श्रीबृहदारण्यकोपनिषद् भाष्यटीका-परब्रह्मप्रकाशिका

[[श्रीबृहदारण्यकोपनिषद् भाष्यटीका-परब्रह्मप्रकाशिका Source: EB]]

[

?Rअथाश्ऱ्वलोपरमानन्तरम्‌ । जरत्कारुगोत्रापत्यं जारत्कारवः । ऋतभागस्यापत्यमार्तभागः । एनं याज्ञवल्क्यं पप्रच्छ याज्ञवल्क्येति सम्बध्योवाच । गृह्णन्ति विषयानिति ग्रहा इन्द्रियाणि । कतिकतिसङ्खयाकाः ग्रहं गृह्णन्ति स्वाभिमुख्येनाहरन्तीति ग्रहाः विषयाः । कतीत्यर्थः । इति पृष्योयाज्ञवल्क्य उत्तरमाह ॥ अष्याविति ॥ सङ्खयेयान्पृच्छति ॥ एत इति ॥ एतेष्यौग्रहाः अष्यावति ग्रहाश्ऱ्चोक्तास्तेकतमेक इत्यर्थः ॥ 1 ॥ उत्तरमाह ॥ प्राणोवा इति ॥ प्राणोघ्राणेन्द्रियं वैग्रहः । अतिग्रहत्वप्रदर्शनपूर्वकं प्राणातिग्रहं दर्शयति ॥ स इति ॥ सप्राणोपानेनापानाभिमन्यमानेनगन्धेनातिग्रहेणगृहीतः । अनेन घ्राणं गृह्णाति स्वाभिमुख्येनाहरतीति गन्धस्य घ्राणातिग्रहत्वमित्युक्तं भवति । प्राणस्य ग्रहत्वं दर्शयति ॥ अपानेनेति ॥ अपानाभिमन्यमानेन घ्राणेन । हि यस्मात्‌ गन्धजिघ्रति तस्मात्प्राणोवैग्रह इत्यर्थः ॥ 2 ॥ वागतिग्रहं दर्शयति ॥ स इति ॥ सवाग्रूपोग्रहोनानाऽतिग्रहाणगृहीतः । वाचोग्रहत्वं दर्शयति ॥ वाचाहीति ॥ एवमुत्तरत्रापि कामेन काम्येन । उपसंहरति ॥ इत्याष्याविति ॥ पादपायूपस्थानां हस्त एवान्तर्भाव इति भावः । अत एव सकर्मणातिग्रहेणेति कमर्मात्रस्य हस्तातिग्रहत्वमुक्तम्‌ ॥ 3-9 ॥ प्रमेयान्तरं पृच्छति ॥ याज्ञवल्क्येति ॥ यदिदं प्रमाणप्रसिद्धं सर्वं यस्य मृत्योरन्नं समृत्युः कादेवता सचमृत्युः यस्यादेवतायाः अन्नं साचदेवताकेति याजना । प्रथमप्रश्ऱ्नोत्तरमाह ॥ अग्निरिति ॥ अग्नावेव सर्वेदेवाविलीयन्त इति श्रुतेरित्यर्थः । द्वितीयप्रश्ऱ्नोत्तरमाह ॥ स इति ॥ सोग्निरपां सूर्यस्यान्नम्‌ । अत्र सर्वदेवता वाचकाऽप्‌शब्देन सूर्योग्राह्यः । यद्वा वरुणवत्सूर्योप्यपामभिमानी । अधमाभिमन्यमानकस्योत्तमाभिमन्यमानकत्वात्‌ । तत अप्‌शब्देन सूर्यग्रहणम्‌ । कुत एवं व्याख्येयमिति चेत्‌ । सूर्योग्नियुक्त इति अग्नेः सूर्यान्नत्वस्योक्तत्वात्‌ । यद्वा यदिदं सर्वं पूर्वोक्तं प्राणादींन्द्रियगन्धादिविषयाभिमानिदेवता जातं यस्य मृत्योरन्नं सादेवताका सच मृत्युर्यस्यादेवतायाअन्नं साचदेवताकेति पृष्ये प्रथमप्रश्ऱ्नोत्तरमग्निरिति । अग्निरग्निनामकोग्न्यंतर्गतश्ऱ्चतुर्मुखोमृत्युः सोग्निनामचतुर्मुखः अपां आपालनादप्‌शब्दवाच्योविष्णुस्तस्यान्नम्‌ । एवं वेत्तुः फलमाह ॥ अपपुनरिति ॥ य एवं वेदेति शेषः । पुनर्मृत्युं मृतिमपजयति मोक्षं प्राप्नोतीत्यर्थः । अपरोक्षज्ञानिनोयन्मरणानन्तरमेव मोक्षः तत्र विशेषं पृच्छति ॥ याज्ञवल्क्येति ॥ अयमात्मत्वामात्रोपासन जब्रह्मापरोक्षज्ञानवान्‌ पुरुषोयत्र यदाम्रियते तदास्मात्‌ ज्ञानिदेहात्‌ प्राणावागादीन्द्रियाभिमानिन उक्त्रामन्ति ॥ आहोनेति ॥ आहो इत्यत्रप्लुतिः विचारणार्था । मरणकाले इन्द्रियाभिमानिदेवैः सह अयमपरोक्षज्ञानीब्रह्मनाड्योक्त्रामति न वेति प्रश्ऱ्नवाक्यार्थः । ज्ञान्युक्त्रामतिनवेत्यस्य उत्तरमाह ॥ नेतीति ॥ अयमपरोक्षज्ञानीन ब्रह्मनाड्योक्त्रमति किन्तु चक्षुःश्रोत्रादिरूपद्यारान्तरेणनिर्गच्छतीत्यर्थः । इदानीं प्राणविषयप्रश्ऱ्नोत्तरमाह ॥ अत्रैवेति ॥ अत्रैवजीवमादायगच्छति विष्णावेव समवनीयन्ते देहमुत्सृज्यमनुयान्तीत्यर्थः । अत्रानेन जीवमादायगच्छताविष्णुनासमवनीयन्ते स्वसहायेन नीयन्त इति वाथर्ः । अत्रैवस्वमूलरूपग्न्यादावेव समवनीयन्ते देहमुत्सृज्यतान्प्रतिगच्छतीति वार्थः । न केवलं ब्रह्मानड्योक्त्रमणाभावमात्रं ज्ञानिनः । किन्तु स अपरोक्षज्ञानिदेहः । उच्छ्वयति उच्छूनतं प्रतिपद्यते । आध्मायति दृतिवद्बाह्येन वायुना पूरितो भवति । आध्मातोमृतोनिश्ऱ्चेष्यःशेते । एवं प्रारब्धकर्मफलभूतं देहोच्छूनतादिकमनुभूयचक्षुरादिद्वारादेहान्निर्गत्यमुक्तिं गच्छतीत्यर्थः ॥ 11 ॥ प्रकृतमुक्तौ विशेषं पृच्छति ॥ याज्ञवल्क्येति ॥ अयं पुरुषो ब्रह्मापरोक्षज्ञानी यत्र यदा स्रियते मुक्तो भवति तदा एनं किं न जहातीत्युवाचेति सम्बन्धः । उत्तरमाह ॥ नामेति ॥ सर्वं जहाति नाममात्रं न जहाति कुत इत्यत आह ॥ अनन्तमिति ॥ शेषोमुक्तः विरिञ्चोमुक्त इति मुक्तानामपि तत्तन्नाम्नाव्यवहारादित्यर्थः । वाच्यानां देवानामन्तवत्त्वेखलुतद्वाचकशब्दस्यां तवत्त्वम्‌ । तदेवनास्तीत्याह ॥ अनन्ता इति ॥ एवं वेत्तुः फलमाह ॥ अनन्तमेवेति ॥ य एवं वेदेति शेषः ॥ 12 ॥ इदानीमत्रैवसमवनीयन्त इत्युक्तमनुवदन्‌ सर्वसाधारणमरणेविशेषं पृच्छति ॥ याज्ञवल्क्येति ॥ यत्र यदा मृतस्य पुरुषस्य वाक्‌ वागमिमानि अग्निरग्निं स्वमूलरूपमेकेन रूपेणाप्नोति प्राप्नोति एवमुत्तरत्रापि । आत्माहृदिस्थः परमात्मा । आमाशं बहिः व्याप्तं परमात्मानमप्येति । अयं पुरुषः क्वभवति कस्मिन्स्थानेतिष्ठतीत्यथर्ः । पृष्यस्योत्तरं वक्तुं तस्यातिरहस्य त्वात्तदयोग्येषु न प्रकाशनीयमिति भावेनोपाद्धातमाह ॥ आहरेति ॥ हासौम्यहस्तमाहरदेहि । कुतः । हे आर्तभागावामेवैतस्यैतत्‌ त्वयापृष्यं तत्वं वेदिष्यावः नौ आवाभ्यां सजनः अयोग्योजनः एतत्प्रमेयं न जानयादिति । तौ याज्ञवल्क्यार्तभागौ उक्त्रम्यमन्त्रयाञ्चक्राते । तौ किं मन्त्रयामासतुरित्यतः श्रुतिः स्वयमाह ॥ तौहेति ॥ कर्मैवकर्मफलदातृत्वात्‌ भगवान्कमर्ेत्युच्यते । क्वायन्तदापुरुषोभवतीति प्रश्ऱ्नस्या किमुत्तरमुक्तवानित्यत आह ॥ पुण्य इति ॥ समृतः पुरुषोयदिपुण्यकर्मा । तर्हि पुण्येनकर्मणातत्स्थेनपरमात्मना पुण्योभवति स्वर्गादिपुण्यलोकावान्‌ भवति । यदि पापकर्मा तर्हि पापेन कर्मणातत्स्थपरमात्मना पानोनरकादिलोवान्‌ भवति । यदि ज्ञानीतर्हि ज्ञानस्थेन परमात्मनामुक्तिमानित्यपिग्राह्यम्‌ । अनेन क्वेत्यस्य स्वर्गादावित्युत्तरमुक्तं भवति । ततः

?Rस्वपृष्यप्रश्ऱ्नानामुत्तरकथनाज्जारत्कारव आर्त भाग उपरराम ॥ आर्तभागब्राह्मणम्‌ ॥ अत्र पारीक्षिता इत्यस्य परितोदुरितं क्षीयते येन सपरीक्षित्‌ अश्ऱ्वमेघः तद्याजिनः पारीक्षिता इति व्याख्यानमसत्‌ । क्वपारिक्षिता इति प्रश्ऱ्नस्य गच्छन्‌ वैतेतद्यत्राश्ऱ्वमेधयाजिनोगच्छन्तीति परिहारानुपपत्तेः । नह्यश्ऱ्वमेधयाजिनः क्वसन्तीति प्रश्ऱ्नेयत्राश्ऱ्वमेधयाजिनस्तत्रागच्छन्निति परिहारः सम्भवति । नचाधुनातनाः पारीक्षिताः क्वेति प्रश्ऱ्नेपूर्वतना अश्ऱ्वमेधयाजिनोयत्रेति पारिहारः सम्भवतीति वाच्यम्‌ । अश्रुतकल्पनापत्तेरिति भावेन पारीक्षिता इत्येतद्वयाचष्ये ॥ पारीक्षिता इति ॥ ननु तथापि यत्राश्ऱ्वमेधयाजिनस्तत्रपारीक्षिता आगच्छन्निति परिहारानुपपत्तिः । नह्यश्ऱ्वमेधयाजिनां पुरुषाणां यत्स्थानं स्वर्गादिकं तत्प्रद्युम्नानां स्थानम्‌ । तेषां देवत्वेनाश्ऱ्वमेधयाज्यपेक्षयोत्तमत्वादित्यतोऽश्ऱ्वेमेधयाजिपदं व्याचष्ये ॥ अश्ऱ्वमेधयाजिन इति ॥ प्रद्युम्नानां इन्द्राणां च समत्वेनैकस्थानत्वमुपपन्नमिति भावः । उक्तार्थेप्रमाणं वदन्‌ समग्रब्राह्मणं प्रमाणेन व्याचष्ये ॥ प्रद्युम्न इति ॥ प्रद्युम्नेपारीक्षितशब्दं निर्वक्ति ॥ सर्वेक्षणादिति ॥ अन्येषामप्यश्ऱ्वमेधयाजित्वात्कथमश्ऱ्वमेधयाजिन इन्द्रा इति व्याख्यानमित्यत आह ॥ शताश्ऱ्वमेधेति ॥ असाधारण्येन व्यपदेशाभवन्तीति भावः । ननु इन्द्रकामयोरेकैकत्वात्‌ कथं बहुवचनम्‌ । कथं वातेषामेकस्थानत्वोक्तिः । इन्द्रस्थानेस्वर्गेकामस्यावस्थानाभावादित्यत आह ॥ अतीतेति ॥ इन्द्रः सुपर्णोभूत्वेति कथम्‌ । पुरन्दरस्य सुपर्णत्वेन भवनायोगादित्यत आह ॥ इन्द्रनामात्विति ॥ कुत इत्यत आह ॥ सामर्थ्यादिति ॥ ऐश्ऱ्वर्यादित्यर्थः । यद्वा इन्द्रशब्दसामर्थ्यादेव । इन्द्रःसुपर्णोगरुड इत्यभिदानादित्यर्थः । ननु गरुडःसुपर्णोभूत्वेति कथं सिद्धत्वेनावक्तव्यत्वादित्यत आह ॥ सौपर्णं पक्षिसम्बन्धि पौरुषं पुरुषसम्बन्धि । इन्द्रस्सुपर्णोभूत्वावायवेप्रायच्छदित्यतद्वयाचष्ये ॥ तत्रेति ॥ अत्र वायुशब्देन चतुर्मुखोविवक्षितः । वायुरात्मनिधित्वातत्रागमयद्यत्राश्ऱ्वमेधयाजिनोभवन्निति वाक्यं व्याचष्ये ॥ वायुरिति ॥ तत्रागमयदिति शेषः । एवमिववैसवायुमेवप्रशशंसेत्यस्य तात्पर्यमाह ॥ एवमिति ॥ तस्माद्वयुरेवव्यषिटः वायुरेवसमष्यिरितद्वयाचष्ये ॥ तस्मादिति ॥ सर्वोत्तम इति व्यष्यिसमष्यिशब्दतात्पर्यकथनम्‌ । व्यष्यिशब्दार्थमाह ॥ विविधमिति ॥ अशूव्याप्तावित्यस्मात्कतर्रिक्तिच्‌क्तौचसंज्ञायामिति क्तिच्‌ । विविधं अश्रुत इति व्यष्यिः । विविधमित्यस्यैव विवरणं यदष्यकमिति । यद्वा विविधमष्यकमस्यास्तीति व्यष्यिरित्यर्थः । समष्यिशब्दार्थमाह ॥ सम्पूर्णानिति ॥ संसमीचीनमश्ऱ्नुत इति समष्यिः समचीनमष्यकमस्यास्तीति वा समष्यिः । समीचीनमित्यस्य विवरणम्‌ ॥ सम्पूर्णानिति ॥ अपपुनर्मृत्युजयतीति फलवाक्यं व्याचष्ये ॥ एवमिति ॥ तमेवं विद्वानिति श्रुतिविराधपरिहारायोक्तम्‌ ॥ तत्परमिति ॥ अप्रतीतेः मद्रेषु चरका इत्युक्तचरकशब्दाथर्माह ॥ चरक इति ॥ द्वात्रिंशतं वैदेवरथान्ह्यानीत्यत्राहःशब्दस्यदिनार्थत्वे प्रकृतेऽसम्भवात्‌ मुहूर्तप्रकाशरूपार्थद्वयं विवक्षितम्‌ । तत्राभिधानमाह ॥ अहरिति ॥ ननु षष्यिघटिकात्मकस्यैकस्य दिवसस्य त्रिंशन्मुहूर्तात्मकत्वात्‌ द्वात्रिंशतै वैदेवरथान्ह्यानीति कथमुक्तमित्यतोमुहूर्तपरिमाणं तावदाह ॥ मुहूर्तमिति । घटिकाष्यभागोनं च तत्‌ घटिकाद्वयं चेति तथोक्तम्‌ । तावदुत्तरः घटिकाष्यमभागाधिकोद्विघटिकात्मकः कालोमुहूर्त इत्यर्थः । अत्र विघटिकामात्राधिक्यं द्रष्यव्यम्‌ । किं तत इत्यत आह ॥ द्वात्रिंशत्त्विति ॥ अथवेति ॥ अष्याविंशत्रिंशन्मुहूर्तमिति पक्षान्तरद्योतकः । कथमेतत्सङ्गतं इत्यत आह ॥ मुहूर्तोन्मानभेदत इति ॥ प्रागुक्तमुहूर्तोत्कृष्यपरिमाणभेदत इत्यर्थः । पक्षत्रयेपि दिवसस्य षष्यिघटिकात्मकत्वं न विहन्यत इति भावः । तथाच श्रुतौ अष्यभागोनघटिकाद्वयात्मकमुहूर्तापेक्षयाद्वात्रिंशतं वैदेवरथान्ह्यानीत्युक्तमिति तात्पर्यम्‌ । द्वात्रिंशतं वैदेवरथान्ह्यनीति वाक्यं व्याख्यातुं तदुपयुक्तत्वेन सूर्यरथपरिभ्रमणपरिमाणमाह ॥ सप्तकोटिमिति ॥ शतपञ्चकस्य सप्तमभागसहितं सप्तांशशतपञ्चकम्‌ । रथपरिभ्रमणदेशपरिमाणमुक्त्वाचक्रपरिभ्रमणदेशपरिमाणमाह ॥ तत्रिभागाधिकमिति ॥ सप्तकोटिमित्याद्युक्तरथपरिभ्रमणदेशपरिमाणतृतीयभागाधिकदेशमित्यर्थः । उक्तञ्च पञ्चमस्कन्धे । एवं नवकोट्यएकपञ्चाशल्लक्षाणियोजनानां मानसोत्तरगिरिपरिवर्तनस्योपदिशन्तीति । रथसम्बद्धचक्रपरिभ्रमणदेशस्य तत्रिभागाधिकत्वं कथमित्यत उक्तम्‌ ॥ मानसोत्तरगमिति ॥ रथस्तुमानसोत्तरपर्वतापेक्षयान्तर्देश एव वर्तत इत्यथर्ः । सप्तकोटिमित्युक्तं योजनं केषां मानात इति जिज्ञासायामाह ॥ नृणामिति ॥ तुशब्दएवार्थे कार्तयुगानामेवनृणामङ्गुलिमानतयोजना भवेत्‌ । तद्यथा चतुर्विशत्यङ्गुलोहस्तः । हस्तचतुष्कोदण्डः । दण्डसहस्रं क्रोशः । क्रोशचतुष्कं योजनमिति । इदानीं द्वात्रिंशतं देवरथान्ह्यान्ययं लोक इति वाक्यं व्याचष्ये ॥ यावत्सूर्य इति ॥ यावत्‌ यावद्योजनात्मकेदेशे । तावत्‌ तावति देशे । सूर्यस्य प्रकाशः सूर्यस्य पार्श्ऱ्वयोः मेरुपर्वतभागेलोकालोकपर्वताभागे । चसर्वतः सर्वस्मिन्देशेस्यात्‌ । अनेन द्वात्रिंशतं द्वात्रिंशद्देवरथस्य परिवर्तमलानस्य सूर्यरथस्याहानिमुहूर्तानिदेवरथाहानितैः

?Rव्याप्तानियालेजनानि देवरथान्ह्यानि यावन्ति यावन्ति योजनानि देवस्य सूर्यस्याहोभिः प्रकाशैः वाव्याप्तानि । अयं प्रकाशव्याप्तोदेशोलोकोलोकनामेति व्याख्यतं भवति । यद्वा देवस्यान्ह्यानीत्येतदनावर्त्यतावद्योजनात्मकेदेशेऽयं लोकः सूर्यस्य प्रकाश इति व्याख्यातं भवति । ननु सूर्यरथपरिभ्रमणपरिमाणं सप्तकोटिञ्च लक्षाणामित्याद्युक्तं अयुक्तं सूयर्रथपरिभ्रमणपरिमाणस्य (सूर्यप्रकाशव्याप्तदेशस्य) तावत्त्वेतावतः प्रदेशस्य लोकशब्दवाच्यत्वं कथमुच्यते । सप्तकोटिविस्तरात्मकप्रदेशस्यैव लोकशब्दवाच्यत्वेन निर्णीतत्वात्‌ । अयं द्वीपः सागरश्ऱ्चलक्षयोजनविस्तृतौ । तदन्येतु क्रमेणैवद्विगुणेनोत्तरोत्तराः । अन्त्याध्यर्धस्थलं हैमं बाह्यतोवाज्रलेपिकम्‌ । एतत्सर्वं लोकनामेतीति वाक्यार्थपर्योलोचनयातथैवलोभादिति चेत्‌ न । सौरप्रकाशस्य भूप्रदेश इव मेवर्ादिलोकालोकान्तपर्वतोपरिभागवर्तित्वेन तद्वयाप्तदेशस्य सप्तकोट्यपेक्षयाचतुर्दशलक्षाणामित्युक्तसङ्खयाधिक्येपि अयं लोक इत्यत्र सौरप्रकाशव्याप्तसप्तकोटिसङ्खयाकभूसमुद्रपअदेशमात्रस्यैव लोकशब्दवाच्यत्वेन विवक्षितत्वादिति । तं समन्तमिति वाक्यं व्याचष्ये ॥ तमोन्धमिति ॥ तस्मात्सूर्यप्रकाशव्याप्तदेशात्‌ । तर्हि श्रुतौ पृथिवीशब्दप्रयोगः कथमित्यत आह ॥ काठिन्यादिति ॥ तां पृथिवीन्द्विस्तावत्समुद्र इतयेतद्वयाचष्ये ॥ तत इति ॥ सतिचैवं ब्रह्माण्डन्तःकियत्परिमाणं जातमित्यत आह ॥ पञ्चाशदिति ॥ ननूक्तगणनतयाब्रह्माण्डान्तरेकोनपञ्चशत्कोटित्वप्राप्तेः कथमेतदिति चेत्‌ न । लोकालोकपर्वताक्रन्तस्य पार्श्ऱ्वद्वयगतस्य मिलितस्य कोटियोजनपरिमितस्य भूप्रदेशस्यात्रानुक्तस्यापि ग्राह्यत्वात्‌ । यथोक्तम्‌ । लोकालोकप्रदेशस्तु पञ्चाशल्लक्षविस्तृत इति । नचैवं स पञ्चाशत्सहस्रश्ऱ्चेत्युक्तत्वेन लोकालोकप्रदेशालक्षाधिककोटिसङ्खयाकस्तथाच लक्षयोजनाधिक्यं स्यादिति वाच्यम्‌ । जम्बूद्वीपस्य लक्षमात्रयोजनत्वेन लोकनामकप्रदेशस्य लक्षन्यूनसप्तक्षयाकिमित्येतच्छङ्कापरिहारार्थमन्यनियन्तृत्वेप्यन्यपेक्षानास्तीत्यतोहातोस्सर्वान्तर इत्युक्तमित्यर्थः । सर्वान्तरशब्देन कथमेतल्लभ्यत इत्यतस्तद्वयाचष्ये ॥ सर्वमिति ॥ स्वतोसमर्थस्यान्यापेक्षेति भावः । योम आत्मेत्युषस्तेनानुक्तत्वात्त आत्मेति कथं याज्ञवल्क्येनानुवादः कृत इत्यत आह ॥ जीवेति ॥ उषस्तेन जीवब्रह्मणोरेकत्वं बुध्वाजीवस्वरूपं पृष्यमिति मन्दानां जीवब्रह्माभेदप्रतीति निरसार्थं याज्ञवल्क्येनत आत्मेत्यनुवादः कृत इत्यर्थः । एतनैतदपिनिरस्तं यत्परैरुक्तं यत्साक्षशदपरोक्षं ब्रह्म यश्ऱ्चात्माजीवः सर्वान्तरस्तं ब्रह्मा भिन्नमेवव्याचक्ष्वेति । जीवब्रह्माभेदस्य प्रश्ऱ्नविषयकत्वेत आत्मेति जीवेश्ऱ्वरभेदानुवादानुपपत्तेरिति । ननु त आत्मेत्यनुक्तावपि जीवेशभेदः साक्षादपरोक्षत्वादितिशषणोक्त्यैवसिध्यति । अतस्तदुक्तिः व्यर्थेत्यत आह ॥ साक्षादिति ॥ यद्यपि साक्षादपरोक्षत्वादिगुणैरेवजीवेशभेदः सिद्धति । जीवेतदभावस्यानुभवसिद्धत्वात्‌ । तथापि तेषां धर्माणां व्यावहारिकत्वात्‌ तत्कृतोभेदोपि व्यावहारिकः । सचन करमार्थतोजीवेश्ऱ्वरचैतन्याभेदविरोधीति तच्चैतन्ययोरभेदः स्यादित्यतः परमार्थतापि मुक्तौजीवेश्ऱ्वरचैतन्याभेदनिवृत्यर्थं त आत्मेत्युक्तम्‌ । ननु आत्मेति वाक्यप्रतिपाद्योपि भेदः व्यावहारिकः किं न स्यादिति चेन्न । जीवेश्ऱ्वरभेदस्य वेदप्रधानतात्पर्यविषयत्वेन परमार्थतयामुक्तावपिसिद्धेः । नतु तत्र प्रधानतात्पर्यमेवकुतः सिद्धमित्यत आह ॥ तत्रेति ॥ जीवेशभेदे इत्यर्थः । अभ्यासमात्रं तात्पर्यं ज्ञापयतिपुनःपुनरभ्यासस्तुमहातात्पर्यं ज्ञापयतीत्यर्थः । तं मेव्याचक्ष्वब्रह्माभिन्नं जीवं व्याचक्ष्वृङ्गेगृहीत्वागामिवदर्शयेति प्रश्ऱ्नस्योक्तमुत्तरं व्यधिकरणमिति प्रश्ऱ्नोत्तरयोः वैयधिकरण्यमाशङ्कते । तं मेव्याचक्ष्वेत्यस्य शब्दबाह्यत्वदुक्ताभिप्रायकत्वाभावेन परमात्मानं व्याचक्ष्वेत्यर्थत्वे उक्तोत्तरस्य समानाधिकरणत्वादिति भावेन स्वयमन्यथातदवतार्यव्याचष्ये ॥ देवतान्तरस्यापीति ॥ ब्रह्रुद्रादिरूपस्येत्यर्थः । समानमिति तथाचातिव्याप्तिरित्यर्थः । यद्यपि यःप्राणषन प्रणितीत्यादियाज्ञवल्क्योक्तब्रह्मलक्षण एवातिव्याप्तिराशङ्कया । तथापि स्वोक्तस्यापि साक्षादपरोक्षत्वादिलक्षणस्य वस्तुतो निर्दुष्यस्य याज्ञयाज्ञवल्क्यस्याभिप्रेतत्वेन तत्राप्यतिव्याप्तिशङ्केति ध्येयम्‌ । नन्वेवं यदन्यानिष्यं विष्णोः लक्षणं तन्मेव्याचक्ष्वेति प्रश्ऱ्नवाक्यार्थः । एतस्य च नोत्तरमुपलभ्यते । न दृष्येः द्रष्‌टारमित्याद्युक्तलक्षणस्याप पूर्ववदतिव्याप्तिशङ्काग्रस्तत्वादित्यत आह ॥ अत इति ॥ यत इतरलक्षणानामतिव्याप्तिशङ्काविषयत्वमित्यर्थः । विशेष्यत इति विशेषः । किमनेन विशेषनामोक्तं विष्णोरित्यतः तद्वयाचष्ये ॥ अतोन्यदिति ॥ नन्वतः शब्दस्य प्रकृतपरार्मर्शकत्वात्‌ कथं विष्णोरन्यदिति व्याख्यानमित्यत आह ॥ अइतीति ॥ हिशब्देन अःइति ब्रह्म अकारोवासुदेवः स्यादित्यादिश्रुतिप्रसिद्धिं दर्शयति । अनेन अ इत्येवविशेषनामेत्युक्तं भवति । नचैतदपि अन्यसमानम्‌ । अकारनामानान्योस्तितमृ पुरुषोत्तम्‌ । ब्रह्मरुद्रादिनामानि ब्रह्मादिष्वप्यमुख्यतः । वर्तन्ते नत्वकारोयं वर्तते केशवं विना । नारायणशदिनामानि नृणां नामक्रियास्वपि । विहितान्यकारोनैवायं विहितस्तमृतेप्रभुरिति वचनादकारस्य विशेषनामत्वावगमात्‌ । ननूक्तलक्षणानामतिव्याप्तिशङ्काग्रस्तत्वात्किमसाधारणं लक्षणमिति प्र

