[[ऐतरेयताम्रपर्णीयम् भाष्यार्थ-रत्नमाला Source: EB]]
[
श्रीनिवासविरचित-श्रीमन्महैतरेयभाष्यार्थरत्नमाला ।
प्रथमप्रघट्टकम्
न प्राप्तम् ।
********************************************************************************************
द्वितीयप्रघट्टकम् ॥
?R
॥ ऐतरेयताम्रपर्णीयप्रारम्भः ॥
?R
श्रीमद्धनुमद्भीममध्वान्तर्गत रामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥
?R
श्रीमदानन्दतीर्थर्यहृदयामलमन्दिरम् ।
?R
जानकीजानिमानन्दसांन्द्रवन्देनिरन्तम् ॥ 1
॥
?R
श्रीपद्मनाभतीर्थादीन्वन्देविज्ञानवारिधीन् ।
?R
टीकाकृतश्ऱ्चविश्ऱ्वेशतीर्थान्वेदान्तकोविदान् ॥ 2
॥
?R
नारायणाचार्यमुखेन्दुबिम्बाद्गलत्सुतत्वामृतपानतृप्तं ।
?R
श्रीविठ्ठलार्याभिधभूसुरेन्द्रं परं गुरुं मे पितरं नमामि ॥ 3
॥
?R
श्रीमदानन्दतीथर्ार्यशास्त्राम्भोधिं विमथ्ययः ।
?R
ददौज्ञानामृतं मह्यं तं तीथर्ार्यगुरुं भजे ॥ 4
।
?R
श्रीसत्यरत्नाभिधपूर्णवारिधेर्जातःसुविद्योरुकलाभिपूर्णः ।
?R
तापं हरन्नोऽमृतवीक्षणेन श्रीसत्यपूर्णेन्दुरहोविराजते ॥ 5
॥
?R
महैतरेयभाष्यस्य गुरुक्तार्थोनुवर्ण्यते ।
?R
टीकाऽस्पष्यःसंग्रहेणकृपां कुर्वन्तु सज्जनाः ॥ 6
॥
?R
अथ भगवान् सर्वज्ञमुनिरेषपन्था इत्यादौ अधिकृतं विशिष्यमिष्यं नारायणं ग्रन्थादौ उपश्लेकयन् शरणं प्रर्थयते ॥ नारायणमिति ॥ अहं नारायणं साक्षात् प्रत्यक्षतः शरणमियां नत्वन्यमिव पाररोक्ष्येणेत्यन्वयः । इतरपरित्यागेन शरणप्राप्तौ वैशिष्ययं इष्यत्वं च निमित्तमिति भावेन साक्षात्प्राणस्य मुख्यप्राणस्याधीश्ऱ्वरं रमेशम् इति च उक्तं । प्राणाधीश्ऱ्वरत्वमात्रेण तस्य वैशिष्ठयं कुत इत्यतः सर्वेत्यादिप्राणविशेषणं । ननु प्राणोहि अनन्येश्ऱ्वरःप्रसिद्धः तत्कथं नारायणस्तदीश इत्यतः च उक्तं साक्षात्प्राणस्याधीश्ऱ्वरमिति । नारायणो हि साक्षादव्यवधानेन प्राणणस्येश्ऱ्वरः तदन्यः तस्य ईश्ऱ्वरो नास्ति । तदभिप्रायेण अनन्येश्ऱ्वरत्ववचनं । अनन्येश्ऱ्वरताप्राणे तदन्येश्ऱ्वरवर्जनादिति वचनादितिभावः । रमाया ईशकोट्यन्तर्भावात् नानुपपत्तिः । तदनेनप्राणान्तरङ्गत्वस्य सर्वेष्यदातृ रमेशत्वस्य च उक्त्या प्राणावतारस्य स्वस्य परमेष्योरमापतिः इति सूचितं । प्राणस्य सर्वोत्तमत्वं भगवतस्तदुत्तमत्वं च ता अहिंसन्ताहमुक्थं अस्म्यहमुक्थम् अस्मीत्यादावुक्तं । रमेशत्वं चानकाममार इत्यादौ ज्ञेयं । वैशिष्ययोपपादनाय निखिलपूर्णगुणैकदेहमपेतसमस्तदोषमिति विशेषणद्वयं । के ते गुणाः इत्यत उपलक्षणत्वेनोक्तं सर्वज्ञमिति ॥ दोषाभावविवरणार्थमच्युतमिति ॥ अनित्यत्वं देहहानिः इत्युक्तरीत्या चतुर्विधनाशरहितमित्यर्थः । इदं च विशेषणद्वयं उपलक्षणत्वेन एतद्ब्रह्मैतत्सत्यमित्यत्रोक्तं । ब्रह्मायं गुणपूर्णत्वात् सत्यं साधु स्वरूपत इति वक्ष्यमाणत्वात् । सावर्ज्ञमेतत्कर्मेति कर्मशब्दार्थान्तर्गतं । कर्तृत्वात्कर्ममातृतः इति वक्ष्यमाणत्वात् । अच्युतत्वमपि सत्यशब्दार्थः । सदातनं सत्यमिति नित्मेवोच्यत इति वचनात् । च्युतेरसाधुत्वेन सत्यं साधुस्वरूपत इति तदभावरूपाच्युतत्वस्य सत्यशब्दार्थतया भाषितत्वाच्च । अपेतसमस्तदोषमित्यस्य अपेतःसमस्तानां दोषःसंसारलक्षणो यस्मादित्यर्थाङ्गीकारे पन्था इत्येतदप्युक्ततात्पर्यं । नित्य स्वप्राप्तिहेतुत्वात् पन्था इति वक्ष्यमाणत्वात् । उत्तरभाष्ये ब्रह्मपन्थाः सत्यं कर्मेति नारायणस्य वासुदेवाद्याः क्रमेण चतस्रोमूर्तय इति वक्ष्यमाणत्वात्तदनुसारेण मूलरूपिनारायणप्रशंसनाय नारायणमिति विशेष्यं निरदिक्षत् । वासुदेवादिरूपाभिप्रायेण निखिलेत्यादिविशेषणानि च इति सर्वमवदातं ॥ ऋष्याद्यज्ञानेऽनर्थोक्तेः महिदासऋषिः देवतेति च वक्ष्यति । महिदासश्ऱ्च न नरायणादन्यः येन अस्या उपनिषदो ब्रह्मविद्यात्वं स्यादिति भावेनाह ॥ प्रादुबृभूवे ॥ अब्जजसुतस्य सकाशात् । ननु नायं महिदासो नारायणः । महिनां पूज्यानां ब्रह्मादीनां दास इति तन्नामनिर्वचनादित्यः सोपोद्घातं तन्नामान्यथानिर्वक्ति ॥ तस्मिन्निति ॥ तस्मिन्नध्वरङ्गतेप्रविष्येनिश्ऱ्चेतनः तत्प्रभयाधर्षितत्वात् कर्तव्यज्ञानहीनः नित्यं तद्रूपपरिचयवत्त्वात् चित्तक्षोभरहितः पद्मभवस्तम् अस्तौत् । अत एव भगवत्प्रसादेव । तदभावेवयन्तवदासाःस्म इति स्वात्मसमर्पणेऽपिसामर्थ्याभावादिति भावः । यद्वा यत एवं दासत्वमापुरिति पौराणिकीकथा अतोमहिनोदासायस्येति विग्रहमाश्रित्य महतां सुराणां तद्दासत्व एव समहिदास इतिप्रसिद्धः । नतु महिनां दास इति तत्पुरुषाश्रयेण तस्य तद्दासत्वादित्यर्थः । ऋषिदेवते आह ॥ ृण्वत्स्विति ॥ तेषु ब्रह्मादिषु ृण्वत्सूपश्रोतृषुसत्सु दिव्यां मुख्यतो देवाधिकारिकां । इतरापुत्रेणोपदिष्यत्वात् तत्प्रतिपादकत्वाच्चैतरेयीमित्युक्तार्थप्रमापनायविशेषणं । ब्रह्माप्यवान्तऋषिरितिभावेनोक्तं ॥ सेति ॥
?R
चतुराननास्यादुपदिष्यासाबह्वृचैः पठितेति योज्यं । विष्णोः महिदासादिरूपिणः । आहंमांदेवेभ्योवेदॐमद्देवान्वेदेत्यादौ तदवगमात् । ननु तर्हि महतीभूतिः लक्ष्मीः यस्यां प्रतिपाद्यते सा महाभूतिः इत्यन्यत्रप्रसिद्धसंज्ञैव अस्याः श्रुतेर्लक्ष्मीपरत्वं अवगमयति तत्कथं विष्णुप्रतिपादकत्वमित्यत आह ॥ महाभूतिश्रुतिरिति ॥ महतीभूतिरैश्ऱ्वर्यरूपोहरिः यस्यां सा महाभूतिरिति व्युत्पत्त्याश्रयणेन यतो महाभूतिः हरिरत्र कथितो त एव येषां महाभूतिश्रुतिसज्ञिताऽतो न विरोध इत्यर्थः । ग्रन्थान्तरसाधारण्यवच्छेदायोक्तं ॥ विशेषेणेति ॥ लक्ष्मीप्रमाणादेरपि अत्र प्रतिपादनात् कथमेतदित्यतः च उक्तं ॥ विशेषेणमुख्यत इति ॥ कथनप्रकाणमाह ॥ सर्वज्ञ इति ॥ प्रथमवाक्ये एतत् कर्मेत्यनेनसर्वज्ञः । सत्यमित्यनेनशाश्ऱ्वतः ब्रह्मत्यनेन प्रभूःपूर्णश्ऱ्चकथितः । भूबहौ बहुःपूर्णतायामिति धातोः इति ज्ञेयं । जीवमोक्षार्थं प्रवृत्तैषैरेयीश्रुतिः । मोक्षस्यभगवत्प्रसादसाध्यत्वाज्ज्ञानं विनात्यर्थप्रसादाभावात् तस्य च तदुपासा साध्यत्वाद्ब्रह्मज्ञानायादौतदुपासां विधत्ते ॥ एषपन्था इति ॥ तत्रैष इति परामर्शविषयो नप्रतीयते प्रसिद्धपथाद्यैक्यं च प्रतीयतेऽतोयथावद्य्वाचष्ये भगवानाचार्यः ॥ एष एवेति ॥ महाव्रतेपूज्यत्वेन प्रकृत एवेत्यर्थः ॥ तस्मान्नप्रमाद्येदित्यस्य तं न विस्मरेदितिव्याख्यानं क्वापि कदाचिदपि सन्ततानुस्मरणलक्षणं ध्यानं कुयर्ादिति यावत् । श्रवणमननयोरप्युपलक्षणमेतत् । प्रयोजनाभावान्नजिज्ञासकार्यात्यत एषन्था इत्युक्तं । तस्यार्थःपुरुषोत्तम एव नित्यं नियमेनसायुज्यादिरूपस्वप्राप्तिहेतुत्वाज्जीवानां स्वरूपानन्दाविर्भावप्राप्तिहेतुत्वाद्वा पन्था इत्युच्यत इत्यर्थः । तथाच स्वप्राप्तिलक्षणमोक्षस्य तत्प्रसादं विनाऽयोगात्तदर्थं तज्ज्ञानायत ज्जिज्ञासाकार्यातिभावः । ननु कर्मणाऽन्यत्रमोक्षश्रवणात्तत्प्रसादवैयर्थ्यमित्यत एतदेवकर्मेत्युक्तं तद्य्वाचष्ये ॥ कर्तृत्वादिति ॥ कर्तृत्वान्मातृत्वात्सर्वज्ञत्वाच्च स एव कर्मेत्यर्थः । कर्मणामोक्ष इत्यस्यापि सर्वजगज्जन्मादिकारणेन सर्वयोग्यताभिज्ञेनभगवतैव मोक्ष इत्यर्थ इति भावः । जीवव्यतिरिक्तेश्ऱ्वराभावात्तस्य चहामितिनित्यसिद्धत्वान्नजिज्ञास्यत्वमित्यतो जिज्ञास्यजीवत्वव्यावर्तकं लक्षणमुक्तं ॥ एतद्ब्रह्मैतत्सत्यमिति ॥ तद्य्वाचष्ये ॥ ब्रह्मेति ॥ जिज्ञास्यं खलु निर्दोषमनन्तगुणंविवक्षितं न तस्य सदोषाल्पगुणजीवाभेदोवक्तुं युक्त इति भावः । गुणपूर्णत्वसंभावनायजगज्जन्मादिकारणत्वलक्षणमुक्तं ॥ कर्मेति ॥ कर्तृत्वाल्लयकर्तृत्वाच्चकर्म । मानंज्ञानंलयश्ऱ्चेतिवचनात् भाष्येमातृत्वादित्यस्य लयहेतुत्वादित्यर्थः । ननु तस्यैवजिज्ञास्यत्वेदेवतान्तरोपासाविधिवैयर्थ्यमित्यत उक्तं तन्नातीयादिति ॥ त्यक्त्वेति ॥ तत्परिवारतामृतेनेतरंस्मरेदित्यर्थः । सवर्ोत्तमत्वेनतदुपासनं कृत्वैवतत्परिवारत्वेन देवताःस्मतर्व्यास्तदतिक्रमेणनस्मर्तव्या धत्युक्तार्थे तात्पर्यद्यातनाय पुराकल्प उक्तो नह्यत्यायन्पूर्व इति ॥ अतिक्रमवतां विपरीतफलोक्तिपूर्वं निन्दार्थवाद उक्तो येऽत्यायंस्तेहपराबभूवुरिति ॥ अत्रानतिक्रमिणांफलाद्यनुक्त्यान्यूनतेत्यतः तेहपराबभूवुरित्यस्मात्तेहबभूवुरित्यंशमाकृष्य नह्यत्यायन्पूर्व इत्येतद्य्वाचष्ये ॥ पूर्व इति ॥ पूर्वेब्रह्माद्यास्तंनात्यायन् नतत्यजुस्तेन बभूवुः संसारान्मुक्ता बभूवुः । पूर्वाश्रीश्ऱ्चतदत्यागात्तस्य भगवतः अत्यागात् । वायुजनकदिङ्नामकबाहुमत्वाद्युपासनान्नित्यमुक्ता पूर्णगुणत्वोपासनाद्गुणाधिका च बभूवेत्यर्थः । सोहं वायुं दिशांवत्संवेदमापुत्ररोदंरुदमित्यादि श्रुतेरितिभावः । उपनिषत्स्वोक्तार्थेप्रमाणमाह ॥ तदुक्तमिति ॥ तत् भगवदतिक्रमवतां पराभवस्तदनतिक्रमवतां विभव इत्येतदृषिणा हयग्रीवेणोक्तमित्यर्थः ॥ अयंमन्त्रार्थः ॥ हप्रसिद्धास्तिस्रःप्रजाः अत्यायमत्ययं भगवदतिक्रममीयुःप्राप्ता इति प्रसिद्धं । तेन च स्वरूपात्यायं स्वरूपनाशमीयुः । तमःप्राप्ता इति यावत् । अन्यास्तिस्रःप्रजाः अर्कमर्कनामकमग्न्यन्तर्गतं भगवन्तं । यद्बृहत्तेजसाबृंहन्नामकमादित्यान्तगर्तं भुवनेष्वं तस्तस्थौतद्रूपं । यःपवमानोहरितोदिश आविवेशतदन्तर्गतं रूपंवाऽभितस्तत्तयोग्यसाधनैर्निविविश्रेनिविविशिरे । इरयोरइति सूत्रेणेर इत्यस्यरेभावः । मनसाप्रविष्या उपासितवन्तः । उपासनया च नितरां भगवल्लोकं विविशिरेमुक्ता इति यावत् । प्रमाःहतिस्र इत्युक्तास्तिस्रःप्रजाःकाइत्यतस्तदनूद्य श्रुतिरेवव्याचष्ये ॥ यावैतइमाइति ॥ वैलौकिकतया प्रसिद्धायाः ताः इमाः तिस्रःप्रजाः अत्यायमीयुरित्युक्तास्तानीमानिवयांसि वङ्गावगधाः ईरपादाश्ऱ्चेतियोजना । वयांसीत्यादिपदत्रयं व्याचष्ये ॥ विहायसीति ॥ छां दोग्यभाष्ये वयांसिव्ययनात्प्रोक्तावीत्याकाशस्तथोच्यत इत्युक्ते विर्श्ऱ्चक्षुषिव्योम्निहरेपरमात्मनिपक्षिणीतिनानार्थरत्नमालायां च उक्तेर्विशब्दस्तावदाकाशवाची । तस्मिन्नयनात्सदासंचारात्पिशाचा वयांसि । वंवर्तितमन्यैरुत्पादितङ्गं ज्ञानं येषां ते वङ्गनराः । अन्नरूपैस्तैरवनं स्वरक्षणं गृध्नन्त्यपेक्षन्त इति राक्षसाः । वङ्गावगधनामकाः । वृतुवर्तने,
गम्लृगतौ,
अवरक्षणेगृधु,
अभिकाङ्क्षायामिति हि धातवः । नन्वसुराणशं वाय्वंशत्वाभावात्कथमीरपादत्वमित्यत उक्तं धर्म इति । वायुर्देवो धर्मोज्ञानंवैराग्यं ऐश्ऱ्वर्यं च इति चतुरात्मकश्ऱ्चतुगर्ुणाभिमानी । अत्रगुणचतुष्यये । प्रजाहतिस्रोत्यायमीयुरित्यस्यार्थस्तेत्रय इति । येऽत्यायन्नित्यस्यार्थः पराभूता इति । उपनिषदि येऽत्यायन्नित्यनुवादस्यप्राप्तिपूर्वकत्वात्प्रजाहतिस्रोत्यायमीयुरितिमन्त्रानुसारेणयेऽत्यायन्नित्यतःपूर्वं
?R
तिस्रःप्रजाअत्यायमीयुरित्यध्याहर्तव्यमितिसूचनाय मन्त्रपदव्याख्यानान्तरंयेत्यायन्नित्युपनिषदंशोव्याख्यातोबोध्यः । द्वितीयपादेऽपि तिस्रःप्रजा इत्यनुवर्तनीयमितिभावेनानूद्यव्याचष्ये ॥ ताइमा इति ॥ तास्तिस्रइमास्तद्विलक्षणाःप्रजा इत्यर्थः । अर्कमित्यनूद्येममेवाग्निमिति व्याख्यानं । तृतीयपादेभुवनेष्वन्तःस्थितं बृहत्किमित्यतस्तदनूद्यश्रुतिर्व्याचष्ये ॥ अदउएवेति ॥ असावादित्य आदित्यनामातदन्तर्गतः उएव उच्चोविष्णुरेव । भुवनेष्वन्तर्विद्यमानमदोबृहदित्यर्थः । चतुर्थपादमनूद्यपवमानाहरिच्छब्दयोरर्थमाह ॥ वायुरेवेति ॥ ताइमाःप्रजाअर्कमभितोनिविष्या इत्यत्र तिसृणशमपिप्रजानामर्कनामकाग्न्याविष्यत्वं प्रतीयते । तदयुक्तं प्रमाणविरोधात् । असावादित्य इत्यादावुपासकानुक्तिश्ऱ्चेत्याशङ्कय मूलेऽर्कमित्यनूद्याग्निमितिव्याख्यानं । असावादित्य इत्यनन्तरं यस्तमितिशेषः । दिशोपरित आविष्यइत्यनन्तरंचयस्तमितिशेषः । तथाच ताइमाःप्रजाःमनुष्योत्तमाॠषयोदेवाःक्रमेणार्कमग्निं योसावादित्यस्तं यो वायुर्हरित आविष्यस्तं चाभितःनिविष्या इत्यर्थ(इत्य)मभिप्रेत्यव्याचष्ये ॥ देवाश्ऱ्चेति ॥ तिसृणामपित्रिस्थानस्थभगवदाश्रयत्वप्रतीतेरुक्तं विवृणोति ॥ अग्निस्थमित्यादिना ॥ अर्चतेःकृदाधारार्चिकलिभ्यःक इत्युणादिसूत्रेणकप्रत्ययेबहुलकात्कस्येत्संज्ञाभावे चार्कशब्दोनिष्पन्नः । जनैरितियोग्यतयासम्बध्यत इति भावेनार्कशब्दं व्याचष्ये ॥ आजनैरिति ॥ पूज्यत्वं च सर्वसाधारणमित्यत आसम्यक् प्राधान्येनाचिर्तत्वादित्युक्तं ॥ यद्वाआङीषदर्थे । अल्पैर्जनैर्मानुषैरित्यर्थः । अभित इत्युक्तं मानुषाणां साधनमाह ॥ अग्नाविति ॥ नन्वग्नौकर्माणिकृत्वैवेत्ययुक्तं । यतीनां मुक्त्यभावप्रसङ्गात् । यत्याश्रमस्याग्निपूजादिकर्मत्यागरूपत्वादित्यत आह ॥ कर्मभिरिति ॥ होमादिकर्मत्यागलक्षणो यत्याश्रममोपि प्राक्कर्मभिःशुद्धान्तःकरणानामेवनान्यथाऽतोनोक्तविरोध इत्यर्थः । अदउएव बृहदित्यस्य विवरणं ॥ आश्रिता इति ॥ ॠषयःसूर्यगं विष्णुं आश्रिताः असौसूर्यगतोविष्णुस्तेजसाबृंहणाद्बृहदित्युक्तः । सर्ववस्तूनां आदानादादित्य इत्यप्युक्त इति योजना । अभित इत्युक्तमृषीणां साधनमाह ॥ स्वाध्यायेनेति ॥ वायुरेपवमान इत्यस्य विवरणं ॥ वायुस्थमिति ॥ देवानां कर्मस्वाध्यायभक्त्याद्यखिलसाधनवत्त्वस्य प्रसिद्धत्वादत्र तदनुक्तिः । ननु मनुष्यैर्गायत्ऱ्यादि स्वाध्यायेनसूर्यगतस्य ॠषिभिःकर्मभिरग्न्यन्तर्गतस्यो उभाभ्यां भक्तिपूर्वं वाय्वन्तर्गतस्याश्रितत्वाद्विशिष्योक्तिरयुक्तेत्यत आह ॥ आश्रित इति ॥ सर्वैः अधिकारिभिःसर्वैःसाधनैःसर्वत्राग्न्यादौ ॥ 1
॥ पूर्वखंडेब्रह्मपदेनगुणपूर्णत्वं तन्नातीयादितिसर्वोत्तमत्वंचोक्तं । तत्संभावनायकर्मपदेनजगत्कारणत्वं तद्भोक्तृत्वं चोक्तं । तत्प्रमाणसूचनपूर्वमधिदैवमध्यात्मं चोपपाद्यते ॥ उक्थमुक्थमित्यादिना ॥ यच्चवै प्रसिद्धाः देवाद्याः प्रजाः उक्थमुक्थमितिवदन्ति तदुक्थमिदं वक्ष्यमाणमेव नतु बृहतीसहस्रं । तस्य तत्प्रतिपादकत्वेन तन्नामवाच्यत्वेऽपि प्रवृत्तिनिमित्तस्य जगदुत्थापकत्वस्याभावात् । नापि वायुरुक्तं तस्य पारतन्त्ऱ्ेणस्वावरोत्थापकत्वेन सर्वोत्थापकत्वाभा
?R
वादिभावः । इदं किं इदं पृथिव्रेव । अस्यां पृथिव्यांस्थितं तन्नामकं भगवद्रूपमेव । न पृथिव्यपि धाराग्राह्या तस्यमुख्यतः पृथिवीपदप्रवृत्तिनिमित्ताभावादितिभावेन च एवकारप्रयोगः । तस्य मुख्योत्थापकत्वाशक्तत्वात् । पृथिवीस्थितस्योक्थत्वं कुत इत्यत उक्तमित इति ॥ यत्किंचेदमङ्कुरादीतः पृथिवीस्थाद्धयुतिष्ठति । न प्रसिद्धपृथिव्येवोक्थं तस्यागरुडवाहनत्वाभावादिति भावेनवाहनमुच्यते ॥ तस्याग्निरर्क इति ॥ भोग्यमुच्यतेऽन्नमशीतय इति ॥ प्रसिद्धान्नस्य भगवत्तर्पकत्वमपि भगवत्सन्निधानादिति भावेनोक्तमन्नेनहीति ॥ हियस्मादन्नेनान्नगतेनान्ननाम्नाभोज्यभूतेननिमित्तेन भगवान् इदं सर्वमश्ऱ्नुते तस्माद्भगवत्सन्निधानादेवान्नमशीतय इव बृहतीसहस्रप्रतिपाद्यस्योक्थनामकस्यतर्पकं । अधिदैवेप्युक्थनामकं रूपान्तरमुच्यते ॥ अन्तरिक्षमेवेति ॥ अत्राप्येवकारस्यान्तरिक्षगतं प्राधान्येन तन्नामकमित्यर्थः । एवमुत्तरत्राप्यन्तरिक्षमन्तरिक्षगतन्तन्नामकं भगवन्तं अनु तत्प्रेरणयापक्षिणपतन्ति नरादयश्ऱ्चतत्प्रेरणयैवाश्ऱ्वादीन् धावयन्ति । तस्य वायुरर्क इत्यादिपूर्ववदवतार्य व्याख्येयं । द्युस्थस्योक्थत्वमुपपाद्यते ॥ अमुत इति ॥ अमुतोद्युस्थाद्वृष्यिप्रदानाद्धीदं सस्याद्युत्तिष्ठति तस्मादुक्थमित्यर्थः । इत्यधिदैवमुक्थनामकरूपाण्युक्तानि । अथाध्यात्मं । अध्यात्मेदेहेपुरुषनामाहरिरेवोक्थं । न मुख्यप्राणः । नापि जीवः । कुत इत्यत उच्यते ॥ अयमेवेति ॥ अयंपुरुष एव महान्सर्वात्तमः । कुतःप्रजापतिःप्रजानां पतिर्जन्मादिकर्तृत्वात् । पित्रादिशरीरान्तर्गततया प्रजोत्पादकत्वादुक्थत्वं सम्भवतीति भावः ॥ नन्वहमुत्थापक इति पित्रादिभिरनुभूयमानत्वात् कथं भगवतस्तदित्यत उक्तं ॥ अयमेवेति ॥ महान्प्रजापतिरयमेवाहंउक्थमस्मीति विद्यामनुभवतीति विद्यान्नजीव इत्यर्थः । इदमुक्तं भवति । ज जीवस्याबाधितोत्थापकत्वानुभवः तथा सति तदनुव्यवसायप्रसङ्गात् । अहमुक्थमिति विद्यानुव्यवसायश्ऱ्च भगवत एव । जीवस्याहमुक्थमित्यनुभवानुव्यवसायेपि न विद्यानुव्यवसायः । अनुभवस्याप्रमात्वात् ततस्तस्यैवोक्थत्वमिति ॥ कैमुत्येन तस्योक्थत्वमुच्यते ॥ तस्यमुखमेवेति ॥ अङ्गभूतं मुखमेव किम्वङ्गीत्येवकारार्थः । अधिदैवमध्यात्मं चोक्थत्वं
?R
समानम् इत्युच्यते ॥ यथापृथिवीति ॥ एवमुत्तरत्रनासिकाप्रसङ्गाद्विद्यान्तरमुच्यते ॥ तदेतदिति ॥ नासिकायैनासिकायां । नेत्रयोर्मध्येयदेतत्किंचिद्विनतं स्थानं तत्तत्रएतत्प्रसिद्धं ब्रध्नस्यसूर्यस्य विष्यपंलोकोस्तीत्यर्थः । अध्यात्ममधिदैवं च अन्नान्तर्गतस्य तन्नाम्नो भगवतोन्नत्वमेकप्रकारमित्युच्यते ॥ समानमशीतय इति ॥ अध्यात्ममधिदैवंचाशीतय इवान्नमन्ननामकं तदन्तर्गतं रूपं समानमेकप्रकारमेवेत्यर्थः । अन्नशब्दनिर्वचनपूर्वकं साम्यमेवोपपाद्यते ॥ अन्नेन हीति ॥ सर्वाणिभूतान्यन्नेनसमन्तिचेष्यन्ते । तथाच आनयरीत्यन्नमितिनिरुक्तं भवति । प्रकारान्तरेणनिर्वचनपूर्वकं साम्यमुच्यते ॥ अन्नेनेमंलोकमिति ॥ अन्नेनदीयमानन्नान्तर्गतरूपेणाध्यात्मगतदेवताहरितुष्यिद्वाराजन्मान्तरे इममन्नपानादिमन्मनुष्यलोकं जयति । तथापुरोडाशसोमद्यन्नान्तर्गतरूपेणदेवतातुष्यिद्वाराऽमुं देवलोकंच जयति प्राप्नोतीत्यर्थः । एतेनाद्यतेमनुष्यदेवलोकप्रापकतयोपजीव्यत इत्यन्नमिति निरुक्तं भवति । एवमुपपाद्य उपसह्रियते ॥ तस्मादिति ॥ प्राक्पृथिवीगतस्य प्रसिद्धान्नभोक्तृत्वं तद्गततन्नामक स्वभोक्तृत्वं चोक्तं । एवं द्युस्थस्यापि । अधुनातदनुवादपूर्वकं न केवलमेतावत् किन्तु पृथिवीस्थस्य द्युलोकस्थभगवदभिन्नत्वं तदत्तृत्वं च । द्युस्थस्यापि पृथिस्थन्नत्वं तदत्तृत्वं चास्तीत्युच्यते ॥ तदिदमिति ॥ इयमेव पृथिवी । अस्यां पृथिव्यां विद्यमानं यद्भगवतस्त्रीरूपं तदिदं अन्नमन्नादं च अद्यमत्तृ च । अद्यत्वस्योपपादनमितोहीति । यत्किंचिदिदं सर्वं धान्यादि इतःपृथिवीत उत्तिष्ठतीति प्रसिद्धं । तथान्नस्रष्यृत्वादत एव तत्सृष्ट्वातेवानुप्राविशत् पृथिव्या ओषधयः ओषधीभ्योन्नमित्युक्तरीत्या स्वसृष्यान्नेऽन्ननामकरूपेणप्रविष्यत्वात् अन्नस्रष्यृतयोपजीव्यत्वादुपजीव्यत्वलक्षणाद्यत्वस्यान्नशब्दप्रवृत्तिनिमित्तत्वात्पृथिव्या अन्नात्वमिति भावः । पृथिवीलोकात्प्रेत्यगच्छमानस्य द्युस्थभगवद्भोग्यत्वात् तदन्तर्यामिणश्ऱ्चतथात्वात्पृथिव्या अन्नत्वमित्युच्यते ॥ यद्धेति ॥ इदं पृथिव्यां विद्यमानं यत्किंचिन मनुष्यादि प्रेताइप्रत्येव गच्छत्येव । तत्सर्वमसौद्युलोकस्थोत्तीत्येतत्तावत्प्रसिद्धं । अत्तृत्वस्योपपादनं यदुक्तं चेति । उएव अतोद्युलोकाद्यत्किंच भुवं प्रैति तत्सर्वमियं पृथिवीगतः स्त्रीरूपोहरिरेवात्तिसेयं पृथिवीगतास्त्रीमूर्तिरिति । अनेनप्रकारेणासम्यगाद्यात्रीच द्युस्थस्य भोग्यातदत्रीचेतियावत् । न चाद्युत्तृरूपयोभर्ेदोस्तीत्युच्यते ॥ अत्ताहवेति ॥ अत्तैव भगवानासम्यगाद्योभवतिनानयोर्भेद इति हवाप्रसिद्धं । यद्वासर्वात्तैव भगवान् सर्वैरुपजीव्यत्वादाद्यो भवति । भगवतः सर्वभोक्तृत्वं सर्वोपजीव्यत्वं च नित्यमेकप्रकारमेव । नतु केनापिबलवत्पुरुषेण विघटयितुं शक्यमित्युच्यते ॥ नतस्येति ॥ अयं पुरुषोयथासर्वलोकान्नाद्यात् यद्वासर्वलोका एनं नाद्युनर्ोपजीवेयुस्तथाकर्तुं कश्ऱ्चननेशेष्य इति ॥ 2
॥ अब्रह्मविद्यात्वप्रतीतेः खण्डं प्रमाणेनैव व्याचष्ये ॥ उत्थापनादित्यादिना ॥ उत्थापनात्सर्जनात् उक्थपदार्थमाह ॥ उत्थापनात्सृष्यिकतर्ृत्वादिति ॥ तदुक्थमियमेवपृथिवीत्यस्यार्थः सएवेति ॥ प्रथितःप्रथिमातोविस्तारतः पृथुत्वादितियावत् । अध्यात्ममित्यस्यार्थः अध्यात्मेचेति ॥ आत्मानमधिकृत्य भोगसाधनत्वेन वर्तमाने शरीरेचासौपुरुषाख्योजनार्दनःवासुदेवःप्रद्युम्नोनारायणोनिविष्यः । प्रकृतौमहतःस्रष्यापरमःपुरुषोमतः । तदेववासुदेवाख्यमितिवासुदेवे प्रद्युम्नःपुरुषेत्युक्तःपूरयेत्सजगद्यत इति प्रद्युम्ने नारायणाख्यःपुरुष इति नारायणे पुरुषपदप्रयोगात् । कुतः पुरुषाख्यः पूर्षुदेहेषुस्थितत्वात्पुरुष एवोक्थमिति जवस्योक्थत्वमुक्त्वातस्योक्थत्वोपपादनाय प्रजापत्यैक्यमुच्यत इति प्रतीतिं वारयितुं पुरुषपदार्थमुक्त्वातस्यगुणसमर्पणायायमेवेत्युच्यत इति भावेनव्याचष्ये ॥ समहानिति ॥ सजनार्दन एवेत्यन्वयः । अहमुक्थमस्मीति विद्यादित्यस्यार्थः । अहमुक्थमिति । विद्यामत्त्यनुभवतीति विद्यात् । तस्यमुखमेवोक्थं नासिके एवोक्थं ललाटमेवोक्थमित्यस्यार्थः पृथगिति ॥ अङ्गानिचाङ्गान्येव । यथापृथिवीतथा यथान्तरिक्षंतथा यथाद्यौस्तथेत्यत्रभगवदङ्गानामुत्थापकत्वं नौपचारिकं किन्तु पृथिव्यादिवन्मुख्यमित्युत्थापकत्वं दृढीकृतं तत्कथमित्यत उक्तं ॥ अग्नीति ॥ नेत्रमित्यनेनमूलस्थललाटशब्देन तत्सन्निहितं नेत्रमुपलक्ष्यत इति व्याख्यातं भवति । अन्नमशीतय इत्यत्रलुप्तोपमा प्रसिद्धमन्नं तस्य हरेरशीतय इव तर्पकं भोग्यमित्यर्थमभिप्रेत्यव्याचष्ये ॥ तृचेति ॥ तिसृणांॠचां समाहारःतृचं तृचस्याशीतिस्तृचाशीतिस्तद्रूपेणविभिन्नस्य शस्त्रस्यशंसनस्यान्नत्वहेतुतस्तर्पकत्वात्प्रसिद्धान्नन्तृचाशीतिवद्विष्णोरन्नमित्युक्तंस्यादित्यर्थः । एवं लुप्तोपमात्वेन व्याख्यायसामानाधिकरण्येनापिव्याचष्ये ॥ अन्नाभिमानीति ॥ आद्यश्ऱ्चोयस्मादित्यर्थे । यस्मानन्नाभिमानीदेवःसोमएवतृचाशीत्याश्ऱ्चदेवताभिमान्यतश्ऱ्चान्नमशीतय इतीरिता इत्यर्थः । तथाच तस्य पृथिव्यादिस्थस्य भगवतः अन्नं भोग्यान्नाभिमानी अशीतय अशीत्यभिमानीसोमएवातः सापिभोग्य इत्यर्थ उक्तो भवति । तृचानामाशीतेरेक विवक्षयातृचाशीत्या इत्येकवचनं । ॠचां त्ऱ्यशीति विवक्षयाशीतय इति बहुवचनमनुसन्धेयं । नन्वधिदैवं भगवद्रूपाणां रूपरसङ्गधादिप्रसिद्धान्नभोगः पंचभिरिन्द्रियैरुपपद्यते । अध्यात्मं वाक् प्राणचक्षुर्गतानां भगववद्वागादीनां तु कथमित्यत आह
?R
॥ तद्भोग्यमिति ॥ तत्प्रसिद्धमन्नंहरेर्मुखस्यादनाख्यक्रियाविषयतया नासायाघ्राणाख्यभोगविषयतया चक्षुषोदृष्यिलक्षणभोगविषयताभोग्यं श्रुतमित्यर्थः । तस्याग्निरर्क इत्यादौविवक्षितमर्कशब्दार्थमाह ॥ अरणमिति ॥ अर्कशब्दप्रकृतिॠधात्वर्थरूपमरणं यस्माद्गमनं ॠगतावितिधातोः । तस्मादसाधारण्येनव्यपदेशाभवन्तीति न्यायेनशीघ्रगतित्वाच्छ्येन एवार्कः । ॠगताविति धातोः कन्प्रत्ययेगुणेचार्कशब्दो निष्पन्न इति भावः । अस्तुश्येनोर्कःकिमत्रवानतयास एव ग्राह्य इत्यतः आह ॥ तदाकारेति ॥ श्येनाकारा षष्ययुत्तरशतत्रयेष्यकासन्निवेशलक्षणाचितिरत्रार्कपदोदितेत्यर्थः । ननु भगवद्वाहनेवक्तव्येचित्तेरुक्तिर्नसङ्गतेत्यत उक्तं ॥ सुपणर्प्रतिमेति ॥ सुपर्णाभिमन्यमानेत्यर्थः । तथाच अर्कशब्दश्ऱ्चित्यभिमानिसुपर्णपर इति भावः । तस्यार्क इत्यस्यार्थमाह ॥ यस्मादिति ॥ यस्माद्धरिःश्येनाकारचित्यन्तर्गतसुपर्णारूढः तस्मात्सासुपर्णाधिष्ठिताचितिस्तस्यार्क इति प्रोच्यत इत्यर्थः । अग्निरर्कोवायुरर्क आदित्योर्कोवागर्कःप्राणोर्कश्ऱ्चक्षुरर्क इति षण्णामर्थमाह ॥ योसाविति ॥ तेऽग्न्यादयः । तस्याग्निरर्क इत्यादिविशिष्यवाक्यार्थमाह ॥ तेष्विति ॥ अग्न्यादिष्वित्यर्थः । एतेनतस्याग्निरर्क इत्यादिवाक्यषट्कस्याग्निरग्न्यधिष्ठितोर्कःश्येनाकारचितिप्रतिमकोगरुडस्तस्य वाहनभूत इत्यादिरथर् उक्तो भवति । पृथक्पृथक् च तस्याङ्गानीत्युक्तं विवृणोति ॥ व्याप्तत्वादिति ॥ मुखे आस्ये ॥ मुखमेवोक्थमित्यादेः स्थूलदेहे भगवतोव्याप्तत्वात्स्थूलदेहवागिन्द्रियगोलके आस्येस्थितं भगवदास्य मुक्थमित्याद्यर्थमभिधायजीवचैतन्यस्यवागिन्द्रियगोलकेविद्यमानं विष्णोर्वागिन्द्रियगोलकमुक्थं घ्राणगोलकेनासिकायां विद्यमानं भगवतोनासिकाख्यं गोलकमुक्थं । चक्षुर्गोलेके अक्षणिविद्यमानं लक्षुर्गोलकमुक्थमित्यर्थान्तरमाह ॥ जीववागिति ॥ अत्रवागादिशब्देनगोलकमुच्यते । न च जीवचैतन्य्य भगवतश्ऱ्चेन्द्रियातिरिक्तगोलकाभाव इति वाच्यं । लोकसिद्धस्यगोलकेन्द्रियभेदस्य विशेषशक्त्यङ्गीकारेबाधकाभावात् । अत एव विष्णोश्ऱ्चक्षुर्निमीलने । निमीलिताक्षेषुसुरेषुविष्णुना । आसमन्तान्निमीलिताक्षमभवदित्यादावक्ष्युन्मीलननिमीलनादिगोलकक्रियाविशेषप्रतिपादन सङ्गच्छत इति बोध्यं । ततो जीवेव्याप्तत्वादेववागादीनि च भगवतोरूपाणीत्याह ॥ विष्णोरिति ॥ पृथिव्यादिस्थस्याग्न्याद्यधिष्ठानान्तरस्थसुपर्णाधिष्ठितत्ववद्देहजीववागादिगोलकगतस्यभगवद्वागादेर्देहजीववागादीन्द्रियाधिष्ठितसुपर्णवाहनत्वं विवक्षित्वा मुखमेवोक्थं वागर्कः । नासिके एवोक्थं प्राणोर्कः । ललाटमक्षिण्युक्थं चक्षुरर्कइति गोलकाभिप्रायेणोक्थानिनिरूप्येन्द्रियाभिप्रारेणवाहननिरूपणं कृतमितिभावेनाह ॥ जीववागादिदंस्थं च सुपर्णमधिसंस्थिता इति ॥ जीववागादिगोलकगताभागर्वादयोजीववागादीन्द्रियगतसुपर्णारूढाः चशब्दाद्देहवागादिगोलकगताभार्गवादयोपितत्तदिन्द्रियगतसुपर्णूाढा इति गम्यते । ननु यदि भार्गवादीनामेववागादित्वंतर्हिकथंतस्य मुखमेवोक्थमित्यादिनापुरुषस्यभार्गवादेश्ऱ्चङ्गाङ्गीभावः । तद्रूपाणामभेदादिन्द्रार्जुनादाविवविशेषाभावाच्चेत्यत आह ॥ अविशेषोपीति ॥ भगवान् यद्यप्येक एव इन्द्रार्जुनादिवद्विशेषरहितश्ऱ्च तथापि पूर्णाचिन्त्यैश्ऱ्वर्यरूपत्वादङ्गाङ्गित्वेनां गाङ्गिभावेन स्वानन्दानुभवेस्थितःस्वतएवस्वरूपभूतानन्दानुभववान् भवति रमत इतियावत् । यदि भार्गवादीनांपुरुषाङ्गत्वं तर्ह्यङ्गितया प्रतिभासोनस्यादित्यत आह ॥ सएवेति ॥ अङ्गतया स्थितएव भगवान् आत्मानं व्यूह्यवाह्यवाहकरूपेण विभज्य पृथग्रूपइव स्थित इत्यर्थः । भोग्यत्ववद्वाहनत्वं च हरेरेवमुख्यमिति भावेनप्याह ॥ सएवेति ॥ सपृथिव्यादिस्थित एवात्मानं व्यूह्यवाह्यवाहकरूपेण विभज्यपृथग्रूपइव पृथग्भूत इति स्थित इत्यर्थः । अस्वैवविवरणं सुपर्णनामेति । पृथिव्यादिस्थितोभगवान् वासुदेवएव सुपर्णनामासुपर्णे च व्यवस्थितः । अग्न्यादिषु च तन्नामास्थित इत्यर्थः । अन्नेनहीदं सर्वमश्ऱ्नुत इत्येतद्वयाचष्येऽन्ननामेति ॥ अन्नमानासहरिरेवान्न आस्थित इतियोज्यं । यद्वा अन्नेनहीमानिसर्वाणिभूतानीत्येतद्वयाचष्ये ॥ अन्ननामास एवान्नेचेष्ययन्सर्वमास्थित इति ॥ अन्नेनेमं लोकं जयत्यन्नेनामुमित्यस्यार्थोऽन्नेस्थित इति ॥ अन्तरिक्षंवेत्यादेरर्थस्तस्यांतरिक्षगस्यैवेति ॥ तदेतद्ब्रध्नस्येत्येतद्वयाचष्ये ॥ परस्येति ॥ परस्यपूर्णस्यबृहत्परं ब्रह्मधीयतेनिधीयतेऽत्रेतिव्युत्पत्त्याब्रध्नःसूर्य इति भावः । यद्वाबन्धबन्धन इति धातोः ब्रधीत्यादेशे नक् प्रत्यये च ब्रध्नशब्दोनिष्पन्नः । बन्धेर्ब्रधिबुधीचेत्युणादिस्मरणात् । तथाच विष्णरत्रबध्यतेसम्बध्यत इति सूर्योब्रध्नः तस्य तात्पर्यं परस्येत्यादि ॥ यदुकिञ्चात इत्यास्यार्थः पृथिव्यामिति ॥ यद्धकिञ्चेत्यस्यार्थः तथेति ॥ सेयमित्याद्यात्रीत्येतत्सेयं भगवन्मूर्तिरितिपूर्वोक्तप्रकरणस्वयंभोग्यत्वादाद्यास्वभोक्तृत्वादाद्यास्वभोक्तृत्वादस्त्रीत्यर्थतया व्याचष्ये ॥ भोग्यत्वादिति ॥ परःपूर्णोविष्णुर्भोग्यत्वादासम्यगाद्य इत्युक्तःस्वात्रीचेत्येवमाद्यात्तृरूपवानिति योजना ।
?R
अत्ताहवाआद्योभवतीत्यस्यार्थः । आद्यात्तृरूपवानेक एव परोविष्णुरिति तदेववाक्यं प्रकारान्तरेण व्याचष्ये ॥ अत्तेति ॥ अन्येषामत्तान्यैरुपजीव्यत्वादाद्योभवतीतियोजना । न तस्येशेऽयमित्यस्यार्थो नोपजीव्य इति ॥ 2
॥ प्रकृतस्य पूरुषनामकस्य वासुदेवाद्यात्मकस्य हरेर्महान् प्रजापतिरित्युक्तं प्रजापतित्वं प्रजापतित्वोपपादनपूवर्ं स्वसृष्यदेवादि पुरुषाधिष्ठितत्वं चोच्यते ॥ अथात इति ॥ अथाधिकारसम्पत्त्यनन्तर मतःमोक्षाख्यप्रयोजनस्य सत्वात्तस्यचाकारवाच्यात्प्रसन्नाद्भगवतः साध्यत्वात् प्रसादस्य च भगवज्ज्ञानसाध्यत्वात्तदर्थं रेतसः भगवद्रेतसःसम्बन्धिनीदेवादिप्रजासृष्यिर्ज्ञातव्याऽतः सोच्यते ॥ यद्वा ॥ अथानन्तरं अतो वासुदेवरूपाद्भवन्तीरेतःसम्बन्थिनीसृष्यिरुच्यत इत्यर्थः । अत्रदेवाःप्रजापतेः ब्रह्मणः पुत्रा इतयन्यथाप्रतीतेर्व्याचष्ये ॥ स एष इति ॥ यःपूर्वखण्डेऽयमेवमहान्प्रजापतिरितीरितः स एष भगवान्विष्णुरेव प्रजाकामोहवैप्रजापतिःसमिथुनमुत्पादयत्तेरयिञ्चप्राणञ्चेत्येतौमेबहुधाःप्रजाःकरिष्यत इत्यादिश्रुतिषु प्रजापतिरितीरित इत्यर्थः । देवा इन्द्राद्या इति प्रतीतिवारणायव्याचष्ये ॥ तस्मादिति ॥ जाता इत्यनेनरेतः शब्दस्य तत्परिणतशरीरभाज इत्यर्थ उक्तो भवति । देवपदस्य कुतो ब्रह्मादिसर्वदेवपरत्वमित्यतस्तज्ज्ञापकतया देवानां रेत इत्युत्तरवाक्यं व्याचष्ये ॥ तेभ्य इति ॥ वृष्यिश्ऱ्चब्रह्मादिभ्य एव जायतेन तु पर्जन्यादिभ्यःकतिपयेभ्यः । अतोदेवपदेनब्रह्मादीनामेवग्रहणं युक्तमिति भावः । अत्रवृष्ययादिपदेनभूतं ताभिमानीचेतिन्यायेनाभिमन्यमानाभिमानितद्देहादेर्ग्रहणं । तेषांरेतस्त्वं ना यथायोग्यंतत्कार्यत्वं । अन्नस्यरेतोरेत इत्यत्र प्रसिद्धं रेतः अन्नविकारत्वेनतत्कार्यमितिभावेन व्याचष्ये ॥ अन्नाच्चेति ॥ जायत इत्युपस्कार्यं । प्रजानां रेतोहृदयमितिहृदयशब्देनप्रसिद्धहृदयप्रतीतेः व्याचष्ये ॥ सङ्कल्प इति ॥ इत्थंकरिष्य इति मनोवृत्तिविशेषं प्रति प्रजानां कर्तृत्वाद्धृदयाभिधःसङ्कल्पःप्रजाभ्योजायत इत्यर्थः । ननु मनसेन्द्रियस्य कथं सङ्कल्पलक्षणवृत्तिकार्यत्वमित्यतोहृदयस्य रेतोमन इत्येतद्वयाचष्ये ॥ तस्माद्विकल्पाख्यं मन इति ॥ इत्थं करिष्य इति सङ्कल्परूपमनोवृत्तिजननानन्तरं हीदं नैवं करिष्य इति वृत्तेरुदयादिति भावः । मनसोरेतोवागित्यत्र वागिन्द्रियप्रतीतेर्व्याचष्ये ॥ विकल्पादिति ॥ सङ्कल्पादपिवाग्वृत्तिरूपाजायते । तथापिविकल्पाद्वाक्प्रचारोजायते । तदेवोपपादयति ॥ वाचेति ॥ विकल्परूपमनसानामादिवेदनाद्वाचा वाक्प्रचारोजायत इत्यर्थः । यथावाचानिशादिशेत्युदाहरणाद्वाचेतिप्रथमा । यद्वावाचः कर्मेत्येतत्सोपपत्तिकं व्याचष्ये ॥ वाचेति ॥ वाचा उपदेष्युर्वाक्प्रचारेणोपदेश्यदेवतानामादिवेदनाद्देवतानामकर्मक्रमादिवेदनात्तस्यः कर्मसञ्जायत इत्यथर्ः । तदिसं कर्मकृतमित्यत्रतदिदं प्राजापत्यादिकं कर्मकृतमित्यन्यथाप्रतीतेर्व्याचष्ये ॥ कर्मणश्ऱ्चजगत्पुनरिति ॥ सर्वं जगत्पुनःपुनःकर्मणैवजायत इत्यर्थः ॥ नन्वचेतनस्यकर्मणःकथं सर्वजगत्कारणत्वं तदभिमानिजीवस्यकर्मपदेन विवक्षरयांचतस्यैवादृष्यद्वाराकारणत्वमापन्नं नेश्वरस्येत्यत उक्तमयंपुरुष इति ॥ अत्रायमितिपरामर्शविषयं दर्शयन् व्याचष्ये ॥ कर्माभिमानीति ॥ जीवकर्मणःप्रकृतत्वेनममेदंकमर्ाहंकर्तेतितदभिमन्ताजीवोपिप्रकृत इति परामृश्यत इत्यर्थः । ब्रह्मावासत्वं सर्वसाधारणमित्यत उक्तं भाष्ये ॥ विशेषादिति ॥ तथाच जीवस्यकर्माभिमानित्वात्तद्गतस्य परब्रह्मणस्तन्नियामकतवात् जीवेस्थित्वातेनकर्मकारयित्वान्तनिमित्तीकृत्यभगवानेवसृजतीत्यर्थ इति भावः । ननु प्रयोजनाभावान्नभगवतः सृष्यिकारणत्वमित्यत आनन्दोद्रेकादेव सृष्यिप्रवृत्तिरित्युच्यते । स इरामय इति । तद्वयाचष्ये । स इति ॥ अयं पुरुषोयस्य ब्रह्मणोलोकःसब्रह्मपदोक्तोहरिरिच्छानन्दप्रभूतत्वादिच्छानुसार्यानन्दपूर्णत्वादिरामय इत्यर्थः । सइरामय इति पुल्लिङ्गेनपरामर्शार्थमेवपरस्यब्रह्मणोहरेरित्युक्तं । शब्दतो जीवस्यप्राधान्येनप्रकृतत्वेपि अर्थतः प्राधान्यात्तत्परामर्श इति सूचयितुं परस्येत्युक्तं । कथमस्य शब्दलब्धत्वमित्यतोमयटःप्राचुर्यार्थत्वप्रसिद्धेरित्येतद्वयाचष्ये ॥ इच्छेति ॥ इशब्दइच्छावाचीतदनुरूपारतिःसुखमेवेरेतिप्रकीतिर्तमित्यर्थः । अस्यस्वेच्छयापूर्णानन्दत्वेज्ञापकमुच्यते ॥ यद्धीति ॥ यद्यस्मदिरामयाः स्वातन्त्ऱ्ेणपूर्णसुखस्तस्मादेवहिरण्मयोऽन्यथातन्नस्यादित्यर्थः । तद्वयाचष्ये ॥ इच्छानन्दप्रभूतत्वादिति ॥ स भगवानिच्छानुसार्यानन्दपूर्णत्वादेवइरामयइत्यन्वयः ॥ हिरण्मयपदार्थमाह ॥ हिरुगिति ॥ यतःबाह्याल्लौकिकानन्दाद्धिरुकिपृथविलक्षणं सुखं हिरण्यंस्यात् यस्माच्चाधिकार्थेप्राचुर्यार्थे उपलक्षणमेतत्तादात्म्यार्थेच मयट् । तत्तस्माद्बाह्यानन्दात्पृथगधिकानन्दरूपतोहिरण्यमय इति शेषः । स एव हिरण्यमय एव हिरण्मयः इति योजना । णशब्दवत् ण्यशब्दस्यापिनिर्वृतिवाचकत्वादिति भावः । भगवतःस्वेच्छानुसारेणपूणर्सुखत्वाभावेतत्सुखस्यपरायत्तत्वेनबाह्यानन्दवैलक्षण्यं न स्यादिति भावः । एवमानन्दोद्रेकादेवजगत्स्रष्यृत्वमुक्त्वातज्ज्ञानिनः फलमुच्यते ॥ हिरण्मयोहवेति ॥ यद्वाकैमुत्येनहरेर्विलक्षणानन्दत्वमुच्यते ॥ हिरण्मयोहवेति ॥ यद्वापूर्णानन्दत्वेनस्वप्रयोजनाभावेपि
?R
श्रवणस्मरणार्हाणिकरिष्यन्नितिकेचन । सोयं विहारइहमेतनुभृत्स्वभावसम्भूतयेभवतीत्युक्तदिशातज्ज्ञानिनां परमानन्दावाप्तिहेतुत्वात्सृष्यिर्नव्यर्थेतिभावेनोच्यते ॥ हिरण्मय इति ॥ यएवंवेदसहिरण्मयःसम्भवतिहवाइत्यन्वयमभिप्रेत्यव्याचष्ये ॥ उत्सृज्येति ॥ एवमुक्तरीत्यापूर्णानन्दत्वात्स्वप्रयोजनाभावेप्यानन्दोद्रेकादेवसर्वलोककारणं जानन् कर्मजंरूपमुत्सृज्यनिजानन्दरूपकोभवतीत्यर्थः । तत्रमुक्तप्रत्यक्षंप्रमाणमुच्यते । हिरण्मयःसर्वेभ्य इति ॥ यएवंवेदसोमुष्मिन् लोके हिरण्मयः सर्वैर्भूतैर्ददृश्यत इत्यर्थमभिप्रेत्यव्याचष्ये ॥ तल्लोकइति ॥ I-1
?R
मुक्तस्य संसारिभिरवलोक्यत्वात्कथमेतदित्यत उक्तं ॥ मुक्तैरिति ॥ यद्वा उक्तविधया जगत्कारणत्व हेतुःफलं वक्तुं जीवस्य स्वरूपमुच्यते ॥ स इरामयइति ॥ योयं पुरुषोब्रह्मणोलोकोविशेषेणभगवत्प्रतिमाभूतस्तत्प्रतिबिम्बः सइरामय इत्यर्थस्तद्वयाचष्ये ॥ सइरामय इत्यादिना ॥ इच्छानुरूपं भगवदिच्छानुरूपं तदनुसारिस्वेच्छानुरूपं वा । कामेनमेकाम आगात् सङ्कल्पादेवचतच्छतेरित्येदेः । भवत्वेवमिच्छानुसायर्ानन्दरूपतवं ततश्ऱ्चकिमित्यत उक्तं ॥ यद्धीति ॥ तद्वयाचष्ये ॥ इच्छानन्दस्वरूपत्वादित्यादिना ॥ एवं जीवस्ययोग्यतामुपपाद्याथातोरेतसः सृष्यिरित्यारभ्योक्तसृष्यिकर्तृत्वज्ञानिनःफलमुच्यते ॥ हिरण्मयोहवेति ॥ य एवं वेदसहिरण्मयोऽमुष्मिन् लोकेसम्भवतिव्यज्यत इत्यर्थः तद्वयाचष्ये ॥ उत्सृज्येति ॥ 3
॥ ब्रह्मपदेनप्रकृतस्य वासुदेवस्य पुरुषएवोक्थमयमेवमहान्प्रजापतिरित्यध्यात्मं पुरुषनामकत्वमुक्थत्वं प्रजापतित्वं चोक्तं प्रजापतित्वमतीतखण्डे उपपादितमधुनाध्यात्मे निवेशप्रकार उक्थत्वं च प्रपञ्चेनोच्यते ॥ तं प्रपदाभ्यामित्यादिना ॥ तत्र तमिमंपुरुषमितिपरामर्शविषयाप्रतीतेर्व्याचष्ये ॥ तमिममिति ॥ प्रजापतेरेतोदेवाः अयं पुरुषोब्रह्मणोलाकः य एवं वेदेतिच परमात्प्रथमजत्वेनतस्यमुख्यावासत्वेनमुख्यज्ञातृत्वेन च प्रस्तुतमित्यथर्ः । यत्प्रपदाभ्यामित्यस्य ब्रह्मभमगवान्वासुदेवः यद्यस्मात्प्रपदाभ्यामिमंपुरुषं चतुराननं प्रापद्यत तस्मात्प्रपदनादेवप्रपदेप्रपदनामकेजाते । यस्मात्प्रपदनामकेजाते तस्मात्प्रपदे इत्याचक्षते विद्वांस इत्यर्थमभिप्रेत्याह ॥ यस्मादिति ॥ तस्मादित्यनूद्यार्थकथनं तस्मातप्रपदनादिति ॥ तथाचेयंभाष्ययोजना । तस्मात्प्रपदनात्प्रपद नाम यस्मात्प्रपदनामकं तस्मात्प्रपदं नाम कीर्तितं विद्वद्भिरिति । ननुचितुर्मुखस्यिपादतलोपरिभागेहरेःप्रविष्यत्वेन तस्य प्रपदसंज्ञाकत्वेपिसर्वेषां नृणां पादोपरिभागे कथं प्रपद संज्ञेत्यतश्ऱ्चोक्तं ॥ तस्मात्प्रपदे इत्याचक्षत इति ॥ तस्माच्चतुर्मुखाख्यप्रकृतपुरुषाकारवत्वाद्देवानामन्येषां पादोपरितनभागौप्रपदे इत्याचक्षते इत्यर्थमभिप्रेत्यव्याचष्ये ॥ चतुर्मुखेति ॥ चतुर्मुखाकार इव आकारवतामितिहेतुगर्भविशेषणे । चतुर्मुखाकारसदृशाकारवतां नृणां पादतलस्योपरिभागेप्रपदं इत्याख्यावर्तत इत्यर्थः । चतुर्मुखाकारसादृश्यात्प्रपदनामेत्येतद्वयतिरेकमुखेनोच्यते ॥ शफाइति ॥ इति शब्द आद्यथर्े । तस्मादित्यनुवर्तते । तस्मान्नृणां पादोपरिभागेप्रपदशब्दस्य चतुर्मुखप्रपदसादृश्यनिमित्तकत्वादेवान्यत्रतदभावेनान्येषां भावेनान्येषां नृभ्योन्येषां पशूनामश्ऱ्वादीनां तदन्येषां पक्षिप्रभृतीनां पादतलोपरितनभागेशफाःखुरा इत्याद्याख्यावर्तते नतु प्रपदाख्येत्यर्थमभिप्रेत्यतात्पर्यतोव्याचष्ये ॥ अतोनतुपश्ऱ्वादिनामिति ॥ अतः प्रवृत्तिनिमित्ताभावादेवपश्ऱ्वादीनां पादतलोपरिक्वचिदपिप्रपदाख्यानास्तीत्यर्थः । ऊरुइत्यत्र ऊउरुइत्यक्षरविभागः । उर्वतिशयेनऊऊध्वर्गमनात्तावङ्गविशेषौऊरूइत्यर्थ मभिप्रेत्यव्याचष्ये ॥ ऊरूध्वर्गमनादिति ॥ उरुगृणीहीत्यब्रवीत्तदुदरमभवदित्यस्यसाकाङ्क्षत्वादध्याहारपूर्वं व्याचष्ये ॥ किं चिदूर्ध्वमिति ॥ उरुसम्यग्गृणीहिस्तुहीत्यस्य व्याख्यानमुरुगरणङ्कुर्विति । गरणं निगरणं उच्चारणं स्तुतिं । गृनिगरण इति हिपठन्ति । यद्वागृणीहीत्यस्य गृनिगरण इति धातोर्निगरणमभ्यवहारङ्कुर्वित्यर्थइति भावः । अत्रस्थितोभवेत्यप्याहेतियोज्यं । आज्ञानुसारेणकृतवान्वायुरित्याह ॥ उर्वेवेति ॥ तदुदरमभवदित्यस्यार्थमाह ॥ यत्रस्थित इति ॥ यत्रस्थितोवायुरुर्वेवगरणं चक्रेतत्स्थानमुदरं नामेतियोज्यं । यद्वावायुनासहकेशवोयत्रस्थितस्तत्स्थानमितियोज्यं । अनेनोर्वर्थकोच्छब्दोपपदात् गृनिगरण इति धातोरच्प्रत्ययेवार्वधातुकार्धधातुकयोरितिगुणेगलोपेचउत् उच्चैःसम्यग्गीर्यतेवायुनाहरिरत्रेतिवा वायुर्गिरत्यत्रेतिवोदरशब्दो निष्पन्न इत्युक्तं भवति । यद्यप्युदिदृणातेरजलौपूर्वपदान्तलोपश्ऱ्चेत्युणादिसूत्रे दृणातेर्ग्रहणङ्कृतं । तथापिबाहुलकाद्गृणातेर्गशब्दलापः पूर्वपदान्तलापाभावश्ऱ्चग्राह्यः । यद्वाधातूनामनेकार्थत्वाद्दृधातेरेवगिरणार्थत्वमभिप्रेत्यैवमुक्तमिति ध्येयं । उर्वित्यनूद्यव्याख्यानं विस्तारसंयुतमिति । तदुराभवदित्यनन्तरं अध्याहार्यमाह ॥ उरोमध्य इति ॥ स्थानद्वयेविशिष्योपास्यं ब्रह्मेत्यत्राचारः प्रमाणमुच्यते ॥ उदरमिति ॥ ननु भिन्नस्थानगतयोरुभयोरेकब्रह्मत्वायोगादन्यतरोपासकानामब्रह्मवित्त्वं स्यादित्यत उक्तं ॥ ब्रह्माहैवतयिति ॥ अत्रोपासकास्तेॠषयोब्रह्मैवेत्यन्यथाप्रतीतेर्व्याचष्ये ॥ उदरस्थमिति ॥ त इति नपुल्लिङ्गप्रथमा बहुवचनं
?R
किन्तु नपुंसकप्रथमाद्विवचनं । तथाचोदरस्थं हृद्गतं चेत्येते ते उभेएकन्तत्परं ब्रह्मैवेतिहप्रसिद्धं इत्यर्थ इति भावः । उभेएकमित्युक्त्याद्विवचनमत्रव्यवहारमात्रमिति दर्शयितुं ताईइत्युक्तमिति वक्ष्यमाणं सूचयति । परंब्रह्मेत्युक्त्याब्रह्माहेतिदैर्घ्यमपि परब्रह्मत्व विवक्षयेति वक्ष्यमाणं सूचयति । ऊर्ध्वं त्वेवेति तु शब्दोविशेषद्योतकः । तं विशेषमाह ॥ वायुनासहदैवतैरिति ॥ यच्छिराश्रयतेत्यस्य यद्यस्माच्छिरोश्रयततत्तस्मात्तच्छिरः संज्ञकमभवत् । ब्रह्मणःश्रयणेनमूर्ध्नःशिरःसंज्ञकत्वं कुत इत्यत उक्तं । तच्छिरस इति । यच्छिरोश्रयतेत्यनुवर्तनीयं । ब्रह्मशिरोश्रयत इति यत् श्रयणं तदेवशिरसःसम्बन्धिशिरोनिष्ठं शिरस्त्वं शिरःशब्दप्रवृत्तिनिमित्तमित्यर्थः । ता एता इत्यस्य ताःप्रसिद्धाःशीर्ष्णिस्थिताःश्रयन्त इति श्रियःश्रीशब्दवाच्याःचक्षुःश्रोत्रं मनोवाक्प्राण इत्येता उपलक्षणमेतदन्येदेवाश्ऱ्चशीर्षन् शीर्ष्णि । तत्परंब्रह्मश्रिताःउपासितवन्त इत्यर्थमभिप्रत्यव्याचष्ये ॥ तत्रप्राणात्मनेति ॥ तत्रशीर्ष्णि वायुःप्राणात्मनाप्राणाभिमानित्वेनतन्नामकत्वेनवर्तत इति श्रुतौकीर्तितः । मनोरूपेणतदभिमानित्वेनशङ्करःकीर्तितः । शेषादयश्ऱ्चमनांस्येवकीर्तिताः । पृथक्पृथक् इत्यस्य विवरणं ॥ अहंभावेत्यादि ॥ चन्द्रःश्रोत्रं कीतिर्तोऽग्निर्वाक्कीर्तितः सर्वप्राणिषुतत्रशिरसितेदेवास्तदन्येचोपासत इति योजना । एवं ब्रह्मणोवासुदेवस्य पुरुषत्वमुपपाद्योक्थत्वं कैमुत्येनोच्यते ता अहिंसंतेत्यादिना ॥ ता अब्रुवन् हन्तास्मादित्यस्यास्मात्प्रकृताद्भगवतस्तदाज्ञयेत्यर्थमाह ॥ तेविष्णोराज्ञयावोचन्दिति ॥ अस्माच्छरीरादित्यस्याप्यन्वयमाह ॥ देहादब्जभवस्यास्मादिति ॥ सर्वत्राश्ऱ्नन्पिबन् आस्तैवेत्यशनापिपासाभिमानिमुख्यप्राणव्यापारसद्भावेनाशनापिपासयोरेवानुवृत्तिंसूचयति । मीलित इवेत्यस्य सर्वैन्द्रियनिमीलनवानिवसर्वव्यापारोपरमवानिवेत्यर्थः । अशारीतींतच्छरीरमभवदित्यत्र अशारि इतींतदितिपदच्छेदः । ईंइतिल्पुतं बिन्दुश्ऱ्चावधारणार्थ इति ज्ञेयं । अशारीतियदशीयर्तविनाशोन्मुखमभवदिति यत्तदेवशरीरस्यसंम्बन्धिशरीरत्वं शरीरशब्दप्रवृत्तिनिमित्तं तस्मात्तच्छरीरं शरीरशब्दवाच्यमभवदिति योज्यं । य एवं वेदास्यद्विषन् द्वेषीभ्रातृव्योभ्रातृवत्सहस्थितः पाप्मापापपुरुषः शीर्यतेनश्यतितमसिपतति । न केवलमामुष्मिक हानिः किन्तु अस्य द्विषन् पाप्मभ्रातृव्यःपराभवतिचेति योज्यं । यद्वापरास्यद्विषन्नित्यस्य य एवं वेदपूर्वोक्तं जानतः शत्रुःपापपुरुषोनश्यतीत्युक्तं फलंवेद तस्यापिद्विषन्पाप्मापराभवति किमुसाक्षाज्ज्ञानिन इति योजना । केशवब्रह्मणौप्राणकलहंकुतो न निवारयामासतुरित्यत आह ॥ उदासीनवदिति ॥ प्राणादिदेवेषूदासीनवत् न तु उदासीनौ । लोकस्य तेषां बलस्य परीक्षयाज्ञापनार्थ तूष्णीं भूतत्वादित्यर्थः । यद्वातयोःशरीरेसत्वात्कथंपतनमभूदित्यत उक्तं । उदासीनवदिति ॥ लौकिकोदासीनवच्छरीरप्रेरणेनिर्व्यापारावास्तामित्यर्थः । प्राणोत्क्रमणेशरीरपातेन स्वपराभवस्य यादृच्छिकत्व शङ्कयापुनस्ताहिंसंतेत्युच्यते ॥ ताऽहिंसंतेति ॥ पुनःशब्दोवाक्प्राविशदित्यादावपिसम्बध्यत इत्यभिप्रेत्य व्याचष्ये ॥ पुनस्त इति ॥ निर्गमापेक्षयापुनःशब्दः । अशयदेवेत्येवकारार्थोनोत्थानमिति ॥ ननु प्राणप्रवेशानन्तरमुत्थानमपिनप्रवेशप्रयुक्तं । किन्तु देवतान्तरप्रवेशप्रयुक्तमेवकिं नस्यादित्यतस्तत्प्राणेप्रपन्न इति वाक्याभिप्रायमाह ॥ वायाविति ॥ वायौप्रविष्येकायस्योत्थानं तदैवासीन्नतु देवतान्तरप्रवेशे अतोयद्विलम्बात्कार्याभावः तदेवकारणं नान्यदिति भावः । तदैवचेतिचशब्दस्य नकेवलं वायूत्कअमणेपतनं प्रविष्णे उत्तानं चेत्यर्थः । तदुक्थमभवत् । तत्तस्मा दन्यासाध्यो उत्थापनकर्तृत्वा त्प्राण उक्थमुच्चैःस्थितमभवत् । तत्तस्मादुच्चैःस्थितत्वात्प्राण एवैतदुक्थमुक्थनामकमभवत् । अतःप्राण उक्थ इति विद्यात् उपासीति । तद देवास्त्वमुक्थमुच्चोति । किमिदमुच्चत्वम्यितोगुणाधिक्यमेवोच्चत्वमितिभावेनोक्तं त्वमिदमिति । इदं प्रमितं सर्वं पूर्णमसीत्यर्थः । अस्य सर्वस्य त्वं प्रभुदासाःस्मः । त्वमस्माकं पतिरसीति अब्रुवन्नित्यर्थः । तदेतत्प्रमेॠषिणाप्युक्तं । त्वयेदिन्द्रयुजावयं प्रति ब्रवीमहिस्पृधः ॥ त्वमस्माकं तव स्मसीति ॥ हेइन्द्र परमैश्ऱ्वर्योपेतवायो । युजा द्वासुपर्णास युजेतिश्रुतेर्नियामकतयाऽस्मत्संगतेनत्वयाइत् त्वयैव त्वद्बलेनैव । स्पृधः स्पर्धावन्तोवयं । प्रतिब्रवीमहि प्रत्युत्तरं दास्यामः । त्वमस्माकं पतिरसि तववयं भृत्याःस्मेत्यर्थः । स्मेतिवक्तव्येस्मसीतिवचनमुक्तार्थाधिक्यसूचनाय । न किर्माकिःस्मसीत्यादिप्रोक्ताधिक्यविवक्षयेतिवचनात् । इदंतोमसीतिवचनाच्छान्दसंरूपं । तदुक्थमभवत्तदेवदुक्थं प्राण एवेत्यनयोः पौनरुक्त्यं परिहरन्व्याचष्ये ॥ उच्चैरिति ॥ ततः उत्थापकत्वादुच्चैःस्थितः । उच्चैःस्थितत्वादुक्थनामकोभूदिति योज्यं । त्वमिदंसर्वमसीत्यस्याथर्ः । ततो जगतःप्रभुरिति । प्रकारान्तरेणव्याचष्ये । उच्चत्वं चेति ॥ तववयंस्म इत्यादेरर्थोभृत्या इति ॥ त्वयेदिन्द्रयुजावयमितिमन्त्रेपूर्वशेषार्थमाह ॥ स्पर्धामह इति ॥ 4
॥ आद्यखण्डे वासुदेवाद्यात्मकस्य नारायणस्यगुणपूर्णत्वेनसवर्ोत्तमत्वे प्रमाणजिज्ञासायां द्वितीये उक्थशब्दं प्रमाणयित्वा किमिदमुक्थत्वमित्यतोऽधिदैवमध्यात्मं च पृथिव्यादिलोकद्वारावागादीन्द्रियद्वारा च सर्जकत्वमुक्थत्वमिति तदुपपादंकृतं तृतीये च साक्षाद्देवादिप्रजास्रष्यृत्वेनोक्थत्वं निरुक्तं चतुथर्ेच वासुदेवस्याध्यात्मं
?R
शरीरेन्द्रियोत्थापकत्वमुक्थत्वं बलज्यैष्ठयोपपादपनपूर्वं कैमुत्येनोक्तं इहपञ्चमेखण्डेवायोः सर्वदेवतागुरुत्वेनज्ञानोत्थापकत्वादुक्थत्वमुत्तमत्वंतदुपदेश्यत्वादिना हरेरितिभावेन प्रकृतस्य नारायणस्य प्राणपरिवृतस्यधिदैवमध्यात्मं च माहात्म्यमुच्यते ॥ तन्देवा इति ॥ देवास्तस्माद्वायोःपरंब्रह्मश्रुत्वातं वायुनोदितं नारायणाभिधं परंब्रह्म तमुपदेशकं वायुं च शिष्यप्रशिष्यादिषुप्रकर्षेणानयंतनीतवंत उपदिदिशुः सनारायणोवायुश्ऱ्च । उपदेशेनकर्णरन्ध्रद्वारेणान्तःप्रणीतःप्रविष्यः प्रातायतैकेनरूपेणशरीरेप्रततोभवत् । प्रातायीतीप्रातायि इति ईंइति पदच्छेदः । ईंयस्मात् इति प्रागुक्तप्रकारेणप्रातायि तत्तस्मात्प्रततत्वात्तदेतद्रूपं प्रातःकालनियामकं प्रातर्नामकमभवत् समागात् जीवचितारूपान्तरेण अङ्गारवह्निवत्संगतोभवत् । समागादिति जीवचितासंगतोभूदितियत्तस्मात्संगतत्वात्तदेवरूपं सायंकालनियामकं सायंनामकमभवत् अहरेव अहर्नियामकमेववायुर्नारायणश्ऱ्चपुररध्यात्मं प्राणनामकरात्रिनियामकश्ऱ्च अध्यात्ममपाननामा । तमिमं नारायणं वायुञ्च । अधिदैवं उपासका अग्न्यादयोदेवा अध्यात्ममपिवागादिरूपेणोपासत इति भावेनाच्यते ॥ वागग्निरित्यादिना ॥ तदेतद्वयाचष्ये ॥ तस्माच्छत्वेत्यादिना ॥ यशसादिक्षुयानाद्यज्ञोव्याप्तमित्युक्त प्रकारेणदिक्षुप्रतततया तन्महिमोक्त्यातद्गुणोक्तितः । साक्षाद्गुरुणागुणोक्तितश्ऱ्चयेयेगुणान्विजानन्तीत्यन्वयः ॥ यज्ञादिसाधन इति ॥ अग्निरध्यात्मं वागाख्यसूर्योध्यात्मं चक्षुश्ऱ्चन्द्रोध्यात्मं यज्ञादिसाधनविषयेयन्मनस्तत्प्रकीर्तितः । इन्द्रस्तुसाक्षाद्यज्ञादिविषयं मन इति भेद इति भावः । चन्द्रोमित्रोयमश्ऱ्चवरुणःकुबेश्ऱ्चदिगीश्ऱ्वराः सर्वेध्यात्मं श्रोत्राभिमानिन इत्यन्वयः । काम्यशास्त्रमर्थोविषयोयस्यतत्काम्यशस्त्रार्थं । एवमुत्तत्र स एष प्रहितां संयोगोध्यात्ममित्येतद्वयाचष्ये ॥ विष्णुनेति ॥ एतेन प्रहितामित्यस्यप्रहितानामित्यर्थ उक्तः । हीत्यनेनसप्रसिद्ध इति व्याख्यातं । यदुक्तं पूर्वं देवोपास्यत्वेन सर्वदेवाधिपतित्वं तत्सर्ववेदतात्पर्यगोचरत्वात् सिद्धमित्युच्यते ॥ इमादेवता इति ॥ अदउअदएवनारायणाख्यं ब्रह्मैवाधिदैवतं दैवतोत्तमं । कुतः । आधिः आसमन्ताद्विज्ञानरूपं पूर्णज्ञानस्वरूपमितियावत् । वीगतिव्याप्तिप्रजनस्यपूर्णत्वादित्येतत्प्रमेयं तैर्वेदैस्तात्पर्यादुक्तं भवतीत्यर्थमभिप्रेत्य व्याचष्ये ॥ शिवादीनामित्यादिनावेदैश्ऱ्चैत्यन्तेन ॥ इमादेवता इत्यत्रोक्तानामग्न्यादीनामेवनग्रहणं किन्तु मनोभिमानित्वेनप
?R
ूर्वखण्डोक्तानां शिवादीनामपीति भावेन मनोभिमानिनःसंगृह्णाति ॥ शिवादीनामिति ॥ तथापि ब्रह्मवाय्वोर्देवतामात्रत्वं न लभ्यते वागग्निरित्यादौतदकथनादित्यतस्ता एताः शीर्षञ्श्रियः श्रिता इत्यत्र चक्षुरादिभिः सहप्राणस्य प्रकृतत्वाद्ब्रह्मेमं पुरुषमिति पुरुषपदेन ब्रह्मणोपि प्रकृतत्वादिमा इति तयोरपिपरामर्श इति भावेनाह ॥ एताःसर्वा इति ॥ अदउआविरित्येतद्वयाचष्ये ॥ सर्वश इति ॥ सर्वशः सर्वेभ्योदेवेभ्यः । आधिक्यादधिदैवमिति योजना । सर्वेषां वेदानां उक्ताथर्ेतात्पर्यमित्येतल्लिङ्गेन फलेनसमर्थ्यते ॥ एतद्धस्मेति ॥ तदेतत्प्रमेयं विद्वान् हिरण्यदन्वैदनामाॠषिराहेत्यर्थः ॥ तज्जानन्निति ॥ किं मुनिनोक्तमित्येतदुच्यते ॥ नतस्येशेऽयमित्यादिनाएतद्धतदित्यन्तेन ॥ विष्ण्वादयोदेवामह्यंमुक्तौफलं न दद्युरिति यत्तस्य तथाकरणस्यायं देवातिरिक्तः प्राकृतोजनः नेशेनेष्ये । कुतः । प्रहिता विष्णुनान्तर्नियमनायाऽऽज्ञप्तना मन्तःप्रेरितानां वादेवानामहमध्यात्मं विभक्त्यर्थेव्ययीभावः । आत्मनि शरीरे निविष्यं संयोगं नियम्यनियामकभावलक्षणं । भगवान् पूज्यःतेपूजका इति पूज्यपूजकभावलक्षणं वा सम्बन्धवेद । तस्मात्कश्ऱ्चननेशे इत्येतद्धितेनमुनिनोक्तमित्यभिप्रेत्य व्याचष्ये ॥ भूतेष्वित्यादिना एतद्धितेनकथितमित्यन्तेन ॥ अदातुं अदापयितुं देवायथानदद्युस्तथाकर्तुमितियावात् । तदभीष्यफलविवरणं यथेष्यभुक् स्वेच्चाविहृतिरिति । कुतोनसमर्था इत्यतः देवताज्ञानित्वेन तत्प्रीतियुक्तत्वादित्याह ॥ मन्निषेध इति ॥ ननु देवा एव फलंनदद्युरिति किं न स्यादित्यतोवोक्तं ॥ प्रीता इति ॥ न केवलं वैद एवात्राधिकारीफलभाक्किन्त्वन्योपि योवेदतस्यापिमहत्फलं भवतीत्युच्यते ॥ तदनीशानानीति ॥ य एवमन्योपि योग्यो वेदोपास्ते च तदनीशानानि तदीशानभिन्नानि तत्स्वामिभिन्ननिभूतान्यस्मै बलिं हरन्तीत्यर्थमभिप्रेत्य व्याचष्ये ॥ विष्णुप्रहितेति ॥ योमानुषोप्येवं नाममात्रज्ञानवान्भवति तदवराणिभूतान्यस्मैबलिं हरन्त्येनं पूजयन्तीत्यप्यथर्माह ॥ मानुषा इति ॥ मुक्ति योग्यामानुषामुक्ताः संन्तः इति योजना । प्रकृतस्य नारायणस्यान्तरङ्गं नामविशेषं तदर्थतयाधिदैवमध्यात्मं चोपास्यत्वं तस्य त्वं तस्य परिवारदेवानां मिलित्वासत्यनामकत्वं चोच्यते । तदिति ॥ अत्र तद्वक्ष्यमाणं देवतात्रयं सत्यमित्यन्यथाप्रतीतेर्व्याचष्ये ॥ सएष इति ॥ सर्वोत्तमत्वादिति ॥ सच्छब्द उत्तमं ब्रूयादिति वचनादिति भावः पूर्णत्वादिति ॥ तनु विस्तार इति धातोः व्याख्यानात्तनोतेः विस्तारार्थत्वाद्देशकालगुणैः विस्तार एव पूर्तिरिति भावः ॥ सर्वज्ञत्वादिति ॥ यातेर्गत्यर्थत्वादिति भावः । सदितिप्राण इत्याद्यवतारयति ॥ देवतात्रयमिति ॥ विष्णोः सत्यनामकत्वमयुक्तं प्राणादीनां सत्यनामकत्व प्रसिद्धेरित्यतः विष्णोरन्यदेवावतारत्रयं च पृथगेकैकावयवप्रतिपाद्यं संमिलित्वासत्यं न तु
?R
विष्णोरिवविशिष्यनामवाच्यत्वमेकैकस्येत्युत्तरवाक्येनोच्यत इत्यर्थः । अवतारितं व्याचष्ये ॥ शेषेति ॥ यद्यपि ब्रह्मणःशेषादुत्तमत्वं वायोर्जीवेषुमध्येपूर्णत्वं चास्ति तथापि नाम वागादितारतम्यस्यप्राणवसानत्वप्रसिद्धेर्वाय्वपेक्षयाब्रह्मणः पदप्रयुक्तेषदाधिक्यसद्भावात् तद्विवक्षयैवमुक्तं । अन्नाभिमानित्वेन सर्वैरुपजीव्यत्वादन्नशब्दवाच्यत्वमुक्त्वा प्रकारान्तरेणाह ॥ अतीति ॥ वेदैरतिनादादतिशयेनस्तूयमानत्वात् अतिनुस्तूयत इत्यन्नं । णुस्तुतावितिधातोरित्युक्तं भवति । तदेतस्त्रिवृदित्यस्य तद्देवतात्रयं त्रित्वेनवृतं मिलितमेवसत्यमित्यर्थमाह ॥ देवतात्रयमिति ॥ तदेतद्देवतात्रयं त्रिस्थानं वृणोतीति त्रिवृत् । स्थानत्रयमेवोच्यते ॥ त्रिवृदिवेति ॥ लक्षुः शुक्लंकृष्णं कनीनकेतिरूपेणत्रिवृदिव त्रिवृदेवप्रसिद्धमित्यर्थमभिप्रेत्य व्याचष्ये ॥ शुक्लेति ॥ य एवमुक्तप्रकारेण सत्यस्य नारायणस्य देवतात्रयस्य च सत्यत्वं सत्यशब्दर्थत्वं वेद सयदिहवामृषा वदति अस्योदितं वचनमपिसत्यमेव भवति । हेत्ययुक्तं असत्यवचनस्य सत्यत्वस्य व्याहतेरित्यतस्तात्पर्यमाह ॥ नैवासत्येनेति ॥ वेदेत्यस्याध्यानाय प्रयोजनाभावादित्युक्तन्यायेनोपासनापर्यन्तं धावनमभिप्रेत्य तदधिकारिकथनपूर्वकमर्थमुक्त्वा यथाश्रुताथर्मप्यधिकारिकथनपूर्वमाह ॥ मानुषाणामिति ॥ दोषोसत्यवचनेन ॥ 5
॥ स एष प्रहितां संयोगोध्यात्ममिति नारायणाज्ञयादेवा अध्यात्मं तत्वनियामका इत्युक्तं । साचाज्ञाश्रुतिस्मृतीममैवाज्ञेतिवचनाद्वेदरूपेतिभावेनतंप्रकारं विवरितुमुच्यते ॥ तस्यवाक्तं तिरित्यादिना ॥ नामाभिबर्रह्मादिप्रातिस्विकनामभिर्विप्रक्षत्रियादिसामान्यनामभिश्ऱ्च सर्वंब्रह्मादिकं ब्राह्मणादिकं च सितंबद्धं । कथं नाम्नां बन्धकत्वामित्यत उच्यते । सर्वंहीदं नामनीति । इदं सर्वं नामिनप्रतिपाद्यतयावर्ततेहि यस्मात्तस्मान्नामभिःसितमित्यर्थः ॥ नामकरणकर्तोच्यते ॥ सर्वं वाचेति ॥ एतद्विद्योपासकस्यफलमुच्यते ॥ वहन्तिहवेति ॥ एनमुपासकं प्रति दैवतैःसहाखिलानि भूतानिबलिंवहन्ति । कुतः । एवमुपासकं प्रतिबलिप्रदानं कार्यमिति विधिबन्धसद्भावादिति भावेनोक्तं । तन्तिसम्बद्धा इति । यद्वा पञ्चभूतानितदभिमानिनोदेवा अश्ऱ्वरूपेण तन्तिसबद्धा रज्जुसम्बद्धारथेस्थितमेन वहन्तीत्यर्थः । अत्रतस्य वाक्तन्तिरिति तच्छब्दे न सत्यत्वं वेदेत्युपासकःप्रकृतः देवतात्रयं चप्रकृतं परामृश्यत इत्यन्यथाप्रतीतेर्व्याचष्ये ॥ तस्यनारायणस्यैवेति ॥ नामभि;
सर्वं सितं सर्वं हीदं नामनीति सर्वेषां वैदिकनामवत्त्वं वक्ष्यमाणमयुक्तमस्मदादीनां तदभावादित्यतो नामानिदामनीत्येतद्विवृणोति ॥ नामब्रह्मादिकन्तुयत् विप्रक्षत्रियवैश्यादिरूपञ्चेति ॥ सवर्ेषं पृथग्वैदिकनामाभावेऽपि विप्रादिब्रह्मचर्यादिसामान्यनाम सद्भावान्नदोष इति भावः ॥ वायुविषयतयापि तस्य वाक्तन्तरित्यादि व्याचष्ये ॥ तथैवेति ॥ तस्य नारायणस्यैवेत्यवधारणं तु पूर्वप्रकृतसत्यवेदिव्युदासायादित्यव्युदासाय वा ब्रह्मादिनाघटितसर्ववेद विवक्षया वायुमपि व्यावर्तयितुं चेत्यविरोधः । वेदैर्जगद्बन्धकत्वलक्षणं महिमानमुक्त्वा तदश्रयत्वमुच्यते ॥ तस्योविष्णगित्यादिना ॥ अत्रोष्णिगादीनां लोमाद्यैक्यं प्रतीयते तदयुक्तम् । प्रमाणविरोधात्सच्छन्दोभिःछन्न इति वाक्यशेषविरोधाच्चेत्यतो लोमानीत्यादि प्रथमायाः सवप्तम्यर्थत्वमुपेत्य तस्येत्येतद्विष्णुवायुविषयतया व्याचष्ये ॥ विष्णोरि ॥ उष्णिगादीनां लोमादिष्वाश्रितत्वेछन्दःशब्द एव प्रमाणमित्यभिप्रायेण निरुच्यते ॥ सच्छन्दोभिरिति ॥ नन्वेतदयुक्तम् । लोमादीनां अवयवानां छन्दाश्रयत्वमुक्त्वा सच्छन्दोभिःछन्न इति विष्णोर्बायोश्ऱ्चतदाश्रयत्व कथनस्य विरुद्धत्वान्नचावयवावयविनोरभेदोमन्तव्यः । लोमाद्यवयवानां प्राकृतत्वात् । विष्णोरप्राकृतत्वेपि वायोस्तदभावादित्यत आह ॥ विष्णोरिति ॥ ततश्ऱ्च किं तत्राह ॥ लोमेति ॥ लोमत्यादिग्रहणं प्राणषत्यन्तस्य । आदिपदेनमध्यस्थानां त्वगादीनां ग्रहणम् । तथाच चिदात्मनि आकेशादानखाग्राच्चैतन्यरूपेहरौ मुक्तवायौचलोमप्राणाद्यवयवैःभेदोनास्तीत्यर्थः । यद्वाननुलोमादीनां परस्परं भिन्नत्वात् कथं एकवस्त्वभेदस्तेषामित्यत आह ॥ लोमेति ॥ लोमप्राणादीनां परस्परं भेदश्ऱ्च चैतन्यैकरसेनैवेत्यर्थः । अस्त्वेवं ततश्ऱ्च किमित्यत आह ॥ छन्न इति ॥ एवं च अवयवानां परस्परमङ्गिना च भेदाभावेसति केशवः वायुश्ऱ्च छन्दोभिःछन्न इत्युपपद्यत इत्यर्थः । ननु मुक्तवायुलोमादेश्ऱ्चिदात्मकत्वेन य्वभेदेपि किं संसारिलोमादेरागतमिति चेत् । मुक्तौ चैतन्यात्मकलोमादिभावे तस्य संसारेप्यवस्थानमङ्गीकार्यं स्वरूपस्यागन्तुकत्वायोगात् तथाच संसारेप्राकृतलोमादिसम्वतिस्वरूपभूतलोमादेः छन्दाश्रयत्वं जगद्वयापारसूत्रविरुद्धमिति ॥ अस्य ग्रन्थस्य लोमादेश्ऱ्चैतन्यात्मकस्य मुक्तौ सत्वात् संसारेऽपि तदस्ति तस्य च छन्दाश्रयत्वेसच्छन्दोभिःछन्न इत्युपपन्नमित्यत्रैव तात्पर्याङ्गीकारेणमुक्तौछन्दाश्रयत्वमस्तीत्यत्रतात्पर्यात् । भवतु वा मुक्तलोमादेःछन्दाश्रयत्वं न च चगद्वयापारसूत्रविरोधः । वेदानभिमानित्वेपि मुक्तस्वावरकतर्ृक ॠक्पोषादिनियामकतया तदाश्रयत्वोपपत्तेः ॥ छन्दोभिमानिदेवानां मुक्त्यनन्तरं तदाश्रयत्व विवक्षयाप्येतद्वचनोपपत्तेः । तस्योष्णिगित्यादि विद्यावेत्तुःफलमुच्यते ॥ छादयन्तिहवेति ॥ यएवमुक्तप्रकारेणछन्दांसिभगवदङ्गाश्रितत्वात्तन्नामकानीति छन्दसां छन्दस्त्वं छन्दःशब्दवाच्यत्वं वेद सयदियस्याङ्कस्याञ्चित् दिशिवस्तुं कामयते तर्हितस्यां दिशिवसन्तमेनं पापात्कर्मणःछादयन्तिगोपायन्तीत्यर्थः ॥ यद्वा यस्यां
?R
कस्याञ्चिद्दिशिस्थित्वायदभीष्यं वित्तादिकं ज्ञानादिकं वा कामयते तत्प्रतिबन्धकात्पापात्कर्मण इति योज्यम् । तद्वयाचष्ये ॥ यएवंविदिति ॥ एनमित्यध्याहार्यं । ननु छादयन्तिहवेत्युक्तार्थे मन्त्रोदाहरणमसङ्गतम् मन्त्रे विष्णोर्गोपकत्वोक्तेरत्रपुनःछन्दसां तदुक्तेरित्यथः कैमुत्यलब्धार्थे मन्त्रोदाहरणमिति भावेनाह ॥ किमुकेशव इति ॥ यदाछन्दोभिमानिनोगोपायन्ति किमुवक्तव्यं तदाश्रयतयाप्राधान्येनोपासितोहरिरितीति भावः । तद्विदोपासकानाह ॥ योग्या इति ॥ कैमुत्यलब्धार्थे प्रमाणमिति समाहितम् प्रकारान्तरेण समाधत्ते ॥ छन्दस्स्विति ॥ तथाच छादयन्तिहवाएनं छन्दांसीत्यस्यछन्दोगतानितन्नामकानि भगवद्रूपाणिधादयन्तीत्यर्थः तथाच साक्षादुक्ताथर् एव मन्त्रोदाहरणमिति भावः । उपनिषदुक्तार्थे प्रमाणमुच्यते ॥ तदुक्तमिति ॥ छन्दःस्थितस्तन्नामाविष्णुर्वायुश्ऱ्च तद्विदङ्गोपायतीति यदुक्तं तदृषिणा अपश्यं गोपामनिपद्यमानमाचपराचपथिभिश्ऱ्चरन्तम् । समघ्रीचीःसविषूचीर्वसान आवरीवर्तिभुवनेष्वन्तरिति मन्त्रद्रष्य्राप्युक्तमित्यर्थः । अहं गोपां स्वोपासकस्यानिष्यपरिहारकत्वेनेष्यप्रापकत्वेन च गोप्तारं सर्वगोप्तारं वा गुपूरक्षणे आकारप्रत्ययोगुणश्ऱ्च । छन्दस्सु संस्थितं वायुन्तदन्तर्गतं विष्णुं च अपश्यम् । ननु यस्यां कस्याञ्चित् दिशिसंस्थितोय उपासकस्तद्गोप्तृत्वं युक्तं सर्वदिग्गतत्वं सर्वगोपकत्वं च तयोः कथं इत्यत उक्त मनिपद्यमानमाचपराचेति । अनिपद्यमानं कदाचिदेकत्रातिष्ठन्तम् । आसमन्ताच्च पराचपञ्चभूतेभ्योबहिश्ऱ्चपथिभिर्मार्गविशेषैश्ऱ्चरन्तमित्यर्थः । विष्णुवाय्वोः सर्वदिक्ष्वपिरूपविशेषेणस्थितत्वाच्चसर्वगोप्तृत्वं युज्यत इत्युक्तम् । समघ्रीचीरिति । द्वितीयासप्तम्यर्थे । सघ्रीचीनास्ववक्त्रासु पूर्वादि दिक्षुविषूचीनासुकोणदिक्षु वसानोवर्तते इत्यर्थः । लोकापेक्षिताभीष्यपरिज्ञानं च तस्य कथमित्यतो लोकसाक्षितया सर्वभूतान्तश्ऱ्चारित्वादिति भावेनोक्तम् आवरीवर्तीति ॥ स इत्येकमत्रान्वेति । भुवनेषुलोकेषु तदन्तःस्थप्राणिषु आसमन्ताद्वरीवत्यर्तिशयेनलोकसाक्षितया वर्तते चतरीति वावत् । खण्डशोनुवादपूर्वं मन्त्रार्थ उच्यते ॥ अपश्य गोपामित्येषवा इत्यादिना ॥ अपश्यं गोपामित्यत्रोक्तोगोपा एष वै । वायुस्तदन्तस्थोहरिश्ऱ्च नान्यः । कुतः हियस्मात् एष इदं सर्वं गोपायति नान्य इवा ल्पमत असाधारण्येनव्यपदेशा भवन्तीति न्यायेनैष एव गोपा इत्यर्थः । अनिपद्यमानमित्यस्य नितरामतिष्ठन्तमित्यर्थमभिप्रेत्योक्तम् । नह्येषकदाचनेति ॥ आचेत्यस्यासम्यक् पराग्बहिश्ऱ्चरन्तं पूर्वोक्तादनिपद्यमानात् अन्यं चा अपश्यमित्यर्थप्रतीतेरुक्तम् आचह्येष इति ॥ एष एवा च पराच पथिभिश्ऱ्चरतीत्यर्थः । ससध्रीःसविषूचीरित्यत्रस इति द्विरुक्तिर्व्यर्थेत्यत एकएव तच्छब्दोत्रान्वेतीत्यभिप्रेत्याक्रियते ॥ सघ्रीचीश्ऱ्चेति ॥ वसान इति कारकक्रियेति भावेनोक्तम् । वस्त इति ॥ सध्रीचीरित्याद्यनुवादेनेमा एव दिश इति विशेष्यमुक्तम् । आवरीवर्तीत्यत्रैकः स इत्यन्वेतीति भावेनोक्त मेषहीति ॥ एष वै गोपा इत्यत्रैतच्छब्दपरामृष्यमाह ॥ एषगोप्ताहीति ॥ ननु प्राक् छन्दस्सुस्थितमित्युक्तमधुनावायुस्थ इत्युच्यतेऽतोविरोध इत्यत आह ॥ छन्दस्स्विति ॥ नह्येष कदाचनेत्यस्यार्थोवायुश्ऱ्चेति ॥ अनिपद्यमानत्वे आचपराजेति हेतुरुच्यत इति भावेनाह ॥ वायुर्हीति ॥ हियस्मात्तस्मादिति पूर्वेणान्वयः । सञ्चारप्रयोजनमुक्तम् सदासर्वेति । तर्हीश्ऱ्वरसाम्यमित्यत उक्तम् चोदित इति । एवमवतार्यव्याचष्ये ॥ आसमन्तादिति ॥ सध्रीचीश्ऱ्चेत्यादिद्वितीयां सप्तम्यर्थतया व्याचष्ये ॥ सध्रीचीनास्विति ॥ सध्रीचीनास्ववक्रास्विति यावत् । विपूचीषुवक्रासु अत एव कोणदिक्षु । भुवनेष्वित्यस्य तत्स्थेषु सर्वभूतेष्वित्यथमाह अन्तश्ऱ्चेति ॥ छादयन्तीति फलवाक्येपापात्कर्मण एनं छादयन्ति गोपायति गोपायन्ति पापं कर्मास्य परिहरन्तीत्यक्तम् कथं परिहरन्तीत्यत उपासकान् स्वोदरेसंस्थाप्यपापाभिमानिनो यथा न स्पृशन्ति तथा आच्छादयन्तीत्यपि विवक्षितम् । तत्र मन्त्रान्तरमुदाहृत्यव्याक्रियते ॥ अथो इति ॥ उक्तार्थे प्रमाणान्तरमुच्यत इत्यर्थः । तदेकदेशेन पठति ॥ आवृतासइति । अप्रक्षितंवसुबिभर्षिहस्तयोरषाह्लंसहस्तन्विश्रुतोदधे । आवृतासोवतासोनकर्तृभिस्तनूषुतेक्रतव इन्द्रभूरय इति समग्रमन्त्रस्यायमथर्ः । हेइन्द्रपरमेश्ऱ्वरवायोविष्णो अप्रक्षितंप्रकर्षेणाक्षीणं नित्याक्षीणं वसुबाह्यंस्वर्णाद्यां तरंज्ञानाख्यं दातुं हस्तयोबिभर्षि । तथाचेष्यदानेनगोपायसीतिभावः । यद्वा ज्ञानाख्यं वसुत्वद्धस्तयोः वर्तते त्वमक्षितावबोध इति यावात् । बलवद्भिस्तदपहरणेकथं दास्यतीत्यत उक्तं मषाह्लमिति ॥ असह्यं स होबलं तन्वितनौ दधेदधासि । अत्रप्रमाणश्रुत इति ॥ वसुपूर्णकरमिबत्यादौवसुधारकत्वेन बलित्थेत्यादौज्ञानबलपूणर्त्वेन प्रसिद्धत्यर्थः । यद्वावायुरिति श्रुतः प्रसिद्धः बशब्दस्य बलार्थत्वादयतेर्गत्यर्थत्वादिति भावः । छादयन्तीति य्तस्वोदरेनिवेश्यजीवाच्छादकत्वमुक्तम् साक्षात्तत्रप्रमाणं आवृतास इति । हेइन्द्रतेतवतनुषुकर्तृत्वादूज्ञानरूपत्वाद्वाक्रतुनामकाःक्रतुशब्दस्य प्रज्ञानामसु पाठात् भूरयोनन्ताजीवाः कर्तृभिर्जगत्कारणैर्महदादिदेवैरवृतारक्षितास्तिष्ठन्ति । तत्रदृष्यान्तः । कर्तृभिःस्वेष्यकर्तृभिःवित्तवद्भिर्वित्तसन्तोहिस्वेष्यंकुर्वन्ति । अवतासोन अवटा इव । सावर्ण्याट्टकारस्यतकारः । कनकावटा इव कनकविशिष्यगर्तविशेषा इव । गर्तावटौभुविश्ऱ्वभ्रइत्यमोक्तेः । एतन्मन्त्रतात्पर्यमुच्यते ॥ सर्वं हीदमिति ॥ इदं सर्वं जीवजातं प्राणेन वयुनाकेशवेनचावृतं ।
?R
ननु वायुनावैगौतमसूत्रेणायञ्चलोकःपरश्ऱ्चेति वायोःसर्वाधारत्वं श्रूयते । आकाशएव तदोतञ्चेतिचित्प्रकृतेः कथं विष्णोस्तदित्यत उच्यते ॥ सोयमिति ॥ सोयं वायुराकाशश्ऱ्चित्प्रकृतिश्ऱ्च प्राणेनप्रकर्षेणनियामकेनबृहत्यापूर्णेनकेशवेन विष्यब्धोधृत इत्यर्थः । यद्वाप्राणकेशवयोःसर्वाधारत्वं सदृष्यान्तमुच्यते ॥ सोयमिति ॥ प्रसिद्धोयमाकाशःप्राणेनबृहत्याप्रकषर्षणनियामकेनपूर्णेनविष्णुनावायुनाचविष्यब्धोधृतो भवति । यथातदयमाकाशःसोयमाकाशःप्राणेनबृहत्याविष्यब्ध एवमापिपीलिकाभ्यःपिपीलिकापर्यं तं विद्यमानानिसर्वाणिभूतानिप्राणेनबृहत्याविष्णुनावायुनाच विष्यब्धानिधृतानि इति विद्यादित्यर्थः । अप्रक्षितमितिमन्त्रस्य प्रसिद्धेन्द्रपरत्वप्रतीतेः व्याचष्ये ॥ हस्तयोरिति ॥ I-2
?R
प्रेत्युपसर्गार्थोनित्येति । तद्धयसह्यमित्यत्रहीतिश्रुत इत्यस्यार्थः । ननु बलदेवतवाद्वायोः बलमनन्तं भवतु कथं हरेरित्यत आह ॥ किम्विति ॥ तनूषुतेक्रतव इत्यस्यार्थस्ताभ्यामिति । कर्तृभिरावृतासोनेति दृष्यान्तविवेचनपूर्वं दार्ष्यान्तिकं विवृणोति ॥ यथैवेत्यादिना ॥ यथैववित्तवद्भिःकनकावटाःकनकनिक्षेपगर्तविशेषः पाषाणफलकादिनाचच्छाद्यन्ते तथाताभ्यां कर्तृभ्यां कर्तृभ्यां महदाद्यैः करणैश्ऱ्चेतना आवृताः सन्तएतयोः देहेतिष्ठन्तीत्यर्थः । क्रतव इत्यस्य चेतना इति व्याख्यानं कर्तृभिरितयस्य दार्ष्यान्तिकेर्थोमहदाद्यैरिति । सर्वं हीदं प्रमाणेनावृतमित्युपक्रमवाक्यस्यैवं सर्वाणिभूतानीत्युपसंहारवाक्यस्यचार्थः ॥ विष्यब्धाश्ऱ्चैवसर्वेपिजीवा इति ॥ ताभ्यामिति वर्तते । सोयमाकाशःप्राणेनबृहत्याविष्यब्ध इत्येतद्वयाचष्ये ॥ आकाश एवेति ॥ प्रसिद्ध एवाकाश इत्यर्थः । ताभ्यां विष्यब्ध इत्यन्वेति । सोयमाकाश इत्यस्य सवायुरयमाकाशश्ऱ्चेत्यर्थान्तरमाह ॥ सवायुरिति ॥ बृहत्प्राणशब्दं निर्वक्ति ॥ बृहत्त्वादिति ॥ तर्हितयोःसाम्यमित्यत आह ॥ विशेषेणबृहदिति ॥ विशेषेणप्राण इत्यपि योज्यं । तत्र प्राणकेशवयोर्मध्ये ॥ 6
॥ पूर्वं सछन्दोभिःछन्न इत्यत्र लोमाद्यवयवैस्तस्य भेदोनास्ति तेषामपि भगवल्लक्षणलक्षितत्वादिति सूचितम् । तत्प्रकटयितुं प्रकृतनारायणाङ्गानां वैभवमुच्यते इति सङ्गतिःखण्ड एव व्यक्ता । अथाधिकारसम्पत्त्यनन्तरं सम्पन्नाधिकारवतामतःप्रयोजनस्य सत्वा दस्यपुरुषस्यनारायणस्याङ्गानां विभूतयोविभवा उच्यन्त इति शेषः । वाचा आस्येन । अस्यां पृथिव्यां एना ओषधीःस्वदयत्यास्वादनार्हाःकरोति पचतीति यावत् । इदमाहस्तेदमाहरतेति वदति च । अत एवेदमाहरतेदमाहरतेति वचःश्रूयते ॠषिभिरिति शेषः । अथात इति सूचिते अधिकारफले उच्येते ॥ यावदन्विति ॥ योधिकारी पृथिव्यादिपदयोग्यतालक्षोपासनाधिकारवानेवं वेदो पासनापूर्वं अपरोक्षतो वेदास्यान्वेनमनुपृथिव्यग्निश्ऱ्च वर्तते । मुक्तभूम्यग्निसमन्वितो भवतीति यावत् । यद्वा पृथिवी यावद्दशमनुवर्ततेऽग्निश्ऱ्चयायावद्देशमनुवर्तते तावानस्य लोक आवासस्थानं भवति तत्समव्याप्तिमान् भवतीति यावत् । यद्वा मुक्तौ पृथिव्यग्निश्ऱ्चयावत्कालमनुवर्तते तावन्कालोस्य लोक आश्रयोभवतीत्यर्थः । एतयोः मुक्तयोः पृथिव्यग्न्योःलोकयोयावत्पर्यन्तं न जीर्यते तावत्पर्यन्तमस्यापि लोकोनजीर्यते । तल्लोकोयथाजरादिरहितानित्यस्तथैतयोरपीति भावः । अन्तरिक्षमनुतत्प्रेरणयाचरन्ति । कर्माण्याचरन्तिकर्मफलानिभक्षयन्त्यनुभवन्ति च । चरगतिभक्षणयोरिति धातुः । यद्वान्तरिक्षप्रेरणयाश्रुतिसञ्चारं कुवर्न्ति । आकाशस्य वर्णव्यञ्जकध्वन्युपादानत्वात् अन्तरिक्षमनुतत्प्रेरणया वेदादीन् ृण्वन्ति । वेदश्रवणस्य श्रोत्रेन्द्रियसाध्यत्वाच्छ्रोत्रस्याकाशात्मकत्वात् वायुर्भूतावायुरस्मैपुण्यङ्गन्धमावहति मुख्यवायुरप्यस्य विषयेभूतानां पुण्यङ्गन्धं ज्ञानं स्नेहसहितं ज्ञानं भक्तिं च अवहति ददाति । गन्ध अर्दन इति धातोः । अर्दनं च गतिः । अर्दगतौयाचनेचेति च धातोः । गतिश्ऱ्चात्रज्ञानं गत्यर्थानां ज्ञानार्थकत्वात् । यद्वागतिरगतिरत्रमनसोभगवति गतिर्विवक्षिता । मनसोहतिश्ऱ्चज्ञानंभवक्तिश्ऱ्चभवत्येव । ज्योतिःप्रकाशं ज्योतिषापदार्थव्यक्तिम् । दिग्भ्योमित्रादिदिग्देवताभ्यस्तत्प्रेरणयैनं पूजयितुमायान्ति । दिक्प्रेरणयैवताभ्य आगतं विविधशब्दं भगवद्विषयं ृणोति । यद्वा भगवान् दिग्देवैःकृतं स्तवनं स्वश्रोत्रेणृणोति । यद्वादिग्देवतानुग्रहेण प्राप्तमन्येषांश्रवणजं भोगं दिग्भ्यो विवर्जितत्वेन स्वश्रोत्रेणृणोति भुङ्क्त इत्यर्थः । अस्मैपुण्यायकर्मण इति । एनमुद्दिश्यजीवानां पुण्यकर्मकर्तुं अबभिमानिनः सर्वेदेवाः अस्मैपुण्यायकर्मणे भगवद्विषयज्ञानभक्तिवैराग्यश्रवणमननयज्ञादिमानसाबाह्यक्रियासिध्यर्थ्यं श्रद्धामास्तिक्यनिष्ठां संनमन्तेसम्यङ्नमयन्ति प्रह्वीभावयन्ति जनयन्तीति यावत् ॥ 7
॥ अथास्यपुरुषस्येत्यत्र विष्यब्धानीति विद्यादितिप्रकृतोपासकपुरुषस्य फलतयावैभवमुच्यते इत्यन्यथाप्रतीतेर्व्याचष्ये ॥ तस्यविष्णोरिति ॥ उपास्यतया प्राधान्येनप्रकृतस्यविष्णोरित्यर्थः । अस्येतिप्रतिज्ञाय वा चासृष्यावित्यादिनां गवैभवमुच्यते । तदनुसारेणपुरुषस्येत्यतः परंशेषमाह ॥ विष्णोरङ्गानामिति ॥ परिचरत इत्येतदनुरोधेनोक्तं शुश्रूषार्थमिति । अस्यां जायन्त इत्यधिकरणत्वमात्रप्रतीतेरुक्तं जनयत्योषधीरिति ।
?R
इदमाहरतेदमाहरतेतिद्विर्वचनानुसारेणोक्तमाहृता आहृता इति । पुनःपुनराहृता इत्यर्थः । इदमाहरतेतिवदतिजनाःृण्वन्तिचेत्यर्थमभिप्रेत्योक्तमाहरेतिवच इति ॥ ननु पृथिव्यग्निकार्यान्नस्यवागिन्द्रियभोग्यत्वायोगात्कथं तयोः परिचारकत्वमित्यत आह ॥ मुखजत्वादिति ॥ वाचासृष्यावित्यत्र वाक् शब्देनमुखमास्यं जनकमिष्यते । कुतस्तयोः विष्णुमुखजत्वात् विष्णुमुखजत्वस्य प्रसिद्धत्वादित्यर्थः । यत एवं वाक् छब्देनास्यं विवक्षितं तत आस्यभोग्यमन्नंतौकुरुत इत्युपपद्यत इति योज्यम् । ननु प्रसिद्धान्नस्य दृष्ययास्वीकारोक्तेरित्यतोन्तर्यामिरूपेण सम्भवतीत्याह ॥ सर्वैरिति ॥ यदन्नं सर्वैर्मुज्यतेतदन्नं तत्र तत्र स्थितोहरिर्मुङ्क्ते यतएवं अन्तर्यामिरूपेण भोक्तृत्वमतस्तदर्थमित्यन्वयः । यएवं वेदेति वेदनमात्रेणैतत्फलमित्यन्यथाप्रतीतेराह ॥ विष्णोर्वाग्विभवमिति ॥ पृथिव्यग्निश्ऱ्चास्यान्वेनमन्वित्यर्थमभिप्रेत्यव्याचष्ये ॥ सभूमीति ॥ मुक्तभूस्यग्निसहित इत्यर्थः । यावद्देशमनुपृथिव्यग्निश्ऱ्चतावान्देशः । अस्यलोक आश्रयः इत्यर्थान्तरमाह ॥ समन्तयोरिति ॥ यावान्कालस्तयोस्तावान्कालोलोकाश्रय इत्यर्थान्तरमाह ॥ तद्वदिति ॥ नास्यतावल्लोक इत्येतद्वयाचष्ये ॥ अनष्यलोक इति ॥ योग्यःसंस्तदुपासाया इत्यत्रसच्छत्रब्दाथर्तयाधिकारिविशेषा उक्ताः । केत इत्यत आह ॥ योग्या इति । येपृथिव्यग्निपदयोग्यास्ते अस्योपासायामुख्यतयायोग्या स्तथाचोक्तं फलन्तेषुमुख्यमिति भावः । अन्येषां साधनं फलञ्चामुख्यमित्याह ॥ तदन्य इति ॥ पदयोग्येभ्योन्येतदवराःकादाचित्कोपासनेकृतेमुक्तिं प्राप्यतौयत्रयथेच्छयाचर्तुं समर्थाःस्युरेषां तावत्येवोपासनेफलेच योग्यतेत्यर्थः । ननु वाचोविभूतिं योवेदेत्यस्य य उपास्ते च सवर्देतिकथं व्याख्यानमित्यतस्तल्लाभप्रकारमाह ॥ वेदनमिति । यस्मादखिलाःपरोक्षज्ञानिन एकदेशविदःतस्मादापरोक्ष्येणवेदनमेवमुख्यं विदिधातु प्रतिपाद्यं भवति नान्यथा । पारोक्ष्येणावेदनं मुख्यं प्रतिपाद्यं न भवति । ततश्ऱ्चकिन्तत्राह ॥ आपरोक्ष्यमिति ॥ सएव वेदेत्यच्यत इति शेषः । नन्वस्त्वेयं य एवं वेदेत्यस्योपासनापूर्वं योपरोक्षं प्रपश्यतीत्यर्थस्तथापियोग्यानामेवमुख्यं फलमिति कुत इत्यत आह ॥ योग्यश्ऱ्चेति ॥ चोयस्मादित्यर्थे यस्माद्योग्यएवोपासनापूवर्मपरोक्षदृक् नान्यस्तस्मादित्यन्वयः । अन्येषां कादाचित्कोपासनावतां खण्डस्मृतिर्धारणास्यादखण्डध्यानमुच्यते अप्रयत्नात्समाधिस्तु दर्शनं चिरयानयेत्युक्तत्वादप्रयत्नस्मृतिलक्षेन समाधिनाचिरानुष्ठितेन आपरोक्षज्ञानं भवति । न तु खण्डस्मृतिरूपकादाचित्कोपासनेनातस्तेषां तल्लोकसञ्चारणमेवेति भावः । प्राणेनसृष्यावित्यादिप्रकरणचतुष्ययं व्याचष्ये ॥ प्राणादिभ्य इति ॥ मनसासृष्या आपश्ऱ्चवरुणश्ऱ्चेत्येतद्वयाचष्ये ॥ ब्रह्मेति ॥ सर्वेषामबभिमानित्वेज्ञापकमाह ॥ वैश्ऱ्वदेव्य इति ॥ ततएव सर्वेषामबभिमानित्वादेवह्यापोवैसर्वादेवता इत्यादावापोवैश्ऱ्वदेव्यः विश्ऱ्वेदेवा आभिमानिनोयासान्तावैश्ऱ्वदेव्य उच्यन्ते अन्यथा तन्नस्यादिति भावः । वरुणोस्य प्रजामित्येतद्वयाचष्ये ॥ प्राणिनामिति ॥ पूर्तपुण्येष्वन्नदानादिपुण्येषुविषये श्रद्धात्मनापरिणामिमनोभिमानित्वात्तदधिप इत्यर्थः । वरुणस्यासाधारण्येनाबभिमानित्वात्तज्ज्ञापनायवरुणश्ऱ्चेतिपृथग्ग्रहणं । उक्तङ्गेभ्यः उक्तदेवानामुत्पादवचनमुपलक्षणमित्याह ॥ एवंहीति ॥ आपोहास्मैश्रद्धामित्युक्तश्रद्धादानं विवेचयति ॥ विष्णोरिति ॥ विष्णुविषयेषुज्ञानादिषुधर्मेष्वित्यर्थः । वैदिकश्रवणेवेदविषयकश्रवणे विपोगरुडःश्रद्दां ददातीत्यन्वयः । एवमुक्तान्यसर्वदेवानां श्रद्दाहेतुत्वं शस्त्रे विवेचनीयं । वायुरस्मैपुण्यं गन्धमित्येतद्वयाचष्ये ॥ वायुरिति ॥ भूतवायुरस्यगन्धवहः वायुर्गन्धानिवाशयात् इत्यादेः । मुख्यवायुभूतानं तस्य विषयेभक्तिज्ञानप्रद इत्यर्थः । अन्तरिक्षं वा अनुचरन्तीत्यादि व्याचष्ये ॥ अन्तरिक्षञ्चेति ॥ अन्तरिक्षञ्च तदीयस्य पूजारूपस्यकर्मणःप्रदमित्येकोर्थः जीवानां खभोगार्थमित्यर्थः । एतेनान्तरिक्षमनुसृत्यचरन्ति भक्षयन्ति । सुखमनुभवन्ति चरगतिभक्षणयोरिति धातोरित्यथर्ान्तमुक्तं भवति । प्रकारान्तरेण व्याचष्ये ॥ श्रुतिचारदमिति ॥ ध्वन्युत्पादनद्वा रावेदप्रवृत्तिप्रदमित्यर्थः । अन्तरिक्षमनुशृण्वंन्तीत्येतद्वयाचष्ये ॥ श्रुतिचारदमिति ॥ श्रुतिःश्रोत्रेन्द्रियं तस्य च आरोव्यापारःश्रवणम् । यद्वा श्रुतिःश्रवणं तदेवचारोव्यापारस्तत्प्रदमित्यर्थः । आदित्योस्य ज्योतिःप्रकाशमित्येतद्वयाचष्ये ॥ सूर्य इति ॥ द्यौर्हास्मैवृष्यिमन्नाद्यमित्यस्यार्थोद्यौरपीति । अपिपदेनवृष्यिदायिनीति समुच्चिनोति ॥ 7
॥ अस्य खण्डस्य पूर्वसंगतिस्तुमनसासृष्या आपश्ऱ्च वरुणश्ऱ्चेत्यत्राम्नामकाः सर्वेदेवाः सृष्या इत्युक्तं तन्महालक्ष्म्ा आक्षिप्यत इति ॥ आप इति ॥ आप इति नामदेवानां कथमेवभवेदिति शेषः । प्रश्ऱ्नस्यापरिहार्यत्वसूचनायसंहितायां दैर्ध्यं पदेतदभावः । तत्र भगवतामहिदासेनोत्तरमुच्यते ॥ आप इति ॥ ब्रह्मादीनामाप इति नामभवत्येवेत्यध्याहार्यं । तत्कथमित्य उक्तं तदिदमिति । इदं महदाख्यं यद्ब्रह्मतदाप एवाम्नामकमेव । तवामनामकत्वेतेषां तन्नामकत्वं कुत इत्यत उक्तमिदमिति । इदं मदाख्यं यद्ब्रह्मतदखिलस्यमूलमदोखिलं जन्ममूलं कार्यं । मूलत्वं च वृक्षमूलवन्नजगदेकदेशत्वेनेति भावेनोच्यते ॥ अयंपितेति ॥ ततश्ऱ्चकिमित्यतः पितृत्वात्तन्नामपुत्राणां भवतीति वक्तं तदुपपादनाय यःपुत्रःसपितृनामवान् इति व्याप्तिरुच्यते ॥ यत्रहेति ॥
?R
पुत्रस्य यत्रक्वच यत्किञ्चन्नामभवतितत्पितुत्रस्य भवतीति । तन्नामपुरस्कारेणपुत्रस्य प्रसिद्धिभाक्त्वादिति यतोः । तदुक्तं तस्योक्तं भावोक्तः भगवन्नाम । इत्येतदापइत्येतत् । तेषां ब्रह्मादीनां उक्तं ना भवतीत्यर्थः । तदिदमाप एवेति मदाख्यं ब्रह्मपूर्णवस्तु आसम्यग्गुणैः पूर्णत्वादाप इत्युच्यते तन्मोचकत्वाच्चात्यन्तरङ्गत्वेन स्वनाम केषां दत्तवानितश्ऱ्चेति भावेन तदुपपादनपूर्वं पूर्णत्वमपि सोपपत्तिकमुच्यते ॥ एतद्धस्मेत्यादिना समग्रखण्डेन ॥ एतत्पूर्णत्वात्स्वस्याम्नामकतवं तत्पुत्रत्वादन्येषां तन्नामकत्वमिति विद्वान्महिदास एवैतद्वक्ष्यमाणतया बुद्धिस्थं स्वानुभवसिद्धं नियामकत्वादिकमप्याह ॥ किमिति ॥ आहंमामित्यत्र आअहमिति पदच्छेदः । ओमदित्यत्रापि आउमदिति पदानि । पिपीलिकामारभ्यदेवेभ्यआपर्यन्तं । आव्याप्तं मामहमावेदसम्यग्वेद । देवानपिमत् आ स्वस्वोत्तमक्रमेणमत्पर्यन्तमाव्याप्तानावेद उ एव वेदैवमयिदेवा आश्रितास्तेषु च अहं नियामक इति यावत् । एतदेव इतोमत्तःप्रदानाःप्रकृष्यपदादिप्रदानवन्तः सन्तानादि प्रदानवन्तो ज्ञानकर्मबलादिगुणप्रदानवन्तश्ऱ्चेतोमत्तएव सम्भृताः सम्यग्जीवधारणवन्तः पूर्णामुक्ता आहेत्यन्वयः । किञ्च स एष सर्वभूतानां निगरणात्संहरणाद्गिरिः चष्य इति चक्षुः श्रोतृत्वाच्छ्रोत्रं मन्तृत्वामनः प्रतषतृत्वात्प्राणः उपलक्षणमेतत् । एवं सर्वगुणपूर्णश्ऱ्च तमेवं गुणपूर्णत्वादखिलस्यगरणाच्च ब्रह्मगिरिरित्याचक्षते । यएवं सर्वगुणपूर्णत्वात्सर्वसंहर्तृत्वाच्च ब्रह्मगिरिशब्दवाच्यं वेद सद्विषन्तं ज्ञानभक्त्यादि स्वयोग्यगुणपूर्तिप्रतिबन्धकं भ्रातृव्यं भ्रातृवत्सहस्थितं पाप्मानं पापपुरुषं कलयादिदैत्यङ्गिरति नाशयति । कलिर्ममारशुसुवाङ्मयःशरैः । निकृत्तशीशेर्षो भगवन्मुखेरितैरिति तात्पर्यनिर्णयोक्तरीत्यैवमुपासकस्यद्वेषीकल्यादिदैत्योरूपविशेषेणनश्यतीति ज्ञेयं । न केवलमेतावत्किन्त्वस्यैवमुपासकस्य द्विषन् द्येष्याभ्रातृव्यः भ्रातायथैकगेहे वर्तते यथाच यमलभ्रातैकस्मिन्मातृदेहे वर्तते तथैकदेहस्थः पाप्मापराभवति तमःप्राप्तिलक्षणं पराभवं प्राप्नोति । पराचीनमवमन्तमो भवतिप्राप्नोतीति वा भवतेः प्राप्त्यथर्कत्वात् । ब्रह्मज्ञानिद्वेषिणोनिरयेपराभवोज्ञानिनस्तु परमान्दप्राप्तिरित्यस्य सम्भावनाय भगवतोद्वेषिनिरासकत्वादिमहिमान्तरमुच्यते ॥ स एष इति ॥ स एष भगवान्सर्वस्यायोग्यजनस्यासनात्तमसिक्षेपणादसुःज्ञानिनां प्रकृष्यं सुखं यस्मात्सप्राणः । परमान्दप्रापक इति यावत् । स्वस्यानन्दाभावेकथं तद्दानमित्यतश्ऱ्चोक्तम् ॥ प्राण इति ॥ प्रकृष्यंणंसुखं यस्य स्वरूपं सप्राण इत्यर्थः । निरयपरमानन्दयोःसाधनमुच्यते ॥ स एषभूतिश्ऱ्चेति ॥ सएषभगवान् भक्तानां ज्ञानैश्ऱ्वयर्ादिभूति प्रदत्वात्तद्रूपत्वाच्चभूति नामा अभक्ता
?R
नामज्ञानाद्यभूतिप्रदत्वादभूति नामा । कुत इदं वैषम्यमित्यत उक्तं भूतिरिति । वाय्वादयोदेवास्तं भूतिःसुखज्ञानादिगुणप्रदश्ऱ्चेत्युपासाञ्च क्रिरेतस्माच्चतेऽखिलाः सुखसज्ज्ञानपूवर्सद्गुणैःयुता बभूवुः । देवानां तथोपासकत्वे उदाहरणमुक्तम् ॥ तस्माद्धेति ॥ तस्मादेवकारणादेतर्हीदानीमपिदेवोत्तमः सुप्तःसुप्तस्थोवायुस्तम्भूर्भूरित्येवभूतिप्रदोभूतिरूप इत्येवप्रश्ऱ्वसिति श्ऱ्वासरूपेणशंसति । यद्यदाचरतिश्रेष्ठ इति न्यायेनान्येपितथोपासत इति भावः । एवं देवतोपासनन्तद्भूतिकारणमित्युक्त्वा तद्विपरीतोपासनमसुराणं फलवैपरीत्येकारणमित्युच्यते ॥ अभूतिरिति ॥ असुरास्त्वभूतिर्भूत्यकारकः अभूतिरूपश्ऱ्चेत्युपासाञ्चक्रिरेतस्मात्तेपराबभूवुः ज्ञानैश्ऱ्वयर्ादिहीनाः पराभूतास्तमस्यन्धेचपेतुः । यएवं वेदस आत्मनापरामात्मप्रसादेन भवति । ज्ञानैश्ऱ्वर्यादिसम्पन्नो भवति । अस्यद्वेष्याभ्रातृव्यः पाप्माच पराभवतीत्यर्थः । इतः सम्भृता एष गिरिरिति जीवनहेतुत्वं मोक्षहेतुत्वं संहारकत्वं चोक्तम् । तदुपपादयितुमुच्यते ॥ सएषमृत्युश्ऱ्चेति ॥ स एषवायुनासहितोविष्णुरेवमृत्युर्मारकोऽमृतं मोक्षप्रदश्ऱ्च संसारेमुक्तौचमृतिविरुद्धजीवनप्रदोवा । तदेतत्प्रमेयमृषिणोक्तम् । अपागर्वागञ्चतीत्यपाङ्अपानः प्रागूर्ध्वमञ्चतीति प्रङ् प्राणश्ऱ्चवायुः स्वधया आनन्दरूपिणाहरिणागृभीतोनुगृहीतः । हृग्रहोर्भःछन्धसीति वचनात् । अपागर्वाक्पायूपस्थरूपाधःस्थाने प्राक् चक्षुःश्रोत्रमुखनासिकारूपोध्वर्स्थानेचेति जीवनहेतुः प्रवर्तक इति यावत् । ननु मत्यर्ैः शरीररैः सह स्थितस्य वायोर्मरणावश्यं भावेन कथमन्यत्रमृतिजीवनहेतुत्वमित्यत उक्तं अमर्त्य इति ॥ स्वधयागृहीत इत्यनुवर्तते मर्त्यंनमर्त्यैर्नाशशिरस्कैर्देहैःसयोनिःसहस्थितोपिभगवदनुगृहीतत्वात् अमर्त्य एव देहाभिमानाभावेनतत्कृतोत्पत्तिमृतिविक्रियाशून्यत्वादज्ञानलोपाभावाच्चेति भात्तः । कैमुत्येन वायोरमृतत्वमुच्यते ॥ ताशश्ऱ्वंतेति ॥ तौवायुतद्देहौशश्ऱ्वं तौ शश्ऱ्वद्विद्यमानौ । देहानां शश्ऱ्वद्विद्यमानत्वं मोक्षपर्यन्तमेव नतु निरवधिकमिति भावेनोक्तं विषूचीनेत्यादि । विष्वङ्गचत इति विषूची विषूचीनौहरिपञ्चभूतलक्षणनागम्यावितियावत् । किञ्च वियन्तावियन्तौविरुद्धगमनौ । ऊर्ध्वगमनं वायोः शरीराणामधःक्षिप्तौ पात इति भावः । तत्रज्ञापकमुक्तंन्यन्यमिति । अन्य शरीरं निचिक्युर्ददृशुरन्यं वायुं न ददृशुरित्यर्थः । प्रथमपादमनूद्यतात्पर्यमुच्यते ॥ अपानेनेति ॥ स्वधयेत्यध्याहार्यम् । अपानेनेति सहयोगेतृतीया हिशब्दोयस्मादित्यर्थे । यस्मादपानेनसहप्राणःस्वधयापरमात्मनायतो नियत स्तस्मान्नपराग्भविति
?R
शरीरान्निर्गच्छति जीवनकरएव वर्तत इति यावत् । द्वितीयपादमनूद्यस्वधयेत्यन्वेतिजात्येकवचनमिति भावेनार्थ उच्यते ॥ एतेन हीति ॥ इदं सर्वं देहजातमेतेन भगवदनुग्रहेणामर्त्येन वायुना सयोनिसहस्थितं तस्यैवविवरणं मर्त्यानिहीति ॥ ताश्ऱ्वशन्तेत्यर्धमनूद्यान्यं निचिक्युरित्यस्यार्थ उच्यते ॥ निचिन्वन्ति हैवेति ॥ अस्योपयोग उच्यते अमृतैवैषादेवतेति । यदादेहा अपिशाश्ऱ्वतास्तदैषादेवता अमृतेति किमुवाच्यमित्यर्थः । स एष मृत्युश्ऱ्चैवामृतञ्चेत्यादेःफलमुच्यते ॥ अमृत इति ॥ य एवं भगवत्प्रसादेनामृतत्वादिगुणयुक्तं वायुं वेदसोमृतामुक्तः सन्नमुष्मिन् लोकेविष्णुलोकेसम्भवति वसति । मुक्तेभ्यःसर्वेभ्योभूतेभ्योमुक्त एव ददृशे दृश्यत इति ॥ 8
॥ आपाइत्यापइत्यनयोःपौनरुक्त्यप्रतीतेः साध्याहारं प्रश्ऱ्नपरिहारविषयतया व्याचष्ये । आपइत्येवदेवानामिति ॥ तदिदं ब्रह्माप एवेति प्रकृताद्भिर्ब्रह्मणोऽभेद प्रतीतेर्व्याचष्ये ॥ इदमिति ॥ इदं वैभूलमित्यादेरर्थस्तन्मूलमिति । अयं पितेति पुनरुक्तमित्यतस्तद्वयाकुर्वन्नुपयोगमाह ॥ पितेति ॥ इदं वैमूलत्यिक्तं मुलत्वञ्च न वृक्षमूलवज्जगदेकदेशत्वेनेति भावेनायं पितेत्यादिप्रवृत्तमिति भावः । वृक्षमूलवत्किंनस्यादित्यत आह ॥ स्वतन्त्रत्वादिति ॥ इतयेतत्तदुक्तं भवतीत्येतद्वयाचष्ये । वितृत्वादिति । एतेनेति शब्द उक्तपित्वहेतुपरामर्शकः । तदुक्तं तस्य हरेर्नामइत्येतदाप इत्येतत्तेषांदेवानामुक्तं नाम भवेदिति व्याख्यातं भवति । यत्रवापितुस्तद्वापुत्रस्येत्युक्तव्याप्तेरुदाहरणमाह । यथेति ॥ कैमुत्यन्यसूचकस्य यत्रहक्वचपुत्रस्येतयस्याप्युदाहरणमाह ॥ पुत्रनामेति ॥ तत्तन्त्रत्वादित्यनेनतदधीनत्वादर्थवदितिन्यायं सूचयति । पुत्रस्यपितृनामवत्त्वेलोकेव्यवहारसाङ्कर्यं स्यात् । तथादेवानामपि अम्नामकत्वेतत्स्यादित्यत आह ॥ तथापीति ॥ व्यवहारव्यवस्थितिर्नामव्यस्थितिः । पृवृत्तिनिमित्तं यत्र मुख्यं तत्र तस्य बहुव्यवहारोन्यत्राल्प इति प्रकरणपर्यालोचयापि मुख्यत्वाद्यनुसन्धानेननामव्यवस्थेति भावः । यद्वा देवानामम्नामकतवे ब्रह्मरुद्रादिनाम पर्यायत्वं स्यादित्यत आह ॥ तथापीति ॥ ब्रह्मादिनाम्नां तत्तन्मात्रवर्तित्वेनासाधारण्येनमुख्यत्वं समुदायनाम्नस्त्वमुख्यत्वमिति व्यहाराणां नाम्नामपर्यायतया व्यवस्थितिरिति । उक्तमेवविवृणोति । आप इत्येवेति ॥ अन्यानि ब्रह्मेत्यादीति । पृथग्देवेभ्यः । नन्वम्नाम्न इव ब्रह्मादिनाम्नामपि भगवन्नामत्वात्सर्वेष्वपि देवषु तत्प्रयोगप्रसङ्गस्तथाच व्यवहररसाङ्कर्यं स्यादित्यत आह ॥ तथापीति ॥ यन्नामयस्यविशेषतोदत्तं तत्तत्रमुख्यमिति मुख्ययावृत्त्येत्यर्थः । तद्विवृणोति ॥ आप इत्येवदेवानामिति । ननु देवानां पितृनामकत्वे नारायणादिनामवत्त्वमपिस्यादित्यत आह ॥ नारायणादीति ॥ इत्येतद्धस्मवैतद्विद्वानित्येतद्वयाचष्ये ॥ एवं स भगवानिति ॥ आहं मां देवेभ्य इत्यत्र आअहमिति विभज्य आइत्यस्यार्थत्रयमाह ॥ देवपर्यन्तमिति ॥ देवेभ्यःआ पर्यन्तं आव्याप्ति । मावेदसम्यक् सदावेदेत्यर्थः । तात्पर्यमाह ॥ मयिदेवा इति ॥ इतःप्रदाना इत्येतद्वयाचष्ये ॥ मयैतानीति ॥ कैमुत्यपरत्वेन प्रकारान्तरेण व्याचष्ये ॥ सत्ताद्याऽपीति ॥ सत्ताद्याः स्वरूपसत्तातद्विषयप्रतीति प्रवृत्तयोपि मदाज्ञया पदानिमयाप्रदत्तनीति किमुवाच्यमित्यर्थः । सत्ताद्याऽपिमदाज्ञयाज्ञानकर्मबलेहाद्यामद्दत्ता इति किंवद इति योज्यं । ईहेच्छाज्ञानभक्त्यादिविषयिणी । इतःसम्भूता इत्यस्यार्थः ॥ सम्भृताइति ॥ स एष गिरिरित्यादि व्याचष्ये ॥ सएषइति ॥ गरणदर्शनश्रोतृत्वादिकं सर्वसाधारणमित्यतः सर्वभूतानां गरणात्सर्वभूतानां दर्शनात्सर्वश्रोतृत्वत इत्यादि । तं ब्रह्मगिरिरित्येतद्वयाचष्ये ॥ तमेनमिति ॥ गिरतिहवा इत्यादिफलवाक्यं व्याचष्ये ॥ यएवमिति ॥ जगन्मूलत्व तत्संहारकत्वादेःप्रकृतत्वात्तल्लब्धार्थपरामर्शायशाश्ऱ्वतमित्युक्तम् । निरयगो नित्यनिरयगः । सएषो सुरित्यादि व्याचष्ये ॥ असनादित्यादिना । असनान्निरसनात्संहरणात्तमसिक्षेपणाद्वा । असुक्षेपण इति धातोः । सर्वस्ययोग्यस्वप्रकृष्यमानन्दं रूपयतिनिरूपयतीति प्रकृष्यानन्दरूपत्वात्प्राण इत्यर्थः । प्रकृष्यानन्दस्वरूपत्वादिति वा । ज्ञानैश्ऱ्वर्यादिभूतिद इत्युपलक्षणं भूतिरूप इति च ग्रह्यम् । भूतिदंभूतिरूपिणमिति वक्ष्यमाणत्वात् । तंभूतिरिति देवा इत्युपलक्षणम् । सएषप्राण इत्युक्तरीत्यासुस्वप्रदस्तत्पूर्णश्ऱ्चेतिचोपासाञ्चक्रिरे इत्यर्थमभिप्रेत्य व्याचष्ये ॥ सुखज्ञानादीति ॥ तस्माद्धप्येतर्हीत्यत्रश्रूयमाणन्तस्मादिति पदं देहलीदीपन्यायेनोभयत्रान्वेतीति भावेनपूवर्सम्बन्धितया व्याचष्ये ॥ तस्माच्चतेखिलाइति ॥ ननु देवानां भूतिरित्युपासकत्वे कथं सुप्तस्य भूर्भूरिति श्ऱ्वासकर्तृत्वं ज्ञापकमित्यतस्तस्माद्धाप्येतर्हीतिवाक्यं व्याचष्ये ॥ देवानामिति । तस्मादेवेत्यत्राप्यन्वेति । ननु तथापिभूतिरित्युपासकत्वेभूरिति ठसनं कथं ज्ञापकमित्यत उक्तं भूःशब्दाथर् इति । भूतिरित्येवभूःशब्दस्यार्थ इत्यर्थः । अभूरित्यसुराइत्येतद्वयाचष्ये ॥ वैपरीत्येनेति ॥ किन्तद्देवतोपासनावैपरीत्यमसुरोपसायामितयतःअभूतिरित्यस्यार्थमाह ॥ अभूतिकारक इति ॥ भूत्यकारक इत्यर्थः । विष्णुःस्वोपासकानामभूतिमेवकरोतीति वा ॥ अर्थान्तरमाह । ऐश्ऱ्वर्यादीति ॥ पराबभूवुरित्यस्व प्रतिपदं तस्मात्पराभूता इति । तद्द्वेधाविवृणोति ॥ ज्ञानेति ॥ य एवं वेदसभवत्यात्मनेति फलवाक्यं व्याचष्ये ॥ य एवमिति ॥ भावाभावमिति ॥ देवानां भावमैश्ऱ्वयर्ादिशुभं दैत्यानामभावमशुभं
?R
