद्ध्यातुरेव मोक्षप्राप्तिरिति पुनरभ्यस्यति दार्ढ्याय—
विश्वरूपं परं ज्योतिःस्वरूपं रूपवर्जितम् ।
हृदा मां संस्मरन्ब्रह्मन्मत्पदं याति निश्चितम् ॥
विश्वरूपमिति । विश्वानि सर्वाणि व्यूहवैभवगुणावतारलीलावतारपुरुषावतारविलासावताराख्यानि । तथा प्राकृताप्राकृतकालक्षेत्रज्ञाख्यानि च रूपाणि अंशप्रभेदभूतानि यस्य । यद्वा, तानि उद्भवन्ति प्रलीयन्ते यत्र यतो वा । अथवा व्यूहादीनां प्राकृतादीनां च रूपमात्मा य इति विश्वरूपः तथा तम् । परं प्रकृतेः परम् । अत एव ज्योतिःस्वरूपं स्वप्रकाशानन्दविग्रहं सच्चिदानन्दविग्रह इति पूर्वतापिनीश्रुतेः । रूपवर्जितं निरतिशयचिदानन्दघनस्वरूपत्वप्रत्यनीकेन प्रकृतिकालातीतस्वरूपातिरिक्तविग्रहादिरहितम् । एतेन अरूपवदेव हि तत्प्रधानत्वात्[वे.सू. ३.२.१४] इति अधिकरणमनुग्रहे तम् ।
मां श्रीगोविन्दं हृदा मनसा संस्मरन्नित्यनिरन्तरमिति पूर्वान्वयि स स्मर्ता मत्पदं शाश्वतं प्रकृतिकालातीतं मम धाम याति प्राप्नोतीत्यर्थः । न चात्र रूपवर्जितमिति कथनादुक्तसाकाररूपाद्भिन्नं रूपं वाच्यम् । शङ्खचक्रगदापद्मवनमालावृतस्तु वै [गो.ता.उ. २.४९], कृष्णरूपी पूज्यस्त्वया सदा [गो.ता.उ. २.५२], गोपालं सानुजं [गो.ता.उ. २.५४] इति पूर्वापरसिद्धरूपस्यैव ग्रहणस्योचितत्वात। अन्वयः प्रकृतहानाप्रकृताभ्यागमप्रसङ्गात। नराकारस्यैव तादृशसर्वदोषवर्जितत्वस्यासकृदुपपादितत्वाच्चेति ॥५०॥
(५१)
साक्षात्स्वरूपस्मरणस्य फलमुक्त्वा प्रतिमार्चनस्य फलमाह—
मथुरामण्डले यस्तु जम्बूद्वीपे स्थितोऽपि वा ।
योऽर्चयेत्प्रतिमां मां च स मे प्रियतरो भुवि ॥५१॥
यः प्रतिबुद्धः मथुरामण्डले अन्यत्र वा जम्बूद्वीपमध्ये क्वापि स्थितः प्रतिमां प्रतिकृतिरूपमपि मामर्चयेत्स मे मम भुवि भूमण्डले प्रियतम इत्यर्थः । चेत्यप्यर्थः । भुवीति कथनाल्लोकान्तरापेक्षया भूमण्डले प्रतिमापूजनस्य श्रैष्ठ्यमुक्तं भवति ॥५१॥
(५२)
तस्यामधिष्ठितः कृष्णरूपी पूज्यस्त्वया सदा ॥५२॥
तस्यामिति । यदा यत्र क्वापि भूमण्डले प्रतिमापूजको मम प्रियतरः तदा मथुरामण्डले मम प्रतिमापूजको नितरां प्रियतमः स्यादेवेति । हे विधे त्वयापि मथुरायां स्थित्वा कृष्णरूपी कृष्णाकारो मम प्रतिमा पूजनीया इत्यर्थः । अत्र प्रतिबुद्धजीवप्रतिनिधिर्ब्रह्मा । अतः सर्वान्भगवत्प्रीतिकामान्प्रतिबुद्धजीवान्प्रतीयमाज्ञा बोध्येति ॥५२॥
(५३)
यजनभेदे अधिकारभेदरूपं हेतुमाह—
चतुर्धा चास्याधिकारभेदत्वेन यजन्ति माम् ॥५३॥
चतुर्धा चतुर्विधा जना मां यजन्तीति सम्बन्धः । के ते चतुर्विधाः ? इत्याहास्याधिकारिभेदत्वेन इति । अस्योपासनस्येत्यर्थः । अधिकारिणस्तु चतुर्विधा आर्तादिभेदात्—
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ [गीता ७.१६] इति गीतोक्तेः ।
चतुर्विधा मम जना भक्ता एव हि मे श्रुतम् ।
तेषामेकान्तिनः श्रेष्ठा ये चैवानन्यदेवताः ।
अहमेव गतिस्तेषां निराशीः कर्मकारिणाम् ॥
ते च ल्चुल्स्ल्त्लस्त्रयो भक्ताः फलकामा हि ते मताः ।
सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक॥
इति महाभारते [१२.३२८.३०१] नारायणीये अर्जुनं प्रति श्रीभगवदुक्तेश्च ।
अत एव च तेषु एकान्ती सर्वश्रेष्ठः । गीतायामपि—
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ [गीता ७.१७]
इत्यत्रापि ज्ञानी एकान्ती एव । स्वयमेव गीतातः पश्चाद्भावि नारायणीये तेषामेकान्तिनः श्रेष्ठाः इत्यादिनार्जुनं प्रत्येवमेव व्याख्यातत्वात। गीतायामपि एकभक्तिरिति पदेन तथात्वस्यैव सूचनात। एकान्तभक्तिस्तु शास्त्रगुरुवाक्याभ्यां भगवन्तं परोक्षरूपेणापि बुद्ध्वा इहामुत्रफलभोगरागरहितो भगवदेकशरणो भगवत्कैङ्कर्यागमात्रबुद्ध्या अहिंसकविधिना वर्णाश्रमादिधर्मान्यावच्छक्यमनुतिष्ठन्श्रीमहालक्ष्मीवत्सर्वनिजस्वार्थविनिर्मुक्ततया सर्वातिशायिप्रेम्णा भगवदनुशीलनम् । तदुक्तं स्कान्दे वैष्णवखण्डे वासुदेवमाहात्म्ये नारदं प्रति धर्मपुत्रेण भगवता नारायणेन—
स्वधर्मज्ञानवैराग्यैः सह लक्ष्मीवदीश्वरे ।
तस्मिन्ननन्या भक्तिर्या धर्म ऐकान्तिकः स वै ॥
वासुदेवेतरान्देवान्कालमायावशीकृतान।
विदित्वा तेषु च प्रीतिं हित्वा तस्यैव नियदा ।
गाढस्नेहेन या सेवा सा भक्तिः प्रोच्यते बुधैः ॥ इत्यादिनेति ।
गीतायामपि, मन्मना भव मद्भक्तः [गीता १८.६५]
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता १८.६६] इत्यादिना ।
नारायणीये च—ये चैवानन्यदेवताः, निराशीः कर्मकारिणाम्, अहिंसकैरात्मविद्भिः इत्यादिवाक्यैरित्येव सूचितम् । एकान्तभक्तिर्गोविन्दे यत्सर्वत्र तदीक्षणं [भा.पु. ७.७.५५] इत्यादि भागवतादिवाक्यार्थानामप्यत्रैवान्तर्भाव इति ।
अवतारभेदेन इति पाठे तु अवताराणां वासुदेवादीनां व्यूहरूपाणां भेदो यत्र तथात्वेन चतुर्व्यूहविशिष्टत्वेन मां यजन्तीत्यन्वयः । चकारः कामवात्सल्यादिप्रभेदसमुच्चायकः । तदुक्तं ब्रह्मसंहितायां—
यं क्रोधकामसहजप्रणयादिभीति
वात्सल्यमोहगुरुगौरवसेव्यभावैः ।
सञ्चिन्त्य तस्य सदृशीं तनुमापुरेते
गोविन्दमादिपुरुषं तमहं भजामि ॥ [ब्र.सं. ५.५५] इति ।
श्रीभागवतेऽपि दशमे—
कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च ।
नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ [भा.पु. १०.२९.१५] इत्यादि ।
पाठान्तरपक्षे तु वैभवगुणावतारलीलावतारपुरुषावतारविलासावताराणां समुच्चायकः । ते च निरूपिता एवेत्युपरम्यत इति ॥५३॥
(५४)
अधिकारिभेदे युगभेदहेतुमाह—
युगानुवर्तिनो लोका यजन्तीह सुमेधसः ।
गोपालं सानुजं रामरुक्मिण्या सह तत्परम् ॥५४॥
युगं सत्ययुगादि, तदनुवर्तिन इत्यर्थः । तथा च सत्ययुगादौ क्रमेण ज्ञानिजिज्ञास्वर्थार्थ्यार्तादयो भक्ता भवन्तीति भावः । युगानुवर्तिन इत्युक्तेरन्येष्वपि युगेषु सत्ययुगादिभावभाविता ज्ञान्यादयो भवन्ति इत्यपि सूचितम् । अत एवोक्तं पुराणेषु—
यस्य चेतसि गोविन्दो हृदये यस्य नाच्युतः ।
कलिः कृतयुगं तस्य कृतं भवति वै कलिः ॥ इति ।
येन केनापि भावेन मां भजन्तु सर्वेषामेव क्रमशः परमफलपर्यवसायित्वात्सर्व एव एत उदाराः । तदुक्तं गीतायां तत्रैव उदाराः सर्वे एवैते ज्ञानी त्वात्मैव मे मतं [गीता ७.१८] इत्यादिनेत्यभिप्रायेणाह—सुमेधस इति सुष्ठु मेधा धारणा येषामित्यर्थः । शोभनत्वं तु येन केनापि भावेन भगवदेकनिष्ठत्वमेव । कैरङ्गै रूपैस्तं मां यजन्ति इत्याह गोपालं सानुजमित्यादि । गोपालशब्दोऽत्रापि मूलरूपस्यैव वाचको, न तु वासुदेवव्यूहस्य गोपालाय निजस्वरूपाय [गो.ता.उ. २.९८], तुरीयातीतो गोपालः [गो.ता.उ. २.१०५], इत्यादि वक्ष्यमाणवाक्येभ्य इत्युक्तं बहुशः । तस्याङ्गमाह—सानुजमित्यादि । अनु पश्चात्जायन्ते इत्यनुजाः । स्वरूपतोऽंशभूतयजनादौ अङ्गभूताश्चेत्यर्थः । तैः सहितमित्यर्थः । ते के ? इत्याह—रामरुक्मिण्या सह तत्परमिति । रामेण सहिता रुक्मिणी रामरुक्मिणी तया सह वर्तमानमित्यर्थः । अत्र रामपदं वासुदेवप्रद्युमानिरुद्धानां रुक्मिणीपदं रेवतीरत्युषाणामप्युपलक्षकम् ।
बहुषु पुस्तकेषु « कृष्णं रुक्मिण्या » इति पाठः स एव समीचीनः प्रतिभाति । तथा चात्र गोपालशब्दो मूलरूपवाचकः । कृष्णशब्दो रुक्मिणीशब्दसमभिव्याहाराद्वासुदेवव्यूहवाचक इति बोध्यम् । एवमपि कृष्णरुक्मिण्य्शब्दौ रामरेवत्यादीनामुपलक्षकौ । तथा च चतुर्व्यूहसाहित्यमुक्तं भवति । तत्परमिति तेभ्यो वासुदेवादिव्यूहादिभ्युअः परमित्यर्थः । तच्च गोपालमिति विशेष्यान्वयीति बोध्यम् । अत्र कृष्णरुक्मिण्यादिपदमङ्गान्तराणामपि वैभवादीनामुपलक्षकमित्यपि न विस्मर्तव्यमिति ॥५४॥
(५५)
तत्परमित्यनेन सूचितं व्यूहादीनां स्वात्मकत्वमाह—
गोपालोऽहमजो नित्यः प्रद्युम्नोऽहं सनातनः ।
रामोऽहमनिरुद्धोऽहमात्मानमर्चयेद्बुधः ॥५५॥
अहं गोपान्जीवानालाति [गो.ता.उ. २.४८] इत्युक्तार्थकत्वेन गोपालशब्दवाच्यः तुरीयातीतो गोपाल एव अजः सनातनो नित्यः सन्नेव तुरीयातीतो गोपालः [गो.ता.उ. २.१०५] इति वक्ष्यमाणात। प्रद्युम्नोऽहं रामोऽहं अनिरुद्धोऽहं न मत्तो गोपालाद्व्यतिरिक्ता रामादयः । तस्मादात्मभूतं तत्तद्रूपेणापि मामेवार्चयेदिति वाक्यार्थः । प्रद्युम्नादिपदं वासुदेवरुक्मिणीरेवतीरित्यादिनां वैभवादीनामप्यङ्गान्तराणामुपलक्सकम् । अजत्वनित्यत्वादिसमभिव्याहारस्तु स्वरूपविभागमन्तरैव निजाचिन्त्यमहिम्नैव तावद्रूपतया प्रमीयते इति बोधनाय । वासुदेवस्य स्वशब्देनानुक्तिस्तु तस्य रामाद्यपेक्षया मूलरूपेण सहाधिकनैकट्यबोधनाय अवतारलीलायां वासुदेवव्यूहस्य रामादिव्यूहवत्पार्थक्येनानुभावाभावाच्चेत्यपि बोध्यम् ।
वस्तुतस्तु गोपालमिति पदं निर्विशेषणमेवात्र मूलरूपोपस्थापकम् । अन्यत्सर्वमेव पदं तत्तद्व्यूहोपस्थापकं तेषु धर्मविशेषसमर्पकं च । एवमत्रानुज पदमेव वासुदेवव्यूहोपस्थापकं नित्यपदं सनातनपदं च तेषु व्यूहेषु अनन्तत्वमनादिसिद्धत्वं च बोधयत इति स्वशब्देनैव वासुदेवव्यूहस्याप्युपस्थितिरित्यपि बोध्यम् । व्यूहादीनां मूलरूपात्मकत्वनिरूपणेन तु भगवदेकशरणेन कथं किमर्थं च वासुदेवादिव्यूहा अप्यनुसर्तव्या अनुसरणे वा कथं नानन्यशरणताहानिरित्यपि बोध्यम् ॥५५॥
(५६)
केन धर्मेण यजनीय इत्याह—
मयोक्तेन स्वधर्मेण निष्कामेण विभागशः ।
तैरहं पूजनीयो वै भद्रकृष्णनिवासिभिः ॥५६॥
मयोक्तेनेति । मया स्वयं भगवता उक्तेन ब्रह्मसवनं चरतो मे ध्यात इति पूर्वतापिन्युक्तेन स्वयं प्रकटीभूय प्रोक्तसाङ्गशरणागतिलक्षणेनैकान्तधर्मेण पञ्चरात्रेषु गीतादौ च मयैवातिविस्तृतं विवेचितेन निष्कामेन इति इहामुत्र फलभोगरहितेन नैष्कर्मलक्षणेन स्वधर्मेण भगवदेकशरणभूतानां भगवद्दासानां जीवानां स्वकीयधर्मेणेत्यर्थः । वर्णाश्रमादीनामपि भगवत्कैङ्कर्याङ्गतया शरणधर्मेष्वन्तर्भावात। विभागशः इति पञ्चकालादिसमयविभागशो वर्णाश्रमादिविभागशश्च तैः शरणागतैः सद्भिः भद्रकृष्णनिवासिभिः, द्वे वने स्तः भद्रवनं कृष्णवनं च इत्युक्त वनद्वयवासिभिः अहं व्यूहचतुष्टयोपेतः श्रीकृष्णः पूजनीयः सेवनीय इत्यर्थः ॥५६॥
(५७)
ये किल कालदोषत्स्वास्थ्यदोषाद्वा न समग्रभगवद्धर्मोपेताः किन्तु मदेकशरणपरायणाः, तेषामपि तत्र वर्णाश्रमधर्मादित्यागकृतदोषो न भवतीत्याह—
तद्धर्मगतिहीना ये तस्यां मयि परायणाः ।
कलिना ग्रसिता ये वै तेषां तस्यामवस्थितिः ॥५७॥
तद्धर्मगतिहीना इति । ये अशक्तास्तद्धर्मगतिहीना स्वस्ववर्णाश्रमादिधर्म्चारणतत्प्रकारज्ञानरहिता अपि तस्यां मथुरायां स्थिताः, ये च कलियुगेन ग्रसिताः, तेषामपि तत्र स्तिथिर्विहिता । तेषां तत्र मदेकपरायणतया स्थित्मात्रेणैव कृतकृत्यया भवति । मदेकपरायणत्वकथनेनोच्छृङ्खलानां तत्र मर्कटवद्वसतः पशुवत्स्वैरंचरतो न तत्फलप्राप्तिरिति सूचितम् ॥५७॥
(५८)
ननु त्वदेकपरायणतामात्रेण कृतार्थत्वं कथमिति प्रश्ने मत्प्रीतिरेव कृतार्थतायां मुखो हेतुः, सा च भक्त्यैव भवति, इत्यतो भक्तानां सर्वाधिकप्रियत्वं निरूपयति—
यथा त्वं सह पुत्रैस्तु यथा रुद्रो गणैः सह ।
यथा श्रियाभियुक्तोऽहं तथा भक्तो मम प्रियः ॥५८॥
हे विधे ! यथा पुत्रैः सनकादिभिर्नारदादिभिश्च सह सहितस्त्वं मे प्रियः, यथा गणैरुमानन्दीश्वरादिभिः सहितो रुद्रः शङ्करो मे प्रियः, यथा च श्रिया परमलक्ष्म्या श्रीराधारमादिपदवाच्यया सहितः अहं ममात्मा मम प्रियः । तथैव मे भक्तः एकान्तभक्तो मम प्रिय इत्यर्थः । श्रीसहितं निजस्वरूपं यथा मम निसर्गनिरतिशयनिरवच्छिन्नप्रेमास्पदमात्मत्वात्, तथा भक्तोऽपि ममात्मभूतत्वात्तथैव प्रिय इति भावः । एतावता ग्रन्थेन सपरिकरं कीदृशी पूजा चास्य भवति [गो.ता.उ. २.२७] इति प्रश्नवाक्यमपि समाहितं भवतीति ॥५८॥
(५९)
अथ यदुक्तं चतुःशब्दो भवेदेका ह्योंकारस्याशकैः कृतः [गो.ता.उ. २.४६] इति तत्रांशकृते—
स होवाचाब्जयोनिः–
चतुर्भिर्देवैः कथमेको देवः स्यात्?