?Rश्ऱ्नेन दृष्येरित्यादिनेन्द्रियागोचरत्वं कथमुच्यते । तस्यापि तथात्वादित्यतस्तदपि श्रुतिसिद्धत्वेनासाधारणमित्यभिप्रेत्याह ॥ नत इति ॥ चक्षुराद्यगोचरत्वादेः विष्ण्वन्यानिष्ठत्वे आद्या श्रुतिः । चक्षुराद्यगोचरत्वस्य विष्‌णुनिष्ठत्वेतदन्यानिष्ठत्वेच द्वितीया । हेत्तिष्णोदेव ते महिम्नश्ऱ्चक्षुराद्यगोचरत्वादिरूपस्य । परमन्तं सीमानं जायमानोनप्राप्नोति जातोनाप जनिष्यमाणानाप्स्यतीत्यर्थः । हेविष्णोस्वमूर्त्यैवापरिच्छिन्न मापयन्ति विषयानितिमात्रेन्द्रियगणस्ततस्तं परासि ते महित्वमिन्द्रियागोचरत्वलक्षणं केपि न प्राप्नुवन्तीत्यर्थः । न ते विष्णाविति सामान्यश्रुतिमुदाहरतासाक्षादपरोक्षत्वादीनामुक्तसर्वलक्षणानामतिव्याप्तिः परिहृता । अत एवोदाहरिष्यमाणप्रमाणे यद्यप्येते गुणाः सर्वेविष्णोरेवनचान्यगा इत्युक्तमिति ज्ञातव्यम्‌ । एवं स्ववाक्येन ब्रह्मणं व्याख्यायत द्दार्ढ्यायतद्वयाख्यानरूपं प्रमाणं उदाहरति ॥ विनैवेत्यादिना ॥ साक्षादित्यस्यार्थः विनैवान्यप्रसादेनेति । अपरोक्षषत्यस्यार्थः पश्यन्नेवेति । अदित्यस्यार्थोनुभवतीति । पूर्णसर्वगुणात्मकं स्वरूपमिति विषयोक्तिः । न केवलं स्वस्वरूपं किन्तु सर्वं जडाजडमन्यज्जगच्चाव्यवधानेन पश्यति । साक्षादित्यस्यार्थोव्यवधानेननान्यद्द्वारमन्तरेणेति । अपरोक्षादित्यस्यार्थः पश्यतीति । साक्षाच्छब्दस्योक्तार्थत्वमुपपादयति ॥ साक्षाच्छब्द इति ॥ अहेतिशेषः । अपरोक्षशब्दस्योक्तार्थत्वमुपपादयति ॥ अपरोक्ष इति ॥ अपरोक्षशब्दः । अदित्यस्योक्तर्थत्वमुपपादयति ॥ अदनमिति ॥ भोगःस्वानुमव इत्यर्थः । ब्रह्मात्मसर्वान्तरशब्दान्व्याचष्ये ॥ ब्रह्मेति ॥ सर्वैरनियम्यत्वत इति सम्बन्धः । यःप्राणेन प्राणितीत्यादिव्याचष्ये ॥ प्राणशदीति ॥ अनेन योविष्णुः प्राणेन प्राणनाम्नामुख्यवायुरूपेण निमित्तेन प्राणिति जगत्प्राणनरूपं व्यापारं करोतीत्यादिव्याख्यातं भवति । न दृष्येः द्रष्यारं पश्येरित्यादिव्याचष्ये ॥ न दृश्य इति ॥ ननु विष्रुस्वरूपस्य सर्वथाचक्षुराद्यगोचरत्वे द्रदृव्यःश्रोतव्य इत्यादिश्रुतिविरोध इत्यत आह ॥ अनन्तात्वदिति ॥ तथाच साकल्येन चक्षुराद्यगोचर इत्यर्थः । नदृष्येर्द्रष्यारमित्यादिकमुपलक्षणपरमिति भावेनोक्तमवाच्य इति । यथा विष्णुमात्रनिष्ठं लक्षणमुक्तमित्यत आह ॥ अनाम्नेति ॥ यत एतैः गुणैः युक्तान्‌ शिवादिकान्प्राहुस्तत इत्यर्थः । वेदा अतोन्यदार्तमित्याद्याः । केन निमित्तेन अनामवाच्यत्वं विष्णोरित्यत आह ॥ अदोषत इति ॥ उक्तमनुवदन्नर्थान्तरमाह ॥ अदोषत्वादिति ॥ अनेन अइत्यस्याभावार्थकत्वमङ्गीकृत्यार्थ उक्तः । विरुद्धार्थत्वमङ्गीकृतत्याह ॥ गुणोद्रेकादिति ॥ अभावार्थत्वमङ्गीकृत्याथर्ान्तरमाह ॥ अगम्यत्वाच्चेति ॥ अतोन्यदातकया योशनायेत्यादिवाक्यं व्याचष्ये ॥ सत्विति ॥ तथाहि स्मृतिः । नित्यतीणर्शशनायादिरेक एव हरिःस्वतः । अशनायादिकाननन्येतत्प्रसादात्तरन्ति हीति । अत्र मुक्तव्यावृत्त्यर्थमतीतानागतेत्याद्युक्तम्‌ । रमाव्यावृत्त्यर्थं स्वत एवेति । यद्यपि स्वत एवेत्यनेनोभयव्यावृत्तिसिद्धिः । तथाप्यशनायाद्यतीतत्वास्य कादाचित्कत्वशङ्कापरिहारायातीतानागतेत्युक्तम्‌ । सापेक्षनिरपेक्षयोश्ऱ्चनिरपेक्षं कर्तव्यमिति भावः । यदिमुक्तानामपीदृशमशनायाद्यतीतत्वं स्यात्तर्हिकथमीदं तद्वयावर्तकमित्यत एतं वैतमात्मानं विदित्वेत्यारभ्यव्युत्थयेत्यन्तस्य तात्पर्यमाह ॥ ब्रह्मादयस्त्विति ॥ अत्येष्यन्ति अशनायादिकमिति शेषः । अशनायापिपासादेरेषणात्मकत्वादेषणाभ्योव्युत्थयेत्यस्य तात्पर्यमिदम्‌ । स्वत एवेत्यस्य प्रतियोगीतत्प्रसादादेवेति । अतीतानागतेत्यस्य प्रतियोगीपश्ऱ्चादिति प्रसादानन्तरमित्यर्थः । ननु तर्हि तमित्येतावतापूर्तेरेतमिति व्यर्थमित्यत आह ॥ एतमिति ॥ एतं वैतमित्यत्र एतमित्यस्येत्यर्थ इति सम्बन्धः । एतेन तमित्युषस्तब्राह्मणोक्तलक्षणं त्वं पदार्थरूपं वैशब्दोवधारयतीति परकीयव्याख्यानमपास्तम्‌ । उषस्तब्राह्मणेसाक्षशदपरोक्षत्वादिब्रह्मलक्षणानामेवोक्तत्वेन त्वं पदाथर्निरूपणाभावादिति । अथभिक्षाचर्यं चरन्तीत्यत्र भगवतोमुक्तवैलक्षण्यं न प्रतीयत इति तदनुपयुक्तमित्याशङ्कावारणायतावत्तद्वाक्यमनूद्यव्याचष्ये ॥ भिक्षाचर्यमिति ॥ अपिशब्देन किं संसारिण इति द्योतयति । विप्लुडानन्दमेव नतु ब्रह्मानन्दवत्‌ निरवधिकमित्यर्थः । नन्वत्र मुक्तवाचकपदाभावात्कथं मुक्ता अपीत्युक्तमित्यत आह ॥ ब्रह्माणनादिति ॥ ब्रह्मप्रतिगमनादित्यर्थः । अणपणगतावितिधातोः आत्मानं विदित्वाब्रह्मण इति ब्राह्मणशब्देनेत्यर्थः । ब्राह्मणाःब्रह्मनिष्ठाःब्राह्मण्यजातिमन्तोवा यशणशभ्योव्युत्थायसंन्यासंकृत्वाथानन्तरं शेषकालेदेहस्थित्यर्थं भिक्षाचर्यं चरन्तीति परेषां व्याख्यानं दूषयति ॥ नहीति ॥ संन्यासःखलुज्ञानार्थं विधेयः । तच्चज्ञानं जातमेव एतं वैतमात्मानं विदित्वेत्युक्तत्वात्‌ तथाच तद्विधानं व्यर्थम्‌ । नहिनिष्पन्नफलं प्रतिसाधनं विधेयमिति भावः । ननु आत्मानं विदित्वेति परोक्षज्ञानमेवोच्यते तदनन्तरं च संन्यासस्य कर्तव्यतास्यादेवेति चेन्न । प्रथमब्राह्मणोमुक्त इति प्रमाणषप्रथमब्राह्मण पदस्य मुक्तपरत्वेन व्याख्याततया तत्साधनीभूतापरोक्षज्ञानस्यैव विदित्वेत्यनेन ग्राह्यत्वात्‌ । ननु व्युत्थायभिक्षाचयर्ं चरन्तीति वर्तमानापदेशादर्थवादोयं न विधायकः प्रत्ययोस्ति । अतःसंन्यासस्य कर्तव्यतेति कथमुक्तमिति चेन्न । परेणैवमेवाशङ्‌क्य यज्ञोपवीतं वेदाश्ऱ्चसर्वं तद्वर्जयेद्यतिरित्यादिश्रुत्यनुसारेणास्य वाक्यस्य

?Rसर्वकर्मपरित्यागलक्षणसंन्यासविधायकत्वाङ्गीकारेणतदनुसारेणतथोक्तत्वात्‌ । ननु अपरोक्षज्ञानिनामपि सनकादीनां विहिततयासंन्यासानुष्ठानस्य प्रमितत्वात्‌ कथं ज्ञानानन्तरं संन्यासस्याकर्तव्यतेत्यत आह ॥ येषामिति ॥ तद्योग्यताज्ञानानन्तरमपि संन्यासयोग्यता । ज्ञानार्थत्वेन विशेषज्ञानार्थत्वेन । नचात्रापि ज्ञानानन्तरमपि विशेषज्ञानार्थत्वेनैव संन्यासविधानमिति वाच्यम्‌ । तादृशाधिकारिविशेषज्ञापकपदस्य श्रुतावभावादिति भावः । नन्वथभिक्षाचर्यं चरन्तीत्यनेन भगवतः किं मुक्तवैलक्षण्यमुक्तमित्यत आह ॥ मुक्ता अपीति ॥ ननु मुक्ता अपि यदि भिक्षान्ति तर्हि दुःखिनःस्युः । लोकेभिक्षुकाणशं दुःखदर्शनादित्यत आह ॥ तथापीति ॥ भिक्षुकत्वेपीत्यर्थः । एषणाया एव दुःखसाधनत्वादित्यर्थः । याह्येवपुत्रैषणेति श्रुतौ पुत्रैषणायावित्तैषणायां वित्तैषणायाः लोकैषणायामन्तर्भाव उच्यत इति प्रतीयते तदयुक्तम्‌ । एवमन्तर्भावोक्तैनिमित्ताभावात्‌ । नच वित्तस्य लोकार्थत्वात्‌ वित्तेषणयालोकेषणायामन्तर्भावोयुक्त इति वाच्यम्‌ । तथासति पुत्रस्यापि लोकार्थत्वेन पुत्रैषणाया अपि लोकैषणायामन्तर्भावापत्तेरित्यतः तद्वाक्यं यथावद्वयाचष्ये ॥ पुत्रस्येति ॥ पुत्रवित्तेषणयोरिति शेषः । अनेन यापुत्रैषणायाचवित्तैषणासैवहिलोकैषणेति वाक्यं योजितं भवति । ननु तर्हि वित्तस्य लोकार्तत्ववत्‌ पुत्रार्थत्वाच्चवित्तैषणाया एव पुत्रैषणायामन्तर्भावोवक्तव्योनतु पुत्रैषणयावित्तैषणायामित्यतो याह्येवपुत्रैषणासावित्तैषटषति वाक्यं व्याचष्ये ॥ वित्तस्यापीति ॥ वित्तैषणाया इति शेषः । अन्तर्भाव इति वर्तते । अनेन यावित्तैषणासैवहिपुत्रैषणेति यत्तच्छब्दव्यत्यासेन वाक्यं योजितं भवति । ननूभेह्येत इति वाक्यं किमर्थं प्रवृत्तमित्यत आह ॥ लोकैषणाया अपीति ॥ स्वर्गादिलोकस्ययागादिनासर्वैरभ्यर्थ्यमानतयालोकैषणायाः सत्वात्‌ कथं लोकैषणायाश्ऱ्चव्युत्थयेत्युक्तमित्याशङ्कापरिहारायलोकैषणाया अपि दुःखरूपत्वात्‌ सालोकैषणापि तेषशं मुक्तानां नास्त्येवेति दर्शयितुमिदं प्रवृत्तमित्यर्थः । नन्वनेन वाक्येन लोकेषणाया अपिदुःखरूपत्वं न प्रतीयत इत्यतः तद्वयाचष्ये ॥ उभे अपीति ॥ एषणात्वादित्यनेन हि यस्मात्‌ एषणे इति व्याख्यातं भवति । दुःखरूप इति शेषोक्तिः । नन्वेषणानां त्रित्वादन्तर्भावेप्येकत्वादुभे इति कथमुक्तमित्याशङ्कापरिहारायोक्तं दृष्यादृष्यविषयेति । कथमनेन तिसृणां सङ्ग्रहःकृत इत्यत आह ॥ पुत्रेति ॥ पुत्र वित्तैषणे उभे अपि दृष्यविषयत्वादेकैव । अदृष्यविषयिणीलोकैषणाचापरेति उभे एवेत्युक्तमित्यर्थः । उभे इत्येवोक्तमिति वा सम्बन्धः । तस्माद्ब्राह्मण इत्युक्तब्राह्मणशब्दस्य मुक्तपरत्वे परोक्षज्ञानिपरत्वेवा पाण्डित्वं निर्विद्येत्याद्ययुक्तेस्तदर्थमाह ॥ द्वितीय इति ॥ अणितुं द्रष्युं अप्रतीतेः पाण्हित्यबाल्यशब्दार्थावाह ॥ पाण्डित्यमिति ॥ आगमजज्ञानमित्यर्थः । सहितं ज्ञानमिति वर्तते । युक्तिः सहितं सहायः कारणं यस्य तद्युक्तिसहितं युक्तिजन्यमित्यर्थः । यद्वक्ष्यति बाल्यं युक्तिसहायतेति । यद्वायुक्तिसहितमागमज्ञानमिति सम्बन्धः । बाल्यशब्देन कथमयमर्थोलभ्यत इत्यत आह । । बलेति ॥ बलयुक्तं बाल्यं बलंच युक्तिरतोयुक्तिसहितं ज्ञानं बाल्यशब्देनोच्यत इत्यर्थः । मननस्य बाल्येनेत्यन;नैवोक्तत्वात्‌ मौनशब्दार्थमाह ॥ मौनमिति ॥ अमौनं मौनाभावमिति प्रतीति निरासाय व्याचष्ये ॥ अमौनमिति ॥ निर्विद्येत्यस्य वैराग्यार्थकत्वेजुगुप्साविरामप्रामादार्थानामुपसंख्यानमिति कात्यायनवचनात्‌ पाण्डित्यस्य विरामार्थकधातुयोगेनापादानत्व प्राप्तौ पाण्हित्यादिति पञ्चमीस्यादिति भावेन तदनूद्यव्याचष्ये ॥ निविद्येति ॥ प्रप्येति तात्पर्यमुक्तम्‌ । तत्कथमित्यतो धात्वर्थमाह ॥ लब्ध्वेति ॥ तत्र धातुं पठति ॥ विद्‌लृलाभ इति ॥ अथ ब्राह्मण इति प्राह्मणशब्दस्य द्वितीयब्राह्मणशब्दवत्‌ ब्रह्माण नयाग्यार्थकत्वप्रतीति निरासायार्थमाह ॥ अथेति ॥ स ब्राह्मण इति वाक्यं प्रकृतोपयुक्ततया व्याचष्ये ॥ समुक्त इति ॥ भोगेनेति शेषः । एवकारव्यावर्त्यमाह ॥ नन्वस्य वाक्यस्यान्यानिभूतानिसुप्तानि । एतस्यानन्दस्य मात्रामुपजीन्तीत्यमुक्तपरत्वात्‌ मुक्ताः परमात्मविप्लुडानन्दभागिन इत्यर्थेकथं प्रमाणतयोदाहरणमित्यतः प्रति जानीते ॥ मुक्तेति ॥ B-19

?Rचशब्देनामुक्तसङ्ग्रहः । कुत इत्यत आह ॥ अत्रेति ॥ अत्र पिताभातीत्यादि तत्प्रस्तावेतस्यैतस्यैवानन्दस्येति प्रकरणस्य प्रस्तावेप्राम्भे विषयकोपक्रमेणास्य प्रकरणस्य मुक्तविषयत्वावगमात्‌ । नचोपक्रमस्यापि मुक्तविषयकत्वं कुतः सिद्धमिति वाच्यम्‌ । भगवता सूत्रेकारेणतथाव्याख्यातत्वादिति । सूत्रार्थमाचार्य एव वक्ष्यति । न केवलं पूर्ववाक्यबलादेतन्मुक्तविषयं किन्त्वव्यवहितोत्तरवाक्यबलाच्चेत्याह ॥ तत्रैवेति ॥ ननु तत्राप्यमुक्तानामेवानन्दतारतम्युच्यते न मुक्तानामित्यत आह ॥ श्रोत्रियत्वेति ॥ ननु भवतु श्रोत्रियत्वादिकं मुक्तेष्वेवमुख्यं यश्ऱ्चश्रोत्रियोवृजिनोकामहत इति श्रुतौ त्वमुख्यमेवश्रोत्रियत्वादिकमुक्तानामुच्यत इति किं न स्यादित्यत आह ॥ यश्ऱ्चेति ॥ हि यस्माद्यश्ऱ्चश्रोत्रिय इत्यभ्यासस्तस्मान्नामुख्यं श्रोत्रियत्वादिकं श्रुतावुच्यते अभ्यासेनतदनुपचरितत्वज्ञापनादित्यर्थः । भवतु

?Rश्रुतावुच्यमानमवृजिनत्वादिकं मुख्यमेव । तच्चामुक्तानामपि किं न स्यादित्यत आह ॥ नहीति ॥ अमुक्ताः श्रोत्रियाश्ऱ्चनेत्याह ॥ नचेति ॥ उपपादनसापेक्षत्वात्पृथगुक्तिः । अमुक्तानामपि श्रुतिफलप्राप्तिसद्भावात्सम्यगित्युक्तम्‌ । ननु श्रोत्रियं श्छन्दोधीयत इति स्मृतिसिद्धं श्रोत्रियशब्दप्रवृत्तिनिमित्तममुक्तेष्वप्यस्ति । अतःकिमेतदुच्यत इत्यत आह ॥ श्रुतिफलप्राप्तिरिति ॥ हिशब्देन प्राप्तश्रुतिफलत्वात्तुश्रोत्रियाः प्राप्तमोक्षिण इत्यादि प्रमाणप्रसिद्धिं दर्शयति । अमुक्तानां श्रोत्रियत्वावृजिनत्वाकामहतत्वानिकुतो न सम्भवन्तीत्यतस्तत्रहेतुं वक्तं तत्साधकानुमानाङ्गव्याप्तौ प्रमाणमाह ॥ सर्व इति ॥ इमेप्रसिद्धाः सर्वेब्रह्मादयस्तवमाययेच्छयादेव्या वा तनुभृतःशरीरधारिणः अत एव विमोहितधियः कथं बहिरर्थभावाः बहिरर्थापेक्षयैवतेषां मोहः । परमसुखसाधनादन्योर्थोबहिरर्थ इत्यर्थः । सर्वेषां ब्रह्मपदवीयोग्यानां पूर्वमेवतु । अभावस्त्वापरोक्षस्य मोहोज्ञानस्य भण्यत इत्यादिनान्यत्र ब्रह्मणोपि मोडोपपादनं कृतमनुसन्धेयम्‌ । एवं व्याप्तिसाधकं प्रमाणमभिधायतां व्याप्तिमाह ॥ शरीरेति ॥ आदिपदेनाज्ञानं ग्रह्याम्‌ । इदमुक्तं भवति । अमुक्तानश्रोत्रियत्वादिमन्तः मोहादियुतत्वात्‌ । मोहादियुतानां च श्रोत्रियत्वाद्यभावात्‌ । नचासिद्धिः । अमुक्तामोहादियुताः शरीरसम्बन्धित्वात्‌ ये शरीरसम्बन्धिनस्तेमोहादियुताः इति व्याप्तेरिति । शरीरसम्बन्धित्वस्य श्रोत्रिययत्वाद्यभावेऽप्रयोजकत्वात्पम्पराश्रयणम्‌ । मोहादीनाञ्च दुःखदिकं प्रतिकारणत्वेन नाप्रयोजकत्वमिति ध्येयम्‌ । अदुःखित्वमित्युक्त्यावृजिनशब्दोदुःखपरत्वेन व्याख्यातः तत्राभिधानमाह ॥ वृजिनमिति ॥ अत्र वदन्ति । नेदं मुक्ततारतम्यप्रतिपादकं किन्तु यश्ऱ्चश्रोत्रियोऽवृजिनोऽकामहत इति तेषु तेषुपदेष्वकामस्य तत्तत्समानानन्दत्वमत्रोच्यत इति तन्न । एवं हि वदतापूर्वपूर्वपदाकामिभ्य उत्तरोत्तरपदाकामिनां शतगुणसुखवत्त्वं वक्तव्यम्‌ । नच तदस्ति । तत्र प्रमाणाभावादित्याह ॥ नचेति ॥ सयोमनुष्याणां राद्ध इत्यस्य मुक्तविषयत्वमुपपाद्योपसंहरति ॥ अत इति ॥ श्रोत्रियत्वादेः मुक्तेष्वेवमुख्यत्वादन्यथाव्याख्यानस्य चायुक्तत्वादित्यर्थः । एवं स य इति वाक्यस्य मुक्तविषयत्वेन तद्बलादेतस्यैवेति वाक्यं मुक्तविषयं भवत्येवेत्युपपादितं तद्वोपसंहरति ॥ अत इति ॥ ननु भवतु एतस्यैवेति वाक्यं मुक्तपरं तथापि तत्रान्येषां मुक्तानां परमात्मानं दैकदेशप्राप्तिरेवोच्यते । तत एव न मुक्ताः परमात्मभिन्नाः तदानन्दभोक्तृत्वात्‌ । तथाच कथमुक्तार्थे इदं प्रमाणमिति चेत्‌ न । एवं श्रुत्यर्थकथनेप्रमाणान्तरविरोधापत्तेरिति भावेन मुक्तानां तदानन्दानवाप्तौ तद्भेदव्याप्ततदनुग्राह्यत्वे च प्रमाणमाह ॥ परोमात्रयेति ॥ आद्यं प्रमाणद्वयं तदानन्दानवाप्तौ । उत्तरद्वयं तु भगवदनुग्राह्यत्वे इति विवेकः । अश्रुवन्तीत्यत्र कर्तृविशेषानुक्तेः मुक्ता अमुक्ताश्ऱ्चेति शेषः । ब्रह्मेशानादिशब्देन मुक्ता अमुक्ताश्ऱ्चगृह्यन्ते । सङ्कोचेकारणाभावात्‌ । हे हरेब्रह्मेशानादिभिः देवैः यत्कैवल्यं सर्वोत्तमत्वं प्राप्तुं नैवशक्यतेतत्‌ यत्‌ यत्स्वभावःयस्य नैसर्गिकं सभवान्‌ । कुतः यतः केवलोजडामिश्र इति योजना । एवं स्वयं ब्राह्मणं व्याख्यायत द्दार्ढ्यायव्याख्यानरूपं प्रमाणमुदाहरति ॥ बह्वित्यादिना ॥ पूर्वब्रह्मणषत आत्मेति बहुधाप्रयुक्तस्य । परमार्थतोपि जीवेश्ऱ्वराभेदनिवृत्त्यर्थस्त आत्मेति । तत्र प्रधानतात्पर्यज्ञापनार्थं पुनःपुनरभ्यास इति तात्पर्यमुक्तं तदिं प्रमाणम्‌ ॥ बह्विति ॥ त आत्मेत्युक्त्यामुक्तौ जीवेशयोः भेदोदृश्यते । नचैतद्वाक्यप्रतिपाद्योभेदः सांसारकिः किं नस्यादिति वाच्यम्‌ । त आत्मेत्यत्यादरात्‌ बह्वभ्यासेन सिद्धेन प्रधानतत्परत्वेन भेदस्य मुक्तावपि सिद्धेरित्यर्थः । न केवलं त आत्मेति वाक्य प्रधानतात्पर्यविषयत्वाज्जीवेश्ऱ्वरभेदः पारमाथिर्कः किन्तु हेत्वन्तराच्चेत्याह ॥ महातात्पर्ययोगाच्चेति ॥ स एव मुक्तौ जीवेशयोःभेद एव । कुत्र कस्य महातात्पर्यमित्याह ॥ तात्पर्यमिति ॥ देवताधर्मादिस्वरूपेतात्पर्यावगमात्कथमेतदित्यत आह ॥ अन्यदिति ॥ तदर्थतः उच्यत इति शेषः । ननु विष्णोः सर्वोद्रेकेसर्वागभानां महातात्पर्ययोगेन मुक्तौ जीवेशभेदः कथं सिध्यतीत्यत आह ॥ सचेति ॥ सर्वोद्रेकः । जीवेशयोः भेदेपारमार्थिकेसत्येव युज्यते हि यस्मात्तस्मात्तत्सिद्धिरित्यर्थः । प्रतिबन्दिमोचनायपुनःप्रस्तावयति ॥ बह्विति ॥ ततः मुक्तपरमात्मनोर्भिन्नत्वादेवेत्यर्थः । ननु यदि त आत्मेदिसम्बन्धवचनेन भेदसिद्धिःतदास्वदेहमुद्दिश्यममात्माभूतभावन इति यत्र विष्णुवाक्यं तत्रापि स्वस्य स्वदेहाद्भेदसिद्धिः स्यात्‌ । सम्बन्धवचनत्वाविशेषादित्यत आह ॥ ममात्मेतीति ॥ यत्र प्रकारणषविष्णोरपि भिन्नदेहरहितस्यापि देहस्यापि लोकेभिन्नत्वेन प्रतीतस्यापि ज्ञानादिसमुच्चयार्थोवायमपि शब्दः । तत्प्रयोजनं ममात्मेति सम्बन्धवचनप्रयोजनम्‌ । तथाच यत्र ममात्माभूतभावन इति प्रयोगोस्ति तत्र स्वदेहस्यापि भूतभावनत्वादिस्वलक्षणयोगकपथनेन स्वस्वरपत्वज्ञापनं प्रयोजनमस्तीत्यर्थः । किमेवं सम्बन्धवचनस्य प्रयोजनोपपादनेन व्यर्थमेवतत्किं न स्यादित्यत आह ॥ नहीति ॥ नन्वात्मभूतभावन इत्युक्त्यैवदेहस्वरूपत्वज्ञापनस्य सम्भवात्‌ । किं प्रयोजनोपपादनेनत्यत आह ॥ देहेति ॥ यद्यप्यात्माभूतभावन इति देहस्य भूतभावनत्वादिविष्णुलक्षणकथनेन विष्णोः देहस्वरूपताज्ञापयितुं शक्या तथापि ममेति पदं विना सम्यग्ज्ञापयितुं न शक्येत्यर्थः । यद्यपि आनन्दं ब्रह्मणोविद्यानिति व्यवहारवद्विशेषबलेनैवममात्ममिति व्यवहारोपपादनं

?Rसम्भवति तथापि तदविहायैवप्रकारान्तरमेतदित्यदोषः । अनेन निमित्तान्तराभावे सम्बन्धवचनस्य भेदसाधकत्वनिमित्युक्तं

?Rभवति । नच त आत्मेत्येतदपि प्रयोजनान्तरेणान्यथासिद्धमिति वाच्यम्‌ । अत्र तादृशप्रयोजनान्तरादर्शनादिति भावेनोपसंहरति ॥ तत इति ॥ निमित्तान्तरं विना सम्बन्धवचनस्य भेदसाधकत्वात्‌ प्रकृतेच निमित्तान्तराभावादित्यर्थः । नच तेत्वयापृष्य आत्मेत्यर्थोवाच्यः । वृथाविभक्तिव्यत्यासस्यानाश्रयणीयत्वात्‌ । नच त आत्मास्वरूपमित्यर्थोवक्तव्यः । तथात्वे षष्ठयाऔपचारिकत्व प्रसङ्गात्‌ । जीवात्मैक्यस्य निरस्तत्वाच्च । किञ्च तथात्वे भिक्षाचर्यञ्चरन्तीत्येतदप्ययुक्तमित्याह ॥ भिक्षयेति ॥ ततो भिन्नत्वादेव । तस्माद्विष्णोः भिक्षयामुक्तानामानन्दस्य विप्लुण्मात्रस्य भक्षणमवदच्छतिरिति सम्बन्धः । यद्येवं तर्हि मुक्तानामपूर्णत्वं स्यादित्य आह ॥ मुक्तानामिति ॥ यद्यपि मुक्तानामानन्दस्य ब्रह्मानन्दव्यपेक्षया एकदेशत्वं तथापि अमुक्तानामानन्दव्यपेक्षयापूर्णत्वमिति सम्बन्धः । एकदेशत्वेभेदः स्यादित्यत आह ॥ विप्लुट्‌त्वमिति । एकदेशत्वमित्यर्थः । यद्वा नमुक्तेशयोः भेदोयुक्तः । एतस्यैवानन्दस्येति मुक्तानां परमात्मानन्दविप्लुट्‌त्वोक्तेः । तथाहि स्मृतिः । एष एव परोविष्णुः पूर्णानन्दःप्रकीर्तितः । यस्माद्ब्रह्मापि मुक्तःसन्विप्लुण्मात्रं समश्रुत इति । तत्राह ॥ विप्लट्‌त्वमिति । प्रतिबिम्बत्वं तदधीनत्वे सति तत्सददृशत्वमित्यर्थः । न केवलममुक्तानन्दापेक्षयामुक्तानन्दस्य पूर्णत्वं किन्तु मुक्तब्रह्माद्यानन्दस्य स्वावरशेषाद्यानन्दापेक्षयापीति भावेनाह ॥ ब्रह्मादेरिति ॥ मुक्तावेवेत्यवकार अन्यत्र पूर्णत्वावधिभूतं न मृग्यमित्यर्थे सदातनमेवेति वा सम्बन्धः । यद्वा मुक्तानां तारतम्याच्चनमुक्ताभगवदभिन्ना इत्याह ॥ ब्रह्मादेरिति ॥ मुक्तानां तारतम्येद्वेषर्ष्यादिनादुःखं स्यादित्यत आह ॥ दृष्येति ॥ यद्वा मुक्ताभिक्षन्तेचेत्‌ दुःखिनःस्युरित्यत आह ॥ दृष्येति ॥ अनेन पुत्रैषणशयाश्ऱ्चवित्तैषणायाश्ऱ्चलोकैषणाश्ऱ्चव्युत्थायेति वाक्यं व्याख्यातं भवति । पुत्रवित्तैषणयोः दृष्यैषणत्वात्‌ । लोकैषणायाः अदृष्यैषणत्वात्‌ । ननु मुक्तानां ब्रह्मणोभेदे परब्रह्माणिमुक्तिगा इति परब्रह्मत्वोक्तिः कथमित्यत आह ॥ परेति ॥ यत्र मुक्तानां परब्रह्मत्ववचनं तत्र तेषां परब्रह्मताबद्धजीवोच्चतामता । बद्धजीवोत्तमत्वं कथं परब्रह्मत्वमित्यत उक्तम्‌ ॥ जीवेष्विति ॥ ब्रह्माणिजीवास्तसर्वेपीति ब्रह्मशब्दोक्तेः । अभेदाभिप्रायत्वे तस्य प्रकृतिःपरमं ब्रह्मपरमं महदच्यत इति वाक्यशेषविराध इति भावः । तस्माद्ब्रह्मणः पाण्डित्यं निर्विद्योति वाक्यं व्याचष्ये ॥ तत इति ॥ यतो ब्रह्मापरोक्षज्ञानिनां मुक्तौ विष्णोर्भिक्षयाऽऽनन्दभक्षणं तत इत्यर्थः । पाण्डित्यशब्दार्थमाह ॥ पाण्डित्यमिति ॥ आगमार्थज्ञत्वमित्यर्थः । बाल्यशब्दार्थमाह ॥ बाल्यमिति ॥ आगमजज्ञानस्येति शेषः । मौनमिति ॥ पाण्हित्यं च निर्विद्येत्यादि अथ ब्राह्मण इत्यन्तवाक्यतात्पर्यमाह ॥ एतानीति ॥ आप्यस्थितस्येति शेषः । स ब्रह्मणः केन स्यादित्यादि व्याचष्ये ॥ मुक्त इति ॥ ननु मुक्तानामपि भिक्षुकत्वे कोविशेषोऽमुक्तेभ्यस्तेषामित्यत आह ॥ नहीति ॥ अन्यभिक्षितममुक्तभिक्षितम्‌ । यदि मुक्तभिक्षितं विष्णुः नियमतोदद्यात्तर्हिनिरवधिकानन्दादिकं भिक्षन्ते चेत्कथमित्यत आह ॥ अयोग्येति ॥ तेनेदृश एवेत्येवकाराभिप्रायमाह ॥ येनेति ॥ एतत्प्रकरणगतब्राह्मणशब्दानामेकर्थत्वप्रतीति निरासायार्थभेदमाह ॥ प्रथम इति ॥ नन्वथब्राह्मण इति ब्राह्मणशब्दस्य मुक्तपरत्वाङ्गीकारेस्तुत्यधिकरणविराधः स्यात्‌ । तत्र तस्य ब्राह्मणशब्दस्य जीवन्मुक्तपरत्वाङ्गीकारादित्यस्तत्सङ्ग्रहायापरोक्षविन्मुक्तयोरित्युक्तम्‌ । अतोन्यदार्तमित्यस्य तात्पर्यमाह ॥ अत इति ॥ श्रुत्यादेः भगवदुत्कर्षेमहातात्पर्यमस्तीत्यत्र गीतावाक्यमपि प्रमाणयति ॥ द्वाविमाविति ॥ व्याख्यातमेतत्‌ । ततश्ऱ्चायंखण्डार्थः ॥ अथोषस्तोपरमानन्तरम्‌ । कहोलोनमतः कुषीकतस्यापत्यं कौषीतकेयः । एनं याज्ञवल्क्यम्‌ । पप्रच्छ याज्ञवल्क्येति सम्बोध्योवाच । यदेवसाक्षादपरोक्षाद्ब्रह्मय एवात्मासर्वान्तरःनत्वन्येब्रह्मादयोमुक्ता अपि तमेवमुक्तवैलक्षण्यविशिष्यं परमात्मानं मुक्तपरमात्मवैलक्षण्यमिति यावत्‌ । मेव्याचक्ष्वेति । मुक्त परमात्मनोः वैलक्षण्यं वक्तुं परमात्मस्वरूपं तावदाह ॥ एष इति ॥ ते आत्मानियामकः सर्वान्तर एषः । एष इति क इति पृच्छति ॥ कतम इति ॥ उत्तरमाह ॥ य इति ॥ यःपरमात्मा अशनायाऽशितुमिच्छाच पिपासपातुमिच्छाचेत्यशनायापिपासेशोकं दुःखं मोहं मिथ्याज्ञानं जरामत्येति स्वत एवानाद्यनन्तकालेष्वतिक्रम्यवर्तते । एवं परमात्मस्वरूपं निरूप्यमुक्तस्वरूपमाह ॥ एतमिति ॥ एतं साक्षादपरोक्षत्वजीवभेदादि अशनायाद्यतीतत्वविशेषणविशिष्यं तं परमात्मानं विदित्वावैविदित्वैवा परोक्षीकृत्यैव पश्ऱ्चात्पुत्रैषणाया वित्तैषणायालोकैषणायाश्ऱ्चव्युत्थाय ब्रह्मप्रत्यणनात्‌ गमनात्‌ ब्राह्मणामुक्ताभवन्ति । अथमुक्त्यनन्तरं भिक्षाचर्यं चरन्ति परमात्मन एव विप्लुडानन्दं भिक्षन्तोवर्तते । अत्र मुक्तपरमात्मवैलक्षण्योपपादनं भाष्य एव स्पष्यम्‌ । किं तिस्रोप्येषणाः परस्परं समप्रधानभावोपेताः नेति भावेनाह ॥ याहीति ॥ यावित्तैषणासैवपुत्रैषणा । वित्तस्य प्रायः पुत्रार्थत्वात्‌ । वित्तैषणापुत्रैषणायामन्तर्भवति । यापुत्रैषणायाच वित्तैषणासालोकैषणा । पुत्र वित्तयोः स्वर्गादिलोकसाधनत्वात्‌ । पुत्रैषणयोः लोकैषणायामन्तर्भाव इत्यर्थः । ननु स्वर्गादिलोकस्य यागादिनाप्रार्थ्यमानत्वात्‌ तदेषणायाव्युत्थायेति