सद्भाववाचकाःशब्दाःसर्वेतेशुभवाचका इति वचनात् । आत्मानापरमात्मनाप्रसन्नेनेति धर्मिप्राधान्य विवक्षयोक्तमिति भावेन धर्मप्राधान्य विवक्षया परात्मनः प्रसादादित्युक्तम् । आत्मनेत्यस्य पाप्मेत्युत्तरेणाप्यन्वयः । तद्वयाचष्ये ॥ तस्य परात्मनःप्रसादात्तस्य पाप्माचेति ॥ स एष मृत्युश्ऱ्चैवामृतञ्चेत्यत्रैष उपासको देहतोमृत्युग्रस्तः स्वरूपतस्त्वमृत इत्यन्यथा प्रतीतेर्व्याचष्ये ॥ स एष भगवानिति ॥ अमृतमित्यस्य मृतिविप्रद्धजीवनकर इत्यर्थान्तरमाह ॥ स एवेति ॥ मन्त्रेणैकार्थत्वसिद्धये जीवनप्रदत्वं मृत्युत्वञ्चोपपादयति ॥ यदापानेनेत्यादिना ॥ नकेवलं लिङ्गभङ्गलक्षणमुक्तिप्रदः किन्तुमुक्तौजीवनप्रदश्ऱ्चेति भावेनामृतमित्येतद्वयाचष्ये ॥ मुक्तानामपीति ॥ न केवलं संसारिणां मुक्तानामपीति वा । प्राणादेवेत्येवकारेण तत्वदेवानां नियामकत्वमात्रं जीवनं तु प्राणादेवेति द्योतयति । तत्र मुक्तावपि जनार्दनःप्राणाधारः प्राणस्य प्राणधारकोजीवनकर इति यावत् । अपाङ्प्राङेतीति मन्त्रपादं व्याचष्ये । अर्वागिति । तत्रापाङ्प्राङित्यस्यार्थः अर्वाक् प्राक्चेति । सार्वकालिकोलडिति भावेन सदागच्छेदित्युक्तम् । अपाङ्अपानःप्राङ्प्राण इत्यर्थान्तरमभिप्रेत्यतयोः प्रतिपदं वायुरिति । स्वधयागृभीत इत्यस्यार्थः आनन्दरूपिणेति । अपानेन ह्ययं यतः प्राणो न पराग्भवतीत्यस्यार्थमाह ॥ प्राणोपानेनेति ॥ एतेनापानेनेतिसहयोगेतृतीया । स्वधयेत्यनुवृत्तस्य यत इत्यनेन सम्बन्धः । तस्यच नियत इत्यर्थः । हि शब्दस्य यस्मादित्यर्थ इत्युक्तं भवति । अमर्त्योमर्त्येनासयोनिरित्यादि व्याचष्ये ॥ अमर्त्य इति ॥ देहैःसहस्थितोपि वायुस्तत्प्रसादेनाभिमानएन्यत्वादमर्त्य इत्यथर्ः । अनेन मन्त्रेणस्वधयागृभीत इत्येतदमर्त्योमर्तेनेत्यत्रापि सम्बध्यत इति भावेनोपनिषद्येतेन हीत्युक्तमित्युक्तं भवति । ताशश्ऱ्वन्तेत्येतद्वायोरमृतत्वेकैमुत्यन्यायपरमिति भावेन व्याचष्ये ॥ अनित्याअपीति ॥ तर्हि र्मोक्षायोग इत्यतो विषूचीनेत्यादि लब्धं समाधानमाह ॥ आविमोक्षत इति ॥ प्रलयेऽभावात्कथमेतदित्यत उक्तम् ॥ स्थूलसूक्ष्मेति ॥ विषूचीनेत्येतद्वयेचष्ये ॥ नानेति ॥ नानागम्यावित्यथर्ः । तद्विवृणोति ॥ वायुरिति ॥ पञ्चत्वं पञ्चभूतलक्षणकारणात्मकत्वम् । ननु तद्देहस्य सत्वगुणकार्यत्वात् कथं भौतिकत्वमिति चेत् । भौतिकेन तु सत्वेनगूढं ब्रह्मण आण्डजमिति तृतीयस्कन्धतात्पर्योक्तरीत्या अद्भयःपृथिव्यैरसाच्चेत्यादि श्रुत्युक्तरीत्याच आण्डचरूपविवक्षयैवमुक्ति सम्भवात् । बहिर्गतरूपाणां शरीरस्य तु कथमित्यतः प्रकारान्तरमाह ॥ जडमिति ॥ अत एव स्थूलसूक्ष्मविभागेनेत्यस्य स्थूलमण्डजं सूक्ष्मं महदाद्यन्तर्गतमित्यर्थः । सूक्ष्माणिमहदादीनि स्थूलान्यण्डादिकानिचेत्यादेः । यद्वा ततो महत्तत्वतनूर्विरिञ्चःस्थूलात्मनैवाजनीत्युक्तरीत्या स्थूललात्मनासृष्यं महदाद्यन्तर्गतं स्थूलं सूक्ष्मतया सृष्यं सूत्रपुरुषादिनामकं सूक्ष्ममित्यर्थः । यद्वा स्थूलं बाह्मं सूक्ष्मं लिङ्गशरीरमिति ज्ञेयं । वियन्तेत्येतद्वयाचष्ये ॥ विरुद्धेति ॥ ननु स्रष्युस्तुदेहस्तत्र लयं ब्रजेदिति वचनात्कथमधःक्षितौदेहस्य पात इति चेन्न । क्षितिशब्देन स्वनाशस्थानस्योर्ध्वगमनशब्देन तत्तदधस्त्यागस्य विवक्षितत्वात् । क्षिनिवासगतयोरिति धातोः । न्याअन्यमित्येतद्वयाचष्ये ॥ दृश्यत इति ॥ एतेनानित्याऽपि देहास्त इत्यारभ्य दृश्यते तच्छरीरञ्चेत्यन्तमुक्तं प्रमेयं सर्वं जीवसाधारणं ताशश्ऱ्वन्तेति वायोः विशेष उच्यत इति निरस्तम् । वायोः सूक्ष्मदृष्यरूपाणान्तत्वाभिमानिरूपाणामण्डां तर्जात मूलरूपाणाञ्चाप्रलयमवस्थानाङ्गीकारादितरदेवादिरूपाणां अण्डान्तःब्रह्मकश्यपादिसृष्यानां दैनन्दिन प्रलयादौ विनाशाङ्गीकारात् । प्रतिदिनं रोचनाद्यात्मनाजननेपि न तेषां नाशः । किन्तु दैनन्दिनप्रलयेपि सत्यादौपृथगवस्थानं वा ब्रह्मसृष्यमनूनां भगवत्सृष्यैकीभाववत् मूलरूपेणसंश्लेषोवेत्युपपत्तेः । अत एवमहाप्रलय एव तच्छरीराणां तस्य च नानागतित्वविरुद्धगतित्वाद्यभ्युपगमेनतद्विषयेपीतरवैलक्षण्यमिति ज्ञेयं । यद्वा स एष मृत्युश्ऱ्चैवामृतञ्चेत्यत्र शरीराद्बहिरेतौतुयदानिःसारयत्यज;
॥ तदामृत्युप्रदश्ऱ्चायमितिसर्वजीवशरीरेभ्योनिर्गमनमुक्तं तेन जीववत्तस्यापि मर्त्यत्वमिति शङ्कानिवारणाया मर्त्योमर्त्येनेत्यादि मन्त्रशेषप्रवृत्तिः । तद्विवरणमेतेन हीदमिति । व्याख्यान ममर्त्यस्तत्प्रसादेनेत्यादि । अनन्तैर्जीवदेहैःसहस्थितोपि भगवत्प्रसादेनामर्त्य एव तन्नाशेनविक्रियाशून्यत्वादिति भावः । वायोरमृतत्वं कैमुत्येनोच्यत ॥ ताशश्ऱ्वन्तेति ॥I-3
?R
तद्वयाख्यानमनित्या अपीति । यदा शरीराणां प्रवाहतो नित्यत्वं तदा जगत्प्रभुस्तन्नियामको वायुर्नित्य इति किमुवक्तव्यम् । अनित्यत्वे शरीरप्रवाहनिर्वाहकत्वायोगादिति भावः । मृत्युश्ऱ्चैवामृतञ्चेत्यत्र प्राणिशरीरेभ्यःप्राणापानाख्यरूपद्वयस्यनिःसरणमुक्तम् । तत्र प्रमाणं विषूचीनेत्यादि ॥ तद्वयाख्यानं नानागती इत्यादि ॥ शरीरं प्राणिदेहः । पञ्चत्वमित्यस्य विवरणं जडमित्यादि ॥ अमृतोहवा इत्यादिफलवाक्यं विवृणोति ॥ य एवमित्यादिना ॥ एष पन्था इत्यादिवाक्यं ब्रह्मजिज्ञास्यं तस्य निर्दोषगुणपूर्णत्वेन विषयत्वात् । स्वप्राप्तिहेतुतया प्रयोजकत्वादित्येवं परतया प्रमाणेन व्याख्यातम् । अधुनाप्रकारान्तरेणानुपपत्तिपरिहारकतया स्ववाक्येन व्याक्रियते । तथाहि यदुक्तं नारायणस्य जगज्जन्मादि कारणत्वमुखानन्तगुणपूर्णत्वम् । तदमुक्तम् । वासुदेवस्य मोचकत्वात्सङ्कर्षणस्य संहारकत्वात्प्रद्युम्नस्य स्रष्यृत्वादनिरुद्धस्य
?R
स्थापकत्वादित्यतस्तदेववाक्यं नारायणस्य वासुदेवाद्यैक्यपरतया व्याचष्ये ॥ ब्रह्मपन्था इति ॥ प्रकृतस्य ब्रह्मशब्दवाच्यतयाऽनन्तगुणपूर्णस्य नारायणस्य वासुदेवाद्याश्ऱ्चतस्रोमूर्तयः ब्रह्मपन्था इत्यस्मन्निर्देशक्रमेणोक्ता इत्यर्थः । वानात्सूतेर्देवनाद्वासुदेव इत्याद्युक्तगुणपूर्णत्वादद्ब्रह्मवासुदेवः । शरीरेभ्यःसम्यक्कर्षणेन प्रलयेनस्वोदरप्राप्तिहेतुत्वात् पन्थाः सङ्कर्षणः । प्रकर्षेणसृष्ययाजगतोद्योतकः प्रद्युम्नः । सद्भावं यापयतीति सत्यमिमि वा एकोर्थः । अन्नपानादिकतर्ृत्वाद्रक्षणाय प्राप्तोपद्रवज्ञातृत्वात्तल्लयकर्तृत्वाच्चानिरुद्धःकमर्कर्तृत्वात्कर्ममातृत इति ह्युक्तम् । मानं ज्ञानं लयश्ऱ्चेति वचनाच्च । प्राप्तविरोधपरिहारेणस्थापकोह्यनिरुद्ध इति भावः । तथाच मूले एषनारायण एव पन्थाःसङ्कर्षणः । एतन्नारायणाख्यं परं ब्रह्मैवकर्मानिरुद्ध इत्यादि योजना । तथाच वासुदेवादीनां तदत्यन्ताभिन्नत्वान्नोक्तविरोध इति मूलार्थ इति ज्ञेयं । यद्वा ननूपक्रमेनारायणस्य जिज्ञास्यतया प्रस्तुतस्य खण्डत्रये प्रतिपादनात् अत एव भाष्योदाहृतप्रमाणेतृतीयखण्डान्ते एवं नारायणं जानन् सर्वलोकैककारणमित्युक्तत्वात्पञ्चमेच । तस्माच्छत्वा परं ब्रह्मदेवानारायणाभिधमिति प्रमाणानुसारेण तं देवाःप्राणयन्तेति प्रकृत नारायण परामर्शात् । षष्ठेच तस्य नारायणस्यैव सर्ववेदात्मिका हि वागिति प्रमाणानुसारेण तस्य वाक्तन्तिरिति नारायणपरामर्शात्कथं मध्येचतुर्थखण्डे तं प्रपादाभ्यां प्रापद्यत ब्रह्मेमं पुरुषमित्यत्र तमिमं प्रथमज्ञानिपुरुषं चतुराननम् । वासुदेवत्मकं ब्रह्मेति प्रमाणानुसारेणवासुदेवस्य प्रतिपाद्यत्वमुपक्रमे प्रस्तुतत्वात्कथं च उत्तरत्र प्रज्ञामयोमृतमयोदेवतामय इत्यादावनिरुद्धादिरूपाणां प्रसक्तिरित्यत आह । ब्रह्मपन्था इति ॥ एष पन्थ इत्युपक्रमे ब्रह्मपन्था इत्यादि पदैर्नारायणस्य वासुदेवाद्याश्ऱ्चत्रोमूर्तयः प्रस्तुता अथः सङ्गतिवशात्तासमपिनिरूपणं युक्तमेवेति भावः । द्वितीयखण्डे नासिकायैविनतमिवेत्येतन्निहितरश्ऱ्चैवतल्लोकोनासिकायान्ततस्थल इति व्याख्यतम् । तदविस्पष्यम् । नासिकारन्ध्रसमीपेन तस्थलाभावादिवेति च न व्याख्यातमतः स्ववचनेनविवृणोति ॥ नासिकायामिति । उपमार्थेतथाल्पत्वेपीवशब्दःप्रयुज्यत इति वचनात्किञ्चिन्नतमित्युक्तम् । अध्यात्मं नासिकायां यन्नेत्रयोर्मध्ये किञ्चिन्नतं स्थानं तदधिदैवं द्युलोकेयत्सूर्यलोकसय स्थानं तद्वदाचरितं सूर्यलोकस्थानीयं तत्प्रतिनिधिं विद्यात् । अत्रापि सूर्यलोकोनिहित इति यावत् । ननु यथापृथिवी तथेत्यादौतथेति व्यर्थम् । यथामहानस इत्यादि वद्यथा पृथिवीत्येतवता पूर्णत्वादित्यत आह ॥ तथेति निर्णय इति ॥ यथेत्युक्त्यैवलोकप्रयोगमहिम्नातथेत्यर्थस्य सिद्धत्वेपि सिद्धेसत्यारम्भोनियमार्थ इति न्यायेन पुनः स्पष्योक्तिर्यथा पृथिवी तथैव नात्र संशयः इति निर्णयज्ञापिकेत्यर्थः । तृतीयखण्डे सइरामय इति वाक्यं सइरामयः । इच्छानन्दप्रभूतत्वादिति व्याख्यातं इरामया इति दीर्घस्य कागतिरित्यत आह ॥ इरामया इति दैर्ध्यमवधारणार्थमिति ॥ स एवेरामय इति वा सइरामय एवेति वा अवधारणार्थ इत्यथर्ः । दैर्ध्यस्यावधारणार्थत्वेऽभिधानमाह ॥ दैर्ध्यमिति ॥ प्रकृते दैर्ध्य मापा इत्यादौप्लुतं वङ्गावगधा इत्यादौ बिन्दु रन्यत्रहिङ्कार इति योज्यम् । चतुर्थेखण्डे ब्रह्माहैवत ईइत्यत्र । ताः ई इति पदच्छेदप्रतीतेरनूद्य विवक्षितं पदं दर्शयति ॥ ब्रह्माहैवेति ॥ ननु तत् औ इति स्थितेत्यदाद्यत्वे पररूपत्वो च नपुंसकाच्चेति शीभावेत ई इति स्थिते अवधारणार्थेप्लुतेत ई इति स्थितेगुणेते इति रूपं सिद्धयतीति वस्तुगतिः । त ई । इति स्वरयोर्विभागेनोक्तौकिं कारणमित्यतः क्रमेणोदाहरणपूर्वं विभागप्रयोजनमाह ॥ देशत इति ॥ उदरदेशे वर्तते हृदयदेशेवर्तते इति देशतः । रामस्त्रेतायां कृष्णो इत्यर्थात् प्रयोजनात् । रामो महाबलो भा र्गवोल्पबल इति बलतः । गुणतस्तदतिरिक्तगुणतः । स्वरूपतो मत्स्याद्याकारस्तः । परिमाणतो वायत्र भेदोनास्ति । इन्द्रर्जुनादिष्विवात्यल्पोभेदो विशेषोपि नास्ति । किन्तु केवलैश्ऱ्वर्याख्येन योगेनघटकेन यत्र सङ्खयाद्विवत् द्वयोरिव तत्र तस्ये वेति सप्म्यर्थेवतिः वस्तुतोभिन्नयोर्द्वयोरिव भवेत् । तत्र विषयेविभक्तिषुस्वरस्पर्श विभागेन क्वचित्स्वरयोः क्वचित्स्पर्शयोः क्वचित्स्वरस्पर्शयोर्विभागेनासंहिततयोक्तिः स्यादित्यर्थः । केललैश्ऱ्वर्ययोगेनयत्र द्वित्वादि सङ्खयाभवेदिति सामान्येनोक्तं तस्योदाहरणमाह ॥ अञ्चित्यादिति ॥ एतद्यथास्पष्यं तथोच्यते विष्णुरेकोभेदरहितोप्यञ्चित्यादैश्ऱ्वर्यादेवबहुरुपवान् आत्मानं प्रकाशयेदित्यर्थः । यद्वा स्वार्थेणिच् प्रकाशत इत्यथर्ः । तथैश्ऱ्वर्यादिति क्वचित्पाठः । तत्राञ्चित्यैश्ऱ्वर्यादेव विष्णुरेकोपिबहुरूपवान् तथाभिन्नमिवस्वात्मानं प्रकाशयेदिति योज्यम् । ननु यत्तुयुक्त्याविरुध्येततदीशकृतमेवहीत्युक्तत्वात् कोत्रयुक्ति विरोधोयेनचिञ्चत्यत्व समाधानमभेदेपीन्द्रर्जुनयोरिवविशेष सम्भवादित्यत आह ॥ यत इति ॥ यतो विष्णुःसर्वत्ररूपादिष्विन्द्रार्जुनादिवद्विशेषरहितः । ततोञ्चित्यैश्ऱ्वर्यादेवबहुरूपवानिति योज्यम् । सर्वत्रेत्युक्तमेव विशदयति ॥ न विशेष इति ॥ नैश्ऱ्वर्य इत्यादौ विशेष इत्यनुवर्तते । इन्द्रार्जुनयोरभेदेपि सर्वेगुणा आवृतामानुषत्व इत्युक्तरीत्यास्त्येवैश्ऱ्वर्यादौ विशेषः । अंशिनोशेषसन्धानमत्यल्पस्यापि विद्यते । भुविजातेनचांशेन सुखःदुखादितद्गतम् ॥ अनुभूयते विशेषस्तुकश्ऱ्चिदीशकृतो भवेत् ॥ इत्युक्तरीत्यानुसन्धानादावस्त्येविशेषो नात्र तथेत्याशयेन प्रमाणोदाहरणस्योपयोगमाह ॥ इत्यादिशब्दनिर्णय इति ॥
?R
अत्यभिन्ने विशेषरहितेपि वस्तुनि द्विवचनं व्यवहारमात्रं नतु तन्तुपटावित्यत्रेवभेदज्ञापकम् । नापीन्द्रार्जुनावित्यत्रेव विशेषज्ञापकम् किन्त्वञ्चित्यैश्ऱ्वर्यघटितद्वित्व सङ्खयामात्रपरमिति दर्शयितुं ब्रह्मैवेत्यभेदेसिद्धेपित ई इति विभागेनोक्तमित्यर्थः । ननु ब्रह्माहैवेति संहिताकालेदैर्ध्यश्रवणात्कथं ते उभे ब्रह्मतत्परमिति ह्रस्वान्तपदमुपात्तम् । कथं वा तत्परत्वेन विशेषितमित्यत आह । संहितायामिति ॥ पञ्चमखण्डे । अदउआविरधिदैवतमित्येत तधिदैवं सएवैक इति व्याख्यातं तत्पदानुकरणेनस्पष्य व्याचष्ये ॥ अदउएवेति ॥ उइत्यनूद्यैतिव्याख्यानम् । ननु हिरण्यगर्भाधिदैवं देवःसङ्कर्षणोपिवेति गीताभाष्योदाहृत गीताकल्पेहिरण्यगर्भादेरप्यधिदैवत्वोक्तेः कथमवधारणमित्यत आह ॥ स्थानान्तर इति ॥ कर्मदेवादीत्यादिपदेनस्वावरदेवग्रहणम् । षष्ठेखण्डेतस्योष्णिगित्यादिवाक्येलोमादिपदं विष्णोर्बायोश्ऱ्चलोमादाविति सप्तम्यथर्तया व्याख्यतम् । तद्वयाकरणेन समर्थयते ॥ तस्योष्णिगिति ॥ उष्णिग्लोमानीति सामानाधिकरण्येनैक्यमेवकिं नस्यादित्यत आह ॥ सछन्दोभिरिति ॥ प्रयोगेणापिप्रथमायाः सप्तम्यर्थत्वं समर्थयते ॥ ब्राह्मणइति ॥ आदिपदेनाग्निर्मुखं ब्रह्माशिरः पृथिव्येवपादौ द्यौरेवशिरः उरएववेदिः लोमानिबर्हिः सत्राणिशरीर सन्धिस्त्वं सर्वं यज्ञक्रतुरिष्यिबन्धन इत्यादिकं गृह्यते । ननूक्तोदाहरणमपि सन्दिग्धमेवेत्यतः पुराणवचनेनसर्वत्रप्रथमायाः सप्तम्यर्थत्वमाह ॥ अङ्गेष्विति ॥ सप्तमखण्डे चन्द्रमाअस्मैपूर्वपक्षापरपक्षान्विचिनोतिपुण्यायकर्मण इत्यादावस्य पुण्यकर्मसिद्धये इत्यन्यथाप्रतीतेर्व्याचष्ये ॥ अस्मैपुण्यायेति ॥ जीवानां कर्मकर्तुंचेत्पितरं परिचरत इतिकथमुक्तमित्यत उक्तम् । एतमुद्दिश्येति । भगवन्तमुद्दिश्यदर्शपूर्णमासादिपुण्यकर्मजीवैः कारयितुं पूवर्पक्षापरपक्षान्विचिनोतीति भावः । चन्द्रस्य स्वपितृश्रोत्रपरिचर्यात्कथमनेनलब्धेत्यत आह ॥ तैरिति ॥ तैर्यजमानैस्तुति व्याख्याध्ययनादि कर्माणिकृतानि स्वश्रोत्रेणृणोति भगवानित्यर्थः । पुण्यायकर्मण इत्यत्रपुण्यकर्मशब्देनस्तुत्यादि कमपिविवक्षितमिति भावः । यद्वादिग्भ्योविृणोतीत्येतद्वयाचष्ये ॥ तैरिति ॥ दिग्देवैरित्यर्थः । प्रकारान्तरेण व्याचष्ये ॥ दिग्यइति ॥ सिग्भ्योन्यःप्रेर्यएव सन् भगवत्स्तुत्यादिकमर्ाणिृणोतीत्यर्थः । यद्वा भगवान् ृणोतीत्युक्तं भगवतोन्योजीवोपिदिग्भ्यस्तदनुग्रहाच्छृणोतीत्यर्थः । ननु जीवानां शब्दभोगस्य दिगनुग्रहसाध्यतवेपि भगवत्परिचारकत्वं कथं तासामित्यत आह ॥ अन्येषामिति ॥ अन्येषां जीवानां श्रोत्रेन्द्रियेण शब्दश्रवणेन जायमानं भोगं भोग्यं सुखं तत्सदृशं परमसुखमिति यावत् भगवान् तच्छ्रोत्रादिष्ठितेन स्वश्रोत्रेणशब्दश्रवणेनानुभवतीत्यर्थः ॥ यद्वा श्रवणजं श्रोत्रदेशे अभिव्यक्तं भोग्यं शब्दं तदधिष्ठितेन स्वश्रोत्रेणभुङ्क्ते इत्यर्थः । ननु दिग्देवानामेव श्रोत्राभिमानित्वाज्जीवश्रोत्रस्य न भगवदनुग्राह्यत्वं सम्भवति तदधिष्ठित भगवच्छ्रोत्रस्यापि तदनुग्राह्यत्वे परिचारकत्वायोग इत्यत उक्तं दिग्भिरननुगृहीतेनेति ॥ केवलं सेवारूपेणश्रोत्राश्रितत्वात्परिचारकत्वं नत्वनुग्राहकत्वमिति भावः । एतेन दिग्भ्योविवर्जितेन तदनुग्रहरहितेन जीवश्रोत्राधिष्ठितेन स्वश्रोत्रेणशब्दश्रवणजं भोग्यं स्वरूपसुखं च भगवान् भुङ्क्ते इत्यर्थान्तरमुक्तं भवति ।तस्य वाचासृष्यावित्यादौप्रकृतस्वजीवस्य वाचेत्याद्यर्थप्रतीतिः प्रमाणेननिरस्ता । प्रमाणाभावेनापिनिराचष्ये । नचेति । पूरुषसूक्तमन्त्रसमाख्ययापि तस्य परमपुरुषस्य विष्णोर्वाचेत्यर्थोगीकर्तव्य इत्याह ॥ मुखादिति ॥ ननु पुरुषसूक्तेपद्भ्यां भूमिरजायतेत्युक्तत्वाद्वाचासृष्यौ पृथिवीचाग्निश्ऱ्चेत्यादेः कथं तत्समाख्यारूपमित्यत आह । सृष्यिभेदादिति ॥ भगवतःसकाशात्सर्वेषां सृष्यिरित्यत्रसमाख्यात्वं मध्येयदन्यथावचनं तत्सृष्यिभेदादुपपद्यत इत्यर्थः । ननु तृतीयखण्डेऽयं पुरुषोब्रह्मणोलोक इत्यत्रायमिति विशेषणात्पुरुषोजीवोभ्युगतः । प्रकृतेचास्य पुरुषस्येति विशेषणात्पुरुषोजीवोङ्गीकार्यस्तस्य पृथिव्यादिकारणत्वमप्रमाणिकं प्रमाणविरुद्धञ्चेदौपचारिकं कारणत्वं कल्प्यतान्तस्य जीवस्य वाचास्येनान्नभोगजनकादृष्येन पृथिवीचाग्निश्ऱ्चसृष्यावित्यभ्युपगमेबाधकाभावादित्यत आह ॥ न चेति ॥ भगवदास्यादिकमेवसाक्षात्पृथिव्यादिकारणमित्यङ्गीकारे विरोधेऽन्नभोजनकादृष्यस्यान्नहेतुत्वं तदर्थं तंडुलगर्भरन्धनार्थमग्न्यपेक्षा तन्दुलार्थमोषधिपृथिव्यपेक्षेति पृथिव्यादिकं प्रतिवाचोऽदृष्यद्वारौपचारिकं कारणत्वं वक्तुं युक्तमित्यर्थः । अतिप्रसङ्गं स्पष्ययति ॥ नहीति । यद्युक्तपरम्पपरया जीवास्यादेरग्न्यादिकारणत्वं तर्हिचण्डालस्य यत्किञ्चित्कृष्यादिकं प्रतिकारणत्वात् ब्राह्मणस्य कृषिमूलकान्नविकाररेतः परिणतदेहलाभेन तस्य चण्डेलःपितेति निर्देशःस्यादित्यर्थः ॥ ननूक्तपरम्परयामानुषाणां नोपचारेणकारणत्वं किन्तु साक्षान्मानुषाणां यद्देवजनकादृष्यं तस्मादेवोत्पत्तिः किं न्नस्यादित्यत आह ॥ मानुषाणामिति ॥ प्रत्युदेवानं कर्मणैवैतेजायन्तेसर्वमानुषा इति योज्यम् । ननु मानुषकर्मैव मानुषोत्पादकं किं देवकर्मणेत्यत उक्तम् ॥ दैवतैरिति ॥ ननु जीवादृष्यैरेववर्षेणोषध्यादि देवाजयन्त इति प्रसिद्धं तत्कथं मानुषकर्मनदेवोत्पत्तिकारणमित्युच्यत इत्यत उक्तं दैवतैरिति । अन्नादिप्रापकाणां नरादृष्यानां तदभिमानिदैवतैरुपकारःफलपर्यवसान लक्षणः क्रियते । नतु देवा एवादृष्येनोत्पद्यत इत्यर्थः । कुतो नोत्पद्यन्त इत्यतस्तत्रहेतुकथनपूर्वं निगमयति ॥ प्रधानत्वादिति ॥ अष्यमेस्मिन् खण्डे
?R
आहमयिदास ऐतरेय इत्यादिनामहिदासवचनं सम्मतित्वेनोदाह्रियते इत्यन्यथाप्रतीतेराह ॥ आहेति ॥ सन्निहितस्याहंमान्देवाभ्योवेदेत्यादि सन्निहितस्यैव । अत्रोदाहरणमाह । यथेन्द्रमिति ॥ इन्द्रकुत्सोवृत्रहणं शचीपतिं काटेनिबाह्लॠषिरह्वऊतय इति वाक्यं सर्वस्य तत्पूर्वोत्तरसन्दर्भस्य यथाकुत्सवाक्यत्वाज्ञापकं तथेत्यर्थः । आदिपदेन आत्वाकण्वा अहूषतेत्यादेर्ग्रहणम् । काटेकाटसङ्घाते कामक्रोधादिशत्रुसङ्घाते । निबाह्लःनिररां बाढः । कुत्सॠषिरूतयेरक्षार्थम् । वृत्रहणं शचीपतिमिन्द्रमह्वदाह्वयामासेत्यर्थः । प्रसिद्धमुदाहरणान्तरमाह ॥ यथाचेति ॥ ब्रह्ममीमांसायाःबादरायणोपज्ञत्वस्य प्रसिद्धत्वात्तत्रबादरायणग्रहणं यथासर्वस्य तद्वाक्यत्वद्योतकं तथेत्यर्थः ।
?R
॥ इति श्रीमद्विठ्ठलाचार्यपुत्रेणश्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेनविरचितायां श्रीमन्महैतरेयभाष्यार्थरत्नमालायां द्वितीयप्रघट्टके प्रथमोऽध्यायः समाप्तः ॥2
॥ 1
॥
?R
उपक्रमे एतद्ब्रह्मेत्यत्रैतदिति प्रकृतस्य नारायणस्य तत्परमान्तरङ्गस्य वायोश्ऱ्च गुणपूर्णत्वं समन्वयमुखेनोच्यतेस्मिन्नध्याये । एषप्राणपरिवृतोनारायणः इमं लोकं ब्रह्मादिशरीरं पुरुषरूपेणान्तर्यामिरूपेणाभ्यार्चत् प्रविवेश । एषकःयोभ्यार्चत् इत्यत उच्यते ॥ यएषइति ॥ यएष आदित्येस्थित्वा तपति सप्राणोनारायणोवावसतदभ्यार्चदित्यर्थः । आदित्येस्थित्वा तपन्नारायणः कथम् । प्रसिद्धेःसूर्यएवेत्यत उच्यते ॥ प्राण इति ॥ य एष आदित्येस्थित्वा तपति स एष प्राणोनारायण एवेति प्रसिद्धं प्रसिद्धसूर्यस्य तापनशक्त्यभावादिति भावः । वक्ष्यति च आचार्यः । न प्रसिद्धसूर्यस्येयं तापनशक्तिरिति ज्ञापयितुं प्राणोह्येष य एष तपतीत्युक्तमिति । शतर्चिनाम्निधात्वर्थमुक्त्वापदार्थ उच्यते ॥ तमिति ॥ तं ब्रह्मादि शरीरं शतं वर्षाण्यभ्यार्चत् । तत्रज्ञापकम् ॥ तस्मादिति ॥ तस्मादेवहेतोःपुरुषायुषःशतं वर्षाणि भवन्ति अन्यथातन्नस्यादित्यर्थः ॥ यद्यस्माच्छतं वर्षाण्यभ्यार्चत्तस्मात्तानिरूपाणिशतर्चिनोनाम्ना भवन् । तस्मात्तन्नामकत्वादेवशतर्चिन इत्याचक्षते विद्वांसः । ननु मधुछन्दःप्रभृतयोपि शतर्चिनः प्रसिद्धा इत्यत उक्तमेतमेवेति । प्रवृत्तिनिमित्तमुख्याश्रयतया सन्तमेवाचक्षतेमुख्यतः । ॠषीं स्तूपचारत इति भावः । सभगवान् यदिदं किञ्च जगद्वर्तते इदं सर्वं मध्यतःतन्मध्येस्थित्वा आत्मन उदरेस्थापयित्वा च दधे । तस्मान्माध्यमा इत्यादिपूर्ववत् । प्रकर्षेणनेतृतवात्प्राणस्थःप्राणनामागृत्सःगृह्णाति सारमिति व्युत्पत्तेः । अपनेतृत्वादपानस्थोपाननामामदःसुखरूपत्वान्मलाद्यपकर्षणेन सुखहेतुत्वाच्च । सयद्यस्मात्प्राणरूपेणगृत्सोपानरूपेणमदश्ऱ्चतस्माद्गृत्सश्ऱ्चासौमदश्ऱ्चेति गृत्समदनामेत्यर्थः । तस्य यत्किञ्चतदिदं विश्ऱ्वं मित्रमासीत् योग्यानां मित्रत्वं स्फुटं अयाग्यानामपि भगवदपकारकरणसामर्थ्याभावान्मित्रत्वम् । तत्संहार्यत्वेनेष्यत्वाद्वा । तं देवा आब्रुवन्नित्यत्रदेवानां मध्येवामत्वाद्वामदेव इति निर्वचनं लब्धं ज्ञेयम् । अत्रय इति बहुवचनमपि बहुरूपोपेक्षयेति ज्ञयम् । एष इमं लोकमित्यत्रैष इति प्रकृतःप्राणापानात्मकोवायुरिति प्रतीयते प्राधान्येन प्रकृतत्वात्तत्सहित नारायण परामर्शेपि एष नारायणःपुरुषरूपेण मानुषादिभावेनेमं लोकं शरीरमभ्यार्चदित्यन्यथाप्रतीतेः व्याचष्ये ॥ एषनारायण इति ॥ अन्तर्यामिणिपुरुषशब्दं निर्वक्ति ॥ पुरुशेत इति ॥ प्रयोगञ्चाह ॥ प्रसिद्धत्वाच्चेति ॥ नन्वादित्य एव प्राण इति श्रुतेःय एष तपतिसूर्याख्यःप्राणःसतदभ्यार्चदिति उत्तरवाक्येश्रवणात्कथमेष नारायण इति व्याख्यानमित्यतस्तद्वयाचष्ये ॥ य एष इति ॥ सूर्यमण्डलेस्थित्वा तपन्नारायणः कुत इत्यत उपनिषदिहिशब्देन श्रुति प्रसिद्धिरुक्ता ता एव श्रुतीरुदाहरति ॥ य आदित्य इति ॥ ननु पठितबृहदारण्यश्रुतौआदित्यमण्डलस्थत्वेन श्रूयमाणःशिवादिःकिं न स्यात् । शिवस्याप्यष्यमूर्तित्वेन सूर्येप्रोक्तत्वादादित्यमण्डलस्थत्वस्य सिद्धत्वादित्यत आह । य एष इति ॥ समाख्याश्रुत्यन्तरे य एषोन्तरादित्येहिरण्मयःपुरुषोदृश्यते इत्यादित्येहिरण्मःपुरुषोवर्तते इति विष्णोरुक्तत्वात्तत्समाख्यया य आदित्येतिष्ठन्नित्यत्रनशिवादयउच्यन्ते इत्यर्थः । तत्रपि शिवादयः किं न स्युरित्यत उक्तम् ॥ इत्युक्त्वेति ॥ इत्युक्त्वातस्य यथाकप्यासंपुण्डरीकं एवमक्षिणी इत्युक्तत्वान्नशिवादयस्तत्रोच्यन्ते इत्यर्थः । पुण्डरीकाक्षत्वोक्तिमात्रेणशिवादिव्यावृत्तिः कुत इत्यत आह । शिवोहीति ॥ उपलक्षणमेतत्सूर्यश्ऱ्चेत्यपि ग्राह्यम् । विरूपाक्षःशिवःसूर्यःसुराचार्याविनायकः । पुण्डरीकेक्षणोविष्णुः सहस्राक्षः सुराधिप इति वक्ष्यमाणत्वादिति भावः । य आदित्येतिष्ठन् इत्यत्र नसूर्योमण्डलस्थत्वेनोच्यते इत्यत्रज्ञापकान्तर मन्तरङ्गमाह ॥ यमादित्य इति ॥ विष्ण्वादित्ययोरैक्यात् विष्णुरेवायं नादित्य इत्युक्तिः कथमित्यत आह ॥ भेदव्यपदेशादिति ॥ अन्तरादित्येमनसाचरं तं देवानां हृदयं ब्रह्मान्वविन्ददित्यादि भेदव्यपदेशातप्रसिद्धादित्यादन्य एव विष्णुरिति सूत्रार्थः । इतश्ऱ्चनैक्यमित्याह ॥ वृत्रमित्यादिना ॥ हेइन्द्रपरमेश्ऱ्वर । भगवन् । शवसासुखेनानायासेन । वृत्रमहिञ्चयद्यस्मादवधीः आत् इत् अस्मादेवहेतोः । दृशेदर्शनायसूर्यंदिवि ओरोहय इत्यत्र आ आरोहय इति पदपाठः । सम्यङ्न्यदधाः । यद्येनसूर्य विव्यारोहणेन सूर्यस्य हरितःदिशःपतन्तीःपुरःसतीःपुरोभागेवर्तमानानिर्दिष्यावा
?R
उपराउपरिभागेवर्तमानारुचः एत सेज्ञानाय । कः अकः अकरोः । अत्रक इत्येवपदपाठः । नकेवलं दिव्यारोहणेनप्रजानां ज्ञानं लभ्यते । किन्तु कर्मापीत्युच्यते ॥ सीदन्निति ॥ इन्द्रस्य जठरेसीदन्वर्तमानःत्वं यतःसूर्यं दिव्यारोहयः अतोनृभिःकनिक्रदत्कर्माण्यकारयः । हेजनासोजनाःयः सूर्यं जजान य उषसञ्चजनयामास योपा नेता सइन्द्रःपरमेश्ऱ्वरोनारायण इत्यर्थः । यो जनानां प्रसवीताप्रसविता । अलं नवः अर्णवः । अरं अलं णंसुखंवं ज्ञानं यस्य स इति वा । सूयर्स्यकेतुराश्रयः । केतयतीति केतुर्ज्ञानप्रदोवा । उद्वेति उदेतिवै । येन भगवता आवृतं बहिः व्याप्तं खं च दिवं महीं चादित्योयेनयत्प्रेरणयाते जसातपति । तपसन्तापे । भ्राजसादीप्त्यातपति प्रकाशयति । नन्वत्रयेनेति यच्छब्देनप्रकृतोविष्णुरिति कुतः इत्यतो वाक्यशेषमुदाहरति ॥ यमन्तःसमुद्रइति ॥ यमन्तःसमुद्रेकवयोज्ञानिनोप्यवयन्तीषदेवजानन्ति । यस्मिंस्तदक्षरेपरमेपरमाक्षरेप्रजा आश्रिता इति समुद्रान्तस्थत्वलिङ्गस्याक्षरश्रुतेश्ऱ्चवाक्यशेषेसत्वाद्येनादित्य इत्यत्रापि यच्छब्देन स एवोच्यत इति भावः । विद्युद्वृष्यिश्ऱ्चन्द्रमा आदित्योग्निरित्येताः पञ्चदेवताः तं परित अनुसृत्यतत्सङ्कल्पानुसाराण । परिम्रियन्त इत्यादौ सर्वत्रसूर्यस्य द्युस्थत्वे स्वरुचाज्ञानकमर्प्रदत्वे उत्पत्तौ तापकत्वे प्रकाशकत्वे मरणेच पराधीनत्वावगतेश्ऱ्चान्य एव तस्माद्विष्णुरित्यर्थः । सूर्यमण्डस्थत्वं नारायणस्य स्मृत्यापि साधयति ॥ ध्येय सति ॥ य एष तपतीत्यत्रोक्तादित्यमण्डलस्थत्वे प्रमाणमभिधाय तत्रस्थित्वातापकत्वेच प्रमाणमाह ॥ तापनीति ॥ यद्वा येनादित्यस्तपति तेजसाभ्राजसाचेत्युक्तेर्थेस्मृतिमप्याह ॥ तापनीति ॥ मामकं मदीयं मदधीनञ्च । ननु सूर्य इव यद्ययं पराधीनस्तदातपतीत्युक्तम् । तापनादितस्मिन्नेवमुख्यमिति । स एवादित्यस्थोनविष्णुरित्यत आह ॥ नचेति ॥ कुत्रचिदुत्पत्त्यादि विषये । ननु तस्योत्पत्तिश्रुतिरेवान्याधीनत्वं वक्तीति चेत् । अत्रवक्तव्यम् । किं वसुदेवादौकृष्राद्यात्मनोत्पत्तिवचनमन्याधीनत्वे प्रमाणं उत वासुदेद्यात्मना आदिसर्गेउत्पत्तिवचनं उतमुलरूपानरायणस्यैव । आद्यं पक्षद्वयं निराकरोति । उत्पत्तिरिति । उत्पत्तिः कृष्णाद्यात्मनोत्पत्तिवचनं प्रादुर्भावापेक्षया । प्रतयक्षत्वं हरेर्जन्मेति वचनाज्जनप्रत्यक्षगोचरत्वापेक्षया । वासुदेवादिरूपेणोत्पत्तिवचनं तु दीपाद्दीपान्तरवन्मूलरूपात्पूर्णस्यैव विश्लेषापेक्षयेत्यर्थः । तृतीयं दूषयति ॥ एकइति ॥ नारायणस्यमहाप्रलयेऽवस्थानश्रुतेरुत्पत्तिरेवनश्रुतिषूक्ता । किञचान्यनिषेधपूर्वं तस्यैवावस्थानोक्तेर्नब्रह्मादिभ्यः उत्पत्तिः सम्भावनीयेत्यर्थः । कैमुत्येन विष्णोरन्याधीनत्वं नास्ति प्रत्युतसर्वस्यतदधीनत्वमित्याह ॥ यंकामय इति ॥ इत्यादीत्यविभक्तिकोनिर्देशः । इत्यादिनातस्या आपि भगवदधीनत्वमुक्तमिति शेषः । ममयोनिरित्यादेरयमर्थः । ममयोनिःकारणभुतःसमुद्रेन्तरप्सुवर्तते नारायण इत्यर्थः । ततो भगवत्प्रसादद्विश्ऱ्वाभुवनानिवितिष्ठेऽधितिष्ठामि । उतामून्द्यां च वर्ष्मणोपस्पृशामि । अमून्द्यामपि वर्ष्मणादेहेन बलेनवोपस्पृशामि । अहमेववात इव प्रवाम्यारभमाणभुवनानिविश्ऱ्वा । अहमेवविश्ऱ्वाभुवनान्यारभमाणाकुवर्न्ती वात इव प्रवामिव्याप्नोमि मत्कारणं परमात्मादिवःपरःएनापृथिव्या अस्याः पृथिव्याश्ऱ्चपरःश्रीभूनामकमद्रूपद्वयापेक्षयापरः । अहन्तु महिनामहिम्नैतावतीकेवलं ब्रह्मादिभ्य उत्तमत्वात्परिमिता सम्बभूवेत्यर्थस्तत्वप्रदीपोक्तोवगन्तव्यः । प्रसिद्धद्यावापृथिवीपरत्वस्य रमाया अपि सत्वात् सृष्यिसंहारकत्वेन प्रसिद्धयोर्ब्रह्मरुद्रयोरपि सृष्यिसंहारकर्तृत्वाद्देव्याः नतदुत्तमस्यहरेरन्येभ्यःसृष्ययादीति भावेनाह ॥ अहमिति ॥ अहं अशरवेहिसकाय ब्रह्माद्विषेब्रह्मण;
पञ्चममुखच्छेत्रे । ब्रह्मद्विषेब्रह्मद्विषां शरवेहिसकायेति वा रुद्रायहन्तवा उहन्तुमेव नतु भीषयितुम् । प्रलयेदुर्गारूपेणधनुरातनोमिविस्तारयामि । अहममस्यजगतःपितरं ब्रह्माणं मूर्धन् मूर्धनिसकलजीवोत्तमत्वेन सुवे अजनयम् । ममयोनिरप्स्वितिवाक्यशेषः पूर्वं व्याख्यातः । विष्णोरेव साक्षात्पदप्रापकत्व श्रवणाच्चन तस्यान्याधीनत्वमित्याह ॥ अस्येति ॥ भक्ताभीष्यसेचकस्य समर्थस्य वा एषस्य आसम्मतादिच्छारूपस्य इषुइच्छयामिति धातोः । सत्यकामस्येति यावत् । आसमन्तादीशस्येति वा । देवस्यद्योतनादिमतः । अस्यविष्णोर्हविर्भिःप्रभृथेप्रभरणेपूजनेकृतेसति वयाःवयबन्धने अहं काराभिमानित्वेन बन्धकोरुद्रः । यद्वा कालाभिमानीरुद्रः । रुद्रियं महित्वं रौद्रं पदं विदेहि विविदेलब्धवान्हि । हे अश्ऱ्विनौयुवामपीरावद्वर्तिः अन्नवद्धर्तनं समस्तभोगवत्पदं यासिष्यं अयाशीष्यं लब्धवन्तौ स्थ इत्यर्थः । य एष तपति प्राणोवावेति वाक्यं य एष सूर्यमण्डलेस्थित्वा तपति सभगववान्नारायण इति व्याख्यातम् । तत्रप्राणशब्दस्य नारायण परत्वं कुत इत्याशङ्कयतस्य सर्वोत्तमत्वेनान्याधीनत्वाभावेप्राणशब्दवाच्यत्वेच प्रमाणमाह ॥ तमेता इति ॥ तं गोवत्सरूपं वायुकमेता वक्ष्यमाणा अक्षितयः अणीणज्ञानमनसः सदाशिवपुरःसराःसप्तदेवाः उपतिष्ठन्ते उपासते । अक्षन्नक्षणि तद्याः यास्तालोहिन्य इमा उपलभ्यमाना राजयोरेखास्ताभिरधिष्ठानभूस्तत्रस्थ इति यावत् । रुद्र एनमत्वायत्त उपास्ते । या आक्षन्नापस्ताभिःपर्जन्यः याकनीनिका तयादित्यः । यत्कृष्णन्तेनाग्निः यच्छुक्लं तेन इन्द्रोऽधरयैन वर्तिन्यापृथिव्यन्वायत्त द्यौरुत्तरयेति वाक्येन शिवादिसर्वदेवोपास्य तयोक्तस्यायं वावशिशुर्योयं मध्यमःप्राण इति
?R
च मध्यमप्राण शब्दोक्तस्य वायोः प्राणःस्थूणेति प्राणशब्दोक्तो नारायण आश्रय उक्त इत्यर्थः । उपसंहरति ॥ तस्मादुक्तप्रमाणसमुदायादिति ॥ एको नारायण इत्यादिनासर्वोत्तमः शाखान्तरे आदित्यस्थस्य पुण्डरीकाक्षत्वसमुद्रान्तस्थत्वादि लिङ्गेनसवितृमण्डलमध्यवर्ती नारायण इति स्मृत्याच भगवान्नारायणः । प्राणःस्थूणेतिप्रयोगात्प्राणशब्दोदितः । य एष आदित्ये सवितृमण्डलमध्यवर्तीत्यादिनादित्यमण्डलस्थः । येनादित्यस्तपति । तापनीपाचिकाचैवेत्यादिनातापनपाचनादिकर्ता आदिशब्देन शिवादिर्नाद्ितयस्थ इत्येतत्सिद्धमित्यर्थः । सर्वजीवानां तारतम्यमुक्त्वादिष्णोः सर्वाधिक्यकथनान्नतस्यान्याधीनत्वमिति भावेनाह ॥ क्षितिपा इति ॥ देवादेवङ्गधर्वाः । कमर्देवाबल्याद्याः । तात्विकास्तत्वाभिमानिनोग्न्यादयः बलज्ञानसुखादिभिर्विष्णुमक्त्यादिभिर्विष्णुभक्तिरेवादिर्येषान्तैवर्ैराग्यशमदमादिभिरित्येवं साध्यसाधनभूतैः सर्वैर्गुणैमर्ुक्तौशतगुणाः क्रमाधिका उक्ता इत्यन्वयः । अत्रज्ञानेशताधिक्यमौत्सर्गिकम् । उमायावदनन्तांशानित्युक्तरीत्याऽनन्ताधिक्यं च द्रष्यव्यम् । तस्माद्वायोरमाकोटिगुणाधिका ॥ न भेद इति ॥ शेषशिवयोर्भेदोविशेषोनास्ति पदैक्यादिति भावः ॥ कामःशक्रसम इत्रत ॥ प्रायःसम इति भावः । प्राय इन्द्रवत्काम इति वचनात् । नित्यं प्रति बिम्बा इत्यन्वयः । तं यच्छन्तं वर्षाण्यभ्यार्चत्तस्माच्छततिर्चन इत्यसङ्गतम् । प्रवेश्यसय प्रवेष्युरप्येकत्वेन बहुवचनायोगादित्यत आह । स पुरुषेष्विति ॥ एवं च तमिति न जात्येकवचनम् । प्रवेष्युरेकत्वेपि बहुरूपत्वाद्बहुवचनमित्यर्थः । एतमेवेत्येतावतापूणर्त्वात्सन्तमिति व्यथमित्यतो व्याचष्ये ॥ एतमेवेति ॥ सन्तमिति न स्वरूपसत्वमुच्यते येनवैयर्थ्यकिन्तुस्वतन्त्रपुष्कलप्रवृत्तिनिमित्ताधिकरणतयासन्तम् मुख्यत आचक्षते । ॠषींस्तूपचारतः वचनवृत्तावेवन्यूनवृत्त्याचक्षत इत्यर्थः । स इदं सर्वं मध्यतोदधे इत्यस्यार्थद्वयमाह ॥ आत्मन इति ॥ प्राणोवैगृत्स इत्यादि व्याचष्ये ॥ प्राणस्थ इति ॥ सर्वेषां वाम इत्यत्रवामपदार्थमाह ॥ वाम इति ॥ भद्रःसुन्दरः । वामं सौन्दर्यं भामन्तेज इत्यन्यत्रोक्तत्वात् ॥ 1
॥ एषउ एव बिभ्रद्वाजः । उउच्च एषएव बिभ्रद्वाजोभरद्वाजः । तदुपपाद्यते ॥ प्रजा इति ॥ अयंवैन इति ॥ नियमनायान्तर्वसतामुत्तमानां सर्वेषां नोऽयं वैवसिष्ठःवसतामुत्तमत्वप्रद इत्यर्थः । वसिनां निवसतामतिशयितोवसिष्ठः । अतिशायेन इष्ठन् प्रत्ययविधानात् ॥ यदिदं सर्वमिति ॥ सयद्यस्माद्यदिदं किञ्च वर्ततेतदिदं सर्वमभिप्रागात्प्राप्नोत् । प्रागायदिति वा । तस्मात्प्रगाथा इति योज्यम् । गाङ्गतौ गागान इति धातोरुषिकुषिगार्तिभ्यस्थन्निति थन्प्रत्यय इति भावः । अभ्यपवयत पावयामास । इदं प्रमाणप्रसिद्धं सन्निहितं वा । सर्वं पूर्णं वस्तुसन्नहं यच्चक्षुद्रं अल्पं प्राणिजातम् । यच्चमहत्प्राणिजातमिदमस्मिन्नसानिप्रविशामि । प्रविश्यचक्षुद्रमणुरूपोमहत् महारूपश्ऱ्चासानिभवानीति सो ब्रवीत् । तस्मात्क्षुद्रोमहांश्ऱ्चासानीत्युक्तत्वात्तेरूपसङ्घाः । क्षुद्रसूक्तमहासूक्ताश्ऱ्चनामनाऽभवन्निति योजना । तद्विष्ण्वाख्यं ब्रह्मसूक्तं सूक्तानिसुष्ठुवचनान्यादिभागवदीनि अवोचतकृतवत् । यद्वा सूक्तानिसहस्रशीर्षेत्यादीन्यवोचत प्रथमं व्यक्तीच कारेति यत्तस्मात्तत्सूक्तं नाम्नाऽभवत् । यद्वा तद्ब्रह्मतत्स्वात्मानं अवोचतेति यत्तस्मात्तत्सूक्तं सुष्ठूक्तम् । बतेत्यास्वादने असामर्थ्यात्स्वस्य सम्यग्वक्तान्योनास्तिस्वस्य वक्तास्वयमेवाहोपरिपूर्णं परं ब्रह्मेति । इति यस्मात्स्वात्मनैवसुष्ठूक्तं तस्मात्सूक्तनामकमभवत् । तस्मात्सूक्तमित्याचक्षत इति योज्यम् । पुनरुक्तिस्तस्मादेवेत्यवधारणायेति ज्ञयम् । एषवाॠगृङ्नामेति प्रतिज्ञा । कुतः एषह्येभ्यःसर्वेभ्योभूतेभ्यःप्राणिभ्योर्चत । मरणकालेगच्छति । हि प्रसिद्धम् । सयदेभ्यःसर्वेभ्योभूतेभ्योऽर्चततस्मादृङ्नामा । तस्मादृगित्याचक्षत इत्यथर्ः । एवमुत्तरत्र । अर्धेःभ्यःस्थानेभ्यःशरीरेभ्यः । पादि अपादि पद्लृगतौ पुनःशरीरसम्प्राप्तौ प्रविवेश ।प्रवेशस्य सवर्साधारणत्वादसाधारण्यद्योतनाय सर्वाणिभूतानीत्युक्त मेवं पूर्वमपि द्रष्यव्यम् । अधिकं क्षरतिदिशरीत्यक्षरम् । दानस्याधिक्यं च बहुविषयत्वेनेति भावेनैषह्येभ्यःसर्वेभ्योभूतेभ्यःक्षरतीति क्षरणं विशेषितम् । प्रकारान्तरेणनिरुच्यते ॥ नचैनमिति ॥ एनं भगवन्तमतिक्रम्यनक्षरन्ति अस्मादधिकं केपि न ददति यदतिक्रम्यनक्षरन्ति तदक्षरमिति भावः । नकेवलं ॠषिवेदनामान्येवभगवद्वाचकानि । किन्तुदेवतापरत्वेन प्रसिद्धास्ताएताः सर्वाॠचःसर्वेघोषाः एकैवव्याहृतिः । एकमेकप्रकारमेवव्याहरणं नाम किं विषयकमिदं नाम प्राणे भगवद्विषय एव । ॠचस्तुविशेषतःप्राणेविषयएवेति विद्यादिति । नःसर्वेषां मतेऽयं वसिष्ठस्तेनैकीभूत इत्यन्यथाप्रतीतेर्व्याचष्ये ॥ वसिष्ठ इति ॥ अतिशयार्थे इष्ठन् प्रत्यय इति भावः । तथाच देवानां देवत्वप्रदोदव इति वद्वसतामुत्तमानं देवानां वसतामुत्तमः वसतामुत्तमत्वप्रद इत्यर्थ इत्युक्तं भवति । अभ्यपवयतेत्यस्य वायुरूपेणवातीत्यन्यथाप्रतीतेर्व्याचष्ये ॥ पावयामासेति ॥ पूञ् पवन इति धातोरिति भावः । सूक्तं बतावोचतेति तत्सूक्तमभवदित्यत्र स इति प्रकृतोविष्णुस्तत्सूक्तमित्यवोचततदुच्यमानं शब्दतत्त्वं सूक्तनामकमभवदित्यन्यथाप्रतीतेर्व्याचष्ये ॥ तद्विष्ण्वाख्यमिति ॥ सूक्तानिसुष्ठुवचनानि आदिभागवतादानि अपौरुषेयसूक्तानीति वा एतेन सुष्ठूक्तानिवचनानि येनेतिव्युत्पत्तिर्दर्शिता भवति । खेदार्थप्रतीतेबतेत्येतद्वयाचष्ये ॥ बतेति ॥
?R
अहो अनन्ता वेदाः पौरुषेयाणिचानेनप्रतिक्षणमुद्गीयर्न्त इत्यास्वादन इत्यर्थः । वैकुण्ठस्याखिलावेदा उद्गीर्यन्तेऽनिशंयत इति वचानत् । प्रकारान्तरेणसूक्तं बतावोचतेत्यस्यार्थमाह ॥ स्वात्मनैवेति ॥ I-4
?R
मूलार्थस्तुप्रागुक्तः । अस्मिन् पक्षे आस्वादनप्रकारोप्युक्तः । यच्चक्षुद्रं यच्चमहदिदं सर्वं जगदहं भवानीत्यन्यथाप्रतीतेव्यर्ाचष्ये ॥ इदमिति ॥ सर्वसन्निहितं प्रमाणप्रमितं वा सवर्ं पूर्णं वस्तुसन्नप्यहमिदमस्मिल्पप्राणिषुमहाप्राणिषुच प्रविश्येत्यनेनयच्चक्षुद्रं यच्चमहत् इदमस्मिन्नसानि भवानि प्रविशामीत्यर्थ उक्तो भवति । प्रविश्यचसूक्ष्मरूपो महारूपश्ऱ्चेत्यनेन क्षुद्रं महच्चासानीत्यस्यार्थान्तरमुक्तं भवति । तेक्षुद्रसूक्ताश्ऱ्चाभवन्महासूक्ताश्ऱ्चाभवन्महासूक्ताश्ऱ्चतस्मादित्येतद्वयाचष्ये ॥ तस्मादिति ॥ क्षुद्रमसानीत्येतत्सूक्ष्मरूपोभवानीति व्याख्यतम् । तत्कुतः । क्षुद्रशब्दस्य सामर्थ्याल्पत्वमेवार्थःकिं नस्यादित्याशंक्यतथात्वे सर्वं पूर्णःसन्नहं क्षुद्रःसाज्ञर्थ्येनाल्पोभवानीति व्याहतं स्यादिति भावेनाह ॥ सूक्ष्मरूपत्वादेवेति ॥ सूक्तनामसमन्वयानन्तरं तद्विशेषक्षुद्रसूक्तमहासूक्तनामसमन्वयोवाच्यः । सामान्यज्ञानपूर्वकत्वाद्विशेषज्ञानस्येति भावेन भाष्येसूक्तं बतावोचतेति प्रथमं व्याख्याय सोब्रवीदहमिदं सर्वमसानीत्यादि पश्ऱ्चाद्वयाख्यनम् । एष वा ॠगितयत्रसर्वेभ्योभीतेभ्य आकाशादिभ्य इत्यन्यथाप्रतीतेर्व्याचष्ये ॥ एभ्यइन्ति ॥ ननु प्राणिभ्यःकथं गमनमित्यत आह ॥ गच्छतिहीति ॥ तत्रैषहीति हिशब्दसूचितं प्रमाणमाह ॥ ब्रह्मणेति ॥ ननु द्वासुपर्णासयुजासखायेतिश्रुतेःकथं जीवस्य ब्रह्मपरित्याग इत्यत आह ॥ म्रियमाणमिति ॥ प्रतिमरणं विष्ण्वादीनां भागतो गमनेकालक्रमेणसर्वस्यापि गमनं किमित्यत आह ॥ गतैरिति ॥ भोग्यलोकं मानुषलोकं स्वर्गकञ्च । पुनःशरीरसम्प्रापप्तौ तमेवानुविशन्ति चेतिग्रन्थान्तरोक्तेर्भोग्यलोक शब्देनमानुषदेह एवविवक्षित इति चेन्न । स्वर्गभोग्यस्य स्वप्नतुल्यत्वायोगात् । तस्यापितत्रोपलक्षणीयत्वात् । स्रियमाणस्य भागतोदेवतात्याग इत्यत्र ज्ञापकमाह ॥ तस्मादिति । वासुदेवादीनां भागतोगमनादेवान्तरामध्ये मरणानन्तरं भोग्यलोकपर्यन्तं स्वप्नवत्स्वप्नावस्थायामिवभोग इत्यर्थः । तिर्यक्त्वेनरकेच स्वप्नवदस्पष्यतया दर्शनेपिदुःखातिशय उपपद्यत एवेति ज्ञेयम् । गतैर्भागैरपिपुनर्विशेयुरित्यनेनैषवैपदमित्याद्यपि व्याख्यातं भवति । ॠक् शब्दप्रकृतिॠधातोर्व्याख्यानस्थाचर्तेश्ऱ्चैकार्थ्यसिद्धयेतद्वयाख्यनं पठति ॥ अर्चेति ॥ सर्वेभ्योर्धेभ्योभागेभ्य इत्यन्थाप्रतीतेर्व्याचष्ये ॥ सर्वेभ्य इति ॥ सह्वाय । स्थःपितुरर्धमेयायेत्यादावर्धशब्दस्य स्थानेप्रयोगादिति भावः । यदि प्रमाणिन एव स्थानानि तर्हि भूतेभ्य इत्यनेन पौनरुक्त्यमित्यत उक्तं शरीरेभ्य इति । तेषां जीवाश्रयत्वाच्चस्थन शब्दवाच्यत्वमिति भावः । तथाच प्राग्जीवेभ्योभागतोगमनमृक् शब्दप्रवृत्तिनिमित्ततयोक्तम् । अत्र तु शरीरेभ्योगमनमर्धर्चशब्दप्रवृत्तिनिमित्ततयोच्यत इत्यपौनरुक्त्यम् । एष ह्येभ्यःसर्वेभ्योभूतेभ्यःक्षरतीत्यनेन लब्धमक्षरशब्दनिर्वचनं दर्शयति ॥ अधिकमिति ॥ सर्वेभ्योभूतेभ्यःक्षरणं बहुविषयत्वादधिकं क्षरणमिति भावः । क्षरणपदस्यार्थं ज्ञापकञ्चाह ॥ क्षरणमिति ॥ तावाएता इति वा शब्दोप्यथर्ः । किम्वितिकैमुत्यद्योतकश्ऱ्च । ॠचोपिकिम्विति सबध्यत इति भावे न व्याचष्ये ॥ एवमिति ॥ यदैवमुक्तप्रकारेणॠषिषुशब्देषुसूक्तादिषुव्यवह्रियमाणानिसर्वाणिनामानिविष्णोरेव तदादेवतानामान्यपिविष्णोरिति किम्विति योजना । ॠक्शब्देनतद्गतदेवातानामानिगृह्यन्ते । सर्वेवेदा इति ॠचामपिप्राप्तत्वात्प्राणॠच इति विविशिष्यॠचां भगवत्परत्वस्य वक्ष्यमाणत्वाच्चेति भावः । कैमुत्यबीजमाह ॥ योदेवानामिति ॥ यदैवं विष्णुपरत्वेनातिप्रसिद्धिशून्यानिॠष्यादिनामानि भगवत्पराणि तदा इत्यादि बहुश्रुतिभ्यो भगवत्परतयाऽवगतानिदेवतानामानिभगवत्पराणीतिकिमुवाच्यमिति कैमुत्यमिति भावः । सर्वेवेदाइत्यतःपरं च अप्यर्थः । किम्वित्यर्थकश्ऱ्च वाशब्दोयोज्य इति भावेनतत्समुच्चयपूर्वमाह ॥ नकेवलमिति ॥ न केवलं ॠष्यादिनाम भगवतः किन्तु सर्वेवेदा अपि तस्यैव नाम इत्येतत्किमुवक्तव्यमित्यर्थः । अग्निमील इत्यादौ अग्न्यादिनाम्नां इन्द्रं कुत्साइत्यादौ कुत्सादिनाम्नां ॠचांत्वइत्यादौॠगादिनाम्नां भगवत्परत्वे संसर्गबोधकवाक्यसमुदायरूपवेदचतुष्ययस्य भगवत्परत्वं सुलभमिति भावः । सर्वेघोषा इत्यतः परञ्चाप्यर्थकस्य किम्वर्थकस्य वा शब्दस्य संम्बन्धं मत्वा व्याचष्ये ॥ वेदाःसमुद्रमेघेत्यादि ॥ किम्वित्येतद्देहलीदीपन्यायेनास्मिन्नपि वाक्ये सम्बध्यते । तस्य सर्वेघोषा आपि तस्यैव नामानीत्यतः परं सम्बन्धः । वेदाइत्यतः परंतस्यैव नामेत्यनुवर्तमानस्य सम्बन्धस्तथाच यदैवं वेदास्तस्यैवनामानितदासमुद्रमेघवृक्षपतनभेरीताडनदधिमथनगोधादि घोषा अपि तस्यैव नामानीति किम्विति योजना । यदा श्रुतिलिङ्गादिभिरन्यत्रप्रसिद्धानां वेदानां भगवत्परत्वं तदाकिमुवाच्यमन्यत्रप्रसिद्धिरहिताघोषा इति । वेदानामन्यत्रप्रसिद्धित्याजनस्य भगवत्प्रसिद्धानां वेदानां भगवत्प्रसिद्धिसम्पादनस्य च कार्यत्वात् । घोषेषु भगवत्परत्वस्यैव
?R
कल्प्यत्वादिति भावः । यद्वा यदासमुद्रादि घोषाः ध्वन्यात्मका आपि वक्ष्यमाणप्रकारेण तस्य नामान्येवयथायोग्यं योजनीयानितदाकिमुसर्वेवेदा अपीति योजना । इत्यादयः सवर्घोषा इति वक्ष्यमाणत्वात् । ॠगादयः सर्वेभूरित्येकैवव्याहृतिरिति ॠगादीनां व्याहृत्यैक्यप्रतीतेर्व्याचष्ये ॥ एकमेवेति ॥ व्याहरणं च नाभिलपनमेकत्वं च नैक्यमिति भावेन स्वपदं विवृणोति ॥ एकप्रकारमिति ॥ नाम्नामेकप्रकारत्वं किं स्वप्रतिपाद्यवस्तूनामभेदेनेत्यत आह ॥ निर्दोषेति ॥ प्राण एव मुख्यवायुरेवेत्यन्यथाप्रतीतेः सप्तमीविभक्तिरियं भगवत्परेत्याह ॥ प्राणेनारायण इति ॥ सप्तम्या अनेकाथर्त्वाद्विवक्षितमर्थमाह ॥ नारायण विषयएवेति ॥ विषयसप्तमीत्वे ज्ञापकमाह ॥ व्यवहार इति ॥ नामेत्यर्थः । शब्दस्य सविषयत्वादिति भावः । सर्वाॠच इत्युक्तत्वेन पुनःप्राणॠच इति किमर्थमित्यत आह ॥ ॠचस्त्विति ॥ यदुक्तं समुद्रमेघघोषादीनां भगवन्नामत्वं तदयुक्तम् । केषाध्वन्यात्मकत्वेन वाचकत्वायोगादित्याशङ्कां प्रमाणेन परिहरन् यथायोग्यं योजनाप्रकारं लेशेनाह ॥ उक्तञ्चेति ॥ अब्धिःस्वघोषव्यंग्येनहुङ्कारेणसहतमुच्चरन्निति यावत् । विष्णोः सर्वाभिभवशक्ततां वक्ति । कथम् । यतोहुङ्कारः परेषामभिभवसम्पादकशक्तिवाचकः । अत एव शक्तःस्वेषां पराभवशक्तिरस्तीति ज्ञापयितुं हुङ्कुर्वन्तीति भावः । एतेन वाचकवर्णव्यंजकत्वेन समुद्रादिघोषाणामुपचाराद्वाचकत्वोक्तिरित्युक्तं भवति । ननु नदीसमुद्रघोषाश्ऱ्चनादत्वाच्छ्रैष्ठयवाचका इति कर्मनिर्णये समुद्रघोषस्य नादव्यंजकत्वेन श्रैष्ठयवाचकत्वमुक्तमतोविरोध इति चेन्न । ग्रन्थद्वयानुसारेणहुङ्कारनादोभयव्यंजकत्वोपपत्तेः । यद्वानदीघोषविवक्षयानादत्वादित्युक्तम् । समुद्रघोषविवक्षयाहुङ्कारत्वाच्चेति च शब्दार्णो बोध्यः । मेघेषुसंस्थितोवायुःबलवन्नादसंयुक्तः । नादोनामवर्णोमन्त्रशास्त्रे प्रसिद्धः । तत्संयुक्तस्तत्समुच्चरन् तद्वयंजकध्वनिं कुर्वन् ॐमिति स्वरतेमेघध्वनिव्यंग्योंकारं समुच्चरति इत्यर्थः । ॐकारस्याधिकोच्चत्वमर्थ उद्दिष्यः बलीनादश्ऱ्चोक्तार्थाधिक्यमेवप्रवदति । अनुदात्तस्वरूपत्वात् अनुदात्तव्यंजकत्वात् । ईशितुः सर्वेष्यदानशक्तस्य । स्वरितात्मकाः स्वरितस्वरव्यंजकाः । उच्चस्थितिं उच्चतयोत्तमत्वेनावस्थानम् । स्वर्णचुञ्चुरपभ्रष्ययानागसरःतत्प्रभृतीनां स्वरव्यंग्यः । श्ऱ्वासादि प्रचयात्मकः । श्ऱ्वासादीनां प्रचय उपर्युपरितीव्रसंयोगं विहायप्रशिथिलतयासंयोगः समस्थिस्तदात्मकस्तद्वयंग्योभन्द्रस्वरोपि विष्णोः केनाप्यचाल्यांसदैकप्रकारतां वदतीत्यर्थः । इत्यादय इत्यादिपदेन दधिमन्थनवृक्षपतनादि घोषा गृह्यन्ते । तेचान्तर्नादव्यंजकत्वेन यदाविष्णोर्भीषकत्वादिगुणोन्नतिं वदन्ति । तदावेदाद्याः वेदाः पौरुषेयग्रन्था मार्जाराद्यभिधाश्ऱ्चवाक्यपदसमन्वेयेनविष्णोर्गुणोन्नतिं वदन्तीति किमुवाच्यमित्यर्थः । यद्वा सर्वेवेदा अपि तस्यैव नामकिमुसमद्रघोषेत्यादि स्ववचनानुसारेणयदावेदाद्यामार्जाराद्यभिधाश्ऱ्चान्यत्रप्रसिद्धा विष्णोरेवगुणोन्नतिं वदन्ति तदाकिम्वित्यादयः सर्वेघोषा अन्यत्रप्रसिद्धिरहिताविष्णोर्गुणोन्नतिं वदन्तीति वक्तव्यमिति योज्यम् । एवं सत्युपनिषदिसर्वेवेदाःसर्वेघोषाः इति पाठक्रमोप्यनुसृतो भवति । ध्वन्यात्मकत्वेनावाचकानामपि घोषाणां वाचकवर्णादिव्यंजकत्वेनोपचरितं वाचकतवामित्येतच्चकर्मनिर्णये तट्टीकायां च व्यक्तम् । तथाच तद्वाक्यम् । गर्गरगोधापिङ्गादीनां घोषा अपि नादमात्रव्यंजकत्वेन भगवद्वाचका एवेत्याह ॥ अवस्वरतीत्यादिना ॥ दध्नोमन्थनघोषश्ऱ्चाप्यन्तर्नादस्वरूपतः । भीषकत्वं हरेबर्रूयादन्तर्नादोहिभीषणे । नदीसमुद्रघोषाश्ऱ्चनादत्वाच्छ्रैष्ठयवाचकाः इत्यादि टीकावाक्यानि च । ननु वर्णाएव वाचकाःनघोषाः । तेतु वर्णव्यंजकजकाएव तत्कथमुच्यते घोष एव वाचका इति । नच मन्तव्यं वाचकवर्णव्यंजकनोपचारादियमुक्तिरिति । गर्गरादिघोषाणामकारादि व्यंजकतवस्याप्यभावादित्यत उक्तम् ॥ नादेति ॥ नादोनामवर्णोमन्त्रशास्त्रेप्रसिद्धः । अन्तर्नादोपिनादस्यैवविशेषः । तत्स्वरूपत्वात्तद्वयंजकतवान्नादव्यंजकत्वादिति । मारयतिजरयति चेतिमार्जारः । मारणमात्रेणकथं जारणमित्यतः प्रभक्ष्येतितात्पर्यमुक्तम् । मोषणात् स्तैन्यात् भक्तानां पापहरणादिति यावत् । वलनात्संवरणात् । वलसंवरण इति धातोः । तारणात्संसारात् । ननु किं सर्वाभेदेनसर्वनामत्वमित्यत आह ॥ सवर्नामेति ॥ सर्वनामापि ब्रह्मादिभ्यःसदाव्यतिरिक्त इत्यन्वयः । तत्र श्रीव्यतिरिक्तत्वेनन्तत्वं हेतुः । तस्यास्त्रिविधानन्त्याभावात् । जीवेभ्योव्यतिरिक्तत्वे सदाभिव्यक्तसान्द्रानन्दैकस्वरूपत्वं च । जडव्यतिरिक्तत्वे सर्वज्ञत्वं च । उक्तगुणसाधनाय सर्वशक्तिरिति । भगवत एव सर्वनामवत्त्वेकर्मदेवतादि लोकव्यहारलोपःस्यादित्यत आह ॥ तस्यैवेति ॥ एष नारायणोदेवोवायुनासहेमंलोकमभ्यार्चदिति व्याख्यान घटनायैष इममित्यारभ्य तावएता इत्यन्तं वायावपि योजयति ॥ तथैवेति ॥ तर्हि नारायण एवेत्यवधारणं कथमित्यत आह ॥ नतावदिति । मुख्यवृत्त्यपेक्षयावधारणमिति भावः । ननु प्राणेतावतीमुख्यवृत्तिर्नचेत्प्राणेवायावेवविषयेॠगाद्या इत्यवधारणं कथमित्यत आह ॥ मुख्यत इति ॥ अन्यव्यपेक्षयामारुतेमुख्यतः सर्वनामानिप्रवर्तन्त इत्यर्थः । तदपेक्षयावायावेवेत्यवधारणमिति भावः । ननु य एष तपति प्राणोवावतदभ्यार्चदित्येतद्वयाख्यावसरेप्राणः स्थूणेति
?R
प्रयोगदर्शनेनप्राणशब्दस्यनारायण परत्वं निर्धारितम् । सवर्ेषामपिशब्दानां मुख्यतो भगवत्परत्वञ्च प्रमापितम् । सूत्रितं च प्राणस्तथानुगमादिति । तत्कथमेतत्प्रकरणस्थं सर्वशब्दान्तर्गतं प्राणनामवायुपरं स्यादित्यत आह ॥ मुख्यत इति ॥ यद्यपि मुख्यतः सर्वनामाविष्णुर्नापरःतस्मात्प्राणादि शब्दाश्ऱ्चविष्णावेवमुख्यत इति हि प्रसिद्धम् । तथाप्यन्यव्यपेक्षयाप्राणादिशब्दानां वायावपि मुख्यवृत्तिर्विधीयतेस्तीत्युच्यत इत्यर्थः । ननु प्राणशब्दस्यावायुपरत्वमत्रन सम्भवति । य एष तपतीति प्राणस्य सूर्यमण्डलेस्थित्वातापकत्वोक्तेर्विष्णोरेवादित्यमण्डलेतापकत्वस्य निर्धारितत्वादित्यत आह ॥ वायुश्ऱ्चेति ॥ आज्ञयैव नतु स्वातन्त्रेण । वायोःशक्त्यासूर्योपि तपतिमिकिमुवायुः । स्वातन्त्ऱ्ेणसूर्यस्थत्वादिकं प्राक् साधितमिति भावः । विष्णुवाय्वोःशक्त्यासूर्यस्य तापकत्वं नस्वयं तापन शक्तिरित्यत्र ज्ञापकमाह ॥ नेति ॥ न प्रसिद्धसूर्यस्येयं मुख्यातापनशक्तिरिति ज्ञापयितुं य एष तपति स एष प्राण इति प्रसिद्धमित्युक्तमित्यर्थः । सूर्यस्यप्राणाधीनत्वेश्रुत्यन्तरञ्च पठति ॥ प्राणादिति ॥ ननु प्राणाद्वेति प्राणपदेनविष्णुरेवकिं नस्यादित्यत आह ॥ प्राणशब्दश्ऱ्चेति ॥ यद्वा एष इममित्यादिकं वायोरपि सर्वनामत्वपरमिति तथैवसर्वनामानि प्रवर्तन्ते च मारुत इति प्रमाणेनव्याख्यातम् । तत्रतावाएता इत्यपसंहारवाक्यमपि ज्ञापकम् । तत्रत्यप्राणशब्दस्य वायावपि वृत्तेरिति भावेनाह ॥ प्राणशब्दश्ऱ्चेति ॥ यत इत्यादौ योज्यम् । प्राणशब्दस्योभयपरत्वेप्रमाणमुदाहरति ॥ प्राणस्येति ॥ तत्रापिविष्णौमुख्यत्वं ज्ञापकोक्त्यानिर्धारयति ॥ अयंवावेति । यद्वा प्राणस्य प्रणइत्यत्र प्राणस्य प्राणता प्रदइत्यर्थः । तत्रोत्तमःप्राणोविष्णुरिति कुत इत्यत आह ॥ अयंवावेति ॥ मध्यमःप्राणइत्युक्त्याप्राणत्रयं प्रतीतम् । तत्प्रमाणेनविविच्यदर्शयति ॥ द्वाविति ॥ देवेषुमध्येद्वावात्मशब्दवाच्यौ । द्वौप्राणशब्दवाच्यौ । द्वौचेतनशब्दवाच्यौ । कौतौ । वायुर्नारायणश्ऱ्चतौ । कुतः । यतोऽज्ञानाभिभवास्पृष्यौ । अज्ञानास्पर्शाच्चेतनोत्तमेषुदेवेष्वपि मुख्यचेतनत्वम् । मुख्यत्वं च निर्धारणाल्लभ्यत इति ज्ञेयम् ।
?R
तदन्येतेसर्वेदेवाःयस्मादज्ञानाभिभवस्पृष्यास्तस्मादधमाश्ऱ्चेतनाः अधमाःप्राणाः अधमा आत्मानःश्रुता इति योजना । तर्हि वायु नारायणयोःसाम्यमित्यत आह ॥ मध्यमइति ॥ मध्यमो मध्यमःप्राणो मध्यमश्ऱ्चेतनो मध्यमआत्मा । एवमुत्तम इत्यत्रापि । ततश्ऱ्चकिमित्यत आह ॥ सर्वेति ॥ तस्मात्सर्वस्वामित्वात्सर्वनियामकत्वाच्चचेतनाचेतनपरसर्वशब्दोदितौ तदधीनत्वादर्थवदिति सूत्रात् परमचेतनत्वाच्चेतनवाचिसर्वशब्दोदितावित्यर्थः । यद्वा तस्मात्प्राणशब्दवाच्यत्वादित्यथर्ः । प्राणशब्दस्य तदुभयपरत्वेतावाएता इति वाक्येन सर्वशब्दवाच्यत्वसिद्धेरिति भावः । तर्ह्यन्येषामनभिधेयत्वं स्यादित्यत आह ॥ अन्येच्चैवेति ॥ तर्हि श्रियोपिमितशब्दवाच्यत्वं प्राप्तममत आह । श्रीरिति ॥ विष्णुवदखिलवेदोक्तातोविष्णुग्रहणेनसापिगृहीतेति भावः । एतेनसरस्वत्यपिवायुवदिति सिद्धम् । तर्हि तयोः साम्यमित्यत आह ॥ विष्णुवन्नतुमुख्यत इति ॥ सङ्खयातोर्थतश्ऱ्चविष्णुवन्नतुमुख्यतोखिलवेदोक्ता नारायणादिशब्दवाच्यतवस्याभावात् । तद्वत्प्रवृत्तिनिमित्तपौष्कल्याभावेनलक्ष्म्ादि शब्दमुख्यार्थत्वाभावाच्चेति । नन्वेवं यदि श्रीवाय्वोरनन्तशब्दवाच्यत्वं तर्हिग्रन्तातरेमित शब्दवाच्यत्वोक्तिः कथमित्यत आह ॥ तस्मादिति ॥ तौ श्रीवायू आमितनामानावपितस्मादेवविष्णुवदखिलनाममुख्यार्थत्वाभावादेवमितनामवत् मितनामभिर्देवैःतुल्यं ग्रन्थान्ततरे उच्यते । तेनतुल्यं क्रियाचेद्वतिरिति सूत्रात् । विष्णुस्तुमुख्योक्ते र्निःशेषैःशब्दैःमुख्यतयोक्तेरमिताभिध इत्यर्थः । एष इमं लोकमभ्यार्चदित्यारभ्यतावएता इत्यन्तोक्तस्य सर्वशब्दसमन्वयस्य प्रकृतोपयोगं प्रमाणशेषेणाह ॥ अनन्तेति ॥ तथाचैतद्ब्रह्मैतत्सत्यमित्युपक्रमोक्तं निर्दोषगुणपूणर्त्वं युक्तमिति मूलाभिप्राय इति भावः ॥ 2
॥ विश्ऱ्वामित्रं ननु समन्वयमुखेनगुणपूर्णत्वमुपपाद्योपसंहृतम् । किमधुनाऽसङ्गताख्यायिकोच्यत इत्यतः सङ्गतिमाह ॥ अन्यदेवतेति ॥ प्राणॠचइत्येवविद्यादित्यत्रान्यदेवताविषयत्वेन प्रतीयमान अपि सर्वाॠचोभगवद्विषया एव मुख्यतस्तदनन्तरं वायुविषयाश्ऱ्चेति यत्सर्वासामृचां भगवद्विषयत्वं प्राणविषयत्वं चोक्तम् तद्दर्शयति । युक्त्योपपादयति विश्ऱ्वामित्रं ह्येतदहरित्यादिनेत्यन्वयः । कयायुक्त्यादर्शयति तदित्यत उक्तम् ॥ तस्मादिति ॥ यस्माद्भगवद्वायुविषयास्तस्मादेवान्यदेवताविषयत्वेनप्रतीयमानमपि सर्वं बृहतीसहस्रं मुख्यतोनारायणस्य तदाज्ञयावायोश्ऱ्चान्नन्तर्पकमन्यथातन्नस्यात् । अन्यविषयस्यान्यतर्पकत्वायोगादिति युक्त्यादर्शयतीत्यर्थः । तपकत्वमसिद्धं कथं हेतूकृतमित्यत उक्तम् । तस्मात्तच्छंसनेनेति ॥ तस्मादन्नं तस्मादेवतच्छंसनेन भगवान्वायुश्ऱ्चाति प्रीयेते अन्यथा तन्नस्यादिति युक्त्यातर्पकत्वं च दर्शयतीत्यर्थः । यद्वा यस्मात्तच्छंसनेनतौ प्रतीयेतेतस्मान्नारायणस्य वायोश्ऱ्चतदन्नं यस्मादन्नन्तस्मादन्यदेवताविषयत्वेन प्रतीयमाना आपि ॠचोमुख्यतोभगवद्विषयास्तदनन्तरं वायुविषयाश्ऱ्चेति दर्शयतीति योज्यम् । अथवा । तावाएताःसर्वाॠच इत्यत्र सर्ववेदादि प्रतिपाद्यत्वमुक्तम् । तत्रकैमुत्ययुक्तिपरत्वेनाख्यायिकोच्यत
?R
इत्यवतारयति ॥ अन्यदेवतेति ॥ वायुविषयाश्ऱ्चेत्यनन्तरं तदाकिं वाच्यं सर्वेवेदाद योभगवद्विषया इतीति शेषः । तत्तच्छति लिङ्गबलादन्यदेवताविषयत्वेनप्रतीयमाना अप्यृचोबृहतीसहस्रान्तर्गताभगवद्विषया एवमुख्यतः तदनन्ततरं वायुविषयाश्ऱ्च । तदाकिमुवक्तव्यम् सर्ववेदादयोभगवद्विषया इतीति दर्शयतीति दर्शयतीति योजना । बृहतीसहस्रान्तर्गतानामन्यदेवताविषयतयाप्रतीयमानानामृचां भगवत्परत्वेयुक्तिमाह ॥ तस्माद्बृहतीसहस्रमिति ॥ पूर्ववद्वयाख्येयम् ॥ खण्डार्थः ॥ यत्तदेतं महाब्रह्मव्रतेहकर्मणिनियुक्तम् । अहार्यत्वादपरिहार्यत्वादवश्यं महाव्रते उच्चारणीयत्वादहनर्ामकम् । यद्वासुत्याहःसूच्चार्यत्वादहर्नामकम् बृहतीसहस्रं शंसिष्यन्त प्रतिपाद्यविष्रुवायुदेवतानुस्मरणपूर्वं शसितुं इच्छन्तम् विश्ऱ्वामित्रं प्रतितदाभिमुख्येन । तं प्रतिवक्तुं वा । सविष्णुर्वायुश्ऱ्चेन्द्र उपनिषसादाविष्योभूत् । सविश्ऱ्वामित्रस्तवेदं स्तोष्यमाणं बृहतीसहस्रमन्नं भोग्यन्तर्पकं खलु भूयादित्यभिव्याहृत्य प्रीत्याशासनावचनुक्त्वाभिसम्यग्यज्ञाङ्गत्वेन भक्तिपूर्वं शशंस । तेनशंसनेनेन्द्रस्य प्रियम् । धामोप प्रियस्य धाम्नोलोकस्य समीपं तत्प्राप्तौसमीपसाधनं प्रसादमेयायप्राप । तत्कथमित्यत स्तद्वचनादित्यच्यते ॥ तमिन्द्रइति ॥ हेॠषेत्वं मेप्रियं धामोपागा इत्युवाचेति सम्बन्धः । अन्यच्चोवाचेत्युच्यते ॥ सइति ॥ ॠषेलोकप्रापक प्रसादं प्राप्तवान् सत्वं द्वितीयवारं शंसेति चोवाचेत्यन्वयः । अत्रप्रियन्धामपुरम् । तृतीयवारं प्रियन्धामान्तःपुरम् । हेॠषेत्वं मे प्रियन्धामोप मदन्तःपुरप्राप्तिसाधनप्रसादमगाः । वरमभीष्यं पुनरपि ददानीतीन्द्र उवाच । स एवं प्रलोभितोपि विश्ऱ्वामित्रःवरान्तरमपृष्ट्वेन्द्राविष्यं त्वामेव कोयं विष्णुश्ऱ्चेत्कीदृश इति जानीयामतो ब्रूहीत्युवाचापृच्छत् । तं प्रतीन्द्रःकीदृशः इति प्रश्ऱ्नस्य तावदुत्तरमुवाचकिमिति ॥ ॠषेइन्द्राविष्योहमहेयत्वादहं नामा प्रकृष्यानन्दरूपत्वात्प्राण नामा असनाच्छत्रूणां निरसनान्मिनुतेः सर्वस्य ज्ञातृत्वाज्ज्ञानरूपत्वाज्ज्ञापनाद्वास्मिनामा । प्रत्यक् प्राणनामैव त्वयिस्थस्ततत्वाद्वेत्तृत्वाच्चत्वमिति नामा प्रत्यक् पराक् वर्तमानःप्राणनामैवं परोक्षं सर्वभूतेषुस्थितः सर्वाणि सर्वगुणपूर्णत्वात्सर्वस्वामित्वाद्बहुरूपत्वाच्चसर्वाणीति नामवान् देशतः कालतोगुणतश्ऱ्चसर्वरूपेषुप्रभूतत्वात्पूणर्त्वाद्बहुरूपत्वाच्चभूतानीति नामवान् प्राणनामा भगवानेवसन्निहितवस्तुषुस्थित एष इति नामवान् आसमन्तादीशत्वात्सर्वैश्ऱ्वर्यस्वरूपत्वादिति यावत् । य एष परमैश्ऱ्वर्ययुक्तः स एव सूर्यसंस्थःसन् लोकं तपति । अनीश्वरस्य तदयोगादिति भावः । स सूर्यान्तर्गत एवाहमेतेन रश्म्यन्तर्गतेन विष्ण्वाख्येनरूपेणसर्वादिशोविष्योस्मि । अतः स्वस्य सर्वलोकतापकत्वं युक्तम् । एतेन सर्वत्रप्रवेशनाद्विष्णुनामाचेत्यप्युक्तं भवति । एवं परमात्मनः सर्वनामकत्वमुक्त्वातत्रयुक्तिरुच्यते ॥ तस्येति ॥ तस्य सर्वनामवतोमेन्नमन्नाभिमानिनीश्रीरन्नं भोग्यन्तर्पकं कुतः मित्रमति प्रियम् । तत्र ज्ञापकं दक्षिणमिति ॥ दक्षणाभागेइनःपतिर्यस्य तद्दक्षिणम् । अतिप्रियत्वाभावेस्वार्धशरीरतया तस्याः स्थापनानुपपत्तेरिति भावः । अन्नभिमानिनीश्रीरित्युक्तम् । किं तदन्नमित्यत उच्यते ॥ तदिति ॥ तच्छ्रियाभिमतमन्नं विश्ऱ्वामित्रेण सम्पादितत्वाद्वैश्ऱ्वामित्रं बृहतीसहस्रमित्यर्थः । तथाच विष्ण्वादिसर्वनामवाच्यत्वादेव भगवतस्तद्वयाख्यानरूपं बृहतीसहस्रं भगवदन्तरङ्गरमाभिमतं सत्तर्पकं जातमन्यथातन्नस्यादिति भावः । एतेन सहान्नमित्यभिव्याहृत्येत्येतदपि विवृतं भवति । इन्द्राविष्यः कोयमिति प्रश्ऱ्नस्योत्तरमुच्यते ॥ एषइति ॥ एष इन्द्राविष्योहमादित्यमण्डलेस्थित्वातपन्विष्णुरस्मीति स्वरूपप्रश्ऱ्नस्योत्तरमुवाचेत्यर्थः । हेत्यादित्यमण्डलस्थस्य नारायणत्वं विश्ऱ्वामित्रस्य प्रसिद्धमिति सूचयति ॥ 3
॥ अत्र विश्ऱ्वामित्रस्य बृहतीसहस्रशंसनलिङ्गेन होतृत्वमवगम्यते । अयं होताचेत्केन्येॠत्विजः तच्छंसनं च महाव्रते सर्वपृष्याप्तूर्यामे विश्ऱ्वजित्यतिरात्रेच प्रसक्तमतस्तेषामत्रप्रकृतं कर्मकिमित्यतश्ऱ्चतत्सवर्ं विविच्याह ॥ वृत्रमित्यादिना ॥ तदन्ये ॠष्यादयः । अन्ये उक्तेभ्योन्ये उपॠत्विजइत्यर्थः । विश्ऱ्वामित्रं ह्येतदहःशंसिष्यन्तमिन्द्र उपनिषससादेत्यत्र एतदहःशंसिष्यन्तमिति पदतात्पयर्माह ॥ बृहतीसहस्रमिति ॥ इन्द्र उपनिषससादेति सप्तम्यन्तं पदमित्यभिप्रेत्यनिषससादेत्यत्र । नि । सः । ससादेति । पदविभागमभिप्रेत्यस इति कर्तृपदं व्याचष्ये ॥ वायुनेति ॥ स इन्द्र उपनिषसादेति प्रथमान्तं पदमभिप्रेत्य व्याचष्ये ॥ अविष्यइति ॥ उपनिषसादेत्यत्रोपेत्युपसर्गतात्पर्यमाह ॥ शंसेत्युक्त्वेति ॥ शंसेत्यादरपूर्वं निषदनमेवोपनिषदनमिति भावः । सहान्नमित्यभिव्याहृत्येत्यस्यार्थः ॥ इदमन्नमिति ॥ इदमन्न तवेत्यथेत्यन्वयः । इदं तवान्नमिति वचनानन्तरमित्यर्थः । इति वचनमुक्त्वेति यावत् । अभिशशंसेत्यप्यन्वयमभिप्रेत्यतस्यार्थद्वयमुक्तम् ॥ यज्ञागत्वेन भक्तित इति ॥ तेनेन्द्रस्य प्रियं धामोपेयायेत्यस्य तात्पर्यमाह ॥ तच्छत्वेति ॥ सवाॠषेद्वितीयं शंसेत्येतद्वयाचष्ये ॥ द्वितीयवारमिति ॥ प्रीत्यैव बृहतीसहस्रेविश्ऱ्वामित्रेच । सवाॠषेतृतीयमित्येतद्वयाचष्ये ॥ अतिप्रियत्वादिति ॥ बृहतीसहस्रस्येतिशेषः । तृतीयवारं शंसेत्याहेत्यन्वयः । सहान्नमित्येवाभिव्याहृत्येत्यस्यार्थः ॥ विष्णोरिति ॥ प्रकल्प्य वचनेन । वरन्तेदामीत्यस्य तमिन्द्र
?R
उवाचेत्यनेनान्वयमाह ॥ ततोतितुष्यइति ॥ उत्तममित्यतः परमिति शब्दोध्याहार्यः । प्रियं धामोपेयायेति त्रिवारं श्रुतधामशब्दार्थं विवेचयति ॥ सप्रथमेत्विति ॥ अत्रसालोक्यादिशब्देन तत्साधनप्रसाधन प्रसादोलक्ष्यते । सामीप्यं पुरवासलक्षणम् । पुनरेवचसामीप्यमन्तःपुरवासलक्षणम् । सहोवाचेत्येतद्वयाचष्ये ॥ इतीति ॥ विश्ऱ्वामित्रस्यापरोक्षज्ञानित्वात्त्वामेवजानीयामिति ज्ञानप्राथर्नमयुक्तम् । सालोक्यादिरूपमोक्षस्य प्राप्तत्वादनर्थकं चेत्यतो व्याचष्यो ॥ सम्यगिति ॥ तमिन्द्र उवाचेत्यस्यार्थस्तं प्राहेति ॥ ननु त्वामेवसम्यग्जानीयामिति प्रश्ऱ्नेप्राणस्त्वमित्यादिना विश्ऱ्वामित्रादीनां प्राणाभेदोक्तिरसङ्गतास्यादित्यतः प्राणोवाहमस्मीत्यादिकं स्वप्रभृतीनां नाभेदपरं किन्तु स्वस्यसर्वनामवत्त्वपरम् । तथाज्ञानस्यैव सम्यज्ज्ञानत्वादिति भावेनोपदेष्युर्भावमाह ॥ सर्वेति ॥ अहमेक एवसर्वनामास्मीति ममसर्वनामवत्त्वेन यज्ज्ञानन्तदुत्तमं विश्ऱ्वामित्रेणप्रार्थितं विशेषज्ञानमिति भावेनभगवांस्तं प्राहेत्यन्वयः । तदुपपादयति ॥ यस्मादिति ॥ यस्मात्तुमुख्यतः सर्वनामवत्त्वएव तत्प्रवृत्तिनिमित्तसर्वगुणत्वं स्यात्तस्मादितिज्ञानमुत्तममित्यन्वयः । ननु दुःखिबद्धावरादिनामवत्त्वेदोषाः स्युस्तदभावेसर्वनामत्व भङ्ग इत्यत आह ॥ नहीति ॥ कर्हिचित्कान्यपिनामानिविष्णोर्दोषाभिधायीनिन भवन्ति । हि प्रसिद्धम् । कुतः कर्हिचित्कुत्रापिरूपेविष्णोरदोषत्वाद्दोषाभावाद्योग्यताविरहादिति भावः । न केवलं नामानिदोषाभिधादीनिन भवन्ति । किन्तु सामान्यवचां स्यपि गुणदोषोदासीनधर्ममात्रप्रतिपादकान्यपि न भवन्ति । यद्वा साधारणगुणवाचीन्यपिनेत्यर्थः । तदुपपादनं सर्वोत्तमेति ॥ तर्दीश्ऱ्वरेप्रयुक्तानां दुःख्यादिशब्दानां भावचेतनवस्त्वादिशब्दानां च प्रवृत्तिनिमित्तानर्पकत्वेन केवलं सांकेतिकत्वं स्यादित्यत आह ॥ सर्वोत्तमगुणानेवेति ॥ सर्वोत्तमगुणात्मत्वादित्यनुवतर्ते । योग्यतासद्भावादिति यावत् । दुःख्यादिशब्दप्रवृत्तिनिमित्तानां निरनिष्योनिरवद्य इत्यादि श्रुत्याजीवेष्त्तिवतत्राभावेप्यन्यगतदुःखादिकं प्रति स्वतन्त्रत्वात्स्वातन्त्ऱ्यस्य शब्दप्रवृत्तौमुख्यकारणत्वात्तदधीनत्वादर्थवदिति न्यायेनदुःख्यादिशब्दानां तत्परत्वम् भावादिशब्दानामप्यसाधारण्यव्यपदेशन्यायेनस्वान्त्ऱ्ेण भवति । सर्वञ्चेतयतेसर्वत्रवस्त इत्यादिरूपेणसर्वोत्तमगुणप्रतिपादकत्वमिति भावः । ननु त्वं जानीयामित्यस्य सम्यक्त्वामेवजानीयामित्यर्थोनयुक्तः । स्वयोग्ययावज्ज्ञानाभावेसालोक्यादिमोक्षानुपपत्तेरित्याशङ्कां परिहरन्विशिषज्ञानार्थं प्रार्थनेनामकथनमयुक्तमिति शङ्कां परिहरन्नुक्तं विवृणोति ॥ यावदिति ॥ प्राणनामतथान्या अभिधाश्ऱ्चाहेत्युपपन्नमिति शेषः । प्राणपदं त्रिरावृत्तमेकमेवनामेति द्योतनायप्राणनामेत्युक्तम् । पूर्णानन्दत्वस्यविशिष्यसर्वैरपि स्मर्तव्यत्वात्प्राधान्यविवक्षयापृथगुक्तमतएवोपनिषद्यभ्यास इति ज्ञेयम् । प्राणोवा अहमित्यादि व्याचष्ये ॥ प्रकृष्येत्यादिना ॥ प्रकृष्योण आनन्दःप्रणः प्रण एव प्राणः प्रज्ञ एव प्राज्ञ इति यथा । यद्वा प्रकृष्याः आपूर्णोण आनन्दःप्राण इति व्याख्येयम् । सर्वाणीत्यत्रसर्वप्रातिपदिकार्थमाह ॥ पूर्णत्वादिति ॥ बहुवचनस्यार्थः सर्वाणीति ॥ विशिष्यस्यार्थः सर्वरूपेषुपूर्तित इति ॥ सर्वाणीति योज्यम् । प्रभूतत्वात्पूर्णत्वाद्भूबहाविति धातोः । नित्याविर्भूतगुणतवाद्वा । भवतेराविर्भावार्थत्वात् । प्रकर्षेणस्वातन्त्ऱ्येणसत्त्वाद्वाभूत नामा यतोबहुरूपोतः सभूतानीति बहुवचनेनोक्तः । सर्वरूपेषुप्रभूतत्वाद्भूतानीति विशिष्यशब्देनोक्त इति योजना । सनातन इत्यनेन सर्वदासत्त्वाच्चभूतनामेति व्याख्यातं भवति । आसमन्तादीश एष इत्यभिप्रेत्योक्तम् ॥ सर्वैश्ऱ्वर्येति ॥सर्वैश्ऱ्वर्योपपादकं यएष तपतीत्येतद्वयाचष्ये ॥ स एवेति ॥ य एष सर्वेश्ऱ्वरःसएवेति योज्यम् । सर्वनामत्वेयुक्तित्वेन तस्य मेन्नमित्येतद्वयाकुर्वन् त्येति परामृष्यमाह ॥ सर्वेति ॥ अन्नं प्रसिद्धमित्यन्यथाप्रतीतेव्यर्ाचष्ये ॥ श्रीरेवान्नं न तु प्रसिद्धमिति ॥ तत्रहेतुःसाक्षानमुख्य इति ॥ अन्नशब्दस्य तत्रमुख्यत्वादिति भावः । तदुपपादकमन्नाभिमानीति ॥ तथाच समाकर्षन्यायेनाभिमानिनिशब्दोमुख्य इति भावः । श्रीशब्दस्य भारत्यादौप्रयोगात्तद्वाराणायप्रमदोत्तमासाक्षाच्छ्रीरिति । नन्वन्यासामप्यन्नाभिमानित्वादुक्तन्यायेन तासामपि प्राप्तिरित्यत उक्तम् ॥ साक्षान्मुख्यततोऽन्नाभिमानिनीति ॥ तथाच मुख्येसम्भवन्यायेननान्यासामत्रपरिग्रह इति भावः । केन प्रवृत्तिनिमित्तेन सान्नमित्युच्यत इत्यत उक्तम् ॥ भोग्यत्वात्सान्नमित्युच्यत इति ॥ सर्वं वाअत्तीतितददितेरदिति त्वमितिश्रुतेः । केनप्रवृत्तिनिमित्तेन सान्नमित्युच्यत इत्यत उक्तम् ॥ साक्षादिति ॥ मुख्यतोभोग्यत्वादित्यर्थः । तत्रमित्रत्वं हेतुरित्याह ॥ भोग्यत्वान्मित्रमेवचेति ॥ भोग्यत्वादेवत्रिं चोच्यते । अन्यथातन्नस्यादिति प्रियस्यैवभोगसाधनत्वादिति भावः । ममदक्षिणं दक्षभागस्निथतं इत्यन्यथाप्रतीतेर्व्याचष्ये ॥ दक्षेति ॥ कोयमिन इत्यत उक्तम् । तस्याइति ॥ अर्धनारीरूपेषुदक्षभागस्थित इत्यर्थः । नन्वर्धनारीरूपषुकपुत्रचित्कदाचिद्वामभागेभगवतोवस्थानेतद्विवक्षयान्नं मेदक्षिणं दक्षभागस्थितमित्यर्थः सम्भवत्येवेति किमिर्थदक्षे इनोयस्येति विग्रहाश्रयणम् आश्रयणेवादक्षेणमिति स्यान्नतुदक्षिणमित्यत उक्तम् ॥ सदेति ॥ नियमेन सर्वदाचेत्यर्थः ।
?R
एतद्विशेषसूचनायैवदक्ष इन इतिस्थिते गुणेभवितव्ये अकारलोपेन दक्षिणमित्येवरूपं प्राप्तमिति भावः । ननु वाय्वादीनामपिस्वभार्याभिरेकीभावस्य वक्ष्यमाणत्वेन भारत्यादीनामपि दक्षभागस्थितेन त्वात् किं विशिष्योच्यते श्रीर्दक्षिणेतीत्यतो वोक्तम् ॥ सदेति ॥ भारत्यादीनां दक्षिणत्वं न सार्वकालिकमतोविशिष्योच्यत इति भावः । ननु च श्रीरपिसदानदक्षिणामहाभारततात्पर्यनिर्णये यदातुसामेवामार्धरूपादक्षिणानामधेया । तदाप्यस्याउत्तमोहमित्युक्तत्वादिति चेन्न । भावानवबोधात् । अत्रहिदक्षिणारूपाणामविच्छिन्नप्रवाहरूपेणसदासत्वमिभिप्रेतं नतु एकैकरूपस्यैवसदादक्षिणात्वेनावस्थानं येनविरोधःस्यादिति । तद्वैश्ऱ्वामित्रमित्यत्रतत्प्रकृतं श्रीतत्वमित्यन्यथाप्रतीतेर्व्याचष्ये ॥ यस्येति ॥ तत्तदभिमतमिति परामृष्यमन्नं च न प्रसिद्धान्नमिति भावेनाह ॥ तदिति ॥ तस्यवैश्ऱ्वामित्रत्वं च न तत्कृतत्वं अपौरुषेयत्वा न्नापि तत्प्रतिपादकत्वं विष्णुपरत्वादित्यत उक्तम् ॥ विश्ऱ्वामित्रेणेति ॥ य एष तपतीति सूर्यान्तस्स्थतयातापकत्वैश्ऱ्वर्यस्योक्तत्वादेषतपन्नेवेति पुनरुक्तमित्यत आह ॥ इन्द्रेति ॥ नन्विन्द्राविष्यं सिद्धवत्कृत्यसम्यक्त्वामेवजानीयामिति मोक्षेसुखातिशयाथर्ं विशेषज्ञानस्य प्रार्थित्वात् कोयमिति शङ्कानवकाशः । तथाच अपृष्योत्तरत्वं स्यदित्यत आह ॥ त्वामिति ॥ हियस्मादप्रायमस्तितस्मादस्याभिप्रायद्वयं ज्ञात्वैवसर्वशङ्कां परिहरतीति हरिशब्दवाच्यः सनातनोविष्णुः । यद्वा सनातनोनित्यः कालतः ततः विष्णुरन्तर्बहिश्ऱ्चव्यापको हरिरभिप्रायद्वयस्यापिपरिहारं ददावित्यन्वयः । अभिप्रायमस्यैवेत्युक्तमभिप्रायं विशिनष्यि ॥ शक्रादिविष्यइत्यादिना ॥ तेजोबाहुल्यतःतेजोबाहुल्याख्येन लिङ्गेनशक्राविष्योहरेरपरोनैवेति मतर्कोनुमिति रजनि । तस्य तर्कस्य सत्यत्वं प्रामाण्यं संवादेन ज्ञातव्यम् । प्रमाणसंवादस्य दार्ढ्यहेतुत्वादिति प्रथममभिप्रायं यदि विष्णुःस्यात्प्रमाणसंप्लवेन विष्णुतवव्यवस्थास्यात्तदाविशेषतोज्ञातव्य इति द्वितीयमभिप्रायं च ज्ञात्वेत्यन्वयः । केनकस्यपरिहार इत्यत आह ॥ प्राणइति ॥ विशेषज्ञानसिद्धयथर्ं नाम सन्दर्भमुक्तवानित्युक्तं त्कथमित्यत आह ॥ विशेषज्ञानसिद्धयर्थं नाम्नामिति ॥ भारतादौपरमात्मनोविश्ऱ्वं विष्रुरित्यादिनाम्नां विशेषज्ञानसिद्धयर्थमेवोक्तिः प्रसिद्धेत्यर्थः । तपन्नेवास्मीत्युक्त्यानारायणाख्यधर्म्युपस्थितिःकथं स्यादित्यत आह ॥ तपन्तमिति ॥ वेदेति कथमवगतमित्यत आह ॥ गायत्ऱ्येति ॥ गायत्ऱ्यास्वदृष्यया । ननु तत्वप्रकाशिकायां कस्त्वयीति प्रश्ऱ्नस्य प्राणोवा अहमिति परिहारः कीदृशइत्यस्योत्तरतयोत्तरवाक्ययोजनेत्युक्तत्वाद्विराधः । किञ्च धर्मिप्रश्ऱ्नस्य प्रथमप्राप्तत्वाद्धर्मप्रश्ऱ्नस्यानन्तरिकत्वादन्तेधर्मिप्रश्ऱ्नप्रतिहारकथनमयुक्तमिति चेन्न । प्राणोवा आहमित्यादिवाक्यं पदसमन्वयेनवाक्यसमन्वयेन च भगवत्परम् । तत्रपदसमन्वयविवक्षयास्य ग्रन्थस्य प्रवृत्तत्वात् । प्राणोहमित्यादिकं गुणसमर्पकम् । एष तपन्नेवास्मीति वाक्यं धर्मिप्रश्ऱ्नोत्तरमिति युक्तम् । सूत्रभाष्यटीकासुवाक्यसमन्वयमङ्गकृत्याविष्यः । क इति प्रश्ऱ्नोत्तरतयाप्राणो वा अहमित्यादिवाक्यं प्रवृत्तम् । प्राणशब्दस्येशानः प्राणदःप्राणः प्राणस्यप्राणः प्राणःस्थूणेत्यादौ भगवन्नामतया प्रसिद्धत्वात् । प्राणस्त्वमित्यादि वाक्यनितु त्वदादिसर्वजीवान्तर्गतत्वादिमहामाहेत्म्यप्रतिपादकानीत्युक्तमतोनविरोधः । ननु तथापि तत्र प्राणोवा अहमस्मीत्युपदेशस्यवामदेवोपदेशवदन्तर्योमिविवक्षर्योन्द्रकर्तृकत्वं तत्रोक्तं अत्रतु अभिप्रायद्वयस्यापि परिहारं हरिर्ददाविति भगवतकर्तृकत्वमुच्यतेऽतोविरोध इति चेन्न । इन्द्रविष्यःकोयमिति पृष्ये इन्द्रेणस्वान्तर्यामीनारायण इति तत्स्थेनाहमेवेति युगपदुक्ति सम्भवात् । यच्चकोयमिति प्रश्ऱ्नस्यैषतपन्नेवेत्यन्तेपरिहारकथनं तदपि तेजोबाहुल्यलिङ्गेन विष्णुत्वस्यावगतत्वाद्दार्ढ्यमात्रस्यापेक्षित्तवात्कीदृश इति प्रश्ऱ्नस्याज्ञातगुणविषयकत्वात् तत्परिहारेगौरवेणेति ज्ञेयम् । किञ्च प्रश्ऱ्नपरिहारौ भगवद्विषयावित्यागमेन दर्शितं युक्त्याचोपपादयति ॥ उपनिषण्णमिति ॥ जानीयामितीत्यतः परं वरप्रार्थनादिति शेषः । उपनिषण्णमिन्द्रदृष्ट्वापित्वामेवजानीयामिति ज्ञानवरप्राथनात्प्रश्ऱ्नस्येन्द्रविषयत्वायोगादिन्द्रविष्योभगवानेवात्रत्वामित्युद्देश्यतयोक्त इति ज्ञायते । किञ्च प्रश्ऱ्नवाक्येऽस्यप्रसिद्धेन्द्रस्य ज्ञानार्थं प्रार्थितत्वे इन्द्रादेववरस्वीकारप्रसङ्गात्तस्य च वक्ष्यमाणरीत्यानिष्यत्वादिन्द्राविष्योभगवानत्रप्रश्ऱ्नवाक्येप्राणोवा अहमित्यादि परिहारवाक्येचोक्त इति ज्ञायत इत्यर्थः । ननूपनिषण्णमिन्द्रं पुरुषविशेषत्वेन जानाति नतु इन्द्रत्वेनातस्त्वामेवेति स्वरूप प्रश्ऱ्नोयुज्यत इत्यत आह ॥ इन्द्रमिति ॥ महाव्रतेयजमानमिन्द्रन्तु विशिष्येन्द्रत्वेनेन्द्रेणहौत्रेकर्मणिविनियुक्तो विश्ऱ्वामित्रोजानात्येवेत्यर्थः । नन्विन्द्रप्रतीवभगवन्तमपि प्रतित्वामेवजानीयामिति न वक्तुं शक्यते भगवत्स्वरूपस्य ज्ञातत्वात्तस्यात्रेन्द्रे आगत्यसन्निहितस्वस्य च ज्ञातत्वात् । तस्यापरोक्षज्ञानित्वात्स्वरूपज्ञानसद्भावात् तेजोबाहुल्यलिङ्गेनात्रागतत्वेस्य ज्ञातत्वादित्यत आह ॥ भगवन्तमपीति ॥ भगवन्तं ज्ञानातीत मागतञ्चजानात्येव । किन्तु स्वरूपत एव जानाति नतु मुक्तावधिकसुखसम्पादकगुणविशेषवत्तया ।
?R
अतस्त्वामेवपूर्वावगतं त्वामेवपुनर्जानीयामिति प्रश्ऱ्नोयुज्यत इति वैष्यम्यमिति भावः । नन्विन्द्रस्वरूपज्ञानेपि विशेषज्ञानार्थं प्रश्ऱ्नः किंनस्यादित्यत आह ॥ विशेषज्ञानेति ॥ नन्विन्द्रस्य तापकत्वाख्यगुणविशेषप्रतिपादकत्वान्नव्यर्थमित्यत आह ॥ प्राणोह्येष इति ॥ ननूक्तमेवैषतपन्नेवेत्यवधार्यत इत्यत आह ॥ प्राणोह्येष इति ॥ नवमेखण्डे प्राणोह्येष य एष तपतीति विष्णोस्तापकत्वस्योक्तत्वान्नेन्द्रस्य तापनशक्तिरिति भावः । अस्मत्पक्षेतुतेजोबाहुल्यलिङ्गेनेन्द्राविष्योविष्रुरिति ज्ञातेपि तद्दार्ढ्यायकोयमिति प्रश्ऱ्नोत्तरत्वेनैषतपन्नेवास्मीति सार्थकम् । इन्द्रस्यतु प्रत्यक्षसिद्धत्वेन कस्त्वमिति प्रश्ऱ्नानवकाशादेषत पन्नेवेति व्यर्थमेवेति भावः । यद्वाभगवन्तमपि स्वरूपत आगन्तजानात्येवेत्युक्तरीत्यावश्यमङ्गीकार्येणविशेषप्रश्ऱ्नेनैवालम् । ननु तेजोबाहुल्यलिङ्गेनविष्णुत्वं ज्ञायत एव । किञ्च स एतेन रूपेणेत्यत्र स इन्द्राविष्योहमेतेनाविष्यत्वाद्विष्ण्वाख्येनरूपेणसर्वादिशो विष्योस्मीतीन्द्राविष्यस्य विष्णुत्वं ज्ञायते । विष्णुशब्दस्य स्वस्मिन्निर्वचनात् । किञ्च तस्यमेन्नं दक्षिणमित्यत्रापि इन्द्राविष्यस्य दणिमित्रत्वलिङ्गेन तद्विष्रुत्वं ज्ञादत एवेति एषतपन्नेवेति व्यर्थमित्याशङ्कयाह ॥ स एतेनेति । अपियद्यपि स एतेन रूपेणसर्वोदिशोविष्योस्मीत्यनेन आदिपदेन तस्यमेन्नंमित्रं दक्षिणमित्यनेन पुनरपिपदेन तेजोबाहुल्यलिङ्गेन चेन्द्राविष्यस्य विष्रुत्वं ज्ञायते तथापि किञ्चिदेव नतु स्पष्यम् । एतेन विष्ऱ्वाख्येन रूपेणकरणेन सर्वादिशोविष्स्मीति तृतीयानिर्दिष्यस्य करणत्वं प्रथमानिर्दिष्यस्यकर्तृत्वं अतस्तस्यविष्ण्वन्यत्वमिति शङ्का भवति । तस्यमेन्नमित्यत्रच मेतस्यममकरणभूतस्य विष्रोरन्नं दक्षिणं मित्रमित्यर्थाभ्युपगमेतस्य मइत्यनयोर्वैयधिकरण्यं भिन्नविषयत्वमतस्तस्य विष्ण्वन्यत्वमिति शङ्काभवत्यतः स्पष्यमाविष्यस्यविष्णुत्वं न ज्ञायत इत्यर्थः । एवं तेजोबाहुल्यलिङ्गेन स एतेन रूपेणेत्युक्त्यादक्षिणामित्रत्वलिङ्गेन च विष्णुत्वावगतेरेत पन्नेवास्मीत्यस्यास्मत्पक्षेपि वैयर्थ्यमित्याशङ्कयसमाहितमुपसंहरति ॥ अत इति ॥ यत एवं विष्णुप्रापकाणां सावकाशत्वमत इन्द्रशरीरमेवपश्यतस्तर्कमात्रतो भगवानिति किञ्चिज्जानतः प्रमाणान्तरसंवादमपेक्ष्यजानतः स एतेनेत्यादिनापिविष्रुत्वं किञ्चिज्जानतः स्वरूपज्ञानेपि विष्णुविशेषगुणाज्ञानात्किंचिज्जानतोवाविश्ऱ्वामित्रस्य पृथक् पृथक् भगवन्नामान्युक्त्वाऽहं विष्णुरित्येषत पन्नेवास्मीत्युवाचेति ज्ञायत इति याजना । ननु यदुक्तमुपनिषण्णमिन्द्रं दृष्ट्वेत्यत्रेन्द्रस्यैवत्वामेवजानीयामिति ज्ञानार्थं प्रार्थितत्वे इन्द्रादेववरस्वीकारप्रसङ्ग इति नेदमनिष्यम् । प्राणोवा आहमित्यादिनेन्द्रेणैवविश्ऱ्वामित्रायात्मोपदेशाङ्गीकारादित्यत आह ॥ नचेति ॥ विष्णोरपि तत्तुल्यमित्यतस्तस्य सर्वशब्दवाच्यत्वस्य प्रमितत्वादित्याह ॥ अजस्येति ॥ कैमुत्यन्यायेनापीन्द्रस्य सर्वशब्दवाच्यत्वं प्रतिषेधति ॥ इन्द्रेहीति ॥ तर्हीन्द्रशब्दस्य मुख्योर्थःक इत्यत आह ॥ इन्द्रशब्दोपीति ॥ न केवलं योगः रूढिरप्यस्तीत्याह ॥ यमिति ॥ इन्द्रमित्रं वरुणमित्यत्र योदिव्यःसुपर्णोगरुत्मान् तं इन्द्रंमित्रं इत्याद्याहुरित्यर्थप्रतीतेर्विष्णुपरत्वमस्याः श्रुतेः कुत इत्यत आह ॥ सप्तेति ॥ सप्त अर्द्धगर्भाइति पदविभागः । अर्द्धमासमन्तादृद्धं ब्रह्माण्डम् । तदेवगर्भेयेषान्ते तदावरणभूताः । सप्त महदहङ्कारपञ्चभूताभिमानिनोदवाः भुवनस्यरेतोरति प्रदस्य कारणभूतस्य वा विष्णोः प्रदिशा आज्ञया धारणादिविविधधर्मेषुतिष्ठन्तीत्यर्थः । ननु सुपर्णादिशब्दश्रवणाद्विष्णुरेवतत्रप्रस्तुत इति कथमित्यत आह ॥ नामानीति ॥ तथाच यं विष्णुमिन्द्रमित्रं वरुणमग्निमाहुःस एव सुपर्णादि शब्दवाच्यश्ऱ्चेति तदर्थ इति भावः । ननु नामानि विश्ऱ्वेत्यस्य लोकेविश्ऱ्वानि नामानि नसन्ति । विद्यमानान्यपि अभि मुख्यतो न सन्तिकुतः । यद्यस्मादनृतस्य ॠतं ब्रह्म पूर्वावगतवत्सदास्थितेस्तद्विरुद्धमनृतं तस्य जगतः सर्वं प्रवृत्तिनिमित्तं यद्यस्मादुत्पन्नमिति नार्थः । किन्तु परमार्थपर्यालोचनायां यद्यस्मात्सर्वमनृतस्यानृतमाविरासीत्तस्माल्लोकेनामान्येव न सन्तीत्यर्थः । अतो विष्णोरेव सर्वनामत्वेन तदुदाहरणं युक्तम् । नामानि सर्वाणियमाविशन्तीत्यत्रापियं परमं सर्वाणिनामानि आविशन्ति । तं विष्णुशब्दवाच्यमप्युदाहरन्तीत्येकस्यैवसर्वनामवत्त्वं विष्रुशब्दवाच्यत्वंचोच्यते नतु सर्वनामवाच्यानुवादेन विष्णुत्वं विधीयते । तथाचेन्द्रं मित्रं वरुणमग्निमाहुरित्यत्रसुपर्ण एव सर्वशब्दवाच्योस्तु । नच तत्र विष्णुप्रस्तुति विरोधः उक्तरीत्यानामानीति श्रुतौ सर्वशब्दवाच्यस्यैव विष्णुनामवत्त्वस्याप्युक्तेरित्यतो निरवकाशं प्रमाणमाह ॥ योदेवानामिति ॥ नामानि सर्वाणीत्यत्रसर्वनामवाच्यानुवादेन विष्णुत्वविधिरित्यस्माभिरुक्तम् । भवतु वा त्वदुक्तरीत्यातत्र सर्वनामवाच्यस्यैवविष्रुशब्दवाच्यत्वमप्युच्यत इति । तथापि योदेवानां नामधा एकएवेत्यवधारणादेकस्यैवविष्ण्वादिसर्वनामवत्त्वं नान्यस्य । सचैकोविष्णोरन्यो न भवति पद्मनामत्वलिङ्गादित्यर्थः । लिङ्गञ्चासाधारणमित्येवशब्दः । शब्दादेवप्रमित इतिवत् । एतेनाजस्य नाभावित्युक्तस्य पद्मनाभस्य योदेवानां नामधा एकएवेति सर्वदेवाभिधानमुक्तमित्यादिनैतनरुक्तमिति निरस्तम् । ननु श्रियोवायोश्ऱ्चसर्वनामत्व प्रसिद्धेः कथमेक
?R
एवेत्यवधारणमित्यत आह ॥ श्रियइति ॥ तथाच तयोरपि पूवर्प्रसिद्धवर्जं सर्वनामविषयत्वेन प्रसिद्धिरुपपन्नेति भावः । किञ्चयदि विष्ण्वादिनामधारकत्वं विष्ण्वन्यस्योच्यते तर्हि स विष्णुसमोवास्यादधिकोवास्या न्नचैतत्सम्भवतीत्याह । एकोवासुदेव इत्यादिनातदत्रोच्यत इत्यन्तेन ॥ योदेवानामित्यत्रविष्ण्वादिसर्वदेवनामधारकतवेनानुक्तावपि तद्विष्णुसममधिकं वात्र सर्वदेवनामवत्त्वेनोच्यत इत्यपि न वक्तव्यम् । कुतः । हियस्मादेकोवासुदेव एकोनारायण इति चश्रुतिरस्त्यतोविष्णोः परं तत्सदृशं वा नास्त्यतस्तदत्रोच्यत इति न वक्तव्यमिति । ननु देवेषुवासुदेव नारायण शब्दित सगुणसमोनास्तीत्युच्यते परंब्रह्मत्वन्यदस्ति तदेव योदेवानामित्यत्र लक्षणयासर्वनामप्रतिपाद्यमुच्यत इत्यत उक्तम् ॥ येनावृतमिति ॥ येननारायणेनावृतं खमावृतां दिवं महीं च येन तत्प्रेणणयादित्यस्तेजसातपति । भ्राजसा दीप्त्या । चशब्दातप्रकाशयति । यदक्षरेयस्मिन्नक्षरे नारायणस्य परब्रह्मत्वावधारणाच्चविष्णोः परमुत्तमं नास्त्यतस्तद्विषणोः परं निर्गुणं परंब्रह्मात्र योदेवानामित्यत्रोच्यते इत्यपि न वक्तव्यमित्यर्थः । ननु यदि विष्णोर्देवान्तर्गतत्वं स्यात्तदायोदेवानामित्यस्य विष्ण्वादिदेवानामित्यर्थः । स्यात्तदेवकुत इत्याशङ्कां परिहरन् समादिराहित्येश्रुत्यन्तरमाह ॥ परोमात्रयेति । अत्रदेवेति सम्बोधनाद्देवत्समुक्तम् । ननु न किरिन्द्रेत्यत्रसमाभ्यधिकराहित्योक्तावपि तदधिकोविष्णुर्यथास्वीक्रियते तथा वासुदेवादुत्तमोपि किं नस्यादित्याह आह ॥ नकिरिति ॥ अत्रनकिरित्युक्तार्थाधिक्यविवक्षया । नकिर्माकिःस्मसीत्यादिप्रोक्ताधिक्यविवक्षयेत्यन्यत्रोक्तत्वात् । विष्णोर्देवान्तर्गतत्वं सर्वोत्तमत्वं तस्यैव परममहद्ब्रह्मत्वमित्यत्रभा
?R
रत सम्मतिमाह ॥ किमेकमिति ॥ इतोपि प्राणोवा अहमित्युपदेशस्य भगवद्विषयत्वमित्याह ॥ मेन्नमिति ॥ उपदिष्यं वस्तुविष्णुरितिज्ञायते । दक्षिणामित्रत्वं विष्णुलिङ्गं कुत इत्यत आह ॥ सहीति ॥ धन्यःसर्वोत्तम आश्ऱ्चर्योसदृशः । ननु मेन्नं मित्रं दक्षिणमित्यत्रदक्षिणं समीचीनमन्नं बृहतीसहस्रं मेमित्रमित्युच्यते । नतु तदभिमानिनीलक्ष्मीर्मित्रमित्यत आह ॥ नचेति ॥ अचेतनमात्रस्याभिमानिनं विहायकेवलमचेतनस्य बृहतीसहस्रस्य । कुतोनाचेतनस्यमित्रत्वमित्यतोमित्रशब्दं निर्वक्ति ॥ मिनोतीति ॥ विजानातीत्युपलक्षणम् । त्रायतेचेत्यपिग्राह्यम् । प्रकृतेदेव्याभगवत्राणकर्तृत्वं नामबृहतीसहस्रप्रतिपाद्यरूपगुणादीनामयोग्यजनचित्ताविषयीकरणेनगोपकत्वं विवक्षितम् । नन्वस्त्वन्नपदेन तदभिमानिचेतन परिग्रहः । रमेति कुत इत्यत उक्तं देवीं विनाचेतनमात्रस्य ब्रह्मादेरपि मुख्यमित्रत्वं न युज्यत इति । बृहतीसहस्रं शशंस । तेनेन्द्रस्य प्रियं धामोपेयायेत्यत्रेन्द्रस्योक्थायुत्वमुच्यते ततश्चनात्रेन्द्रः प्रसिद्धः किन्त विष्णुरेवेत्याह ॥ उक्थेति ॥ किदिमुक्थायुत्वमित्यत उक्थपदार्थमाह ॥ बृहतीति ॥ नन्वाश्ऱ्विनसहस्रमप्युक्थनामकमित्यत उक्तम् ॥ मुख्यतइति ॥ बृहतीसहस्रमपि महाव्रतनियुकतमेवोक्थनामकम् । नतु सर्वपृष्याप्तोर्यामविश्ऱ्वजिदतिरात्रादिनियुक्तमिति भावेनोक्थायुपदार्थमाह ॥ महाव्रतेति ॥ ईयोज्ञेयःप्राप्यश्ऱ्च । उक्थायुत्वविशेषितेन्द्रस्य विष्णुत्वमागमेनोक्त्वायुक्त्याचोपपादयति ॥ विष्णुरिति । हि यस्माद्यज्ञेष्वन्य इन्द्रः एकप्रकरण एव पृथगुच्यते तस्मादुक्थायुरिन्द्र इति विष्णुरुच्यते इत्यर्थः ॥ ननु विष्णोःप्राणादिशब्दवाच्यत्वेप्राग्यमिन्द्रमिति श्रुत्युदाहरणमसङ्गतम् । तत्र यं विष्णुमिन्द्रस्वरूपमाहुरित्यादिनेन्द्रादिभिरभेदस्यैवोक्तेरित्यत आह ॥ यमिन्द्रमाहुरित्यादिना ॥ यमुसत्यमाहुरित्युक्त्वायोदेवानां देवतमस्तस्मैत्वातेभ्यस्त्वेत्युत्तरवाक्येतस्मैदेवतमायतेभ्योदेवेभ्य इति भेदस्यापि वचनात्पूर्ववाक्यं नाभेदविधिपरं व्याघातादतः शब्दवाच्यत्वपरमेवेति ज्ञायत इति भावः । ननु यमुसत्यमाहुरिति वाक्यं न नामविधिपरं सत्यनामकस्य कस्याप्यभावात् । किन्तु ब्रह्मैवसत्यमाहुरिन्द्राद्यौपाधिकानामसत्यत्वेन तच्चैतन्यमात्रमेनमाहुरित्यर्थोगीकार्य एवेत्यत आह ॥ सत्यइतीति ॥ सच्छब्दस्य प्राणनामत्वेकिं सत्यशब्दस्येत्यत आह ॥ सदेवेति ॥ सत्यता सत्यशब्दप्रवृत्तिनिमित्तम् । सर्वतः सर्वदा । अनादिकालतःसर्वदोषहीनगुणाधिकाः । ॠजव इति वचनात् । तेनेन्द्रस्य प्रियं धामोपेयायेत्येतत्तच्छत्वातुत्वातु ष्यिमगमदिति व्याख्यातम् । तत्कथशब्दलब्धमित्यत आह ॥ प्रियधाम्न इति ॥ धामप्राप्तिरेवार्थःकिं नस्यादित्यत आह ॥ अन्यथेति ॥ प्रियं धामेयायेत्येतावतापूर्तेरिति भावः । नचोपसर्गस्य धात्वर्थव्यञ्जकत्वान्नवैयर्थ्यमिति वाच्यम् । प्रययावित्यादिवत्तदर्थातिशायिकत्वाभावात् । नचोपयानं नामसम्यग्यानमिति वाच्यमपदार्थत्वात् । नच धात्वर्थएवोपसर्गार्थ इति वाच्यम् । वैयर्थ्यानिस्तारात् । वक्ष्यतिच नच निरर्थकत्वमुपसर्गस्याङ्गीकर्तुं युक्तम् । नह्यार्षेषुवेदेषुव्याकरणादिषुचोपसर्गाणां वैयर्थ्यमङ्गीकृतं कुत्रचिदिति । अर्थानुपपत्तिञ्चाह ॥ नचेति ॥ शंसनत्रयस्य फलभेदं प्रमाणेनाह ॥ बृहतीति ॥ सालोक्यं तत्कारणप्रसादम् । एवमन्यत्र । अपव्याख्यां प्रत्याख्याति ॥ नचेति ॥ कस्यचित्प्राणस्येन्द्रादिभिरैक्यमत्र प्राणोवा अहमस्मीत्यादावुच्यत इति न मन्तव्यमित्यर्थः । कुतो न मन्तव्यमित्यतः प्राणस्य विष्ण्वन्यत्वस्येन्द्रादिभिरभेदस्यच सूत्रकृतानिराकृतत्वादित्याह ॥ प्राणइत्यादिना ॥ इन्द्रेणेत्यतः परं प्राणतयेति शेषः । कथं
?R
निराकृत इत्यतोऽध्यात्मसम्बन्धभूमाह्यस्मिन्निति सूत्रखण्डाथर्माह ॥ अध्यात्मेति ॥ सम्बन्धशब्दार्थआवेशइति । अध्यात्मशब्दार्थोविष्णोरिति । अस्मिन्नित्यस्यार्थइन्द्रइति । ननु सर्वेष्वन्तर्यामित्वेन भगवत्सम्बन्धोस्त्येव तत्किं विशिष्यस्योच्यते इन्द्रेसम्नध इतीत्याशंकापरिहाराय सम्बन्धभूमेति प्रवृत्तं भूमपदं व्याचष्ये ॥ अन्येष्विति ॥ अन्येष्वन्तर्यामित्वोनैवसम्बद्धोस्मिन्निन्द्रेतु विशेषावेश इत्यर्थः । ननु महाभारततात्पर्यनिर्णये । श्रीब्रह्मरुद्रशेषाश्ऱ्चवीन्द्रौकाम एवच ॥ कामपुत्रोनिरुद्धश्ऱ्चसूर्यश्ऱ्चन्द्रोबृहस्पतिरित्याद्युक्त्वा इत्याद्याविशेषावेशिनोहरेरितीन्द्रादन्येषामपि विशेषावेशोक्तेः किं विशिष्योच्यते इन्द्रेतच विशेषावेश इतीत्यत आह ॥ तात्कालिकइति ॥ ननु नैवं सूत्रार्थः किन्तच न प्राणः परमात्मा वक्तुः विश्ऱ्वामित्रस्येन्द्रेणप्राणतयात्मोपदेशादिति चेन्ना स्मिन्निन्द्रेध्यात्मसम्बन्धभूमा परमात्मैक्यं विद्यते तथाचेन्द्रस्य प्राणशब्दवाच्यत्वेपरमात्मनस्तदविरुद्धमित्यर्थ इत्यत आह ॥ नहीति ॥ नैक्यविवक्षयासिद्धान्तांशप्रवृत्तिः तथात्वे सम्बन्धशब्दव्याकोपादिति भाव;
। शङ्कते ॥ यदीति ॥ अध्यात्मसम्बन्धभूमेत्यत्राध्यात्ममात्रमध्यात्मभूयस्त्वमात्रं परमात्मभूयस्त्वं तदैक्यमेवविवक्षितं सम्बन्धशब्दस्तच ऐक्यमपितादात्म्यलक्षणःस्वरूपसम्बन्ध इत्रत वस्तुस्थिति कथनायेति यद्युच्यत इत्यर्थः । परिहरति ॥ तर्हीति ॥ तस्य सम्बन्धत्व वचनस्यनिष्प्रयोजनत्वादिति भावः । उपसंहरति ॥ तस्मादिति ॥ ऐक्यपरत्वेसम्बन्धशब्दव्याकोपात् वैयर्थ्याद्वेन्द्रादिजीवेभ्योभेद एवात्रसूत्रेभगवतोविवक्षित इत्यर्थः । यद्वातदेवं सूत्रार्थस्य व्यवस्थितत्वादत्रश्रुताविन्द्रादिजीवेभ्योभेद एवात्रसूत्रेभगवतोविवक्षित इति ज्ञायतेतो नचेन्द्रादिभिरैक्यमत्रोच्यत इत्युपपन्नमिति भावः । नन्वत्र यदि प्राणपदेनेन्द्रेणापि विष्णुरेवस्वात्मादि सवगततयोच्यते नतु स्वात्माभेदेनेति विवक्षितं तर्हिमयि प्राणइत्यादि प्रयोगः स्यान्नत्वहंप्राण इति । विष्णावहमित्यादिरूपोपदेशायोगादित्याशङ्कय सेयमाशङ्कासूत्रएव परिहृतेति भावेनानूद्यव्याचष्ये ॥ शास्त्रेति ॥ शास्तीति शस्त्रमिति व्युत्पत्त्याशास्त्रस्य शास्तचरन्तर्यामिणोविष्णोः सर्वशरीरेष्विन्द्रविश्ऱ्वामित्रादि सर्वशरीरेषुस्थितत्वात्तद्दृष्ययाद्विवक्षयोपदेशः अहं त्वं सर्वाणिभूतानीत्यहमादि सर्वनामोपदेशोयुज्यत इति सर्वनामाभिधेयत्वञ्चोक्तमित्यर्थः । सूत्रभाष्ये शास्त्रशब्दस्य संविच्छास्त्रं परं पदमिबति अन्तर्यामिणिप्रयोगदर्शनेनरूढिरुक्ता । अत्रतु योगइति विवेकः । अन्तर्यामिण्यप्यहमादिपदप्रयोगादर्शनात्तदयोग इत्यतः सूत्रोक्तदृष्यान्तं विवृणोति ॥ अहमिति ॥ यथान्तर्यामिविवक्षया वामदेवोहंमन्वादिशब्दान्प्रयुक्तवांस्तथयमुपदेशोयुक्त इति भावः । वामदेववचनमप्यभेदविवक्षयाकिं नस्यादि चेदत्र वक्तव्यम् । किं वामदेवेन विशिष्येन मन्वादिभिर्विशिष्यैरैक्यमुच्यते उतोपध्यविवक्षया भागत्यागलक्षणयोपाधिविनिर्मुक्तशुद्धचैतन्यैक्यमुच्यते । आद्यं दूषयति ॥ नहीति ॥ तेषामभेदवादिनां पक्षेपि वादेवोविशिष्योमनुसूर्यादिः न भवति नाङ्गीक्रियत इत्यर्थः । द्वितीयं दूषयति ॥ सर्वेति ॥ उपाधिविनिर्मुक्तशुद्धचैतन्यविवक्षयाहंमनुरित्याद्युपदेश इतिच न सम्भवति । कुत;
हि यस्मात्ते सर्वप्रवृत्तिहीनतां सर्वप्रवृत्तिराहित्यं मोक्षं वदन्ति । अविवतोपाधिकशुद्धचैतन्यावस्थैवमोक्षावस्थेति चैतन्यैक्यविवक्षयास्य ग्रन्थस्य प्रवृत्तत्वे भूमिदानादि प्रवृत्त्युक्तिर्नस्यात् । अत्रचाहं भूमिमददामार्यायेत्यादि नाप्रवृत्तिरेवोच्यते नतु निवृत्तिरतोन चैतन्यैक्यविवक्षयायमुपदेश इति भावः । ननु माभूदैक्यविवक्षयायमुपदेशो नतावतान्तर्यामिविवक्षासिद्धयति । मन्वादिकर्मणोवामदेवेन करणादहं मनुरित्यादि व्यपदेशोपपत्तेः । लोकेसमर्थेनामात्येनराजकर्मकरणेन राजाहमिति व्यपदेशदर्शनादित्यत आह ॥ नचेति ॥ नकेवलमैक्यं न युज्यते किन्तच वामेदेवेन मन्वादिकर्मक्रियतेतद्विवक्षयायं व्यपदेश इत्यपि नयुक्तम् । कुतः कदापि कालत्रयेपि वामदेवेन मन्वादकर्मकरणाभावादित्यर्थः । आदिपदेन सूर्यादिग्रहणम् । स्मृतिप्रणयनेनावबोधकत्वं मनुकर्म सूरिनियामकत्वं सूर्यकर्म सूरयोहि सूर्योदयेऽध्यात्ममधिदैवञ्च तन्नियामितविहितम् अनुतिष्ठन्ति । आर्यायेन्द्रायभूमिदाञ्चोपेन्द्रकर्म एवमन्यदपि द्रष्यव्यम् । तत्रोत्तरकालेवर्तमानकालेच तदभावेज्ञापकमाह ॥ अतीतार्थश्ऱ्चेति ॥ अयमभवमिति व्यपदेशः अहं भूमिमददामित्यादिनाव्यपदेशाश्ऱ्चातीतार्थादृश्यन्तेऽतोनोत्तरवर्तमानकालयोरेतत्कर्मक्रियत इत्यर्थः । अतीतकले तदभावमुपपादयति ॥ नहिपूर्वमिति ॥ कुतो न कृतानीत्यत आह ॥ भगवान्हीति ॥ यद्वा ननु परमात्मनापि भूमिदानस्मृति प्रणयनेनावबोधकत्व सूरिनियामकतवादीनि कदापि न कृतानीति तुल्यम् । तदपेक्षयार्यस्यैवाभावात् । स्मृतिप्रणयनादेर्मन्वादिनिष्ठत्वेन प्रसिद्धत्वाचचेत्यत आह ॥ भगवानिति ॥ वामनरूपीभगवान्विष्णुर्ह्यार्यायावतारविवक्षयाग्रजायेन्द्राय त्रिपदयाञ्चाच्छलेनबलेरपहृत्यभूमिमददात्स एवोपेन्द्रएव तत्तन्मन्वन्तरेषुमन्वादिष्वन्तर्यामित्वेन स्थित्वानामप्रवृत्तिनिमित्तानि सर्वाणिकर्माणिकुर्वन् अवबोधसूरिनियमनादि प्रवृत्तिनिमित्तैर्मनुसूर्यादिसर्वनामाभवत्यतोहंमनुरभवमित्याद्युपपन्नमित्यर्थः । तथाच भागवतेऽष्यमस्कन्धेत्रयोदशाध्याये
?R