एकमक्षरं यद्विश्रुतं
अनेकाक्षरं कथं सम्भूतं ? ॥५९॥
स होवाचेति । स ब्रह्मा हेति वाक्यालङ्कारे । चतुर्भिर्देवैर्वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाख्यैः सद्भिरिति शेषः । एको देव इति एका द्वितीयरहितो देवः कथं स्यात्? इति । अयं भावः—एक एव परं ब्रह्म गोपालो देवः केन प्रकारेण वासुदेवादिव्यूहरूपैर्देवैः स्वांशभूतैः सहितो भवतीति । यद्वा, कृष्ण एव परमो देवः, न तत्समश्चाभ्यधिकश्च दृश्यते । पञ्चेश्वराश्वरापातात। अथ एकांशी मूलभूतः अन्येन तदंशा वासुदेवादयस्तदंशभूतगुणशक्त्यादिशालिनस्तदपृथक्सिद्धा इति नानेकेश्वरस्वीकारापत्तिरिति चेत्तदप्याह—एकमक्षरमित्यादि एकमक्षरं प्रणवाख्यमोमित्येकाक्षरमित्यादौ यद्विश्रुतं ततनेकाक्षरमकारादिवर्णचतुष्टयोपेतं कथमभूत्? एकमिति द्वितीयरहितं निरंशम् । अक्षरमिति क्षरति परिणामादिभावविक्रियांच्प्राप्नोतीत्यक्षरस्तद्भिन्नमक्षरं तथाभूतमित्यर्थः । यद्विश्रुतमिति यद्ब्रह्म शास्त्रेषु विशेषेण श्रुतम् । तदित्यध्यार्तव्यम्, यत्तदोर्नित्यसम्बन्धात। तत्ब्रह्म अनेकाक्षरमिति अनेकं च तदक्षरं चानेकाक्षरं, कथं केन प्रकारेण हेतुना च अभूत्जातमित्यर्थः ।
एतदुक्तं भवति—शास्त्रेषु तावतेकमेवाद्वितीयम् । एकधैवानुद्रष्टवं नेह नानास्ति किञ्चन, मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति इत्यादौ एकमेव ब्रह्म श्रूयते । तथा निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्, जन्मजराभ्यां भिन्नः स्थाणुरयमच्छेद्योऽयं [गो.ता.उ. २.२६] इत्यादौ कलावयवादिपदवाच्यांशरहितं सर्वविक्रियारहितं च श्रूयते । एवं च निरंशस्य सर्वविक्रियारहितस्य च परब्रह्मणोऽंशतोऽप्यनेकत्वं कथं जातं ? इति । अन्ये तु, ओमित्येकाक्षरं ब्रह्म इत्यादौ शास्त्रे एकाक्षरं यद्विश्रुतं प्रणवाख्यं तदनेकाक्षरमकारादिवर्णचतुष्टयोपेतं कथमभूत्दित्याहुः । तदयुक्तमाभाति । प्रणवस्यैकाक्षरत्वेऽप्यनेकाक्षरत्वस्य परमप्रसिद्धत्वात। शङ्कापूर्वांशस्य कथमेको देवः इत्यस्य निर्हेतुकत्वापत्तेश्च । तस्मात। यथा व्याख्यातमेव चारुत्प्रतिभातीति ॥५९॥
(६०)
अथात्रैकमेवाद्वितीयं निर्विभागमेव ब्रह्म निजाखण्डस्वरूपविभागमन्तरैवाद्वितीयं सदेव निजाचिन्त्यस्वरूपमहिम्नैव वासुदेवादिचतुर्व्यूहभावेन प्रमीयते इत्युत्तरितव्यं तत्र दृष्टान्ताय प्रथमं परब्रह्मण एकत्वादिप्रतिपादनपूर्वकं ततोऽव्यक्तादिसृष्टिमाह—
स होवाच तं हि वै—
पूर्वं ह्येकमेवाद्वितीयं ब्रह्मासीत्
तस्मादव्यक्तम् अव्यक्तमेवाक्षरं
तस्मादक्षरात्महत्तत्त्वं
महतो वै अहंकारस्
तस्मादेवाहंकारात्पञ्च तन्मात्राणि
तेभ्यो भूतानि तैरावृतमक्षरं भवति ॥६०॥
सहोवाच तं हि वै इत्यादि । एष श्रुतिभागो ब्रह्मसूत्रस्य उपपद्यते च [वे.सू. २.३.१३] इति सूत्रव्याख्याने श्रीकेशवकाश्मीर्भट्टपादैः सुबालश्रुतिव्याख्यानान्तरं गोपालोपनिषच्छ्रुत्यर्थस्तु तं स्याद्ब्रह्मणोऽव्यक्तं प्रधानमासीतव्यक्तमेवेति एवकारोऽयोगव्यवच्छेदार्थम्, यदव्यक्तं तदेवाक्षरशब्दवाच्यम्, यद्वा यदव्यक्तं तदक्षरं ब्रह्मैव शक्तिशक्तिमतोरभेदात। तस्मादक्षराद्ब्रह्माधिष्ठितादव्यक्तान्महानिति । शेषं पूर्ववत। तैः कृतैर्भूतैरक्षरं जीवरूपमावृतं भवति तन्निमित्तस्थूलशरीरवान्भवति । इति सृष्टिक्रमः, तद्व्युत्क्रमेण लयक्रमः इत्यन्तग्रन्थेन व्याख्यातः ।
स होवाच पूर्वमेकमेवाद्वितीयं ब्रह्मासीतित्यंशेऽपि तत्रैव स होवाच पूर्वमेकमेवाद्वितीयं तं ह वै पूर्वमेकमेवद्वितीयं ब्रह्मासीतित्यादि गोपालोपनिषच्छ्रुतिश्च व्याख्याता इति प्रजिज्ञाय, तथा हि सृष्टेः पूर्वमविनाशि वस्तु किमासीतिति शिष्यवर्गेण पृष्टो गुरुस्तस्मै ह पूर्वं स्फुटमुवाच । सृष्टेः पूर्वं यद्वस्त्वासीत्तत्सत्स्थूलं तेजोऽवन्न रूपं नासीतसत्सूक्ष्मं प्रधानादिरूपं च नासीत्सदसत्वायुरूपं च नासीत्, तर्हि किमासीदिति चेत्तत्तद्विलक्षणं सूक्ष्ममशक्तिकं ब्रह्मासीदित्यस्य परे देवे एकी भवति इति तत्प्रकरणश्रुत्युक्तदिशा नामरूपविभागानहं चिदचिच्छक्तिकं ब्रह्मासीदित्यर्थः । इति ।
तथैव प्रकृत्यधिकरणे प्रथमाध्याये चतुर्थपादे तैरेव विवेचितम्—सूक्ष्मशक्तिकं ब्रह्मैवासीतिति शेषः । इति सुबालश्रुतिव्याख्यानातिदेशेन व्याख्यातः । एकैवाद्वितीयपडानामपि आरम्भणाधिकरणे, यथा च प्राणादिः [वे.सू. २.१.२०] इति सूत्रव्याख्याने, सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयं [छा.उ. ६.२.१] इति छान्दोग्यश्रुतिव्याख्यानेन तथैव व्याख्यातम् । श्रुत्यर्थस्तु स्वतन्त्रसत्ताश्रयः सत्पदार्थः, आत्मा हि परमः स्वतन्त्रोऽधिकगुणः इति श्रुतेः । एकपदं ब्रह्मणः क्षराक्षराभ्यामुत्कर्षरूपं प्राधान्यं विधत्ते, एकमुख्यान्यकेवलाः इत्यमरोक्तेः । एकशब्दोऽयमन्यप्रधानासहायसङ्ख्याप्रथमसमानवाची इति एको गोत्रे इति सूत्रे कैयटोक्तेश्च । सहायान्तरशून्यपरो वा, ष्णान्तो षदिति सूत्रे एकशब्दोऽयं बह्वर्थः । अस्ति सङ्ख्यान्तेऽस्त्यसहायवाची अस्त्यन्यार्थः इति महाभाष्यकारोक्तेश्च । तथा च क्षराक्षराभ्यामुक्तृष्टमन्यसहायहीनमेकसङ्ख्याकमेकपदार्थः । प्रधानक्षेत्रज्ञपतिः, अक्षरात्परतः परः इति श्रुतेः । यस्मात्क्षरादतीतो हं [गीता १५.१८] मत्तः परतरं नान्यत्[गीता १५.१५] इति श्रीमुखोक्तेश्च । अयोगव्यवच्छेदार्थः प्रथम एकशब्दः । तदधिकोत्कृष्टव्यवच्छेदपरो द्वितीयः । स्वातिशयवस्तुशून्य इत्यर्थः । अद्वितीयशब्दश्च समाननिषेधपरः । न तत्समश्चाभ्यधिकश्च दृश्यते [श्वे.उ.६.८], न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः [गीता ११.४३] इति स्मृतेश्च ।
यद्वा, एकशब्दः सङ्ख्यापरः । एवाद्वितीयशब्दयोश्चेतनाचेतननिषेधपरत्वमुभयोरपि ब्रह्मसमत्वतन्त्रसत्ताकत्वाभावात। किं च स्वसमानसत्ताकानन्तासङ्ख्येयज्ञानादिकल्याणगुणधर्माणामपि स्वरूपेतरस्वतन्त्रसत्ताभावेन तद्गतस्वतन्त्रसत्तानिषेधोऽप्यविरुद्धः । तदासीदधीनमासीतिति श्रुतेः । तथा च चेतनाचेतनानां स्वगतधर्माणां च तदात्मकत्वाद्यविशेषेण तदपृथक्सिद्धत्वात्, ऐतदात्म्यमिदं सर्वं [छा.उ. ६.८.७] इत्यग्रिमवाक्यात्—वासुदेवात्मकान्याहुः [ना.पु. १.३८.१८] इति स्मृतेश्च । एष एव स्वतन्तरसत्ताश्रयः सत्पदार्थः आत्मा यस्य स तदात्मा तस्य भावस्तत्त्वमिति श्रुत्यर्थः । इत्यादि ग्रन्थसन्दर्भेण । परपक्षोऽपि तत्रैव विस्तरेण समालोचित इत्यधिकं तत्रैव द्रष्टव्यमिति । एवमेव च श्रीपुरुषोत्तमाचार्यैरपि वेदान्तरत्नमञ्जुषायां व्याख्यातम् । ब्रह्मशब्दार्थस्तु निरुक्तरीतिकानविभक्तचिदचिच्छक्तिकानिरतिशयसच्चिदानन्दघनानन्तकल्याणगुणशक्तिस्वभावपुरुषाकारः श्रीकृष्ण एव बोध्यः । न तु ततो भिन्नः कश्चित्पदार्थः—
कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे । इत्युपक्रमवाक्याभ्याम् ।
योऽसौ ब्रह्म परं ब्रह्म गोपाल ओं तत्सत्तुरीयातीतो गोपाल इत्याद्युपसंहारश्रुतिभ्यश्च । तथा तदेव ब्रह्म परमं कवीनामिति तैत्तिरीयमहानारायणवाक्यात।
पूर्णशक्तिः पूर्णगुणो निर्दिष्टः सकलेश्वरः ।
स विष्णुर्ब्रह्मसंज्ञोऽसौ कवीनां सम्मतो विभुः ॥
नान्येषां ब्रह्मता क्वापि तच्छक्त्येकांशभागिनाम् ।
ब्रह्मशब्दं सोपपदं ब्रह्मादिषु विदुर्बुधाः ।
तदेतच्छास्त्रगम्यं हि जन्माद्यस्य महाविभोः ॥
इति स्कान्दे वैष्णवखण्डे वैशाखमाहात्म्ये तदुपबृंहकशङ्खवाक्याच्चेति विस्तृतं विवेचितमेव पूर्वतापिन्यां परं ब्रह्मैतदित्यस्य व्याख्याने, उत्तरतापिन्यां च—एको ह वै नारायणो देव इत्यस्य व्याख्याने चेति तत्रैव द्रष्टव्यम् । किं च सर्वस्यैव पूर्वोत्तरतापिनीग्रन्थस्य—कः परमो देवः, तस्मात्कृष्ण एव परमो देवः, सर्वेश्वरं गोपालं, ब्रह्म परं ब्रह्म गोपालः इत्याद्युपक्रमोपसंहारादिवाक्यैः कृष्णमात्रस्यैव स्वसमानाभ्यधिकदेवत्वसाधने तात्पर्यावधारणात। कयापि दृष्ट्यात्र ब्रह्मशब्दस्य प्रकृतश्रीकृष्णातिरिक्तार्थकल्पने महद्व्याघातापत्तेश् चेत्यूहनीयम् ॥६०॥
(६१)
अक्षरोऽहमोंकारोऽहमजरोऽमरोऽभयोऽमृतो
ब्रह्माभयं हि वै स मुक्तोऽहमस्मि । अक्षरोऽहमस्मि ॥
अक्षरोऽहमित्यादि । अक्षर इति अक्व्यक्तमेवाक्षरमित्यात्राक्षरः । अक्षरमिति सर्वेषां महदादिकार्याणामुपलक्षणम् । तेन कार्यमात्राणां भगवदात्मकत्वमुक्तं भवति । ओंकारः प्रणवः । अथ तथात्वेऽपि स्वस्य सर्वविकाररहितत्वमाह—अजरोऽमरोऽभयोऽमृतो ब्रह्माभयं हि वै स मुक्तोऽहमस्म्यक्षरोऽहमस्मि इति ॥
(६२)
एवं दृष्टान्तमुपपाद्यदार्ष्टान्तमुपपादयति—
सत्तामात्रं विश्वरूपं प्रकाशं व्यापकं तथा ।
एकमेवाद्वयं ब्रह्म मायया तु चतुष्टयम् ॥
सत्तामात्रमिति सदेकरसमित्यर्थः । मात्रपदमंशतोऽपि असदंशस्य तत्र सद्भावव्यावर्तनायोक्तम् । विश्वरूपमिति सर्वरूपमित्यर्थः, अनन्तरूपमिति यावत। प्रकाशमिति स्वरूपतो धर्मतश्च स्वतःप्रकाशं ज्ञानरूपमित्यर्थः । व्यापकमिति सर्वव्याप्तिमतपरिच्छिन्नमित्यर्थः । अत्रानुक्तमप्यानन्दरूपत्वं सच्चिद्वाचकशब्दसाहचर्यादुक्तप्रायमेव । एकमेवाद्वयं ब्रह्म इत्यंशस्तु अनुपदव्याख्यातमेव । तथा च सत्यं ज्ञानमनन्तं ब्रह्म, विज्ञानमानन्दं ब्रह्म, सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे, तमेकं गोविन्दं सच्चिदानन्दविग्रहम्, तयोरैक्यं परं ब्रह्म कृष्ण इत्यादिश्रुतिप्रतिपादितं निरतिशयसच्चिदानन्दघनविग्रहं कृष्णाख्यमेकमखण्डं स्वसमानाधिकतत्त्वान्तरशून्यं स्वतन्त्रसत्ताकवस्त्वन्तरशून्यं स्वतन्त्रसत्ताकं नित्यनिरतिशयानन्तगुणशक्त्यादिपरिपूर्णतमं श्रीकृष्णाख्यं ब्रह्म मायया निजासाधरणनिजस्वरूपमहिमरूपया एव चतुष्टयं वासुदेवादिव्यूहभावेन चतुष्टयरूपेणापि भासते इति तदर्थः । तुशब्दो निजासाधारणस्वरूपमहिमरूपमायातिरिक्तसाधनस्य स्वरूपगतपरिणामविभागादिविक्रियायाश्च व्यावर्तकः ।
तथा च, यथा स्वप्रकाशसत्यज्ञानानन्दघनं ब्रह्म निजाचिन्त्यमहिम्ना अव्यक्तादिजगदाकारेणापि परिणते, तथाप्यखण्डं सर्वविक्रियारहितमेव भवति, न तु विकारादियुक्तमपि प्राकृतपदार्थवत। अयमेव तस्य जीवप्रधानाद्यपेक्षया महान्विशेषः । तत्र तस्याचिन्त्यमहिमैव हेतुः नान्यत। तथोपपादितं भगवता वेदव्यासेन— प्रकृतिश्च प्रतिज्ञादृष्टान्तानुरोधात्[वे.सू. १.४.२३], आत्मकृतेः परिणामात्[वे.सू. १.४.२६], श्रुतेस्तु शब्दमूलत्वात्[वे.सू. २.१.२७], आत्मनि चैवं विचित्राश्च हि [वे.सू. २.१.२८], सर्वोपेता च तद्दर्शनात्[वे.सू. २.१.३०] इत्यादि ।
तथा चाविचिन्त्यस्वरूपमरूपेणापि भवति । तावतापि सर्वविधिक्रियारहोतिओऽखण्डसत्यचिदानन्दघनविग्रह एव भवति । नात्र तर्कविरोधः शङ्क्यः, तस्य प्राकृतत्वापाद्यापादकमूलकत्वेन प्राकृत एव परिसीमितत्वात। अत एव काठके नैषा तर्केण मतिरपनेया इति श्रुतिर्भवति ।
अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत।
प्रकृतेभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ॥ इति स्मृतिश्च ।
श्रुतेस्तु शब्दमूलत्वात्[वे.सू. २.१.२७], तर्काप्रतिष्ठानात्[वे.सू. २.१.११] इत्यादि सूत्राणि चेति भावः ।
ननु मायात्वविद्यैव । एवं च मायया तु चतुष्टयमित्युक्तेः । अविद्ययैव जीवगतया वा ब्रह्मगतया वा जगद्रूपेण व्यूहादिरूपेण ब्रह्मणः प्रतीतिः । एवं च सा न वासतवीत्येतदप्युक्तं भवतीति चेन्न । अत्र मायापदेनाविद्याया अविवक्षणात्ब्रह्मणोऽचिन्त्यमहिम्न इच्छाशक्तेरेव मायापदेन विवक्षणाच्च । न च मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं [श्वे.उ. ४.१०] इति श्रुतेः । प्रकृतिरेव माया प्रकृतिश्च त्रिगुणात्मिकैवेति वाच्यम् । ब्रह्मानात्मिकायास्त्रिगुणात्मिकायाः प्रकृतेः ब्रह्मसूत्रकृता ईक्षतेर्नाशब्दं [वे.सू. १.१.५], आनुमानिकमप्येकेषां [वे.सू. १.४.१] इत्यादिना महता प्रपञ्चेन निराकृतत्वात।
स्वरूपमहिम्नैव ब्रह्मणः सर्वभवनस्य सर्वोपेता च तद्दर्शनात्[वे.सू. २.१.३०] इत्यादि सूत्रकदम्बैस्तैः साधितत्वात। तस्मान्मायां तु प्रकृतिं विद्यात्[श्वे.उ. ४.१०] इत्यादौ ब्रह्मात्मिकाचिच्छक्तिरेव मायापदेनोच्यते । इन्द्रो मायाभिः पुरुरूप ईयते इत्यादौ तु मायापदेन ब्रह्मणः स्वरूपधर्मान्तर्भूता इच्छाशक्तिरेवोच्यते । तस्माद्वेदान्तेषु मायाशब्देन क्वचिद्ब्रह्मात्मिकाचिच्छक्तिरथ च क्वचित्स्वरूपधर्मभूता ईक्षणशक्तिः क्वचित्तु इच्छाशक्तिरेवोच्यते । मीयते कार्यमनया इति व्युत्पत्तेः । माया वयुनं ज्ञानमिति निघण्टुकोशात। माया दम्भे कृपायां च इति विश्वकोशात। माया स्याच्छाम्बरीबुद्ध्योः इति त्रिकाण्डशेषाच्च मायाशब्दस्य नानार्थकत्वेन सर्वार्थसङ्ग्राहकत्वात। इह तु मायापदेन ईक्षणशक्तिरेव विवक्षिता । अत एव स ईक्षां चक्रे, स ऐक्षत सोऽकामयत इत्यादौ सर्वत्र सृष्टिकरणे निजसत्यसङ्कल्पेन स्वरूपमहिम्नैव सर्वं भवतीति बोध्यम् । अविद्यावादनिराकरणं तु सिद्धान्तजाह्नवादौ वेदान्तकौस्तुभप्रभादौ च द्रष्टव्यमिति सङ्क्षेपः ॥६२॥
(६३)