?Rकथमुक्तमित्यतस्तस्या अपि दुःखरूपत्वात्‌ ततो व्युत्थानं युज्यत इति दर्शयितुमाह ॥ उभे इति ॥ पुत्र

?Rवित्तैषणेदृष्यविषयत्वात्‌ एका अदृष्यविषयिणीलोकेषणाचापरेति । उभेदृष्यविषयेहियस्मादेषणेतस्माद्दुःखरूप एवेत्यर्थः । एवं यस्मात्‌ ब्रह्मापरोक्षज्ञानात्‌ मोक्षस्तस्माद्ब्रह्मणोब्रह्माणनयोग्यः । पाण्डित्यमागमजं ज्ञानं प्राप्नुयात्‌ । एवं पाण्डित्यं निर्विद्यलब्ध्वा बाल्येन युक्तिबलसहितज्ञानेन तिष्ठासेत्‌ स्थातुमिच्छेत्‌ । युक्तिजं ज्ञानमापादयेदिति यावत्‌ एवं बाल्यं पाण्हित्यं

?R च निर्विद्याथानन्तरं मुनिर्ध्यानीभवति । एवं मौनमुपासनाजं ज्ञानम्‌ । चशब्दाच्छ्रवणमननेच निर्विद्य अमौनं भगवदपरोक्षज्ञानं च प्राप्नोति । अथ भगवदपरोक्षज्ञानानन्तरं ब्राह्मणोमुक्तो भवति । सब्राह्मणोमुक्तो येन स्यात्‌ केन स्यात्‌ येन केनापि भोगेन सर्तयंस्तेन वर्तनेनेदृश एव । यथासंसारावस्थायां भिक्षुकस्तथापरमात्मनोविप्लुडानन्दभिक्षुक एवेत्यर्थः । उपसंहरति ॥ अत इति ॥ अतस्तस्मादतोस्मात्परमात्मनोन्यन्मुक्तामुक्तजातमार्तं कदाचित्‌ दुःखि तथाच परमात्मैवस्वतन्त्रोन्यन्मुक्तामुक्तजातमस्वतन्त्रमित्यथर्ः । ततो हकहोलः कौषीतकेय उपरराम ॥ 1 ॥ कहोलब्राह्मणम्‌ ॥ 5 ॥ यस्सर्वान्तर इत्यक्तं किं तत्सर्वमित्याकाङ्क्षायामनात्मभूतान्‌ सर्वपदार्थांस्तावत्‌ गार्गिब्राह्मणेनाहेति परकीयब्राह्मणप्रतिपाद्यवर्णनमसदिति भावेनैतद्ब्राह्मण प्रतिपाद्यमाह ॥ मुक्तानामिति ॥ नन्वन्तरिक्षलोकेषुगार्गीत्यादौलोकशब्दप्रयोगादनात्मपदार्थप्रतिपादनमेवात्रक्रियत इति ज्ञायते नतु मुक्तानां तारतम्यमुच्यत इति तत्राह ॥ लोका इति ॥ उच्यन्त इति शेषः । ननु मुक्तानामन्तःकरणाभावात्कथमानन्दानुभवा इत्यत उक्तम्‌ ॥ स्वरूपभूता इति ॥ कुत इत्यत आह ॥ अप्स्विति ॥ अप्सुवायाविति अप्‌ वायुशब्दवाच्यचक्रवर्त्यादिस्वरूपस्यैवप्रस्तुतत्वेनान्तरिक्षलोकेष्वित्यादावपि लोकशब्देनान्तणिदिशब्दवाच्यदेवतास्वरूपभूत एवानन्दानुभवोग्राह्यः । अन्यथाप्रक्रमविरोधादिति भावः । न केवलमुपक्रमवशाल्लोकशब्दस्य स्वरूपभूतानन्दानुभवपरत्वं किन्तूपसंहारवशाच्चेत्याह ॥ अनतीति ॥ कस्मिन्खलु ब्रह्मलोका ओताश्ऱ्चप्रोताश्ऱ्चेति प्रश्ऱ्नस्तवद्देवतास्वरूपविषयक एवावगम्यते । अनतिप्रश्ऱ्न्ांदेवतामतिपृच्छसीति ब्रह्मलोकपदोक्तार्थेदेवताशब्दप्रयोगात्‌ । ततश्ऱ्चब्रह्मपदेनैवदेवतास्वरूपस्योक्तेः ब्रह्मलोकपदस्य ब्रह्मस्वरूपभूतानन्दानुभव परत्वे अवश्यं वक्तव्ये इतरत्रापि लोकशब्दस्य तत्परत्वमेवाङ्गीकार्यमित्यर्थः । लोकशब्दस्योक्तार्थत्वमनङ्गीकृत्यप्रसिद्धार्थत्वाङ्गीकारेबाधकमाह ॥ नचेति ॥ यदि लोकशब्दस्य प्रसिद्धललोकार्थत्वं स्यात्तर्हि आदित्यादिलोकानां चन्द्रादिलोकाश्रितत्वोक्तिरयुक्तास्यात्‌ । चन्द्रादिलोकानामुपरितनत्वात्‌ । आदित्यादिलोकानां चाधस्तनत्वात्‌ । नचोपरितनलोकेष्वधस्तनलोका आश्रिता इत्यर्थः । किञ्चैवं कस्मिन्खलु वायुरोतश्ऱ्चप्रोतश्ऱ्चेति गन्धर्वलोकेषु गार्गीति वायोः गन्धर्वलोगाश्रितत्वमुच्यते तदप्ययुक्तं स्यादित्यत आह ॥ नचवायुरिति ॥ कुतो नेत्यत आह ॥ वाय्वाश्रयत्वेति ॥ श्रुतेः श्रवणात्‌ । नेनीयन्ते पुनःपुनःभृशंवार्धार्यन्ते । तत्रैवस्मृतिमपि पठति । सप्तेति ॥ दूषणान्तरमाह ॥ नचेति ॥ ब्रह्मस्वरूपभूतानन्दानुभवव्यावृत्त्यर्थं मात्रपदम्‌ । यदि लोकशब्दःप्रसिद्धलोकार्थः स्यात्‌ तदाब्रह्मलोकस्योक्तमनतिप्रश्ऱ्नत्वमुयुक्तं स्यात्‌ । प्रसिद्धब्रह्मलोकस्याधारान्तरसम्भवेन तस्यानतिप्रश्ऱ्नत्वाभावादित्यथर्ः । न केवलपरितनलोकेषु अधस्तनलोका अनाश्रिता इत्येव किन्तु वैपरीत्यमेवास्तीत्याह ॥ अधस्तनेष्विति ॥ नन्वत्र गन्धर्वलोकाश्रितत्वेनोच्यमानोवायुर्नमुख्यः येन श्रुत्यादिविराधः स्यात्‌ किं नाम एकोनपञ्चाशन्मरुत्सुकश्ऱ्चित्‌ । तथाच नोदाहृतश्रुत्यादिविरोध इत्यत आह ॥ नचेति ॥ मरुतामिति निर्धारणेषष्ठी । योहियतोवरः सतमाश्रयते । नहि मरुतामेकोपि गन्धर्वलोकादवरोस्ति । येन तमाश्रयेतेत्यर्थः । यद्वा नन्वनति प्रश्ऱ्न्ां देवतामति पृच्छसीति वाक्योक्तं न बाधकम्‌ । देवताभिमन्यमानत्वेन देवताशब्दोपपत्तेरित्यतस्तदुपपादयति ॥ नचानतिप्रश्ऱ्नत्वमिति ॥ नचोपरितनलोकेष्वित्यपि बाधकमुपपादयति ॥ अधस्तनेष्वति ॥ नच वायुरित्यपि न बाधकम्‌ । वायुनाहिसर्वेलोकानेनीन्त इति सामान्यवचनस्यैतद्वक्यबलेन स्वाश्रयगन्धर्वलोकव्यतिरिक्ताः सर्व इत्यर्थोपपत्तेरित्यतस्तदप्युपपादयति ॥ नचमरुतामिति ॥ एकोपि न विद्यते किमुमुख्यवायुरित्यर्थः । पररीत्याएतदुक्तम्‌ । सिद्धान्तेवायुशब्दस्यान्यपरत्वादिति भावः । न केवलं लोकशब्दस्य प्रसिद्धार्थत्वानुपपत्त्यास्वरूपानन्दानुभवार्थत्वम्‌ । किन्तु ब्राह्मणव्याख्यानपरप्रमाणादपीति भावेनाह ॥ उक्तञ्चेति ॥ तामुक्तिं पठति आपिबन्तीति ॥ अनेन कस्मिन्नाप इत्युक्तं आप इत्येतद्वयाख्यतम्‌ । कस्मिन्नाप ओताश्ऱ्चप्रोताश्ऱ्चेति वायौ गार्गीत्यस्यार्थमाह ॥ ॥ तेषामिति ॥ अनेन वायुशब्दोनप्रधानपरोनवाएकोनपञ्चाशत्सुकश्ऱ्चित्परः किन्तु अप्‌शब्दोवायुशब्दश्ऱ्चजडपर एवेति परास्तम्‌ । कस्मिन्खलु वायुरोतश्ऱ्चप्रोतश्ऱ्चेति गन्धर्वलोकेष्वित्यस्यार्थमाह ॥ तस्यचेति ॥ कस्मिन्खलु गन्धर्वगोका ओताश्ऱ्चप्रताश्ऱ्चेत्यन्तक्षिलोकेष्वित्यस्यार्थमाह ॥ तत्सुखानामिति ॥ अन्तरिक्षगःअन्तक्षिभिमानी ।

?Rकस्मिन्नुखल्वन्तरिक्षलोकाः ओताश्ऱ्चप्रोताश्ऱ्चेत्यादित्यलोकेषु गार्गीत्यस्यार्थमाह ॥ तत्सुखानामिति ॥

?Rकस्मिन्नुखल्वादित्यलोका ओताश्ऱ्चप्रोताश्ऱ्चेति चन्द्रलोकेषु गार्गीत्यस्यार्थमाह ॥ सौराणामिति ॥ सूर्याचन्द्रमसोस्समानत्वात्कथमाश्रयाश्रयीभाव इत्यत आह ॥ आह्वादनादिति ॥ चन्द्रशब्दवाच्यवे निमित्तान्तरमाह ॥ स एवेति ॥ कस्मिन्नुखलु चन्द्रलोका ओताश्ऱ्चेति नक्षत्रलोकेष्वित्यस्यार्थमाह ॥ अनिरुद्धेति ॥ नक्षत्रशब्दमिन्द्रेनिवर्क्ति ॥ नैवेति ॥ अस्येन्द्रस्यन्यःक्षत्रियोरक्षकोनैवेत्यर्थः । ननु ब्रह्मादीनां सत्वात्‌ कथमेतदित्यत आह ॥ त्रिषुलोकेष्विति ॥ एवमपि कथं तद्वयावृत्तिरित्यत आह ॥ ब्रह्माद्या इति ॥ कस्मिन्नुखलुनक्षत्रलोका ओताश्ऱ्चप्रोताश्ऱ्चेति देवलोकेष्वित्यस्यार्थमाह ॥ आनन्दानामिति ॥ अत्र रुद्रशब्देन शेषोग्राह्यः । कस्मिन्‌ खलु देवलोका ओताश्ऱ्चपोताश्ऱ्चेति इन्द्रलोकेषु गागर्ीत्यस्यार्थमाह ॥ इन्द्रेति ॥ इन्द्रासरस्वती । तस्मयामिन्द्रशब्दं निर्वक्ति ॥ शिवोहीति ॥ यद्वा नन्विन्द्रत्वं परमेश्ऱ्वरत्वं तत्र कईश्ऱ्वरोयत्परमत्वेनास्याइन्द्रत्वमित्यत आह ॥ शिवोहीति ॥ कस्मिन्नुखल्विन्द्रलोका ओताश्ऱ्चप्रोताश्ऱ्चेति प्रजापतिलोकेष्वित्यस्यार्थमाह ॥ तत्सुखानामिति ॥ ब्रह्माचतुर्मुखः आधिराश्रयः कस्मिन्नुखलुप्रजापतिलोका ओताश्ऱ्चप्रोताश्ऱ्चेति ब्रह्मलोष्वित्यस्यार्थमाह ॥ तत्सुखानामिति ॥ चतुर्मुखसुखानामित्यर्थः । एवं मुक्तपरत्वेन ब्राह्मणं व्ख्यायसंसारिपरत्वेनापि व्याचष्ये ॥ एवमेवेति ॥ संसारेचेति सम्बन्धः । एवमेवव्याख्येयमिति शेषः ।मुक्तिसंसारयोश्ऱ्चक्रवर्त्याद्यानन्दानां वायुसुतचक्राद्यानन्दाश्रितत्वं कुत इत्यत आह ॥ बिम्बत्वादिति ॥ अनतिप्रश्ऱ्न्ांदेवतामिति परब्रह्मण आश्रयप्रश्ऱ्नाविषयत्वमुक्तं तत्र हेतुमाह ॥ नेति ॥ मातिप्राणीरिति प्रश्ऱ्नोनकतर्व्य इत्यक्त्वा तत्र हेतुरुच्यते मातेमूर्धाव्यपप्तदिति । तस्य शिरश्छेदमात्रार्थत्वप्रतीतिं निवारयन्स्तद्घटति ॥ तस्येति ॥ उपसहरति ॥ तस्मादिति ॥ उक्तार्थेप्रमाणान्तरमाह ॥ रुद्रमिति ॥ देवाः रुद्रमुक्तप्रकारेण समाश्रिताः । प्रमाणान्तरसंवादाच्चायमेवार्थ इत्याह ॥ अथात इति ॥ प्रमाणेलोकशब्दःमुक्तस्वरूपभूतसुखपरत्वेन व्यख्तातः तद्वयुत्पाद्यदर्शयति ॥ संसारादिति ॥ लुप्तानामित्यस्वैव तात्पर्यमाह ॥ मुक्तानामिति ॥ लोका इत्यानन्दानुभवा उच्यन्त इत्युक्तं तद्वयुत्पाद्यदर्शयति ॥ रोचमानानीति ॥ लोक इत्यस्यार्थोरोचमानानीति कानिसुखानि । नन्वेवं लोकशब्दनिर्वचनेलोकमिति न पुंसकलिङ्गस्यात्‌ । सुखवाचककशब्दस्य नपुंसकलिङ्गत्वात्‌ । नतु लोक इति पुलिङ्गनिर्देश इत्यत आह ॥ लीनमिति ॥ पूर्वं लीनं पश्ऱ्चादभिव्यक्तं सुखं क इत्युक्तम्‌ । अत्र संसारेयत्सुखं क्षीयतेस्थीयते तत्‌ कं नामेत्यर्थः ॥ ततश्ऱ्चायंखण्डार्थः ॥ अथ कहोलोपरमानन्तरम्‌ । गार्गीगर्गगोत्रोत्पन्न । वाचक्नवी वचक्नोरपत्यं स्त्रीवाचक्नवी । एनं याज्ञवल्क्यं पप्रच्छ य इदं सर्वं मुक्तमनुष्योत्तमजातम्‌ । अप्सु अप्‌शब्दवाच्येषुमुक्तचक्रवतिर्षु । ओतमाश्रितम्‌ । नैतदौपचारिकमित्याह ॥ प्रोतमिति ॥ ताःआपःकस्मिन्नोताःप्रोताश्ऱ्चेति । उत्तरमाह ॥ वायाविति ॥ अत्र वायुशब्देन प्रधानवायुपुत्रश्ऱ्चक्रनामामुक्तोग्राह्यः । तदुत्तरकक्ष्यं पृच्छति ॥ कस्मिन्निति ॥ गन्धर्वलोकेषु गन्धर्वशब्दवाच्यस्य मुक्तस्य वायुपुत्रस्य सुखेषु अन्तरिक्षलोकेषु अन्तक्षिख्यस्य वायुपुत्रस्य मुक्तस्य मरुतःसुखेषु आदित्यलोकेषु मुक्तसूर्यानन्देषु चन्द्रलोकेषु चन्द्रशब्द्वावाच्यमुक्तानिरुद्धानन्देषु नक्षत्रलोकेषु नक्षत्रशब्दवाच्यमुक्तेन्द्रानन्देषु देवलोकेषु मुक्तशेषानन्देषु इन्द्रलोकेषु मुक्तसरस्वत्यानन्देषु प्रजापतिलोकेषु मुक्तब्रह्मानन्देषु ब्रह्मलोकेषु परब्रह्मानन्देषु परब्रह्मानन्देषु परब्रह्मानन्दस्याष्याश्रयं पृच्छति ॥ कस्मिन्निति ॥ अति अतिक्रम्य मा प्राक्षीः ते मूर्धाशिरोमाव्यपप्तत्‌ । अन्धेतमसिविविच्य विस्पष्यं मापततु । कुतः यतस्त्वमनतिप्रश्ऱ्न्ां आश्रयवत्वप्रश्ऱ्नानर्हान्देवतामपि अतिक्रम्यपृच्छति । तदाश्रयप्रश्ऱ्नश्ऱ्चानर्हहेतुरिति भावः ॥ 1 ॥ गार्गिब्राह्मणम्‌ ॥ 6 ॥ अन्तर्यामिब्राह्मणे अन्तर्यामित्वं प्रकृतेस्तत्तज्जीवस्य चोच्यते । श्रुत्युक्तपृथिव्यादिशरीरत्वस्य प्रकृतावुपपत्तेः । शरीरशब्दस्य स्वरूपेपि प्रयोगात्‌ । प्रकृश्ऱ्चपृथिव्यादिसर्वात्मकत्वात्‌ । नच पृथिव्यां तिष्ठन्नित्यादेरनुपपत्तिः । व्याप्तं कार्येषु कारणमित्यादिनाकारणस्य कार्यस्थत्वोक्तेः । पृथिवीं यमयतीत्येतत्‌ उपचारेणनेतव्यम्‌ । पृथिव्यादिजीवस्य च पृथिव्यादिशरीरत्वादिकं सुघटमेवेति शङ्कापरिहाराय ब्राह्मणप्रतिपाद्यमाह ॥ पुनरिति ॥ ब्रह्मलोकेषु गार्गीतियः सर्वमुक्ताश्रयत्वेनोक्तः । तस्य विष्णोरेव नतु प्रकृतेस्तत्तज्जीवस्य वेत्यर्थः । एष त आत्मेति विष्णोः नियन्तृत्वस्योक्तत्वात्‌ पुनःकिमर्थमेतदित्यत उक्तम्‌ ॥ सर्वेति ॥ य आमासर्वान्तर इति आत्मशब्देन सर्वनियन्तृत्वस्याप्युक्तत्वात्‌ पुनरित्युक्तम्‌ । आत्मेत्युक्तमेवविविच्योच्यत इति न वैयर्थ्यमिति भावः । विष्णोरेवसर्वनियन्तृथ्वमुच्यत इति कुत इति चेत्‌ । अन्तर्यामिप्रश्ऱ्नवाक्येयोऽन्तरोयमयतीति विष्णुवाचकयशब्दश्रवणात्‌ । अन्यथा य इमञ्चलोकं परञ्च लोकं सर्वाणिच भूतान्यन्तरोयमयतीत्येतावतापूणर्त्वात्‌ योऽन्तरोयमयतीति पुनर्य इति व्यर्थमित्याह ॥ य इति ॥ नचैवं स्वेनैवाऽन्तर्यामिणोविष्णुत्वस्योक्तत्वात्प्रश्ऱ्नानुपपत्तिः । काप्येनापि विष्णुत्वस्य यशब्देन ज्ञानान्नवेदेत्यनुपपत्तिश्ऱ्च ।

?Rतमन्तर्यामिणं विष्णुं विशेषेणवेत्थकिमिति गन्धर्वप्रश्ऱ्नेन वदेति काप्यवचनात्‌ । यशब्दस्य विष्णुवाचकत्वेऽभिमानमाह ॥

?Rअकयेति ॥ विष्णावकयादिशब्दानां प्रवृत्तौ निमित्तमप्याह ॥ अइत्येष इति ॥ योवैतत्काप्यसूत्रं विद्यात्‌ तं चान्तर्यामिणमिति सब्रह्मविदिति वाक्यं इति शब्दोव्यर्थ इत्यत आह ॥ इतीति ॥ येनायं च लोकः परश्ऱ्चलोकः सर्वाणिभूतानि च सन्दृब्धानीति य इमं च लोकं परं च लोकं सर्वाणिभूतानि योन्तरोयमितीति च स्वप्रतिज्ञातप्रकारेणेत्यर्थः । तथाच स्वप्रतिज्ञातप्रकारवाचीति शब्दाभावेसूत्रान्तर्यामिस्वरूपमात्र ज्ञानिनोब्रह्मवित्त्वादिकमुच्यमानमयुक्तं स्यादिति तत्सार्थकमिति भावः । ननु स्वप्रतिज्ञातप्रकारेणसूत्रान्तर्यामिकविदोपि कथं ब्रह्मवित्त्वादिकमित्यतः सब्रह्मविदित्यादिवाक्यं व्याचष्ये ॥ ब्रह्मविदिति ॥ शक्तिज्ञानादिपूर्णविज्ञानादित्यर्थः । सूत्रस्य सर्वाश्रयत्वमन्तर्यामिणः सर्वनियन्तृत्वं च जानंस्तदुपयुक्तशक्तिज्ञानादिपूर्णत्वमपि जानात्येवेति भावः । लोकानां कर्तृवेदनादिति । धारणनियमनकर्तृवेनादित्यर्थः । सूत्रस्य लोकधारणकर्तृत्वज्ञानं अन्तर्यामिणः लोकनियामकत्वज्ञानं च लोकज्ञानं विनासनसम्भवतीति भावः । देवानां वेदनादिति । देवानां योदेवत्वप्रदस्तदाश्रयः तन्नियामकश्ऱ्चेति यावत्‌ तद्वेदनादित्यर्थः । सूत्रान्तर्यामिणोः सर्वाश्रयत्वसर्वनियामकत्वज्ञानेदेवाश्रयत्वतन्नियामकत्वमपि ज्ञातमेव । तच्चदेवज्ञानाभावे न सम्भवतीति भावः ॥ वेदार्थेति ॥ सर्वाश्रयत्वसर्वनियामकत्वयोर्वेदार्थत्वादित्यर्थः । प्रतिपादकवेदज्ञानाभावेतत्प्रतिपाद्यार्थज्ञानाभावादिति भावः ॥ तन्नियन्तृपरिज्ञानादिति ॥ नियम्यरूपभूतज्ञानाभावे तन्नियन्तृत्वे न तज्ज्ञानमपि न सम्भवतीति भावः । तदाश्रय परिज्ञानादित्यपि ग्राह्यम्‌ ॥ आप्तवेदनादिति ॥ तदाप्तस्यैव तदाश्रयत्वं तन्नियामकत्वञ्चेति आश्रयत्वनियन्तृत्वाभ्यां सूत्रान्तर्यामिणोः ज्ञानेतदाप्तत्वज्ञानमावश्यकमिति भावः । सर्वसारज्ञाः सर्वाश्रयसर्वनियन्त्रोः सर्वसारत्वात्‌ । पुरुषोत्तमं पुरुषशब्दोत्राधिकारिपरश्ऱ्चेतनपरश्ऱ्च । तथाच अधिकार्युत्तमं सूत्रञ्चेतनोत्तमं विष्णुञ्चेतनोत्तमं विष्णुञ्चेत्यर्थः । ननूत्तमाधिकाणिणशमुक्तप्रकारेणलोकवेदादिसर्वज्ञानसम्भवेप्यन्येषां न सम्भवति । तेषामसर्वज्ञत्वादिति चेत्‌ न । तदालोकानां कर्तृवेदनात्‌ लोकविदित्युच्यत इत्यौपचारिवैदिकं व्याहरणमिति शेषः । वायुर्वैगौतमतत्सूत्रमित्युक्तम्‌ । तत्र सूत्रशब्दं वायौनिर्वक्ति ॥ स्यूमिति ॥ एष त आत्मान्तर्यामीति प्रकृतेस्तत्तज्जीवस्य वा अन्तर्यामित्वमुक्तन्यायेनोच्यत इति प्रतीति निरासायाऽन्तर्यामिशब्दं निर्वक्ति ॥ तञ्चेति ॥ चशब्दस्तस्मादित्यर्थे । न केवलं पृथिव्यादिकं किन्तु तमपि सूत्रनामानं वायुमपि । अन्तस्थित्वेति शेषः । अस्मिन्ब्राह्मणष सूत्रान्तर्यामिणोः समप्रधानभावेनप्रतिपाद्यत्वभ्रमनिवारणायतमपीत्युक्तम्‌ । नन्वन्तर्यामित्वं प्रकृतेस्तत्तज्जीवस्यैव वायुक्तं नतु हरेः । पृथिव्यादिशरीरत्वस्योक्तन्यायेन तत्र सम्भवात्‌ । हरावसम्भवात्‌ । तस्य पृथिव्यादिभिन्नचिच्छरीरत्वोररीकारेण पृथिव्यादिशरीरत्वानङ्गीकारादिति चेत्‌ न । यतोत्र पृथिव्यादिशब्दादेवतावाचका एव । इत्यधिदैवतमिति पृथिव्यादीनामधिदैवत्वोक्तेः । यं पृथिवीनवेदेत्यादौ पृथिव्यादेः जडत्वेयमित्यस्य वैयर्थ्याच्च । यं विज्ञानं न वेदत्यस्यानुपपत्तेश्ऱ्च । अप्रसक्तप्रतिषेधापत्तेश्ऱ्च । नच पृथिव्यादिशब्दादिभिधेयदेवताशरीरत्वं पृकृतेः पृथिव्यादिजीवस्य वायुक्तम्‌ । विष्णोस्तु गौणं पृथिव्यादिदेवताशरीरत्वं युज्यत एवेति भावेनाह ॥ पृथिव्याद्या इति ॥ यस्य शरीरमिति सम्बन्धः ।यच्छशब्दस्य सोन्तर इत्युत्तरेणान्वयः । न केवलं तद्वशत्वगुणयोगेनपृथिव्यादिदेवतानां विष्णुशरीरत्वं किन्तु तत्प्रविष्यत्वलक्षणगुणयोगेनापीति भावेनाह ॥ अन्तस्थ इति ॥ योदेवानामन्तस्थश्ऱ्च । नन्वेवं पृथिव्यादिशरीरत्वं गौणमङ्गीकृत्यकिं बलादन्तर्यामित्वं हरेरङ्गीकर्तव्यमिति चेत्‌ अन्तर्यामिणः पृथिव्याद्यवेद्यत्वादि विष्णुधर्मव्यपदेशात्‌ । नच पृथिव्यादिदेवताऽविदितत्वादिकं प्रकृतेस्तत्तज्जीवस्य वोपपद्यत इति भावेन यं पृथिवीनवेदयमापोन विदुरित्यादिवाक्यं तावद्वयाचष्ये ॥ नविदुरिति ॥ यःपृथिव्यान्तिष्ठन्‌ योप्सुतिष्ठन्नित्यादेरर्थमाह ॥ प्रविष्यत्वादिति ॥ यः पृथिवीमन्तरोयमयतीत्याद्यन्तरशब्दं व्याचष्ये ॥ सोन्तर इति ॥ अन्तरशब्देन स्ववशत्वं कथं लब्धमित्यत अन्तरशब्दार्थमाह ॥ बाह्येति ॥ B-20

?Rअन्तरशब्देन स्ववशत्वं कथं लब्धमित्यत अन्तरशब्दार्थमाह ॥ बाह्येति ॥ अन्तरेवरमत इत्यन्तरः । अन्तरेवेत्यस्यार्थः बाह्यापेक्षां विनेति । स्वभिन्नापेक्षां विनेत्यर्थः । तस्यैवार्थन्तरमाह ॥ अतिप्रियत्वाच्चेति ॥ अन्तःस्थित्वारमयतीति अन्तर इति भावः । नन्वतिप्रियत्वं नामनिरुपाधिकं प्रियत्वं तच्चस्वात्मन एव नतु विष्णोरित्यत आह ॥ जीवानामिति ॥ हेतुबलाद्विष्णुरेवान्तर्यामीत्युक्तम्‌ । इदानीमन्तर्यामिशबनदार्थस्य विष्णावेवसम्भवात्‌ प्रकृत्यादावसम्भवाच्चविष्णुरेवान्तयर्ामीति भावेनान्तर्यामिशब्दार्थमाह ॥ स्वतन्त्र इति ॥ ततः तस्मादिति तच्छशब्दश्रवणात्‌ यत्‌ यस्मादित्यपि ग्राह्यम्‌ । अन्तरेवयामीत्यन्तर्यामी । तत्रान्तरेवेत्यस्य तात्पर्यं स्वतन्त्र इति ।

?Rयामीत्यस्यार्थोनियन्तेति । ननु मीत्यस्य कथं नियन्तेति व्याख्यानन्तयोरेकार्थत्वाप्रतीतेरित्यस्तयोरेकाथर्त्वसिध्यर्थं