मनवोमनुपुत्राश्ऱ्चमुनयश्ऱ्चमहीपते ॥ इन्द्राःसुरगणाश्ऱ्चैवसवर्ेपुरुषशासनाः । यज्ञादयोयाः कथिताः पौरुष्यस्तनवोनृप ॥ मन्वादयोजगद्यात्रां नयन्त्यभिप्रचोदिता इत्यादिनास्पष्यमुक्तमवङ्गतव्यम् । ननु यदुक्तं नहिमनुसूर्यादिर्भवति वामदेव इति स्यादिदमपसिद्धान्तदूषणं सत्योपाधिकृत सत्यभेदवादे तैर्मुक्तेःपूर्वं विशिष्यभेदस्य सत्यत्वाङ्गीकाराद्येषां मुक्तेः पूर्वं संसारेपि भेदोनास्ति तेषां वैशिष्ययस्यापिमिथ्यात्वान्नैक्यं विरुध्यते । नह्यारोपित नैल्यवैशिष्ठयेपि गगनस्य नीरूपत्वं विरुध्यत इत्याशङ्कयपरिहरति ॥ यदीति ॥ मन्वादित्वस्य मन्वादिशब्द प्रवृत्तिनिमित्तधर्मस्य । इत्यादिकं सूर्यश्ऱ्चाहंकक्षीवानृषिरस्मिविप्रःअहं भूमिमददामित्यादिकम् । सर्वमनथर्कं अर्थशून्यमप्रमाणमेवभवतीत्यर्थः । नच मनुरभवमित्यादेर्मिथ्यांशत्यागेन यत्सत्यं चैतन्यं तनैकीभूतोभवमित्यर्थ इति वाच्यम् । तदापि भूमिमददामित्यादिकमनर्थमेव । किञ्च चैतन्यैक्यस्य प्रागेवसिद्धत्वान्मनुरभवमित्यादिकं निरर्थकमेवेति । यदुक्तं इन्द्रादि जीवानां प्राणोवा अहमित्यादावीशैक्यमहं मनुरभवमिति जीवानाञ्च परस्परमैक्यमुच्यते । तद्भेदस्यासत्त्वादिति । तत्प्रमाणबाधितमिति भावेन तदुदाहरति ॥ जीवेश्ऱ्वरेति ॥ चशब्दास्तथाशब्दश्ऱ्चसमुच्चये । एवशब्दाःभेदाभेदव्यावृत्त्यर्थाः । सत्यत्वेहेतुर्नकदाचिदिति । निवर्त्योबाध्यः । कदाचिदित्यस्य विवरणं मुक्ताविति ॥ यद्वा सत्योपाधिकृत सत्यभेदवादेमुक्तावुपाधिविनिर्गमेनननिवर्त्यः असत्यभेदवादेसंसार एव नब्रह्मज्ञानेन बाध्यत इति योज्यम् । तात्पर्यद्योतनायान्यथाज्ञानिनां फलमाह ॥ यएतदिति ॥ भेदादि प्रपञ्चासत्यत्वाभेदवादिनां निन्दार्थवादबलाच्चभेद एव तात्पर्यमागमस्येति भावेना सत्यत्ववादानुवादपरङ्गीतावाक्यं पठति ॥ असत्यमिति ॥ अनीश्ऱ्वरमित्यतः परं अपरस्परसम्भूतं किमन्यत्कामहैतुमिति वाक्यशेषोनुसन्धेयः । अभेदवादानुसंवादपरं तत्पठति ॥ ईश्ऱ्वरइति ॥ सुखीत्यतः परमाढ्योभिजनवानित्यादिवाक्य शेषः । असत्यत्ववादिनां निन्दापरं कामहैतुकमित्यतः परं विद्यमानं वाक्यशेषं पठति ॥ एतामिति ॥ ईश्ऱ्वराभेदवादिनां निन्दापरमीश्ऱ्वरोहमित्यादिप्रकरणोपसंहारस्थं वाक्यशेषं पठति ॥ आसुरीमिति ॥ प्राणोवा अहमस्मीत्यादावहमस्म्यादिशब्दानामस्मच्छब्दार्थत्वमङ्कीकृत्यैक्यपरत्वेन्तरङ्गं च बाधकमाह ॥ नचेति ॥ कुत इत्यत आह ॥ एषतपन्निति ॥ अहमस्म्यादिशब्दानामस्मच्छब्दार्थपरत्वेॠषेप्राणोहमस्मि त्वञ्च प्राणोसि सर्वाणिभूतान्यपि प्राणाभवन्ति यएष तपतिसूर्यः एषोपि प्राणोहीत्युक्तत्वात्स्वाभिन्नप्राणेन सूर्यस्याभेदोक्त्यासूर्यस्यापि स्वाभेदस्यलब्धत्वादेषतपन्नेवास्मीत्युपरितनवाक्यस्य वैयर्थ्यप्रसङ्गादित्यर्थः । ततश्ऱ्चकिमित्यत आह ॥ अतइति ॥ प्रतीतार्थस्यानुपपन्नत्वादस्मदादेशतयालौकिकव्याकरणविहितमप्यहमिति पदं तस्मिन्नुपपदे उत्तमपुरुषाख्यातपदत्वेन विहितमस्मीति पदं आदिपदेन युष्मदादेशरूपतयोक्तं त्वमितिच पदमित्यादिकं गुणसमर्पणायभगवन्नामैवेत्यर्थः । प्राणोवा अहमित्यादेरैक्यपरत्वेप्रकृतासङ्गतिमप्याह ॥ नचेति ॥ अत्र ग्रन्थेप्राग्जीवेश्ऱ्वरैक्यस्यवचनं कथनम् । प्रस्तुतमुपक्रान्तं न भवति । यत्साधनाय विश्ऱ्वामित्रं ह्येतदित्याद्याख्यायिकयैक्यमुच्यतेति भावः । तर्हिकिमत्रप्रकृतम् । यत्र प्रमाणत्वेनेयमाख्यायिकोक्तेत्यत आह ॥ तावाएताइति ॥ एवं स्वव्याख्याने उपपत्तिमपव्याख्यानेऽनुपपत्तिञ्चोक्त्वोपसंहरति ॥ तस्मादिति ॥ अस्मद्वयाख्यानस्य प्रकृतसङ्गतत्वात् अन्यस्यासङ्गतत्वात्प्राणादि सर्वान्तर्यामित्वात्तत्तत्पदप्रवृत्तिनिमित्तगुणाधिकरणत्वात्तत्सम्पादकसर्वशक्तित्वात्प्राणाहमादि सर्वनामत्वमेवात्रोच्यते । नतु सर्वस्वरूपत्वमित्यर्थः । ननु सर्वनामवाच्यत्वं प्रतिज्ञायसर्वाभेदोयुक्तित्वेनोच्यत इत्यस्त्येव सङ्गतिरिति शङ्कां भारतवाक्येन परिहरति ॥ उक्तञ्चेति ॥ सर्वत्वं सर्वनामवाच्यत्वम् । यद्वा ननु जीवेश्ऱ्वरभिदाचैवेत्यादिकं यथाभेदेप्रमाणमस्त्येवं सर्वं खल्विदं ब्रह्म वासुदेवःसर्वमित्यादिरूपं विष्णोः सर्वात्मकत्वेप्रमाणमस्त्येवेत्यतस्तस्य गतिश्ऱ्च भारत एवोक्तेत्याह ॥ उक्तञ्चेति ॥ सर्वत्वं सर्वात्मकत्वम् । यदधीनायस्य सत्तातत्तदित्येवभण्यते इति वचनादिति भावः । किञ्चैक्यपरत्वेन प्रतीयमानां श्रुति मनूद्यश्रुत्यैवव्याख्यातत्वाच्चनैक्यपरं किञ्चिद्वाक्यमित्याह । पुरुषएवेति ॥ अतीतैष्यत्खण्डान्तेषु भेदस्यैवोक्तेश्ऱ्चनात्रैक्यं विवक्षितमित्याह ॥ हिरण्मयइत्यादिना ॥ सांसारिकभेदपरमेतदिति न मन्तव्यमिति भावेनोक्तम् ॥ मुक्तानामपीति ॥ कथमनेन भदलाभ इत्यत आह ॥ नहीति ॥ ददृश इत्यस्य प्रतिपदं दृश्यत इति । भेदाभावेसर्वेभ्योभूतेभ्योदृश्यत इति सर्वपदं बहुवचनं द्रष्यृदृश्यभावकथनञ्चायुक्तमित्यर्थः । ननु सर्वेभ्योभूतेभ्य इत्यस्य सर्वैरमुक्तैर्दृश्यत इत्यर्थः । तथाचामुक्तेभ्योमुक्तभेदस्यानेनोक्तावपिनमुक्तानां भेद इदं प्रमाणमित्यत आह ॥ नचेति ॥ न प्रत्यसंज्ञास्तीत्यादावमुक्तज्ञेयत्वाभावस्योक्तत्वादिति भावः । दृष्याचते भगवतानारादेनेति गीताभाष्ये साधनविशेषेणनारदेनदृश्यत्वोक्तावपि सर्वैभर्ूतैर्नदृश्यत इति भावेनोक्तम् ॥ सर्वैरिति ॥ कथञ्चित्सत्योपाधिकृतसत्यजीवभेदवादिभिर्मिथ्ययोपाधिकृतमिथ्याभेदवादिभिश्ऱ्चबद्धमुक्तव्यवस्थाङ्गीकारात्संसारिभिर्भूतैर्मुक्तो
?R
दृश्यत इति वक्तुं शक्यते । एकजीववादेतु सर्वेभ्योभूतेभ्यइत्येतत्सर्वथानुपपन्नमेव । तैरेक एव जीवः संसरति मुच्यतेच अन्येतदज्ञानेन स्वरूपेणकल्पिताः तस्य तत्वज्ञानेनमुक्तौनकिञ्चिदवशिष्यत इत्यङ्गीकारेणामुक्तैर्भूतैर्मुक्तस्य दृश्यत्वायोगादित्यभिप्रेत्याह ॥ एकत्वेत्विति ॥ जीवैकत्वपक्ष इत्यर्थः । व्यर्थं विरुद्धार्थम् । अङ्गीकृत्यैवददृश इति पूयर्त इत्युक्तम् । वस्तुतस्तुतदपि न सम्भवतीत्याह ॥ नचेति ॥ एकजीववादिनां पक्षेन्योनपश्यति । तन्मुक्त्यवस्थायामन्याभावात् । नापिस्वयं स्वात्मानं पश्यति । कुत इत्यत आह ॥ कर्त्रिति ॥ ततश्ऱ्चकिमित्यत आह ॥ अतइति ॥ मुक्तबाहुल्यस्य स्वज्ञेयत्वस्यचानङ्गीकारात्सर्वेभ्योभूतेभ्योनदृश्यत इत्यादि बहुश्रुतिभिः विरोध एवेत्यर्थः । नन्वेकस्यां क्रियायां कर्तृकर्मणोरेकत्वं विरुद्धमिति सर्वैरङ्गीकार्यमेव । तत्किमिति तेवदन्तीत्युच्यत इत्यत आह ॥ नचेति ॥I-6
?R
विरोधोहिनियमेन सहानवस्थिततयादर्शनमानको भवति नचात्रतादृशं प्रमाणमस्तीत्यर्थः । नकेवलं विरोधेप्रमाणाभावः किन्त्वविरोधेप्रमाणमस्तीत्याह ॥ श्रुतीति ॥ तदात्मानमेवावेदहंब्रह्मास्मीत्यादिश्रुतिर्मामहं जानामीत्यनुभवः । स्वदर्शनादेरित्यादिपदेनमुच्यतेवत्सःस्वयमेवेत्यादेः स्वमोचनादेर्ग्रहणम् । तथाचोक्तमनुव्याख्याने ॥ विरोधोह्यविरोधश्ऱ्चयतोदर्शनमानकौ ॥ अतोदृष्येविरोधःकथमिति ॥ स एतेन प्राज्ञेनेत्यत्रकथं मुक्तानां भेदोक्तिरित्यत आह ॥ नच तेषां पक्षइति ॥ तेषामभेदवादिनां पक्षेऽस्माल्लोकाच्छरीरादुत्क्रम्येत्युक्तस्य शरीरादुत्क्रान्तस्य ज्ञानिनः प्राज्ञेन सर्वज्ञेन परमातमना तदनुग्रहेण । सर्वकामावाप्तिर्नामाङ्गीक्रियतेऽतोभेदपक्षएवेयं श्रुतिः समञ्जसेति भावः । उपसंहरति ॥ तस्मादिति ॥ तस्मात्प्राज्ञेनात्मनेति श्रुतिवचनादपितेवेदविरुद्धवादिन इत्यर्थः । यद्वा भेदमिथ्यात्वब्रह्मैक्याद्यङ्गीकारेदूषणान्तरमाह ॥ तस्मादिति ॥ वेदोक्तमिथ्यात्वङ्गीकारेमायिनोपि वेदविरुद्धवादिनो बौद्धा इत्यर्थः । तदुपपादयति ॥ नचेति ॥ ब्रह्मवादिन इति शेषः । कुत इत्यत आह ॥ नहीति ॥ शून्यवादिनाशून्यस्य ब्रह्मवादिनाब्रह्मणोऽवाच्यत्वाद्यङ्गीकारात्सर्वावाच्यं सर्वाज्ञेयं शून्यं ब्रह्मचेति न कश्ऱ्चिद्विशेष इत्यर्थः । एतदुपपादनञ्च अवाच्यं सर्वशब्दैतल्लक्ष्यतेचाखिलैःपदैः ॥ अज्ञेयं ज्ञानलभ्यञ्चेति शून्यत्वादिश्लोकोदाहरणपूर्णन्तत्वोद्योतेकृतं बोध्यम् । नन्वस्तिब्रह्मेतिचेद्वेदेत्यादेरस्तित्वावगमाद्ब्रह्मणो न शून्यत्वापत्तिरिति चेदत्रवक्तव्यम् । कथमेषाश्रुतिबर्रह्मणोस्तित्वं बोधयति । वचनवृत्त्यालक्षणयावा । आद्यं दूषयति ॥ नहीति ॥ सर्वशब्दावाच्यं केनापि प्रमाणेनाज्ञेयं ब्रह्मेत्यङ्गीकृतम् । कथमेवं सत्येषाश्रुतिर्ब्रह्मणोस्नितत्वं वचनवृत्त्या बोधयति । तथाच श्रुत्याऽस्तित्वानवगमाद्ब्रह्मशून्यञ्चेति न कश्ऱ्चिद्विशेष इत्यर्थः । द्वितीयं दूषयति ॥ केनापीति ॥ ननु क्षीरमाधुर्यादयोरसविशेषा अवाच्या अपि लक्ष्यादृश्यन्त इत्यत आह ॥ क्षीरेति ॥ तैरेव क्षीरमाधुर्यादिशब्दैरेव । यद्वा शास्त्रप्रसिद्धैर्नामविशेषैरित्यर्थः । किं तच्छास्त्रमित्यतस्तत्पठति ॥ विशदमिति ॥ शब्दनिर्णयेसितस्येति पाठः । सूदशास्त्रेगुडस्येति पाठः । अतो न सुधाविरोधः । एवमागमाभावेनास्तित्वं ब्रह्मणो न सम्भवतीत्युक्तम् । निर्विशेषत्व युक्तिविरोधाच्च न सम्भवतीत्याह ॥ नचेति ॥ ब्रह्मणोस्तित्वं नाम सत्ता सामान्यं वा विधिमुखप्रत्ययवेद्यत्वं वा आरोपितासत्वव्यावृत्तिर्वा न पक्षचतुष्ययपि सम्भवति । सर्वविशेषविनिर्मुक्तत्वाङ्गीकारात् । स्वरूपसत्त्वं सर्वविशेषविनिर्मूक्तस्य युज्यत इति चेन्न । शून्यस्यापि तदापत्तेः । असत्त्वव्यावृत्तेरपि तेनाप्यङ्गीकारात् । तदुक्तं नास्य सत्त्वमसत्त्वं वानदोषोगुण एव वेतीत्याशयेनोपसंहरति ॥ अतइति ॥ ननु यदुक्तं निर्विशेषत्वान्नसत्त्वमिति तदयुक्तमप्रयोजकतवात् । केवलोनिर्गुणश्ऱ्च निष्कलं निष्क्रियं शान्तमित्यादौगुणाद्यभावस्य अस्तिब्रह्मेति चेद्वेदेत्यादिश्रुतिष्वस्तित्वस्य सत्तामात्रं निर्विशेषं निरीहमित्यादिस्मृतिषुचोभयस्योक्तेरित्यतस्तत्प्राकृतगुणादिविशेषाभावरम् । काठकेसत्त्वव्याप्यत्वेन विशेषाभिधानादिति भावेनाह ॥ अस्तीत्येवेति ॥ ब्रह्मास्तीत्युपलब्धस्योपलब्धिमत एव तत्वं प्रकृतिपुरुषाख्यं भावयत्युत्पादयतीति तत्वभावोविष्णुः प्रसीदतीत्यर्थः । आदिपदेनाङ्गुष्ठमात्रःपुरुषोन्तरात्मासदाजनानां हृदयेसन्निविष्यः । तं विद्याच्छुक्रममृतमित्यादि वाक्यशेषग्रहणम् । प्रसादोनामेच्छाविशेषोगुणान्तरं वेति सुधायामुक्तम् ॥ इत्यादिकर्मणीति ॥ यस्य ब्रह्मचक्षत्रमिति सर्वात्तृत्वं आदिपदेन ॠतं पिबन्ताविति वाक्यशेषोक्तकर्मफलभोगादि गृह्यते । इत्यादिगुणाः देवाश्रयत्वादिधर्माः । तत्रैव यस्यां काठकश्रुतावस्तित्वमुक्तं तत्रैव । मुक्तानां तारतम्यस्योक्तत्वाद्भेदस्यासत्यतवेतदयोगाद्भेदः सत्योङ्गीकार्य इत्याह ॥ अक्षण्वन्त इति ॥ श्रुतिस्मृत्याव्याचष्ये ॥ श्रुत्वेत्यादिना ॥ अक्षण्वन्तोक्षिमन्तः । अनोनुडिति नुट् । अक्षिमत्त्वं कणर्वत्वं च संसारिसाधारणमित्यत उक्तं श्रुत्वेति ॥ दर्शनाद्दशर्न फलं प्राप्तत्वादक्षण्वन्ततश्ऱ्चशब्दात्प्रप्तसमस्तेन्द्रिय फला इत्यर्थः । सखायः परस्परं सखायोमुक्ता इत्यस्य तात्पर्यं मुक्तास्तु योगणा इति ॥ मनोजवेषु मनोजवःप्रज्ञातिशयः । बहुवचनामाद्यर्थे । ज्ञानादिगुणेषु असमास्तारतम्योपेता बभूवुरित्यस्यतात्पर्यन्तारतम्यञ्चेति ॥ न केवलं ज्ञानादिगुणेषुकिन्तु भगवत्सामीप्येच तारतम्यमादध्नास इत्यादिनोक्तमित्यप्याह
?R
॥ तारतम्यञ्चेति ॥ तेषुकेचिदादध्नासः प्रमाणेद्वय सच् दध्नच् मात्रच इति पाणिन्युक्तेः दध्नशब्दः प्रमाणवाची । तथाच आ बहु दध्नं प्रमाणं यस्य स आदध्नः क्षीराब्धिः । तत;
अर्शआदिभ्योच् आज्जसेरसुगित्यसुगागमश्ऱ्च । ततश्ऱ्चादधनोबहुप्रमाणःक्षीराब्धिरेषामस्तीत्यादध्नासःक्षीरसागरगा इति यावदित्यर्थमभिप्रेत्योक्तम् ॥ क्षीरसागरदध्ना इति ॥ क्षीरसागरस्य दध्नं प्रमाणं येषान्ते क्षीरसागरदध्नाः बहुप्रमाणक्षीराब्धिगा इति भावः । तदुक्तं तत्वनिर्णय टीकायाम् । आदधनाअर्शआदिभ्योच् बहुप्रमाणक्षीराब्धिमन्तस्तत्क्रीडापरा इति । यद्वा ज्ञानपादीयसुधायां तत्रकेचिदादध्नासः आस्य शब्दस्याभावः आस्यं परिमाणमस्येत्यादध्नममृतम् । तदेषामस्तिस्थानमित्यर्शआदिभ्योच् । आस्यपरिमाणेसुधानिधौविहरन्त इति दूरत्वमुच्यते । यद्वा तरतमशब्द इव दध्नशब्दोप्य प्रत्ययोस्ति । तत आसम्यक् दध्नामग्ना इत्युक्तत्वात्तदनुसारेणक्षीरसागरदधना इत्यस्य क्षीरसागरेदध्नमास्य प्रमाणममृतं येषान्ते क्षीरसागरदध्ना इति वा क्षीरसागरेदध्नामग्ना इति वार्थो बोध्यः । केचिदुपगताःकक्षं वनमुपकक्षाः । उशब्द एवार्थः । श्ऱ्वेतद्वीपगतवनक्रीडारता एवेति मध्यमत्वमुच्यत इत्यर्थमभिप्रेत्योक्त ॥ मुपस्थिता इति ॥ ब्रह्मवचं ब्रह्मवननामकं त्वे केचित्स्नात्वा इव स्नाता इवामृतं पिबन्तः । ह्रदाः ऐराख्यामृत ह्रदस्था इति समीपगत्वमुच्यत इत्यर्थमभिप्रेत्यव्याख्यातम् ॥ ऐरेह्रद इति ॥ केचिदैरेह्रदेपि वर्तन्त इति । उक्तञ्च बृहद्भाष्ये । अमृतह्रदेचकेचिच्चपिबन्ति स्नातवत्सदेति । उत्वेददृश्र इत्यस्य त्वेउ केचिद्देवाएव भगवन्तं ददृश्रेददृशिरइत्यस्य व्याख्यानं देवाएवेति ॥ देवाएव सदेत्यस्य व्यावर्त्यमाह ॥ सागरादीति ॥ ज्ञानपादीयसुधायान्तत्वनिर्णयटीकायाञ्चामृतह्रदा इव गम्भीरा इति सन्न्यायरत्नावल्यनुसरेणस्नात्वास्नातव्याह्रदा इव गम्भीराः परमेश्ऱ्वरं ददृशुरित्यर्थान्तरमुक्तं ज्ञेयम् । यत्र ब्रह्मेत्यादेरयमर्थः । एताॠचोमारुतप्रार्थनारूपाः । संसारात्पावयित्वामहानन्देमिनोतिक्षिपतीति पवमान इन्द्रो इष्यप्रदानशीलवायो । ब्रह्मा मुक्तश्ऱ्चतुर्मुखो । यत्र यस्मिन्लोके छन्दस्यां छन्दःसम्बन्धिनीं वाचं वेदवाचम् । वदन् व्याकुर्वन् । ग्राव्णासुरेन सोमेन सोमे सौम्यस्वरूपेभगवद्विषये इष्ट्वाप्रसन्नेन तेन सोमेन विष्णुनास्वस्यानन्दं व्यञ्जयन् मुक्तनिकरैःपूज्यते । तत्र स्थायेन्द्रायविष्णवेमां परिस्रव प्रापय । यत्र लोकेऽजस्रं सूर्यज्योतिर्यस्मिन् लोकेस्वरानन्दरूपोविष्णुश्ऱ्च हितं निहितः । अमृतेमुक्तिरुपेऽक्षितेनाशरहितेतस्मिन् लोके मान्धेहि निधेहि । तस्मिन्नेवलोके वर्तमानायेन्द्रायेन्दोपरिस्रव । यत्रलोकेवैवस्वतोराजायमोस्ति यत्रच दिवोवायुपत्न्नया अवरोधनं परिवारभूतादेवताश्ऱ्चसन्ति । यत्रच यह्वतीः स्यन्दमाना अमूरापोगङ्गाद्यब्देवताः सन्ति तत्र लोकेमाममृतं कृधि । त्रिनाके कंसुखमकंदुःखं नास्त्यकं दुःखं यत्र तन्नाकं परमसुखसाधनं त्रिविधञ्च तन्नाकं च त्रिनाकं श्ऱ्वेतद्वीपानन्तासनवैकुण्ठाख्यं धामत्रयं तस्मिन् त्रिनाके त्रिदिवशब्दवाच्ये । यत्र लोकेदिवोवायुपत्न्नया अन्येषां वा अनुकाममिच्छानुसारेण चारणमस्ति । कथं यत्र वायुपत्न्नयाज्योतिष्मन्तोलोकः पुराणिसन्ति तत्र मामृतं कृधि । यत्र लोकेविष्णोस्तत्परमं पदं स्वरूपं सुकृतकर्मभिर्देवैर्महीदते पूज्यते तत्र माममृतं कृधि । यत्र लोके आनन्दा विषयानभिव्यक्ता निरुपाधिक भगवद्भक्त्यादि व्यंग्याः सुखविशेषाः । मोदाः सजातीयभोगनिमित्तका;
। प्रमुदो विजातीयभोगविशेषनिमित्तकाः । मुदोविजातीयतवेप्यल्पभोगनिमित्तकाः । आसते तिष्ठन्ति । यत्र काम्येच्छायाः कामाः काम्यन्त इति विषयाः आप्ताः पर्याप्ताः तत्र माममृतं कृधीत्यर्थत्यर्थः । एतेन भोगविशेषाल्पभोगजन्यसुखव्यतिरेकेणभोगजन्यसुखाभावान्मोदा इति व्यर्थमिति निरस्तम् । सजातीयभोगाभिप्रायेण मोदा इत्युक्तेः । विजातीयेपि भोगबाहुल्याल्पताविवक्षयामुदः प्रमुदइत्युक्तेः सम्भवात् । अत एव भाष्यान्ते सुखमानन्द इत्युक्तोमोदोभोगनिमित्तकः । प्रमोदस्तद्विशेषोत्थोमुन्नामात्यल्पभोगत इति श्रौतपाठमतिक्रम्यप्रमुद इत्येत द्वयाख्यानानन्तरं मुद इत्येतद्वयाख्यातं बाध्यम् । उदाह्रतानामृचां प्रकृतोपयोगमाह ॥ इत्यादिनेति ॥ आदिपदेन यत्र कामानिकामश्ऱ्चयत्र ब्रध्नस्य विष्यपम् ॥ स्वधाच यत्र तृप्तिश्ऱ्चतत्र माममृतं कृधीत्यादेर्ग्रणम् ॥ सर्वदेवानामिति ॥ देवैःसुकृतकर्मभिरित्युक्तेरिति भावः । सोमयागादिकमित्यादि पदेन महीयते सुकृत कर्मभिरित्युक्तं भगवदर्चनादिकं गृह्यते । एषुवाक्येषुक्तानां मुक्तत्वेज्ञापकमतिमप्याह ॥ सुक्तइत्यादिना ॥ सतत्रपर्येति जक्षन् क्रीडत्रममाण इत्यत्र मुक्त उच्यते नतु क्रियाप्रतीत्यासंसारी । कुतः । अथ यदेनं मुक्तोनुप्रविशति मोदतेप्रमोदत इति बृहच्छतौ प्रतिज्ञानात् । मुक्तनां स्वसङ्कल्पादेवभोगसिद्धिः सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्त इति श्रुतेः । सर्वान्कामानाप्त्वाऽमृतः समभवदिति श्रुतौजगद्वयापारवर्जं सर्वान्कामानाप्त्वेति विवक्षितम् । भोगमात्रस्य विशेषेसत्यपि मुक्तस्य साम्यमेवन भोगविशेषस्तद्वृद्धयादौकारणम् । कुतः अस्मिन्नथर्े । एतमानन्दमयमात्मानमनुप्रविश्यनजायते न म्रियते न ह्रसते न वर्धते यथा कामं रमते यथा काममुपरमत इति लिङ्गसद्भावात् । भोगस्य भावाभावावुक्त्वापिवृद्धयाद्यभावस्योक्तत्वात्तस्यतत्र लिङ्गतवादिति भावः । नमुक्तस्य पुनरावृत्तिः । नच पुनरावर्तत इति श्रुतेः सर्वान्कामानाप्त्वेति श्रुतेश्ऱ्च । नहि
?R
कश्ऱ्चिच्छुभात्पुनरावृत्तिकामोस्तीति भावः । अत्राद्यसूत्रेमुक्तेशभेदोभोगश्ऱ्चोक्तः । मुक्तस्य भगवत्प्रवेशेन मोदोक्तेः । द्वितीयेभोगः । तृतीयेत्वैश्ऱ्वर्यमर्यादोक्त्याभोगोभेदश्ऱ्च । चतुर्थेआनन्दमयात्मप्रवेशोक्त्याभेदोभोगश्ऱ्च । पञ्चमेसर्वान् कामानाप्त्वेत्यपुनरावृत्तिर्भोगः । आदिशब्देन प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेरित्यत्र तायोवेद सवेदब्रह्म सर्वेस्मैदेवाबलिमावहन्तीति मुक्तब्रह्मणः पूज्यत्वम् । स्थितिमाहदर्शयतश्ऱ्चैवं प्रत्यक्षानुमाने इत्यत्र दर्शन्नेव ब्रह्मदर्शन्नेवात्मानं तस्यैवं दर्शयतोनापत्तिनर्विपत्तिः एतत्सामगायन्नास्त इति वृद्धिह्रसाभावोवेदव्याख्यानादिकञ्चोच्यत इति गृह्यते ॥ इत्यादि सूत्रेभ्यश्ऱ्चेति ॥ नकेवलं यत्र ब्रह्मेत्यादि श्रुतिभ्यः । किन्तु पठितसूत्रेभ्यश्ऱ्चमुक्तनां विष्णोर्भेदोभोग इत्येतत्प्रतीयते । आदिपदोपात्तेभ्यः प्रत्यक्षोपदेशदित्यादिसूत्रेभ्यश्ऱ्चग्राव्णासोमेमहीयत इत्यादिनोक्तं ब्रह्मणोऽन्यमुक्तैःपूज्यत्वं प्रतीयत इत्यर्थः । नन्वक्षण्वन्तः यत्र ब्रह्मात्रिनाकेत्रिदिव इत्यादि श्रुतेर्गौणमोक्षपरत्वेनोपचरितार्थत्वं किं नस्यान्मोक्षेऽभिरुचिजननायकेवलमर्थवादत्वं वाकिं नस्यादित्यत आह ॥ नचेति ॥ निश्ऱ्चिताथर्स्येवेदस्य । कुतोनयुज्यत इत्यआह ॥ निर्णयेति ॥ येषां सूत्राणामुपक्रमादिनाश्रुत्यर्थनिर्णायकत्वात् न तन्निणर्ीतार्थस्यौपचारिकत्वमित्यर्थः । सूत्रनिर्णीतार्थस्यापि वेदस्यौपचारिकत्वेबाधकमाह ॥ अतिप्रसङ्गश्ऱ्चेति ॥ आदिपदेनरुच्यर्थमर्थवादत्व कल्पन इत्यर्थः । सूत्रनिर्णीतार्थस्योपचरितार्थत्वे तदनन्यत्वमारम्भण शब्दादिभ्य इत्यादि सूत्रनिर्णीतार्थस्य तत्सत्यं स आत्मातत्वमसिश्ऱ्वेतकेतो इत्यादिमहावाक्यार्थस्याप्युपचरितत्वप्रसङ्गेनाभेदब्रह्मसत्यत्वयोरपि प्रहाणप्रसङ्गइत्यर्थः । ननु सूत्राणामपि निर्णेयत्वात् कथं निणर्ायकत्वमित्यत आह ॥ ब्रह्मसूत्रेति ॥ न्वभावं वादरिराहह्येवमित्यादिसूत्रैर्यत्रत्वस्य सर्वमात्मैवाभूत्तत्केनकंपश्येदित्यादिश्रुत्यवष्यम्भेननिर्गुणब्रह्मभावएव मोक्षोनतु श्ऱ्वेद्वीपादौशरीरेन्द्रियादि वैशिष्ययेनभूरिभोग इति निर्णीतत्वेन कथं तादृशवेदवाक्यानामुपचरितार्थत्वकल्पनेनिर्णयात्मकसूत्रविराधः । पठितसूत्राणामर्थान्तरपरत्वादित्यत आह ॥ बहुनेति ॥ एषशस्त्रस्य निर्णय इति ॥ ब्रह्ममीमांसाशास्त्रेणक्रियमाणोमोक्षपरवाक्यार्थनिर्णय एष एवेत्यर्थः । किञ्च स्पष्यसूत्राणामर्थान्तरं परिकल्प्यपठितश्रुतीनामुपचरितमोक्षपरत्वस्यार्थवादत्वस्य वा कल्पनं किं स्वाचार्यवचनात्क्रियते । उतभोगादिशून्यनिर्गुणमोक्षसत्त्वेनिरवकाशप्रमाणबलात् । आद्यं दूषयति ॥ नचेति ॥ द्वितीयं दूषयति ॥ नचे
?R
ित । ननु सायुज्यलक्षणाप्रसिद्धोत्तमामुक्तिरेवनिर्गुणमुक्तिरित्यत आह ॥ भुञ्जत इति ॥ उक्तञ्चगीताभाष्ये सायुज्यञ्च ग्रहवदिति । बाह्मभोगान्विष्ण्वानन्दाद्यतिरिक्तन् भोग्यान् । बाह्मभोगेप्यवान्तरभेदोमन्तव्य इत्याह ॥ तारतम्येनेति ॥ उत्तमभोग्याः नावराणामित्यर्थः । अवरभोग्यभोगेपि विशेषमाह ॥ कांश्ऱ्चनेति ॥ अवरस्त्ऱ्ादि भोगाभावादिति भावः । जनिमरणाभावलिङ्गेन परममोक्षतयावगतेपि साधर्म्यमागता इति भेदस्योक्तत्वाद्भेदसत्यत्वं भोगादिकं सर्वं युज्यत इत्यर्थः । इदमिति ॥ खण्डार्थमुपसंहरति ॥ तस्मादिति ॥ 11
॥ बृहतीसहस्रं भगवत्तर्पकमिति पूर्वखण्डेनिरूपितम् । प्रसिद्धॠक् सहस्रादर्शनात्कथन्तैःशंसनमित्यतस्तत्सम्पापनप्रकार स्तदभिमानिदेवताः प्रतिपाद्यरूपणिचोच्यन्ते ॥ तद्वाइदमिति ॥ इदं बृहतीसहस्रं बृहतीछन्दोनिबद्धाभिः सहस्रॠग्भिः शंसनीयमिति नियममपहाययैः कैश्रिचच्छन्दोभिर्निबद्धभिः ॠग्भिः शंसिताभिः षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति । तद्वै तथाशंसनेवै । सम्पन्नं सम्पादितं भवतीत्यर्थः । एवं बृहतीसहस्र सम्पादनाप्रकारमुक्त्वाभिमानिदेवतोच्यते ॥ तस्येति ॥ तस्य बृहतीसहस्रस्ययानिव्यंञ्जनानि याव्यञ्जनाभिमानिदेवता तच्छरीरं सैवप्राणिनाशरीराभिमानिदेवतास्वायंभुवोमनुः । योघोषः यघोषाः स्वाराः अज्वर्णाः । यस्तदभिमानीस आत्मासर्वजीवाभिमानी चतुर्मुख;
। यद्वा घोष पदेन कादिवर्गपञ्चकेप्रथमद्वितीयाक्षराणिविहायान्येवर्णाः यरलव शब्दिता अन्तस्थाः हकारश्ऱ्चेत्येते घोषनामकाः । तदुक्तं वेदशिक्षायां । प्रथमांश्ऱ्चद्वितीयांश्चहित्वावर्ग्यास्त्रयस्त्रयः । अन्तस्थाश्ऱ्चहकारश्ऱ्चघोषवन्तः प्रकीर्तिता इति । यऊष्माणः यःशषसहाभिमानी । सप्राणः प्राणवाय्वभिमानीमुख्यवायुः । एतद्विद्यायामधिकारिणः फलञ्चोच्यते ॥ एतदिति ॥ तदेतदभिमानिदेवता उपलक्षणमेतत् । प्रतिपाद्यञ्चविष्णुं विद्वान्वसिष्ठः वसिष्ठोवसतामुत्तमो बभूव । ततः प्रवृत्तिमित्तादेतन्नामधेयं लेभे । ज्ञानफलमुक्त्वाव्याख्यानफलमुच्यते ॥ एतदुहेति ॥ उ उच्चमेतदेव प्रमेयम् । इन्द्रोविश्ऱ्वामित्रायप्रोवाच । अतिरहस्यमुपदिदेशेत्याश्ऱ्चवर्येहशब्दः । व्याख्यैकस्यापि महाफलाकिमुशिष्यान्तरस्येति भावेनोच्यते ॥ एतदुहैवेन्द्रोभरद्वाजायेति ॥ तस्मादेतद्विद्योपदेशबलादेवेन्द्रस्तेन स्वावगमेतेन बन्धुनाविष्णुनातत्प्रसादेन हविरादिस्वीकाराययज्ञेष्वाहूयते । एवं बृहतीसहस्रसम्पादनप्रकार मभिमानिदेवताः प्रतिपाद्य मधिकारिणं फलं चोक्त्वाउपसंह्रियते ॥ तद्वाइदमिति ॥ इदं बृहतीसहस्रं तद्वैतथावै । यावतीभिःॠग्भिःशंसिताभिरित्युक्तसम्पादनाप्रकारेणोक्तभिमानिप्रतिपाद्याधिकारिकत्वेन च सम्पादितं भवतीत्यर्थः । प्रतिपाद्य भगवद्रूपाणां स्पष्यमनुक्तत्वात् तदक्षरगतानि तत्प्रतिपाद्यानिच वक्तुमुच्यते ॥ तस्य वा एतस्येति ॥ तस्य
?R
तथाप्रागुक्तप्रकारेणबृहतीछन्दोबद्धॠक् छंसनमेवकार्यमिति नियममपहाययेन केनापिरूपेण स्वायम्भुवाद्यभिमन्यमानव्यञ्जनादिरूपेणच सम्पन्नस्यैतस्य बृहतीसहस्रस्य तदन्तर्गतरूपसहस्रस्य च प्रत्युच मक्षराणां तन्नामकानां तद्गतरूपाणाञ्च षट्त्रिंशतं भवति । अक्षरगतानां षट्त्रिंशद्रूपाणां स्वरव्यञ्जनभेदेन प्रत्येकं षट्त्रिंशतं भवति । आहत्य बृहतीसहस्रगतामक्षराणाञ्च सहस्राणिषट्त्रिंशतं भवन्ति । तथाक्षराणां व्यञ्जनानां स्वराणां तद्गतरूपाणाञ्च प्रत्येकं सहस्राणिषट्त्रिंशतं भवन्ति । एतेषां रूपाणामधिष्ठानान्तरमुच्यते ॥ तावन्तीति ॥ शतसंवत्सरस्याह्नाम् । अत्राहःशब्दोदिनपरः । अहोरात्रात्मकदिनानां सहस्राणिच तावन्ति भवन्ति । अह्नां रात्रीणाञ्च पृथक् षट्त्रिंशत्सहस्राणिभवन्तीति च ज्ञेयम् । ततश्ऱ्चकिमित्यत उच्यते ॥ व्यञ्जनैरिति ॥ व्यञ्जनगतैरूपैरात्रीराप्नोति स्वरगतैरहान्याप्नोति व्यञ्जनस्वरगतान्येवरात्ऱ्यहगर्तानीति यावत् । एवं बृहतीसहस्ररूपाण्यधिष्ठानान्तराणिचोक्त्वोपसंह्रियते ॥ तद्वाइदमिति ॥ इदं बृहतीसहस्रं तद्गतं रूपजातन्तद्वैतथावै अहोरात्राधिष्ठिततयासम्पन्नमित्यर्थः । एवमुपासकस्यफलञ्चोच्यते ॥ तद्वाइदमिति ॥ इदं बृहतीसहस्रं तत्प्रतिपाद्यरूपजातं तद्वै तथावै । अहोरात्राधिष्ठिततयासम्पन्नमुपासितं चेत् तदाशतवर्षहरिध्यानफलसम्पादकं भवतीत्यथर्ः । किन्तस्य फलमित्यतस्तत्प्रपञ्च्यते । तस्यवाएतस्येति ॥ य एवं वेदेत्यादावनुकृष्यव्याख्येयम् । य एवमुक्तारीत्या बृहतीसहस्रस्वरव्यञ्जनगतरूपाणामहोरात्राधिष्ठितत्वं वेदस एवं विद्वांस्तस्य बृहतीसहस्रस्यैवं सम्पन्नस्यज्ञातस्य शंसितस्य वा परस्तादनन्तरमेवैवं ज्ञानादनन्तरमेवप्रज्ञादिमयःसम्भूयदेवता अप्येतीत्यन्वयः । प्रकृष्यज्ञानरूपत्वात्प्रकर्षेणान्तर्यामिरूपेणज्ञापकत्वाच्चानिरुद्धःप्रज्ञः । सर्वदेवताधिदेवतात्वात्सर्वोत्तमद्योतनादिगुणस्वरूपत्वाच्चप्रद्युम्नोदेवता । पूणर्गुणत्वान्मुक्तिप्रदानेन जीवानां बृंहणाच्चवासुदेवोब्रह्म । अं अमितं ॠतं शास्त्रं स्वविषयेकरोतीति वा नित्यत्वाद्वा सङ्कर्षणोमृतम् । प्रज्ञादिश्ऱ्चतूरूपोभगवान्मयः प्रधानं स्वामीति ज्ञानं यस्य स प्रज्ञादिमयः । एवं पुनः विशेषज्ञानवान् भूत्वादेवताः क्रमेणमारुतान्ता अपि शब्दात्केशवञ्चैतीत्यर्थः । प्राग्व्यञ्जनैरेवरात्रीराप्नोति स्वरैरहानीति बृहतीसहस्रस्वरव्यञ्जन गतानां भगवद्रूपाणामहोरात्रगतत्वमुक्तम् । न केवलमेतावत्किन्तु पुरुषोच्चार्यत्वात्तेषां स्वरव्यञ्जनगतानां द्वासप्ततिसहस्ररूपपाणां पुरुषगतत्वं तदुपास्य त्वं सूर्यनियमिताहोरात्रगतानां सूर्यगतत्वं तदुपास्यत्वं चोच्यते ॥ तद्योहमिति ॥ यो यानिबृहतीसहस्रगतानि स्वरव्यञ्जनभेदेनद्वासप्ततिसहस्ररूपाणि । तत् तानि पुरुषैरहेयत्वादहंनामकानिपुरुषगतानीत्यर्थः । सोसौ स तानि यान्यहोरात्रगतानितान्येवरूपाण्यसौ सूर्ये तिष्ठन्तीत्यर्थः । यद्वा तद्योहंसोसावितिविशिष्यवाक्यम् । तस्यायमर्थः । तत्तस्मात्स्वरव्यञ्जनगतानां पुरुषगतत्वात्स्वरव्यञ्जनगतानामेवप्रागुक्तरीत्याहोरात्रगतत्वादहोरात्रगतानामेवसूर्यगतत्वाद्योहंपुरुषैरहेयत्वादहंनामापुरुषान्तर्गतोद्वासप्ततिसहस्ररूपीभगवान्स एवासौसूर्येपि स्थित इति । न केवलं पुरुषेषुस्थितः पुरुषैरहेयः पुरुषाख्य उपास्यः । किन्तु सूर्यस्थोपि भास्करादिभिरुपास्य इत्युच्यते ॥ योसौसोहमिति ॥ योसौसूर्यगतोविष्णुः सोहं सूर्यादिदेवैरहेय उपास्य एवेत्यर्थः । तदुक्तमृषिणा । तत्सूर्यान्तर्गतस्य बृहतीसहस्रस्वरव्यञ्जनाहोरात्राद्यचेतनगतत्वं पुरुषादिचेतनगतत्वञ्च मन्त्रद्रष्योक्तम् । सूर्यः सूयर्ान्तर्गतोभगवान् जगतोजङ्गमस्य चेतनस्य । तस्थुषः स्थावरस्य । गमनाद्यभावसाम्यात्तस्थुष इत्यचेतनमुच्यते । तथाच तस्थुषः अचेतनस्य । आत्मा अन्तर्यामीत्यर्थः । सूर्यान्तर्गतस्य स्वान्तर्यामित्वमवश्यं ज्ञातव्यं मुमुक्षुणेत्युच्यते ॥ एतदिति । एतत्सूर्यान्तर्गतं नारायणाख्यं ब्रह्मैवाधिकारीजीवः स्वस्योपसमीपईक्षेतेत्यर्थः । अध्यायान्तत्वाद्द्विरुक्तिः ॥ अप्रतीतेस्तद्वा इदमित्येद्वयाचष्ये ॥ यावतीभिरिति ॥ व्यञ्जनादीनां शरीराद्यभेदप्रतीतेःस्ववाक्येन यथा वद्वयाख्याय प्रमाणमप्याह ॥ तत्रेत्यादिना ॥ वायुरिति ॥ प्राणवाय्वधिष्ठित इति ज्ञातव्यम् । अभिमानिदेवताज्ञानमात्रेणवसिष्योवसिष्ठोवभूवेति प्रतीयते । यज्ञेषुहूयत इत्यत्रेन्द्र एव यज्ञेषु आहुतितया हूयत इति चान्यथाप्रतीतेर्यथावद्वयाकुर्वन् यउष्माणः सप्रमाण इत्यनन्तरमध्याहार्यमाह ॥ प्रतिपाद्यइति ॥ एतद्धस्मेत्यादिव्याचष्ये ॥ एतेषामिति ॥ विष्णुमुपास्यैव नतु देवतोपासनामात्रेणवसिष्योवसिष्ठोभूद्वसतामुत्तमः । ततश्ऱ्चवसिष्ठनामाभूदित्यर्थः । ननु विष्णुमुपास्येति कथं ज्ञायत इत्यतः एतदुहैवेन्द्रोविश्ऱ्वामित्रायेत्यादिना वसिष्ठावगतवितद्यामेवेन्द्रोविश्ऱ्वामित्रभरद्वाजाभ्यामुवाच तस्मादेतद्विद्याबलादेवतेनस्वविद्यावगते बन्धुनाविष्णुनाय ज्ञेष्वाहूयत इत्युच्यमानत्वाद्वसिष्ठावगतविद्याविषयोपि स एवेत्याशयेनैतदुहैवेन्द्रइत्यादि व्याचष्ये ॥ एतामिति ॥ विद्याधीशेन विद्याविषयतया तदधीशेन तत्फलप्रापकतया बन्धुनेत्यस्य तात्पर्यं विष्णुप्रसादत इति ॥ बृहतीसहस्रस्य षट् त्रिंशतमक्षराणामित्येतद्वयाचष्ये ॥ षट्त्रिंशदिति ॥ बृहतीसहस्रस्य प्रत्युञ्चविद्यमानोविष्णुरक्षरसमसङ्खययाषट्त्रिंशद्रूपवान् षट्त्रिंशदक्षरेषुस्थितः एकैकाक्षरगतोविष्णुःस्वरव्यञ्जनभेदेन द्विधाभूतः पृथक् षट्त्रिंशद्रूपवान् व्यञ्जनेषुषट्त्रिंशत्सङ्खयाकेषु चशब्दात्स्वरेषुचस्थित इति योजना । व्यञ्जनैरेवरात्रीराप्नोतीत्येतद्वयाचष्ये
?R
॥ तान्येवेत्यादिना ॥ षट्त्रिंशति सहस्राणीति वक्ष्यमाणमत्रापि योज्यम् । यानिव्यञ्जनगतानिषट्त्रिंशति सहस्राणिविष्णुरूपाणितानिरात्रीणामधिदैवताः अधिदैवतानि । यानिस्वरगतानिषट्त्रिंतिसहस्राणिहरेरूपाणितान्यह्नां दैवतानीति योजना । कथं स्वरव्यञ्जनगतानां रूपाणां पृथक् षट्त्रिंतिसहस्रत्वलाभः । केनच रूपेणतान्यभिव्यक्तानीत्यतः षट्त्रिंशद्रूपवानिति सङ्क्षेपेणोक्तस्यविवरणमेकैकञ्चेति । सहस्रं बृहतीसहसं गतं विष्णशेस्तत्सहस्ररूपमेकैकं षट्त्रिंशतिधाव्यूह्यविभज्यस्वाधिष्ठानभूतॠगक्षरेषुस्थितम् । एकैकमेकैकाक्षरगतं विष्णोस्तद्रूपं द्वेधाव्यूह्यविभज्यव्यञ्जनेषुस्वरेषुच स्थितमाहत्यषट्त्रिंत्सहस्राक्षरगतं विष्णोस्तद्रूपजातं स्वरव्यञ्जनभेदेन पृथक् षट्त्रिंशति सहस्रधाव्यूह्यव्यञ्जनेषु चशब्दात्स्वरेषुच स्थितम् । तत्तस्य परमात्मनोबृतीसहस्रं बृहतीसहस्रगतं रूपसहस्रमिदमेवं द्वासप्तति सहस्रतया शतसंवत्सराहोरात्रगततयाच सम्पन्नमित्यर्थ उक्तो भवति । एवमुपसंहारपरतयाव्याख्याय फलकथनपरत्वेन व्याचष्ये ॥ द्वासप्ततिसहस्राणिरूपाण्येवं रमापतेरित्यादिना ॥ बृहतीसहस्रवर्णानां दैवतानिरमापतेरुत्तमानिद्वासप्ततिसहस्राणिरूपाण्येवमुक्तरीत्याशताब्दानामहोरात्रदैवतानिध्यात्वाशतवर्षहरिध्यानफलमापनोति इति योजना । तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य परस्तादि व्याचष्ये ॥ एवं ज्ञात्वेत्यादिना अस्याः परत एव चेत्यन्तेन ॥ तत्र बृहतीसहस्रस्य सम्पन्नस्य परस्तातप्रज्ञादिमयः सम्भूयदेवता अप्येतीत्यस्याक्षरार्थः । सम्पादनाच्चविद्याया आस्याः परत एवच ॥ प्रज्ञादि मय एवं सम्भूत्वादेवान् क्रमेण च । एतिमारुतपर्यन्तान्मारुतेन च केशवमिति । देवता अपीत्यत्रापिशब्दार्थः केशवञ्चेति ॥ विद्यासम्पादनं नामतच्छंसनमात्रञ्चेत्कथं केशवान्तप्राप्तिरित्यतः प्रवृत्तम् ॥ य एवं वेदसएतस्य सम्पन्नस्येति ॥ य एवं बृहतीसहस्रवर्णैर्द्वासप्तति सहस्ररूपाण्युच्यन्तेतान्येवाहोरात्राधिष्ठितानीत्यादिरूपेण वेद तस्य बृहतीसहस्रस्यै तस्यैवं सम्पन्नस्य ज्ञातस्यशंसितस्य परस्तादित्यर्थमभिप्रेत्योक्तम् ॥ एवं ज्ञात्वेति ॥ सम्पाद्यशंसनं कृत्वा । अस्याः विद्यायाः शंसनात्परत इत्यन्वयः । प्रज्ञामयपदार्थमाह ॥ ज्ञानादिति ॥ प्रकृष्यज्ञानरूपक इति हेतुगर्भं विशेषणम् । तथाच प्रकृष्यज्ञानरूपत्वातप्रकृष्यज्ञानसन्ततेः । प्रज्ञामयोदेवतामय इत्यादौमयशब्दार्थमाह ॥ प्राधान्यमिति ॥ अयं प्रज्ञामयादि शब्दान्तर्गतः । प्रज्ञामयशब्दाथर्ानुवादपूर्वं देवतामयोब्रह्ममयोमृतमय इति पदानामप्यर्थमाह ॥ प्रधान इति ॥ देवशब्दःसर्वदेवतासाधारणोपि मुख्येप्रयुक्तश्ऱ्चेत्सर्वदेवोत्तमत्वमेवप्रतिपादयतीति भावेन तदर्थानुवादःकृतोधिदेवतेति ॥ प्रज्ञारूपोदेवतोत्तमःब्रह्मामृतं च हरिरस्योपासकस्य यस्मात्प्रधानस्तेन कारणेनाय ब्रह्मादिमय उच्यत इत्यर्थः । प्रज्ञादिमय इति वक्तव्येब्रह्मादिमय इति कथमुक्तति चेत् । इत्थम् । प्रज्ञादिशब्दैरनिरुद्धादिमूर्तयोविवक्षिता इति वक्ष्यति । अनिरुद्धादिव्यूहेच वासुदेवान्त्यगतः प्रज्ञादिमय इत्युक्तेऽमृत पदेन वासुदेव इति प्रतीयते तथामाविज्ञायीति भावेनोपान्त्यब्रह्मपदस्यान्तेनिवेशःकर्तव्य इति दर्शयितुं व्युत्क्रमेणब्रह्मादिमय इत्युक्तम् । देवताशब्दं प्रकारान्तरेणनिर्वक्ति ॥ सर्वोत्तमेति ॥ सर्वोत्तमद्योतनादिगुणस्वरूपत्वादित्यर्थः । पूर्णगुणत्वाच्चेति च शब्देनमुक्तिदानेन बृंहणादिति वक्ष्यमाणं समुच्चीयते । अमृतं तथेति तथा शब्देन अमंकरोति यच्छास्त्रमिति वक्ष्यमाणं समुच्चीयते । ननु प्रज्ञादिर्मयोयस्य स प्रज्ञादिमय इत्यर्थाङ्गीकारे सम्भूयेत्ययुक्तम् । भगवत्प्रधानकत्वस्य नित्यसिद्धत्वादित्यतो ज्ञानान्नारायणस्येत्येतद्विवृणोति ॥ एतादृशञ्चेति ॥ य एतादृशं विष्णुं प्रज्ञादिभिर्गुणैः स्वस्मात्प्रधानं वेत्ति परेभ्यश्ऱ्चसदाधिकं वेत्ति स प्रज्ञादिमयः प्रकीतिर्त इत्यर्थः । तद्योहमित्येतद्वयाचष्ये ॥ द्वासप्ततिसहस्राणीति ॥ स्वरव्यञ्जनभेदतोबृहतीसहस्रसंस्थानि रमापतेर्द्वासप्तति सहस्ररूपाणि रत्तान्येवाहं पुरुषस्थानीत्यर्थ इति भावः । बृहतीसहस्ररूपाणां पुरुषानुबन्धेनिमित्तमाह ॥ यस्मादिति ॥ बृहतीसहस्रस्य व्याप्तत्वात्कथं पुरुषस्थितत्वमित्यत उक्तम् ॥ तच्छंस्यमिति ॥ तदुपपादनं नरं पुरुषमृतेन व्यज्यत इति ॥ तस्मात्तान्येवपुरुषस्थानीति योजना । सोसावित्येतद्वयाचष्ये ॥ द्वासप्ततीति ॥ तान्यहर्निशासुविद्यमानानि द्वासप्तति हस्राणि विष्णुरूपाण्यसौ सूर्येपि स्थितानीत्यर्थ इति भावः । अहोरात्रगतस्य सूर्यानुबन्धेहेतुमाह ॥ अहइति ॥ हि यस्मादहोरात्रं सूर्यगतं सूर्यनियमितं तस्मात्सूर्येपीति योज्यम् । तद्योहंसोसावित्येतदेकवाक्यतयापि व्याचष्ये ॥ तस्मादिति ॥ यस्द्बृहतीसहस्रगतमेवपुरुषगतमहोरात्रगतञ्चाहोरात्रगतमेवसूर्यगतं तस्माद्योयं जीवगतः सदाऽहेयत्वादहं नामा स एव साक्षादनुपचारेणासौसूर्यसंस्थोनारायणः । नतु सादृश्यादभेदोपचार इत्यर्थः । योसौसोहमित्येतद्वयाचष्ये ॥ योसाविति ॥ एतदुहैवोपेक्षेतेत्येतद्वयाचष्ये ॥ एवमिति ॥ एवमुक्तप्रकारेण एकएवेति हेतोः सूर्यादिस्थितं नारायणं जीवसमीपगं ईक्षेतेत्यर्थः । ननु बृहतीसहस्रस्व सम्पन्नस्योपासितस्य परस्तादनन्तरमिति न वक्तव्यम् साधनानन्तरं साध्यस्यसिद्धत्वादित्यत आह ॥ सम्पन्नस्यपरस्तादनन्तरमेवेति ॥ I-7
?R
एवशब्दव्यावर्त्यं दर्शयति ॥ नपुनरिति ॥ विद्यान्तरोपासकानां कदाचिद्विकर्मादिकरणेन
?R
शरीरान्तरप्राप्त्योपासनाफलापरोक्षज्ञानप्रतिबन्धेनोक्तफलविलम्बो भवति । बृहतीसहस्रोपासकानां तु कर्मान्तरस्यैवाकरणेन शरीरान्तरारम्भाभावात्सम्पादनान्तरमेव प्रज्ञामय इत्यादि विशेषज्ञानं ततश्ऱ्चापरोक्षद्वारोक्तं फलमिति भावः । ननु प्रज्ञादि शब्दानां प्रकृष्यज्ञानादिगुणसमर्पकत्वे प्रज्ञादि गुणविशिष्यो भगवान्मेमयः प्रधान इति ज्ञानवान् भूत्वेत्येकोक्त्यैवसम्भवात्पृथङ्मयशब्दोव्यर्थ इत्यत आह ॥ प्रज्ञामयइति ॥ नकेवलं प्रज्ञादिशब्दोभगवतो विशिष्यज्ञानादि गुणसमर्पकः किन्त्वनिरुद्धादिरूपचतुष्ययपरश्ऱ्चातस्तेषां परस्परमेकप्रकारतया सर्वाधिक्यं ज्ञातव्यमित्यभिप्रायेणपृथङ्मयशब्द इत्यर्थः । प्रज्ञादिशब्दानामनिरुद्धादिपरत्वं प्रज्ञादिशब्दानामर्थान्तरकथनपूर्वं प्रमाणेनाह ॥ अन्तर्यामीति ॥ प्रकर्षेणज्ञापयतीति प्रज्ञ इत्यर्थः । द्योतनाच्चेति चशब्देन क्रीडादिगुणानां ग्रहणम् । पूर्वोक्ताधिदेवतात्वस्य ग्रहणं वा । अमममितं ॠतं शस्त्रं स्वस्मिन्विषये स्वप्रतिपादकतया पुनः पुनः करोति निमिमीतेव्याकरोतीति यत्तस्मात् । यद्वा अमममितं शास्त्रं स्वविषयेॠतमवगतं करोति यस्मात्तस्मादित्यर्थः । अधिकारिणां वेदादि सर्वशशस्त्राणां स्वविषयतयाबुद्धिकर्षकः सङ्कर्षण इति यावत् । ॠतमिति निष्ठा भूतेप्रतीयऽतःसदाॠतमवगतमिति प्रदर्शनाय पुनः पुनरित्युक्तम् । बृंहणाद्गुणैःपूरणात् । अन्तर्यामिरूपेणज्ञाननिरोधपरिहारकत्वादनिरुद्धः प्रकर्षेणद्योतमानत्वात्प्रद्युमनः सम्यक् पुनःपुनः स्वविषयेशास्त्राणां व्याख्यानेन कर्षकत्वात् स्वविषयताबुद्धिकर्षकत्वाद्वासङ्कर्षणः । वानेन स्वस्मिन्नवस्थापनेन मुक्तिदानेन देवयति क्रीडादिगुणाकरान् करोति वानात्सूतेर्देवनादित्युक्तरीत्यासकलगुणप्रदत्वाद्वासुदेव इति प्रज्ञादिशब्दानामनिरुद्धादिशब्दसमानार्थकत्वं बोध्यम् । प्रज्ञादिमय एवं सभूत्वेत्युक्तप्रकारेण प्रज्ञादिर्मेमयः प्रधान इति ज्ञानवान् भूत्वेत्येतावतापूर्णत्वात्समित्युपसर्गः किमर्थमित्यतः संशब्दार्थकथनपूर्वं सम्भूयदेवता अप्येतीति वाक्यार्थं स्ववचनप्रमाणाभ्यां स्पष्ययति ॥ सम्भूयेत्यादिना ॥ युगपत्सर्वदेवताप्राप्तिप्रतीतेः क्रमेणेत्युक्तम् । नितरामाधिक्यं पुनःपुनःर्ज्ञायत इति योज्यम् । तद्योहमित्येतत्स्ववचनेन व्याचष्ये ॥ बृहतीति ॥ एतेन योयानिबृहतीसहस्रस्थितानि विष्णुरूपाणितत्तानिपुरुषस्थितानि विष्णुरूपाणिपुरुषैरहेयत्वादहं नामकानीत्यर्थः । सोसावित्येतद्वयाचष्ये ॥ तान्येवेति ॥ यान्यहोरात्रगतानितान्येवासौसूर्येस्थितानीत्यर्थः । तद्योहंसोसावित्येतदेकवाक्यतयापि व्याचष्ये ॥ बृहतीति ॥ यानिबृहतीसहस्रस्थितानि विष्णुरूपाणि पुरुषाणां तछंसकत्वात् तानिपुरुषेषुद्वासप्तति सहस्रनाडीषुस्थितानि पुरुषैरहेयत्वादहं नामकानितान्येवासौ सूर्येस्थितानि । उत्तरायणदक्षिणायन भेदेन भिन्नद्वासप्तति सहस्रनाडीषुतावत्सङ्खयाकसूर्यरश्मीनामाततत्वेनानुबन्धात् । योसौसोहमित्येतद्वयाचष्ये ॥ यानीति ॥ एतदुहैवेत्यतद्वयाचष्ये ॥ एतदेवेति ॥ समीपे स्वान्तर्गततया । अपव्याख्यामपाकरोति ॥ नात्रेति ॥ सचासौयश्ऱ्चतद्योऽहंसप्रसिद्धोऽसौसूर्य एव । उपचारनिवृत्त्यर्थमुच्यतेयोसौसोहमिति । तदुकतमृषिणा । सूर्योजगतस्तस्थुषसूर्यः । अभेदश्ऱ्चभागत्यागलक्षणया । तथाचेश्ऱ्वरपदं शुद्धचैतन्यपरमिति । ब्रह्मैवेश्ऱ्वरः कुतोन विवक्षित इत्यत आह ॥ उपेति ॥ उपसमीपेईक्षेते त्यतिसमीपेदर्शनवचनान्नात्रैतच्छब्दपरामृष्यमिति भावः । ननूपेत्यस्योपसर्गमात्रत्वादुपेक्षेतेत्यस्येक्षेतेत्येवार्थः । उपसर्गाणामर्थान्तराभावादित्यत आह ॥ नचेति ॥ कुतोनयुक्तमिति चे । त्किमुपसर्गाणामनर्थकत्वं निगमनिरुक्तव्याकरणबलात्कल्प्यते । उतस्वाचार्यवचनबलात् । आद्यं दूषयति ॥ नहीति ॥ निरर्थकत्वं स्मृतिविप्रतिषिद्धञ्चेत्याह ॥ उक्तञ्चेति ॥ उच्चाराद्यर्थमिति छन्दोभङ्गभयेन श्लोकपूरणार्थमित्यर्थः । स्वरादिकं सर्वमहार्थमेवेत्यर्थः । अतिप्रसङ्गपराहतञ्चेत्याह ॥ सुकरञ्चेति ॥ उपेत्युपसर्गस्यनिरर्थकत्वेईक्षेतेत्यादिपदानामपिनिरर्थकत्वं स्यादविशेषादित्यर्थः । नन्वीक्षदर्शनाङ्कानयोरित्यादि तद्वयाख्यापरवाक्यैरर्थवत्त्वं तेषामित्यत आह ॥ यैश्ऱ्चवाक्यैरिति ॥ द्वितीयं दूषयति । नचमानुषेति । ननूपसर्गाहिधातुलीनस्यार्थस्य व्यञ्जकानार्थान्तरप्रतिपादका इति हि भवद्भिरप्यङ्गीकृतम् । ज्योतिश्ऱ्चरणाभिधानात् नभावोनुलब्धेः कृष्णासावर्णतश्चासीदुत्कृष्यत्वाच्चयोषितामित्यादौ तदवगमात् । सुधादौतथाव्याख्यातत्वात् । तथाचोपेत्युपसर्गोपीक्षणस्यसम्यक्त्वलक्षणार्थविशेषक एव । तथाचोपेक्षणं नामोपपन्नतयेक्षणं सम्यगीक्षणमेवपर्यवस्यति । तर्कताण्डवोक्तरीत्योपसर्गस्यार्थान्तरपरत्वेपि ईक्षतिरीक्षणमाहोपसर्ग उपपन्नत्वमतोनानर्थक्यमिति चेन्न । तथात्वेप्रेक्षेत समीक्षेतेत्याद्युपसर्गप्रयोगः स्यान्नोपेति । तस्य सामीप्येशक्तत्वात् । तस्योपव्याख्यानमित्यादावपि तस्योङ्कारस्योपसमीपेशक्यतयाविद्यमानस्यार्थस्य व्याख्यानं क्रियते । नतु शक्यर्थव्यवहितस्य लाक्षणिकार्थस्येत्यर्थाङ्गीकारात् । ऐक्येनेक्षणस्यानुपपन्नत्वेन समीक्षणत्वाभावाच्चेति भावः । एवमेतच्छब्देनैक्यपरामर्शेएतदुपेक्षेतेत्युपपदवैयर्थ्यमभिधाय तद्योहमित्यत्रैक्यमेवनोक्तमतश्ऱ्चतत्परामर्शोऽयुक्त इति भावेनाह ॥ जीवेति ॥ जीवेश्ऱ्वरैक्यस्यैतदर्थत्वाङ्गीकार इत्यर्थः । ननु तद्योहंसोसावित्यत्रपुरुषानुवादेन तस्य सूर्येणैक्यमुच्यते । योसावित्यत्र सूर्यानुवादेन तस्य पुरुषेणैक्यमतोनवैर्थ्यमित्यत आह ॥ नह्यस्येति ॥ यत्परिहाराथर्ं पुनर्वचनमिति शेषः । किञ्चास्य पुरुषस्य तेनाभेदस्तस्य सूर्यस्यानेनपुरुषेणाभेद इति
?R
वाक्यार्थयोः पुरुषसूर्यधर्मिकयोरभेदयोरभेदोवाभेदोवा । नाद्योवैयर्थ्यानिस्तारात् । द्वितीयेदोषमाह ॥ अस्यतस्येति ॥ अस्यसूर्येणाभेदस्तस्य पुरुषेणाभेद इति वाक्यर्थयोःपुरुषसूर्यधर्मिकयोरभेदयोर्भेदाङ्गीकारेनायमभेदोमुख्यः । नहि पुरुषसूर्यधर्मिकयोरभेदयोर्भिन्नत्वेपुरुषसूर्ययोरभेदोमुख्यःस्वरूपतादात्म्यलक्षणो भवति । किन्तु यदधीनायस्य सत्तातत्तदिशाराजाराष्य्रं राष्य्रमेवराजेति वत्स्वस्वामिनोरभेदोपचारोवा । चैत्रएव मैत्रोमैत्रएव चैत्र इति वत्स्नेहविशेषेणमत्यैक्यं वेत्यर्थः । उपचरिताभेदपक्षेपि पुनर्वचनं व्यर्थमित्यत आह ॥ तत्रहीति ॥ ननु तात्पर्यद्योतनायाभ्यासोयमतोन वैयर्थ्यमित्यत आह ॥ अभ्यासत्व इति ॥ द्विविधाप्रयुक्ताचेदर्थान्तराथर्ाऽर्थान्तरपरा । तद्योहमित्यहंशब्दस्य पुरुषैरहेयत्वार्थाङ्गीकारेयोसौसोहमिति द्वितीयाहंशब्दस्य वैयर्थ्यमित्यत आह ॥ अहंशब्दस्येति ॥ अहंशब्दस्य भगवत्परत्वेवाक्यत्रयं पठति ॥ अःइति ब्रह्मेति ॥ अःइत्यकारेणब्रह्मोच्यते । तत्रब्रह्मण्यहमित्यपि नामवाचकतयागतमवगतम् । अहमहंशब्दवाच्यमिमं भगवन्तं न जानाति । वै । तस्य ब्रह्मण उपनिषद्रहस्यं नाम । नवा अहमिति द्वितीयश्रुतौअहं शब्दोस्मच्छब्दादेशोजीवपरःकिंन स्यादित्यत आह ॥ अहमिति । पुरुषव्यत्ययस्त्वगतिकागतिरिति भावः । ननु तस्योपनिषदिति तृतीयश्रुतौतच्छब्देन जीवः परामृश्यत इति किंनस्यादित्यत आह । तस्येति ॥ योयं दक्षिणेक्षन्पुरुषस्तस्य भूरिति शिरःभुव इति बाहूसुवरिति प्रतिष्ठेतस्योपनिषदहमित्यक्षिस्थतया प्रकृतो भगवानेवपरामृश्यत इत्यर्थः । ननु दक्षिणेक्षन्पुरुष इति प्रक्रान्तोप पुरुषोजीव एवेति चे त्सकिं यस्येदमक्षिस एव स्वाक्षिणिशिरोबाह्वादिमत्त्वेनोच्यते । उतान्यस्तदिन्द्रियाद्यधिष्ठातातत्वदेदादि जर्ीवः । आद्येपि जीवरूपं शिरोबाह्वादिमत्तयाह्रदि वर्तत इत्यङ्गकृत्याक्षिण्यपि पृथक् शिरोबाह्वादिकमस्तीत्युच्यते । उताक्षिण्येववर्ततेहृदिनास्तीति । आद्यं दूषयति ॥ नहीति ॥ प्रमाणाभावादिति भावः । प्रमाणविरुद्धञ्चेत्याह ॥ हृदीति ॥ तस्य स्वरूपं शिरोबाह्वादियुक्तं विशिष्यं रूपं हृद्येवस्थितं हि हृदिह्येष आत्मेत्यादि श्रुति प्रसिद्धमित्यर्थः । द्वितीयमपिदूषयति ॥ हृदीति ॥ हृदिस्थितमेवनाक्षिस्थितमित्यर्थः । ननु जीवस्य कथं अक्षिण्यपि शिरोबाह्वादिवैशिष्ययेनावस्ताने प्रमाणाभावः । तत्र तत्र परिज्ञानान्यथानुपपत्तेरेवप्रमाणत्वात् । चक्षुरादिषुरुषाणिजाग्रत्कालेतयोःसदा ॥ बहूनिसन्तितान्येवयदैकीभावमाप्नुयुः ॥ हृदयस्थेनरूपेणतदाजीवोनकिञ्चन ॥ जानातीति विदुः प्रज्ञा इति बृहद्भाष्योदाहृत प्रमाणसद्भावाच्चेत्यत आह ॥ हृदीति ॥ जागरितेपि हृद्येवशिर आद्यं गसाकल्येन स्थितं तस्य स्वरूपमक्ष्यादिष्विन्द्रियेषु तत्र तत्र परिज्ञानाय वक्ष्यमाणरीत्याप्रकाशतोंशतोवाविशेषतः सन्निहितं भवति । नतु शिर आद्यं गसाकल्येन । चक्षुरादिषुरूपाणीत्यत्रापिरूपपदेन विशेषसन्निधानमेवोक्तमिति भावः । अङ्गसाकल्येनैकत्रावस्थानेपिसन्निधानमन्यत्रदृष्यान्तेनाह ॥ दीपेति ॥ यथादीपाख्यं ज्योतिः स्वरूपेणवर्त्याद्यधिष्ठितमपि प्रकाशतोगृहं व्याप्यतिष्ठति तथेत्यर्थः । उपलक्षणमेतच्चन्दनबिन्दुवदित्यपि द्रष्यव्यम् । यद्वा न वयमेकदैवजागरिते हृद्यक्षिणिच पृथक् शिरोबाह्वाद्यङ्गसाकल्यमस्तीति वदामः । किन्तु साप्तौजीवेङ्गसाकल्येन हृदि वर्तते । हृदिह्येष आत्मेति वाक्तद्विषयम् । जाग्रदवस्थायां हृदयं परित्यज्य दक्षिणाक्षिप्रतिगच्छति स्वप्ने कण्ठदेशम् । तदुक्तं हृदयस्थात्पराज्जीवोदूरस्थोजाग्रदेष्यति ॥ समीपस्थस्तथास्वप्नं स्वपित्यस्मिन् लयं ब्रजन्निति ॥ तथाच जाग्रत्कालविवक्षयादक्षिणाक्षिस्थस्याङ्गसाकल्यान्मानमविरुद्धमित्यत आह । हृदिस्थितमेवेति ॥ सर्वदा हृदिस्थितमेवतस्य स्वरूपं जागरितेऽपि पदेन स्वप्नसुषुप्त्युभयावस्थामूर्च्छासु अक्ष्यादिषु अक्षिकण्ठहेशहृदयेषुविशेषतः सन्निहितं भवति दीपप्रकाशवत् । यथादीपाख्यं ज्योतिः स्वरूपेणवर्त्यधिष्ठितं तत्प्रकाशस्तु गृहेसर्वत्रस्थितः सूक्ष्मवस्त्रेणरुद्धः । वस्त्रान्तर्भागेबहुलंसंनिहितस्तद्वद्बहिरल्पसन्निधियुक्तः घटादिनाप्रदीपावरणेतत्कलाविशेषोपि दीपदेशमेवगच्छति । तथाजीवः सर्वदास्थितः हृदये । जाग्रत्कालेतत्रतत्रपरिज्ञानायप्रकाशतः सूक्ष्मचिद्द्रव्यरूपेणवा सर्वशरीरं व्याप्तः । दक्षिणाक्षिणितु कलाविशेषेणसन्निहितः । तथास्वपनादावपि कण्ठदेशादौकलाविशेषेणसन्निहितः पुनरविद्यावृतः सुप्तौहृदयस्थङ्गसाकल्ययुक्तेस्वस्मिन्नन्तर्भावितकलाविशेषोवतिष्ठते । कलाविशेषविवक्षयैवहृदयस्थात्पराज्जीव इति वचनमिति भावः । अङ्गसाकल्येनहृद्यवस्थानं चिद्गुणेन चन्दनांशवत्सूक्ष्मांशैर्वावतस्यावइनमित्यत्रसूत्रसम्मतिमाह ॥ अवस्थितीति ॥ ननु यदुक्तमविरोधश्ऱ्चन्दनवदितिदयुक्तम् । चन्दनबिन्दोघर्नीभूतांशिनैकदेशेऽवस्थानं सूक्ष्मांशैःपरितोवस्थानमित्यवस्थितौवैशेष्याद्युज्यते सर्वशरीरव्याप्तिर्नैवं प्रकृत इति चे ज्जीवस्यापिहृदिह्येष आत्मेति प्रमाणबलाद्धृदिसमग्ररूपेणावस्थानाभ्युपगमादिति प्रथमसूत्रार्थः । यथाऽऽलोकस्य प्रकाशगुणेन व्याप्तिर्ज्योतीरूपेणाव्याप्तिरेवञ्चिद्गुणेनव्याप्तिर्जीवरूपेणाव्याप्तिरिति वेति द्वितीयसूत्रार्थः । ननु तस्योपनिषदहमिति बृहदारण्यकेतच्छब्देन योयं दक्षिणेक्षन्पुरुष इत्युक्ताक्षिस्थ पुरुषःपरामृश्यते । सच पुरुषोयस्येदमक्षिसजीवो न भवति ।
?R
नापिविष्णुःकिन्तु जीवानामक्षिस्थःसूर्याख्यो जीवविशेष एवेतिप्राक्शङ्कित द्वितीयविकल्पं दूषयन् प्रथमपक्षेदूषणान्तरमाह ॥ आदित्येहिरण्मय इति ॥ इत्यादिकथनाच्चेति ॥ इत्यादिनाछान्दोग्येसमाख्यानाच्चाक्षिसंस्थितोभगवानेवाहं शब्दोदितः । अयमत्रोत्तरक्रमः । योयं दक्षिणेक्षन्पुरुष इति बृहदारण्यकेऽक्षिस्थपुरुषोविष्णुरेव । न सूर्यः नापिजीवः । य एषोन्तरक्षिणिपुरुषो दृश्यत इति छान्दोग्यसमाख्यानात् । नच तत्रपि सूर्यादिर्जीवविशेष एवाक्षिस्थपुरुष इति वाच्यम् । तत्रादित्येहिरण्मयपुरुषमुक्त्वातस्य पुण्डरीकाक्षत्वमभिधायानन्तरमेवय एवषोन्तरक्षिणिपुरुष इत्युक्तस्याक्षिस्थितस्यापि तस्यैतस्य तदेतदेवरूपं यावमुष्यगेष्णौतौगेष्णौ यन्नामतन्नामेति हिरण्मयत्व पुण्डरीकाक्षत्वाद्यादित्यां तःस्थपुरुषलक्षणलक्षितत्वकथनात्तस्य च विष्णुलक्षणत्वादिति । छान्दोग्येक्षिस्थपुरुषस्य जीवत्वव्यावर्तकं लिङ्गान्तरमाह ॥ स एष एवैतस्मादिति ॥ किञ्च चद्योहमित्यत्राहं शब्दस्यास्मच्छब्दार्थत्वमङ्गीकृत्यतस्य सूर्याभेदेव्याख्यायमानेसूयर् आत्मेत्युदाहृत मत्रं विरोधस्थत्र सूर्यस्य जीवेभ्योभेदप्रतीतेरित्याह ॥ चक्षुरिति ॥ मित्रस्य वरुणस्याग्नेस्तदितरस्य जङ्गमस्यस्थावरस्यच चक्षुर्ज्ञानप्रदः आत्मचेत्यर्थः । सूर्यआत्मास्वरूपमिति किंनस्यादित्यत आह ॥ यच्चेति ॥ हियस्मात्सवर्ान् गुणानाप्नोति यस्मात्सर्वं भृत्यतयाऽऽदत्तेस्वीकरोति यस्माच्चेहलोकेविद्यमानान्विषयानत्ति यस्माच्चास्यभावोज्ञानादिरूपोधर्मःसत्तावाइहकालेदेशेच सम्यक् ततो विस्तृतः तस्मादात्मेति भण्यत इति पृथगन्वयः । न केवलूं तद्योहमित्यस्यैक्यपरत्वेतत्रोदाहृतमन्त्रविरोधःपूर्ववाक्यविरोधश्ऱ्च किन्तु देवताआप्येतीति फलवाक्यविरोधश्ऱ्च । तत्र देवताप्राप्त्युक्तेरिति भावेनाप्येतीत्यस्योक्तं प्राप्त्यर्थत्वं साधयति ॥ देवता आप्येतीति ॥ नन्वप्ययोलयःप्रसिद्धस्तत्कथमेतीति प्राप्त्यर्थत्वमित्यत आह ॥ लयश्ऱ्चेदिति ॥ दूषणान्तरमाह ॥ नचेति ॥ ननु मयटस्तादात्म्येपि स्मरणाद्ब्रह्ममयोब्रह्मीभूत इति पूर्ववाक्य एवैक्योक्तेः कथं भदस्यैवात्रप्रकृतत्वमित्यत आह ॥ मयट्शब्दस्येति ॥ तादात्म्यार्थाङ्गीकारेचेति ग्राह्यम् । ब्रह्क्यस्यानाङ्गतुकत्वात्सम्भूयेत्येतन्नयुज्यतेदेवता अप्येतीति च न युज्यते । नहि ब्रह्मीभूतस्य देवताप्राप्तिस्तत्रलयोवायुज्यत इति भावः । ननु मयापि ब्रह्ममयोब्रह्मीभूतोहमित्युपासनावान् सम्भूयेति व्याक्रियते । अतोब्रह्मीभावस्य नित्यसिद्धत्वेपि नानुपपत्तिरित्यत आह ॥ उपासनाया इति ॥ ननु भेदोपासनायाः पूर्वसिद्धत्वेपि तस्य सम्पन्नस्य परस्तात्प्रज्ञादिरूपब्रह्मैक्योपासनावानहं सम्भूयमुक्तोभवतीत्यर्थाङ्गीकारेन विरोधः । मोक्षान्तरङ्गैक्योपासनां प्रतिचित्तवृत्तिनिरोधार्थत्वेन भेदोपासनस्यावश्यकत्वादित्यत आह ॥ सर्वस्मादिति ॥ अभेदोपानस्यतमःप्रापकतया भेदेन सर्वोत्कर्षोपासकस्य च मोक्षोक्तेर्नैवं श्रुत्यथर्ोवर्णनीय इति भावः । खण्डार्थमुपसंहरत्यत आह ॥ बृहतीसहस्रविद्योक्तोभेदोनमुमुक्षुणोपास्यः किन्त्वेतत्प्रज्ञामय इत्यादिसन्निहितो क्तमैक्यमेवोपेक्षेतोपासीतेति सन्निधानोक्त्यैक्योपासनेतात्पर्यावधारणायाभ्यास इत्यपव्याख्यां प्रमाणेन निराचष्ये ॥ सर्वेति ॥ आअध्यायमूत अध्यायमूलं प्रारभ्योक्त्य सर्वस्य । नतु सन्निहितस्योक्तस्य । तथाचोक्तसर्वावधारणेऐक्यबाधान्नैक्यपरत्वमन्तिमस्यापीति भावः ॥
?R
इति श्रीमद्विठ्ठलाचार्यपुत्रेण श्रीनिवासेनरचितायां ऐतरेयभाष्यार्थरत्नमालायां द्वितीयप्रघट्टके द्वितीयोध्यायः ॥ 2
॥
?R
हरिः ॐ एषपन्थाइत्यादौप्रकृतस्य नारायणस्य नारायणनारायणो नारायणवासुदेवः नारायणसङ्कर्षणः नारायणप्रद्युम्नः नारायणानिरुद्धः इति पञ्चप्रभेदेन पञ्चधाप्रभिन्नबृहतीसहस्रादिस्थानगतत्वादिमाहात्म्यकथनपूर्वसर्वशब्दवाच्यत्वमेवप्रपञ्च्यतेस्मिन्नध्याये ॥ योहवाइति ॥ योधिकार्यात्मानं नित्याततगुणं स्वयञ्च सनातनं परमचेतनं नारायणमुक्तरीत्यानारायणादिरूपेण पञ्चविधं यस्मात्कारणाद्यस्मान्नारायणदिदं सवर्मुत्तिष्ठति तस्मादुक्थनामकं पञ्चविधेबृहतीसहस्राख्ये उक्थेस्थितं वेद । ससम्प्रति वित्सम्यग्ज्ञाताहवा इत्यर्थः । पञ्चविधबृहतीसहस्रप्रतिपाद्यानां तद्गतानां पञ्चरूपाणां अधिष्ठानान्तरं तत्तन्नामकत्वमुत्थापकत्वञ्चोच्यते । पृथिवीति ॥ एष वा आत्माबृहत्यन्तर्गतोनारायण एव पृथिवीवायुराकाशआपोज्योतींषीति नामकनारायणादिरूपेण तदन्तस्थःपञ्चविधं पञ्चविध उक्तनामकः । कुतः एतस्मात् पृथिव्यादिस्थाद्धियस्मादिदं सर्वमुत्तिष्ठति तस्मादित्यर्थः । न केवलमुत्पादकत्वादुक्थत्वं किन्त्विदं जगदेतमेवाप्येति मुक्तौ लयेच प्रविशति । न केवलं मुक्तौलयेचोपजीव्यत्वम् । किन्त्वेतदेवसर्वेषां सदायनमाश्रयं प्रसिद्धमित्यर्थः । एतद्वेत्तुःफलमुच्यते ॥ अयनं हवैसमानानामिति ॥ य एवं वेदोपासनापूर्वमपरोक्षतो वेद ससमानजातीयानां मुक्तावयनमाश्रयोभविष्यतीत्यर्थः । एतेषां रूपाणां भोक्तृभोग्यभावोस्तीत्युच्यते ॥ तस्मिन्निति ॥ तस्मिन् रूपपञ्चके योन्नमन्नस्थितत्वात्तर्पकतयोपजीव्यत्वाच्चान्ननामकरूपद्वयं भोक्तृषुस्थित्वाभोक्तृशक्तिप्रदत्वात्स्वयं भोक्तृत्वाच्चान्नादनामकं रूपद्वयञ्च वेद । सोस्मिन् स्वसमानजातावन्नादोतिशयेन भोक्त भवति । अस्य विष्णोः प्रसादत्रोस्यस्वजाति वर्गस्यान्नमद्यमुपजीव्यं तर्पकश्ऱ्च भवतीत्यर्थः । किन्तदन्नमन्नादञ्चेत्यत उच्यते ॥
?R
आपश्ऱ्चेति ॥ आपश्ऱ्चपृथिवीचानिरुद्धनारायणावन्नमित्युच्यते । कुतः हि यस्मात्प्रसिद्धान्नान्येतन्मयान्येतभ्यां व्याप्तान्यधिष्ठितानीति यावत् । यद्वैतयोरधीनानि एतन्नियमिततर्पकत्वशक्तियुक्तानीति यावत् । ज्योतिश्ऱ्चवायुश्ऱ्चप्रद्युम्नसङ्कर्षणावन्नादम् । कुतो हि यस्मिदिदं सर्वं भोक्तृजातमेताभ्यां प्रद्युम्नसङ्कर्षणाभ्यां अधिष्ठातृभ्यां भोक्तृशक्तिप्रदाभ्यां स्वयञ्च भोक्तृभ्यामन्नमत्तितस्मादित्यर्थः । आकाशोनभस्थितोवासुदेव आवपनम् । अवकाशप्रदः । कथं हि यस्मादिदं सर्वञ्चेतनाचेतनात्मकमाकाशेवासुदेवेतद्दत्तावकाशे ओप्यतेसमाप्दतेस्थप्यते । यएवं वेद ससमानानामावपनमवकाशप्रदो भवति । न केवलं भूतेषुस्थितानां भोक्तृभोग्यभावः किन्तर्हिस्थावरजङ्गमात्मकसर्वप्रपञ्चगतानामपीत्युच्यते ॥ तस्मिन्निति ॥ व्याख्यातप्रायमेतत् । किन्तदन्नमन्नादमित्यत उच्यते ॥ ॐषधीति ॥ ॐषधीषुस्थितस्तन्नामानारायणःवनस्पतिषुस्थितस्तन्नामानिरुद्धश्ऱ्चान्नं प्राणभृतः प्राणभृत्सुचेष्यावत्सुजङ्गमेषुव्यवस्थितौतन्नामानौ सङ्कर्षणप्रद्युम्नावन्नदम् । ॐषधिवनस्पतीनामन्नत्वं प्राणभृतामन्नादत्वञ्चोपपाद्यते ॥ ॐषधिवनस्पतीनिति ॥ हि यस्मादोषधिवनस्पतीन् तद्गतभगवन्नियमितान् प्राणभृतोजङ्गमजीवा अदन्तिभक्षयन्ति । तद्गत भगवद्रूपमप्युपजीवन्ति । तस्य तत्रस्थित्वातर्पकत्वात् । ओषध्यादिस्थितं भगवद्रूपद्वयञ्च जङ्गमेषुस्थितं रूपद्वयमत्तितद्भोग्यं करोति तस्मादित्यर्थः । जङ्गमेष्वपि पुरुषपश्ऱ्वादिभेदभिन्नेषुस्थितानां भगवद्रूपाणां भोक्तृभोग्यभाव उच्यते ॥ तेषामिति ॥ तेषां जङ्गमानां मध्ये ये उभयतोदन्ता अधरोत्तरदन्तवन्तः । पुरुषस्य पुरुषाकारस्य पुरुषनामकस्य क्षीराब्धिशयनस्य विष्णो रनुविधां सदृशाकारतां प्राप्तादेवङ्गधर्वमर्त्याद्यास्तेन्नादास्तेषुस्थितौ पुरुषाकारौसङ्कर्षणप्रद्युम्नावन्नादौ स्वयं भोक्तारौ स्वसन्निधानात्स्वधिष्ठानभूतानां देवादीनां भोजकौ च । पुरुषेभ्य इतरेतद एव पशवोगवाश्ऱ्वादयः । यद्वा देवानामप्यात्ममखेपशुत्वात् मानुषादीनां पशुप्रायत्वात् तेभ्य इतरेपशवस्तदन्तस्थौतदाकारौ । नारायणानिरुद्धावन्नं स्वयं भोग्यावखिलस्यतृप्तिप्रदौचेत्यर्थः । यद्यप्यश्ऱ्वादीनामप्युभयतोदन्तत्वमस्ति तथापि पुरुषेषूभयतोदन्तनियमवत्पशुजातौ न तन्नियमः गोगवयमहिषादावभावादेतद्विवक्षयाय उभयतोदन्ता इत्युक्तमिति ज्ञेयम् । अधिष्ठानभूतानां देवादीनामन्नादत्वमधिष्ठेयानां पशूनामन्नत्वमुपपाद्यते ॥ तस्मादिति । तस्माद्भोक्तृभूत सङ्कर्षणप्रद्युम्नसन्निधानादेव तेनरादयइतरान् पशूनधिरुह्य चरन्ति । स्वातन्त्ऱ्ाभावादिवशब्दः । सङ्कर्षणप्रद्युम्नयोरन्नादत्वं नारायणानिरुद्धयोरन्नत्वञ्नचोपपाद्यते ॥ तस्मादिति ॥ तस्मात्सङ्कर्षणप्रद्युम्नयोरारोढृषुनरादिषुसन्निहितत्वादेव तेन रादयस्तदधिष्ठितौ सङ्कर्षण प्रद्युम्नाविति यावत् । इतरान् पशून् तदन्तर्गतौ नारायणानिरुद्धौ अधिरुह्यचरन्तीव । अत्र भगवद्रूपाणां गुणवैशेष्याभावादिवशब्दः । प्रमाणप्रसिद्धञ्चैतदित्युच्यते ॥ अधीवेति ॥ अन्नेऽन्ननामक भगवद्रूपेन्नादनामक भगवद्रूपं अधीवभवतीत्यैतरेयसंहितादौहिप्रसिद्धं खल्वित्यर्थः । य एवं वेदससमानानां मध्येधीवचरति वा हनमधिरुह्यचरति हि । अस्वातन्त्ऱ्ादिवेति ॥ योहवा आत्मानमित्यत्र शरीरोपादानत्वादात्मानं पञ्चविधं पृथिव्यादिभूतमङ्कुराद्युत्थापकत्वादुक्थं वेदेत्यन्यथाप्रतीयते । किञ्चात्मापञ्चविध इत्यनुक्तत्वात्पञ्चविधमात्मानं योवेदेति सिद्धवन्निर्देशोऽयुक्तः । तथावेदनमात्रमेवापेणितम् । वस्तुतो न पञ्चविधत्वमिति च प्रतीयतेऽतआत्मापञ्चविध उक्थ इति वाक्भत्त्वात्त्मापञ्चविध इत्यंशन्तावद्वयाचष्ये ॥ योसाविति ॥ तत्रात्मेत्यस्य प्रतिपदं नारायण इति । प्राङ्नारायणस्याप्रकृतत्वात्कथमनुवाद इत्यत एषपन्था इत प्रकृतत्वं दर्शयितुम् योसाविति । परमातमापरमचेतनः सनातनोनित्य इत्यात्मशब्दस्य प्रवृत्तिनिमित्तद्वयं विशेषणरूपपेणोक्त्वा निमित्तान्तरमुक्तम् ॥ नित्येति । नित्युगुणत्वाद्वयाप्तगुणत्वाच्चेत्यर्थः । गुणानां नित्यत्वेपि गुणसम्बन्धःकादाचित्क इति भ्रमं वारयितुं सदेत्युक्तम् । नारायणादिरूपेण नारायणनारायणोनारायणसङ्कर्षण इत्यादिरूपेणेत्यर्थः । यस्मादिदं सर्वमुत्तिष्ठति तस्मादुक्थ इत्यस्यार्थः ॥ सर्वस्येति । पञ्चविधमुक्थमित्यस्यार्थान्तरमाह ॥ बृहतीति ॥ हि यस्मात्तच्छस्त्रं बृहतीसहस्रं पञ्चप्रभेदं तस्माद्बृहतीसहस्ररूपेतत्प्रभेदे स नारायणःपञ्चधास्थित इत्यन्वयः । केनप्रकारेणबृहतीसहस्रस्य पञ्चभेदत्वं तत्राह ॥ तृचेति । यत्तृचाशीति त्रयं तिसृणाॠचां स माहारस्तृचं तस्याशीतित्रयं यच्चतृचाशीत्यास्तृचाशीति त्रयस्य पूर्वमपरञ्चेति भागद्वयमस्ति इति तेनप्रकारेण तच्छस्त्रं पञ्चात्मकमित्यर्थः । शस्त्रभागपञ्चके नारायणादिमध्येकस्य कुत्रावस्थानं तृचाशीतीनामेकछन्दोनिबद्धत्वेत्रैविध्यं किं निबन्धनमित्यत आह ॥ प्रथम इत्यादिना ॥ पञ्चकात्पञ्चकस्य । नायं सङ्कर्षणःशेष इति भावेनाह ॥ यस्येति ॥ यस्म भगवद्रूपस्य सङ्कर्षणस्यावेशबलेनैवजीवोपरः सङ्कर्षणः सङ्कर्षणनामा । तत्र सङ्कर्षणपदप्रवृत्तिनिमित्तस्य भगवदायत्तत्वाच्छब्दस्यामुख्यत्वमित्याह । तत्प्रसादेति ॥ योहवा आत्मानं पञ्चविधमुक्थं वेद ससंप्रति विदिति यथाश्रुतं वाक्यं व्याचष्ये ॥ एवमिति ॥ अत्रैवं बृहतीसहस्रलाभप्रकारः ॥ गायत्रीतृचाशीतिःषष्ययुत्तरशत बृहत्यो भवन्ति । बृहतीतृचाशीतिश्ऱ्चत्वारिंशदधिकद्विशतबृहत्यो भवन्ति ।
?R
उष्णिक्तृचाशीतिस्तुषडशीत्युत्तरशतबृहस्यो भवन्ति । गायत्रीचैकाभवति । आहत्यतृचाशीतित्रयस्य षडशीत्युत्तरपञ्चशत बृहत्योगायत्रीचैका भवति । पूर्वमपरञ्चप्रत्येकं बृहतीशतद्वयं दशगायत्ऱ्यः । पञ्चजगत्यो वा । यद्वापूर्वमपरञ्चप्रत्येकं दशोत्तरत्रिशतगायत्ऱ्यः पञ्चपञ्चाशदुत्तरशत जगत्योवाभवन्तीति ज्ञेयम् । ननु यस्मात्कस्मादपि छन्दस इत्युक्तत्वात्कथमुक्तछन्दस्त्रयनियम इति चेन्न । तृचाशीतित्रवयस्य छन्दोविशेषनियमगर्भत्वेपि पूर्वोत्तरभागयोस्तदभावात् तृचाशीतित्रयस्याप्येकछन्दोनियमनाभावाच्चाविरोधात् । पञ्चधाप्रभेदविवक्षायामुक्तछन्दोनियमेपि तदविवक्षायां यस्मात्कस्मादपि छन्दस इत्युक्ति सम्भवाच्च । पृथिवीवायुरित्यादि व्याचष्ये । तानीति ॥ ननु पृथिव्यादिशब्दानां प्रसिद्धिबलाद्भूतेषुमुख्यत्वात्ततपरित्यागेन कथं भगवत्परिग्रह इत्यत आह । तदावेशादिति ॥ समाकर्षन्यायेनेति भावः । पृथिव्यादिशब्दान्नारायणादौनिर्वक्ति ॥ पृथुत्वादित्यादिना ॥ आप इति बहुवचनार्थमाह ॥ बहुरूप इति ॥ आप इत्यस्यासमन्तात्पालनादित्यर्थ इति भावेनोक्तं नित्यंपालनादिति । ज्योतींषीति बहुवचनार्थमाह ॥ बहुरूपःपृथक्पृथगिति ॥ बहुरुपःसन् पृथक्पृथक्ज्योतिषिस्थित इत्यर्थः । ननु सर्वेष्वपि रूपेषुपृथिव्यादिसर्वशब्दप्रवृत्तिनिमित्तसर्वगुणानां सद्भावादत एव तद्गुणानुसारेणसर्वक्रियाप्रवर्तकत्वा त्सर्वस्थानगतत्वाच्च कथं नामभेद इत्याशङ्कयाशङ्कयापाकरोति ॥ यद्यपीति ॥ यद्यप्यस्यहरेः सवर्ाण्यपि रूपाण्यखिलैःशब्दप्रवृत्तिनिमित्तगुणैःपूर्णानिसवर्क्रियाप्रवर्तकानिच तथाप्येकैकरूपेषुसपृथग्गुणैःतत्तत्प्रवृत्त्युपयुक्तगुणैःपृथक्पृथक्स्थानेषुपृथग्विधान्व्यवहारान्प्रवृत्तिरूपान् लीलयाकरोतीव । तस्मात्सर्वत्रसर्वनाम्नोपि विष्णोः पृथग्व्यवहारार्थमुच्चारणार्थमुपासनार्थञ्चेत्युकतदिशानामपृथगिवेर्यत इति योजाना । एतस्माद्धीदं सर्वमुत्तिष्ठति । एतमेवाप्येति । अयनं हवा इति वाक्यत्रयं व्याचष्ये ॥ एतस्मादिति ॥ तथाच श्रुतिः । सन्मूलाःसोम्येमाःसर्वाःप्रजाःसदायतनाःसत्प्रतिष्ठा इति । एवमयनं हवा इत्यंशस्यैतद्ब्रह्मायनं सर्वाश्रयमित्यर्थमुक्त्वा अयनं हवैसमानानामित्येकवाक्यतया व्याचष्ये ॥ य एवमिति ॥ साम्ये आश्रयत्वायोग इत्यातोजातीयत्वेन साम्येप्याधिक्यं सम्भवतीत्युक्तं लक्ष्यनिष्ठतयाह ॥ स्वजातीनामिति ॥ स्वजातीयानां मध्येयदुत्तमत्वाख्यं पदं तद्योग्याये ब्रह्मेन्द्राद्याःसुरा इत्यर्थः । तथाचोक्तं देवेषुवायुःपुरुषोत्तमादृते । देवानामस्मिवासवः । तस्मिन्योन्नञ्चान्नादञ्चेत्यारभ्यावपनं हवैसमानानां भवतीत्यन्तानिवाक्यानि व्याचष्ये ॥ सङ्कर्षणश्ऱ्चेत्यादिना ॥ तस्मिन्योन्नञ्चान्नादञ्चोक्तान्नादस्वरूपविवरणपरस्यज्योतिश्ऱ्चवायुश्ऱ्चान्नादमित्यादेवर्थ उक्तः ॥ सङ्कर्षणश्ऱ्चेति ॥ योन्न्चेत्युक्तन्नस्वरूपविवरणपरस्यापश्ऱ्चपृथिवीचान्नमित्यादेरर्थोनारायणेति ॥ यस्माद्भोग्यवस्तुषुसंस्थितौ सर्वलोकानां तर्पकौ । तस्माद्भोज्यान्तर्गतत्वात्तर्पकत्वाच्चभाज्यावन्नमित्युच्येते । नतु चर्वणयोग्यत्वादित्यर्थः । आवपनमित्यस्यार्थोवकाशेति ॥ आवपनं हवैसमानानां भवति य एवं वेदेत्यत्र एवं वेदेति वासुदेवोपासनानुवादांशयोन्नञ्चान्नादञ्चवेदेति च तू रूपोपासनांशञ्चैकोक्त्या व्याचष्ये ॥ एवं पञ्चेति ॥ आवपनं भवतीति वासुदेवोपासनाफलांशं व्याचष्ये ॥ अवकाशप्रदइति ॥ अन्नादोजायत इति सङ्कर्षणप्रद्युम्नोपासनाफलंशं व्याचष्ये ॥ भोक्तेति ॥ I-8
?R
स्वजातीयानामाधिक्येन स्वयं भोक्तेत्यर्थः । भवत्यस्यान्नमिति नारायणानिरुद्धोपासनाफलांशं व्याचष्ये ॥ आप्यायकइति ॥ एतेनयोन्नं वेद सोस्यविष्णोः प्रसादतोस्य स्वजातिवर्गस्यान्नमाप्यायकोभवतीत्यर्थ उक्तोज्ञेयः । स्वजातीय पदयोग्याः स्वजातीयानामीशत्वमुत्तमत्वमेवपदं तद्योग्या इत्यर्थः । प्राणभृतोन्नादमित्यस्यार्थमाह ॥ सङ्गर्षणश्ऱ्चेति ॥ जङ्गमेषुमोक्तृषुव्यवस्थितावित्यर्धतःपरं भाक्तृशक्तिप्रदौनित्यभोक्तारौच विशेषत इति शेषतया द्रष्यव्यम् । ॐ षधिवनस्पतयोन्नमित्यस्यार्थमाह ॥ नारायणेति ॥ स्थावरेषुभोग्येष्वन्तर्गताविति योज्यम् । अत्रापितर्पकौसर्वजीवानामिति शेषो द्रष्यव्यः । आवपनमाकाश इत्यादिपूर्वग्रन्थस्य मध्यगतत्वादेतच्छेषतयाप्यर्थमाह । तत्रापीति । एतेनावपनं हवैसमानानामित्यारभ्यौषधिवनस्पतय इत्येतत्पर्यन्तस्य व्याख्यानमपिकृतं ज्ञेयम् । प्राणभृदादिशब्दान् प्रसिद्धाथर्प्रतीतेर्व्याचष्ये । प्राणानामित्यादिना ॥ ओषणाद्दहनात् । उषप्लुषदाहइति धातुः । वननीयानां भजनीयानां पतित्वात् वनषणसम्भक्तावितिधातुः । यद्योषधिवनस्पतिशब्दाभ्यां भगवान् गृह्यते कथं तर्हि तस्यान्नत्वमद्यत्वायोगादित्यत आह ॥ अन्नइति ॥ उपजीव्यत्वमेवाद्यत्वमिति भावः । तेषां य उभयतोदन्त इत्यत्रतेषां ये उभयतोदंतत्वेन प्रसिद्धपुरुषसादृश्यं प्राप्ताव्याघ्रादयस्तेऽन्नादाः इतरेगोमहिषादयोन्नमित्यन्यथाप्रतीतेर्व्याचष्ये ॥ पुरुषस्येति ॥ पुरुषस्यानुविधां विहिता इत्येतद्भगवद्रूपे योजयति ॥ पुरुषाकृतिरिति ॥ वृषभाश्ऱ्वादिरूपेणवृषभाश्ऱ्वाद्याकारेणान्यपशुषुस्थितावित्यर्थः । तस्मात्तइतरान्पशूनधीवचरन्तीत्येतद्वयाचष्ये ॥ वाहनेति ॥ सङ्कर्षणश्ऱ्चप्रद्युम्नस्तेष्वारोढृषुसस्थितस्तस्मात्तेनरादय इतरान्पशूनधीवचरन्ति वृषभाश्ऱ्वादिवाहनानां महिषादिचर्मविनिर्मितोपानहादीनामारोढारोभवन्तीति भावः ।
?R
तस्मात्तइतरानितिवाक्यमधिष्ठित भगवद्रूपपरतयापि योजयति ॥ यतइति ॥ यतःसङ्कर्षणःप्रद्युम्नश्ऱ्चतेष्वोढृषुसंस्थितौततस्तयोःसङ्कर्षणप्रद्युम्नयोःसञ्चारस्तयोः पश्ऱ्वाद्यधिष्ठितनारायणानिरुद्धयोरुपरीवभविष्यतीत्यर्थः । एतेनाधीवह्यन्नेऽन्नादोभविष्यतीति वाक्यमपि व्याख्यातं भवति । आवपनमाकाश इत्येतदत्राप्याकृष्यव्याख्येयमितयाह ॥ आकाशगइति ॥ अधीवहिसमानानामिति फलवाक्यं व्याचष्ये ॥ वाहनेति ॥ एतेनसामानानां मध्येस्वयं वाहनमधिरुह्यचरतीति मूलार्थ इत्युक्तं भवति । वाहनादीत्यादिपदेन स्वजातीनामवकाशप्रदानशक्तियुक्तश्ऱ्चेति गृह्येते । तेनावपनं हवैसमानानामित्येतदत्रापिसंयोज्यत्यिक्तं भवति । योहवा आत्मानमित्युपक्रम्यकोयं पञ्चविध आत्मेत्यतः पृथिवीत्यादिनाभूतान्येवपञ्चविधात्मतयोच्यन्त इत्यपव्याख्यानं व्याख्यानरूपप्रमाणेन निरस्तमप्यन्तरङ्गबाधकेनापि निराचष्ये ॥ आत्मशब्दादिति ॥ भूतमात्रं भूतान्येव । विष्णुस्तुनोच्यत इति न वाच्यमित्यर्थः । नन्वात्माशब्दस्यशरीरपरत्वात्तदुपादानत्वेन भूतेष्वात्मशब्दोयुक्तएवेत्यत आह ॥ नचमुख्येति ॥ यद्वानभूतमात्रमुच्यते किन्तुतदभिमानिनोपि । तेषुत्वातत्मशब्दःसम्भवतीत्यत आह ॥नचमुख्येति ॥ ननु भूतपरत्वे आत्मश्रुति विरोधवद्भगवत्परत्वेपृथिव्यादिश्रुतिविरोध इत्यत आह ॥ सर्वनामवत्त्वमिति ॥ श्रुत्यैव तावाएताःसर्वाॠच इत्युपनिषदैव । नामानिसर्वाणीत्यादिश्रुत्यावा । आवपनमाकाशइत्येतदवकाशप्रदइति प्रमाणेन व्याख्यातम् । तन्मूलभूतं धातुव्याख्यानं पठति । वपेति ॥ तस्मिन्योन्नञ्चान्नादञ्चवेदेत्यस्यतस्मिन् भूतपञ्चकेयोन्नमन्नादञ्चवेद सोस्मिन्नेवभूतपञ्चकमध्ये पृथिवीलोकेन्नादोजायत इत्येतदपव्याख्यानमिति भावेन स्ववचनेनापिविवृणोति ॥ तस्मिन्वेदेति ॥ तस्मिन्वेद अस्मिन्नाजायत इति पृथक् पृथक् पृथगापश्चपृथिवीचान्नमिति प्रकरणे ओषधिवनस्पतयोन्नमिति प्रकरणेच तस्मिंस्तस्मिन्नित्युपास्य यूथस्य पुनः पुनर्विशेषणादस्मिन्नाजायते स्मिन्नाजायत इत्युपासकस्यापि पुनःपुनर्विशेषणात्तस्मिन्रूपपञ्चकेस्मिन् स्वजाति यूथइत्यर्थ उपपद्यत इति पूर्वेणान्वयः । अयं भावः । प्रथमप्रकरणेतस्मिन्नित्यस्य पृथिव्यादिशब्दितपञ्चविधात्मपरामर्शकत्वमविवदम् । यदि तत्र भूतान्येव विवक्षितानि तर्हि द्वितीयप्रकरणेपि तच्छब्देन भूतपञ्चकमेव परामर्शविषयः स्यात् । तेषामेवपूर्वं प्रकृतत्वात् । नचासौयुक्तस्तद्विवरणपरेणौषधिवनस्पतयोन्नमित्यादिनाविरोधात् । नारायणादिरूप पञ्चकपरामर्शकत्वेत्वधिष्ठानमात्रभेदेपि प्रकरणद्वयेप्येकविधमेवतदधिष्ठितं प्रधानपञ्चकं परामृश्यत इत्यविरोधः । अस्मिन्नाजायत इत्यस्यापि प्रथमप्रकरणेस्वोपास्य भूतमध्यगतपृथिवीलोके अन्नादे आजायते । द्वितीयप्रकरणेत्वस्मिन्स्वोपास्य प्राणिसमुदायेऽन्नादोजायत इति व्याख्यानमुक्तम् । प्रथमप्रकरणेऽस्मिन्नित्यनेन परामृष्यस्यैवद्वितीयप्रकरणेपीदं शब्देन परामर्ष्युं युक्तत्वात् । प्राणिसमुदायपरामर्शायोगात् । स्वयूथपरामर्शेतु प्रकरणद्वयश्रुतेदं शब्दयोरेकविषयत्वलाभादिति । नन्वस्तु तर्हि द्वितीययप्रकरणेप्यस्मिन्नित्यस्य पृथिवीलोक इत्यर्थ इत्यतो दूषणान्तरमाह ॥ उपासकस्येति ॥ प्रकरणद्यवेपि योन्नमन्नादञ्चवेदाहास्मिन्नन्नादोजायत इत्युक्तस्योपासकस्यायनं हवैसमानानां भवत्यावपनं हवैसमानानां भवतीति स्वजातिवाचकपदसमवधानात्पृथिवीपदस्यासन्निधानाच्चास्मिन्नित्यस्य स्वजातावित्यर्थोज्ञायत इति । पुरुषस्यानुविधामित्येतत्पुरुषस्य हरेरिति व्याख्यानम् । तदयुक्तम् । हर्याकारसादृश्यस्य पशुष्वपि सद्भावाद्धरेः सर्वाकारत्वेन पश्ऱ्वाकारस्याप्युपपत्तेरित्यतः पुरुषपदेन पुरुषाकारस्तन्नामकोरूपविशेषोविवक्षित इति प्रमोणेनाह ॥ क्षिराब्धीति ॥ इतरान्पशूनधीचरन्ति अधीवह्यन्नेऽन्नादोभवतीत्यत्रचेवशब्दाभिप्रायमाह ॥ गुणेति ॥ गुणवैशेष्याभावाद्वाह्यवाहकभगवद्रूपाणाम् ॥ 1
॥ पूर्वखण्हे अचेतनस्य भोग्यत्वं चेतनस्य भोक्तृत्वं तेष्वपि स्थावराणां भोग्यत्वं जङ्गमानां भोक्तृत्वं तेष्वपि पश्ऱ्वादीनां भोग्यत्वं पुरुषाणां भोक्तृत्वमिति निरूपितम् । कुत इदं पदार्थतारतम्यमित्यतो भगवत्सन्निधानतारतम्यादिति भावेनायं खण्डः । य आत्मानं परामात्मानम् । तरां तारतम्येना विराविर्भूतं वेद सतस्य तदीयो भवति तदन्तरङ्गप्रियो भवति । यद्वाऽऽविस्तरामित्यस्याविर्भावतारतम्येनेत्यर्थः । सन्निधानतातम्यं प्रपञ्च्यते ॥ अश्ऱ्नुत इति ॥ ओषधिवनस्पतयः स्थावराणि । यच्चकिञ्चित्प्राणभृच्चलनयुक्तं जङ्गमम् । तत्सर्वं सनारायणो । भूयो भूयस्त्वेन शिलादिभ्योविशेषणतेष्वाविर्भूतः सन्नश्ऱ्नुते प्राप्नोति । सन्निधानं तारतम्यज्ञानं च भगवत्येवपूर्ण मन्येषुयथायोग्यमिति भावेनोच्यते ॥ सइति ॥ सनारायण एव सर्वभूतेषुतारतम्येनाविःसन्निहितं स्वात्मानं तरां नितरां सम्यग्वेद् नान्यइत्यर्थः । शिलादिभ्यः स्थावरजङ्गमेषुसन्निधानाधिक्येकार्यदर्शनं प्रमाणमुच्यते ॥ ओषधीति ॥ ओषधिवनस्पतिषुरसः क्षीरादिः । प्राणभृत्सुचित्तं स्मृतिकारणं वृत्तिविशेषो दृश्यते । तच्चसन्निधानविशेषादेवोपपद्यते । अन्यथातन्नस्यादिति भावः ॥ पश्ऱ्वादिभ्यःपुरुष एव स आत्मा तरा मतिशयेनाविः सन्निहितः । कुतः । हियस्मात्पुरुष एव प्रज्ञानेन सम्पन्नतमोतिशयेन सम्पन्नः । कुतः । मनसाविज्ञातं वाचावदति । विज्ञातं पूर्वमनुभूतं पश्यति प्रत्यभिजानाति । श्ऱ्वस्तनं सर्वकालोपलक्षणम् । एष्यत्कालं
?R
पूर्वकालञ्चवेद । लोकालोकौपुण्यपापसाध्यौस्वर्गनरकलक्षणौवेद । मर्त्येन शरीरेणामृतं मोक्षमीप्सतीच्छत्येवमेषपुरुषः प्रज्ञानेन सम्पन्नतमः । अथतेभ्यइतरेषां पशूनामशनापि पासाविषय एवाभिविज्ञानम् । एवशब्दव्यावत्यर्मुच्यते ॥ नविज्ञातमित्यादिना ॥ तस्मात्तेपश्ऱ्वादयोज्ञानेनैतावन्तः परिमिताभवन्तीत्यर्थः । कुत इदं ज्ञातिवैचित्ऱ्यमित्यत उच्यते । यथाप्रज्ञामिति ॥ पश्ऱ्वादीनां यथाप्रज्ञं प्रज्ञानुसारेण सम्भवा उत्पत्तय इत्यर्थः ॥ ब्रह्मण एव नानाधिष्ठानेषूपाधिवशात्स्वरूपतारतम्यमुच्यते इत्यन्यथाप्रतीतेः खण्डं प्रमाणेन व्याचष्ये ॥ आविर्भावमिति ॥ य आत्मानन्तरातारतम्येनाविर्भूतं वेदेत्यस्य तात्पर्यमाविर्भावमिति । य इति निर्दिष्य एव तस्येतिषष्ठयन्तेनोच्यत इत्यन्यथाप्रतीति निवारणाय स इत्यध्याहारेण व्याचष्ये ॥ सतस्येति ॥ नन्वज्ञान्यपि तदीय एव कोविशेषोज्ञानिनइत्यत उक्तं विशेषेणेति ॥ तमेवविशेष्यं व्यनक्ति ॥ प्रीतीति ॥ ज्ञानिनि प्रीति सम्भवात्प्रीत्याख्याविशेषणतदीयोभविष्यतीत्यर्थः । अश्रुतेहाविर्भूय इत्यादि व्याचष्ये ॥ स्थावतमिति ॥ शिलादिभ्योभूयस्त्वेन तेष्वाविर्भूतःस्थावरादिकमश्ऱ्नुत इति योजना । स आत्मानमाविस्तरामित्येतद्वयाचष्ये ॥ सम्यगिति ॥ तरामित्यस्यार्थः सम्यगिति ॥ तरामित्यस्यार्थान्तरं तारतम्यादिति ॥ शिलादिभ्योतिशयेन स्थावरजङ्गमेषुसन्निधानाधिक्ये ज्ञापकमुक्तम् ॥ ओषधिवनस्पतिषुहिरसोदृश्यतेचित्तं प्राणभृत्स्विति ॥ तद्वयाचष्ये ॥ विष्णोरित्यादिना ॥ यद्यस्माद्यद्यादृशम् । तादृक् तादृशम् । तस्मात्तस्मादेव । नशिलाद्येषुरसश्ऱ्चित्तञ्चदृश्यत इत्यर्थः । ननु शिलादावपि भारदार्ढ्यादृशी वृक्षादिषुतादृशीसन्निधिर्नास्ति । केवलं शिलादिषुशुष्कदार्वादिभ्योतिशयेनस्थितोविष्णुर्भारदार्ढ्यादिकारणम् । चित्तादिकस्य चित्तरसयोः । वृक्षाद्याः वृक्षौषधिपश्ऱ्वाद्याः । अपव्याख्यानं दूषयति ॥ विशेषइति ॥ ननु पूर्वपूर्वेभ्य उत्तोत्तरं भगवतःसन्निधानतारतम्येनाधिष्ठानतारतम्यमेतद्ग्रन्थार्थतयाभवद्भिव्यर्ाख्यतम् । सन्निधानतारतम्यं नामाल्पपदार्थेष्वल्पगुणतयोत्तमेषुततोपि गुणाधिक्येनावस्थानमिति वाच्यम् । तथाच नीचोच्चपदार्षष्ववस्थितस्य स्वरूपतारतम्यं प्राप्तमेवेत्यत आह ॥ यत्रेति ॥ अस्माभिर्हिगुणपूर्णोहिसर्वत्रस्वयं विष्णुःसनातन इत्यङ्गीकृत्य यत्र पदार्थेविष्णुःस्वस्यगुणाधिक्यं दर्शयेत्तद्वस्तुवरमित्युच्यते । नतु विष्णोरेवगुणतारतम्यम् । सन्निधानं हि तत्प्रोक्तं सामर्थ्यव्यञ्जनं हरेरित्युक्तत्वादिति भावः । प्राणभृत्सुत्वेवाविस्तरामात्मापुरुषेष्वाविस्तरामित्येतद्वयाचष्ये ॥ वृक्षेभ्यइति ॥ तस्य य आत्मानमित्यादिस्पष्यं स्ववचनेन व्याचष्ये ॥ य आत्मानमिति ॥ प्राक् तरान्तारतम्येनाविःसन्निहितमिति भिन्नपदतया व्याख्यातमधुनाऽविस्तरामित्येकपदत्वेन व्याख्याति ॥ आविर्भावतारतम्येनेति ॥ अश्रुत इत्याद्यपेक्षिताध्याहारेण व्याचष्ये ॥ ओषधीति ॥ स इत्यस्यार्थो भगवान्नारायण इति ॥ स इत्येतदात्मानमाविस्तरामित्युत्तरवाक्येनापि सम्बध्य व्याचष्ये ॥ स एवेति ॥ प्राणभृच्छब्दःश्ऱ्वादि जङ्गमविषयतया व्याख्यातः । तत्कथं शब्दलब्धमित्यत आह । अनचेष्यायामिति ॥ यथाप्रज्ञमित्येतद्वयाचष्ये ॥ ज्ञानानुसारेणेति ॥ सम्भवा इत्यनूद्योत्पत्तय इति व्याख्या ॥ 2
॥ पूर्वखण्हेसामर्थ्यव्यञ्जनापरपर्यायं सन्निधानं पुरुषेधिकमित्युक्तम् । तदेवसामर्थ्याधिक्यं उपास्त्यर्थमुच्यतेस्मिन्खण्डे ॥ सएषइति ॥ योस्मिन्पुरुषेपश्ऱ्वादिभ्य आधक्येन सन्निहितोभगवान्सएषपुरुषः सर्वेभ्योगुणतोरूपतश्ऱ्चसमुद्रःसमुद्रिक्तः । ततश्ऱ्चकिमित्यतस्तथाजानीयादिति विधातुमाचारोवा कैमुत्ययुक्तिर्वाप्रमाणत्वेनोच्यते । सर्वंलोकमिति ॥ सजीवोब्रह्मादिर्यद्यपि यस्माद्भगवत्प्रसादात्सर्वं लोकति अतिशयेनाश्ऱ्नुते प्राप्नोति तदाप्येनमात्मानं भगवन्तमति सर्वोत्कृष्यत्वेन मन्यते । न केवलं संसारीब्रह्मादिरति मन्यते किन्तु मुक्तोपीत्युच्यते ॥ सर्वमिति । सर्वंलोकं सर्वलोकानतीत्य यत्किञ्चिदलौकिकं मोक्षाख्यमश्ऱ्नुते प्राप्नोति तदापितमेनं विष्णुं स्वात्मनःसर्वस्माच्चाधिकं मन्यत इत्यर्थः । यदैवं सर्वलोकाधिपत्यं मोक्षञ्च प्राप्तानामपि विष्णूत्कर्षज्ञानन्तदात्यल्पमन्तरिक्षं प्राप्तानामहं भावेकारणाभावात्सिद्धमेवतथाज्ञानमित्युच्यते ॥ यद्यन्तरिक्षमिति ॥ एवमाचारङ्कैमुत्यञ्चोक्त्वा येस्वर्गाद्याधिपत्यं प्राप्तानहुषप्रभृतयस्येषामहमेवेश्ऱ्वर इति भावोस्ति । येच कर्मफलतयास्वर्गप्राप्तास्तेषाञ्चित्क्रियाफलेस्वातन्त्ऱ्यभावोस्तीन्द्रादीनाञ्च महैश्ऱ्वर्यवशेन पारिजातहरणादावसुरावेशवशेनकृष्णोमदवम इति भावोस्ति तानुपलक्षणीकृत्याहंभावप्रसक्तिमतां सर्वेषामपि भगवदुत्कर्षज्ञानं विधीयते ॥ यद्यमुमिति ॥ विष्णुर्यद्यमुं स्वर्गलोकं देवलोकाधिपत्यं वा तद्योग्यस्याश्ऱ्नुवीत प्रापयीतू ददाति तथाप्येनं भगवन्तमतिमन्येतैवाधकं जानीयादेव । ननु स्वर्गभोस्यबहुवेश्यादिपरिवारयुक्तत्वेनाशुचित्वादीश्ऱ्वरेण प्रदत्तेपि कथं तत्परिगृह्णीयुरिन्द्राद्या इत्यातश्ऱ्चोक्तम् ॥ यद्यमुमिति ॥ यदप्यमुन्देवलोकाधिपत्यं विष्णुर्ददाति तदप्यश्ऱ्नुवीतैवभुं जीतैवबहुवेश्यादियुक्तमिति बुद्धयातत्त्यागोनकार्यः । यद्वा यः कश्ऱ्चित्साधनानुष्ठातयद्यप्यमुंलोकं स्वर्गाद्यश्ऱ्नुते प्राप्नोति तदप्यश्ऱ्नुवीत
?R
ैव ईश्ऱ्वरप्रसादादिदं प्राप्तमिति बुद्धयाकेवलं भुञ्जीतैव । न फलेस्वातन्त्ऱ्यमतिं कुर्यात्किं त्वेनमेवाधिकं मन्येतेत्यर्थः । पुरुषेसन्निधानाधिक्यविवरणायोपक्रान्तं रूपतः समुद्रेकं तत्तच्छब्दप्रवृत्तिनिमित्तगुणोद्रेकं चोपपादयितुमुच्यते ॥ स एष पुरुषः पञ्चविध इत्यादिना ॥ स एष पुरुषोहरिः पुरुषशरीरस्थपञ्चभूतेषुज्योतिरादिषुप्रद्युम्नादिरूपेणपञ्चविधःस्थितः । तस्य पुरुषस्य यदुष्णमुपलभ्यते तज्ज्योतिरग्निभूतं तत्र ज्योतिर्नामाप्रद्युम्नः । यानिखानिविवराणि स आकाशस्तत्राकाशनामावासुदेवः । यल्लोहितं तक्तं श्लेष्मारेतस्ता आपः तास्वम्नामानिरुद्धः । यच्छरीरं परिदृश्यमानं स्थूलं सापृथिवी तत्र पृथिवीनामानारायणः । यःप्राणः श्ऱ्वासोच्छ्वासादिलक्षणः सवायुस्तत्र वायुनामा सङ्कर्षणः । स एष प्राणशब्दितो वायुः प्राणोपानोव्यान उदानः समान इति पञ्चविधः । वाय्वन्तर्गतः सङ्कर्षणोप्यनिरुद्धादि रूपषण पञ्चविधः प्राणादिनामा प्राणादिषु वर्तते । वायौ पञ्चभीरूपःढ विशेषसन्निधानमुक्तं तत्र कोहेतुरित्यत आकाशादि भूतेभ्य उत्तमत्वं हेतुरिति भावेनोत्तमत्वे ज्ञापकमुच्यते ॥ ताइति ॥ ता आग्न्यादि स्वरूपाश्ऱ्चक्षुःश्रोत्रं मनोवागित्येतादेवताः प्राणापानयोर्निविष्या आश्रिता । मुख्यप्राणस्य प्राणापानाख्यरूपद्वयेन विशेषप्रवृत्तिरिति भावेन द्वयोरुपादानं वस्तुतस्तु रूपपञ्चकेप्याश्रिता इति बोध्यम् । वायुरपि प्राणादिनामके विष्णवाश्रित इति च बोध्यम् । ज्ञापकान्तरमुच्यते । प्राणस्येति ॥ प्राणस्यापायं शरीरादुत्क्रमणमनुसृत्यैता देवता आपि यन्ति गच्छन्ति । वाक्चित्तादीनां सवृत्तिकानां वायुराश्रयः । तस्य नारायण आश्रय इत्युक्तम् । तत्र ज्ञापकमुच्यते ॥ स एष वाच इति ॥ यद्यस्मान्नारायणो वायुद्वारा वाक्चित्तादीनां आश्रयः तस्माद्यद्यज्ञो यो यज्ञः । स एष वाचश्ऱ्चित्तस्योपलक्षणमेतत् वाक्चित्तादि स्वरूपिणां देवाना मुत्तरोत्तरिक्रमः क्रमयुक् । मनसावाग्नेसङ्कल्पयत्यथवा च अव्याहरतीत्युक्तदिशा सङ्कल्पन व्याहरणादिक्रमिकवृत्तिभ्यो जातः । स एष वाक् चित्तादीन्द्रियवृत्तिभ्योजातोयज्ञः । अग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमइति पञ्चविधः । स एष यज्ञोयज्ञान्तर्गतो भगवानपि पञ्चविधेग्निहोत्रादिके तत्तन्नामानिरुद्धादि रूपेण पञ्चधावस्थित इत्यर्थः । वायुद्वारावाक्चित्तादि नियामकत्वादेवहरेस्तद्वृत्तिजन्ये यज्ञेप्याश्रयतया पञ्चरूपेणावस्थानमिति भावः । न केवलं यज्ञे पञ्चधावस्थानम् । किन्तु पञ्चविधयज्ञमध्ये प्रधाने सोमेचेति भावेन सोमस्यातिशयमुक्त्वातत्र पञ्चधावस्थानमुच्यते ॥ स एष यज्ञानामिति ॥ यत्सोमो यःसोमः । स एष यज्ञानां मध्ये सम्पन्नतमोतिशयेन गुणाढ्यः । यज्ञानां अतिशयेन सम्पत्तिकारणं वा । एतस्मिन्सोमे एताः पञ्चविधाः शास्त्रतोधिगम्यते । कास्ताः स वनेभ्यः प्रातर्माध्यन्दिन तृतीयसवनेभ्यः प्रग्यदङ्गं प्राच्यङ्गं सैकाविधा । त्रीणिच सवनानिति स्रोविधाः । सवनेभ्योयदूर्ध्वमुदीच्यङ्गं सापञ्चमीविधा । एतस्मिन्सोम एता भगवन्मूर्तयोनिरुद्धक्रमेण पञ्चधाधिगम्यन्ते । कथं यत्प्राक् सवनेभ्यः तत्रैकाविधा भगवन्मूर्तिरित्यादि योजना । अत्र स एष पुरुषोजीवः समुद्रइव न केनापि कामेनपूर्यते । कुतः । सर्वलोकमतिक्रम्ययत्किञ्चिदश्ऱ्नुते एवं विषयञ्चातिक्रम्य ततोप्यतिशयितं मन्यते इच्छतीत्याद्यपव्याख्या निरासाय यथावद्वयाचष्ये । योस्मिन्निति ॥ ननु यद्ययं पुरुषो विष्णुस्तर्हिसर्वं लोकमतीत्यादौ तस्यैव कर्तृत्वेनान्वयः स्यादित्यत आह ॥ सजीव इति । स एष पुरुषः समुद्र इत्यत्राधिष्ठितस्य पुरुषस्य समुद्रत्वमुक्तम् । सर्वं लोकमित्यादौ तदधिष्ठानभूतस्य जीवस्य परामर्शेन कर्तृत्वेनान्वय इति भावः । सवर्लोकमत्यश्ऱ्नुते यदत्येवैनं मन्यत इत्यंशस्यार्थमाह ॥ यद्यपीति ॥ यदित्यस्य यद्यपीत्यर्थः । यद्यस्माद्भगवत्प्रसादादित्यर्थान्तरम् । अत्यश्ऱ्नुत इत्यस्याधिप इत्यर्थः । तदपीत्यतः परंतदापि सर्वस्माच्चेत्यन्तं योज्यम् । सर्वं लोकमतियद्धकिञ्चाश्ऱ्नुत इत्यादि विशिष्यवाक्यस्यार्थान्तरमाह ॥ सर्वलोकानित्यादिना । अधिकमेवेत्येवकारव्यावर्त्यमाह । मुक्तोपीति ॥ मुक्ताधिक्ये भगवतो यद्धकिञ्चेति हशब्द सूचितं प्रमाणमाह ॥ कृष्ण इति । यद्यमुं लोकमित्यादिकं देवताविषयतया व्याकुर्वन् यद्यमुं लोकमश्ऱ्नुवीत्येत्यंशन्तावद्वयाचष्ये ॥ यद्यपीति । यदीत्यस्य प्रतिपदं यद्यपीति । यदपीत्यर्थः । अश्ऱ्नुवीतेत्यस्य प्रपयतीत्यर्थं मत्वोक्तं विष्णुः ददातीति ॥ तदपीत्यध्याहात प्रदर्शनम् । आश्ऱ्नुतेत्यावृत्तस्वैवार्थः । अश्ऱ्नुवीतैवेति । भुञ्जीवेत्यर्थः । एवकारव्यावर्त्यमाह ॥ बहुगणिकेति ॥ यद्यमुं लोकश्ऱ्नुवीतात्येवैनं मन्येतेति समग्रवाक्यं व्याचष्ये ॥ यद्यपीति ॥ अस्यां योजनायामश्ऱ्नुवीतैव बहुगणिकादिपरिवारयुक्तमशुचीदं पदमिति बुद्धयानापह्नुवीतेत्यंशं विहाय भाष्यं योज्यम् । तथाहि यद्यपि देवलोकाधिपत्यं तद्योग्यस्य विष्णुरश्ऱ्नुवीत प्रापयीत ददाति । तदपि तथाप्येनं विष्णुमति मन्येतैव । तस्यैवविवरणम् ॥ सर्वथेति ॥ सर्वथा सर्वैर्गुणैः स्वतः सर्वस्माच्चाधिकमेव मन्येतेत्यर्थः । यद्यमुं लोकमित्येतदेववाक्यं यज्ञादि फलतया स्वर्गादि प्राप्तिविषयतयापि व्याचष्ये ॥ यद्यमुमिति ॥ सर्वथेति वाक्यमत्रानुवर्तते । उपनिषदि यद्यमुं लोकमित्यतः परं अन्तरिक्षं लोकमश्ऱ्नुत इत्यतो श्ऱ्नत इत्यनुवर्तत इति भावेनोनोक्तम् ॥ अश्ऱ्नुतेप्राप्तोतीति ॥ तथाच योजना । यद्यमुं लोकमश्ऱ्नुते प्राप्नोति तर्ह्यश्ऱ्नुवीतभुञ्जीतैव केवलं । नैतावताहं भावं कुर्या त्किन्तु सर्वथास्वतः सर्वस्माच्चाधिकमेव मन्येतेति । यदीमं
?R
लोकमश्ऱ्नुतेऽत्येनं मन्यत इत्यनुक्तेः कारणमाह ॥ पृथिवीति ॥ प्रत्यक्षसिद्धत्वादनुभवसिद्धत्वात् । सवर्ं लोकमतियद्धकिञ्चेति प्रथमवाक्यं मुक्तविषयतयापि व्याख्यातम् । तत्र ज्ञापकमाह ॥ अतिशब्दादिति ॥ सर्वं लोकमतीति सर्वलोकातिक्रमणवाचकातिशब्दाद्यद्धकिञ्चेत्यलोकिकत्व वाचकशब्दाच्चप्रथमवाक्योक्तोमोक्ष इति सिद्धमित्यर्थः । ननु द्वितीयवाक्येन्तरिक्षगतोत्येनं मन्यत इति प्रथमवाक्येपि सर्वलोकाधिपतिहिरण्यगर्भादिर्मुक्तोप्यत्येनं मन्यत इति सिद्धवन्निर्देशःकृतः । यद्यमुं लोकमिति तृतीयवाक्येतु अत्येवैनं मन्येत जानीयादिति सावधारणविधिरित्येवं प्रयोगद्वैविध्येकिं कारणमित्यत आह ॥ अन्तरिक्षेति ॥ अन्तरिक्षप्राप्तेरल्पत्वात्तद्गतानां विष्णुसवमोहमित्यादि भावाप्रसक्तेः मोक्षेसर्वाज्ञानमिथ्याज्ञानविधूननावस्थायामपि तादृशभावस्याप्रसक्तेश्ऱ्च शब्दात्सत्यलोकाधिपतेर्हिरण्यगर्भस्यापि सर्वदोषविदूरस्य तादृशभावाप्रसक्तेः विष्रुःसर्वोत्तम इत्येवं ज्ञानस्य स्वतः सिद्धत्वान्मन्यत इति सिद्धवचनमेवकृतम् । स्वर्गादिप्राप्तेस्तदाधिपत्यस्य यागादिफलतया तत्प्राप्तेश्ऱ्चाधिकैश्ऱ्वर्यरूपत्वाद्भगवत्समोवा भगवत्स्वरूप इति वामन्तुं प्राप्तिरस्तीत्यत्येवैनं मन्येतेति सावधारणविधिरित्यर्थः । स्वर्गाधिपतयो हिरण्यकनहुषप्रभृतयस्तादृग्भावं कुर्वन्तीति ॥ तत्प्रसञ्जकैश्ऱ्वर्यवानत एव कदाचित्पारिजातहरणादावसुरावेशेनेषत्प्रसक्तिमान्योपीन्द्रादिरेवं न मन्येतेति विधिरिति भावः । अत्येनं मन्यत इत्यस्यप्राप्तं प्राप्तं लोकं अतिक्रम्यपुनरधिकमिच्छतीति यदपव्याख्यानं तदपाकरोति ॥ नचेति ॥ अन्यथा अवबोध एव कामश्ऱ्चेत् । बाधकान्तरमाह । नचमन्यत इति ॥ द्विविधःप्रयोगः । सिद्धरूपोविधिरूपश्ऱ्च न युज्यते । किन्तुमन्यत इत्येवस्यान्नतु मन्येतेति । इच्छाया अविधेयत्वादिति भावः । मन्यत इत्येस्येच्छार्थत्वाङ्गीकारे बाधकान्तरमाह । स एष पुरुषः पञ्चविध इत्येतद्वयाचष्ये ॥ स एवेति ॥ प्राणादिरूपेवायावित्यन्वयः । ता एता देवता इत्याद्यसङ्गतमित्याशङ्कयवायोरन्यभूतेभ्य उत्तमत्वोपपादकत्वान्नासाङ्गत्यं उत्तमत्वप्रतिपादनं च पृथिव्यादिभ्योविशेषेणवायौपञ्चरूपस्यस्थित्युपपादकमिति भावेन सङ्गतिं करोति ॥ पञ्चरूप इत्यादिना ॥ यद्यपि ज्योतिरादिभ्य इति वक्तव्यम् । यदुष्णन्तज्ज्योतिरितिपूर्वत्र चक्षुःश्रोत्रमित्युत्तरक्ष च श्रवणात्तथाप्याकाशाद्वायुरित्याकाशस्य कारणत्व श्रवणादुत्तमत्वं न भ्रमितव्यमिति भावेन खादिभ्य इत्युक्तम् । ननु वायोर्भूतोत्तमत्वे युक्त्योपपादनीयेचक्षुःश्रोत्रमितीन्द्रियाणां वाय्वाश्रितत्व कथनमसङ्गतमित्यतो व्याचष्ये ॥ अतएव ॥ वायोउरुत्तमत्वादेवेति । यद्वपिज्योतिरादि स्वरूपाश्ऱ्च क्षुराद्या इति वक्तव्यम् तथापि पृथिवीमयस्य मनसः साक्षात्प्राणावरशेषाद्यभिमत्वात्पृथिव्यादि स्वरूपा इत्युक्तम् । प्राणस्य ह्यन्वपायमित्येतद्वयाचष्ये ॥ गच्छन्तीति ॥ मन आदि स्वरूपं तदभिमानिनश्ऱ्चाह ॥ पृथिवीमयमित्यादिना ॥ अन्नमयं हि सोम्यमन इति श्रुतेः पृथिवीविकारान्नमयमित्यर्थः ॥ कुबेश्ऱ्चेति ॥ ये दिशान्देवाःप्रसिद्धास्ते श्रोत्रदेवा इति योज्यम् । वागबात्मिकेत्यन्वयः । ननु तेजोमयीवागिति श्रुतेः कथमबात्मकत्वमित्यत उक्तम् ॥ किञ्चित्तेजोयुतावाक्वविशेषेणत्वबात्मिकेति ॥ अबात्मकत्वे ज्ञापकमाह ॥ उपचीयत इति ॥ ततश्ऱ्च अबात्मकत्वादेव । शुष्यति ह्रसति । ह्रासोपचययोर्ज्ञापकमाह ॥ तृषितस्येति ॥ वाक् वाग्व्यवहारः । पश्ऱ्चादुदकपाने उच्चाप्रवर्तत इति भावः । ततः अभिमन्यमानस्यो भयप्रकृतिकत्वादेव । वाक् अग्निः । उमावैवाक्समुद्दिष्येत्यादौवह्निरुमाञ्चवाग्देवते प्रकीर्तिते इत्यर्थः । चक्षुरादीनां सूर्याद्यभिमतत्वमुक्तम् । श्रुत्यन्तरेन्यथोक्तेर्गतितिमाह ॥ चक्षुष्यमिति ॥ चक्षुरभिमानित्वं सहोच्यते वागभिमानित्वेनेति शेषः । वागभिमानित्वमविहायेति यावत् । चन्द्रस्य मनोभिमानित्वेन सह श्रोत्रत्वम् । स्वाहायामन्त्राभिमानित्वेन वाक्त्वम् । स्वाहातोमन्त्रदेवतेत्युक्तेः । पर्जन्यस्येन्द्रियगोलकाभिमानित्वेन सह लोकाभिमानीपर्जन्य इत्युक्तत्वात् । आस्थानं अधिष्ठानम् । स एष वाचश्ऱ्चित्तस्येत्यस्य सङ्गत्यप्रतीतेः सङ्गतिं कुवर्न् व्याचष्ये ॥ शेषेत्यादिना ॥ एतेन यद्यस्मादेतादेवताः प्राणापानयोर्निविष्यावाय्वाश्रयाः प्राणाद्यभिधोवायुश्ऱ्चतन्नामकेहरौनिविष्यस्तस्माद्यद्यज्ञो योयज्ञः स एष वाचश्ऱ्चित्तस्य वायुवशानां वागाद्यभिमानिदेवतानां उत्तरोत्तरिक्रमः क्रमवृत्तिभ्योजातः तस्मिन्यज्ञेऽनिरुद्धादिरूपेणावस्थित इति उपनिषदर्थ उक्तो भवति । स एष यज्ञानां सम्पन्नतमोयः सोम इत्यादि व्याचष्ये ॥ पञ्चधेति ॥ पूर्वके प्राच्याङ्गे । परे उदीच्याङ्गे । एवं तारम्यान्तगत्वेन सर्वोत्तमत्वमभिधायमुमुक्षुणाऽयमुत्कर्षो ज्ञेयः मुक्तैरपि तथाज्ञानादिति भावेनाह ॥ तमेतमिति ॥ तमेतं परममुक्तविधोत्कर्षवन्तम् । एतेन स एष पुरुषः समुद्र इत्युत्कर्षं प्रतिज्ञाय कैमुत्यन्यायेन तच्ज्ञानं सर्वं लोकमीतत्यादिना विधायोत्कर्षोपपादनं स एष पुरुषः पञ्चविध इत्यादिना खणडसमाप्तेः क्रियत इखिण्डाभिप्राय उक्तो भवति । बहुषुस्थलेषुपञ्चविधत्वोक्तेः प्रयोजनमाह ॥ पञ्चरूपेति ॥ सर्वत्र पञ्चरूपभगवद्वयानार्थमेवैतत्पञ्चविधत्वं सर्वत्राधिष्ठाने सर्वत्र बहुषुखण्डेषूक्तमिति योज्यम् ॥ 3
॥ पूर्वखण्डेपुरुषान्तर्गतस्य गुणतोरूपतश्ऱ्चोद्रेकमुपपादयितुं तत्तन्नामतयाध्यात्मं
?R
भूतेषुवायुप्रभेदेषु प्राणेषु प्राणाधीनवाक्चित्तादि क्रमवृत्तिजातेषु अग्निहोत्रादि यज्ञेषु सोमप्रभेदेषुच तत्तन्नामतया पञ्चविधत्वमुक्तम् । अत्र तु पूर्वप्रकृत बृहतीसहस्रप्रतिपाद्यस्य प्रकृत यज्ञानुबन्धमुक्त्वातस्य बहुधापाञ्चविध्यमनन्तरूपत्वं पूर्णगुणत्वञ्चोच्यते । तत्र श्रोतृणां बुभुत्साजननाय वक्ष्यमाणविद्या फलेन प्रशस्यते तावत् ॥ योहवा इति ॥ यो यज्ञेध्यूढं याज्यत्वाद्यमज्ञत्व प्रदत्वाच्चयज्ञं यज्ञनामानम् । अहन्यध्यूढमहार्यत्वादहस्त्वप्रदत्वाच्चाहर्नामानं देवष्त्तध्यूढं द्योतनादिगुणवत्त्वाद्देवत्वप्रदत्वाच्चदेवनामानम् । उपलक्षणमेतत् । वक्ष्यमाणस्तोमसामचिति छन्दःशस्त्रेष्वध्यूढं तत्तन्नामकञ्चवेद स सम्प्रतिवित्सम्यग्ज्ञानीति हवै श्रुत्यन्तरप्रसिद्धमित्यर्थः । यज्ञादिषुयज्ञादिनामाक इत्यत उच्यते ॥ एषवाइति ॥ यदेतत्तत्तच्छब्दप्रवृत्तिनिमित्तगुणैःपूर्णत्वान्महत् उत्थापकत्वादुक्थम् । यद्वा महदुक्थं बृहतीहसस्रप्रतिपाद्यं भगवद्रूपम् । एष भगवान्वै यज्ञेष्वधिरूढोयज्ञनामेत्यादि योजना । यदेतन्महदुक्थं बृहतीसहस्रप्रतिपाद्यं यज्ञादावधिरूढं भगवद्रूपं तदेतदनिरुद्धादि रूपेणपञ्चविधं सत्स्तोमसामचिति छन्दःशस्त्रेषुपञ्चसुक्रमाद्वर्तत इत्यर्थः । स्तोमेनिरुद्धः साम्निप्रद्युमनः श्येनाकारचित्तौसङ्कर्षणः छन्दःसुवासुदेवः शस्त्रे नारायण इति भावः । किञ्चतदेतत्स्तोमादि गन्तचानिरुद्धादिकं प्रत्कं पञ्चविधम् । कथं स्तोमगतस्यानिरुद्धस्य पाञ्चविध्यमित्यतस्तोमस्य पञ्चविधत्वात्तद्गतोऽनिरुद्धो निरुद्धप्रद्युम्नो निरुद्धसङ्कर्षणो निरुद्धवासुदेवो निरुद्धनारायण इति पञ्चविध इत्युच्यतते ॥ त्रिवृदित्यादिना ॥ त्रिवृदादिपञ्चभेदभिन्नॠक्समुदायरूपस्तोमतस्तोमेस्थितो निरुद्धः स्तोमस्य पञ्चविधत्वात्पञ्च विध इत्यर्थः । I-9