अथ सङ्कर्षणादीनां तत्तत्प्रणवायवद्वारा समग्रप्रणववाच्येऽखण्डप्रणववाच्ये च तुरीयातीते मूलरूपे गोपालाद्यपरपर्याये परे ब्रह्मणि परमे देवे श्रीकृष्णेऽगतया भावनार्थं समग्रप्रणवस्य तत्तदवयवादीनामिव व्यूहानां मूलरूपाङ्गत्वबोधनार्थं च, चतुःशब्दो भवेदेको ह्योंकारः समुदाहृतः [गो.ता.उ. २.४६] इत्यनेन पूर्वप्रतिज्ञातार्थमुपपादयति—
रोहिणीतनयो रामो अकाराक्षरसम्भवः ।
तैजसात्मकः प्रद्युम्नो उकाराक्षरसम्भवः ॥
प्राज्ञात्मकोऽनिरुद्धो मकाराक्षरसम्भवः ।
अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् ॥
रामान्तरव्यावृत्त्यर्थं रोहिणीतनय इति । माण्डूक्यादौ विश्वादीनामकाराद्यक्षरात्मकत्वोक्तविरोध इत्याह—विश्वात्मक इत्यादि विश्व आत्मा रूपं यस्य तथेत्यर्थः । तथा च योऽन्यत्र विश्वादिशब्देनोक्तः स एवात्र सङ्कर्षणादिशब्देनोच्यते । तेन न वस्तुभेद इति भावः । एवं प्रद्युम्नानिरुद्धऽदीनामपि बोध्यम् ।
अर्धमात्रात्मकः कृष्ण इति । तुरीयात्मकः कृष्णो वासुदेवव्यूह इत्यर्थः । ननु तुरीयस्तु अमात्र एवोच्यते, अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः इति माण्डूक्यश्रुतेरिति चेत्, न । तत्र मात्रापदेन अकारोकारमकारात्मकमात्रात्रयस्यैव ग्रहणात्तदन्यस्यार्धमात्रत्वेऽप्यमात्रत्वात। प्रकृतेऽपि अकारोकारमकारात्मकमात्रात्रयेण रामादीनां स्फुटं ग्रहणात्? तत्त्रितयमात्रातिरिक्तात्मकस्य विश्वादित्रयभिन्नत्वेन प्रतिपाद्यस्य वासुदेवस्य तुरीयात्मकत्वप्रतिपादने स्फुटं तात्पर्यावगमात। अत एवाग्रे जाग्रस्वप्नसुषुप्तितुरीयतुरीयातीतान्तर्यामी गोपालः इत्यत्र गोपालपदवाच्यस्य मूलरूपस्य तुरीयातीतत्वं निरूपयिष्यते । माण्डूक्ये विश्वादीनां जाग्रदादिरूपत्वकथनात। अत्र तु रामादीनां विश्वादिरूपत्वकथनात। तत्रापि तुरीयत्वेन वासुदेवस्यैव सूचनं प्रतीयते ।
न च माण्डूक्योक्तस्तुरीयः, अव्यवहार्यः अदृष्टमव्यवहार्यमिति तत्रैवोक्तेः । वासुदेवस्तु व्यवहार्य इति वाच्यम् । लौकिकव्यवहारागोचरत्वस्य तत्रापि तुल्यत्वाच्छास्त्राय व्यवहार्यत्वमप्युभयत्र समानम् । अन्यथा कं तुरीयं तुरीयत्वादिनापि निरूपयेदिति । एवं च तुरीयस्यामात्रत्वमकारोकारमकारापेक्षया । अर्धमात्रत्वं तु नादबिन्द्वाद्यपेक्षयेति बोध्यम् ॥६३॥
ओ)०(ओ
(६४)
कृष्णात्मिका जगत्कर्त्री मूलप्रकृती रुक्मिणी ।
व्रजस्त्रीजनसम्भूतश्रुतिभ्यो ब्रह्मसङ्गतः ।
कृष्णात्मिकेति । कृष्णो वासुदेव आत्मा यस्याः सा कृष्णात्मिका तथाभूता रुक्मिणी इत्यर्थः । रुक्मिणीशब्दोऽन्यासामपि वासुदेवव्यूहपत्नीनां सत्यभामाजाम्बवत्यादीनामुपलक्षकं तत्प्रधानत्वात। ताः सर्वाः वासुदेवात्मिका, अत एव तुरीयात्मका इति बोध्यम् । रेवत्याद्या अपि रामाद्यात्मका इत्यपि बोध्यम् । रुक्मिणीपदस्य तुल्यन्यायेन तत्सर्वोपलक्षकत्वादिति ।
इतः परं मूलरूपं निरूपयति—व्रजस्त्रीजनसम्भूत इत्यादि । व्रजस्त्री साक्षाच्छ्रीदेवी श्रीवृषभानुनन्दिनी श्रीराधा । तत्रैव व्रजस्त्रीशब्दस्य मुख्यवृत्तेः, तत्प्रधानत्वादन्यासां यथा अवन्तिसुन्दरी इत्युक्तेऽन्तीषु सर्वाभ्यः सुन्दरीत्वेन प्रथिता या तस्या एव विशेषतो बोधो भवति । तथात्रापि व्रजे निखिलस्त्रीगुणविशिष्टत्वेन सर्वाभ्यः प्रथिता वा तस्या एव बोधो भवति । श्रीराधायाः सर्वश्रेष्ठत्वं—तासां मध्ये श्रेष्ठा गान्धर्वी इति स्वशब्देनैवोक्तम् । जनः तस्या एव सखीगणः । अथवा व्रजस्त्रीजनशब्देन समस्तेनैव तासां सर्वासां समूह उच्यते ।
तैः सम्भूतः सद्भावितः । अस भुवि धातुपाठात॥
श्रुतिभ्य इति । ब्रह्मसङ्गतः । ब्रह्मणा अक्षरब्रह्मणा सङ्गतः सम्यग्गतः स्वप्रतिष्ठात्वेन नित्यं प्राप्तः ।
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ [गीता १४.२७] इति गीतायां श्रीमुखोक्तेः ।
यद्वा, ब्रह्मणि अक्षराख्ये स्वधाम्नि सङ्गतः प्रतिष्ठितः । साक्षात्ब्रह्म गोपालपुरी इत्यनुपदव्याख्यातश्रुतेः । यद्वा, ब्रह्मणः अक्षरब्रह्मणः सकाशात्सङ्गतः सम्यग्गतः अतिक्रान्तः अतीत इत्य्यावत। अक्षरात्परतः परः, अक्षरादपि चोत्तमः इत्यादिश्रुतिस्मृतिभ्यः । सर्वेष्वप्यर्थेषु श्रुतिभ्यः इति प्रतिपादकतया हेतुत्वेनान्वेति । तथा च सर्वातिशायिपरिपूर्णतमः । इत्येवं श्रुतिप्रतिपादित इत्यर्थः ॥६४॥
ओ)०(ओ
(६५)
प्रणवत्वेन प्रकृतिं वदन्ति ब्रह्मवादिनः ।
तस्मादोंकारसम्भूतो गोपालो विश्वसम्भवः ॥
किं च, यतः प्रणवत्वेनेति समग्रप्रणववाच्यत्वेन प्रकृतित्वं प्रणवावयवाकारादिमात्राद्भवानां विश्वादितुरीयान्तरूपाणां सङ्कर्षणादिवासुदेवान्तानां मूलकारणत्वं तस्य ब्रह्मवादिनओ वेदमर्मज्ञाः वदन्ति निरूपयन्ति । अग्रिममन्त्रे तस्मादित्युक्तेः पूर्वमन्त्रे यत इति शिष्यते । फलितमाह—तस्मादिति । यस्मात्व्रजस्त्रीजनसम्भूतो गोपाल एव सर्वश्रुतिभ्यो ब्रह्मसङ्गतः प्रणवावयवसम्भवानां विश्वादितुरीयान्तरूपाणां सङ्कर्षणादिवासुदेवान्तानां मूलप्रकृतिः, तस्मादित्यर्थः ।
ओंकारसम्भूतः समग्रेष्वोंकारार्थेषु विश्वादिषु, अन्येषु च सम्भूतः प्रकृतित्वेन सम्यग्भावेन सत्तया स्थितः । अत एव स एव विश्वसंस्थितः विश्वेषु रामादिव्यूहचतुष्टयेषु संस्थितः ।
यद्वा, विश्वरूपाणां रामादीनां संस्थितः सम्यक्स्थित्याश्रयसत्ताश्रय इत्यर्थः । तथा च गोपीजनवल्लभो गोपाल एव रामादिरूपेण भासते । तथा च स एव सर्वातिशायितत्त्वं नान्यः । ततो व्यतिरिक्तं किञ्चिदपीति भावः । एष एव गोपाल उपसंसारे गोपालाय निजस्वरूपाय, तुरीयातीतो गोपालः इति श्रुतिभ्यां निजरूपत्वेन तुरीयातीतत्वेन च निरूपयिष्यते इति बोध्यम् । तस्येह व्रजस्त्रीजनविशिष्टत्वेन निरूपणं तु रुक्मिण्या वासुदेवात्मकत्वेन तुरीयात्मकत्ववत्व्रजस्त्रीणामपि मूलरूपगोपालात्मकत्वेन सर्वस्त्रीमूलरूपत्वतुरीयातीतत्वयोर्बोधनायेत्यपि बोध्यम् । तदुक्तं सौभाग्यलक्ष्म्युपनिषदि—तुरीयरूपां तुरीयातीतां सर्वोत्कटां सर्वमन्त्राशनगतां पीठोपपीठदेवतापरिवृतां चतुर्भुजां श्रियं हिरण्यवर्णामिति पञ्चदशभिर्ध्यायेतिति । एवं च एकस्या एव परमायाः श्रीदेव्यास्तुरीयव्यूहपत्नीरूपेण तुरीयरूपत्वं तुरीयातीतमूलरूपपत्नीरूपत्वेन तुरीयातीतत्वमिति । अधिकं तु तुरीयातीतो गोपालः इत्यत्र वक्ष्यते तदिहानुसन्धेयम् ॥६५॥
ओ)०(ओ
(६६)
क्लीमोंकारयोः एकत्वं वदन्ति ब्रह्मवादिनः ॥
अत्र व्यूहानां प्रणवतत्तदवयववाच्यत्वं मूलरूपस्य तु समग्रप्रणववाच्यत्वं निरूपितं, तेन सर्वेषमेव समग्रप्रणवार्थत्वेन निरूपकाणां
सर्ववेदा यत्पदमामनन्ति
तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं सङ्ग्रहेण ब्रवीमि ॥ इत्येतत॥
इत्यादिश्रुतिवाक्यानामपि श्रीकृष्णे मूलरूपे समन्वय उक्तो भवति । तत्रैव च तत्सहचरितानां तत्सदादिशब्दानां तत्तच्छब्देन निरूपकाणां, सदेव सोम्येदमग्र आसीतित्यादिश्रुतिवाक्यानामपि समन्वयः सूचितो भवति । तदेतेन पूर्वतापिन्यामन्ते कृष्ण एव परमो देवः, ओं तत्सत। उत्तरे च गोपाल ओं तत्सतिति यदुक्तं, तदपि सुष्ठूपपादितं भवति ।
एवमपि पूर्वतापिन्यां क्लींकारस्य सर्वबीजत्वोपपादनम्, इह तु प्रणवस्य तथात्वोपपादनमिति परस्परं विरुध्यते । अतः स्वमुखेनैव श्रुतिस्तयोरेकत्वं निरूपयति—क्लीमोंकारयोरेकत्वं पठ्यते ब्रह्मवादिभिः इति व्याख्याता चेयं श्रुतिः श्रीसुन्दरभट्टपादैः मन्त्ररहस्यषोडशीभाष्ये, यथा—
तथा गोपालोत्तरतापनीये ह्याम्नायते—क्लीमोंकारस्यैक्यत्वं पठ्यते ब्रह्मवादिभिः इति । एकत्वं नाम एकार्थत्वं तुल्यार्थवाचकत्वम् । यथा प्रणवः सर्ववेदबीजं, सर्ववेदार्थगर्भकश्च । प्रणवः सर्ववेदेषु [गीता ७.८] इति श्रीमुखोक्तेः । तथैव बीजमन्त्रोऽपि तथाभूतस्तथाभूतार्थज्ञापकश्चेति । प्रणवपर्यायरूपत्वादस्य वर्णस्येति श्रुतितात्पर्यार्थः । प्रकृतिवद्विकृतिः इति चोदकश्रुतेरिति तदेवं तयोरेकार्थत्वे न कश्चिद्विरोधः इत्यादिनेति । [५]
अस्य व्याख्यानमाह प्रकारान्तरेणापि गौतमीयतन्त्रे द्वितीयाध्याये गौतमं प्रति महर्षिनारदः—
प्रकृतिः पूर्वश्चैव नित्यौ कालश्च सत्तम ।
तत्त्वानि चेश्वरश्चैव ब्रह्मैतत्पञ्चकं मतम् ॥
सर्गान्तः पुरुषश्चेति तुर्याख्या प्रकृतिः स्मृता ।
तत्त्वानि मांसरूपाणि कालश्च तत्त्वरूपकः ॥
ईश्वराख्यो भवेन्नादो बिन्दुश्चतन्यचिन्मयः ।
एतद्विज्ञानमात्रेण जीवन्मुक्तो महीं चरेत॥
नास्य कालकलापेक्षा न तीर्थायतनानि च ।
क्लींकारादसृजद्विश्वमिति प्राह श्रुतेः शिरः ॥
लकारात्पृथिवी जाता ककाराज्जलसम्भवः ।
बिन्दोराकाशसम्भूतिरिति भूतात्मको मनुः ॥
स्वशब्देन च क्षेत्रज्ञो हेति चित्प्रकृतिः परा ।
तयोरैक्यसमुद्भूतिर्मुखवेष्टनवर्णकः ॥
अतएव हि विश्वस्य लयः स्वाहार्णवे भवेत।
गोपीति प्रकृतिं विद्याज्जनस्तत्त्वसमूहकः ॥
अनयोराश्रयो व्याप्त्या कारणत्वेन चेश्वरः ।
सान्द्रानन्दं परं ज्योतिर्वल्लभत्वेन कथ्यते ॥
त्रिपादमूर्ध्वमुदैत्पुरुष इत्याहुः परमा गिरः ।
बीजोच्चारणमात्रेण चित्स्वभावः प्रजायते ॥
वल्लभेन तु तद्दार्ढ्यं स्वाहयाज्ञाननाशनम् ।
इत्येवं कथितं तत्त्वं मुने वै ब्रह्मसंमतम् ॥ [गौ.तं. २.११२०]
इत्यादि । अत्र सर्गान्तः ककारः । तुर्याख्या ईकारः । मांसो लकारः । नादोऽर्धचन्द्रः । बिन्दुः प्रसिद्धः । एतेन प्रकृतबीजस्य पञ्चाङ्गमुक्तम् । “क्लींकारादसृजद्विश्वमिति प्राह श्रुतेः शिरः” इति श्रुतेःशिरो वेदशिरो गोपालतापिन्युपनिषत। तत्र हि पूर्वतापिन्यां क्लींकारादसृजमित्याद्युक्तेः । “प्रथमा गिरः” पुरुषसूक्ताख्यवेदवाक्यम् । एतेन कामबीजस्य, यथा क्लीमोंकारयोरेकत्वं पठ्यते ब्रह्मवादिभिः इति प्रकृतश्रुतेः सर्ववेदबीजप्रणवार्थगर्भितत्वम् । तथा “त्रिपादमूर्ध्व उदैत्पुरुषः इत्याहुः परमा गिरः” इत्युद्धृतनारदवाक्यात्सर्ववेदशिरोभूतपुरुषसूक्तमुख्यार्थगर्भितत्वमपीति । तथा च, प्रणवस्य परमात्मा देवता, पुरुषसूक्तस्य जगद्बीजपुरुषदेवता च यः स एव प्रकृतबीजमन्त्रस्य श्रीकृष्णाख्यो देवतेत्युक्तं भवति । तदेवोक्तं—ईश्वरो जगतां बीममाद्यं ब्रह्म तदुच्यते इति बोध्यम् । अधिकं तु पूर्वतापिन्यामेव तत्प्रकरणे उक्तमिति ततोऽवधेयम् ।
कामगायत्रीव्याख्या
पूर्वतापिन्यां पीठयजनप्रकारे, अनङ्गगायत्रीं यथावदालिख्य इत्युक्तेस्तत्कल्पग्रन्थगौतमीयतन्त्रसनत्कुमारतन्त्रादौ कामगायत्र्याः, “कामः” काम्यते भोग्यत्वेन इच्छाविषयीक्रियते इति कामः श्रीकृष्णः । तस्यैव निरतिशयप्रेमानन्दघनविग्रहत्वेन परमप्रेमास्पदत्वात्परमभोग्यत्वाच्चान्यकामनानधीनकामनाविषयत्वात।
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥
इत्युपक्रमे मन्त्रवर्णात्, तमेकं गोविन्दं सच्चिदानन्दविग्रहमिति मध्ये ब्रह्मवाक्यात्स्वभावतः सर्वं समस्तकल्याणगुणाब्धिरूपत्वात्स्वभावत एव सर्वाविद्यादिदोषविवर्जितत्वाच्च, अक्लिष्टकारिणे इति मन्त्रवर्णात्, नमो विश्वरूपाय इत्यादि मन्त्रवर्णाच्च । कृषि भूर्वाचकः शब्दो णश्च निर्वृतिवाचकः इत्यादि व्युत्पन्नसमस्तकल्याणगुणाश्रयसर्वदोषविवर्जिततसच्चिदानन्दवाचककृष्णनामधेयत्वादपि तथा बोध्यम् । सर्वात्मत्वाच्च, आत्मा हि सर्वेषां निसर्गकामनागोचरो भवति कृष्णश्च सर्वात्मा परमात्मत्वात। योऽसौ प्रधानात्मा गोपालः इत्यादिना तस्यैव सर्वात्मत्वप्रतिपादनाच्च ।
लौकिककामस्तु न तथा तस्य प्राकृतत्वेन विविधदोषयुक्तत्वात्स्वरूपतः । अनवधिकानन्दस्वरूपत्वाभावाच्चेति तत्रौपचारिक एव कामशब्दप्रयोगः । शचीपतौ इन्द्रादिशब्दप्रयोगवच्चतुरानने ब्रह्मशब्दप्रयोगवच्च बोध्यः । शब्दस्पर्शादयो विषया अपि जडत्वात्सुखेच्छाधीनेच्छाविषयत्वाच्च न निरुपधिकामनागोचरा इति तेऽपि न तथेति बोध्यम् । तस्मात्श्रीकृष्ण एवानौपचारिककामपदार्थः ।
तथा “देवाय” इति । दिव्यति क्रीडति विश्वसर्गादिभिः प्रियजनवृन्दैश्च सम्भूय स देवः । अत्र सर्व एव दिवुधात्वर्थाः सम्न्वेतव्या बाधाभावात। एवं सोऽपि कृष्ण एव मुख्यः, कृष्णो वै परमं दैवतम्, तस्मात्कृष्ण एव परमो देवः इत्यादि प्रकरणश्रुतेः । तदेतद्व्युत्पादितं पूर्वम् ।
“विद्महे” जानीमः । द्वितीयार्थ चतुर्थी । तथा च तादृशकामदेवं श्रीकृष्णं जानीम स्वरूपतो गुणलीलातश्च साक्षादनुभवितुमिच्छाम इत्यर्थः । तादृशसाक्षादनुभवः तस्य कृपाकटाक्षमन्तरा न सम्भवतीति तं प्रार्थयति, “पुष्पबाणाय विद्महे” इति । पुष्पं नयनपद्मं, सत्पुण्डरीकनयनमिति श्रुतेः । तदेव बाणः प्रपन्नानां विषयान्तराभिलाषजनककर्मवासनासमुच्छेदनपूर्वकं स्ववशीकरणसमर्थं यस्य तस्मै इत्यर्थः । भगवन्नयनकमलकटाक्षो हि संसारिणां कर्म सवासनं निवर्तयति ।
“धीमहि” ध्यायाम इत्यर्थः । तथा च तादृशकामदेवत्वेन त्वां साक्षादनुभवितुं त्वदर्थं बहिर्मुखतानिवारणेन त्वय्येव वशीकृतमनस्कतया त्वदेकशरणत्वाय सर्ववशीकारसमर्थं तादृशपुष्पबाणं त्वां ध्यायाम इत्यर्थः ।