?Rतदुभयशब्दार्थावाह ॥ देवतानामिति ॥ स्वभावोधर्मः । यत इति श्रवणादत इति ग्राह्यम्‌ । इत्यधिदैवतं इत्यधिभूतं इत्यध्यात्ममित्युक्ताधिदैवादिशशब्दानामर्थमाह ॥ अधिभूतमिति ॥ सर्वजीवाः मनुष्यादयः । तच्छरीरगास्तदिन्द्रियाद्यभिमानिन्यः । या इन्द्रियाद्यभिमानिन्यः तारूपान्तरेणस्वलोकस्थाः । अत्राधिलोकाधियज्ञेति मूलानुक्तं माध्यन्दिनशाखाभिप्रयेण । तत्राथाधिकोकं यः सर्वेषु लोकेषु तिष्ठन्‌ सवर्ेभ्योलोकेभ्योऽन्तरः । अथाधियज्ञं यः सर्वेषु यज्ञेषुतिष्ठन्नित्येवं रूपेणपाठात्‌ । जीवेष्वधिभूतशब्दं व्युत्पाद्यदशर्यति ॥ भवनाधिकार इति ॥ अधिभूतशब्दं सप्तम्यन्तमङ्गीकृत्योक्तं भवनाधिकार इति । स्थितत्वादिति शेषोक्तिः । भूतं भवनमुत्पत्तिमधिकृत्यवर्तत इत्यधिभूतम्‌ । तस्मिंस्थितत्वादित्यर्थः । यद्वाभवनाधिकार इति उत्पत्तिप्रतिपादग्रन्थविशेषस्य संज्ञा । तत्रस्थितत्वात्‌ । तत्प्रतिपाद्यत्वादित्यथर्ः । पृथिव्याद्यादेवा इत्युक्तं केतेकेननिमित्तेन पृथिव्यादिशब्दवाच्या इत्येतत्सर्वं प्रमाणेनाह ॥ पृथुमिति ॥ वाति गच्छति । हरे अन्तरिक्षशब्दं निर्वक्ति ॥ स्वान्तर्गतमिति ॥ क्लृप्तेतिशेषः । अन्तत्यिस्यार्थः स्वान्तर्गतमिति । इ इत्यस्यार्थः । इच्छयेति । क्ष इत्यत आह ॥ साक्षशदिति ॥ साक्षादेवसर्ववस्तूनान्द्योतनादिति । संग्लापयेत्‌ । तमुग्लपन इति धातोः । हि यस्मात्‌ पृथदरः तस्मादासमन्तात्काशत इत्यर्थः । एतत्‌ पश्ऱ्चिमनिदिक्‌ स्थितं जगत्‌ । आत्माविज्ञानमिति त्विति । अत्र माध्यन्दिन शाख्भप्रायेणात्मेत्युक्तम्‌ । अत्र योविज्ञानेतिष्ठन्नितिवत्‌ तत्र य आत्मनितिष्ठन्नात्मनोन्तर इत्येवंरूपणपाठदिति ज्ञेयम्‌ । नन्ववं व्याख्यानेशशरीरश्ऱ्चोभयेपि हि भेदेनैनमधीयत इति सूत्रभाष्यविरोधः स्यात्‌ । तत्रास्य वाक्यस्याविशेषितजीवपरत्वाङ्गीकारादिति चेन्न । जीवाभिमानिचतुर्मुखादपि तन्नियामकत्वादिनाभिन्नस्यान्तर्यामिणः किमुवक्तव्यं तदभिमन्यमान जीवेभ्योभिन्नत्वमितीत्यभिप्रायेणान्तर्यामिणोजीवाद्भिन्नत्वेऽस्य वाक्यस्य सूत्र कृतोपात्तत्वात्‌ । तदेतदाह ॥ सर्वजीवाभिनवानिति ॥ श्रुत्युक्तानामेवभगवन्नियम्यत्वं नत्वन्येषशमिति शङ्कापरिहाराय यःपृथिव्यां तिष्ठन्नित्यादिकमुपलक्षणपरमिति भावेनाह ॥ इमेसर्व इति ॥ इमेसर्वेश्रुत्युक्ताभरुडाद्याः । या अत्र ब्राह्मणेऽनुक्तादेवतास्ताश्ऱ्चयेपरेमनुष्याद्याः सर्वेजीवा अधिभूतशब्दोक्तास्तेच विष्णुनैवनियता इत्यर्थः । ननु पृथिव्यादिशब्दानामुक्तरीत्यागरुडादि देवतापरत्वे जडस्य भगवन्नियतत्वं नोक्तं स्यात्‌ इत्यतः कैमुत्यसिद्धतयातदनुक्तवपि सिध्यतीति भावेनाह ॥ जीवानामिति ॥ एष श्रुतिस्तन्नियमनं जडस्य भगवन्नियतत्वं नोक्तं स्यात्‌ इत्यतः स्वत उक्तिं विनापि सिद्धत्वात्‌ कथम्‌ । जीवानां नियमेऽजीवं जीवभिन्नं जडं नियच्छतीति किमुवाच्नयमितीति याजना । ननु अदृष्योद्रष्याऽश्रुतः श्रोतेत्यादिनाद्रष्यृत्वश्रोतृत्वादिकं विष्णोः लक्षणमुक्तम्‌ । तत्तुचेतनमात्र साधारणं कथं विष्णुलक्षणं स्यादित्यत आह ॥ स एवेति ॥ ननु विष्णोः सर्वात्मनाऽदृष्यत्वाश्रुत्वादिकं प्रमाणान्तरविरुद्धमित्यत आह ॥ हिपरमात्परम इति ॥ हिशब्दोयस्मादित्यर्थः । तस्माच्छतौ साकल्येनादृष्यत्वादिकमुच्यत इति शेषः । नान्योतोस्तिद्रष्येत्यादिनिषेधः कथं जीवानामेव तद्वयतिरिक्तानां द्रष्यृत्वादित्यत आह ॥ नान्य इति ॥ स्वतन्त्रवेत्तशरोपि जीवाः कुतो न स्युरित्येतच्छङ्कापरिहारकतयाऽतोन्यदार्तमित्येतद्वयाचष्ये ॥ जीवा इति ॥ दुःखित्वेपि स्वातन्त्ऱ्यं किं न स्यात्‌ इत्यत आह ॥ यदीति ॥ दुःखिनोनैवस्युः किन्तु नित्यं सुखिन एव स्युरित्यर्थः । जीवानां भगवदधीनत्वं भगवतः स्वातन्त्ऱ्यञ्चोपसंहरति ॥ अत इति ॥ आतिर्मतां दुःखस्पृष्यानाम्‌ । मुक्तिप्रदश्ऱ्चस इत्यनन्तरं तस्माज्जीवा अस्वतन्त्रा इति शेषः ॥ ततश्ऱ्चायं खण्डार्थः ॥ अथहैनमुद्दालकोनामत अरुणस्यापत्यमारुणिः पप्रच्छ । स्वस्य सूत्रादिविद्यायुगुरूपदेशपूर्वकत्वं ज्ञापयितुमाख्यायिकामारचयति ॥ मद्रेष्विति ॥ मद्रेषष्विति ॥ मद्रेषु देशेषु काप्यस्य कपिगोत्रोत्पन्नस्य पतंचलनाम्नो गृहेषु यज्ञमधीयानायाज्ञिकविद्याभ्यासङ्कुर्वाणा असाम तस्य पतंचलस्य भार्या गन्धर्वेण गृहीतातदाविष्यासीत्‌ । तं गन्धर्वं पतंचलसहितावयं याज्ञिकास्त्वं कोसीत्यपृच्छाम । एवं पृष्यःस गन्धर्वः । अस्मभ्यमब्रीत्‌ किं अहं नाम्नाकबन्धः अथर्वणोपत्यं आथर्वण इति । सगन्धर्वः काप्यं पतंचलं याज्ञिकांश्ऱ्चप्रत्यब्रवीत्‌ । हेकाप्य त्सूत्रं त्वं वेत्थनु जानीषेकिम्‌ । किं तत्सूत्रमित्यतस्तद्विशिनतयावस्थितानि भवन्तीति । स पृष्यःकाप्यः पतंचलो हे भगवन्‌ अहं तत्सूत्रं न वेदेत्य ब्रवीत्‌ । स एवमुक्तोगन्धर्वः पतंचलं काप्यं याज्ञिकांश्ऱ्चनरब्रवीत्‌ । हेकाप्य त्वं तमन्तर्यामिणं वेत्थ नु किं कोसावन्तर्यामीकीदृशश्ऱ्चस इत्यत आह ॥ य इति ॥ य इमंलोकं परंचलोकं सर्वाणिभूतानि अन्तरोयमयति यः पूर्णत्वाद्यशब्दाभिधोविष्णुस्तमन्तयर्ामिणमिति सम्बन्धः । एवं पुनः पृष्यः सपतंचलः काप्योहेभगवन्‌ अहं तमन्तर्यामिणं न वेदेत्यब्रवीत्‌ । स्वप्रतिज्ञातप्रकारेण सूत्रान्तर्यामिस्वरूपवेत्तुः फलमाह ॥ स इति ॥ हे काप्य योवाऽधिकारी एतत्सूत्रं तमन्तर्यामिणञ्च इति येनायंलोकः इति य इमं च लोकमिति स्वप्रतिज्ञातप्रकारेण विद्यात्‌ । स ब्रह्मवित्‌ सपूर्णवित्‌ ।

?Rसलोकानां कर्तृवेदनात्‌ लोकवित्‌ सदेवानादेववेदनाद्देववित्‌ । सवेदार्थवेदनाद्वेदवित्‌ भूतनियन्तृवेदनाद्भूतवित्‌

?Rआत्मवेदनादात्मवित्‌ सर्वसारवेदानात्सर्वविदिति । एवं सगन्धर्वः सूत्रान्तर्यामिज्ञानिनः फलमुक्त्वा तेभ्यः पतंचलयाज्ञिकेभ्यः सूत्रान्तर्यामिस्वरूपमब्रवीत्‌ । तत्सूत्रान्तर्यामिस्वरूपं गन्धर्वोपदिष्यमह वेद किमेतावतेत्यत आह ॥ तच्चेदिति ॥ हे याज्ञवल्क्य त्वंचेत्‌ यदि तदुक्तविशेषणविशिष्यं सूत्रं तमुक्तविशेषणविशिष्यमन्तर्यामिणंचाविद्वान्सन्‌ । ब्रह्मगवीः ब्रह्मविदां स्वभूतागाः अन्यायेनोदजसे उन्नयसि । तर्हि ते मूर्धाविपतिष्यतीति उद्दालकेनोक्तः याज्ञवल्क्यः प्रत्याह ॥ हे गौतम गौतमगोतमगोत्रोत्पन्न अहम्‌ । तत्सूत्रं तमन्तर्यामिरञ्च वेदवा इति । एवमुक्त उद्दालकः प्रत्याह ॥ वेदवेदेति ॥ वेदवेदेति इदं वैयःकश्ऱ्चिद्ब्रूयात्‌ आत्मानं श्ऱ्लोघयेत्‌ किं तेनोदितेन यथावेत्थ तथाब्रूहीति ॥ 1 ॥ एवमुक्तस्ययाज्ञवल्क्य उवाच । हे गौतमयत्‌ त्वयापृष्यं तत्सूत्रं वायुरेव सूत्रस्योक्तलक्षणं वायौदर्शयति ॥ वायुनेति ॥ वायोः सर्वलोकाधारत्वमनुभवारूढठ करोति ॥ तस्मादिति ॥ हे गौतम तस्माद्वै वायोः सर्वाधारत्वादेवप्रेतं मृतं वायुनापरित्यक्तं पुरुषमाहुः । किं अस्य प्रेतस्याङ्गानि करचरणशदीनि व्यस्रंसिषत विशीणर्शन्यभवन्निति । सूत्रापगमेमणय इव । एव वायोः सर्वाधारत्वमनुभवारूढं कृत्वासाध्यमाह ॥ वायुनाहीति ॥ एवं याज्ञवल्क्ययोक्तं सूत्ररूपमङ्गीकृत्यान्तर्यामिस्वरूपं पृच्छति ॥ एवमेवैतदिति ॥ 2 ॥ यः पृथिव्यां पृथुं नारायणठ समादायवातिगच्छतीति पृथिवीगरुडस्तस्मिन्‌ तिष्ठन्‌ । पृथिव्यागरुडादन्तरोविविक्तः । यमन्तर्यामिणं पृथिवीगरुडोनवेद यस्य पृथिवीशरीरं तद्वशत्वादेः । न केवलं तत्र स्थितिमात्रं किन्तु योन्तरोबाह्मयापेक्षां विनारमत इति वा रमयतीति वान्तरः । पृथिवीं गरुडं यमयति । एषते आत्मानियामकोऽमृतोनित्योन्तर्यामी । अत्रापि त आत्मेति जीवेश्ऱ्वराभेदव्यावृत्त्यर्थम्‌ । एवमेवोत्तरत्रापि व्याख्येयम्‌ । अत्र पृथिवीशब्देनगरुडभार्यापि ग्राह्या । प्रथितं हरिमादाययातीति पृथिवः स्मृतः । तद्भार्यापृथिवीनामेति वक्ष्यमाणत्वात्‌ । अप्सुवरुणे अग्नौ प्रसिद्धभूताभिमानिनि यद्यप्यग्निशब्देन शाकल्यब्राहमणे अग्रं विष्णुं न येद्यस्मात्सुपर्णोग्निरुदाहृत इति सुपर्णोगृह्यते । तथाप्यत्र पृथिवीशब्देनैवतस्य गृहीतत्वान्नाग्निशब्देन तद्ग्रहणम्‌ । अन्तरिक्षेहरे । वायुपत्नीश्रद्धापि ग्राह्या श्रद्धानामैवतत्पत्नीसर्वस्यान्तर्निरीक्षणात्‌ । अन्तक्षिमिति प्रोक्तेति वक्ष्यमाणत्वात्‌ । वायौमुख्यवायौ सर्वज्ञात्वात्तथायुष्ट्वात्सूत्रात्मावायुरुच्यत इति वक्ष्यमाणत्वात्‌ । दिविसरस्वत्यां उमापि ग्राह्या । द्यौरुमाचसमुद्दिष्येति वक्ष्यमाणत्वात्‌ । आदित्येसूर्ये यद्यपप्यादित्यशब्देनादिकालस्थितोयस्मादादित्यस्तु सदाशिव इत्युत्तरत्र सदाशिवोगृह्यते । तथापि तस्यान्तरिक्षशब्देनैवोक्तत्वान्नतेन तद्ग्रहणम्‌ । दिक्षुदिगभिमानिषु चन्द्रश्ऱ्चतारकाश्ऱ्चचन्द्रतारकं तस्मिन्‌ । चन्द्रः कामः । चन्द्रःकाम उदाहृत इति विवक्ष्यमाणत्वात्‌ । तारकशब्देनेन्द्रः । नक्षत्रमिन्द्र उद्दिष्य इति तारकशब्दपर्यायनक्षत्रशब्देनेन्द्रस्योत्तरत्र ग्रहणात्‌ । नचोत्तरब्रह्मणषपृथिव्यादिशब्दानां गरुडभार्यादिपरत्वेप्यत्र कुतस्तद्ग्रहणमिति वाच्यम्‌ । एवं सति विष्णोस्तदन्तर्यामित्वस्यालाभात्‌ । अत एव तत्र वक्ष्यति । अत्रोक्ता अप्सन्तर्यामिब्राह्मणे भवन्तीति आकाशेविघ्ने । तमसिदुर्गायां तेजसिश्रियां इत्यधिदैवतमिति इत्यनेन प्रकारेणधिदैवतं स्वलोकस्य देवताजातं तदन्तर्यामिनिरूपणं कृतम्‌ । अथाधिदैवतमन्तर्यामिनिरूपणान्तरमधिभूतं भवनाधिकारेस्थितत्वादधिभूतं सर्वजीवजातम्‌ । तदन्तर्यामिनिरूपणं क्रियत इत्यर्थः । सर्वेषु भूतेषु मनुष्यादिजीवेषु । अथाधिभूतमन्तर्यामिनिरूपणान्तरमध्यात्ममात्मानं जीवशरीरमधिकृथ्यवर्तमानमिन्द्रियाभिमानिदेवता जातं तदन्तर्यामिनिरूपणं क्रियत इत्यर्थः । प्राणेघ्राणाभिमानि देवतायां एवं वागादिशब्देनापि तदभिमानिदेवताग्राह्याः । विज्ञानेसर्वजीवाभिमानिचतुर्मुखे । अन्तर्यामिणोमहिमान्तरमाह ॥ अदृष्य इति ॥ सोन्तर्यामी अदृष्यः साकल्येनचक्षुर्गोचरोनभवति । अत्युत्तमत्वात्‌ । द्रष्यशसर्वमापरोक्ष्येणपश्यति अश्रुतः साकल्येन श्रवणेन्द्रियागोचरः श्रोतासर्वं ृणोति अमतोमनोऽगोचरः मन्तासवर्ं मनसामनुते अविज्ञातोविज्ञानागोचरः । विज्ञाता । सवर्ं विजानातीति । अतोऽन्तर्यामिणोऽन्यः स्वातन्त्ऱ्ेण द्रष्यानास्ति । एवमुत्तरत्रापि । कुतोन्योजीवः स्वातन्त्ऱ्ेण द्रष्य्रादिनर्भवतीत्यतस्तस्युदुःखित्वान्नस्वातन्त्ऱ्यमित्याह ॥ अतोन्यदिति ॥ ततः स्वकृतप्रश्ऱ्नोत्तरकथनानन्तरमुद्दालक आरुणिरुपररामह ॥ अन्तर्यामिब्राह्मणम्‌ ॥ 7 ॥ ननु यदिदं सर्वमप्स्वोतञ्च प्रोतञ्चेति कस्मिन्खल्वाप ओताश्ऱ्चप्रोताश्ऱ्चेत्यादिना वा चक्नव्याप्रश्ऱ्नेकृते वायोगार्गीत्यादिना याज्ञवल्क्येन परिहारस्योक्तत्वात्‌ यदूर्ध्वं याज्ञवल्क्यदिव इत्यादि पुनः प्रश्ऱ्नः किमर्थ इत्यतस्तदभिप्रायमाह ॥ पूर्वमिति ॥ सर्वेषां जीवानामित्यनुवर्त्तते । अतः मूलप्रकृतेराधारत्वाधेयत्वयोरश्रुतत्वात्पुनः पृच्छति । सर्वाधारं सर्वाधारप्रकृत्याधारञ्चेति शेषः । पृच्छगार्गीति ब्राह्मणशनुज्ञयाप्रश्ऱ्नकरणेनिमित्तमाह ॥ विजिगीष्विति ॥ गार्गीब्राह्मणानुज्ञयायाज्ञवल्क्यं पृच्छति । अस्याः कथायाःविजिगीषु कथात्वात्‌ गार्ग्याः पूवर्ं पराजितत्वात्‌ । विजिगीषु कथयामेकपराजयेकथायाः परिसमाप्तत्वेन सभ्यानुज्ञां

?Rविनाप्रश्ऱ्नस्याकर्तव्यत्वादिति भावः । ननु याज्ञवल्क्येन ब्राह्मणैः सह

?Rक्रियमाणकथाविद्यापरीक्षशर्थेत्युपक्रमपर्यालोचनयासिद्धम्‌ । विद्यापरीक्षाच वादेनैव । वादेन चोच्चनीचत्वविज्ञानं भवति स्फटम्‌ । इति वादस्य पूर्वत्वमित्यनुव्याख्यानेऽभिधानात्‌ । तथाच विजिगीषु कथात्वादिति कथमुच्यते । तथात्वे जल्पत्वप्राप्त्याविद्यापरीक्षार्तत्वानुपपत्तेरिति चेन्न । विजिगीषु कथात्वे जल्पतवं स्यादिति किं विद्यापरीक्षार्थायाः कथाया जल्पशब्दवाच्यत्वमापाद्यते किंवा वादशब्दवाच्यत्वाभावः यद्वासमाहारूपं कथान्तरं अथवा निमित्तद्वयसमावेशेवादशब्दस्यैव व्यवहारानुपपत्तिः । नाद्यः । जल्पशब्दप्रवृत्तिनिमित्तसत्वेन इष्यत्वात्‌ । नद्वितीयः । तत्वनिर्णयार्थत्वलक्षणवादशब्दप्रवृत्तिनिमित्तसत्वात्‌ । नापि तृतीयः । तुलायां प्रमाणप्रमेयशब्दप्रवृत्तिवदुपपत्तेः । अन्यथातुलाया अपि प्रमाणप्रमेयादितोविधान्तरतापत्तेः । नापि चतुर्थः । निमित्तद्वयसमावेशेपि अस्यां कथाया

?Rं वादशब्दप्रवृत्तिनिमित्तस्यैवमुख्यत्वे न वादशब्दस्यैव व्यवहारोपपत्तेः । कथकौयद्यप्यादितोविजिगीषू तथापि सभ्यादिभिः विजिगीषां परिभाव्योत्पादितातत्वनिर्णयार्थितैव कथोपयोगिनीति वादशब्दप्रवृत्तिनिमित्तं हि मुख्यमिति सुधायामेव जल्प इत्यपि नामस्याद्वादस्यैतादृशस्य त्वित्यनुव्याख्यानव्याख्यानावसरेकथित्वात्‌ । ननु गार्ग्यायाज्ञवल्क्येन क्रियमाणशयाः कथायाः विजिगीषु कथात्वं न युज्यते । गार्ग्यास्तत्स्त्ीत्वेन गोग्रहणनिमित्तमात्सर्यायोगात्‌ । तदीयविद्याधिक्यज्ञानाच्चतद्विजिगीषाभावादित्यत आह ॥ स्वभर्तुरिति ॥ चशब्दोऽवधारणे । आत्मनस्तत्वनिर्णयार्थन्तेषामुपकाराथर्ञ्चेति वा । यद्यपि स्वभर्तुर्याज्ञल्यस्य विद्याबलं जानात्येवगार्गीति न तस्यातद्विजिगीषास्ति । समविद्ययोरेवविजिगीषावत्त्वात्‌ । तथापि यद्ययं मदीयप्रश्ऱ्नोत्तरं प्रयच्छति । तर्हि युष्माकमयं जेतुं न शक्य इति ज्ञापयित्वा तेषां ब्राह्मणानामुपकारार्थं पृप्रच्छ । तथाज्ञापनमेवतेषामुपकार इति यावत्‌ । आत्मनस्तत्वनिर्णयार्थञ्च स्वस्यां विजिगीषाध्यारोपणषन पप्रच्छेत्यर्थः । किञ्च गार्ग्यास्वस्याः पूर्वं पराजितत्वमभ्युपेत्यैवपुनः प्रश्ऱ्नार्थं ब्राह्मणशनुज्ञाप्राप्ता । वस्तुतः तस्याः पराजय एव नास्तीति पुनः प्रश्ऱ्नोयुक्त इत्याशयेनाह ॥ नचेति ॥ युक्त्योपरतत्वं हि पराजयः । नच सायुक्त्यापूर्वमुपरता । अतः पराजयाभावात्पुनः प्रश्ऱ्नोनानुपपन्न इति भावः । तर्हि कथमुपरतेत्यत आह ॥ भार्यात्वादिति ॥ अन्येषामविद्यमानाभीतिरस्याः कुत इत्यत उक्तम्‌ ॥ भायर्ात्वादिति ॥ ननु यदि तत्र भीत्यैवोपरता । तर्ह्यत्र ब्राह्मणेकुतोभगवतोऽन्याधारत्वं न शङ्कनीयमिति प्रश्ऱ्नस्तत्परिहारश्ऱ्च कर्तव्य इत्यत आह ॥ भगवत इति ॥ अथवाकस्मिन्खलु प्रजापतिलोका ओताश्ऱ्चोति प्रश्ऱ्नेब्रह्मलोकेषु गार्गीतिवत्‌ कस्मिन्खल्वाकाश ओतश्ऱ्चप्रोतश्ऱ्चेति प्रश्ऱ्ने एतस्मिन्खल्वक्षरेगार्गीत्येवोक्तम्‌ । तत्र पूर्वं भगवतोन्याधारत्वं न शङ्कनीयमित्यनुक्तत्वात्‌ कस्मिन्खलुब्रह्मलोका ओतश्ऱ्चप्रोताश्ऱ्चेति प्रश्ऱ्नः कृतः अत्र तु अनतिप्रश्ऱ्नयावैदेवतामति पृच्छसीति भगवतोन्याधात्वं न शङ्कनीयमित्यनुपदमुक्तत्वेन तदक्षरं कस्मिन्नोतञ्च प्रोतञ्चेति प्रश्ऱ्नमकृत्वैवोपरतेत्येवविशेषः । युक्त्यनुक्तेरुभयत्राविशिष्यत्वात्‌ । तथाच किमुच्यते पूर्वं भीत्यैवोपरतेति तत्राह ॥ भगवत इति ॥ अन्याधारोयस्यसः अन्याधारःतस्य भावः अन्याधारत्वम्‌ । युक्तित एवेति । भगवान्‌ अन्याधारकोनभवति सर्वाधारप्रकृत्याधारत्वात्‌ । व्यतिरेकेणदेवदत्तवदिति युक्तिनः । नतु पूर्ववदित्यत्रापि भगयदर्शनेनेत्यर्थः । नचात्र सर्वाधारेति प्रकृति विशषषणठ व्यर्थमिति वाच्यम्‌ । यदि विष्णोरन्याधारः स्यात्तर्हि विष्ण्वाश्रितायाः प्रकृतेः विष्ण्वाधाराश्रयत्वासम्भवेन विष्णुः स्वव्यतिरिक्तसर्वाधात्वं न स्यादिति विपक्षेबाधकतर्कसूचकतयाऽप्रयोजकत्वशङ्कापरिहारार्थत्वात्‌ । भगवतोऽन्याधारत्वाभावेयुक्त्यन्तरमाह ॥ नान्यदिति ॥ भगवतोऽन्याधात्वं निवारितं इति सम्बन्धः । यदि भगवानन्याधारकः स्यात्‌ तदातस्यैवाधारभूतस्य स्वतन्त्रद्रष्युः सत्वेननान्यदतोस्तिद्रष्य्रित्यादितन्निषेधोऽयुक्तः स्यादित्यर्थः । उपसंहारस्योपक्रमापेक्षयाप्राबल्येनोपसंहारवाक्योक्तयुक्तीरुक्त्वोपक्रमवाक्योक्तयुक्तीराह ॥ अस्थूलत्वादीति ॥ पूर्ववत्सम्बन्धः । स्वत इति शेषः । तेनास्थूलत्वस्य हेतुत्वे सूक्ष्मपदार्थेऽसूक्ष्मत्वस्य हेतुत्वे स्थूलपदार्थेश्रीतत्वेवानव्यभिचारः । विजिगीषु कथात्वादित्युक्तं तत्र कथास्वरूपजिज्ञासायां तत्प्रपञ्चनार्थं उत्तरोग्रन्थसन्दर्भः तत्रादौ कथां विभगेनोद्दिशयति ॥ वाद इति ॥ तत्वनिर्णयैकप्रयोजनत्वेनाभ्यर्हितत्वाद्वादस्य प्रथममुद्देशः । उभयसाधनवत्तयासदधिकारितया च वादसाम्यात्तदनन्तरं जल्पस्य । परिशेषाद्वितण्डायाः । कथकभेदनकथानन्त्यात्तत्तल्लक्षणोपाधिक्रोडीकृतराशित्रयविवक्षयात्रित्वमिति दर्शयितुं त्रिविधेति धाल्‌प्रयोगः । ननु सामान्यलक्षणाभिधानेन विनाकथं विभागोद्देशावसरः । अवच्छेदकैक्येनैक्यमापन्नहिवस्तु विभज्योद्देष्यत्वम्‌ । अथ कथाशब्दं वाक्यप्रबन्धेव्युत्पादितं सिद्धवत्कृत्यनपृथक्‌ सामान्यलक्षणमुच्यत इति चेत्‌ । न । तर्हि भारतादीनामपि वाक्यप्रबन्धत्वेन कथात्वात्कथं कथात्रैविध्यम्‌ । नहि तानि वादादिष्वन्तर्भवन्तीत्यतः सामान्यलक्षणमाह ॥ विदुषामिति ॥

?Rननु विदुषामिति कथं बहुवचनम्‌ । वादेबहूनामप्यधिकारादिति चेन्न । नियामकाभावात्‌ । जल्पवितण्डयोर्द्वयोरेवाधिकाराच्चेति

?Rचेन्न । अनन्तासुकथासुप्रत्येकं वादित्वप्रतिवादित्वावच्छिन्ना अनन्ता इत्यभिप्रेत्यबहुवचनप्रयोगात्‌ । एतदभिप्रायेणैवकथालक्षणटीकादौ विदुषामिति जातौबहुवचनमित्युक्तम्‌ । अत्र कथाशब्द आवर्तनीयः । तत्रैकोढ्यालक्ष्यपरः । अपरस्तुयोगेनवाक्यप्रबन्धपरः । विचारगोचरेत्युपस्कर्तव्यम्‌ । तेनानेकविद्वत्कर्तृकविचारगोचरवाचकप्रबन्धः कथा । सावादादि भेदेनत्रिविधेत्युक्तं भवति । अत्र वैदुष्यं कथामहावाक्याथर्निर्वाहकत्वम्‌ । अनेन स्वस्थः सर्वजनप्रत्यायनावलम्बीसावधानः अकलहकारश्ऱ्चेत्यादयः कथकादर्शिताः । पूर्वोत्तरपक्षबलारबलचिन्ताविचारः । अत्रानेकवक्तृकेभ्योव्युदासः । वैदुष्योक्तयाकलहादिभ्यः विचारगोचरत्ववचनेन विदुषामन्योन्यं सुखव्यवहारेभ्यः कथायाथात्म्यविदुषां मतेन त्रिविधेति वा । तेनैक एव कथामार्ग इति बाह्याः (बौद्धाः) । वादवितण्डेद्वेएवेति श्रीहर्षः । वादोजल्पोवादवितण्डाजल्पवितण्डाचेति चतस्रः कथा इति गौडनैयायिकाः । तेसमस्तानिरस्ताभवन्ति । तत्र यथोद्देशं वादलक्षणमाह ॥ केवलमिति ॥ अत्र केवलं तत्वविज्ञानमुद्दिश्यकथावाद इत्यकं लक्षणम्‌ । तत्वं प्रमाणप्रमितं वस्तु तस्य विज्ञानमज्ञातज्ञानं संशयविपर्ययव्युदासोऽभ्यनुज्ञानेन दृढीकरणञ्चेति त्रिविधम्‌ । अत्र तत्वविज्ञानहेतुः कथावाद इत्येवोक्ते जल्पविशेषेऽतिव्याप्तिः स्यात्‌ । तथाहि । यदाहिख्यात्याद्यर्थयमानौ विजिगीषूसद्भयामेव साधनदूषणाभ्यां स्वपरपक्षसाधनोपालम्भौकुर्वाते स जल्पोपि भवति तत्वविज्ञानहेतुः । नह्यसदेवजल्पेवक्तव्यमिति नियमः । प्रतयमानसदति क्रमेकारणाभावात्‌ । किं नामसदपरिस्फूतर्ौनिश्रिचतपराभवात्‌ वरं पाक्षिकविजय इति मन्वानोऽसदप्युपदत्ते । नच सत्साधनं तत्वविज्ञानं न जनयतीति युक्तम्‌ । व्याघातात्‌ । अतस्तत्रातिव्याप्तिपरिहारायोद्दिश्येत्युक्तम्‌ । नहि तत्वनिर्णयहेतुरपि जल्पः तदुद्देशेन क्रियते । तत्वविज्ञानमुद्दिश्यकथावाद इत्येवोक्तेवितण्डाविशेषतिव्याप्तिः । तथाहि । यदि स्वयमध्यवसितार्थः कारुणिकतयापाषण्डिप्रसञ्जितौ लोकस्य संशयविपर्ययौ पराकर्तुं तद्विजिगीषयावितण्डामारभते सापि तत्वविज्ञानमुद्दिश्यकथाभवत्येव । अतस्तत्रातिप्रसङ्गपरिहारायकेवलमित्युक्तम्‌ । ननु याकथा लोकसंशयविपर्ययनिरासङ्खयात्यादिकं चोद्दिश्यप्रवर्तते । ततो नेनव्युदासोभवेत्‌ । यातु केवलं संशयाद्यपाकरणशर्थैव कथं ततो व्यावृत्तिः । केवलं तत्वनिर्णहेतुः कथावाद इत्येतावतैवसदुपायजल्पव्यवच्छेदसिद्धेरुद्देशग्रहणञ्च व्यर्थं स्यादिति चेन्न । केवलशब्दस्य साक्षशदर्थत्वात्‌ । नहि कापि वितण्डसाक्षात्तत्वनिर्णयं करोति । किन्तु परपराभवद्वारैव । विवक्षितकेवलशब्दार्थस्य सदुपायजल्पेपि सत्वेन तद्वयवच्छेदायोद्देशग्रहणस्यापि सार्थकत्वात्‌ । ननु कथकगततत्वविज्ञानविवक्षयालक्षणेव्याख्यातेवितण्डायां प्रसङ्ग एव नास्तीति केवलग्रहणमनर्थकमिति चेन्न । तथात्वे यदाविदिततत्वावदुष्यमनसौपरप्रार्थितौ कथां कुरुतस्तस्यां वादकथायामवाप्त्यापत्तेः । द्वयोस्तत्वविज्ञानितयातदुद्देशित्वाभावादिति । निर्दुष्यमनसांकथावाद इत्यपरं लक्षणम्‌ । निर्दुष्यमनसश्ऱ्च प्रकृतोक्तिका अविप्रलम्भका यथाकालस्फूर्तिका अनपेक्षकाः प्रमाणसिद्धसम्प्रत्यायिनश्ऱ्चेत्यादयः । एवं भूताश्ऱ्चगुरुशिष्यादय एव प्रायेणेति त एव दर्शिताः । गुरुशिष्ययोरन्ययोः सखिसब्रह्मचारिणोरिति वादेजल्पादिवत्‌ एक एव वादीप्रतिवादीचेति नियमोनास्तीति दर्शयितुं बहूनां वेत्युक्तम्‌ । सखिसब्रह्मचायर्ादीनामित्यर्थः । सद्भिरित्युच्यत इत्युक्त्यास्वोक्तलक्षणस्य प्रामाणिकत्वमुक्तम्‌ । ननु वादस्य जयहेतुत्वमप्यस्तीति केवलतत्वविज्ञानहेतुत्वाभावादसम्भवाद्यं लक्षणमित्यत आह ॥ वादे आर्थिकजयेसति किं स्यादित्यत आह ॥ विजय इति ॥ अन्येषां पराजितानां संवादं कुर्वतां जयिनः शिष्‌यतास्यात्‌ । जयिनः पूजा चशब्देन गुरुत्वञ्च । यदायदाजयस्तदातदापूजादिकार्यमेवेति भावेनसदेत्युक्तम्‌ । ननु विजयेशिष्यतान्येषामित्याद्युक्तं अयुक्तम्‌ । वादिप्रतिवादिनोरन्यतरविजयमात्रेणवादावसानाभावात्‌ । तत्वनिर्णयार्थस्य वादस्य तस्मिन्सत्येवावसनात्‌ । एकपराजयमात्रेणकथानिवृत्तौ पुनस्तस्यैवान्येषां वासाधनान्तरादिस्फुरणषन सन्देहावस्कन्दनेतत्वनिर्णयाभावादित्यत आह ॥ पुनश्ऱ्चेति ॥ यत्‌ यदि तेषशं पराजितानाम्‌ । उपलक्षणमेतत्‌ । अन्येषां चेत्यपि ग्राह्यम्‌ । तस्यापि संशयस्यापि । ननु तेषामिति सामान्येनोक्तेः स्वयमेवसंशयनिराकरणसमर्थस्यापि संशयवारणं जयनिकर्तव्यं किमित्यत आह ॥ अशक्तस्येति ॥ अधिकादितिल्यब्लोपनिमित्तापञ्चमी । स्वतोधिकं विहाय । संशयनिवारणाशक्तस्य संशयवारणं जयिनाकर्तव्यमिति सम्बन्धः । तथाच निस्सन्दिग्धतया तेनैवान्येषां तत्वविनिर्णयेन कथावसानेऽन्येषां तच्छिष्यत्वादिकमिति भावः । भवतु यदा एकेनैवाऽपरस्य तत्वनिर्णयस्तदातस्य गुरुत्वमपरस्य शिष्यत्वम्‌ । यदातु एकमेवतत्वं परस्परं निर्णीयते तदाकथमित्यत आह ॥ अन्योन्येति ॥ चेत्‌ यदि । तदाते सब्रह्मचारिण एवस्युः नतु गुरुशिष्यभावोपेता इत्यर्थः ।ननु विप्रतिपन्नप्रमेये प्रतिवादिनाप्रमाणे पृष्येवादिनाकिं प्रमाणं वक्तव्यम्‌ । यत्र यदस्तितत्र