?R
समातःसाम्निस्थित;
प्रद्युम्नःसाम्नःपञ्चविधत्वात्प्रद्युम्नानिरुद्धःप्रद्युम्नप्रद्युम्न इत्यादिरूपेण पञ्चविधः । छन्दस्तःछन्दोगतो वासुदेवः छन्दसां पञ्चविधत्वाद्वसुदेवप्रद्युम्नो वासुदेव सङ्कर्षणो वासुदेव वासुदेव इत्यादि क्रमेण पञ्चविधः । श्येनाकारचित्यन्तर्गतस्य सङ्कर्षणस्य सङ्कर्षणानिरुद्धः सङ्कर्षणप्रद्युमनः सङ्कर्षणसङ्कर्षणः सङ्कर्षणवादेवः सङ्कर्षणनारायण इति क्रमेण शिर आरभ्यमध्यदेहान्तमवस्थानात् शिर इत्याद्याख्यानं नाम । यद्वा चितिगतस्येत्याख्यानं स्थाननिर्देशः । शस्त्रस्य पाञ्चविध्यान्नारायणस्यानिरुद्धादिभेदेन पाञ्चविध्यं वक्ष्यति । अत्र तावत् स्तोमसामेति सामप्रसङ्के प्रस्तावोद्गीथ प्रतिहारोपद्रवनिधननामकसामभक्तिगतस्याप्यनिरुद्धादिरूपण पञ्चविधत्वं प्रस्तावादिष्वेकैकत्रापि पृथक् पञ्चविधत्वमभिप्रेत्य तत्र युक्तिरुच्यते ॥ पञ्चकृत्व इत्यादिना ॥ यद्यपि सामभक्तीनां प्रस्तावादीनां गायत्ऱ्यादि सामसन्निधावेवाभिधानं युक्तम् । नतु शस्त्रसन्निधाने । तथापि तानिदशेत्यत्र सामभक्तिप्रतिपाद्यानि पञ्चरूपाणिशस्त्रप्रतिपाद्यानि पञ्चरूपाणीति सम्भीयतानिरूपाणिदशेत्युक्तिसौकर्याय शस्त्रसन्निधानेऽभिधानं ज्ञेयम् । पञ्चरूपप्रकरणत्वेपि सामप्रसङ्गान्महदुक्थाक्षरगतरूपाणां सामस्तोभाक्षरप्रतिपाद्यत्वमुच्यते ॥ तदिति ॥ तत्तत्र । सामसुस्तोभाक्षराणां सहस्रं बहुकोटयो भवन्ति । तथातन्महदुक्थप्रतिपाद्यं भगवत्प्रादुर्भावजातं स्तोभवसहस्रनामकं भवति । स्तोभानां सहसं प्रतिपादकं यस्यत त्स्तोभसहस्रं तत्प्रतिपाद्यं च भवतीत्यर्थः । शस्त्रेपञ्चविधरूपव्युत्पादनार्थमुच्यते ॥ एवञ्चेताइति ॥ बृहत्युक्थशस्त्रगताः पञ्चप्रकारा एव मनुशस्यन्ते । कथम् । तृचाशीतिभ्योयत्प्राक् यःप्राक्तनोभागः सैकाविधा । तिस्रःतृचाशीतयस्तिस्रोविधाः । यदूध्वर्ं यस्ताभ्य उपरितनोभागः सा पञ्चमीविधा । हि यस्मत्तद्गता एता अनिरुद्धादि मूर्तयः शस्त्रभेदैरनुशस्यन्तेस्तूयन्त इत्यर्थः । यद्यपि प्रथमे पञ्चकाद्भागेस्थितो नारायणःप्रभुरित्यादिना प्राङ्नारायणादि क्रमेण शस्त्रेऽवस्थानमुक्तम् । तथापि स्तोमसामादि पञ्चकविवक्षायामनिरुद्धादि क्रमेणशस्त्रगतो नारायणः स्वयं नारायणानिरुद्धोनारायण प्रद्युम्न इत्यादिक्रमेण पञ्चकस्य प्रथमभागादौ वर्तत इत्यविरोधः । तदेतत्सहस्रमित्यादेरावत्त्यनुवृत्तिभ्यां बह्वर्थत्वेन दुरवबोधत्वात्प्रतिपत्तिसौकर्यायावतारपूर्वंभाष्यव्याख्यान दशायामेव तद्वयाख्यास्यामः । योहवेत्यादौ बृहतीसहस्रस्यैव यज्ञादिष्वधिरूढत्वं तत्तन्नामकत्वमुच्यत इत्यत इत्यन्यथाप्रतीति निरासाय प्रमाणेन व्याचष्ये ॥ यज्ञेष्वित्यादिना ॥ यज्ञेष्वधिरूढम् । याज्यत्वाद्यज्ञनामानम् । पुरुषोत्तममित्यनेन पुरुषस्य यज्ञेन यज्ञमयजन्तेति पुरुषसूक्तेतत्प्रसिद्धमिति हवेति द्योतयतीत्युक्तं भवति । तुरप्यर्थे । तथा अहः स्वप्यधिरूढमहार्यत्वाद्धतर्ुमशक्यत्वादेववाऽहर्नामानम् । देवेष्वधिरूढं सर्वोत्तमत्वतः सर्वोत्तमत्वद्योतनादिगुणवत्त्वतोदेवं देवनामानमित्यर्थः । हिशब्देन यजेर्हरतेर्दीव्यतेश्ऱ्चोक्तार्थत्वेधातुव्याख्यनप्रसिद्धिं सूचयति ॥ एतदुपलक्षणम् । वक्ष्यमाणस्तामादिषुचयोवेदेत्याह । एवञ्चेति ॥ एवमेवस्तोमादिषु सर्वेषुस्थितं स्तोमादिसर्वनामानमित्यन्वयः । हवाइत्यस्यार्थ इति श्रुत इति ॥ एष वैयज्ञेयज्ञइत्यादि व्याचष्ये ॥ यएषइति ॥ योसौहरिःसर्वोत्थपकत्वादुक्थनामापरिपूर्णत्वान्महांश्ऱ्चसहस्रबृहतीस्थितत्वाच्चमहदुक्थनामा स एषः अहनि अह्नाम् । अहः अहस्त्वप्रदः सदेवेषु देवोदेवानां देवत्सवप्रदः । देवाधिकोपीति यावदिति योजना । एतेन यज्ञेयज्ञइत्यादेर्यज्ञादावधिरूपढोयज्ञादीनां यज्ञत्वादिप्रद इत्यर्थान्तरमुक्तं भवति । यज्ञानांयज्ञइति वद्देवानां देव
?R
इत्यनुक्त्वादेवाधिक इत्यनेन देवेषुमध्येदेवो देवोत्तमइत्यप्यर्थान्तरमुक्तं ज्ञेयं । अत एव यज्ञइत्यादिवद्दे इतयेकवचनमप्रयुज्यदेवेष्विति बहुवचनमिति भावः । यदेतन्महदुक्थं तदेतत्पञ्चविधमित्येतद्वयाचष्ये ॥ अनिरुद्धादीति ॥ बृहतीसहस्रगतो विष्णुः स्तोमादिषु पञ्चसुक्रमेणानिरुद्धादिरूपेण पञ्चविधःस्थितः । पृक् पृथगित्येकैकं रूपमेकैकत्रेत्यर्थः । श्रुतौछन्दसां पूर्वमुक्तत्वेप्तयनिरुद्धादिरूपस्थितिक्रममपेक्ष्यव्युत्क्रमोणोपादानम् । तदेतत्पञ्चविधमिति प्रकारान्तरेण व्याचष्ये । एकैकमिति ॥ तत्स्तोमादिगतमनिरुद्धादिकमेकैकं रूपं पृथक् पृथक् प्रत्येकं प्रत्येकं निरुद्धादि पञ्चात्मकमित्यर्थः । अनेन पञ्चविधमपि प्रतयेकं पञ्चविधमिति योजितं भवति । पञ्चकृत्वःप्रस्तौतीति वाक्यलब्धार्थमाह । प्रस्तावादिष्विति ॥ प्रस्तावादिषुपञ्चसुपीक्रमेणतिष्ठतीत्यर्थः । प्रस्तावादिषुविद्यमानः पञ्चरूपीविष्णुः प्रत्येकं पञ्चधैवव्यवस्थित इत्यप्यर्थः । इदानीमुक्तार्थेहेतुपरतया पञ्चकृत्व इत्यादि व्याचष्ये ॥ तस्मादेव एकैकत्र पञ्चरूपावस्थानादेव । एकं निर्भेदमेव । पञ्चरूपोपेतं पृथक् पृथक् स्तोतुमेव । अन्यथासकृदनुष्ठानं स्यादिति भावः । तत्तत्र सामसु । स्तोभानां सहस्रं बहुकोटय आश्रिता भवन्ति । तद्भगवद्रूपजातं बृहतीसहस्र प्रतिपाद्यं स्तोभसहस्रप्रतिपाद्यं च भवतीति मूलार्थमभिप्रेत्य व्याचष्ये ॥ तत्रेति ॥ न केवलं बृहतीसहस्राणि किन्तु ते स्तोभा अपि पृथक् पृथग्बहलन्प्रादुर्भावान् प्रचक्षत इत्यर्थः । एवं ह्येता इत्यादेरति रोहितार्थत्वादव्याख्यानम् । तत्स्तोभवसहस्रमित्येतत्सङ्गततया तदेतत्सहस्रमित्यादि व्याख्यातुं चेति बोध्यम् । ननु स्तोभानां मितत्वात्कथममित भगवद्रूपपरत्वमित्यत उच्यते ॥ तदेतत्सहस्रं तत्सर्वमिति ॥ तदेतत्सहस्रं स्ताभसहस्रप्रतिपाद्यं रूपजातं तत्सर्वं अनन्तम् । तदेतत्सहस्रं स एष स्तोभसहस्रलक्षणःशब्दोपि सर्वं अनन्तः । जातिविवक्षया बहुकोटित्वेप्यनन्तेषु सामस्वनन्तधावर्तत इत्यर्थः । तद्वयाचष्ये ॥ अनन्तरूप इति ॥ एष शब्दः स्तोभलक्षणः । ननु बृहतीसहस्राक्षाराणान्तद्वाच्यरूपाणाञ्च परिमितत्वात्कथन्तेषाममितस्तोभाक्षरप्रतिपाद्यत्वमित्यतश्ऱ्चोक्तम् ॥ तदेतत्सहस्रन्तत्सहस्रन्ततत्सर्वमिति ॥ दत्तदेतत्सहस्रं सहस्रबृहतीप्रतिपाद्यं भगवद्रूपजातं तत्सर्वमनन्तम् । यत्तदेतत्सहस्रं तदपि सर्वमनन्तमित्यर्थः । तदेतद्वयाचष्ये ॥ अनन्तरूप इति ॥ बृहतीसहस्रस्य परिमितत्वेप्यनन्तेषुरूपेषु शक्तत्वादानन्त्यमिति भावेनानन्तधानन्त प्रकारेणतेषुरूपेषुवर्तत इत्युक्तम् । ननु यदुक्तं बृहतीसहस्रस्यान्तरूप्यप्रतिपादकत्वं तदेवकुत इत्यतस्तस्य सहस्रनामव्याख्यानरूपत्वात्सहस्राणाञ्च नाम्नामनन्तरूपप्रतिपादकत्वाद्बृहतीसहस्रमप्नन्तरूपाभिधायकमित्यभिप्रेत्य सहस्रनामव्याख्यानरूपत्वं तावदुच्यते ॥ तदेतत्सहस्रमिति ॥ यद्विष्णोः सहस्रनाम्नोर्थभूतं रूपसहस्रं तदेतत्हस्रं बृहतीसहस्रम् । वक्तीति शेषः । तद्वयाचष्ये ॥ विष्णोरिति ॥ पृथक्पृथगित्येकैकाॠगेकैकनामार्थं वक्तीत्यर्थः । नन्वेनं सहस्रनाम्नां बृहत्यृचां च व्याख्येयव्याखयान भावे तत्प्रतिपाद्यनां मितत्वमेव सहस्रशब्दस्य पञ्चशतद्वयवाचित्वादित्यत उक्तं तत्सर्वमिति । तत्सहस्रमिति पदं सर्वममितं वक्तियतो तस्तत्सहस्रनामेत्यनेनोक्तं नामजातं सर्वमनन्तमेवेत्यर्थमभिप्रत्य व्याचष्ये ॥ सहस्रशब्दइति ॥ तर्हिपञ्चशतद्वयनामदृष्यिविरेध इत्यतश्ऱ्चोक्तम् ॥ तत्सर्वमिति । तत्प्रसिद्धं नामसहस्रकं सर्वमनन्तरूपजातं वक्तीत्यर्थमभिप्रेत्य व्याचष्ये ॥ अनन्तनामवचन इत्यादिना ॥ इदं प्रसिद्धं नाम्नां सहस्रकं अनन्ततनुवाचकमित्यर्थः । तथाच नाम्नां पञ्चशतद्वयतया प्रदर्शनेप्यनन्तरूपेषुशक्ततया शक्तिविवक्षयानन्तत्वं न विरुध्यत इति भावः । नन्वनन्तानां रूपाणामनन्तानिपृक् नामानि सन्त्येव तत्किमनेन पञ्चशतद्वयेनानन्तरूपप्रतिपादनाभिप्रायेण भारते पृथक्कृत्यतद्वयुत्पानेनेत्यत उक्तम् ॥ अनन्तनामेति ॥ अनन्तानां नाम्नां वचने पठने धिकारिणामशक्तत्वादनन्त तनुवाचकमिदं नाम्नां सहस्रकं पृथक्कृत्य भारतेप्रोक्तमित्यर्थः । भवेदेवं यदि नामनां पञ्चशतद्वयस्यानन्ततनुवांचकत्वं स्यात्तदेवकुत इत्यतोनन्तेमुख्यस्य सहस्रशब्दस्यात्र प्रयोगान्यथानुपपत्तेरेवेति भावेनोक्तम् ॥ तदेत्सहस्रन्तत्सर्वमिति ॥ तत्पञ्चशतद्वयात्मकं नामसहस्रं यतःसर्वमनन्तानि रूपाणि वक्ति । तत्तस्मादेवहेतोरेतत्पञ्चशतद्वयं नामसहस्रममितेमुख्येन सहस्रमिति शब्देनोच्यते । अन्यथा तन्नस्यादिति भावः । तदेतद्वयाकरोति ॥ विष्णोरिति । यतः सहस्रं सहस्रशब्दो मुख्यतोमितं वक्ति । अतः पञ्चशतद्वयेत्तिष्णोरनन्तरूपाणामुक्त्यैवसहस्रमित्याख्याऽऽसीदित्यङ्गीकर्तव्यमित्यर्थः । स्वरूपानन्त्येबाधितेसत्यर्थानन्त्येनैवतत्रानन्त्येमुख्यतः सहस्रशब्दोनिर्वाह्य इति भावः । न केवलमनन्तेरूढस्य सहस्रशब्दस्य नामसुप्रयोगान्यथानुपपत्त्यापञ्चशतद्वयस्यानन्तरूप प्रतिपादकत्वम् । किन्तु नामसुप्रयुक्तः सहस्रशब्द ए प्रतिद्यानन्त्यं साक्षादाहेत्युच्यते ॥ तदेतत्सहस्रमिति ॥ तन्नामजात मेत देतैः प्रतिपाद्यभगवद्रूपैः सह प्रतिपादकतया सृतं स्थितमिति व्युत्पत्त्यासहस्रमित्युच्यत इत्यर्थः । तद्वयाचष्ये ॥ ब्रह्मेति ॥ परब्रह्म यावद्रूपैर्विष्ठितं विशेषेणस्थितम् । वाक् नामजातरूपाणितावती सामान्यतो विशेषतश्ऱ्चतावद्रूपप्रतिपादिकेति वेदप्रमाणतः अनन्तरूपैः
?R
सहप्रतिपाद्यप्रतिपादकभावानुसारेणैव नामजातं सहस्रमित्युच्यत इत्यर्थः । ननु यावद्ब्रह्मविष्ठितं तावतीवागितिश्रुतिरन्यत्र ब्रह्मह्य यावद्देशकालव्यापि वेदवागपि तावती । तावद्देशकालव्यापिनीति व्याख्यातम् । कथमेतत्सत्यम् । व्याख्यानान्तरत्वात् । यद्वा वाक्पदस्य वेदपरत्वं भवतु । यावद्ब्रह्मेत्यस्य ब्रह्मयावद्रूपैःस्थितं वाग्वेदवागपि तावतीतावद्रूपप्रदिपादिकाकेषाञ्चिद्रूपाणां विशेषतोन्येषां वेदानुक्तमाहात्म्यस्य वेदेनैवगम्यत्वादित्युक्तरीत्यासामान्यतो वेदोक्तत्वात् । तथाच शास्त्रेषु भारं सारं तत्र नामसहस्रकमित्युक्तरीत्याविश्ऱ्वादि नाम्नां वेदोक्तानन्तरूपप्रतिपदकत्वमनया श्रुत्यालभ्यत इति ज्ञेयम् । नन्वेवञ्चेद्विष्णुसहस्रनाम प्रतिपाद्यं रूपसहस्रकमिति प्रसिद्धिविरोध इति चेत्तत्रापि सहस्रशब्दस्यानन्तेमुख्यत्वादिति परिहारेसिद्धेपि सहस्रनामप्रतिपाद्येष्वनन्तेषुरूपेषुसहस्रशब्दोनिरुच्यते ॥ तदेतत्सहस्रमिति ॥ तद्भगवद्रूपजातं सर्वमनन्तमपि यस्मादेतदेतैर्नामभिर्वाच्यतया सहसृतं तत्तस्मात्सहस्रमुच्यत इत्यर्थमभिप्रत्य व्याचष्ये ॥ नाम्नेति ॥ वाशब्दश्ऱ्चशब्दार्थे । नतु परिमितत्वादित्येवार्थः । अस्त्वेवं वैष्णवनामसहस्रस्यानन्तरूप प्रतिपादकत्वम् । ततश्ऱ्चकिमित्यत उपहसह्रियते । तदेतत्सहस्रमिति ॥ तद्बृहतीसहस्रमेतदेतस्मात्कारणादनन्तरूप प्रतिपादकनामसहस्रव्याख्यानरूपत्वात्सर्वमनन्तं भगवसद्रूपं वक्तीत्यर्थमभिप्रेत्य व्याचष्ये ॥ बृहतीसहस्रञ्चैतस्मादिति ॥ अस्त्वेवं बृहतीसहस्रं सहस्रनामार्थरूपानन्त्याभिधायकम् । ततश्ऱ्चकिमित्यत उच्यते ॥ तदेतदिति ॥ यस्मात्पृतक् पृथङ्नामार्था एता ॠचस्तत्तस्मादेतदिदं बृहतीसहस्रं तत्सर्वं तस्य हरेः सर्वं विश्ऱ्वादि सर्वनामात्मकमित्युच्यते । व्याख्यानव्याख्येययोरभेदोपचारादिति भावेनैतदर्थमाह ॥ पृथगिति । हि यस्मात् । अस्त्वेवं सर्वनामात्मकत्वं ततः किमित्यत उच्यते ॥ तत्सर्वमिति ॥ तस्मात्तेन बृहतीसहस्रशंसकेनामुनाधिकारिणा । तेन बृहतीसहस्राख्यशस्थेणकरणेन तत्सर्वं तस्य सर्वं रूपजातमपि संस्तुतं भवतीति शेषः । तस्मादेवं ज्ञात्वाबृहतीसहस्रं शंसनीयमित्युपनिषदर्थमभिप्रेत्य व्याचष्ये ॥ सर्वरूपाणीति ॥ न केवलं बृहतीसहस्राख्य शस्त्रस्य यत्प्राक् तृचाशीतिभ्य इत्युक्तरीत्याऽनिरुद्धादि पञ्चरूप प्रतिपादकत्वमपितु मत्स्यादिवामनान्तपञ्चरूपाभिधायकत्वञ्च । बृहतीसहस्रॠगारूढतया गानकाले प्रस्तावादिसामभक्तीनां तदन्तर्भावात् । भार्गवादिकल्क्यन्तनां तत्प्रतिपाद्यत्वञ्चेति वक्तुं रूपसङ्खयातावदुच्यते ॥ तानिदशेति ॥ तद्वयाचष्ये ॥ मत्स्यइति ॥ अस्त्वेवं रूपाणशं तशकम् । ततश्ऱ्चकिमित्यत उच्यते ॥ तानिदशेति । तानिपूर्वोक्तानिशस्त्रभागभूतानि तदारूढसामभक्तिभागभूतानि च मिलित्वादशेत्यर्थः । ततश्ऱ्च किमित्यत उच्यते । तानिदशेति । तानिदशरूपाणि यानिदश शस्त्रतदारूढसामभक्त्याख्यानि तानि तत्प्रतिपाद्यानीत्यर्थः ॥ तदेतद्विवेकेनाह । पञ्चभेदेति । पूर्वपञ्चकं मत्स्यादिवामनान्तम् । अपरं पञ्चकं भार्गवादि । सामभक्तिपञ्चप्रभेदशस्त्रस्य च न दशरूपाभिधायित्वेनाल्पार्थत्वम् । दशरूपाणां सर्वरूपात्मकत्वादिति भावेनोच्यते ॥ तानिदशतत्सर्वमिति ॥ तत्तस्य तानि मत्स्यादिदशरूपाणि सर्वं सर्वरूपात्मकानि । मत्स्यमत्स्यः मत्स्यकूर्मः मत्स्यवराहः मत्स्यसिंहः मत्स्यवामन इत्यादिस्यव्यूहान्तर्गतसर्वरूपात्मकानि । मत्स्यव्यासःमत्स्यव्यासः मत्स्यहंसःमत्स्यवासुदेव इत्याद्यनन्तरूपात्मकानि च । कूर्मादावप्येवं बोध्यमित्यर्थः । तद्वयाचष्ये ॥ तानिरूपाणीति । ननु मत्स्यादिरूपाणामनन्तरूपात्मकत्वेन मत्स्यादिनामदशकस्य तत्परत्वम् । मत्स्यकूर्मोमत्स्यवराह इत्याद्यनन्तनाम्नामेवतत्परत्वस्य वक्तव्यत्वादित्यत उच्यते ॥ त
?R
ानिदशतत्सर्वमिति ॥ तत्तस्य तानि दशनामान्येव सर्वं सर्वरूपाभिधायीनि इत्यर्थः ॥ तद्वयाचष्यष ॥ दशनामानीति ॥ दशैवनामानीत्यन्वयः । तत्तल्लक्षणानादशमिरेवनामभिर्वक्तुं शक्यत्वादिति भावः । ततश्ऱ्चकिमित्यत उच्यते ॥ तानिदशतत्सर्वमिति ॥ तत्तस्मान्मत्स्यादि नामार्थानां रूपाणामनन्तत्वात्तद्वयाख्यानभूतानि सामभक्तीनां पञ्चकं शस्त्रपञ्चकञ्चेत्येतानि दश । तस्य विष्णोः सर्वं रूपजातं वक्तीति शेष इत्यभिप्रत्य व्याचष्ये ॥ पञ्चकमिति ॥ ननु युक्तं दशनाम्नामनन्तरूपाभिधायकत्वं तदेवकुत इत्यतोऽनन्तेमुख्यदशशब्दस्य नामसुप्रयोगान्यथानुपपत्तेरेवेति वक्तुं दशब्दस्यानन्तार्थकत्वं तावदुच्यते ॥ दशेति वैसर्वमिति ॥ दशेति शब्देन सर्वमनन्तमुच्यत इति वैश्रुतिप्रसिद्धमित्यर्थः ॥ तद्वयाचष्ये ॥ दशेतिसर्वनामेति ॥ सर्वनाम सर्ववाचि ॥ न केवलमनन्तेरूढदशशब्दस्य वक्ष्यमाणदिशानामसुप्रयोगान्यथानुपपत्त्या पञ्चकद्वितयस्यानन्तरूपप्रतिपादकत्वम् किन्तु दशशब्दस्य योगार्थविचारेपि तज्ज्ञायत इत्युच्यते ॥ तानिदशदशेति वसैसर्वमिति । दशेति ददति व्यक्तीकुर्वन्ति शंरूपं सर्वं भगवद्रूपजातमिति हेतोस्तानि मत्स्यादिनामानि दशेति वैप्रसिद्धानीत्यर्थः । तद्वयाचष्ये ॥ शंरूपमिति ॥ यद्यस्माच्छंरूपं समस्तशोनन्तसङ्खयाकं भगवन्तं व्यक्त्यादद्यात् व्यक्तिरूपेण दद्यात् । प्रकृत्याचारुरितिवत् । तत्तस्मादमितनाम्नाममितार्थप्रतिपादकानां मत्स्यादिनाम्नां दशेत्याख्येत्यर्थः । नन्वेवं मत्स्यादि नाम्नानन्तरूप प्रतिपादकत्वे मत्स्यादि नामप्रतिपाद्यानि दशरूपाणीति प्रसिद्धिविरोध इति चेत् । तत्रापि दशशब्दस्यानन्तेरूढत्वादिति परिहारेस्थितेपि दशशब्दस्यानन्तेषुरूपेषु योगश्ऱ्चोच्यते ॥
?R
तानिदशदशेतिवैसर्वमिति ॥ सर्वमनन्तानि तानि रूपाणि दशेति ददति शंस्वोपासकानामिति हेतोर्दशेत्युक्तानीत्यर्थः । तद्वयाचष्ये ॥ तदाख्यारूपेषुशंददेरिति ॥ तदाख्या दशेत्याख्या । यत्प्राक् मत्स्यादि दशनाम्नामनन्तरूप प्रतिपादकत्वमन्यथानुपपत्त्यासाधयितुं तदुपपादकं दशपदस्यानन्तरूढत्वमुक्तं तदिदानीमर्थापत्ति प्रमाणमुच्यते ॥ तानिदशदशेतिवैसर्वमिति ॥ यस्मात्तानिमत्स्यादि दशनामानि सर्वं सर्वरूपाभिधायीन्यत एवानन्तेरूढन दशेति शब्देनोच्यन्ते । अन्यथा पञ्चकद्वितेऽनन्तेरूढदशशब्दप्रयोगासम्भवात् । तथाच तदन्यथानुपपत्त्याऽर्थानन्त्येनानन्ताथर्क दशशब्दवाच्यत्वं वक्तव्यमिति भावः । तदेतद्वयाचष्ये ॥ सर्वनामार्थेति ॥ पञ्चकद्वितयस्यापि सर्वनामार्थ भगवत्प्रतिपादकत्वादेवामितेरूढं दशेति नामाभूदन्यथातन्नस्यादित्यथर्ः । एवमर्थापत्त्या योगेनच दशनाम्नामनन्तरूपपाभिदायकत्वमुक्त्वोपसंहृतम् ॥ दशेतिसर्वमिति ॥ इत्यकतप्रकारेणदशनामानिसर्वमखिलं वक्तीत्यर्थः । तद्वयाचष्ये ॥ तस्मादिति ॥ यद्वा अस्त्वेवं दशनाम्नां सर्वरूपाभिदायकत्वम् । ततश्ऱ्चपञ्चभेदविभिन्नशस्स्य तदारूढसामभक्तिपञ्चकस्य च किमायातमित्यतः उपसंह्रियते ॥ दशेति वैसर्वमिति ॥ यस्मादेवमनन्तरूप प्रतिपादकानां मत्स्यादि नाम्नां शस्त्रसामभक्तीनां च व्याख्यानव्याख्येयभावः इति तस्मात् दश शस्त्रपञ्चकं भक्तिपञ्चकञ्चेत्येतद्दशसर्वमखिलरूपस्तावकमित्यर्थः ॥ तद्वाचष्ये ॥ तस्मादेतद्दशखिलमिति ॥ एवं वैदिकप्रयोगावगतरूढ्या शंददातीति योगान च दशशब्दस्य सर्ववाचित्वमुक्तम् । इदानीं लोकरूढ्यादशशब्दस्य पञ्चकद्वितय परत्वमङ्गीकृत्यापि सर्वोपस्थापकत्वमुच्यते ॥ एतावतीहिसङ्खयेति ॥ शतादि लक्षणासर्वापि सङ्खयैतावती दशसङ्खयामूलिका तत्प्रभेदरूपा हि यस्मात्तस्माद्दशेति वैसवर्ं सर्वाः सङ्खयामूलभूत सङ्खयावाचिदशशब्देनोच्यन्त इत्यर्थः । कथं सासर्वमूलमित्यत उक्तम् ॥ दशदशत इति ॥ दशदशतो दशगुणितदशत्वसङ्खयातत्तत्प्रसिद्धं शतं भवति । दशगुणितशतानि प्रसिद्धं सहस्रम् । तत्सहस्रं बहुधागुणितं सत् लक्षकोट्यादि सर्वसङ्खयात्मकं भवतीत्यर्थः । तद्वाक्यजातं व्याचष्ये ॥ तस्मादिति ॥ यस्माद्दशैवमूलसङ्खया शतादयश्ऱ्चतद्विभेदाः तस्मादेतदखिलं शतादिकं दशेत्यर्थः । अनेनैवसहस्रशब्दस्यामितवाचित्वमप्युपपादितं भवति । तदेतत्सहस्रं तानि दशेति प्रकारद्वयाथर्मुपसंहरति ॥ ॠक्सहस्रमिति ॥ तस्मादनन्तरूपगुणशक्तिवाचकसहस्रनाम मत्स्यादि नामव्याख्यानरूपत्वात् । सहस्रनाम्नाममितनामार्थ प्रतिपादकत्वादमितनामानमित्युक्तम् । यदुक्तं बृहतीसहस्रस्यानन्तरूपगुणादि विशिष्य भगवद्वाचित्वं तत्र किं प्रमाणमित्यतः तस्यातिशयेन भगवत्तर्पकत्वयुक्तिः प्रमाणम् । यद्यस्यातिशयेन स्तावकं तत्तस्यातिशयेन तपर्कमितिव्याप्तेरिति भावेनान्नमशीतयोन्नेनहीदं सर्वमश्ऱ्नुत इत्युक्तमशीतीनामन्नत्वं स्मारणाय पुनरुच्यते ॥ तानित्रीणिछन्दांसिभवन्तीति ॥ तानित्रीणि तृचाशीतित्रयात्मकं तच्छस्त्रं तानित्रीणिछन्दासि गायत्रीबृहत्युष्णिगिति छन्दांसि भवन्ति । छन्दस्त्रयबद्धं भवतीति ॥ तानित्रीणि तृचाशीति त्रयात्मकं तच्छस्त्रं तानि त्रीणिछन्दांसि गायत्रीबृहत्युष्णिगिति छन्दांसि भवन्ति । छन्दस्त्रयबद्धं भवतीत्यर्थः । तद्वयाचष्ये ॥ छन्दस्त्रयमिति ॥ अस्तुतृचाशीति त्रयस्य क्रमेणगायत्ऱ्यादि छन्दोबद्धत्वम् । ततश्ऱ्चकिमित्यत उक्तम् त्रेधेति ॥ इदं तृचाशीति त्रयं विष्णोरन्नं कथं तच्चैतैः गायत्री बृहत्युष्णिग्लक्षणछन्दोबद्धैः स्वभागैः क्रमेणाशनमश्यं पानं पेयं खादः स्वाद्यमिति धिविहितं सत् तद्ब्रह्माप्नोति ॥ तस्य तर्पकमिति यावत् । जडविवक्षायामन्नपान भक्ष्यभोगजन्यानन्दसजातीयनन्दप्रयोजकत्वं अभिमानि विवक्षायान्तदभिमानि देवाः स्वयमशनादित्वं साक्षात्प्राप्नुवन्तीति ज्ञेयम् । तदेतत्तात्पर्यतोव्याचष्ये ॥ अशनादित्रिकमिति ॥ खण्डार्थमुपसंहरति ॥ सर्वेति ॥ न केवलं गायत्ऱ्यादि पञ्चछन्दोभिधः । किन्त्वेवं सर्वछन्दोभिधः । देवेषु देवमध्यूह्लमित्युक्तदिशासर्वदेवाभिधः ॥ सवर्मुन्यभिध इति ॥ प्रकृत बृहतीसहस्रादि द्रष्यृॠष्यभिध इत्यथर्ः । छन्दोदेवताप्रसङ्गेमुनीनामप्युपलक्षणीयत्वात् । सर्ववस्त्वभिधो ज्ञयः । स्तोमसामचित्यादि सर्वस्त्वभिधः । तथाप्रद्युम्नः पञ्चभूतेष्वित्यादि वक्ष्यमाणदिशासर्ववस्त्वभिधो ज्ञेयः । कुतः । यस्मात्तत्तच्छब्दप्रवृत्तिनिमित्तानन्तपूर्णगुणकस्तस्मादिति योजना । यद्वा यस्मात्सर्वाभिधस्तस्मादनन्तपूर्णगुणको ज्ञायते । शब्दानां यौगिकत्वा दतोनन्तगुणोयच्छब्दायोगवृत्तय इति सङ्ग्रहभाष्योक्तेरिति ज्ञयम् । एतद्विद्याधिकारिण आह ॥ मुख्यत इति ॥ त्रिवृदादिशब्दानां त्रिवृदादिगते लाक्षणिकत्वेकेवलरूढत्वे वा गुणपूर्त्यलाभान्निर्वक्ति ॥ त्रिविध इत्यादिना ॥ अध्यात्मादि त्रयेत्रेधावर्तत इति त्रिवृदनिरुद्धः । यद्यपि प्रद्युम्नादीनामप्यध्यात्मादि भेदं वक्ष्यति तथापि तेषां भूताद्येकदेशेध्यात्मादि भेदेनावस्थानमस्य तु सर्वत्रेति भेदो बोध्यः ॥ पञ्चदशात्मक इति ॥ अध्यात्मंशरीरेविद्यमानेषु पञ्चभूतेषु अधिभूतं पृथिव्यादौ पञ्चीकरण प्रक्रिययाविद्यामानेषु पञ्चभूतेषु अधिदैवं देवतालोकस्थ शरीरेविद्यमानेषु पञ्चभूतेषुस्थित प्रद्युम्नः पञ्चदशात्मक इत्यर्थः । सङ्कर्षणोलिङ्गसप्तदशस्थत्वाल्लिङ्गशरीरगत पञ्चभूतेषुदशेन्द्रियेषु मनोबुद्धयोश्ऱ्चस्थितत्वात् तावान्सप्तदशश्रुतः । मनोबुद्धयोरेकत्वविवक्षया लिङ्गस्य षोडशकलत्वमन्यत्रोक्तमित्यविरोधः ।
?R
भूताभिमानिषुस्वलोकस्थदेवेषु च सप्दधातूनां सत्वादधिभूतादिगतत्वं बोध्यम् । मन आदि चतुष्यये मनोबुद्धयहंकारचित्तेषु । गुणत्रयेप्रकृतावित्यष्यसु अध्यात्मादि विभेदतश्ऱ्चतुर्विंशति सङ्खयाकासुस्थितः प्रभुः मूरूपेणसहपञ्चविंशात्मक इत्यर्थः । मन आद्यष्यकमध्यात्मं प्राणिदेहेप्रकृति स्वात्मसंश्लिष्यान् गुणान् सत्वादिकानपीत्युक्तन्यायेन वर्तते । भूतेष्वपि व्याप्तं कार्येषु कारणमित्युक्तन्यायेन भूतानां परम्परयागुणत्रयप्रकृति कार्यत्वात् । प्राणाएवेदमग्रासुस्तेभ्योभूतानि जज्ञिरे इत्युक्तदिशामन आदिकार्यत्वाच्च अधिदैवं देवेषु मन आद्यष्यकं तु सिद्धम् । यद्वा अध्यात्मं प्राणिशरीरगेषुदेवेषु भूताभिमानिषु स्वलोकस्थेषु च देवेष्विति स्थानत्रयेपि देवताविवक्षायां मन आद्यष्यकस्यावस्थानं सुकरमेव । बहुत्वेन प्राप्तभेदशङ्कां वारयति ॥ नारायण इति । स नारायण एकोप्यचिन्त्यस्वरूपत्वादेकोपि बहुधा भवतीत्यर्थः । रथारूढः देहाख्यारथारूढः । तृप्लवनतरणयोरितिधातुव्याख्यानेपि धातूनामनेकर्थत्वाद्रथारूढ इत्युक्तम् । यद्वा रथेन तरति प्लवति गच्छति तरति शत्रूनिति वा रथन्तरं इत्यस्य तात्पर्यं रथारूढ इति । त्रिकाले त्रिसन्ध्याकाले सवनत्रये वा भूतभविष्यद्वर्तमानकाल इति वा द्वेपदेरूपेयस्याः सा द्विपदा । यद्वा द्विरूपेण वर्तत इति द्विपदा पद्लृगताविति धातोः । अन्तर्बहिश्ऱ्चतत्सर्वं व्याप्यनारायणस्थितः । द्विरूपोन्तर्बहिर्यत इत्यादेरिति भावः । सर्वछन्दोभिधा इमे भगवद्रूपसङ्घावनितातनवः प्रोक्ता इत्यर्थः । शिरोदक्षिणःपक्ष इत्यादेरथर्ः मध्यमित्यादि ॥ आत्मेत्यस्यार्थोमध्यमिति ॥ प्रकर्षेणस्तूयतेऽवतिरक्षतिचेति प्रस्ताव इतयभिप्रेत्योक्तः ॥ रक्षन्संस्तूयतेयत इति ॥ उद्गमयन् सृजन् गिरासर्ववागभिमानिन्यारमयागीयत इत्यद्गीथ इत्यर्थमभिप्रत्य व्याचष्ये ॥ सृजन्निति ॥ तत्र सृष्यिकालेजगति वा । उत्पूर्वस्य गमेः सर्वशरीरान्निर्गमलक्षणसृष्यिपरत्वं वाग्गीरिति श्रुतेः सर्ववागात्मिकायातु श्रीरिति स्मृतेश्ऱ्च गीत्यस्य गिरावागभिमानिन्यालक्ष्म्ेत्यर्थकत्वं उत्पूर्वस्य गैशब्दे गागान इति वाधातोः कर्मणिस्थक् प्रत्येगीथ इत्यस्य गीयत इत्यर्थकतवम् । यद्वा गीतशब्द एवायम् । तकारस्य थकार इति भावः । उत्पूर्वस्य गमेस्थन् प्रत्येये उद्गमयतीत्युद्गीथ इत्यर्थान्तारमाह ॥ जगदुद्गमनेनेति ॥ प्रमाणेत्यक्तत्वात्स्तोमादिनाम स्वं निर्वक्ति ॥ स्तूयमानत्वादिति ॥ समतवा द्गुणैःसर्वभूतेषुसमत्वात् । समोहं सर्वभूतेषु नमेद्वेष्योस्तिनप्रिय इत्युक्तरीत्यासमत्वाद्वा । छन्द्यत्वादुत्तमधिकारिणां स्वयमेष्यत्वात् । अन्येषां तत्प्रसादस्यापेक्षितत्वेनेष्यत्वात् । अकामितो वाग्गतिमेव दद्यादिति भारततात्पर्यवचनात् । चितिशस्त्रपदयोः खण्डेऽभावान्नव्याख्यानं कृतम् ॥ 16
॥ बृहतीसहस्र शंसनं कतर्व्यमित्यक्तम् । तत्र पूर्वपक्षप्रतिक्षेपपूर्वं द्रढयितुमयं खण्डः ॥ तद्वा इति ॥ तदिदमुक्तप्रकारेण सम्पन्नं सम्पादितं बृहतीसहस्रमेव सम्पन्नं शंसनायोपपन्नं भवति । तत्तत्र । शंसकेषुमध्येकेनानाछन्दसां सहस्रमेतच्छंसनीयं प्रतिजानते । किमन्यत् नानाछन्दः प्रशंसनादन्यत्सत्प्रशस्तं किं न किमप्यतः प्रशस्तस्यान्यस्याभावादेतदेव प्रशंसनीयमिति प्रतिजात इत्यर्थः । एकेवादिनः नानाछन्दःशंसनादन्यत्सत्प्रशस्तं त्रिष्युप्सहस्रं ब्रूयामेति प्रतिजानते । एकेनुष्युप् सहस्रं प्रशस्तं प्रतिजानते । तत्कथमित्यतस्तेस्वप्रतिज्ञातार्थेनुष्युप् प्रशंसात्मिकां ॠचं प्रमाणत्वेनोदाहरन्तीत्युच्यते ॥ तदुक्तमृषिणेति ॥ तदनुष्युभःप्रशस्तत्वं ॠषिणामन्त्रद्रष्य्रोक्तमन्त्र उदाह्रियते ॥ अनुष्युभमिति ॥ बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सङ्खये चरन्तम् । अनुष्युभमनुर्चूर्यमाणमिन्द्रं निचक्युः कवयोमनीषेति समग्रमं त्रस्यायमर्थः । कवयो दिव्यदृष्यिमन्तोज्ञानिनः मनीषा मनीषया ज्ञानसामर्थ्येन बीभत्सूनां जगद्बिभर्तुमिच्छूनां दिव्यानामपा मब्देवानां सख्ये सख्यार्थं सयुजं चरन्तं मेघचक्रेसहैवचरन्तं हंसमाहुः हंसस्वरूपिणं विष्णुं वायुञ्चाहुः । नच तद्वचनं विप्रलम्भवचनवद्दृष्यार्थविषयं विरिञ्चिदिभ्यो नृसिंहानुष्युभमनुसम्यक् चर्तूर्यमाणमुच्चार्यमाणमर्थवत्तया व्याचक्षाणं इन्द्रं परमेश्ऱ्वरं हंसरूपिणं विष्णुं तथाशिवादिभ्योनुष्युभमुच्चारयं तं व्याचक्षाणं वेन्द्रं हंसरूपं वायुं मनीषयादि व्यदृष्ययाददृशुश्ऱ्चेति । किमनेन मन्त्रेणोक्तं भवतीत्यत उच्यते ॥ वाचीति ॥ वागाख्यायामनुष्युभ्युभाभ्यामुच्चार्यमाणायां हि ऐन्द्रमिन्द्रमिन्द्रेण परमेश्ऱ्वरेण सहितं प्राणं ॠषयोन्यचायन् ददृशुरिति यत् तत्तस्मादेतदनुष्युभाख्यछन्दस्तेनविष्णुनातेभ्य उक्तं भवतीति ज्ञायते । तत्तस्मादेतदनुष्युप् छन्द एव तत्प्रशस्तमिति एतत्प्रमेयं तेन मन्त्रेणोक्तं भवतीत्यर्थः । फलाधिक्याच्चानुष्युप्छन्दःसहस्रमेव शंसनीयमित्युच्यते ॥ सहेति ॥ योनुष्युभांसहस्रंशंसीत स भवितोर्भवितुं मोक्षङ्गन्तुमीश्ऱ्वरःसमर्थः यशस्वीदिक्षुप्रसिद्धः कल्याणकीर्तिः शुभकीर्तिश्ऱ्चभवति । दिक्षुयानाद्यशोव्याप्तं कीर्तिःप्रत्यक्षतस्तुतिरिति वचनात् । आयुषःपुराप्रैतोः प्रैतुं मर्तुं चेश्ऱ्वरः स्वछन्दमृत्युश्ऱ्चस्यादित्यैतरेयकः विष्णोरन्यऐतरेय आहस्मेत्यर्थः । एवं पूर्वपक्षान् प्रापय्यदूषणमुक्तं भगवतामहैतरेयेणेत्युच्यते ॥ इतिहस्मेति ॥ इत्यस्मिन्ननुष्युप्सहस्रपक्षेदूषणमाह ऐतरेय इत्यर्थः । पक्षान्तराणां परिहारमनुक्त्वाकुतो त्रैवदूषणमुक्तं तेनेत्यतस्तेनैव स्वशिष्यं प्रतिपक्षान्तराण्युपेक्ष्यानुष्युप्सहस्रपक्षदूषणेकारणमुक्तमित्युच्यते ॥ इतिस्मेति ॥ एष नानाछन्दःप्रशंसादिपक्षः । अकृत्स्नः प्रकरणविकलत्वेन परिहारायाप्यपूर्णः निर्दलतयोपेक्षणीयः । एषत्वदीयः पक्षः प्रमाणपूर्वकत्वात्कृत्स्नः
?R
परिहारायपूर्णश्ऱ्चेतिग्राह्यम् । किञ्चैषत्वं ममात्मा अन्तरङ्गप्रियशिष्य इतिहस्म इत्यपि स्वशिष्यं प्रत्याहमहैतरेय इत्यर्थः । एवं पक्षान्तराणां निर्दलत्वं शिष्यपक्षस्य सदलत्वमुक्त्वादूषणमुच्यते ॥ अकृत्स्न इति ॥ यद्वा ग्यानुष्युबाख्यवागभिमानिन्युमा एष भगवतो कृत्स्न आत्मा असम्पूर्णप्रतिमा तत्र ज्ञापकमुच्यते ॥ अकृत्स्नइति ॥ कृत्स्नशब्दार्थप्रतिपादकब्रह्मशब्दावाच्य इत्यर्थः । सम्पूर्णप्रतिमात्वे वायोरिवब्रह्मशब्दवाच्यत्व प्रसङ्गादिति भावः । असम्पूर्णत्वे युक्त्यन्तरमुच्यते ॥ अभिहीति ॥ प्राणेन वायुना मनसा शिवेनाभि इस्यमानः अभितोविषयेषुप्रेर्यमाणः अनुभवतिविषयान्वाचानानुभवति । वाङ्मन्त्रेणविषयभोगोन भवतीत्यर्थः । अस्त्वेवमनुष्युभोऽवरत्वं ततश्ऱ्चकिमित्यत उच्यते ॥ बृहतीमित्यादिना ॥ बृहतीमभिसम्पादयेत्कुतः । यद्यस्मादेषप्रकृतोवायुरेव बृहतीबृहत्याभिमानी । तस्माद्यद्बृहती याबृहती । सा छन्दसां मध्ये बृहतीवरिष्ठा । वायुरपिकश्ऱ्चिद्देवः तदभिमन्यमानकत्वमात्रेणकथं बृहत्यावरिष्ठत्वमिति चेयद्बअहती यो बृहत्याभिमानीवायु रेषवैदेवानां मध्येकृत्स्नः पूर्णः आत्मा विष्रुप्रतिमा । पूर्णत्वे ज्ञापकमुक्तम् ॥ कृत्स्नइति ॥ यस्मात्पूर्णत्वं तस्मादेवखलुकृत्स्नः कृत्स्नशब्दपर्योय ब्रह्मशब्दवाच्यः । द्युभ्वाद्यायतनं स्वशब्दादिति यथा । बृहत्यभिमानिनः पूर्णत्वे बृहतीशब्दोपि प्रमाणमुच्यते ॥ एषवाइति ॥ यद्यस्मात्कृत्स्नःमाहात्म्येनाधिकस्तस्मादेवबअहतीशब्दवाच्यइत्यथर्ः । बृहत्याइतरछन्दोभ्य आधिक्येज्ञापकमुच्यते ॥ एषवाइति ॥ यद्यस्मादेषः छन्दोविशेषः बृहतीशब्दवाच्यपरिपूर्णवाय्वभिमतत्वेन महात्म्याधिक्योपेतः तस्मादेवबृहतीत्युच्यत इत्यर्थः । प्रकारान्तरेणसदृष्यान्तं बृहत्या उत्तमत्वमुच्यते ॥ स इत्यादिना ॥ सोयमात्मा मध्यदेहः । सर्वतःसर्वशरीरैः शरीरावयवैः । परिवृतः । ततश्ऱ्चकिमित्यत उक्तम् ॥ तद्यथेति ॥ अत्र तदित्येतत् मध्यं ह्येषामित्यनेन सम्बध्यते । यथायमात्मासर्वशरीरैःपरिवृतः एवमेवबृहतीसर्वतःछन्ददोभिः परिवृता । मध्यदेह बृहत्योरितराङ्गछन्दः परिवृतत्वेज्ञापकमुच्यते ॥ मध्यमीति ॥ तत्तस्मादितराङ्गपरिवृतत्वादेवायमात्मैषामङ्गानां मध्यमित्युच्यते बृहत्येषां छन्दसां मध्यमित्युच्यत इत्यर्थः । इतरछन्दसां चतुर्मुखेरराङ्गसमुद्भूतत्वाद्बृहत्यास्तु मध्यदेहोत्पन्नत्वात्तृचाशीतित्रयेमध्येपठ्यमानत्वात् सप्तछन्दोलक्षणवैष्णवप्रतिमायां मध्याङ्गत्वाच्चेत्येवं तत्परिवृतत्वादेवमध्यत्व व्यवहार इति भावः । यदुक्तमनुष्युप्छंसनेमोक्षादिफलसद्भावात्तच्छंसनं प्रशस्तमिति तन्न । ततोप्यधिकफलत्वाद्बृहतीशंसनस्येत्युच्यते ॥ सहेश्ऱ्वरइत्यादिना ॥ नन्वेतत्फलमनुष्युप्राहेत्यर्थः । उपसंह्रियते ॥ कृत्स्नइति ॥ यद्बृहती याबृहती एष तदभिमानीवायु र्हि यस्मात्कृत्स्न आत्मा सम्पूर्णप्रतिमा एषछन्दोविशेषोपिकृत्स्न आत्मा भगवतोविशिष्यप्रतिमा । तस्माद्बृहतीमेवाभिसम्पादयेदिति ॥ अत्र यत्तदिदं बृहतीसहस्रं सम्पन्नं तदेकेनानाछन्दसां सहस्रं प्रतिजानत इत्यन्यथाप्रतीतेतेर्व्याचष्ये ॥ तदिदमिति ॥ तदिदमित्यस्य तात्पर्यमुक्तप्रकारेणेति ॥ उक्तप्रकारेणसम्पन्नं सम्पादितं बृहतीसहस्रमेव शंसनाय सम्पन्नमुपपन्नं भवतीत्यथर्ः । तदेके तत्रैके । एतदित्यस्यार्थः ॥ शंसितव्यमिति ॥ ननु नानाछन्दस्सुत्रिष्युबादेरप्यनुप्रविष्यत्वादविरोधादेक इति किमर्थमित्यतो व्याचष्ये ॥ केचिदिति ॥ नानावादिषु प्रस्तुतेषुकैस्तदुक्तमिति प्रमाणमुच्यत इत्यत आह ॥ अनुष्युबिति ॥ ननु ॠचि अनुष्युप्छंसनीयेत्यनुक्तत्वात्कथमुक्तार्थेप्रमाणमित्यतः अनुष्युभःप्रशंसयातदुत्तमत्वं लभ्यते तेन च हेतुनातस्याएव यज्ञेशंसनीयत्वं लभ्यतदतिभावेनोक्तम् ॥ अनुष्युप्प्रशंसात्मिकामिति ॥ ॠचमादित एव व्याचष्ये ॥ बीभत्सूनामिति ॥ चर्चूर्यमाणमित्यत्रहलादिः शेष इति विधेः चरफलोश्ऱ्चेति विहितनुगागमस्य चाभावः छान्दस इत्यभिप्रेत्य यथाविधानमनुवदति ॥ चर्चूर्यमाणमिति ॥ क्रियासमभिहारेयङितिस्मरणादुक्तं पुनः पुनरिति । चरति रत्रोच्चोरणार्थ इत्यभिप्रेत्योक्तं वदन्तमिति । उच्चरतीत्यादावुत्पूर्वस्य चरतेरनुवादार्थत्वदर्शनादिति भावः । इन्द्रमित्यस्यार्थः । परमेश्ऱ्वरमिति ॥ प्रमाणेनोत्तरार्धं विवृणोति ॥ मेघेति ॥ अपांसख्यार्थं चरन्तमित्यस्य तात्पर्यं मेघसंस्थमिति । वायुविषयतयाप्येतद्वयाचष्ये ॥ एवमिति ॥ वाचिवैतदैन्द्रं प्राणमित्यत्रेन्द्रेण सहितं वायुमित्युक्त्याविष्णुमिति लभ्यत इति भावेन व्याचष्ये ॥ वागाख्यायामिति ॥ उच्चायर्माणायां ब्रह्मादीन्प्रतीति शेषः । व्यचायन्नितियत्तत्तस्मादेतदनुष्यबाख्यछन्दस्तेनविष्णुनातेभ्य उक्तं भवतीति ज्ञायत इत्यस्य तात्पर्यार्थोऽत इति । मुनिभिर्दृष्यत्वादित्यर्थः । यस्मादितरपरितयागेनविष्णोः सकाशादनुष्युबर्थं शृण्वन्ति तत्तस्मदेतच्छन्दस्तदुत्तममित्येतत्प्रमेयं तेन मन्त्रेणोक्तं भवतीत्यर्थान्तरमाह ॥ अतोनुष्युबिति ॥ एतच्छंदस्तदिति तच्छब्देन प्राक् सदिति प्रकृतमुत्तमत्वं परामृश्यत इति भावोक्तम् ॥ वरेति ॥ सोनुष्युपछन्दसःकईश्ऱ्वरोभवितुमीश्ऱ्वरः समथर् इत्यन्यथाप्रतीतेः प्रमाणेन व्याचष्ये ॥ अनुष्युभामिति ॥ अत एव शंसनादेवभवितुमीश्ऱ्वरः स्याद्भावश्ऱ्चमोक्ष इत्येवाथर्ोनान्यथार्थ इत्यर्थः । दिक्षुयानाद्यशोव्याप्तं कीर्तिः प्रत्यक्षतस्तुतिरिति वचनं मनसिनिधायाह ॥ यशस्वीति ॥ अयुषःपुराप्रैतोरीश्ऱ्वरइत्यस्य तात्पर्यं स्वछन्देति ॥ इति हस्माहेत्येतद्वयाचष्ये ॥ इत्याहैतरेयकइति ॥ कःकुत्सने सहिदासाद्भगवतोन्यस्तच्छिष्यइत्यर्थः । इति हस्माह इति पूर्वपक्षेदूषणमाह ॥ महैतरेयइति । पक्षान्तरमदूषयित्वाकिमिति
?R
तत्पक्षोदूष्यत इति शिष्यहार्दशङ्कापरिहारपरत्वेनापीति हस्माह । कृत्स्नोह्येष इत्येतद्वयाचष्ये ॥ नानेति ॥ कृत्स्नइत्यध्याहारं एष त्वदीयः पक्षःकृत्स्नः परिहाराय पर्याप्त इत्यर्थमभिप्रत्यतातपर्यमाह ॥ त्वंत्विति ॥ एषत्वं ममात्मेत्येतद्वयाचष्ये ॥ प्रियइति ॥ ममात्माभद्रसेन इत्यादावात्मशब्दस्य गौण्या प्रियपरत्वादिति भावः । अकृत्स्नोह्येष आत्मा यद्वागित्यस्यार्थमाह ॥ उमेति ॥ अकृत्स्ना अपूर्णाप्रतिमा । तत्र ज्ञापकपरतया कृत्स्नेत्येतत्प्रकारान्तरेण व्याचष्ये ॥ नैवब्रह्मेति ॥ अभिहिप्राणेनेत्यादि व्याचष्ये ॥ वायुनेति ॥ अभिसर्वतोविषयेष्वस्यमानः क्षिप्यमाणः । अनुभवेत् विषयानिति शेषः । कुतो बृहतीमभिसम्पादयेदित्यतः प्रवृत्तमेषवैयद्बृहतीत्यंशंतावद्वयाचष्ये ॥ अभिमानीति ॥ यद्यतः एषवायुरेव बृहती बृहत्यभिमानी तस्माद्यद्बृहतीवरिष्ठेत्यावर्त्य योजनेति भावः । यद्बृहतीयोबृहत्यभिमानीवायुरेष वैकृत्स्न आत्मेत्येतद्वयाचष्ये ॥ पूर्णइति ॥ कृत्स्नइत्येतत्तत्समानार्थ ब्रह्मशब्दवाच्य इत्येवं प्रकारान्तरेण व्याचष्यष ॥ तस्मादिति ॥ वायोः पूर्णत्वे छन्दसोपि तदभिमन्यमानत्वादिनाधिक्ये च बृहतीशब्द एव प्रमाणमित्युक्तं यद्यस्मात्कृत्स्नस्तस्माद्बृहतीति ॥ तद्वयाचष्ये ॥ माहात्म्याधिक्यत इति ॥ वायोः छन्दसश्ऱ्चेति शेषः । मध्यं ह्येषामित्यत्र बृहत्यामध्यत्वं नाम चतुर्मुखमध्योत्पन्नत्वं तृचाशीति त्रयमध्येपठ्यमानत्वं सप्तछन्दोरूपवैष्णवप्रतिमायामध्याङ्गत्वमिति त्रेधा व्याचष्ये ॥ अङ्गभ्यइत्यादिना ॥ मध्ये तृचाशीति मध्ये । ननु वाय्वभिमतत्वेन बृहत्या उत्तमत्वे महालक्ष्म्यभिमतत्वेन गायत्ऱ्या उत्तमत्वप्रसङ्ग इत्यत आह ॥ गायत्रीति ॥ गायत्रीदेवतात्वं गायत्ऱ्यभिमानि देवतात्वम् । बृहतीदेवता बृहतीलक्षण प्रतिमाधिष्ठात्री । तन्नियामिकादेवतेत्यर्थः । तथाच तदपि बृहत्येवाधिकेति सैवठसनीयेति भावः । ननु गायत्रीछन्दसमहमित्यादौ गायत्ऱ्याः छन्दः प्रवरत्वस्य स्पष्यमुक्तत्वाद्भगवतो बृहत्यधिष्ठतृत्वेलक्ष्म्यवरत्व प्रसङ्गः गायत्रीच शंसनीयेत्यापन्नमित्यत आह ॥ आधिक्यमिति ॥ यत्र वाक्ये ॥ तत्पुत्रो लक्ष्मीपुत्रः । नन्वस्यां विवक्षायां विष्णोगर्ायत्ऱ्यवरत्व प्राप्त्यभावेपि बृहत्यपेक्षयागायत्ऱ्य उत्तमत्वेन तस्या एव शंसनीयत्वप्रसङ्ग इत्यत आह ॥ ॠचामिति ॥ तद्गायत्रीशंसनं नाङ्गीकार्यं । कुतः । अत्र ॠचामाधिक्ययोगार्थङ्गायत्रीसहस्रशंसनमकृतवा बृहतीसहस्रशंसने कृते सपञ्चशत गात्ऱ्यो भवन्तीति तदाधिक्यघटनार्थमित्यर्थः । ननु यदि ॠगाधिक्यलाभार्थं बृहतीसहसशंसनं स्यात्तर्हि जगत्यादि शंसनेबृहत्या अपि ॠगाधिक्यलाभात्तत्कर्त व्यमित्यत आह ॥ प्रधान्तवादिति ॥ न केवल मृगाधिक्यलाभाय बृहतीशंसनं ब्रूमः येन जगतीशंसन प्रसङ्गः । किन्तु मध्यदेहोत्पन्नत्वेन मध्ये पठनीयत्वेन सप्तछन्दोलक्षण प्रतिमायामध्याङ्गत्वेनावश्योपासनीयद्वासप्ततिसहस्राक्षरघटितत्वेन जीवोत्तमप्राणाभिमतत्वेन च प्रधानत्वादित्यर्थः । ननु बृहत्युपासकस्योक्तं सहेश्ऱ्वर इत्यादि फलमनुष्युबुपासकस्यापि सममिति कोविशेष इत्यतः प्रैतोरित्यतः परङ्कृत्स्नोह्येष इत्यस्यानुकर्षमभिप्रेत्य व्याचष्ये ॥ सम्पादनादिति ॥ एषकृत्स्न इत्यस्यार्थो गुणेति ॥ मुक्ताविति शेषः । इति हस्माहेत्यस्यार्थः ॥ इति प्राहेति ॥ किमन्यत्सदन्यद्रूपादित्येतद्वयाचष्ये ॥ इतोन्यदिति ॥ ऐन्द्रंप्राणमित्यत्रेन्द्रसम्बन्धिनः प्राणस्यैकस्यैवन्यचाय्यन्नित्युक्तं दर्शनमित्यन्यथाप्रतीतेः व्याचष्ये ॥ ऐन्द्रमिति ॥ प्राणेनमनसेत्यत्र विशेषणविशेष्यभावप्रतीतेराह ॥ प्राणेनमनसाचेति ॥ अभीत्यस्य व्यवहितेनान्वयं दर्शयति ॥ अभिइत्यस्यमानइति ॥ तस्य प्रतिपदं अभ्यस्यमानइति । अकारस्थने इकारप्रापकमाह ॥ तृतीयइति ॥ यो वर्णो भवितव्यस्थाने प्राप्तस्य तृतीयोवर्णोतिशयार्थे भवतीति सूत्रार्थः । अतिशयितेर्थे तृतीयवर्णस्य सूत्रप्राप्तिमुक्त्वाप्रयोगमप्याह ॥ मथनादिति ॥ यद्यपि हि सिहिंसायामिति धातोः सिंहशब्दोनिष्पन्नः सिंहोवर्णविपर्ययादित्यभियुक्तवचनात्सिंह इति रूपञ्च । तथापि सिंहशब्दस्यभगवति वृत्तौसहमर्षण इति धात्वन्तरजत्वञ्चोपेत्य सहनात्सिंह इत्युक्तम् । हत्वी हत्वा । आकारस्य तृतीय ईकार इति भावः । अभ्यस्यमान इत्यस्य प्रकृतोपयुक्तमर्थमाह ॥ अभीति ॥ तृतीयवर्णप्राप्तिनिमित्तमतिशयं व्यनक्ति ॥ बहुशइति ॥ कृत्स्नआत्मेत्येतद्वयाचष्ये ॥ कृत्स्नइति ॥ उक्तार्थेप्रमाणमाह ॥ एकापीति ॥ यद्यस्मादन्यछन्दोभिधाप्रतिमामध्यमैवस्यात्तत्तस्माद्बृहत्येकाप्रतिमापि बहुप्रतिमानां छन्दसां सकाशद्वरेत्यर्थः । यद्वा छन्दसां मध्ये बृहत्येकापि विष्णोः पराप्रतिमा । यद् याऽन्यछन्दोभिधाप्रतिमा । तत् सा मध्यमैवेत्यर्थः । ननु ब्रह्मादिभिरनुष्युभः श्रूयमाणत्वात्तस्याउत्तमत्वमित्यनुष्युभमनुचर्चूर्यमाणमिति प्रमाणादाहरणपूर्वं शिष्येणशंकितस्य महिदासेन किमुक्तं भवति प्रमाणस्य च कि तात्पर्यमुक्तं भवतीत्यत आह ॥ एवमिति ॥ ब्रह्मादिभिःश्रूयमाणानुष्युबपि एवं अकृत्स्नोह्येष आत्मा कृत्स्नोह्येष आत्मेत्यादिना मध्यं छन्दसां बृहतीत्यन्तेनोक्त प्रकारेण । बृहत्या आङ्गस्वस्यावरदेवताभिमतत्वादितराङ्गोत्पन्नत्वाच्छन्दः प्रतिमाया अङ्गरूपत्वाच्च बृहत्यास्तुवाय्वभिमतत्वादङ्गित्वाच्च तस्याएवाधिक्यमिति महिदासेन समाधानमुक्तं भवति । बृहत्या एवाधिक्यमिति मन्त्रतात्पर्यञ्चोक्तं भवति । कथं । एवमुक्तप्रकारेण ब्रह्मादिभिः श्रूयमाणमपि बृत्याएवाङ्गं तदाकिमुवक्तव्यं तदाधिक्यमिति कैमुत्यसूचकत्वादिति भावः ॥ 17
?R
॥ प्रागाभिमान्याधिक्यादिना बृहतीसहस्रस्य कतर्व्यत्वमुक्तम् । तदेव युक्त्यन्तरेण प्रसाध्यतेऽस्मिन्खण्डे ॥ तस्य बृहतीसहस्रस्यैतस्यैवं सम्पन्नस्य स त एकादशानुष्युभांशतानि भवन्ति । पञ्चविंशतिश्ऱ्चानुष्युभो भवन्ति । तत्तस्मादक्षराधिक्यादुक्तप्रकारेण सम्पन्नं सम्पादितमिदं बृहतीसहस्रमेवसम्पन्नं वरं कथं बृहतीसम्पादनेऽनुष्युबाधिक्यमित्यत उक्तमात्तमिति ॥ भूयसाकनीयोल्पमात्तमन्तर्भावितम् । किञ्च यद्यनुष्युप्सहस्रस्यैव शंसनीयत्वं तर्ह्यनुष्युभो बृहतीसम्पादनं कर्तव्यमिति श्रौतं वचनं न स्यात्तेन ज्ञायते बृहतीसहस्रस्यैव शंसनीयत्वमिति भावेनोच्यते ॥ तदुक्तमिति ॥ यद्वा तद्वै तथोक्तप्रकारेणानुष्युभान्येन वाछन्दसा सम्पन्नमिदं बृहतीसहस्रं पुनःपञ्चविंशोत्तरैकादशशतानुष्युप्संम्पन्नञ्चेत्तदा विष्णोः बृहतीप्राणाख्यमनुष्टुबुमाख्यं प्रतिमाद्वयं सम्पादितं स्यात्तथाच वायोरपि बृहत्यनुष्युबुमाख्यं प्रतिमाद्वयं सम्पादितं स्याद्वायोरुमोत्पत्तिज्ञानं च सम्पादितं स्यादतस्तथाशंसनीयमिति तद्वा इदमित्यादेरर्थस्तत्रप्रमाणमुच्यते ॥ तदुक्तमिति ॥ वाचमष्यापदीमहं न वस्त्रक्तिमृतस्पृशम् । इन्द्रात्परितन्वंममे । इति मन्त्रस्यायमर्थः । ॠतं शश्ऱ्वदेकप्रकारम् । नित्यमिति यावत् । पूर्वावगतवत्सदा । स्थितेः ब्रह्मर्तमित्युक्तति वचनात् । यद्वा ॠतं यथार्थमानस्वरूपम् । ॠतं यथार्थविज्ञानमिति वचानात् । तं भगवन्तमृग्रूपेण स्पृशति प्रतिपादयतीति ॠतस्पृश मष्यापदीमष्यचतुरक्षरां वाचमनुष्युभं नवस्रक्तिं ॠगन्तराच्चतुरक्षर संयोजनेन नवधाविभक्तं बृहतीं कुवन् अहमिन्द्रादिन्द्रस्यैन्द्रस्य प्रणस्य च बृहत्याख्यांतन्वं प्रतिमां परिममेनिमिर्तवान् स्थापितवानस्मि । तथाच पुनर्नवस्रक्तिं बृहतीमष्यापदीं वाचं कुर्वन् अहमिन्द्राद्बृहतीप्रतिमाकवायुप्रतिमाकाद्विष्णोरैन्द्रात्प्राणाच्चानुष्युबभिमानिन्या उमायास्तन्वं शरीरं परिममे शरीरलाभलक्षोत्पत्तिं ज्ञातवानस्मि । ततश्ऱ्चोमाया अपि भगवत्प्रतिमात्वाद्भगवतोप्युमाख्यां तन्वं प्रतिमां परिममे प्रतिष्ठितवानस्मि । वाचमष्यापदीमित्याद्यनूद्यव्याक्रियते ॥ वाचमित्यादिना ॥ अष्यौहिचतुरक्षराणिभवन्त्यनुष्युभ इति शेषः ॥ बृहतीति ॥ अनुष्युप्चतुरक्षरसाहित्येन बृहतीसम्पस्यमानान विभक्ताभवतीत्यर्थः ॥ सत्यमिति । वागनुष्युबृचाॠग्जातं यदैवैतद्बृहतीसहसं सम्पन्नं तदातस्मादेवहेतोरिन्द्रस्य विष्णोरैन्द्रस्य प्राणस्य च बृहत्यैबृहत्याख्यांतन्वं प्रतिमां सन्निर्मिमीतेस्थापयतीत्यर्थः । तथातदनुष्युभा सम्पन्नं बृहतीसहस्रं यद्यस्माद्यदानुष्युप्सम्पन्नं भवति तदातस्मादेवहेतोर्बृहत्यै बृहत्याः बृतीप्रतिमाकादैन्द्रात्प्राणात् । उपलक्षणमेतत् प्राणाधिष्ठितादिन्द्राद्विष्णोश्ऱ्चानुष्युमनुष्युब्देवतां वाचमुमां सन्निर्मिमीते ताभ्यामियमुत्पन्नेति स्मरतीतियावत् । ततश्ऱ्चविष्णोर्वायोश्ऱ्चोमाख्यंतन्वं प्रतिमां संन्निमिमीते प्रतिष्ठापयतीत्यर्थः । बृहतीसहस्रस्याकारव्याख्यानरूपत्वेनोत्पन्नत्वात्तच्छंसनमेववरमिति भावेनोच्यते ॥ सवाएषइत्यादिना ॥ यदेतन्महदुक्थं बृहतीसहस्राख्यं सवा एषवाचो कारस्य पर
?R
मोविकार उत्तमाव्याख्या । नन्वकारस्य कोतिशयस्तस्य व्याख्यानं च कियद्विधं यन्मध्येपरमविकारत्वमुक्थस्येत्यत उच्यते ॥ तदेतत्पञ्चविधमित्यादिना ॥ अकारोवैसर्वावागित्यन्तेन ॥ तदेतदकारव्याख्यानमुक्थेन सहपञ्चविधम् । कथं मितममितं स्वरःसत्यानृते इति । मितादिकं विविच्यतोच्यते ॥ ॠगित्यादिना ॥ स्वरनियमवतीवागृक् । तद्रहितामिताक्षरावाग्गथा । परस्परमसमानविषमसङ्ख्याकाक्षराणि खण्हवाक्यानि कुम्ब्याः । इति यत्रिविधं तन्मितम् । यज्ञाङ्गं वाक्यजुः । वाक्यमात्रं निगदः । स्तोभाक्षराणिवृथावाक् । तदेतदमितम् । यत्सामाथोयः कश्चनगेष्णः गानं सस्वरः । ॐमिति यदक्षरं तत्सत्यम् । नेति यदक्षरं तदनृतम् । ॐकारस्याकारव्याख्यानरूपत्वं प्रपञ्च्यते ॥ तदेतदिति ॥ यत्सत्यमकारस्यादौ पठ्यमानत्वेन व्याख्येयाव्यभिचारित्वात्सत्यमोंकारस्तदेतत् वाचे अकारस्य पुष्पं फलमुकारादि विकारसहितत्वातपुष्पफलात्मकश्ऱ्च । पुष्पफलयोर्वृक्षविस्ताररूपत्ववदकारव्याख्यानगर्भोकारादि गर्भत्वातपुष्पफलात्मक इति भावः । ॐकारस्य सत्यत्वमोमिति वक्तुर्महाफलेन वम्भावकेनोच्यते ॥ सहेति ॥ योकारस्य वाचः पुष्पफलरूपं सत्यमोंगारं वदति स यशस्वीकल्याणकीर्तिः भवितोः भवितुं मोक्षं प्रप्नुमीश्ऱ्वरश्ऱ्च स्यात् । नन्वनृतस्यकथमकारव्याख्यानरूपत्वमित्यत उच्यते ॥ अथेति ॥ यद्यपि यन्नेत्येतदनृतमसत्यं व्याख्येयाकारस्य नकारातपरं श्रवणेनायथास्थितम् । अथ तथापि । एतद्वाचोकारस्य निषेधार्थकस्यकिञ्चिन्मूलं तदेकदेशार्थप्रकटनात् । यद्वा वाचः सर्वासां वाचां भूलं किञ्चिन्मूलं निषेधवाच्यकारेणैकार्थत्वादित्यर्थः । नकारस्य निषेधार्थकत्वम् । नेति तद्वक्तुःफलनिषेधेन प्रत्युत विपरीतफलेनच सम्भावकेनोपपाद्यते ॥ तद्यथेति ॥ वृक्षोमृदुपगमनेनाविर्मूलः प्रकटितमूलः । शुष्यति सशुष्कोवृक्ष उद्वर्तते पतति । तन्निदर्शनं यथा । एवमेवानृतं वदन् । वाङ्मूलभूतमनृतं नकारं ज्ञानादियोग्याय प्रकटयन्नौपदिशे तत्वं न दास्येऽन्नादिकमिति च वदन्नात्मानमाविर्मूलं करोति स्वयोग्यता व्यञ्जनेन प्रकटितमूलं करोति । स शुष्यति प्राग्विद्यमानधर्मज्ञानापनयेन गतसारो भवति । स उद्वर्तते नरकादिकं प्राप्नोति । तस्मादेवमनर्थप्राप्तेरनृतं न वदेन्नेति न वदेत् । एतेन कारणेन दयेतदयां कुर्यादेव ।
?R
नन्वेवं तर्हि नकारवचनस्यानथ;
हेतुतवादेतादृशमिदं कथं पुरुषार्थहेत्वकारव्याख्यानं स्यादित्यतोनेति वचनं स्वस्यपूर्णत्वस्यापि कारणमित्यकारव्याख्यानं भवत्येवेति वक्तुं यद्यनृतं नवदेत्तर्हिसर्वान्प्रतिनेत्यनुक्त्वाज्ञानादिकं दास्य इति सर्वमोंकुर्यात्किमित्यतोनेत्युच्यते ॥ परागिति ॥ यदोमित्यक्षरमेतत्पराग्बहिर्मुखमयोग्येभ्य उदाहृतञ्चेद्रिक्तं स्वस्यरिक्तत्वकारणम् । अयोग्येभ्योज्ञानमन्नादिकं वादास्य इति वचनं नजन्मान्तरेस्वस्य हान्यापादकं किन्तु तदैवेत्युच्यते ॥ तद्यदिति । यत्किञ्च यत्किचित्तज्ज्ञानं द्रव्यादिकं वास्वकीयमयोग्येभ्यॐमित्याह ददामीति ब्रूयादत्रैव तदैव तदस्मैरिच्यतेऽस्मादपगच्छति । ज्ञानं क्षीयते । द्रव्यञ्च तेन दोषेण चोरादिभिरपह्रियत इति भावः । यद्येवं प्रतिज्ञामात्रेणहानिस्तदाकिमुवाच्यं दानेनेत्युच्यते ॥ सयदिति ॥ सयदिसर्वं सर्वान्प्रति योग्यायोग्यसाधारण्येन स्वस्यविद्यमानं यत्किञ्चिदोंकुर्याद्दद्यात्तदात्मानं रिच्याद्रिक्तं कुर्यात्सकामेभ्यः स्वेष्यपुरुषार्थेभ्योनालं स्यात्समर्थोनस्याद्यस्मादेवमथ तस्मादयोग्येभ्योयन्नदास्येज्ञानादिकमिति वचनं तदभ्यात्मं आत्मनःपतिपूर्णम् । स्वस्यपूर्णत्वकारणम् । यथायोग्यायोग्यसाधारण्येननोंकुर्यात्तथानेति च नब्रूयात्किन्त्वयोग्यं प्रत्येवनेति ब्रूयात् योग्यं प्रति नेतिनब्रूयादिति भावेनयोग्यं प्रतिनेति वचनेपूर्वोक्तदोषादकीर्तिलक्षणं दोषान्तरमुच्यते ॥ सयदिति ॥ सयदिसर्वं योग्यायोग्यसाधारण्येन सर्वोन्प्रति नेतिब्रूयादस्य दुष्कीर्तिर्जायते । सापकीर्तिरेनन्तत्रैव तदैव । हन्याद्धतप्रायं कुर्यात् । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यत इति हि भगवद्वचनम् । तस्मान्नेत्युक्तेरनर्थहेतुत्वात्पुरुषार्थहेतुत्वाच्चपुण्यकालेसत्पात्रेभ्योदद्यादेवपुण्येपि कालेप्यपात्रेभ्यो न दद्यात्तस्माल्लोके विवेकीजनः सत्यानृतेमिथुनी करोति । तयोरर्मिथुनीकरणात्प्रकृष्योजायते । स एष वाचः परमोविकार इत्यादिवेत्तुः फलमुच्यते ॥ भूयानिति ॥ यस्यावाचः अकारस्यैव । बृहतीसहस्रलक्षःशब्दसमूहोमुख्यामुख्यलक्षणोविकारः । यो वैतां वाचमकारं वेदस सम्प्रतिति वित्सम्यग्ज्ञानी भूयात्पूर्णो भवतीत्यर्थः । पञ्चविधशब्दराशेरकारव्याख्यानरूपत्वे श्रौतं लिङ्गमुच्यते ॥ अकारोहवेति ॥ अकारः सर्वावागिति हवैश्रुतिरस्ति । नच मुख्यतः सर्वाभिर्वाग्भिरकारस्यैक्यं युक्तमतः सैषाकाराख्यावाक् स्पर्शोष्मभिर्व्याख्यानरूपैर्व्यज्यमाना व्यज्यमानार्था बह्वीपञ्चविधा नानारूपा वेदपञ्चरात्रादि विलक्षणरूपा च भवतीत्यङ्गीकार्यम् । व्याख्यानव्याख्येययोः अभेदोपचारात् । अतो युक्तमकारविकारत्व8
सर्ववाचामिति भावः । सवोत्तमाभ्यां वाणीप्राणाभ्यामभिमतत्वाच्चाकाशस्योत्तमत्वमिति भावेनोच्यते ॥ तस्यैयदुपांश्ऱ्वित्यादिना ॥ तस्यै तस्याः । यदुपांशूच्चारणं स तस्याभिमानी प्राणः । यदुच्चैरुच्चारणं तत्तस्य स्थूलूसूक्ष्मात्मकसर्वशरीराभिमानिनी । यदुपाश्ऱ्वित्यत्र ज्ञापकमुच्यते ॥ तस्मादिति ॥ यस्मादुपांश्ऱ्वभिमानिचेतनमशरीरं तस्मात्तदुपांशूच्चारणं तिर इव तिरोभूतमिव । अशरीराभिमतत्वेतिभूतत्वं कुत इत्यत उक्तम् । तिरइवह्यशरीरमिति ॥ अशरीरमप्रत्यक्षमिवेत्यर्थः । किमशरीरमित्यत उक्तमशरीरोहीति ॥ यदुच्चैस्तच्छरीरमित्यत्रज्ञापकमुच्यते ॥ अथेति ॥ यद्यस्मादुच्चैरुच्चारणस्य शरीरं भारत्यभिमानिनीतस्मादेव तदुच्चैरुच्चारणमविः स्पष्यं ज्ञायते । भारत्यभिमतत्वमात्रेणकथमाविर्भूतत्वमित्यत उक्तमाविर्हीति ॥ शरीराभिमानिनीभारतीप्राणापेक्षयाविराविर्भूताव्यक्ता खलु । अव्यक्तस्वभावं स्वातन्त्ऱ्ेण ब्रह्म । तदव्यक्तमाहहीति हि भगवद्वचनम् । श्रीरप्यव्यक्तस्वभावा । तदुक्तं गीतातात्पर्ये । सूक्ष्मत्वादवितर्क्यत्वाद्गुणबाहुल्यतस्तथा । अनिर्देशयौतथाव्यक्तावचिन्त्यौ श्रीश्ऱ्चमाधव इति । इयांस्तुविशेषः । श्रीःपरतन्त्रत्वाद्भगवदिन्द्रियाभिव्यक्ता नत्वीश्ऱ्वरवत्स्वेतरसमस्तेन्द्रियागोचरत्वलक्षणमुख्याव्यक्तत्वयुता । प्राणस्तु स्वावरेन्द्रियागोचरोपि रमात आधिक्येन स्वसमब्रह्मेन्द्रियगोचरत्वादव्यक्तमिव नत्वव्यक्तस्वभावः । भारतीतु जीवेष्वपि ब्रह्मवायुसरस्वत्याख्यत्रीन्द्रियगोचरत्वात्प्राणवन्मुख्याव्यक्तत्वाभावादाविर्हीत्युक्तेति भावः ॥ तस्यवा एतस्येत्येतद्बृहतीसहस्रशंसनस्यकर्तव्यत्वेहेतुत्वेन व्याचष्ये ॥ बृहतीति ॥ तद्वा इदमिति प्रथमवाक्यं साध्यपरतया व्याचष्ये ॥ अतइति ॥ तदित्यस्य तस्मादि त्यर्थमभिप्रेत्य प्रतिपदमत इति ॥ आधिक्यादनुष्युपाधिक्य लाभात् । सम्पादनं शंसनं । आत्तंवेत्यस्यार्थः ॥ तस्यात्रैवेति ॥ यथानुष्युभो बृहत्यामन्तर्भावस्तथा बृहत्या अपि जगत्यादावन्तर्भावात्तच्छंसनमेव वरमित्यतो मूलोक्तं वरत्वं नाक्षराधिक्यमात्रं किन्त्वभिमान्याधिक्यमर्थाधिक्यादिकञ्चेत्याह ॥ जगतीति ॥ तदुक्तमृषिणा वाचमष्यापदीमित्येतद्बृहतीशंसनस्य वरत्वेयुक्त्यन्तरपरत्वेन व्याचष्ये ॥ वाचमिति ॥ बृहतीसम्पादनमेव वरमित्यनुवर्तते । अनुष्युप्सहस्रस्यैव शंसनीयत्वेताभिर्बृहतीसम्पादनोक्तिवैयर्थ्यादिति भावः । यद्वा नुष्युप्सहस्रमात्र शंसने उमालक्षणैकप्रतिमास्थापनं ताभिर्बृहतीं सम्पाद्यपुनर्बृहत्यानुष्युप्त्वेन स्मरणेतूमावायुलक्षणप्रतिमाद्वयस्थापनगुणलाभादेवमेव बृहतीशंसनं कार्यमिति तद्वा इदमित्यादिनोक्त्वा तदुक्तमृषिणेत्युक्तस्यार्थमाह ॥ वाचमिति ॥ अनुष्युभ इति पञ्चमीषष्ठी च ।अनुष्युभःसकाशाद्बृहत्याः सम्पादन वचनात् अनुष्युभां बृहत्यासम्पादन वचनाच्चेत्यर्थः । अष्यौ हि चतुरक्षराणीत्येतद्वयाचष्ये
?R
॥ अष्येति ॥ बृहतीसम्पाद्यमानेत्यस्यार्थमाह ॥ तस्याएवेति ॥ सत्यं वैवागृचास्पृष्येत्येतद्वयाचष्ये ॥ ॠचेति ॥ नेयं करणेतृतीया किन्त्वित्थं भूतलक्षण इति भावेन ॠग्रूपेणेत्युक्तम् । सत्यरूपं नित्यरूपं । निर्दोष ज्ञानरूपं वा । सदेर्गत्यर्थत्वात् । तद्यदैवैतदित्यस्य तदनुष्युब्यदैतद्बृहतीसहस्रं सम्पन्नं तदैन्द्रात्प्राणादैन्द्रस्य प्राणस्य बृहत्यैव बृहत्याख्यां तन्वं संनिर्मिमीत इत्यर्थमभिप्रेत्य व्याचष्ये ॥ इन्द्रस्येति ॥ एते नैन्द्रात्प्राणादिति पञ्चमीषष्ठयर्थे बृहत्या इति चतुर्थीद्वितीयार्थे इत्युक्तं भवति । मन्त्रेष्यापदीं नवस्रक्तिं कुवन्नहमिन्द्रादिन्द्रस्य विष्णोस्तन्वं प्राणाख्यामत एव बृहतीसहस्राख्यां च तन्वं सनिर्मिमीत इत्यर्थस्य स्फुटत्वादुपनिषद्येवमर्थस्यानुक्तत्वेपि स्वयमाह ॥ सचवायुरिति ॥ तस्माद्बृहती प्रतिमाक वायुप्रतिमाकत्वात् । अथ तद्यदैतदित्यादेस्तदनुष्युभासम्पन्नमेतद्बृहतीसहस्रं यस्माद्यदापुनरनुष्युप्संपन्नं भवति तदातस्मादेवहेतोर्बृहत्यै बृहतीप्रतिमाकादैन्द्रात्प्राणादनुष्युभं वाचमनुष्युबभिमानिनीमाख्यां वाचं निर्मिमीत इत्यर्थान्तरमाह ॥ तस्मादित्यादिनैवं जानत इत्यन्तेन ॥ तस्माद्यस्माद्वायोः प्रतिमारूपमिदं बृहतीसहस्रं तस्मादित्यर्थः । तस्यैवानुष्युभ एव । ननु बृहतीरनुष्युप्त्वेन शंसितुःकथमुमोत्पादकत्वं स्मृतं भवतीत्यत उक्तम् ॥ एवमिति ॥ बृहतीदेवतावायुः अनुष्युप्देवतोमेत्येवं जानत इत्यर्थः । वाचमित्यनुक्त्वातन्वमित्युक्तेरभिप्रायमाह ॥ ततश्ऱ्चेति ॥ उमाया उत्पत्तेः संस्मृतत्वादेव । वायोरुमोत्पत्तिज्ञानेविष्णुप्रतिमास्थापनं कथमित्यत उक्तमेतत्सर्वमिति ॥ वक्ष्यमाणं र्वं । मन्त्रेन वस्रक्तिं बृहतीमष्यापदीमनुष्युभं कुर्वन्नहं बृहतीप्रतिमाकात्प्राणाधिष्ठितादिन्द्राद्विष्णोर्वाक्छब्दोदितो माख्यां तन्वं संनिर्मिमीत इत्यर्थस्य स्फुटत्वादुपनिषद्येवमर्थस्यानुक्तत्वेपि स्वयमर्थं वक्तमाह ॥ विष्णुरेवेति ॥ प्राणस्य बृहत्याः प्राणाभिमन्यमानायाः बृहत्याः । यद्वाबृहत्याः बृहत्यभिमानिनः प्राणस्येत्यर्थः । विष्णोरधिष्ठातृत्वं नेतरेषामिवाभिमानित्वेनेति भावेनोक्तं प्रतिमेति ॥ प्रतिमां प्रतिमान्तःस्थां ध्यायेत्तेजोमयीमित्याद्युक्तप्रकारेण बृहतीप्रतिमा तदन्तःस्थप्राणप्रतिमा तत्राधिष्ठितोवासुदेव इति भावः । अस्त्वेवं ततश्ऱ्चकिमित्यतोयदानवस्रक्त्यष्यापदी भवती तदेन्द्रात्परितन्वमित्येतद्योजयति ॥ तस्मादिति । विष्णोः बृहत्यधिष्ठातृत्वादित्यर्थः । तस्मादेव विष्णोरेव । ननु मन्त्रेऽहं वाचं तन्वं परिममेनिर्मितवानस्मीति मन्त्रद्रष्य्रोक्तत्वात् कथं पतिमान्तरं तस्मादेवनिर्मितमिति व्याक्रियत इत्यत आह ॥ अतएवेति ॥ अत एव निर्माणस्य भगवत्कर्तृत्वादेवेत्यर्थः । अन्यथेन्द्रस्येत्येवावक्ष्यदिति भावः । अहं निर्मम इत्युक्तिस्तु भगवतो माख्याप्रतिमानिर्मितेति ज्ञानमादाय प्रतिमास्थापन फलमादाय वोपपन्नेति ज्ञेयम् । ननु भवत्वनुष्युब्देवताया उमायाः निर्माणं भगवता उपासकस्य तदयोगात् । अभिमन्यमाना नुष्युप्सम्पादनं तु बृहत्या एवानुष्युप्त्वेन पर्यवसानात्तयैव वा तथास्मर्त्रावायुज्यते । तथाचेन्द्रादिति पञ्चम्ययुक्त्तेत्यत आह ॥ बृहतीस्थेति ॥ नतु बअहतीशक्त्यापुंशक्त्यावेत्येवार्थः । तथाच तदापीन्द्रादित्युपपन्नमिति भावः । कैमुत्यन्यायेन बृहत्या एवानुष्युप्त्वेन भवनमित्येतत्प्रतिक्षिपति ॥ सहीति ॥ संसगर्बोधकत्वमादि पदार्थः । किमुतद्गतां प्रतिमान्तरभवनयोग्यतामित्यपेरर्थः । तर्हि वायोर्ब्रहत्यभिमानित्वभङ्गत्यत आह ॥ तत्प्रसादादिति ॥ तत्प्रसादादिति कुतः स्वातन्त्ऱ्ेणेति किं न स्यादित्यतो ज्ञापकमाह ॥ वायुरेवेति । वायुर्यस्माद्भगवन्नियत एव नियामयति तस्मादिन्द्रात्परीत्यस्योपलक्षणत्व विवक्षयेन्द्रात्प्राणाच्चेति वक्तव्ये ऐन्द्रात्प्राणादितीन्द्रनियमितात्प्राणादित्युक्तमिति भावः । वायुर्नियामयतीति कथमवगतमित्यतो वाह ॥ वायुरेवेति ॥ यस्माद्वायुर्नियामयत्वेवतस्मादित्युपलक्षणमित्यभिप्रेत्यैन्द्रात्प्राणादिति लक्षणाबीजसम्बधप्रदर्शनपूर्वं व्याख्याकृतेत्यर्थः । तद्वा इदं बृहतीसहस्रमित्यादिना तद्वैतथावै उक्तप्रकारेणानुष्युवादिभिः सम्पन्नमिदं बृहतीसहस्रं पुनरनुष्युप्सम्पन्नञ्चेत्तदाविर्ष्बृहतीप्राणाख्यमनुष्युबुमाख्यं प्रतिमाद्वयं सम्पन्नं सम्पादितं स्यात्तथावायोरपि बृहत्याख्यमनुष्युबाख्यं प्रतिमाद्वयं सम्पादितं स्याद्वायोरुमोत्पत्तिज्ञानञ्च सम्पादितं स्यादित्युक्तेर्थेवाचमष्यापदीमिति मन्त्र उदाहृतः तं स्पष्यस्मृत्याव्याचष्ये ॥ यावदित्यादिना ॥ सर्वगतः बृहत्यादिसर्वगतः । ऐन्द्रात्प्राणादित्यस्य तात्पर्यं ॥ तथावायोरिति ॥ उभयोर्बृहत्याख्यैकप्रतिमात्वे साम्यं स्यादित्यत आह ॥ वायुरिति ॥ बृहत्यां वायुर्वायौविष्णुरिति भावः । वायोर्भगवत्प्रतिमात्वेयुक्तिः ॥ तस्मादिति ॥ वायोः प्रतिमात्वादेवतेन यत्कृतं तत्तदधिकं च सर्वन्तेनक्रियत इत्यर्थः । एवमनुष्युबादिभ्;
ि सम्पन्नं बअहतीसहस्रं विष्णोः वायोश्ऱ्च प्रतिमाभूतं सम्पन्नमित्यंशं मन्त्रेचाष्यापदीं वाचं नवस्रक्तिं कुवन्नहमिन्द्रस्य विष्णोः वायोश्ऱ्चबृहत्याख्यां तन्वं संनिर्मितवानित्यं शंचव्याख्याय बृहतीसहस्रं पुनरनुष्युप्सम्पन्नञ्चेत्तदावायोरुमोत्पादन ज्ञानं सम्पादितं स्याद्विष्णोर्वायोश्ऱ्चानुष्युबुमाख्यप्रतिमापि सम्पादितास्यादित्यंशं मन्त्रेच नवस्रक्त्यष्यापदीं कुर्वन्निन्द्रस्य वायोश्ऱ्चोमाख्यां तन्वं सन्निर्मम इत्यंशंच व्याख्याति ॥ बृहतीसहस्रमित्यादिना ॥ द्वितीयप्रतिमा बृहतीस्थप्राणापेक्षया । तदुपपादनं विष्णुनेति ॥ विभागः स्रक्तिरित्यादि शब्दैः कथ्यत इत्यर्थः ।
?R
सवाएषवाचःपरमोविकार इत्यत्र वाक्पदेन वाचमनुष्युभमिति प्रस्तुतानुष्युभोग्रहणं प्रतीयते तदयुक्तम् । तथात्वे बृहतीसहस्रस्यानुष्युबवरत्व प्राप्तेरित्यतः सवाएषवाचः परमोविकारोयदेतन्महदुक्थमित्येतद्वयाचष्ये ॥ सवाएषइति ॥ I-11
?R
नन्वकारस्य कातिशयोयतस्तद्वयाख्यानेषूत्तमत्वमात्रेण बअहतीसहस्रस्यैव शंसनीयत्वमित्यत आह ॥ अकार इति ॥ प्रथमं मुख्यम् । कथमकारस्य मुख्यनामत्वमित्यतस्तद्विरुद्धतदन्यतदभाववाचित्वादिति भावेनोक्तम् ॥ सर्वगुणानित्यादि । गुणानां सर्वदोषविरुद्धत्वात्सर्वगुणान्ब्रुवन्नित्यर्थः । ततश्ऱ्चकिमित्यत उक्तम् ॥ सम्यगिति ॥ सम्यग्वक्तृत्वतः अकारोमुख्यनाम । सम्यग्वक्तृत्वेहेतुस्तस्मादिति ॥ उक्तरीत्यासर्वदोषविरुद्धगुणादि विशिष्ययावद्ब्रह्मप्रतिपादनशक्तित्वादिति भावः । एतेन सवाएषवाच इत्यत्र वाक्पदमकारेमुख्यमिति तस्यैवग्रहणमिति सूचितम् । शब्दान्तरस्यापि गुणपूर्त्यादि प्रतिपादकत्वात्कोस्य विशेष इत्यत आह ॥ तदर्थानिति ॥ केचिद्गुणान् केचिद्दोषाभावं गुणेष्वपि केचित्कांश्ऱ्चिदित्येकदेशेनेत्यर्थः । विकारस्तत्परिणामविशेष इति प्रतीतेर्व्याचष्ये ॥ व्याख्येति ॥ सवाएषवाचइत्यत्र पदार्थमुक्त्वावाक्यार्थमाह ॥ वाचकेष्विति ॥ परमोविकार इत्यस्यार्थः । पराव्याख्येति ॥ परमशब्दव्यावर्त्यकथनं अन्येति ॥ नतूक्थवन्मुख्यव्याखनत्वेनेति भावः । तदेतत्पञ्चविधं मितममितमित्यत्रमहदुक्थस्यैवपरामर्शप्रतीतेर्व्याचष्ये ॥ एषामिति । एषामकारव्याख्यानानां मध्ये तदुक्थं परमं तदेतत्पञ्चधास्थितमित्यस्यैवविवरणं व्याख्यानमिति ॥ उक्थेन सहैवस्थितं सर्वशः सर्वमेवाकारस्य व्याख्यानम् । मितामितेखरः सत्यमनृन्तञ्चेति पञ्चधास्थितमित्यर्थः । पञ्चविधशब्दराशेरकारव्याख्यानत्वेश्रौतलिङ्गप्रतिपादकमकारोवैसर्वावाक् सैषावागित्यादि श्रुतौ अकारः सर्ववागात्मेत्यादि स्मृतौ चाकारः सर्ववागात्मकः श्रुतः प्रसिद्धः व्याख्यानव्याख्येययोरभेदोपचारादन्यथाऽनुपपत्तेरिति भावः । सर्ववेदादि विस्तरइत्युक्त्यास्पर्शोष्मभिरित्युपलक्षणं अन्तःस्थादिरूपेणपदवाक्यादिरूपेण च व्यज्यमानेत्यपि ग्राह्यमित्युक्तं भवति । नन्वस्त्वेवमकारस्य सर्वासमपिवाचां च व्याख्यानव्याख्येय भावस्तथापि प्रकृते किमयातमित्यत आह ॥ तस्मादिति ॥ यद्यस्मादकारोविष्णोः सर्वान्गुण्न्वक्तित्मात्तद्वयक्तयोयेसर्वेशब्दास्तेपि विष्णुगुणान्ब्रुवन्तीति विष्णुगुण ब्रुवाः । किमु व्याख्यानोत्तमं बअहतीसहस्रमाधिक्येन विष्णुगुणान् वक्तीति वक्तव्यमिति भावः । ननु बृहत्युक्थादि सर्ववाग्व्याख्येयत्वेनाकारस्योत्तमत्वं तद्वयाख्यानत्वाद्बृहत्युक्थस्योत्तमत्वमित्युक्तावन्योन्याश्रयत्वमिति चेन्न । स्यादिदमन्योन्यश्रयत्वं यदि बृहत्युक्थमात्रव्याख्येयत्वेनाकारस्योत्तमत्वं तद्वयाख्यानत्वादुक्थस्योत्तमत्वं ब्रूमः । नचैवं । किन्तुबृहतीसहस्रादि यावच्छब्दजातव्याख्येयत्वादकारस्योत्तमत्वं तत्परमव्याख्यानरूपत्वादुक्थस्य तद्विवक्षितयावदथर्प्रतिपादनेन स्वातिरिक्तशब्दजातविवक्षितार्थस्याप्युक्थेनोक्तेस्तदुत्तममित्युच्यमानत्वेन दोषानवकाशात् । तस्य यदुपांश्रिवत्यादि व्याचष्ये ॥ अकारस्येत्यादिना ॥ तच्छरीरमिति शरीरपदेन तन्मात्रं नविवक्षितमिति भावेनोक्तम् ॥ देहेति ॥ स्थूलसूक्ष्मशरीरस्येत्येवं सर्वेषामभिमानिनीभारत्युच्चोदितस्याकारस्याप्यभिमानिनीत्यर्थः । प्राणभारत्योरुपांशूच्चारणाभिमानित्वे ज्ञापकमाह ॥ तस्मादिति ॥ हि यस्माद्भारत्याः पतिर्वायुरुपांशोर्देवता तस्मादुच्चादुपांशुःफलाधिक इत्यर्थः । एवं खण्डं समान्यतो व्याख्यायोमिति सत्यमित्येतद्विवृणोति ॥ तदइत्यादिना । ततः अकारस्य सर्ववाग्व्याख्येयत्वादित्यर्थः । समुदीरितः अकारेणाधिकं प्रोक्तमुकारेणोच्चमिष्यते । तथामितं सर्ववेदैरित्यादौसमुदीरित इत्यर्थः । तत्सर्व मोंकारवर्णत्रयोक्तं सर्वम् । आधिक्यवक्तृत्वादित्युक्तं त्रेधाविशदयति । अधिकोच्चेति ॥ अधिक एव ह्यधिक एव खल्वधिकीच्चस्वरूपोधिकोमाताचेत्यर्थः ॥ एतदुभयमाधिक्येन्तर्गतमिति भावः । यद्वा आधिक्यवाचिनोऽकारस्येतरान्वितस्वार्थाभिधायकत्वादुच्चत्वमप्यधिकं मातृत्वमप्यधिकमिति प्रतिपादनशक्तिसद्भावादिति भावः । नारायण शब्दोप्योंकारव्याख्यानरूपत्वादकारार्थ इत्याह ॥ एकार्थत्वादिति ॥ अन्यत्वाथर्कोकारोसावेकार्थत्वान्नकारत्वमुपागतः । पुनस्तेनान्यत्ववाचिनाकारेणसहस्थितोदीर्घीभूतः । रीङ्क्षयइति धोः क्षयं वदन् रेफोऽभाववाच्यकारस्यार्थः । सोपि रेफोप्याधिक्यवाचिनाकारेण सहितोदीर्घत्वं समुपागतः । सोऽभाववाच्यकार एव गतिरपगतिर्विनाश इत गत्वभावशब्दयोरेकार्थत्वाद्यकारत्वं गतः । याप्राण इति धातोर्यातेर्गत्यर्थत्वात् । तस्माद्यकारात्परो नो नकारः रेफात्परत्वाद्रषाभ्यानोणःसमानपदे इति सूत्रानुसारेण णत्वं गतः । असौणत्वं गतोनकारोविरुद्धार्थवाचकोकार एवेत्यर्थः । ननु यकारात्परोन्दिमणकारात्परश्ऱ्चाकरोस्ति । तस्यार्थःकुतोनोक्त इति चेन्न । तस्योच्चारणार्थत्वात् । सर्वत्रास्योच्चारणार्थस्याकारस्यार्थस्यानुक्तत्वात् । अत एवाद्यद्वितीयवर्णयोर्दैर्घ्यमकः सवर्णेदीघर् इति स्मरणादिति ज्ञेयम् । एवं नारायण शब्दस्याकारात्मकत्वं तत्प्रतिनिधित्वं चोक्त्वार्थमाह ॥ अन्यत्वादिति ॥ अन्यत्वात्सर्वजीवेभ्य इत नकारार्थः । जडेभ्य इत्यकारार्थः । यद्वा जीवेभ्योजडेभ्योन्यत्वादिति नकारस्यैवार्थः । दीर्घीभूतः पुनस्तेनेत्यत्राप्याधिक्यवाचिनाकारेणेत्यर्थः । किन्तदन्यत्वे आधिक्यमित्यत उक्तम् ॥ सदैवेति ॥ नेदमन्यत्वमौपाधिकं
?R
कादाचित्कं किन्तु स्वाभाविकं सार्वकालिकमिति नकारात्परात्पराकारस्यार्थ इति भावः । सर्वदोषोख्खितत्वादिति रेफार्थः । सर्वतोप्यधिकत्वात इति तत्पराकारार्थः । निरासनाच्चदोषाणामिति यकारार्थः । सर्वदोषविरुद्धेति णकारार्थ इति विवेकः ॥ उपसहरति ॥ अकारार्थ इति ॥ हियस्मादयकेवाकारार्थस्तस्मादकारबीजेयं नारायणाभिधाप्रणवश्ऱ्चेत्यर्थः । ततः सर्वशब्दमूलत्वात् ।ननु सर्वाणिपदानि हरिनामान्येव किमकारसय विशिष्यनामत्वमुच्यत इत्यत आह । अकारनामेति ॥ तदुपपादयति । ब्रह्मेति ॥ यानिब्रह्मरुद्रादि विष्णुनामानितानि ब्रह्मादिष्वप्यमुख्यतो वर्तन्ते अयमकारः केशवं विनाकुत्रापि न वर्तते । तदुक्तमुपपन्नमिति भावः । ननु ॠतेनारायणादीनिनामानि पुरुषोत्तमः । प्रादादन्यत्र भगवान् राजेवर्तेस्वकं पुरमित्यादिना नारायणादि नाम्नामन्यत्रावृत्तिः श्रूयत इत्यत आह ॥ नारायणादीति ॥ नारायणादिनामान्यपीत्यन्वयः । ननु ब्रह्मवाय्वोरप्यकारनामत्वं क्वचिदुच्यतेऽतः कथं विष्ण्वेकनामत्वं तस्येत्यत आह ॥ वायुरिति ॥ वाशब्देनशिवः । अकारोब्रह्मविष्ण्ववीशकमठेष्वितिनानार्थरत्नामालायाम् । ब्रह्मशिवनामत्वमपि तदभिमन्यमानत्वादेव नतु तत्रगुणसमर्पकत्वेनेति भावः । बअहतीसहस्रस्यैव शंसनीयत्वे उक्तयुक्त्यन्तरमुपसंहरति ॥ तस्मादिति ॥ तदेतत्पञ्चविधमित्यतः प्रागितरविकाराणामप्रकृतत्वात् कथं तत्परामर्शोव्याख्यात इत्यत आह ॥ परमेति ॥ एष परमोविकार इत्यत्र परमत्वावधित्वेन विकारमात्रस्य प्रस्तुतत्वादित्यर्थः । ॠग्गथाकुंब्येत्येतद्वयाचष्ये ॥ स्वराणामिति ॥ अन्यामिताक्षराः स्वरनियमरहिताः छन्दोबद्धाः । परस्परं पूर्वोत्तराधर्योरसमानिविषयमसङ्खयाक्षराणिखण्हवाक्यानि । यजुर्निगद इत्येतद्वयाचष्ये ॥ यज्ञेति ॥ वृथावागिति स्तोभाक्षराणीति प्रसिद्धमिति भावः । अथैतन्मूलं वाचोयदनृतमिति नकारस्याकारमूलत्वालेक्त्याप्राधान्यप्रतीतिं निवारयति ॥ अकाराथर्त्वादिति ॥ नकारस्याकारैकदेशार्थप्रतिपादकत्वेन किञ्चिदकाराथर्त्वादकारस्यमूलमिव शब्दोत्पत्तिकारणत्वाभावेप्यर्थज्ञानोपायत्वात् । ननु ज्ञानादि योग्यायतदनुच्चारणमिव तदर्थाप्रतिपादनमपि किं नकार्यमित्यत आह ॥ तस्मादिति ॥ अर्थज्ञानहेतुत्वेन मूलत्वात् । तस्मान्नकारादप्यकारार्थोज्ञेय एवातः तदर्थव्युत्पादनं कार्यमिति भावः । यदि सर्वैरपि शब्दैरकाराथर्ो ज्ञेयः तर्हि ॐकारनारायणशब्दाभ्यामेव कुतो न प्रदर्शित इत्यत आह ॥ नायोग्यानामिति ॥ सम्यप्रपञ्चेन स्वल्प एव दिक्प्रदर्शनाय प्रदर्शितः । तेन योग्यानामुत्तमानां यथा योग्यं बोधो भविष्यतीति भावः । ननु वाङ्मूलस्य नकारस्य ज्ञानान्नदानयोग्येभ्यः प्रकटनेवृक्षवद्वागुद्वर्तनेन भाव्यं कथं स्वस्य तदित्यत आह ॥ वाचइति ॥ यदायं नकारप्रदर्शनेनयोग्येभ्योवाचं नोपदिशति यदाचान्नं सत्पात्रायदरिद्राय न प्रयच्छति तदापि तेषामन्नाभावेनाविद्यास्वप्रवृत्तेर्वाच उद्वर्तनं प्रसक्तम् । तच्चाशक्यं वादानां नित्यत्वात् देवानां तदधीनत्वात् स्वयमेवोद्वर्तत इत्यर्थः । अन्यत्र प्रसक्तमुद्वर्तनं कथमन्यत्रापततीत्यत आह ॥ यद्धीति ॥ यदाज्ञानान्नयोरदानेन वाचायोग्येष्वप्रसारणं तदा प्रविष्यः कर्णरन्ध्रेणस्वानां भावसरोरुहमित्युक्तरीत्यावाक्प्रतिपाद्यानां विष्ण्वादीनां तदभिमानिनां रमादीनां च तत्रासन्निधापनात् । तद्गुणाज्ञापनात् तदुभोग्यान्नादेरप्रदानाच्च । देवतास्वपराधमेवकरोति यद्धिदेवता सुकरोति तदात्मन्यापतति । अपूजिता अधर्मादिदातारस्तेतथाभिधाः इत्यादि वचनान् । तथाच स्वयं धर्मज्ञानादिशोषं नरकाद्यनर्थञ्च प्राप्नोत्येवेति भावः । तस्मात्काल एव दद्यात्कालेन दद्यादित्येतत् देयप्रदर्शन पूर्वं व्याचष्ये । तस्मादिति । अयोग्येभ्योदानेऽनर्थप्राप्तेर्योग्येभ्योप्रदानेपि तथात्वादित्यर्थः । एव एब्देनादिशब्दोक्तापात्रानुसारेण न कुर्यादिति लभ्यते । ॐमिति सत्यमित्यत्रोंकारस्य सत्यत्वं घटयति ॥ अकारस्येति ॥ व्याख्येयमनतिक्रम्यवर्तमानं हि सत्यम् ॥ ॐकारेचाकारश्रवणेन तल्लोपाभावात्सत्यत्वमिति भावः ।प्रकारान्तेण सत्यत्वमाह ॥ अकारस्यचेति ॥ व्याख्येयं प्रथमतोनूद्यव्याख्यानं हि सत्यम् । अकारस्यादावेवस्थितत्वे नयथामूलानुवादेनोंकारस्यार्थनिरूपकत्वाच्चसत्यमोंकार इत्यर्थः । तदेतत्पुष्पं फलं वाच इत्येतद्विवृणोति ॥ उकारेति ॥ ॐकार इति वक्ष्यमाणमनुकृष्यते । इतश्ऱ्चोंकारः सत्यमित्याह ॥ अकारस्यार्थरूप इति ॥ सन्नेव उत्तमएव । तथाच सदुत्तमं ब्रह्मप्रतिपादकतया यातीत्योंकारः सत्यमिति व्युत्पत्तिरिति भावः । अकारार्थाव्यभिचारित्वं च सत्यत्वमोंकारस्येति पक्षान्तरमाह ॥ यमेवेति ॥ इत्यतश्ऱ्चसत्यमोंकार इति योज्यम् । नेत्यनृतमित्येतद्वयाचष्ये ॥ नकारस्त्विति ॥ अच्छिरस्कत्वा दकारशिरस्कत्वात् । तस्य विवरणं मूलेति ॥ अथैतन्मूलं वाचोयदनृतमित्येतद्वयाचष्ये ॥ तथापीति ॥ यद्यपि मूलं प्रथमतोनूद्य अप्रवृत्तेरसत्यरूपस्तथाप्येकाथत्वादर्थमानोपयुक्तत्वेन ज्ञप्ति विवक्षयाकारस्यमूलभूतश्ऱ्चेत्यर्थः । ननु वृथावाचोर्थशून्यत्वाद्गानविशेषस्यापि तथात्वत्कथ मकारव्याख्यानत्वमित्यत आह ॥ तस्मादिति ॥ वृथावाचामकारोकारमकारनकारात्मकत्वात्केषाञ्चिद्धटितत्वाद्गानस्य च तद्वयञ्जकत्वादित्यर्थः । खण्डेर्थमुपसंहरति ॥ तस्मादिति ॥ 6
॥ (॥ 17
॥) यद्बृहतीसहस्रस्य भगवत्प्रतिपादकत्वमुक्तं तदाक्षेपपरिहारपूवर्ं द्रढयितुमयं खण्डः । बृहतीसहस्रस्य भगवत्परत्वेऽनुपपत्तिं परिहर्तुं प्रथमं प्रतिज्ञायते ॥ तद्वाइदमिति ॥ उक्तरीत्यासम्पादितं तदिदं बृहतीसहस्रं
?R
तस्य नारायणस्यैव यश इत्यर्थः । ननु बृहतीसहस्रे “"?R
इन्द्रवायूबृहस्पतिं मित्राग्निं पूषणं भङ्गम् । आदित्यान्मारुतं गणम् । प्रवोभ्रियन्त इंदवोमत्सरामादयिष्णव''
इत्यादाविन्द्रादिनाम श्रवणात्कथं बृहतीसहस्रं तद्यश इत्यत उच्यते ॥ सइन्द्रइति ॥ स एवेन्द्रनामेत्यर्थः । नन्विन्द्रशब्दस्य स्वर्गाधिपतौरूढत्वात्कथमिन्द्रोनारायण इत्यत श्ऱ्चोक्तम् ॥ स इन्द्रइति ॥ यतः स नारायण एव यज्ञनामा प्रथममिन्द्रनामा एतस्मात् स एव स्वर्गपतिरिन्द्र इत्यर्थः । इन्द्रशब्दप्रवृत्तिनिमित्तभूताधिपत्यादि महैश्ऱ्वर्यशालित्वाच्चेन्द्रनामेत्युच्यते ॥ सभूतानामिति ॥ य एतमिन्द्रं भूतानामधिपतिं वेदविस्र सा विस्रस्तोऽखिलबन्धविनिर्मुक्तः । सोस्माल्लोकाद्धरिलोकं प्रैति । ऐतरेयोमहिदास इत्याह तस्मान्नात्रसंशयः कार्य इत्यभिप्रायः । एवमिन्द्रशब्दोयज्ञेरूढः परमैश्ऱ्वर्यप्रवृत्तिनिमित्तेन यौगिकश्ऱ्चेत्युक्तम् । तमेवैश्ऱ्वर्यन्तस्यैव महिदासादिरूपेण स्वरमणतया राजनेनविवरितुमुच्यते ॥ महिदासऐतरेयः प्रेत्येन्द्रोभूत्वेत्यादिना ॥ यद्वा इदं महिदासाद्यवतारं प्राप्यराजत इतीन्द्रः । पूर्णमदः पूर्णमिदमित्यत्रेदं शब्देनावताराणां परामृष्यत्वात् इदं भूस्थानं प्राप्यराजत इति वा इष्यप्रदत्वादिन्द्रो रमायां इष्यप्रदेस्वस्वरूपे वा राजत इतीन्द्र इत्यनेक प्रकारेण व्याख्यातुमुच्यते ॥ महिदासइत्यादिना ॥ धन्द्रो यज्ञनामा । प्रेत्यश्ऱ्वेतद्वीपं प्राप्य श्ऱ्वेतद्वीप पतिनैकीभूय । पुनस्तेनैवांशेनमहिदासो भूत्वा एषु लोकेषु विराजत इत्यर्थः । विराजनमेव विवरितुं पूर्वपक्ष उच्यते ॥ तदाहुरिति ॥ तत्तत्र । केचिदाहुः पृच्छन्ति । किमिति यत् यदि । एष भगवान् हरिरनेन महिदासादिरूपेणामुं लोकं भूलोकं प्राप्य अभिसम्भवति । रमत इति यावत् । अथ तदास्थीसम्भोगकाले । केन रूपेण कया । स्त्रिया भवति रतिं कुर्यादिति । तत्तत्रचोद्ये स्वमिन्नेवस्त्रीरूपे स्यं रमत इति यत्समाधानमाहुस्तत्राप्याहुः पृच्छेयुः । किमिति । अनेन रूप
?R
ेण भूमिष्ठेनरूपेण अमुं दिविस्थितम् । लोक्यत इति लोकं स्वस्त्रीरूपमभिसम्भवतियत् गच्छेत्किम् । अथ यद्येवमङ्गीक्रियते तदापि पृच्छन्ति । किमिति । इमं पृथिवीस्थम् । लोकं स्त्रीरूपम् । केनरूपेण भवति प्राप्नोतीति हस्म । इत्येवं स्वशिष्यैः पृष्योमहिदास ऐतरेय उत्तरमाहस्म । किमिति । त त्तत्रलोकेस्त्रियां स्त्रीषु यल्लोहितं भवति तदेतदग्ने रग्निस्थस्य ज्वलज्वालासमप्रभस्य स्त्रीरूपस्य हरेरूपं प्रतिमा । तस्मात्कारणात् तस्माद्भार्याशरीरगाद्रक्ताद्भर्ता न बीभत्सेत न जुगुप्सेत । अथ पुरुषे यदेतद्रेतो भवति तदादित्वाज्जगदादित्वादादित्यनामनस्तद्गतस्य विद्युत्प्रभस्य हरेरूपं प्रतिमा । तस्मात्कारणात्तस्मात्पतिस्थिताद्रेतसोभार्या न बीभत्सेत । सोयमात्मा भूमिष्ठोमहिदासो भगवानिममात्मानं पृथिवीलोकगतम् । भूमिष्ठस्त्रीलोहितगतं चात्मन एव स्त्रीरूपञ्च । अमुष्यैद्युस्थायस्त्रीपुं रूपाय तथासूर्यगताय पुंरूपायदेवरेतोगत स्वपुंरूपाय च प्रयच्छति । असावात्मा द्युस्थःसूर्यगतोविष्णु रमुमात्मानं आत्मनोद्युथं स्त्रीरूपं देवी लोहितगत स्त्रीरूपञ्च । अस्मै भूमिष्ठायमहिदासादिरूपायमानुषरेतसिस्थितरूपेभ्यश्ऱ्च सम्प्रयच्छतीत्येवं तौ द्युर्भूमिगतावन्योन्यमभिसम्भवतः सम्बद्धौ भवतः । यद्वा भूमौ प्रादुर्भावस्थितं महिदासादि पुमात्मकं रूपं देवीषुस्थितस्त्रीरूपेण द्युस्थं पुंरूपञ्च भूलोकेमानुषस्त्रीगत स्वस्त्रीरूपेणेत्येवं तावन्योन्यं रमेते इत्यर्थः । उपसह्रियते ॥ अनेनेति ॥ सोयमात्मेममात्मानमित्यादिनोक्तप्रकारेणानेन पृथिव्यनुबन्धिनारूपेणामुं द्वयनुबन्धिरूपमभिसम्भवत्यमुनाद्वयनुमन्धिनारूपेणेमं पृथिव्यनुमन्धिनं रूपमभिसम्भवतीत्यर्थः ॥ 7
॥ ननु बृहती सहस्रं तस्य नारायणस्य यश इत्येतावतापूर्णत्वात्तद्दं सम्पन्नमित्यधिकम् । पूर्वखण्हेष्वपि बृहतीसहस्रस्य सम्पन्नस्वैकादशानुष्युभांशतानीत्यादिना पूर्णत्वात्तद्वा इदमित्यादिपुनः पुनः परामर्शोव्यर्थ इत्यत आह ॥ विद्यान्तरेति ॥ पूर्वसङ्गततयाविद्यान्तरोपदेशार्थमित्यर्थः । अत्र यत्प्रीणनार्थं विश्ऱ्वामित्रेण बृहतीसहस्रं सम्पादितं तदिदं तस्य यशः । सकइत्यत उक्तम् । स इन्द्रःप्रसिद्धः शचीपतिरित्यन्यश्राप्रतीतिं निवारयन् व्याचष्ये ॥ तदिदमिति ॥ ननु तद्यश इत्यत्र यदि तच्छब्देन नारायणः परामृश्येत तर्हि स इन्द्र इति तस्येन्द्राभेदः स्यादित्यत आह ॥ यस्येति ॥ नात्र स इन्द्र इत्यनेन प्रसिद्धेन्द्रस्य बृहतीसहस्र प्रतिपाद्यत्वं वा तत्प्रतिपाद्येनाभेदोवोच्यते किन्तु "” ?R
इन्द्रवायूबृहस्पति ''
मित्यादि बृहतीसहस्रशंसनीयानामृचां भगवत्परत्वसिद्धये उपलक्षणयातस्येन्द्रनामकत्वामुच्यत इति भावः । ननु स्वगर्पदं प्राप्त एवेन्द्रशब्दप्रसिद्धेः कथं विष्णोस्तदित्यतः स एवेन्द्रः प्राप्तेन्द्रपद इति प्रकारान्तरेण व्याचष्ये ॥ सहीति ॥ प्रथमतः प्रथममन्वन्तरे । तस्मात्प्राप्तेन्द्रपदत्वात् । इन्द्रशब्दप्रवृत्तिनिमित्तभूताधिपत्याख्यैश्ऱ्वर्याच्चेन्द्रानामत्वमिति भावेन स भूतानामधिपतिरित्यस्य तात्पर्यमाह ॥ इदिपरमेति ॥ अधिकः पतिरित्यधिपतिशब्दार्थविवरणमन्येषामिति ॥ श्रुत्यन्तरे इन्द्रशब्दस्य विष्णौ प्रयोगाच्च स एवेन्द्रः प्रसिद्ध इत्यर्थान्तरं सूचयितुमाह ॥ मत्सि मदयसि ॥ इन्दोइष्यप्रद । पवमान वायो । अत्रेन्द्रं विष्णुं मत्सीतीन्द्रशब्दस्य विष्णुशब्दासामानाधिकरण्यादिन्द्रशब्दस्य विष्णुपरत्वं ज्ञायत इति भावः । नन्विन्द्रं विष्णुञ्चेति पृथगन्वय सम्भवान्नसामानाधिकरण्यमित्याशङ्कय निषेधति ॥ नचेति ॥ कुतोनेत्यतः पृथगन्वये बाधकमाह ॥ तदेति ॥ साधकाभावञ्चाह ॥ नचेति ॥ ननु "" ?R
प्रातरग्निं प्रारिन्द्रं हवामहे प्रतर्मित्रावरुणाप्रातरश्ऱ्विना ॥ प्रातर्भगं पूषणं
?R
ब्रह्मणस्पतिं प्रातःसोममुतरुद्रं हुवेम । प्रातर्जितं भगमुग्रं हुवेमे ''
ति श्रुतौ प्रातर्भगं पऊषणं ब्रह्मणस्पतिमित्यत्र प्रातः पूषणं प्रतर्ब्रह्मणस्पतिमिति पृथक् प्रातः पदप्रयोगाभावेपि उतरुद्रं हुवेमेत्यत्रेवसमुच्चायकोतपदाभावेपि प्रातः पदस्योतपदस्य वासंयोजनेन देवतात्रय प्रतिपदकत्ववत् प्रकृतेपि मत्सिपदस्य च शब्दस्य वा संयोजनेन देवताद्वयं किं न स्यादित्यतोदृष्यान्तोपि न संप्रतिपन्न इति भावेनोक्तम् न्यायं तत्राप्यतिदिशति ॥ तस्मादिति ॥ पृथक्प्रातःपदभावात् चशब्दाभावाच्चेत्यर्थः । विशेषणं गुणसमर्पकं । इत्यादीत्यादिपदेन प्रयोगान्तरपरिग्रहः । अन्यथाप्रातर्जितं भगमिति भगशब्देन पौनरुक्त्यप्रसङ्ग इति भावः । ननु "" ?R
ॠतं सत्यं परं ब्रह्मपुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहित ''
मित्यादौ यथाच काराद्यभावेपि वाक्यभेदः कल्प्यते तथात्रापिकिं नस्यादित्यत आह ॥ यत्रचैवमिति ॥ एवं भूतेषु वाक्यभेदज्ञापकचकारादिरहितेषु । एकत्वे एकवाक्यत्वे । विरोधः पुनरुक्त्यादिः । नचात्र विरोधं पश्याम इति भावः । "" ?R
इन्द्रवायूबृहस्पति ''
मित्यत्रेन्द्रादि शब्दा भगवतपरा एवमुख्यतः । सोमस्य देवतामदहेतुत्वप्रतिपादकतया तत्समाख्यावाक्येमत्सिसोममित्यत्र विष्राविन्द्रपद प्रयोगादित्युक्तम् । भगवतः सर्वशब्दवाच्यत्वस्य समर्थितत्वाच्चेन्द्रशब्दस्तत्पर इत्याह ॥ योदेवानामिति ॥ "" ?R
नन्वादित्यान्मारुतं गण ''
मिति बहुवचनं गणत्वं च कथमित्यत आह ॥ बहुरूपत्वादिति ॥ चशब्दाद्गणत्वञ्च ॥ उपसंहरति ॥ इतोपि मत्सीन्द्रमिन्दोपवनविष्णुमित्यत्रेन्द्रशब्दोविष्णुपर इति सिंहावलोकनन्यायेनाह ॥ मत्सीति ॥ मत्सिमहामिन्द्रमिन्दोमदायेत्युत्तरवाक्येपुरन्दरस्य पृथगुक्तेः पूर्वोक्तो न पुरन्दर इति ज्ञायते । ननु महामिन्द्रमिति महत्वविशेषणातकथमयमिन्द्रशब्दः पुरन्दरविषय इत्यत आह ॥ महत्वञ्चेति ॥ न केवलमवतारेकालज्यैष्ठयं महत्वं किन्तु पूज्यत्वञ्चेतिसयुक्तिकमाह ॥ महेति ॥ सामर्थ्याधिक्यं विष्णोरेव । पुरन्दस्य तु अग्रजत्वेमेव महत्वमित्येतच्छत्यादर्शयति ॥ आयइति ॥ सुकृत्तरः सुष्ठुकुर्वतां मध्येश्रेष्ठः । दैव्यो देवस्येन्द्रेष्यं दैवं । यो विष्णुः सुकृते सुष्ठमहाब्रतं कुर्वते इन्द्राय । स च थाय सख्याय । आविवाय संयुक्तोभूत् । त्रिषधस्थः श्ऱ्वेतद्वीपादिस्थानत्रयगतः । वेधाः विशेषेणधारणपोषणकर्ता । आर्यं पूज्यम् । इन्द्रमजिन्वदजनयत् । यजमानं महाव्रतेनात्मानं यजमानं इन्द्रम् । ॠतस्य यज्ञस्य । भागे आभजत् आभाजयत् । यज्ञभागादि युक्तं पदमदादित्यर्थः । दैव्यइत्यस्यार्थः इन्द्रस्य परमं दैवमिति । अजिन्वदित्यस्य जनक इति । ॠतस्य भग इत्यस्य यज्ञभागादीतीति विवेकः । नन्वत्र यजमान इन्द्र इति कुत इत्यत आह ॥ इन्द्रश्ऱ्चेति ॥ सुकृतेसुष्ठुकृतेइन्द्रायेति प्रकृतत्वादिति भावः । महत्त्वञ्चाग्रजत्वमात्रमित्युक्तमुपसंहरति ॥ तस्मादिति ॥ प्रसिद्धेन्द्रस्य भगवदनुग्रहादेव यज्ञभागो भगवतस्तु स्वातन्त्ऱ्ेणेत्यत्र श्रुत्यन्तर सम्मतिमाह ॥ अन्येन्द्रइति । चतुर्थे अह्नि । ग्रहं सोमपात्रम् । सोमपानमिति यावत् । ब्राह्मणेद्वितीय पञ्चकेन वमेध्यायेप्रथमखण्डे । देवावैसोमस्य राज्ञोग्रपेयेन समपादयन्नहं प्रथमःपिबेयमित्येवाकामयन्त । ते सम्पादयन्तो ब्रुवन् । हन्ताजिमयाम सयोन उज्जेष्यति सप्रथमःसोमस्य पास्यतीति तथेति त आजिमयुः । तेषामार्जिं यतामभिसृष्यानां वायुर्मुखं प्रथमं प्रत्यपद्यत । अथेन्द्रोथमित्रावरुणावथाश्ऱ्विनौ । सोवेदिन्द्रोवायुमुद्वैजयतीति तमनुपरापतत् । सहनावथोज्जयावेति । सनेत्यब्रवी दहमेवाज्जेष्यमीति । तृतीयं मेथोज्जयावेति नेति हैवाब्रवी दहमेवोज्जेष्यामीति । तुरीयं मेथोजज्जयावेति । ततेति तन्तुरीयेत्यार्जत । तत्तुरीयभागिन्द्रोभवत् त्रिभाग्वायु स्तौसहैवेन्द्रवायू उदजयतामित्यत्रेन्दं प्रमेयं स्पष्यमिति भावः । विष्णोस्त्विति ॥ मारुतस्य वेधसोविधातुर्विष्णोः कृतुं यज्ञं सचंतायोजयन्निति विष्णोस्तुवायोरपि विधातृत्वं श्रूयत इत्यर्थः । अस्य विष्णुसूक्तगतत्वाद्विष्णोरिति विशेष्यमुपक्षिप्तम् । वेधस इति विधातुरित्युक्तार्थेमूलभूत धातुव्याख्यानं पठित्वासमर्थयते ॥ डुधाञिति ॥ उपसंहरति ॥ तस्मदिति ॥ उक्तार्थेप्रमाणमाह ॥ ॠक्सहस्रात्मकमिति ॥ त्रयोदशेति वाक्तव्यम् । कथं द्वादशेत्युक्तिरित्यत आह ॥ पुरन्दर इति ॥ अदित्यान्तु अदित्यामेव । वामनाग्रजत्वान्नतुसर्वत्र । विष्णुप्रीत्यर्थं महाव्रतं कर्मकृत्वैवनतु स्वतः । सय एतमेवेमिन्द्रमित्यादि व्याचष्ये ॥ एवमित्यादिना महिदासस्वरूपक इत्यन्तेन ॥ य एतमेवमिन्द्रं वेदसप्रेत्यमृत्वेन्द्रोभूत्वैषु लोकेषुविराजतीत्यप्याहमहिदास इत्यन्यथाप्रतीतेः महिदास ऐररेय इत्याद्युत्तरवाक्येनापि सम्बध्यव्याचष्ये ॥ श्ऱ्वेतद्वीपादिकानिति । सर्वेषामवताराणां श्ऱ्वेतद्वीपपतिनाविश्लिष्यागतत्वांद्यज्ञानामेन्द्रः श्ऱ्वेतद्वीपं प्राप्य श्ऱ्वतद्वीपपतिनैकीभूय पुनस्तेनैवांशेन महिदासोभूत्वा एषु लोकेषु विराजतीत्यर्थः । नेदं वाक्यमधिकारिणः फलकथनपरं बाधितत्वात्किन्तु स इन्द्र इत्रत यत्परमैश्ऱ्वर्ययोगेन यज्ञेन्द्रस्येन्द्रशब्दार्थत्वमुक्तं तत्परमैश्ऱ्वर्यं महिदासादिरूपेण राजनेन विररितुं प्रवृत्तमिति भावः । विराजनविवरणपरं तदहुर्यदनेनेत्यादि । तत्र तदाहुर्यदनेन रूपेणेमं लोकमाभवति । अथकेनरूपेण भवतीत्यध्याहृतकर्तृनिर्देशरूपः । अनेन रूपेण भवतीति व्यवहितमन्वयमभिप्रेत्य व्याचष्ये ॥ तत्रेत्यादिना ॥ तदित्यस्यार्थस्तत्रेति । आहुरित्यस्य कर्त्रध्याहारः केचिदिति ॥ यदित्यस्यार्थो यदीति ॥ एष भगवन्हरिरित्येतत् आभवतीत्यस्याध्याहृतकर्तृनिर्देशरूपम् । अनेन रूपेणेत्यस्यार्थोमहिदासेति
?R
॥ इमं लोकमाभवतीत्यस्य तात्पर्यम् भूमिष्ठइत्यादि ॥ अथेकनरूपेणाभवतीत्यस्यार्थस्तदायदेत्यादि ॥ कया न कयापि । कुतः हियस्मादच्युतोन्यरतिनर् भवति । तस्मादिति योज्यम् । यत्तत्र समाधानमाहुस्तत्तत्राप्युहुःशङ्केयुः किमिति अनेन भूमिष्ठेनरूपणामुंदिविस्थितं स्वस्त्रीरूपमभिसम्भवति यत् गच्छेत् किमित्यर्थतया समाधानप्रदर्शनपूर्वन्तदाहुरित्यादि व्याचष्ये ॥ स्त्रीरूप इति ॥ तत्तत्रचोद्यईदृशं समाधानं वाच्यम् । तत्र तु तत्रापि भूमिष्ठेन रूपेणदिविस्थितं रूपं स्त्रीरूपमसौ गच्छेत्किमिति चाहुः पृच्छेयुरिति योज्यम् । अथ केनरूपेणेत्येतद्वयाचष्ये ॥ अथेति ॥ अत्र विषयेयद्येवमङ्गीक्रियते अथ तथापीमं पृथिवीसंस्थलोकं स्त्रीरूपं केन रूपेण भवेत्सं व्रजेदित्यर्थः । ननु को व्रजेदिति प्रष्यव्येरूपविशेष प्रश्ऱ्नः किमर्थ इत्यतस्तात्पर्यमाह ॥ नहीति ॥ न केवलं पुंरूपोन्यास्त्रियानरमते अपि तु स्त्रीरूपो भवतीत्यर्थः । इति हस्माहमहिदास ऐतरेय इत्येतदत्राप्यनुवर्त्य व्याचष्ये ॥ इति पृष्यइति ॥ तद्यदेतस्त्रियामित्येतद्वयाचष्ये ॥ स्त्रीष्वित्यादिना ॥ तदित्यस्यार्थो लोक इति ॥ सर्वेष्वपि लोकेष्वित्यर्थः । अन्गेस्तद्रूपमित्यस्य तात्पयर्म् ॥ तत्राग्निस्थ इति ॥ तस्मादित्यस्यानूद्यार्थमाह ॥ तस्माद्विष्णोरिति ॥ द्वितीयस्य तस्मादित्यस्यार्थो भार्याशरीरगाद्रक्तादिति ॥ अथ यदेतत्पुरुषेरेत इत्यादि व्याचष्ये ॥ तथेत्यादिना ॥ आदेः सर्वस्यकारणत्वादादित्यः । आदिशब्दस्य स्वरादिगणपाठात्स्वरादिनिपातमव्ययमित्यव्यय संज्ञायामव्ययाव्यबित्यपि कृते आदित्य शब्दोनिष्पन्न इति भावः । तस्मात्तस्मादित्येतद्वयचष्ये ॥ तस्मादित्यादिना ॥ तस्मादित्यन्तेन ॥ अत्र योजना । तस्माद्दयुमत्प्रभःतत्रस्थःपुंरूपो भगवात्रेतः संस्थः । तस्मात्पतिस्थितात्तस्माद्रेत सोभर्यानबीभत्सेतेति । सोयमात्मेत्यादि व्याचष्ये ॥ यद्भूमिगमित्यादिना ॥ भूमिगं पृथिवीलोकगतम् । महिदासादिस्त्रीरूपम् । स्त्रीलोहितगतं चेत्यर्थः । दिविस्थितपुमात्मनः तथासूर्यगतस्य तथापुंसोदेवादिलक्षणस्य युगतस्य पुंसोरेतसिस्थस्येत्यर्थः । असावात्मेत्यादि व्याचष्ये ॥ देवीष्विति ॥ असावात्मादि विसूर्यगतोविष्रुरात्मनोद्युस्थस्य परं यद्रूपं यच्चदेवीषुलोहितगचं स्त्रीरूपं तद्भूमिगतस्य । तथापुंरेतस्थस्य मानुषरेतस्थितस्य चात्मन एवदद्यादित्यथर्ः । तावन्योन्यमित्येतद्वयाचष्ये ॥ रूपद्वयमित्यादिना ॥ प्रकारान्तरेण व्याचष्ये ॥ प्रादुर्भावेति ॥ भूमौ प्रादुर्भावात्मनास्थितं यत्पुमात्मकं तद्देवीषुस्थितस्त्रीरूपेणात्मना चापिशब्दभ्यां यचचदिविपुमात्मकं रूपं तदपि मानुषीषुस्थितेनस्त्रीरूपेणात्मनेत्येवमन्योन्यतो विष्णुः स्वस्मिन्नमत इत्यर्थः । तावन्योन्यमभिसम्भवत इत्यादेस्तात्पर्यमाह ॥ नचान्यत इति । तत्कैमुत्येनोपपादयति । रमयेति ॥ यदैवं रमयारममाणोपि तत्स्थेन स्त्रियास्त्रीरूपेणात्मनारमतेतदाकिमुवाच्यं नित्यव्यक्तसुखात्मनः क्वाप्यन्यतोरतिर्नातीत्यर्थः । ननु यदिरमयारतिर्नाति तर्हि रमयारमणं नामकिमित्यत आह ॥ रमयेति ॥ हि यस्माद्विष्णोरन्यतोरतिर्नास्तीति प्रसिद्धं तस्मादिति योज्यम् । यद्यपि मत्सीन्द्रमिन्दोपवमानविष्णुमित्यादौ सोमादीनामपि भगवत्सुखप्रयोजकत्वमुक्तम् तथापि सोमस्वरूपं सम्पद्यतत्र प्राणरमासन्निधानं सम्पाद्यस्वयं चानन्दरसात्मकस्तमधिष्ठायसोमादेर्विषयत्वशक्तिं च दत्वातन्निमित्तेन स्वयं रमत इति निमित्तत्वमात्रेणतदुक्तिरिति ज्ञेयम् । अत एव रमयाभगवतः क्वचित्सुखोक्तिरप्यरुद्धेति ज्ञेयम् । प्रेत्येन्द्रइत्याद्यन्यथाप्रतीति निरासायस्पष्यं व्याचष्ये ॥ सएवमहिदास इत्यादिना ॥ इन्द्रनामा स भगवानेवेमं लोकं भूसन्निहितं श्ऱ्वेतद्वीपं प्राप्यात्र भूलोके महिदासाभिधोभूत्वैषुलोकेषु राजतीत्यन्वयः । भूत्वेत्यस्य विवरणम् ॥ प्रादुर्भूयेति ॥ तस्यापि विवरणम् ॥ मनुष्येति ॥ "" ?R
प्रत्यक्षत्वं हरेजर्न्मे ''
ति वचनादिति भावः । स य एतमिन्द्रं वेदसोस्माल्लोकात्प्रैति प्रेत्यमृत्वेन्द्रोभूत्वैषु लोकेषुराजतीति प्रतीताथर्ं व्यवच्छिद्यस्वार्थं प्रयोगपूर्वं समर्थयते ॥ नात्रेत्यादिना ॥ शम्भुवाशम्भुवौ सुखाश्रयौ । यज्ञस्य प्रेतां यज्ञं प्रत्यागच्छतां । प्रतीतार्थेबाधकमाह ॥ नहीति ॥ मृतस्यामुष्मिकलोकेषुराजनं युक्तं न पुनरेष्वेवलोकेषु राजनं युक्तमिति भावः । पलक्षणमेतत् । इन्द्रभावोपि यस्य कस्यचिन्मअतस्य बाधित इत्यपि द्रष्यव्यम् । ननु मरणेपि दिगन्तविश्रान्तकीर्त्यनाशात्तद्विवक्षयैषुलोकेषुराजतीति युज्यत इत्याशङ्कयनिषेधति ॥ नचेति ॥ ननु प्रेत्यशब्दोमरणे बहुप्रयोगसिद्धोन तथाप्राप्तावित्यतः श्रुति स्मृति प्रसिद्धिं दर्शयति ॥ यद्वेत्यादिना ॥ यद्ब्रह्मैवैति प्राप्नोति प्रैतिप्रकर्षेणाप्नोतीत्यर्थः । वक्तव्यबाहुल्यादनेनेत्येतदनूद्य व्याचष्ये ॥ यदनेनेति ॥ ननु लोकमित्यस्य कथं स्वरूपमिति व्याख्यानमित्यत आह ॥ लोक्यत इति ॥ व्युत्पत्त्येति शेषः । प्रयागञ्चाह ॥ आत्मानमिति ॥ लोकं लोक्यमवश्यं ज्ञेयं आत्मान मुपासीतेत्यत्रेवात्रापि लोकशब्दः लोक्यपरः । स्वेनैवसाकल्येनावलोक्यं स्वस्यरूपमेवेति लोक शब्दः स्वरूपं प्रकृते बोधतीति भावः । यद्यप्यात्मन मेवालोकमित्यत्र लोकं सर्वाश्रयमिति ग्रन्थान्तरे व्याख्यातम् । तथापि व्याख्यानान्तरमिदमित्यवरोधः । यदनेन रूपेणामुं लाकमभिसम्भवतीत्येतत्प्राक् तत्रतु भूमिष्ठरूपेणतुदिविस्थितं स्त्रीरूपं किमसौगच्छेदिति प्रमाणेन व्याख्यातम् । किमसौगच्छेदित्यस्य व्याख्येयादशर्नात्कथमेतदित्यत आह ॥ यच्छब्द इति ॥ वाक्यार्थमाहानेनेति ॥ यच्छब्दस्य किं शब्दार्थत्वेज्ञापकमाहोभयोरिति ॥ किमनेन रूपेण
?R
थकेनरूपेणेत्युभयोरप्युपपादनपूर्वमनेनरूपेणामुंलोकममुनारूपेणेमं लांकमित्युपसंहारेस्पष्यं परिहार दर्शनादित्यर्थः । यच्छब्दस्य प्रश्ऱ्नर्थेप्रयोगं दर्शयति ॥ यतश्ऱ्चेति ॥I-12
?R
अभिसम्भवत?