एतादृशध्यानमपि तत्प्रेरणामात्रसाध्यमिति प्रेरणां प्रार्थयते—“तन्न” इति । यत एवंविधमनोरथवानहं तत्तस्माद्धेतोः “अनङ्गः” प्राकृतशरीररहितः । अत एव सर्वत्र व्याप्तत्वात। आत्मेन्द्रियमनोबुद्ध्यादिष्वपि व्याप्तो यः कृष्णः स “नः” अस्मानिन्द्रियमनोबुद्ध्यादिसहितान्तादृशकामदेवस्वरूपानुभवार्थं तादृशपुष्पबाणध्यानार्थं च “प्रचोदयात्,” प्रकर्षेण प्रेरयतु इत्यर्थः । प्रकर्षश्चात्र मदीयसाधननिरपेक्षतया केवलनिसर्गकरुणस्वभावत्वादेवेत्यभिप्रायेण विशेषित इति । एवं च गायत्रीप्रणवायोर्यथा दाम्पत्यरूपा नित्यसम्बन्धस्तत्तत्कल्पे उक्तः, तथा कामगायत्रीकामबीजयोरपि नित्यसम्बन्धोऽप्येतन्मन्त्रकल्पे सनत्कुमारतन्त्रादावुक्त इति बोध्यम् ।
काममालामन्त्रव्याख्या
एवं काममालामन्त्रोऽप्येतस्यैव विस्तरः । क्लीं नमः कामदेवाय सर्वजनप्रियाय सर्वजनसम्मोहनाय ज्वल ज्वल प्रज्वल सर्वजनस्य हृदयं मम वशं कुरु कुरु स्वाहा इति मन्त्रः । तत्र कामदेवपदार्थस्तु व्याख्यात एव । तत एव सर्वजनप्रियत्वमपि परमानन्दघनस्य कृष्णस्यैव निसर्गप्रेमास्पदत्वातित्यप्युपपादितमेव । “सर्वजनसम्मोहनाय” इति सम्मोहनत्वं त्वस्य सर्वविषयेषु सुखबुद्धित्यागेन स्वस्मिन्नेव सुखबुद्धिसम्पादनेन । तदपि निसर्गप्रेमानन्दघनत्वादिति पूर्वोक्तगुणवैशिष्ट्यात। तत्रैव नैसर्गिकसम्मोहनशब्दप्रयोगश्चात्र तादृशबुद्धौ चमत्कारातिशयपोषाय । चमत्कारातिशयश्चात्र तादृशबुद्धौ लौकिकमोहस्थल इव विवेकं विनैव केवलं माधुर्यानुभवाभिव्यक्तलक्षणम् । तेन निरतिशयमाधुर्यवत्त्वमुक्तं भवति ।
“ज्वल” इत्यादि । एतादृशस्वरूपगुणोपेतस्त्वं ज्वल, अग्निरिव स्वयं दीप्यमानो भव तादृशस्वरूपगुणोपेततया ममानुभवगोचरो भव इत्यर्थः । पुनः पुनः प्रार्थनं स्वोत्कण्ठासूचनाय ।
ननु त्वयि बहवः कर्मवासनाजनिता दोषाः सन्ति इति कथं त्वदनुभवगोचरो भविष्यामि ? इत्याह—प्रज्वल इति । प्रकर्शश्चात्र स्वनिसर्गकृपया निजस्वरूपमाहात्म्यादेव च स्वानुभवप्रतिबन्धकसर्वदोषापाकरणरूपः । तथा च मत्साधनमनपेक्ष्यैव स्वासाधारणस्वरूपमाहात्म्यादेव तादृशत्वदनुभवप्रतिबन्धकसर्वदोषापाकरणेन अग्निरिव दीव्यमानो भव ममानुभवगोचरो भव इत्यर्थः ।
तत्तदा सम्भवेत यदि त्वं सर्वं परियज्य मदेकशरणो भवेः प्रकृतिप्राकृतविहारस्त्वं तथा च न भवसि इत्याह—“सर्वजनस्य” इति । सर्वेषु नानाकर्मभोगार्थनिमित्तेषु नानायोनिषु अनादिकालतः पुनः पुनः जनस्य जनिमतः, अत एव तादृशतादृशयोन्युपयुक्तवासनाशृङ्खलनिगडितस्य पुनः पुनः तादृशतादृशयोनिष्वेवाकृष्यमाणस्य मम हृदयं स्वमेव निजस्वरूपगुणमाहात्म्यात्सर्वदोषकर्षणशीलः सर्वमनःकर्षणशीलश्च हृदयं वशं कुरु सर्वविषयात्प्रच्याव्य स्वस्मिन्नात्मसात्कुरु कुरु । अभ्यासः उत्कण्ठातिशयसूचनार्थः । “स्वाहा” । तदर्थं सर्वमात्मात्मीयं समर्पयामीत्यर्थः ॥
गोपालगायत्रीव्याख्या
“गोपालाय विद्महे” इत्यादि गोपालगायत्री । तस्यार्थः—गोपान्जीवानासृष्टिपर्यन्तमालातीति ओं तत्सद्गोपालो भवति इति श्रुतेः । मुक्तामुक्तसर्वजीवपालकत्वात्, ओं तत्सदित्यादि प्रतिपाद्यः परं ब्रह्मैव कृष्णो गोपालः, तस्य सर्वपालकत्वं प्रेमानन्दरसघनत्वात्, रसो वै सः, यं ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यात्? कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्? इति श्रुतिसिद्धः । चिद्घनत्वेन सर्वप्रकाशकत्वाच्च । तमेव भान्तमनुभाति सर्वमिति श्रुतिश्च । गोपीवल्लभायेति गोपी चिदचिद्विभूतिमती श्रीराधा । बहिरङ्गैः प्रपञ्चस्य स्वांशैर्मायादिशक्तिभिः, अन्तरङ्गैस्तथा नित्यविभूतैस्तैश्चिदादिभिः । गोपनादुच्यते गोपी राधिका कृष्णवल्लभा इति पद्मपुराणात। तस्या वल्लभाय इति सर्वातिशायिप्रियत्वं सर्वशक्तित्वं च सूचितम् । कृष्णः सच्चिदानन्दघनः सृष्टिस्थितिसंहर्ता मोक्षदाता च । शेषं पूर्ववत। इति गोपालगायत्रीमन्त्रार्थो बोध्यः ॥६६॥
(६७)
भगवदुपासने माथुरमण्डलं सर्वश्रेष्ठमित्याह—
मथुरायां विशेषेण मां ध्यायन्मोक्षमश्नुते ॥
ओ)०(ओ
(६८७१)
स्वरूपध्यानप्रकारमाह अष्टपत्रमित्यादि पञ्चश्लोकैः—
अष्टपत्रं विकसितं हृतपद्मं तत्र संस्थितम् ।
दिव्यध्वजातपत्रैस्तु चिह्नितं चरणद्वयम् ॥६८॥
श्रीवत्सलाञ्छनं हृत्स्थं कौस्तुभं प्रभया युतम् ।
चतुर्भुजं शङ्खचक्रशार्ङ्गपद्मगदान्वितम् ॥६९॥
सुकेयुरान्वितं बाहुं कण्ठं मालासुशोभितम् ।
द्युमत्किरीटवलयं स्फुरन्मकरकुण्डलम् ॥७०॥
हिरण्मयं सौम्यतनुं स्वभक्तायाभयप्रदम् ।
ध्यायेन्मनसि मां नित्यं वेणुशृङ्गधरं तु वा ॥७१॥
वेणुशृङ्गधरं तु वेति सत्पुण्डरीकनयनमित्यादि पूर्वतापिन्युक्तद्विभुजरूपमित्यर्थः । अस्य चतुर्भुजरूपापेक्षया पश्चान्निरूपनमपच्छेदन्यायेन पूर्वरूपापेक्षया श्रेष्ठत्वबोधनाय । तदुक्तं पूर्वमीमांसायां—पूर्वापर्यं पूर्वदौर्बल्यं प्रकृतिवत्[पू.मी. ६.५४] इति । तथा च चतुर्भुजरूपापेक्षया द्विभुजरूपमेव श्रेष्ठम् । अत एव तदेव परममूलरूपम् । एतेअच्चतुर्भुजरूपं त्वितरसर्वरूपापेक्षया मूलमपि द्विभुजरूपापेक्षया विलासरूपमेव भवति । अत एव पूर्वतापिन्यां तस्य परब्रह्मणः किं तद्रूपमिति प्रश्ने सत्पुण्डरीकनयनमित्यादिना द्विभुजरूपमेवोक्तं, न तु चतुर्भुजादि । यथा च आत्मैवेदमग्र आसीत्पुरुषविधः, स एकाकी न रेमे एव इत्यादिश्रुतिवाक्येषु पुरुषविधत्वनराकारत्वादिनैव मूलब्रह्मस्वरूपनिरूपणात्तस्य च द्विभुजरूप एव सम्यगन्वयादपि द्विभुजरूपमेव सर्वतो मूलरूपम् । तथोपपादितं पूर्वतापिन्यां—किं तद्रूपमित्यत्र तेन नेह तन्यते । अत एव च पञ्चरात्रपुराणादौ द्विभुजरूपस्यैव परममूलरूपत्वम् । तत एव च—चतुर्भुजरूपस्याविर्भाव उक्त इति । पूर्वतापिन्यां युग्मतत्त्वसमीक्षायां च विस्तरतो द्रष्टव्यम् ॥६८७१॥
ओ)०(ओ
(७२)
मथ्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा ।
तत् सारभूतं यद्यस्यां मथुरा सा निगद्यते ॥७२॥
मथ्यते इति । ब्रह्मज्ञानेन इति सर्वातिशायिब्रह्मस्वरूपस्य रसात्मकस्य साक्षान्निरन्तरमनुभवेनेत्यर्थः । मत्सारभूतमिति मम सारभूतं सर्वश्रेष्ठं रसो वै सः इति श्रुत्युक्तलक्षणं रसरूपं यतो हेतोः तस्यां मथुरायां मथुरामण्डले विद्यत इति शेषः । तस्मात्सा मथुरा निगद्यते इत्यर्थः । तदुक्तं बृहद्ब्रह्मसंहितायां नारदपञ्चरात्रे च—
धर्मस्थानं त्वयोध्याख्यं श्रीरङ्गं मुक्तिसाधनम् ।
द्वारका भक्तिकृत्प्रोक्ता रसस्थानं तु माथुरम् ॥ इति ।
अत एव सा मधुरेत्यप्युच्यते ॥७२॥
ओ)०(ओ
(७३८३)
अथ धारणसिद्धये स्थूलं गुणमयं भगवतो रूपं दशभिः श्लोकैर्निरूपयति—
अष्टदिक्पालिभिर्भूमिः पद्मं विकसितं जगत।
संसारार्णवसञ्जातं सेवितं मम मानसे ॥७३॥
चन्द्रसूर्यत्विषो दिव्यध्वजा मेरुर्हिरण्मयः ।
आतपत्रं ब्रह्मलोकमधोर्ध्वं चरणं स्मृतम् ॥७४॥
श्रीवत्सं च स्वरूपं च वर्तते लाञ्छनैः सह ।
श्रीवत्सलाञ्छनं तस्मात्कथ्यते ब्रह्मवादिभिः ॥७५॥
येन सूर्याग्निवाक्चन्द्रं तेजसा स्वस्वरूपिणा ।
वर्तते कौस्तुभाख्यं हि मणिं वदन्तीशमानिनः ॥७६॥
सत्त्वं रजस्तम इति अहंकारश्चतुर्भुजः ।
पञ्चभूतात्मकं शङ्खं करे रजसि संस्थितम् ॥७७॥
बालस्वरूपमत्यन्तं मनश्चक्रं निगद्यते ।
आद्या माया भवेच्छार्ङ्गं पद्मं विश्वं करे स्थितम् ॥७८॥
आद्या विद्या गदा वेद्या सर्वदा मे करे स्थिता ।
धर्मार्थकामकेयूरैर्दिव्यैर्दिव्यमहीरितैः ॥७९॥
कण्ठं तु निर्गुणं प्रोक्तं माल्यते आद्ययाजया ।
माला निगद्यते ब्रह्मंस्तव पुत्रैस्तु मानसैः ॥८०॥
कूटस्थं यत्स्वरूपं च किरीतं प्रवदन्ति माम् ।
क्षरोत्तमं प्रस्फुरन्तं कुण्डलं युगलं स्मृतम् ॥
ध्यायेन्मम प्रियो नित्यं मोक्षमधिगच्छति ।
स मुक्तो भवति तस्मै आत्मानं च ददामि वै ॥८२॥
एतत्सर्वं भविष्यद्वै मया प्रोक्तं विधे तव ।
स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथा ॥८३॥
एतद्रूपध्यानस्य भक्तिपूर्वाङ्गत्वं भागवते द्वितीयस्कन्धेऽपि निरूपितं, यथा—
यावन्न जायेत परावरेऽस्मिन्
विश्वेश्वरे द्रष्टरि भक्तियोगः ।
तावत्स्थवीयः पुरुषस्य रूपं
क्रियावसाने प्रयतः स्मरेत ॥ [भा.पु. २.२.१४] इत्यादि ।
स्थूलसूक्ष्मनिजस्वरूपद्वयनिरूपणमुपसंहरति । एतत्सर्वमित्यादि । अत्र सामान्यतयोक्तमपि भविष्यत्वं सगुणांश एवान्वेति योग्यत्वात। न तु निर्गुणांशे तस्य सर्वादित्वेन भविष्यत्वस्य बाधितत्वात।
स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथा इति । निजस्वरूपमित्यर्थः । द्विविधमिति सगुणत्वनिर्गुणत्वकृतपरस्परविलाक्सणमित्यर्थः । निर्गुणात्मकमिति पाठेऽपि निर्गुणः आत्मा स्वरूपं विग्रहादिं यस्य तथाभूतमित्यर्थः । चेति परान्वयि तथा च सगुणं निर्गुणात्मकं चेत्यर्थः । तत्र सगुणमष्टभिर्दिक्पालिभिः इत्यादिना निरूपितं स्थूलरूपम् । निर्गुणं तु अष्टपत्रं विकसितमित्यादिना निरूपितम्, चतुर्भुजं द्विभुजं च रूपद्वयम् । नारायणदीपिकायां तु सगुणं द्विभुजचतुर्भुजादिरूपं, निर्गुणं तु स होवाच पूर्वमेकमेवाद्वयं ब्रह्मासीतित्युक्तलक्षणामित्युक्तं तदयुक्तमेव । अत्र ध्येयत्वेनानुपदोक्तस्यैव रूपद्वयस्योपसंहारप्रतीतेः । अत्र द्विभुजचतुर्भुजरूपस्य सूक्ष्मस्य ब्रह्माण्डविग्रहस्य स्थूलरूपस्यैव च निरूपणात्तत्परित्यागे बीजाभावात। यथा च, द्विभुजादिरूपमेव सर्वमूलरूपं निरतिशयज्ञानानन्दघनं तथ्पपादितं बहुशः पूर्वतापिन्यामिहापि च । युग्मतत्त्वसमीक्षायां तु विस्तृतं विवेचितम् । किं च—एकमेवाद्वयं ब्रह्म इत्यत्रापि ब्रह्मपदार्थो निरतिशयचिदानन्दपुरुषाकारविग्रहः श्रीकृष्ण एव, न तु शून्यकल्पं निर्विशेषं ब्रह्म येन तन्मतसिद्धिः । अपि च, तन्मतानुसारेण तत्र ब्रह्मशब्दार्थपरिग्रहेऽपि न तदुक्तविभागसिद्धिः । तन्मते मायोपहितब्रह्मण एव जगदुपादानत्वेन । तत्रापि जगत्कारणत्वेन प्रक्रान्तब्रह्मशब्देन मायोपहितब्रह्मण एव गृहीतव्यत्वेन तस्य तन्मतसिद्धनिर्गुणत्वाभावात॥
न त्वत्र सगुणनिर्गुणात्मकमिति न भिन्नं वाक्यमपि त्वेकमेव विशेष्यविशेषणभावापन्नम् । एवं च निर्गुण आत्मा यस्य तथाभूतसगुण इत्यर्थः । विग्रहतः सगुण आत्मता निर्गुण इति यावत। तथा चास्तु विविधमित्यनेन द्विभुजचतुर्भुजादिसूक्ष्मरूपस्य विराड्विग्रहस्यैव च परिग्रहः तावतापि न द्विभुजादिरूपस्य निर्गुणत्वसिद्धिरपि तु सगुणत्वेऽपि निर्गुणात्मकत्वमेव । तच्चास्माकमिष्टमेव सगुणरूपाणामप्यात्मदृष्ट्या परमार्थतो निर्गुणत्वात। तथा च द्विभुजादिरूपाणां विराड्रूपाणां च सूक्ष्मत्वस्थूलत्ववैलक्षण्येऽपि समानमेव विग्रहांशे गुणमयत्वमिति चेन्, न । चकारस्यैव तत्र वाक्यभेदकत्वात। अन्यथा चकारवैयर्थ्यापत्तेः । न च चकारपूर्वान्ययीति वाच्यं तथा सति तस्य सार्थक्त्यासम्भवात्पूर्वान्वयित्वे प्रयोजनाभावात। तथा च चकारस्य परान्वयित्वमेव वाच्यम् । एवं च तस्य सगुणनिर्गुणात्मकरूपद्वयसमुच्चायकत्वेन वाक्यभेदस्यावश्यकत्वात। किं च प्राचीनपुस्तकेषु नारायणादिकृतटीकायुतेषु सर्वत्र “स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथा” इति पाठाद्भेदेन स्वरूपद्वयकथन एव श्रुतेस्तात्पर्यं निश्चीयते । एवं च पूर्वोक्तद्विभुजचतुर्भुजरूपयोर्निर्गुणत्वं विराड्विग्रहस्य सगुणत्वमित्येव निश्चितमुक्तं भवतीति बोद्धव्यम् । यथा च साकाररूपस्य निर्गुणत्वं तथोपपादितम् । स वो हि स्वामी भवति इत्यत्र ग्रन्थखण्डेन श्रीगोपीदुर्वासः प्रश्नप्रतिवचनमिषेणैति स्वरूपध्यानस्य फलमुक्तं पूर्वश्लोके—आत्मानं च ददामि वै इति । अस्ति यजुर्वेदे मन्त्रपाठः—
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
यस्य च्छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ इत्यादि ।
तथा च किमतोऽधिकं फलं स्यादिति द्रष्टव्यमिति सङ्क्षेपः । एवं च परब्रह्मणः श्रीकृष्णस्य परमदेवत्वोपपादकं स्वभावतोऽपास्तसमस्तदोषत्वं स्वभावतोऽशेषकल्याणगुणशक्तिशालित्वं सर्वान्तर्यामित्वादिकं च निरूपितमेतावद्ग्रन्थेनेति ।
श्रीदरिहरयराजन्यपुरा विप्रान्वयोद्भवः ।
निधिपाणेः पञ्चमो यः श्रीबुच्चीशर्मणः सुतः ॥
श्रीमुकुन्दीति विख्याता माता लक्ष्म्यंशसम्भवा ।
पत्नी शीलवती यस्य नाम्ना श्रीप्रेमसुन्दरी ॥
सोऽहं भगीरथो नाम द्विजो मैथिलवंशजः ।
मिथिलाभूमिवासी च वृन्दारण्ये वसन्धिया ॥
चिन्तयञ् छ्रीशपादाब्जं तत्सेवारसलालसः ।
एतावन्तं ग्रन्थभागं कृत्वाग्रे क्रियतेऽधुना ॥
इति श्रीगोपालोत्तरतापिनीव्याख्यायां वेदान्ततत्त्वसमीक्षाख्यायां मैथिलझोपाख्यश्रीभगीरथशर्मसङ्कलितायां सप्तदशः खण्डः सम्पूर्णः ॥७३८३॥
ओ)०(ओ
== ७२ ==
अतः पर्यन्तेन सर्वातिशायिपरधामसंस्थत्वं व्यूहवैभवादिसर्वांशित्वं सर्वज्यत्वं सर्वजगदभिन्ननिमितापादनत्वं परममुक्तिफलप्रदत्वादिकं च प्रकरणविभागेनोपपादितम् । ततः परमादित्यादि देवानां तदेकपरत्वं तदंशत्वादिप्रतिपादनमवैशिष्यतेऽतस्तदुपपादयितुं प्रकरणारम्भः । एवं च सर्वतोभावेण परमदेवत्वादिकं पूर्वतापिन्युक्तप्रतिज्ञाचतुष्टयं पूर्वतापिन्युक्तनिखिलानि वाक्यानि च पुनर्वितततरमुपपादितानि भवन्ति । तस्मादाह—
स होवाचाब्जयोनिः—
व्यक्तानां मूर्तीनां कथं त्वाभरणानि भवन्ति ?