?Rतदेवेति चेत्‌ सत्यम्‌ । प्रमाणसम्प्लवेकथं किं सर्वमेवोतेकमेव तत्रापि किमित्यपेक्षायामाह ॥ पृष्येनेति ॥ शुभमेवमानं

?Rवक्तव्यं तस्यैवसाध्यसाधकत्वादिति भावः । किं तच्छुभमशुभं चमानं यस्य वादेप्रयोगाप्रयोगनियम इत्यत आह ॥ वेदा इति ॥ स पञ्चरात्रमीमांसाश्ऱ्चेति चशब्दसम्बन्धः । सेतिहारसपुराणकाः स पञ्चरात्रमीमांसाश्ऱ्चसर्वेवेदाः शुभंमानम्‌ । अपौरुषेयत्वेन पुरुषदोषनिबन्धनदोषशून्यत्वात्‌ इतिहासादीनां च इतिहासपुराणः पञ्चमोवेदानां वेद इति वेदेनैववेदसमानतयागृहीतत्वात्‌ । स्मृतयश्ऱ्चतदनन्तरं शुभं मानं वेदसंवादित्वेनैवतस्य प्रामाण्यादित्यर्थः । अत्र सेतिहासपुराणकाः स पञ्चरात्रमीमांसा इति साहित्योक्त्या इतिहासादीनां वेदार्थनिर्णायकत्वमप्यस्तीति सूचितम्‌ । यथोक्तम्‌ । इतिहासपुराणाभ्यां वेदं समुपबृंहयेदिति । तदन्यत्तुदुरागमः । ननु प्रत्यक्षानुमानेकिं शुभमशुभं वा । नाद्यः । वेदाद्यागमस्यैवशुभमानत्वोक्तेः । वेदादिवन्निर्दोषत्वनियमाभावाच्च । नद्वितीयः । तथासति तस्याऽप्रमाणत्वप्रसङ्गादित्यत आह ॥ मिश्रमिति ॥ तुशब्दःप्रत्यक्षानुमानयोरागमाद्विशेषद्योतकः । प्रत्यक्षानुमानेतु मिश्रं मानम्‌ । वेदाद्यागममात्रस्य प्रमाण्यनियमवत्‌ दुरागममात्रस्याप्रामरण्यनियमवच्चप्रत्यक्षानुमानमात्रस्य प्रामाण्याप्रामाण्यनियमाभावादिति । ननु परश्ऱ्चज्ञक्षुराद्येकप्रमाणकेकेवलानुमानविषयेचार्थेप्रमाणं पृच्छेत्‌ । तदाऽपरेणकिन्तूष्णीमासितव्यं किं वा प्रत्यक्षादिकमेववक्तव्यम्‌ । आद्येसाध्यासिद्धिः । द्वितीयेशुभमेवमानं वक्तव्यमिति नियमभङ्गः । वेदाद्यागमस्यैव शुभमानत्वोक्तेरित्यत आह ॥ अक्षानुमानेतु ग्राह्ये इति ॥ तुशब्दार्थः । ग्राह्ये तदेकप्रमाणकेप्रमाणप्रश्ऱ्ने । तत्साधकत्वेनेति शेषः । नचोक्तविरोधः । प्रमाणसम्प्लव एवागमनियमस्योक्तत्वादिति भावः । न केवलमेतदर्थमेवप्रत्यक्षानुमानेग्राह्ये । किन्तु साध्यसिध्यर्थमागमेवादिनाप्रयुक्तेप्रतिवादिना च तस्यान्यार्थेऽभिहिते वादिनापि मदुक्तएवार्थोननत्वदुक्त इत्युक्तेवाक्यार्थविप्रतिपत्तौ सत्यां तन्निर्णयेचेत्याशयेनोक्तम्‌ ॥ शब्दार्थनिर्णय इति ॥ चशब्दार्थकतुशब्दस्यात्रापि सम्बन्धः । एतदभिप्रायेणैवप्रक्‌ प्रथममित्युक्तम्‌ । प्रकृताक्षशनुमानयोः लक्षणमाह ॥ अदुष्यमिति ॥ येनोपहतमिन्द्रियादिकं ज्ञानं नजनयति विपरीतज्ञानञ्चोत्पादयति तद्रहितमदुष्यम्‌ । इन्द्रियमिति ज्ञानेन्द्रियमेवगृह्यते प्रमाणप्रकरणत्वात्‌ तुशब्दोविशेषार्थः । सेति कर्तव्यताकं कारकं करणम्‌ । करणविशेषश्ऱ्चात्रप्रत्यक्षादिकमेवेति । यद्यपि प्रत्यक्षस्यैव लक्षणं वक्तव्यं तथापि अत्र करणधर्मिणः प्राधान्यात्प्रत्यक्षधर्म्यक्षमेवनिरूपितम्‌ । पूर्वं तु व्यापारप्राधान्यविवक्षयानिर्दोषेन्द्रियसंयोग इत्युक्तम्‌ । तथा अदुष्योपपत्तिरनुमा । ननु अभावार्थापत्यादीनामपि मिश्रप्रमाणान्तराणां सत्वात्कथमक्षानुमानेमिश्रं मानमित्युक्तमित्यत आह ॥ अनुमैवेति ॥ अभावाख्यस्त्वितितुशब्दसम्बन्धः । सच प्रत्यक्षाद्यन्तर्भूताऽभावप्रमाणापेक्षयाविशेषद्योतकः । यद्वातुशब्दश्ऱ्चशब्दार्थः । तेन प्रत्यक्षादिकं समुच्चिनोति । एवकारः पृथक्‌ प्रमाणत्वव्यावर्तकः । तथानुमैवेत्यर्थः । अभावप्रमाणादेरनुमान एवान्तर्भावः कुत इत्यत आह ॥ उपपत्तीति ॥ वादिभिः पृथक्‌ प्रमाणत्वेनाङ्गीकृता अपि । ते अभावप्राणादयोयद्यस्मादुपपत्तिभेदा उपपत्तिविशेषाः व्याप्तिमपेक्ष्यार्थगमका इति यावत्‌ । तस्मादनुमैवेति सम्बन्धः । भावानुपलब्धिर्ह्यभावप्रमाणमङ्गीक्रियते साप्यर्थेलिङ्गमेवनपृथक्‌ प्रमाणं कुतः । नह्यनुपलब्धिमात्रमभावगमकमङ्गीक्रियते । किन्तु योग्यानुपलब्धिः तत्र वक्तव्यं योग्यस्यानुपलब्धिरिति कस्मादुच्यत इति । अनुपलब्धिमात्रस्य व्यभिचारादिति चेत्‌ । तत्किंयोग्यानुपलब्धिरभावाव्यभिचारिणी । बाढमितिचेद्धंततर्हिव्याप्तिसापेक्षार्थं गमयतीत्यङ्गीकृतमित्यनुमानत्वमेव । अर्थापत्तिर्हिअन्यथानुपपत्तिसापेक्षा । साच केनाचिद्विनाकस्यचिदसंभवः । असम्भवश्ऱ्चनतदावदनुत्पत्तिः । बहिभः भावादिनापिगृहाभावादेरजन्यत्वात्‌ । अतो नवस्थानमेवासम्भव इति वाच्यं तस्य च व्याप्त्यपेक्षासर्वथाङ्गीकार्या । केनचिद्विनाकस्य चिदनवस्थानस्य तयोः व्वाप्तिसापेक्षतयार्थगमकत्वात्‌ उपमानस्याप्यनुमानत्वमेवेति । आगमलक्षणमाह ॥ वाक्यमेवेति ॥ B-21

?Rशुभंनिर्दुष्यम्‌ । वाक्यमेवागमः । चेष्याव्यावृत्त्यर्थमेवकारः । तेनचेष्यासङ्ग्रहायसमयबलेनसम्यक्‌ परोक्षानुभवसाधनमागम इति भासर्वज्ञोक्तं निरस्तम्‌ । आगमशब्दस्य वाक्य एव रूढत्वात्‌ चेष्यायाश्ऱ्चानुमानेऽन्तर्भावात्‌ । विजयेशिष्यतान्येषामिति वादेपराजितानां शिष्यत्वमुक्तम्‌ । तत्रकःपराजयहेतुरित्यतः प्रसङ्गात्‌ सर्वकथासुपराजयनिमित्तमाह ॥ तत्त्वनिर्णयेति ॥ तत्त्वनिर्णयवैलोम्यं वादिप्रतिवादिभ्यामभिलषितस्य तत्त्वनिर्णयस्ययावद्वैलोम्य विरुद्धवचनमावरणं वा तत्सर्वं पराजयः पराजयहेतुर्वाद इति शेषः । विरोधिते संवादः पराजयः पराजयहेतुः । जल्पवितण्डयोरिति शेषः । वाशब्दोव्यवस्थितविभाषायाम्‌ । अत्र संवाद इत्येववक्तव्येविरोधिते संवाद इति वचनं संवादलक्षणकथनार्थम्‌ । विरोधिते विप्रतिपन्नेप्रमेये संवादोऽङ्गीकारः संवाद इति । उपलक्षणमेतत्‌ । विरोधासङ्गत्यादिकमपि ग्राह्यम्‌ । परपरिगणितनिग्रहस्थानेषु

?Rप्रथमं प्रतिज्ञाहान्यन्तर्भावाधिकरणत्वेन संवादस्य स्ववलचनेन ग्रहणम्‌ । इति प्रोक्तः प्रामाणिकैरिति शेषः । तेन

?Rपरोक्तमाश्रयासिध्यादीनां पराजयहेतुत्वमसदित्युक्तं भवति । तत्त्वनिर्णयवैलोम्यं वादेवाक्षात्पराजयः । विरोधासङ्गतिन्यूनतूष्णीं भावादिकैर्जितः । भवेज्जल्प इति कथालक्षणानुसारेणैवं व्याख्यातम्‌ । यद्वोत्तरग्रन्थानुसारेणतत्त्वनिर्णयवैलोम्यशब्देनार्थदोषयोः विरोधासङ्गत्योस्तत्त्वनिर्णयविरोधिशब्ददोषयोर्न्यूनाधिकयोश्ऱ्चग्रहणम्‌ । विरोधिते संवाद इत्यनेन वक्तृदोषसंवादग्रहणम्‌ । चशब्दार्थकवाशब्दानुक्तिसङ्ग्रहः । अर्थलाभादिकं यथा जल्पवितण्डयोरसाधारणं न तथापराजय इत्याह ॥ सम इति ॥ चशब्द अभिव्याप्त्यर्थकापि शब्दार्थः । ननु वादादिकथासुतत्त्वनिर्णय वैलोम्यादिकं प्राप्तवतः किं कार्यमित्यत आह ॥ तत्त्वनिर्णयेति ॥ तत्त्वनिर्णय वैलोम्येप्राप्तेपि यदि मतिमान्‌ च्छलादिनातत्र संवादं न करोति तदावादकथास्वपिदण्ड्यः किमुवक्तव्यं जल्पवितण्डयोर्विरोधादिनिग्रहस्थानं प्राप्तेन संवादाकरणे सदण्ड्य इतीत्यर्थः । केन दण्ड्य इत्यत आह ॥ गुरुणैवेति ॥ यदि वादकथासुतत्त्वनिर्णयवैलोम्यं प्राप्तोगुरुवश्यः संवादं न करोति तदागुरुणैवदण्ड्यः । नतु राज्ञा उपलक्षणमेतत्‌ । जल्पवितण्डयोः प्राश्ऱ्निकादिनैवोक्तविधोवादीप्रतिवादीवादण्ड्य इत्यपि ग्राह्यम्‌ । तदवश्यानां कथमित्यत आह ॥ अवश्यानामिति ॥ वादकथायां सभापतेरनङ्गत्वेपि गुरुणाराजानं प्रत्युक्त्वास्वावश्यानां तेन दण्डः कारयितव्य इति भावः । यथोक्तम्‌ । गुरुरात्मवतां शास्ताशास्ताराजादुरात्मनामिति । गुरुदण्डोराजदण्डश्ऱ्चकीदृश इत्यत आह ॥ गुरुदण्ड इति ॥ अर्थहेतुः । अर्थापहारदेहताडनादिना । वाचैवगुरुदण्ड इति न नियम इत्याह ॥ गुरुदण्डपीति ॥ न केवलं राजदण्डोर्थतः । किन्तु गुरोरर्थग्रहणविषयेशिष्यस्य संवादेगुरुदण्डोपिशब्दार्थः । न केवलं गुरुदण्डोवाचा किन्तु अर्थतोपीति वा सम्बन्धः । व्रततःउपवासादिलक्षणव्रतत इत्यर्थः । अर्थतोगुरुदण्डेयथा संवादापेक्षानियमस्तथाराजदण्डे न संवादापेक्षानियम इत्याह ॥ राजदण्ड इति ॥ चशब्दःसंवादसमुच्चायकः । अल्पमात्रेदोषेकृतेकिं सर्वोप्युक्तविधोदण्डः कर्तव्यः नेत्याह ॥ दोषस्येति ॥ तत्त्वनिर्णयवैलोम्यादिकं प्राप्तोयदि संवादं करोति तदा किं कार्यमित्यत आह ॥ संवाद इति ॥ आदिपदेन वितण्डाग्रहणम्‌ । चशब्दःकिमुवादकथायामिति कैमुत्यद्योतकापि शब्दार्थः । वितण्डायां यदि वादीपराजितोसंवादयित्वातत्वविप्लवंकरोति तस्य सभापतिनाकर्तव्यविशेषमाह ॥ तत्त्वविप्लवेति ॥ काकांकंकृत्वेति शेषः ।कस्तत्वविप्लव इति जिज्ञासायामाह ॥ अन्यसाम्यमिति ॥ तद्भक्तेविर्ष्णुक्तेः सकाशात्‌ । अन्यस्य इतरदेवताभजनादेः धर्मत्वमित्यर्थः । तत्त्वविप्लवकर्तृणां सर्वेषां वर्णानामप्युक्त एव दण्डः किमितिजिज्ञासायां विशेषमाह ॥ तत्त्वविप्लावकमिति ॥ एवं सकतायां वितण्डायां मूलपक्षग्रहापेतेति लक्षणं वक्तुं तदुपयुक्तमाह ॥ स्वसिद्धान्त इति ॥ उभाभ्यामिति शेषः । ननु वादेपरसिद्धान्तदूषणं केन कार्यं स्वसिद्धान्ते च किं प्रमाणं वक्तव्यमित्यत आह ॥ अवाक्येति ॥ परसिद्धान्तदूषणं हि परोपन्यस्तप्रमाणदूषणं परोपन्यस्तं च प्रमाणं यदि वाक्यरूपं तदातस्यान्यार्थत्वमेव वक्तव्यम्‌ नतु तर्कात्‌ । वाक्याप्रामाण्यलक्षणं दुषणं वेदादिरूपवाक्यस्यापौरुषेयत्वादिनाप्रामाण्यनिश्ऱ्चयात्‌ । यथोक्तम्‌ । अन्यार्थ एवागमस्य वक्तव्यः प्रतिवादिनेति । वाक्यभिन्नमनुमानादिकं चेत्परोपन्यस्तं तदातस्य दूषणं आभासत्वव्युत्पादनं तर्कात्‌ प्रतिपक्षानुमानादेरित्यर्थः । यद्यपि पृष्येन प्रथमं मानं वक्तव्यं वादिनाशुभमित्युक्तं तथापि तत्रावधारणाभावादत्र च तत्सद्भावान्नपुनरुक्तिः । प्रमाणसम्प्ल एवेदं द्रष्यव्यम्‌ । तर्हि अवाक्यदूषणं तर्कादित्यनुपपन्नम्‌ । वादिनास्वपक्षस्थापनाय वाक्यभिन्नप्रमाणस्यावक्तव्यत्वेन प्रतिवादिनस्तद्दूषणप्रसक्तेरेवाभावादित्यत आह ॥ वाक्यतात्पर्येति ॥ ननु प्रमाणसम्प्लवेयदि आगमादेवसाधनं कर्तव्यं तर्हि तत्र तर्कादेः सर्वथोपयोगः किं नास्तीत्यत आह ॥ वाक्यतात्पर्येति ॥ यदावादिनाप्रतिवादिनावास्वपक्षस्थापनायागमेभिहिते तस्य परेणान्यार्थत्वोक्तौ त्वदुक्त एवार्थोनमदुक्त इत्यत्रकिं नियामकमित्याशङ्कायां स्वस्वाभिमतार्थेवाक्यस्य तात्पर्यं ज्ञापयितुं अन्यद्वाक्यभिन्नमुपपत्त्यादिरूपं मानमिष्यते । तद्दूषणं च तर्कादिनाकर्तव्यम्‌ नचान्यथा आदावेवविप्रतिपन्नप्रमेये अन्यन्मानं नैववक्तव्यमित्यर्थः । नन्वेवं वादजल्पयोः भेदोनस्यादित्यतो जल्पलक्षणमाह ॥ सतोरेवेति ॥ यदा सतोस्तत्वज्ञानयोग्ययोः स्वभावतः स्पर्धाशून्ययोः । गुणतोयोग्यताधिक्यादिगुणैः स्पर्धैव स्पर्धानिमित्तकपरपराभवमात्रोद्देशस्तदायाकथासजल्पः समुद्दिष्यः । अर्थार्थमेव अथर्ोद्देशेनैव वा याकथा सजल्प इति योज्यम्‌ । अर्थार्थमिति ख्यात्याद्युपलक्षणम्‌ । एवशब्देन तत्त्वनिर्णयव्यवच्छेदः । ननु परपराभवार्थख्यात्यादीनिसमस्तानिव्यस्तानिवोद्दश्यानि । नाद्यः । एकैकोद्देशेन प्रवृत्तकथाऽव्यापनात्‌ । नद्वितीयः परस्पराव्याप्तेः । मैवम्‌ । तत्त्वनिर्णयातिरिक्तफलोद्देशेनसतोः कथाजल्प इति लक्षणार्थत्वात्‌ । यथोक्तम्‌ तत्वाप्रकाश एवैकोवितण्डाजल्पयोः फलमिति । फलान्तरञ्च परपराभवादिकमिति तद्ग्रहणम्‌ । सतोः कथावादोपि भवतीति सद्वयुदासायस्पर्धाद्युक्तिः । वादविशषषोप्यानुषङ्गिकख्यात्यादिहेतुः भवतीति तद्वयुदासायोद्दशग्रहणम्‌ । वितणडाव्यावृत्त्यर्थं सतोरित्युक्तम्‌ । किञ्च वादेगुरुशिष्यादयोऽसमानविद्या अपि अधिक्रियन्ते ।

?Rतत्त्वनिर्णयार्थित्वात्‌ । जल्पे तु सम्भावितसमानविद्ययोरावाधिकारः । ययोरेवसमं वित्तययोरेवसमं श्रुतम्‌ । तयोः

?Rविवाहोवादश्ऱ्चनोत्तमाधमयोः क्वचिदिति स्मरणात्‌ । वादोजल्पवितण्डालक्षणः । अन्यथा अत्यन्ताप्रकृष्योपि उत्कृष्यतमेनवैयात्यात्‌ घटमानोयदि दैवात्तमभिभावयेत्‌ । यदि वावृथाख्यातिं लभेत तदाप्राश्ऱ्निकादीनामज्ञत्वं प्रत्यवायश्ऱ्चस्यात्‌ । अपूज्यः पूज्यते यत्रेत्यादिवचनात्‌ । एवञ्च वादाज्जल्पस्य भेदसिद्धिरिति वक्तुं तत्रादौ परबुद्धेरप्रत्यक्षत्वेनविद्यासाम्यादेः ज्ञातुमशक्यत्वात्कथं विद्यासाम्यादिनिश्ऱ्च इत्यत आह ॥ तत्रेति ॥ तत्र जल्पे । तयोः जल्पार्थिनोः विद्यां परीक्षयेदित्यर्थः । जल्पलक्षणपर्याललोचनयापि तत्र विद्यापरीक्षणमावश्यकमिति भावेन तस्य लक्षणान्तरमाह ॥ विद्येति ॥ विद्यापरीक्षापूर्वाकारणभूतायस्याः सातथोक्ता । हिशब्दोहेतौ । तस्मात्तत्र विद्यां परीक्षयेदिति सम्बन्धः । सतोः कथासत्कथा । वादव्यावृत्त्यर्थं विद्यापरीक्षापूर्वेति । वितण्डाव्यावृत्त्यर्थं सतोः कथेति । उच्यते प्रकामाणिकैरित्यनेन जल्पनिराकरणोपपत्तेराभासत्वमभिप्रैति । विद्यां परीक्षयेदित्युक्तं तत्र केपरीक्षणकाः किं लक्षणकाः कियन्तश्ऱ्चेति जिज्ञासायामाह ॥ सर्वज्ञा इति ॥ परीक्षकास्तुप्राश्ऱ्निका इति सम्बन्धः । सर्वज्ञा इति वैष्णवा इति प्राश्ऱ्निकानां लक्षणम्‌ । सर्वज्ञशब्देन वाप्रतिवादिदर्शनस्य कथोपयुक्त व्याकरणादेश्ऱ्चसम्बन्धः । तदज्ञत्वेऽपसिद्धान्ताद्युद्भावनेन निर्णयोनस्यात्‌ । वैष्णवाविष्णुभक्ताः । अन्यथाकथकसदसद्भावाविवेकेन कथाव्यवस्थापनाद्ययोगात्‌ । रागद्‌षविहीना इत्यपि ग्राह्यम्‌ । रागित्वेऽसंतमपि पक्षं सन्तं ब्रूयुः । द्वेषित्वेसन्तमप्यसन्तं ब्रूयुरिति । अत एवोभयसम्मताः त्रय इत्यपि ग्राह्यम्‌ । यथालब्धा अधिका विषमसङ्खयाकाः विषमसङ्खयाकत्वे हि तेषामेवपरस्परविरोधे बहूनां संवादेन निर्णयः स्यात्‌ । यथोक्तं द्वैधेबहूनां वचनमिति । उपलक्षणमेतत्‌ । अशेषसंशयच्छेत्तानिः संशय उदारधीः । एकोपि प्राश्ऱ्निको ज्ञेयः । परीक्षिकेषु प्राश्ऱ्निकशब्दं निर्वक्तिः ॥ उभयोरिति ॥ वादिप्रतिवादिनोः उभौप्रतीति यावत्‌ । प्रश्ऱ्नशब्दात्तत्र नियुक्त इत्यर्थेठकिकृते तस्येकादेशे कितिचेतिवृद्धौ यस्येति चेति अकारलोपेप्राश्ऱ्निका इति रूपं निष्पन्नम्‌ । ननूक्तविधप्राश्ऱ्निकानामभावेकोदोष इत्यत आह ॥ तदभाव इति ॥ उक्तप्राश्ऱ्निकाभावेवादिप्रतिवादिनौ पृथग्जनेमूर्खऽविद्यमानमपि गुणोद्रेकं दर्शयेताम्‌ । ततश्ऱ्च विद्यासाम्याद्यनिश्ऱ्चयेन जल्पप्रवृत्तिरेवनस्यादित्यर्थः । एवं यदर्थं विद्यां परीक्षयेदित्युक्तं तदाह ॥ विद्यासाम्य इति ॥ कथाजल्पलक्षणा । अन्यथा विद्यावैषम्ये एकस्य विद्याहीनस्य पराजयः विद्याहीनः पराजितोपि यद्युच्चेन सह प्रतिवादित्वेच्छयातच्छिष्यत्वं न प्राप्नुयात्‌ तदातस्य कर्तव्यमाह ॥ विद्योन इति ॥ यथावादेतत्त्वनिर्णयोद्देशेन प्रवृत्तेविद्योनोयद्युच्चस्य शिष्यतां न ब्रजेत्‌ । तदादण्ड्यस्तथात्रापि । पश्ऱ्चात्‌ परीक्षानन्तरं निश्ऱ्चितविद्योनोयद्युच्च्यस्य शिष्यतां न व्रजेत्तदादण्ड्य इति सम्बन्धः । विद्यासाम्येकथाकार्येत्युक्तं ततः किमित्यतोवादाज्जल्पस्य भेदसिद्धिति भावेनाह ॥ एवमिति ॥ जल्पः एवं सम्भावित समानविद्याधिकारिकः प्रकीर्तितः । वादस्तुनैवम्‌ । अतश्‌चतयोः भेदसिद्धिरिति भावः । वादात्‌ जल्पस्य भेदकान्तरमाह ॥ अर्थेति ॥ वादेत्वितितुशब्दसम्बन्धः । वादे एकस्य जयेपि पराजितेन पुनः प्रश्ऱ्नः कर्तव्यः । तत्त्वनिर्णयहेतुत्वाद्वादस्य एकपराजयेपि पुनस्तस्यैवसाधनान्तरादिस्फुरणेन सन्देहावस्कन्दनात्तत्वनिर्णयस्यानुत्पन्नत्वादिति भावः । जय इत्युत्तरत्रापि सम्बध्यते । जयैकार्थत्वाज्जल्पस्य तस्मिञ्जाते प्रश्ऱ्नस्य वैयर्थ्यादिति भावः । ननु जयेसतिनजल्पेतु पुनः प्रश्ऱ्न इत्युक्तं अयुक्तम्‌ । जल्पेपराजितयापि वाचक्नव्यायाज्ञवल्क्यं प्रतिपुनः प्रश्ऱ्नस्य कृतत्वादित्यत आह ॥ सभ्यानुज्ञां विनेति ॥ प्रकृतेच सभ्यानुज्ञास्त्येव पृच्छगार्गीति ब्राह्मणैरुक्तत्वात्‌ । अत एव पूर्वं विजिगीषु कथात्वाद्ब्राह्मणानुज्ञयेत्युक्तुं वितण्डालक्षणमाह ॥ स्पर्धेति ॥ यदा सतां तत्वविप्लावकैः स्पर्धा तदासकथावितण्डा । जाताविदं बहुवचनं जात्याख्यायामेकस्मिन्‌ बहुवचनमन्यतरस्यामित्युक्तेः । नन्वेवं जल्पवितण्डयोः कोभेदः । उभयोरपि स्पर्धा पूर्वकत्वाविशेषात्‌ । कर्तृभेदेन कथाभेदेऽतिप्रसङ्गादित्यतः स्वसिद्धान्ते प्रकाणञ्चेत्यादियदर्थमुक्तं तल्लक्षणान्तरमाह ॥ मूलपक्ष्येति ॥ स्वपक्षस्थापनाहीनेत्यथर्ः । कथेति शेषः । कविभिः मतेति तस्य प्रामाणिकत्वमुक्तम्‌ । ननु वादिप्रतिवादिनोरुभयोरपि वितण्डायां स्वपक्षस्थापनाहीनत्वमयुक्तम्‌ । दूष्यपक्षाभावेन वितण्डाया एवाप्रवृत्तेः । अत अन्यतरस्यैव तदिति स्वीकर्तव्यं तत्कस्येत्यत आह ॥ सतामेवेति ॥ वितण्डापरपक्षदूषणमित्यर्थः । वितण्डैवेति प्रथमैवकारसम्बन्धः । असतां त्वितितुशब्द सम्बन्धः । जल्पः स्वपक्षसाधनपरपक्षदूषणात्मकः । एवमसङ्करेणकथामार्गत्रयं प्रतिपादितम्‌ । तत्र यदुक्तं गौडनैयायिकेन जल्पवितण्डेति कथान्तरमस्तीति तदसत्‌ । वितण्डाया एवोक्तविवक्षयाजल्पवितण्डत्वे न तदतिरिक्तजल्पवितण्डायां मानाभावादिति भावेनाह ॥ उभयोरिति तृतीयार्थेषष्ठी । कथावितण्डैव हि यस्मादेवमुक्तप्रकारेण जल्पोवितण्डेत्युभाभ्यां सहिता तस्मादेवजल्पवितण्डेत्युच्यते नतु जल्पवितण्डानामकथान्तरमस्तीति भावः । सतां परपक्षदूषणात्मकावितण्डा असतां स्वपरपक्षस्थापदूषणात्मकोजल्पएवेत्युक्तं तत्रैवं नियमेकिं कारणमित्यत आह ॥ अप्रकाश्य इति ॥ सद्भिरिति शेषः ।