ी इति आभवत?
ीइति स्थलद्वयेरङ्गस्य प्रयोजनमाह ॥ रङ्गस्त्विति ॥ प्रश्ऱ्नविषयेप्रष्यव्यार्थेदुर्गमेसतीत्यर्थः । केनरूपेणकेनप्रकारेणेत्यन्यथाप्रतीतेस्तदनूद्य व्याचष्ये ॥ केनरूपेणेति ॥ केनस्वरूपेणेत्यस्यायमर्थः । विष्णुर्दिविस्थितेन केवलस्वपंरूपेण भूमिष्ठेनात्मन एव स्त्रीरूपेणसाकं सम्बध्यत इति । सोयमात्मेममात्मानमित्येतकरण्यप्रतीतेः पुंसोरेतसीत्यस्य यस्य कस्यचित्पुंस इत्यन्यथाप्रतीतेश्ऱ्चस्ववचनेन व्याचष्ये । सोयमिति ॥ असावात्मामुमात्मानमित्येतदपि न प्रमाणेन विशदम् ॥ देवीति ॥ स भगवान्दिविष्ठैर्विष्ण्वादिरूपैःकरणैरात्मनःस्त्रीरूपं द्युलोकस्थं भूमिष्ठेभ्योमहिदासादिरूपेभ्यः प्रयच्छति । देवी लोहितस्थं चात्मनः स्त्रीरूपं मानुषरेतः स्थितरूपेभ्यः प्रयच्छतीत्यर्थः । नन्वेवं रूपाणां बहुत्वेकथं ताविद्विवचनमित्यत आह ॥ तानीति ॥ स्त्रीपुंरूपाणि । लोहितरेतसोरग्न्यादित्यैक्यप्रतीतेः स्पष्यं स्ववचनेन व्याकुर्वन् प्रतीतार्थेबाधकमाह अग्नेरित्यादिना ॥ सोयमात्मकन्यापि ते ममात्मनानं कन्याममुष्मैवरायसप्रयच्छत्यसावात्मवरस्य पिताऽमुमात्मानं वरमिममस्यैद्ब्रह्मेत्यारण्यकादौ तद्यश इति खण्डेदौ चोपक्रान्तः । न केवलमुपक्रमेणार्थनिर्णयः श्रुत्याचेत्याह ॥ असावात्मेति ॥ ज्ञापकान्तरमाह ॥ यदक्षरमित्यादिना ॥ अन्यथा अन्यत्प्रमेयमुक्त्वाऽन्यत्र प्रमाणोदाहरणे असाङ्गत्यापातादिति भावः । नन्वेवमपि यदक्षरं पञ्चविधं समेतीत्यादिकं नोदाहृतेर्थेप्रमाणमस्मिन्खण्डेपञ्चविधस्त्रीरूपाणामप्रकृतत्वादित्यतो नायं यदक्षरमित्यादिखण्ह एतत्खण्डोक्त एव प्रमाण प्रतिपादनपरः । किन्तु पूर्वोक्तार्थेष्वपि प्रमाणम् । तत्र च पञ्चविधस्त्रीरूपाणां प्रकृतत्वादित्याशयेनाह ॥ गायत्रीत्यादिना ॥ पञ्चविधस्यानिरुद्धादिरूपेण ॥ 7
॥ पूर्वमुक्तार्थेषुमन्त्रोदाहरणार्थमयं खण्ह इति सङ्गतिरुपनिषद्येवस्पष्या । तत्र यो हवैयज्ञेयज्ञमिति खण्डेगायत्ऱ्युष्णिग्बृहतीत्रिष्युप् द्विपदेत्यनिरुद्धादिनारायण्यंतानिस्त्रीरूपाण्युक्तानि नारायणादिनामकानि पुरुषरूपाणि च विवक्षितानि । तेषाञ्चान्यतोरतिर्नास्तीति स्वरमणत्वञ्चातीतखण्डेनिरुपितम् । तत्र मन्त्र उदाह्रियते ॥ यदक्षरमिति ॥ यन्नारायणादिरूपेणपञ्चविधमक्षरं नाशरहितं छन्दःप्रतिपाद्यत्वाच्चाक्षरं परं ब्रह्मतत्स्वस्मिन्नेवस्त्रीरूपेण नारायण्यादिनामकेन समेति मिथुनी भवति । स्त्रीपुंसभावेनार्थनारीषुमात्मनावासमेति । तस्य विभव उच्यते ॥ युजइति ॥ युजः स्त्रीपुंरूपेण संयुक्ताः भार्यासहिताः सूर्यादयोदेवा अश्ऱ्वरूपेण णथेयुक्ताः सन्तः यन्नारायणाख्यं परं ब्रह्माभिसंवहन्ति । तदेतत्सत्यस्य सत्यं वायोरपि सत्यताप्रदं नारायणाख्यं परं ब्रह्मप्रागुक्तरीत्यायत्रयस्मिन्स्वरूपेणस्त्रीरूपेणानुयुज्यते । तत्र तस्मिन्नेव नारायणेतेसर्वेदेवाः मुक्ताः सन्तः एकमेकत्वंस्थनैक्वा भवन्ति प्राप्नुवन्ति । सायुज्यादिलक्षणं मेलनं वागावःसायं गोष्ठ एकी भवन्ति ब्राह्यणाराजकुल एकी भवन्तीतिवत् । यद्वैकत्वं सश्लेषविश्लेषलक्षणं सायुज्यं प्राप्नुवन्तीत्यर्थः । एकत्वमप्युतदीयमानं नगृह्णन्तीति प्रयोगात् । सायुज्यादि लक्षणमेलनं प्राप्नुवन्तीत्यर्थः । यद्वा यत्र वैकुण्ठादि देशविशेष सत्यस्य सत्यमक्षरं यत्र स्वात्मन्यर्धनारीपुमाकारेण युज्यते । तत्र देशेमुक्ताः सर्वेदेवाः स्वभार्या भिरर्धनारीपुमात्मनैकी भवन्ति संयुक्ता भावन्ति । एकीभूयचैकं भवन्ति एकमनस्कास्तमेवोपासीनाभवन्तीत्यर्थः । महिदास ऐतरेयः प्रेत्येन्द्रो भूत्वैषुलोकेषुविराजतीत्यत्र श्ऱ्वतेद्वीपादिस्थाद्भगवतो महिदासस्य प्राक् विश्लेषो विश्लिष्यस्य च स्वयमेवस्त्रीपुंरूपेण रमणञ्चोक्तम् । तत्र मन्त्रो यदक्षरादिति ॥ यस्मादक्षरान्नारायणाख्यात् मूलरूपादक्षरमवताररूपं युक्तम् । स्त्रीपुमात्मनामिलितमेवैत्यागच्छति । तस्य वाहन भूतादेवास्षाञ्चालौकिकं फलं भवतीति विभव उच्यते ॥ युज इति ॥ स वा एष वाचः परमोविकार इत्यादना यत्सर्वशब्दवाच्यत्वं भगवत उक्तम् । तत्र मन्त्र उदाह्रियते ॥ यद्वाच इति ॥ वाच अकारस्य यदोमिति यॐकाराख्योविकारः यच्चनेति नकाराख्योविकारः । यद्वा चोवाक् समूहस्य मध्येयदोमिति पदमङ्गीकारवाचीति यावत् । यच्चनेति पदं प्रतिषेधार्थमिति सुधोक्तं व्याख्यानं बोध्यम् । यच्चास्याः व्याख्यानभूतमर्थतः कठिनं शब्दरूपं यदुयदेवचोल्बणिष्णुश्रवणाप्रियं शब्दरूपम् । पलक्षणमेतत् । मितममितमित्यादिकं तत्सर्वं कवयोज्ञानिनो देवावियूयविचार्यनामाय तान्यकारादिनामार्थभूत भगवन्माहात्म्यान्यन्वविन्दन् । स्वयोग्यतानुसारेण ज्ञातवन्तः । शृतेतस्मिन् ज्ञानेपरिपक्वे सति अधि अधिकं समतृप्यन् कृतकृत्यामुक्ता अभूवन् । तथाचोक्तमनुव्याख्याने । नामवित्कृतकृत्यतेति । यस्मिन्विष्णौ विष्रुविषयेनामानि ज्ञात्वातस्मिन्ज्ञाने शृतेपक्वेधिसमतृप्यं स्तत्र विष्णौ देवाः सर्वयुजोमनोवाक्कायकर्मभियर्ुक्ता भवन्ति । नान्यत्र साधनफलयोरैकरूप्यादिति भावः । एवं ज्ञानिनः फलमुच्यते ॥ तेनेति ॥ एवं विद्वांस्तेन ब्रह्मणातदनुग्रहेणपाप्मानमनिष्यपुण्यं च अप्रारब्दमपहत्यनिरस्य प्रारब्धञ्च भोगोपमर्दाभ्यं क्षपयित्वास्वर्गं लोकं विष्णुलाकमप्येति प्राप्नोति । यदुक्तं नारायणादिरूपस्य महिदासाद्यवताररूपस्य च स्त्रीपुमुभयातमकमेवस्वरूपं नतु व्यवस्थितं स्त्रीत्वं पुंस्त्वं चेति तत्र मन्त्र उदाह्रियते ॥ नैनमिति ॥ एनं स्त्रीपंरुपिणं विष्णुं
?R
प्रमारहीनयाकेवलवाचा स्त्रियं केलवस्त्रियं ब्रुवन्नवदति । एनमस्त्रीपुमांसं ब्रुवन्नवदति विष्णोः स्त्रीपंरूपयोः सद्भावात् । यद्वैनमस्त्रीपुमानिति ब्रुवन्नवदतीतीति शब्दाध्याहारेण योज्यम् । अस्मिन्पक्षोनविभक्तिव्यत्ययः । एनं केवल पुमंसमेव ब्रुवन्नपि न वदति । यःकश्ऱ्चन लोकविलक्षणोज्ञानीपुरुष एनं स्त्रियं पुमांसंञ्च वदन् सवर्तते स एव वदति ॥ लौकिकस्त्रीपुंविलक्षणत्वादस्त्रीपुमानिति वदन्नपि वदति । स्त्रीरूपः पुंरूपश्ऱ्चेति वदन्नपि न वदति । भगवत अप्रसिद्धत्वेन साकल्येन वचनागोचरतवादिति भावः । ननु मितममितमित्यादिना स्ववाक्येन यद्वा च ॐमिति मन्त्रेणापि सर्वेशब्दा भगवद्वाचका इत्युक्तम् । कथमेवं सत्यकारस्यैवसवा एषवाचः परमोविकारःयद्वाचॐमित्यादौ वाक्त्वोक्तिः उच्यतेतेनार्थ इति वागिति निर्वचनस्येतरतुल्यत्वादित्यत अकारोविशेषेण भगवद्वाचक इत्युच्यते ॥ अ इति ब्रह्मेति ॥ अ इत्यनेन ब्रह्मपूर्णं अपूर्णेभ्यः चित्प्रकृति जीवजडेभ्योन्यत्पूतिर्विरोधिदोष हीनं सकलदोषविरुद्धगुणपूर्णञ्चस्तूच्यते किन्तदित्यतोहमेवेत्युच्यतेमहिदासेन ॥ तत्रेति ॥ इति यस्माद इत्यनेन दोष्यन्यद्दोषहीनं दोषविरुद्धगुणपूर्णं वस्तूच्यते तस्मात्तत्राकारवाच्यत्वेज्ञेयान्यत्वाद्धेयदोषवर्जितत्वाद्धेयविराधिगुणपूर्णत्वादहं नामाहमेवागतमागत इत्यर्थः । बृहतीसहस्रनिष्ठविद्यान्तरोपदेशमुखेन यदक्षरादक्षरमेति युक्तमित्युदाहृत मन्त्रव्याख्यानार्थं च पुनः परामृश्यते ॥ तद्वा इदमिति ॥ यत्तदिदं बृहतीसहस्रं सम्पन्नंतस्यैतस्यैवं सम्पन्नस्य बृहतीसहस्रस्याक्षराणां पुरुषोच्चार्यतया तदनुबन्धिनां व्यञ्जनाक्षराणां तनां स्त्रीरूपाणाञ्च षट्त्रिंशतं सहस्राणि भवन्ति । तथास्वराक्षराणं तद्गतनां पुंरूपाणं च षट्त्रिंशतं सहस्राणि भवन्ति । पुरुषयुषोह्नां अहोरात्रात्कदिनानां अह्नां रात्रीणाञ्च पृथक् तावन्ति षट्त्रिंशत्संख्याकानि सहस्राणि भवन्ति । तथापुरुषयुषोह्नामहोरात्राभिमानिसूर्यगतानां पुंरूपाणां स्त्रीरूपाणाञ्च प्रत्येकं षट्त्रिंशत्सहस्राणि भवन्तीत्यर्थः । ततश्ऱ्चकिमित्यत उच्यते ॥ जीवेति ॥ अनकाममारः । अनस्य प्राणस्योत्पत्तिकामः सन्मायां रमायां स्थितायां ज्ञानरूपायां स्वस्त्रीतनौरमत इति अनकाममारनामको भगवान् विष्णुः जीवाक्षरेणजीवैः पुरुषगतैरक्षरैः बृहत्युक्थव्यञ्जनाक्षरगतैः स्त्रीरूपैः जीवाहः सूर्याहर्गतानिपुंरूपाण्याप्नोति इति । एवं प्रकारेणजीवाक्षरेण पुरुषगतैरेव पुंरूपैर्जीवाक्षरं पुरुषव्यञ्जनाक्षरगत स्त्रीरूपाण्याप्नोति । तथा जीवाह्नासूर्यतदभिमतदिनावयवरात्ऱ्यवस्थितैः जीवाक्षरं पुरुषगतस्वराक्षरगत पुरुषरूपाण्याप्नोति । यद्वा जीवाक्षरेणजीवाक्षरमाप्नोति । जीवाह्ना जीवाहरित्यन्वयः । जीवाक्षरेणपुरुषस्वराक्षरगत पुंरूपैर्जीवाक्षरं पुरुषव्यञ्जनाक्षरगतस्त्रीरूपाण्याप्नोति । तथा जीवाह्नासूर्याहर्गतपुरुषरूपैः जीवाहः सूर्यरात्रिगत स्त्रीरूपाण्यापनोतीत्यर्थः । अर्थान्तराणितु भाष्यव्याख्यानदशायामेव स्पष्ययिष्यामः । यन्मन्त्रे युजो युक्त अभियत्संवहन्तीति देवस्य रथं वहन्तीत्युक्तं तत्प्रकार उच्यते ॥ अथेति ॥ अथ देवस्य वायोर्विष्णोश्ऱ्चाध्यात्ममधिदैवञ्च रथ उच्यते । तस्याध्यात्मं देहरथस्य वागिन्द्रियाभिमानिन्युमाऽधिदैवं विष्णुरथस्य नागाकारोद्धिरुद्धरणरज्जुरूपा । श्रोत्रे दक्षवामश्रोत्रगत चन्द्रतद्भायर्े पक्षसी पार्श्ऱ्वयोर्नियुक्ते । अन्यत्रोभावश्ऱ्वरूपौपार्श्ऱ्वयोनिर्युक्तौ । चक्षुषीसूर्यतद्भार्ये युक्ते अग्रतो नियुक्ते तद्रथगतिहेतुभूतौ । अन्यत्रत्वग्रतो नियुक्ताश्ऱ्वौ । मनस्तदभिमानीरुद्र उभयत्र संगृहीतासारथिः । तदुभयविधस्यन्दनमयं प्रकृष्यानन्दरूपत्वात्प्राणोवायुर्विष्णुश्ऱ्चाधितिष्ठति । यद्वा सचासावयञ्चेति तदयम् । लिङ्गव्यत्ययोवासोयम् । तदुक्तमृषिणासर्वज्ञेन हयग्रीवेण । आतेनयातं मनसोवीयसारथं यं वामृभवश्ऱ्चक्रुरश्ऱ्विना ॥ यस्ययोगेदुहिताजायतेदिवउभे अहनीसुदिने विवस्यत इति प्रथममं त्रस्यायमर्थः । हे अश्ऱ्विनावाशुवानाद्गमनाद्धयास्यत्वाच्चाश्ऱ्विनामानौ विष्णुवायू । मनसो जवीयसा मनसोप्यति वगवताऽधिदैवं तेन प्रसिद्धेन रथेनायातम् । अध्यात्मं मनसोपि जीवयसा कार्यसाधनेपटुना तेन शरीराख्येन रथेनायातम् । आगत्य सन्निधाने अधिष्ठानतया शरीरस्य कारणत्वात् तृतीया । शरीरेसन्निहितौ भवतं इति यावत् । एतेनास्मदादि देहस्य कथं मनसोजवीयस्त्वं कथं च देवागमनकारणत्वमिति निरस्तम् । कायर्साधनेमनसः पटीयस्त्वस्य जवीयः शब्देन विवक्षितत्वात् । आगमनकार्य सन्निधानं प्रतिशरीरस्याधिष्ठानतया काणत्वेन रथेनायातमित्युक्ति सम्भवाच्च । तदुक्तं तत्वप्रकाशिकायाम् । मनसो जवीयसापटुना । तेन शरीराख्येन रथेनायातं शरीरेसन्निहितौ भवतमिति । केचित्तुशिरीराभिमानिदेवता शरीरविवक्षये यमुक्तिरित्याहुः । रथस्यातिशय उच्यते । ॠभवः सर्वे देवाः । यं द्विविधं रथम् । वां युवयोः अर्थमेवचक्रुः । यस्यच रथस्याधिदैवं वैष्णवरथस्य योगेऽश्ऱ्वादिभिर्योगेसति विवस्वतो विविधं वासवत्वाद्विवस्वन्नामकान्नारायणा द्दिवोदुहिता महालक्ष्मीपुत्रीभारती जायते । सुदिनेसुखप्रदे । उभे अहनी अहेयत्वाज्ज्ञानात्मकत्वाच्चाहर्नामके । वायोर्द्वेरूपेच जायेते । यस्याध्यात्मं देहाख्यरथस्य मनोवाक्कर्मभिर्योगेजाते सति । विवस्वन्नामकाद्विष्णोर्दिवोदुहिता रमायाः पुत्रीसरस्वती । तदभिमन्यमानं भगवदपरोक्षमानं जायते । उभे उभयविधेसुदिने सुखप्रदे । वाय्वभिमते जीवन्मुक्तिमुक्त्यवस्थालक्षणे हनीच जायेते इत्यर्थः । निमिषश्रिचज्जवीयसारथेनायातमश्ऱ्विना ॥
?R
अन्तिषद्भूतुवामवः इति द्वितीय मन्त्रस्यायमर्थः । अश्ऱ्विनामानौ विष्णुवायू निमिषश्ऱ्चिच्चक्षुर्निमेषादपि । जवीय सारथेनद्विविधेनायातम् । वांयुवयोः सकाशाद्यदवनं तदस्मदन्तिके भवत्विति । देहरथस्य निमेषादपि जवीयस्त्वं नाम चक्षुर्निमेषकालादत्यल्पेपि कालेसाधनौन्मुख्यं बोध्यम् । शरीरेसन्निधिं कृत्वात्यल्पमपि कालं सफलं कुरुतमिति यावत् ॥ 8
॥ यदक्षरं पञ्चविधमित्यादेमिर्तादिरूपेण पञ्चविधमक्षरं शब्दतत्वम् । यद्ब्रह्मलक्षण यैति प्रतिपादयति । युक्तामननशीलायुजोयोगिनो यत्संवहन्ति ध्यायन्ति । पूर्वमुपाधिविनिर्मुक्तं पारमार्थिकसत्यञ्चैतन्यं यत्र युज्यते तत्र सर्वे देवा अप्येकं यथा भवति तथा भवन्त्येकीभवन्तीत्यन्यथा प्रतीतेः व्याचष्ये ॥ यन्नारायणादीति ॥ गायत्ऱ्युष्णिगादि प्रतिपाद्यं नाराटरादिरूपेण पञ्चविधमक्षरमित्यर्थः । स्त्रीरूपेण स्वयमेवयुगपदेवसमग्ररूपेण स्त्रीपुमांश्ऱ्च भूत्वेत्यर्थः । अर्धनारीनारात्मनावेत्यर्थः । स्त्रीपुंरूपेणेति युज इत्युत्तरेणापि सम्बध्यते । एकं भवन्तीत्यस्य परेव्यये सर्व एकीभवन्तीति वाक्यानुसारेण तात्पर्यकथनमेकीभवन्तीति । मिलिताः सायुज्यरूपेण परमात्मनि परस्परं वा संसृष्याः । एकत्वमप्युतदीयमानं न गृह्णन्तीत्यादावेकत्वशब्दस्य सायुज्ये प्रयोगात् । यद्वा संसारेभिन्नभिन्नस्थानगताः मुक्तः सन्तः एकीभवन्ति मिलिता एकस्थानवासलक्षणमेलनयुक्ताः सामीप्यसालोक्यं वा प्राप्ता भवन्तीत्यर्थः । अस्मिन्पक्षेस्थानगतमैक्यं स्थानिन्युपचर्यते इति लक्षणा बोध्या । प्रतीतार्थं प्रतिक्षिपति ॥ नायमिति ॥ यद्यप्यत्रैकीभाव शब्दोनास्ति । तथापि सर्वोपाधिगतं चैतन्यमेकं यथा भवति तथा भवन्तीत्युक्ते एकीभावप्रतिपादक एवायं शब्दोभवतीति तथोक्तिः । प्रतीतार्थो नचेत्कोर्थ इति शङ्कते ॥ कित्वि
?R
ति ॥ पूर्वोक्तार्थानुवादपूर्वमर्थान्तरमाह ॥ एकस्थानेति ॥ अनुकूलचित्तत्वं एकविषयचित्तत्वम् । बुद्धिसारूप्यलक्षणोमोक्ष इति यावत् । जीवस्य परमत्वं तु बुद्धिसारूप्यमेवत्विति वचनात् । अस्मिन्पक्षेदेवानामैक्यस्यानुपपन्नत्वाद्देवा एकीभवन्तीत्यनेन तन्मत्यैक्ये उपस्थिते तस्याप्यनुपपन्नत्वात् तन्मति विषयैक्यमनेनोच्यते इति लक्षित लक्षणेति ज्ञातव्यम् । लक्षणायां प्रयोजनं वाच्यमित्यतो रूढलक्षणात्वान्न प्रयोजनमन्वेषणीयमिति भावेन स्थनैक्येच प्रयोगं दर्शयति ॥ एकीभूयेति ॥ ननु किं लक्षणया मुख्य एवाथर्ः किं नस्यादिति चेन्मुख्यमेवार्थमङ्गीकुवाणः प्रष्यव्यः । किं प्रागभिन्नस्यैव जीवस्य मुक्तौ ब्रह्मणैक्यमुच्यते उतभिन्नस्य । आद्यं दूषयति ॥ नचेति ॥ च्विप्रत्ययान्तएकीभावशब्दः स्वरूपैकत्व विषये प्रागभिन्नस्यैव पश्ऱ्चादैक्यविषये प्रयुज्यमानः कुत्रचिन्नदृष्यः । अभूततद्भावोर्थेच्विप्रत्ययविधानादिति भावः । नन्वेकीभीयपुनः शतेनिर्दोषोहरिरादि कृदित्यादौ एकस्यैवहरेः पुनरेकीभाव उच्यते तत्कथं कुत्रचिन्नदृष्य इत्युच्यत इत्यत आह ॥ एक इति ॥ स्थानैक्यं संस्थानैक्यं चैतन्यसंश्लेष इति यावत् । तदुक्तं हरेरपि स्वरूपाणामेकीभावोयदोच्यते । संश्लेष एव सिद्धत्वात्स्वरूपैक्यस्य नो भव इति ॥ ननु प्रागभिन्नस्य पुनरेकीभावः प्रतीत्यपेक्षयायुज्यतेऽतो न च्विप्रत्ययानुपपत्तिः । प्राग्भितयादृष्योयं जीवो ब्रह्मणा अथेदानीं मुक्तावभिन्नतया दृश्यत इत्यतः एकीभवन्तीति प्रयोग सम्भवादित्यत आह ॥ नचेति ॥ उपसंहरति ॥ तस्मादिति ॥ भावसहितः भावशब्दसहितः । न स्वरूपवाची प्रागभिन्नस्य स्वरूपैक्य वाचीन भवतीत्यथर्ः ॥ द्वितीयं दूषयति ॥ नहिपूर्वमिति ॥भावसहितः भावशब्दहितः । तदुक्तं न हि भिन्नमभिन्नताम् ॥ गच्छद्दृष्यंक्वचिदिति ॥ ननूदकस्योदकेनैकीभाव दर्शनात्कथं भिन्नस्य पश्ऱ्चादेकीभावाभाव इति शङ्कते ॥ किन्त्विति ॥ उत्तरमाह ॥ संसर्गएवेति ॥ तथाच श्रुतिः । यथोदकं शुद्धेशुद्धमासिक्तं तादृगेव भवतीति । ततश्ऱ्चकिमित्यत आह ॥ तस्मादिति ॥ प्राग्भिन्नत्वेन पश्ऱ्चादभेदस्य बाधितत्वात् । अत्राप्येकीभाव शब्देन संसर्ग एव विवक्षितः । नतु स्वरूपैक्यमित्यर्थः । तथाच प्राह्लादवचतं परमात्मात्मनोर्यागः परमार्थ इतीष्यताम् । थियैतदन्यद्रव्यं हि नैति तद्द्रव्यतां क्वचिदिति । अत्र संसर्गोनामैकस्थानवासः परस्परं संम्बन्धोवेति ज्ञेयम् । ननु यदुक्तमेकीभाव शब्दः प्रागभिन्नस्य पश्ऱ्चादैक्यवाची न भवति । अभूततद्भावार्थकच्विप्रत्यय विरोधात् । नापि प्राग्भिन्नस्य पश्ऱ्चादैक्यवाची प्राग्भिन्नेपश्ऱ्चादैक्यस्य बाधितत्वेन योग्यताविरहात् । तथाच पक्षद्वयेप्येकीभाव शब्दः स्वरूपैक्यपरो न भवतीति । तदयुक्तम् । तथात्वे लक्षणाश्रयणस्यायुक्तत्वात् । मुख्यार्थस्यान्यस्य सद्भावे हि प्रकृते तदनुपपत्त्यालक्षणादृष्या । अत एव न लक्षणाबीजः सम्बन्धोस्ति । तथाच स्थानैक्यमत्यैक्य लक्षणाविष्णुतत्वनिर्णयसुधादावुक्ताऽत्रोक्ताच विरुद्धेति चेन्न वयमेकीभाव शब्देलक्षणां ब्रूमः । किन्तु गङ्गायां घोषा धारत्वे बाधिते गङ्गापदेन तत्सम्बन्धिनः तीरस्य लक्षणेव देवानामेकीभाव पदोपस्थापि ते प्रागभूतैक्ये बाधिते देवपदेन तत्सम्बन्धिनः स्थानस्य तन्मति विषयस्य वा लक्षणां ब्रूमः । तथा च देवाशकीभवन्तीत्यस्य प्रागभूतं देवतास्थानस्यस्यैक्यं तन्मति विषयस्यैक्यं वा मुक्तावभूदित्यर्थः सम्पद्यते । यदात्वेकीभावं स्वभार्याभिरर्धनारीपुमात्मना ॥ एकत्वमप्युतदीयमानं न गृह्णन्तीत्यादि प्रयोगं परमात्मात्मनो र्योगःपरमार्थ इतीष्यतामिति स्मार्तं व्याख्यानं च अनुसृत्यैकीभावशब्दः संयोगविशेष परस्तदा न लक्षणाश्रयणीयेत्यलं विस्तरेण । यदक्षरं पञ्चविधं
?R
नारायणादि लक्षणम् तत्स्वस्मिन्नेवस्त्रीपुं रूपेण समेतीत्युक्तत्वात् सत्यस्य सत्यं नारायणादि लक्षणं ब्रह्मयत्रयसिमन्वस्त्रीपुंरूपेण युज्यत इति पुनरुक्तमित्यत आह ॥ यदक्षरमिति ॥ उक्तस्य विहितस्य । परामर्श मनुवादम् । उच्यते विधीयते । अधिकविधानाय पूर्वोक्तस्यानुवादो न पुनर्विधिर्येन पौनरुक्त्यं स्यादिति भावः । यदक्षरादक्षरमेति युक्तमित्येतद्वयाचष्ये ॥ यस्मादिति ॥ उभयत्राक्षरपदप्रयोगेन मूलरूपपमेवावताररूपमिति द्योतितं तदभिप्रायः स्वयमेवेति । युक्त आगच्छति विश्लेषकाल एवार्धनारीपुमात्मना युक्त आगच्छतीत्यर्थः । पञ्चविधमक्षरन्तु विभागानन्तरं स्त्रीपुंरूपेण समेतीत्यपौनरुक्त्यं परिहरति ॥तात्पर्येति ॥ तद्वियूयेत्यादेः सर्वाण्यपि शब्दजातानि केवलं नाममात्राणि नतु याथा तथ्येनार्थवन्तीति नामवाॠग्वेदः सोहं नामविदेवास्मिनानात्मविदित्यादिना विचार्यत द्ब्रह्मान्वविन्दन्नित्यन्यथाप्रतीतेः व्याचष्ये ॥ वियूयेत्यादिना ॥ नामायत्ता । नाम बोध्यतया नामाधीनानिनामार्थभूतानीत्यर्थः । माहात्म्यादीनीत्यादि पदान रूपादीनां ग्रहणम् अधीत्यस्यार्थोधिकमिति । समतृप्दन्कृतकृत्यामुक्ता अभवन् पराक्षज्ञानमात्रेण न मोक्ष इत्यत उक्तस्य शृत इत्यस्यार्थोशृत इति परिपाकः परोक्षज्ञानस्यापरोक्षज्ञान पर्यवसानम् । ननु शब्दजातमुपक्रमादिना विचार्यविष्णुमाहात्म्यंज्ञात्वासमतृप्यन्निति देवानं भगवद्विषय वेदोच्चारणस्य मनसस्तदर्थाभिनिवेशस्य तेन च तज्ज्ञानस्य फलस्य चोक्तत्वात् किं पुनर्यस्मिन्नामेत्यादिना यस्मिन्नामानि ज्ञात्वा तस्मिन्ज्ञानेशृते परिपक्वे मुक्ता अभूवन् तत्र हरै देवाः सर्वयुज इति मनोभिनिवेशादिकमुच्यत इत्यतो यस्मिन्नामेत्यादि व्याकुवर्न्नेव पौनरुक्त्यं परिहरति ॥ यस्मिन्नित्यादिना ॥ शब्दजातं विचार्यनामार्थभूतानि विष्णोर्माहात्म्यादीन्यन्वविन्दन्निति कुतः । वेदैरन्यविचारादिकं कृतवन्त इति किं नस्यादित्याशङ्कय वेदार्थत्वेन यज्ज्ञानेमोक्षो भवति तत्रैव देवाः सर्वयुजो भवन्ति नान्यत्र । नहि मोक्षादन्यत्र मोक्षार्तवेद विचाराभियोगः सम्भवतीत्याशयेन यस्मिन्नामेत्यादिनापूर्वोक्तम् फलं परामृश्य तस्मिन्फलद एव विष्णौ देवाः सर्वयुजो भवन्तीत्यवधारणार्थं पुनर्वचनमिति भावः । किञ्चात्र सवर्युजो भवन्तीति मनोवाक्कर्मभिः भगवत्यभिनिवेशोदेवानामुच्यते । तद्वियूयेति मनो वागभिनिवेशमात्रमतोधिकांशोक्तेः न पौनरुक्त्यामिति भावेनानूद्य व्याचष्ये ॥ सर्वेति ॥ यच्चास्याः क्रूरमित्यादेः पौनरूक्त्यं परिहरति ॥ अर्थत इति ॥ एनमस्त्रीपुमानिति द्वितीयाप्रथमयोः अन्वयाभावाद्विभाक्तिविपरिणामेनार्थं सप्रमाणकमाह ॥ अस्त्रीति ॥ विभक्तिव्यत्ययस्य प्रयोजनं सूत्रेणैवाह ॥ स्वातन्त्ऱ्य इति ॥ स्वातन्त्ऱ्ेज्ञापनीये विभक्तिव्यत्ययः स्यादित्यर्थः । स्वातन्त्ऱ्ये विभक्तिव्यत्यय इत्युक्तं विवृणोति ॥ स्वतन्त्र इति ॥ अस्त्रीपुमांसंवदन्नितिकर्मत्वे वक्तव्ये । अस्त्रीपुमानिति भगवतः कर्तृत्वोक्त्यास्वतन्त्रो हि भगवांस्तत्प्रेरित एवमतस्त्रीपुमांसंवदतीति ज्ञाप्यत इति भावः । ननु वदतीत्यस्य एनं केवलस्त्रियं ब्रुवन्नवदति एनमस्त्रीपुमांसं ब्रुवंश्ऱ्च न वदति । केवलं पुमांसं च ब्रुवन्नवदतीति व्यवहितेन नञ्त्रयेणान्वयेतत्सन्निहितं वदन्नित्येतदनन्वितं स्यादित्यतः वदतीत्यस्य सन्निहितेन वदन्नित्येनेनाप्यन्वयमाह ॥ वदन्वदतीति ॥ एतेन एनं स्त्रियं पुमांसंच वदन्वदति । अस्त्रीपुमंसं वदन्नपि वदतीति योजना सूचिता भवति ॥ नञनुवृत्त्यायोजनान्तरमाह ॥ वदन्नेवनवदतीति ॥ एतेन स्त्रीरूपः पुंरूपश्ऱ्चेति वदन्नपि न वदत्येवेति योजना सूचिता ॥ स्त्रियं पुमांसंच वदन्वदतीत्येतदुपपादयति ॥ भवतीति ॥ हि यस्मात् स्त्रीरुपः पुंरूपश्ऱ्च भवत्येव तस्मात् स्त्रियं पुमांसंच वदन्वदत्येवेत्यर्थः ॥ अस्त्रीपुमांसं वदन्नपि वदतीत्येतदुपपादयति ॥ वदत्येवाप्रसिद्धत्वादिति ॥ प्रसिद्धलौकिक स्त्रीपुंविलक्षणत्वादस्त्रीपुमांसं वदन्नपि वदत्येवेत्यर्थः । स्त्रीरूपः पुंरूपश्ऱ्चेति वदन्नपि न वदतीत्येतदुपपादयति ॥ अप्रसिद्धत्वान्नवदति चेति ॥ अप्रसिद्धत्वेन साकल्येन व्यवहारागोचरत्वान्नवदति ॥ अप्रसिद्धेरवाच्यं तदित्यादेरिति भावः । उक्तार्थेप्रमाणमाह ॥ स्त्रीरूप इति ॥ वाच्योत इत्यन्तं पुमांसंच वदन्वदतीत्यत्रप्रमाणम् । वैलक्षण्याल्लौकिकस्थीपुरुष वैलक्षण्याच्चयतपुमान्स्त्ीचनेत्यपि वाच्योसावित्येतदस्त्रीपुमांसंवदन्वदतीत्यत्र प्रमाणम् । वैलक्षण्यादप्रसिद्धत्वाद्यतपुमांस्त्रीचेति वाच्योपि नोच्यत इत्येतत् स्त्रियं पुमांसंच वदन्नपि वदतीत्यत्र प्रमाणति विवेकः । ननु न पुंसकं रूपं किमिति नोक्तम् । स्त्रीपुल्लिङ्गशब्दानामिव ब्रह्मेत्यादि न पुंसकशब्दानामपि तत्र प्रयोगादित्यशङ्कयाह ॥ विष्णोरिति ॥ यद्यपीत्यादावुपस्कार्यम् । अरागाकृष्यत्वान्नपुंसकवत्स्त्ीपुरुष रागानाक्रान्तचित्तत्वात् । यदक्षरमित्यादि व्याचष्ये ॥ नारायणादिति ॥ यदित्यस्यार्थो यत्स्यन्दनमिति ॥ युजइत्यस्यार्थो भार्येति ॥ अधिदेवेतथाध्त्मेयत्स्यन्दनमित्यन्वयः । अधिदैवेध्यात्मेच रथं विवरीतुमथदेवरथ इत्यादि ग्रन्थ इत्यभिप्रेत्यतद्वयाचष्ये ॥ अधिदैव इति ॥ अधिदैवेप्रसिद्धं रथः । ससूर्यः सूर्यभार्याचाश्ऱ्वात्मकौवहतः । अध्यात्मेजीवदेहात्मकं रथं चक्षुर्द्वयसमाश्रितौ वहत इत्यन्वयः । देहमित्याद्युत्तरेणान्वेति । उभयोरित्यादौ दैवं रथमिति योज्यम् । तस्य वागुद्धिरित्यस्यतातपर्यम् उद्धाराणेति ॥ एषमध्यात्म रथे चक्षुरादीनां वैष्णवेरथेत्वे तेषामश्ऱ्वरूपाणां सूर्यादीनामुद्धारणार्थमुमानागाकारासर्पाकारारश्मित्वमगमदित्यन्वयः । मनः संगृहीतेत्यस्यार्थः
?R
मनसीति ॥ अत्र विधस्तु विरोधोद्धारे अपाकृतो ज्ञेयः । तदयमित्यस्यार्थः ॥ विष्णुर्वायुश्ऱ्चेत्यादि ॥ ननु तदयं प्राण इत्यत्र प्राणपदेन घ्राणाभिमानिनोरश्ऱ्विनोर्ग्रहणं युक्तम् । मन्त्रेश्रिवनामसद्भावादित्यत आह ॥ तावैवेति ॥ सत्यस्य सत्यमित्वेतत् श्रुत्यैव व्याचष्ये ॥ तस्योपनिषदिति ॥ श्रुत्यर्थेप्रमाणं वदन्मन्त्रं प्रमाणेन व्याचष्ये ॥ सर्वेत्यादिना ॥ सत्यस्य सत्यमनुयत्रेत्यादिकं स्ववचनेन सत्यस्य सत्यत्वं नारायणाख्यं यत्र यस्मिन्स्वरूप एवय स्त्रीपुंरूपेण युज्यते । तत्र नारायणे सर्वेदेवा एकीभवन्ति मिलिताभवन्तीति व्याख्यातम् । अधुनातु यत्र वैकुण्ठादिस्थाने यत्र स्वात्मनि सत्यस्य सत्यमनुरमणानुकूल्येन स्त्रीपुमात्मनाऽर्धनारीरूपेण युज्यते । तत्र स्थानेरूपेच देवाभवन्ति तद्देशस्थं भगवद्रूपं प्राप्नुवन्तीत्येकमित्यंशं परित्यज्य देवपदव्यावर्त्यपूर्वं व्याचष्ये ॥ यस्मिन्नित्यादिना ॥ अधर्नारीपुमाकारस्थितिमाह ॥ तस्यवामस्थितानिचेत्यादिना ॥ तस्य विष्णारत्युद्भुतानि सर्वाणिस्त्रीरूपाणि वामस्थितानि । अस्य विष्णोर्यानिपुंरूपाणितानि दक्षिणे आस्थितानीत्यर्थः । पञ्चविधाक्षरस्य प्रकृतत्वाद्बहुवचनम् । देवगम्यदेशविशेष अर्धनारीपुमात्मकान्यनन्तानि रूपाण्यपि सन्तीति वाद्रष्यव्यम् । भोगप्रकाणमाह ॥ अस्यैवतु रूपाणियुज्यन्तेऽत्रपरस्परमिति ॥ स्त्रयर्धं पुमर्धञ्च परस्परं मिथुनी भवतीति यावत् । यद्वार्धनारीपुमाकारस्य नारायणस्य तादृशवासुदेवेन योवायुदेव नारायण्योः नारायण वासुदेव्योश्ऱ्च रमणमित्यादिरूपेणेति भावः । किञ्च सर्वाण्यपिरूपाणियुगपदेव युज्यन्तेऽत्यद्भुतत्वात्तद्रमणस्येत्युक्तमत्युद्भुतानीति ॥ किञ्चैकमर्धतः शुक्लवर्णमर्धतोरक्तम् । अपरमर्धतः शुक्लमर्धतः पीतम् । एकमर्धतः स्थीभूतव्यासात्मकमर्धतः पुरुषभूतनारायणात्मक् । एकमर्धतः पुरुषमत्स्यात्मकम् । अधतः स्त्रीभूतकृष्णात्मकम् । अधस्त्रीभूतहयात्मकमर्धतः पुरुषहंसात्मकमित्यादिरूपेण सजातीयविजातीय नानावर्णाकृतानीत्यत्यद्भुतानि रूपाणिपरस्परं संयुज्यन्त इत्यर्थः । यद्वा स्यवामस्थितानीत्यदेरयमर्थः । तस्य विष्णोरर्धनारीनरात्मकस्य नारायणस्यैकस्यैवरूपस्यात्यद्भुतानि सर्वजातीयानिनानावर्णाकृतीनि नानापरिमाणानि सर्वाणियानि विष्णोः स्त्रीरूपाणितानि वामस्थितानि यान्येवं भूतानि विष्णोः पुंरूपाणितानिदक्षिणे आस्थितानि अस्यतानि स्त्रीपुंरूपाणि परस्परं युज्यन्त इत्येवमाहयोभाष्यरहस्यार्थविशेषाः अस्मदाचार्यवर्यै;
रनुदिनमनुशिक्षितायथावबाधं मयादिङ्मात्रप्रदर्शनाय तत्र तत्रोच्यन्त इति ज्ञेयम् । तं स्त्रानं देवाः प्राप्नुवन्तीत्युक्तम् । प्राप्यच किं कुर्वन्तीत्यतः एकं भवन्तीत्येतद्वयाचष्ये ॥ सर्वेदेवा इति ॥ एकं भवन्ति एकभगवद्विषयचित्ता भवन्तीत्यर्थान्तरमाह ॥ उपात इति ॥ तत्र देवाभवन्तीत्यस्यानन्दमनुभवन्तीत्यर्थः । सद्भाववाचकाः शब्दाः सर्वेते सुखवाचका इति वचनाद्भवतेरनुभवार्थत्वाच्चानन्दमनुभवन्तीति लभ्यते । यद्वानन्दरमणं विभागञ्च भवन्ति प्रप्नुवन्ति भवतेः प्राप्त्यर्थत्वादिति भावेन योग्यकर्मान्वयेन व्याचष्ये ॥ मोदन्त इति ॥ भवन्तीत्यस्य भूबहाविति धातुव्याख्यानमनुसृत्यार्थान्तरं बहुधाचेति ॥ एतेनेवा वासुदेवस्य प्रसादात्स्त्ीपुमात्मकं रूपात्पृथग्भावेन विश्लेषेण भागैः स्त्रीपुंस्वरूपिण एव बहुधा भवन्त्यर्धनारीरूपाद्विश्लिष्यान्यर्धनारीरूपाणि अनन्तानि भवन्तीति भावः । यदक्षादक्षरमेतीत्येतदपि विवृणोति ॥ स्त्रीपुंरूपेणेति ॥ अश्ऱ्वादीत्यादि पदेन सारथि ग्रहणम् । यद्वाच ॐमितीत्यादिमुपलक्षरणमभिप्रेत्य व्याचष्ये ॥ मितादीति ॥ वाच इत्यस्य पौरुषेयापौरुषेयवाचं मध्येयदोमित्यादिकं यच्चमितादिकमित्यर्थ इत्यर्थः । जानन्ति ज्ञात्वामुच्यते चेति ग्राह्यम् । मितादिकं सर्वं नारायणस्यैव नामेति जानन्तीत्येतदवधारणार्थं तत्र देवाः सर्वयुज इत्युक्तमित्यभिप्रेत्य व्याचष्ये ॥ मन इति ॥ यस्माद्वेदार्थत्वेन नारायणं ज्ञात्वामुक्ता अभूवंस्तस्मात्तत्रैवमनोवाक्कर्मभिर्वेदविचाराभियोगमाप्स्यन्तीति ज्ञायेत । न हि मोक्षसाधनादन्यत्र मोक्षसाधनेवेद विचाराभियोग इत भावः । देव पदव्यावर्त्यमाह ॥ सर्वेति ॥ अनुतारतम्यानुसारेण । विन्दन्नित्यस्यार्थः । वाय्वन्ता इति ॥ विष्णुनामानि मितादीनि व्यवहितमह इतिब्रह्मेत्येतद्वचॐमित्यनेन सङ्गतभित्यवतारयति ॥ एवमिति ॥ विशेषतो भगवद्वाचकत्वमकारस्य न प्रतीयत इत्यत इति शब्देन प्रतीयत इति भावेन तत्र प्रमाणमाह ॥ इति शब्द इति ॥ यत्र यस्याभिधानस्यान्त इति योज्यम् । तथाच अइत्यकारेण ब्रह्मविशषत उच्यते इत्युपनिषदर्थ इति भावः । नन्वकारेण कथं ब्रह्मोच्यत इत्यत उक्तस्य तत्रागतमहमितीस्यानुवादपूर्वमर्थमाह ॥ तत्रेति ॥ इति यस्मादित्यर्थ इति भावेन तत्परामृष्यहेतुप्रदर्शनाय यस्मादित्यादि । तत्रेत्यस्यार्थः ॥ तस्मादिति ॥ अहमहेय इत्यस्यार्थस्तदन्य इति । हेयजगदन्यः । हेयदोषविरोधिगुणरूपः हेयदोषवर्जितश्ऱ्चेत्यर्थः । तत्रागतमित्यंशस्य तत्राकारवाच्यत्वे आगतमागतस्तदर्थतया प्राप्त इत्यर्थमभिप्रेत्योक्तमकारार्थतया सिध्यतीति । ननु अस्तवकारस्य प्रतियोगिसमर्पकशब्दघटितस्य तदन्यत्वादिकमर्थः केवलस्यतु कथं प्रतियोग्युपस्थापकपदाभावादित्यत उक्तम् ॥ प्रत्यक्षत्वादिति ॥ प्रस्तुतरूपत्वात्पदान्तरेण प्रस्तुतस्वरूपत्वात् । ननु शाब्दीह्याकांक्षाशब्देनैव निवर्तत इति न्यायविरोध इति चेन्न । तन्नियामाभावात् । प्रत्यक्षसिद्धं द्वारमधिकृत्यपि धेहीत्युक्ते
?R
द्वारपदाभावेप्याकाङ्क्षाविच्छेदस्यानुभवसिद्धत्वात् । अतीतस्य व्यवहितस्य च कथं प्रस्तुतिरित्यत आह ॥ मनसीति ॥ I-13
?R
नन्वतीन्द्रियस्य कथं प्रस्तुतिः । अनुमिति शब्दानुभवजन्यस्मृति सम्भवेपि स्मारकाभावादित्यत आह ॥ दृष्येति ॥ ननु हरेरपि दृष्यवैलक्षण्हेन विवक्षितत्वात्प्रतिपिपादयिषितत्वान्नप्रस्तुत समुदायेगणनीय इत्यर्थः । न्वकारस्य पदत्वाविवक्षायामन्विताभिधायित्वात्किमन्वय प्रतियोगिसमर्पणाय प्रत्यक्षाद्यनुरणेनेति चेन्न । पदानां सामान्यतो योग्येतरान्वितस्यार्थाभिधायिकत्वेपि विशेषान्वयसिध्यर्थं पदान्तरस्य तदभावे प्रमाणान्तरस्यानुसरणीयत्वात् । ननु यदुक्तमकारस्य प्रस्तुतान्यत्वादि विशिष्यविष्णुवाचकत्वमिति तदयुक्तम् । तस्य सर्वप्रपञ्चनिषेधात्मकशून्यपरत्वादिति केषाञ्चित्पक्षमाशङ्कयदूषयति ॥ नचशून्यस्येति ॥ प्रपञ्चप्रतिषेधात्मकस्य शून्यस्येत्यर्थः । उक्तञ्चसुधायाम् प्रपञ्चप्रतिषेधोनामशून्यमेवतच्चपारमार्थिकमेवनकल्पितमिति । नन्वेवं सत्यसदिति चेन्नप्रतिषेधमात्रत्वादित्यादावसत्वोक्तिविरोधः । अस्माभिः सर्वविशेषविनिर्मुक्तत्वादसत्वमापाद्यदूषणाभिधानादत एवसुधायां अनुक्तोपालम्भपरिहारायात्रसर्वत्रशून्यस्यासत्वमापाद्य दूषणाभिधानमिति ज्ञातव्यमित्युक्तम् । कुतो न वाच्यमित्यत आह ॥ शून्येति ॥ शून्यप्रतिपाद्यत्वङ्गीकारे अभावाख्यः सर्वप्रतिषेधात्मकत्वाख्यएक एवार्थः सिध्यति । सर्वप्रतिषेधात्मकस्य शूयस्य परिच्छेदत्रयराहित्याङ्गीकारेण जगदन्यत्वस्य निर्विशेषत्वाङ्गीकारेण दोषविराधिगुणत्वस्य चाभावादिति भावः ॥ विष्णोरिति ॥ अभावता । अभावः । भावभवित्रोरभेदापचारः । यद्वा न विद्यते भावः दोष लक्षणः पदार्थो यस्मिन्सोभावः दोषाभाववान् । तस्य भावोभावता । अभाव एव दण्डित्वं दण्ड इति यथा । तथा चविष्णोरकारवाच्यत्वाङ्गीकारेतु अभावतादोषाभावः । अन्यता जगदन्यत्वं विरोधिता दोषविरोधिगुणरूपत्वमिति त्रयोप्यर्थाः प्रवृत्तिनिमित्तार्थाः सम्यगनुपचारेण प्रमाणबाधं विनैवसिध्यन्ति ॥ यद्वक्ष्यति । विरुद्धतानिषेधान्यभावयुक्तेहीत्यत्रेति ज्ञेयम् । तस्मात्प्रवृत्तिमित्तपौष्कल्यात् । एतेन विष्णोरभावरूपत्वाभावात्कथमभावतेत्युक्तमिति निरस्तम् । विस्तरस्तु विरोद्धोद्धारेनुसन्धेयः । नन्वकारस्य शून्यपरत्वाभावे कथं तत्प्रतिपत्तिरित्यत आह । तस्मादिति ॥ तस्मादेकदेशार्थत्वेन अन्ययुक्तेन भावशब्दयुक्तेन । उच्यते नाभाव उपलब्धेरित्यादौ । यद्वाकारस्याभावापरापर्याय प्रतिपाद्य शून्यार्थत्वं पराभ्युपगतं निराकृत्यतेनैवहेतुनाप्रागभावाद्यभावपरत्वं च निराह ॥ तस्मादिति ॥ नन्वइत्येवेति ॥ केवलेनाकारेण केन चिदपि वाक्येनोच्यते । कुतः प्रयोगादर्शनादिति भावः । भवत्वेवमकारस्यप्रस्तुतान्यपरत्वादौशक्तिसद्भावाद्धेवाद्धेयजगदन्यत्वादिवाचित्वम् । तथाप्यकारस्य ब्रह्मनामत्वं कथमित्यतः अकारब्रह्मशब्दयोरेकार्थत्वादिति भावेनाह ॥ तस्मादिति ॥ अर्थान्तरस्यानुपपन्नत्वात् । ब्रह्मैव ब्रह्मशब्दाथर्एव । ननु ब्रह्मशब्दार्थः तद्विरुद्धवाच्यकारार्थश्ऱ्चैकोस्तु । अन्यत्वादिवाच्यकारस्य कथं ब्रह्मशब्देनैकार्थतेत्यतस्तदुपपादयति ॥ पूर्णंहीति ॥ उक्तमर्थमुपनिषदारूढं करोति ॥ तदेतदिति ॥ अ इति ब्रह्मेति वक्तव्ये अःइत्यसंहिततया निर्देशस्य प्रयोजनामाह ॥ अ इति ॥ कथमसंहिततया निर्देशस्योक्तार्थत्वमित्यतस्तत्र प्रमाणमाह ॥ विवृत्ताविति ॥ यत्र पदेसंहितायामवश्यभाविन्यां विवृविरसंहिततया निर्देशः स्यात्तत्रतस्य वस्तुनः समानोत्तमहीनत्वमुच्यते । विवृत्तावपि सर्गोविसर्गश्ऱ्च यत्र स्यात्तत्रांजसासमानोत्तमहीनत्वमुच्यत इति योज्यम् । आद्यं यथा तमेवैकं जानथ आत्मानमिति । तदुक्तं तत्वप्रकाशिकायां जानथ आत्मानमित्यत्र विवृत्तिस्तस्य सर्वतोविलक्षणत्व ज्ञापनार्थेति द्वितीयस्य त्विदमेवोदाहरणमिति । एवमइत्यकारेण ब्रह्मनारायण एव विशेषत उच्यते ॥ कुतः ॥ अकारस्य हेयजगदन्यत्वादिप्रकारस्य पूर्णत्वाभिधायकत्वान्नारायणावतारस्य ममपूर्णत्वादकारोनारायणस्य विशेषनामेत्यर्थत्वेन अःइति ब्रह्मेत्यादि व्याचष्ये ॥ अःइतीति ॥ अस्त्वकारस्य पूर्तिवाचित्वं तस्य नारायण नामत्वं कुत इत्यतस्तत्रागतमित्येतदनूद्य व्याचष्ये ॥ तत्रेति ॥ तत्राकारस्य पूर्णवाचित्वेसति अहमेवतत्राकारवाचकत्वे आगतः अकारवाच्यत इत्याहमहीदासरूपोभगवान्नारायण इत्यर्थः । नन्वकारस्य पूर्णवाचित्वेपि महिदासस्याकारवाच्यत्वं कुतः । अन्यस्य पूर्णत्व सम्भवादित्यतस्तत्रपूर्णत्वे विशेष्यतयाहमेवागतो नत्वन्य इत्यर्थान्तरमाह ॥ अहमेक एवेति ॥ ननु प्रलयेप्रलीनानां मुक्तानं च ब्रह्मणैक्यात्कथमन्येषां तदधीनत्वमित्याशङ्कापरिहारकत्वेनापि पृथग्वचनं व्याचष्ये ॥ मुक्तेभ्य इति ॥ उक्तार्थेप्रमाणमाह ॥ तच्चेति ॥ ननु माभूद्यादृशतादृशानां भगवदैक्यं ब्रह्मदीनां तु लोकेश्ऱ्वराणां स्यादित्यत आह ॥ ब्रह्मेति ॥ संहितायां प्रसक्तायामपि पदात्मना । सविसर्गपदात्मना । एवंविधः पूर्णः । अकारस्य शून्यप्रतिपादकत्वं प्रागभावादिपरत्वं वाव्यवच्छिनत्ति ॥ नाभावेति ॥ नात्राभाव इति शून्यं प्रागभावश्ऱ्चविवक्षितः । यतः अकारार्थ त्रयेण प्रवृत्तिनिमित्तार्थत्रयेण युक्तस्तत्प्रवृत्तिनिमित्तकः अतोनाभाववाची । नन्वकारस्य त्रिविधप्रवृत्तिनिमित्तकत्वेप्यभाववाचित्वाभावः कुत इत्यत उक्तम् ॥ एकेति ॥ केवलमर्थात्मैव नतु विष्णुवत्तद्वान् । कुतः
?R
निषेधैकस्वरूपतः केवलं निषेधरूपत्वेन तद्वत्ताभावात् । अत एकदेशस्वरूपत्वादिति योज्यम् । नन्वकारस्याभावार्थत्वेपि पूर्णाथर्त्वं स्यादेव भावान्यत्वभावविरुद्धत्वयोरप्यभावेप्रागभावादौ सत्वादित्याशङ्कय निषेधति ॥ नचेति ॥ एतावताप्रकृतिनिमित्तद्वयसद्भावमात्रेण माभूदकारस्या पूर्णार्थत्वमित्यत आह ॥ तदेति ॥ अर्थत्रयकल्पनस्य प्रवृत्तिनिमित्तार्थत्रयकल्पनस्य । ननु निर्मूलमेवप्रवृत्तिनिमित्तत्रयकल्पनमित्यत आह ॥ उक्तमिति ॥ विरुद्धत्वयुक्ते निषेधयुक्ते अन्यत्वयुक्ते वस्तुनि केवलाकारोवर्तते तेषां त्रयाथां प्रवृत्तिनिमित्तार्थानां मध्ये एकार्थात्मनि एक प्रवृत्तिनिमित्तार्थभूते भावेभावान्यत्वात्तद्विरोधित्वाच्चाभाव इत्येवशब्दो वर्तते । नतु केवलो अ इति शब्दः । प्रवृत्तिनिमित्तपौष्कल्याभावादिति भावः । उपसंहरति ॥ तस्मादिति ॥ यद्वाचॐमितीत्यत्रोंकारस्य भगवन्नामत्वमुक्तं तदयुक्तम् । अकारोकारमकाराद्यात्मकस्योंकारस्य हिरण्यगर्भादिप्रतिपादकत्वादित्यतः प्रमाणेनैव शङ्कां परिहरति ॥ यत इत्यादिना ॥ तद्वयाख्यानरूपः प्रणवोपीति योज्यम् सृष्ययाबृंहणाद्ब्रह्मनामा उच्चलोकगतत्वादुकारवाच्यः । प्रद्युम्नसङ्कर्षणवासुदेवनारायणात्मकान् । नतु कामपुत्रानिरुद्धादि जीवानित्यर्थः । प्रणवप्रतिपाद्यरूपान्तराण्यपि दर्शयति ॥ पद्मनाभेति ॥ पद्मनाभदामोदरसङ्कर्षणवासुदेवप्रद्युम्नानिरुद्धपुरुषोत्तमनारायणाभिधामूर्तीरित्यर्थः । तस्य वा एतस्य बृहतीसहस्रस्येत्यादि व्याचष्ये ॥ षट्त्रिंशतिसहस्राणीत्यादिना ॥ अत्रयोजना । हरेः षट्त्रिंशतिसहस्राणिस्त्रीरूपाणि तावन्ति पुमाकाराण्यपि रूपाणि बृहत्युक्थार्णगानि स्वरव्यञ्जनभेदभिन्न बृहतीसहस्रगतानि । तुशब्देन व्यञ्जनगतानिस्त्रीरूपाणि स्वरगतानि पुंरूपाणीति विशेषं द्योतयति । तथाषट्त्रिंशतिसहस्राणि स्त्रीरूपाणितावन्ति पुमाकाराण्यपिरूपाणि अह्नामभिमानिषु अहोरात्रात्मकदिना भिमानिषुसर्वशः सर्वेषुसूर्यरूपेषु वर्तत इति । एतेन षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति । तावन्ति शतसंवत्सरस्याह्नामित्येतद्वयाख्यातं भवति । जीवाक्षरेणेत्येतद्विवृणोति ॥ एतैः पुरुषगैरित्यादिना ॥ अक्षरेणेत्यस्यार्थो बृहत्याक्थेति ॥ कदाचिद्भगवान्विष्णुः एतैः पुरुषगैः बृहत्युक्थव्यवस्थितैः व्यञ्जनगतैः स्त्रीरूपैः सूयर्गतानि तन्नियमिताहर्गतानि पुमाकाराण्याप्नोति । कदाचिदेतैः बृहत्युक्थस्वरगतैः पुरुषरूपैः सूर्यगतानि सूर्यतन्नियमितरात्रिगतानि स्त्रीरूपाण्याप्नोति । कदाचिद्भगवान्विष्णुः एतैः सूर्याहर्गतैरेवपुंरूपैः अक्षरगतानि स्त्रीरूपाण्याप्नोति । कदाचित्तैः सूर्यनियमितरात्रिगतैरेवस्त्रीरूपैरक्षरगतानि स्वरगतानि पुमाकाराण्याप्नोति । कदाचिद्भगवान्विष्णुः सूर्वगतानिस्त्रीरूपाणितैरेवतद्गतैरेवपुंरूपैराप्नोति । ततातैरेवाक्षरगतैरेवपुंरूपैरक्षरगतान्येवस्त्रीरूपाण्याप्नोति । कदाचित्सूर्यगतानिपुमाकाराणिस्त्रीरूपाणिकृत्वास्त्रीरूपाणिपुमाकाराणि विधायतैस्तान्याप्नोति । कदाचित्सूर्यरात्रिगतानि स्त्रीरूपाणिपुमाकाराणिकृत्वा अक्षरगतान्यक्षरसवरगतानिपुमाकाराणिस्त्रीरूपाणिविधयतैस्तान्याप्नोति । एवमक्षरगतपुमाकाराणिविधायतैः स्त्रीरूपैः सूर्यगतस्त्रीरूपाणिपुमाकाराणिकृत्वातान्याप्नोति । अक्षरगतस्त्रीरूपाणिपुमाकाराणिकृत्वातैः पुमाकारैः सूर्यगतानि पुंरूपाणिविधायतान्याप्नोति । कदाचित्सूर्यगतानि पुमाकाराणि कृत्वातान्याप्नोति । स्त्रीरूपाणिच युगपदर्धनारीनरात्मनाविधायक्षरगतानि रूपाणि पुमाकाराणि स्त्ऱ्ाकाराणि चार्धनारीरूपेण विधायजीवाक्षरगतार्धनारीरूपैः सूर्यगतरूपाणितैर्वाजीवगतरूपाण्याप्नोतीत्यर्थः । अत्यलौकिकं रमणप्रकारमुक्त्वोपसंरन् घटकमाह ॥ आत्मेच्छयेति ॥ पुंरूपस्वयरूपैः पुमाकारस्वरूपैः । प्रमदाकारस्वरूपैर्युगपदेवपुंरूपप्रमादारूपस्वरूपैरित्यर्थः । जीवाक्षरेण जवाहरित्येकवचनाभिप्रायमाह ॥ एकीकृत्येति ॥ अनकाममार इत्येतद्वयाचष्ये ॥ स एवेति ॥ मायां रमायां । मायामित्यस्यार्थान्तरं स्थित्वात्मस्त्रीतनाविति ॥ एतेन केवलं भगवतः स्त्रीपुमात्मरूपमेलनेन प्राणस्योत्पत्तिर्नेति ध्यन्यते । अनेच्छामारशब्दस्योपनिषद्यभावादौपनिषदं पदं स्ववचनेन व्याचष्ये ॥ वायोरिति ॥ जीवाक्षरेणेत्येतत्स्ववचनेन स्पष्यं व्याचष्ये ॥ जीवस्थितेनेति ॥ तेन चाक्षराख्यमिति जीवशब्दित सूयर्स्थाहराख्यस्वरूपेण जीवाक्षराख्यं स्वरूपमाप्नोतीत्यर्थः । यद्वा तेन जीवेस्थितेनाक्षरनामकेन तदवाक्षराख्यं स्वरूपमाप्नोति । तेन च सूर्याहर्गतेन तदेवस्वरूपमाप्नोतीत्यर्थः । एतेन जीवाक्षरेण जीवाहराप्नोति । जीवान्हाक्षरं जीवाक्षरेण जीवाक्षरम् । जीवान्हाजीवाहरिति याजनासूचिता भवति ॥ उक्तार्थेप्रमाणमुक्तमन्तरङ्गं च ज्ञापकमाह ॥ यदक्षरादिति ॥ यद्वा तद्वा इदं बृहतीसहस्रमित्यादिकं यदक्षरादक्षरमतीति श्लोकव्याख्यानायप्रवृत्तमिति सङ्गत्यन्तरञ्चोक्तं भवति । अत एव यदक्षरादिति श्लोकस्य यद्विष्ण्वाख्यं ब्रह्मक्षराद्बृहत्यक्षरगेन रूपेणैत्यहराख्यं सूर्यमेति सूर्याच्चाक्षरगतमेति तदुभयंस्त्रीपुंरूपेण युक्तं भवति । तथाक्षरादक्षरगतरूपेणाक्षरगतमेवस्त्रीरूपमेति । एवं परस्परं स्त्रीपुमात्मनासंयुक्तं भगवद्रूपं स्त्रीरूपेणयुजोदेवा अश्ऱ्वरूपेण रथे युक्तावहन्तीति याजनान्तरमुक्तं ज्ञेयम् ॥ नैनं वाचेत्यत्रैनं स्त्रियं ब्रुवन्नवदति पुमांसंच ब्रुवन्नवदतीत्युभयाकारनिषेधं केचिद्वयाचक्षते ॥ तदपाकरोति ॥ पुमासमिति ॥ केवलं पुमांसं स्त्रियं च वदन्नवदतीत्युक्तत्वादुभयसंस्थानात्मकमेवरूपं प्रतीयते नतु तदुयाभाव इत्यर्थः । ननु केवलमिति कुतः
?R
संयोज्यव्याख्येयं सर्वथातदुभयाभाव एवार्थः किं नस्यादित्यत आह ॥ अस्त्रीति ॥ अस्त्रीपुमानिति वदन्नवदतीति न पुंसक इति ब्रुवन्नवदतीत्युक्ततत्वात्स्त्ीत्वपुंस्त्वयोः प्रतीयमानत्वादित्यर्थः । एतेनास्त्रीपुमांसमिति विपरिणामं विनेति शब्दाध्याहारेणापि योजनोक्ता द्रष्यव्या । नतु निराकारत्वान्नपुंसकाकारोप्यत्र निषिध्यते नतावतास्त्ऱ्ाद्याकाराभ्यनु ज्ञेति चेन्न । तर्हि वदन्नवदतीति स्त्रियं पुमांसंच वदन्वदतीत्युत्तरवाक्यविरोधादिति भावः ॥ 1
॥ नन्वस्त्रीपुमानिति वदन्नवदतीति कुत इत्यत आह ॥ नचेति ॥ 2
॥ यद्वा ननु केवलस्त्रियं ब्रुवन्यथानवदति तथाकेवलमस्त्रीपुमान्नपुंसक इति वदन्नवदतीत्यर्थः किं न स्यादित्यत आह ॥ नचेति ॥ यद्वा ननु वदन्वदति कश्ऱ्चनेत्यतस्त्रियं पुंमांसंच वदन्वदत्युभयरूपत्वादिति यथाख्याख्यायते तथा स्त्रीपुमांसवदन्वदतीति व्याख्यानं किं नस्यादित्यत आह ॥ नचेति ॥ 4
॥ यद्वा ननु यथालौकिकस्त्रीपुरुषवैलक्षण्याभिप्रायेणास्त्रियं पुमांसंच वदन्नपि वदतीति नञोनुषङ्गण व्याख्यायते तथास्त्रीपुमांसंवदन्नपि न वदति नपुंसकरूपस्यालौकिकत्वादिति किं न व्याख्यायत इत्यत आह ॥ नचेत्यादिनाऽनुषज्यत इत्यन्तेन ॥ 5
॥ वदन्वदतीत्यत्र अस्त्रीपुमानिति वदन्नपि वदतीति योजनामङ्गीकृत्याप्यविरोधेन व्याचष्ये ॥ नपुंसकेप्रमाणाभावादित्यादिना ॥ नन्वेवं योजनायां नपुंसकत्वमपि व्यज्ञास्येत । कथमियं योजनाभवतीत्यत उक्तम् ॥ नपुंसक इति ॥ अप्रामाणिकत्वेनायोग्यार्थस्यप्रतीत्ययोगाल्लौकिकस्त्रीपुंविलक्षणत्वादेवास्त्रीपुमानिति वदन्वदतीति योजनाभवत्येवेत्यर्थः । विष्णोर्नपुंसकं रूपं नास्तीत्यत्र सयुक्तिकं प्रमाणमाह ॥ स्त्रीति ॥ तस्माद्बिम्बभूतस्य नपुंसकत्वाभावादेवस्वरूपनपुंसकाभावादेवसाक्षान्नपुंसकः स्वरूपतोनपुंसकः क्वचिदपि मुक्तिभागीति नोच्यत इत्यर्थः । ननु तत्तदाकारत्वेन हरेः सर्वत्रावस्थानाङ्गीकारान्नपुंसकेतादृशरूपस्याङ्गीकायर्त्वात्कथं तृतीयाकारनिषेध इति चेन्न । सर्वत्रनिर्दोषस्य सौन्दर्याविरोधिनोरूपस्याङ्गीकारेण दुष्यभावस्याभावादिति भावः । तनुनपुंसकरूपाभावेकथं नपुंकशब्दवाच्यत्वमित्यत आह ॥ नचेति ॥ अनेच्छामारनामक इत्यत्रानकाममार इत्यस्य नामत्वमुक्तम् । तत्र ज्ञापकमाह ॥ भवतीति ॥ जीवाक्षरेण जीवाह रामप्नोतीति वदन्नकाममारोभवतीति पदाभावान्नानकाममारत्वं विधीयते । किन्त्वनकाममारस्तन्नामको भगवान्जीवाक्षरेण जीवाक्षरेण जीवाहराप्नोतीत्येव विधीयते । अन्यथाप्नोतीत्यस्य कर्त्रध्याहेरो भवतीति पदस्य च सम्बन्ध इति बहुकल्पनाप्रसङ्ग इति भावः । नन्वपौरुषेयण मन्त्रेणोकतत्वात्कथं ॠषिणोक्तमित्यच्यते ॠषिश्ऱ्चक इत्यत आह ॥ ॠषज्ञान इति ॥ ततश्ऱ्चकिमित्यत आह ॥ मन्त्राणामिति ॥ अतो भगवतो मन्त्रद्रष्यृत्वाद्ब्राह्मणानिविनियोजकवाक्यानि मन्त्रोक्तमप्यर्थं ॠषिणोक्तमिति प्राहुरित्यन्वयः । प्रथम इत्यस्य एकराट्स्वतन्त्रो द्रष्येत्यस्य च व्यावर्त्यमाह ॥ तत्प्रसादादित्यादिना ॥ ब्राह्मणं पश्ऱ्चात्तैर्ब्रह्मादिभिर्दृष्यं मन्त्रा उपनिषदश्ऱ्च ॠषिभिर्मधुछन्दप्रभृतिभिः पृथगेकैकदेशतो दृष्याः । प्रथमं हयास्येन दृष्यं तन्मन्त्रादिकं सुमहत्तपः अकृत्वाकेनचिन्नेक्ष्यते । मुनिभिः वेद द्रष्यृभिः सर्वैर्ब्रह्मादिभिः मन्त्रोपनिषद्दर्शन साधनतपोपेक्षयापृथक् तपोविनातेनैवतपसाब्राह्मयणं तयोऽदृश्यतातो मन्त्राश्ऱ्चोपनिषदश्ऱ्च ब्राह्माणादुत्तमाः । तत्र मन्त्रोपनिषदोर्मध्ये उपनिषच्छ्रेष्ठा कुतः । युक्तावस्थायां ध्यानावस्थायां अधिगम्यत्वादित्यर्थः । अथ देवरथस्तस्य वागुद्धिरित्यादौ शरीर रथस्य प्रकृतत्वात्तेन रथेनायातमित्युक्तेशरीराख्येनेत्येव प्रतीतेः यथावद्वयाचष्ये ॥ तेन रथेनेति ॥ ॠभुपदेन ॠभवोनाम तपसोमं प्राप्ताः सहस्रश इति भागवतोक्ताः केचनदेवा इत्यन्यथाप्रतीतेः व्याचष्ये ॥ ॠभवइति ॥ द्वादशाष्यादिकेष्वपीति ॥ द्वादशादित्येष्वष्यवसुषु एकादशरुद्रेषु दशविश्ऱ्वेषु सहस्रॠभुष्वपि आदित्यादि समाख्यावर्तत इत्यर्थः । समग्रं मन्त्रं प्रमाणेन व्याचष्ये ॥ निर्मित इति ॥ प्राणोधितिष्ठति । हे अश्ऱ्विनौ वांरथमित्युक्त्याप्रतीतं साम्यं निराकर्तुमुक्तं वायुनासहविष्णुनाधिष्ठित इति ॥ दिव्योरथोध्यात्मं देहनामकोरथश्ऱ्चतस्य देहेख्यस्य रथस्य मनसाध्यानं वाचातस्तवनं कर्मणाकायिकेन नमस्कारादिनेत्येवं मनोवाक्कर्मभिर्योगोयदाभवेदित्यथर्ः ॥ विविधमिति ॥ शरीरेद्वासप्तति सहस्रनाड्यादिषु अधिदैवं चानेकेषुस्थानेषु विविधरूपेण वा सयुक्तत्वादित्यर्थः । दिवोदुहितृनामकमिति ॥ द्युशब्दवाच्यमहालक्ष्म्यभिमतवेदद्वारामनसोत्पन्नत्वादपरोक्षज्ञानं दिवोदुहितृनामकमित्यर्थः । सुदिने इत्यस्य तात्पर्यं शोभने इति ॥ ननु ज्ञानावस्थामुक्त्यवस्थयोः कथमहः शब्दवाच्यत्वमित्यत उक्तम् ॥ उभेएवेति ॥ परेमुख्ये अहनी इति पूर्वोक्ते उभे एव ज्ञानस्याहर्दिनं प्रकाशश्ऱ्चेति । प्रकाशरूपत्वान्मुक्तेश्ऱ्चस्वरूपप्रकाशरूपत्वादिति भावः । न केवलमभिमन्यमानस्योत्पत्तिरपि तु तदभिमानिनामपीत्याह ॥ जायन्तइति ॥ एषामपरोक्षज्ञानादीनामभिमानिदेवताः रूपद्वयीत्युक्त्यादेवता इति बहुवचनं घटितं ज्ञेयम् । सर्वस्त्रीणां मध्ये क्रीडादिगुणैरुत्तमत्वादित्यर्थः ॥ ज्ञानात्मत्वादिति ॥ अहर्दिनं प्रकाशश्ऱ्चेति वचनादिति भावः । न केवलं भारत्यावयोरूपद्वयस्य चाध्यात्ममभिमन्यमाने उत्पन्ने भूतं भूताभिमानीचेत्युक्तन्यायेन तदभिमानिरूपेणोत्पत्तिः किन्तु बाह्याभ्यन्तर
?R
यज्ञार्थमागमनकालेधिदैवरथस्याश्ऱ्वादिभिर्योगोभारत्यादयोविष्णोर्लक्ष्म्ां जायत इत्यप्यर्थमाह ॥ अधिदैवइति ॥ तद्रूपेभ्योविभक्ता एवांशाःअध्यात्ममुत्पद्यन्त अंशिनामधिदैवरथ उत्पाद इति भावः । अन्तिषद्भूतु वामव इत्येतद्वयाचष्ये ॥ रक्षणमिति ॥ हयास्यत्वाच्चेति ॥ चकारादाशुवानाद्गतेरश्ऱ्वीति प्रमाणानुसारेणाशुगतित्वाच्चेति समुच्चिनोति । अत एव तत्वप्रकाशिकायामाशुगती इत्यर्थः उक्तः । न केवलमश्ऱ्विनोयं मन्त्रो भगवतपरः किन्त्वन्येपीत्याह ॥ ऐन्द्रेति ॥ ऐन्द्राग्नेयादिकाः सर्वमन्त्रामुख्यतः इन्द्रादिना मानं हरिमेव वदन्ति । मुख्यतोन्यं न वदन्ति । यथा । ऐन्द्रसानसिंरयिं । अग्निमील इत्यादिः । केचिदैन्द्रादिमन्त्राहरिमेव वदन्ति । नान्यं नाकिरिन्द्रत्वदुत्तरोन ज्याय?