कथं वा देवा यजन्ति, रुद्रा यजन्ति, ब्रह्मा यजति, ब्रह्मजा यजन्ति, विनायका यजन्ति, द्वादशादित्या यजन्ति, वसवो यजन्ति, अप्सरसो यजन्ति, गन्धर्वा यजन्ति ? स्वपदानुगान्तर्धाने तिष्ठति । कां मनुष्या यजन्ति ? ॥
अत्रैवं प्रतिभाति व्यक्तानां प्राकृतजनैरपि शिलादिरूपेणानुभूयमानां यद्वा व्यक्तानामवतारकाले प्रकटीभूतानामित्यर्थः । मूर्तीनां मथुरास्वेवं द्वादश इत्यंशेन पूर्वोक्तानां मथुरास्थितानां केशवादिमूर्तीनां, तदेवाह—प्रोक्तानामिति । कथं त्वाभरणानि भवन्ति । आभरणशब्दार्थोऽत्र यजनप्रकारविशेष एव प्रतिभाति । आसमन्ताद्भरणमाभरणं, भृञ् धारणपोषणयोः इति धातोर्निष्पत्तेः । एवं च यजनं कथं भवतीति प्रश्नः । तदेव स्फुटयति—कथं वा इत्यादि । वाशब्दोऽत्र वाक्यालङ्कारे । स्वपदानुगान्तर्धाने तिष्ठति इति स्वपदानुगा एकादशीति स्वपदं गता इत्यत्र स्वपदं गतेत्यनेनोक्ता स्वपदानुगा का ? दशमी वै ह्यन्तर्धाने तिष्ठति इत्युक्ता अन्तर्धाने तिष्ठति । का भूम्यां तिष्ठति ? इत्यनेन सूचिता च । का यां मनुष्या यजन्ति ? इत्यर्थः ॥७२॥
ओ)०(ओ
== ७३ ==
उत्तरमाह—
स होवाच तं हि वै नारायणो देवः—
आद्या अव्यक्ता द्वादशमूर्तयः सर्वेषु लोकेषु
सर्वेषु देवेषु सर्वेषु मनुष्येषु तिष्ठन्ति ॥७३॥
स होवाचेति स पूर्वप्रसिद्धः—नारायणो देवो ह स्फुतां तं ब्रह्माणमुवाचेत्यर्थः । आद्येत्यादि । आद्या आदिसिद्धा अनादिसिद्धेति यावत्द्वादश मूर्तयः रौद्र्यादिद्वादशशक्तयः सर्वेषु लोकेषु तत्तद्विभूतिषु सर्वेषु देवेषु रुद्रादिषु सर्वेषु मनुष्येषु मन्वादिषु तिष्ठन्ति तत्तत्कार्यकर्तृसामर्थ्यरूपतया यावदधिकारं तेषु तेषु भगवदनुग्रहात्तिष्ठन्ति । अधिकारसमाप्तौ पुनस्ते ते तया तया शक्त्या वियुज्यन्ते इत्यर्थः । तदुक्तं विष्णुधर्मोत्तरे—
ब्रह्मा शम्भुस्तथैवार्कश्चन्द्रमा च शतक्रतुः ।
एवमाद्यास्तथैवान्ये युक्ता वैष्णवतेजसा ॥
तत्तत्कार्यावसाने च वियुज्यन्ते स्वतेजसा ।
वितेजसश्च ते सर्वे पञ्चत्वमुपयान्ति हि ॥ इति ।
अयं भावः—वृद्धहारीतस्मृत्यादौ हि भगवन्तमाराध्य कस्मिंश्चित्कल्पे कश्यपो ब्रह्मा बभूव अगस्त्यो रुद्रो बभूव इति स्मर्यते ।
अत्रायमेव प्रकारो यत्कश्यपादीनां तादृक्तपश्चर्यां दृष्ट्वा प्रसन्नो भगवान्तथाधिकारं दित्सुस्तत्कार्ययोग्यत्वसम्पादनार्थं स्वीयानादिसिद्धब्रह्मत्वादिशक्तिरूपं तेजः प्रवेशयति । पुनश्च सङ्केतितपरादिकालसमाप्तौ ततश्चान्तर्धापयति इति । यथा देवदत्तं मण्डलेश्वरं कुर्वन्भद्रबाहुर्नृपः सैन्यादिकमर्पयति । अधिकारसमाप्तौ च ततोऽपकृष्यान्यस्मै अधिकारिणेऽर्पयति तदाधिकारच्युतौ देवदत्तस्तद्दृष्ट्ञामृत एवोच्यते इति । यस्मिंश्च कल्पे तादृशाधिकारी जीवो न वर्तते तदा भगवदिच्छया तत्तच्छक्तिरेवांशतः प्रकटीभूय ब्रह्मादिरूपेण कार्याणि करोति इति । एवमेव विवृतं श्रीपुरुषोत्तमाचार्यैर्वेदान्तरत्नमञ्जूषायां, कृपास्य दैन्यादियुजि प्रजायते इति कारिकाव्याख्याने—विश्वरूपब्रह्मणः श्रीपुरुषोत्तमस्य विश्वात्मत्वेन विश्वस्य जगतोऽधिकरणत्वात्विश्वं जगत्तत्रावतिष्ठते शक्त्यात्मना । विष्णुधर्मोत्तरे—
ब्रह्मा शम्भुस्तथैवार्कश्चन्द्रमा च शतक्रतुः ।
एवमाद्यास्तथैवान्ये युक्ता वैष्णवतेजसा ॥
इति परापरात्मशक्तिरूपत्वाच्च विश्वस्येति निर्वादः । तथा च गीयते—
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत॥ [गीता ८.५] इति ।
तथैव सर्वाधिकारिणामधिकाररूपः शक्तयस्तस्यैव तत्रैव तिष्ठन्ति । सृष्टिसमये तत्तदधिकारिणां ब्राह्मरौद्रादिपदारोहणयोग्यानां तत्तज्जगत्स्रष्टृत्वसंहर्तृत्वादिभिर्युनक्ति । प्रलये च तान्विश्वाधिकारिणस्ताभिर्वियुनक्ति । परन्तु सर्वावस्थायां तस्य सार्वदिकत्वाविशेष एव । तथा मुक्तानामपि विश्वरूपे भगवति तदात्मकत्तयावस्थानमविरुद्धम् । स एव भगवद्भावापत्तिलक्षणो मोक्षः सायुज्यशब्देनाप्युच्यते इत्यादि ग्रन्थसन्दर्भेण ।
एवं चैतेषां ब्राह्मरौद्रादिशक्तीनां ब्रह्मानुभवपूर्वकं विश्वरूपे भगवति तत्तच्छक्त्यात्मनावस्थानरूपे स्वोक्तमोक्षे दृष्टान्तीकरणादेतासां शक्तीनां भगवदनुभवपूर्वकं भगवति स्थितिलक्षणमोक्षो नित्य एवेत्यपि तेषां तात्पर्यमुक्तं भवतीति । तदेवाग्रे कथयिष्यति—सच्चिदानन्दैकरसे भक्तियोगे तिष्ठति [गो.ता.उ. २.८८] इत्यादि न्यायेनेत्यपि बोध्यम् ।
ताश्च शक्तयो भगवदात्मिका नित्यसिद्धा भगवदात्मके परे धम्नि मूर्तिमत्यः सत्यो निरन्तरं भगवन्तं पर्युपासते । ता एव च शक्तयः नित्यसिद्धाः, तत्तद्देवतावाचकशब्दानां शक्यभूताः । अत एव तत्तद्देवतानां जन्यत्वेऽपि न वेदस्यापौरुषेयत्वव्याघातः । तत्तच्छब्दानां तत्तद्देवतागतानादिसिद्धतत्तच्छक्तिमादायैव प्रवृत्तेः, ता एव शक्तय इन्द्रत्वब्रह्मत्वरुद्रत्वदिजाकृत्यादिशब्दैश्च व्यपदिश्यते ।
तदभिप्रायेणैवाह भगवान्वेदव्यासः—शब्द इति चेन्नातः प्रभावात्प्रत्यक्षानुमानाभ्याम् ॥ अत एव च नित्यत्वं [वे.सू. १.३.२८२९] उक्तं च तत्रैव वेदान्तकौस्तुभप्रभायां केशवकाश्मीरिचरणैः—
जातिमत्यो व्यक्तय उत्पद्यन्ते, न जातयः जातिभिश्च शब्दानां सम्बन्धो न व्यक्तिभिः । व्यक्तीनामानन्त्यात्सम्बन्धग्रहणानुपत्तेः । एवं च देवादिव्यक्तिषूत्पद्यमानास्वपि देवादिशब्देष्वाकृतीनां नित्यत्वात्, नित्य एव तेषां वाचकभाव इति ।
शाङ्करभाष्येऽपि पूर्वपक्षमुपपाद्योत्तरमुच्यते—
गवादिशब्दार्थनित्यत्वदर्शनात। न हि गवादिशब्दामुत्पत्तिमत्त्वे तदाकृतीनामप्युत्पत्तिमत्त्वं स्यात। द्रव्यगुणकर्मादिव्यक्तय उत्पद्यन्ते नाकृतयः । आकृतिभिश्च शब्दानां सम्बन्धो न व्यक्तिभिः । व्यक्तीनामानन्त्यात्मबन्धग्रहणानुपपत्तेः व्यक्तीनामुत्पद्यमानास्वपि आकृतीनां नित्यत्वान्न गवादिशब्देषु विरोधो दृश्यते । तथा देवादिव्यक्तिप्रभवाभ्युपगमेऽपि आकृतिनित्यत्वान्न कश्चिद्वस्वादिशब्देषु विरोध इति द्रष्टव्यमिति ।
वल्लभभाष्येऽपि वेदोक्ताः सर्वा एव पदार्था आधिदैविका एव पुरुषावयवभूताः । अतो नामप्रपञ्चो वेदात्मको भिन्न एवाङ्गीकार्यः । स केवलं शब्दकसमधिगम्य इति यदुक्तं तस्याप्ययमेवाशयः । एवं च या नित्या जात्याकृत्यादिशब्दवाच्यास्तत्तद्देवानामाधिदैविक्यो नित्यसिद्धरौद्र्यादिभगवच्छक्तयः, ता एव आद्या अव्यक्ता रुद्रेषु रौद्री इत्यादिना निरूपिता इति ध्येयम् । तासां मूर्तीनां शक्तीनामनन्तत्वेऽपि द्वादशविधत्वकथनं सुबोधाय । यथा भगवदैश्वर्याणामनन्तत्वेऽपि षण्णां भग इतीङ्गना [वि.पु. ६.५.७४] इत्यादिना षड्विधत्वमुच्यत इत्यपि ध्येयम् ।
एवं च प्रकृतिकालातीते परे धाम्नि यत्ब्रह्मशङ्कररूपाद्यैरुपर्युपरि सम्भ्रमात्पतन्ति बलिहस्तानि । तथा—
प्रह्लादनारदाद्यैश्च कुमारशुकवैष्णवैः ।
जनकाद्यैर्लसद्भावैस्तन्मूर्तिध्यानतत्परैः ॥
अप्सरोभिश्च गन्धर्वैर्नृत्यगीतनिरन्तरम् ।
श्रीमद्वृन्दावनं रम्यं पूर्णानन्दरसाश्रयम् ॥
सूर्यमन्दांशुसेवितम्…
इति यत्तत्तत्कार्यपरतया ये देवर्षिगन्धर्वाप्सरःप्रभृतयः पुराणपञ्चरात्रादौ स्मर्यन्ते, ते इमा एव प्रकृतशक्तयः तादृशतादृशाप्राकृतमूर्तिमत्यः, न तु प्राकृतमण्डलान्तर्वर्तिनः प्राकृतविग्रहाः । प्रकृतिकालातीतेऽक्षरे धाम्नि प्राकृतानां तादृशरूपेण तृणखण्डानां वह्निराशाविव प्रवेशस्थित्योर्वा सम्भवातित्यपि बोध्यम् ॥७३॥
==७४७५==
केषु केषु देवादिषु का का मूर्तयस्तिष्ठन्ति इत्याह—
रुद्रेषु रौद्री, ब्रह्मण्येषु ब्राह्मी, देवेषु दैवी, मनुष्येषु मानवी, विनायकेषु विघ्ननाशिनी, आदित्येषु ज्योतिर्, गन्धर्वेषु गान्धर्वी, अप्सरःस्वेवं गौर्, वसुष्वेवं काम्या, अन्तर्धानेऽप्रकाशिनी, आविर्भावतिरोभावा स्वपदे तिष्ठति ॥७४॥
तामसी राजसी सात्त्विकी मानुषी विज्ञानघनानन्दघन
सच्चिदानन्दैकरसे भक्तियोगे तिष्ठति ॥७५॥
रुद्रेषु रौद्री इत्यादि रुद्रेषु शङ्करादिषु रौद्री इत्यर्थः । ब्रह्मण्येषु इति ब्रह्मण्य इति कार्यब्रह्मणो हिरण्यगर्भस्यैव नामान्तरम् । यथा साधारणकोशनिबन्धेषु हिरण्यगर्भनामत्वेनासिद्धोऽपि हैरण्य इति शब्दः, तदु होवाच हैरण्यः इत्यादौ व्युत्पत्तिविशेषबलात्प्रेरणबलाच्च हिरण्यगर्भवाचकतयैव निश्चीयते, तथात्रापि ब्रह्मण्यपदं ब्राह्मणे ब्रह्मणि वेदे परे ब्रह्मणि वासाधुरिति व्युत्पत्तिबलाद्रुद्रा यजन्ति ब्रह्मा यजति इत्यादिप्रकरणबलाच्च हिरण्यगर्भवाचकतया निश्चीयते । तथा च ब्रह्मण्येषु हिरण्यगर्भेषु ब्राह्मी मूर्तिस्तिष्ठतीत्यर्थः । ब्रह्मण्यपदोत्तरं बहुवचनप्रयोगेण ब्राह्मीपदोत्तरमेकवचनप्रयोगेण च ब्रह्माण्डानामानन्त्येन हिरण्यगर्भाणामानन्त्येऽपि तेषु सर्वेष्वपि एकैव ब्राह्मी मूर्तिरंशभेदात्सर्वत्र तिष्ठति, न तु हिरण्यगर्भभेदात्ब्राह्मी मूर्तिभेद इति सूचितम् ।
इन्द्राग्नित्वादिसम्पादिका ऐन्द्र्यादिशक्तयो मूर्तयो यद्यपि भिन्नाः, तथापि देवत्वादिसम्पादिका सर्वेष्वपि देवेष्वेकैवेत्याशयेनाह—देवेषु दैवी इत्यादि । एवमेव विनायकादित्यगन्धर्वाप्सरोगोवस्वादिष्वपि बोध्यम् । इदमुपलक्षणमैन्द्रीचान्द्र्य्सुरीयाक्षीप्रभृतीनामनन्तानाम् ।
अन्तर्धानेऽप्रकाशिनी इति अन्तर्धानं तिरोधानं वस्तुतः सत्त्वेऽप्यप्रतीतियोग्यतासम्पत्तिः । तत्राप्रकाशिनी शक्तिस्तिष्ठति इत्यर्थः । अयं भावः—देवादिषु यान्तर्धानयोग्यता शास्त्रेषु वर्ण्यते, सानादिसिद्धाधिदैविकी अप्रकाशिनीरूपभगवच्छक्तिमूलैव । एवं च देवादिषु अन्तर्धानयोग्यतासम्पादिका या शक्तिः मूर्तिः, साप्रकाशिनी इति ।
एकादशीमाह—आविर्भावतिरोभावात्मिका या शक्तिः स्वपदे तिष्ठतीति आविर्भावतिरोभावात्मिका या शक्तिर्मूर्तिः सा स्वपदे स्वस्याश्रये भगवत्येवामूर्तरूपेण, मूर्तरूपेण प्राकृते धाम्नि च तिष्ठतीत्यर्थः । यद्यपि पूर्वदर्शिताः सर्वाः शक्तयः पूर्णरूपेण भगवत्येव स्वाभाविकत्वेन तिष्ठन्ति, परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च [श्वे.उ. ६.८] इति श्रुतेः, तस्यैव सर्वशक्तीनां सर्वातिशायिस्वाभाविकाधारत्वात्, तथापि रौद्र्यादिशक्तयः अंशतो रुद्रादिदेवतास्वपि तिष्ठन्ति । इयं तु आविर्भावतिरोभावात्मिका भगवत्येव तिष्ठति नान्यत्रेत्यभिप्रायः । आविर्भावतिरोभावेत्यत्र भावपदेन निखिलजगदाविर्भावतिरोभावात्मिका शक्तिर्मूर्तिपदेन विवक्षिता । तेन योगमहिम्नाऽन्येषामपि किञ्चिद्वस्त्वाविर्भावतिरोभावजनकत्वेऽपि न क्षतिः । यद्यपि,
आविर्भावतिरोभावशक्ती द्वे मुरवैरिणः ।
तदेतदक्षरं नित्यं जगन्मुनिवराखिलम् ॥
आविर्भावतिरोभावजन्मनाशविकल्पवत॥ [वि.पु. १.२२.६०]
इति विष्णुपुराणवाक्यादाविर्भावतिरोभावशक्तेर्द्वैविध्यं निश्चीयते, तथापि इहैकत्वकथनमाविर्भावतिरोभावशक्त्योरन्योन्यप्रतियोगित्वेन नित्यसम्भिन्नत्वादिति बोध्यम् ॥७४॥
द्वादशीमाह—राजसी इत्यादि । अन्यापेक्षया तत्र मानुषी इत्यस्य मिश्रेत्यर्थः । मनुष्याणां प्राया अन्यापेक्षयाधिकमिश्रस्वभावत्वात। तथात्वस्य विशेषतस्तन्निष्ठत्वस्य च बोधनाय मानुषीत्वमुक्तम् । अस्याश्चतुर्विधत्वेऽपि मूलत एकत्वात्राजसादिभावनियामकत्वेन कार्यभिन्नत्वेऽपि स्वरूपत एकत्वात्द्वादशीत्वेनैकत्वोक्तिः ।
एताश्च सर्वा रौद्रादिशक्तयो न केवलं तत्तद्देवादिष्वाविश्य तानि तानि जगत्कार्याणि कुर्वन्त्योऽपि स्वतः पूर्णरूपेण प्रकृतिपरे धाम्नि नित्यमुक्तान्तरशेषगरुडादिवन्नित्यमुक्ताः सच्चिदानन्दमूर्तयः सन्त्यः सच्चिदानन्दात्मकेन परमेण भक्तियोगेन भगवन्तमप्यनुकुलयन्तीत्यभिप्रायेणाह—विज्ञानानन्दघन इति । मूर्तिरित्येकवचनं समूहाभिप्रायेण । घनपदद्वयोक्तिः केषाञ्चिद्विग्रहांशे ज्ञानप्राधान्याय, यथा ऋष्यादीनाम्, केषाञ्चिदानन्दप्राधान्याय यथाप्सरःप्रभृतीनाम् । तथा च विज्ञानघना आनन्दघना वा मूर्तयः सत्यः रौद्रयादिमूर्तयः परे धाम्नि सच्चिदानन्दैकरसे भक्तियोगे तिष्ठन्ति इत्यर्थः । अत्र,
ब्रह्मशङ्कररुद्राद्यैः कुमारनारदाद्यैश्च ।
जनकाद्यैर्लसद्भावैस्तन्मूर्तिध्यानतत्परैः ।
अप्सरोभिश्च गन्धर्वनित्यगीतनिरन्तरम् ॥
इत्याद्युक्तानि परमधामवर्णकवाक्यानि पुनरनुसन्धेयानि । यथा च पुरुषोत्तमाचार्यपादेनाप्येतासां शक्तीनां नित्यमुक्तभक्तत्वे तात्पर्यं तथोक्तमनुपदमित्यनुसन्धेयम् ।
अत्र जिज्ञासितम्—कथं वा देवा यजन्ति ? स्वपदानुगा का ? अन्तर्धाने तिष्ठति का ? यां मनुष्या यजन्ति, सा का ? इति । तत्र सा एव रौद्र्यादिमूर्तयोऽव्यक्ता व्यक्तेषु रुद्रादिष्वाविष्टा व्यक्ताः केशवादिभगवन्मूर्तीः यजन्ति । आविर्भावतिरोभावा स्वपदानुगा । अप्रकाशिनी अन्तर्धाने तिष्ठति । या द्वादशी शक्तिसमुपेता तां मनुष्या यजन्ति ।
यद्वा, तदनुकूलशक्त्युपेतत्वेनाभिव्यक्ता या भगवन्मूर्तिः, सा भगवन्मूर्तिः तच्छक्त्याविष्टदेवता यजन्ति, यथा रौद्रीशक्त्याविष्टा व्यक्ता सङ्कर्षणमूर्तिः । तमोगुणनियामकत्वादिति सङ्कर्षणं रौद्रीशक्त्याविष्टा रुद्रा देवता यजन्ति । एवं ब्रह्मा यजति इत्यादि बोध्यम् ।
वस्तुतस्तु प्रश्नवाक्ये व्यक्तानां मूर्तीनामिति स्थाने « अव्यक्तानां मूर्तीनां » इति पाठः प्रतिभाति । तथा च पूर्वं तासां मध्ये साक्षाद्ब्रह्म गोपालपुरी [गो.ता.उ. २.३२] इत्यनेन वाक्येन माथुरधाम्नः प्रकृतिकालातीतत्वमक्षरब्रह्मरूपत्वं च निरूपणम् । एवं तत्र स्थिताः मूर्तीः कथं प्राकृतदेवाः तत्र प्रवेशानर्हा यजन्ति ? इति । इति प्रथमप्रश्नवाक्याशयः । तुरीयप्रश्नस्यापि तथैवाशयः । एवं च का मनुष्या यजन्ति ? इत्यस्य कथं केन प्रकारेण तत्रापि मनुष्या नितरां प्राकृतास्ताः यजन्ति ? इति तदर्थः ।
एतेषामुत्तरं तु—प्रकृतिकालातीते परे माथुरधाम्नि भगवन्मूर्तीर्न प्राकृता देवा यजन्ति, अपि तु तां तां देवतामाविश्य तत्तत्कार्यकर्त्र्यो या अप्राकृता नित्यम्मुक्ताश्चिदानन्दमया भगवच्छक्तिभूता रौद्रादिशक्तयो अप्राकृतरुद्राद्याकारास्ता एव तां तां भगवन्मूर्तिं यजन्ति इति प्रथमप्रश्नस्योत्तरम् । द्वितीयतृतीययओस्तु पूर्वकल्पवदेव इति न पुनरुच्यते । तुरीयस्य तु नहि प्राकृता मनुष्या प्राकृतचिदानन्दघना या मानवी भगवच्छक्तिरप्राकृतमनुष्याकारा सा यजतीति न कश्चित्क्षतिः । यश्च शिलादिरूपेण व्यक्ता मूर्तयः, तास्तु व्यक्ता अपि देवाद्याः यजन्तीति सर्वं समञ्जसम् ॥८७॥