तुशब्दश्ऱ्चशब्दार्थः । तेन छलादिसमुच्चयः । दूषयेदेवसज्जनः । तत्पक्षाणामसत्पक्षाणां तेषामसताम्‌ । ननु केतत्वविप्लावकाः बौद्धादय एवेति चेत्‌ न तेषां प्रत्येकमुक्तपञ्चविधतत्वविप्लवकारित्वाभावात्‌ । नचैकैकस्यैकैकस्तत्वविप्लवोस्तीति तेतत्वविप्लावका इति वाच्यम्‌ । अनुगततत्वविप्लवाभावेन तत्वविप्लावकस्वरूपनिर्धारणानुपपत्तेरित्यत आह ॥ विष्णुभक्तीति ॥ तत्वविप्लवस्तुविष्णुभक्त्यन्य एव यतो बौद्धादीनां सर्वेषां साधारणस्ततस्तेसर्वेतत्वविप्लावका इति सम्बन्धः । तर्कागमबलेन दूषयेदित्युक्तं नायं नियम इत्याह ॥ सर्वेति ॥ यद्वातर्कागमबलेनापि किं स्वसिद्धान्तानुसारेणैव दूषणीयं नेत्याह ॥ सर्वेति ॥ नन्वागमाप्रामाण्यावादिनः धर्मप्रयोजनकाबौद्धादयः कथमागमेनदूषणीयाः । प्रतिवादिनाह्मागमेन दूषणशभिधानेतेन तदप्रामरण्यमेवाभिधीयेतेत्यतस्तंप्रत्यागमं प्रयुज्य तत्प्रमाण्यं साधनीयमिति भावेनाह ॥ यस्येति ॥ आगमाश्रयः आगमप्रामाण्यवादी । किं ब्रूयादित्यत आह ॥ धर्मार्थ इति ॥ अयं तव पक्षस्य सिद्धान्तस्य सङ्ग्रहः किं धर्मार्थः धर्मप्रयोजनकः अथ वृथैवप्रयोजनशून्य इत्यर्थः । धनवनितादिरूपलौकिकार्थस्यान्यत एव सिद्धेः शास्त्रप्रयोजनत्वाभावान्नसपक्षोविकल्पितः । आद्यमनूद्यदूषयति ॥ धर्मार्थश्ऱ्चेदिति ॥ तर्ह्यागमप्रामाण्यसिद्धिरिति शेषः । कथमित्यत आह ॥ नधर्मोहीति ॥ शास्त्रस्य धर्मार्थत्वं वदताधर्मसिद्धिः केनचित्प्रमाणेनाभ्युपेया । मेयसिद्धेः मानाधीनत्वात्‌ । नचागमातिरिक्तप्रमाणेन तत्सिद्धिरित्यागमप्रामाण्यमवश्यमभ्युपेयमित्यर्थः । ननु यद्यपि नधर्मसिद्धिः प्रत्यक्षात्‌ तस्यातीन्द्रियत्वात्‌ । योगिप्रत्यक्षस्यास्मन्प्रत्यनिश्ऱ्चायकत्वात्‌ । तथाप्यनुमानाद्भविष्यति । देवदत्तशरीरादिकं देवदत्तविशेषगुणजन्यं कार्यत्वेसति देवदत्तस्य भोगहेतुत्वात्‌ । देवदत्तभोगहेतुतत्प्रयत्नजन्यस्रक्‌चन्दनवदिति चेन्न । इदमनुमानं प्रमाणान्तरसहकृतं केवलमेव वा । नाद्यः । प्रमाणान्तरस्य प्रत्यक्षस्याभावात्‌ । आगमस्य प्रामाण्यानङ्गीकारात्‌ । अङ्गीकारेविवादपर्यवसानात्‌ । नद्वितीयः । केवलानुमानस्य सर्वस्य प्रतिप्रक्षग्रस्तत्वेनाप्रमाणत्वात्‌ । अत्रापि देवदत्तशरीरं देवदत्तविशेषगुणजन्यं न भवति शरीरत्वाद्यज्ञादत्तशरीरवदिति सत्प्रतिपक्षत्वाच्च । ननु यागीयहिंसापापहेतुः हिंसात्वाद्बाह्यहिंसावदित्यनुमानस्य प्रमाणान्तरासहकारिणोपि प्रमाणत्वात्कथमेवमुच्यत इत्यतस्तत्रापि सत्प्रतिपक्षत्वमाह ॥ यथेति ॥ हिंसाविहितहिंसा हिंसात्वेनेति शेषः । धर्महेतुत्वं पापहेतुत्वाभावः । जनिषिद्धत्वेनेति शेषः । वृथैवेति द्वितीयपक्षं दूषयति ॥ वृथापक्षमिति ॥ वृथाव्यर्थः प्रक्षोयस्य सःवृथापक्षः । तं त्वां यदि कश्ऱ्चिद्धन्यात्‌ तदातं प्रतितवकिमुत्तरम्‌ । माकिमिति हंसीत्युत्तरति चेत्‌ । तर्हि तेनापि त्वं यथावृथापक्षं गृह्णासितथैवाहमपि त्वां वृथैवहन्यामित्युक्ते किमुत्तरमित्यर्थः । इति ब्रूयादिति पूर्वेण सम्बन्धः । ननु वितण्डायां सतः प्रतिवादिनोवाद्युक्तसाधनदूषणादौ पूरस्फूर्त्याद्यभावेनाशक्तौ किं कार्यमित्यत आह ॥ अशक्ताविति ॥ तत्वविप्लाविनां जयेसतां प्रतिवादिभूतानामशक्तौ सत्यां सन्तः । प्राश्ऱ्निकादयः सर्वेसम्भूयापि असतां निवारणं कुर्युरिति सम्बन्धः । तत्त्वविप्लाविनां निवारकाः सन्तः कीदृशा इत्यपेक्षायां पूर्वोक्ततत्वविप्लवविरोधिगुणवन्त इत्याह ॥ येषामिति ॥ मतमिति शेषः । असत्सुपराजितेषु किं कार्यमित्यत आह ॥ पराजितेष्विति ॥ उक्तं च्छित्वाजिह्वाञ्चेत्यादिप्रागुक्तम्‌ । सत्सुपराजितेषु किं कार्यमित्यत आह ॥ जितेष्विति ॥ सन्प्रतिवादीस्वयमेवाऽन्यैः सम्भूयवा एषामसतां विजेतायावत्स्यात्तावदुदसीनतां व्रजेदि सम्बन्धः ।अथासतां पराजयानन्तरम्‌ ॥ 1 ॥

ननु बाणवन्तावित्युच्यमानौ कौ । शराविति चेन्न तस्यैव बाणत्वेन कथं तस्यैव तद्वत्त्वमित्यतो बाणशरशब्दयोरभिधानपुराणवचनाभ्यामर्थभेदमाह ॥ बाणस्त्विति ॥ एतेन शीराग्रेयोवंशखण्डः । सन्धीयतेसबाण उच्यत इति परव्याख्यानं प्रमाणविरुद्धमित्युकतं भवति । यदुक्तं सर्वाधारमूलप्रकृतेरपि भगवानेवाधार इत्युक्त इति तदयुक्तम्‌ । श्रुतावविनाशित्वेनाक्षरशब्दाभिधायाश्ऱ्चित्प्रकृतेस्सर्वाधारत्वप्रतीत्यभगवतः सर्वाधारमूलप्रकृत्याधारत्वाप्रतीतेः । तथाचास्थूलत्वादिकमपि तस्याएवेत्यतः श्रुत्यथर्निश्ऱ्चायकं प्रमाणमाह ॥ यीप्तेरिति ॥ ननु विजिगीषु कथायां पुनरुक्तेः निग्रहस्थानत्वात्‌ कथं वाचक्नवीयदूर्ध्वं याज्ञवल्क्यदिव इत्यादि प्रक्‌ पृष्यमेवपृच्छति । याज्ञवल्क्योपि कथं पुनरुक्तं निग्रहस्थानमनुद्भाव्यपूर्वोक्तमेवोत्तरं वक्ति । पर्यनुयोज्योपेक्षणशपत्तेरित्यतः पुनः प्रश्ऱ्नतात्पर्यमाह ॥ पुनः प्रश्ऱ्न इति ॥ सर्वाधाराप्रकृतिरित्येतन्नोपचरितं किन्त्वनुपचरितमित्येवं प्रकाणेणार्थमित्यर्थः । प्रागुक्तपरिहारेणानुत्पन्नमिदमवधारणमिदानीं किं बलाज्जायत इत्यतः परिहारे विशेषोस्तीत्याह ॥ आकाश एवेति ॥ ननु पुनरुक्तिनुद्भाव्यपरिहारकथनेपर्यनुयोज्योपेक्षणापत्तिरित्युक्तमिति चेन्न । प्राप्तनिग्रहस्थानानुद्भावनेहि पर्यनुयोज्योपेक्षणम्‌ । नच पुनरुक्तिर्निग्रहस्थानम्‌ । येन तदनुद्भावनेनिग्रहस्थानं स्यादिति भावेनाह ॥ पुनरुक्तिरिति ॥ आदिपदेन यत्तदित्याद्यनुवाददूष्यैकदेशानुवादकेवलदूषणोक्तिलक्षणाननुभाषणैकदेशस्य ग्रहणम्‌ । पुनरुक्तिस्तथान्यूनाधिक्यादिकं शब्ददोषः

?Rसनपराजयेकारणमिति योजना किमुवादकथायामिति कैमुत्यद्योतनायचशब्दोपि शब्दार्थः । पुनरुक्त्यादिकं कुतः पराजयकारणं

?Rन भवतीत्यत उक्तं शब्ददोष इति । शब्ददोषत्वेपि कुतोनपराजयकारणत्वमित्यत आह ॥ क्वचिदिति ॥ अपटुकरणत्वादिनासम्भवतस्तस्य प्रतियोग्यपेक्षयाविद्यादौर्बल्यद्योतकत्वाभावदिति भावः । तर्हि कः पराजयहेतुरित्यत आह ॥ तत्वविर्णयेति ॥ तत्त्वनिर्णयवैलोम्यशब्देनार्थदोषविरोत्त्वनिर्णयवैलोम्यशब्देनेदमपि सङ्ग्रह्यमिति सूचयति । प्रकृतपुनरुक्तिश्ऱ्च न तत्त्वनिर्णय विरोधिनीति न निग्रहस्थानति भावः । यद्यप्याचार्यैरन्यत्र विरोधासङ्गतिन्यूनाधिक संवादानुक्तीनां षण्णमेवनिग्रहस्थानत्वमुक्तं तथापि पुनरुक्त्यादीनां न्यूनाधिकयोः शब्ददोषयोरन्तर्भावः । अत एव प्राक्‌ प्राणेशब्ददोष इत्युक्तम्‌ । अत्र व्यवहारस्तु अन्तर्भावाविवक्षयापररीत्यैवेति ध्येयम्‌ ॥ 7 ॥ अस्थूलमित्यादौ द्रव्यत्वादिप्रयोजकपरिमाणादिराहित्यमुच्यत इति परेषां व्याख्यानं दूषयितुं स्वयं तावद्वयाचष्ये ॥ प्रसिद्धेति ॥ उपलक्षणमेतत्‌ । प्रसिद्धस्थूलसूक्ष्माद्यन्यवस्तुस्वभावस्थौल्यादिराहित्याच्चेत्यपि ग्राह्यम्‌ । अत एव नैवस्थौल्याद्यभावत इत्युक्तं दूषयति ॥ नैवेति ॥ तथात्वे ब्रह्मणोनिःस्वभावत्वापत्तेरित्यर्थः । लौकिकस्थौल्यादिनिषधेत्वलौकिकस्थौल्यादिसद्भावान्ननिः स्वभावत्वमिति भावः । ननु यदि अस्थूलादिपदानां लौकिकस्थौल्यादिराहित्यार्थकत्वेनालौकिकस्थौल्यादिसिद्धिस्तर्हि अतमोऽवाय्वादिपदानामपि लौकिकतमोवाय्वादिराहित्यार्थकत्वापत्त्या अलौकिकतमोवाय्वादिसिद्धिप्रसङ्ग इत्यतः उपलक्षणत्वेन अत मइत्येतद्वयाचष्ये ॥ अनावृतेरिति ॥ अस्य जनार्दनस्य तमस्सर्वात्मनानास्ति तमसोज्ञानावरकत्वस्वाभाव्यात्‌ । अस्य च ज्ञानप्रतिबन्धकावरणाभावादित्यर्थः । नतदश्ऱ्नाति किञ्चनेत्यनेनगतार्थताशङ्कापरिहारायनतदश्ऱ्नातिकश्ऱ्चनेति वाक्यं व्याचष्ये ॥ स्वातन्त्ऱ्ादिति ॥ नाद्यते न संह्रियते । तत्र हेतुः ॥ परानधीनत्वादित्यर्थः । यदि ब्रह्मकेनचित्संहार्यं स्यात्तदासंहारकाधीनमेवस्यात्‌ । संहार्यस्य संहारकाधीनत्वनियमात्‌ । नचतदस्ति अतो न संहार्यमित्यर्थः ॥ 8 ॥ एतस्य वाक्षरस्य प्रशासनेगार्गिसूयर्ाचन्द्रमसौविघृतइत्यादि वाक्यद्वयगतसूर्याचन्द्रमोद्यावापृथिवीशब्दानां प्रसिद्धार्थत्वेतद्धारकत्वस्यान्यदेवतासाधारण्येन विष्णुमात्र निष्ठत्वं न स्यादित्यस्तत्पदचतुष्ययस्याभिदेयमाह ॥ द्यावापृथिव्याविति ॥ प्राधान्यक्रमेणश्रुतिक्रमोल्लङ्घनम्‌ । सूर्यविधूकेशौब्रह्मरुद्रौमतावित्यर्थः । द्यावापृथिवीसूयर्ाचन्द्रमः शब्दाञ्छ्य्ादिषु निर्वक्ति । दीप्तेरिति ॥ आह्लादविधेः सुखकरणात्‌ । एवं पदार्थमुक्त्वा एतस्वा अक्षरस्य प्रशासनेगार्गिसूर्याचन्द्रमसौ विधृतौ तिष्ठतः एतस्य वा अक्षरस्य प्रशासनेगार्गिद्यावापृथिव्यौ विधृते तिष्ठत इति वाक्यद्वयाथर्माह ॥ तदाधार इति ॥ हरिः प्रशासकः सन्स्वातन्त्ऱ्ेणनित्यं तदाधार इत्यन्वयः । स्वातन्त्ऱ्ेणेत्युक्त्याभगवतः सर्वाधारत्वमन्याधीनं नेत्याह ॥ आकाश एव तदोत च प्रोतं चेति सर्वाधारत्वमाकाशाख्यश्रियोऽभिहितम्‌ । इदानं विष्णोरेवसूर्यचन्द्राद्याधारत्वं कथमुच्यत इत्यत आह ॥ आधारत्वमिति ॥ ननु कथं भगवत एव स्वातन्त्ऱ्यमुच्यते सर्वाधारत्वोक्तया आकाशाख्यश्रियोपि स्वतन्त्ऱ्ावगमादित्यतो वाह । आदारत्वमिति । श्रिय आधारत्वं विष्णोः प्रशासनादिति कुतः स्वतन्त्ऱ्येणैव किं न स्यादित्यत आह ॥ तद्वशादिति ॥ तद्वशत्वादित्यथर्ः ।श्रिय इत्यनुवर्तते । हरेः स्वातन्त्ऱ्यं कादाचित्कं नेत्याह ॥ स इति ॥ 9-10 ॥ ननु अत इत्यादाविवामुखमित्यादावपि सर्वात्मनामुखादिनिषेधः किं नेति भावेन भगवतः प्राकृतविग्रहराहित्येप्रमाणमाह ॥ नतस्येति ॥ तथाच प्राकृतमुखादिराहित्यमेव श्रुत्यर्थ इति भावः । कुत एवं व्याख्येयं सर्वात्मनाविग्रहादिराहित्यमेवार्थः किं न स्यादित्यतोभगवतोरूपादिसद्भावेप्रमाणसद्भावात्‌ तथाव्याख्यानेतद्विरोधः स्यादिति भावेनाह ॥ आदित्यवर्थमिति ॥ आदिपदेनाणोरणीयान्महतोमहीनान्‌ सहस्रशीर्षापुरुष इत्यादेः ग्रहणम्‌ । अस्थूलमनण्वित्यादिस्थूलादिविलक्षणपरत्वेनैव व्याख्येयमित्यत्र निदशर्नमाह ॥ नसदिति ॥ तत्‌ ब्रह्मसदिति नोचत्यते । असदिति नोच्यते इति वाक्यद्वयं यथामूर्तामूर्तविलक्षणपरत्वेनैवव्याख्येयं नतु सत्वासत्वाभावपरत्वेन ब्रह्मणः सद्रूपत्वात्‌ । यथोक्तं मूर्तं सदिति सम्प्रोक्तममूर्तमसदुच्यते । मूर्तामूर्तेतरद्ब्रह्मनसत्तन्नासदुच्यत इति । तथेदमपीति भावः । नन्वेकप्रकरणगतानामप्यस्थूलादिपदानां प्राकृतस्थौल्यादिनिषेध परत्वमतमोवाय्वादिपदानां सर्वात्मनातम आदिनिषेधपरत्वमिति व्याख्यानं कथमित्यत आह ॥ अदुःखमिति ॥ यथैकस्मिन्नपि प्रकरणे असुखमित्यनेन लौकिकसुखनिषेधेपि अदुःखमित्यनेन सर्वात्मनादुःखनिषेध एव । यथावानप्रज्ञमित्यत्र लौकिकज्ञाननिषेधेपि नाप्रज्ञमित्यत्र सर्वात्मनाऽज्ञान निषेध एव । तत्रापीति भावः । ततश्ऱ्चायं खण्डाथर्ः ॥ अथोद्दालकोपरमानन्तरं वाचक्नवीवचक्नोर्दुहिता गागर्ीयाज्ञवल्क्यभार्या स्वयं पूर्वं पराजिततयासभ्यानुज्ञां विनाविजिगीषु कथायां पुनः प्रन्द्रियरहितम्‌ । अमुखं प्राकृतविग्रहरहितम्‌ । अमात्रं परिमिति शून्यम्‌ । नविद्यते अन्तरं यस्य तदनन्तरम्‌ । नविद्यते बाह्यं यस्य तदबाह्यम्‌ । अयमेवसर्वस्मादन्तरः सर्वस्माद्बाह्यश्ऱ्चेत्यर्थः । तद्ब्रह्म किञ्च नान्नादिकं नाश्ऱ्नाति उपजवनाद्यर्थं नात्ति । कश्ऱ्चनकोपि समर्थस्तद्ब्रह्मनाश्ऱ्नाति न संहरतीत्यर्थः ॥ 8 ॥ सर्वाधारप्रकृत्याधारत्वोक्त्याविष्णोरपि यत्सर्वाधारत्वंविवक्षितं तन्नप्रयासेन

?Rकिन्त्वज्ञामात्रेणेत्याह ॥ एतस्य वा इति ॥ वैशब्दोवधारणे । प्रशासने अज्ञायां निमित्तसप्तमीयम्‌ । सूर्याचन्द्रमसौ ब्रह्मरुद्रौ द्यावापृथिव्यौ श्रीभूमी निमेषादिशब्देन तदभिमानिनोदेवा उच्यन्ते । यानद्यः अन्याः विलक्षणाः काश्ऱ्चित्प्राच्यः प्राच्यां स्थिताः अन्याः काश्ऱ्चित्प्रतीच्यः प्रतीच्यां स्थिताः श्ऱ्वेतेभ्यः पर्वतेभ्यः यां यां दिशं अनुस्यन्दन्ते ता एतस्यैवाक्षरस्याज्ञयातां तां दिशमनुस्यन्दन्त इत्यर्थः । एतस्य वाज्ञयाददतोगोहिरण्यादीन्प्रयच्छतः मनुष्याः प्रशंसन्ति देवायजमानं प्रशंसन्ति पितरः दर्वीदर्विहोमं उच्छिष्यपिण्डावसरेदर्वीवा अन्वायत्ताः अनुगताः ॥ 9 ॥ अक्षरज्ञानाज्ञानाभ्यामेव मोक्षसंसाराविति वक्तुं कर्मणान्तावन्मोक्षसाधनत्वं निराकरोति ॥ योवा इति ॥ एतत्‌ उक्तलक्षणकं अक्षरं अविदित्वा जुहोतिहविः प्रक्षेपं करोति यजते ददाति बहूनिवर्षसहस्राणि तपः चान्द्रायणादि तप्यते स यद्यप्यस्मिन्प्रमाणप्रमितेस्वर्गादिलोकेबहूनिवषर्सहस्राणि तिष्ठति । तथापि अस्य तत्फलं अन्तवदेवविनाशवदेवभवति कृपणः शोच्यः संसारीति यावत्‌ । ब्राह्मणः मुक्तः ॥ 10 ॥ अदृष्यं अन्यैः साकल्येन दृष्यं न भवति । स्वयं द्रष्यृ अश्रुतं साकल्येन स्वयं ृणोतीति श्रोतृ अमतं साकल्येन स्वयं मन्तृ अविज्ञातं साकल्येन बुध्यविषयः ननु सर्वेषामपि द्रष्यृत्व श्रोतृत्वादेः सत्वात्कोविशेषोक्षरस्येत्यतोनात्र द्रष्यत्वादिमात्रं लक्षणं विवक्षितम्‌ । किन्तु स्वातन्त्ऱ्ेण द्रष्यृत्वादि तच्चनान्यस्येत्याह ॥ नान्यदिति ॥ अत अक्षरात्‌ अन्यत्‌ स्वतन्त्ऱ्ेणद्रष्यृनास्ति । एवं यदर्थमक्षरमाहात्म्यमभिहितं तदाह ॥ एतस्मिन्विति ॥ 11 ॥ सालब्धप्रश्ऱ्नद्वयोत्तरागार्गी उवाच । किम्‌ । हेब्रह्मणाः भगवन्तोयूयं अस्माद्याज्ञवल्क्यात्‌ । नमस्कारेणमुच्यध्वमिति यदुच्यते मया तदेवबहुमन्यध्वम्‌ । कुत इत्यत आह ॥ नेति ॥ युष्माकं मध्ये कश्ऱ्चित्‌ इमं ब्रह्मोद्यं याज्ञवल्क्यं जातुकदापि जेतानैव यस्मात्‌ तस्मादित्यर्थः । ततः ब्राह्मणान्प्रतिवचनानन्तरम्‌ ॥ 12 ॥ इत्यक्षरब्राह्मणम्‌ ॥ 8 ॥ ननु महिमान एवैषामेत इत्यत्र एतेत्रयस्त्रिंशत्सङ्खयाकादेवा एषां त्रयश्ऱ्चत्रीचशतेत्याद्युक्तानां महिमान एवेत्यन्यथाप्रतीति निरासाय एषामेत इत्यनयोः परामृश्यं दर्शयंस्तद्वाक्यं व्याचष्ये ॥ येय इति ॥ अत्र वीप्सयानकेवलं त्रय्श्ऱ्चत्रीचशतेत्युक्ताः त्रयस्त्रिंशच्छतसङ्खयाकादेवाः त्रयस्त्रिंशतां देवानां महिमानः किन्तु ते त्रयश्ऱ्चत्रीच सहस्रेत्युक्ताः त्रयस्त्रिंशत्सहस्रसङ्खयाकादेवाः । एषां त्रयश्ऱ्चत्रीचशतेत्युक्तानां देवानां महिमान इति वाक्ययोजनामभिप्रैति । परेषामुत्तमानाम्‌ । नन्ववराणामुत्तममाहात्म्यरूपत्वाभावात्कथं ते तन्महिमात्मका इत्यतोत्र महिमान इत्यस्य विवक्षितमर्थमाह ॥ महीत्युक्तमिति ॥ आद्योहिशब्दः महीत्यस्य माहात्म्यार्थत्वे । द्वितीयस्तुमेत्यस्य मर्यादारूपमानार्थत्वे प्रसिद्धिमाह ॥ तन्मितास्तेन परिमिताः न्यूनाः । एवं महिमशब्दार्थमुक्त्वा एषां महिमान इति षष्ठीलब्धमर्थमाह ॥ एवं हीति ॥ ननु सर्वत्रापि महिमशब्दस्योक्तर्थत्वे सत्यः सो अस्य महिमा देवमहिम्नः परमन्तमापेत्यादावपि महिमशब्दस्योक्तर्थत्वं स्यादित्यत उक्तम्‌ ॥ अयमिति ॥ महिमान इति श्रुतिगत; । कस्तर्हितत्र महिमशब्दार्थ इत्यत आह ॥ यत्रेति ॥ यत्र सत्यः सो अस्यमहिमेत्यादौ महिमशब्दः माहात्म्य वाचीविवक्षितः स्यात्‌ । तदातत्र महिमामहिमशब्दार्थः महत्वमित्यर्थः । ननु कत्येवदेवायाज्ञवल्क्येति प्रश्ऱ्नस्य त्रयश्ऱ्चत्रीचशतेत्यादिनापरिहारस्योक्तत्वात्‌ कत्येवदेवायाज्ञवल्क्येति पुनः प्रश्ऱ्नतत्परिहाराणामसम्भवः । नच सङ्कोचसङ्खयाविषयप्रश्ऱ्नेतत्परिहारोऽयमिति वाच्यम्‌ । व्यर्थत्वादित्यतः पूर्वपूर्वोक्तेषु अधिकाधिकविवक्षया पुनः प्रश्ऱ्न इति ज्ञापनायपरिहारवाक्यानां तात्पर्यमाह ॥ त्रयस्त्रिंशत्सुराणामिति ॥ त्रयश्ऱ्चत्रीचशतेत्युक्तानां देवानां मध्ये ततः त्रयस्त्रिंशद्देवेभ्यः परेदेवाः त्रयस्त्रिंशत्सुराणां परिवाराः । षण्णामेते इत्यत्रापि त्रयस्त्रिंशत्सुराणां ततः पर इति पदत्रयमनुवर्तते । त्रयस्त्रिंशत्सुराणशं मध्ये ततः षड्‌भ्यः परेतेत्रयोदेवाः त्रयाणशं परिवाराः । तेद्वयोरित्यत्रापि षण्णां ततः पर इत्यनुवर्तते । षण्णां मध्ये ततः द्वाभ्यां परेतेचत्वारोदेवाः द्वयोः परिवाराः साधिकस्य तावित्यत्रद्विविचनमविवक्षितम्‌ । द्वयोः ततः पर इति अनिवर्तते । द्वयोः मध्ये ततः साधिकात्‌ पर एकः साधिकस्य परिवारः । सोपिसाधिकोपि एकस्य परिवार इति योज्यम्‌ । अमात्यादीनां राजादिपरिवारत्ववत्‌ नावरदेवानामुत्तमदेवपरिवारत्वमित्याशयेन प्रगुक्तं तद्वशत्वं विवृणोति ॥ क्रमत इति ॥ बलशब्दोज्ञानाद्युपलक्षकः । एक इत्युक्तविष्णोरपि पराधीनस्वरूपत्वादिकं किं नेत्याह ॥ एकएवेति ॥ 2 ॥ B-22

ननु षण्णामेतेपरिवारा इत्युक्तमसत्‌ । तेच षट्‌वसुषूक्ता अग्न्यादीनां चन्द्राद्युत्तमत्वाभावादित्यतः प्रथमवाक्यगताग्न्यादिशब्दाभिधेयान्‌ तेषु तन्निर्वचनपूर्वकमाह ॥ अग्रमित्यादिना ॥ अग्रशब्देकर्मण्युपपदेनयते कर्मणिडिप्रत्ययः उपपदरशब्दलोपश्ऱ्च । प्रथितशब्देकर्मण्युपपदेवाते कर्तरिकप्रत्यतः उपपदतकारलोपश्ऱ्च । तद्भार्यागरुडभार्या पृथिवीनाम । ननु प्रथिवस्येयं प्राथिवीति स्यात्‌ पृथिवीति कथमित्यत आह ॥ यत्तदिति ॥

यद्यस्मात्तदिच्छानुसारिणी तस्मादभेदोपचारेणतेनैवशब्देनोच्यते । निर्वचनत्वात्‌ रेफस्य ऋवणर्ः । स्त्रीत्वात्‌ ङीबिति भावः

?R॥ सर्वज्ञत्वादिति ॥ गत्यर्थाद्वातेः कर्त्तरिक्तः विशेषानुक्तेः सर्वज्ञत्वादित्युक्तम्‌ । आयुष्ट्वात्‌ अयुः प्रदत्वात्‌ वश्ऱ्चासावायुश्ऱ्चेति वायुरिति विग्रहः । सर्वेषामप्यं तर्निरीक्षितृत्त्कोविशेष इत्यत आह ॥ देवेभ्य इति ॥ शेषादिभ्य इत्यर्थः । उमाद्यपेक्षया आदिकालस्थितः । आदिशब्दाद्भवार्थेत्यप्रत्ययः । चशब्दः अत इत्यर्थे वाग्रूपावागभिमानिनीसतीयतोद्यालेतिका अर्थप्रकाशिका अत उमा द्यौः समुद्दिष्या । नन्वस्त्वेवं वसुषूक्ताः अग्न्यादिशब्दाभिधेयागरुडाद्याः कतमेषडिति प्रश्ऱ्नोत्तरगताग्न्यादयोयदि प्रसिद्धास्तदाप्यनुपपत्तिरेव । प्रसिद्धाग्न्यादीनां गरुडाद्युत्तमत्वाभावादित्यतस्तत्रोक्ता अप्यग्न्यादय एत एव । तेषाञ्च चन्द्रद्युत्तमत्वं सम्भवतीत्याशयेनाह ॥ त एत इति ॥ नक्षत्रचन्द्रमःशब्दार्थावाह ॥ नक्षत्रमिति ॥ तौ शब्दौ तत्र निर्वक्तिः ॥ अत्राणादिति ॥ एतेषु हीदं वसुसर्वं हितमिति तस्माद्वसव इति वाक्यं व्याचष्ये ॥ वासयन्तीति ॥ अन्तर्णीतण्यर्थाद्वसतेः कर्त्तर्युकारप्रत्ययः ॥ 3 ॥ कतमेषडितिप्रश्ऱ्नेवसुषूक्ता अग्न्यादय एव षडित्युच्यन्ते तेषां त्रयस्त्रिंशत्सुदेवेषुवसुष्वप्याधिक्यं कुत इत्याशङ्कापरिहारायप्राप्तं एतेषु हीदं सर्वं षडिति वाक्यं हेतुहेतुमद्भावं दर्शयन्व्याचष्ये ॥ ज्ञानादीति ॥ अन्येभ्य इन्द्रादिसप्तविंशद्देवेभ्यः । न केवलं त्रयस्त्रिंशत्सु किन्तु वसुष्वपीत्यपि शब्दः ॥ 6 ॥ दशेमेपुरुषेप्रणा आत्मैकादश इति वाक्यं व्याचष्ये ॥ प्राणाद्या इति ॥ प्राणादीन्द्रियाभिमानिनः । आत्मशब्दाथर्ोबुद्धयभिमानवानिति । एतएवेति सम्बन्धः ॥ 4 ॥ तेय दास्मादित्यादिनाश्रुत्युक्तं रुद्रशब्दप्रवृत्तिनिमित्तं एतेषु प्रसिद्धमिति हिशब्देनाह ॥ द्वादशवैमासाः संवत्सरस्यै त आदित्या इति वाक्यं व्याचष्ये ॥ मासाभिमानिन इति ॥ धात्रर्यमादिद्वादशादित्यान्तर्गतस्येन्द्रस्य नक्षत्रपदेन गृहीतत्वादित्वष्णोस्तुगरुडादिपरिवारत्वाभावादाह ॥ इन्द्राविष्णूविनैवेति ॥ तर्हि द्वदशमासाभिमानित्वं कथं दशानामित्यत उक्तम्‌ ॥ यमचन्द्रयुता इति ॥ येमासाभिमानिनोधात्रर्यमाद्याः ते इन्द्राविष्णूविनायमचन्द्रयुताद्विषहिति सम्बन्धः ॥ 5 ॥ स्तनयित्नुरेंवद्र इत्येतस्तनयित्न्नवभेद उच्यत इति प्रतीति प्रतीतिनिरासाय व्याचष्ये ॥ स्तनयित्नोरिति ॥ नक्षत्र पदेनेन्द्रस्य गृहीतत्वाद्रूपान्तरविवक्षयावायुजस्त्विन्द्र इत्युक्तम्‌ । ननु कतमः स्तनयित्नुरिति प्रश्ऱ्ने अशनिरित्युत्तरमुच्यते । तत्कथमेवं व्याख्यानमित्यतः अशनिशब्दाभिदेयोप्ययमेवेत्याह ॥ स एवेति ॥ वज्रः वज्राभिमानी यतः अतः अरेरशनाच्चाशनिरिति सम्बन्धः । यज्ञः प्रजापतिरिति वाक्यं व्याचष्ये ॥ यज्ञ इति ॥ इन्द्रपुत्रोयोजयन्तस्सप्रजापतिरिति यज्ञ इति चोच्यत इत्यर्थः । ननु कतमोयज्ञ इति पशव इतीत्युत्तरवाक्ये पशूनां यज्ञत्वमुच्यते तत्कथमेवं व्याख्यानमित्यतः पशुशब्दाभिधेयोप्ययमेवेत्याह ॥ स एवेति ॥ 6 ॥ अग्निश्ऱ्चपृथिवीचेत्यादेः व्याख्यानमुपसंहरति ॥ एवमिति ॥ ननु दक्षाद्याः अधिकाः कस्मात्रयस्त्रिंशत्सुनोक्ता इत्यतस्तेप्युक्ता इत्याह ॥ दक्षेति ॥ दक्षाग्निप्रमुखा एव पूर्वोक्ताः वायुजाः । प्राणा इन्द्रियाभिमानिन इत्यर्थः । शिवस्य षट्‌सुप्रवेशेपि इतरेरुद्राः कस्मात्रयस्त्रिंशत्सुनोक्ता इत्यत आह ॥ रूद्रा इति ॥ तदावेशात्‌ शिवावेशात्‌ । तथाच तदुक्तावेतेप्युक्ता एवेति भावः । अनिरुद्धिस्य त्रयस्त्रिंशत्सुपृथगनुक्तौ कारणमाह ॥ काम इति ॥ कामस्यानिरुद्धपितृत्वात्काम एवान्तर्भूतत्वेनानिरुद्धः पृथङ्‌नोक्तः । नन्वपकृष्योजयन्तस्त्रयस्त्रिंशत्सुकस्मादुक्त इत्यत आह ॥ मन्विति ॥ तथाचेन्द्रजयन्तोक्त्यामनुरप्युक्त एवेति भावः । नन्वश्ऱ्विप्रभृतयः सनत्यधिकाः ते कस्मात्सङ्खयायां न निवेशिता इत्यत आह ॥ अश्ऱ्विनाविति ॥ विनायक इत्येते अर्यम्णि अंशादिषु चतुर्षुस्थितैः विशेषावेशैः संयुताः । तेषां विशेषावेशा अर्यमादिषु सन्तीति यावत्‌ । तथाच अर्यमाद्युक्तावश्ऱ्विप्रभृतयोप्युक्ता इति भावः । अंश इति द्वादशादित्यानां मध्ये एकस्य नामान्तरम्‌ । अत्रेन्द्रकामादिस्त्रीणां शच्यादीनां पृथगनुक्तौ कारणं प्रसङ्गात्पूर्वमेवोक्तम्‌ । पूर्वमन्तर्यामिब्राह्मणेपृथिव्यग्न्यन्तरिक्षवाय्वादित्यचन्द्रतारकशब्दैः गरुडाग्निशिवभूताभिमानि वायुसरस्वतीसूर्यचन्द्रनक्षत्राण्युच्यन्ते इति व्याख्यातं न केवलमेतावत्‌ किन्तु तत्र पृथिव्यन्तरिक्षवायुद्युचन्द्रतारकाशब्दैः अत्रोक्ताः पृथिव्याद्यास्सौपणर्ीश्रद्धामुख्यवायूमाकामेन्द्रा अप्युच्यन्त इत्याह ॥ अत्रेति ॥ प्रतिपाद्यत्वेनेति शेषः । कतमेतेत्रयोदेवा इति प्रश्ऱ्नस्येमएवत्रयोलोका इत्युत्तरुमुक्तम्‌ । तदयुक्तं उक्तरीत्यात्रयाणां लोकानां षट्‌स्वप्रविष्यत्वेन षट्‌स्वधिकप्रश्ऱ्नेएतस्योत्तरत्वायोगादित्यतो लोकशब्दाभिधेयदेवानाह ॥ षट्‌स्तिति ॥ कथं लोकशब्देन तेऽभिधीयन्ते इत्याशङ्कायां एषु हीमेसर्वेदेवा इति वाक्यं व्याचष्ये ॥ स्वभार्याणामिति ॥ स्वेवायुवीन्द्रमहेश्ऱ्वरा आश्रयायासां तास्तथोक्ताः तस्य भावस्तत्वं तस्मादित्यर्थः । स्वभार्याणां स्वाश्रयत्वादित्युक्त्यावीन्द्रमहेश्ऱ्वरयोः श्रद्धोत्तमत्वाभावेन कथं षट्‌त्सुप्राधान्यमिति शङ्कापरास्ता । तस्यावायुमात्राश्रयत्वस्य विवक्षितत्वात्‌ स्वयं निमित्तान्तरमाह ॥ ज्ञानरूपत इति ॥ लोका इत्येतदत्रापि सम्बध्यते । ननु ब्रह्मशेषौ सपत्नीकौ कुतः त्रिष्वनुक्तौ षट्‌सुत्रयस्त्रिंशत्सुचानुक्तत्वादिति चेन्न । तत्राप्यनुक्तौ