ाअस्तिवृत्रहन् । विमेकर्णापतयतोविचक्षुरित्यादिः । तत्र द्विवचनोमन्त्रोवायुदेहस्थं पृथक्संस्थंच केशवं वदति । यथा । आतेन यातमित्यादि प्रकृतः । अथवा द्विवचनोमन्त्रः पृथक् रूपद्वयेन संस्थं केशवमेव वदति । यथा घर्मासमन्तात्रिवृतं व्यापतुस्तयोर्जुष्यिमातरिश्ऱ्वाजगामेत्यादिः । बहुवचनयुक्तेष्वपि मन्त्रेषु तथातथैवार्थः । बहुत्वप्रतिपादकोमन्त्रोपि देवतां तरगाणिपृथग्रूपाणिच प्रतिपादयति ॥ यथा विश्ऱ्वेदेवाः शृणुतेत्यादिः । अथ वाबहुवचनोमन्त्रः पृथग्रूपेणसन्तं केशवमेव वदति । यथा इंन्द्रोमयाभिः पुरुरूपईयतेयुक्ताह्यस्य हरयः शतादशेत्यादिरिति भावः । सुदिने इत्यस्याक्षराथर्माह ॥ सुखमिति ॥ विवस्वतः सूर्यस्य तद्रथस्व च योगेदिवोद्युलोकस्यदुहिता आलोकः उभे अहनी अहोरात्र संज्ञे जायेते इत्यपव्याख्यानिरासाय स्वव्याख्यां परिष्करोति ॥ विवस्वत इति ॥ नन्वहनी इत द्विवचनेन द्वित्वसिद्धेरुभे इति व्यर्थमित्यत आह ॥ अहनी इतीति ॥ उभयोरुभयविधयोः । अपव्याख्यानं निराह ॥ नचेति ॥ ज्ञापकाभावादिति भावः । नन्वहनीजाते इत्यहोरात्र जनकतवं लिङ्गमस्तीत्यत आह ॥ नचेति ॥ अहश्ऱ्चाहश्ऱ्चाहनीत्यहर्द्वयं वाहः शब्दस्य दिनापरत्वेदिनद्वयं वोच्यते । नत्वहोरात्रे अहनी इत्युच्येते । सरूपाणामेकशेष इति सरूपाणामेवैकशेषविधानादिति भावः । विरूपाणामपि समर्थानामेकशेषोवक्तव्य इति वार्तिक वचनाद्विरूपाणामप्येकशेष इति चेन्न । तत्र ह्यर्थसारूप्यमङ्गीकृतयशब्दवैरूप्येप्येकशेषोभ्यनुज्ञातः । वक्रदण्डः कुटिलदण्डश्ऱ्च वक्रदण्डावित्याद्युदाहरणात् । नच शब्दतोर्थतश्ऱ्चविरूपयोरहोरात्रशब्दयोरेकशेषोभिप्रेत इति यतिकञ्चिदेतत् । साधकाभावमुक्त्वाबाधकञ्चाह ॥ सूर्यस्येति ॥ तथाचाश्ऱ्विश्रुति विरोध इति भावः । नचावरनाम्नामुत्तमपरत्वमस्तीति वाच्यम् । सत्यमेतदिन्द्रां तेषु । तदवराणानतु विशेषलिङ्गसद्भाव एव स्वावरशब्दवाच्यत्वमन्यथानेति ॠग्भाष्येनियमितत्वात् । पूर्वप्रसिद्धवर्जन्तु शक्रान्तादेवतामताः ॥ इन्द्रावराविशेषेण लिङ्गेनैव पृथक् पृथगिति ॥ नचात्रसौरं लिङ्गमस्तीत्युक्तं लिङ्गविरोधं चाह ॥ सप्तेति ॥ सप्तयुजन्ति रथमेकचक्रमिति श्रुतेरिति भावः । नचोत्तरवाक्ये एको अश्ऱ्वोवहति सप्तनामेति एक एवाश्ऱ्वः केवलं सप्तनामेत्युक्तमिति वाच्यम् । एकएवाश्ऱ्वचेतनः सप्तरूपीसप्तनामा वहतीति तदर्थस्य तत्वप्रदीपिकायां व्यवस्थापि तत्वेन सप्ताश्ऱ्वत्वाविरोधादिति । बाधकान्तरमाह ॥ अध्यात्मेति ॥ श्रोत्रेपक्षसीच क्षुषीयुक्ते इत्यक्ते इत्यश्ऱ्वानामध्यात्मरथ सम्बन्धात् । अत्रोक्तस्य विवस्वतोप्यध्यात्मरथ सम्बन्धात्सूर्याश्ऱ्वानां सूर्यस्य च अध्यात्मरथसम्बन्धाभावान्नायं सौरोरथो नहि देहाख्येरथेसूर्योधिष्ठाता प्राणस्तथानुगमादिति सूत्रकृतैवनिराकृतत्वात् ॥ उक्तञ्च भाष्ये ॥ विष्णुमेवानयन् देवाविष्रुं भूति मुपासते ॥ स एव सर्ववेदोक्तस्तद्रथोदेह उच्यत इति ॥ अहः शब्देनाहोरात्रविवक्षायां सुदिना इति रात्रिविशेषणञ्च स्यात्तच्चायुक्तमित्याह ॥ नचेति ॥ ननु मेघच्छन्नेह्निदुर्दिनमिति वचनात्तदतिरिक्तदिनान्तर्गतरात्रिः सुदिनमेव । महात्मदर्शनादियुक्तं सुदिनामिति व्यवहारात्तदन्तर्गतत्वाद्वारात्रिः सुदिनमित्यत आह ॥ असुदिनस्येति ॥ स्वपक्षेवैयर्थ्यं परिहरति ॥ अस्मिन्निति ॥ तदुपपादयति ॥ जीवन्मुक्तिरिति ॥ ननु मुक्तौ भोगबाहुल्यात्सुदिनत्वमस्तु । जीवन्मुक्तेः कथं तदित्यत आह ॥ सयइति ॥ उपास्तेपरोक्षतोजानाति च । अस्यापरोक्षज्ञानिनः । कथम् । समुक्तो यद्यत्कामयते तत्सर्वमस्मदात्मनः प्रसादात् कर्मसृजत इत्यथर्ः । नन्वसति प्रारब्धेज्ञानानन्तरमेवमोक्षनियमात्कथं ज्ञानावस्थायाः भोगविशेष हेतुत्वम् तदानीन्तन भोगस्य मुक्तावनुष्ठितसाधनेनैवोपपत्तेरित्यत आह ॥ नहिमुक्तावित्यादिना ॥ नपुनरार्जनमस्तीति ॥ पुनरार्जनं नास्तीति हेतोः मुक्तौ भागविशेषार्थं साधनान्यनुष्ठानायेश्ऱ्वरेणावशेषित प्रारब्धकर्मभोगविशेषणाधिकार्जनार्थं ब्रह्मणां शतकालात्तुपूर्वमारब्धसंक्षयः ॥ ब्रह्मणस्त्वेवतावत्वं पञ्चाशद्ब्रह्मणस्तथा ॥ रुद्रस्य विंशदेवस्यादिन्द्रस्यार्कादिकेदशेत्याद्युक्तदिशाऽवरक्रमेणकिञ्चित्किञ्चित्कालं ज्ञानित्वेनावस्थानमिति सुदिनमेवान्तत एक गुणोपासकानां ज्ञानदेहापगमनानन्तरमेवमुच्यमानानामपि तद्देहएव ज्ञानोदयानन्तरं किञ्चित्कालावस्थानमपि सुदिनमेवेति भावः । नन्वेवं तर्हि ज्ञानात्पूवर्ावस्थाया अपि मुक्तिसाधनानुष्ठानहेतुत्वात्सुदिनत्वं स्यादित्यत आह ॥ अज्ञानादिति ॥ जिज्ञासोरुत्तमद्रोहहादिनापुनः पतनसंशयेन ज्ञाननिश्ऱ्चयान्नसुदिनत्वम् । अपरोक्षज्ञानिनस्तु तदवस्थावधृते
?R
र्ब्रह्मसंस्थोमृतत्वमेत्येवेत्यादिसूत्रश्रुति बलेन मोक्षनियमाद्यथायोग्यमानन्दात्कर्षापादकसाधनानुष्ठाननियमाच्चज्ञानावस्थायाः सुदिनत्वमिति ॥ ननूक्तानुपपत्तिबलात्सूर्येरथाङ्गीकारोनयुक्तश्ऱ्चेत् माभूदश्ऱ्विरथोवर्ण्यत इति किं नस्यादित्यत आह ॥ नचेत्यादिना ॥ तद्रासभइति ॥ तद्रासभोनासत्यासहस्रमाजायमस्यप्रधनेजिगायेति प्रथमाष्यकाष्यमाध्याय वचनादित्यर्थः ॥ नचेति ॥ स्वोत्तमवाचिशब्दस्य तत्र सर्वथानवकाशादिति भावः । ननु भवत्पक्षे प्राणाश्ऱ्विविवस्वच्छब्दानां त्रयाणामप्यनुपपत्तिरित्यत आह ॥ योदेवानामिति ॥ न केवलं योदेवानामितिनिगमनबलादत्रत्यप्राणादिशब्दवाच्यम् किन्तूपक्रमाच्चेत्याह ॥ युजइति ॥ सूर्यादयोदेवायत्स्यन्दनं वहन्ति तत्सत्यस्य स्तयमिति विष्णोः तद्रथस्यचोपक्रान्तत्वाच्चेत्यर्थः । अध्यायान्तेद्विरुक्तेरभिप्राय वर्णनमुखेनाध्यायार्थं निगमयति ॥ अत इति ॥ सर्वनामाविष्णुरेव बृहतीसहस्रादावुक्त इति सिद्धमित्यर्थः ॥ 8
॥
?R
इति श्रीमद्विट्ठलाचार्यपुत्रेण श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेनरचितायां श्रीमन्महैतरेय भाष्यार्थरत्नमालायां द्वितीयप्रघट्टके तृतीयोध्यायः ॥ 2
॥ 3
॥
?R
ॐएषपन्था इत्यादौ वासुदेवादिचतुर्मूर्तितया प्रकृतस्य नारायणस्य प्रागुक्तसर्वशब्दवाच्यतवेन लब्धगुणपूर्तिप्रकारोनिरूप्यतेस्मिन्नध्याये । यद्वा सृष्यिवाक्यानां समन्वयमुखेन जगज्जन्मादिकारणत्वादिगुणपूर्तिप्रकारोनिरूप्यते । तत्र तावत्कालकोटिविहीनत्व लक्षणकालाग्य्रत्वञ्चोच्यते ॥ आतमेति ॥ इदमस्य जगतोग्रेप्रलये आत्मा आततगुणोनारायण एक एवासीदित्येकोनारायण आसीदित्यादौवाप्रसिद्धमित्यर्थः । यद्वेदं सर्वं जगपेक्ष्यात्मैवकालतोगुणतश्ऱ्चाग्र इत्यनेनैवतल्लाभोत्रानुसन्धेयः । रमाया अविनष्यशरीरतया वस्थानादात्मनः कालतोग्रत्वं कथमित्यत उच्यते ॥ नान्यत्किञ्चनेति ॥ विष्णोरन्यत्किञ्चनालौकिकं श्रीतत्वं सर्वदैकप्रकारेणविद्यमानमपि कालतोग्रं नासीत्कुत इत्यत उक्तमात्मास्वामीनारायण इति ॥ अस्यास्तु तद्वशत्वादविनष्यशरीरतयाविद्यमानपि नाग्रस्था नहि पराधीनजीवनं जीवनमिति भावः । तद्वशत्वमपिपादयितुमुक्तं नमिषदिति ॥ नोद्रिक्तगुणानुभववदित्यर्थः । अतागुणैरूनत्वात्तद्वशत्वमिति भावः । ब्रह्मादीनां तु कालतोग्रत्वं न शङ्कार्हमित्युच्यते ॥ नान्यत्किञ्चनेति ॥ अन्यद्ब्रह्मशङ्करादिकं किञ्चनकिमपिप्रलयेनासीत् । ननु काल आसीत्पुरुष रआसीदिति पुरुषावस्थानमुक्तमिति चेत्स्वरूपतो विद्यमानमपि देहाद्यभावान्नासीदेव । किञ्चान्यत्किञ्चनमिषज्जाग्रत् नासीदित्यर्थः । ननु श्रियोमुक्तनाञ्चसत्वात् । असुप्तत्वाच्चकालाग्रत्वं स्वादित्यत उक्तम् ॥ नान्यत्किञ्चनमिषदिति । किञ्चनालौकिकं संसारिभ्योन्यच्छ्रीतत्वं मुक्तजातञ्च मिषज्जाग्रदपि स्वातन्त्ऱ्ेणोन्मेषाभावान्नमिषदजाग्रदेवेत्यर्थः । पूर्वमविनष्यतु र्नान्यत्किञ्च न मिषदिति । विष्णोरन्यद्रमाब्रह्मादिकं यत्किञ्चनजगत्तत्स्वातन्त्ऱ्येणमिषद्यथायाग्यगुणानुभवयुक्तमेवनासीत्तदा किमु मिषद्गुणसम्पूर्तेरुद्रिक्तानुभववन्नासीदिति वक्तव्यमिति याज्यम् । उक्तं गुणाग्य्रत्वं समर्थयितुं सृष्यिकर्तृत्वमुच्यते ॥ सईक्षतेति ॥ स आत्मालोकां स्तदभिमानिनश्ऱ्चसृजासृजेस्रक्ष्यामीतीक्षत ऐक्षत ऐच्छत् । स इमान् लाकान् तदभिमानिनश्ऱ्चासृजत कांस्तान्कथं चेत्यत उक्तमम्भइति ॥ प्रथममापोसृजत्ताःसृष्ट्वांभोमरीचिर्मरमित्येतान् लोकान् असृजदिति योज्यम् । तत्राम्भ आदिशब्दार्थ उच्यतेऽदइत्यादिना ॥ अदोसौद्यौः परेणदिवं दिवः परेमहरादयोलोकास्तदभिमानिनश्ऱ्चाम्भ इत्युच्यते । कुतः यस्मान्महरादिषु दिव्यपि विष्णुः प्रकर्षेण प्रत्यक्षरूपेणतिष्ठतीति प्रतिष्ठामहरादिस्तस्मादित्यर्थः । अंविष्णुं बिभर्तीत्यम्भ इति व्युत्पत्तिरत्रानुसन्धेया । सूर्यमरीचीनां विशेषेणशय नाद्गमनान्दतरिक्षं मरीचयः । पअथिव्याव्यां क्षिप्रं स्रियन्त इति पृथिवीमरः । या अधस्ताल्लोकोत्पत्तेरण्डाद्बहिजर्ातामहराद्यभिमानिन्यादेवतास्ता आपः । येषामेवलोककाभिमानित्वेन पुनर्जननाल्लोकत्वम् । स आत्मापुनरीक्षरैच्छत् । इमेलोकास्तदभिमानिनः तन्मूलरूपभूतामहराद्याश्ऱ्चनु इदानीं मयासृष्या इतः परं लोकान्सृजा इति । पूर्वं सृष्यानेवलोकपालकरूपेण लोकस्थतत्वानियामकरूपेणापि स्रष्युमैच्छदिति भावः । स आत्माद्भोम्नामकेभ्यः पूर्वसृष्येभ्यश्ऱ्चेतनाचेतनरूपेभ्यस्तत्वेभ्योंशानुद्धृत्यमहत्तत्वाभिमानिनं पुरुषं ब्रह्माणं विशेषेणांशेनोद्धृत्याहंकारादितत्वाभिमानिभिः सहामूर्छयन्मूर्तमकरात्सर्वतत्वतदभिमानिपरिवृतं ब्रह्मणाविग्रहं पिण्डाकारेणा जनयदिति यावत् । तं ब्रह्मणं अभिप्रत्य(त)पदैच्छत्तस्याङ्गोतपत्तिमैच्छदिति यावत् । तस्याभितप्तस्यैवमीप्सितस्य मुखं शिरोनिरभिद्यताजायताण्डं यथाऽण्डवत् । तदनन्तरं तस्य मुखमास्यं वागिद्रियगालकं वागिन्द्रियं च निरभिद्यताभूत् । मुखादध्यात्मं वाङ्नामकोवह्निर्वाच उत्पत्त्यनन्तरमधिदैवमग्निरग्निनामावह्निश्ऱ्चाभूत् । एतेन प्राणाद्वायुरजायतश्ऱ्वसनं मातरिश्ऱ्वेति विरोधः । श्ऱ्वसितं मातरिश्ऱ्वेत्यादावधिदैवरूपस्य श्ऱ्वासोत्पन्नत्वोक्तेरत्रप्राणनामकाध्यात्मरूपादुत्पत्त्युक्तेरितिनिरस्तम् । नासिकाशब्दितश्ऱ्वासवायोर्मातरिश्ऱ्वोत्पत्तेरिहाङ्गीकारात्
?R
। प्राणाद्वायुरित्यस्याध्यातमं प्राणरूपोत्पत्त्यनन्तरं श्ऱ्वासवायोरेवाधिदैवं वायुरत्यिङ्गीकात् । अक्षिणीगोलकं चक्षुरिन्द्रियं चाध्यात्मं चक्षुर्नामकश्ऱ्चक्षुषोनन्तरमधिदैवमादित्यनामकः सूर्यः । एतेन चक्षोः सूर्य इति विरोध इति निरस्तम् । कर्णौगोलकमिन्द्रियञ्चाध्यात्मं श्रोत्रनामकामित्रादयः । श्रोत्रोत्पत्तेरनन्तरं द्वितीयेनरूपेणत एवदिङ्नामनः । एतेनदिशः श्रोत्रादिति विरोध इति निरस्तम् । कर्णपदेनेन्द्रियस्यापि ग्रहणात्त्वग्गोलकं स्पर्शेद्रियत्वग्गतलोमानिच निरभिद्यन्त । त्वचोध्यात्मं लोमनामानः तदनन्तरमधिदैवमोषध्यादिनामानः पारिजाताद्याः । एतेन तनूरुहाणिमहीरुहाविश्ऱ्वतनोर्नरेन्द्रेति पारिजातादीनां लोमभ्यउत्पत्त्युक्तेस्त्वियं उत्पत्तिः कथमिति निरस्तम् । हृदयं गोलकं मनसोहृदयादध्यातमं मनोनामानोगरुडादयो मनस उत्पत्त्यनन्तरमधिदैवं चन्द्रमाश्ऱ्चन्द्रगरुडादयस्त एवाभूवन् । एतेन चन्द्रमामनसोजात इति निरस्तम् । हृदयशब्देनाप्यत्रमनसोग्रहणात् । नाभ्या अध्यात्ममपान नामाऽपानोत्पत्त्यनन्तरमधिदैवं द्वितीयरूपेणमृत्युस्तन्नामामुख्यवायुः । शिश्ऱ्नादध्यात्मंरेतोनामा रेतस उत्पत्त्यनन्तरमधिदैवमम्नामाशिवोभूदित्यर्थः । I-14
?R
यद्वा मुख्दास्याद्गोलकात् वागिन्द्रियं निरभिद्यत । वाचोवागिन्द्रियाद्वागग्निश्ऱ्चेति द्विरूपोवह्निरुत्पन्नः । नासिकाभ्यां प्राणः प्राणवायुः घ्राणातप्राणोवायुरिति द्विरूपोवायुपुत्र इत्यादियोजानाद्रष्यव्या । अस्यां योजनायां भाष्यविरोधं तत्रैवापाकरिष्यामः ॥ 1
॥ 21
॥ अत्राग्नेर्विनिर्धूतोपाध्यवस्थायां प्रलये आत्माजीव इदं ब्रह्मैवात्तदन्यन्मिषच्चेतनं नासीदन्यत्किञ्चन स्वरूपत एव नासीदित्याद्यपव्याख्यानिरासाय प्राणेन व्याचष्ये ॥ एक इत्यादिना ॥ तु शब्दोवधारणे एकएवेत्यन्वयः । इदमस्येतिषष्ठयर्थेद्वितीया न प्रथमा येनैक्यं स्यादिति भावेनाग्र इत्यस्य तातपर्यं प्रलय इति । यथाब्रह्मादीनां देहनाशस्तथानरमाया इति भावेनोक्तं रमायासहेति ॥ यद्वा सवर्जगन्नियामकरूपैरेकीभूतयामूलरूपयारमयासहेत्यनेन तस्या अपि लयं सूचयति ॥ यथोक्तम् ॥ हरेरत्यन्तसामीप्यं लयोलक्ष्म्ाः प्रकीर्तितः ॥ सुप्तिस्तु प्रकृतेः प्रोक्ता अतीव भगवद्रतिः ॥ अनास्थान्यत्रच प्रोक्तेति ॥ नित्यगुणत्वादाततगुणत्वादात्मा । तनुविस्तार इति धातोरातत्वादात्मा । योग्यतयाततेर्गुणणाविशेष्यतयान्वीयन्ते । गुणानामाततिश्ऱ्चकालतः सङ्खयादिनाचेति भावः । विभक्तिविपरिणामं विनायोजयति ॥ इदमिति ॥ समस्तेश इत्यात्मशब्दः स्वामित्वार्थतयापि व्याख्यातः । प्राचीन योजनायां कालाग्य्रत्वं वक्तुमस्य प्रलय स्थितिरुक्ता गुणाग्य्रत्वमात्मपदेनोक्तमधुना तूभयमपीदमपेक्ष्याग्र इत्यनेन लब्धम् । रमापेक्ष्यकालतोग्य्रत्वं कथमित्येतच्छङ्कापरिहारकं नान्यत्किञ्चनेत्यंशं व्याचष्ये ॥ रमापि साविद्यमानापि नाग्रस्थेति ॥ आद्यापि शब्दो न केवलं ब्रह्मादि;
किन्तु रमापीति समुच्चये द्वितीयोनौचित्यद्योतकः । कुतो नाग्य्रेत्यतस्तत्रहेतुतयात्मपदलब्धमुक्तं तद्वशत्वादिति ॥ तद्वशत्वोपपादकस्य न मिषदित्यस्य तात्पर्यम् ॥ गुणैरिति ॥ ब्रह्मादीनां कालाग्य्रत्वाभावोपपादकं नान्यत्किञ्चनेति अंशं व्याचष्ये ॥ न ब्रह्मासीन्नशिव आसिन्नान्यच्चासीदिति ॥ हिरण्यगर्भःसमवर्तताग्रे । एकोरुद्रोन द्वितीयायतस्थ इत्यादि श्रुत्याऽऽपातप्रतीतार्थमनुसृत्यकेचिद्ब्रहमशर्वयोः प्रल यावस्थानमाहुस्तन्निरासाय पृथक् क्रिया सम्बन्धोक्तिः । कथं नासीत्स्वरूपस्य नित्यत्वादित्यत आह ॥ मिषदिति ॥ नेत्यनुवर्तते । ब्रह्मावायुःप्रलयेवृत्तिरूपज्ञानेनैव प्रतिभात परावरोपि किञ्चन कदाचन भगवदीक्षणक्षणेक्वचिद्विषय विशेषे न निमिषन्नजाग्रद्वर्तते । शिवोन्यच्चकिञ्चन किमपि क्वचिदपि न निमिषदित्यर्थः । तदुपपादयति ॥ सुप्ताइति ॥ अत्रविरोधः स्पष्यं विरोधोद्धारेस्माभिरुद्धृतोनुसन्धेयः । श्रियोमुक्तानां च सुप्त्यभावात् कालाग्य्रत्वमाशङ्कयतत्परिहारत्वेन नान्यत्किञ्चन मिषदित्येतद्वयाचष्ये ॥ असुप्ता इति ॥ यद्रमादिसर्वगुणाग्य्रत्वमुक्तं तत्र हेतुतयापि नान्यत्किञ्चन मिषदित्येतद्वयाचष्ये ॥ नचान्य इति ॥ स्पष्यीकरिष्यति चैतत् । उन्मिषतामपिरमासहितमुक्तानां पराधीनत्वेनानुन्मेषणमुक्तं तद्दृष्यान्तेनाह ॥ पराधीनेनेति ॥ सर्वदामिषन्तोपीत्यन्वयः । नन्विदं सर्वं जगदपेक्ष्यात्मैवकालतोगुणतश्ऱ्चाग्य्र इत्युक्तैव कालाग्य्रत्वस्य लाभादस्याग्र आसीदिति किमर्थं प्रलयेस्थितिरुच्यत इत्यत आह ॥ कालेति ॥ वक्तुमुपपादयितुम् । स ईक्षतेत्यादि व्याचष्ये ॥ स ऐच्छदिति ॥ लोकनामवत्वेहेतुर्लोकाभिमानिन इति । स इमान् लोकानसृजतेत्यत्र प्रथममपोसृजत् । सष्ट्वाचाम्भ आदीन्यसृजदित्यर्थमभिप्रेत्य व्याचष्ये ॥ स लोकेभ्य इत्यादिना ॥ या अधस्तादित्यस्य तात्पर्यं लोकेभ्यः पूर्वतनानिति । लोकत्रयकथनमुपलक्षणमिति भावेनदिवमाकाशमुर्वीचेत्यादिद्विसप्तकानित्युक्तम् । स ईक्षतेमेनुलोका इत्यादि व्याचष्ये ॥ इति पूर्वोक्तप्राकारेण ब्रह्माण्डान्तर्लोकान्सृष्ट्वापुनस्तेषां अधिदैवं प्रसिद्धय ज्ञादिनाऽध्यात्मं प्राणाग्निहोत्रादिना पूज्यत्वसिद्धयेतानेवलोकान्स्रष्युमैच्छत् । सोद्भय एव पुरुषं समुद्धृत्यामूर्च्छ यदित्येतद्वयाचष्ये ॥ अम्नामकेभ्यइति ॥ अत्र योजना पूर्वसृष्येभ्योम्नामकेभ्यस्तेभ्यश्ऱ्चेतनेभ्योरुद्रादिचेतनानामंशानुद्धृत्य ब्रह्मणञ्चांशेनोद्धृत्यरुद्राद्यैरप्रधानैः सह समयोजयत्तथैवाचेतनानां च भागानुद्धृत्यचेतनाचेतनाराशिंपिण्डवदेकस्थं विमिश्रीभावेनास्थितं विदधे ।
?R
ततश्ऱ्चपिण्डवत्पिण्डाकारं सर्वाधिकत्वातपूर्णत्वातपुरुषाभिधं ब्रह्माणमसृजदिति । तमभ्यतपदित्येतद्वयाचष्ये ॥ पुनरिति ॥ स्यादित्यलोचनान्नान्यत्तपोविष्णोः कदाचनेति वचनादतपदित्यस्यैच्छदिति व्याख्यानम् । मुखं निरभिद्यत यथाण्डमित्येतद्वयाचष्ये ॥ अण्डवदिति ॥ मुखंनिरभिद्यतेत्येतत्प्रकारान्तरेण व्याचष्ये ॥ भिन्नमिति ॥ मुखाद्वागित्यस्य तात्पर्यम् ॥ तत्रवाङ्नामकमिति ॥ वाचः सृष्ययनन्तरं अग्निनामकमधिदैवंरूपमुत्पन्नमिति भावेनपुरातनं वाङ्नामकं रूपपं यदग्निरिति गीयते तद्द्वितीयं रूपमित्युक्तम् । नासिकाभ्यां घ्राण इत्यादि व्याचष्ये ॥ तथैवेति ॥ अत्रापि नासिकापदान गोलकमिन्द्रियं तद्गतःश्ऱ्वासादिरूपः प्राणवायुश्ऱ्चगृह्यते । अक्षिभ्यामित्यस्यार्थश्ऱ्चक्षुष इति ॥ चक्षुरादित्य इत द्विरूपः । आप्योबभिमानीवरुण;
द्विरूपेण श्रोत्रदिङ्नामकद्विरूपेण । हृदयान्मनोमनसश्ऱ्चन्द्रमाश्ऱ्चेत्यस्याथर्ोहृदयादिति । वैदिकं गरुडोप्यैन्द्रो यज्ञादिविषयं मन इत्युक्तरीत्यापृतक् पृथङ्मनोबुद्धयभिमानिनः । तन्नामनोऽध्यात्मं मनोनामानोऽधिदैवं गरुडादिनामानः । एतेन चन्द्रग्रहणमुपलक्षणमित्युक्तं भवति । त्वचोध्यात्मं लोमाभिक्छिन्नग्रहणं पाणिपादपायूपलक्षणमित्यभिप्रेत्य व्याचष्ये ॥ हस्ताभ्यामित्यादिना ॥ द्विविधोयज्ञ इति च सम्बध्यते ॥ यज्ञइत्युपलक्षं शम्भुश्ऱ्चेति ग्राह्यम् । गीतातात्पर्ये यज्ञशम्भुशचीसुता इत्युभयोः पाददेवत्वोक्तेः यमोनिर्ॠतिरेवच द्विरूपाविति च ग्राह्यम् । शिश्ऱ्नाद्रेत आपश्ऱ्चेत्यस्यार्थः रेतोम्नेमेति ॥ रेतोऽम्नामाचेत्यर्थः । मुख्योमारुतो मुख्यवायुः ॥ 1
॥ 21
॥ एवं नारायणस्य सृष्यिकर्तृत्वमुक्त्वाऽऽयतन प्रदत्वेनस्थिति कर्तृत्वं सृष्येष्वपि प्राणस्योत्तमत्वं सृष्यदेवानामध्यात्ममवस्थान प्रकारश्ऱ्चोच्यतेस्मिन्खण्डे । वागादिभ्यः सृष्यास्ता अधिदैवस्था एता अध्यात्मस्थादेवता अस्मिन्महत्यर्णवेप्रापतन् पाविशन् । तं देवसमूहम् । आत्माविष्णुरशनापि पासाभ्यां तदभिमानिभ्यां मारुतरूपाभ्यामन्ववार्जत् । प्रापयामासायोजयत् । ता एता देवता एतमात्मानमब्रुवन् न आयतनं प्रजानीह्यनुजानीहि देहीति यावत् । यस्मिन्नयतनेप्रतिष्ठिता अन्नमदामेत्यब्रुवन् इत्यन्वयः । ताभ्योदेवताभ्योगां गोरूपं चतुर्मुखमानयत् । वासायसृष्ट्वाऽदादिति यावत् । तादेवतास्तत्र प्रविश्येति शेषः । न अयं गौर्भोगायनालं वा इत्यब्रुवन् । आत्मापुनस्ताभ्योश्ऱ्वरूपं चतुर्मुखमानयदादिशत् । तादेवतास्तद्रूपेपि प्रविश्यैवनोयमश्ऱ्वेपि प्रविश्यैवनोयमश्ऱ्वोपि नालमित्य ब्रुवन् ताभ्यः पूर्वसृष्यं पुमाकारं ब्रह्माणं आनयत्पुनरावासायादात् । तास्तद्दृष्ट्वैवाब्रुवन्किमिति । सुकृतं भवता सुष्युकृतम् । अस्मद्भोगाय यथापर्याप्तं स्यात्तथाकृतं बतेत्यवदन्नलमित्यवदन्निति यावत् । पुरुषदेहस्य पर्याप्तत्वमुपपाद्यते ॥ पुरुष इति ॥ पुरुषदेहः सुकृतं सुकृतसाध्यं तत्साधनञ्चवै । तादेवताः प्रति यथायतनं योदेवोयेनस्थानेनोत्पन्नस्तमनतिक्रम्यप्रविशतेत्यब्रवीत् । अग्निर्वाग्भूत्वाधिदैवमग्निनामावह्निरंशेन वाग्भूत्वावाङ्नामकवह्निनासंश्लेषं प्राप्ततेन रूपेणमुख्यं प्राविशदेवमुत्तरत्रापि योजना । एतेनाधिदैवरूपस्य वाग्भावेऽधिदैवरूपमपरं नस्यात् । वाङ्नामकरूपान्तरस्य विद्यमानत्वादग्नेर्वाग्भावश्ऱ्चकथमिति निरस्तम् । तं विष्णुमशनापि पासेतन्नामकेमुख्यवायुरूपे आवाभ्यामानुकूल्येना यथात्वच्छासनानुगौनित्यंभवावतथा प्रजानीह्यनुज्ञापयेत्यब्रूतामित्यर्थः । आत्मा ते अशनापि पासे अब्रवीत् । किमिति । वां एतास्वेवदेवतास्वाभजामिप्रवेषयामि । तासुदेवतासु भागन्यावग्रभागार्हाकोमितस्मादेतासुप्रविशतमिति । तस्माद् ग्रभागभाक्त्वाद्यस्यैकस्यैदेवतायैहविर्ग्रह्यतेदीयतेतस्यां देवतायामशनापि पासेभागिन्यौ भवतः । नच अशनापि पासाभ्यामन्ववार्जदिति तयोः स्थानक्लृप्तेरुक्तत्वात्पुनः प्रार्थनमभ्यनुज्ञानं च व्यर्थमिति वाच्यम् । देवानां भोगशक्तये प्रागशनापि पासाभ्यामन्ववर्जनामुक्तमिदानीं वायोः सर्वत्राग्रभागलाभाय सर्वदा प्रवेशनमुच्यत इत्यङ्गीकारात् ॥ 2
॥ 22
॥ ता एता इत्यादि प्रमाणेन व्याचष्ये ॥ एवमिति ॥ रूपद्वयेन सृष्याइति योज्यम् । दीव्यतेः स्तुत्यर्थत्वाद्देवता इत्यस्यैवार्थस्तुवन्त इति । प्रापतन् प्रकषर्ेणापतन्निपेतुरित्यन्यथाप्रतीतेरर्थमाह ॥ दिव्याम्बरा इत्यादिना ॥ तत्र प्रेत्युपसर्गोक्तप्रकर्षविवरणं दिव्याम्बरा इति ॥ अपतन्नित्यस्याविशन्निति । तमशनापि पासभ्यामन्ववार्जदित्यत्र प्रसिद्धक्षुत्पिपासयोर्ग्रहणेतयोर्जडत्वेनाशनापि पासे अब्रूतामिति उपसंहारविरोध इत्यतो व्याचष्ये ॥ तदेति ॥ प्रजानीहीत्यस्य बुध्यस्वेत्यन्यथाप्रतीतेरक्षरार्थमुत्तरत्रवक्ष्यंस्तार्त्पमाह ॥ तेब्रुवन्निति ॥ गोऽश्ऱ्वपुरुषशब्दानां प्रसिद्धार्थं निवारयन्व्याचष्ये ॥ गोरूपमित्यादिना ॥ तत्र प्रविश्येत्यादि शेषोक्तिः । ताभ्यः पुरुषमानयदित्यत्र गवाश्ऱ्ववदिदानीं सृष्यं पुरुषमिति प्रतीयतेतोव्याचष्ये ॥ पुवर्ेति ॥ सुकृतं बतेत्यस्य तात्पर्यं तद्दृष्ट्वैवालमिति ॥ ता अब्रवीद्यथायतनमित्यादि व्याचष्ये ॥ विशतेति ॥ यथोत्पन्नाः येन येन शरीरावयवेनोत्पन्नास्तमायतनमनतिक्रम्यविशतेत्यब्रवीत्तथाविविशुश्ऱ्चेति योज्यम् । तमशनापिपासे अब्रूतामित्येतद्वयाचष्ये ॥ अशनेति ॥ प्रजानीहीत्यस्याथर्ः कुर्वाज्ञामिति ॥ अभीत्यस्यानुकूल्येनेत्यर्थमभिप्रेत्यतात्पर्यमुक्तम् ॥ यथेति ॥ अभीत्यस्यार्थान्तरं नित्यमिति ॥ भागिन्यौकरोमीत्यतःपरं अद्याहार्यमाह ॥ सर्वत्रेति ॥ तस्माद्यस्यैकस्यैचनेत्येतद्वयाचष्ये ॥
?R
तस्मादित्यादिप्राणनामेत्यन्तेन ॥ ग्रन्थातरेप्राणस्य भागभोक्तृत्वोक्तिपरिहारायोक्तं प्राणनामेति ॥ प्राणनामशनापिपासानामाच मरुदेक एवेत्यर्थः । यद्वा वायुरेक एव भागमुक् नान्योदेव इत्यर्थः । एतास्वेवदेवतासु भागिन्यावित्याद्युक्त्याशनापिपासयोनर्ाभिदेशस्थापानमृत्युप्रवेशेन भोगः प्रतीयते । तथा न मन्तव्यमित्याह ॥ नाभिस्थोपि स एवत्विति ॥ तथाच न तयोरशनापिपासाप्रवेश इति भावः । मृत्य्वपानयोर्देवताप्रायपठितत्वाद्देवतासु प्रवेशोनेति प्रतीयते तां वारयत्यशनेति ॥ 2
॥ 22
॥ प्रागीश्ऱ्वरस्यायतनप्रदत्वमुक्तमधुनान्नदातृत्वेनापि पालकत्वं नियामकत्वं प्राणद्वारेणापि भोगशक्तिप्रदत्वसर्वात्तृत्वं ज्ञानक्रियामोक्षप्रदत्वादिन्वेवं सृष्याहि । येभ्योन्नं सृजासृजे तीक्षतैच्छदित्यर्थः । स आत्मा अपः पूर्वसृष्याबाख्यान्महदादितत्वाभिमानिनोदेवान् अभिसम्यक् प्रीतिपूर्वमतपत् अपश्यत् । एतासां देहान्तरं स्रक्ष्यामीत्यैच्छच्च । अभितप्ताभ्योदृष्यिं प्रतिज्ञाय देहसर्जनमयुक्तं इत्यत उक्तम् ॥ यावैसेति ॥ यासामूर्तिरजायत तद्वैतदेव दिव्यावयवसुगन्धसुस्वादुत्वादि सम्पत्त्याभोग्यत्वाद्ब्रह्मणोदेवानं चाननमिति वैप्रसिद्धम् । यद्वा तदन्नं वै अन्नाभिमानिनो ब्रह्मणोविशेषेणरूपं वै । तस्मात्तस्य विशेषतोभोग्यमिति भावः । सृष्यं तदेनत्तदेतदन्नाख्यं चतुर्मुखरूपम् । अतिस्वावस्थानदेशमतिक्रम्यपराक् पश्ऱ्चादजिघांसत् । अगच्छत् । हनहिसागत्योरिति धातोः । ब्रह्मातद्भोग्यं रूपं वाचावागाख्येन करणेनाजिघृक्षद्ग्रहीतुं भोक्तुमैच्छत् । तद्वाचाकेवलं व्याहरणेन ग्रहीतुं भोक्तुं नाशक्नोत् । वागिन्द्रियस्य केवलं व्यवहारकारणत्वेपि भोगशक्तिप्रदत्वाभावादिति भावः । नन्वेवं सति ब्रह्मण इच्छामोघास्याद्भोगशक्तिप्रदोवायुस्तेनैव भोक्तव्यमिति ज्ञानाभावश्ऱ्चप्रसक्त इत्यत उच्यते ॥ सयद्धैनदिति ॥ स ब्रह्मायद्वाचाग्रहीष्यद्ग्रहीतुमैच्छत् वर्णयतुमैच्छत् । एनदेतदन्नभिव्याहृत्यसम्यक् तत्स्वरूपं वर्णयित्वैवात्रप्स्यत्तृप्तोभूत् । ब्रह्मह्यन्नमूर्तिवर्णयितुमेवैच्छत् वर्णयित्वातृप्तिंचाप । तदुद्देश्यफलस्य लब्धत्वान्नेच्छादि वैयर्थ्यम् । यत्तुवागाद्येकैकेन्द्रियेण सर्वभोग्यभोगेच्छयास्तत्तल्लिङ्गेन प्रदर्शनं तत्केवलं क्रीडयादेवतातारतम्यज्ञापनायाभिहितमतोनाज्ञानादिकमिति भावः । एवमुत्तराण्यपिवाक्यानियोज्यानि । अभिप्राण्याघ्राय । स ब्रह्मायच्छिश्ऱ्नेनाग्रहीष्यत् शिश्ऱ्नव्यापारनिरोधेसर्वेन्द्रियशक्तिकुण्ठनात्सएवसर्वेषु रतिं कर्तुमैच्छदेन देतदन्नंविसृज्यतदालिङ्गनादिनारेतोविसृज्यतृप्तोभूदित्यर्थः । तदन्नमपानेनकरणेनाजिघृक्षद्भोक्तुमैच्छदपानं करणीकृतयसर्वेन्द्रियभोग्यभोगं कुतर्ुमैच्छदिति यावत् । तदावयदशक्नोत् । अपानव्यापारनिराधेसर्वेन्द्रियशक्तिकुण्ठनात्सएवसर्वेषुभोगशक्तिप्रद इति भावः । वोयोर्भोगशक्तिप्रदत्वोपसंहारपूर्वं भोक्तृत्वञ्चोच्यते ॥
?R
स एष इति ॥ यद्वा युर्योवायुःस एषोन्नस्य ग्राहयतीति ग्रहोभोजकः गृह्णातीति ग्रहोभोक्ताच । न केलमेतावत्किन्त्वायुष्यादि प्रदश्ऱ्चेत्युच्यतेऽन्नयुरिति ॥ यद्वायुर्योवायुरेषःअन्नात्मकदेहवतां देवानामन्नदेवस्य ब्रह्णश्ऱ्चायुष्यप्रदः । यद्वा देवानामायुर्ज्ञानक्रियामोक्षप्रदश्ऱ्च । अयतेर्गत्यर्थत्वाद्गतेश्ऱ्चज्ञानक्रियारूपत्वात् । देवानामन्योन्यापेक्षयाप्रवर्तकत्वे भगवत्स्वरतन्त्ऱ्यं न स्यादित्यतः पुरावृत्त उच्यते ॥ स ईक्षतेति ॥ स आत्मा देवानां ब्रह्मशरीरेप्रवेशात्पूर्वमित्थमैक्षतेदं ब्रह्मादिजीवजातं मदृतेमां विनामत्प्रेरणां विनाकथं नुस्यात्कथं विशिष्यज्ञानादिमत्स्यान्नकथमपि । तस्मादहमेतेषाञ्चेष्यासिध्यर्थमेतेषुप्रवेक्ष्यामीत्याशयः । स पुनरित्थमैक्षत । कतरेणसुखतरेणोर्ध्वलोकं गतानां सुखसाधकेन । पूर्णानन्दभगवत्सम्बन्धित्वाद्वाकतरेण सुषुम्नाख्यद्वारेण । कतरेणपूर्णसुखेन वायुनासह प्रपद्यैप्राप्नुयामिति । ननु त्वत्प्राप्तिः कुतोधिष्ठान भतेन ब्रह्मणाकर्त्रातदधिष्ठितैर्वागादिभिरिन्द्रियैःकरणैश्ऱ्चस्वप्रवृत्ति सम्भवादित्यत उच्यते ॥ स ईक्षतेति ॥ स पुनरित्थमैक्षत । यदि ब्रह्मणाकर्त्रावागादिभिरिन्द्रियैःकरणैःस्वातन्त्ऱ्ेणाभिव्याहरणादि विसर्जनान्तं कर्मकृतं स्यादथत र्ह्यहंकःस्यां विशिष्यचेष्यावत्त्वाद्यभावात्कथं विष्णुशब्दवाच्यः स्यामित्यर्थः । एवमीक्षित्वासनारायणः एतमेवमस्तकसीमानं विदार्यैतयासुषुम्नाख्ययाद्वाप्रापद्यत प्रविवेश । सैषाद्वाः विदारितत्वात् विदृतिः । तदेतन्नाड्याख्यं स्थानं पूर्णानन्दस्य हरेः सम्बन्धित्वान्नंदनम् । उपलक्षणमेतद्वासुदेवः प्रपदाभ्यां च प्रविष्य इति ग्राह्यम् । तस्यैव हरेरनिरुद्धप्रद्युम्नसङ्कर्षणाख्यस्य रूपत्रयस्य क्रमेणत्रय आवसथाः त्रीणिस्थानानि । अत एव त्रयः स्थानविशेषाः अक्षिकण्ठहृदयरूपाः स्वप्नाः स्वःस्वतन्त्रः सुखरूपोवा भगवान् अत्राप्नोतीति स्वप्ननामकाः । आवसथानिर्दिश्यन्ते ॥ अयमिति ॥ अयं सन्निहितोक्ष्याख्य एक आवसथः । अयं तदनन्तरं सन्निहितः कण्ठाख्योपरः । अयं तदनन्तरं सन्निहितोहृदयाख्योन्य इति त्रय आवसथा इत्यन्वयः । न केवलं रूप पञ्चकेननियामकत्वं किन्तु मत्स्यादिभिरनन्तैरपि रूपैरन्तर्नियमनेन बहिरूपदेशेन च ज्ञानप्रदत्वं प्राप्तोपद्रवनिवारणेन पालकत्वञ्चोच्यते ॥ सजात इति ॥ यश्ऱ्चतुर्मुखस्य मूर्धन्यनाड्यनुप्रविष्योनारायणः स एव भगवान्विष्णुः चतुर्मुखहृद्गुहायां मत्स्यादिरूपेणजातः प्रादुर्भूतः सन्भूतानि प्रवेष्युं
?R
अभिसम्मतात्सर्वेषुकालेषुविशेषेणाख्यदपश्यत्प्राविशच्च । इहभूतेषुमत्तोन्यं प्रवतर्कं वा वदिषत्किं । किमाक्षेपे । कोपि न वदेदिति मत्वाप्राविशदित्यन्वयः । ननु मूलरूपिणोहरेर्भवतुसर्वनियामकत्वं कथमवताररूपस्येत्यत उच्यते ॥ स एतमेवेति ॥ स भगवान् मूलरूपीप्रादुर्भावरूपीचैतमेवपुरुषमवतारपुरुषं ब्रह्मसर्वगुणसम्पूर्णन्तततम् देशतःकालतश्ऱ्चातिशयेन ततमभिसर्वदाऽपश्यत् । तत्रेन्द्रेशब्दप्रयोग एव लिङ्गमित्युच्यते ॥ इमिति ॥ इति शब्दो होतौ । रङगोवधारणे । इति यस्मादिदं मेरूपमदर्शमेवतस्मादहमिन्द्रोनाम इदं द्रोहवैनामेति पुनर्वचनं प्रमाणप्रसिद्धिद्यातनाय ॥ यद्वा य इन्द्रो हवैनामतमिदंद्रशब्दस्य मुख्यार्थं सन्तंपारोक्ष्येणमध्ये इति वर्णस्योद्धारेणाव्यवधानेनेन्द्र इत्याचक्षते । कुतः । देवाब्रह्माद्यावेदाद्यभिमानिनो वा परमातमनोयत्परोक्षत्वं सम्यगज्ञातत्वं तत्र प्रीति युक्ता इव असुराणां सम्यगदर्शनं देवानं पि्रयमपि योग्यानां तथादर्शनमप्रियम् । प्रत्युतसम्यग्दशर्नमेवप्रियमिति इव शब्दः ॥ 3
॥ 23
॥ स ईक्षतेति तच्छब्देन प्रकृतपुरुषनामकहिरण्यगर्भपरामर्शभ्रान्तिं वारयन्व्याचष्ये ॥ पुनरिति ॥ सोपोभ्यतपदित्यादि व्याचष्ये ॥ अबाख्या इति ॥ अभिसम्यक् प्रीतिपूर्वमित्यस्य तातपर्यं सुविशालेत्यादि ॥ ताभ्योभितप्ताभ्य इत्यस्य तात्पर्यं तद्दर्शनात्तदिच्छात इति ॥ ताभ्य इत्यस्य षष्ठयन्ततयाविपरिणामेनार्थः ॥ तासामिति ॥ पृथक् प्रातिस्विकदेहातिरिक्तः । विभक्तिविपरिणामं विनाताभ्यस्तद्देहैकदेशेभ्योयासामूर्तिरजायत तद्वैतदेव । ब्रह्मणोदेवानं चाधिष्ठानतया परममार्दवोपेतदिव्यावयवसदुस्वादुतमत्वादिनाचान्नं भोग्यमित्यर्थतया चोत्तरवाक्यं व्याचष्ये ॥ सर्वासामपिदेहैकदेशेभ्य इत्यादिना ॥ यासामूतिर्रजायतैतदन्नमन्नाभिमानिनोब्रह्मणोविशेषेणरूपं वा इत्यर्थसूचनाय विरिञ्चेन विशेषत इत्युक्तम् । मूर्तिरित्येकवचनार्थ एकमिति ॥ ननु ब्रह्मण एव भोग्यभोक्तृभावेदेवानां च तथात्वेदुः खंस्यादन्यथातदेनत्सृष्यं पराङत्यजिघांसदिति भयेनापक्रमणोक्त्यसम्भव इत्यतो व्याचष्ये ॥ भोग्येति ॥ यद्यपीत्यादावुपस्कर्तव्यम् । तस्य ब्रह्मण;
। अन्नात्मकोदेहः । तद्वाचाजिघृक्षदित्यादि व्याचष्ये ॥ तदासाविति ॥ ननु सवर्ज्ञस्य ब्रह्मणोपानेनैवान्नग्रहोनवागादिभिरिति ज्ञान सम्भवात्किमिति वागादिभिरन्नग्रहमैच्छदित्यत उक्तस्य स यद्धयेन द्वाचाग्रहीष्यदभिव्याहृत्यहैवान्नमत्रप्स्यदित्यादेस्तात्पर्यमाह ॥ जानन्नपीति ॥उक्तरीत्याजानननपिवागादयः सर्वभोगशक्तिप्रदानेऽसमर्थाः किन्त्वपान एवेतितारतम्यं प्रकाशयन्क्रीडयैवैवं चकार । वागादिभिरत्तमैच्छदित्यर्थः । अशनापिपासादयोलोकेदुःखहेतवः कथं ब्रह्मणोदेवानां च तेस्युरित्यत आह ॥ क्षुदिति ॥ आदिपदेनरिरंसादीनां ग्रहणम् । ऐश्ऱ्वर्यमणिमादिः । यादृशानन्दकामस्य तादृशान्दसम्भवः । विषयान्विनापि प्राकाम्यमिति वचनात्प्राकाम्यसिद्धिसम्पादनत्वादिति भावः । तदपानेनाजिघृक्षदित्यदिव्याचष्ये ॥ अन्नमूर्तिमिति ॥ आशु स्वप्रयत्नविशेषं विनातिशीघ्रम् । प्राणस्य भोगशक्तिहेतुत्वोपसंहारपूर्वं भोक्तृत्वोपपादकं सैषोन्नस्यग्रह इत्येतद्वयाचष्ये ॥ तस्मादिति ॥ गृह्णातीति ग्रहइत्यर्थमभिप्रेत्यभोक्तेति ग्राहयतीति ग्रह इत्यप्यभिप्रेत्यतत्प्रसादात्परेश्ऱ्नन्तीति । ननु स्वावरसर्वात्तृत्वं प्राणस्येवरुद्रादेरप्यस्ति सुपर्णशेषरुद्राणां सर्वात्तृत्वं विशेषत इति वचनात् । स्वोत्तमभोक्तृत्वं कस्यापि नास्ति तत्कथमेतदिति चेन्न । इयदामननादिति उक्तन्यायेनाधिकारिजीववर्गेभगवद्गयाविरुद्धसवर्सारभोक्तृत्वं प्राणस्येवनकस्याप्यस्ति । भोगाश्ऱ्चयेयानिच कर्मजातानि । सर्वं सपूतमश्ऱ्नातिस्वदितं मातरीश्ऱ्वनेत्यादेः । रूद्रादीनां न तथेति विवक्षितत्वात् । इन्द्रादीनां तु स्वावरसर्वभोग एव न सम्भवति प्रायेणात्तृत्वमिन्द्रादेरिति वचनात् । तथाच तत्प्रसादात्प्राणप्रसादात्परेरुद्रादयः किञ्चिद्भगवद्भोग्यं विना स्वावरमेवाश्ऱ्नन्ति अखिलं नाश्ऱ्नन्ति । परे इन्द्रादयस्तु स्वावरेष्वप्यखिलं सर्वदानाश्ऱ्नन्तीत्यर्थः । अन्नायुर्वा एष यद्वायुरित्येतद्द्वेधा व्याचष्ये ॥ आयूरूप इति ॥ आयूरूप आयुष्यनिरूपकः । यद्वाऽऽयुष्याभिमानीत्यर्थः । आयुःशब्दस्याथर्ान्तरमाह ॥ आयुःशब्द इति ॥ गतिवाचीचेष्यावाचीमोक्षगभनवाचीच । सुराणामुत्तम इत्यत्र सहेतुकमपवादमाह ॥ अन्योन्येति ॥ वायोरायुःप्रदत्वाद्ब्रह्मणश्ऱ्चान्नरूपेण वायोः पुष्यिप्रदत्वादित्यर्थः ॥ बृहद्भाष्ये च ॥ अन्नाभिमानीब्रह्मैवप्राणोवायुरुदाहृतः । अन्योन्यानुप्रविष्यौ तौ सर्वदेवेषु सन्ततौ ॥ वायुं विना ब्रह्मणोपि शरीरं पूतिमेष्यति ॥ वायुश्ऱ्चशोषमायाति विना ब्रह्माणमञ्जसेति ब्रह्मवाय्वोराधिक्यवर्णनं मूलेप्रकृतानुपयुक्तमित्यतो भगवदुत्कर्षपर्यवसन्नमित्याह ॥ तयोरिति ॥ स ईक्षतकथं न्विदमित्यारभ्याथकोहमित्यन्तस्य तात्पर्यमाह ॥ देवतानामित्यादिना ॥ ब्रह्माद्यामां विना क्रियासुनसमर्थाः स्युरित्यादौ योज्यम् । तेन कथं न्विदं मदृतेस्यादित्याक्षेपलभ्यार्थ उक्त भवति ॥ स ईक्षतकतरेणप्रपद्या इत्यस्यार्थः । तस्मादेषांप्रवृत्यर्थं प्रवेक्ष्येसहवायुनेति ॥ कतरेणपूर्णसुखेनवायुनासहेत्यर्थमभिप्रेत्यवायुनासहेत्युक्तम् । यदिवाचाभिव्याहृतमथकोहमित्यस्याथर्ः । ब्रह्माद्या इति ॥ ब्रह्माकर्ता आद्यपदेन करणानि वागादीनिचेत्येतेमांविना क्रियाज्ञानादिषु समर्थाः स्युस्तर्हिनमेविष्ण्वभिधाभवेदिति । तदुपपादनम् । सर्वेति ॥ णकारोबलं षकारः प्राण आत्मेति श्रुतेरिति भावः । स एतमेवसीमानमित्येतद्वयाचष्ये ॥ इतिमत्वेत्यादिना ॥ प्रवेशकार्यमाह ॥ विभर्तीति ॥ तेन प्रथमं
?R
प्रपदाविष्येन पश्ऱ्चात्तच्छिरोश्रयतेति प्रागुक्तदिशामूर्धातिष्येनैकेनरूपेण । तेन प्रथममेवमूर्धाविष्येन च रूपेणचेष्ययन्विभर्तीत्यर्थः । केतेरूपे इत्यत आह ॥ नारायण इति ॥ व्यवस्थितोदेहेवासुदेवश्ऱ्चमूर्धाविष्योवासुदेवः यश्ऱ्चप्रथमंमूर्धाविष्योनारायणस्तस्य च अवसथास्त्रय इति योज्यम् । अत एव तं प्रपदाभ्यामित्यत्र तमिमं प्रथमज्ञानिपुरुषं चतुराननम् । वासुदेवाभिधंब्रह्मप्रापप्रपदयोः पुरेत्युक्त्वातच्छिरोश्रयतेति मूर्धाविष्यतावासुदेवस्योक्ता । सुषुम्नायां वासुदेवोमूर्धन्येव व्यवस्थित इति चानुपदमेव वक्ष्यति । तस्य त्रय आवसथा अयमावसथ इत्यादि व्याचष्ये ॥ तस्यचावसथा इति ॥ त्रयः स्वप्ना इत्येतद्वयाचष्ये ॥ त एवेति ॥ स्वयं स्वतन्त्रः । मूर्धाविष्ययोवर्ासुदेवनारायणयोरेव तत्रिषुस्थनेष्ववस्थानाप्रतीतेराह ॥ अनिरुद्धादीति ॥ क्रमशोनिरुद्धादिरूपेणानिरुद्धप्रद्युम्नसङ्कर्षणरूपेण । तेषु त्रिष्वक्षिकण्ठहृत्सु । अवस्थात्रयस्य जाग्रत्स्वपनसुषुप्तिलक्षणस्य । अत्र विरोधपरिहारस्तु विरोधोद्धारेऽस्माभिःकृतोनुसन्धेयः । वासुदेवनारायणयोर्मूध्नर्यवस्थान प्रकारमाह ॥ सुषुम्नायामिति ॥ तस्यान्तन्मध्यवर्तिन्याम् । धातूनामनेकार्थत्वभिप्रेत्यसजातोभूतान्यभिव्यैख्यदित्येतद्वयाचष्ये ॥ स एवेति ॥ ब्रह्मनाड्यामनुप्रविष्योनारायण एव चतुर्मुखस्य हृद्गुहायाप्रादुर्भावात्मनाजातः । तेनैवमत्स्यादिरूपेणसर्वभूतेषुचाविशत् । किमिहान्यं वा वदिषदित्येतद्वयाचष्ये ॥ असुराणशमित्यादिना ॥ असुराणां अध्यात्मं ज्ञानादिप्रतिबन्धकानां कामाद्यभिमानिनां कालनेभ्यादीनां बहिः कंसादीनां । ज्ञानादिगुणदमन्तर्नियमनेन बहिरुपदेशेन ज्ञानादिगुणदम् । मत्वेत्युपनिषदिशेषोक्तिः । तु विशेषेण ज्ञानार्थमित्यन्वयः । प्रादुर्भूतः चतुर्मुखस्य हृदयेप्रादुर्भूतः । प्रभुःभुविवसुदेवादिषुप्रविष्यस्तद्द्वाराप्रादुभर्ूत सर्वेषुभूतेषुप्रेरणेच्छयाच प्रविष्य इति योजना । तदुक्तं काठकभाष्ये । उत्तमोदेवताभ्यश्ऱ्चसोत्मनं विरोधस्तु विरोधोद्धारेपरिहृतोनुसन्धेयः । अवताररूपाणामपि मूलरूपवद्द्रव्यगुणदेशकालादिपूर्तिप्रपादकं स एतमेवपुरुषमित्येतद्वयाचष्ये ॥ ससर्वेति ॥ समूलरूपीनारायणः ब्रह्मशब्दस्यार्थः सर्वगुणेति । ततमन्देशतः कालतस्ततमित्यस्यार्थः ॥ सवर्गमित्यादि ॥ तस्मात् मूलरूपवत्सर्वगतत्वस्य तत्प्रत्यक्षसिद्धत्वादेव । न केवूलं मूलरूपीकिन्तु सर्वावताराश्ऱ्चेत्यर्थः । न केवलं सर्वगतत्वं किन्तु ब्रह्मशब्दोक्तं गुणपूर्णत्वं कालतस्ततत्वञ्चेत्याह ॥ प्रादुर्भावा इति ॥ सदैकप्रकाराणस्थिताः । स एतमेवपुरुषमित्येतत्सोवताररूपीत्यर्थतयाच व्याचष्ये ॥ पश्यन्तीति ॥ प्रादुर्भावा इत्यनुवर्तते । इदमदर्शमितीत्यत्रेति शब्दोहेतावित्यभिप्रेत्यभिप्रेत्य व्याचष्ये ॥ गुणपूर्णेति ॥ सर्वदादर्शनादेवेत्यन्वयः । तेनावधारणार्थतयारङ्गोव्याख्यातो भवति । नामतोनाम्ना । इदं द्रोनमाप्रसिद्धः । तमिदं द्रंसन्तमिति तस्यैवेदं द्रशब्दमुख्यार्थत्वमुक्तम् । तदुपपादयति ॥ ब्रह्मादीनामित्यादिना ॥ जायतेदशर्नमिति शेषः । तत्कैमुत्येनाह ॥ रमेति ॥ न केवलमिदं द्रक्ष्यतीत्युक्तं दर्शनं परतन्त्रमिति रमादीनामिदं द्रशब्दमुख्यार्थत्वाभावः । किन्तु सर्वप्रकारेणपूर्णज्ञानाभावाच्चेति भावेनाह ॥ अल्पज्ञाना इति ॥ आद्यपदेन सरस्वत्यादीनां ग्रहणम् । क्रमेण तातम्यक्रमेणानिन्द्रा इन्द्रशब्दमुख्यवाच्यत्वरहिताः । परोक्षप्रिया इव हि देवा इत्येतद्वयाचष्ये ॥ पापैरिति ॥ देवाब्रह्माद्याः आत्मनः परमात्मनः । पापैरज्ञातताम् । हर्षेण हर्षपूर्वं मानयन्ति । तेन सविष्रुरिन्द्र इत्यपि शब्द्यत इत्यर्थः । देवा इत्यस्य वेदाभिमानिनोदेवा इत्यर्थान्तरमभिप्रेत्याभिमन्यमान प्राधान्येन व्याचष्ये ॥ नेदंद्रतेति ॥ प्रमाणेन व्याख्यातं खण्डत्रयं स्ववचनेन स्पष्यं व्याचष्ये उत्तरग्रन्थसन्दर्भेण ॥ आत्मावा इदमित्यत्रात्मशब्द;
आततगुणत्वयोगेननारायण पर इत्युक्तम् । न केवलमेतावत्किन्तूपक्रमपर्यालोनयाचेत्याह ॥ आततेति ॥ न केवलमाततगुणत्वादात्मानारायणः किन्तु तस्य नारायणस्यैव वासुदेवादिरूपाणां ब्रह्मपन्थाः सत्यं कर्मेति पञ्चरात्रप्रसिद्धैरेवनामभिरारब्धत्वादुपक्रान्तत्वांच्चात्मा नारायण इत्यर्थः । कर्मादिनाम्नामनिरुद्धादिषुप्रवृत्तिप्रकारं दर्शयति ॥ मुख्यत इति । प्रादुर्भावात्मकोनिरुद्धतनुर्हरिरेवेति योजना । नतु कामपुत्रोनिरुद्ध इत्येवाथर्ः । सर्वनामत्वेपि विशिष्यकर्मनामत्वमिति भावेन कमर्नामात्विति तु शब्दः । कर्मनामत्वेहेतुस्तत्रेति ॥ अनिरुद्धतनावमितचेष्यितं हियस्मादनिरुद्धतनावमितचेष्यितं अनिरुद्धतनूश्ऱ्चेति च शब्दान्मातृत्वं च तस्मात्कर्तृत्वमुक्मत्यत् आह ॥ कर्माभासा इति । श्रुत्यन्तरे भगवत्येवेन्द्रशब्दाभ्यासाच्चेयमुपनिषद्भगवद्विषयेत्याह ॥ मत्सीति ॥ इन्द्रउपनिषसाद । तेनेन्द्रस्य प्रियं धामोपेयाय । तमिन्द्र उवाच । स इन्द्रःसभूतानामधिपतिः । प्रेत्येन्द्रोभूत्वा इदमदर्शमिति तस्मादिन्द्रोनामेत्यादौ बहुशोभ्यासादित्यर्थः । अभ्यासान्तरमाह ॥ अकारस्येति ॥ I-15
?R
अ इति । अम्भोमरीचिः । अकारोवैसर्वावागित्यादौ अकाराभ्यासादित्यर्थः । पुण्डरीकाक्षत्वबलेनसूर्यमण्डलस्थत्वं विष्णोः प्रसिद्धम् । तस्यात्र बहुशोनुसधानाच्चेयमुपनिषद्विष्णुपरेत्याह ॥ तस्येति ॥ य एष तपतीत्यादिनेति ॥ एष इमं लोकमभ्यार्चत्पुरुषरूपेण य एष तपति प्राणोह्येषय एष तपति प्राणस्त्वं प्राणः सर्वाणिभूतानिप्राणोह्येष य एष तपति । एष तपन्नेवास्मीति होवाचेति बहुशोनुसन्धानादित्यर्थः । पुण्डरीकाक्षत्वं सूर्यस्य किं नस्यात् इत्यत आह ॥ सूर्योहीति ॥ शिवः
?R
सूर्यः सुराचार्योविनायकश्ऱ्चविरूपाक्षः । तत्र वैचित्ऱ्यं हिरण्याक्षः सवितेत्यादिग्रन्थेभ्योवगन्तव्यम् । किञ्चैष इमंलोकमभ्यार्चदित्यादिदनातावाएताः सर्वाॠच इत्यन्तेन कलषिर्देववेदादिवाचक सर्वनामवत्त्वमुक्तम् । विश्ऱ्वामित्रमित्यादिनातत्रैवाख्यायिकाप्रदर्शनमुखेन सर्वनामवत्त्वमुक्तम् । तच्चहरेरेवलिङ्गम् । अतश्चास्यामुपनिषदि स एवालेक्त इत्याह ॥ योदेवानामित्यादिना ॥ उपसंहारबलाच्चेयमुपनिषद्विष्णुविषयेत्याह ॥ णकार इति ॥ उपक्रमेब्रह्मशब्दस्यमध्येआत्मशब्दस्यान्ते विष्णुशब्दस्यात्रैवरूढस्य प्रयोगाच्चनान्यपरत्वमित्याह ॥ आत्मेति ॥ तमृतेन वर्तन्ते । कथं तर्हि आत्माविरिञ्चः सुमनाः तस्मादेतद्ब्रह्मेत्यादावन्यत्र वृत्युक्तिरित्यत उक्तं तदन्यत्रेति । तदन्यत्र ब्रह्मादौ आत्मब्रह्मादयस्तत्रैवप्रसिद्धविष्णुनारायणादि शब्दातिरिक्ताः शब्दाः शृङ्गिबेरे आर्द्रकेदाहकत्वगुणयोगेनाग्निशब्दवत् । अल्पप्रवृत्तिनिमित्तयोगेन वर्तन्त इति योज्यम् ॥ श्रुत्यन्तरसमाख्यानाच्चात्मशब्दोनारायण पर इत्याह ॥ एक इति ॥ आदिपदेन ब्रह्मवा इदमग्र आसीदित्यादिश्रुति रेतस्य जगतोह्यग्र आसीन्नारायणः परः ॥ एकएवश्रियासार्धमिति ब्रह्मतर्कादिस्मृतिर्ग्रह्यते । इदं सर्वमपेक्ष्यासौकालतोगुणतस्तथेति व्याख्यातमधुनाकालाग्य्रत्वस्यापि गुणान्तर्भावविवक्षयाप्रकारान्तरेण व्याचष्ये ॥ अग्रइति ॥ ननु अस्याग्रेप्रलय इत्यर्थोक्तौ विरोध परिहारकत्वेन नान्यत्किञ्चनमिषदिति सङ्गच्छते । गुणाग्य्रत्वप्रतिज्ञानेकथमुत्तरवाक्यं सङ्गच्छत इत्यतः सङ्गमयति ॥ तत्रेति ॥ तत्र गुणाग्य्रत्वे उपसर्गस्य धात्वर्थव्यञ्जकत्वान्मिषदित्यस्योन्मेषणमिति तात्पर्यादुक्तः । ननु स्वयोग्यगुणानुभवस्य रमायां मुक्तेषु च सत्वात्कथं निषेध इत्यत आह ॥ स्वत इति ॥ ननु विष्णोः सदाविद्यमानत्वात्कथमासीदिति प्रयोग इत्यत आह ॥ अस्तिशब्दवदिति ॥ यथास्तिब्रह्मेत्युक्तेब्रह्मणोनवर्तमानकालमात्र सम्बन्धित्वमर्थः । एवमासीच्छब्दोपि सर्वकालसाधारण इत्यर्थः । प्रयोग एक कालीनः सर्वकालेनुषज्यते इति वचनादिति भावः । किञ्च नमिषदित्यस्योन्मिषत्पूर्णोन्मेषयुक्तमित्यर्थस्तच्चभगवत्येवमुख्यमतः स एव गुणाग्य्र इत्याह ॥ भगवदिति ॥ कोयमुन्मेषोनामेत्यत आह ॥ उन्मेषइति ॥ तदेवोन्मेषणमेव । कथं सत् अत्युत्तमं निर्दुष्यं स्वरूपं यतोमिनुतेविषयीकरोति अत उन्मेषणमेवमेषणं नामेत्यर्थः ॥ मिनुतेसदिति मिषत् । सकारस्यषत्वमिति भावः । मेषणान्मेषणयोर्भेदमङ्गीकृत्यकैमुत्येन वोन्मेषणनिषधलाभ इत्याह ॥ स द्रूपामिति ॥ यतो विष्णुः सदुत्तमंनिर्दिष्यं स्वरूपं मिनुतेऽतःविष्णोरन्यत्स्वातन्त्ऱ्ेणमिषदेवनास्ति । किमुतोन्मिषन्नेष्यत इति वक्तव्यम् । यद्वा विष्णुरेवसत्पूर्णं स्वस्वरूपं मिनुते विष्णोरन्यत्परिपूर्णं ब्रह्ममिषदेवनास्ति । कोहितं वेदितुं शक्त इत्यादेः ॥ उच्चैर्मिषत्तुनास्तीति किमुवाच्यम् । कुत इत्यत आह ॥ उच्चैरिति ॥ स्पष्यतयासर्वदैवस्वरूपं मिषन्भगवान्हीत्यर्थः । उक्तञ्च स्पष्यातिस्पष्यविशदब्रह्मणोशेषवस्तुगमिति । विष्णारन्यत्किमपि गुणसम्पूर्तेरुद्रिक्तानुभववन्नासीदित्यतीत निषेधाद्वर्तमानकालेस्यादुत्तरत्रचेत्यतः कदापि तत्समं नास्तीति प्रमाणमाह ॥ नास्तीति ॥ न कुलाग्य्रत्वमात्रव्युत्पदनाञ्च स्वरूपतः प्रलयेविद्यमानत्वस्य प्रमितत्वादेवनेतरस्वरूपनिषेधेन विलत्स्वस्वरूपत्वेन कालाग्य्रत्वविवक्षयाऽग्र इत्युक्तिः । नापि गुणाग्य्रत्वं विहाय कालमात्रापेक्षया । मुक्तामुक्तसर्वजीवानां रमायाश्ऱ्चप्रलयेविद्यमानत्वेन कालग्य्रत्वस्येतरसाधारण्यात् । यदिसंसारिणां बोधपरलिपात्सर्वेषां स्वातन्त्ऱ्ाभावाद्विद्यमानमपि कालाग्य्रत्वमसत्कल्पमिति कालाग्य्रत्वमसाधारणमित्युच्यते । तर्हि न कालमात्रापेक्षयेत्यापन्नम् । गुणाग्य्रत्वं विनैतदुपपादनासम्भवादिति भावः । तत्र हेतुत्वस्तदन्यत्किञ्चिन्नमिषदासीदित्यवतार्यव्याख्यायहेतुवाक्यस्याभिप्रायमाह ॥ तदधीनेति ॥ नान्यत्किञ्चनमिषदिति वाक्यं स्वातन्त्ऱ्ाभावाभिप्रायकमिति कुत इत्यतस्तदुपपादकोत्तरवाक्य बलादिति भावेनाह ॥ तदधीनत्वमेवेति ॥ ननु तस्यैवकालाग्य्रत्वोपपादनाय प्रलयेस्थूलशरीरप्रागभावोपपादनायसृष्यिकथनमिति किं नस्यादित्यत आह ॥ स्थूलशरीरस्येति ॥ तत एव पराधीनविशेषावाप्तिलक्षणसृष्य्युक्त्यैवार्थत एव नतु मुख्यतः । एवञ्चमुख्यतोलब्धाथर्परित्यज्यार्थिकार्थमात्रग्रहणमयुक्तमिति भावः । रमायामुक्तनां च प्रलयेतदधीनमिषणमुक्तं तत्र प्रमाणान्तरं आह ॥ प्रलय इति ॥ ध्यानस्थिताः नत्वखिलसाक्षात्कारवन्तः । तज्ज्ञानस्य शक्त्यवस्थापन्नत्वादिति भावः । ननु यदुक्तं सर्वजीवानां प्रलयेविद्यमानत्वादेवानाग्र इति कालापेक्षयेति तदयुक्तम् । ब्रह्मादिसर्वजीवानां शरीरान्तरस्य लिङ्गशरीरातिरिक्तस्थूलशरीरस्याभावोनुक्तेरप्यनुक्तावपि सृष्ययुक्त्यार्थतः सिद्धयत्येव । तथाच नावश्यन्तदर्थमेवतद्वाक्यं प्रवृत्तम् । तस्यार्थस्यार्थतोपि लाभेन श्रुतेः केवलं तादर्थ्येन प्रवृत्त्ययोगात् । गुणाग्य्रत्वस्य प्राधान्येन प्रतिपादनेषु आर्थिकाथर्स्याप स्पष्यीकरणमनुजानीम इति भावः । उक्तार्थे प्रमाणमाह ॥ आत्मेति ॥ आत्मावा इदमेक एवाग्र आसी द्ब्रह्मरवा इदमग्र इत्यादि वाक्यं गुणाग्य्रत्वं हरेः वदेत् । कालज्यैष्ठयमात्रं न वदेत् । यस्मात्तत्कालज्यैष्ठयं सृष्ययुक्त्यासृष्यिकर्तुर्हरेः सिध्यति ।
?R
अतोन्यतोलभ्यार्थेवाक्यस्य तत्रैवपर्यवसितत्वमयुक्तमिति भावः । ननु सृष्ययुक्त्यागुणाग्य्रत्वमपि लभ्यत एव । जगज्जन्मादि हेतुत्वस्य गुणपूर्ति सम्भावकलक्षणत्वात् । स्पष्यं गुणाग्य्रत्वमात्मग्र इत्यनेनोच्यत इति चेत् । कालाग्य्रत्वमपि स्पष्यमुच्यत इति किं नस्यादिति आशङ्कय सत्यमुभयविधाग्य्रत्वं सृष्ययुक्त्यालभ्यते स्पष्यमुभयविधाग्य्रत्वमात्मादिवाक्येनोच्यत इति । अत एवास्माभिः कालतोगुणतस्तथा ॥ अग्य्रएवसामस्तेश इति व्याख्यातम् । तथापि आदिवाक्येकालाग्य्रत्वमात्रोक्तौगुणाग्य्रत्वं न लभ्यते गुणाग्य्रत्वमात्रोक्तौतु कालाग्य्रत्वस्य नान्तर्भाव इति सूचयति । अम्भसोविष्रुलोकत्वं कथमित्यतोम्भः शब्दं निर्वक्ति ॥ अमिति ॥ कोसौत्याशङ्कयपरिहारायप्रतिष्ठेत्येतद्वयाचष्ये ॥ दिव्यपीति ॥ अपि शब्दान्महरादिषुचेति लभ्यते । ननु पृथिव्यादिष्वपि भगवान्प्रतितिष्ठति कोविशेषोद्वयादीनामित्यत आह ॥ तेष्विति ॥ पदार्थमुक्त्वाऽदोम्भः परेणदिवन्द्यौरिति वाक्यार्थमाह ॥ दिव इति ॥ अदोम्भःद्यौरिति योज्यम् । अन्तरिक्षं मरीचय इत्यत्र मरीचयशब्दार्थमाह ॥ सूर्येति ॥ व्युत्पाद्यदर्शयति ॥ मरीचीनामयनादिति ॥ अम्भोमरीचिरित्यत्र मरीचिशब्दस्तु मरीचिमान्मरीचिरिति योज्य इति भावः । मन्वन्तरायुषः स्वग्यर्ामहर्लोकेतु काल्पिका इत्यादेद्वर्यादिष्वपि मरणसद्भावात्कोविशेषः पृथिव्या इत्यत उक्तम् पृथिव्यांक्षिप्रमिति ॥ ननु ब्रह्मणोलोकसृष्ययुक्तेः कथं विष्ण्वखयस्यात्मनोलोकसृष्यिकथनं तस्मादयमात्माविरिञ्च एव आतमाविरञ्चःसुमनाः सुधौतश्रचेति कथ्यत इत्यभिधानादित्यशङ्कय नात्रकेवलमात्मनोलोकस्रष्यअत्वमुच्यते किन्तु भूतादिसृष्यिपूर्वं लोकस्रष्यृत्वं ब्रह्मणस्तु भगवन्निर्मितलोकवैशद्यकर्तृत्वमेवातोनासावत्रोच्य इति प्रमाणमाह ॥ भूतेभ्य इति ॥ महदादिभ्योनन्तरं भूतसृष्येरनन्तरमिति योज्यम् । सुरान्लोकाभिमानिनः तत्पालकांश्ऱ्च । ततः सब्रह्मापि विशेषतो लोककर्तेत्युच्यते इत्यर्थः । न्वत्र भूतादिसृष्ययनन्तरं लोकसृष्यिर्नोच्यत इत्यतोया अधस्तात्ता आप इत्येतद्वयाचष्ये ॥ या इति ॥ पूर्वमेवलोकसृष्येः पूर्वमेव । देवतामहदाद्यभिमानिन्यः । आपोदेवा इति कथमवगतमित्यत आह ॥ आप इति ॥ पूर्वं सप्तमेखण्डेमनसासृष्या आपश्ऱ्चवरुणश्ऱ्चेति भगवदङ्गं सृष्यतयोक्तानामेवदेवानामापा इत्याप इत्यष्यमेखण्डेविवदपूर्वमप्छब्दवाच्यतयानिर्णीतत्वादित्यर्थः तत्राप्युदकस्यैवाप्छब्दवाच्यत्वं निर्धारितमिति किं नस्यादित्यत आह ॥ अयंपितेति ॥ कार्यरूपास्वप्सपुत्रत्वोपचार इति किं नस्यादित्यत आह ॥ अहमिति ॥ प्रकृतास्वप्सुदेव श्रुतेर्देवता एवै ता आप इति भावः । देवानामेवाम्नामकत्वं तेषामेवमहदाद्यभिमानित्वं तेभ्यः साभिमानिलोकोत्पत्तिः महदादिदेवानामेवाण्डान्तस्तत्वाभिमानिरूपेणोत्पत्तिस्तदुत्पत्तिकथनञ्च तारम्यज्ञापनपूर्वं भगवदुत्कर्षपर्यवसन्नमिति भावेन प्रमाणमाह ॥ ब्रह्मवायू इत्यादिना ॥ ॠषयोमध्यमाधिकारिणः । मर्त्या अधमाधिकारिणः । ब्रह्मवायू इत्यादिद्वन्द्वनिर्देशनिमित्तमाह ॥ नविशेष इति ॥ शेषशिवयोश्ऱ्चनविशेषः । कुतः अधिकाराविभेदतः । तत्पत्नीनामित्रथ ॥ सरस्वतीभारत्योः वारुणीपार्वत्योश्ऱ्चनविशेषः अधिकाराविभेदतः इत्यर्थः । ननु तर्हि ब्रह्मवायू इतिवत् शेषशिववीन्द्रादिनिर्देष्यव्यम् । वीन्द्रशेषौ च तत्स्त्रयौ इति निर्दिश्यशिवस्तद्दयितेति पृथङ् निर्देशः कुत इत्यत आह ॥ सुपर्णेति ॥ सुपर्णशेषयोस्तत्पत्न्नयोश्ऱ्च साम्येव न तु पदैक्यम् । अतः साम्यविवक्षयावीन्द्रशेषौ च तत्स्त्रयाविति द्वन्द्वनिर्देशः कृतः । शिवस्य तद्भार्यायाश्ऱ्च तदनन्तरं तत्पदप्राप्यत्वद्योतनाय शिवस्तद्दयितेति शेषादिभ्यः पृथगुक्तिः । वायोस्तु ब्रह्मपदपाप्तत्वेपि ब्रह्मव्यतिरिक्तस्य तत्पदाप्राप्तुः समस्यानिरूपणात्तस्यैव तत्समतयाद्वन्द्वनिर्देशः । तदुक्तं न कश्ऱ्चिद्वायुनासम इति । शक्रकामयोः ईषत्तारतम्यमविवक्षित्वासाम्योक्तिः । प्राय इन्द्रवत्काम इत्युक्तत्वात् ॥ एतेत्विति ॥ ये सर्वेसुराः क्रमेणैव विष्णोर्जाता अबाख्यका इति कालक्रमेण सर्वेसुराः साक्षाज्जाता एत एव सर्वेपि महदादीनामभिमानिनः । महदादिमानिनश्ऱ्चेति सर्वशःतैर्महदादिभिः सहजाताः । तत्र पूर्वस्य चरमः प्रतिबिम्बस्तथात्सुतस्तद्वशश्ऱ्च । अखिलाविष्णशेर्वशेन विष्णुः कस्यचिद्वश इति योजना । इमेनुलोका इत्यादेरर्थमाह ॥ एत इति ॥ एतेमहदादय एव यदापश्ऱ्चाद्ब्रह्माण्डोत्पत्त्यनन्तरं प्रजज्ञिरे तदालोकाभिमानित्वाल्लोका इति प्रोक्ताः त एव पश्ऱ्चाज्जातैरूपैर्यस्माल्लोकस्थान्पालयन्ति तदालोकपालाश्चेत्यर्थः । अमूर्छयन् मोहावस्थाङ्ग न करोदित्यन्यथाप्रतीतेः व्याचष्ये ॥ अमूर्छयदिति ॥ मूर्छनं नामम सम्मेलनमिति भावः । मुखाद्वाग्वाचोग्निरित्यादिकं तत्र वाङ्नामकं रूपं वह्नेरासीत्पुरातनम् ॥ तस्यैवाथद्वितीयं तु यदग्निरिति गीयत इत्यध्यात्माधिदैवभेदेनैकैकस्यैव रूपद्वयपरतया प्रमाणेन व्याख्यातम् उत्तरवाक्यबलाच्चैतदेवमेवेत्याह ॥ अग्निरिति ॥ द्वितीयखण्डे आयतनं नः प्रजानीहीत्येतद्वयाचष्ये ॥ प्रजानीहीति ॥ तृतीयखण्डे यावैसामूर्तिरजायतान्नं वैतदित्यत्रान्नशब्दार्थमाह ॥ अन्नदेवतेति ॥ नन्वेवं चेत्तदपानेनाजिघृक्षदित्यत्र ब्रह्मातदन्नात्मकं रूपमजिघृक्षद्ग्रसितुमैच्छदित्युक्तं ग्रसनं न सम्भवति । ग्रसनेऽवयशैथिल्येनपीडाप्रप्तेरित्यत आह ॥
?R
ग्रसनञ्चेति ॥ तस्यान्नदेवस्यग्रसनञ्चैतस्मिन्नन्तः प्रवेश एवातस्तेन न तु पीडेत्यर्थः । ननु भोक्तृभोज्यभावः प्रवेष्यृश्यभावश्ऱ्चभेदेनोपलब्धः तत्कथमेकस्यतदुपपद्यते । प्रवेशेच स्वरूपानुपमर्दाद्भोज्यत्वायोगश्ऱ्चेत्यत आह ॥ एकएवेति ॥ विशेषबलेनैकएव भोक्तृत्वेन भोज्यत्वेन च स्थितः भोज्यरूपेणैकीभूयस्वरूपानुपमर्देनैव संश्लेषविशेषं प्राप्यातितरां मुमोदेत्यर्थ इति भावः । क्षुत्पिपासभ्यां पीडेवग्रसनेनापि पीडास्त्वित्यतस्तमशनापिपासाभ्यामन्ववार्जदित्यस्य तात्पर्यमाह ॥ देवानामिति ॥ अशनापिपासेहिलोके उपद्रवेणभोक्तृत्वशक्त्याच समनियते । देवानामुपद्रवाभावादशनापिपासाभ्यामन्ववार्जनं नाम तद्वयाप्तेन तदभिमान्यभिमतेन भोक्तृत्वसामर्थ्येन योजनमेवविवक्षितमिति भावः । तदभिमान्यभिमतत्वमुपपादयति ॥ वायुरेवेति ॥ अशनापिपासाभिमानीवायुरेवभोक्तृत्वशक्त्यभिमानीत्यर्थः । यदिवाचाभिव्याहृतमित्यारभ्याथकोहमित्यन्तवाक्यतात्पर्यमाह ॥ यदीति ॥ किमिदं विष्णुत्वं यद्देवानां स्वसामर्थ्येन चेष्यकत्वेनस्यादित्यत आह ॥ विशेषेणेति ॥ तदुपपादयति ॥ णकार इति ॥ आक्षेपलब्धमर्थमाह ॥ तस्मादिति ॥ तदेतन्नान्दनमित्यत्र नन्दन शब्दार्थमाह ॥ पूर्णेति ॥ सजातो भूतान्यभिव्यैख्यदित्यत्र धातूनामनेकार्थत्वमाश्रित्यप्राक् प्रवेशनेवृत्तिरभिहिता । अधुनातु चक्षिङःख्याञिति सूत्रानुसारेण दर्शनार्थकचक्षिङादेशरूपत्वमभिप्रेत्य व्याचष्ये ॥ प्रादुर्भावरूपेणेति ॥ किमिहान्यं इत्येतद्वयाचष्ये ॥ इहेति ॥ स एतमेवपुरुषं ब्रह्मततममपश्यदिति वाक्यं समूलरूपीभगवानेतमेवपुरुषमवताररूपं गुणादिपूर्णं अपश्यत् सोवताररूपीचैतमेवस्वात्मानमेवच ब्रह्मततममपश्यदिति प्रमाणेनद्वेधाव्याख्यातम् । तत्र द्वितीयव्याख्यां स्ववचनेन विवृणोति ॥ अहमेवेति ॥ ननु कृष्णरामादीनां जन्मादिदोषदर्शनात्कथं परिपूर्णत्वमित्यत आह ॥ नायमिति ॥ स्तम्भाद्वा स्तम्भान्नरसिंह इव । नरदेहाद्वेति वा शब्देन ॠष्यादिदेहात्प्रादुभर्ूत इत्यर्थः । एतमेवेति परामर्शविषयं दर्शयन्व्याचष्ये ॥ एतमेवेति ॥ स एतमित्यत्र तच्छब्देनावताररूप परामर्शमङ्गीकृत्यावताररूपस्यापि स्वरूपपूर्तिज्ञातृत्वं व्याख्यातम् । तत्रोपनिषज्ज्ञापक प्रदर्शनायेदमदर्शमित?
ीमित्येतद्वयाचष्ये ॥ इदंमेरूपमिति ॥ अस्य महिदासावतारवाक्यत्वात्प्रकृतसिद्धिः । इति शब्दस्तु उपनिषदीवहेत्वर्थे । यद्वा रङ्गस्यावधारणार्थत्वमन्वयपूर्वमाह ॥ इदमिति ॥ इदं मेरूपं अदर्शमेवाहमित्यन्वय सम्भवेन रङ्गस्त्ववधारण इत्यर्थः । अपश्यदित्यतीतार्थकलङप्रयोगात्सर्वदादर्शनं नेति भ्रान्तिं वारयति ॥ अपश्यदित्यत्रेति ॥ अनुषङ्गादिति ॥ अपश्यदित्यस्याभिशब्दानुषङ्गेचाभ्यपश्यदिति भवति । अभितोर्थदर्शनञ्च सार्वकालिकमेवेति भावः । नन्वनुषक्तस्याभीत्यस्य सर्वकालसम्बन्धित्वेर्थेविवक्षिते अपश्यदित्यतीतकाल सम्बन्धितयानिर्देशोव्याहन्येतेत्यत आह ॥ अपश्यदिति ॥ अपश्यत् इति पश्यतीति वा कालसम्बन्धं विना निर्देष्युमशक्यत्वादेवतथाव्यवहारः । वस्तुतस्तु अभिशब्देन दशर्नस्य सर्वकालसम्बन्धित्वेवगतेलकारः कालमात्र सम्बन्धीपयर्वस्यतीत्यविरोधः इति भावः । माभूदभिशब्दानुषङ्गः । विष्णुविषयोगः सार्वकालिकदर्शनमेवावगमयतीति प्रमेणाह ॥ प्रयोग इति ॥ विष्णुर्ददर्शेत्यादौ एक कालाविषयेपि लकारप्रयोगः । सर्वकालेनुषज्जते । सार्वकालिकं दर्शनादिकमभिधत्ते । कुतः हरेर्नित्यचिद्रूपत्वादित्यर्थः । परोक्षप्रियादेवा इत्येतद्वयाचष्ये ॥ परोक्षेति ॥ तर्हीवशब्दवैयर्थ्यमित्यत आह ॥ तथापीति ॥ अपरोक्षदर्शिन्येवसम्यग्दर्शिन्येवप्रीतिं कुर्वन्तीत्यर्थः । सर्वेषामपि परोक्षोपदेशेयोग्यानामपि तत्र ज्ञानानुदयात्पोक्षप्रिया इवेतीवशब्दप्रयोग इति भावः ॥ 3
॥ 23
॥ इति श्रीमद्विट्ठलाचार्यपुत्रेण श्रीमत्तीर्थाचायर्चरणसेविना श्रीनिवासेन रचितायां ऐतरेयभाष्यार्थरत्नमालायां द्वितीयप्रघट्टके चतुर्थोऽध्यायः ॥ 2
॥ 4
॥
?R
पूर्वाध्येये भगवतः र्सैर्गुणैरग्य्रत्वं प्रतिज्ञायतदुपपादनाय सृष्ययाद्यष्यकर्तृत्वमुक्तम् । न केवलं बहिर्गतेन रूपेण महदादि सर्वष्यृस्रत्वं किन्तु पितृमात्रन्तर्गतेन रूपेण गर्भाधानादिमुखेन च स्रष्यृत्वं पुत्रान्तर्गतेन च रूपषणाभिव्यक्तत्वामित्यादिनिरूप्यतेऽस्मिन्नेकखण्डात्मकेऽध्याये । अयं नारायणः आदितः प्रथमं पुरुषेगर्भः अन्तर्गतो भवति प्रविशेत् अन्नस्थोन्नेन सहित इति शेषः । यद्यदा एतद्भुक्तमन्नं सर्वाङ्गेषु व्याप्तं सत्सर्वाङ्गेभ्यः सम्भूतं तेजस्तेजोरूपं तद्रेतः सम्पन्नं अन्नस्थं भगवद्रूपं चरेतः सम्भूतं रेतसिसम्पन्नं तत्तदा आत्मानं रेतसिस्थं स्वरूपं आत्मनि पुरुषस्थेस्वस्मिन्नेवबिभर्ति । तद्रेतोगतं स्वरूपं रेतसासाकं पुरुषस्थोभगवान्यदास्त्रियां सिञ्चति अथ तदा एनद्रेतोगतस्वरूपं जनयति स्थानान्तरेप्रदुर्भावयति ।अथ तस्मादस्य स्थानान्तरगतेरेतदेवास्य प्रथमं जन्म । ननु रेतसासाकमीश्ऱ्वरस्य स्त्रीगर्भेवृद्धयङ्गीकारेस्त्रियः पीडास्यात् किमित्यत उच्यते ॥ तदिति ॥ तद्रेतोगतं भगवत्स्वरूपं रेतश्ऱ्च स्त्रियायथास्वमंङ्गतथा आत्मभूयं आत्मभावं संश्लेषविशेषं गच्छति । तस्मादेनां नहिनस्ति न पीडयति सास्त्ऱ्यत्रगतं स्वगर्भगतं पुत्रं भावयति तेन चास्यपरमातमनोत्र गतं पुत्रगतमेतमात्मानं पुत्रनामकं स्वरूपमेव भावयति । प्रतिमोपासनवदिति भावः । भावयित्री परमात्मस्वरूपमेवम्भावयित्री सा
?R
स्त्री भावयितव्या माननीया भवति । भर्त्रेति शेषः । कुतो भावयितव्येत्यतो भगवद्भावयितृत्वादित्येकं कारणम् । कारणान्तरमुच्यते ॥ तमिति ॥ गर्भगतं तं हरिं बिभर्तीत्यर्थः । यदि गर्भगतस्तर्हिजीववद्दुःस्वीस्यादित्यत उच्यते ॥ स इति ॥ यं स्त्रीगर्भं बिभतिर् सभगवांत्सर्वैर्गुणैरग्य्र एव । न केवलं भर्त्राभार्या सम्भावनीयागर्भगतः पुत्रश्ऱ्चेत्युच्यते ॥ कुमारमिति ॥ जन्मनोग्रेपूर्वं कुमारं पिताऽधिभावयत्यादरपूर्वं भावयति । स पिता जन्मनोग्रेकुमारमधिभावयतीति यत्तत्तेन पुत्रगतं तत्यैविस्तृत्यैसर्वदालाभायेत्यर्थः । तस्यैवोपपादनमेवमिति ॥ एवं पुत्रस्थहरिसम्भावनेहीमेपृथिव्यादयोलोकाः सन्तताः सर्वदाप्राप्ता भवन्ति । पितुः स्वर्गादिलोकप्राप्तावपि प्राक् पुत्रस्थस्य हरेरन्नपान वस्त्रभूषणादिभिरर्चनेन प्रतिमाभूतस्य पुत्रस्यापि पृथिष्ठानपेन पुत्रकृतपुण्यभाक्त्वात्पृथिवीलोकस्थितिः फलतोलभ्यत एवेति भावः । तथाच वाजसनेये । सोयं मनुष्यलोकः पुत्रेण जेय इति । तत्तस्यां पृथिव्यां यज्जन्मतदस्य परमातमनोद्वितीयं जन्म । अस्य भगवतः सम्बन्धीसोयमात्मापुत्रगतं तन्नामकं रूपमस्य पितृजीवस्यार्थेपुण्येभ्यः कर्मभ्यः पुण्यकर्मसिद्धयर्थं पुत्रान्तर्गतेन परमातमनाभूमौ प्रतिधीयते । अथास्य परमात्मनः इतरः पुत्रनामकादि तरोवयोगतः वयोगतपित्रन्तर्गतोयमात्मापितृनामकरूपविशेषः कृतं निष्पादितं कृत्यं विहितं जीवानां येनेतिकृत्यः सः पितृशरीरं परित्यज्यते न सहप्रैति अन्यत्र गच्छति । स पितृजीव इतः शरीरात्प्रयन्नन्यत्र गच्छन्पुनर्जायते । तत्पितुरन्यत्र जननमस्य तदन्तगर्तस्य हरेस्तृतीयं जन्मेत्यर्थः ॥ यदुक्तमीश्ऱ्वरस्यापि पितृमातृपुत्राभिधसर्वजीवान्तर्गतत्वं गर्भवासेपि तत्कृतलेपराहित्यं ज्ञानादिगुणाग्य्रत्वं तदृषिणोक्तमित्युच्यते ॥ तदुक्तमिति ॥ गर्भो नु सन् अनु एषामिति पदपाठः । नु इदानीं गर्भेनुगर्भ एव सन्वर्तमान एषां देवानं विष्ण्वादीनां विश्ऱ्वा विश्ऱ्वानिनानाविधानि देवानां जीवशरीरे रअभिमानिरूपेण ईश्ऱ्वरस्य नियामकत्वेन इत्येवं विधानि जनिमानि जन्मानि अहमहेयं दुःखादि हेयरहितं यथाभवति तथान्ववेदम् । तत्र ज्ञापकमुच्यते ॥ शतमिति ॥ अथ तस्मादेवकारणात् आयसीः आयस्यः विशेषेणज्ञानिन्यः । णेप्ययं शब्दः प्रयुज्यते । ब्रह्मणःशरीरं परित्यज्यगतेरेवजीवमरणत्वात् । "" ?R
ब्रह्मणासंपरित्यक्तमृत इत्युच्यते बुधै''
रिति वचनादिति भावः । ननु स यत्कुमारमिति वाक्यं प्रतिमात्वेन पुत्र सम्भावानां जानतस्तद्गतहरिसम्भावनैवेति व्याख्यातम् । कुत एतदेवं व्याख्यायते । जीवेश्ऱ्वरयोरभेदतकुमारं भावयतीति यत्तेन परमात्मानमेव भावतीति वा । पितृपुत्रचैतन्यैक्यातूपुत्रसम्भवनं स्वसम्भवनमेवेति वार्थःकिंनस्यात् । न चोदाहृतमन्त्रविरोधः । तत्राहमेवगर्भेसन् एषां देवादीनां विश्ऱ्वानिजनिमान्यनुभवामि मां शतं पुरः शरीराण्यरक्षन् श्येनपक्षीववेगेनाधः तस्माद्गर्भाद्बहिर्निर्गतोस्मीति तद्वाक्यस्यापि जीवैक्याभिप्रायेणोपपत्तेरित्यत आह ॥ एषामेवेदमिति जीवभेदो जीवेश्ऱ्वरभेदः परस्परं जीवभेदश्ऱ्च । देवपदेन देवानां देवोत्तमस्यच विवक्षितत्वादिति भावः ॥ अन्यथेति ॥ अभेदविवक्षयास्वस्यैवानेकशरीरप्रवेशेनजन्मानुभवाभिप्रायत्वे ममेत्यश्रुतं पदं कल्प्यमिति भावः । श्रुत हानञ्चाह ॥ व्यर्थतेति ॥ एषां देवानामहमिति विशेषणानामित्यथर्ः । अहमित्यस्य कथं वैयर्थ्यमित्यत आह ॥ अवेदमिति ॥ उत्तमपुरुषप्रयोगादेवेत्यर्थः । अप्राप्तेशास्त्रमर्थवदिति न्यायादिति भावः । ननु भवत्पक्षेप्यहमिति व्यर्थमित्यत आह ॥ अहमिति ॥ अस्मिन्पक्षेयोजनामाह ॥ जन्मेति ॥ नन्वहं मनुरभवं सूर्यश्ऱ्चेत्यमिन्वाक्येवामदेवस्य मन्वाद्यभेद उच्यते अतः प्रकरणवशाद्गर्भेनुसन्नित्यादिकमप्यभेद परमङ्गीकार्यम् । तत्रोत्तमपुरुषप्रयोगेप्यहं शब्दस्यावैयर्थ्यमित्युपपत्तेतिरत्यत आह ॥ तस्मादिति ॥ अहं मनुरभवमिति जीवैक्यार्थत्वेऽभवमित्यनेनैवाहमित्यस्य सिद्धत्वेन वैयर्थ्यादस्मिन् प्रकरणेदेवानामिति भेदोक्तेश्ऱ्चेत्यर्थः । नन्वहं शब्दस्यास्मदादेशत्वाभावे अहेयत्वगुणेन विष्णुवाचकत्वे अभवमित्युत्तमपुरुषप्रयोगायोग इत्यत आह ॥ सर्वान्तरत्वादिति ॥ उत्तमपुरुषप्रयोगोहि प्रत्यक् चैतन्ये भवति । भगवानेवहिसर्वेषां प्रत्यग्भूतः अतोवामदेवोपि स्वान्तर्यामिण्यभवमिति प्रयुक्तवानिति भावः । अहं शब्दस्याहेयगुणवत्तयाविष्णुवाचित्वे उत्तमपुरुषस्यान्तर्यामिण्युपपन्नत्वेच प्रमाणमाह ॥ अहेयत्वादिति ॥ सर्वान्तरत्वत इति ॥ प्रतियोगिभूतवस्त्वन्तगर्तत्वात्तत्वमसीति प्रत्यग्भूतस्वान्तर्गतत्वात् सोहमस्म्यहं मनुरभवमित्यादिभिः शब्दैरुच्यत इत्यर्थः । ननु लोकव्यवहारोहि शब्दशक्तिग्रहणोपायः लोकेचाहमस्म्यादिशब्दाः स्वात्मन्येव व्यवह्रियते तत्त्वमस्यादिशब्दाश्ऱ्चप्रतियोगिनि जीवे तेन चाहं मनुरभवमित्यादौस्वस्यमन्वाद्यभेदः तत्त्वमसीत्यादौजीवस्य ब्रह्माभेद इति निर्णीयत इत्यत आह ॥ नचेति ॥ किन्तु सर्वेषां व्यवहारोनुभव इति योज्यम् ॥ तस्मादिति ॥ अहमादि शब्दानां भगवत्येवमुख्यतयाज्ञानिभिर्व्यवह्रियमाणत्वान्नाहमीश्ऱ्वर इत्याद्यनुभवस्य विरुद्धधर्माधिकरणत्वादियुक्तेः " ?R
अहेयत्वादहंविष्णु'
रित्यादिनिर्णायकवाक्यन्तरस्य च सद्भावादिति भावः । ननु गर्भेनुसन्नन्वेषामित्यस्याभेदपरत्वाङ्गीकारेनाहमादिपदवैयर्थ्यं अभवमित्युत्तमपुरुषप्रयोगलब्धार्थस्य स्फुटीकरणेनाहमित्यस्य सार्थकत्वात् स्वस्यैवोपाध्यन्तरत्वाभिप्रायेणैषां देवानामिति पराक्षनिर्देशबहुवचनयोः सम्भवादित्यत आह ॥ नवेदेष्विति ॥
?R
गत्यन्तराभावेह्यहमित्येतल्लब्धार्थप्रदर्शकमिति कल्प्यम् । वेदविचारनियतैश्ऱ्चयथायोग्यमर्थभेद ऊह्यऊहितश्ऱ्चास्माभिः । सतिचैवङ्गत्यन्तरेवेदिभिः वेदेनैकं पदं नैकोवावर्णो व्यर्थयिष्यते बहूनां पदानां वैयथ्यर्मङ्गीकुर्वन्भवान् न परीक्षक इति भावः । ननु भवत्पक्षेपिरेतोन्नकुमारादिशब्दानां तद्गतेहरौलक्षणाङ्गीकार्येति समानोदोष इत्यत आह ॥ शब्दाइति ॥ सास्यैतमात्मनमत्रगतं भावयतीत्यत्रोत्पदयतीत्यर्थप्रप्रतीतेर्व्याचष्ये ॥ भावयतीति ॥ उत्पादनार्थकत्वे उत्तरवाक्येतं स्त्रीगर्भं बिभर्तीति पुनर्गर्भधाणोक्तिविरोधादिति भावः । ननु तं स्त्रीगर्भं बिभर्ति सोग्र एवेत्यत्र सा उ अग्रे इति पदच्छेदस्तथाच सास्त्रीअग्रेउत्पादनात्पूर्वन्तगर्भं बिभर्तीत्यर्थस्यविरोध इत्यतो व्याचष्ये ॥ सोग्रएवेति ॥ ननु पुत्रेश्ऱ्वरयोर्भेदेकथं पुत्र सम्भावनामातमसम्भावनं स्यादित्यत आत्मनमेवतद्भावयतीत्युस्य तात्पयर्माह ॥ पुत्रसम्भावनमिति ॥ तत्पुत्र सम्भावनमपि । तत्रस्थं विष्णुं सम्भावयामीति ज्ञाने सति तस्य विष्णोरेव भवतीत्यर्थः । ननु ब्राह्मणे "" ?R
नापुत्रस्यलोकोस्तीति तत्सर्वेपशवोविदुः । तस्माच्चपुत्रोमातरं स्वसारञ्चाधिरोहति । एष पन्था उरुगायः सुशेवः यं पुत्रिण आक्रमन्ते विशेकास्तं पश्यन्ति पशवोवयां सिचतस्मात्तेमात्रामिथुनीभवन्ती ''
त्यत्रयस्माननापुस्य लोकोस्तीति प्रमेयं पशवोविदुस्तस्मात्स्वपुत्रमुखनिरीक्षणार्थं पुत्रोमातरं भ्रातास्वसारं चाधिरोहति । एवमधिरोहणेन पुत्रजन्मोपलम्भता यं लोकं विशोकाः पुत्रिण आक्रामन्ति तस्य लोकस्योरुगायः सुशेवः सुखप्रद एष भगवान्पन्थाः मार्गभूतः । तं पश्यन्ति पशवोवयांसिच । तस्मात्तेमात्रामिथुनीभवन्तीति पश्ऱ्वादीनामपि पुत्रोत्पत्तिज्ञानमात्रेणामृतत्वप्राप्त्युक्तेः कथं नाहि जीवोतपत्तिमात्रज्ञानानदमृत्वं भवति ज्ञातमेवसर्वैः पितृपुत्रसम्बन्धमात्रं पश्ऱ्वादिभिरपीत्युक्तमित्यत आह ॥ एवं भावयतामेवेति ॥ एवमुक्तप्रकारेणपुत्रस्थं हरिं भावयतामेवैषपन्था इत्युक्तमृतत्वाख्यं फलं न पुत्रमात्रज्ञानिनां तं पश्यन्ति पशव इति तमुरुगायं पश्यन्तीति वाक्यशेषादिति भावः ।ननु तं पश्यन्तीत्यस्य तं9
पुत्रं पश्यन्तीत्यर्थः पश्ऱ्वादिनां भगवद्दर्शनायोगादित्यत आह ॥ तं पश्यन्तीति । आदिपदेन तत्सर्वेपशवोविदुरित्युक्तं गृह्यते । अन्येषां पश्ऱ्वादीनां स्वभावत एवमात्राद्यधिरोहणादौप्रवृत्तिरित्यर्थः । शतं पुर आयसीरित्येतदनूद्यविशेष्यप्रदर्शनपूर्वमर्थमाह ॥ ताएवदेवता इति ॥ गत्यर्थादयतेर्भावेऽसूप्रत्यये अयस्शब्दात्सम्बन्धार्थेण् प्रत्ययेङीपि अयः शब्दितज्ञानवत्य आयस्यो विभक्तिव्यत्ययेन आयसीरिति भावः । कथं विशेषतोज्ञानित्वमित्यत उक्तस्य पुर इत्यस्यार्थो मानुषानिति । देवशब्देन विष्णोरपि ग्रहणात्तत्रज्ञानित्वं तदुपपादकं पूर्णत्वं च मुख्यमित्याह । विष्णुरिति ॥ अपव्याख्यां प्रत्याख्याति ॥ नचेति ॥ बन्धकत्वादिति भावः । ननु बन्धकत्वेपि तात्कालिकसुखलवहेतुत्वाद्रक्षकत्वं अन्यथा भवतामपि देवानामिति पुल्लिङ्गेन प्रकृतानां स्त्रीलिङ्गेन परामर्शायोग इत्यत आह ॥ मुख्य इति ॥ देवतापरत्वमङ्गीकृत्यमुख्येरक्षणेर्थतया युज्यमाने अमुख्यार्थो न युक्तः । लिङ्गव्यत्ययेन परामर्शस्तु न तावद्दोषावह इति भावः । अपव्याख्यानिरासायश्येनपदार्थमाह ॥ शमिति ॥ भूमत्वविवक्षायां मतुबिति भावेनोक्तं पूर्णेति । "" ?R
भूमनिन्दाप्रशंसासुनित्ययोगेऽतिशायने । संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादय ''
इति वचनादिति भावः ॥ स एवेति ॥ शीएवज्ञानरूपत्वाद्यश्ऱ्चेतिश्यः । शीचासौयश्ऱ्चेति विग्रहः । निरुक्तत्वादिकारलोप इति भावः । शंरूपत्वाच्छः ज्ञानरूपत्वाद्यः शश्ऱ्चासौयश्ऱ्चेति श्य इति किं न व्याक्रियत इति चेत् । अत्रापि शकारात्पराकारलोपस्य वाच्यत्वेन विनिगमनाविरहादानन्दपूर्तेर्लाभेनास्मिन्पक्षेविशेषलाभाच्च । ननु विष्णुः स्वामीसर्वेषामपि भवति कोस्य विशेष इत्यतो ज्ञानेन विशेष इति भावेन गर्भवासदुःखातिक्रमेण तथाज्ञानं कारणमिति भावेन तात्पर्यमाह ॥ विष्णुमिति ॥ I-16
?R
निरदीयमित्यत्रनिरोर्थोनिष्क्रम्येति ॥ दुःखेभ्य इति भावः । अदीयमित्यस्यार्थोतीत इति ॥ कर्माध्याहृतं गर्भवासमिति ॥ गर्भवासातिक्रमोनाम तत्रस्थस्यैवतदबद्धत्वम् । स्वर्गेलोके सर्वान्कामानित्यस्यप्रसिद्धेस्यर्गेलोकेसर्वान्कामाननुभूयामृतो भवन्निर्गुणमोक्षं प्राप्तोभवदित्यपव्याख्यानिरासाय व्याचष्ये ॥ स्वरित्यादिना ॥ अमृतस्य सर्वकामावाप्तिव्यतिरेकेण कोयं सम्भव इत्यतः सर्वकामावाप्तिमनुभवतीत्युक्तं विवृणोति । अपेक्षितेति ॥ समभवदित्यस्य भोगेप्रयोगं वाजसेनेदर्शयति ॥ तामिति ॥ ब्रह्मा तां स्त्रियं समभवत् बुभुजे । ततो मनुष्या अजायन्तेत्यर्थः । ननु यथा श्रुत एवार्थः किं नस्यात् किममृतः सन् सवर्ान्कामानाप्त्वेत्यन्वयभेदेनेत्यत आह ॥ मुक्तीति ॥ ननु स्वर्गेयथा योग्यं सर्वान्कामानाप्त्वेत्यर्थः किं नस्यादित्यत आह । मुख्यएवेति ॥ स्वर्गपदस्यसर्वपदस्यचेति शेषः । ननु स्वर्गेपि सर्वकामावाप्तिः किं नस्यात् मुक्त्यनन्तरमेवेति किं नियम्यत इत्यतः कैमुत्येनोत्तरमाह ॥ अमुक्तानामिति ॥ विष्णुलोकगानां वैकुण्ठगतानामपि न सर्वकामावाप्तिः किमुस्वर्गगतानां नास्तीति वाच्यमित्यर्थः । तदुदाहृत्यदर्शयति ॥ जयेति ॥ अप्रियं शापादिनिमित्तं दुःखम् । स्वकृतं व्याख्यानमुपपाद्योपसंहरति ॥ अत इति ॥ उक्तार्थेप्रमाणमाह । मुक्त इति ॥ 2
॥ (24)
॥
?R
इति श्रीमद्विट्ठलाचार्यपुत्रेणतीर्थाचार्यचरणसेविना श्रीनिवासेन रचितायां श्रीमन्महैतरेयभाष्यरत्नमालायां द्वितीयप्रघट्टके पञ्चमोध्यायः ॥ 2
॥ 5
॥
?R
माक्षयोग्यानां सर्वसाधारण्येनोपास्यानानन्दादिगुणान् रूपविशेषं नामविशेषंच वक्तुं तथात त्तद्योग्यविशेषगुणप्रतिपादनार्थञ्च चायमेकखण्डात्मकोध्यायः । कतर सत्यानन्दस्य संज्ञानमित्यादिनाज्ञानस्य समिति निर्दोषत्वस्य सर्वं तत्प्रज्ञानेत्रमिति स्वामित्वस्य हृयसमिति नाम्नोबिम्बाख्यरूपविशेषस्य च वक्ष्यमाणत्वात् । यथोक्त "" ?R
मानन्दादयः प्रधानस्ये ''
ति । बहुनामकीर्तनेन मुक्तनियामकत्वादि बहुगुणप्रतिपादनात्तत्तदधिकारियोग्यप्रातिस्विकगुणविशेषप्रतिपादनञ्च न प्रतीयते । प्रकृतमात्मानमधिकृत्यरमयापृच्छ्यते ॥ कइति ॥ अयमात्माकः किं गुणविशिष्यः किं नामकः केन वारूपविशेषेण विशिष्य इति वयं सर्वेभगवद्भक्ता उपास्महे । तत्रापि वयं सर्वेभगवद्भक्ता उपास्महे । तत्रापि वयं देवाः कथमुपास्मह इति प्रश्ऱ्नः । तत्र महिदासेनोत्तरमुच्यते ॥ कतर इत्यादिना ॥ स त्वया पृष्यआत्मा कतरः कतमः आनन्दतमः परिपूर्णानन्द इत्यपास्यः । नचानन्दस्य दण्डस्य पुरुषेणेव भेदोमन्तव्य इत्युच्यते ॥ स आत्मेति ॥ स आनन्दो स्यात्मा स्वभावः । पूर्णोनन्दत्वे लोकचेष्यकत्वं हेतुरिति भावेन लक्षणान्तराण्युच्यन्ते ॥ येनवेति ॥ पृथक् पृथक् लक्षणत्वज्ञापनाय वा शब्दः । जीवोयेन यत्प्रेरणयापश्यतीत्यादि स आतमेत्यन्वयः । सर्वदशर्नकर्तृत्वादीनि पञ्चलक्षणानीत्युक्तं भवति । तस्य नामान्युच्यन्ते ॥ यदित्यादिना ॥ ज्ञातृत्वाद्यत् सन्निहितत्वादेतत् हृदिबिम्बरूपेणायनाद्गतत्वाद्धृदयं मननकर्तृत्वान्मनः गुणनिचयरूपत्वाच्च पूर्णत्वादा इतत्वात्सर्वैः शरणं प्राप्तत्वात्ततत्वाच्च इतत् निर्दुष्यज्ञानरूपत्वात्संज्ञानं आतत ज्ञानरूपत्वादाज्ञानं विविधज्ञानरूपत्वाद्विज्ञानं प्रकृष्यात्मगुणविषयज्ञानरूपत्वात्प्रज्ञानं विस्मृतिरहितत्वान्मेधा चाक्षुषदर्शनरूपत्वाद्दृष्यिः धारणत्वाद्धारणाशक्तिरूपत्वाद्धैर्यरूपत्वाद्वाधृति;
। मासुप्रमाणेषुततत्वाद्वाच्यतयास्थितत्वान्मतिः । मनूनां बोधवैशेष्यान्मनुनामकानां ब्रह्मादीनामीशत इति मनीषा । सर्वप्रेरकत्वाज्जृति;
सर्वेषुदेशकालेषुस्वरूपेषुच समं रमत इति स्मृतिः । सर्वक्लृप्तिः सर्वव्यवस्था तद्धेतुत्वात्सङ्कल्पः । सर्वकर्तृत्वात्क्रतुः । असनाद्दैत्यानां तमसिप्रक्षेपणाद्दोषाणां स्वभक्तेभ्योनिरसनाद्वा असुः । अमितानन्दरूपत्वात्कामः । अः परमात्मा स्ययं तत्तन्त्रत्वादवशः । यद्वा न कस्यापि वश इत्यवशः । एतानि सर्वाणि त्रयोविंशतिसङ्खयाकानि प्रज्ञानस्य प्रकृष्यज्ञानरूपस्य हरेः नामधेयानि भवन्तीत्यथर्ः । मनीषेत्युक्तं सर्वेश्ऱ्वरत्वं प्रपञ्च्यते ॥ एष इत्यादिना ॥ प्रजापतिः शिवः पृथिवीवायुराकाश आपोज्योतींषीत्येतानीमानिपञ्चभूतानीत्यन्वयः । एते सर्वेदेवा इत्युक्तेप्यधिभूतरूपग्रहणार्थं पुनर्वचनम् । मोक्षयोग्यजीवोपलक्षणमेतत् । क्षुद्राण्यल्पानिच तानि पुण्यपापमिश्राणि च । क्षुद्रमिश्राणीतराणिमोक्षयोग्येभ्य इतराणीमानिमानुषस्वभावानिनित्यसंसारिजीवजातानि इतराणि तेभ्योपीतराणि आसुरस्वभावजीवजातानिचेत्येवं त्रिविधानि । तानिकीदृशानि बीजानीवशाल्यादि बीजानीव । परस्परं स्वस्वजात्याञ्चविचित्रस्वभावानि । तथाण्डजान्यं डम्भित्त्वाजातानि । जरायुजानि जरायुर्गर्भसंवेष्यनं तेन जातानियूपादीनि उद्भिज्जानि भुवभुद्भिद्यजातान्यङ्कुरादीनि । तथादेवानां मन आदिभ्योजाता अश्ऱ्वागावः पुरुषा हस्तिनः पतत्रि च यत्किञ्चेदं जङ्गमं यच्चस्थावरं कल्पवृक्षादि तथायत्किञ्चेदं प्राणि शिलादार्वादिकं सर्वं तत्प्रज्ञानेत्रं प्रकृष्यज्ञानरूपपरमात्मनेतृकं प्रज्ञानेप्रतिष्ठितं प्रज्ञानाधारतया स्थितम् । न केवलं संसारिजीवजातमेवतदधीनं किन्तु संसिरिभिरलोक्यत्वादलोकोमुक्तवर्गोपि प्रज्ञानेत्रः । ननु प्रज्ञारूपोभगवान्कुत्राश्रित इत्यत उच्यते ॥ प्रज्ञाप्रतिष्ठिति ॥ प्रज्ञारूपोभगवान्प्रकर्षेण स्वातन्त्ऱ्ेणानन्याधारतया तिष्ठतीति प्रतिष्ठा । कोयमात्मेति पृष्यं लक्षणं नाम च "" ?R
ब्रह्मदृष्यिरुत्कर्षा ''
दिति सूत्रानुसारेणोपासनार्थं पिण्डीकृत्योच्यते ॥ प्रज्ञानमिति ॥ प्रज्ञानं ब्रह्म देशतः कालतोगुणतश्ऱ्चाति पूर्णत्वाद्ब्रह्मनामकमुपास्यमित्यर्थः । एवमुपासकस्य फलमुच्यते ॥ स एतेनेति ॥ योविद्वान्त्सोधिकारीत्यर्थः । यद्वा प्रज्ञानेत्रोलोक इत्युक्तं मुक्तस्य भगवन्नियतत्वं प्रपञ्च्यते ॥ स इति ॥ स सकलकमर्बन्धान्मुक्तः । प्रज्ञेन प्रकृष्यज्ञानरूपेणात्मनाविष्णुना प्रेरितः तत्प्रसादेनैवास्माल्लोकाच्छरीरादुत्क्रम्यतेनैवामुष्मिन्स्वर्गेलोकेविष्णुलोकेऽमृतः सन् तेनैव सर्वान्कामानाप्त्वातेनैवसर्वान्कामान्समभवदनुभवतीत्यर्थः ॥ 1
॥ 25
॥ अत्र कोयमात्मेति प्रष्याक इति न प्रतीयते । कतर इत्यादीनामपि प्रश्ऱ्नत्वे उत्तरं चात्रनाप्रतीयतेऽतोयथावद्वयाचष्ये ॥ अयमित्यादिना ॥ किंरूपः किं लक्षणकः । केनवानाम्नारूप्यतेनिरूप्यत इति किं रूपः किं नामकः । अनेकेषां रूपाणशं मध्ये किं रूपश्ऱ्चोपास्योस्माभिः सर्वैभिगवद्भक्तैर्विशेषतो देवैरस्माभिरित्यर्थः । सत्वयापृष्य आत्माकतर इत्यस्य सुखेनपूर्णः कतरः अतिशयेन पूर्णः कतम इति तरप्तमपोरुभयोरप्यर्थमाह ॥ पूर्णानन्दतम इति ॥ आनन्देन पूर्णतम इत्यर्थः । स आन्देस्य आत्मास्वभावभूत इत्यर्थान्तरमाह ॥ तादृश इति ॥ अस्य परमात्मनः स्वभावस्तादृश आनन्दरूपः । येन वापश्यतीत्यादि व्याचष्ये ॥
?R
येनजीव इति ॥ यदेतद्धृदयमित्येतद्वयाचष्ये ॥ योविष्णुरिति ॥ सर्वैरप्यधिकारिभिर्ह्रद्ययनाद्धृदयनामकं बिम्बरूपमुपास्यमिति दर्शयितुं तृतीयस्यापि हृदयनाम्ना आदवुपादानम् । जीवोयेनदर्शनादीन्कुरुते । यश्ऱ्चहृदयमित्यादिनामभिः कीर्तितः स विष्णुरिति योजना । पुनरेतदित्यत्र आ इतदिति पदविभागमभिप्रेत्यव्याचष्ये ॥ पूर्णत्वादिति ॥ त्रिविधपूर्तियुक्तत्वादाकारेणोच्यत इत्यर्थः । इतत्वाच्छरणमितत्वात्ततत्वाद्गतत्वासर्वान्तर्गतत्वादित्यर्थः । ततत्वादाकाशवद्वयाप्तत्वादिति वा "" ?R
तदन्तरस्य सर्वस्य तदुसवर्स्य बाह्यत ''
इति हि श्रुतिः । इतन्नामेतदिति प्रसिद्धः । उच्चयः निचयः । समुदायः । "" ?R
गुणोरुसमुदायोयं वासुदेव ''
इति वचनात् । ज्ञानस्याततत्वं नामगुणिवाद्वयाप्तत्वं निरतिशयस्पष्यत्वं वा । "" ?R
व्याप्तज्ञानमहांशुमान् । स्पष्यातिस्पष्यविशद ''
मित्यादेः विविधज्ञानरूपत्वात् विविधविषयकज्ञानरूपत्वात् प्रकृष्याये आत्मगुणास्तद्विषय ज्ञानरूपः । अविस्मृतित्वाद्विस्मृतिशून्यत्वात् । दर्शनरूपतः चाक्षुषज्ञानरूपत्वात् । सम्यक् ज्ञानं मानसमिति भेदः । धारणं धैर्यं जगद्धारणं ज्ञानस्य धारणाशक्तिः वा । मासुप्रमाणेषुततत्वातः नियामकत्वेन प्रतिपाद्यत्वेन वा ततत्वात् । मनूनामीष्य इति मनीषेत्यभिप्रेत्योक्तं मनुनाम्नामिति ॥ सर्वप्रेरकरूपत्वादिति ॥ जुगतावितिधातोरूतियूतिजूति सातिहेतीति जूतिशब्दस्यनिपातनादिति भावः । गतिरत्रप्रेरणारूपाविवतिति ध्येयं । समंरत इति ॥ एकप्रकारेणरमत इत्यर्थः । सकारमकारेफपराणं लोपेसंप्रसारणेस्मृतिरिति भवतीति भावः । क्लृप्तिर्व्यवस्था । क्रतुः ससर्वकर्तृत्वादिति ॥ कृञःकतुरित्युणादिसूत्रात्कृञःकर्त्रर्थेकतुप्रत्यय इति भावः । कंसुखममममितं यस्यासौकाम इत्यस्य तात्पर्यममेयेति ॥ यद्वा विशेषणोत्तरपदकर्मधारयोयमित्यभिप्रेत्योक्तममेयानन्दरूपत्वादिति ॥ अकारस्य भगवन्नामत्वादस्य विष्णोर्वशस्तंत्रोऽवश इत्यर्थमभिप्रेत्योक्तम् ॥ अवश इति ॥ स एतेन प्रज्ञेनात्मनेत्येतत् योवेदैवं हरिमित्यध्याहारपूर्वं फलकथन परतया व्याचष्ये ॥ योवेदेति ॥ एषब्रह्मेत्यादि व्याचष्ये ॥ ब्रह्मेत्यदिना ॥ इमानिक्षुद्रामिश्राणीतराणीत्यस्यार्थः पुण्यपापेति ॥ इतरे असुरा इति द्वितीयेतरशब्दार्थः । सर्वं तत्प्रज्ञानेत्रं प्रज्ञानेप्रतिष्ठितमिति पदद्वयतात्पर्यम् ॥ सर्वमिति ॥ पदयोरक्षरार्थमाह ॥ तेनैवेत्यादि ॥ प्रज्ञानेत्रोऽलोक इत्यस्यार्थोमुक्ता इति ॥ प्रतिष्ठेत्यस्यार्थः स्वयमिति ॥ प्रज्ञानं ब्रह्मेत्यस्यार्थोदेशत इति ॥ स एतेन प्रज्ञेनात्मनेति वाक्यं फलकथनपरतया व्याख्यातम् । मुक्तस्य भगवन्नियतत्वोपपादकतयापि व्याकुर्वन्स इति परामृष्यं दर्शयति ॥ स इति ॥ स इत्यनूद्यलोकनामामुक्त इत्यर्थोक्तिः । अलोकशब्दनिर्वचनायोक्तञ्चिति मात्रेति ॥ चितिमात्रस्वरूपत्वेन लोकविलक्षणत्वादलोकनामेत्यर्थः । प्रज्ञेनात्मनेत्यस्य तात्पर्यं प्रकृष्येति ॥ अस्माल्लोकादित्यस्यार्थोस्मादिति ॥ स्थूलशरीरादित्यर्थः । अमृतः लिङ्गशरीरवर्जितः । अध्यायार्थस्य प्रामाणिकत्वेनावधारणायद्विरूक्तिरिति भावेनोक्तम् ॥ वेदेति ॥ ननु कोयमात्मेति रमादेव्याप्रश्ऱ्नेकृते तवसिर्द्धाथर्त्वाल्लक्षणप्रश्ऱ्नोन युज्यत इत्युत्तरं वाच्यम् । किं कतर इत्युत्तरप्रदानेनेत्यतस्तात्पर्यमाह ॥ जान्त्येति ॥ लोकानुग्रहाथर्ं सामान्येन सर्वमोक्षयोग्यानुग्रहार्थम् । देवादीनां विशषज्ञानार्थमित्यर्थः । कतर इति तरपस्तमबर्थवर्थनं कथमित्यस्तदुपपादयति ॥ यत्रेति ॥ यत्र वाक्ये उभयोः प्रयोगोनास्ति तत्र वाक्येतरप्तमपावेकार्थौ उभयोर्योर्थसमिलित्वा एक एवार्थोऽनयोरित्यर्थः । येन वापश्यतीत्यादौ स आत्मपरमात्मायेन वा करणेन दर्शनादीन् करोतीति पृष्ये सर्वमपि मनसाकरोतीति यदेतद्धृदयं मन इत्युत्तरमुच्यत इति प्रतीतेर्यथावत्स्ववचनेनापि विवृणोति ॥ यत्प्रेरणादिति ॥ नात्र पश्यतीत्यत्र कर्तृतया सन्निधानेन प्रकृतः परमात्मासम्बध्यते । किन्तु स एवं विद्वानिति प्रकृतोजीव एव । येन वेत्यत्रापि येन येन कारणेनेति न प्रश्ऱ्नः किन्तु यत्प्रेणणेन पश्यति स आत्मेति तस्य लक्षणोक्त्यर्थं परामर्श इति भावः । ननु प्रकृतात्मनोदर्शनादिकारणत्वं लक्षणञ्चेदनेनोच्यतेन तु करणविशेषप्रश्ऱ्नस्तदापृथग्वाशब्दानुषङ्गःश्रूयमाणोव्यर्थ इत्यत आह ॥ रमेत्यादिना ॥ अत्रेदं तावद्योज्यम् । जीवानां दर्शनादिकारणत्वं यथामिलितं भगवल्लरक्षणं भवति तथैकैकमपि तस्य हरेर्लक्षणं भवतीति सूचनायवाशब्दः सर्वत्रानुषज्यत इति । ननु दॉनादिकारणत्वमेकैकं सूर्यादिष्वति व्याप्तम् । मिलितं रमाब्रह्मादिष्वतिव्याप्तमित्यत उक्तम् । रमेति ॥ रमाब्रह्मादीनां सर्वेषामपितत्प्रेरितत्वात्स्वातन्त्ऱ्ेण दर्शनादिकारणत्वस्यात्र विवक्षितत्वादिति भावः । ब्रह्मपदेनापौनरुक्त्याय दक्षाद्यर्थत्वप्रतीति निवारणायवयवाप्रजापतिशब्दं सोपपत्तिकं व्याचष्ये ॥ प्रजापतिरिति ॥ अभिमान्यभिमन्यमानयोरेकशब्दवाच्यत्वादिति भावः ।क्षुद्रमिश्राणीवबीजानीत्यनूद्यैवबीजानीत्यस्यार्थमाह ॥ क्षुद्रेति ॥ एतेनैवबीजानीत्येतदेषब्रह्मेत्यादि सर्वविशेषणमित्युक्तं भवति । इतराणिचेतराणीत्यनयोरर्थभेदमाह ॥ प्रथमेति ॥ लोक इति पदभ्रमं वारयन्प्रज्ञानेत्रोऽलोक इत्यस्यार्थमाह ॥ प्रज्ञेति ॥ प्रतीतेर्थेपौनरुक्त्यं बाधकं वदन्नुक्तं निर्धारयति । ब्रह्मादीति ॥ मुक्तस्यचिति मात्रत्वेन संसारिलोकविलक्षणत्वमलोकशब्दप्रवृत्तिनिमित्तमित्युक्तम् । संसार्यप्रत्यक्षत्वञ्च
?R
प्रवृत्तिनिमित्तमित्याह ॥ मुक्त इति ॥ नच दृष्याश्ऱ्चते भगवतानारदेनेति गीताभाष्यविरोधः । तदर्थं साधनविशेषं विनेत्यत्रविक्षितत्वात् । नन्वश्ऱ्वादीनां जरायुजत्वात्पतत्रिणामण्डजत्वात्स्थावराणमुद्भज्जत्वात् पुनरुक्तिरित्यत आह ॥ अण्डजानिचेति ॥ तर्ह्यभयविधानामप्यश्ऱ्वागाव इत्यादिनैवोक्तिसम्भवादण्डजत्वादिकथनं किमर्थमित्यत आह ॥ अण्डजत्वादीति ॥ जङ्गमञ्चपरत्रिचयच्चस्थावरमित्यनेन प्राणिनां गृहीतत्वात्पुनः प्राणीति किमर्थमित्यतः सप्रमाणकं सार्थक्यमाह ॥ तथेति ॥ भारते आदिपर्वणिययात्यष्यकसंवादे "" ?R
संस्वेदजा अण्डजाश्ऱ्चोद्भिदश्ऱ्चसरीसृपाः क्रिमयोथाप्सुमात्स्याः । तथाश्मन ''
इत्यत्रस्थावरजङ्गमात्मकानां जीवानां तथाश्मदीनामपि स्वस्वाभिमन्यमानेषुस्थावरजङ्गमात्मकदेहेषु अश्माद्यचेतनेषुचाभिमानापादककर्मक्षयानन्तरं स्वयोग्यनिजरूपलाभवचनात्स्वेदजादिवदश्मादीनामपि प्राणित्वादित्यर्थः । “"?R
कमर्ाणितानिचपृथक् चेतनान्येवसर्वश ''
इति वचनात्कर्मणां चेतनत्ववदश्मदीनां चेतनत्वं बोध्यम् । एवं तर्हिस्थावरजङ्गमाश्मादिजडाभिमानिनाञ्च प्राणिशब्देन ग्रहणसम्भवात्पृथग्जंगममित्यादिग्रहणं व्यर्थमित्यत आह ॥ गमनेति ॥ गमनपतनस्थिरत्वादीनिशब्दप्रवृत्तिनिमित्तान्यादिपदेनमानुषत्वपशुत्वादिजञ्जमावान्तरभेदनिष्ठधर्माणां गरुडत्व हंसत्वाद्यवान्तरधर्माणामश्ऱ्वत्थादिस्थावरावान्तरधर्माणां ग्रहणम् । स एतेनेत्यत्र द्वितीययोजनायां स इति परामर्शविषयं दर्शयति ॥ स इति ॥ तस्य मुक्तत्वज्ञापकमाह ॥ सकलेति ॥ यद्वा यदिमुक्तपरामर्शस्तर्ह्युत्क्रान्त्युक्त्ययोगोमुक्तस्य तदयोगादित्यत आह ॥ सकलेति ॥ अप्रारब्धस्य ज्ञानेन क्षयानन्तरं प्रारब्धस्य भोगोपमर्दाभ्यां क्षयानन्तरं हीत्यर्थः । प्रज्ञेनात्मनाब्रह्मरूपेणसर्वान्कामानाप्त्वेत्यन्यथा प्रतीतेः व्याचष्ये ॥ प्रकृष्येति ॥ प्रेरित इति शेषोक्तिः । न केवलमध्याहृतेनान्वयः । किन्तु समभवदिति क्रियापदेनचान्वय इत्याह ॥ प्रज्ञेनेति ॥ प्रसन्नेन प्रज्ञेनतत्प्रसादेनेति यावत् । प्रज्ञानेत्रोलोक इत्युक्तत्वात्पुनरुक्तमेतदित्यत आह ॥ प्रज्ञानेत्र इति ॥ तर्हि व्याख्यानपरेणानेनैवालं प्रज्ञानेत्रोलोक इति पूर्ववाक्यं व्यर्थमित्यत आह ॥ अनुक्तेति ॥ ब्राह्मेणजैमिनिरुपन्यासादिभ्यः चितिमात्रेणतदात्मकत्वादित्यौडुलोमिः भावं जैमिनिर्विकल्पाम्नानात् सङ्कल्पादेवचतच्छतेरित्याद्युक्तानामत्रानुक्तविशेषाणामित्यर्थः । ननूत्क्रान्तेः पूर्वं क्षीणकर्मत्वमात्रेणकथं मुक्तत्वं देहबन्ध एव खलुबन्ध इत्यतः कर्मक्षयस्यापि मुक्तित्वेप्रमाणमाह ॥ अनारब्धेति ॥ प्रारब्धानां दाहोनामभोगेन क्षय उपमर्दोवेत्यविरोधः । "” ?R
भोगेनत्वितरेक्षपयित्वाथसम्पत्स्यते उपमर्दञ्चे ''
ति हि भगवद्वचनम् । ननु “"?R
प्रारब्धर्मशेषस्तु विरजातरणावधि ''
रित्यत्र प्रारब्धस्य विरजातरणावधित्वोक्तेः प्रारब्धानां च सर्वश इति कथं सर्वप्रारब्धनाशानन्तरं स्थूलशरीरादुत्क्रमणमिति चेन्न । "” ?R
प्रारब्धकर्मशेषस्तु विरजातरणावधिः ॥ स्वोदयात्फलदं ज्ञानमादेहं कर्मवारवे ''
रितिन्यायविवरणवाक्यशेषेलिङ्गदेहापादकप्रारब्धकर्मशेषातिरिक्तप्रारब्धानामधिकारिभेदेन प्राचुर्येणवाचरमशरीर एव भोगेन पर्यवसानोक्तेस्तद्विवक्षयास्य ग्रन्थस्य प्रवृत्तत्वात् । विस्तरस्तु तत्वप्रकाशिकावाक्यार्थमुक्तावल्यामनुसन्धेयः । एष ब्रह्मेत्यादावेष एत इमानीति विशेषणानां कृत्याप्रतीतेः कृत्यमाह ॥ ब्रह्मेन्द्रदीति ॥ ननु ब्रह्मादिशब्दाभगवत्परा एव भवन्तु गुणसमर्पकत्वात् । नच प्रमानेत्रं प्रज्ञानेप्रतिष्ठितमित्युक्तप्रज्ञानेत्रत्वादि विरोधः । प्रागवश इति पदेन स्वतन्त्रत्वापरपर्यायस्य स्वेनतृकत्वस्योक्तत्वादित्यत आह ॥ सहीति ॥ भगवतः स्वनेतृकत्वमेवात्रोच्यते नानुग्राह्यत्वमित्यत आह ॥ अनुग्राह्यत्वमिति ॥ अत्र ब्रह्मादीनामनुग्राह्यत्वमेवविवक्षितम् । न विष्णोः स्वनेतृकत्वम् । "" ?R
ब्रह्माशिवश्ऱ्चशक्रश्ऱ्चे ''
ति समाख्याख्यावचनादेष इत्यादि विशेषणाच्चप्रज्ञानेत्रमित्यत्रविवक्षितानुग्राह्यतारूपानेयतानविष्णोः सम्भवतीत्यत्र प्रमाणमाह ॥ नेयतेति ॥ याऽनुग्राह्यतारूपानेयतासाविष्णोः स्वतः परतोपि नास्तीत्यर्थः । प्रथमापि पदेन प्रज्ञानेप्रतिष्ठितमित्युक्ताश्रितत्वञ्च समुच्चीयते ॥
?R
इति श्रीमद्विट्ठलाचार्यपुत्रेण श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेनरचितायां महैतरेयभाष्यरत्नमालायां द्वितीय प्रघट्टके षष्ठोध्यायः ॥ 2
॥ 6
॥
?R
ॐ ॥ अस्यैकखण्डात्मनोध्यायस्य सङ्गतिरुत्तरत्रभाष्य एव स्पष्यी भविष्यति । मेवाक् मनस्यवबोधरूपेत्तिष्णौ प्रतिष्ठिता तदाधारतया स्थिता । यद्वातद्विषयिणीत्यर्थः । मनोनामकं ब्रह्म वाचि नियामकतया वाग्व्यवहारे विषयतया वस्थितम् । अतो मे आविरावीरेधि अतिप्रकटोभव । मेवेदस्य मयाधीयमानस्यवेदस्याण्यामाधारभूतायां मुख्यवाय्वाख्यायां देवतायां तिष्ठतीत्याणीस्थ विष्णो मेमयाश्रुतं शास्त्रश्रवणजनितविद्यां माप्रहासीर्मामुञ्च सर्वदाविद्याविषयोभव । विस्मृतो माभवेरित्यर्थः । अनेनाधीतेन त्वद्विषयेणैवाधीतेनाहोरात्रान्सन्दधामि सर्वाहोरात्रेषुत्वद्विषयाध्ययनमेवकरोमि । ॠतं यथावदवगतम् । वदिष्यामि । सत्साधुगुणैस्ततं यं नियन्तारमिति सत्यं सत्यनामानं वदिष्यामि । तद्ब्रह्म मां शिष्यं श्रोतारमवतु । तद्ब्रह्म वक्तारं
?R
स्वस्वरूपोपदेशकमस्मद्गुरुमवतु । अवतुमामिति पुनर्वचनमवधारणार्थमवत्वेवेति । वाङ्मेमनसिप्रतिष्ठितेत्यनूद्यवाङ्म इत्यस्यातिरोहितार्थत्वात् मनसिप्रतिष्ठितेत्येतदन्यथा प्रतीतेः व्याचष्ये ॥ वाङ्म इत्यादिना ॥ मनोम इत्यस्यार्थोविष्णुरिति । मनः शब्दस्यावाबाधरूप इति योग उक्तः रूढिञ्चाह ॥ यदेतदिति ॥ आविरावीर्व्यक्तं प्रतिष्ठितमित्न्नवयभ्रमं वारयितुमुत्तरेणान्वयमभिप्रेत्यानुवदति ॥ आविरावीर्म एधीति ॥ मन इत्येतत्सम्बुद्धयं तमत्रानुवर्तत इति भावेन व्याकुवर्न् वाक्यार्थमाह ॥ हेविष्णविति ॥ असभुवीति धातोर्मध्यमपुरुषस्येदं रूपमित्यभिप्रेत्य एधीत्यस्य प्रतिपदमुपादत्ते भवेति ॥ आणीस्थेत्यस्य प्रतिपदमाणीस्थितेति । आणीत्वेन स्थितेत्यन्यथाप्रतीति निरासाय व्याचष्ये ॥ अण्यामिति ॥ वेदस्थाणीस्थेति पदद्वयार्थकथनपूर्वमाणीस्थपदस्य विष्णुपरत्वे प्रमाणमाह ॥ आधार इति ॥ नचाविराविरितिद्विर्वचनमादरार्थमिति सुगमं आवीरिति दैर्घ्यं किमर्थमित्यत आह ॥ आविरिति ॥ शब्दाधिक्येर्थाधिक्यं भवतीति सूत्रार्थः ॥ आधारत्वात्प्राणमाणीत्युक्तं तद्वयुत्पाद्यदर्शयति ॥ अणशब्दस्येति ॥ अणगताविति धातोरणशब्दस्य गतिवाचित्वाच्चलनक्रियावाचित्वात्तस्येदमित्यणिकृतेच लमाणमित्युच्यते । तस्य धारणेन तद्वानाणी फलितमर्थमाणीशब्दस्याह ॥ स्थापक इति ॥ वेदस्य श्रुतं श्रवणं मत्तोमाप्रहासीरित्यन्यथाप्रतीति निरासायन्वयमुखेनानुवदति ॥ मेश्रुतमिति ॥ श्रुतं श्रवणजं ज्ञानमित्यभिप्रेत्यतात्पर्यमाह ॥ ममेति ॥ अनेन वेदेनाधीतेन पठितेनेत्यन्यथाप्रतीतिनिरासाय यसोपस्करं व्याचष्ये ॥ हेविष्णविति ॥ ॠतसत्यपदयोरपुनरुक्तमर्थमाह ॥ ॠतमित्यादिना ॥ ॠगतावित्यतः कर्मणिक्तप्रत्यये ॠतमवगतमिति सिध्यति । अवगमनं च नभ्रमरूपपमिति भावेन यथावदित्युक्तम् । सच्छब्दःसाधुगुणवाची सद्भावेसाधुभावेचेत्यादेः । तनुविस्तारे यमनियमने तथाच साधुगुणैस्ततं यं नियन्तारमिति सत्यमिति सिद्धयतीति भावः । तद्वेदश्रवणं मामसत्विति प्रतीति निरासाय व्याचष्ये ॥ तद्विष्ण्वाख्यमिति ॥ ननु विष्णुश्चेदेधीत्यादिवत्त्वं मामवेति वक्तव्यमित्यत आह ॥ तस्यैवेति ॥ खण्डस्य सङ्गतिं दर्शयन् खण्डार्थे प्रमाणमाह ॥ वाङ्म इत्यादिकमिति ॥ 1
॥ (26)
?R
इति श्रीमद्विट्ठलाचार्य पुत्रेण श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेनरचितायां महैतरेयभाष्यरत्नमालायां द्वितीय प्रघट्टके सप्तमोध्यायः ॥ 2
॥ 7
॥ द्वितीयप्रघट्टकं सम्पूर्णम् ॥ 2
॥
?R
अथ कोहमिति त्रयोविंशखण्डेविष्णुशब्दवाच्यत्वमुपक्षिप्तम् । तदनन्तरखण्डेच विष्णुशब्दार्थभूतमाततगुणत्वमात्मशब्दार्थतयोक्तम् । विष्णुशब्दार्थैकदेशवाचित्वाच्चात्मशब्दकस्येति भाष्योक्तेः । तदनन्तरखण्डेचायं विष्णुर्हिकिं रूप इत्यादि भाष्यदिशाप्रकृतविष्णोर्णकारषकारार्थभूतं यदि वाचाभिव्याहृतमित्यादिनाक्षिप्तं दर्शनादि सर्वक्रियाप्रवर्तकत्वमुक्तम् । अन्तिमखण्हेविष्णुसंहिताध्ययनेविघ्नपरिहारायविष्णुप्रार्थनं कृतम् । भाष्ये "" ?R
अबोध्यरूपेविष्णौ सचविष्णुः । हेविष्णो विष्णविति सम्बोधन ''
मिति विष्णुशब्दाभ्यासात् । तदेवं प्रकृते विष्णुनामनिष्ठां विद्यां वक्तुमिदमारण्यकम् । अथ श्रोतृणामधिकारसम्पत्त्यनन्तरम् । तानुद्दिश्यातः मोक्षाख्यप्रयोजनस्य सद्भावात् संहितायाः विष्णुनामाक्षरतत्सन्धिदेवतायाः तथा तद्वयाख्यानरूपवेदाद्यक्षरतत्सन्धिदेवतायाश्ऱ्चपूर्वरूपम् । उपनिषत् रहस्यविद्या उच्यत इति शेषः । तत्राधिदैवतमुपास्तिप्रकार उच्यते ॥ पृथिवीत्यादिना । पृथिवीपृथुत्वात्पृथिवीनामकं पृथवीस्थं वराहरूपं पूर्ववर्णप्रतिपाद्यं पूर्ववर्ण इति नामकञ्च । द्यौः दिविद्िथतं क्रीडनात् द्युनामकं वामनरूपमुत्तररूपं उत्तरवर्णप्रतिपाद्यमुत्तरवर्णनामकञ्च । वायुर्वायुस्थं वेदकत्वादयनत्वाच्चवायुनामकं नृसिंहरूपं रूपद्वयसहितत्वात्संहितानामकं संहितास्थं सन्धिप्रतिपाद्यमिति मांडूकेयोमन्यते । आकाशः आकाशनामानृसिंहः अस्य वर्णद्वयस्य संहिता मध्यदेवतेति माक्षव्योवेदयाञ्चक्रे । पक्षान्तरे स्वपक्षदूषकेमाक्षव्येणोपात्तेकथं माण्डूकेयोमन्यत इत्यत उच्यते । सहेति ॥ समाण्डूकेयोमाक्षव्येणस्वपक्षोविपरिहृतो न निराकृत इति मेने । कथं मेन इत्यतस्तदुपपाद्यते ॥ नमेस्येति ॥ मे मदीयेन । मदुपासितेनास्याकशस्यपुत्रेण वायुनामाक्षव्यस्तत्स्थहर्युपासनान्नसमागान्नसङ्गत इति हेतोरपरिहृत इत्यन्वयः । तस्यात्मपक्षोपस्थितेरेवाभावात्तेनानिराकरणं स्वपक्षस्येति भावः । तस्यैतत्पक्षानुल्लेखेन तेन निराकरणेपि वस्तुतः प्रबलतद्विरोधेनत्वत्पक्षः परिहृत इत्यत उच्यते ॥ समानेवैतदिति ॥ तत्तथाप्याकशस्थस्य संहितानामकत्वेपि यद्यस्मादेते उपासने भगवद्विषयत्वात्प्राबल्यदौर्बल्याभावाच्चसमाने तत्तस्माद्वायुस्थस्य संहितात्वानपायादपरिहृत इति मेन इत्यर्थः । आकाशेविष्णूपासन पक्षस्य प्रबलत्वात्त त्तेनपक्षेण दुर्बलो माण्डूकेयपक्षः परिहृत इत्यहंमेने मन्ये इत्यागस्त्योमेने । एवं ॠषिमतविप्रतिपत्तिमुक्त्वाभगवतामहिदासेन स्वपक्ष उच्यते ॥ समानमिति ॥ हियस्माद्वायुश्ऱ्चाकाशश्ऱ्चेत्यतदुपासनाधिष्ठानद्वयं समानमाकाशस्य पितृत्वाद्वायोर्बलाधिकत्वात् । तस्मात्तदुभयं ग्राह्यं भवतीति योज्यं इत्यधिदैवतं संहिताया उपनिषदभिहिता । अथाध्यात्ममभिधीयते । वक्तृत्वादाद्वाङ्नामकं मन्तृत्वान्मनोनामकं
?R
प्रकर्षेणाननच्चेष्यकत्वात्प्राणनाम । शिष्यं स्पष्यम् । तत्राप्यधिष्ठानमात्रविषयेविप्रतिरूच्यतेऽथेति ॥ अथतत्रमनोनामकं वराहरूपं पूर्ववर्णप्रतिपाद्यम् । वाङ्नामकं वामनरूपमुत्तरवर्णप्रतिपाद्यमिति स्वपक्षेपुत्रेणयुक्तिरुच्यते ॥ मनसेति ॥ उपसंह्रियते ॥ तस्मादिति ॥ तस्मात्सयुक्तिकत्वान्मन एव पूर्वरूपं वागेवोत्तररूपं संहितातु प्राण एवेत्याहेत्यन्वयः । नन्वेवं पुत्रपक्षस्य प्रबलत्वेपि तापुत्रपक्षयोः साम्यमिति प्रसिद्धिविरोध इत्यतोमहिदासेनोच्यते ॥ समानमिति । पितुश्ऱ्चपुत्रस्येत्येनयोरत्र प्राणाख्यस्य प्राणेस्थितस्य नरसिंहस्य संहितादेवतात्वविषये । मतं समानमित्यर्थः । यद्वैतयोः समानं समानत्वं साम्यमिति भावप्रधानतया योज्यम् । स एषः अध्यात्मशब्देन प्रकृतोदेहाख्यः अश्ऱ्वरथः इन्द्रियाख्याश्वयुक्तोरथः । प्रष्येःप्रच्छनीयस्य पृच्छाविषयस्य । यद्वा तस्यैवोत्तरप्रदानसमर्थत्वेन प्रच्छनीयस्योपदेशकस्य हरेर्वाहनः । कथं मनोवाक्प्राणसंहतः मनोवाक्प्राणनामकेन तत्स्थेनोपदेशेपयुक्तत्वादिसमर्थ्योपेतेन परमात्मनासम्बद्ध इत्यर्थः । य उपासक एवमुक्तप्रकारेण संहितां पूर्वोत्तरवर्णसंहितां वेद स प्रजया प्रकृष्यत्वेन जननात्प्रजाज्ञानं तेन पान्तिशंसाधनाश्ऱ्चेति पशवोवेदाः । तैर्यशसाकीर्त्याब्रह्मणोवरणादेवसम्यक् चायितं स्वरूपन्ते जोब्रह्मवर्चस्तेन स्वर्गेणलोकेन विष्णुलाकेन सन्धीयते सर्वमायुर्नित्यायुश्ऱ्चैति लौकिकप्रजादिभिः सन्धीयते । पूणर्शयुष्यञ्चैतीत्यप्यर्थः । इतिनुएताहि माण्डूकेयानां सम्बन्धिन्यः । तैरुपासिताविद्या इत्यर्थः ॥ 1
॥ (37)
॥ अथात इत्यादौकेवलं जडसंहिताविषयविद्योच्यत इत्यन्यथाप्रतीतेः प्रमाणेन व्याचष्ये ॥ विष्णुनाम्नीति ॥ बहुरूपाणां वामनप्रद्युम्नादि वहुरूपाणाम् । बहुधास्थितस्य वाराहवादुदेवाद्यातमनाबहुधास्थितस्य । संहितायाइत्येकवचनतात्पर्यमेकस्वरूपिण इति ॥ एवं संहितायाविष्णुनामाक्षरतत्सन्धिदेवतायावराहादिबहुरूपाया उपनिषत् बहुभिः खण्डैर्व्याख्यायत इत्यर्थमुक्त्वा विष्णुनामव्याख्यानभूतानां वेदादिशब्दानां पूर्वोत्तरवर्णतत्सन्धिदेवताया उपनिषदुच्यत इत्यर्थान्तरमाह ॥ विष्णुनामर्थेत्यादिना ॥ लौकिकाः पौरुषेयवाक्यगताः । वैदिकावेदगाताः सर्वेवर्णास्तद्वाचकाः णकारषकारार्थवाचकाः । पृथिवीरूपमित्यादि व्याचष्ये ॥ पृथिवीति । पृथुत्वात् विस्तरत्वात् । पूर्वेणवर्णेनषकारादिनारूप्यतेनिरूप्यतेपतिपाद्यत इति पूर्वरूपमित्याभिप्रेत्योक्तम् ॥ देवतेति ॥ यद्वा पूर्वरूपं पूर्ववर्णमित्युच्यते । कुतः यतः पूर्ववर्णस्यदेवतेति योज्यम् । प्रतिपाद्यप्रतिपादकयोरभेदोपचारश्ऱ्च "" ?R
अयं वैलोकः प्रथमामहानाम्नी तथौप्राणात्मका ''
वित्यादौदृष्य इति भावः । देवतोत्तरवणर्स्येत्यादिकमप्येवं योज्यम् ॥ वेदकत्वादिति ॥ वागतिगन्धनयोरिति धातोरिति भावः ॥ अयनत्वादिति ॥ अयपयगताविति धातोरिति भावः । मध्यदेवतासंन्धिदेवता ॥ रूपद्वयेति ॥ पूर्वोत्तरवर्णप्रतिपाद्यरूपद्वयेत्यर्थः । विष्णुनामिनकौतौपूर्वोत्तरवर्णौ किञ्चमध्यं यद्देवतात्वं पृथिव्यादीनामित्यत ॠषिमतभेदेनाह ॥ वर्णद्वयमिति ॥ विकारं षकारञ्चशब्दात् णकारञ्च केचिद्वर्णद्वयमब्रुवन् । तथाच वीति पूवर्ोवर्णः । ष्णुइत्युत्तरोवर्ण इति भावः । किमत्रमध्यमित्यत आह ॥ षकारंमध्यमिति ॥ अस्मिन्पक्षेषकारमेवमध्यमाहुरित्यर्थः । पक्षान्तरमाह ॥ णकारंकेचिदुत्तरमिति ॥ एतेन विष् इत्येतत्पूर्वमित्युक्तं भवति । किमत्रमध्यमित्यत उक्तम् ॥ षकारमिति ॥ अत्रापि षकारमेवमध्यमाहुरित्यर्थः । ननु पूर्वपक्षेषकारोणकारेण सहोत्तररोवर्णः अस्मिन्पक्षेविकारेण सह पूर्वोवर्णः पक्षद्वयेपि षकारस्य कथं मध्यत्वमित्यत आह ॥ पृथगिति ॥ एषामुभयेषां पक्षे वर्णयोः विकारषकारयोः षणयोः वा पृथक्करणं पृथगुच्चारणमेव मध्यमुच्यते । पृथक्करणेन व्यक्तीकृतषकार एवमध्यमित्यर्थः । पक्षान्तरमाह ॥ उपसर्गेति ॥ ऊष्मणः षकारस्य । व्यक्तिर्नामसन्धिदशायामनन्यशेषत्वं णकारोहि पश्ऱ्चाद्भावीषकारशेषतया सन्धिदशायां भासते । षकारस्तु शेषितया प्राधान्येनष्णु इति भासते । तथाच शेषितयाभासमानत्वं मध्यत्वमित्यर्थः । विरलोच्चारणे उभावपि प्रधानौ । संश्लिष्योच्चारणेतु णकारः शेषभूतः । तत्र यःशेषितया णकारानुबद्धतया षकारोदृश्यते समध्यमिति भावः । आकाशः संहितेत्येतद्वयाचष्ये ॥ आकाशस्थ इति ॥ अस्य वर्णद्वयस्येत्यर्थमभिप्रेत्योक्तं वर्णयोरिति ॥ इतीति ॥ नमेस्येत्येतद्वयाचष्ये ॥ मेमदीयेनेति ॥ मदुपासितेन अधिष्ठानतयेति शेषः । न समागादधिष्ठनतया बुद्धिसङ्गतिं नाकरोत् । कुत इत्यत उक्तं वायुस्थेति । एतेनेति शब्दोहेतोरिति व्याख्यातो भवति । समानेवैतदित्यस्य तात्पर्यमाह ॥ यद्यपीति ॥ अनेन तत्तथापि ते उपासनेसमानेयत्तत्तस्मादपरिहृत इति योजनेत्युक्तं भवति । परिहृतो मे न इत्यस्यामाण्डूकेयपक्षः स्वेन परिहृत इति माक्षव्योमेन इत्यन्यथा प्रतीतेः व्याचष्ये ॥ परिहृत इति ॥ मेने मन्ये । आगस्त्याभिमतां युक्तिमाह ॥ आकाश इति ॥ यस्मादाकाशो वायोःपितातस्मादाकाशेविष्णूपासकस्याधिकफलवत्त्वादिति योजना । समानं ह्येतद्भवतीत्येतत्कस्य पक्ष इत्यत आह ॥ भगवत इति ॥ सर्वोपि भगवतः पक्ष इत्यतः स्वपक्ष इत्युक्तम् । उपदेशात्पूर्वमन्यैरज्ञातः स्वमात्रज्ञातः पक्ष इत्यर्थः । साम्यमुपपादयन् वाक्यार्थमाह ॥ आकाशस्येति ॥ एतेन हि शब्दोयस्मादित्यर्थे । एतदित्याधिष्ठानद्वयमित्यर्थः । समानमित्यतः परं तस्मादिति पूरणीयम् । भवतीत्यस्य ग्राह्यं भवतीत्यर्थ इत्युक्तं भवति । प्रकारान्तरेण साम्यमुपपादयति ॥
?R
त्वगिन्द्रियेति ॥ अहंकारस्त्रिविधोवैकारिकस्तैजसस्तामसश्ऱ्चेति । तत्र वैकारिकापरपर्यायसात्विकाहंकारात् "" ?R
दिग्वातार्कप्रचेतोश्ऱ्विवह्नीन्द्रोपेन्द्रमित्रका ''
इत्युक्तादशेन्द्रिय देव उत्पन्नाः । "" ?R
वैकारिकान्मनोजज्ञेदेवावैकारिकादशे ''
तिपूर्वशेषात् । तदनन्तरं तैजसादिन्द्रियाणि तामसाद्भूतानीति तत्वम् । तथाच त्वगिन्द्रियदेवतात्वेन आकाशात्पूवर्मेववायोः सात्विकाहंकारजन्यत्वात् "" ?R
आदिसृष्यौपूर्वजायेतेधिकाः सर्वतोगुणै ''
रित्युक्तरीत्या आकाशाद्वायोगर्ुणाधिक्यम् । तथाप्यात्मन आकाशः सम्भूत इति भूतोत्पत्तिप्रकरणे आकाशस्यपि तृत्वाद्भूतान्तर्गतरूपेण वाय्वपेक्षयाव्याप्त्याधिक्याच्चसाम्यमिति भावः । पूर्वं वायुशब्दप्रवृत्तिनिमित्तबलादाधिक्यं वायोरुक्तमाकाशस्य भूतसृष्यौ कालज्यैष्ठयं सम्योपपादकं अधुनात्वादिसृष्यौ जत्वयुक्त्यासर्वैगर्ुणैराधिक्यं वायोराकाशस्यत्वाकाशशब्दप्रवृत्तिनिमित्तेन सम्मतात्काशमानलक्षणेन व्याप्त्यागुणेनभूतसृष्यौ पितृत्वेन मान्यतयाचाधिक्यमिति साम्यमुच्यत इति भेदः । नन्विन्द्रियदेवतात्वेन वायोः सात्विकाहंकारादाकाशापेक्षयापूवर्जत्वेन गुणाधिक्येघ्राणाभिमानिनोरश्ऱ्विनोर्दिगभिमानिकुबेरस्य पादमानिनोजयं तस्य च विघ्नेशादुत्तमत्वं स्यादिति चेन्न । रूपविशेषेऽश्ऱ्विकुबेरयोर्विघ्नेशात्कालज्यैष्ययेपि रूपविशेषेतदपेक्षयाविघ्नेशस्य व्याप्त्याधिक्येन देशज्यैष्ठयसद्भावेन तयोः स्वरूपसाम्यस्योपपत्तेः । जयं तस्यतु "" ?R
पाददेवोजयन्तोन्य ''