सच्चिदानदैकरसे भक्तियोगे । इत्यत्र भक्तिरूपे योगे सच्चिदानन्दैकरसत्वस्य सामानाधिकरण्येन विशेषणात्भक्तेः सच्चिदानन्दैकरसरूपत्वं श्रुत्यैवोक्तम्, तेन यत्कैश्चिदुच्यते, भक्तिर्नामान्तःकरणस्य सत्त्वपरिणामविशेषः, तत्र प्रतिबिम्बितचैतन्यानन्दो वा, न तु शुद्धचिदानन्दरूपः । अतः परममुक्तावन्तःकरणनिवृत्तौ सापि निवर्तत एवेति, न तस्याः परममुक्तभोग्यत्वमिति तन्निरस्तम् । स्वयं श्रुत्यैव तस्याः स्वशब्देनैव चिदानन्दैकरसत्वनिरूपणात। अणुमात्रमपि तद्भक्तौ प्राकृतसम्पृक्तत्वं प्रतिषिद्धम् । तेन नितरामन्तःकरणवृत्तिरूपत्वं तत्प्रतिफलितचैतन्यानन्दरूपत्वं च प्रतिषिद्धं भवतीत्यपि बोध्यम् ।
न च सच्चिदानन्द एव एको रसः रसनीयो यत्र तथाविधो भक्तियोग इत्येव तदर्थः । तथा च भक्तियोगालम्बनभूतस्य भगवत एव सच्चिदानन्दत्वमुक्तं भवति, न तु भक्तेरिति वाच्यम् । बहुव्रीहिसमासापेक्षया लाघवेन कर्मधारयस्यैव सुवचत्वात्, बहुव्रीहिसमासे लक्षणाया अवश्यकर्तव्यत्वापत्त्या गौरवात। अत एव निषादस्थपतिं याजेत इत्यत्र कर्मधारय एव स्वीकृतो, न तु बहुव्रीहिः । इति पूर्वमीमांसाया सिद्धान्तः । तस्मात्सच्चिदानन्द एव एको रसः सच्चिदानन्दैकरसः । सच्चिदानन्दैकरसो यो भक्तियोगः, तस्मिनित्येवं कर्मधारयसमासगर्भित एवार्थः । भक्तियोगः इत्यत्रापि भक्तेर्योग इति न समासः, अपि तु भक्तिरूपो योगः भक्तियोगः इत्येवार्थो बोध्यः । तथा च फलभक्तेः सच्चिदानन्दरूपत्वं सिद्धिर्निष्प्रत्यूहा इति दिक॥७५॥ (इति अष्टादशः खण्डः ।)
ओ)०(ओ
== ७६ ==
वृत्तं निरूपणीयम् । अथ निरूपितान्येवार्थतत्त्वानि सङ्गृह्य निदर्शनीयानि सुबोधाय । उपसंहारश्च कर्तव्यः । अतस्तापिनीब्रह्मविद्यायाः शरणागत्येकसाधनकतया तत्प्रधानस्तुतिमुखेनैव सर्वान्निरूपितानर्थान्सङ्गृह्णाति—
ओं ठां प्राणात्मने
ओं ठां सद् भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
ओं क्लीं इत्यनर्थान्तरं क्लीमोंकारयोरेकत्वं पठ्यते ब्रह्मवादिभिः इत्युक्तश्रुतेः । तस्मादोंकारसम्भूतो गोपालो विश्वसंस्थितः इत्युक्तरीत्या समग्रौंकारस्य सखण्डाखण्डवृत्तिवाच्यायेत्यर्थः । प्राणात्मने प्राणानां मुख्यप्राणानामात्मने तात्पर्यपर्यवसानस्वरूपाय तदन्तर्यामिणे च । ओं तत्सत्भूर्भुवः स्वस्तस्मै प्राणात्मने नमो नम इति । ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः इति स्मृतेः । ओंतत्सच्छब्दानामखण्डवृत्तिवेद्याय भूर्भुवःस्वरादिपञ्चव्याहृतिमयनिखिलजगदात्मने नमो नमः ।
अत्र प्रथमप्राणशब्देन आध्यात्मिकवायुरूपस्य द्वितीयप्राणशब्देन देवतायाश्च ग्रहणं तेनोभयात्मत्वं बोधितं भवति । एवमग्रे अपानादावपि बोध्यम् । पुनः पुनरात्मात्मीयं सर्वं समर्पयामि इत्यर्थः । नम इत्यत्र मशब्दस्यात्मात्मीयार्थकत्वस्य नशब्दस्य तन्निषेधपरत्वस्य च निरूपणात। नमःशब्दस्य नमो नारायणायेति मन्त्रव्याख्याने पञ्चरात्रे बृहद्ब्रह्मसंहितायां वृद्धहारीस्मृतौ च तथैव व्यवस्थापितत्वात॥८९॥
ओ)०(ओ
(९०)
ननु प्रणववाच्याय प्राणात्मने कस्मै आत्मात्मीयं समर्पयामि इति विशेष्याकाङ्कायामाह—
ओं ठां श्रीकृष्णाय गोविन्दाय गोपीजनवल्लभाय
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
ओं क्लीमित्यनर्थान्तरमित्युक्तम् । श्रीपदवाच्यं भगवत्स्वरूपान्तरभूतं सर्वस्त्रीबीजरूपं परमलक्ष्मीतत्त्वमेवेत्युपपादितं पूर्वतापिन्यां, श्रीकृष्णं ध्यायन्तः इति श्रुतिव्याख्याने । उत्तरतापिन्यां च तत्र तत्रेति बोध्यम् । तया सहितः नित्यसम्बन्धयुतः कृष्णः तस्मा इत्यर्थः । कृष्णगोविन्दगोपीजनवल्लभेति पदत्रयं पूर्वतापिन्यामेव व्याख्यातम् । एतद्वाक्येन पूर्वतापिन्युक्तपञ्चपदीविद्यैवोपस्थापिता । केवलं पञ्चपदीवाक्यार्थस्फोरणाय क्लीमित्यस्य स्थाने ओमिति नमश्च स्वाहास्थाने व्याहृतिः । कृष्णपदपूर्वभागे श्रीपदं च निवेशितमिति । तत्र प्रथमयोगेन क्लीमोंकारयोरेकार्थत्वं श्रीपदेन मन्त्रघटककृष्णपदार्थे श्रियो नित्यसाहित्यं व्याहृतिप्रयोगेण व्याहृतिवाच्यभूरादिलोकोपलक्षितसमग्रप्रपञ्चस्य स्वाहापदार्थभगवदिच्छाशक्तिभूतमायाधीनत्वं चार्थतः सूचितमित्यपि बोध्यम् । एषैव पञ्चपदीविद्या समग्रतापिन्या महावाक्यभूता । अत्रैव समग्रवेदार्थानामन्तर्भाव इति तापिनीव्याख्यानेनातिरोहितमेव । एवं च इह पञ्चपदीद्वारैव विशेष्योपस्थापनम् । तथा च सखण्डाखण्डवृत्तिभ्यां समग्रप्रणववाच्याय प्राणात्मने भूरादिसर्वजगदात्मने पञ्चपदीविद्याप्रतिपाद्याय श्रीकृष्णायात्मात्मीयं तदात्मकं तदीयं सर्वमहं समर्पयामीति वाक्यार्थः ॥९०॥
ओ)०(ओ
(९१९२)
ओमपानात्मने
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै अपानात्मने नमो नमः ॥
ओं ठां कृष्णाय रामाय प्रद्युम्नायानिरुद्धाय ।
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
अथ मुख्यप्राणे अपानादिप्राणवृत्तिवत्पञ्चपदीविद्याप्रतिपाद्ये मूलरूपपुरुषोत्तमेऽनिरुद्धादिव्यूहानन्तर्भावयन्ती तस्मै स्वात्माक्तोऽयं समर्पयति श्रुतिः । तथा च मध्ये मध्ये तत्तत्प्राणवृत्त्यात्मकत्वप्रतिपादनं तेषां भगवदात्मकत्वबोधनाय, व्यूहानां मूलरूपेऽन्तर्भावे दृष्टान्तभावाय चेति बोध्यम् ।
ओमपानात्मने इत्यादि पूर्ववत। ओं श्रीकृष्णाय प्रद्युम्नायानिरुद्धाय इति । अत्र ओं श्रीकृष्णाय गोविन्दाय गोपीजनवल्लभायेत्यनुपदोक्तमन्त्रस्यैकदेशश्रीकृष्णायेत्यंशस्य पठनं शेषानामनुक्तानामांशानामुपलक्षकम् । तेन समग्रपञ्चपदीविद्याप्रतिपाद्यो यः श्रीकृष्णः तस्मै प्रद्युम्नायानिरुद्धाय प्रद्युम्नानिरुद्धव्यूहयोरात्मने आत्मभूताय नमो नमः इत्यर्थः ।
ओं तत्सद्भूर्भुवः स्वरित्येतेषामर्थस्तु पूर्ववत। एवमेव श्रीकृष्णाय रामाय, श्रीकृष्णदेवकीनन्दनाय, इति त्रिष्वपि वाक्येषु बोध्यम् । अत्र रामपदेन सङ्कर्षणव्यूहो गृह्यते । देवकीनन्दनपदेन वासुदेवाख्यस्तुरीयो व्यूहो गृह्यते । तेन चतुर्णामपि व्यूहानां पञ्चपदीविद्यागम्यसर्ववेदान्तवेद्यपरमकाष्ठापन्नसर्वमूलरूपसत्पुण्डरीकनयनेत्याद्युक्तस्वरूपकृष्णात्मकत्वं तादृशमूलरूपस्यैव च । अनिरुद्धादिचतुर्व्यूहात्मकमंशित्वादिकं चोक्तं भवति ।
इदमग्रे बोध्यम् । अंशेषु प्रदीपादिषु अंशिनस्तेजस्तत्त्वादेर्नियतान्वयः सर्वानुभवसिद्धः, न तु अंशिनस्तेजस्तत्त्वसामान्ये अंशस्य प्रत्येकस्य प्रदीपादेः । तेनेदं निश्चीयते यत्सर्वानुगतो भवति स एवांशो सर्वेषामंशानामात्मभूतश्च । यथा प्रदीपादीनां विशेषाणां तेजस्तत्त्वं, यश्च प्रतिनियतः स चांशविशेषादिपदवाच्यो यथा प्रदीपादिवस्तु तेजस्तत्त्वस्य । एवं चात्र व्यूहचतुष्टयेषु पञ्चपदीप्रतिपाद्यस्य श्रीकृष्णस्यानुगतत्वेन प्रतिपादनात्स एवांशी । अनिरुद्धादयो वासुदेवान्तास्तस्यैवांशविशेषा इति प्रतिपादितं भवति । अनयैव प्रक्रियया गीतायां विभूत्यध्याये रुद्राणां शङ्करश्चास्मि इत्यादौ सर्वत्राहं पदार्थस्यानुगमात्, अहमर्थः श्रीकृष्णः अंशी विभूतिमान्शङ्करादिश्चांशविशेषो विभूतिरिति निश्चितं भवति, सोऽयं प्रक्रियांशांशिभावबोधकतया सर्वशास्त्रसिद्धैवेति बोध्यम् ।
बृहदारण्यके हि शाकल्यप्रश्ने एक एव देव इति याज्ञवल्क्येन निर्धारितम् । स क इत्याकाङ्क्षया कतम एको देव इति प्राण इति स ब्रह्म इत्याचक्षते [बृ.आ.उ. ३.९.९] इति प्राणस्यैव तादृशैकदेवत्वमुक्तं स च न मुख्यामुखप्राणरूपः, किन्तु ब्रह्मैव परमप्रियत्वात्प्राणपदवाच्यमिति स ब्रह्म इत्यनेन सूचितम् । अग्रे च, कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति । प्राण इति । कस्मिन्नु प्राणः प्रतिष्ठित इत्यपान इति । कस्मिन्न्वपानः प्रतिष्ठित इति । व्यान इति । कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति । कस्मिन्नूदानः प्रतिष्ठित इति । समान इति [बृ.आ.उ. ३.९.२६] इति समाने पर्यवसानमुक्त्वा तस्य समानस्य मुख्यप्राणरूपत्वमाशङ्क्य तन्निवारणायाह—स एष नेति नेत्यात्माऽअगृह्यो न हि गृह्यते इत्यादिनाग्राह्यन्नादिस्वासाधरणधर्मकथनमुख्येन सर्वविलक्षणतत्स्वरूपमुक्त्वा दैवान्तरस्य तन्महिमत्वं पूर्वोक्तं निगमयति— एतान्यष्टावायतनान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः । स यस्तान्पुरुषान्निरुह्य प्रत्युह्यात्यक्रामतित्यादिनेति । अतोऽत्रापि सर्वेषां व्यूहानां क्रमशः समानख्ये परे ब्रह्मणि गोपाले प्रतिष्ठाबोधनार्थं तेन तेन शब्देन प्राणादिपञ्चपदार्था न वृत्तिरूपाः, किन्तु प्राणपर्याय समानाख्यब्रह्मण एव प्रकाशविशेषः इत्यपि बोध्यम् ।
(९३)
ओं व्यानात्मने
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
(९४)
ओं श्रीकृष्णाय रामाय
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
(९५)
ओमुदानात्मने
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
(९६)
ओं कृष्णाय देवकीनन्दनाय
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
(९७)
ओं समानात्मने
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
(९८)
ओं गोपालाय निजस्वरूपाय
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
ओं गोपालाय निजस्वरूपाय इति । अत्रापि श्रीकृष्णायेत्यनुवर्तते निजस्वरूपायेत्यस्य निजमात्मभूतं यत्स्वरूपं तत्निजस्वरूपं तस्मै इत्यर्थः । तथा च पञ्चपदीविद्यागम्याय श्रीकृष्णाय श्रीगोपालाय स्वसाक्षात्स्वरूपाय । ओं तत्सत्भूर्बुव्हः स्वस्तस्मै वै नमो नम इत्यर्थः ।
यद्वा, श्रीकृष्णायेति पदं नानुवर्तते निजपदेनैव तथात्वसिद्धेः । तस्यैव मूलरूपत्वेन पुनः कृष्णात्मकत्वबोधने प्रयोजनाभावाच्चेति । इदमत्र विशेषतोऽवधेयम्—वासुदेवान्तव्यूहचतुष्टयेषु क्वापि निजत्वघटितस्वरूपत्वस्याविशेषणात्गोपालमूर्तौ च विशेषणाच्छ्रीगोपालमूर्तिरेव समग्रतापिनीप्रतिपाद्यस्य परमकाष्ठापन्नस्य देवस्य निजसाक्षात्स्वरूपमन्यानि च सर्वाणि रूपाणि तस्यैव प्रकाशविशेषभूतानीति । एतेनापि वासुदेवव्यूह एव परमकाष्ठापन्नः तापिनीमुख्यप्रतिपाद्यः स एव गोपालपदवाच्यश्च इत्यपि निरस्तम् । देवकीनन्दनायेत्यनेन प्रतिपाद्ये वासुदेवव्यूहवत्विभूतिकोटी पाठात। देवकीनन्दनायेत्यनेन प्रतिपादिताद्वासुदेवव्यूहात्भिन्नत्वेन निजस्वरूपत्वकथनात्तद्वैलक्षण्येन पृथक्निरूपणाच्चेत्यपि बोध्यम् ॥९८॥
ओ)०(ओ
(९९)
ओं ठां योऽसौ प्रधानात्मा गोपालः
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै नमो नमः ॥
ननु गाः पातीति गोपाल इति व्युत्पत्तेर्गोचारणरूपलीलाव्यापृतौ गोपालो भगवद्रूपविशेष इति निश्चीयते तथा च निःशेषलीलामयसरूपं सर्वातिशायि परं ब्रह्म कथं तेन बोद्धव्यमिति चेत्, न । गोपालशब्दस्य गोपाज्जीवानात्मत्वेनासृष्टिपर्यन्तमालाति ह्यों तत्सद्गोप्लओ भवति इति श्रुत्यैव परममूलरूपपर्यवसार्य्यर्थकरणात। अत एव च गोपालशब्देन नात्र गोचारणलीलामात्रव्यापृतं स्वरूपं गृह्यतेऽपि तु
सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥ इति निरुक्तम् ।
सर्वलीलामयरसरूपमेव बोध्यमिति न काप्यनुपपत्तिः । न चैवमों श्रीकृष्णाय गोविन्दायेति सर्वानुगतमन्त्रेणैव मूलरूपस्योक्तत्वात्पुनर्गोपालाय निजस्वरूपायेति निरूपणस्य किं प्रयोजनमिति वाच्यम् । द्वापरान्ते कल्पविशेषे प्रकटीभूतस्य वृन्दावनगोचरस्यापि रूपस्य सर्वथा मूलरूपत्वबोधनायेति बोध्यम् । एतदभिप्रायेणैव ब्रह्मसंहितायामुक्तम्—
रामादिमूर्तिषु कलानियमेन तिष्ठन्
नानावतारमकरोद्भुवनेषु किन्तु ।
कृष्णः स्वयं समभवत्परमः पुमान्यो
गोविन्दमादिपुरुषं तमहं भजामि ॥ [ब्र.सं. ५.३९]
अत्र,
ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः ।
अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥ [ब्र.सं. ५.१]
इत्यनेनोपक्रान्तम् । वेणुं क्वणन्तमरविद्नदलायताक्षं बर्हावतंसं [ब्र.सं. ५.२९] इत्यादिना निरूपितमेव रूपमुक्तं तदेव रूपं द्वापरान्ते प्रकटीभूतमिति सूचितम् । एते चांशकला पुंसः कृष्णस्तु भगवान्स्वयमिति भागवतमहावाक्येऽपि तथैवाशय इति बोध्यम् ।
यद्वा, तुरीयरूपवासुदेवव्यूहस्वरूपपर्यन्तं मूलरूपस्य परमदेवस्य श्रीकृष्णस्यांशरूपमेव, न तु साक्षान्निजरूपं तर्हि तस्य परमदेवस्य साक्षान्निजरूपं किमिति जिज्ञासायाम्—ओं गोपालाय निजस्वरूपाय इति ।
तथा च सत्पुण्डरीकनयनं तमेकं गोविन्दं सच्चिदानन्दविग्रहमित्याद्युक्तगोपालस्वरूपमेव परमदेवस्य साक्षान्निजरूपमन्यानि तु रूपाणि तस्यैव प्रकाशविशेषा इति भावः । एवं गोपालाख्यस्य सत्पुण्डरीकेत्युक्तरूपस्यैव परमदेवस्य श्रीकृष्णस्य सर्वव्यूहात्मत्वं सर्वमूलरूपत्वं प्रतिपादयन्ती श्रुतिः स्तुत्वा तय्सैव प्रधानात्मत्वं निरूपयति । तेन स एव प्रधानादीनामपि सर्वेषां जडानामात्मा प्रधानादयं तु—एकमेवाद्वयं ब्रह्मासीत्तस्मादव्यक्तमव्यक्तादेवाक्षरमित्युक्तदिशा तदधीनस्थित्प्रवृत्तिलयकत्वात्तदात्मकमेव, न तु ततोऽव्यतिरिक्तं स्वतन्त्रमत्ताकं चेति सूचयन्ती स्तौति—ओं ठां योऽसौ प्रधानात्मा इति । योऽसौ सर्ववेदप्रसिद्धः प्रकृततापिनीविद्यानिरूपितः परमदेवः कृष्णाख्यो गोपालः स एव प्रधानात्मा प्रधानस्य तमोऽव्यक्ताद्यपरपर्यायस्य त्रिगुणमयस्य आत्मा—तमः परे देवे एकीभवति इति श्रुत्यन्तरात्पर्यवसानभूतो गोपालः तस्मै इत्यर्थः । ओं तत्सदित्यादेर्व्याख्यानं पूर्ववत॥९९॥
(१००)
ओं ठां योऽसाविन्द्रियात्मा गोपालः
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै नमो नमः ॥
इन्द्रियाणां चक्षुरादीनां तन्नियामकसूर्यादिदेवानां च आत्मा, गताः कलाः पञ्चदशप्रतिष्ठादेवाश्च सर्वे प्रतिदेवतासु कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति इति श्रुतेश्चमरमपर्यवसानरूप इत्यर्थः ॥१००॥
(१०१)
ओं ठां योऽसौ भूतात्मा गोपालः
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै नमो नमः ॥
भूतानि पञ्चतन्मात्रारूपाणि पञ्चमहाभूतरूपाणि च । तेषामात्मा परमपर्यवसानभूत इत्यर्थः । एतानि प्रधानेन्द्रियभूतपदानि महदहङ्कारयोरप्युपलक्षकानि, भूतपदं च स्वकार्याणां सर्वेषां पर्वतनद्यादीनां ब्रह्मादिस्तमपर्यन्तविग्रहाणां चोपलक्षकम् । तेन तमोऽक्षराव्यक्तमहदादिनिखिलकार्याणां श्रीकृष्णात्मकत्वमुक्तं भवति ।