निमित्ताभावादित्यत आह ॥ पदैक्यादिति ॥ आद्यतुशब्देन चशब्दार्थकेनतत्पत्न्नयोः श्रद्धासरस्वत्योः समुच्चयः । चशब्देन

?Rगरुडस्योमासौ पण्यर्ोश्ऱ्चसमुच्चयः । अपिशब्देन वारुण्याः समुच्चयः । शेषस्यापीत्यस्य नैवोक्तिरत्यित्रापि सम्बन्धः । तदापि पदेनब्रह्मणः वारुणीब्रह्माण्योश्ऱ्चसमुच्चयः । तदयमर्थः । ब्रह्मवाय्वोस्तत्पत्न्नयोः शेषस्य शिवस्य तत्पत्न्नयोश्ऱ्चपदैक्यात्‌ गरुडस्य शेषस्य तत्पत्न्नयोश्ऱ्चपदसाम्यात्‌ वायुग्रहणेन ब्रह्मणः श्रद्धाग्रहणेन ब्रह्माण्याः शिवस्य गरुडस्य वाग्रहणषन शेषस्य उमायाः सौपण्यर्ावाग्रहणेन वारुण्यागृहीतत्वात्‌ । ब्रह्मणः ब्रह्माण्याः शेषस्य वारुण्याश्ऱ्च त्रयस्त्रिंशत्सुषट्‌सुत्रिषु वापृथगुक्तिस्तुनैवेति ॥ 3-6 ॥ कतमौ द्वैदेवाविति प्रश्ऱ्नोत्तररूपं अन्नं च प्राणश्ऱ्चेति वाक्यं व्याचष्ये ॥ श्रद्धावेति ॥ किं कस्य व्याख्यानमित्यत आह ॥ अन्नमिति ॥ इतिशब्दोध्याहार्यः । प्राण इति मारुतः प्रकीर्तित इति परिशेषसिद्धत्वात्‌ स्फुटत्वाच्चानुक्तिः । श्रद्धायामन्नशब्दं निर्वक्ति ॥ अतीतत्वादिति ॥ सावायोः पत्नीश्रद्धा देवताभ्यःशेषादिभ्यः अतीतत्वात्‌ उत्तमत्वात्‌ अत्‌ नेतृत्वात्‌ नं इत्यन्नमित्युचयत इत्यर्थः । ननु त्रिष्वधिकप्रश्ऱ्नस्योत्तरत्वेनोक्तौ द्वैदेवैश्रद्धामारुतौ कथं स्यातां श्रद्धयास्त्रिष्वनुक्तत्वादिति चेन्न । षट्‌स्वेवस्वस्वभार्यापेक्षयाधिकप्रश्ऱ्नेत्रय इत्युत्तरस्य स्वरूपोत्तमत्वाभिप्रायेणप्रश्ऱ्नेद्वावित्युत्तरस्योक्तत्वात्‌ । अन्यथाषट्‌सुस्वरूपोत्तमत्वाभिप्रायेणैवप्रश्ऱ्नेद्वावित्येवोत्तरं वक्तव्यम्‌ । नतु त्रय इति वीन्द्रमहेश्ऱ्वरयोः श्रद्धोत्तमत्वाभावादिति भावः । 8 ॥ अन्नं चैव प्राणश्ऱ्चेत्युक्त एव प्राणः कतम एकोदेव इति प्रश्ऱ्नोत्तरत्वेनोच्यतइति प्रतीतिनिरासाय प्राण इति वाक्यगतप्राणशब्दाभिधेयमाह ॥ प्राणोवै इति ॥ प्राणशब्दविष्णौनिर्वक्ति ॥ णेत्येवेति ॥ आ इत्यनुवादेन सम्मतादिति व्याख्यानम्‌ । प्रेत्युपसर्गाथर्ः प्रकृष्यत इति । हि यस्मात्‌ भगवान्‌ विष्णुः आसमन्तात्‌ प्रकृष्यतः णः आनन्दरूपः तस्मादेवप्राणशब्दवाच्य इत्यर्थः । कतमोऽध्यर्ध इति प्रश्ऱ्नोत्तरयोयं पवत इति वाक्यं भूतवायुपरत्वमतीतिनिरासाय व्याचष्ये ॥ अध्यर्ध इति ॥ कुतो वायुरध्यर्ध इति आशङ्कानिरासकतयायदस्मिन्निदं सर्वं अध्यार्ध्नोत्‌ तेनाध्यर्ध इति वाक्यं व्याचष्ये ॥ अध्यर्धा इति ॥ हि यस्माद्वयोः गुणाः नित्यमध्यर्धाः आधिक्येन ऋद्धाः तत्तस्मादेव वायुरध्यर्ध इत्यर्थः । वायोरर्ध्यर्धगुणत्वमेवकुचत इत्याशङ्कानिरासकतयायदयमेक इवैवपवतेऽथेति वाक्यं प्रवृत्तमिति भावेन एकः पवते द्वितीयः पवत इत्यनुक्त्वा एक इवेति किमर्थमुकतमित्यतस्तस्तदभिप्रायमाह ॥ नचेति ॥ हरिः यतः तद्विशिष्यः तेन वायुनाविशिष्यः विशेषतस्तत्र सन्निहित इति यावत्‌ । अतो वायोरेकत्वेकेवलत्वं न भवेत्‌ । यद्वा एकत्वं मुख्यत्वं तद्विशिष्यस्तदपेक्षयोत्तमः । यतश्ऱ्च तस्मिन्वायौ सर्वस्माद्देवतागणात्‌ हरेरभ्यधिकाप्रीतिरतोद्वितीयत्वं न भेवेत्‌ । यस्य यस्मिधिका प्रीतिः स एव स इत्युच्यते । नतु ततो द्वितीय इति लोकेदर्शनात्‌ । अत एक इवेत्युच्यत इति भावः । इदानीं यदयमेक इवैवपवत इति वाक्यार्थस्याध्यर्धगुणत्वे हेतुत्वं दर्शयति ॥ तेनेति ॥ उक्तप्रकाणषण एक इवेत्युच्यमानत्वेनेत्यर्थः । विष्णोरिवनैतस्याध्यर्धगुणत्वमित्याह ॥ सर्वस्मादिति ॥ यस्मादध्यर्धगुणः अतोध्यर्धइतीरित इति यदस्मिन्निदं सर्वमिति वाक्यार्थोपसंहारः । यदस्मिन्निति वाक्यस्य प्रकारान्तरेण तात्पर्यमाह ॥ नचेति ॥ नियमनादावित्यर्थः । यस्मादित्यनुवर्तते । अनेन यस्मात्‌ इदं सर्वं जगत्‌ । अस्मिन्‌ वायौ । अध्यार्ध्नोत्‌ नियम्यत्वादिनास्थापितमभवत्‌ । तेन अध्यर्द्ध इतीरित इति व्याख्‌यातं भवति । ननु देवेषु अधिकाधिकदेवोक्तय वसरेवायोरनन्तरं श्रीरपि वक्तव्या नच वाय्वाद्युत्तमत्वाभावादुत्तमत्वेपि हर्यभिन्नत्वाद्वातदनुक्तिरिति वाच्यं वाय्वादिसर्वोत्कृष्यत्वात्‌ विष्णोः भिन्नत्वाच्च । तत्कुतस्तदनुक्तिरित्यत आह ॥ अत्यन्तरङ्गमिति ॥ यत्‌ यस्मात्‌ । श्रीहरेः अत्यन्तरङ्गं वाय्वपेक्षया अतिशयेन अन्तरङ्गभूता तस्मात्‌ तस्याः हरेः सकाशात्स्वरूपविभेदेपि सवोत्कृष्यापि हरेः पृथक्‌ नेरितेति सम्बन्धः । तर्वोत्कृष्यत्वोक्त्यातस्याहरिसाम्यशङ्कां वारयति ॥ तस्या अपीति ॥ गुणैः पर इति सम्बन्धः । दोषवान्‌ भवतीत्यदोषवान्‌ । एकोदेवः प्राण इत्युक्तम्‌ । कस्मादेकोदेवः प्राणोदेवेषु सत्स्वपीत्यत आह ॥ एक इत्यच्यत इति ॥ तस्यैव मुख्यत्वादित्यर्थः । तत्कुत इत्यत आह ॥ यस्मादिति ॥ सब्रह्मत्यदित्याचक्षत इत्येतद्वयाचष्ये ॥ ब्रह्मासाविति ॥ नित्यमित्यवधारणार्थम्‌ । यथा श्रुत्यादिना प्रतिपादितं तथात्वेनैवानाद्यनन्तकालतः मत्स्यादिरूपेण वा याति नतु विकारेण यतः ततः त्यदित्युक्तः त्‌ इत्यस्यार्थः तथात्वेनेति यदित्यस्यार्थोयातीति ॥ 9 ॥ शारीरः पुरुषः काममयः पुरुषः आदित्येपुरुषः श्रौत्रः पुरुषः छायामयः पुरुषः आदर्शेपुरुषः अप्सुपुरुषः पुत्रमयः पुरुष इतिशब्दाष्यकस्य कोशादिप्रसिद्धार्थपरत्वप्रतीतिनिरासायाभिदेयमाह ॥ शारीर इत्यादिना ॥ ननु यद्येवं शारीरादिशब्दैः मन्वाद्याविवक्षिताः तर्हि अमृतस्त्रीसत्यदिक्‌ मृत्यु असुप्रजापतीनां तत्तद्देवतात्वं कथमुच्यते प्रसिद्धानां तेषां मन्वाद्युत्तमत्वस्य देवतात्वस्य चभावादित्यतः अमृतादिशब्दाभिधेयानाह ॥ अमृतमित्यादिना ॥ गरुत्मच्छेषकाः गरुडशेषदक्षशः वायुरेव अमृतशब्दोक्तएव ब्रह्मैव सत्यशब्दोक्त एव अन्तर्गतेन पालकेन स्वरूपेणेत्युक्त्या अमृतं वायुः

?Rबाह्मयरूपेण सत्यं ब्रह्मान्तर्गतरूपेणेति सूचितम्‌ । वरुणशब्दस्य देवतापरत्वे वरुणस्य पर्जन्योत्तमत्वे च

?Rविवादाभावात्तदनुक्तिः । तत्र अष्यस्वपि प्रकारणेषु पृथिव्येव यस्यायतनमित्यादिनाऽऽश्रयस्योक्तत्वात्‌ । लोकशब्देन प्रकाशकं ग्राह्यम्‌ तताच ज्योतिःशब्दस्य पुनरुक्तत्वं स्यादित्यतस्तयोरर्थमेदमाह ॥ प्रकाश इति ॥ प्रकाशः प्रकाशकम्‌ । मनोज्योतिरिति प्रकरणाष्यकगतमनःशब्दस्य प्रसिद्धार्थतया व्याख्याननिरासायाभिधेयमाह ॥ मनःस्थितेति ॥ अन्यथामनसोविज्ञानहेतुत्वस्य प्रसिद्धत्वान्नवक्तव्यमिति भावः । अग्निः लोकः हृदयं लोकः श्रोत्रं लोकः चक्षुः लोक इत्यत्राग्न्यादिशब्दानां प्रसिद्धार्थत्वे अग्न्यादीनां मन्वादिज्ञानहेतुत्वासम्भवात्तदभिदेयमाह ॥ सैवेति ॥ यत्‌ यस्मात्‌ हृदिरमाया अयनं निवसनं ततोहृदयमित्यर्थः । श्रोत्रं श्रवणहेतुत्वादित्यपि ग्राह्यम्‌ । ननु मनोनिष्ठस्य रमारूपस्येववागभिमान्यग्निहृदयचक्षुः श्रोत्रनिष्ठस्यापि तस्य शरीरान्तर्गतत्वेनान्तःप्रकाशहेतुत्वमेवयुक्तं नतु सौरागोकादिबाह्यप्रकाशहेतुत्वम्‌ । अन्यनिष्ठस्यान्यत्र हेतुत्वेविरोधादित्यत आह ॥ बुद्धीति ॥ बुद्धिवृत्तेस्तु जीवस्वरूपभिन्नत्वेन बहिःप्रकाशत्वमेवेति भावः । तथाच पूर्वमान्तरः प्रकाश इति साक्षी बाह्यः प्रकाश इति बुद्धिवृत्तिर्विवक्षितेति नानुपपत्तिरिति तात्पर्यम्‌ । इम एव त्रयोलोका इत्येतत्‌ वायवीन्द्रमहेश्ऱ्वरा इति प्रमाणेन व्याख्यातं तत्र लोकशब्दस्योक्तार्थत्वमनङ्गीकृत्यपृथिव्यन्तरिक्षद्युरूपप्रसिद्धलोकपरत्वाङ्गीकारे बाधकमाह ॥ इमएवेति ॥ इम एव त्रयोगोका इत्यत्र लोकशब्देन पूर्वोक्तानां वायुवीन्द्रमहेश्ऱ्वराणामनुक्तौ पृथिव्यन्तरिक्षद्युरूपलोकमात्रोक्तौ एतेषु हीमेसर्वेदेवाः इति वाक्यशेषोक्तः सर्वदेवानां लोकमात्रेन्तर्भावः कथं स्यात्‌ । सर्वदेवानां जडलोकाधीनत्वाभावादित्यर्थः । उपलक्षणमेतत्‌ । लोकानां देवत्वाभावेन कतमेत्रयोदेवा इति प्रश्ऱ्नस्येदमुत्तरं नस्यादित्यपि ग्राह्यम्‌ । लोकशब्दस्य पूर्वोक्तवाय्वादिदेवतापरत्वाङ्गीकारेपि कथमन्तर्भाव उपपद्यत इत्यत आह ॥ उक्तेति ॥ वायुवीन्द्रमहेश्ऱ्वराणामति समर्थत्वेन सर्वदेवानां तदधीनत्वात्तेषशं तत्रान्तर्भावोघटत एवेति भावः । ननु नास्माभिस्त्रयोलोकाः पृथिव्यादय इति व्याख्यायते येनोक्तदोषःस्यात्‌ किन्तु पृथिवीमग्निञ्चैकीकृत्यैकोदेवः अन्तरिक्षं वायुञ्चैकीकृत्यद्वितीयः दिवमादित्यञ्चैकीकृत्यतृतीय इत्येव त्रयोगोका इत्यनेनाग्न्यादयस्त्रयोदेवा उच्यन्ते । एषु त्रिषु देवेषु हि यस्मात्सर्वे देवाः अन्तर्भवन्तीति व्याख्यायत इत्यतस्तत्रापि बाधकमाह ॥ कथञ्चेति ॥ सर्वदेवानामन्तर्भाव इति वर्तते । अग्न्यादीनामिन्द्राद्युत्तमत्वाभावेनेन्द्रादीनां तदधीनत्वासम्भवादिति भावः। एतेन इम एव त्रयोगोका इति क्रमेणाग्निवाय्वादित्यात्मना एकीकृत्यत्रयोदेवा उच्यन्ते । कथम्‌ । हि यस्मादेषु त्रिषु लोकेषु इमे अग्निवाय्वादित्यान्तर्भूताः सर्वेदेवाः अन्तर्भवन्तीत्येतदपि निरस्तं अग्निवाय्वादित्येषु सर्वदेवानामन्तर्भावा सम्भवात्‌ । ननु लोकमात्रेकथं सर्वदेवानामन्तर्भाव इति यदुक्तं तदयुक्तम्‌ । एषु त्रिषु लोकेषु सर्वेदेवा आवसन्ति इत्यर्थाङ्गीकारात्‌ । आवासमात्रस्य च लोकेष्वपि सत्त्वात्‌ । अग्न्यादौ सर्वदेवानामन्तर्भावोनाम अग्न्याद्युपजीव्यत्वादिकमेव विवक्षितमिति न तत्राप्यनुपपत्तिरित्यत आह ॥ नचेति ॥ आवास इत्युपलक्षणं उपजीव्यत्वादिकमपीति ग्राह्यम्‌ । निवासत्वादिकमित्युत्तरत्रादिपदप्रयोगात्‌ । मात्रशब्दोऽनभिमतव्यावर्तकः कुतो नेति चेत्‌ न । यदि त्रिषु लोकेषु सर्वदेवानामावासमात्रं विवक्षितं स्यात्‌ तदाप्रतिशरीरमपि सर्वदेवानां तत्वाभिमानितयाऽऽवासात्‌ लोकानां शरीरापेक्षयाविशेषोन स्यात्‌ । यदि वा अग्न्यादिषु सर्वदेवानामुपजीव्यत्वादिकं विवक्षितं तदावक्तव्यं तदुपजीव्यत्वादिकं किमग्न्यादेः सर्वदेवोत्तमत्वेन उत हविरादानाद्युपकारमात्रेण नाद्यः तदभावादित्युक्तत्वात्‌ । नद्वितीयः प्रतिशरीरमपि देवानां नियामकतयाऽऽवासात्तन्नियम्यस्य जीवस्यापि तादृगुपजीव्यत्वसत्वेनाग्न्यादीनां जीवाद्विशेषाभावापत्तेः । तथाच विशिष्य एतेषु हीमेसर्वेदेवाः इत्युक्तिरयुक्तास्यादित्याह ॥ प्रतिशरीरमिति ॥ नचावासमात्रमित्युक्तमात्रपदेनाधिकमपि विवक्षितमिति लब्धं तत्किमित्यत आह ॥ सामर्थ्येति ॥ यद्वा यदुक्तं कथं लोकमात्रे सर्वदेवानामन्तर्भाव इति उक्ताङ्गीकारेनन्तर्भावः कथमिति वा तत्रोभयत्रहेतुमाह ॥ सामर्थ्येति ॥ चशब्दोहेत्वथर्ः । अत्र एष हीमेसर्वेदेवा इति वाक्ये तथाच लोकमात्रस्य सामर्थ्याधिक्याभावात्‌ वायुवीन्द्रमहेश्ऱ्वराणान्तु सामर्थ्याधिक्यसद्भावादिति भावः । सामर्थ्याधिक्यमत्र विवक्षितमिति कुतोज्ञायते सामर्थ्याधिक्यस्यान्तर्भावहेतुत्वं च कुतो ज्ञायत इत्यत आह ॥ एतेषुहीति ॥ प्रथमादिपदेन तस्य कादेवता इति प्रश्ऱ्नोत्तरूपं अमृतमिति होवाचेति स्त्रिय इति होवाच इत्यादिग्राह्यम्‌ । द्वितीयादिपदेन गुणाध्यर्धत्वगुणपरिपूर्णत्वशारीरादिदेवतात्वादीनां ग्रहणं इत्यादिषु वाक्येषु मध्ये । आद्येषु त्रिषु वाक्येषु आदिपदोपात्तेषु च षड्‌गुणोद्रेकादीनामुक्तेः सामर्थ्याधिक्यमत्र विवक्षितमिति ज्ञायते । एतस्यापि तत्समानन्यायत्वात्‌ चतुर्थे त्रयश्ऱ्चत्रीच शतेत्युक्तानां देवानां त्रयस्त्रिंशत्सुदेवेषु अन्तर्भावस्य महिमकारणकत्वस्य सामर्थ्यपरिमितत्वकारणत्वस्योक्तेरन्तर्भावाधिकणस्य सामर्थ्याधिक्यमितरेषां तत्रान्तर्भावेकारणमिति ज्ञायत इति भावः । षड्‌गुणोद्रेकेति एतेषु हीदं सर्वं षडिति वाक्यतात्पर्यमुक्तम्‌

तस्य तत्राप्रतीतेरनूद्यव्याचष्ये ॥ इदमिति ॥ सर्वं षडित्यनुवादेकर्तव्यएकवचनां तस्य सर्वशब्दस्य बहुवचनां तेन

?Rषडित्यनेन सामानाथिकरण्यसिध्यर्थं गुणषट्‌कमित्युक्तम्‌ । सर्वशब्दार्थः पूर्णमिति । यद्वा सर्वं षडिति सामानाधिकरण्यानुपपत्तिशङ्कापरिहारायाह ॥ इदं सर्वमिति ॥ गुणषट्‌कस्य सर्वत्वं नामकिमित्यत आह ॥ पूर्णमिति ॥ ननु गुणषट्‌कस्य पूर्वमप्रकृतत्वादिदमिति कथं तस्य परामर्श इत्यत आह ॥ इदं शब्द इत्रत ॥ गुणषट्‌कस्य विवक्षितत्वात्‌ वक्तुमिष्यत्वेन बुद्धिसन्निहितत्वात्‌ तत्र इदं शब्दः प्रयुक्त इत्युर्थः । ग्रन्थप्रकृतेपि बुद्धिसन्निहिते इदंशब्दप्रयोगे दृष्यान्तमाह ॥ अयमिति ॥ अयं मेहस्तोभगवानित्यत्रायमिति विवक्षित एवार्थे यथाप्रयुज्यते तथात्रापीत्यर्थः । उक्तन्यायमन्यत्राप्यति दिशति ॥ एवमेवेति ॥ अयमपि इदंशब्दःग्रन्थाप्रकृतेपि बुद्धिसन्निहिते प्रयुक्त इत्यर्थः । ननु नचावासमात्रमत्रविवक्षितं सामर्थ्याधिक्यञ्चेत्युक्त्याऽऽवासोपि विवक्षितोज्ञायते तथाच तेनैवान्तर्भावोक्त्युपपत्तौ सामर्थ्याधिक्यविवणायान्तर्भावोक्तिरित्यङ्गीकारेकिं नियामकं इत्यत आह ॥ गुणाधिक्येनेति ॥ तदधीनत्व इत्यनेनान्तर्भावोव्याख्यातः । आदिपदेनोपजीवनादिकं ग्राह्यम्‌ । तत्र हेतुमाह ॥ उत्तमानामिति ॥ आदिपदेन नियमनशक्त्यादीनां ग्रहणम्‌ । तथाचाधिकव्याप्त्यादिमत्सूत्तमेष्वन्तर्भूतानां तेषां तत्र निवासत्वादिकमपि सम्भवतीति भावः । ननु गुणाधिक्येन तदधीनत्वेनिवासत्वादिकमिव निवासत्वादौ गुणाधिक्यादिकमन्तर्भवति चेत्‌ कोविशेषोयुष्मद्वयाख्यान इत्यत आह ॥ नत्विति ॥ निवासादिहेतुगृहादौ गुणाधिक्यादशर्नादिति भावः । एतेषु हीमेसर्वेदेवा इत्यत्र निवासत्वमात्रेणान्तर्भाव उच्यत इत्यङ्गीकारे उपक्रमविरोधलक्षणं दूषणान्तरमाह ॥ कथञ्चेति ॥ तन्महिमत्वेन तदपेक्षयासामर्थ्यन्यूनत्वेन उक्त्वामहिमान एवैषामेत इत्यनेनेत्यर्थः । एवं इम एव त्रयोलोका इति वाक्यस्योक्तार्थत्वमुपपाद्येदानीममृतस्थीसत्यादिशब्दानां अमृतं वायुरुद्दिष्यः स्त्रियः श्रीर्गीरुमातथेत्याद्युक्तव्याख्यानानङ्गीकारे बाधकमाह ॥ कथञ्चेति ॥ चशब्दः पूर्ववाक्योपपादनेन सहसमुच्चयार्थः । अन्यथा अमृतादिशब्दैः पूर्वोक्तवाय्वादिदेवानामनुक्तौ । ननु स्यादेतत्‌ यदिपूर्वोक्तदेवानां सामर्थ्याधिक्यमेवप्रमितं स्यात्‌ तदेवकुत इत्यत आह ॥ प्रसिद्धञ्चैतदिति ॥ आद्यं प्रमाणद्वयं वायोः सवर्देवोत्तमत्वे । देवानामात्मास्वामीत्यर्थः । त्रयस्त्रिंशत्सुदेवेषु षण्णामेवाधिक्यस्योक्तत्वेनेन्द्रस्य इतरदेवसाधारण्यशङ्कापरिहाराय तस्यापीतरदेवोत्तमत्वे प्रमाणमाह ॥ इन्द्र इति ॥ ओजिष्ठः अवष्यम्भनशक्तिमान्‌ । पदैक्याद्वायुग्रहणेन ब्रह्मापि गृहीत इत्युक्त्या ब्रह्मणः सर्वदेवोत्तमत्वं सूचितम्‌ । तत्र प्रमाणमाह ॥ ब्रह्मेति ॥ अयमिति वाक्यं वायोः विष्ण्वधीनत्वेमानम्‌ । तमेता इति वायोः सर्वदेवोत्तमत्वे । तविस्मृतिद्वयं पठति ॥ अश्ऱ्वमेध इति ॥ सर्वेषाञ्चेति चशब्दः अभिव्याप्त्यर्थकापिशब्दार्थः । प्राणिनां प्राणभूतत्वे हेतुमाह ॥ अनावृत्तिरिति ॥ देहिनां देहपाते अनस्य मुख्यप्राणस्याऽऽवृत्तिः कारणत्वमित्यर्थः । वेधसः सर्वज्ञावरुणाद्यदेवाः । मारुतस्यवायोः । क्रतुं सचंतकृतवन्त इति वायोः सर्वदेवोत्तमत्वे मानम्‌ । विष्णोर्वायूत्तमत्वे उत्तरं वाक्य षट्‌कम्‌ । निचिक्युःज्ञातवन्तः । आत्मतः परमात्मनः । प्राणाच्छ्रद्धामित्यनेनाध्यर्धस्य प्राणस्यान्नञ्चैव प्राणश्ऱ्चेत्युक्तान्नाख्यश्रद्धोत्तमत्वमुक्तमपि प्रमापि तं भवति । इम एव त्रयोलोका इति यद्रुद्रस्योमादिसर्वदेवाश्रयत्वमुक्तं यच्चब्रह्मणः रुद्राद्याश्रयत्वमभिप्रेतं विष्णोश्ऱ्चतदाधारत्वं तत्र प्रमाणामाह रुद्रमिति ॥ इत्यादिषु सर्वत्र एतत्‌ वाय्वादेः सामर्त्याधिक्यं प्रसिद्धमित्यर्थः । श्रीः स्वरूपविभेदेपि सर्वोत्कृष्यापि नित्यश इत्युक्तं तत्र प्रमाणमाह ॥ श्रिय इति ॥ श्रियः प्रसादं श्रितः कुशेशयेशयः नीरजेस्थितः सब्रह्मा यंशौरिंप्रशशंस सः कृष्णश्रिचन्त्य इति योजना ॥ 10-17 ॥ शाकल्योयाज्ञवल्क्येति सम्बोध्योवाच । कुरुञ्चालानां ब्राह्मणानत्यवादीरिति यत्‌ इदं भवान्‌ ब्रह्मविद्वानिति सदेवाः सप्रतिष्ठादिशोवेदेति किमिति प्रतीत्या दिशोवेदसदेवा इति वाक्यमपि शाकल्यवचनमिति प्रतीयते तामपाकरोति ॥ दिश इति ॥ अन्यथाकिं ब्रह्मविद्वानित्यस्योत्तराभावप्रसङ्ग इति भावः । ननु दिशोवेदेत्यस्य याज्ञवल्क्यवचनत्वेपि किं ब्रह्मविद्वानित्यस्य कथमुत्तरं जातम्‌ । एतस्य तदुत्तरत्वाप्रतीतेरित्यत आह ॥ सर्वेति ॥ दिशोवेदेत्युच्यमानं ज्ञानं सप्रतिष्ठाः परब्रह्मपर्यन्तमाश्रयपरासाहित्येनदिशोवेदेत्युक्त्याऽऽदित्याद्युदानां त सर्वाश्रयत्वेन ब्रह्मणोपि ज्ञानं भवतीति किं ब्रह्मविद्वानित्यस्यापि इदमुत्तरं भवतीत्यर्थः । ननु किं ब्रह्मविद्वानिति प्रश्ऱ्नोब्रह्मवेदेत्येववक्तव्येसप्रतिष्ठाः सदेवादिशोवेदेति किमर्थमुच्यत इति चेन्न । नकेवलमहं ब्रह्ममात्रं वेदकिन्तु तदाश्रितादिशोदेवांश्ऱ्चवेदेति स्वस्वज्ञानाधिक्यज्ञापनायतथोक्तत्वात्‌ । तदिदमुक्तं सर्वप्रतिष्ठात्वेनेति । यद्दिशोवेत्थसदेवाः सप्रतिष्ठा इत्यत्र खण्डस्य समाप्तत्वादन्वयाप्रतीतेरुत्तरखण्हस्थवाक्येनान्वयं दर्शयन्‌ किञ्चिद्वयाचष्ये ॥ यदीति ॥ आदित्यश्ऱ्चक्षुषिचक्षुःरूपेषु रूपाणिहृदयेप्रतिष्ठितानीत्युक्तं तदित्यादीनां जडलक्षुराद्याश्रितत्वमुच्यत इति प्रतीतिनिरासाय चक्षुरादिशब्दार्थकथनपूर्वकं तद्वयाचष्ये ॥ आदित्यस्वेत्यादिना । मनोश्ऱ्चक्षुःशब्दप्रवृत्तौनिमित्तमाह ॥ चक्षुस्थ इति ॥ दृष्यिशक्तीशःदृष्यिशक्तिनियामकः