इत्युक्तत्वेन पादनियामकोपेन्द्रशेषत्वेन पश्ऱ्चाज्जन्मसम्भवति । इन्द्रियदेवोत्पत्तिदशायां तूपेन्द्रस्यैवाभिव्यक्ति सम्भवात् । अत एव भागवते उपेन्द्रग्रहणं कृतम् । समानमेनयोरत्र पितुश्ऱ्चपुत्रस्य चेति वाक्यस्थं अत्रेति पदमनूद्य व्याचष्ये ॥ अत्रेति ॥ पितापुत्रयोरिति ॥ तत्पक्षयोरित्यर्थः । अत्रेति विशिष्योक्त्याव्यावर्त्यमाह ॥ अन्यत्रेति ॥ ननु पूर्वोत्तरवर्णदेवताविषयेपुत्रपक्षोबलीयानिति न युक्तम् । तथाहि ॥ किमस्य वराहादि वर्णप्रतिपाद्यदेवताविषय इत्यर्थः । उत उमावैवाक्समुद्दिष्यामनोरुद्र उदाहृत इति सूत्रभाष्योक्तरीत्यावाङ्मनसनामकयोरुमामहेश्ऱ्वरयोः पूवर्ोत्तरवर्णाभिमानिदेवतात्वं विषय इति । नाद्यः । ॠषिमतद्वयेवराहादीनामेवपूर्वोत्तरवर्णप्रतिपाद्यदेवतात्वेन तत्र प्राबल्यदौर्बल्याभावात् । नापि द्वितीयः । वाङ्मनसशब्दवाच्ययोरुमामहेश्ऱ्वरयोरुभयोरपि मतद्वयानुसारेण पूर्वोत्तरवणर्ाभिमानिदेवतात्वोपपत्तेः पुत्र पक्षस्य तद्विषयेप्राबल्यायोगात् । नहि वाक् प्रभृतेर्मनोधीनत्वयुक्तिर्मनस एव पूर्ववर्णाभिमानित्वं नवाचः वाच एवोत्तरवर्णाभिमानित्वं न मनस इत्यत्र साधिकाभवत्यप्रयोजकत्वात् । तत्कथमेतदिति चेन्न । अन्यत्रेति भाष्यस्य तट्टीकायाश्ऱ्चपूर्वोत्तरवणर्ाभिमानिदेवतायोर्गुण प्रधानभावोविषय इत्यर्थाङ्गीकारेण बाधात् । तथा हि । तत्र हि वाङ्मनसयोरुमारुद्रयोः पूर्वोत्तरवर्णाभिमानिदेवतात्वविषयेगुणप्रधानभावेचमुनिमतविवद उच्यते । तत्र वर्णदेवतात्वविषयेतूक्तयोः साम्यमन्यतरपेक्षेविशेषयुक्त्याभावेनोत्तरयोरप्युभयवर्णाभिमानित्वोपपत्तेः । गुणप्रधानभावेतु पुत्रपक्ष एव बलीयान्युक्तिमत्वात् । नच वाचोमनोधीनत्वेपि देवतया कुतस्तदिति वाच्यम् । अचेतनस्यान्योन्यवशत्वस्यदेवतानिमित्तत्वादिति । नन्वेवं वाङ्मनसयोः पूर्वोत्तरवर्णाभिमानिदेवतात्व विषयेमतयोः साम्ये समानमेनयोरत्र पितुश्ऱ्चपुत्रस्य चेत्युपनिषद्वाक्यं भाष्ये अत्र प्राणाख्यस्य प्राणेस्थितस्य विष्णोः संहितानामत्वे पितापुत्रयोः साम्यमेवेति प्राणस्थस्य संहितानामकत्वामात्रे साम्यपरतया कथं व्याख्यानमिति चेन्न । वाङ्मनसयोर्वर्णाभिमानि देवतात्वविषये उक्तरीत्यासाम्यं सिद्धवात्कृत्यसंहिताविषयेपि साम्यमित्येवं परतया व्याख्यातत्वात् । अत एवन्यायविवरणेवाक्पूर्वरूपं मन उत्तररूपमिति वाच;
पूर्ववर्णदेवतात्व निर्देशमात्रेणमनः पूर्वरूपमित्यनेन साम्यम् । "" ?R
मनसावा अग्रेसङ्कल्पयत्यथवाचाव्याहरती ''
ति युक्तितोविशेषोमनःपूर्वकत्वस्यैव श्रुत इति प्राधान्यं मनस एव हि ज्ञायत इत्यादिनासमानमेनयोरिति वाक्यं पितापुत्रयोर्मतमत्र वाङ्मनसयोः पूर्वोत्तरवर्णाभिमानिदेवतात्वविषये समानमिति व्याख्यातम् । स्पष्यञ्च वाङ्मनसीत्यधिकरणेतत्वप्रकाशिकायाम् । अत्र खलु वाक् पूर्वरूपमित्यादिना वाङ्मनसयोः पूर्वोत्तरवर्णदेवतात्वे गुणप्रधानभावेच मुनिमतविवाद उच्यते । तत्र वर्णदेवतात्वविषयेतूक्तयोः साम्यमन्यतरपक्षेषादर्शनात् । नच तत्र व्यामिश्रतापि । उभयोरपि वर्णदेवतात्वोपपत्तेः । गुणप्रधानभावेतु साम्यमेवनास्ति । "" ?R
मनसावा अग्रेसङ्कल्पयत्यथवाचाव्याहरती ''
ति युक्त्यामनःपूर्वकत्वस्यैवविशेषश्रवणादिति । ननु तत्पूर्वकत्वाद्वाच इत्यधिकरणे वाङ्मनसाभिमानिनोरुमामहेश्ऱ्वरयोः कार्यकारणभावे इदं वाक्यमुदाहृतम् । तत्कथं भगवद्रूपाणशं पूर्वापरवर्णसन्धिप्रतिपाद्यत्वमत्र व्याख्यायत इत्येतदप्येतेनैव निरस्तम् । वर्णप्रतिपाद्यभगवद्रूपाधिष्ठनयोरुमामहेश्ऱ्वरयोर्गुणप्रधानभावोपपादकतया पूर्वरूपादिपदेन कार्यकारणभावस्याप्युपनिषदभिप्रेतत्वेनाविरोधात् । अत एव तत्वप्रकाशिकायां "" ?R
अत्रपूर्वोत्तरशब्दौकार्यकारणपरा ''
वित्युक्तमित्यलं विस्तरेण । स एषोश्ऱ्वरथ इत्यत्र मनोवाक् प्राणस्थेन तन्नामकेनविष्णुनासंहितः बद्धः स एष
?R
देहाख्यइन्द्रियाश्ऱ्वयुक्तो रथ इत्यन्वयमभिप्रेत्य व्याचष्ये ॥ मन इति ॥ वक्तृत्वाच्चैववाङ्नामेति स्मृत्युक्तार्थेश्रुतिमुदाहरति ॥ प्राणिन्निति ॥ कर्मनामानि प्राणनवचनादिक्रियाप्रवृत्तिनिमित्तकानिनामानि । स्वर्गलोक शब्दस्यमुक्तिपरत्वेयुक्तिमुक्त्वासमाख्यास्मृतिं दर्शयन् फलवाक्यं व्याचष्ये ॥ मुक्त इति ॥ य एवमेतां संहितां संहितानामकं हरेरूपं वेद सः प्रजयाप्रकृष्यज्ञानैः पशुभिः वेदै ब्रह्मवर्चसेन विष्णूत्थतेजसा सन्धीयते युक्तः स्यात् । स्वगर्ेण लोकेन च सन्धीयते मुक्तःस्यात् सर्वमायुरेति नित्यायुषाच युक्तः स्यादित्यर्थः । प्रज्ञादि शब्दानामुक्तार्थेषुनिरुक्तिं दर्शयति ॥ प्रकृष्यत्वेनेत्यादिना ॥ विष्णोर्वरणादिति कर्तरिषष्ठी । मदीयोयमिति विष्णुनाभक्तत्वेन स्वीकृतत्वादित्यर्थः । कर्मणिवाषष्ठी । विष्णुभजनेनेत्यर्थः । चायितं उपचायितं वधितम् । नान्तरीयफलतया प्रसिद्धप्रजादिकमत्रोच्यत इत्याह ॥ लौकिकेति ॥ इति नुमाण्डूकेयानामित्येत द्वयाचष्ये ॥ माण्डूकेयैरिति ॥ 1
॥ 27
॥ अथेति पूर्वमताद्वैलक्षण्यद्योतकः । विद्योच्यत इति शेषः । पृथिवी पृथिवीनामकं तद्गतं वासुदेवाख्यं रूपम् । द्यौर्दिविस्थं द्युनामकं सङ्कर्षणाख्यम् । वर्षणाद्वृष्यिनामकोवृष्यौस्थितः प्रद्युम्नःसन्धिः संहितादेवता । परं सत्यादिकं जनयतीति पर्जन्यनामापर्जन्यस्थोनिरुद्धः सङ्घाता उच्चारयितृपुरुषस्थः । वृष्येः सन्धित्वं पर्जन्यस्य सङ्घातृत्वं लोकप्रसिद्धमित्युच्यते । तदुतेति ॥ यत्र यदा । एतत् एषपर्जन्यः । बलवदनूद्गृह्णन् बलवद्यथाभवति तथा अनुवर्षकालानुसारेण । उद्गृह्णन् उद्गर्जन्नपि । अहोरात्रेसन्दधत् सम्मेलयन्नुत सम्मेलयन्नपि वर्षति । तत्तदाद्यवापृथिव्यावपि समधातां सन्धिते अभूतामित्याहुरुत आहुःस्म तस्माद्वृष्यिःसन्धिःपर्जनयःसन्धातेति भावः । इतिनु इत्थं ह्यधिदैवमुपासनम् । अथाध्यात्मं पृथिव्यादीनां तदधिष्ठान कसंहितारूपाणामधिष्ठानमुच्यते । अयं सर्वः पुरुषः समग्रःपुरुषदेहः । आदं एकोवयवी । तस्य देहस्यद्वेविदले द्वौपूर्वोत्तरभागौभवत इत्याहुः । तस्येदं पादादिकटिपर्यन्तं पूर्वार्धमेव पृथिव्यारूपं सरूपम् । पृथिवीदेवतायाः प्रतिमाभूतञ्च पृथिवीनामकस्य वासुदेवस्यापि प्रतिमाभूतञ्च । इदं नाभ्यादिशिरः पर्यन्तम् । दिवो द्युलोकस्य रूपं सरूपं समानम् । द्युदेवतायास्तद्गतस्य तन्नामकस्य सङ्कर्षणस्य च रूपं प्रतिमाभूतञ्च । एतेन शरीरस्य पूर्वार्धं पूर्वरूपमुत्तरार्धमुत्तररूपमित्युक्तं भवति । उपलक्षणमेतत् । वाचोवृष्ययासाम्यम् । वृष्यिदेवतायाः प्रद्युम्नस्य च वाच्यवस्थानं शरीरगतस्यात्मन उच्चारयितृपुरुषत्वेन तस्य पर्जन्येन साम्यं पर्जन्यस्य तद्गतस्यानिरुद्धस्यात्मन्यवस्थानं चोक्तम् वाक् सन्धिः आत्मासङ्घातेति च द्रष्यव्यम् । साम्यमेवप्रपञ्च्यते । तत्रायमित्यादिना ॥ यथाद्यावापृथिव्यावन्तरेण द्यावापृथिव्योर्मध्ये । असावाकाशस्तत्र अकाशाभिमानीदेव आकाश नामानृसिंहोप्यस्ति । तथा तत्र देहेन्तरेण पूर्वोत्तरार्धयोर्मध्ये । अयमाकाशोवर्तते तत्राकाशे असावाकाश आकाशाभिमानीदेवयस्तन्नियामको नृसिंहश्ऱ्चास्तीति योज्यम् । यथाऽमुष्मिन्बाह्याकाशेवायुस्तदभिमानीदेवोवायुनामादाशरथिश्ऱ्चास्ति तथा तस्मिन्हस्मिन् तस्मिन्नस्मिन्नन्तराकाशे । प्राणोवायुरायत्तो वतर्ते । तस्मिन्नप्राणे वायुः बाह्यवाय्वभिमानीदेवस्तन्नामादाशरथिश्ऱ्चयत्त इति योज्यम् । यथा द्वयादिष्वमूनित्रीणि ज्योतींष्यादित्यादीनि तन्नामकानि तत्स्थानिकपि लादीनि वर्तन्ते तथा पुरयुषदेहे इमानि त्रीणिज्योतींषिचक्षुरादीनि । तस्यैवविवरणम् ॥ यथासौदिवीत्यादि ॥ यथासौदिव्यादित्यस्तन्नामातद्गतः कपिलश्ऱ्च एवं शिरसीदं चक्षुर्नामासूर्यः कपिलश्ऱ्चात्रास्ति । यथा सावन्तरिक्षेविद्युत्तन्नामातद्गतोहंसः एवमात्मनि मध्यदेहे । हृदयं मनः हृदयनामाविद्युद्देवोहंसश्ऱ्चास्ति । यथा पृथिव्यामयमग्निस्तद्देवस्तन्नामाजामदग्न्यश्ऱ्च एवमुपस्थेरेतोस्तितन्नामाग्निर्जामदग्न्यश्ऱ्चेत्यर्थः । एवं साम्यमुपपाद्योपसंह्रियते ॥ एवमिति ॥ एवमुह एवमेवखलूक्तप्रकारेणैव । पृथिव्यादिकं सर्वलोकमनु तदानुरूप्येणात्मानं स्वशरीरं विधायेदमेवपृथिव्यारूपमिदं दिव इति शाकल्य आहस्मेत्यर्थः । स एवमेतामित्याद्युक्तार्थं ॥ अथ शाकल्यस्येत्यत्राथेति सूचितं पूर्वमताद्वैलक्षण्यं वक्तं पूर्वमतमनुवदति ॥ वराह इति ॥ न तत्र पूर्वरूपादिशब्देन कार्यकारणभाव उक्त इति भावेनोक्तम् ॥ सनातनमिति ॥ अथ शाकल्यस्येत्यादि व्याचष्ये ॥ शाकल्य इत्यादिना ॥ शाकल्यस्तु भूमिद्युवृष्यिपर्जन्यनामना उर्व्यादिषुसंस्थितंवासुदेवादिरूपिणं चतुर्विधं विष्णुं तेषु पूर्वोत्तरवर्णमध्येषूच्चारकेच स्थितमाहेत्यन्वयः । अथाध्यात्ममित्येतद्वयाचष्ये ॥ उर्व्यादीनामिति ॥ आहेति सम्बन्धः । अध्यात्मं देहे । उर्व्यादीनां चतुर्णान्तद्गतरूपाणाञ्चावस्थानमुच्यत इत्यर्थ इति भावः। इदमेवपृथिव्यारूपं सरूपं सममित्याद्यर्थमभिप्रेत्येदमेवपृथिव्यारूपमित्यादि व्याचष्ये ॥ अधरार्धस्येत्यादिना ॥ मूलमुपलक्षणमित्यभिप्रेत्य
?R
ोक्तं वाच इत्यादि ॥ इदमेवपृथिव्याः पृथिवीनियामकस्य वासुदेवस्य रूपं प्रतिमेत्यर्थान्तरमुक्तम् ॥ विष्णोरिति ॥ चतुरात्मनोविष्णोस्तु विशेषेण नियामकत्वेन येष्वधरार्धादिषुतद्गतदेवेषु च स्थितिमित्यर्थः । देहेयमाकाशस्तत्रासावाकाश इत्यस्यार्थः । आकाशस्येति ॥ आकाशस्याभिमानिनः अन्तराकाशे संस्थितिमत्र नृसिंहस्य आकाशाख्यस्य संस्थितिमित्यर्थः । अस्मिन्प्राणेवायुरायत्त इत्यस्यार्थोवायोरिति ॥ प्राणात्मतां प्राणान्तर्गतत्वं । दाशरथेः वाय्वाख्यस्य । शिरसीदं
?R
चक्षुरात्मनिहृहयमुपस्थेरेत इत्यस्यार्थः सूर्येति ॥ लक्षुर्हृदयरेतोनामकानामिति योज्यम् । तेषु दृगादिस्थेषुसूर्यादिषुचक्षुरादिनाम्नः संस्थिं वदति शाकल्यः । स य एवमित्यादेस्तात्पर्यं विद्येयमपिमोक्षप्रदायिनीति ॥ प्रागनिरुक्तान् शब्दान्निर्वक्तिवर्षणादित्यादिना ॥ परं सस्यादिकम् । "" ?R
जननात्परसत्यादेः पर्जन्यः ''
इति वचनात् । सन्धिनोतीत्यस्यपुष्णातीत्यर्थं तन्मूलधातुव्याख्यानपठनेन दर्शयति ॥ धिन्विति ॥ वृष्यिः सन्धिरित्यत्र वृष्यिपदस्य वर्षणाक्रियावाचित्वं वृष्यमाणोदकवाचित्वञ्च सन्धिपदस्य च सन्धानं संन्धिरिति क्रियावाचित्वं सन्धीयत इति सन्धिरिति विषयवाचित्वं चास्ति । प्रकृते विवक्षितमर्थमाह ॥ वर्षणमिति ॥ वृष्यिरिति वर्षणं सन्धिरिति सन्धानाक्रियेत्यर्थ इति भावः । क्रियावाचित्वे ज्ञापकमाह ॥ पर्जन्य इति ॥ पर्जन्यः सन्धातेत्युत्तरवाक्येपर्ज्यन्यस्थस्य हि क्रियाकर्तृत्वमुच्यते अतः पूर्वं क्रियोज्यत इत्यर्थः । यद्वाद्यावापृथिव्यौसमधातां सन्धिते अभूतामित्ययुक्तम् । व्यवहितत्वेन संयोगघटकावान्तरक्रियाभावादित्यतो7
वर्षणमेवसन्धानक्रियेत्याह ॥ वर्षणमेवेति ॥ कुतो वर्षणं सन्धानक्रियेत्यतः पर्जन्योयदावर्षति तददाद्यावापृथिव्यौसमधातामिति पजर्न्यस्थस्य संयोगघटकवर्षणलक्षणसन्धानक्रियाकर्तृत्वेन निर्दिष्यत्वादित्याह । पर्जन्यस्थ इति ॥ 2
॥ (28)
एवं विष्णुनाम्नितद्वयाख्यारूपवेदादिषु च पुर्वोत्तरवर्णसन्धिविषयाविद्योक्ता । अधुनासंहितापदक्रमविषयादिद्याच्यत इत्युच्यते ॥ अथेति ॥ अथ पूर्वोत्तरर्णसन्धिविषयविद्योपदेशानन्तरम् । शिष्याणामधिकारसम्पत्त्यनन्तरं वा । निर्भुजं संहिता । तन्मूलत्वेन पदक्रमावपिनिर्भुजम् । तद्विषयाः प्रवादाः प्रकृष्याविद्या उपदिश्यन्ते । निर्भुजं संहिताख्याम् । पृथिवीस्थितं पृथिवीनामकवराहविषयम् । प्रतृण्णं पदम् । दिविविद्यमानस्तन्नामकोयावामनस्तद्विषयम् । उभयमन्तरेण क्रमः । अन्तरिक्षगततन्नामकनृसिंहविषयम् । यदिनिर्भुजं संहितां ब्रुवन्तं विष्णुभक्तं नित्यसंसार्युपवदेदपवदेन्निन्दयेदथ तर्हि अवराभ्यां भूम्यन्तरिक्षाभ्यां स्थानाभ्यामच्योष्ठाः च्युतोसीत्येनं ब्रूयात् । अधीयान इति शेषः । यदि प्रतृण्णं वदन्तमुपवदेत् अथ तर्ह्युत्तराभ्यामन्तरिक्षद्युभ्यां स्थनाभ्यामच्योष्ठा इति ब्रूयात् । यस्तूभयमन्तरेण क्रमं आह अधीते तस्योपवादोनास्त्येव । क्रमाध्येतृनिन्दस्य त्रैलोक्यादधोनिरयेदुः स्वातिशयलक्षणानर्थफलत्वात्तन्निन्दकोनास्तीत्यभिप्रायः । ब्राह्मणस्य हन्तानास्तीत्यादिवत् । निर्भुजादिस्वरूपमुच्यते ॥ यद्धीत्यादिना । पूर्वोत्तरवर्णयोः सन्धिं विशेषणवर्तवयत्यभिव्याहरतीति यत्तत्संहिततयोच्चार्यमाणं निर्भुजस्यरूपम् । भुजो भङ्ग इति धातोः भञ्जनवर्जितत्वात् । अथ शुद्दे असंश्लिष्ये अक्षरे अभिव्याहरतीति यत्तदुच्चार्यमाणं शब्दतत्वं प्रतृण्णस्य रूपम् । तृणछेदन इति धातोः । उभयमन्तरेण क्रमस्तु । अग्रेस्तु । अग्रेउ । अतिशयेनाग्य्र एव कुतः । उभयं संहितापदञ्चेत्युभयं अनेन व्याप्तं भवति । उभयमन्तरेण मध्येनिधायतद्गर्भतया प्राप्तत्वात्क्रम उभयमन्तरेणेत्यर्थः । फलतारतम्येनसंहितादीनामध्ययनेतारतम्यमुच्यते ॥ अन्नाद्यकाम इत्यादिना ॥ मुक्तावन्नाद्यं यद्भोग्यं तत्कामोनिर्भुजं ब्रूयात् । स्वर्गकामोक्षकामः । उभयकामः । मुक्तितद्गतभोगकामः । यदि निर्भुजं ब्रुवन्तमधीयानं परश्शत्रुः विष्णुवैष्णवद्वेष्यसुरप्रकृतिस्तमोयोग्यः उपवदेदपवदेन्निन्दयेदथ तर्हि पृथिवीन्देवतां संहिताप्रतिपाद्यां वराहाख्यां आरः निन्दयाप्राप्तोसि । तस्त्पृथिवीदेवतात्वारिष्यति नाशयिष्यति तमसिपातयिष्यतीत्येनं प्रति ब्रूयात् । एवमथयद्येनं प्रतृण्णमित्यादि व्याख्येयम् । दिवं देवतां वामनम् । अन्तरिक्षन्देवतां नृसिंहम् । ननु संहिताध्येत्राविष्णुभक्तेन तमोयोग्येनिन्दकेशप्तेतत्तथाभवति किमित्यतो भवत्येवेत्युच्यते । यथातु कथाचेति ॥ य एवं विद्ब्रुवन् संहिताधिकमधीयानो । वाशब्दादब्रुवन्वा । यथातु कथाच लोकेयथा तु कथावाक्य प्रम्बन्धः । तथा प्रम्बन्धरूपेण ब्रुवन्तं निन्दां कुर्वन्तम् । यद्वा । यथातु कथा यथा कथञ्चिद्येन केनापि प्रकारेण । निन्दां कुर्वन्तं प्रकारान्तरेण कोपविषयं वाप्रतिच्छयरूपं वाक्यं ब्रूयात् तदुक्तमस्याभ्याशः शीघ्रमेव तथास्यात् । शापरूपं तद्वचनं नमोघं स्यादिति भावः । शापविषयत्वञ्च नित्यसंसारितमोयोग्ययोरेव न मोक्षयोग्यस्येत्युच्यते ॥ नत्वेवेत्यादिना ॥ ब्राह्यणं ब्रह्मप्रप्तियोग्यं प्रतिकुशलादन्यदकुशलं शापरूपं वचनं न ब्रूयात् । तत्रापवादउच्यते ॥अतीति ॥ द्युति स्वरूपत्वात् द्युम्नो भगवान् । तदाज्ञामिति वर्तत इत्यतिद्युम्नः । ब्राह्मणे भगवदाज्ञाति वर्तिनिसत्येवतं ब्राह्मणं प्रतिलोकच्युतोसीत्येवं शिक्षारूपेण ब्रूयात् । नतु भगवदाज्ञानुवर्तिनम् । चनशब्दोप्यर्थः । ब्राह्यणे अतिद्युम्नेचन । अतिद्युमने भवत्यपि लोकच्युतोभवेति ब्राह्मणं प्रतिशापरूपं वचनं न ब्रूयादित्यर्थः । प्रत्युत ब्राह्मणेभ्योमोक्षयोग्येभ्योनमोस्त्वितिशूरवीरोमाण्डूकेय आहस्मेत्यर्थः ॥ 3
॥ (29)
अत्र निर्भुजादिपदानामर्थाप्रतीतेर्निर्भुजं पृथिव्यायतनं पृथिव्या आश्रय इत्यन्यथाप्रतीतेश्ऱ्चप्रमाणेन व्याचष्ये ॥ पृथिवीस्थ इत्यादिना ॥ एतेन पृथिवीनामकोवराहः आयतनं विषयो यस्येति वा पृथिव्या अयतनं प्रतिपादकतया आश्रय इति वार्थ इत्युक्तं भवति । दिव्यायतनमित्यत्र दिवीत्यधिकरणसप्तमीति भावेनोक्तं दिविष्ठ इति ॥ अथ यद्येनं निर्भुजमित्यादि
?R
नानिन्दकस्यानर्थोक्त्यानिन्दानकार्येति विधिर्गम्यत इति भावेनाह ॥ स्वाध्यायमिति ॥ प्रतिपाद्यरूपाज्ञानिनोनिन्द्यत्वादुक्तम् ॥ एवं ध्यात्वेति ॥ अच्योष्ठा अवराभ्यामित्यादेस्तात्पर्यमाह ॥ तस्येति ॥ निर्भुजप्रतृण्णामध्येत्र पवदितालोकद्वयात्प्रच्याव्यते यस्तु क्रमपाठनिन्दकः सलोकत्रयादधोनिरयेनाशन्दुःखमाप्नोतीति योज्यम् । नत्वेवान्यत्कुशलाद्ब्राह्मणं ब्रूयादित्यस्य तात्पर्यमाह ॥ गच्छसीति ॥ ब्राह्मणश्ऱ्च न प्रथमवर्णोत्रविवक्षित इत्याह ॥ ब्रह्मेति ॥ संहितादौनिर्भुजादिशब्दान्निर्वक्तिः ॥ भञ्जनेत्यादिना ॥ संहितापदोभयगर्भत्वात्क्रम उभयमन्तरेणेति स्फुटत्वान्नोक्तम् । ननु संहिताविषयविद्याप्रतिपादनं प्रतिज्ञायपदक्रमविषयविद्याप्रतिपादनमसङ्गतमित्यत आह ॥ निर्भुजमूलत्वादिति ॥ निर्भुज ज्ञनाधीनज्ञानत्वादित्यर्थः । यद्वा तदाश्रितत्वादित्यर्थः । पदादीनामिति ॥ पदक्रमजटानामित्यर्थः ॥ "" ?R
संहितापठतः प्रोक्तं द्विगुणं पदपाठतः ॥ त्रिगुणं क्रमपाठेस्याज्जटापठेतु षड्गुणं ॥ महाभारतपाठस्तु वेदतुल्यः प्रकीतिर्तः ॥ ''
इति वराहपुराणे चातुर्मास्यमाहेत्म्येदशमाध्यायेकथितत्वात्क्रमान्तर्भावविवक्षयापृथग्देवताद्यनुक्तिः । पृथिव्यादिशब्दस्य "" ?R
पृथिवीनामकं रूपं पृथुत्वात्पृथिवीस्थित ''
मित्याद्युक्तार्थं स्मारयति ॥ पृथिवीस्थितेति ॥ लोक चतुष्ययाभावादवराभ्यामुत्तराभ्यामिति कथमित्यतस्तसद्घटयन् व्याचष्ये ॥ अवराभ्यामिति ॥ तस्य नास्त्युपवाद इत्यस्य क्रमस्वाध्यायकर्तुर्निन्दक एव नास्तीति प्रतीतेस्तात्पर्यमाह ॥ क्रमेति ॥ तस्मानर्थफलत्वेन तन्निन्दनस्यातिदुष्यत्वादित्यर्थः । अतिदुष्यत्वेनाभावव्यपदेशे उदाहरणमाह ॥ तं कृष्णमिति ॥ जरासन्धादौकृष्णेन युध्यतिसत्यपि तेन सहयुद्धस्यानर्थफलहेतुत्वेनातिदुष्यत्वेनाभावव्यपदेशोयथातथेत्यर्थः । अथ यद्येनं निर्भुजं वदन्तमुपवदेदच्योष्ठश इत्यादिना पर उपवदेदित्यादीनां पौनरुक्त्यं परिहरति ॥ उपवदेदित्युक्त इति ॥ कुतस्तस्यासुरत्वमित्यतः परशब्दादित्याह ॥ सर्वेति ॥ फलभेदश्रवणाच्चनित्यसंसारितमोयोग्यलक्षणाधिकारिभेदेनापौनरुक्त्यमिति भावेनोभयत्र फलवाक्यं प्रमाणेन व्याचष्ये ॥ अमुक्तियोग्यैरिति ॥ रिष्यतीत्यस्यार्थोनाशयिष्यतीति ॥ तस्य विवरणमन्धेतमसीति ॥ "" ?R
अथ च दैत्यहतिः तमसिस्थिरानियतसंस्थितिरेव नचान्यथे ''
ति वचनात् । ननु परोन्योयः कोपीत्यर्थः किं नस्यादित्यतस्तथात्वे नातिद्युम्नेच न ब्राह्मणं ब्रूयादित्युपसंहारविरोध इति भावेन तत्तात्पर्यमाह ॥ नत्विति ॥ यद्धि सन्धिं विवर्तयति तन्निर्भुजस्य रूपमित्याद्युक्तं संहितादिस्वरूपं लक्ष्यविष्णुनामनिष्ठतया दशर्यति ॥ षणयोरित्यादिना ॥ णकारं केचिदुत्तरमिति प्रागुक्तेर्विष् इति पूर्वोवर्णः णुरित्युत्तरोवर्ण इति पक्षेषकारणकारयोः सन्धिकरणात् विष्णुरिति संहिताध्ययनं भवेत् । यथाग्निमील इत्यत्राग्निम् इति मकारस्य ईकारस्य च संश्लिष्यतयोच्चारणे अग्निमील इति संहिताध्ययनं तथेति भावः । योविष्णुरिति षकारणकारावसंश्लिष्यतया ब्रूयात्सपदाध्यायी भवेत् । यथाग्निम् ईल इति मकारेकारावसंश्लिष्यतया ब्रुयात्सपदाध्यायी भवेत् । यथाग्निम् ईल इति मकारेकारावसंश्लिष्यतया ब्रुवन्पदाध्यायीतथेति भावः । अत एव यच्छुद्धे अक्षरे अभिव्याहरतीत्युक्तम् । असंहितादशायामिति यावत् । ष्णुरित्युशुद्धं संश्लिष्यत्वात् । पदकालेमकारेकाराविवषकारणकारौशुद्धौ भवत इति ज्ञातव्यम् । क्रमेणतु विष्णुरिति षकारणकारयो;
सन्ध्युक्तिः णुरिति विभाग इति द्वयं व्याप्तं तस्माद्द्विधावचनात् विष्णुः णुः इति वचनात्सः क्रमाध्यायीभवेत् । अथा अग्निमीले ईलेपुरोहितमिति मकारेकारयोः सन्धिं ईकारस्य विभागञ्च वदन् क्रमाध्यायी तथेति भावः। ननु संश्लिष्ययोरुत्तरमादायतदुत्तरेण संयोजनेहिक्रमः । यथा मकारेकारयोः संश्लिष्ययोर्मध्ये उत्तरईकार उत्तरप्रदेसम्बध्यते । कथमद्यक्रमलक्षणलक्षितत्वम् । उक्तञ्च प्रातिशाख्ये । "" ?R
क्रमोद्वाभ्यामतिक्रम्यप्रत्यादायोत्तरं तयोः । उत्तरेणोपसंदध्यादथाधर्र्चं समापये ''
दिति चेन्न । सत्यमेतद्वत्रोत्तरमस्ति । तदभावेतत्रैवपर्यवसान सम्भवात् । यत्रतूत्तरमस्ति चतुर्थीविभक्त्यन्ते विष्णव इत्यादौ तत्रैतेनोपसन्धानमस्त्येवेति भावेनान्नाद्यकामोनिर्भुजं ब्रूयादित्यादि व्याख्यानमिषेणविष्णवेनम इति मन्त्रे संहितादिकं दर्शयति ॥ भोगवृद्धिमिति ॥ भोगवृद्धिं भोग्यपूर्तिम् । यद्वा आनन्दानुभववृद्धिम् । अन्नाद्यन्तद्वयञ्जकमिति भावः । अलं बुद्धिगोचरप्रचुरतरानन्दस्य लिङ्गशरीरनिवृत्त्याब्रह्मप्राप्तिलक्षणमोक्षेण लाभादस्य तत्रत्यकादाचित्कभोगवृद्य्िपेक्षयंकित्वात्पदाध्ययन फलत्वं बोध्यम् ॥ द्वयकाम इति ॥ तदुभयकामः विष्णवे इति द्वयं उभयगर्भं क्रमं वदेदित्यर्थः । एवंविष्णुनामसंहितादिविषयत्वेनेमं प्रकरणं व्याख्यायवेदसंहितादिविषयत्वेनापि व्याख्याति ॥ विष्ण्विति ॥ विष्णुनामात्मकत्वात् तद्वयाख्यानत्वात् । मोक्षश्ऱ्चतद्भोगश्ऱ्चद्वयञ्चेति विग्रहः । तज्ज्ञानां संहितादि प्रतिपाद्यभगवत्परिज्ञानिनाम् । नन्वपरोक्षज्ञानात्पूर्वभाव्येवं ज्ञानपूर्वं संहितापदक्रमाध्ययनमपरोक्षद्वारामोक्षकारणम् । उत्तरं त्वानन्दातिशयसाधनम् । तत्कथमयं भेद इति चेन्न । प्राणस्य वस्त्रबुद्धयातु भोजनोभवतः पिबन् ॥ स्वर्गेमुक्तौतदादिव्यवस्त्रभागीभवत्यलमित्यत्र पूर्वोत्तरापोशनयोर्मुख्यप्राणस्य वस्त्रबुद्धयाकरणेमुक्तौदिव्यस्त्रलाभोक्तेस्तद्वत्प्रकृतेप्युपपत्तेः विस्तृतं चैतदस्मभिरन्यत्रेत्यलम् । ब्रुवन्वाब्रुवन्तं
?R
वाब्रूयादित्यादिवाशब्दार्थकथनपूर्वं व्याचष्ये ॥ संहिताद्या इत्यादिना ॥ न ब्रुवन्तं प्रकारान्तरेण कोपविषयम् । अग्र उएवेत्यत्राग्र इत्यस्य सप्तम्यन्ततया पदविभागमुक्त्वाव्यवहितेनैवकारणेनान्वयञ्चाह ॥ अग्रएवेति ॥ अग्रे उइति स्थिते अयादेशे लोपः शाकल्यस्त यकारलोपेचाग्र इत्यत्राग्रे इति पदं भवति । उकारस्तूच्चारणार्थः अतिशयेनाग्य्रत्वमाहेति भावेन व्याचष्ये ॥ अग्रएवेति ॥ अतिद्युम्न एव ब्राह्मणं ब्रूयादित्येतद्वयाचष्ये ॥ द्युम्न इति ॥ अतिद्युम्न एवेत्येवकारव्यवच्छेद्यमाह ॥ नाज्ञास्थितमिति ॥ नातिद्युम्नेच नब्राह्मणं ब्रूयादित्यत्र ब्राह्मणे अतिद्युमनेच नातिद्युम्नेपि ब्राह्मणं ब्रूयादिति व्याहृतं अतिद्युम्नेब्राह्मणं ब्रूयादित्युक्तत्वादित्यतो व्याहतिं परिहरन्व्याचष्ये ॥ लोकच्यतोभवेति ॥ एनमतिद्युम्नमपि ब्राह्मणं लोकच्युतोभवेति शापरूपेण न ब्रूयात् तर्हि कथं ब्रूयादित्यत उक्तं विशदयति ॥ च्यत इति ॥ ननु नित्य संसारिणं प्रत्यपि “"?R
ब्रूयाल्लोकच्यतोसीती ''
ति शिक्षारूपं वचनमुक्तम् । तमोयोग्यं प्रत्यपि "” ?R
नाशयिष्यतिविष्णुस्त्वा ''
मति तादृशं वचनमुक्तम् । नतु लोकच्युतो भव तमसिपतेति शापरूपमुक्तम् । कथं ताभ्यांमुक्तियोग्यस्य विशेष इति चेन्न । नित्य संसारिणं तमोयोग्यञ्च प्रतिलोकच्युतोसिविष्णुस्त्वां तमसिपातयिष्यत्वेवनात्रसन्देह इति वचनमेव शापरूपम् । शापेपि स्वस्य स्वातन्त्ऱ्ाभावाद्भवेत्यनुक्त्वाच्युतोसिपातयिष्यतीति परोक्षवचनम् । वैष्णवं प्रतितु भगवदाज्ञालङ्घनेन लोकच्युतोभवितुमर्हसि नपुनरेवं त्वयाकार्यमिति शिक्षारूपेण वचनमिति महान् भेद इति । 3
॥ (29)
अस्य खण्डस्य पूर्वखण्डेदपौनरुक्त्यं सङ्गतिश्ऱ्चभाष्येस्पष्यीभविष्यति । अथ निर्भुजाद्युपासकस्य यस्मिन् कस्मिंश्ऱ्चिद्विषयेनिन्दायां प्राप्तायां प्रत्युत्तरप्रकारनिरूपणानन्तरं अतः प्रयोजनसद्भावात् अनुव्याहाराः आत्मनो ज्ञानसामर्थ्यानुसारेण वक्तव्याः भगवदुपासनाविषय एव प्राणनिन्दाप्रत्युत्तररुपवाग्व्यवहारविशेषा उच्यन्ते । प्राणोविष्णुर्मुख्यश्ऱ्च । वंशः । उत्तराध्याये प्राणोवंश इति स्थविरः शाकल्य इति वक्ष्यमाण प्रकारेण सर्वेषामिन्द्रिय देवानामाधारस्तथाविष्णुनामादिसर्वविद्यास्थानामूष्माद्यक्षराणामाधारभूत प्राणास्थिमज्जादिमानिति च विद्यात् उपासीत सयो यःकश्ऱ्चित्प्राणं वंशं प्रति तदुपासकमेनं त्वदुपासनं तत्प्रीति जननायनालमित्युपवदेन्निन्देत । स उपासकः शक्नुवन् समर्थोहमित्यात्मानञ्चेन्मन्येत ज्ञानसामर्थ्ययुक्तमात्मानं यदि मन्येत । देवादिश्ऱ्चेदिति यावत् तर्ह्येवं ब्रूयादहं प्राणं वंशं समधां सन्धितवानुपासितवानस्मि । प्राणं वंशं सन्दधतं मां न शक्नोषीत्याह आत्थ त्वं तस्माद्वंशः प्राणस्त्वाहास्यतीत्येनं ब्रूयात् । चेद्यदि । आत्मानमशक्नुवन्तमल्पज्ञानसामर्थ्ययुक्तं मन्येत गन्धर्वपित्रादिश्ऱ्चेदिति यावत् । अथ तर्ह्यात्मानमुपवदन्तं त्वमुपासनायां न समर्थः तयाभगवत्प्रीतिश्ऱ्चनभवतीत्यत उपासनोद्योगाव्यर्थ इति निन्दन्तं एवं ब्रूयात् प्राणं वंशं समधित्सिषंन्तं सर्वाधारं प्राणमुपासितुमिछन्तं त्प्रीत्याचसन्धितुमिच्छन्तं मां सन्धातुं त्वं नाशकः उपासनादौनशक्नोषीति वचनेन मदुपासनाविघटनोद्योगान्ममप्रीतिं कर्तुं नाशकः । अतो भक्तप्रियोवंशः प्राणस्त्वा हास्यतीत्येनं ब्रूयादित्यर्थः । यथातु कथाचेत्यादिपूर्ववद्ययाख्येयम् ॥ अथात इत्यत्र पूर्वखण्डेसदस्य विषयविभेदसूचकस्याथ शब्दस्य तात्पर्यमाह ॥ भगवदुपासकस्येति ॥ यस्मिन्कस्मिसिश्ऱ्चद्विषये उपासनातिरिक्तविषय इत्यर्थः । पृथिवीन्देवतामार इत्यादिनासंहितादिप्रति पाद्यभगवन्निन्दनोक्तिस्तु विषयान्तरेपि स्वनिन्दनस्य तदप्रियत्वात्तन्निन्दनमेवेति वा निर्भुजादिप्रवचनाकालेयत्र कुत्रचिद्विषयेचेन्निन्दाप्रागुक्ताकथं तर्हि निर्भुजं वदन्तमुपवदेदित्याद्युक्तिरित्यत आह ॥ निमर्ुजमितीति ॥ I-18
?R
अवस्थामात्रप्रदर्शनं नतु निन्दायानिर्भुजादि विषयत्वप्रदशर्नमित्यर्थः । अवस्थाया अप्रदर्शनेभगवन्निन्दनापर्यवसानादिति भावः । अनुव्याहारशब्दार्थमाह ॥ आत्मन इति ॥ प्राणवंशशब्दयोरन्यथार्थं वारयन्नतः शब्दसूचितमुपासकस्य फलं प्रमाणेन दर्शयन्व्याख्याति । सर्वेत्यादिना ॥ विष्णुनावायुनासहितं विष्णुं वायुं चापासीनमपि मामिति यावत् । नशक्नोषि तत्प्रीति सम्पादनेन शक्नोषीत्यात्तेत्यर्थः । शक्नुवंश्ऱ्चेन्मन्येतेत्यस्यार्थोज्ञानसामर्थ्यति ॥ देवादिरित्यादिपदेनाजानजांतानामंश विभागयोग्यानां ग्रहणम् । अथ चेदशक्नुवन्नित्यादेरर्थः अन्य इति ॥ तदवरदेवगन्धर्वपित्रादिरल्पज्ञानसामर्थ्योपेतः सोपि ब्रूयात् किमिति विष्णुवायुभ्यां सन्धिमिच्छन्तं मामुपासनायान्तत्प्रीति सम्पादनेपि न शक्नोषीत्यात्थ अतो मां सन्धातुं नाशकोयतोतस्तौत्वां हास्यत इति योज्यम् । ननु प्राणं वंशमुपवदेदित्युपनिषदः "" ?R
उपासकम् । निन्देते ''
ति कथं प्रमाणेन व्याख्यानमित्यतस्तद्घटयति ॥ य एनमिति ॥ प्राणमित्युद्देश्यद्वितीया । प्राणं प्रतिविद्यमानमेनमित्यस्य तात्पर्यमुपासकमिति । प्राणं प्रत्युपासकस्य परकृत उपवादः किं रूप इत्यत आह ॥ प्राणस्येति ॥ अनयोपासनया तव विष्णुप्रियत्वं न लभ्यते त्वदुपासनं तत्प्रीति जनकं न भविष्यतीत्युपवदेदित्यन्वयः । नाशकः सन्धातुनित्यस्य त्वयासन्धिमिन्तं प्राणं तं सन्धातुं नाशक इत्यन्यथाप्रतीतेः व्याचष्ये ॥ नाशक इति ॥ तस्यैव विवरणं ममेति ॥ उपासकस्य प्रीत्यकरणमात्रेण कथं प्राणप्रहापणमित्यतस्तत्र प्रमाणमाह ॥ तद्भक्तेति ॥ तद्भक्तोदेदेवादिस्तद्भक्तोगन्धर्वादिः ॥ 4
॥ (30)
पूर्वं वराहादीनां
?R
पृथिव्यादिपरिच्छिन्नाधिकरणवर्तित्वमुक्तं अधुनापूर्वोत्तरवर्णलक्षणव्याप्ताधिष्ठानत्वमुच्यते ॥ अथेति ॥ परिच्छिन्नाधिष्ठनक भगवद्विद्योतो वैलक्षण्यमस्याविद्यायाः सूचयति ॥ निभुञ्जवक्रा इति ॥ बहुवचनमाद्यर्थे । निर्भुजवक्त्राः केचिदृषयः पक्षान्तरमाहुः खलु । पूर्वमक्षरं पूर्वाक्षरस्थितं पूर्वाक्षरनामकं वराहाख्यं रूपम् । पूर्वरूपं पूर्ववर्णप्रतिपाद्यम् । उत्तरं उत्तराक्षरस्थितं तन्नामकवामनरूपं उत्तररूपं उत्तरवणर्प्रतिपाद्यम् । पूर्वोत्तररूपे पूर्वोत्तराक्षरयोरन्तरेण मध्ये यो वकाशः अवनात्काशनादवकाशनामानृसिंहह्योस्ति सासंहिता संहिताप्रतिपाद्येत्याहुरिति पूर्वेणान्वयः । स य एवमेतामिति फलवाक्यमुक्तार्थं । अथह्रस्वोमाण्डूकेयः निर्भुजवक्त्रा इति सम्बोध्य इति वयं ब्रूम इति हस्माह । किं ब्रवीपीत्येतदुच्यते । पूर्वमिति ॥ पूर्वमेवाक्षरं पूर्वरूपमुत्तरमुत्तररूपं नात्र विवादः । पूर्वोत्तररूपे अन्तरेण मध्ये योवकाशोनृसिंह उक्तः तत्स्थानेसादेवतासंहिताप्रतिपाद्यातिष्ठति । कासादेवतेत्यतोव्यास इति लक्षणमुखेनोच्यते । येनेति ॥ येन व्यासेन तदनुग्रहेण पूर्वोत्तरवर्णयोः सन्धिविशेषेण वर्तयति उच्चरति । येन चात्रायमुदात्त एव स्वरोन्योविस्वर इति विजानाति येन चात्रदीर्घोमात्रा न ह्रस्व इति मात्राऽमात्रां विभजते सासंहितेति ब्रूम इत्यन्वयः । अथ ह्रस्वमाण्डूकेयस्य प्रातिबोध्यां जातो मध्यमः पुत्र आह ॥ किमिति ॥ इमे पूर्वोत्तरे अक्षरे वराहवामनयोरधिष्ठानभूते वाक् पूर्वरूपं मन उत्तररूपं मनः पूर्वरूपं वागुत्तररूपमिति मतयोरिवाविकर्षन् । पूर्वोत्तरवर्णदेवतयोरेकत्वमप्यचिन्तयन्यथावर्णं यथोच्चरितयोर्वर्णयोर्मध्येस्थितं सन्धिप्रतिपाद्यमन्यमाह । किमिति । तद्यासौमात्रा यासामापयति त्रायति चेति मात्रानाम्नी पूर्वोत्तररूपे पूर्वोत्तराक्षररूपे पूर्वोत्तराक्षरयोरन्तरेण मध्ये सन्धिर्विज्ञापिनी ज्ञापयित्रीयस्याः सासन्धिविज्ञापिनी तत्साम । समत्वात् श्ऱ्वेतद्वीपेसर्वैर्मुक्तैः प्राप्यत्वेन वा समत्वात्सामनामकं वासुदेवाख्यं भवति प्रमाण प्रमितं भवति । अतो हंसामैव सामनामकं वासुदेवमेव संहितां संहिताप्रतिपाद्यां देवतांमन्य इत्यर्थः । तदप्येतदृषिणोक्तं वासुदेवस्य सामनामकत्वं तस्य संहिताप्रतिपाद्यत्वं च ॠषिणोक्तम् । बृहस्पते बअहतोवेदस्य पतेवायो साम्नोवासुदेवात्परः परं येन विदु;
तेभ्योब्रूहीति विद्यादेवताप्रार्थनम् । स य एवमेतां संहितां वेदेत्यादिपूर्ववत् ॥ 5
॥ (31)
पूर्ववर्णप्रतिपाद्यं न त्वधिष्ठानान्तरं मृग्यमिति तदर्थ इति भावेनाह ॥ पूर्वेवर्णेत्यादिना ॥ पूर्वोत्तररूपे अन्तरेणेत्यस्यार्थो वर्णयोरन्तरस्थितमिति ॥ योवकाश इत्यस्यावनादिति ॥ निर्भुजास्याः निर्भुजवक्त्राः । अथ वयमित्यादेरर्थस्तथावददित्यादि । मात्रासन्धिस्वरात्मकः मात्रासंन्धिस्वरविषयः । व्यासान्तरव्यावृत्त्यर्थं साक्षाद्वयासरूपीहरिरित्युक्तम् । सामशब्दं व्याचष्ये । सामोच्चारणकारणः ॥ सामनामेति ॥ मात्राशब्दं निवर्क्ति ॥ मापयतीति ॥ यथावर्णमाहेत्येतद्वयाचष्ये ॥ यथोच्चारितेति ॥ भगवानित्यनुवर्तते । एतेन यथोच्चारितवर्णयोर्मध्यस्थितं सन्धिप्रतिपाद्यं भगवद्रूपमन्यदाहेत्यर्थ उक्तो भवति । बृहस्पतेनः परः साम्न इत्येतद्वयाख्यातुमादितः पठति ॥ मान इत्यादिना ॥ यद्यपि द्वितीयाष्यकेषष्ठेध्याये मानस्तेनभ्योये अभिद्रुहस्पदेनिरामिणोरिपवोन्नेषुजागृधुः ॥ आदेवानामोहतेविब्रयोहृदिबृहस्पतेन परः साम्नोविदुरित्येवपठ्यते ।नतु येषां नैतदित्यादि । तथाप्युपवेदगतसूक्तेयेषां नैतदित्यादेः पठितत्वादर्थानुगुण्यायतस्यात्रोदाहरणं बोध्यम् । तदुक्तमृग्भाष्ये । "" ?R
मानस्तेनेति पूर्वासुह्यनतादृश्यतेऽर्थत ''
इति । ब्रह्मणोवेदस्य पतेवायो येऽभिद्रुहस्पदे अभितोद्रोहस्य नित्यदुः स्वस्यात्पर्देधेतमसिस्थातुं योग्याः निरामिणः पूर्णानन्दस्वरूपोभगवान् स्वामीति ज्ञानं येषामस्ति ते रामिणः तेभ्यो निर्गताबहिर्भूतानिरामिणः । ऐक्यज्ञानेन तन्नीचताविद इति यावत् । तत एव तस्य रिपवः । अन्नेषु भोग्येषु जागृधुः । गृधु अकाङ्क्षायाम् । भोगेष्वाकाङ्क्षावन्तः । येषामेतत्सर्वोत्तमं ब्रह्मनास्तीति पक्षः कुतस्तदीशितव्यं किञ्च न किमपि जगन्नास्ति किन्तर्हि किञ्चनैकं निर्गुणमेववस्त्वस्ति । भासमानञ्चापरं जगत्किञ्चन अनिर्वाच्यं तेभ्यस्तेनेभ्योस्मान्माब्रूहि । अथो किन्नाम । बृहस्पते बृहतोवेदस्य पतेवायो । धर्मिणो निवृत्तधमर्वन्तो ये मनुष्याः शमेन विष्णुनिष्ठयोपरतास्तस्मिन्नेवरताः साम्नो विष्णोः परं किमपि न विदुः । किन्त्वेतदेवदेवानां व्रयः वरत्वेसति नियामकं ब्रह्म हृद्याव्योहते सम्यग्वहन्ति ध्यायन्तीति यावत् । तेभ्योनः सदाब्रूहीति श्रुत्यर्थं सप्रमाणमाह ॥ अभिद्रुहइत्यादिना ॥ अभिद्रुह इत्यस्यार्थोऽभितोद्रोहस्येति ॥ तस्य विवरणं नित्येति ॥ विष्णुवैष्णवद्रोहसाध्यत्वात् द्रोहपदेन दुःखमुच्यते । "" ?R
यद्वापञ्चकष्येतिकष्य ''
इतयुक्तरीत्यापञ्चेन्द्रिय पीडासाध्यत्वाद्दुःखमुच्यत इति भावः । अभितोद्रोहस्य पदे आश्रयेतमसिद्धातुं योग्या इत्यस्यतात्पर्यमन्धतमसस्य योग्या इति ॥ अत्र पूर्वस्यामृच्यैकात्म्यज्ञानिनां कामोपहत चेतसां ब्रह्मणोनिर्गुणत्व ज्ञानिनां स्तेनत्वं तमश्ऱ्चफलमुक्तं कस्य स्तेनास्त इत्यतः शास्त्रस्य ब्रह्मणश्ऱ्चेति भावेन प्रमाणमाह ॥ ऐकात्म्यमिति ॥ एकश्ऱ्चासावात्माचैकात्मातस्य भाव ऐकात्म्यं सर्वात्मनां ब्रह्मैक्यमिति यावत् । यदैकात्म्यं नामेदमनैपुणा अविद्यमाननैपुणाः केचिद्बूयुस्तेषां तथा वचनेकिं मूलमित्यत उक्तं शास्त्रेति ॥ केवलमहं ब्रह्मास्मीत्यादिशास्त्राणां तत्वमभिप्रेतमर्थमविज्ञाय ब्रूयुः । कथमविज्ञानमात्रेणतदुक्तिरित्यत उक्तं तथेति ॥ ऐक्यप्रतिपादकसदृशो न योवाद एक विभक्तित्वादिरूपः सबलं येषान्ते तथोक्ताः । अहं ब्रह्मास्मीत्यादि वाक्यानां
?R
तात्पर्यमविज्ञायापातप्रतीत एवार्थेभ्रान्ता इत्यार्थः । सर्वेषामविद्यमानं शास्त्रतत्वापरिज्ञानादि तेषामेवकिं निमित्तमित्येतदुक्तं कामेति ॥ यथोक्तं "" ?R
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेने ''
ति । ननु "" ?R
द्वासुपर्णासयुजे ''
त्यादिशास्त्रेषुविरेधिषु सत्सु कथमैक्यं ब्रूयुरित्यत आह ॥ याथातथ्यमिति ॥ भेदपराणां याथार्थ्यमविज्ञाय शास्त्रदस्य वस्तानिशास्त्राण्यतत्वावेदकानीति मन्यमाना इत्यर्थः । एवमैक्यंमन्यमानानां ब्रह्मस्तेनानां कामादीनामागन्तुकत्वान्मूलकारणमाह ॥ निरानन्दा इत्यादि ॥ एतेनाधमानां स्वरूपयोग्यतां लक्षयति । तथापि सर्वज्ञत्वादिविरुद्धधर्माधिकरणत्वानुमानविरुद्धमैक्यं कथं ब्रूयुरत्यित आह ॥ वैगुण्यमेवेति ॥ जीवब्रह्मणोस्तत्वतोनिर्गुणत्वमेवपश्यन्तो गुणानि गुणान् । सार्वज्ञादीन्ननियुञ्जते तत्स्वरूपेण न योजयति । एवं भूतानां फलमाह ॥ तेषामिति ॥ तोगुणप्रचुरशरीराणाम् । तमो नरकविशेषः । परायणं प्राप्यमिति मोक्षधर्मेसमाख्यारूप भगवद्वचनात् एवं विधा एव शास्त्रप्रामाण्य ब्रह्मगुणापलापका एवात्र विवक्षिताः स्तेनाः । तम एव परायणमित्युक्ता एवाभिद्रुहस्पदस्थाः । ऐकात्म्यं ब्रूयुरत्यिक्तविधा एव निरामिणश्ऱ्च । तत्कथमित्यतो व्याचष्ये ॥ निरामिण इति ॥ एतेन राम एषामस्तीति रामिणोमोक्षयोग्या भगवत्सर्वोत्तमत्वविदस्तेभ्योनिर्गताबहिर्भूता भगवतो जीवैक्य ज्ञानेन जीचताविदो निरामिण इत्यर्थ उक्तो भवति । रामविरुद्धानिरामिण इति तत्वप्रकाशिकावाक्यमपि तात्पर्यकथनपरमित्यविरोधः ॥ निरानन्दा अपक्वमनसोशिवा इत्युक्तास्तेऽसुरप्रकृत य एवात्र विवक्षितारिपवः । ननु विरोधिनोहिरिपवः । कथमेतेरिपव इत्यतश्ऱ्चोक्तं त एवेति ॥ नीचताविद एवेत्यर्थः । द्वेषोऽवमताबुद्धिरित्यन्यत्रोक्तत्वादिति ज्ञेयम् । अवमन्तृणशमसुरप्रकृतित्वेप्रमाणमाह ॥ अवजानन्तीति ॥ इत्यादि वचनादवज्ञानादिविशिष्या असुरादय एव रिपव इत्यर्थः । कामक्रोधाभिभूतत्वादित्युक्ताः कामग्रस्ता एवान्नेषु जागृधुरित्युक्ता इति भावेनानूद्य व्याचष्ये ॥ अन्नेष्विति ॥ अन्नशब्देन भोग्यमात्रमुच्यत इति भावेनोक्तं भोगमात्रेति ॥ मात्र शब्दः साकल्यार्थः । यद्वा नतु ज्ञानभक्त्यादिकमित्यवधारणार्थं मात्रपदम् । न गुणानिनियुञ्जत इत्युक्ता एव येषां नैतदित्यादावुक्ता इति भावेन व्याचष्ये ॥ येषामिति ॥ निर्गुणव्यावृत्त्यर्थं सर्वेभ्यः सर्वैर्गुणैरुत्तमं वासुदेवाख्यमित्युक्तम् । कुतो नास्तीत्यतस्तद्धेतुतया नापरमित्येतद्वयाचष्ये ॥ ईशितव्य इति । ईशितव्येविद्यमाने हीश्ऱ्वो भवति । नचापरमीशितव्यं किञ्चिदिति हेतोः सर्वोत्तमं नास्तीति योजना । ईशितव्यस्वरूपस्यैवमिथ्यात्वदिति भावः । उत्तमाभावं हेतुत्वेनोपादायाधमाभावं प्राहुरित्याह ॥ नचापरं किञ्चित्परमापेक्षयाह्यपरमितीति ॥ वैग्रुयमेवपश्यन्तीत्युक्तमेवकिञ्च नैकमित्यनेनोच्यत इति भावेनावतार्य व्याचष्ये ॥ किन्तर्हीति ॥ किमपिनिर्गुणमित्यर्थः । एवकारव्यावर्त्यमाह ॥ नपरमिति ॥ परं सर्वोत्तमं सगुणं वासुदेवाख्यं अपरमीशितव्यञ्च नास्ति । ईशेशितव्यरूप प्रपञ्चस्य मिथ्यात्वादिति भावः । तेषामयं पक्ष इत्यत्र प्रमाणमाह ॥ असत्यमिति ॥ अप्रतिष्ठं प्रतिष्ठापकप्रमाणरहितम् । प्रत्युत ज्ञानबाध्यम् । ईश्ऱ्वराधिष्ठितायाः प्रकृतेर्महान्महतोहंकार इति परस्परसम्भवरहितम् । सत्यं नचेत्किं अन्यत् । सदसद्य्भामिति शेषः । परस्परसम्भूतं नचेत्किं कामहैतुकम् । काम इति कार्येण कारणमविद्योपलक्ष्यते । तद्धेतुकम् । नष्यात्मानो दुष्यचित्ताः । अल्पबुद्धयः अधिष्ठानमात्रे यथार्थबुद्धयः । येषां पक्षे एकमेववस्त्वित्येतत्प्रमापणायेश्ऱ्वरोहमित्येतदुदाहरणम् । वायुर्ब्रह्मणस्पतिरित्यत्र प्रमाणमाह ॥ अथहेममिति ॥ आसन्यं आस्येभवम् । तेभ्यो ब्रूहीत्यस्यतेभ्यः स्तेनेभ्योमाब्रूहीति पूर्वार्धेनान्वय इत्याह ॥ एतादृशेभ्य इति ॥ रिपवोद्वेषिण इत्यस्य विरोधिभूतं शमेनोपरता इत्येतद्वयाचष्ये ॥ शमेनेति ॥ येषामेतत्सर्वोत्तमं वासुदेवाख्यं ब्रह्मनास्तीत्यस्य विरोधितया साम्नोनपरः देवानां व्रय इत्येद्वयाचष्ये ॥ सम्न इत्यादिना ॥ अधिकरणस्यापि कारणत्वेन हृदीत्यस्य हृदेत्यर्थकथनम् । अत एव तत्वप्रकाशिकायां हृदिति व्याख्यातम् । व्रय इत्यस्य परतममिति तात्पर्यमुक्तं अक्षरार्थमाह ॥ वासुदेवादिरूपेणेति ॥ ये शमादियुतास्तेभ्यो न ब्रूहीत्यन्वय भ्रमं वारयितुमन्वयमाह ॥ तेभ्योब्रूहीति ॥ साम्नः परं न विदुरिति नञोन्वस्योक्तत्वादिति भावः । स्तेनेभ्योमाब्रूहि वैष्णवेभ्योब्रूहीत्यन्वयद्वये प्रमाणमाह ॥ वायुमिति ॥ सर्वासां विद्यानां प्रसिद्धं वासुदेवादिपदमपहाय सामैवाहंसंहितां मन्य इत्युक्तेरभिप्रायं प्रमाणेनाह ॥ सामनाम्नेति । यतस्तन्नाम सामनाम । संहितार्थं संहिताशब्दार्थम् । वदेत् । अत इह भगवन्नाममध्ये । तन्नामविष्णोः प्रियम् । यस्मात्प्रियं ततः सामनाम्नाश्रुतिः विष्णुमाहेति योजना ॥ इतिवचनादिति ॥ इति वचनात्सामनाम्नः संहिताशब्दार्थत्वात्संहिताशब्दार्थत्वावगमाद्विष्णोस्तस्य नाम्नः श्रुतिसिद्धत्वाच्छतिसिद्धत्वावगमाच्च । तद्रूपं संहितानामकमित्यन्वयः । तथा
?R
पि रूपान्तरपरित्यागेन वसुदेवरूपं सामनामकमिति निबर्न्धेकोविशेष हेतुरित्यस्तत्राभिप्रेतां युक्तिमाह ॥ सामनाम्न इति ॥ 5
॥ (31)
एवं भगवद्रूपयोरेवपूर्वोत्तरवर्णसन्धिदेवतात्वमुक्त्वादेवतान्तरसाहित्येनापि तदुच्यतेस्मिन्खण्डे । पूर्वोत्तरवर्णदेवतयोर्ब्रहद्रथन्तरयोर्लक्ष्मीनारायणयोः । रूपेण रूपाभ्याम् । संहिता संहितानामकरूपमर्धनारीनराकारं
?R
लक्ष्मीनारायणरूपम् । सन्धीयते तदेवसंहिताप्रतिपाद्यमिति तार्क्ष्य आह । रथन्तरस्य रथतन्तरसामप्रतिपाद्यायारथन्तरनाम्नयालक्ष्म्ाः स्वरूपम् । वाग्वै वेदात्मकत्वाद्वाङ्नामकं वाचिस्थितं वै बृहतो बृहत्सामप्रतिपाद्यस्य पूर्णत्वाद्बृहन्नामकस्य नारायणस्य स्वरूपम् । प्राणः प्रणेतृत्वात्प्राणनामकं प्राणेस्थितम् । वाचाचप्राणेनचेत्युभाभ्यां वाक् प्राणस्थाभ्यां लक्ष्मीनारायणाभ्याम् । उएव । संहितासन्धीयत इति खलु प्रसिद्धं वै । बहुशुश्रूषासाध्यत्वादतीवेयं विद्यारहस्येति भावेनोच्यहस्म । एतावन्मात्रविद्यार्थं कथं संवत्सरकालं गोरक्षणमित्यतोस्याएव परमगोप्यत्वादेतल्लाभार्थमेवेत्यवधारणेनोच्यते ॥ एतस्यामिति ॥ एतस्यां मात्रायां एतावन्मात्र विद्यालाभार्थम् । तदेतल्लक्ष्मीनारायणयोरथन्तरबृहच्छब्दवाच्यत्वम् । ॠषिणाप्युक्तम् । वसिष्ठोरथन्तरमाजभार आजहार । भरद्वाजोऽग्नेश्ऱ्चतुर्मूर्तेर्बृहदाचक्रे आह्वयामासेति । स य एवमित्यादेरुक्तोर्थः । संहितादेवतावह्नय इति मतान्तरमुच्यते ॥ वाक्प्राणेनेति ॥ कौण्ठरव्यः कुण्ठरव्यस्यापत्यं पुमान् । वाग्रमा । प्राणेनाच्युतेनमिलितैकासंहितादेवता । प्राणो हरिः । पवमानेन वायुना । मिलितोद्वितीयासंहिता । पवमानोविश्ऱ्वैः सर्वैर्देवैर्मिलितस्तृतीयासंहिता । विश्ऱ्वेदेवाः स्वर्गेणलोकेन शिवेन मिलिताचतुर्थीसंहिता । स्वर्गोलोकः शिवः ब्रह्मणा चतुर्मुखेन मिलितः पञ्चमीसंहितेत्याहेत्यन्वयः । सैषासंहिताऽवरपरा अवरपरयोर्मेलनात् । वामभागगपङ्तौक्रमेणावरपरभावस्यविद्यमानत्वाद्वा अवरादिपरान्तत्वाद्वाऽवरपरनाम्नी । स योह प्रसिद्धो य एतामवरपरां संहितां वेदसः । यथैषा पञ्चविधसंहितासन्धिना एवं हैव एवमेवखलु । प्रजादिभि;
सन्धीयत इत्यर्थः । पठतोप्यभीष्यं भवतिकिमुपासकस्येति भावेनोच्यते ॥ स यदीत्यादिना ॥ स उपासकः परेण वा प्रयोजनार्थमुपसृजः । स्वेन वार्थेन स्वप्रयोजननिमित्तेन वा । मन्त्ररूपामवरपरविद्यां यद्यभिव्याहरेत् ब्रूयात् । वचनात्पूर्वमभिव्याहर्तुमिच्छश्ऱ्च । विदुषामेतद्विद्यामुख्योपासकानाम् । देवानामेवमुक्तं फलं भविष्यति । कुतः संहितादेवताविष्णुः स्वविदुषां देवानामनुग्रहार्थं दिवमगमदिति विद्यात् चिन्तयीत । तथा तथासत्येवं चिन्तने हि । यदर्थमेतद्विद्यापठनमेतत्फलं तथा स्वकामानुसारेण । शश्ऱ्वन्नियनेन । स्यात् । न केवलमेतद्विद्यापठितुरुद्देश्यं फलं किन्तु य एतां संहितामेवं देवानं महाफलप्रदेत्येवं वेदैतावन्मात्रं वेद सोपि सन्धीयते प्रजयेत्यादि पूर्ववत् । पूर्वं हरिशर्ववन्मिलितानां लक्ष्म्यादीनां संहितात्वमुक्तमधुनासरस्वत्या एव संहिताभिमानिदेवतात्वमिपक्षान्तरमुच्यते । वागिति ॥ पञ्चालचण्डनामामुनिर्वाक् सरस्वती संहितेति मन्यते । वाचः संहितात्वमुपपाद्यते । वाचेत्यादिना ॥ वाचा वागनुग्रहेण । वेदाः सन्धीयन्ते संहिततयोच्चार्यन्ते । वाचाच्छनदासि छन्दोभङ्गं विना सन्धीयन्ते । वाचामित्राणिसन्दधति । वाचासर्वाणिभूतानि परस्परं सन्धीयन्ते । अथो तस्मादिदं सन्धीयमानं सर्वंवागेव वागधीनमेवेति हेतोर्वाक् संहितेत्यन्वयः । नन्वेवमस्तु वाचः संहिताभिमानित्वं प्रतिपाद्यस्तुक इत्यतः "" ?R
सादेवीसंहितानाम्नीवाच्योस्याविष्णुरेवही ''
ति भावेनतयोः परस्परानु बन्ध उच्यते ॥ तद्यत्रैतदित्यादिना ॥ त द्वेदादिकम् । यत्र यदा । अधीतेभाषतेऽध्यापयति वा तदतिरिक्तं भाषते वा तदाप्राणस्थः प्रणेतृत्वात्प्राणनामा भगवान् वाचि भवति प्रतिपादकव्यापारप्राचुर्येणतदन्तर्गतो भवति । अत एव वेदोच्चरणादिकालेप्राणवायुनिरोध इति ज्ञातव्यम् । तदावाक् प्राणं रेह्लि आस्वादयतीव अतिसंश्लेषात् । अथ यत्र यदा । तूष्णीं वेदादिकमुच्चारयन् वा भवति । प्रतिपाद्यप्राणान्तर्गत भगवद्वयापारप्राचुर्येण तदन्तर्गता भवति । अत एव तूष्णीं भावकालेप्राणवायुप्रवृत्तिप्राचुर्यमिति ध्येयम् । तदा प्राणो वाचं रेल्ह्यास्वादयतीवातिसंश्लेषेण स्वान्तर्निवेशेनेनाप्रकटनात् । तौ वाक् प्राणौ । एव मन्योन्यं रीह्लः आस्वादयतः । कुतः । वाग्वैमाता व्यञ्जकत्वात् । प्राणः पुत्रो व्यंग्यत्वात् । तदप्येतत् तदन्योन्यास्वादकत्वमेतन्मातृत्वञ्च ॠषिणोक्तम् । सुपणर्ः सुष्ठुपरमानन्दरूपः । सः चतुष्कपर्देति प्रकृतलक्ष्मीनारायणः । एकएवक्षीरसमुद्रं प्रविवेश । स इदं विश्ऱ्वं भुवनं विचष्ये पश्यति । तं पाकेन परिपक्वेन । मनसान्तितः समीपेऽपश्यम् । तं मातारेह्लि । स उ सोपि । मातरंरेह्लि आस्वादयतीवातिमित्र भावेन प्रतिपाद्यप्रतिपाकतयावर्तेते इति भावः । स य एवमित्यादिपूर्ववद्वयाख्येयम् । अथोपसंहरे । भगवत एव चतुर्मुर्तेः पूर्वोत्तरवर्णसन्धिसन्धानदेवतात्वं शर्वपक्षतयोच्यते ॥ अथेत्यादिना ॥ अथातः प्रजापतिनाशिवेनोक्तासंहितोच्यते । जायागतोवासुदेवः पूर्ववर्णप्रतिपाद्यः । पितृगतः सङ्कर्षण उत्तरवर्णप्रतिपाद्यः । पुत्रगतः प्रद्युम्नःसन्धिः । प्रजननं प्रजननकर्मस्थोनिरुद्धः सन्धानं पूर्वोत्तरवर्णयोः संहिततयोच्चारणकर्मणिस्थः । सैषाचतुर्मूर्त्यात्मिकासंहितादेवताऽदिति रदिति नाम्नी । पिता च माता च पुत्रश्ऱ्च प्रजननञ्चेति यदिदं किञ्च रूपचतुष्ययमिदं सर्वं चादितिर्हि अधिष्ठानभूतञ्च पित्रादिकमदित्यधीनं हि । इदं पित्रादिशब्दजातं तत्प्रतिपादकं हि । तदेतत्सर्वमापि ॠषिणोक्तम् । अदितिर्मातासपितासपुत्रइतीदं प्रतीकग्रहणम् । स य एवमित्यादिफलवाक्यं पूर्ववत् ॥ 3
॥ (32)
बृहद्रथंतरयोरित्यस्य सामविशेषपरत्वप्रतीतिं वारयन्व्याचष्ये ॥ देवतेति ॥ उपनिषद्यल्पाच्तरं पूर्वमिति न्यायमनुसृत्यबृहतः प्रथममुपादानम् ।
?R
वस्तुतस्तु रथन्तरशब्दोक्तालक्ष्मीरेवपूर्ववर्णदेवतेति । रथन्तरशब्दोक्तेति शेषः । नारायणोबृहन्नामा । ननु बृहद्रथन्तरशब्दयोर्लक्ष्मीनारायणपरत्वे वाग्वैरथन्तरस्य रूपं प्राणोबृहत इत्युक्तिविरोध इत्यत आह ॥ ताविति ॥ संहितासन्धीयत इत्यस्य तात्पर्यं मध्यस्थ इति ॥ स बृहद्रथन्तररूपाभ्यां पूर्वोत्तरवर्णगताभ्यां सन्धितोमध्यस्थोवर्णमध्यगतोर्धनारी परमात्मकोरूपविशेषः संहितानामेत्यर्थः । वाक् प्राणरथन्तर बृहच्छब्दान्निर्वक्ति ॥ वेदात्मकत्वाद्वेदाभिमानित्वादिति ॥ स्वयं स्वातन्त्ऱ्ेण । प्रणेतृत्वात्साक्षान्मुख्यतः प्राणनामेत्यर्थः । रथञ्च तत् तरञ्चेति विग्रहमभिप्रेत्यरथशब्दस्यावयवार्थन्तावदाह ॥ रमिति ॥ उदाहृतम् । "" ?R
उन्नंथ ''
मिति श्रुतौ । समुदायार्थो विष्णुभोग्येति ॥ रथन्तरेत्यस्यार्थो रतितरेति ॥ विशिष्यसुखरूपेत्यर्थः । रथन्तरस्य बृहतस्तन्नमकस्य साम्नः वाग्रथन्तरस्य रूपं प्रतिमा । प्राणो बृहतोरूपं प्रतिमेत्यर्थान्तरमाह ॥ वाक् प्राणसंस्थितौचैवेति ॥ उभाभ्यामुखलूसंहितासन्धीयत इत्यस्यार्थस्ताभ्यामेवेति ॥ प्राणेनेत्यादितृतीयासहयोग इति भावेनाह ॥ द्वयमिति ॥ देवतानां द्वयं द्वयं हरिशर्ववत् यथैकस्मिन्नेवसंस्थनेऽर्धतःशङ्करोर्धतो नारायण इति तौ मिलितौ तथा मिलितं संहितानामकं सत्तत्तत्र पूर्वोत्तरवर्णतन्मध्यानां मध्ये । वर्णमध्यस्य देवतेत्यर्थः । पूर्वोत्तरवर्णयोस्तु पूर्वोक्ता एवेति हृदयम् । स्यौऽवरपरेत्येतद्विवृणोति ॥ तयोरेकमित्यादिना ॥ वागादिशब्दकथनपूर्वकं वाक् प्राणेन संहितेत्यादि संहितापञ्चकं दर्शयति ॥ वाक् प्राणाख्यावित्यादिना ॥ स यो हैतामिति फलवाक्यतात्पर्यमुक्तम् ॥ संहितामोक्षदा इति ॥ संहितास्वेतासुकः परः कोवर इत्यतोविवेचयति ॥ प्रथमायामित्यादिना ॥ तृतीयायांवायुरेवपरः । विश्ऱ्वदेवशब्देन सरस्वत्यादीनां ग्रहणादिति भावः । अत एवचतुर्थ्यां सर्वदेवताः परमाः । पञ्चभ्यां विरिञ्चपरमः । इतरेस्वस्वसंहितायामवरा इत्यर्थः । अवरपरसंयोगात्संहितावरपरेत्युक्तं अधुनाऽवमपङ्तौ पथमायां संहितायां वामभागगोलक्ष्म्ाख्योऽवरः । द्वितीयायां वामगोविष्णुः परमः । तथातृतीयायां वामगः सर्वदेवसमुदायोऽवरः । चतुर्थ्यां स एव सरस्वत्यादि देवसमुदायः परमः । पञ्चभ्यां वामगः शिवोऽवर इति वामगपङ्त्युक्तावरपरभावस्य क्रमेणानुवृत्तेरियं संहिता वरपरेति प्रकारान्तरेण व्याचष्ये ॥ प्रथमायामित्यादिना ॥ ननु प्रथमानिर्दिष्योवामभाग इति स्थानचतुष्येदृष्यं तन्न्यायेनतृतीयायामपि पवमानो वामग इति प्राप्तं तत्कथं तृतीयायां वामगोऽवर इति व्याख्यायते किन्तु तृतीयां वामगः पवमानो वर उत्तम इति व्याख्येयमिति चेन्न । तथात्वे तृतीयायां तथापर इति निर्देशप्रसङ्गात् । अवरपरशब्दपर्यावृत्तिदशाया वर इति पदच्छेदस्यायुकतत्वात् । प्रथमानिर्दिष्यस्यापि पवमानस्य दक्षभागस्थत्व सम्भवात् । नह्यन्यत्र दर्शनन्तन्नियामकमप्रयोजकत्वादिति ज्ञेयम् । प्रकारान्तरेणावरपरत्वमुपपादयति ॥ अवराद्या इति ॥ यद्यस्मादेताः सर्वादेवताः संहिता अवराद्याः विष्ण्वपेक्षया अवराश्रीरेवाद्यायासान्ता अवराद्याः । रुद्रापेक्षयापरोविरिञ्चोन्तोतोयासान्ताः परान्ताः । ततश्ऱ्च तस्मादपि हेतोः । अवरपराः प्रोक्ताः । शब्दशास्त्रेप्रत्याहारसंज्ञावदिति भावः । एवं संहिताशास्त्रेथावरपरशब्दार्थं व्याख्यायार्थान्तरं दूषयति ॥ नैवोक्ता इति ॥ प्रथमाऽवराद्वितीयापरातृतीयावराः चतुर्थीपरापञ्चम्यवरेत्येवं नैवोक्तास्ताः परावरा इत्यर्थः । स्वर्गलोक शब्दं विनिरुच्य दर्शयति ॥ अभिमानीति ॥ लोकनात् द्योतनाच्च । द्युलोक इति शेषः । शाखान्तरेद्युलोकशब्दस्यग्रहणात्तदनुसारेणेदं व्याख्यानम् । यद्वा स्वोविष्णुस्तद्गतेर्वायुस्तद्गोमुक्तः सदाशिवः । अतः स्वर्ग इति छान्दोग्यभाष्यवचनात्स्वतन्त्रविष्णुरतवायुगतत्वात्स्वर्गः सर्वस्य लोकनादवलोकनाल्लोक इति व्याख्येयम् । स यदि परेण वोपसृतः स्वेनवार्थेनाभिव्याहरेदित्यत्र कर्माध्याहारपूर्वं विवक्षितमर्थमाह ॥ यदि ब्रूयादित्यादिना ॥ अथापि वान्यद्वामन्त्रं विद्यादित्यस्य भविष्यतीतीत्यत्रत्येति शब्देनान्वयमाह ॥ चिन्तयेदेवमिति ॥ विदुषां देवानामेवमुक्तं फलमित्यस्यार्थोविदुषामित्यादि । दिवं संहितागमद्विषां देवानामर्थ इत्यस्य विवरणं हरिश्ऱ्चैवेत्यादि ॥ शश्ऱ्वत्तथास्यादित्यस्य तथा तथासत्येवं चिन्तनेहि परेण वोपसृतः स्वेनवार्थेनेत्यभिलषितं फलं तथा स्वकामनानुसारेण सम्यक् स्वादित्यर्थमभिप्रेत्योक्तं इति चिन्तयत इति ॥ वाक् संहितेत्यत्र वाक् शब्देन प्रकृतालक्ष्म्रत्यन्यथा प्रतीर्व्याचष्ये ॥ मन्यत इति ॥ वेदैर्व्यंग्यत्वात् । सरस्वत्याः कथं मातृत्वमित्यत उक्तं साचेति ॥ पुत्र शब्दोगौण इत्युक्तं मुर्ख्थेबाधकमाह ॥ ब्रह्मण इत्यादिना ॥ ननु विष्णुनामादि संहिताप्रतिपाद्यत्वं सरस्वत्याः कथमित्यत आह ॥ सादेवीति ॥ संहिताभिमानित्वात्संहितानाम्नी । एतेन पूर्वोक्तदेवतानामप्यभिमानित्वमेव । नतु विष्णुनामादि पूर्वप्रसिद्धशब्दसंहिताप्रतिपाद्यत्वम् । तत्तु तत्तन्नामकस्य तत्तदन्तर्गतस्य हरेरेवेत्युक्तं भवति । अथातः प्रजापतिसंहितेत्यस्य प्रजापतिप्रतिपादिकासंहितेत्यन्यथा प्रतीतेः व्याचष्ये ॥ प्रजापत्याख्येति ॥ ननु तद्देवताकासंहितेत्येवकिन्नस्यादित्यतः "" ?R
सैषाऽदिति संहिते ''
त्युत्तरवाक्येऽदितेः संहिताप्रतिपाद्यत्वश्रवणादनिदति शब्दस्य "" ?R
चात्ताचराचरग्रहणात् सर्वं वा अत्तीति तददितेरदितित्व ''
मिति श्रुतितन्मीमांसयोर्विष्णुविषयतयोक्तत्वादिति भावेनाह ॥ विष्णुरेवेति ॥ जायापूर्वरूपं
?R
पतिरुत्तररूपमित्यादि व्याचष्ये ॥ स एवेत्यादिना ॥ सो दिति नामाविष्णुरेव । मातापूर्वरूपं पितोत्तररूपमिति शाखान्तरानुसारेण पिताच माताचेत्युत्तरवाक्यानुसारेण चेदं व्याख्यानम् । प्रकृतेतु जनयतीति जायापालकत्वात्पतिरिति व्याख्येयम् । "" ?R
तज्जायाजाया भवति यस्यांजायतेपुन ''
रिति श्रुतेः । पुत्रे सन्धिप्रजननसन्धानशब्दान्निर्वक्ति ॥ पोषकत्वादित्यादिना ॥ धिनुपुष्याविति धातोरिति प्रागेवोक्तत्वातत्पोषकत्वात्सन्धिनामेत्यर्थः । अर्थान्तरमाह ॥ वर्णयोरिति ॥ पूतितोनरकात् । वर्णसन्धानकर्मणि स्थित इति शेषः । सैषादितिः संहितेत्युपसंहारवाक्यं व्याचष्ये ॥ एवमिति ॥ पिताच माताच पुत्रश्ऱ्च प्रजननञ्चेति यत्किञ्चिदिदं सर्वमदिति र्हीत्येतद्वयाचष्ये ॥ वासुदेवादीनि ॥ एवं मात्रादि शब्दवाच्यवासुदेवादिरूपेणविष्णुरदिति शब्दवाच्यश्ऱ्चतुर्धाव्यवस्थित इत्यर्थः । उदाहृतमन्त्रशेषपुत्रजननयोरदिति त्वानुक्तस्तल्लाभा "" ?R
यादिति र्द्यौरदिति रन्तरिक्षमदितिर्मातासपितासपुत्रः ॥ विश्ऱ्वेदेवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित ''
मिति समग्रश्रुतिं व्याचष्ये ॥ स एवेत्यादिना ॥ अदिति नामाविष्णुरेवेत्यर्थः । अन्तरेवेति स्वान्तःसर्वस्येक्षणात्स्वस्यवासर्वान्तरीक्षणादित्यर्थः । मातापितृपुत्रशब्दानां प्रागेवव्याख्यातत्वात् विश्ऱ्वेदेवा इत्यस्य विश्ऱ्वेषां देवानां9
यानि प्रतिस्विकानि नामानि तद्वाच्यः विश्ऱ्वेदेवा इति समुदायनामवाच्यश्ऱ्चेत्यर्थः । इति भावेन व्याचष्ये ॥ मुख्येत्यादिना ॥ I-19
?R
बहुधास्थितत्वाद्विश्ऱ्वेज्ञानात् द्युश्ऱ्चदेवनामा । दीव्यतेर्गत्यथर्त्वात् द्युत्यर्थत्वाच्च । ज्ञानात्मकद्युतेरिति वा । पञ्चजना इत्यस्यापि देवगन्धर्वमानुषपित्रसुरलक्षणपञ्चजनानां यानि प्रतिस्विकनामानि तद्वाच्यः । पञ्चजना इति समुदायनामवांच्यश्ऱ्चेत्यर्थ इति भावेनदेवादिशब्दान्व्याचेष्ये ॥ ज्ञानद्युतेरित्यादिना ॥ गां भूमिं स्वर्गं वेदवाचं वा । माननात्तस्य बहुभिर्मानकरणान्मान्यत्वादिति यावत् । सर्वेषां बहुमानकरणाद्वामानुषः । मनोर्जातावञ्यतौ षुक्वेति स्मरणादिति भावः । प्राणे असुनामके रतेरसुर इत्यर्थः । नित्यप्रादुर्भूतगुणत्वतोजातनामेत्यन्वयः । जनित्वशब्जदोहि जानिक्रियावाची । जनीप्रादुर्भाव इत्यतो भावे इत्वन्प्रत्ययस्य जनिदाच्युसृवृमदिमषिनमिभृञ्भ्य इत्वन्नित्युणादिसूत्रेविधानात् । जनित्वशब्दितजनिक्रियास्थत्वात्सोपि जनित्वशब्देनोच्यत इत्याह ॥ जनिक्रियेति । यद्यपि कर्तरीत्वन्प्रत्ययेन जनित्वशब्दोमातापितृपर उदाहृतः तथापि व्युत्पत्तिपक्षेभावेयह्युपपद्यत इति ज्ञेयम् । जनित्वशब्दं हरौ निरुच्यापि दर्शयति ॥ जनिमिति ॥ यस्माज्जनिं तवयतितस्माच्चजनित्वमिति गीयते । तवेर्णिज्वेत्युणादिस्मरणाज्जनिपदेकर्मण्युपपदेतवेः सौत्रस्य धातोरिदं रूपमिति भावः । किमिदं तवनमित्यत आह ॥ तवनं हीति ॥ हि शब्देन "" ?R
तेवर्धन्तस्वतवसोमहित्वने ''
ति प्रयोगं सूचयति ॥ रथन्तरमाजभारावसिष्ठ इत्युदाहृतं मन्त्रमादित आरभ्य व्याचष्ये । प्रथश्ऱ्चेति ॥ प्रथश्ऱ्चयस्य स प्रथश्ऱ्चनामानुष्युभस्य हविषोहविर्यत् । धातुर्द्युतानात्सवितुश्ऱ्चविष्णोरथन्तरमाजभारावसिष्ठ इति समग्रोमन्त्रः । हविषः स्वमुखेसर्वस्य जगतोहवनाद्धविर्नामकस्य अनुष्युभस्य अनुष्युप्प्रतिपाद्यस्यनृसिंहस्य मुख इति शेषः । यस्य राज्ञः प्रथ इति नामसराजाहविर्यत् अयापयत् । यस्य च राज्ञः सप्रथ इति नामसोपि हविर्यत् अयापयत् । तस्मिन्यज्ञेवसिष्ठः धातुर्द्युतानात्सवितुश्ऱ्चविष्णोर्धात्रादिनामकादनिरुद्धादिरूपचतुष्ययाद्रथन्तरनाम्नीं श्रियं आजभार अजहार । आहूतवानिति यावत् । अत्र पूर्वार्धस्यार्थः ॥ प्रथश्ऱ्चेत्यादि ॥ योनृसिंहोनुष्युब्देवता "" ?R
उग्रंवीर ''
मित्यादिनृसिंहानुष्युब्देवता स्वमुखेजगतो हवानाद्धविरिति गीयते । तस्य हविर्नाम्नोनुष्युभाख्यविष्रोर्नृसिंहस्य मुखेप्रथश्ऱ्चसप्रथश्ऱ्चेति मत्स्यदेशराजानौ हविर्यापयामासतु रिति योजना । द्वितीयार्धस्याथर्ः ॥ तस्मिन्यज्ञ इत्यादि ॥ धातुर्द्युतानादित्यादेः घट्टर्थश्ऱ्चतूरूपादिति ॥ न श्रियोवसिष्ठसामर्थ्येन चतूरूपादवतार इति भावेनाह ॥ चतुर्भूर्तिरिति ॥ प्रेषयामास स्वगतां व्यक्तीचकार । किमर्थमाजभारेत्यतः स्वस्योपदेशायेति भावेनाह ॥ साचेति ॥ धात्रादिशब्दार्थं विवेचयति ॥ धातेत्यादिना ॥ तत्तत्कालेप्राप्तनिरोधनिवृत्त्याधारकत्वादनिरुद्धोधातेत्युक्तः । प्रकृष्यद्युतिमत्त्वात्प्रद्युम्ननामाहरिर्द्युति विस्तारेपेतत्वात् द्युनामकः । "" ?R
वानात्सूतेर्देवनाद्वासुदेव ''
इत्यादेवर्ासुदेवशब्दवाच्यो हरिर्योग्यस्य सर्वस्य जगतो मोक्षाख्यपुरुषार्थप्रसकर्तृत्वात्सवितेत्युच्यते । सम्यक्कर्षकत्वात्सङ्कर्षणनामाहरिः । प्रणेतृत्वात् प्रकर्षेणनेतृत्वाद्बलरूपत्वाच्चविष्णुनामेत्यर्थः । भारद्वाचोबृहदाचक्रे अग्नेरित्येतदादित आरभ्य व्याचष्ये । चतूरूपमित्यादिना ॥ ते विन्दन्मनसादीध्यानायजुष्कन्नं प्रथमं देवयानम् । धातुर्द्युतानात्सवितुश्ऱ्चविष्णोः भरद्वाजो बृहदाचक्रे अग्नेरिति समग्रोमन्त्रः । ते पूर्वमन्त्रेप्रकृताः प्रथसप्रथसिष्ठाः । भरद्वाजश्ऱ्च । यजुष्कन्नं प्रथमं देवयानं यजुरादिशब्दवाच्यसङ्कर्षणादि चतूरूपं विष्णुम् । दीध्यानाः दीधीङ्दीप्तिदेवनयोः । देवनञ्च ध्यानमत्रविवक्षितम् । ध्यायन्तो मनसाऽविन्दन् अपश्यन् । तत्र भरद्वजोधात्रादिशब्दवाच्यादग्य्रत्वादग्निनामकादनिरुद्धादिरूपचतुष्ययात्पूर्णत्वाद्बृहन्नामकं नारायणरूपमाचक्रे आकारयामासेति
?R
मन्त्रार्थ संक्षेपः । प्रथमार्धं व्याचष्ये ॥ चतूरूपमित्यादिना । यजुष्कन्नमित्यादेरर्थकथनमेतत् । त इत्यस्यार्थोराजानावित्यादि । दीध्याना इत्यस्य तात्पर्यम् ॥ ध्यात्वेति ॥ यजुरिदिशब्दार्थं विवेचयति ॥ यजनीय इत्यादिना ॥ पितृभ्यो देवेभ्यश्ऱ्च स्वधादेः सम्यक्कर्षणात्सङ्कर्षणः तदन्तर्गततयायजनीयत्वाद्यजुः । सृष्ययाप्रकर्षेणद्योतनात्प्रद्युम्नो जीवानां स्वान्तर्गतानां स्कन्दनात्सर्जनात्स्कन्नः । वासुदेवशब्दप्रवृत्तिनिमित्तैः "" ?R
वानात्सूतेर्देवनाद्वासुदेव ''
इत्याद्युक्तैर्गुणैः श्रेष्ठोवासुदेवः गुणैः सर्वेभ्य उत्तम्त्वात्प्रथमावतारत्वाच्चप्रथमः । स्वप्राप्तिं प्रति देवानामनिरोधकत्वादनिरुद्धो यतो देवैः प्राप्योतोदेवयानः । द्वितीयार्थं व्याचष्ये ॥ तस्मादेवेत्यादिना ॥ अत्रापि न बलादाहानमित्यभिप्रायेणोक्तम् ॥ स्तुति सन्तोषितादिति ॥ आहानप्रयोजनमुक्तम् ॥ तद्बृहन्नामकमिति । अग्नेरित्येतद्धात्रादि सर्वविशेषणमित्यभिप्रेत्य व्याचष्ये ॥ चतुर्भूर्तिरिति ॥ उपनिषदिचातुरात्म्यसमुद्गतयोः बृहद्रथन्तरयोरूपेण संहिता सन्धीयत इति स्वाभिप्रेतार्थेमन्त्र द्वयोदाहरणेपि वाग्वैरथन्तरस्य रूपं प्राणोबृहत इत्यध्यात्मम् । प्राणेस्थितस्य प्राणनाम्नोनारायणस्योपास्यत्वे प्रमाणत्वेनाभिप्रेतमविन्दतेति हि तमितिमन्त्रं व्याचष्ये ॥ चत्वार एवेत्यादिना ॥ "" ?R
अविन्दतेति हि तं यदा सीद्यज्ञद्यधामपरमं गुहायत् । धातुर्द्युतानात्सवितुश्ऱ्चविष्णोरासूर्यादभरन्धर्ममेत् ''
इति मन्त्रस्यायमर्थः । ते प्रथादयश्ऱ्चत्वारः । यज्ञस्य सर्वज्ञस्य । विष्णोः । परममुत्तम् । धाम तेजोरूपम् । "" ?R
सयुजासखाये ''
ति श्रुतेर्जीवानामति हितमुपकारकम् ।गुहामेतीति गुहायत् गुहान्तर्गतमासीत्तदध्यात्ममपि चतुर्भूर्त्यात्मक नारायणरूपमविन्दन् । सूरिप्राप्यत्वात्सूर्यनाम्नोधात्रादिपदलादितादनिरुद्धादेरेते चत्वारः सर्वलोकस्य घर्षणान्नाशनाद्धर्मनामानंनृसिंहं आ अभरन्नाहरंश्ऱ्चेति । पूर्वार्धस्य व्याख्यानमेवं चत्वार इति ॥ त एव चत्वारः । अस्य जीवजातस्यातीवहितम् । गुहायात् गुहाशब्दे कर्मण्युपपदे इण् गतावित्यतः शतृ प्रत्ययेगुहामेतीति गुहायत् गुहायतीगुहायन्तीति शब्दरूपं भवति । तथा च गुहागतं गुहायामपि संस्थितं चतुर्भूर्तिनारायणमेवयथाधिदैवमविन्दन् तथा साक्षादविन्दन् अपरोक्षतो व्यजानन्नित्यर्थः । नन्वत्रोक्तो विष्णुरिति कथमवगतमित्यतोगुहानिहितत्वलिङ्गा "" ?R
द्गुहां प्रविष्यावात्माना ''
विति सूत्रादिति सिद्धेपि यज्ञस्य धामेति विशेषणाच्चावगतमिति भावेन तद्वयाकुर्वन्नाह ॥ सर्वज्ञत्वादिति ॥ यद्गुहायामप्यविन्दन् तत् यदस्तिज्जानातीति व्युत्पत्त्यासर्वज्ञत्वाद्यज्ञनाम्नो विष्णोः परमन्तेजोहीत्यन्वयः । हि शब्देन "" ?R
यज्ञोविष्णुर्देवता इदं ज्योतिर्हृदय आहितं यतद् प्राणेषु हृद्यन्तर्ज्योतिः ज्योतिश्ऱ्चरणाभिधानात् तेजः स्वरूपञ्च गृहं प्राज्ञौर्धामेति कथ्यत ''
इत्यादि श्रुति सूत्राभिधानान्युक्तेर्थे सूचयति । द्वितीयार्धं व्याचष्ये ॥ तस्मादेवेत्यादिना ॥ धर्मन्नित्युणादिसूत्रेधृक्षरणदीप्त्योरिति धातोर्मन्प्रत्ययेगुणेच कृतेधर्मशब्दस्य निष्पादितत्वात्सर्वलोकस्य घर्षणात् विनाशनात् । नृसिंहोधर्म उच्यते । क्षरणं विनाशनमेवेति भावः । अत्राप्याहानं न बलादिति वदन् तत्प्रयोजनमाह ॥ निर्गत्येत्यादिना ॥ होत्रध्यर्योरिति समाहारैकवद्भावः । वसिष्ठाद्धोतुः भरद्वाजादध्यर्योश्ऱ्चेत्यर्थः । प्रथश्ऱ्चयस्येत्येतत्स्ववचनेन स्पष्टं व्याचष्ये ॥ यस्येत्यादिना ॥ यदि त्येतत्क्रियापदमिति भावेनानूद्यप्रतिपदमुपादत्ते ॥ यत् अयदिति ॥ अयतेः लङिरूपमेतत् । नन्वाडजादीनामिति स्मरणादायदिति भवितव्यमिति चेत् बहुलं छन्दस्य माङ्योगेपीत्याडागमाभावपक्षे अयदिति । पृथक् सम्बन्ध इति ॥ अन्यथैकवचनानुपपत्तेरिति भावः । आचक्र इत्येतदन्तर्णीतणिच्त्वेन व्याचष्ये ॥ आचक्र इति ॥ अविन्दन्ते तेविन्दन्निति मन्त्रयोः पूर्वार्धस्य पौनरुक्त्यं परिहरति ॥ अविन्दन्त इति ॥ तत्र ज्ञापकमाह ॥ देवयानमिति ॥ यद्यप्यनिरुद्धस्यात्रदेवप्राप्यत्वमुक्तं नतु गुहायदिति वद्रूपचतुष्ययविशेषणमेतत् तथापि तद्वयूहगतस्यैकाधिदेवगतत्वमन्येषामप्यधिदैवगतत्वं विना न सम्भवतीति प्रद्युमनादीनामधिदैवगतत्वे ज्ञापकं भवतीति भावः । एकः सुपणर्ः ससमुद्रमाविवेशेत्यत्र स इति परामर्शविषयं दर्शयितुम् "" ?R
चतुष्कपर्दायुवतिःसुपेशाधृतप्रतीकावयुनानिवस्ते । तस्यासुपर्णावृषणानिषेदतुर्यत्र देवादधिरेभागधेयं ''
मिति मन्त्रं व्याचष्ये । चतुःशिखण्डामिति ॥ चतुष्कपर्देत्यस्यार्थः ॥ चतुःशिखण्डामिति ॥ चतुर्वेणीकृतकेशपाशामित्यर्थः । एतेन याचतुष्कपर्दा तस्यां तामित्यर्थ उक्तो भवति । सुपर्णेत्यस्यार्थोद्विरूप इत्यादि ॥ निषदतुरित्यस्य तात्पर्यं रमयामासेति ॥ तस्यां निषेदतुरित्यस्यार्थान्तरं तस्यामिति ॥ ततश्ऱ्चायं मन्त्रार्थः । याचतुष्कपर्दा पार्श्ऱ्वयोः सीमन्तदेशेपश्ऱ्चादित्येवं चतुर्धाकृत जटाकलापा । युवतिः नित्ययौवन सम्पन्ना । सुपेशा शोभनावयवा । पिश अवयव इति धातोः । घृतप्रतीका प्रकाशमानदेहा । "" ?R
घृक्षरणदीप्त्योः । प्रतीकं देह उद्दिष्य''
इति वचनात् । वयुनानि ज्ञानानि । वस्ते आच्छादयति । ज्ञानपूर्णेत्यर्थः । "" ?R
त्वद्दत्तयावयुनयेदमचष्यविश्ऱ्व ''
मिति भागवते प्रयोगात् । तस्यां विभक्तिव्यत्ययः । तां रमां । सुपर्णा सुपर्णौ । सुष्युपरमानन्दरूपौ । वृषणौ वृषसेचने । सर्वाभीष्यसेचकौ भगवद्रूपविशेषौ । निषेदतुः निषण्णौ । सङ्गतावभूताम् । रमयामासतुरिति यावत् । स्वरमणार्थं चतस्यां निषेतदुः निषण्णौ । स्थितावभूताम् । “"?R
रमयारममाणोपि तत्स्थेनैवश्रियात्मना । रमत ''
इत्युक्तत्वात् । यत्र यस्मिन् द्विरूपे
?R
हरौ । देवभागधेयं स्वस्वविहितं कर्म । दधिरे अर्पितवन्तः । एवं स इति परामर्शार्थं प्रकृतत्वं दर्शयित्वा एक इति मन्त्रं व्याकुर्वन्नपश्यमिति वक्ताक इत्यतोऽजोवक्तेत्याह ॥ एक इति ॥ सुपर्णः सुष्युपरमानन्दरूपः । स एक एव विष्णुः । समुद्रं क्षीरसागरमाविवेश प्रविष्यः । असौ देवः विश्ऱ्वं सर्वं भुवनम् । पाकेन पूर्णेनाकुण्ठेन । मनसा चेतसा । विचष्ये पश्यति । तं पाकेन परिक्वेन । मनसा अन्तितः सर्वस्यन्तिके । सर्वान्तरपश्यम् । तं प्राणस्थम् । माता मातेवव्यञ्जकत्वान्मातेत्युक्तावाग्वेदाभिमानिनीसरस्वती रेह्लि लिहत इव । तद्गुणानास्वादयति । स उ सोपि । मातरं सरस्वतीं रेह्लि । सा प्राणस्थेन परमात्मना सदा लिह्यतेतत्परमप्रियतयाऽऽस्वाद्यत इवेति मन्त्रभाष्ययोरर्थः । मातृत्वमेवसरस्वत्याः किं न स्यादित्यत आह ॥ स्वयं त्विति ॥ 6
॥ (32)
॥
?R
इति श्रीवमद्विट्ठलाचार्यपुत्रेण श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेन रचितायां श्रीमन्महैतरेय भाष्यार्थरत्नमालायां तृतीय प्रघट्टके प्रथमोध्यायः ॥
?R
ॐ प्राणोवंश इति विद्यादिति यत्प्राणस्य विष्णुनामप्रतिपाद्य भगवद्रूपाधिष्ठनभूतास्थ्याद्यभिमानिसर्वदेवाश्रयत्वमुपक्षिप्तं तदुपपादयितुमयमध्यायः । प्राणशे मुख्यवायुर्वंशः सर्वाश्रय इति स्थविरः शाकल्यः शालामध्यगते वठशेसर्वे आच्छादकपदार्था अन्येवंशाश्ऱ्च समाहिताः स्युस्तन्निदर्शनं यथा एवमस्मिन् प्राणे चक्षुःश्रोत्रं मनोवागन्यानीन्द्रियाणि तदभिमानिदैवतानि । शरीरं तदभिमानी । सर्व आत्मा एवमुक्तोऽनुक्तश्ऱ्चेतनाचेतनात्मकः सर्वोपि सङ्घातः । समाहितः । तेषु सर्वेषु सर्वोबहुरूप्यात्मापूर्णत्वादत्मनामा भगवान्समाहितः स्थितः । य आत्मातेषु सर्वेषु समाहितः स एव विष्णुनामाक्षरेषु तद्वयाख्यानरूपेषु सर्वेषु शब्देषुच समाहित इति योज्यम् । तदेवविविच्योच्यते ॥ तस्येत्यादिना । तस्यैतस्यात्मनः तस्य शरीरख्यस्य आत्मनः आदानादिकर्तृत्वादात्मनः । एतस्य विष्णोः । प्राणः प्राणगतमध्यात्मरूपम् । अधिदैवं समर्थत्वादूष्मनामक मूष्मसुस्थितमूष्माक्षरप्रतिपाद्यम् । अस्थिरत्वादस्थिनामकान्यस्थिषुस्थितरूपाणि अधिदैवं स्वरूपम् । स्वस्मिन्रतत्वात्स्वरनामकानि स्वरगतानि स्वरसंज्ञिताज्वर्ण प्रतिपाद्यानि । मांसं लोहितमित्येतन्मां प्रमाणं सारयति प्रवर्तयतीति मांसम् । रक्तवर्णत्वाल्लोहितमित्येतन्नामकं तदुभयगतं पूर्वोक्तरूपेभ्योन्यच्चतुर्थं रूपम् । अन्तस्थरूपं सर्वान्तस्थत्वादन्तस्थनामकमन्तस्थाक्षरगतं तत्प्रतिपाद्यञ्चेति हस्माह स्थविरः शाकल्यः । ह्रस्वोमाण्डूकेयस्तु इति वक्ष्यमाण प्रकारेणाहस्म । नोमते एतस्त्रयमेवोपास्यं प्रोक्तम् । नः अस्मभ्यम् । एतस्त्रयमेव अस्थिमज्जापर्वगतं त्रिविधरूपमेव ।गुरुभिः प्रोक्तमिति वा । अस्थ्नांमज्ज्ञानं पर्वणामिति त्रयस्य त्रयगतस्य तस्यैतस्य हरेरूपाणि । इतो दक्षभागे । त्रीणिषष्यिशतानि षष्ययुत्तरत्रिशतानि । इतो वामभागे । त्रीणिषष्यिशतानि षष्ययुत्तरत्रिशतानि सन्ति । एकैकभागेऽस्थ्नामशीत्युत्तरशतमेवं मज्ज्ञाम् । पर्वणामस्थ्यन्तर्भावान्नपृथग्गणना । एवञ्चैकैकभागेषष्ययुत्तरत्रिशतानीति भावः । तानि पार्श्ऱ्वद्ययस्थानि मिलितानितानिरूपाणि ।सप्तविंशतिशतानि भवन्ति विंशत्युत्तरसप्तशतानि भवन्ति । एवमध्यात्मगतानां रूपाणां तत्समसङ्खयाक संवत्सराहोरात्रगतत्वमित्युच्यते ॥ सप्तचेति । यान्यध्यात्मं सप्तशतानि विंशतिश्ऱ्चरूपाणि भवन्ति तान्येव सप्तशतानि विंशतिश्ऱ्चसंवत्सरस्याहोरात्रावै । विंशत्युत्तरसप्तशतसङ्खयाक संवत्सराहोरात्रगतान्यहार्यत्वाद्रतिदत्वाच्चाहोरात्रनामकानीत्यर्थः । रतिं रातिददतीति रात्रिरिति व्याख्यातं भविष्यति । एवमध्यात्मगतस्य भगवत उपास्त्यथर्ं गुणा उच्यन्ते ॥ स एष इत्यादिना ॥ स एषो ध्यात्मगत आत्मा । अहः सम्मानः अहोभिः समसङ्खयाकत्वादहः सम्मानः । सर्वदशर्नसर्वश्रवणसत्यकामत्वसर्वमन्तअत्वसर्ववक्तृत्वशक्तियुक्तत्वाच्चक्षुर्मयादिनामको बलरूपत्वादात्माच । स य एतमात्मनन महः सम्मनत्वादिधर्मोपेतं वेद सोह्ना महर्नामकानां रूपाणाम् । सायुज्यादिकमश्ऱ्नुतेप्राप्नोति । ज्ञानाख्यपुत्रवान् भवति पीयमानसुखवान् भवति । सर्वं पूर्णं नित्यमायुश्ऱ्चैति ॥ प्राणस्य वंशत्वोपपादकं तद्यथेत्यादि व्याचष्ये ॥ गृहस्थेति । आच्छदनमावरकं फलकादि । आदिपदेनोपवठशग्रहणम् ।इन्द्रियाभिमान्यादीत्यादिपदेन शरीराभिमानिनः सर्व आत्मेत्युक्त सङ्घाताभिमानिनश्ऱ्च ग्रहणम् । शरीरपदेन परिदृश्यमानमवयविभूतं गृह्यते । आत्मपदेन प्राणेन्द्रिय शरीरसप्तधातु तदभिमानि लक्षणशचेतनाचेतनसमुदायो गृह्यते । अत एव सर्व आत्मा समाहित इत्यस्य सर्वेषु तेषु प्राणदिष्वात्मान्तर्यामीसमाहितः स एव सर्वेषु विष्णुनामाक्षरेषु तदथतस्तद्वयाख्यानरूपत्वादेवं विष्णुनामाक्षरेष्विवान्येषु वेदाद्यक्षरेषु च । समाहित इत्यर्थः । तस्यै तस्यात्मनः प्राण इत्यादिकं व्याचष्ये । प्राणनामेत्यादिना । ऊष्मसूष्माक्षरेषु । समर्थत्वाच्छत्रुदाहेसमर्थत्वात् । उषदाह इति धातोः । यद्वोषिरेवसामर्थ्येपि वर्तेते । "” ?R
ऊष्मावच्चानूष्मवच्च । अस्यैव चोपपत्तेरूष्मे ''
ति प्रयोगात् । तस्यैतस्यात्मन इत्यत्रात्मशब्दार्थमाह ॥ पूर्णत्वादिति ॥ आततत्वादात्मा ततिश्ऱ्चपूर्तिरिति भावः । सङ्घातस्य कथं
?R
तर्ह्यात्मशब्दवाच्यत्वमित्यत आह ॥ प्रतिमात्वादिति ॥ सङ्घातस्तुप्रतिमात्वादेवात्मशब्दोक्तोनतु पूर्णत्वादित्यर्थः । एतेन तस्यात्मनः सङ्घाताख्यात्मनः आदानादिकतर्ुरेतस्य परमात्मन इत्यपनिषदर्थ इत्युक्तं भवति । अस्थिस्पर्शमज्जास्वरमांसलोहित शब्दान्व्याचष्ये ॥ अस्थिर इत्यादिना ॥ "" ?R
वायुश्ऱ्चवायुसंस्थश्ऱ्चकदाचिन्नहितिष्ठत ''
इत्यादेरेकत्रनस्थिरोनित्य सञ्चारीत्यर्थः । स्पृश्यतेनेनेति स्पर्शः । मदञ्जनयतीति मज्जा । उपपदाकारलोपश्ऱ्चुत्वञ्चेति भावः । यद्वा भावेमदिति क्विबन्तः तथाच मत् मदं जनयतीति मज्जा । "" ?R
मत्सरामादयिष्णव ''
इत्यत्र ॠग्भाष्यटीकायां “"?R
मत् मदं । सरन्ति सारयन्तीति मत्सरा ''
इति व्याख्यातत्वात् । श्ऱ्वन्नुक्षन्नित्याद्युणादिसूत्रेकनिन्प्रत्ययान्ततया निपातितत्वेन मज्जामज्जानौ मज्जान इति नकारान्तस्योपनिषद्युपात्तत्वेप्याकारान्तस्य मज्जाशब्दस्य प्रायित्वाद्भाष्येमज्जासुसस्थ इत्युक्तम् । प्रमाणं वेदादिकं सारयेत्प्रवर्तयेत् । मांसपुष्य.भावेऽस्थिचर्मावशेषस्य वेदोच्चारण शक्त्यभावादिति भावः । ननु देहेऽस्थ्नांमज्ज्ञां पर्वणामधिष्ठनभूतानां पृथक् षष्ययुत्तरशतत्रयसद्भावात्कथं तद्गतरूपाणामेकैकभागेषष्ययुत्तरत्रिशतत्वं सम्भूयविंशत्युत्तरसप्तशतत्वञ्च किन्त्वेष्वेतत्खण्डानुसारेणैकैकभागेचत्वारिंशदुत्तरपञ्च शतत्वं सम्भूयाशीत्युत्तरसहस्रत्वं वक्तव्यमित्यत आह ॥ अस्थिस्थान्येवेति ॥ यतो हरेरास्थिस्थान्येवरूपाणिपर्वस्वपिसन्ति तत् ततः । तेषां पर्वगतानाम् । पृथक् सङ्खयानास्ति । तस्मात्तस्य हरेरस्मदादि देहे तस्य विष्णोरूपाणिसप्तशतानिविंशच्च विंशतिसङ्खयाकानि च । भागेतु एकैकस्मिन्भागेतु । रूपाणां षष्ययुत्तरशतत्रयमिति योजना । नन्वस्थिपर्वगतरूपाणामेकत्वेत्रयं त्वेवन एतत्प्रोक्तमिति कथं रूपत्रैविध्यमुक्तम् । कथं वोत्तरखण्डेनाविरोध इत्यत उक्तम् ॥ तत एवविभक्तानीति ॥ अस्थिगतेभ्यः पर्वगतानां विभक्तत्वात् तेषामेवस्थनद्वयसम्बन्धाभावात्रयं त्वेवेति त्रैविध्यकथनं अशीति सहस्रं भवतीत्युत्तरखण्डाविरोधश्ऱ्च । विभागेपि समाननामकत्वाल्लक्षणसाम्याच्चमूलमूलिनोरेकव्यूहत्वविवक्षयाविंशत्युत्तरसप्तशतत्वोकितरिति भावः । सप्तचैवशतानिविंशतिश्ऱ्चसंवत्सरस्याहोरात्रा इत्यत्र तान्येवेत्यस्यानुवृत्तिमभिप्रेत्य व्याचष्ये ॥ तान्येवेति ॥ यानि विष्णुरूपाण्यस्थ्यादिस्थानिविंशत्युत्तरसप्तशतसङ्खयाकानितान्येवेत्यर्थः । अत्राहःशब्दोऽहोरात्रपरः । स एषोहःसंमान इत्यादि व्याचष्ये ॥ अहोभिरित्यादिना ॥ अध्यात्मगानीत्यन्तेन । स एष आत्मेत्यन्वयः सूचितः । चक्षुर्मय इत्यादौ मयट् प्राचुयर्ार्धः । चक्षुरादिशब्दश्ऱ्चचष्येऽनयाशक्त्येत्यादि व्युत्पत्त्यादर्शनादिशक्तिपर इत्यभिप्रेत्य व्याचष्ये ॥ पूर्णेति ॥ छन्दोमयत्वं नामकामपूर्णत्वम् । छन्देरिच्छार्थत्वात् । कामपूतिर्र्नामकामिताप्रतिघातः सत्यकामत्वमिति यावत् । मन्तृक्तृशब्दौभावप्रधानौ । बलं शक्तिः । सर्वमन्तृत्वसर्ववक्तृत्वशक्त्यात्मक इत्यर्थः । यद्वा बलात्मक इत्यात्मशब्दार्थः । स य एवमित्यादिफलवाक्वयाचष्ये ॥ एवमिति ॥ रूपाण्यहर्नामकानि । ज्ञानस्यापि पुन्नाम्नोनरकात्राणहातुत्वात्पुत्र शब्दवाच्यत्वं ज्ञेयम् । पशुमानित्यत्रपीयत इति पंतच्चतत् शञ्चपशं ताच्छीर्ल्यार्थे अकारस्थाने उकारः स्वरूपभूतानुभूयमानानन्दवानित्यर्थमभिप्रत्योक्तं पीयमानमिति ॥ कौण्ठरव्यस्तु विष्णुनाम्नोन्यनाम्नोवाऽक्षराणां पञ्चाशदक्षराणां वातन्नामकानां तद्गतानां रूपाणां त्रीणिषष्यिशतानि षष्ययुत्तरत्रिशतानि । ऊष्मणां विष्णुनामादि निष्ठोष्माक्षरगतानां तत्प्रतिपाद्यानां रूपाणां त्रीणिषष्यिशतानि । विष्णुनामादिगतसन्धिगतानां सन्धानात्सन्धिनामकानां रूपाणां त्रीणिषष्यिशतान्यहत्याशीत्युत्तरसहस्ररूपण्युपास्यान्यहेत्यर्थः ॥1
॥ (33)
अक्षरादिगतानामधिष्ठानान्तरमुच्यते । यानीति ॥ यानिविष्णुनामाद्यक्षरगतानि तन्नामकानिरूपाण्यवोचामतान्येवाहान्यहार्यत्वादहर्नामकानि संवत्सराहर्नियामकानि । यान्यूष्मणः ऊष्मनामकानिरूपाण्यवोचाम तास्तानि । रात्रयः रतिदत्वाद्रात्रिनामकानि संवत्सररात्रिगतानि । यान्सन्धीन् सन्धिगतानवोचम ते रूपविशेषा अहोरात्राणां सन्धयः सन्धिगताः सन्धिनामका इत्याधिदैवतं भगवद्रूपाणि । अथाध्यात्मं भगवद्रूपाण्युच्यन्ते । यान्यक्षराण्यक्षरस्थान्यक्षरनामकानिरूपाण्यधिदैवतामवोचाम ते प्रादुर्भावा अध्यात्मं मज्जानो मज्जागतामदजनकत्वान्मज्जानामकाः । मज्जास्वधिकं भगवतः सन्निधानमित्युच्यते । एष इति ॥ एष आत्मा सम्प्रति सम्यग्विशेषतो मज्जावै मज्जागतो वै ॥ कुतः । एषप्राणोवायुर्विशेषतो मज्जास्थो वै । प्राणस्य मज्जासुविशेषतः सन्निहितत्वेपि विष्णोस्तुतत्कुतः । एष आत्मासम्यक् प्राणः प्राणस्थो वै । प्राणस्य विशेषतोमज्जागतत्वं कथमित्यतस्तत्कार्येरेतसिविशेषतः सन्निहितत्वादिति वक्तं कार्यकारणभाव उच्यते ॥ यन्मज्जेति ॥ यन्मज्जा योमज्जा एत देष एवरेतोभवतीत्यर्थः । ततश्ऱ्चकिमित्यत उक्तम् । यन्मज्जेति ॥ यन्मज्जा योमज्जागतः प्राणः एषवैतद्रेतः अस्मिन् रेतसिविशेषतः सन्निहितः ।कारणेविशेषसन्निधानाभावेकार्येतदयोगादिति भावः । रेतसिप्राणस्य विशेषसन्निधानमेवकुत इत्यत उक्तम् ॥ नहवेति ॥ इदं तावदेवं योज्यम् । प्राणात्प्राणेन । विशेषतो धिष्ठितं रेत एव सिच्यते । गर्भाधानसंज्ञितनिषेककमर्योग्यं भवति । गर्भत्वं व्रजेत् । तथाच रेतसिसामथ्यर्विशेषसद्भावात्तत्रप्राणस्य विशेषसन्निधानं ज्ञायत इति भावः । ननु कुत्रचिद्रेतसोगर्भत्वाप्राप्तेः कथं रेतसः सामर्थ्य विशेष इत्यतोनहवेति विशिष्यं वाक्यं
?R
योज्यम् । प्राणादृते प्राणसन्निधानमृते । प्राणोरेतसिविशेषतः सन्निहितो न चेत् । तदातद्रेतोनसिच्यतेन गर्भत्वं व्रजेद्वै । उत्सर्गतोरेतसोगर्भीभावसामर्थ्यं देवानाममोघवीर्यत्व दर्शनात् कलियुगादौ मानुषादिरेतसोगर्भत्वाप्राप्तिस्तु सहकारिविरहनिबन्धना । प्राणविशेषसन्निधानेतद्दर्शननियमादिति भावः । प्राणसन्निधानाविशेषरहितं रेतः सिक्तञ्चेत्किं स्यादित्यत उच्यते ॥ यद्वेति ॥ वाशब्दोवधारणष । यदि प्राणादृते प्राणसन्निदानं विना । रेतः सिच्यतेततर्हिपूये दवयवशैथिल्येनदुर्गन्धयुक्तमेवस्या क्वचिद्गर्भत्वाप्राप्तिस्तु प्रतिबन्धकवशाद्भविष्यतीत्यतश्ऱ्चोक्तम् ॥ यद्वेति ॥ प्राणादृते प्राणसन्निधानमृते विशेषप्राणसम्बन्धवर्जितं रेतो ।ॠतेतद्रेतोव्यतिरिक्तं यन्मांसादिकं धात्वन्तरम् । तन्नसम्भवेत् गर्भत्वं न यातीत्यर्थः । यदि रेतः स्वसामर्थ्येनैवगर्भत्वं प्राप्नुयात्तदामांसादिकमपि पाप्नुयाद्धातुत्वाविशेषात् । अचेतनेकार्यविशेषस्यायस्कान्तादाविवदेवतासन्निधानविशेषनिबन्धनत्वस्य "” ?R
रेतोधातुर्वटकणिके ''
त्यादौ व्यवस्थापि तत्वात् । अन्यथास्वभाववदानुरणप्रसङ्गादिति भावः । यान् सन्धीन् सन्धिनामकप्रादुर्भावनधिदैवतमवोचाम तान्यध्यात्मं पर्वाणि
?R
परज्ञानात् । पर्वनामकानि । पर्वगतानि । अस्थ्नांमज्ज्ञांपर्वणामित्येतस्यत्र यस्य त्रयगतस्यहरेरूपाणि इतो दक्षभागे । पञ्चशतानिचत्वारिंशच्चभवन्ति । पृथशीत्युत्तरशतसङ्खयाकत्वात् । इतोवामभागेपञ्चशतानिचत्वारिंशच्च भवति । तद्भागद्वयस्थंरूपं मिलितमशीति सहस्रमशीत्युत्तरसहस्रं भवति । विष्णुनामाक्षरगतरूपाणामधिष्ठनान्तरमुच्यते ॥ अशीतीति ॥ अर्केलीनत्वेनादृश्यत्वेन स्थिताभगवत्प्रादुर्भावाः अशीत्युत्तरसहस्रं वा इत्यर्थः । सूर्याधिष्ठितानां विष्णुनामाक्षरादिरूपाणां पुरुषेवस्थानं तदुच्चार्यबृहतीसहस्रप्रतिपाद्यत्वं तदधीनत्वं तदनुष्ठेयज्ञाधिष्ठतत्वं सूर्यप्रवर्त्यदिवसाधिष्ठितत्वञ्चोच्यते ॥ अशीतीति ॥ अशीत्युत्तरसहस्रसङ्खयाका अर्कगताविष्रुनामाक्षररूपविशेषाः पुरुषेस्थित्वाबृहतीः सहस्रबृहतीः सम्पादयन्ति । बृहतीः बृहत्याः बृहतीस्थाः तन्नामकाः तद्वच्याश्ऱ्च । अहर्यज्ञञ्चसम्पादयन्ति । तदर्थं पुरुषाधिष्ठानं विना साक्षादहरहानि दिनानि सम्पादयन्ति । स एषो स्थ्यादिगतो क्षरसम्मानः विष्णुनामाक्षरगतरूपसमसङ्खयाकः । चक्षुर्मय इतयादेरुक्त एवार्थः ॥ अक्षराणामक्षरगतरूपाणां अब्रह्मविद्यात्वप्रतीतेः कौण्ठरव्य इत्यारभ्यसर्वमायुरित्यन्तस्य खण्डस्य तात्पर्यमाह ॥ एवमित्यादिना ॥ यथा ह्रस्वमाण्डूके योक्तप्रकारेण विंशत्युत्तरसप्तशतरूपाणि ज्ञात्वाविमुच्यते एवं कौण्ठरव्योक्तप्रकारेणतान्यशीत्युत्तरसहस्ररूपाण्युपास्य मुच्यत इति योजना । कौण्ठरव्योक्तं प्रकारमेवाह ॥ तस्येति । अक्षरपदेनाक्षरोष्मसन्धीनां त्रयाणां ग्रहणम् । वणेस्थीनि तानीत्यादेस्तात्पर्यम् ॥ देहेषु पृथङ्मज्जास्थिपर्वसु ॥ रूपाणिविष्णोस्तावन्तीति ॥ मज्जास्थिपर्वसुपृथक् षष्ययुत्तरशतसङ्खययाविद्यमानानिरूपाणि मिलित्वातावन्ति अशीत्युत्तरसहस्राणीत्यर्थः । अत्राध्यात्ममित्यस्य तात्पर्यं देहेष्विति ॥ अधिदैवादिस्वस्थानान्तरमिति सूचनाय पृथगिति । यद्वापूर्वखण्डेस्थिस्थानामेव पर्वगतत्वादन्तर्गाव विवक्षयाविंशत्युत्तरसप्तशतत्वमुक्तं अधुनातु मज्जास्थिपर्वसुविष्णोस्तावन्ति रूपाणि पृथक् विवक्षयोच्यन्त इत्यर्थः । मज्जासुविशेषसन्निधानद्योतनायानन्तरोक्तायामज्जयाः प्रथमं ग्रहणम् । तेन एष हवैसम्प्रतिप्राण इत्यादेस्तात्पर्यं सूचितम् । यद्वा तावत्सङ्खयानीत्येतद्देहेष्वित्युत्तरेण सम्बध्यते । देहेषु तावत्सङ्खयाकानि रूपाणि वर्तन्त इत्यर्थः । तेन अशीति सहस्रं वा अर्कलिनो बृहतीरहरभिसम्पादयन्तीत्यत्राशीति सहस्ररूपाणां शरीरेस्थित्वा बृहतीसहस्र सम्पादकत्वं यदुक्तं तस्य तात्पर्यमुक्तं भवति । मज्जास्थिपर्वस्वित्यादेरुक्त एवार्थः । मज्जास्थिपर्वगताशीत्युत्तरसहस्ररूपाण्येवदेहगततयोच्यन्त इति न मन्तव्यमिति भावेन देहगतरूपाण्यन्यानि मज्जादिगतान्यन्यानीति सूचयितुं देहगतेभ्यः पृथङ्मज्जास्थिपर्वसुतावन्ति रूपाणीत्युक्तम् । कुत एवमुक्तवक्ष्यमाण बहुस्थानेष्वशीत्युत्तरसहस्ररूपाणामङ्गीकार्यत्वमित्यत उक्तञ्चेष्यकानीति ॥ अक्षरनियामकत्वान्ज्जादिषु स्थित्वारेत आद्यात्मनापरिणामनियामकत्वात्पुरुष स्थित्वावाक्प्रेरकत्वाद्यज्ञप्रवर्तकत्वात्सूर्यादौस्थित्वाहरादि प्रवर्तकत्वादिति भावः । अशीति सहस्रं वार्कलिन इत्यादेस्तात्पर्यमर्केति ॥ अर्कस्थितेत्यननेनार्केलीनतया स्थितत्वादर्कलिनामानीत्युक्तं भवति । बृहतीरित्यस्यार्थोबृहत्याख्येति । अहरभिसम्पादयन्तीत्यस्याथर्स्तान्येवाह्नां सम्पादकानीति ॥ स ऐषो क्षरसम्मन इत्यस्याथर्स्तान्यक्षरमितानीति । तान्यस्थ्यादिस्थितरूपाणि अक्षरमितानीत्यर्थः । स य एवमेतदक्षरसमानमित्यादेरर्थस्तान्युपास्येति ॥ एवं खण्डद्वयं प्रमाणषन व्याख्यायपूर्वखण्डेतस्यैतस्यात्मनः प्राण ऊष्मरूपमित्यत्र तच्छब्देन प्रकृत सङ्घातपरामर्शेतस्योष्माक्षरप्रतिपाद्यत्वमयुक्तं भगवन्मात्रपरामर्शेप्रकृतत्याग इत्यतो व्याचष्ये ॥ तस्यैतस्येति ॥ तस्यै तस्यात्मन इत्यनूद्यतस्यात्मन इत्यस्यार्थस्तस्य शरीराख्यस्यात्मन इति ॥ आत्मन इत्येतदावर्तत इति भावेनानुवादपूर्वमर्थमाह ॥ आत्मनोय आत्मा आदानादिकर्तातस्येति ॥ विशेष्यप्रदर्शकमेतस्येत्येतदर्थकथनपूर्वमनुवदति ॥ परमात्मन एतस्येति ॥ अस्थ्नांमज्ञांपर्वणामिति त्रीणि इत्यादिवाक्यमस्थ्यादिनामक भगवद्रूपपरतया व्याख्यातम् ।
?R
आथ्यादिपरमेवकिं नस्यादित्यत आह ॥ अस्थ्नामिति ॥ विंशत्युत्तरसप्तशतसङ्खयाकतयोक्तान्यप्यस्थ्यादीनि किं नस्युरित्यत आह ॥ अस्थ्यादीन्येवचेदिति ॥ त्रक्षणि षष्यिशतान्यक्षराणामित्यादि नोष्मक्षरसन्धिनामकान्युक्तानिकानितानि विष्णुनाम्मीत्यत आह ॥ ष् ण् ष्ण् इत्येतानीति ॥ ष् इत्यूष्म ण् इति तदतिरिक्तमक्षरं ष्णु इति सन्धिरित्यर्थः । तहतर्यूष्मणामक्षराणां सन्धीनामिति बहुवचनानुपपत्तिरित्यत आह ।तद्गतेति ॥ तद्गतभगवद्विवक्षया बहुवचनम् । तथाचोष्मणामूष्माक्षरगतानां रूपाणामिति भावः । उपसर्गमात्रं वीत्याहुः । केचिन्नामष्णुमात्रकं षकारञ्चणर्ौपूर्वोत्तरावपीति पक्षानुसारेणष्ण्ष्ण्इत्येतानीत्युक्तं क्वचिद्विष् णुष्णुरित्येतानि भाष्यटीकयोः पाठः तत्रोपसर्गस्याप्यनुवादमात्रमिति ज्ञेयम् । अहानितानिरात्रयस्तास्तेसन्धय इत्युक्ताहरादिशब्दान्निर्वक्ति ॥ अहार्यत्वादिति ॥ अहायर्त्वात् तिरस्कार्यत्वात् सन्धानाद्दिवारात्ऱ्योः सन्धिकरणशत् यान् सन्धीन् अवोचामतेसन्धयः । यानूष्मणोवाचामरात्रयस्ताः । तान्यक्षराणितान्यहानीत्येतद्वयाचष्ये ॥ सन्ध्यूष्मेति ॥ साशीति कसहस्रक मीशीत्यत्तरसहस्रसङ्खयाकानि विष्णोरूपाणीत्यर्थः । यान्यक्षराण्यस्थीनितानीत्यध्यात्मप्रकरणं व्याचष्ये ॥ तान्येवेति ॥ पर्वशब्दव्याख्यानपूर्वमस्थिमज्जाशब्दौ च निर्वक्ति ॥ परज्ञानादिति ॥ वागतिगन्धनयोरिति धातोः वा तेर्गत्यर्थत्वाद ज्ञानादित्यक्तम् । तु शब्देन परज्ञानादेवनतु पूर्वाभेदादित्यर्थः । अस्थानादस्थिरत्वान्मदनान्मदजनकत्वात् । एवकारेणनतु मस्जधातुप्रकृतिकमज्जाशब्दवाच्यप्रसिद्धमज्जभेदेनेति सूचयति । एषवैमज्जेत्यस्य तात्पर्यमाह ॥ व्यक्तिरिति ॥ तस्य विष्णोः व्यक्तिर्विशेष सन्निधानम् । एष वैसम्प्रतिप्राणोमज्जेत्यस्यार्थः प्राण इति । यन्मज्जैतद्रेत इत्यस्यार्थः मज्जैवरेतोभवतीति ॥ यन्मज्जैतद्रत इत्यस्यार्थान्तरं रेतसिस्थोविशेषतः प्राण इति । मज्जासुस्थितः प्राण इत्यर्थः । न हवाॠतेप्राणाद्रेतः सिच्यत इत्यत्र प्राणात्प्राणेन युक्तं रेतः सिच्यते गर्भत्वं व्रचेदिति योजना । तथाच रेतसः सामर्थ्यविशेषदर्शनात्प्राणविशेषसन्निधानं ज्ञायत इति भावः । ननु प्रयोऽधुनारेतसोगर्भत्वाप्राप्तेः कथं सामर्थ्यमित्यांकावारकत्वेन नहवेति समग्रं वाक्यं व्याचष्ये ॥ यदीति ॥ प्राणादृतेप्रलाणसन्निधानमृत इत्यर्थः ॥ प्राणोरेतसियदिनेति ॥ रेतोनहवासिच्यत इत्यस्यार्थस्तद्रेत इति । क्वचित्कलियुगे मानुषादिषु सर्वदातद्रेतोनगर्भत्वं व्रजेदित्यर्थः । उत्सर्गतोहिकारणानां कार्यकरत्वंक्वचित्सहकारिविरहवशात्कार्याभावः नैतावताशक्त्यभावनिश्ऱ्चय इति भावः । एतेनैवयद्वाॠतेप्राणाद्रेतः सिच्यत पूयेदित्यपि व्याख्यात प्रायम् ।प्रकारान्तरेण व्याचष्ये ॥ विशेषेति ॥ प्राणादृत इत्यस्यार्थः विशेषप्राणसम्बन्धवर्जितानीति । रेतोॠतेरेतोव्यतिरिक्तमित्यस्यार्थः ॥ मांसादीनीति ॥ न सम्भवेदित्यस्यार्थो न गर्भत्वमिति । अत एव विशेष सम्बन्धवर्जनादेव । उपसंहरति ॥ अत इति । भवतु प्राणस्य रेतसिसन्निधानमत एवमज्जासुतावताभगवतो मज्जास्थत्वं कुत इत्यतः प्रवृत्तस्य एष वैसम्प्रतिप्राण इत्यस्यैष परमात्माप्राणः प्राणेस्थित इत्यर्थमाह । प्राणेचेति ॥ ततश्ऱ्चाकिमित्यत आह ॥ तस्मादिति ॥ विशेषत इत्यनुवर्तते । एष वै सम्प्रतिप्राण इत्यादेः सङ्गतिमाह ॥ मज्जास्विति ॥ त्रीणिषष्यिशतान्यक्षराणामित्यादौ भगवद्रूपाण्येवोच्यन्त इति प्रमाणेनोक्तं युक्तिमप्याह ॥ अशीतीति ॥ वणर्शनामक्षराणामूष्मणां सन्धिना मिलितानामप्यशीत्युत्तरसहस्राभावादित्यर्थः । तत्स्थरूपाणि अक्षरोष्मसन्धिनिष्ठरूपाणि । तत्सङ्खयाकान्यशीत्यत्तरसहस्रसङ्खयाकानि । अर्कलिन इत्येतदप्रतीतेः व्याचष्ये ॥ अर्क इति ॥ अर्कगतरूपाणां बृहतीसम्पादकत्वं कथमित्यत आह ॥ त एवेति ॥ तदुपपादयति ॥ वागिति ॥ न केवलं सूर्येस्थितानां विष्णुनिमाक्षरगतानां तत्प्रतिपाद्यरूपाणां पुरुषेस्थित्वा बृहतीसम्पादकत्वं किन्तु बृहतीस्थत्वं तद्वच्यत्वं चेति भावेनाशीति सहस्रं वार्कलिनोबृहतीरित्युक्तम् । तद्विभक्तिव्यत्ययेन व्याचष्ये ॥ विष्णुनामेति ॥ यानि सूर्यगतानि पुरुषेस्थित्वाबृहतीं सम्पादयन्ति तान्येवविष्णुनामाक्षरगतानितत्प्रतिपाद्यानि अशीत्युत्तरसहस्ररूपाणि बृहत्यः तद्देवताः बृहती सहस्रगताः तत्प्रतिपाद्यदेवताश्ऱ्चेत्यर्थः । तत्र युक्तिर्विष्णुनामार्थत्वादेवबृहतीसहस्रस्येति ॥ अहरभिसम्पदयन्तीत्येतद्वयाचष्ये ॥ एतान्येवेति ॥ सूर्यगतानि च । अहः शब्दस्यात्र विवक्षितमर्थमाह ॥ अहः शब्देनेति ॥ उक्तार्थेप्रमाणमाह ॥ यज्ञानामिति । 2
॥ एवं विष्णुनाम्नि ऊष्मतदतिरिक्ताक्षरसन्धिगतरूपसमुदायमुक्त्वासिंहावलोकितन्यायेन पुनः पूर्वोत्तरवर्णसंहितादेवतास्वरूपं वक्तं तस्याधिष्ठानमुच्यते ॥ चत्वार इति ॥ बाध्वः संसारबाधवद्भिः प्राप्योवायुः । शरीरपुरुषः छन्दः पुरुषो वेदपुरुषो महापुरुष इति चत्वारः पुरुषा इत्याह ॥ यं शरीरपुरुष इत्यवोचामसोयं सन्निहितो दैहिकः सर्वदेहाभिमान्यात्माशिव एव तस्य शिवस्य योऽशरीरः प्राकृतदेहरहितः प्रज्ञास्वरूपोनिरुद्धः सोयं रसः सार उपजीव्यः नियामकः । यं छन्दः पुरुष इत्यवोचामसोक्षरसमाम्नायः सर्ववर्णाभिमानित्वादक्षराख्यः स ऐ एव तस्य छन्दः सहितस्यैतस्याक्षरसमाम्नाय यस्य । अ इत्याक्रियमाणत्वादकारोवासुदेवो रसः । वेद पुरुष इति यमवोचामसपुरुष;
येन तत्प्रेरणयावेदान् तत्प्रभेदं ॠग्वेदं यजुर्वेदं सामवेदञ्च पुमान्वेदससर्ववेदाभिमानीगरुड एवेति यावत् । तस्य वेद पुरुष संज्ञितस्यैतस्य वेदाभिमानिनोगरुडस्य ज्ञोनेन
?R
परिपूर्णत्वाज्ज्ञानेन पूर्णत्वात् ब्रह्मार्त्विक् स्थतत्वाच्चब्रह्मसङ्कर्षणोरसः । तस्माद्ब्रह्मर्त्विजोवेदाभिमानिगरुडनियामक सङ्कर्षणाधिष्ठानत्वात् उत्तमप्रतिमालाभाय ब्रह्मिष्ठं वेदार्थ भूतब्रह्मज्ञानिनं यज्ञे ब्रह्माख्यमृत्विजं कुर्वीत योयज्ञस्योल्बणं शेषं पश्येत् । दृष्ट्वाच तत्समीकुर्यादिति यावत् । उक्तञ्च ब्रह्मणोयज्ञविनष्यि सन्धायकत्वं छान्दोग्ये चतुर्थाध्येयेचरमखण्डे तस्मादेवं विदमेव ब्रह्माणं कुर्वीत् । नानेवं विदमित्यन्तेन । महापुरुष इति यमवोचामससंवत्सर एव संवसतां स्वहितवृत्त्यावसतां रतिदातृत्वात्संवत्सरनामाब्रह्मैवसंवस इति प्रदत्वमेवोपपाद्यते ॥ प्रध्वंसयन्निति । अन्यानि वेदविहितवृत्त्या न वसन्ति यानिभगवद्विराधीनिभूतानि प्राणिजातानि तानि प्रध्वंस यं स्तमसिपातयन् अन्यानि भूतानि वेदविहितवृत्त्यासम्यग्वसन्ति भगवद्भक्तिज्ञानादियुक्तानि प्राणिजातान्यैक्यानि भावयन् मोक्षेस्थानैक्यमत्यैक्ययुक्तानि कुर्वन् संवत्सर एवेत्यन्वयः । तस्य महापुरुषसंज्ञितस्यै तस्य संवत्सराख्यस्य ब्रह्मणः आदित्वात्तत्तत्वात् नियमनाय सर्वत्रविद्यमानत्वान्नियामकत्वादादित्यनामाप्रद्युम्नोरसः । अधिष्ठानभेदेपि न भगवद्रूपाणां भेदोमन्तव्य इति भावेनोच्यते । स यश्ऱ्चायमिति ॥I-20
?R
सयोयं देहेसन्निहितोशरीरः प्रज्ञात्माऽनिरुद्धः यश्ऱ्चासावादित्येस्थितः प्रद्युम्नः एतत्स्थानद्वयगतं भगवद्रूपमेकमिति विद्यात् । च शब्दात् स य अकारोवासुदेवोयश्ऱ्चब्रह्मासङ्कर्षणः एकमेतदिति विद्यादिति समुच्चिनोति । तथा तद्रूपचतुष्ययं चैकमिति विद्यात् । तथैतद्रूपचतुष्ययं पूर्ववर्णप्रतिपाद्यमेकं नारायणाख्यं रूपमेवेति विद्यात् । तथोत्तरवर्णप्रतिपाद्यंभगवत्प्रादुर्भावजातमपि परस्परं पूर्ववर्णप्रतिपाद्यनारायणेन संहिताप्रतिपाद्यानिरुद्दादिरूप चतुष्ययेन चैकमिति विद्यात् । अनिरुद्धप्रद्युम्नयोरैक्यमुपपाद्यते ॥ तस्मादिति ॥ आदित्यगतस्य पुरुषगतेन प्रद्युम्नेनैक्यादेवपुरुषं पुरुषं प्रति प्रतिपुरुषमादित्योभिमुखोभवतीत्यर्थः । यद्वा प्रतिपुरुषमादित्यश्ऱ्चक्षुषिनियामको भवतीत्यर्थः । यद्वा चतुर्णामैक्यमनेनोच्यते । तस्मात्पुरुषगतेनैक्यादेवादित्य इत्युपलक्षणमादित्यगतः प्रद्युम्नोवेदगतः सङ्कर्षणः अक्षरगतोवासुदेवश्ऱ्चप्रतिपुरुषमुपकारको भवति । आदित्यगतः प्रकाशकोन्योज्ञापक इत्यर्थः । यद्वा पूर्वोत्तरवर्णसंहिताप्रतिपाद्यनां सवर्ेषामप्यैक्यमनेनोच्यते । तस्मात्पुरुष हृदयमध्यगतेनानिरुद्धेनैक्यादेवादित्यादिः सवोपि प्रतिपुरुषं नियामको भवतीत्यर्थः । सूर्यान्तस्थस्य कारणत्वापरपर्यायमादित्वं तत्तत्वं नियामकत्वं द्यातकत्वं चोक्तम् । तत्र सम्मतिरुच्यते तदपीति । अतिशयेनचित् चित्तरन्तदेवाकारलापेन चित्रम् । चेतनेभ्योविशिष्यं देवानामननाच्चेष्यनादीशितृत्वात्कतर्ृत्वादनीकं मित्रस्य वरुणस्याग्नेश्ऱ्चक्षुश्ऱ्चक्षयतीति चक्षुर्ज्ञान प्रदम् । अपरोक्षतोज्ञातृसूर्यगतं ब्रह्मोदगादुदैत् । जगतो जङ्गमस्य तस्थुषः स्थावरस्य च स्थावरजङ्गमात्मकानां सवर्जीवानामादानात्प्रलयेऽन्यदाप्यत्तृत्वच्चात्मा सूरिप्राप्यत्वात्सूर्यनामासूर्यगोभगवान् द्यावापृथिवी अन्तरिक्षञ्च प्रकाशेन प्रादुर्भावसमुदायेन । सन्धिगतैरनिरुद्धादिभिश्ऱ्चतुर्भिरेतामेवसन्धीयमानां संहितामनुविधं अनुविधां समीचीनां मन्यत इति स्महबाध्व इत्यर्थः । संहितादेवतायानकेवलमुक्ताधिष्ठानमात्रं किन्त्वनन्तान्यधिष्ठानानितदनुबद्धानीति भावेनोच्यते ॥ एतं ह्येवेति ॥ एतं महापुरुषगतमादित्यनामानं सौरमन्त्रोक्तमेव बह्वृचाॠग्वेदिनोमहत्युक्थेबृहतीसहस्रेमीमांसं तेजानन्ति तद्वा इदं बृहतीसहस्रं सम्पन्नं तस्य यानिव्यञ्जनानितच्छरीरमिति खण्डे तद्योहं सोसाविति बृहतीसहस्रप्रतिपाद्यस्य सूर्यगतत्वामुक्त्वा तदुक्तमृषिणासूर्य आत्माजगतस्तस्थुषश्ऱ्चेत्यस्यैवमन्त्रस्योदाहरणात् । चक्षुर्मित्रस्य वरुणस्याग्नेरिति अग्निनियामकत्वेनोक्तमेतमेवाध्यर्यवोयजुर्वेदिनोग्नौमीमांसंतेऽग्नेरध्वर्युसम्पाद्यत्वात् । छन्दोगा एतं महाव्रतेमहाव्रताख्यकर्माङ्गभूतस्तोत्रेतत्सम्बन्धीष्यकाचितौचमीमांसन्ते । महाव्रते आदित्यगतस्यैव ऐ तपन्नेवास्मीत्युक्तत्वात् । सामान्यादित्यादिति छान्दोग्येसाम्नामादित्यानुबन्धोक्तेश्ऱ्च । आप्राद्यावापृथिवी अन्तरिक्षमित्युक्तमेतमेवास्यां पृथिव्यां एतमेवदिवि एतमेवान्तरिक्षस्थेवायावेतमेवाकाशेवरुणस्य चक्षुरित्युक्तमेवाप्सुतस्थुष आत्मेत्युक्तमेतमेवौषधीष्वेतं वनस्पतिषु । अत एवतदभिमानित्वादेतं चन्द्रमस्येतं नक्षत्रेषु जगत आत्मेत्युक्तमेतं सर्वेषु भूतेषु अनीकामित्युक्तमेतमेवनियामकत्वादि गुण बृंहितत्वाद्ब्रह्मेत्याचक्षते इत्यर्थः । यद्वा छन्दः पुरुषगतं वेदपुरुषगतमेतमेवबह्वृचामहत्युक्थेवेदसारभूते बृहतीसहस्रेऽस्यां पृथिव्यान्तदनुबन्धिष्वोषधिवनस्पतिषु अग्नावप्सुचमीमांसन्ते एतमध्वर्यवोग्नावन्तरिक्षस्थेवायावाकाशेचमीमांसन्ते । छन्दो गाएतं महाव्रतेदिवितदनुबन्धिषु चन्द्रनक्षत्रेषु एवं सर्वेषु भूतेषु मीमांसन्त इत्यर्थः । तथाहि छन्दोगश्रुतिः पअजापतिहिलोकानभ्यतपत् । तेषशं तप्तानां रसान् प्रवृहन् अग्निं पृथिव्यावायुमन्तरिक्षादादित्यं दिवः । एतास्तिस्रोदेवता अभ्यत पत्तासान्तप्यमानानां रसान् प्रवृहयत् । अग्नेर्ॠचोवायोर्यजूंषिसामान्यादित्यादिति । यद्वा एतं शरीरपुरुषशब्दितशिवान्तर्गतमेवाष्यमूर्तित्वात्क्षित्यादिषुपञ्चसुतदनुबन्धिष्वोषधिवनस्पतिषु चन्द्रेतदनुबन्धिषुनक्षत्रेषु
?R
सूर्यान्तर्गतत्वादेवसौरमन्क्तप्रकारेण प्रथमयोजनारीत्यामहदुक्थादिषु सर्वेषु स्थानेष्वचक्षत इति योज्यम् । पूर्ववर्णप्रतिपाद्योनारायण उत्तरवर्णप्रतिद्यः सर्वोपि प्रादुर्भावश्ऱ्चैतं ह्येवेत्येतच्छब्देनपरामृश्यसर्वान्तर्गतत्वेनोच्यत इत्यवगन्तव्यम् । स एष भगवान्संवत्सरसमानः संवत्सरसंमानं चक्षुर्मुखरूपसमसङ्खयाकः । चतुर्मुखस्यानन्तमूर्तित्वात्तावद्रूपैस्तन्नियामकः । अत एव पूर्णदर्शनशक्त्यादिगुणकः स य एवमेतं संवत्सरसम्मानं चक्षुर्मयत्वादिगुणविशिष्यमात्मानं परस्मा अयोग्यायशंसति तस्य वेदादुग्धदोहाभवन्तीत्युत्तरखण्डेनान्वयः । चत्वारः पुरुषा इति बाध्व इत्यत्र बाध्यः कश्ऱ्चन ॠषिरित्यन्यथाप्रतीतेः व्याचष्ये ॥ संसारेति ॥ एतेन बाध्यन्त इधति बाधाः तैः वायतेप्राप्यत इति बाध्वः इति मूलार्थ इत्युक्तं भवति । एतदुपपादयति ॥ सहीति ॥ शरीरपुरुष इति यमवोचामसदैहिक आत्मेत्यादिवाक्य चतुष्यं व्याचष्ये ॥ सर्वदेहेत्यादिना ॥ तस्य योयमशरीरः प्रज्ञात्मासरसः । तस्यै तस्याकारोरसः तस्यैतस्य ब्रह्मरसः तस्यैतस्यासावादित्योरस इति वाक्य चतुष्ययं क्रमेणव्याचष्ये ॥ सारःशिवस्येत्यादिना । अयमित्यस्यार्थोदेहस्थित इति । ज्ञानबृंहणाज्ज्ञानपूर्णत्वात् । यद्वावेदनियामकत्वेन तदध्येतृणां ज्ञानेन पूरणात् । ब्रह्मशब्दस्यार्थान्तरं ब्रह्मर्त्विगिति । तस्माद्ब्रह्माणां ब्रह्मिष्ठमित्यस्यार्थः तस्मादिति । हि यस्माद्ब्रह्मर्त्विजिविशेषणहरिः स्थितस्तस्मात्तस्योत्तमाधिष्ठनलाभाय ब्रह्मिष्ठ ब्रह्माणं कुर्यादित्यर्थः । य आदित्यसंस्थितः प्रद्युम्नो भगवान्हरिः स एव ब्रह्मणश्ऱ्चतुर्मुखस्य सारभूत इति योजना । एव शब्देन प्रसिद्धमादित्यं व्यावर्तयति । आदित्यशब्दं निर्वक्ति ॥ सह्यादिरिति ॥ आदित्वादादिः ततत्वात् नियामकत्वाद्य इत्यर्थः । स यश्ऱ्चायमशरीरः प्रज्ञात्मायश्ऱ्चासावादित्ये एकमेवतादिति वाक्यं व्याचष्ये ॥ स एवेति ॥ य आदित्यगः प्रद्युमनाभिधोहरिः यश्ऱ्चानिरुद्धतनुःसर्वदेहेषुस्थितः स स एक एवेत्यन्वयः । द्वितीय एव शब्दस्तु आद्ितयगोविष्णुरेवनतु प्रसिद्धोमण्डलान्तर्गतः सूर्य इत्यवधारकः । स यश्ऱ्चायं यश्ऱ्चासाविति चशब्दसमुच्चेययोः सङ्कर्षणवासुदेवयोरप्यैक्यमनेनोच्यत इत्याह ॥ सङ्कर्षण इति ॥ तद्रूपचतुष्ययमेवविद्यादित्यप्यथर्माह । एकः सचतुर्विध इति ॥ चतूरूपस्य पूर्ववर्णप्रतिपाद्येन नारायणेनाप्यैक्यमनेनोच्यत इत्याह । एकः सचतुविध सति ॥ चतुर्विधोप्येकोनारायण इत्यर्थः । उपलक्षणमेतत् । उत्तरार्णप्रतिपाद्यः प्रादुर्भावसमुदायोपि पूर्ववर्णप्रपाद्येन संहिताप्रतिपाद्यैरनिरुद्धादिभि;
परस्परमेक इति द्रष्यव्यम् । अत एवान्येषामपि रूपाणामिति विद्यादित्यभेदमतिदेक्ष्यति तस्मात्पुरुषं पुरुषं प्रत्यादित्योभवतीत्येतदनिरुद्धप्रद्युमनयोर्देहादित्यगतयोः ऐक्योपपादकत्वेन व्याचष्ये ॥ प्रतीति ॥ यस्मात्प्रतिपुरुषं योविष्णुर्नियामकः स्थितोसावेनादित्येस्थित्वाद्योतक एतस्मादुभयगतयोरैक्यादेवप्रतिपुरुषं मां प्रतिमां पअतीति द्यातक इत्यन्वयः । यद्वा एतस्मात्पुरुषादित्यगतयोरैक्यादेवादित्यगतो विष्णुः प्रतिपुरुषञ्चक्षुषिनियामकः स्थित इत्यर्थः । यद्वक्ष्यति सूर्यमण्डलगोविष्णुः देहे चक्षुषिच स्थित इत्यादि । एतेन प्रकारान्तरेण व्याख्यातं भवति । चतुर्णामैक्यपरत्वेनापि व्याचष्ये ॥ आदित्यादिष्विति ॥ आदिपदेन वर्णवेदग्रहणम् । एतेनादित्यग्रहणमुपलक्षमिति सूचयति ॥ द्योतकः प्रकाशकोज्ञानहेतुश्ऱ्चप्रतिप्रति । एतस्मात्पुरुषगतेनैक्यादेवादित्यगतः प्रद्युम्नः वर्णगतोवासुदेवोवेदगतः सङ्कर्षणश्ऱ्चप्रतिप्रति प्रतिपूरुषं भवति । प्रकाशकोज्ञापकश्ऱ्च भवतीत्यर्थ इति भावः । अनिरुद्धादीनां नारायणस्य प्रादुर्भावानां चैक्यपरत्वेन व्याचष्ये ॥ प्रतिपुरुषमिति । एतस्माच्छरीरेणानिरुद्धेनैक्यादेवविष्णुर्नारायणः वासुदेवः सङ्कर्षणः प्रद्युम्नः प्रादुर्भावरूपीच प्रतिपुरुषं नियामको भवतीत्यर्थः । अत्राप्यादित्यग्रहणमुपलक्षणमिति ज्ञेयम् । मन्चत्रं विचित्रं देवानामनीकं सेनेत्यर्थप्रतीतेः यथावद्ययाचष्ये ॥ सचेतनतमत्वादिति ॥ अतिशयेन चित् चित्तरं तदेवाकारलोपेन चित्रमिति भावः । कथं चेतनश्रेष्ठत्वमित्यतोदेवोत्तमत्वादिति भावेन देवानामनीकमिति प्रवृत्तमिति भावेनोत्तरवाक्यतात्पर्यमाह । मुख्यत्वात्सर्वदेवानामिति ॥ यद्वाचित्रपदं प्रकारान्तरेण व्याचष्ये ॥ मुख्यत्वादिति ॥ सर्वदेवानां मध्येमुख्यत्वाच्चचित्रमित्यर्थः । चित्र आश्ऱ्चर्य इति धातोः चित्रमद्भुतं श्रेष्ठमिति पर्याया एते शब्दा इति भावः । सद्यश्ऱ्चितत्रश्रवस्तमइत्यत्र चित्रमद्भुतं श्रवः कीर्तियर्स्यासौचित्रश्रवाः । अग्न्यकीर्तीनां पुरुषाणां मध्य इति ॠग्भाष्यटीकायां व्याख्यातत्वात् । देवानामनीकमित्यस्यार्थः देवानामननादिति । अननात्प्रेरणादन् । ईशितृत्वादी कर्तृत्वात्कमित्यर्थः । उदगादित्यस्यार्थः उदैदिति । मित्रस्यवरुणस्याग्नेश्ऱ्चक्षुरित्यस्यार्थोज्ञानदत्वादिति । चक्षयतीति चक्षुर्ज्ञानप्रद इत्यर्थ इति भावः । चष्य इति चक्षुरित्यप्यर्थमाह । र्देवानामिति । कर्मणिषष्ठी एतेन कर्त्रा । यद्वा देवानां मित्रादीनामयं चक्षुश्ऱ्चक्षुरधिष्ठाता कुतः एतेन चक्षुरधिष्ठितेन दर्शनादित्यर्थः ॥ द्यावापृथिवी अन्तरिक्षमाप्रा इत्यस्यार्थ आपूरयदिति । जगतस्ततस्थुषश्ऱ्चात्मेत्यस्यार्थः आदानादिति । उपादानात्सर्जनात् । प्रलयेप्यन्यदाप्यत्तृत्वाच्चजगतः स्थावरस्यचेति सर्वजीवानाम् ।एतामनुविधमित्यस्य संहिताप्रतिपाद्यैरनिरुद्धादिभिः पूर्वार्णप्रतिपाद्यनारायणेनोत्तरार्णप्रतिपाद्यप्रादुर्भावैश्ऱ्चसन्धीयमानामित्यभिप्रेत्य व्याचष्ये ॥ एवमिति ॥ एवमुक्त पअकारेण यदाचतुर्विधोविष्णुः संहिता ज्ञायते पूर्ववणर्स्य नारायणाभिधं रूपं ज्ञायते । समस्ताः
?R
प्रादुर्भावाश्ऱ्चरमार्णस्य देवता ज्ञायन्ते तदैवसंहितामनुविधं सम्यक् सन्धितां मन्य इति वायुराहेत्यर्थः । इति हस्माहबाध्वएतं ह्येवेत्युत्तरेणान्वयं मत्वा व्याचष्ये । आहवायुरिमंविष्णुमित्यादिना । एतेन बाध्वोवायुरेतं विष्णुं महदुक्थादिषु मीमांसन्त इत्यप्याहेत्यर्थ उक्तो भवति । इममिति पूर्वप्रस्तुत नारायणमनिरुद्धादिचतूरूपिणं प्रादुर्भावरूपञ्चेत्यर्थः ॥ इष्यकानामिति ॥ महाव्रतेचेतव्येष्यकाधिष्ठितदेवतामित्यर्थः । एतमस्यामित्यादेरर्थ एतमेवेति । ब्रह्मेत्यस्यार्थः पूर्णेति ॥ संवसतोरमयतीति संवसद्रः स एव वर्णविपर्ययेण संवत्सर इत्यर्थमभिप्रेत्यसंवत्सरशब्दार्थमाह ॥ संवसदिति ॥ विहितवृत्त्यावसतां दुखप्रदत्वादित्यर्थः । नन्वस्मत्समसङ्खयाकोपि भवति भगवान् किं विशिष्योच्यते संवत्सरसम्मान इतीत्यत आह । नियामक इति ॥ 3
॥ (35)
बाध्वोक्तविद्यायानकेवलं पूर्वोक्तन्यायेन फलं सुमहत्किन्तु शतवारमावर्ततेनायोग्योपदेशादिदोषनिवृत्तिश्ऱ्चफलमित्युक्तिपूर्वं पुरुषादित्यगतयोरैक्येयुक्त्यन्तरं चोच्यते स्मिन् खण्डे । तत्र तावदयोग्योपदेशादि न कार्यमिति वक्तुमुपदेशे प्रत्यवाय उच्यते ॥ दुग्धेति । य एतमात्मानं परस्मैमोक्षायोग्यायशंसत्युपदिशति तदर्थेवामहावअते उक्तपअकारेणस्तवनशंसनेष्यकाचयनाद्यार्त्विज्यङ्करोति । तदाऽस्यशंसकस्यवेदादुग्धदोहागा इव पूर्वं दुग्धः नेतः परं दोग्धव्यं दुह्यत इति दोहः क्षीरं यासान्तागावय इव विफला भवन्ति । वै?