यद्वा, योऽसौ प्रधानात्मा निरुक्तप्रधाननियामकः ।
यस्यैकनिश्वसितकालमथावलम्ब्य
जीवन्ति लोमविलजा जगदण्डनाथाः ।
विष्णुर्महान्स इह यस्य कलाविशेषो
गोविन्दमादिपुरुषं तमहं भजामि ॥ [ब्र.सं. ५.४८] इति ।
नारदपञ्चरात्रब्रह्मसंहिताद्युक्तलक्षणः प्रथमः पुरुषावतारः तद्रूपो गोपालः—तस्मै इत्यन्वयः । अत्र प्रधानपदं महत्तत्त्वस्याप्युपलक्षकम् । एवमों य इन्द्रियात्मा । समष्टीन्द्रियतत्त्वनियामकः,
यः कारणार्णवजले भजति स्म योग
निद्रामनन्तजगदण्डसरोमकूपः ।
आधारशक्तिमवलम्ब्य परां स्वमूर्तिं
गोविन्दमादिपुरुषं तमहं भजामि ॥ [ब्र.सं. ५.४७] इति ।
उक्तलक्षणो द्वितीयः पुरुषावतारः तद्रूपाय गोपालायेत्यर्थः । अत्र इन्द्रियपदमहङ्कारस्याप्युपलक्षकं पूर्ववत। भूतात्मा सूक्ष्मस्थूलपञ्चमहाभूतनियामको यः तृतीयः पुरुषावतारः तद्रूपो यो गोपालस्तस्मै इत्यर्थः ।
प्रथमं महतः स्रष्टा द्वितीयं त्वण्डसंस्थितम् ।
तृतीयं सर्वभूतस्थं तानि ज्ञात्वा विमुच्यते ॥ इति वाक्यात।
एवं च त्रयाणामपि पुरुषावताराणां गोपालस्यैव रूपान्तर्त्वसूचनात्पुरुषावताराणामपि गोपाल एवांशी तस्यैवांशविशेषास्त्रयः पुरुषा इत्युक्तं भवति । एतदभिप्रायेणैव ब्रह्मसंहितायां यस्यैकनिःश्वसितमित्यादिना तेषां गोविन्दकलात्वमुक्तमिति ॥
(१०२)
ओं ठां योऽसावुत्तमपुरुषो गोपालः
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै नमो नमः ॥
अथ स उत्तमः पुरुषः, पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः इत्यादिश्रुतिनिरूपितः ।
यस्मात्क्षरादतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ [गीता १५.१८] इति स्मृतेश्च ।
लोके वेदे प्रथितः पुरुषोत्तमः स एवेति । योऽसावुत्तमपुरुष इति ॥१०२॥
ओ)०(ओ
(१०३)
ब्रह्म पुच्छं प्रतिष्ठा, यो ह वै तत्परमं ब्रह्म वेद इत्यादिश्रुतिनिरूपितमक्षरं ब्रह्म परं ब्रह्म च तदुभयमप्ययमेव इत्याह—
ओं ठां योऽसौ परं ब्रह्म गोपालः
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै नमो नमः ॥१०३॥
कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥
सकलं परं ब्रह्मैव ततिति पूर्वं प्रतिज्ञातं चोपसंहृतम् ॥१०३॥
(१०४)
एष त आत्मान्तर्याम्यमृतः [बृ.आ.उ. ३.७.२३], स एष सर्वभूतान्तरात्मापहतपामा दिव्यो देव एको नारायणः [सुबा.उ. ८] इत्यादिश्रुत्युक्तः सर्वभूतान्तरात्मा, स एवेत्याह—
ओं ठां योऽसौ सर्वभूतात्मा गोपालः
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै नमो नमः ॥१०४॥
योऽसौ सर्वभूतात्मा गोपालः इति भूतानां स्थावराणां जङ्गमानां च आत्मा अन्तर्यामिरूपः । यद्वा भूतानां जीवानां, ब्रह्मणोऽंशभूतः इत्युक्त श्रुतेः, अंशभूतानामात्मा अंशीभूतः गोपालः । तस्म इत्यर्थः । एतावता परमतत्त्वप्रतिपादकानां सर्वेषामेव श्रुतिवाक्यानां पुनाः श्रीकृष्णे समन्वयो दर्शितः परमोपसंहारश्चावतारितः । योऽसौ इत्यस्य श्रुतिषु प्रसिद्ध इति सर्वत्रार्थः ॥१०४॥
(१०५)
ओं ठां योऽसौ जाग्रत्स्वप्नसुसुप्तिमतीत्य तुर्यातीतो गोपालः
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै नमो नमः ॥१०५॥
योऽसौ जाग्रत्स्वप्नेत्यादि जाग्रत्स्वप्नसुष्प्तितुरीयतुरीयातीतोऽन्तर्यामी तत्स्वरूपतो यो गोपालः । ओं तत्सद्भूर्भुवः स्वरात्मने तस्मै नमो नमः इत्यर्थः । तत्र जाग्रदभिमानी विश्वः । स्वप्नाभिमानी तैजसः । सुषुप्त्यभिमानी प्राज्ञः जाग्रदादिसर्वप्राकृतावस्थात्रितयातीतः तुरीय इत्युच्यते । तदुक्तं माण्डूक्योपनिषदि—
जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥३॥
स्वप्नस्थानोऽन्तःप्रज्ञाः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥४॥
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक्चेतो मुखः प्राज्ञस्तृतीयः पादः ॥५॥
नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥७॥ इति ।
वैश्वानर एव विश्व इत्यप्युच्यते । तदुक्तं नृसिंहोत्तरतापनीये प्रथमखण्डे—
जागरितस्थानः स्थूलप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुक्चतुरात्मा विश्वो वैश्वानरः प्रथमः पादः ॥ इति ।
एवं चतुर्थ एव तुरीय उच्यते—चतुर्थं मन्यन्ते स आत्मा स विज्ञेय ईश्वरग्रामः [नृ.ता.उ. १.४.२] इत्यादि, समानप्रकरणे नृसिंहोत्तरतापिन्यामीश्वरग्रासस्तुरीयस्तुरीयः [नृ.ता.उ. २.१], तुरीयमानन्दामृतरूपं [नृ.ता.उ. २.३] इत्युक्तेः ॥
तुरीयातीतस्तु जाग्रदादिसर्वावस्थातीतः तुरीयादप्युत्कृष्टः । यथा गीतायां—यस्मात्क्षरादतीतोऽहमक्षरादपि चोत्तमः [गीता १५.१८] इत्यत्र क्षरमतीतः क्षरातीत इति द्वितीयासमासस्तथात्रापि तुरीयमतीतस्तुरीयातीत इति द्वितीयासमासात। तुरीयातीते तुरीयोत्कृष्टत्वस्य तत्कैमुतिकन्यायेनैव जाग्रदादिसर्वप्राकृतावस्थातीतत्वस्य च सिद्धेः । एतदभिप्रायेणैव जितंतेस्तोत्रे पञ्चरात्रे—
स्वमहिम्नि स्थितं देवं निर्विकारं निरञ्जनम् ।
अप्रमेयमजं विष्णुं शरणं त्वां गतोऽस्म्यहम् ॥
गुणातीतं परं शान्तमब्जनाभं सुरेश्वरम् ।
तुरीयाद्यतिरिक्तं त्वां कौस्तुभोद्भासिवक्षसम् ॥
विश्वरूपं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा ॥
इत्यत्रतुरीयाद्यतिरिक्त्तत्वं भगवति विशेषितम् । अत्रादिपदेन जाग्रदाद्यवस्थात्रयपरिग्रहः । न च जाग्रदाद्यतिरिक्तमित्येव वक्तव्यम् । तथा सति तुरीयातिरिक्तत्वे सन्देहः स्यादिति । एतदभिप्रायेणैव च सौभाग्यलक्ष्म्युपनिषदि—तुरीयरूपां तुरीयातीतां सर्वमन्त्रासनगतां पीठोपपीठदेवतापरिवृतां चतुर्भुजां श्रियं हिरण्यवर्णामिति पञ्चदशभिर्ध्यायेतित्यत्र तुरीयातीतपुरुषोत्तमां र्धाग (?) भूतायां श्रीमहालक्ष्म्यां तुरीयातीतत्वं विशेषितम् । एतदभिप्रायेणैव च नारदीयपुराणे श्रीराधाकृष्णसहस्रनाम्नि तस्याः—
त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ।
दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका ॥ [ना.पु. १.८२.१५०]
इत्यत्र तुरीयान्तनिवासिनीत्वमुक्तम् । पाद्मेऽपि वृन्दावनमाहात्म्ये परंधाम्नि गतं श्रीनारदं प्रति श्रीदेव्या—
वृन्दानाम्नी पुरी चेयं कृष्णचन्द्रप्रिया सदा ।
अहं च ललिता देवी तुर्यातीता च निष्कला ।
अहं च ललिता देवी राधिका या च गीयते । [५.७५.३५]
इति स्वस्याः तुरीयातीतत्वं निरूपितम् । तस्मात्तुरीयातीतत्वं नाप्रसिद्धमिति बोध्यम् ॥
ननु, एकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः [म.उ. ७] इति माण्डूक्यश्रुतौ तुरीय एव सर्वान्तिमतत्त्वतयोपदिष्ट इति निश्चीयते । स आत्मा स विज्ञेयः इति तस्यैवात्मत्वस्य विज्ञेयत्वस्य चोपदेशात। यश्च सर्वात्मा मुमुक्षुर्विज्ञेयः स परमार्थ इति स्थितिः । तथा च अतोऽप्यधिकं तुरीयातीतं किमपि इत्यलीकमिव प्रतीयते । तस्मादर्थान्तरं कल्पनीयमिति चेत्, न । तुरीयादुत्कृष्टस्य तुरीयातीतस्य स्वीकारेऽपि माण्डूक्यादौ तुरीयत्वेन तुरीयस्योक्तसर्वान्तिमतत्त्वता न विरुद्ध्यते । तुरीयातीतस्यापि तुरीयविशेषत्वात। प्राकृतसर्वावस्थातीतं स्वतः प्रकाशानन्दामृतं तुरीयशब्देनोच्यते । तदेव च घनीभूतं पुरुषाकारं तुरीयातीतशब्देनोच्यते । तथा च जाग्रदादिसर्वप्राकृतावस्थातीतत्वलक्षणं तुरीयत्वं तत्रापि निर्बाधमेव । यथा तमोविरुद्धस्वभावो भावः प्रकाशशब्देनोच्यते । स एव च घनीभूतपुरुषाकारः अग्निसूर्यादिशब्देन प्रकाशशब्देनोच्यते । नैतावता अग्नौ सूर्ये वा तमोविरुद्धस्वभावप्रकाशत्वं विरुद्ध्यते तद्वत। एतदभिप्रायेणेव च तुरीयातीतस्यात्रान्तर्यामित्वमप्युक्तम् । मूर्तप्रकाशः सूर्याग्न्यादिः । अमूर्तप्रकाशस्य नियामको भवति । तथा तुरीयातीतो मूर्तानन्द इतरेषां सर्वेषाममूर्तानन्दानां तुरीयपर्यन्तानां नियामक इति तदर्थः । तदुक्तं हयशीर्षपञ्चरात्रे—
द्वे ब्रह्मणी तु निज्ञेये मूर्तं चामूर्तमेव च ।
अमूर्तस्याश्रयो मूर्तो मूर्तानन्दोऽच्युतो मतः ॥
अमूर्तः परमात्मा च ज्ञानरूपश्च निर्गुणः ।
स्वस्वरूपश्च कुटस्थो ब्रह्म चेति त्रयं मतम् ॥ इति ।
पाद्मेऽपि पातालखण्डे वृन्दावनमाहात्म्ये—
नित्यानन्दतनुः शौरिर्योऽशरीरीति भाष्यते ।
वाय्वग्निनाकभूमीनामङ्गाधिष्ठितदेवता ।
निरूप्यते ब्रह्मणोऽपि तथा गोविन्दविग्रहः ॥ [५.७७.४०४१] इति ।
ब्रह्मवैवर्तपुराणादावपि बहुधा प्रपञ्चितम्, तत्सर्वं सङ्गृहीतं मया युग्मतत्त्वसमीक्षायाम् । तुरीयतुरीयातीतयोरुभयोर्मूर्तामूर्तानन्दरूपयोः प्रकाशाश्रयवद्वा तेजस्त्वात्[वे.सू. ३.२.२८] इति न्यायेन अभेदः । तदुक्तं कपिलपञ्चरात्रे—
अमूर्तमूर्तयोर्भेदो नास्ति तत्त्वविचारतः ।
भेदस्तु कल्पितो वेदैर्मणितत्तेजसोरिव ॥ इति ।
तिर्पाद्विभूतिनारायणीयोपनिषदि—
यथा सर्वगतस्य निराकारत्स्य महावायोश्च तदात्मकस्य त्वक्पतित्वेन प्रसिद्धस्य साकारस्य महावायुदेवस्य चाभेद एव श्रूयते सर्वत्र । यथा पृथिव्यादीनां व्यापकशरीराणां देवविशेषाणां च तद्विलक्षणतदभिन्नव्यापकापरिच्छिन्ना निजमूर्त्याकारदेवताः श्रूयन्ते सर्वत्र तद्वत्परभ्रह्मणः सर्वात्मकस्य साकारनिराकारभेदविरोधो नास्त्येव विविधविचित्रानन्तशक्तेः परब्रह्मणः स्वरूपज्ञानेन विरोधो न विद्यते । तदभावे सत्यनन्तविरोधो विभाति इति ॥
अत्र मूर्तत्वं न परिच्छिन्नपरिमाणवत्त्वमपि तु पुरुषाकारत्वम् । यथा च पुरुषाकारत्वेऽपि अपरिच्छिन्नत्वमलौकिकत्वात्तथोपपादितं युग्मतत्त्वसमीक्षायामिति ततो बोध्यम् ॥
ननु, यदि निखिलप्राकृतावस्थातीतः सच्चिदानन्द एव तुरीयः स एव च घनीभूतानन्दस्वरूपः तुरीयातीत इत्युच्यते, तदा तस्य तुरीयातीतत्वं कथं युज्यते तुरीयमतिक्रम्य इतः गतः तुरीयातीत इति व्युत्पत्तेः । तुरीयातीतशब्दस्य तुरीयविश्लेषगर्भितत्वादिति चेत्, न । तुरीयातीतशब्दस्य प्राकृतसर्वावस्थातीतत्वसच्चिदानन्दरूपत्वरूपतुरीयसामान्यधर्मतः स्वरूपतश्चातिक्रान्तत्वबोधने तात्पर्याभावात। अपि तु पुरुषाकारत्वनिरतिशयसौन्दर्यमाधुर्यदयावात्सल्यलीलापरीकरादिधर्मत एवामूर्ततुरीयादतिक्रान्तत्वबोधने तात्पर्यात। एतदभिप्रायेणैव च सौभाग्यलक्ष्म्युपनिषदि—तुरीयरूपां तुरीयातीतां इति वाक्येन । एकस्मिन्नेव श्रीमहालक्ष्मीरूपे तुरीयत्वं तुरीयातीतत्वं च निरूपितमिति ।
जाग्रत्स्वप्नसुषुप्तिमतीत्य तुर्यातीतो गोपालः इत्येवं पाठेऽपि न प्रकृतार्थहानिः । जाग्रदाद्यभिमानिविश्वादिकमतीत्य तुरीयमप्यतीतो गोपाल इति तदर्थात्तुरीयातीतत्वस्यार्थतः सिद्धेरिति ।
वस्तुतस्तु माण्डूक्येऽपि न तुरीय एव सर्वातिशायिब्रह्मरूपत्वेन निरूप्यते, तस्यापि जाग्रदादिवदवस्थाविशेषमात्रत्वात। अत एव जाग्रदादितुरीयपर्यन्तानामुपक्रमे सोऽयमात्मा चतुष्पातित्यनेन पादत्वमुक्तम् । अंशत्वमेव पादत्वं, पादोऽस्य विश्वा भूतानि [ऋ.वे. १०.९०.३] इति श्रुतौ पादशब्दस्य, आंशार्थकत्वेनैव दिव्तीयस्य तृतीयपादे मन्त्रवर्णाच्च [वे.सू. २.३.४२] इति सूत्रे व्याख्यानात।
लोकेऽप्यंशविशेषे एव पादशब्दः प्रयुज्यते गवादीनां पादा रूप्यकादीनां पादाश्च चरणकार्षापणादयो गोरूप्यकयोरंशा एव भवन्ति । यत्तु विश्वादौ पादशब्दस्य पद्यते, अनेन इति पादः इति कारणव्युत्पन्नार्थकः । तुरीये तु, पद्यते प्राप्यते इत्यर्थकः कर्मव्युत्पन्नः पादशब्दः प्रयुज्यते इति तदसमीचीनमाभाति, सोऽयमात्मा चतुष्पातित्युपक्रमे अविशेषेणैव पादत्वकथनात। अंशरूपार्थपरित्यागे बीजाभावात। एवं च यस्य ता चतस्रोऽवस्था तुरीयान्ता अंशभूता स अंशी चतुष्पात। एवं स एवात्र परमात्मा, स आत्मा स विज्ञेयः [मा.उ. ७] इत्येताभ्यां विशेष्यते । तयोरर्थस्तु स इमे निरूपिताः—चत्वारस्तुरीयान्ता पादा अंशभूता यय्स तथाविधश्चतुष्पातात्मा सर्वेषामात्मा । सर्वांशित्वात्सर्वाभिस्तुरीयान्ताभिरवस्थाभिस्तत्रैव सर्वेषां वर्तमानत्वादिति ।
एतेन ओमित्येकाक्षरमिदं सर्वं [मा.उ. १], सोऽयमात्मा चतुष्पात्[मा.उ. २], इत्यनेन प्रतिज्ञातजं सोपपत्तिकं निगमितम् । शास्त्रमुखेनैव तादृशविचारस्य प्रयोजनमाह—स विज्ञेयः [मा.उ. ७] इति । यतः स सर्वेषामात्मातो मुमुक्षुभिरात्मकामैः स विज्ञेयः, श्रद्धाभक्तिध्यानादिभिर्विज्ञेयो विशेषतो ज्ञेयः साक्षात्कर्तव्य इति यावत। श्रद्धाभक्त्यादिभिः कुत्र वा कथं वा ध्येयो येन साक्षात्कृतो भवति इत्याकाङ्क्षायां संराधनप्रकारमाह—सोऽयमात्मा इत्यादि । स चतुः पात्, अयमिति इदानीमेव निरूपितः । आत्मा परमात्मा । अध्यक्सारमिति अक्षरे इति अध्यक्षर्म् । अक्षरं भगवतः परमं धाम, दिव्ये ब्रह्मपुरे ह्येष व्योम्नि आत्मा प्रतिष्ठितः,
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ [गीता ८.१३]
इत्यादिश्रुतिस्मृतिप्रसिद्धम् । एतेन ध्यानस्थानमुक्तम् । तदाह श्रुत्यन्तरे—सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन्सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता । ऋचौ क्षरे परें व्योमन। यस्मिन्देवो अधिविश्वे निषेदुः । यस्तं न वेद किं ऋचा करिष्यति य एतद्विदुस्त इमे समासते इत्यादि । इहापि
एको वशी सर्वगः कृष्ण ईड्यः
एकोऽपि सन्बहुधा यो विभाति ।
तं पीठगं योऽनुभजन्ति धीरास्
तेषां सुखं शाश्वतं नेतरेषाम् ॥ इत्यादि ।
अक्षरे परमे व्योमन्, अव्यक्ताक्षर इत्युक्तः इति श्रुतिस्मृतिभ्यामेव परमधाम्नोऽक्षरपदवाच्यत्वमप्युक्तमिति नास्माकमत्राक्षरपदेन धामग्रहणमयुक्तमिति ।
अक्षरपदेन जीवात्मग्रहणमपि युक्तं स्वस्वात्मनि परमात्मनो नित्यं वर्तमानत्वेन तत्र भावनया संराधनस्य युक्ततमत्वात। तदुक्तं बृहदारण्यके—यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयति [बृ.आ.उ. ३.७.२३], समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति [बृ.आ.उ. ४.४.२३] इत्यादि ।
एवं संराधनस्थानमुक्त्वा नामधेयकथनमुखेन तत्संराधनमाह—ओंकार इति । ओमित्यनेनाक्रियते आहूयते इत्योंकारः परमात्मा । तथा च प्रणवेनाइवोपासनीय इति । ओमित्येवं ध्यायथ आत्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः [मु.उ.?] यः पुनस्त्रिमात्रेणोंकारेण पर्मापुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरि शयं पुरुषमीक्षते,
सर्वे वेदा यत्पदमामनन्ति
तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत॥ [क.उ. १.२.१५]