फल्यं प्रकारद्वयेनोच्यते । नतस्येति ॥ तस्य शंसकस्यानूक्तेवेदवचनेगुरूक्त्यनुसारेण प्रवचनीयत्वात् । वेदानुवचनं तथेत्याभिधानाच्चभागस्तत्पआप्यं ज्ञानफलं नास्तिसुकृतस्य पन्थां पन्थानं सुकृत साध्यमामुष्मिकर्माङ्गचनवेदन प्राप्नोतीति प्रकारद्वयेन दुग्धदोहाभवन्तीत्यन्वयः । तद्वेदार्थज्ञानवैपल्यमेतत्कमर्वैफल्यं च ॠषिणोक्तं सचिविदं कर्मसञ्चयवेत्तारं स खायं शरीरेस्थित्वोपकारकं यस्तित्याजायोग्येभ्य उपदिशति । अयोग्यार्थं योग्येष्वप्याचार्यपित्रोरन्यार्थं वा महाव्रतेशंसनादिकं च करोति । तस्य वेदवाचिभागः फलं नास्ति सुकृतस्य पन्थानं च न प्रवेदन लभते हि विद्लृलाभ इत धातोः । तथा यो भगवन्तं तत्याजेश्ऱ्वर एव नास्तीत्यादिरूपेण त्यजति । तथा यश्ऱ्चरमाब्रह्मादितद्भक्ततारतम्यापरिज्ञानादिनातन्तं त्यजति । स यदीं यदेवशृणोति तदलकमेवारतिरूपां धतमः प्राप्तिकारणमेवशृणोति । तच्छ्रवणन्तमः प्रप्तिकारणमेवेति यावत् । तया योनिषिद्धकर्माचरणेन विहितत्यागेन च भगवत्प्रियत्यागात्तत्पूजाया अकरणाच्चतं त्यजति । स यदेवशृणोति तदलकमेवशृणोति । नकारस्थने अकारः रलयोरभेदः तथाच नरकसाधनमेवशृणोति कार्यकारणयोरभेदोपचारः । (उदाहृतमन्त्रेत्यागं सामान्येनानूद्यतमोनरकवेदसुकृतफलाभावलक्षणाश्ऱ्चत्वारोदोषा उक्ताः । तेदोषा उक्तविधत्यागचतुष्ययवतां समा इति प्रतीयते ।) य आत्मानं परस्मैशंसति न तस्य
?R
ानुक्तेभागोस्ति सनवेदसुकृतस्य पन्थानमित्युक्तार्थे उदाहृतमन्त्रे । यदीं ृणोत्यलकं ृणोतीत्ययोग्योपदेश तदर्थशंसनलक्षणं त्यागफलत्वेन यदीं ृणोत्यलकमिति तमसोवणर्नमयुक्तमित्यत स्तदीश्ऱ्वरस्वरूपत्यागादित्यागान्तरफलमयोग्योपदेशादिप्रस्तुतेत्यागेतु न तस्यानूक्तेभागोस्तिनवेदसुकृतस्य पन्थामिति प्रागुक्तं दोषद्वयमेवनतस्य वाच्यपि भागो अस्ति नहि प्रवेदसुकृतस्य पन्थामित्शेनोच्यत इत्यवधार्यते । नतस्येति ॥ तत्तत्रायोग्योपदेशेतदर्थ शंसनादौचत्यागेन तस्यानूक्ते भागोऽस्ति नवेदसुकृतस्य पन्थामिति यद्दोषद्वयमुक्तं तदेवतदुक्तं तेनोक्तम् । न तस्य वाच्यपि भागोस्ति न वेदसुकृतस्य पन्थामिति मन्त्रखण्डेनोक्तं भवतीत्यर्थः । यन्निमित्तं दोषोत्कीर्तनं तदिदानीमुच्यते । तस्मादिति । तस्मादनर्थप्राप्तेरेवं विद्वान् महेवअते परस्मा अध्वर्युर्नाग्निं चिनुयात् उद्गातापरस्मैमहाव्रतेन स्तोत्रेण न स्तुवीत होताच नपरस्मै एतदहो बृहतीसहस्रं शंसेत् उक्तस्यापवाद उच्यते । पित्रेवेति ॥ अस्यपि तु राचार्यस्य वार्थेकृतं तच्छंसनमात्मन एव कृतं भवति फलशाधनं भवति परमात्मनश्ऱ्चप्रियं भवति । परस्मै अयोग्यायतत्वोपदेशञ्च न कुर्यादित्यपि द्रष्यव्यम् । यदि प्रमादाद्दाक्षिण्यादर्थलोभाद्वाशंसेत्तदाप्रायश्ऱ्चित्तार्थंबाध्वोक्तविद्यांशतवारमावर्तयीतेत्यपि द्रष्यव्यम् ॥ स यश्ऱ्चायमशरीर इति पूर्वखण्डोक्तं भगवद्रूपैक्यं युक्त्यन्तरेणोपपादयितुं परामृश्यते । स यश्ऱ्चायमिति च शब्देन पूर्ववद्योक्षरेवसुदेवोयश्ऱ्चवेदेसङ्कषर्ण एकमेवतदित्यवोचामतन्नारायणादिरूपजातं चैकमिति चावोचामेति योज्यम् । तत्र तावदुपलक्षणत्वेनानिरुद्धप्रद्युमनयोः शरीरसूर्यगतयोरैक्येयुक्तिरुच्यते । स यश्ऱ्चायमिति ॥ योसावादित्येसूर्यमण्डलेप्रद्युम्नः स एवायं पुरुषेदेहेचक्षुषिस्थितः । योयं पुरुषे चक्षुषिस्थितः यश्ऱ्चदेहेहृदयेऽशरीरः प्रज्ञात्माऽनिरुद्धस्तद्रूपद्वयमेकमेवतस्मात् यः पुरुषे योनिरुद्धोयश्ऱ्चासावादित्येप्रद्युम्नः तत्स्वरूपद्वयमेकमित्यवोचामेति योजना । स्यादेद्देहगतयोरनिरुद्धप्रद्युम्नयोरैक्ये तदेवकुतः उभयोर्जीवलक्षणैकपकार्यकात्वा त्तदेवकुतस्तयोर्जीवशरी प्रहाण प्रसक्तिकाल एवमृति सूचक दुर्निमित्तदर्शनादिति भावेनोच्यते ॥ ताविति ॥ तौ हृदयेचक्षुषिचस्थितावनिरुद्धप्रद्युम्नौ यत्र यदायस्माद्देहाद्विहीयेते चिगमिषतस्तदादित्यश्ऱ्चन्द्रमा इव दृश्यते रश्मयोनप्रादुर्भवन्ति । द्यौर्लोहिनीरक्तवर्णाभवति । यथामञ्जिष्ठावैद्यशास्त्रप्रसिद्धामूलिका । तथा लोहिनीपायुर्व्यस्तः
?R
विवृतो भवति । अस्य शिरः काकस्य कुलायं नीडन्तस्य गन्धवद्गन्धोस्यास्तीति काककुलायगन्धिकं भवद्वायति वायतेज्ञायते घ्राणविषयो भवति । अस्यात्मान्तर्यामीपरमात्मासम्परेतः सन्निकृष्यनिर्गमः सपुरुषोचिरमिवनजीविष्यतीति विद्यात् क्लृप्तं वर्षशतमप्यल्पकालमेवेति सूचनायचिरमिवेत्यक्तम् । स परलोक साधनतया यत्करणीयं मन्यते तत्कुर्वीत । यदन्तियच्चदूरक इति सप्तर्चोजपेत् । यदन्तियच्चदूरकेभयं विन्दतिमामिह । पवमानवितज्जहि । पावनात्पवमानवायो । इहयदन्तिकेभयम् । यच्चदूरके दूरेभयं मां विन्दति प्रप्नोति तद्भयं विजहि विनाशय ॥ 1
॥ पवमानः सो अद्यनः पवित्रेणविचर्षणिः । यः पोतासपुनातुनः । विचर्षणिः विविधप्रजावान् पअजाश्ऱ्चर्षणयः प्रोक्ता इति वचनात् सः पअदिद्धोयः पवमानः । नःस्वामिनापवित्रेण पावयित्वात्रातीति पवित्रनाम्नाहरिणातत्प्रसादेन लोकानां पोता पावयिता सनोस्मानप्यद्यपुनातु ॥ 2
॥ यत्तेपवित्रमचिर्ष्यग्नेविततमन्तरा । ब्रह्मतेन पुनीहिनः । अग्ने अङ्गनेतृत्वादग्निनामकवायो अन्तरापुरुषदेहमध्ये । वितते अर्चिषिविततमर्चिष्मत्पवित्रं यद्बअह्मतेननःपुनीहि ॥ 3
॥ यत्तेपवित्रमर्चिवदग्नेतेनपुनीहिनः । बअह्मसवैःपुनीहिनः । अग्नेवायोतेस्वामिभूतमर्चिवदार्चिष्मत् यत्पवित्रं ब्रह्मतेननः पुनीहि । तं प्रसादयित्वातेन पुनीहीति यावत् । बअह्मणः परब्रह्मणः सवैर्ज्ञानाख्यपअसूतिभिश्ऱ्च स्वयं पुनीहिनः ज्ञानमुत्पाद्यापि पुनीहीत्यर्थः ॥ 4
॥ उभाभ्यां देवसवितः पवित्रेणसवेनच । मांपुनीहिविश्ऱ्वतः । ज्ञानपअसवात्सवितृनामकदेव । क्रीडादिगुणविशिष्यवायोपवित्रेणबअह्मणासवेन प्रसवेनचेत्युभाभ्यां मांविश्ऱ्वतः सर्वस्मात्पुनीहि । नपुनः पअसादमात्रेण । तस्य कर्मणापि सम्भवान्नपि ज्ञानमात्रेण । प्रसादजनकज्ञानमात्रस्येतरसाधारणत्वादित्यभयनियमनायेयं ॠगित्यपौनरुक्त्यम् ॥ 5
॥ त्रिभिष्ट्वंदेवसवितर्वर्षिष्ठैः सोमधामभिः । अग्नेदक्षैः पुनीहिनः । अग्नेसवितर्देव सौभ्यस्वरूपत्वात्सोमत्वं वर्षिष्ठैर्भक्ताभिलषित वर्षणशीलैर्दक्षैस्त्रिभिधर्ामभिः क्षीराब्ध्यादिधामत्रयगतैर्भगवद्रूपैर्नः पुनीहि । तेजस्वरूपं च गृहं प्राज्ञैर्धामेति कथ्यत इति वचनात् ॥ 6
॥ पुनन्तुमां देवजनाः पुनन्तु वसवोधिया । विश्ऱ्वेदेवाः पुनीतमाजातवेदः पुनीहिमा । हेजातवेदः जातं वेत्तीति जातवेदाः तस्य सम्बुद्धिर्जातवेदः सर्वज्ञवायोधियासंविदात्वदनुमत्यादेवजनादयः माधियापुनन्तु ज्ञानं दत्वापुनन्तु तेयथापुनन्ति तथात्वं मांपुनीहीत्यर्थः ॥ 7
॥ आदित्प्रत्नस्य रेतस इत्येकाजप्या । आदित्प्रत्नस्यरेतसोज्योतिष्पश्तवासरम् । परोयदिध्यतेदिवा । प्रत्नस्य पुरातनस्यरेतसोमहारतेर्विष्णोर्वासेनस्वसन्निधानेन रमयति सुखयतीति वासरम् । यज्ज्योतिर्दिवांदिवः परः परस्ताद्वैकुण्ठलोके इध्यते दीप्यते । अथ यदतःपरोदिवोज्योतिः दीप्यत इति श्रुतेः । तज्ज्योतीरूपम् । आत् इत् अकारवाच्यभगवदनुग्रहादेव । पश्यन्त्युपासका इत्यर्थः । यत्र बअह्मापवमानेति हड्जपेत् । यत्र ब्रह्मापवमानः छन्दस्यां वाचं वदन् । ग्राव्णासोमेमहीयते सोमेनानन्दं जनयन्निन्द्रा येन्दोपरिस्रव । इन्दो इष्यप्रद पवमानवायो ब्रह्मामुक्तचतुर्मुखः । यत्र यस्य विष्णोलोके छन्दस्यां छन्दः सम्बन्धिनींवाचं वेद वाचं वदन् व्याकुर्वन् सोमेसौम्यस्वरूपत्वात्सोमनामकभगवद्विषये ग्राव्णासुतेन सोमेनेष्ट्वातत्प्रसादेन स्वस्यानन्दं जनयन्मुक्तनिकरैमर्हीयते । तस्माइन्द्रायविष्णवेमां परिस्रवस्रावय ॥ 1
॥ यत्र ज्योतिरजस्रंयस्मिल्लोकेस्वर्हितम् । तस्मिन्मान्धेहि पवमानामृतेलोके अक्षित इन्द्रायेन्दोपरिस्रव । यत्र लोके अजस्रं निरन्तरं ज्योतिः प्रकाशः यस्मिन्लोकेस्वरानन्दरूपं ब्रह्महितं निहितम् । अमृते तद्गतानां मृत्यनापादकेमोक्ष लक्षणे वा । अक्षिते स्वयं नाशरहितेतस्मिंल्लोके पवमान मां निधेहि । निधायचतद्गतायेन्द्रायगमयेत्यर्थः ॥ 2
॥ यत्रानुकामं चरणं त्रिनाकेत्रिदिवेदिवः । लोकायत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दोपरिस्रव । अङ्कसुखं नाकं परमसुखं त्रिविधं नाकंत्रिनाकं त्रिविधेपरमसुखसाधनेत्रिदिवेत्रिदिवशब्दवाच्येस्वेद्वीपादौयत्र लोके अनुकामंचरणं स्वेच्छयानुसारेण गमनं भक्षणञ्च विद्यते यत्र लोकेदिवः सरस्वतयाज्योतिष्मतोलोका वर्तन्ते तत्र माममृतं मुक्तं कुवित्यादि ॥ 3
॥ यत्र कामानिकामाश्ऱ्चयत्रं बृध्नस्य विष्यपम् । स्वधाचयषतृप्तिश्ऱ्चतत्र माममृतं कृधीन्द्रायेन्दोपरिस्रव । यत्र भोगार्थं कामाविषयाश्ऱ्चनिकामायथेष्यं सन्ति । ब्रद्श्रस्य सूर्यस्य विष्यपं स्थानम् । स्वधासुखं तृप्तिरलं बुद्धिश्ऱ्चतदभिमानि देवते च । तत्र माममृतं कृधि ॥ 4
॥ यत्र राजावैवस्वतोयत्रावरोधनं दिवः । यत्रामूर्यह्वतीरापस्त्रमाममृतं कृधीन्द्रायेन्दोपरिस्रव । यत्र वैवस्वतरोराजामुक्तोयमः । दिवः सरस्वत्या अवरोधनं परिवारभूताः सर्वदेव्यः । यह्वतीः स्यन्दमाना अमूरापः गङ्गाद्याः ॥ 5
॥ यत्रानन्दाश्ऱ्चमोदाश्ऱ्चमुदः प्रमुद आसते । कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दोपरिस्रव । यत्र लोके आन्दा अपरोक्षज्ञानङ्गयाविषयोपाधिरहिताः स्वसुखविशेषा वर्तन्ते । भोगनिमित्तकामोदाः मुदोल्पभोगनिमित्तकाः प्रमुदोति प्रकृष्यविषयोत्थाः सुखविशेषाः आसते तिष्ठन्ति । यत्र कामस्येच्छायाः काम्यन्त इति कामाः विषयाः आप्ताः पूर्णाः तत्र माममृतं कृधि ॥ 6
॥ उद्वयं तमसस्परीत्येकाजप्या । उद्वयं तमसस्परिज्योतिष्पश्यन्त उत्तरम् । देवन्देवत्रासूर्यमगन्मज्योतिरुत्तमम् । तमसोज्ञानादुद्गतावयमुत्तमं सर्वोत्तमं विष्ण्वाख्यं ज्योतीरूपमगन्मप्राप्तः स्मः ।
?R
अथेतिनिमित्तान्तरम् । यत्र यदादित्योपि च्छिद्र इव दृश्यते तस्यैव विवरणम् ॥ रथेति ॥ रथचक्रमिवमध्येसरं ध्रत्वेनाभिख्यायेत दृश्येत । अरा इव रथनाभावित्यत्र नाभिपदस्य चक्रेप्रयोगात् । आत्मनः छायां छिद्रां वापश्येत् । तदप्येवमेवसन्निहितमरणद्योतकमेव विद्यात् । अथापि यदन्यदपि पश्येत्तत्किमादर्शेदर्पणे वोदके वा आत्मानं जिह्यशिरसं वक्रशिरसं अशिरसंशिरोहीनं वा पश्येत् । कन्याके कनीनि केविपर्यस्तेव्यत्यस्तेजिह्मेन वक्रत्वेन वा दृश्येयातां तदप्येवमेव विद्यात् । अथापि यदन्यदपि पश्येत् तत्किं अपि धायाक्षिणी अङ्गुल्या अक्षिमूलमवष्यभ्योपेक्षेतो पसमीपे पश्येत् । तत्तदाय थावटरकाणि वर्तुलास्तेजोंशादृश्यन्तेतथाक्ष्णोरपि तेजोंशाः सम्पतन्तीव दृश्यन्तेतानियदान पश्येत् तदप्येवमेव विद्यात् । अथान्यदपि स्वस्थः पुरुषः हस्ताभ्यां कर्णावपि धायशृणुयाच्छब्द श्रवणप्रयत्नं कुर्यात् । तदस एष शब्दः ज्वलतोग्नेरथस्य वोपब्दिर्ध्वनिरिवभवति श्रूयत इत्रत यावत् । तं शब्दं यदाृणुयात् तदप्येवमेव विद्यात् । अथ यदन्यदपि यत्र यदामयूरग्रीवातथाग्निर्नील इव दृश्यते मेघे अन्यैरदृश्यमानां विद्युतं वापश्येत् । यद्वा अमेघ इति पदच्छेदः मेघरहिते प्रदेशे विद्युतं पश्येदित्यर्थः । मेघेवा न्यैर्दृश्यमानां अविद्युतं न पश्येत् महामेघेवामहामरीचीः सूर्यरश्मीरिव पश्येत् तदप्येवमेव विद्यात् । अथान्यदपि यत्र यदाभूमिं ज्वलन्तीमिव पश्येत्तदप्येवमेव ति प्रत्यक्ष दर्शनानि जाग्रदवस्थायां द्रष्युं योग्यानिमरणनिदर्शनानि । अथ मरणसूचकाः स्वपना उच्यते । पुरुषं वर्णतः कृष्णम् । कृष्णदन्तं च पश्यति । स एनं हन्ति हन्तीति पश्यति अस्योत्तरत्रसम्बन्धः । वराह एनं हन्ति मर्कट एनमास्कन्दयति उपर्यापतति । आशुवायुश्ऱ्चक्रवायुरेनं प्रवहति ऊर्ध्वं नयति । सुवर्णं खादित्वापगिरति उद्गिरति । सापूपं महामधुभक्षयति । विसानिपद्ममूलानि भक्षयति । एकपुण्डरीकमेकं ररक्ताब्जंशिरसिधारयति । खरैर्वावराहैर्वायुक्तैरथादिभिर्याति । कृष्णवत्सांकृष्णां धेनुं नलदमालीरक्तकह्लारमालीदक्षिणशमुखो व्राजयति गमयति । अभयं नलदंसेव्यममृणालं जलाशयमित्यमरः । उक्तसर्वदर्शनमपेक्षितमिति न भ्रमितव्यमित्युच्यते ॥ स यदीति ॥ स प्रसक्तमरणोयद्येतेषां मध्येकिञ्चित्पश्येत् तर्ह्युपोष्यपायसंस्थालीपाकं श्रपयित्वापक्त्वा रात्रीसूक्तेनप्रत्यृचंहुत्वा एकैकचर्ाप्रत्येकं हुत्वा अन्येनान्नेन ब्राह्मणान् भोजयित्वाच रूंस्वयं प्राश्ऱ्नीयात् । रात्रीव्यख्यदायतीपुरुत्रादेव्याक्षभिः । विश्ऱ्वा अधिश्रियोधित । रतिं राति ददातीति रात्रिनाम्नीदेवी स्त्रीरूपोविष्णुर्दुर्गादेवीचायती आगच्छती सतीपुरुत्राबहुभिरक्षिभिर्नयनैः । पुरुत्राबहुधाव्यख्यत् जगद्ददर्श विश्ऱ्वाः अधि सर्वलोकेषु । विश्ऱ्वाः श्रियः अधित दधार ॥ 1
॥ ओर्वप्रा अमर्त्यानिवतोदेव्यु द्वतः । ज्योतिषाबाधतेतमः । देवीनिवतः नीचान् उद्वत उत्तमान् अमर्त्या अमर्त्यान् ब्रह्मादीन् । आ उरु अप्राः । उरुधा आसम्मतादपूरयत् । तेषां तमः अज्ञानम् । ज्यातिषा ज्ञानेनकरणेन बाधतेनाशयति ॥ 2
॥ निरुस्वसारमस्कअताषसन्देव्यायती । अपेदुहासतेतमः । आयती देवी । उषसंशुक्लवर्णमुषोनामकं प्रमदातमकं स्वस्वरूपम् । उएव । स्वसारं निर्नितरामकृत । अस्कृतेत्यस्य अकृतेत्येवपदपाठः । सूर्यादिषुस्थितः अप इत् उहासते तमः तम इत् तमश्ऱ्च । अपहासत एव निराकरोत्येव ॥ 3
॥ सानो अद्य यस्यावयंनितेयामन्नविक्ष्महि । वृक्षेनवसतिं वयः । सारात्रिर्नस्वामीयस्यास्तेयामन् यमनान्नियमनात्प्रलयेस्वान्तर्निवेशनेन संयमनाद्वा यामनामके उदरे अद्यस्थितिकालेवयः पक्षिणः वृक्षेवसतिं न । नीडमिवन्यविक्ष्महिप्रविष्याः स्मः ॥ 4
॥ निग्रामासो अविक्षतनिपद्वन्तोनिपक्षिणः । निश्येनासश्ऱ्चिदर्थिनः । ग्रामासः बहुत्वाद्ग्रामनामका असुराः त्वयि नि अविक्षत न्यविशन् । पद्वन्तः पादमात्र प्रयायिनोमानुषाश्ऱ्चन्यविशन् । अर्थिनश्ऱ्चित् अर्थिनोपि प्राप्तपुरुषार्थामुक्ता अपि न्यविशन् । आवृत्वैवोपसर्गस्य क्रियावृत्तिर्भविष्यतीति वचनात्क्रियावृत्तिः । 5
॥ यावयावृक्यं वृकयवयस्तेनमूर्भ्ये । अथानः सुतराभव । ऊर्म्ये ऊरीकृतप्रमाणे अङ्गीकृतप्रमाणेदेवि क्रूरत्वाद्वृका असुराः तत्स्वभावोजनोवृक्यः तं वृक्यम् । यवयेति पदपाठः । निर्यापय । वृकमसुरञ्चयवय । स्तनं ब्रह्मस्तेनं महासुरञ्चयवय । अथ तेषामस्मत्तोवियोजनानन्तरं नः सुतरासुखतरासदाभव ॥ 6
॥ उपामायत्तमोभावरूपाज्ञानम् । मा उप मत्समीपे । सम्यग्ज्ञानावरकतया अस्थितस्थितम् । तत् ॠणा इवेति पदपाठः । ॠणानीव । यथा सत्पुरुषोॠणपरिहारेत्यन्तमवहितोभवति तथावहितासतीयातयनिर्यापयेति भावः ॥ 7
॥ उपतेगाइवाकरं वृणीष्वदुहितर्दिवः । रात्रिस्तोमंनजिग्युषे । इव आ अकरमिति पदच्छेदः । दिवोदुहितः ज्ञानस्य सुते ज्ञानव्यङ्गयेहेरात्रि ब्राह्मणाय गा इव जिग्युषे जयिनेस्तोमं न स्तवमिव । ते स्तोमं स्तुतिमुपत्वत्समीप एव । आसम्यगकरं यथानिरुपाधिकं ब्राह्मणाय गादास्यन्ति यथावाराष्य्रस्थाः जिग्युषे राज्ञेप्रमोदभरेणस्तुतिं कुवर्न्ति तथास्तुतिमकार्षं मत्कृतं स्तवं वृणीष्वाङ्गीकुर्विति सूक्तार्थः ॥ 8
॥I-21
?R
नन्वपमृत्युश्ऱ्चेदुक्तमन्त्रजपहोमाभ्यां निवर्तते कालमृत्युश्ऱ्चेदनिवर्त्यत्वाज्जपहोमयोर्मोक्षहेतुत्वं वक्तव्यम् । कथं जपादिमात्रेण
?R
तदित्यतोमन्त्रार्थगुणज्ञानपूर्वं तद्धयाननापरोक्षद्वाराभविष्यतीति भावेन मन्त्रार्थभूतगुणोपासनाविधीयते ॥ सयोत इति ॥ सयः प्रकृतः परमात्मा अतः देशतः कालता गुणतश्ऱ्च व्याप्तः । अतिरेवातः सर्वोत्तमो वा । पूर्णत्वेन साकल्येन श्ररोतुमयोग्यत्वाद श्रुतः । अत एवागतः साकल्येनाज्ञातः । अमतो मननाविषयः । अनतः स्वतन्त्रत्वादनस्रः । अदृष्यः प्रत्यक्षेण अविज्ञातः विशेषेणाज्ञातः । अनादिष्योनाज्ञप्तः अनुपदिष्यो वा । स्वयं सर्वस्य स्वातन्त्ऱ्ेण श्रोतामन्ताद्रष्यादेष्याघोष्या घोष कर्तावक्तेतियावत् । विज्ञाताप्रज्ञातासर्वेषां भूतानां जीवानां अन्तरपुरुषः । अन्तस्थः पूर्णत्वात्पुरुषश्ऱ्च । सर्वेषुरूपेषुसमः । आत्मान्तर्नियामकः इति विद्यादुपासीतेति खण्डार्थः ॥ 4
॥ दुग्धदोहा अस्यवेदाभवन्तीत्यस्य य आत्मानं परस्मै शंसतीति पूर्वेणान्वयं मत्वा व्याचष्ये ॥ य एनमिति । तस्मादेवं विद्वान्नपरस्मा अग्निञ्चिनुयादित्याद्युत्तर ग्रन्थानुसारेणात्मान मुद्दिश्यपरस्मै यज्ञेपरार्थ शंसनादिकरोतीत्यर्थान्तरमाह ॥ योथेति । एनमुद्दिश्याशंसेतबृहतीसहस्रं होता स्तुवीतोद्गाता चिन्तिकुयर्ादध्वर्युः कामं पित्रेवाचार्यायवेत्यपवाद लब्धार्थकथनमाचार्यतो अथवापितृतोन्यस्येति । दुग्धदोहावेदानतस्यानूक्तेभागोस्ति । न वेदसुकुतस्य पन्धामित्यस्यार्थोनास्य फलमित्यादि श्रुतेः । श्रवणजन्यज्ञानस्य फलमपरोक्षद्वारामोक्षोनभवति प्रतिबध्यत इति यावत् । सुकृतस्य फलं स्वर्यम् । नन्वपरोक्षज्ञानिनाकदाचिदयोग्यापदेशादौकृते तस्यापि श्रुतिफलमोक्षप्रति बन्धःस्यात्किमित्यत आह ॥ प्रतयक्षेति ॥ विज्ञायते प्रतिबध्यते । अज्ञैर्नकर्तव्यमपरोक्षिणोप्यनर्थसद्भावादिति कैमुत्यकथनञ्चैतत् । चार्योविद्योपदेष्यैवेति प्रतीयतेऽत आह । आचार्यमिति ॥ तमेवेत्यन्वयः । तेनाचार्यशब्दस्य गुणाधिकपरत्वेन गुणाधिकस्यैवेत्यन्वयः । ननु कदाचित्प्रमादादिना योग्योपदेशादि प्रसक्तिमात्रेण ज्ञानकर्मफलमोक्षादि प्रतिबन्धः । सर्वदास्यात्किमित्यतः प्रायश्ऱ्चित्तेन तत्समीकरणं सम्भवति तदभावे प्रबलसाधनानुष्ठानपर्यन्तं मोक्षस्वर्गप्रतिबन्ध एव । सर्वथा न मोक्षाद्यभाव इत्यत आह ॥ अयोग्यस्येति । एतदेताम्बाध्वविद्याम् । एतेन विद्यायाः फलान्तरोक्त्यर्थमयं खण्ड इति ज्ञापितं भवति ।न दिवं व्रजेत्किमुमोक्षं न व्रजेदिति योज्यम् । बाध्वविद्यायोग्यायनोपदेष्यव्येत्युक्तं योग्यानाह । योग्या इति ॥ उत्तमाश्ऱ्चतुर्गुणोपासकाः । मन्त्रं व्याचष्ये ॥ कर्मेति ॥ सञ्चयः समुदायः । चिञ्चयन इति धातोः कर्मेति याग्यतया लभ्यते । यद्वा सच समवाय इति धातुरत्र कर्मपरस्तत्समुदायपरश्ऱ्च । क्रतुं सञ्चतमारुतस्येत्यत्र सचेः कर्मपरतया व्याख्यातत्वात् । प्रीत्याप्रीति पूर्वकं देशस्थत्वादेकदेहस्थत्वात् । द्वासुपर्णेति श्रुतेरिति भावः । न तस्य वाच्यपि भागोस्तीत्यस्यार्थो न विद्याया इति ।यदीं यदेवृणोति तच्छतम् । अलकमित्यस्यार्थः ॥ श्रुतञ्चेति ॥ नरकं नित्यमनित्यञ्च । नहि प्रवेदसुकृतस्य पन्थामित्यस्यार्थः नैवेति । कथमयोग्यापदेशमात्रेणतम इत्यतस्त्यागं चतुर्धाविभज्योक्तं फलं यथाग्योग्यं योजयति ॥ मुख्येत्यादिना ॥ ब्रूयादैक्यमिति स्वस्वाभिमतेनेश्ऱ्वरेणेति शेषः । ब्रह्मशब्दादेरित्यादिपदेन विष्णुर्गृह्यते । त्रिमूर्त्यैक्यं ब्रूयादित्यर्थः । मुक्ताविति ब्रह्मशर्वयोर्मुक्तौविष्ण्वैक्यमित्यर्थः । अवताराणां व्यासादीनामनवतारत्वमनवताराणां बलपृथ्वादीनां अवतारत्वं व्यत्यासः ।जीवाभेदं सर्वजीवाभेदम् । एतदन्तानां द्वितीयाविभक्तीनां ब्रूयादित्यनेनान्वयः । तथैवतत्क्रियाणां तेन मिथश्चभेदज्ञानम् । तद्रूपाणां तेन मूलरूपिणामिथश्ऱ्चभेदज्ञानं कृष्णोनारायणोन भवति कृष्णरामौभिन्नाविति तद्रूपाणामसाम्यदर्शनं तद्गुणानाञ्चासाम्यदर्शनमिति योज्यम् । रामः सम्पूर्णावतारो न कृष्ण इति । भगवति ज्ञानं बहुलं बलमल्पमिति । तद्रूपाणां तद्गुणानाञ्च परस्परमसाम्यदशर्नमिति वा । अवयवेषुपरस्परमवयवानां तेनावयविनावाभेद दृष्यिरिति योज्यम् । कुत्रचित्कालविशेषेक्वचिद्विषये । अस्यहरेर्मूलरूपिणः । स्वत एव परतः शापादेर्वाशक्त्यादिदोषसंसर्गंब्रूयादिति योज्यम् । यद्वा अज्ञानतः अज्ञानाख्यात्परतः । ज्ञानतो ज्ञानाख्यात्स्वतोवादोषसंसर्ग इति योज्यम् । अचिदानन्ददेहतामित्युत्तरेणान्वेति ॥ प्रादुर्भावेपि विभोरचिदानन्देदेहतामत एव देहत्यागा,
द्भवादिकं आदिपदेन जरादिपारवश्यादिकमित्यत्रादिपदेन क्षुत्पिपासादिपररिमाणं परिच्छिन्नत्वं गुणादिभिः गुणक्रियासंयोगादिभिः । न केवलमीश्ऱ्वरादेरभाववचनं त्यागः किन्तु तस्य तर्कैतीश्ऱ्वरादेरपलापोपि त्याग इत्याह । तर्कैरिति ॥ तत्रेश्ऱ्वराभावादौरक्तेनाग्रहाभिनिविष्येन शुष्कतर्कप्रामरण्येवारक्तेनेत्यर्थः । न केवलं तत्समाधिकादेर्भाववचनं त्यागः किन्तु तत्समं वाधिकं वापि ब्रूयादित्यादौ उक्तानां तत्समोवाधिकोवास्तीत्यादिवचनज्ञानरूपाणां त्यागानां तर्काद्यैः सम्यक् साधनञ्च त्याग इत्याह । तर्काद्यैरिति । असम्भवनिरूपणं युगपदणुत्वमहत्वादिलोकविरुद्धधर्माणां द्वितीयं त्यागमाह ॥ रमेति ॥ तारतम्यापरिज्ञानेतारतम्यां तगत्वेनोत्कर्षज्ञानानुपपत्तेः । जगन्मिथ्यात्वे जगत्कारणत्वादेरसत्यत्वापातात् । भगवद्भक्तनिन्दायास्तन्निन्दापर्यवसानत्वात् । विष्णोरेवैषः द्वितीयस्त्याग इति भावः । तृतीयत्यागमाह । निषिद्धेति । निषिद्धवर्जनस्य विहितकरणस्य च भगवत्पिअयत्वात्तत्त्यागेभगवदाज्ञालङ्घनाच्चतृतीयोपि विष्णोरेवत्याग इति भावः । ननु
?R
विप्रचित्यंशंमागन्धप्रतिवैष्णवाग्रेसरेणभीमसेनेन विष्णूत्कर्षादिकं कथं तर्हि प्रतिपादितमित्यत आह । यथाशास्त्रेति ॥ शास्त्रोक्तप्रमेय प्रनाडीमनति क्रम्येत्यर्थः । परपक्षदूषणशयखण्डशः प्रमेयोपन्यासोन दोषा वह इति भावः । यथायोग्योपदेशस्तथैवाचार्यपित्रोरन्यत्रमहाव्रतेहोत्राद्यार्त्विज्यानि चतुर्थस्त्यागः । एवं त्यागश्ऱ्चतुर्विध इति योज्यम् । त्यागानां फलं विचयति । त्यागेति ॥ क्रमादिति ॥ प्रथमत्यागेन्धतामिस्रंद्वितीयत्यागेतामिस्रमिति क्रमादित्यर्थः । तामिस्रश्ऱ्चान्धातामिस्रौद्वैनित्यौसम्प्रकीर्तिताविति तद्द्वैविध्यं स्पष्यम् । निरयंरौरवादि ॥ एतेन श्रुतञ्च नरकावहमित्येतद्विवृतं भवतिद । नदिवमित्युपलक्षणं श्रवणफलञ्च नेति ज्ञेयम् । संशयश्ऱ्चोक्ततत्वेष्विति तत्वेसंशययुक्तस्य द्वितीयत्यागिनस्तम उक्तम् । तत्र शास्त्रोक्ततत्वेष्विति नार्थः । किन्तु गुरूपदिष्यतत्वेष्वित्यर्थ इति भावेनाह ॥ उपदिष्य इति ॥ अन्योगुर्वनुपदिष्यत्वः स्वयमेवसंशयी । एतैर्दोषैस्तत्समंवाधिकं वापीत्याद्युक्तदोषैर्विनातद्रहितत्तवेन यदि साक्षादपरोक्षतोज्ञायते तर्हि साक्षान्मुक्तिदः लिङ्गभङ्गद इत्यर्थः । यद्वा एतैर्दोषैर्मुख्यत्यागादि दोषैर्विनाविद्यमानेन पुरुषेणयदि ज्ञायत इत्यर्थः । ननु यदुक्तमन्योनिरयायैवेति तदयुक्तम् । भगवत्सर्वोत्तमत्वनिश्ऱ्चयवतां बहुवाक्यविरोधदर्शनेन तत्र तत्र संश्य इद्भावेनिरयाङ्गीकारे । यैर्निश्ऱ्चितं परत्वं तु विष्णोः प्रायोनयातनाम् । ब्रह्महत्यादिभिरपि यान्त्याधिक्येचिरं नत्वितिवचनविराधादित्यत आह ॥ यदीति ॥ सरागं स्वर्गादौ । आवृत्तिरेवनतु निरयप्राप्तिः । संसारस्य संशयनिवृत्त्यवधिकत्ववत्तमसोमोक्षस्य च सावधिकत्वं न मन्तव्यमित्याह ॥ पुनरावृत्तीति । तदुभयस्वरूपमाह ॥ पूर्वंत्विति ॥ निषशेषगुणहीनम् । सुखापादकनिःशेषगुणहीनम् । निर्दोषकं दुःखापादकदोषविधुरम् । विमिश्रगतयः । सुखदुःखमिश्रगतयः । अन्याः स्वर्गमानुष्यनिरयलक्षणाः नियतवासाभावात्पुनरावृत्तिसंयुताः । त्यागद्वयेन तमः । अन्याभ्यां निरयः । स्वर्गाभावश्ऱ्च । त्यागचतुष्ययहीनोमुक्तिं गच्छतीत्युक्तम् । गतित्रये अधिकारिषुविशेषोस्तीत्युच्यते ॥ असदुरा इति ॥ संकरःफलसंकरः । मर्त्यान्विभज्यफलभेदमाह ॥ मानुषेषूत्तमा इति ॥ निरयं नित्यनिरयम् । सृतिभागिनः । सर्वदासंसारयोग्याः । यद्यसुरादेवामानुषोत्तमाश्ऱ्चतमामोक्षभागिनस्तर्हि इदानीं तेषां कथं संसारोपलम्भ इत्यत आह ॥ अच्छिद्रत्वमित्यादिना ॥ अच्छिद्रत्वं पूर्णत्वं । ननु तेषां युगपत्पूर्तौसृष्यिप्रलयोच्छेदप्रसङ्गः । नच नित्यसंसारिण आदाय तदुपपत्तिः । तथापि मोक्षार्थं साधनानुष्ठानप्रवाहस्योच्छेद प्रसङ्गात् । तथाच सृष्यिप्रलयवाक्यानां तद्विजिज्ञासस्वेत्यादि विधिवाक्यानामप्रमाण्यप्रसङ्गापत्तेरित्यत आह ॥ अच्छिद्रत्वमिति । तस्मात् अनर्थफलत्वात् । दोषान् मुख्यत्यागादीन् । स यश्ऱ्चायमशरीरः प्रज्ञात्मायश्ऱ्चासावादित्ये एकमेवतदिवोचामेत्येतद्वयाचष्ये ॥ सूर्यमण्डलेति ॥ योसावादित्येस्थितः सूर्यमण्डलगोविष्णुः प्रद्युम्नः स एव पुरुषेदेहे चक्षुषिस्थितः योयं पुरुषे चक्षुषिस्थितः यश्ऱ्चायमशरीरः प्रज्ञात्मापुरुषेदेहेहृदयेऽनिरुद्धः यश्ऱ्चासावादित्येस्थितः सूर्यमण्डलगोविष्णुस्तद्रूपद्वयमेकमेव । नच भेदोनयोः क्वचिदित्युपनिषद्भाष्ययोरर्थः । च शब्देन रूपान्तराणिगृहीत्वातेषामत्रैक्यमुच्यते इत्याह ॥ अन्येषामपीति ॥ इत्यनेन वाक्येनैवाभेदं विद्यादित्यर्थः । यौयत्रविहीयेते इत्यादि व्याचष्ये ॥ द्विरूप इति ॥ अपगच्छति अपजिगमिषति । स यत्करणीयं मन्येततत्कुर्वीतेत्येतद्वयाचष्ये ॥ कर्तव्यमिति ॥ सर्वंपरलोकसाधनं मृतिकालेकर्तुमुचितं कार्यमित्यर्थः । यदि कालमृत्युः यदि वापमृत्युः पक्षद्वयेपि यदन्तीत्यादिका ॠच एव जपेच्चेत्यर्थः । एतेन यदन्तीति सप्तजपेत् इत्यादजपविधिवाक्यानि व्याख्यातानि भवन्ति । यदन्तीत्यादि सप्तके अद्यद्वयं पावमान्यं द्वितीयद्विकमाग्नेयं पञ्चमं सावित्रं षष्ठंसावित्रमाग्नेयं सौम्यञ्चेति प्रतीयते । अतः षट्कस्यदेवतामाह ॥ ॠग्भिरिति ॥ पवमानादिनामकः । पवमानाग्निसवितृसोमनामकः । षड्भिरित्युक्त्यासप्तमस्य देवजनादिभिः परिवृतोजातवेदानामकोवायुर्नकेवल इति परिशेषयति । अग्न्यादिशब्दान्वायौनिर्वक्ति ॥ सइति । अङ्गानां सर्वशाराणशं प्रवर्तकत्वात् अङ्गशब्दोपपदान्नयतेः डिप्रत्यय उपपदानुस्वारलोपश्ऱ्चेति भावः । वायुः परस्य ब्रह्मणोविष्णोः ज्ञापनाख्यप्रसूतिभिः सविता कथ्यते । यदस्मात्परस्य नेतृत्वात् ब्रह्मणोविष्णोः ज्ञापनाख्यप्रसूतिभिः लोकान् पुनाति तस्मात्पवमानः कथ्यत इति शेषः । वक्ष्यति हि पवमानश्ऱ्चपावनादिति पवमानशब्दनिर्वचनायैव ब्रह्मसवैः पुनीहिन इत्यपनिषद्वक्यमत्र व्याख्यातम् । सवितृशब्दप्रवृत्तिनिमित्तप्रसवाभिधानायचेति द्रष्यव्यम् । पवित्रेणविचर्षणिरित्यादौपवित्रशब्दं व्याचष्ये ॥ पवित्रं नामेति ॥ पावयित्वात्रातीति पवित्रं नामप्रसिद्धः । ननु तप्तं चक्रं द्विभुजेधारयन्ति तेन पवित्रेणपाप्मान मवधून्वन्तीत्यादौ पवित्रं चक्रम् परब्रह्मैवेत्युक्तं परं ब्रह्मेति ॥ ननूभाभ्यां देवसवितः पवित्रेणसवेनचेति पवित्रक्षस्यकरणत्वं प्रतीयते । कर्तृप्रयोज्यं च कारणम् । नच वायुप्रयोज्यत्वं विष्णोरुपपद्यते तत्कथं पवित्रं ब्रह्मेत्यत आह ॥ प्रसादयित्वेति ॥ असुप्राणः । सवेनचेत्यस्यार्थः ॥ ज्ञानाख्येति ॥ यत्तेपवित्रमर्चिष्यग्ने इत्येतद्वयाख्यातम् ग्नेरिति ॥ एतेन प्राणाग्नय एवैतस्मिन्पुरेजाग्रतीति श्रुतौ प्राणे अग्निशब्दप्रयोगं द्योतयति ।
?R
अर्चिष्मानित्यनेनार्चिव इत्येतद्वयाख्यातम् भवति । यत्र ब्रह्मेत्यादौ पवमानेन्दुशब्दयोः श्रवणादुभयदैवत्यं षट्कमिति प्रतीयतेऽतस्तद्देवताऽध्याहारपूर्वन्तात्पर्यमाह ॥ यत्र ब्रह्मेति ॥ यद्यप्युपनिषत्पठक्रमादादित्प्रत्नस्येत्येतत्प्रथमं व्याख्येयं ततापि पवमानदेवताकस्य यदन्तीत्यादेः व्याख्यान प्रसङ्गेनैकदेवताकत्वाद्यत्र ब्रह्मेत्यादिकं व्याकृतम् । आदित्प्रत्नस्येत्यस्य देवतामाह ॥ आदिति । परोयदि ध्यतेदिवेत्यस्यतात्पर्यं वैकुण्ठेति ॥ उद्वयमित्यस्य सूयर्ोदेवतेति प्रतीतेराह ॥ आदित्येति ॥ साक्षादधिष्ठान व्यवस्थानमन्तरेण । नारायण एव नतु सूर्योपीत्यर्थः । तत्र हेतुर्वायोरिति । देवत्रादेवमिति वाय्वादिदेवेश्ऱ्वरत्वश्रवणादिति भावः । यदन्तीत्यादीनां फलभेदमाह ॥ अपेति ॥ यदन्तीति प्रथमॠग्जपादित्यर्थः । अन्याभिः पवमानः सो अद्यन इत्याद्याभिः षड्भिः यत्र ब्रह्मेति षट् केनवैष्णवं लोकं व्रजेत् । अन्याभ्यां आदित्प्रत्नस्योद्वयमित्येताभ्याम् । आदित्प्रत्नस्ये त्यत्र वासरपदेन विष्णुर्मोक्षसुखप्रद इत्युक्तेः उद्वयमित्यत्र चज्योतिरगन्मेति सायुज्योक्तेरिति ज्ञेयम् । एतेनोपनिषत्पाठातिक्रमेण व्याख्यानेफलक्रमोपि नियामक इत्युक्तं भवति । इन्द्रायेन्दो इत्यत्र त्येन्दुशब्दं निर्वक्ति ॥ इष्येति । इष्यशब्दस्यांत्यलोप इकारस्यानुस्वारः तथाच इइष्यन्दातुं शीलमस्येति इन्दुरित्यर्थः । वर्षिष्ठैस्सोमधामभिरित्यत्र सोमशब्दाथर्माह । सोम इति ॥ पावनादिति पवशुद्धावित्यतः कर्तरिशानच् मुमागमश्ऱ्चेति भ
?R
ावः । पुरातनत्वादिति ॥ नश्ऱ्चपुराणेप्रादिति सूत्रेषु राणेर्थेविवक्षिते प्रादुपसर्गान्नपि कृतेप्रत्नशब्दस्य निष्पन्नत्वादिति भावः । रेतः शब्दार्थोमहारतिरिति ॥ देवं देवत्रासूयर्मित्येतद्वयाचष्ये ॥ देवत्रेति ॥ सूरिभिर्याप्यतेप्राप्यत इति सूर्य इत्यर्थः । सूरिप्राप्यत्वोपपादनं नित्यानन्द इति । उत्तरमित्यादेर्निरुपचरितसर्वोत्तमत्वमिति भावनोक्तं रमापतिरिति । स योतो श्रुत इत्यादि व्याचष्ये ॥ देशत इति ॥ कथमनेन त्रिविधव्याप्तिलाभ इत्यत आह ॥ सन्तत इति ॥ सम्यक्तत इति विस्तृतो ह्यत इत्यनेनोच्यते । अत सातत्यगमन इति धातोः गमनमत्रस्थितिरिति भावः । यद्वा नायमतः शब्दः किन्त्वतीत्यतिशयित इत्यर्थकान्निष्पन्नोतः शब्द इति भावेनाह ॥ तृतीयेति ॥ यतस्तृतीयोतिशय इति सूत्राद्योवर्णोयत्रभाव्यस्तस्य पूर्वोपरोवातृतीयोवर्णः अर्थातिशयेविवक्षिते भवति । तेन कारणेनातिशब्दवोध्वत्रिविधव्याप्तेर्निरुपचरितत्वलक्षणाधिक्यविवक्षया रअतिशब्दान्त्य इकारस्य तृतीय वर्णह्रस्वाकारप्राप्तौ अतिरेवात इत्युच्यत इति वार्थ इति भावः । अश्रुत इत्यादेः सर्वथानश्रुत इत्याद्यर्थप्रतीतेः व्याचष्ये ॥ सम्यगिति ॥ पूर्णत्वात्सम्यक्साकल्येन श्रुत्याद्यशक्यत्वात्स्वयोग्यतानुसारेणाल्पस्यापि पूर्णत्वात्तत्प्रसादमृतेस्वातन्त्ऱ्येण श्रुत्यादि श्रवणशदितदशक्यत्वादित्यर्थः । अन्तरपुरुषसमात्मशब्दान् व्याचष्ये ॥ अन्तःस्थ इत्यादिना ॥ विधेः फलपर्यवसन्नत्वाद्विधिलभ्यं फलमाह ॥ मुच्यत इति ॥ पूर्वखण्डेयोयमशरीरः प्रज्ञात्मासरस इत्यादौ रस शब्दः सारः शिवस्यापीति सारार्थतया प्रमाणेन व्याख्यातः । रससारशब्दौ श्रेष्ठपरौ । रसः सारोवरश्ऱ्चेति शब्दाः पर्यायवाचका इत्युक्तत्वात् । तथाच सर्वरूपेषु भगवान् सर्वेभ्योपि श्रेष्ठ एव किं विशिष्यशरीरापुरूषादीनां अनिरुद्धादयः सारा इत्युच्यन्त इत्यतः श्रेष्ठत्वे समानेपि शिवादीनामनिरुद्धादीनां च विशेषानुबन्दोक्तिः विशिष्योक्तिरुपपद्यते इत्यत आह ॥ शरीरेति ॥ प्राप्तत्वात्सायुज्यमुक्तौ प्राप्यत्वात् । यदीं ृणोतीत्यत्र यदीमित्यनूद्यर्धमित्यस्यार्थमाह ॥ ईंएवेति ॥ अलकमित्यनूद्यप्रतिपदं अलकं अरकमिति रलयोः सारूप्यादिति भावः । यदेवृणोति तदलकमेवृणोतीत्यस्यार्थमाह ॥ यत्किञ्चिदिति ॥ एतेनारमरतिं करोतीत्यरकमिति व्याख्यातं भवति । कोयमरतिः नामकथं चैतत्प्राप्ततमस्कस्येत्यत आह ॥ तस्यहीति ॥ नञःतदभावः । तद्विरुद्धवाचकत्वात् प्राप्ततमस्कस्यारतिः सर्वरत्यभावः तद्विरुद्धं दुःखञ्च पूर्णमित्यर्थः । हीति प्रमाणप्रसिद्धिं सूचयति । यद्वातस्य हीत्यस्य द्विविधत्यागिगन इत्यर्थः । नन्वयोग्योपदेशेदोषद्वयमुक्त्वातदप्येतदृषिणोक्तमिति तत्र मन्त्रं प्रतिज्ञाय मन्त्रः पठितः । तत्किं न तस्यानूक्तेभागोस्ति । न वेदसुकृतस्य पन्थामिति एतदुक्तं भवतीति पुनरुच्यत इति अत अवतारयति । परस्मैशंसनमात्रादित्यादीति । अरतिरेवेति काकुः । अरतिस्तमोभवतिकिं न भवत्येवेति । ततश्ऱ्चायमर्थः । उदाहृतमन्त्रेपरमात्मानं त्यजत अरतिरपि दोषत्वेनोच्यते । तदयुक्तम् । परस्मैशंसनमात्रादरत्ययोगादित्याशंकायांत्यागान्तरे अरतिर्दोषत्वेनोच्यते । प्रस्तुते चतुर्थत्यागेतु न तस्य वाच्यपि भागो अस्ति । नहि प्रवेदसुकृतस्य पन्थामिति दोषद्वयमेवेत्यवधारयति । न तस्यानूक्तेभागोस्ति न वेद सुकृतस्य पन्थामित्येतत्तदुक्तं भवतीति वाक्येनेत्यर्थः । ननु यदींशृणोतीत्येतद्यदि प्रथमद्वितीयत्वागवतोस्तमः प्रतिपादकं तर्हितृतीयत्यागिनः फलं केनोक्तमित्यत आह ॥ अलकमिति । अलकं ृणोतीत्युक्तं फलं त्यागं द्वयस्य मुख्यतः तृतीस्यापि त्यागस्य किञ्चिद्भवत्यमुख्यं भवेदिति । कुतः नरकं नरकसाधनं ृणोतीत्यर्थाङ्गीकारादित्यर्थः । ननु शरीरत्यागकालेकदाचिद्दुर्निमित्तादर्शनात्कथमयं नियम इत्यत आह ॥ तौयदैवेति ॥ आदित्प्रत्नस्येत्यत्र वासरं दिनमिति प्रतीति वारणशयनिर्वक्ति ॥ वासेनेति ॥ हृदिवासेनेत्यर्थः । तत्प्रसादेन पश्यन्ति हृदिवासा इति ह्रदमिति
?R
छान्दोग्यभाष्योक्तेज्यर्ोतिरादित्यमण्डलमित्यन्यथाप्रतीतेः व्याचष्ये ॥ विष्णुरिति ॥ नचादित्यमण्डलम् । दिवः पर इति छान्दोग्यभाष्ये उपपादनं द्रष्यव्यम् । यत्र ब्रह्मेत्यत्र ग्राव्णासदुतेन सोमेन युज्यत इत्यन्यथाप्रतीतिं वारयन्व्याचष्ये ॥ ग्राव्णेति ॥ ग्राव्णासुतेन सोमेनेत्यन्वयः । सोमविषयेसौम्यत्वात्सोमनामकभगवद्विषये इष्ट्वेत्यध्याहार प्रदर्शनम् । महीयतेन्यमुक्तैः यदि सोमेनेष्ट्वेत्यनेनान्वयः । तर्हि आनन्दं जनयन्नित्युक्तानन्ददव्यञ्जकमित्याशङ्कां परिहरन् आनन्दजननेतस्य स्वातन्त्ऱ्यप्रतीतिञ्चापाकरोति ॥ तेनैवेति ॥ विष्ण्वर्थं सुतेपातः मुक्तावनुष्ठित साधनानां फलरूपत्वोक्तिविरोधः । मुक्तौ प्राप्यानन्दातिशयस्यापरोक्षोत्तरभाविसाधनसाध्यत्वोक्तिविरोधश्ऱ्चेति चेन्न । यथापरोक्षरोत्तरभाविसाधनजन्यप्रसादेनमुक्तौ भगवान् स्त्ऱ्ादिविषय सम्पत्तिं तद्दर्शनं तदनुभवन्तद्भोगस्याप्रियत्वात्तेन स्वप्रासादं विचित्रानन्दानुभवं च ददाति । तथा सोमयागस्यापि विषयतुल्यत्वादपोक्षोत्तरभाविसाधनजन्यप्रसादेनैवभगवान्मुक्तौ सोमयाग सम्पत्तिं मुक्तस्य दत्वातेन च स्वयं प्रसन्नः परमानन्दं भोजयतीति किमनुपपन्नम् । सङ्ग्रहश्ऱ्चात्रास्माभिः कृतोविरोधोद्धारे । हरेरुपासनाचात्र सदैवसुखरूपिणी । सोमेनानन्दमित्युक्तो न विरोधो भवेद्यतः । स्त्रयादिभिः विषयैस्तुल्यः सोमयागे इहेष्यते । भोगवत्प्रीति हेतुश्ऱ्चापूजारूपत्वातस्तयोरिति । यस्मिंल्लोकेस्वर्हितमित्यत्रस्वःसुखं निहितमिति प्रतीयते तथा सति यत्रानन्दाश्ऱ्चेति पुनरुक्तं स्यादित्यतो व्याचष्ये ॥ स्वराननदरूप इति ॥ यत्रावरोधं दिव इत्यत्र लोकेद्युलोकस्यावस्थानमित्यन्यथाप्रतीतेः व्याचष्ये ॥ दिवोदेव्या इति । रुधिर् आवरण इति धातोः । दिवमावृत्यपरिवारतयास्थितादेव्यः अवरोधन शब्देनोच्यन्ते इत्यर्थः ॥ वायुपत्नीति ॥ भूत पूर्वगत्यासरस्वतीवायुपत्नीत्युच्यते । द्युशब्दस्य तत्र प्रयोगं दर्शयति ॥ अजनय इति ॥ त्वं मरुतो वक्षणाभ्योवचनेभ्यः आसम्यग्वक्षणाभ्यः प्रवचनेभ्यः वेदशास्त्रपठनार्थं विशिष्यव्याख्यानार्थं च दिवः सरस्वत्याः सकाशादजनय इत्यर्थः । प्रवक्षणा अभिनत्पर्वतानामित्यत्र ॠग्भाष्यटीकायां वक्षणाशब्दस्य वचपरिभाषणे सन् प्रत्यय इति वचनपरत्वेन व्याख्यातत्वात् । चोःकुरिति कुत्वं इण्कोरिति षत्वं कषयोगेक्ष इति वक्षणेति प्रक्रियाशेषो बोध्यः । इत्यादेरित्यादिपदेन द्यौर्वावविद्युत्पतिर्वायुमुपगम्येत्यादेः ग्रहणम् । यह्वतीः स्यन्दमाना इति । यहिगतावितिधातुरिति भावः । इन्द्रायेन्दोपरिस्रवेत्यतद्वयाचष्ये । सर्वेष्यदेति ॥ नन्विन्द्रायेति श्रूयते कथं विष्णुरिति व्याख्यायत इत्यत आह । इन्दुरिति ॥ यत्रानन्दाश्ऱ्चमोदाश्ऱ्चेत्येतदपुनरुक्ततया व्याचष्ये ॥ अनन्येति ॥ भगवद्भक्त्यारूप्यते व्यज्यत इति भगवद्भक्तिरूपकम् । यद्वा सैवानन्दस्वरूपेणनित्यामुक्तेषुतिष्ठतीत्यादेः साक्षाद्भगवद्भक्तिस्वरूपमित्यर्थः । उद्वयमिति मन्त्रेतमसस्परिरात्ऱ्यन्धकारापगमानन्तरं उत्तरं ऊर्ध्वभागेविततं सौरं ज्योतिः पश्यन्तो वयं देवत्रादेवं उत्तमज्योतीरूपं सूर्यमगन्मसूर्योपस्थानं कृतवन्त इत्यन्यथाप्रतीतेः व्याचष्ये ॥ तमस इति ॥ अज्ञानादित्यर्थः । तमेवेत्यनेनपूर्वोत्तरार्धयोर्भिन्नविषयत्वं उत्तराधर्स्य प्रसिद्ध सूर्यपरत्वं च व्यवच्छिनत्ति ॥ ननु यदि पूर्वाधर्स्य प्रकाशपरत्वं उत्तरार्धस्य सूर्यपरत्वं इत्यनङ्गीकृत्योभयोः भगवत्परत्वमुच्यते तर्हि पूर्वार्धे उत्तरं ज्योतिरुत्तराधर्ेप्युत्तमं ज्योतिरिति पुनरुक्तं स्यादित्यत आह । तदेवेति ॥ उत्तरार्धगतस्योपयोगमाह ॥ तथैवेति ॥ असौ भगवानुत्तमं ज्योतिरिति यत्तत्तथैवेत्यर्थः । इदं अस्मद्भजनम् ॥ ज्ञापयितुमिति । उत्तमज्योतीरूप ब्रह्मप्रप्तिलक्षणफलस्यानुभवसिद्धत्वादविद्यमानोपासनेफलानुपपत्तेः फलबलेनोपासनस्य यथार्थ्यं सिध्यतीति ज्ञापयितुमित्यर्थः ॥ अर्चिषोंशावतर्ुलास्त्विति ॥ उशब्दोवधारणे वर्तुला एव न त्वर्चिषोदीर्घाकारांशा इति अर्थः । मधुशब्दस्य मधुमात्रपरत्वप्रतीतेराह ॥ बृहत्तममिति ॥ पुण्डरीकं सिताम्भोजमित्यमरोक्तेः सितमब्जमित्यन्यथाप्रतीतेः अर्थमाह ॥ रक्तेति ॥ शिरोधृत इत्यनेन हस्तादौ धारणमप्रयोजकमित्युक्तं भवति । तस्य यथाकप्यासं पुण्डरीकमेवमक्षिणीपुण्डरीकेक्षरोविष्णुरित्यादौ पुण्डरीक शब्दस्य श्ऱ्वेताब्जपरत्वायोगाद्रक्ताब्जपरत्वस्य वक्तव्यत्वादत्रापि विशेषवाक्यबलेन रक्ताब्जपरत्वमिति भावः । रात्रीसूक्तं व्याख्यातुं अधिकारं फलं प्रतिपद्यञ्चाह । रात्ऱ्या इति ॥ रात्ऱ्यारात्रीसूक्तस्य विष्णुनासहदुर्गादेवतेत्यन्वयः । दुःस्वप्नेजाते सति विष्रोः भक्तं तथातद्वेदिनं स्वान्तर्गतरात्रिनामक भगवद्वेदिनम् । ननु रात्रिसूक्तस्य कथं विष्णुः देवतारात्रिशब्दस्य दुर्गायां प्रसिद्धत्वादि मन्दुर्गास्तवमित्यन्तेनित्यं रात्रीसूक्तमिति श्रुतौ दुर्गादेवस्य लोपः स्त्रियामीकारः तथाचोपनिषदिरात्रीति भवतीति भावः । ह्रयामिरात्रीं जगतोनिवेशनीमित्यत्र ॠग्भाष्यटीकायामित्थमेव व्याख्यातत्वद्भगवत्परत्वे ङीबनुपपत्तिरित्यत उक्तम् ॥ स्त्रीरूप इति । ततश्ऱ्चकिमित्यत आह । तस्मादिति ॥ एवं देवतानिर्णीयसूक्तं व्याचष्ये । बहुभिरिति ॥ पुरुत्रेत्यस्यार्थद्वयं बहुभिर्बअहुधेति । विश्ऱ्वा इत्यस्यार्थः इदंजगदिति ॥ विश्ऱ्वा अधीत्यप्यन्वयमभिप्रेत्योक्तम् । सर्वेषुलोकेष्विति । श्रियोधितेत्यस्य तात्पर्यम् । धृता इति ॥ निवत उद्वत इत्येतन्निर्गतानुद्गतानिति कैश्ऱ्चिद्वयाख्यतं यथावद्वयाचष्ये ॥ नीचानिति ॥ उपसर्गाच्छन्दसिधात्वर्थ इति सूत्रेधात्वर्थ विशिष्यसाधने उपसर्गाद्वतिप्रत्ययोभवति स्वार्थ इति येन केनापि धात्वर्थेन विशिष्यसाधनेविवक्षिते
?R
स्वार्थेवतिप्रत्ययविधानाद्वृत्तिकारेणापि निवत उद्वत इत्यनयोरेवोदाहृतत्वान्नि उदिति चोपसर्गाच्चय इति धात्वथर्ेविवक्षितेवति प्रत्ययेनीचानुच्चानिति भावतीति भावः । रअमर्त्येत्यस्यार्थो ॥ ब्रह्मादीनिति ॥ आ उ अप्रा इत्यस्य तात्पर्यं उर्विति ॥ ज्योतिषाबाधतेतम इतयस्य तात्पर्यं ज्ञानेनेति ॥ निरुस्वसारमित्यादेरर्थः स्वसारमिति ॥ स्वयमेवप्रमदारूपमित्यन्वयः । तेनोषः कालन्तदभिमानिदेवताञ्च व्यवच्छिनत्ति । अप इत् उहासतेतम इत्यत्र तम इदित्यन्वयमभिप्रत्याह ॥ तमश्ऱ्चेति ॥ अपहासते उ इत्यस्यार्थो अपाकरोत्येवेति । सान इत्यस्यार्थः । सनः स्वामीति ॥ यस्यास्तेयामन् इत्यस्यार्थो यदुदरे इति ॥ वृक्षेवसन्ति न नीडमिवेत्यस्य तात्पर्यं वृक्ष इति । श्येनासः श्येना इत्यत्र शी आ इन इत्यवयवेवि भज्यशमस्यास्तीति शीसुखीविष्णुः स एव आसमन्तात्सर्वेषुदेशेषुकालेषु च इनोयेषान्त इति विग्रहमभिप्रेत्य व्याचष्ये ॥ श्येनाख्या इति ॥ मानुषाश्ऱ्चेति च शब्देनाश्ऱ्वगवादयः । पादत्त्ववस्य पक्ष्यादिसाधारण्यादुक्तं पादमात्रेति ॥ ग्रामाः ग्राम्याः पशव इत्यन्यथाप्रतीतेः व्याचष्ये ॥ ग्रामाख्या इति ॥ बहुलत्वात् बहुलत्वादेवनतु ग्रामस्थत्वात् । दैत्या एव नतु ग्राम्याः पशवः । अर्था येषां सन्तीति अर्थिनः । भूमार्थेमतुप् । पूर्णार्था इत्यभित्य कृतार्थत्वात्पूणर्ार्थत्वादित्युक्तम् ॥ ऊरीकृतप्रमाणत्वादिति ॥ ऊरीकृऽतमङ्गीकृतं प्रमाणं येनेत्युरीकृत प्रमाणः । यद्वा ऊरीकृमङ्गीकृतं प्रमाणः । इदं स्वप्रमापकं भवत्विति स्वाङ्गीकृत प्रमाणत्वादित्यर्थः । वृकं वृक्यञ्च यवयस्तेनञ्च यवयेत्येतद्वयाचष्ये ॥ वृका इति ॥ निर्याप्यानिष्कासनीयाः । वृकवत्क्रूत्वादसुरावृकाः । राक्षसाःतत्स्वभावाः असुरस्वभावाः पिशाचादयः । महासुराः मणिमदादयः । यतस्तेनित्यमनादिकालादारभ्यैकात्म्यवादिनोऽतः स्तेनाः ब्रह्मस्तेनाः । सुखतरेत्येतद्वयाचष्ये ॥ विष्णुरिति ॥ सुखतरः सुखप्रदः । तृप्लवनतरणयोरिति धातुस्तरणञ्च वितरणं दानमत्रविवक्षितम् । तथाच सुसुखं तरति वितरति ददातीति सुतरेति व्याख्यातं भवति । उपमापेपि शदित्यादेरर्थः कृष्णमिति ॥ कृष्णं कृष्णवर्णं व्यक्तं अनुभवसिद्धम् । तमो भावरूपमज्ञानम् । पेपिशत् । अ?
ज्ञानामतिशयेनपेशलं भद्रमित्यर्थः । उषॠणेवयातयेत्यस्य तात्पर्यं तद्यातयतीति ॥ ननु रात्रिर्ह्यत्रदेवताकथं उषॠणेवेत्युषसः प्रार्थनमित्यत आह ॥ स एवेति ॥ रात्रिशब्दित एवेत्यथर्ः । वशकान्ताविति धातोरिति भावः । उपतेगा इवाकरमित्यादि व्याचष्ये ॥ जयिन इति ॥ जिग्युषेजयिनोर्थेस्तोमं न स्तोममिव । ब्राह्मणायेत्यध्याहारः । गा इवतेतवाहंस्तोम मुप । आ । अकरम् । तंस्तोमंवृणीष्वेत्यर्थः । दुहितर्दिव इत्यस्यार्थः द्यौरिति ॥ सूक्तार्थमुक्त्वा रात्ऱ्यास्तु देवतादुर्गेत्यादिकमुपसंहरति ॥ एवमर्थेनेति । साक्षान्मुख्यतः । एषोर्थः बहुभिर्नयनैर्विष्णुर्वहुधेदं ददर्शेत्याद्युक्तिः सर्वज्ञत्वादिरूपोर्थः । एवं स्तुत;
एवमर्थानुसन्धानपूवर्ं स्तुतः । इष्यः पायसेन । स यद्येषां किञ्चित्पश्येद्रात्रीसूक्तेन प्रत्यृचं हुत्वेत्युक्त्या यदन्तीत्यादीां दुःस्वप्नपरिहारकत्वं नास्तीति प्रतीयतेतां वारयति ॥ यदन्तीति ॥ दुःस्वप्नदशर्ने अयं पायसद्रव्यकोरात्रिदेवताकोरात्रीसूक्तेन होमविशेष इत्यर्थः । रात्रीसूक्तेन हुत इष्यश्ऱ्चमोक्षद इत्युक्तम् तदयुक्तम् । ज्ञानस्यैवमोक्षहेतुत्वाज्ज्ञानद्वाराचेद्विद्यान्तरस्यापि तुल्यम् । कोविशेषोस्येत्यत आह ॥ परोक्षेति ॥ त्वरयाऽपरोक्षादिहेतुत्वाद्विशेष इति भावः । द्विविधैः परोक्षापरोक्षज्ञानिभिः । सन्यासिनां दुःस्वप्नदर्शनेकिं कार्यमित्यत आह ॥ न्यासिभिरिति । 4
॥ सङ्गतिस्तु भाष्य एवास्य खण्डस्य स्पष्या ॥ अतानन्तरं सर्वस्यैसर्वस्यावाचः तत्सम्बन्धिनीतद्विषयिणीप्रसिद्धेयमुपनिषद्रहस्य विद्योच्यते । ननु पूर्वोक्तविद्यानामपि सर्ववाक्सम्बन्धित्वात्किं पुनर्विशिष्योच्यत इतयाशंक्यपरिह्रियते ॥ सर्वाहीति ॥ यद्यपीमाः सवॉ पूर्वोक्ताः सर्वस्यैवाचः उपनिषद एव हि प्रसिद्धास्तथापि । इमामेव तु विशेषेण सर्ववाग्विषयिणीमुपनिषदमाचक्षते वैदिकाः । विशेषश्ऱ्चभाष्येस्पष्यो भविष्यति ॥ पृथिव्याः सम्बन्धि तद्गतं तन्नामकं रूपं भगवद्रूपं स्पर्शाः स्पर्शाक्षरप्रतिपाद्यम् । अन्तरिक्षस्य रूपमित्यन्वेति । अग्न्यादिसारवेदाधिष्ठनत्वमप्युच्यते ॥ ॠग्वेदस्येत्यादिना ॥ I-22
?R
तथाच श्रुतिः प्रजापतिः लोकानभ्यतपत् तेषां सप्तानां रसान् प्रावृहत् अग्निं पृथिव्यावायुमन्तरिक्षादादित्यं दिव एतास्तिस्रोदेवता अभ्यतपत्तासान्तप्यमानानां रसात्प्रबृहत् अग्नेॠचोवायोर्यजूंषिसामान्यादित्यादिति । एवं स्पर्शादिप्रतिपाद्यानामधिदैवमधिष्ठनमुक्त्वाध्यात्ममधिष्ठनद्वयमुच्यते । चक्षुषोरूपमित्यादिना ॥ विद्याधिक्यसम्पादिकाविद्योच्यते । अथेति । विद्यान्तरारम्भ अथ शब्दः । इयं ब्रह्मादितनुर्दैवीदेवस्य विष्णोः वीणाभवति खलुप्रसिद्धम् । तद्गुणगानहेतुत्वात् । ननु दारुविशेषकृतामानुषीहिवीणावीणेति प्रसिद्धाकथं ब्रह्मादितनुर्वीणेत्यतः शिरसिच मसशब्दवत् दैववीणासादृश्यान्मानुष्यां वीणायां वीणाशब्द इति भावेनोच्यते । तदनुकृतिरिति ॥ असौमानुषीवीणा तान्दैवीं वीणामनुकरोतीति तदनुकृतिः तत्सादृश्यवतीत्युक्तं सादृश्यं विविच्यतोच्यते । यथास्या इत्यादिना ॥ अस्याः दैवीवीणायाः शिरोयथैवममुष्यामनुष्यवीणायाः शिरः शिखरं अम्भणन्तु उदरतुल्योमध्यभागः । वादनं शलाका । यथाङ्गुलयस्तथातन्त्रयः । यद्वा यथातन्त्रयस्तथाङ्गुलय इति
?R
यथा श्रुतं योज्यम् । परस्परसाम्यमुपपादयितुं मानुषवीणायादृष्यान्तत्वोक्तिः । यथास्यादेववीणायाः स्वरा अज्वर्णा उदात्तादयो वा एवममुप्यामनुष्यवीणाया अपि स्वराः षड् जमध्यमादिस्वरा अज्वर्णव्यञ्जका उदात्तादिव्यञ्जकावास्वराध्वनिविशेषाश्चेत्यर्थः । यथादैवी वीणायाः स्पर्शाः सम्बन्धानोदनादिलक्षणाः स्पर्शसंज्ञिता वर्णावा एवमस्यामानुषवीणायास्पर्शास्तं त्रक्षषून्नमनावनमनादिहेतुभूता अङ्गुलिसम्बन्धाः स्पर्शाक्षरव्यञ्जकध्वनयो वा । यथाह्येवेयं दैवी वीणाशब्दवतीघोषवतीतर्द्मवतीनादवती एवमसौशब्दवतीतर्द्मवती यथा ह्येवेयं देहलक्षणादैवी वीणालोमशेन चर्मणापि हिता भवति एवमसौलोमशेन चर्मणापि हिता अदृष्यिविरोधमाशङ्कयोच्यते ॥ लोमशेनेति ॥ पुरिकृत युगादौ । लोमशेनचर्मणाहस्मवीणा अपि दधत्याच्छादयन्तीत्यर्थः । यो हैतान्दैवीं वीणशं वेद स श्रुतवदनः श्रूयत इति श्रुतं विद्यातत्पूरितवदनो भवति । अस्य कीर्तिर्भूमिप्राभूमिपूर्णा भवति । आर्यायत्र क्वच यत्र कुत्रचित् संसदिवचोविद्या अधिकविषयाभाषन्ते तत्र संसदितेषु मध्ये एनं विदुर्भाषन्ते गणयेयुरिति यावत् । विद्याधिक्यार्थमेव जप्यान्याविद्योच्यते । अथवा चांरसः सारभूताविद्योच्यते । तस्याविनियोग उच्यते ॥ यस्यामिति ॥ यस्यां संसद्यधीयमानोभाषमाणोवानविरुरुचिषत रुरुचिषत रोचितुमिच्छेत् । विरुरुचिषेतरोचितुं नेच्छत् । वीत्युपसर्गस्य वर्जनार्थत्वात् न विरुरुचिषेत् । रोचितुं नेच्छेदिति न । अतिशयेन रोचितुमिच्छेदिति यावत् । द्वौनञावितिन्यायात् तत्र सभायामेतां ॠचंजपेत् । अयं ॠगर्थः ॥ वाचिसंस्थितायाविष्ण्वाख्यायादेवताया ओष्ठा ओष्ठौपिधानान पिधानाविव युग्मकवाटाविव याचकुलीकुत्सितं लीनमस्मिन्नितिकुलीप्रलीप्रलीनाशेषकुत्सितेति यावत् । दन्तैः दन्ताभिमानिदेवैः परिवृता पाति सर्वं सर्वस्माद्विशिष्याचेति पविः सर्वस्यैसर्वस्यावाच ईशाना साविष्ण्वाख्यास्त्रीरूपादेवतासह सभायां मां चारुवादयेदितीयं ॠग्वाग्रसः वाग्रसशब्दोक्तेत्यर्थः ॥ 5
॥ अथखल्वियं सर्वस्यैवाच उपनिषदित्यत्रषष्ठयर्थः सम्बन्धः क इत्यतोविषयविषयिभाव इति भावेन व्याचष्ये ॥ अथेति ॥ ननु सर्ववाग्विषयविद्याप्रतिपादनं प्रकृतासङ्गतं विष्णुनामविषयविद्यायाएव प्रकृतसङ्गतत्वादित्यत आह ॥ विष्णुनामार्थत्वादिति ॥ सर्वाह्येवेमाः सर्वस्यैवाच उपनिषद इमां त्वेवेत्येतद्यद्यपि तथापीति पदद्वयाध्याहारपूर्वं व्याचष्ये ॥ विष्णुनामार्थत्वादित्यादिना । अपि यद्यपि । ननु पूर्वोक्तनां विष्णुनामविद्याविषयत्वात्कथं सर्ववागुपनिषत्त्वमित्यत उक्तम् ॥ विष्णुनामार्थत्वादिति ॥ इमां त्वेवेति तु शब्दार्थोमुख्यत एवेति ॥ सर्वेपि वैदिकाॠषयः । नतु प्रागिवात्रमतभेद इति भावः । प्राणोवंश इत्यादौ तस्यैतस्यात्मनः प्राण ऊष्मारूपं इत्यादि विद्यानां मुख्यतो विष्णुनामविषयत्वं तद्ययाख्यानरूपत्वात्तद्द्वाराऽन्यविद्याविषयत्वम् । विष्णुनामाक्षरेष्वेवमन्येष्वपि तदर्थत इति भाष्येति देशात् । अस्मिन्खण्डेनिरूपिता विद्यास्तु साक्षादपि सर्ववाग्विषयाः । उपनिषदितथाविवक्षितत्वादतएवात्रभाष्येस्पर्शाक्षरादयोविष्णुनामनिष्ठत्वेन नोक्ताः । वीणाविद्यायावाक्सारविद्यायाश्ऱ्चविद्याधिक्यनिमित्तकायाः सर्वविद्याविषयत्वान्मुख्यत्वं बोध्यम् । पृथिव्यारूपमित्यारभ्य व्यानस्य स्वरा इत्यन्तं व्याचष्ये ॥ पृथिव्यादीति ॥ अथखल्वियं दैवी वीणेत्यतद्वयाचष्ये ॥ तस्येति ॥ अयं देहोविष्णोवर्ीणातत इयं देहाख्यासाक्षान्मुख्यतः दैवी वीणशप्रकीर्तितेत्यन्वयः । इयमिति विशिष्योक्त्यभिप्रायमाह ॥ लोकसिद्धा लोकप्रसिद्धेति । सयोहैतामित्येतद्वयाचष्ये ॥ ब्रह्मादीति ॥ श्रुतवदन इत्यस्यार्थोविद्येति । भूमिप्रेत्यस्यार्थोभूमीति । प्रापालनपूरणयोरिति धातोरिति भावः । य्यां संसद्यधीनायोभाषमाणोवानविरुरुचिषेततत्रैतामृचंजपेदित्यस्य तात्पर्यमाह ॥ विद्येति ॥ न केवलं विद्याधिक्यार्थं वीणाविद्यामुपासीत एतां चर्चं जपेदित्यर्थः । ओष्ठापि धानेत्यारभ्येति वाग्रस इत्यन्तस्यार्थमाह ॥ ओष्ठेति ॥ ॠचंव्याचष्ये ॥ विष्णोरिति ॥ विष्णोरेवेति सम्बन्धः । तेन सरस्वतीस्तूयत इति निरस्तम् । अपिधानानेत्यस्यार्थः । पिधानवदिति ॥ कुत्सितं लीनमस्मिन्नितिकुलीत्यर्थमभिप्रेत्य तात्पर्यमाह । प्रलीनेति ॥ पविशब्दं व्याचष्ये ॥ पातीति ॥ सर्वस्यैवाच इत्यस्यार्थः ॥ सर्वेति ॥ नन्वोष्ठौपिदानौनभवत इत निषेधात्कथं पिधानवदिति व्याख्यानमित्यत आह । नेत्युपमार्थ इति ॥ मृगं न भीममित्यादिव देवेति भावः । ततश्ऱ्चकिमित्यतोवाक्यार्थं विशदमाह । ओष्ठाविति ॥ नन्वत्र सरस्वतीप्रतिपाद्यकिं न स्यादित्य आह । नचेति ॥ अस्यामुपनिषदि एतद्भह्मैतत्सत्यमिति ब्रह्मोपक्रमात् । एतस्यै संहितायैणकारोबलमिति विष्णुनामव्याख्यानेपोपसंहाराच्चात्र खण्डे उपात्ताया ॠचोन्यविषयत्वे च तद्विरोधापत्तेश्ऱ्चभगवद्विषयेयं ॠगित्याह ॥ तस्यैवेति ॥ यद्वा ॠग्वेदखिलेषु ओष्ठापिधानेत्यतः पूर्वं विष्णोः प्रस्तुतत्वादुत्तरत्र च वक्ष्यमाणत्वादित्यर्थः । भगवतो वागीश्ऱ्वरत्वेस्मृतिं च पठति ॥ श्रियः पतिरिति ॥ अत्र गीरां पतिरिति गीष्पतित्वोक्तेः प्रकृतसिद्धिः । किञ्च वाजसनेया भगवत एव वाचिस्थत्वोक्तेस्तस्यैव ओषाठापिधाना इत्यत्र प्रतिपाद्यत्वमित्याह ॥ योवाचीति ॥ तर्हि स्त्रीलिङ्गविरोध इत्यतो द्वेधासमाधानमाह ॥ स्त्रीलिङ्गत्वमिति ॥ देवतेत्यादिवच्छब्दस्वाभाव्यादित्यर्थः ।
?R
स्त्रीलिङ्गत्वमपीत्यन्वयः ॥ 5
॥ यत्रयोविंशति मखण्डे यदि वागादीनामेवाभिव्याहरणादि हेतुत्वं तर्ह्यथकोहं स्यांविष्णुर्नस्यांविष्यबलचेष्यावत्वस्यैवविष्णुनामार्थत्वादित्युक्तम् । तदुपपादयितुं सर्वशब्दव्याख्येय विष्णुनामवाच्यत्वाच्च सर्वगुणपूर्णत्वमित्युपपादयितुं चेदमारण्यकमुपक्रान्तम् । तदुभयोपसंहारायविष्णुनामाक्षरार्थकथन पूर्वं तद्वयाख्यानत्वं सर्ववेदानां ऋषिसम्मत्याप्रदश्यतेस्मिन्खण्डे । अथ तस्मादेव विष्णुनाम्नः सर्वगुणपूर्तिप्रतिपादकसर्ववाग्व्याख्येयत्वादेव । कृष्णनामाहारीतपुत्रः अस्मैस्वोपसत्तिं कुर्वते शिष्यायपुत्राय वा एतद्वक्ष्यमाणं वाग्ब्राह्मणमिव वाग्विषय ब्राह्मणमिव विद्यमानं अष्यपञ्चकानन्तर्गतत्वेपि सर्ववाचाविष्णुनामव्याख्यानत्वेन विनियोजकत्वात् विष्णुनाममन्त्रार्थकथन परत्वाच्च । ब्राह्मण सदृशं विद्याविशेषमेवो(पो)दाहरत्युपदिशति । यद्वा इवेत्यल्पार्थे । इव किञ्चित्सङ्ग्रहेणोपदिशतीत्यर्थः । उपमार्थेतथाल्पत्वेपीवशब्दः प्रयुज्यत इति वचनात् । विष्णुनामसंहितेत्येका । तत्र षकारणकारौवर्तेते । तत्र संहिताशब्द आख्यानपूर्वं निरुच्यते ॥ प्रजापतिरिति ॥ संवत्सरनामाब्रह्माप्रजाः सृष्ट्वाव्यस्रंसतस्रास्तां गोभूत् । सस्रस्तांगः सन् च्छन्दोभिः सर्वैर्वेदैरात्मानं परमात्मानं समदधात् सन्धिवान् । ततश्ऱ्चछन्दः प्रतिपाद्यत्वात् छन्दोनामकैः स्वस्तुतैः भगवद्रूपैरात्मानं परमात्मानं समदधात् सन्धितवान् विशेषसन्निधानयुक्तमकरोत् । ततश्ऱ्चायमात्मानं स्वदेहं समदधात्समाहितं स्वस्थं दृढमकरोत् । यद्यस्माच्छन्दोभिरात्मानं समदधात्तस्मात्सन्धानात्स्तुत्यासन्धानाच्चतुर्मुखे सन्निधानेन देहदार्ढ्यकरणाच्चसामूर्तिः संहितानाम्नी । तस्यैवा एतस्यै संहितायैतस्या एतस्याः संहितायाः संहितानामकस्य विष्णोः बलंणकारः णइत्यनेन वर्णेनाक्रियमाणः प्रतिपाद्यः । प्राणश्ऱ्चेष्यकत्वं आत्मा आततत्वञ्च ष इत्यनेनाक्रियमाणत्वात्प्रतिपाद्यत्वात्षकार इत्यर्थः । यता णकारषकारौ णइत्याक्रियमाणं बलं षइत्याक्रियमाणं प्रणेतृत्वमाततत्वं च ॠचोनुसंहितं प्रतिसंहितमुपलक्षणमेतदन्यत्रचानुसंहितम् । यत्र यत्र वर्णद्वयसमायोगोभवति तत्र तत्र वेदप्रतिपाद्यं वेद स एवाधिकारीसबलां बलपूर्णां स प्राणां प्रणेतृत्वशक्तिपूर्णां देशतः कालतोगुणतश्ऱ्चाततां संहितां संहितानामिकां विष्ण्वाख्यां देवतां वेद । तस्य सर्वशब्दप्रतिपाद्यत्वाज्ञाने तज्ज्ञानित्वायोगादिति भावः । एवं विदः फलमुच्यते ॥ आयुष्यमिति ॥ तस्य नित्यायुष्यं मुक्तो भविष्यतीति विद्यादित्यर्थः ॥ सयदीति ॥ स उपासकः । स णकारं णकारवाच्यबलानुसन्धानपूर्वं वेदादिकं ब्रवाण्युताणकारं णकारवाच्यबलमत्र न प्रतिपाद्यत इति तदनुसन्धानं विना ब्रुवाणीति अनुपलम्भोक्तिभ्यां सन्देहकारणाभ्यां यदि विचिकित्सेत्संशयं कुर्यात् तदोच्यते किमिति । स णकारं णकारार्थानुसन्धानपूर्वकेव ब्रूयादिति । यदि षकारार्थानुसन्धानपूर्वं वेदादिकं ब्रवाण्युताषकारं तदननुसन्धानपूर्वं ब्रवाणीति विचिकित्सेत तदोच्यते । किमिति । स षकारं षकारार्थानुसन्धानपूर्वमेव ब्रूयादित्यर्थः । नुपलब्धिस्तु व्युत्पत्त्यभावनिबन्धनेति भावः । व्युत्पन्नानां तु प्रतिसंहितं तदर्थानुसन्धानमस्तीत्यत्र वयमेवसाक्षिण इति ऋषिभिरभिधीयत इत्युच्यते ॥ तेयद्वयमिति ॥ त एवं जानं तोवयं यत् येन कारणेनानुसंहितं संहिता प्रतिपाद्यं विष्णुमनुसृत्यतद्युक्तत्वेन तदर्थत्वेनॠचोन्यान्वेदादींश्ऱ्चाधीमहे । यस्माच्चविष्णुनामार्थत्वं वेदादेः प्रदर्शयन्तं माण्डूकेयैरधीयमानमध्यायं प्रब्रूम उपदिशामः । तेन कारणेन नोस्माकं णकारषकारौणवर्णषवर्णाभ्यां आक्रियमाणो वाच्योबलादिगुणयुग्विष्णुर्नोस्माकं उपात्तोवयत इति हस्माह ह्रस्वोमाण्डूकेयः । अथान्यस्थविरः शाकल्योपीति हस्मेत्येवाहेति अन्वयः । किञ्च हवोप्यृषयः ऐकमत्येनेदमेवाहुरित्युच्यते ॥ एतदिति ॥ विष्णुनाम्न एव सर्वोत्तमत्व मेतद्वयाख्यानत्वमन्यवचसामित्येतत्प्रमेयं विद्वांसः कावषेया ऋषयोप्येतद्वक्ष्यमाणमाहुः स्मविष्णुशब्दार्थज्ञानं सर्वत्र तदनुसन्धानं विनावयं किमर्थाः किं प्रयोजनमनुसन्धधानावेदादीनध्येष्यामहेविष्णुपूजारूपत्वानुसन्धानं विना किं प्रयोजनार्थमश्ऱ्वमेधादीन्यक्ष्यामः । न किमपि प्रयोजनमुद्दिश्यैतद्विद्याध्ययनयज्ञफलयोरभावादिति भावः । यदि विष्णुमन्त्राध्ययनन्तेनैवहोमं च निर्वर्तयामस्तदापि किमन्यैरध्ययनादिभिरिति चोच्यते किमर्था इति । यदिवाचिविष्णुषडक्षररूपायां जप्यमानायां प्राणं जुहुमः श्ऱ्वासवृत्तिनिरोधेन तदभिमानिनं प्राणं जुहुमस्तत्र संश्लेष संपादनेन तस्य होमत्वं चिन्तयाम इति यावत् । यद्यत्रैतदधीते वाभाषते वाचितदाप्राणो भवतीति बाध्वखण्डे उक्तत्वात् । यदि वा प्राणेवाचं जुहुमः मौनेन विष्णुनामार्थं ध्यायन्तः प्राणेवाचः संश्लेषेणतस्य तत्र होमं चिन्तयाम इति यावत् । अथ यत्र रूष्णीं भवति वाक् प्राणेतदभवतीत्युक्तत्वात् । तदेवं विष्णुनामाध्ययनहोमचिन्तनयोः करणेकिमर्थावयमध्येष्यामहेवेदादीन् किमर्थावयमश्ऱ्वमेधादीन्यक्ष्यामहे । एतस्याधिकत्वादत एव न्यासिनां विष्णुमन्त्रजपोक्तविधहोमाभ्यामधिकं फलमिति भावः । गृहस्थादेः बाह्ययज्ञादिफलापेक्षास्तिचेत्फलवैचित्ऱ्यसिध्यर्थं तदर्थानुसन्धानपूर्वं वेदाध्ययनाश्ऱ्वमेधादिकार्यमिति भावः । तयोरन्योन्यस्मिन्होम उपपाद्यते योह्येवेति । योयस्मादुत्पद्यते स तस्मिन् लीयत इति प्रसिद्धं प्रकृते च वाचोव्यञ्जकत्वेन मातृत्वात्प्राणस्य च वागुत्पादकत्वात्तयोः परस्परं संश्लेष इति भावः । एवं महिदासो भगवानाचार्यः मुनिमतभेदेन संहिताप्रतिपाद्यरूपाण्युपदिश्यैतद्विद्याधिकारिनिरूपणमिषेणास्याति
?R
गोप्यत्वमाहेत्युच्यते ॥ ताएता इति ॥ ता एताः संहिताः संहितानामकानि तानीमानि भगवद्रूपाणि अनन्तेवासिने अन्यविद्यास्वशिष्याय प्रथमं न ब्रूयात् । अन्यविद्यासुशिष्यत्वेपि नासंवत्सरवासिने ब्रूयात् । संवत्सरान्तः द्वित्रमासमध्येविद्यान्तराध्ययनं न पूर्यते । किन्तु संवत्सरवासंकृत्वापरिज्ञातविष्णुभक्त्यादिशीलायान्यविद्यासुशिष्याय ब्रू
?R
यादिति भावः । वैष्णवत्वादिगुणयुक्तत्वेपि अप्रवक्त्रेव्याख्यान शक्तिहीनाय न ब्रूयात् । किन्तु विशिष्यव्याख्यनादिगुणसम्पन्नाय ब्रूयादित्वयाचार्यामहिदास प्रभृतय आचक्षते । एष पन्था इत्यारभ्योक्तस्य सर्वस्यावधारणार्थं द्विरुक्तिरिति श्रुतेरिति भावः । तत्रापि संवत्सरशब्दः कुतो ब्रह्मपर इत्यत उभयत्राभिधानमाह ॥ ब्रह्मेति ॥ सछन्दोभिरात्मानं समदधादित्येतत् सः विस्रस्तः श्रान्तः प्रजापतिर्वेदैः परमात्मानं स्तुतवानित्यर्थतया व्याचष्ये ॥ श्रान्त इति ॥ स्तुत्वेति समदधादित्यस्यानुवादपरं छन्दोभिः भगवद्रूपैरात्मनं समदधात्सन्धितवानात्मनिसंन्यधापयदित्यस्यार्थः । तेनैवासम्यक् सन्धायेति ॥ आत्मानं देहं समदधाद्दृढमकरोदित्यर्थान्तरमाह ॥ दार्ढ्यमिति । तस्मात्संहितेत्येतद्वयाचष्ये ॥ सन्धानादिति ॥ स्तुत्यासन्धानात् ब्रह्मणिसंनिधानात् देहसमाधानाच्चेत्यर्थः । तस्यै एतस्यै संहितायै बलं णकार इत्यस्यार्थोविष्णुनाम्नीति । कथं णकारोबलमिति सामानाधिकरण्यमित्यत आह ॥ ण इत्याक्रियमाणत्वादिति ॥ प्राणः षकार इत्यस्यार्थोविष्णुनामनीति । आत्माषकार इत्यस्यार्थः । आत्मेतेति ॥ आत्मताच षकारेणोक्तेत्यन्वयः । किं तदात्मत्वमित्यतस्तद्विवरणपूर्णत्वेन नामत्वेविकारोकारयोः नामबहिर्भावमाशङ्खय उपसर्गप्रत्ययमात्रे सति नामार्थ विशेषकत्वात् तदन्तर्भावोघटत इत्याह । वीति ॥ उक्तस्य बलादेः वीत्यनेनान्यगतबलादिभ्योविशिष्यताऽभिधीयते । अन्त्यस्थित उकारोयद्युनोरूपं तदाताच्छील्यं वदेद्यदिस्वतन्त्रोवर्णस्तदाऽऽदि पदोक्तमुच्चत्वं वदेदित्यर्थः । नच विशब्देन पौनरुक्त्यमिति वाच्यम् । उपसर्गमात्रं वीत्याहुः केचिन्नामष्णुमात्रकम् । षकारं च णकारं च वर्णौपूर्बोत्तरावपीति पक्षे अन्त्यस्थितोकारस्योच्चत्वार्थकत्वे पौनरुक्त्येपि वर्णद्वयं विकारं केचिदब्रुवन्नित्युक्तेविकारः पूर्वोवर्णः षणुरित्युत्तरोवर्ण इति पक्षे विकारस्योपसगर्मात्रत्वाभावेन षणोक्तार्थ विशेषकत्वाभावेन वीगतिव्याप्ति प्रजनकान्त्यसनकादनेष्वितिधातुनिष्पन्नत्वेन पृथक् ज्ञानादिगुणवाचकत्वोपपत्तावुकारस्यामानप्रविष्याक्षरप्रतिपाद्यगुणोच्चपरत्वेपौनरुक्त्याभावात् । यद्वा विकारस्योपसर्गत्वपक्षत्वेपि न पौनरुक्त्य मुच्चत्वं गुणानां प्रत्येकशोनिः सीमत्वं स्वातन्त्ऱ्यं निर्दोषत्वं चेत्यङ्गीकाराद्विशिष्यत्वन्तु अन्येभ्योधिकत्वमिति भेदः । तथाच कोर्थोविष्णुशब्दस्य सम्पन्न इत्यत आह । एवमिति ॥ एवमुक्तरीत्या सयोहैतौषकारणकारावित्येतद्वयाचष्ये ॥ तस्मादित्यादिना ॥ तस्माद्विष्णुशब्दस्यैवं महार्थत्वात् स एव बलप्राणविदेवसंसारान्मुक्त इत्युत्तरेणान्वयः । ॠचोनुसंहितमित्यस्यार्थो ऋक् सतिमिति ॥ ऋग्ग्रहणमुपलक्षणमिति भावेनोक्तं वर्णद्वयेति । अत्र जिज्ञासुमध्येसयोहैतौणकारषकारावित्यत्रयः णकारषकारौ ऋगादीनामनुसंहितं वेद स एव सबलां सप्राणां संहितां वेदेत्यन्वयमुपेत्योक्तं स एव विष्णोरिति । स इत्यस्य तस्येति विपरिणामेन तस्यायुष्यमिति विद्यादित्यर्थमभिप्रेत्याह । स एवमुक्त इति । अथयद्वयमित्यादिवाक्यद्वयं व्याचष्ये ॥ संहितासहितत्वेनेत्यादिना ॥ अनुसंहितं संहितामनुसंहितानामक भगवन्तमन्वित्यस्यार्थः संहितासहितत्वेनेति ॥ साहित्यं च तत्प्रतिपादकत्वम् । ऋच इत्यपलक्षणमित्युपेत्योक्तं वेदानिति ॥ तेन नोणकारषकारावुपात्तावित्येतद्वयाचष्ये ॥ तेनेति ॥ सर्वेऋषय इत्युक्त्यामाण्डूकेय शाकल्यग्रहणं तद्गणोपलक्षणमित्युक्तं भवति । एतद्नधस्मवैतद्विद्वांस इत्यादि व्याचष्ये ॥ किमन्यैरित्यादिना ॥ विष्णुशब्दार्थानुसन्धानाभावेऽन्याध्ययनादिनाकिं प्रयोजनं भवेत् न किमपीत्यथर्ः । विष्णुशब्दार्थपरिज्ञानपूर्वं तज्जपेते नच होमेकृते किमन्यैर्बहुभिः कार्यमेतस्यैवाधिकत्वत इत्येवं परतया च किमर्थावयमध्येष्यामह इत्यादि व्याचष्ये ॥ मौनेनेत्यादिना ॥ यदि विष्णुशब्दार्थमेवध्यायन्तः मौनेनात्र प्रणेवाचमनूद्यार्थः नमस्कारसमायुक्तं विष्णुनामाख्यं मन्त्रं जुहुम इति । यदि वाविष्णुशब्दार्थं ध्यायन्तः नमस्कारसमायुक्तं विष्णुनाख्यं मन्त्रजपन्तोत्र वाचिप्राणं वाजुहुमस्तर्हि किमन्यैर्वेदादिभिरश्ऱ्वमेधवाजपेयादिभिश्ऱ्चकिं कार्यं एतस्यैवाधिक फलत्वादित्यर्थः । नन्वेषामश्ऱ्वमेधादिभिः कार्यविशेषोस्ति । वेदाध्ययनादिनाचॠषिॠणादिमोक्ष इत्यतोभिप्रायमाह ॥ एतदिति ॥ ननु वेदेषु तदर्थानुसन्धानं युक्तं न विष्णुनामार्थानुसन्धानमित्यत आह ॥ एष एवहीति ॥ एवमुक्तरीत्या । विष्णुनामोदितोर्थः एष एव हीत्यान्वयः । तदुपपादनं तद्वयाख्येति । ततश्ऱ्चकिमित्यत आह ॥ एवमिति ॥ एमुक्तरीत्येत्यर्थः । यथा विष्णुनाम्न एवं सर्वेषां वचसामिति वा । विशिष्येति सर्वविशेषणम् । आत्मेत्याततत्वम् । आदिपदेन योजनान्तरेवीत्यस्य गत्याद्यर्थस्य ज्ञानादिगुणपरत्वात्तद्ग्रहणम् । सामान्यविशेषभावादात्मेत्यनेनापौनरुक्त्यम् ॥ अखिलेति ॥ प्रत्येकं निःसीमत्वयं सदिति निर्दोषत्वं चोच्चतार्थस्योवर्णस्यार्थः । स्वभाव इत्युन्प्रत्ययोकारस्येति विवेकः । ताएताः संहिता इत्यादि व्याचष्ये ॥ संहिताख्यानीति ॥ ननु यदोपदिशति तदोपदेश्योन्ते वास्येव कथं नानन्तेवासिन इत्युक्तिरित्यत आह ॥
?R
अन्येति ॥ नाप्रवक्त्र इत्यस्यार्थोव्याख्यानेति । नासंवत्सरवासिन इत्यस्यासंतसरवासिनेन ब्रूयात्किन्तु संवत्सरवासेन ज्ञातशीलायब्रूयादित्यथर्ः इति भावेन व्याचष्ये ॥ वैष्णवायेत्यादिना ॥ अध्यायान्ते आचार्या आचार्या इति द्विरुक्तेर्ग्रथोक्तस्य सर्वस्यावधारणेन सर्वस्यानुष्ठेयत्वं तात्पर्यमिति भावेनाह ॥ इत्यनुशासनमिति ॥ स यो हैतौ णकारषकारावनुसंहितमृच इयत्र ॠचः प्रतिसंहितं णकारषकारौ वर्शौवेदेत्यन्यथाप्रतीतेः स्ववचनेन स्पष्यं व्याचष्ये ॥ य इत्यादिना ॥ योधिकायर्ेते न विष्णुनामगतेन ण इति शब्देनाक्रियमाणमुच्यमानं विष्णोः पूर्णं बलं वेद षशब्देना क्रियमाणं देशतः कालतोगुणतश्ऱ्चाततत्वं चशब्दात्प्रणेतृत्वं ॠचांसंहितामनुतदथर्त्वेन वेद न केवलमृचां संहितामनुकिन्त्वक्षरद्वयसंयोगरूपयासंहितयैतदेवसर्वत्रोच्यत इति वेद सः सबलांसंहितां सम्पूर्णबलं विष्णुम् । सप्राणां संहितां सर्वप्रणषतृत्वशक्तिरादिपदेनाततत्वं तद्युक्तं वेदेत्यर्थः । नन्वथेत्यादेर्विश्लिष्यस्य कथं संहितात्वम् । येन विष्णुरिति विष्णुनामसंहिताव्याख्यानत्वं स्यादित्यत आह ॥ अथेत्यादिका अपीति । पदवर्णयोः पदगतवर्णयोः पृथगनभिव्याहारात् विरभ्योच्चारणशभावात् इत्यर्थः । ततश्ऱ्चकिमित्यत आह ॥ तस्मादिति ॥ तेयद्वयमनुसंहितमृचोधीमहे । अथ यद्वयमिति वाक्यद्वयं व्याचष्ये ॥ यद्वयमिति ॥ संहितायुक्तत्वेन संहितानामकभगवद्वाचकतवेन णकारषकारार्थरूपोविष्णुरिति । अनेन तेन विष्णुपदोदितः ।अवाप्तोभगवानिति प्रमाणवाक्यं विवृतं भवति । मृचोधीमहे इत्यस्य वेदानन्यान्पुराणं वेति प्रमाणेकथं व्याख्यातमित्यत आह ॥ ऋच इति ॥ आरण्यकद्वयोक्तस्यावधारणार्थमाचार्या आचार्या इति द्विरुक्तिरित्यभिप्रायेण फलितमाह ॥ अत इति ॥ पूर्वारण्यकेप्रथमाध्यायोपक्रमे एष पन्था इत्यत्र सकलगुणपूर्णत्वेन सर्वोत्तमत्वान्नारायणस्यैव मुमुक्षुभिरुपास्यत्वं प्रतिज्ञाय स एव सर्वोत्कृष्योष्यभिः खण्डैरध्यायशेषण प्रपञ्चितः । हेतुभूतं गुणपूर्णत्वं समन्वयमुखेनद्वितीयाध्यये प्राणऋच इत्येवविद्यादित्यन्तेनोक्त्वा तत्रैवाख्वयायिका विश्ऱ्वामित्रमित्यादिनाध्यायशेषेणोक्ता । तृतीयाध्यायेच योहवात्मनमित्यादिना पूर्वाध्यायोक्त बृहतीसहस्रप्रपाद्यत्वमत एवतद्वयाख्यानरूपसर्वशब्दवाच्यत्वं प्रपञ्चितम् । चतुर्थेचात्मावा इदमेक एवाग्र आसीदित्यादिना तस्वैव कारणत्वोक्त्यासमन्वय उक्तः । पञ्चमेपुरुषो हवेत्यादिनावान्तरसृष्यिपराणशं पुरुषस्त्ऱ्ादिशब्दानां समन्वय उक्तः । षष्ठेच कोयमात्मेत्यादिना गुणविशेषलाभाय यदेतद्धृदयं मन सत्यादिनासमन्वय उक्तः । सप्तमेचवाङ्मेमनसीत्यादिना स्पष्यं सर्ववाग्विषयत्वमुक्तम् । द्वितीये चारण्यकेसर्ववाग्व्याख्येयविष्णुनामसंहिताप्रतिपाद्यत्वोक्त्यासर्वशब्दसमन्वय एवाध्यायद्वयेनोक्तः । यत एवं सर्ववेदादिशब्दादितोतः सर्वगुणपूर्णोभगवान्नारायणः सर्वोत्तमोऽतः स एवोपास्य इतियदुपक्रमे उक्तं तदुपपन्नमिति सिद्धमिति भावः ॥ एवं समापितभाष्यः सर्वज्ञजनचूडामणिः भगवानाचार्यवर्योस्यामुपनिषदि समन्वयमुखेनयद्गुणविशिष्यतया परमेष्यश्रेष्ठवाय्वधिष्ठिततया भगवान्नारायण उपष्युतस्तमेवतद्गुणविशिष्यतया श्रेष्ठवाय्ववतारश्रेष्ठतयोपश्लोकयन् प्रीणयति ॥ सर्वेति ॥ वैदिकपदैर्वेदादिगतैरग्न्यादिपदैः लोकशब्दैः प्राकृतशब्दैः न केवलं वर्णात्मकैः किन्तु मेघाग्निवारिधितलताडनादि प्रभवैः सर्वैर्ध्वन्यात्मकैरपि शब्दैः तद्वयञ्जित वर्णद्वारा एक एवाभिधेयपरिपूर्णगुणोममालं प्रिय एव पुनरप्यलं सुतुष्यिमेत्वित्यर्थः । स्वस्य परमात्मत्वेच स्वकृतेः प्रामाण्यं बोधयन् स्वस्वरूपज्ञानस्यापि भगवज्ज्ञानवन्मोक्षान्तरं गत्वा स्वस्वरूपं निरूपयन् स्वकृतिं हरावर्पयति ॥ यस्वेति ॥ अस्य श्लोकस्य सुधारीत्याऽयमर्थः । यस्य वायोः देवस्य वेदवचनेबलित्थेत्यादौ अलं दिव्यान्यद्भुतानि त्रीणिरूपाण्युदितानितेन वायुनेदं भाष्यं प्रभौप्रभुविषयेकृतमित्यन्वयः । कीदृशं तस्य मूलरूपं कथं भूतानि च तानि क्षिणिरूपाणीत्यत उक्तम् ॥ बडित्यादि ॥ यस्य तन्मूलरूपं बट्बलात्मकं दशर्तं ज्ञानरूपञ्च । दृशेरौणशदिकोऽतच् प्रत्ययः । अनेन वायुशब्दोनिरुक्तः । वशब्दोबलवाची । अय्गत्यर्थः गत्यर्थाश्ऱ्चावगत्यर्थाः तत उण्वश्ऱ्चासावायुश्ऱ्चेति वायुरिति । किञ्च भगर्ोभरणगमनयोः कर्तृ डुभृञ्भरणे गम्लृगतौ आभ्वामसुन्प्रत्ययोडिच्च । इदमपि वायुशब्दव्याख्यानम् । वागतिगन्धनयोरित्यतः कृवापाजिमिस्वदिसाध्यशूभ्य उणित्युण् । अनेकार्थत्वाद्धातूनां वातिर्भरणेपि वर्तते । अपि चमहच्छ्रेष्ठम् । वयश्रेष्ठत्व इत्यस्मादुण् । न केवलं मूलरूपमेवैवं किन्तु यस्यावतारेषुनिहितं रूपमित्थमेव । यस्य प्रथमकंप्रथमं रूपं रामविषयाणिवचांसिमूलरामायणशदीनि रामवचांसितेषां न यं नीयन्तेशिष्येषुप्रवर्त्यन्तेनेनेति । एरजित्यच् । यस्य द्वितीयं वपुः पृक्षः पृच्छब्दः पृतनावाचीप्रसिद्धः । तस्मिन्कर्मण्युपपदेक्षैक्षय इत्यस्मादातोनुपसर्गेक इति कः । उपपदतकारलोपश्छान्दसः पुल्लिङ्गः श्रुत्यनुसारेण । असुन्वाप्रत्ययः किदिति न पुंसकमेवेदम् । रिपुपृतनाक्षयकारीत्यर्थः । यस्य यत्तृतीयं वपुः एतन्मध्वः मधुशब्दः सुखवाची । मधुद्यौरस्तुनः पितेति प्रयोगात् । वशब्दः शास्त्रापरपयर्ायतीर्थवाची वातेरवगत्यर्थात्करणेघञर्थेकविधानमितिकः । सुखसाधनं तीर्थमस्येति स्वरित्यत्रेवोकारलोप इति । ननु यदुक्तं बलित्थेत्यादौवायोरूपत्रयमुक्तमिति तदयुक्तम् । त्रेताग्निपरतयानुक्रमणिकायामुक्तत्वादित्यतः सत्यं प्राणाग्निपरमिदं सूक्तमिति
?R
भावेन प्रमाणेन रूपत्रयविषयतया व्याचष्ये ॥ हनुशब्द इत्यादिना ॥ प्रथमायामृचिसाधते मतिरिति मतिशब्दार्थमाह ॥ नहनुशब्द इति ॥ हनहिंसागत्योरिति धातोः शॄस्वॄस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्ऱ्चेत्युकारः । गत्यर्थानां ज्ञानार्थत्वात् । हनुशब्दोज्ञानवाची । तद्वान् हनुमान् । स एवमतिशब्दितः । मनु अवबोधन इत्यतः कर्तरिक्तिन्प्रत्ययः । अकर्तरिचकारकेसंज्ञायामित्युक्तत्वेपि नञानिर्दिष्यमनित्यमिति न्यायात्कर्तर्युपपद्यते । ॠतस्य धेना अनयन्तेत्येतद्वयाचष्ये ॥ रामस्येति । ॠतस्य यथार्थज्ञानस्वरूपस्येत्यर्थः । ॠतं यथार्थविज्ञानमिति वचनात् । ॠगतावित्यतोभावेक्तप्रत्ययः । यद्वा सर्वदैकप्रकारेणज्ञातस्येत्यर्थः । ॠगताविति धातोस्तु पूर्वावगतवत्सदा । स्थिते ब्रह्मर्तमित्युक्तमिति वचनात्कर्तरिक्तः । धेना इत्यस्यार्थोवाच इति । धेट्पाने धयन्ते पिबन्ति आसुमुमुक्षवोरामकथामृतमिति धेनाः रामस्य मूलरामायाणशदिवाचः शिष्याननयन्तेत्यर्थः । यद्वाधेट्शुद्धौ अपशब्दादिदोषरहिताः सन्देशरूपावाचः सीतां प्रत्यनयन्तेत्यर्थः । द्वितीयायामृचिनित्य आशयेद्वितीयमासप्तशिवासुमातृष्वित्यतस्भीमशब्दार्थकथनमिति भावेन भीमशब्दार्थं तावदाह ॥ भृतम इति । भृता निभृता माः प्रमाणानियस्मिन् सभीमः । भृञ्भरण इत्यस्मादौणादिक ईकारप्रत्यये भीभृताः माप्रमाणानियस्मिन्निति भवतीति भावः । माशब्दार्थमाह ॥ वाच इति ॥ अस्त्वेवं भीमशब्दार्थः । ततश्ऱ्चकिमित्यत आह ॥ मातर इति ॥ ता एव वाचः श्रुतौ मापकत्वात् ज्ञापकत्वात् ज्ञानकरणत्वात् मातरः स्मृताः । माङ्मान इत्यतः करणेतृच् । सप्तशिवास्वित्येतत् विशदयति ॥ ऋगाद्या इति ॥ यतस्तत्र शयः तद्विचारनिष्णतः ततो भीमः स्मृतः । तृतीयायामृचिमध्वपदं व्याचष्ये ॥ मध्विति ॥ मधुद्यौरस्तुनः पिता । कामानलमधुलवैः शमयन् दुरापैरित्यादौ मध्वित्यनेनानन्द उद्दिष्यः । वातेरवगत्यर्थत्वात् ज्ञानकरणं तीर्थं शास्त्रंव इत्यनेनोदाहृतम् । तथाच मधुशब्दितानन्दकरं वं तीर्थं यस्मात्स मधुवलवएवोकारलोपेन मध्वः आनतीर्थः ।तीर्थञ्चेहशास्त्रं तीर्थं शस्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिष्विति विश्ऱ्वः । एतत् ज्ञानफलमाह । इतीति । एवं व्याख्यातेतृचे उर्वरितानिकानि चित्पदानि प्रमाणान्तरेण व्याचष्ये ॥ साधक इत्यादिना । प्रथमायमृचि उपह्वरतेसाधते मतिरित्येतद्वयाचष्ये ॥ साधक इति । ॠतस्य धेना आज्ञारूपाः साधते आज्ञाकार्यकरणेन साधत इत्यस्य तात्पर्यं रामवाक्यानां साधक इति बृहद्भाष्यपाठः । अस्यां योजनायां दान इति द्वितीयान्तमिति भावः । ॠतस्योपसमीपेह्वरतेह्वृगतौ सिदातत्समीपेवर्तते इत्यप्रेत्योक्तम् । तत्समीपगत इति ॥ द्वितीयायामृचि सप्तशिवासुमातृष्वित्यस्यतात्पर्यम् । भूमस्त्विति ॥ पितुमानित्यस्यान्नं वैपितुरिति श्रुतेरन्नंपितुः पितुरस्यास्तीति पितुमान् भूमार्थेच मतुप् । अन्नवत्त्वं चतद्भोक्तृत्वमित्यभिप्रेत्योक्तं बहुभुक् पितोरिति । पृक्षशब्दार्थः पृतनेति द्वितीयं वपुरित्यस्यार्थोद्वितीय इति । दशप्रमति शब्दार्थमाह ॥ तृतीयक इति ॥ मध्व इति नामान्तरमिति भावेन तदर्थोक्तिस्तथानन्दतीर्थेति । तदशप्रमतिशब्दस्य पूर्णप्रज्ञ इति कथं व्याख्यानमित्यतो व्युत्पाद्यदर्शयति ॥ दशेति ॥ दशेति वैसर्वमित्यस्यामेवोपनिषदिदशेत्यनेन सर्वमुद्दिष्यम् ॥ सर्वञ्चेहपूर्णमुच्यते ॥ प्रमतिरिति प्रज्ञोद्दिष्या ॥ ततो दशप्रमतिशब्देन पूर्णप्रज्ञः स्मृत इत्यर्थः । निर्यदीं बुध्नामिति तृतीयामृचं व्याचष्ये ॥ आसमन्तादित्यादिना । आधव इत्यत्र आत्यनुवादेन धव इति विषयसप्तमीति भावेनोक्तम् ॥ आसमन्तात्पतित्व इति ॥ पतित्वेनतिग्रन्थान्तरपाठः । गुहासन्तमित्यत्र गुहूसंवरण इति धातोः विद्भिदादिभ्योञिति स्त्रियां कमण्यञ् । तथाच गुह्यत इति गुहागुहात्वेन गूहितत्वेन सन्तमित्यर्थमभिप्रेत्योक्तम् ॥ गूढमिति ॥ गूढत्वेनिमित्तकथनपूर्वं विवृणोति ॥ कलियुग इत्यादिना ॥ एतज्जगदसत्यं सद्भाव्व्यापकशून्यम् । अप्रतिष्ठं प्रतिष्ठापकशून्यम् । अत एवेश्ऱ्वररहितमिति वदद्भिरित्यर्थः । यद्वा जगदसत्यं मिथ्याभूतं कुतः अप्रतिष्ठं ज्ञान बाध्यम् । अत एवेश्ऱ्वररहितम् । सत्यस्य हीश्ऱ्वरापेक्षेति वदद्भिः सत्यजगज्जन्मादिकारणत्वागुणविशिष्यतया गूहितमित्यर्थः । यदींयएव तृतीयोमातरिश्ऱ्वेत्यस्य तात्पर्यं तृतीयोसुर्मुख्यप्राण इति । निर्यदीं बुध्नान्महिषस्य वर्पस इत्यत्र यदीमित्यस्यार्थोयेनेति । महिषस्य महितषद्गुणस्य तात्पयर्ं विष्णोरिति । वर्पस इत्यत्र ङ्चाभ्यां रूपस्वाङ्गयोर्युङ्चेति स्मरणात् वृङ्चरण इति भावेनोक्तं वर्पाख्यानिति । निराक्रन्तेत्यस्यार्थो अज्ञासिषुरिति । क्रमर्गत्यर्थस्य ज्ञानार्थत्वात् ईशानासः बहुवचनमाद्यर्थे ईशानप्रभृतयोदेवा अन्येसूरयश्ऱ्चेत्यर्थमभिप्रेत्योक्तमीशानास इति द्वितीयं तृतीयमित्युक्त्यालब्धमवतारत्रयस्य कालभेदमाह ॥ त्रेतायामिति ॥ ऍवितीणर्श इति शेषः । एतेषां परमोविष्णुर्नेतेत्यप्रयुत्पितुः परमान्नियत इति चतुर्थ्याॠचस्तात्पर्यमुक्तं भवति । उभायदस्य जनुषं इतीत्युभयोर्नियमेन साम्यं प्रतीयतेऽत उक्तं सर्वेश्ऱ्वर इति । हरेर्वायुनियामकत्वे ब्रह्मस्वयं भुब्रह्मणे नम इति बृहदारण्यकोपनिषद्वाक्यं प्रमाणमिति भावेन तद्वयाचष्ये ॥ स्वयंभुब्रह्मसंज्ञ इति ॥ अयमेततत्सूक्तार्थः । बलित्थातद्वपुषे धायिदर्शतं देवस्य भर्गः सहसोयतोजनि । यदीमुपह्वरतेसाधतेमतिर्ऋतस्य धेना अनयन्त सस्रुतः । सहसोदेवस्य सहमषॅणे अरिवेगसहनवतोवायोर्देवस्य । तन्मूलरूपम् । बटूबलात्मकम् । दर्शतं ज्ञानरूपम् । भृमृदृशियजिपर्विपच्यतमिनमिहर्यभ्योतजित्युणशदिसूत्रेदृशेरतच् प्रत्ययविधानात् ।
?R
दर्शेनज्ञाने न ततंव्याप्तंदर्शतमित्यप्याहुः । यतः स्वयमजनियतश्ऱ्चवपुषे अवतारायेत्थमेवबलाद्यात्मकत्वेनैव अधायिन्यधायि । तस्यदेवस्य भगर्ः भरणगमनयोः कर्तृच यदीं यदेवमतिर्हनुमदाख्यं प्रथमंरूपं । ॠतस्य यथार्थज्ञानस्वरूप स्यैकप्रकारेणशश्ऱ्वदवगतस्य रामस्योपसमीपेह्वरते सर्वदागतो वर्तते । तस्य सस्रुतोतिशयेनामृतस्राविणीर्धेनाः वाचः साधते । किञ्चतस्य प्रतिपादिकाः सस्रुतोऽमृतस्राविण्योधे नारायणादिवाचः तेन हनुमता शिष्यान् प्रत्यनयन्त । सन्देशरूपावाचः सीतां वाप्रत्यनयन्तेत्यर्थः । पृक्षोवपुः पितुमान्नित्य आशयेद्वितीयमासप्तशिवासुमातृषु । तृतीयमस्यवृषभस्य दोहसेदशप्रमतिं जनयन्त योषणः । अस्य वृषभस्य वृषसेचनेच भन्नित्य आशयेद्वितीयमासप्तशिवासुमातृषु । तृतीयमस्यवृषभस्य दोहसेदशप्रमतिं जनयन्त योषणः । अस्य वृषभस्य वृषसेचनेच भक्तानां सर्वाभिलषितवर्षितुः । यद्वा वृषस्नेहे भक्तानुरागिणः । भगवद्भक्त प्रवरस्य वा । यद्वा वृषशक्त्यविशय इति धातोः बहुशक्तिसम्पन्नस्यवायोर्द्वितीयं वपुः सप्तसङ्खयाकासु आशिवासु परममङ्गलासदु मातृषुगादिप्रमाणेषु । नित्यः नित्यंशयेशेते । लोपस्त आत्मनेपदेषु इति तकारलापे अयादेशेच शय इति रूपम् । ततश्ऱ्चभीमनामकमिति यावत् । किञ्चपृक्षः कुरुपृतनाक्षयकारी । पितुमान् बह्वन्नभोक्ता । अस्य वृषभस्य वर्षितुः दशप्रमतिं पूर्णप्रज्ञनामकम् । तृतीयं वपुर्दोहसेज्ञानदोहाययोषणः स्त्रियः जनयन्त अजनयन्त । गुरुमातृत्वाद्बहुवचनम् । निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसाक्रन्तसूरयः । यदीमनुप्रदिवोमध्व आधवेगुहासन्तमातरिश्ऱ्वामथायति । बुध्नात् बोधमतिव्याख्यातत्वात् । यदीं यस्मात् पूर्णप्रज्ञादेव महितषड्गुणस्य हरेर्वरणीयत्वात् वर्पसोगुणान् ईशानादयेदेवा अन्येसूरयश्ऱ्च शवसासुखेन निःतरां अक्रन्त ज्ञातवन्त इत्यर्थः । यद्यपि बन्धेर्ब्रधिबुधीचेत्युणादिसूत्रेबन्धबन्धन इति धातोर्बुधादेशेनक् प्रत्यये नोपदेशकात् अबुध्नेराजेत्यत्र ग्भाष्यटीकायां अबुध्नेबुध अवगमनेततो नक् तत्प्रतिषेधो अबुध्नमिति निष्पन्न इत्युक्त ॥ यद्वा धात्वर्थभूतोबन्दोभक्तिलक्षणोविवक्षितः । अनुबन्धश्ऱ्चभक्तिः स्यादिति वचनात् । भगवद्भक्ताग्रेसरादिति यावत् । भक्तेर्ज्ञानरूपत्वाद्बोधात्मकत्वादिति वा । यदींप्रदिवः प्रकाशादिरूपो मध्व आनन्दतीर्थाख्यो मातरिश्ऱ्वामातरि प्रमाणभूतेऋगादौ श्ऱ्वयतिगच्छतीति वायुः । कलियुगेदुर्वादिभिर्गुहासन्तं गूहितं सन्तं हरिं आधवे आसमन्तात्पतित्वे विषये मथायति मन्थाति । शास्त्रेणविचार्यनिश्ऱ्चाययतीत्यर्थः । प्रयत्पितुः परमान्नीयते पर्यापृक्षुधोवीरुधोदं सुरोहति । उभायदस्य जनुषं यदि न्वंन्त आदिद्यविष्ठो अभवद्धृणाशुचिः । यद्रूपत्रयम् । परमात्पितुः प्रणीयते उत्तमत्वेन प्रेर्यते । पृक्षुधः प्रश्ऱ्नान्वीरुध इव दंसुदं तेषुपर्यारोहतिशकलीकरोतीति यावत् । अस्य यज्जनुषं यज्जन्म उभा उभौलक्ष्मीनारायणौ यद्यस्मादिन्वतः प्रेरयतः । आत् इत् अस्मादेव कारणशत् आत् इत् आभ्यामेवघृणादयया । शुचिः शुद्धोयं यविष्ठोवरोभवत् । आदिन्मातृराविशद्या स्वाशुचिरहिंस्यमान उर्वियाविवावृधे । अनुयत्पूर्वा अरुहत्सनाजुवोनिनव्यसीष्ववरासुधावते । आत् इत् आभ्यां लक्ष्मीनारायणाभ्यां तत्प्रसादादेव । मातृः अञ्जनाकुंतीमध्यगेहस्त्रिय आविशत् प्रविष्यो । यासुमातृषु आसमन्ताच्छुचिःशुद्धः । अहिंस्यमानः गर्भपडारहितः । उर्विया उरुत्वेन विववृधे । यद्वा श्रीमध्वदेवः आत् इत् लक्ष्मीनारायणप्रसादान्मातॄः लगादिविद्या आविशत् । यासुविद्यासु आशुचि रज्ञानादिदोषरहितः अहिंस्यमानः पूर्वपक्षिप्रयुक्तप्रमाणाभासैरपीड्यमान उरुत्वेन विववृदे । तत्र पूर्वा अनादिभूताः सनाजुवः जुगतौ सनातनत्वेनास्थिताः । यद्वा सनातनं भगवन्तं जुषन्तेसेवन्ते प्रतिपादयन्तीति सनाजुवः । ॠगाद्या अपौरुषेयविद्या अन्वारुहत् उपक्रमादिकमनुसृत्यानुक्रमेणस्ववचन प्रमाणाभ्यां पदार्थतात्पर्यकथनपूर्वं कृतत्वात् । न व्यसीषुनवीनास्ववरासुषौरुषेयत्वेन जात्यानीचासु भारतभगवतादिविद्यासुनिधावते । तात्पर्यतोव्याख्यातीति भावः । भगवत्स्वरूपप्रतिपादने नैवग्रन्थो पसंहारः समुचित इत्याशयवान्नित्यापरोक्षं भगवन्तं सम्बोध्यस्तौति (भक्त्यतिशयेन पुनरपि भगवन्तं प्रणमति ) ॥ पूर्णेति ॥ पूर्णाःप्रत्येकमनवधिकाः अगण्यानन्तागुणा एवोदारधामस्वरूपं यस्य तस्मै । अतएवनित्याय वेधसेसर्वज्ञाय सर्वकर्त्रेवा । अमन्दः सङ्खयापरिमाणाभ्यामवधिकोय आनन्दस्तेन सन्द्राय प्रेयसेतिशयेनप्रियाय विष्णवेनम इत्यर्थः । गुणपूर्तिसम्भावनायसर्वकतर्ृत्वं तदुपपादनायसार्वज्ञञ्चोक्तम् । गुणेष्वानन्दस्य फलरूपत्वात्सर्वगुणानामपि अनुकूलवेदनीयतया फलत्वाच्चानन्दस्य पृथगुक्तिः । अनुभूयमानानन्द स्याच्चताहेतुत्वाद्वाज्ञानस्य पृथगुक्तिरिति सर्वमवदातमित्यशेषमतिमङ्गलम् ॥ नारायणाचार्यमुखेन्दु बिम्बोद्गलत्सुतत्वामृतपानयुक्तं श्रीविट्ठलाचार्याभिधभूसुयेन्द्रं परं गुरुं मे पितरं नमामि । 1
॥
श्रीमध्वहृत्पङ्कजमध्यसंस्थेकृष्णेरमालालितापादपद्मे ॥
स्वानन्दसान्द्रेरचितां मयेमां रत्नावलीं मेगुरवोर्पयन्तु ॥ 2
॥
श्रीविट्ठलायर्पुत्रेण श्रीमत्तीर्थार्यसेविना । श्रीनिवासेन रचिता रत्नमालातिनिर्मला ॥ 3
॥
इति श्रीविट्ठलाचार्यलरणसेविना श्रीनिवासेनरचितायां महैतरेय भाष्यार्थरत्नमालायां द्वितीय प्रघट्टके अष्यमोध्यायः ॥ 8
॥
]