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत॥ [क.उ. १.२.१६]
एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ [क.उ. १.२.१७]
इत्यादिश्रुत्यन्तरेभ्यः । एवं चतुष्पदमूलरूपोपासनमखण्डप्रणवेणोक्त्वाङ्गभूतानामुपासनमपि तस्यैव तेष्वपि तस्यैव विद्यमानत्वादित्याहमधिमात्रमिति । मात्रासु इति अधिमात्रमित्यादि । तेषां फलमुक्त्वा चतुर्थपादभूतस्योपासनेन कैवल्यफलमाह—आत्मैव संविशत्यात्मनात्मानं य एवं वेद [मा.उ. १२] इति । इत्येवं माण्डूक्यश्रुतिर्व्याख्येया । इति न कश्चिद्विरोधः ।
तदेवं गीतायामपि तुरीयातीत एव पुरुषोत्तमशब्देनोच्यते तुरीयत्वं क्षरशब्देन । ब्रह्मणो हि प्रतिष्ठाहमित्यत्र चतुर्दशे ब्रह्मशब्देनोच्यते इत्यपि बोध्यम् । एवं च यो विश्वादिपादानां तुरीयान्तानामंशी चतुष्पात्परमात्माखण्डप्रणववेद्यः, स एव तात्पर्येण तुरीयत्वेन माण्डूक्ये उपदिष्टः स एवात्र शब्दतोऽपि तुरीयातीततयोपदिष्ट इति न विरोधः ।
एवं च विश्वादय एव क्रमशो रामादिशब्दैरप्युच्यन्ते—रोहिणीतनयो विश्व अकाराक्षरसम्भवः इत्यादि पूर्वोक्तेरित्युपपादितं तत्रैव । निर्विकल्पकसमाध्यवस्था कैवल्यावस्था च तुरीयावस्थाशब्देनोच्यते, तत्प्रवर्तको वासुदेवव्यूहोऽपि तुरीयशब्देनोच्यते ।
ननु वासुदेवस्य मूर्तसच्चिदानन्दघनत्वात्तुरीयातीतत्वमपि स्यात। पूर्वं सकलप्राकृतावस्थातीतमूर्तसच्चिदानन्दत्वस्यैव तुरीयातीतत्वे प्रयोजकत्वस्य व्युत्पादनादिति वाच्यम् । तथात्वेऽपि तस्यांशरूपत्वेन सातिशयत्वात। तत्र मूलरूपवन्निरतिशयाशेषगुणशक्त्यादिस्फूरणाभावात। अमूर्तानन्दरूपतुरीयवत्मूलरूपशेषभूतत्वाच्च व्यूहात्मना तुरीयत्वमेव, न तु तुरीयातीतत्वं पुरुषोत्तमात्मना तु तुरीयातीतत्वमपीष्टमेवेति ।
तुरीयातीतस्तु द्विभुज्वचतुर्भुजात्मको मूलरूपः श्रीसहितः कृष्ण एव । तत्रापि द्विभुजो मुख्यः । चतुर्भुजस्तु तत्समधर्मा तस्यैव प्रथमोऽवतारः । इतरेषां सर्वावताराणामवतारी च ।
स एव वासुदेवः सङ्कर्षणः प्रद्य्म्नश्चानिरुद्धः ।
नारायण इति ख्यातः पदपञ्चात्मकः परः ॥
इति गौतमीयतन्त्रे पञ्चपदीविद्यावयवदेवत्वेनोक्त इति । तत्रैव व्युत्पादितम् । अन्तर्यामीति निरुक्तदिशा तुरीयस्य तुरीयावस्थापन्नानां कैवल्यमुक्तानां जीवानां तुरीयातीतावस्थापन्नानां नित्यमुक्तानां बद्धमुक्तानां च भगवत्परमसाम्यं भजतां च अन्तर्यामीत्यर्थः । भगवत्परमसाम्यं भजतां परमधाम्नि गतानां भक्तानामन्तर्यामित्वं तुरीयातीतश्रीपुरुषोत्तमस्यैव, प्राज्ञस्य तु प्रापञ्चिकान्तर्यामित्वमित्यपि बोध्यम् ।
एवं भगवत्परमसाम्यं प्रातानामत एव जाग्रदाद्यवस्थाचतुष्टयातीतानां शक्तीनां नित्यमुक्तानां बद्धमुक्तानामपि च तुरीयातीतत्वमेव बोध्यम् । अत एव त्रिपुरा परिसेविता इति राधासहस्रनाम्नि, त्रिपुरादिचतुःशक्तिः सगणा तत्र पूज्यते इति पुरुषार्थबोधिन्युपनिषदि गोपालपीठावरणे पूज्यत्वेनोक्ताया पीठाधिष्ठातृदेव्यास्त्रिपुरसुन्दर्या अपि तुरीयातीतत्वं त्रिपुरातापिन्यामुपदिश्यते इति । न चैवं व्यूहानामपि परमधामगतानां श्रीयोगपीठस्यावरणे सेव्यमानानां तुरीयातीतत्वं स्यात। तथा च पूर्वं तेषां जाग्रदाद्यभिमानिविश्वादिकथनं विरुद्ध्यते इति वाच्यम् । परमधामगतां तेषां स्वरूपतस्तुरीयातीतत्वेऽपि कार्यतो जाग्रदाद्यभिमानित्वाद्विश्वादिरूपत्वं प्रपञ्चान्तर्गतानां तु सुतरां विश्वादिरूपत्वमिति ।
यत्तु तत्त्वप्रदीपिकाकृता योऽसौ जाग्रदाद्यवस्थात्रयमतीत्य अतिक्रम्य तुरीयो वासुदेवस्तं, अतिशयेनेतः प्राप्तस्तद्रूपीत्यर्थः,
युगानुवर्तिनो लोका यजन्तीह सुमेधसः ।
गोपालं सानुजं रामरुक्मिण्या सह तत्परम् ।
गोपालोऽहमजो नित्यः प्रद्युम्नोऽहं सनातनः ।
रामोऽहमनिरुद्धोऽहमात्मानं चार्चयेद्बुधः ॥ [गो.ता.उ. २.५४५५]
इत्यादिना पूर्वं वासुदेवस्यैव गोपालत्वेनोक्तेः ।
चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति ।
व्यूहात्मानं चतुर्धा वै वासुदेवादिमूर्तिभिः ।
सृष्ट्यादीनि करोत्येष विश्रुतात्मा जनार्दनः ।
इत्यादि वचनैर्भगवतः पुरुषोत्तमस्य श्रीवासुदेवस्य चतुर्व्यूहात्मत्वात। इति तदनवधानविजृम्भितमेव स्वसम्प्रदायविरुद्धं च । अतिशयेनेतः प्राप्तः, अतीतः । एतादृशार्थेऽतीतशब्दप्रयोगादर्शनात। लोकवेदातीतो क्षराक्षरातीतो वागतीत इत्यादौ सर्वत्र अतिक्रम्य गतस्तथोर्ध्वस्थितः । एतादृशार्थस्यैव यस्मात्क्षरमतीतोऽहमित्यादि गीतादिवाक्ये दर्शनात्व्युत्पत्तिवलेनाप्रसिद्धार्थकल्पने प्रसिद्धार्थपरित्यागे, प्रयोजनबीजाभावात। तुरीयाद्यतिरिक्तं त्वामित्यादि जितंतेस्तोत्रादिवाक्यस्य मदुक्तार्थ एव स्वारस्याच्च । तुरीयातिरिक्तपदस्य कदाचिदपि तुरीयप्राप्तार्थकत्वासम्भवाच्च ।
किं च, योगपीठप्रस्तावे—अङ्गवासुदेवादिरुक्मिण्यादि इत्यंशेन वासुदेवव्यूहस्य मूलरूपाङ्गत्वमेवोकम् । अङ्गत्वमंशत्वं, हस्तादीनि शरीरस्याङ्गानि इत्यादौ तथा दर्शनात। अत एव वासुदेवव्यूहस्यापि सङ्कर्षणादिव्यूहवत्द्वितीयावरण एव तत्र पूजा विहिता, न तु कर्णिकायाम् । भवतापि तद्व्याख्यायां द्वितीयं वासुदेवादि इत्यत्र पूर्वादिदलेषु यथा क्रमं वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धान्पूजयेतित्येवमेव व्याख्यातत्वाच्च । अत एव च, इहापि ओं श्रीकृष्णाय देवकीनन्दनाय इत्यनेन देवकीनन्दनपदवाच्यस्य वासुदेवस्य कृष्णांशत्वमुक्त्वा, ओं गोपालाय निजस्वरूपाय इत्यनेन गोपालस्य ततोऽधिकत्वाय । स्वसाक्षात्स्वरूपत्वेन चोपदिशति । तेन मूलरूपस्य श्रीगोपालस्य व्यूहवासुदेवभिन्नत्वमेव निश्चीयते व्यूहान्तरभिन्नत्ववत। यदि भवदुक्तदिशा तयोरैक्ये तात्पर्यं स्यात्तर्हि श्रीकृष्णाय देवकीनन्दनाय, गोपालाय निजस्वरूपायेति द्वयं न वदेत। एकेनैव चारितार्थ्यात। देवकीनन्दने निजस्वरूपत्वं विशेषयेत्गोपाल एव तन्न विशेषयेच्च ।
यदुक्तं—युगानुवर्तिनो लोकाः इत्यादि तदपि तत्रैव समाहितम् । इति नेह तन्यते । यदप्युक्तं चतुर्विभक्तः पुरुषः इत्यपि तदपि न भवदनुकूलम् । तत्र वासुदेवपदस्य प्राधान्याभावेन मूलरूपसमर्पकत्वाभावात्पुरुषजनार्दनस्य इत्येव प्रतिपाद्यते, न तु व्यूहातीतो मूलरूपः प्रतिषिद्ध्यते येन भवदुक्तं सिद्ध्येत। स्वसिद्धान्तविरोधश्च । वेदान्तरत्नमञ्जुषायां व्यूहाङ्गिनमिति व्याख्याने श्रीपुरुषोत्तमाचार्यैर्वासुदेवव्यूहस्यापि व्यूहान्तरवत्, मूलरूपाङ्गत्वेनैव निरूपणात। यच्च वासुदेवो वा इदमग्र आसीतित्यादौ मूलरूपे प्रयुज्यते वासुदेवशब्दः । स न व्यूहाभिप्रायेणापि तु व्यूहातीतमूलरूपाभिप्रायेणैव । यथा वैभवप्रसङ्गे केशवादिशब्दो वैभववाचकोऽपि न सर्वत्र वैभववाचकः । अत एव मूलरूपे प्रयुज्यते । तथा वासुदेवशब्दोऽपि बोध्यः । तेन क्वचिद्गोपालरूपे वासुदेवशब्दप्रयोगेऽपि न क्षतिः ।
अधिकं तु यत्रासौ संस्थितः कृष्णः स्त्रीभिः स शक्त्या समन्वितः इत्येतस्य व्याख्याने द्रष्टव्यमिति । कल्पविशेषे त्रिव्यूहादिपक्षे सामान्यतो वासुदेवस्य मूलरूपैवाभिधानेऽपि न क्षतिः । तदानीमनिरुद्धप्रद्युम्नसङ्कर्षणानामेव व्यूहरूपत्वात। त्रिव्यूहादिपक्षस्तु कल्पभेदमाश्रित्य व्याख्यातो महाभारते नारायणीये—
एकव्यूहविभागो वा क्वचिद्द्विव्यूहसंज्ञितः ।
त्रिव्यूहश्चापि संख्यातश्चतुर्व्यूहश्च दृश्यते ॥ [म.भा. १२.३३६.५३] इत्यादिनेति ।
तापिन्यां तु चतुर्व्यूहपक्ष एव सम्मतः इति वासुदेवोऽपि व्यूह एवात एवाङ्गम् । अङ्गो तु तदतिरिक्तः श्रीपुरुषोत्तमो गोपालाख्य एवेति बोध्यम् ॥१०५॥
ओ)०(ओ
(१०६)
अथोभयतापिन्यर्थमुपसंहरति—
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥
एको देवः गोपालाखकृष्ण एव । सर्वभूतेषु गूढः स एव । कर्माध्यक्षः स एव । सर्वभूतान्तरात्मा स एव । साक्षी स एव । चेता स एव । केवलः स एव । निर्गुणः स एव । स ततो व्यतिरिक्तः कश्चिदित्यक्षरार्थः । चकारोऽनुक्तसकलब्रह्मधर्मसमुच्चायकः । एककालावच्छेदेनैव एकस्वरूपेणैव तादृशसकलब्रह्मधर्मसमुच्चायको वा । धर्मान्तराणामुपलक्षणमिदम् । तथा च एतेषां धर्माणां धर्मान्तराणामप्युपलक्षणत्वान्न काचिन्न्यूनतेति । एतेन चक्षुः श्रोत्रं क उ देवो युनक्ति [के.उ. १.१],न्कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति [क.उ. १.२.२१], ज्ञात्वा देवं मुच्यते सर्वपाशैः [श्वे.उ. १.८], तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं [क.उ. १.२.१२], महान्तं विभुमात्मानं [क.उ. १.२.२२], स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः [सुबा.उ. ६], एष एव साधुकर्म कारयति यमूर्ध्वमुनिनीषति । एष एव ह्येवासाधुकर्म कारयति यमधो उनिनीषति [कौ.उ. २.९], योऽस्याध्यक्षः परमे व्योमन्प्राणस्य प्राणमुत चक्षुषः चक्षुः [बृ.आ.उ. ४.४.१८], सलिल एको द्रष्टा [बृ.आ.उ. ४.३.३२], अस्थूलमनणु [बृ.आ.उ. ३.८.८] इत्याद्युपक्रमोदाहृतश्रुतिवाक्यानां विषय एष स्वसमानाभ्यधिकशून्यो देवः श्रीकृष्ण एव ॥
तं दुर्दशं गूधमनुप्रविष्ट गुहाहितं गह्वरेष्टं पुराणमित्यादिश्रुतिवाक्यानां विषयः—सर्वभूतेषु गूधतया वर्तमानः । महान्तं विभुमात्मानमित्यादिश्रुतिवाक्यानां विषयः—विभुः । सर्वव्यापी स एष सर्वभूतान्तरात्मा दिव्यो देव एको नारायणः, स एष आत्मान्तर्याम्म्यमृतः इत्यादिश्रुतिवाक्यानां विषयः सर्वान्तर्यामी । एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति इत्यादिश्रुत्युक्तसर्वकर्मकारयिता फलदश्च । यो अस्याध्यक्षः परमे व्योमनित्यादिश्रुतिविषयः सर्वाध्यक्षः । सलिल एको दृष्टाद्वैतः अस्थूलमनणु इत्यादिश्रुतिप्रतिपाद्यः, एवलो निर्गुणश्च श्रीकृष्ण एव नान्यः इति परमार्थः । एतेन सर्वाण्येव श्रुतिवाक्यानि परमतत्त्वप्रतिपादकानि श्रीकृष्णपराण्येव नान्यपराणीत्युपसंहृतानि । तस्मात्कृष्णो वै परमं दैवतमित्युपक्रमे प्रतिपादितार्थः सोपपत्तिकमुपसंहृतः । गोविन्दान्मृत्युर्बिभेते इत्यादि प्रतिज्ञातृ । अयं तु परमदेवत्वप्रतिज्ञाया एव शेषभूतत्वादत्रैवान्तर्भूतत्वाच्च न स्वशब्देन न पृथगुपसंहृतमिति बोध्यम् ।
(१०७)
रुद्राय नमः । आदित्याय नमः । विनायकाय नमः । सूर्याय नमः । विद्यायै नमः । इन्द्राय नमः । अग्नये नमः । यमाय नमः । निरृतये नमः । वायवे नमः । कुबेराय नमः । ईशानाय नमः । ब्रह्मणे नमः । सर्वेभ्यो देवेभ्यो नमः ।
अथ ये नित्यमुक्ताः साधनमुक्ताश्च परे धाम्नि श्रीभगवन्तं परिचरन्ति तेऽपि श्रेयः कामैर्नमस्करणीया इत्यभिप्रायेण काश्चिद्भगवद्धामस्थितान्नित्यमुक्तान्श्रुतिः स्वयं नमस्करोति परेषां शिक्षणाय—रुद्राय नमः इत्यादि पञ्चदशभिर्मन्त्रैः । रुद्राय एकादशव्यूहात्मने । आदित्याय द्वादशव्यूहात्मने सूर्याय व्यूहिने । समेशानाय व्यूहिने रुद्राय इत्यर्थः । शेषं स्पष्टम् ।
रुद्रेभ्यः इत्याद्यनुक्त्वा एकवचनान्तप्रयोगात्सर्वत्र विशेष्यतया श्रीकृष्णान्वयः सूच्यते । तेन एकादशव्यूहात्मने श्रीकृष्णाय नमः इत्येवमर्थः सूचितो भवति । तथा च तेऽपि भगवद्भावेनैव नमस्कार्या भगवत्प्रपन्नैः, न तु स्वातन्त्र्येणेत्युक्तं भवतीति बोध्यम् ॥१०७॥
ओ)०(ओ
(१०८)
दत्त्वा स्तुतिं पुण्यतमां ब्रह्मणे स्वस्वरूपिणे ।
कर्तृत्वं सर्वभूतानामन्तर्धाने बभूव सः ॥
ओ)०(ओ
(१०९)
अथ विद्यापरम्परामाह—
ब्रह्मणे ब्रह्मपुत्रेभ्यो नारदाच्च यथाश्रुतम् ।
तथा प्रोक्तस्तु गान्धर्वि गच्छध्वं स्वालयान्तिकम् ॥ इति ॥
इदं त्विहावधेयम् । अस्याः समग्रतापिनीब्रह्मविद्याया महावाक्यमों क्लीं कृष्णायेत्यादि पञ्चपदीमन्त्र एव । अतो गोपालतापिन्यविधेय तुरीयातीतश्रीपुरुषोत्तमपरमदेवपरमानुभूत्यर्थं तन्मन्त्रद्वारैव स भगवान्शरणीकरणीयः । यथाविधिगुरोः सकाशान्मन्त्रं प्राप्य ऋष्यादिस्मरणपूर्वकं मन्त्रार्थानुसन्धानपूर्वकं जपनीयश्चेति । तावतापि क्रमेण भगवत्कृपया भगवद्भावप्राप्तिः स्यादिति । तदुक्तं तत्प्रकरण एव पूर्वतापिन्यां—पञ्चाङ्गं जपन्ब्रह्म सम्पद्यते सकृदावर्तयेद्योऽसौ मङ्क्षु नान्या गतिः स्यात॥ इत्यादि । तत्र द्विजातिभिः स्वशाखोक्तप्रकारेण मूलमन्त्रकल्पोक्तप्रकारेण च स्नानं विधाय, स्वशाखोक्तसन्ध्यां विधाय मन्त्रकल्पोक्तं सन्ध्यां तर्पणं च विधाय भूतशुद्धिं प्राणप्रतिष्ठां मातृकान्यासं केशवादिन्यासं तत्त्वन्यासं पीठन्यासं च विधाय मानसपूजां बहिःपूजां च विधाय ऋष्यादि स्मरणपूर्वकं जपेदिति । यथाशक्ति स्ववर्णाश्रमधर्मानुष्ठानं च भगवदाज्ञारूपतयावश्यं कुर्यात्सर्वथैव च शास्त्रविरुद्धाचारं परिहरेत। आत्मनि भगवदेकशरणत्वं भगवदात्मकत्वं च निरन्तरं भावयेदिति ॥
श्रीराधाकृष्णयुगलस्वरूपगुणमाहात्म्यलीलारहस्यं युग्मतत्त्वसमीक्षायां द्रष्टव्यम् । तस्मिन्नर्थे विस्तरेण वेदवेदान्तार्थसमन्वयो भगवत्तत्त्वसुधानिधौ, श्रीराधाकृष्णपरकसर्वशास्त्रार्थसङ्ग्रहो भगवत्तत्त्वसुधाम्बुधौ च द्रष्टव्यः । तदेतद्गोपालतापिन्युपनिषद्भाष्यसहितं निबन्धचतुष्टयमुत्तरोत्तरं विस्तृतकलेवरं विविधसम्प्रदायगतविविधविचारोपबृंहितं सच्छास्त्रस्वसन्मनीषासु परिस्कृतं च वेदितव्यम् । इतोऽन्यच्च निबन्धचतुष्टयद्वैताद्वैतविवेकः, श्यामसुधानिधिभक्तिरहस्यसिद्धान्तबिन्दुसमाख्यं च वेदितव्यम् । तत्र श्यामसुधानिधिर्मैथिलीभाषायां गेयपद्यमयः श्रीकृष्णरसमयप्रबन्धः । अन्ये तु सर्वे संस्कृतभाषात्मका इत्यपि वेदितव्यम् ॥
एतान्सुतान्समुत्पाद्य मतिपत्न्यां गुणान्वितान।
श्रीकृष्णाय समर्प्याभूत्कृतकृत्यो भगीरथः ॥
संवत्सरे ऋतुव्योमव्योमनेत्रसमन्विते ।
मघौ सिते त्रयोदश्यां चन्द्रे वृन्दावने वने ॥
गोपालतापिनीव्याख्या श्रीकृष्णार्पितचेतसा ।
भगीरथेन विप्रेण मैथिलेन समार्पिता ॥
गोपालतापिनी विद्या व्याख्याता भक्तिदीप्तये ।
यया स्फुरति सर्वेशः श्रिया युक्तः परः पुमान॥
इति श्रीमन्मिथिलामहीमण्डलान्तर्गतढङ्गाहरिपुरग्रामवास्तव्यदरिहरयराजन्यपुराख्यविप्रवंशोद्भवश्रीहरिजीवनिधिपाणिवंशक्रमागत
श्रीबुच्चीशर्मलब्धतनुजन्मना श्रीमुकुन्दीदेवीगर्भसमुद्भवेन
श्रीभगीरथशर्मणा झोपाख्येन समीक्षितं
वेदान्ततत्त्वसमीक्षाख्यं
श्रीगोपालतापिन्युपनिषद्भाष्यं
सम्पूर्णम् ।
श्रीकृष्णार्पणमस्तु । श्रीरस्तु ॥
ओं भद्रं कर्णे निरिति शान्तिः
॥ इत्यथर्ववेदीयगोपालतापिन्युपनिषत्समाप्ता ॥
—————– ————–
]