शक्रस्यापि अन्याश्रयस्यापीत्यर्थः । एवं तस्या अपीत्याद्यपि व्याख्येयम्‌ ॥ 20 ॥ यमोयज्ञेयज्ञोदक्षिणशयां दक्षिणाश्रद्धायां

?Rश्रद्धाहृदयेप्रतिष्ठितेत्युक्तं तद्वयाचष्ये ॥ एवमित्यादिना ॥ चशब्दोऽपिशब्दार्थः । यमस्यापि प्रसिद्धप्रभावस्यापीत्यर्थः ॥ रतिरेवेति ॥ प्रसिद्धिद्योतनायैवकारः । अनिरुद्धस्य रतिपुत्रत्वात्तत्समस्यापि तदाश्रयत्वं युक्तम्‌ ॥ 21 ॥ वरुणोप्सु आपोरेतसिरेतोहृदयेप्रतिष्ठितमित्युक्तं तद्वयाचष्ये ॥ अब्देवतेत्यादिना ॥ उमैवशक्रकामाश्रयत्वेनोक्तैव ॥ 22 ॥ सोमोदीक्षायां दीक्षासत्येसत्यं हृदये प्रतिष्ठितमित्युक्तं तद्वयाचष्ये ॥ तस्यैवेत्यादिना ॥ तुशब्दोविशेषार्थः । तमेवाह ॥ दिगीशितुरिति ॥ तथाच सुरगुर्वाश्रितस्यैव सोमस्य रूपविशेषापेक्षयाशतरूपाश्रयत्वं न विरुद्धमिति भावः । नचशतरूपायाः सोमसमानत्वोक्तेः कथमेतदिति वाच्यं । समानत्वेपि स्वेच्छयाऽऽश्रयाश्रयिभावे विरोधाभावात्‌ । यद्वा एतदुक्त्यनुरोधेन कामादिन्द्रस्येव शतरूपाया अपि सोमात्किञ्चिदाधिक्यमस्तीति ज्ञायते । साम्योक्तिस्तु इन्द्रकामसाम्योकित्वद्वयाख्येया । सत्यशब्दार्थः स्रष्यृरूपस्येति । रूपविशेषोक्तेः पूवर्ोक्त एवाभिप्रायः ॥ 23 ॥ अग्निर्वाचिवाक्‌ हृदयेप्रतिष्ठितेत्युक्तं तद्वयाचष्ये ॥ मध्यदिक्‌ स्वामिन इत्यादिना ॥ ध्रुवायां दिशीत्यस्यार्थोमध्यदिगिति । प्राचीदक्षिणामध्येत्यर्थः । सुष्ट्वाधारः स्वाधारः ॥ 24 ॥ कस्मिन्हृदयं प्रतिषिठतमिति प्रश्‌नस्योत्तरं न प्रतीयत इत्यतोयत्रैतदन्यत्रास्मन्मन्यासा इत्यादि उत्तरवाक्यानुरोधेनोत्तरमाह ॥ तस्या इति ॥ अस्मदिति त्वं चेति प्रयोगानुरोधादुक्तं त्वमहञ्चेति रूपवानिति । तत्र हेतुरहङ्कारात्मक इति । त्वमित्येतच्छब्दार्थकथनप्रसङ्गेन त्वं चात्माचेति तत्समभिव्याहृतात्मशब्दाभिधेयमाह ॥ आत्मेति ॥ बुध्यात्मनाबुध्यभिमानित्वेन यद्धयेतदन्यत्रास्मत्स्यात्‌ । श्ऱ्वानोवैनदद्युरिति वाक्येहृदयाख्योमाया अहङ्काराभिमानीरुद्रादन्याश्रितत्वाङ्गीकारेबाधकमुच्यत इति प्रतीयते । तदयुक्तम्‌ । तस्या अपि प्राणाख्य शेषाश्रयत्वस्य वक्ष्यमाणत्वादित्यतस्तद्यथावद्वयाचष्ये ॥ यद्यस्या इति ॥ उमाया रुद्रानाश्रितत्वस्य श्रवानोवैनदद्युरित्यत्र साक्षशदापादकत्वायोगात्‌ साक्षशत्तदापाद्यमुक्तं तदेति । बोधात्मिकाशक्तिः बुध्यभिमानशक्तिः स्यादिति शेषः । मानुषादीन्देहानित्यर्थः । अनेनेतदित्युक्तार्थं भवति ॥ 25 ॥ त्वञ्चात्माचप्राणे सचापाने सचव्याने सचउदाने सचसमाने प्रतिष्ठित इत्युच्यते । तद्वयाचष्ये ॥ शिवस्येत्यादिना ॥ शेषस्य शिवाश्रयत्वं स्वरूपसाम्येपि पदाधिक्याद्युक्तं विशिष्यान इत्यनेन विशेषेण आसमन्तादन इति व्यान इति व्याख्यातं भवति ॥ उन्नेतृत्वादिति ॥ उत्‌ ऊर्ध्वं आसम्यक्‌ नयतीत्युदान इत्यर्थः । तस्याहरिराश्रय इत्यनुवर्तते ॥ सहैवेति ॥ स्वात्मना सहैव नित्यावियोगितयैवतामानयतीत्यर्थः । यद्वा सहैव नियामकैः सहैव नियम्यान्‌ सर्वानिति यावत्‌ । अनेन सममानयतीति समान इति व्याख्यातं भवति । अन्येषामपीदं प्रवृत्तिनिमित्तं चेत्कथमस्यैवसमानशब्दवाच्यत्वमित्यत आह ॥ स्वावरस्येति ॥ अनकाश्ऱ्चेष्यकाः । स एष् नेति नेत्यात्मेति वाक्यं व्याचष्ये ॥ स इति ॥ भगवान्हरिरित्यात्मशब्दव्याख्यानम्‌ । इति नेत्यस्यार्थः एवं नेति । तदेवविवृणोति ॥ श्रीवदन्याश्रय इति ॥ द्वितीयस्य नेत्यस्यार्थोनचब्रह्मादिवदिति । एवं दुःखस्पृष्यतदस्पृष्यद्विविधचेतनविवक्षयाद्वतैलक्षण्यप्रतिपादकतया नेति नेतीति वाक्यं व्याख्याय इदानीं बद्धमुक्तं द्विविधचेतनविवक्षयापि तद्वैलक्षण्यप्रतिपादकत्वेन व्याचष्ये ॥ नैवासाविति ॥ नन्वेवं चेतनवैलक्षण्यमेवप्रतिपादितं जडवैलक्ष्यण्यं कुतो न प्रतिपाद्यत इत्यत आह ॥ कुत एवेति ॥ कैमुत्यसिद्धत्वेनानुक्तिरिति भावः । श्रुतौ स एष आत्मेत्येतत्‌ अग्राह्योशीर्योसङ्गोसितोनरिष्यतीत्यत्रापि सम्बध्यत इति भावेनाह ॥ अग्राह्य इति ॥ असौ भगवान्हरिः सज्यत इति सङ्गः शीर्यश्ऱ्चासौसङ्गश्ऱ्च शीर्यसङ्गः नशीयर्सङ्गोऽशीर्यसङ्गः । श्रुतावात्मनोऽग्रह्यत्वे हेतुरुच्यते नहिगृह्यत इति तदयुक्तम्‌ । ईश्ऱ्वरस्यापि गृह्यमाणत्वादित्यतस्तद्वयाचष्ये ॥ नहीति ॥ क्वापि देशे क्वचित्काले सर्वात्मनानज्ञायते इत्युक्त्याऽल्प एव ज्ञायत इति लभ्यते । ननु तर्हि नहि शीर्यते न हि सज्यते नव्यथतेनरिष्यतीत्यत्रापि सर्वात्मनाशीरणादिनिषेधेल्पः शीर्यत इत्यादिस्यादित्यत आह ॥ स्वल्पोपीति ॥ नव्यथतेन रिष्यतीत्युक्त्यावर्तमाननिषेधमात्र प्रतीति वारणायक्रियाप्रबन्धेलडित्यभिप्रेत्याह ॥ भूतपूर्वाभविष्योवेति ॥ नचनाशोभवेदिति च ॥ नचैवं व्याख्याने साध्यावैशिष्यष्ययदोषः । अग्राह्योशर्यसङ्गोसावसितश्ऱ्चनरिष्यतीत्यत्र इत्युच्यत इत्यध्याहारात्‌ । यद्वाऽग्राह्य इत्यदिकं सम्बन्धमात्र प्रदर्शनपरम्‌ । प्रतिज्ञातमग्राह्यत्वादिकमेवोक्तशङ्कानिरासाय नहि सर्वात्मनेत्यादिना विवृतम्‌ । नहि गृह्यत इत्यादिवाक्यं तु यथाहेतुप्रतिपादकं तथाचार्थः स्वयमेवव्याख्यास्यति । ननु नेति नेतीत्युक्तवैलक्षण्ये अग्राह्यत्वादिकं हेतुत्वेनोच्यते । इदञ्चेदन्यनिष्ठं तदाकथं हेतुः स्यादित्यतः अन्यस्य सर्वात्मना अग्रेह्यत्वादिकं नास्तीत्याह ॥ अन्यदिति ॥ अन्यत्‌ रमादिकं तेन परमात्मनागृहीतं सर्वात्मनेति शेषः । ज्ञानादिनेत्यादिशब्देन चक्षुरादिकं ज्ञानेन गृहीतं विषयीकृतम्‌ । ननु सर्वात्मनाऽग्राह्यत्वस्य विष्णोरन्यत्राभावेपि निरुक्ताशीर्यत्वस्य रमायां मुक्तेषु च सत्वात्‌ ।

निरुक्तानामसङ्गत्वाबद्धत्वानाश्यत्वानां मुक्तेष्वभावेपि रमायां सत्वात्‌ कथमयं तद्वैलक्षण्येहेतुः स्यादित्यत आह ॥

अशीर्यत्वादय इति ॥ रमायामुक्तानाञ्चेत्यर्थः । अत्र अशीर्यत्वमात्रापेक्षया अन्येषामिति बहुवचनम्‌ । श्रुतौ स्वातन्त्ऱ्ेण अशीर्यत्वादिकमेव विवक्षितमिति भावः । ततश्ऱ्चाग्राह्यत्वादेरन्यसाधारण्याभावेन तस्य वैलक्ष्येहेतुत्वं युज्यत एवेत्याह ॥ अत इति ॥ सर्वात्मनाऽग्राह्यत्वादेः विष्णुमात्रनिष्ठत्वात्‌ । तस्य हरेरति वैषम्यात्‌ रमादिभ्योःऽत्यन्तविलक्षणत्वात्‌ । समानादिपदवाच्यविष्ण्वादीनां उदानादिपदवाच्यलक्ष्म्ाद्याश्रयत्वं नाधारत्वमात्रमित्याह ॥ तद्गुणानामिति ॥ तर्ह्यभेदः स्यादित्यत उक्तम्‌ ॥ प्रतिबिम्बितमिति ॥ तद्गुणान्‌ श्रीगुणप्रतिबिम्बभूतस्वगुणशन्‌ । अस्योत्तरत्रापि सम्बन्धः । अहल्लिकेत्यस्य अहनिलीयत इत्यहल्लिकः प्रेत इति यावत्‌ । तथाच प्रेतनाम्नाशाकल्यसम्बोधनं क्रियत इति परव्याख्यानमसत्‌ । अहनिलीयत इत्यस्य प्रेत इत्यर्थत्वासम्भवात्‌ । लक्षणशयाञ्च स एव दोष इति भावेन स्वयं व्याचष्ये ॥ अहर्ज्ञानमिति ॥ अहर्दिनं प्रकाशश्ऱ्चक्वचिज्ज्ञानं इत्यभिधानं प्रागेवोक्तम्‌ । तर्ह्यहर्लिक इति स्यादित्यत उक्तम्‌ । अहर्लिक एवेति रफेस्यलत्वमिति भावः । कस्मिन्हृदयं प्रतिष्ठितमिति प्रश्ऱ्ने अहल्लिकेत्युक्तिरसङ्गतेत्यतस्तदभिप्रायमाह ॥ अज्ञेत्याक्षिपतीति ॥ हृदयाख्योमायाः शिवेप्रतिष्ठितत्वस्यातिप्रसिद्धत्वेन तत्रापि प्रश्ऱ्ने अज्ञेति तमाक्षिपतीत्यर्थः । ननु श्रुतौ अग्राह्यः अशीर्य इत्याद्युक्तार्थेनहि गृह्यते नहि शीर्यत इत्यदिना तदेवतत्रहेतुत्वेन कथमुच्यत इत्यत आह ॥ नहीति ॥ तताचार्थाभावे प्रमाणाभावोहेतुरुच्यत इति नानुपपत्तिरित्यर्थः । ननु शाकल्येनापि ब्रह्मणोज्ञातत्वात्‌ याज्ञवल्क्येनापि स एष नेति नेतीत्यादिनाविशेषेणनिरूपितत्वाच्चतद्गुणकस्य ब्रह्मणोवक्तुं शक्यत्वात्कस्मात्‌ तं हनमेनेशाकल्य इत्यतस्तस्याभिप्रायमाह ॥ नेतीति ॥ विशेषापेक्षयेति ॥ अत एव श्रुतौ तं चेन्मेनविवक्ष्यसीति विशेषवाचकविशब्दप्रयोग इति भावः । निरूह्यप्रत्यूह्येत्यनयोरेकार्तत्वप्रतीतिं निवारयन्व्याचष्ये ॥ तदपेक्षामित्यादिना ॥ जगदपेक्षाम्‌ । निरोर्थोनिर्गत्येति । ननु देवताधर्मादिस्वरूपस्याप्युपनिषद्गम्यत्वात्‌ औपनिदमिति कथमेतस्यैव विशेषणमित्यत आह ॥ नेति ॥ केनापि प्रकारेण कस्यचित्पुंसः । कर्तरिषष्ठीयम्‌ । नन्वाश्ऱ्वलादिभिः यदिदं सर्वमृथ्युनाप्तं सर्वं मृथ्युनाभिपन्नं केन यजमानोमृत्योराप्तिमतिमुच्यत इत्यादिप्रश्ऱ्नेकृतेयाज्ञवल्क्येन होत्रर्त्विजाग्निनावाचा इत्यादिनोत्तरेच दत्ते तत्र प्रमाणमपृष्ट्वा कथं तदङ्गीकारः क्रियते । आश्ऱ्वलादिभिः याज्ञवल्क्येन क्रियमाणायाः कथायाजल्परूपत्वात्‌ । जल्पेच प्रमाणप्रश्ऱ्नस्य कर्तव्यत्वात्‌ इत्यतः आश्ऱ्वलादिभिः प्रमाणप्रश्ऱ्नाकरणषनिमित्तं वक्तुमाह ॥ प्रश्ऱ्न इति ॥ विप्रतिपन्नप्रमेये इति शेषः । वादिना च तत्पृष्यप्रमेयं वक्तव्यमित्यपि ग्राह्यम्‌ । तत्र यदिप्रतिवादिनस्तदुक्तौ वादिवचने प्रामाण्यं निश्ऱ्चितं तदाऽऽगमान्तरं नापेक्षितं तदुक्तेरेवागमरूपत्वात्‌ । ततश्ऱ्च नतदुक्तेप्रमेयेप्रमाणप्रश्ऱ्नः कर्तव्य इति भावः । यदाशङ्कातदुक्तौ प्रामाण्यविषयिणी तदातेन प्रमाणप्रश्ऱ्नः कर्तव्यः । वादिनावागमोदर्शनीयः इत्यर्थः । नन्वस्त्वेवं तथापि याज्ञवल्क्यवचनेऽप्रामाण्यशङ्कैवकुतो नेत्यत आह ॥ निःशङ्कत्वेनेति ॥ भ्रान्तोपि वैयात्यात्‌ प्रश्ऱ्नोत्तरं निश्शङ्कत्वेन वक्तीति तद्वयावृत्त्यर्थं सदागमानामानुकूल्येनेत्यक्तम्‌ । इतोपि याज्ञवल्क्यवचनेनाप्रामाण्यशङ्केत्याह ॥ दशताल इति ॥ तथाशब्दौचशब्दः पुनःशब्दश्ऱ्चलक्षणानां परस्परसमुच्चये । नाशङ्कयमेवेत्येवशब्दसम्बन्धः । दशतालः दशमणिबन्धपरिमितकायः दशमुखः दशमुखपरिमितकायः ललाटत्रिंशकःत्रिंशल्ललाटपरिमितकायः सार्धोन्नतः अर्धोन्नतललाटषन सहितः पर्यग्दशशिराः पर्यक्‌ परितः दशललाटपरिमितकायः पञ्चोराः उरः पञ्चकपरिमितकायः सप्तपादः सप्तपादपरिमितकायः नवाङ्गुलमुखः नवाङ्गुलपरिमितं मुखं यस्य सतथोक्तः चतुरङ्गुलः चतुरङ्गुलपरिमाणवान्‌ चतुर्विंशाङ्गुलतनुः चतुविंशाङ्गुलपरिमितातनुर्मध्यदेहोयस्य सतथोक्तः । देवपूजितं तथाच नाप्रामाण्यशङ्कातत्रेत्यर्थः । ननु याज्ञवल्क्यस्य उक्तसर्वलक्षणोपेतत्वाभावात्‌ कथं तद्वचनेऽप्रामाण्यशङ्काभाव इत्यत आह ॥ प्राधान्यादिति ॥ B-23

?Rबाहुल्यादित्यर्थः । अल्पदुर्लक्षणयुत इत्यर्थः । ननु सर्वलक्षणसम्पन्नस्यैव वाक्यं मानमिति प्राधान्येन लक्षणोपेतस्यापि वाक्यं अमानं किं नस्यादिति चेत्‌ न । तथात्वे देवष्यर्ादिवचनेप्यप्रामाण्यशङ्कास्यात्‌ । कुत इत्यत आह ॥ प्राय इति ॥ प्राय इत्यस्य व्यावर्त्यमाह ॥ ऋत इति ॥ किं तत इत्यत आह ॥ यस्मादिति ॥ यद्वा भवतु विष्णुविरिञ्चेतरदेवर्ष्यादिवचनेप्यप्रामाण्यशङ्केचेत्‌ । तथात्वे प्रमाणप्रश्ऱ्नं विनैवतत्प्रश्ऱ्नोत्तररूपाः कथावेदेन स्युरिति भावेनाह ॥ यस्मादिति ॥ तस्मादेवेत्यर्थः । वाक्यार्थघटनामेवपृच्छन्ति नघटनां विनातत्र तदुक्तेर्थेप्रमाणान्तरं पृच्छन्ति । अत एव याज्ञवल्क्येन त्रयस्त्रिंशत्सुषडेवोत्तमाः षट्‌सुचत्रय एवोत्तमाः इत्याद्युक्त्वाकथमिदं घटत इत्याशङ्कापरिहाराय एतेषु हीदं सवर्ं षडिति एतेषु हीमेसर्वेदेवा इत्यादिनाघटकोहतुरुक्तः । यदर्थमेतावदुक्तं तदाह ॥ एतस्मादिति ॥ याज्ञवल्क्यस्य

ऋषित्वेनागमानुकूल्येन निःशङ्कं प्रश्ऱ्नोत्तरवाक्तृत्वात्‌ प्राधान्येनोक्तलक्षणोपेतत्वाच्चतद्वचनस्यानाशङ्कनीयत्वादित्यर्थः ।

?Rमहापुरुषवचोनशङ्कयमित्युक्तम्‌ । तत्र मानान्तरं पठति ॥ य इति ॥ आदक्षिणशमुतसमग्रदक्षिणामपि प्रतीच्छन्दातुमिच्छन्‌ पर्येषणं अन्वेषणं कुर्यात्‌ । यदि एतादृशस्यापि वचनं शङ्कार्हं तदासमग्रदक्षिणादानेन तत्पर्येषणविधानं नस्यादिति भावः । अत एव जनकादयः अलङ्कृतगवादिदक्षिणयातदन्वेषणं कृतवन्तः । एतल्लक्षणविशिष्यस्यापि वचनं नाशङ्कयमित्याह ॥ षण्णवत्यङ्गुल इति ॥ तत्परिमितकायः । उक्तलक्षणवतो वचोनशङ्कार्यं इत्येतत्प्रमेयमुपपत्त्यापि समर्थयते ॥ अत एवेति ॥ चशब्दः पूर्वोक्तागमसमुच्चायकः । यतः उक्तलक्षणस्य वचोनशङ्कनीयं अत एव पञ्चरात्रादिसर्वागमेषु प्रतिसंहितं सर्वसंहितासु आचार्यलक्षणमुच्यते । अन्यथा तदुक्तिवैयर्थ्यं स्यादित्यर्थः । यथावृक्षोवनस्पतिस्तथैवपुरुषोमृषेत्यत्र मृषेति पदच्छेदोऽनुपपन्नः । वृक्षमिथ्यात्वस्यासिद्धत्वेन दृष्यान्तत्वेनोपादानायोगात्‌ । पुरुषमिथ्यात्वस्य प्रमाणबाधितत्वाच्च । अमृषेति पदच्छेदेपि अथसत्यत्वप्रतिपादनपरत्वेव नस्पतिशब्दोव्यर्थः स्यात्‌ । नच वनस्पतिरितिवृक्षस्या विशेषणमिति वाच्यम्‌ । पर्यायोः विशेषणविशेष्यवाचकत्वानुपपत्तेरिति भावेन तद्वाक्यं यथावद्वयाचष्ये ॥ यथेति ॥ सप्तसुप्रथमेति सूत्रात्‌ वनस्पतिरिति प्रथमासप्तम्यथर्े । श्रुतौ वृक्ष इत्यनन्तरमितिशब्दाध्याहारः । अथशास्त्रेप्रयुक्तस्य इतिशब्दस्य शब्दपदार्थकत्वमिति तल्लब्धार्थोक्तिः ॥ अयंशब्द इति ॥ अमृषाविद्यमानार्थक एव वृक्षशब्दप्रवृत्तिनिमित्तवृक्षत्वस्य तत्र सत्वात्‌ । पुरुषे पुरुषशब्द इत्यनेन श्रुतौ पुरुषशब्द आवर्तनीय इत्युक्तं भवति । अमृषेत्यस्याविद्यमानार्थोनेत्यर्थमभिप्रेत्यलब्धमर्थमाह ॥ विद्यमानोविद्यमानाथर् एवेति ॥ ननु मर्त्यः स्विन्मृत्युवृक्णः कस्मान्मूलात्प्ररोहतीति प्रष्यव्यार्थानुपयुक्तमेवदित्यत आह ॥ सचेति ॥ चशब्दः प्रकृतानुसन्धानार्थः । एतस्योपयोगमुत्तरत्र वक्ष्यति । विद्यमानार्थकः पुरुषशब्दोवाच्यस्य नित्यत्वे सम्भवति । कुत इत्यतः पुरुषशब्दस्य नित्यत्वार्थकत्वादिति भावेना पुरुषशब्दार्थमाह ॥ पुरुकालेपीति ॥ किनाटं स्नावतत्स्थिरमिति वाक्यं अप्रतीतेः व्याचष्ये ॥ स्नावमध्ये इति ॥ स्नावेति अविभक्तिकोनिर्देशः । विभक्तिश्ऱ्चषष्ठीति भावेनोक्तं स्नावमध्य इति । श्रुतौ तच्छब्दश्रवणात्‌ यदिति लभ्यते । आस्थिसंलीनं संलग्नमित्यर्थः । दारुसंश्ऱ्लिष्यपाशेति किनाटशब्दार्थः । ननु कस्मान्मूलात्प्ररोहतीत्यत्र वृक्षः कस्मान्मूलात्प्ररोहतीत्यस्यार्थोभिमतः स न युक्तः । यद्बृक्षोवृक्णोरोहतिमूलान्नवतरः पुनरिति वृक्षस्य मूलशब्दवाच्यभूगतवृक्षभागकारणकत्वस्योक्तत्वेन सिद्धविषयत्वादित्यतस्तद्वाक्यतात्पर्यमाह ॥ वृक्ष इति ॥ तत्र हेतुमाह । यत्समूलमिति ॥ रेतस इति मावोचतेत्यत्रजीवतस्तत्प्रजायत इति कथं हेतुरुच्यत इत्यतस्तदभिप्रायमाह ॥ अन्यस्येति ॥ अन्यस्यसृज्यस्य पुरुषान्तरस्य रेतसिचेत्यर्थः । पुरुषान्तरसद्भावोपि स्यादित्यत आह ॥ प्रलयेत्विति ॥ अनेन अञ्जसा प्रेत्य इत्यस्य तात्पर्यमुक्तं भवति । एवं याज्ञवल्क्य प्रश्ऱ्ने ते हब्राह्मणानदधृषुरित्युक्तत्वात्‌ जात एव न जायते इत्यादिनायाज्ञवल्क्येन स्वयमेवपरिहाराच्च ब्राह्मणास्तूष्णीं बभूवुरिति प्रतीयते तदयुक्तम्‌ । ऋषीणां पुरुषाद्युत्पादकतया भगवज्ज्ञानित्वेन कस्मान्मूलात्प्ररोहतीति प्रश्ऱ्नस्य भगवत इत्युत्तरमदत्वातूष्णीं भावेनिमित्ताभावादित्यत आह ॥ तत्पृष्यमिति ॥ ननु किं तत्पृष्यं यत्सर्वं वक्तुमशक्ता ऋषय इत्यतः प्रश्ऱ्नाभिप्रायमाह ॥ पुरुषस्येति ॥ देहव्यतिरिक्तजीवाभावात्‌ भावेवाशरीरेण सैव तस्य नाशेनपूर्वोत्तर शरीरेष्वनुवर्तमानस्यस्यैकस्याभावात्‌ तस्य पुनरुत्पत्तिरेवनास्तीति कथं तदुत्पादकप्रश्ऱ्न इत्यतो न जीवस्य शरीरेण सह विनाशः । किन्तु सनित्य एव पुरुकालेसन्निति यौगिकपुरुषनामवत्त्वात्‌ । नित्यस्य तस्याऽशरीरत्वे संसारायोगात्‌ यावन्मुक्तिशरीरयोगलक्षणपुनरुत्पत्तिरावश्यकीत्यर्थः । नन्वस्त्येवं जीवस्य पुनरुत्पत्तिः तथापि तदुत्पादकप्रश्ऱ्नोनुपपन्नः स्वस्यैवोत्पादकत्व सम्भवेन सिद्धविषयत्वादित्यत उक्तम्‌ ॥ तस्यचेति ॥ असौ उत्पादकः । कः किं लक्षणक इत्यर्थः । तथाच पुरुषस्य पुनरुत्पादकं भगवन्तं जानन्तोपि वक्ष्यमाणं तल्लक्षणं वक्तुमशक्ता षय इति भावः । याज्ञवल्क्यपृष्यं न विज्ञातं ब्राह्मणैः अतो ब्रह्मिष्ठत्वाद्धृताः गावः याज्ञवल्क्येन जिताः ब्राह्मणाः । समाप्ता आज्ञ्यायिका । यत्‌ याज्ञवल्क्येन पष्यन्तच्छतिरस्मभ्यं उपदिशति विज्ञानमितीति परव्याख्यानमप्रामाणिकं स्वयमेवतदोवाचयाज्ञवल्क्य इति प्रमाणविरुद्धञ्चेति भावेन तद्वाक्यमवतारति ॥ तेष्विति ॥ एतेन विज्ञान मानं दमित्येतदेवयाज्ञवल्क्यं प्रतिपृष्यं ऋषीणशं वाक्यमिति प्रतीतिरपि परास्ता । जात एव न जायत इति वाक्यं याज्ञवल्क्य कृतप्रश्ऱ्नान्तर्गतमिति परोव्याख्याति । तथाहि । यस्तुमृतः स पुनिः न जायते जातत्वादेव जनिष्यमाणस्य हि कारणचिन्तान जातस्य अतोत्र प्रश्ऱ्न एवानुपपन्न इति चेत्‌ नेति पृथक्‌ वाक्यम्‌ । यन्मतं जात एवेति तन्न किन्तर्हि मृतःपुनरपि जायत एव । अन्यथाकृतनाशाकृताभ्यागमः स्यात्‌ । अतो वःपृच्छामि । एनं मृतं कोनुपश्ऱ्चात्पुनर्जनयेदिति तदसत्‌ । जात एवेति चेन्न जायत एवेति योजनायामध्याहारवाक्य भेदप्रसङ्गात्‌ । यस्तुमृतः स पुनर्नजात इति शङ्कितुर्जीवानित्यत्वं ह्यभिप्रेतम्‌ ।

तच्चास्मत्पक्षेतथैवपुरुषोमृषेति जीवस्य पुरुकालेसन्निति यौगिकपुरुषनामकत्वोक्त्यापरिहृतमेव । यथोक्तं पुरस्तात्‌ ।

स्वभाववादमालंब्येयमाशङ्केत्यनुपपन्नमेव । तददर्शनात्‌ । अत एवाचार्यस्तस्य स्वात्पत्तावस्वातन्त्ऱ्ादिति स्वयमेव स्वभाववादमपाकृतवान्‌ । त्वत्पक्षेविज्ञानानन्दस्यापि ब्रह्मण उत्पादकशङ्काया अपरिहाराच्च नैवास्य जनकः कश्ऱ्चिन्नित्यजातोह्यसौहरिरिति प्रमाणे एतद्वाक्यस्य याज्ञवल्क्यपरिहारवाक्यान्तर्गतत्वावगतेः तद्विरोधाच्चेति भावेन तदवतारयति ॥ तस्यापीति ॥ B-24

?Rनन्वेवं व्याख्यानेकोन्वेनंजनयेत्पुनरिति पुनःशब्दोऽयुक्तः स्यात्‌ । क्रियाभ्यासापेक्षयाऽप्रयुक्तेन पुनः शब्देनैकवा रञ्जन न प्रतीतेः । परमात्मनश्ऱ्चसकृदपि जननानङ्गीकारादित्यत आह ॥ पुरुषान्तरेति ॥ अनेन पुनः शब्दान्वयः सूचितो भवति । ननु क्रियाभ्यासे पुनःशब्दप्रयोगोदृष्यः पुनरागत इत्यादौ न पुरुषान्तरापेक्षयेत्यर्थे । अतस्तत्रापि प्रयोगमाह ॥ एकएवेति ॥ रातिरिति प्रथमाषष्ठयर्थे । रातेर्धनस्य दातुः परायणमिति परव्याख्यानमसत्‌ । सप्रियः सर्वदानॄणशमिति प्रमाणविरोधादिति भावेन रातिशब्दार्थमाह ॥ रातिरति ॥ व्यवहितत्वेनान्वयं दर्शयति ॥ तिष्ठमानस्येति ॥ एवं स्ववचनेन व्याख्यायदार्ढ्यायश्रुतिव्याख्यानरूपं प्रमाणं पठति ॥ विजित्येति ॥ तं त्वौपनिषदं पुरुषं पृच्छामीति शाकल्यं प्रतिकृतप्रश्ऱ्नापेक्षयापुनः शब्दः । अनेन अथ होवाच ब्राह्मणा इत्याद्यारभ्य पप्रच्छेत्यन्तमुक्ततात्पर्यं भवति । यथा वृक्ष इत्यादेरर्थमाह ॥ यथेति ॥ यथार्थतः विद्यमानार्थत्वेन पूर्वोत्तराभ्यामेतत्सम्बध्यते । तच्छब्दःपुरुषशब्दः पुरुषेपि वर्तते । नन्वेतत्प्रष्यव्यार्थासङ्गतं किमुच्यत इत्याशङ्कां परिहरन्‌ प्रश्ऱ्नवाक्यतात्पर्यमाह ॥ नित्यत्वादेवेति ॥ तच्छब्द इत्यनुवर्तते । शरीरेण सह रेतस इति मावोचतजीवतस्तत्प्रजायत इति वाक्यस्य तात्पर्यमाह ॥ रेतस इति ॥ मदीयप्रश्ऱ्नस्त्वादि सृष्यिविषयक इति भावः । अत्र मर्त्यः स्विन्मृत्युनावृक्णः कस्मान्मूलात्प्ररोहतीति पुरुषोत्पादकमात्र प्रश्ऱ्न इति प्रतीतिनिरासाय यत्‌ समूलमावृहेयुरित्येतदनुरोधेन प्रश्ऱ्नाभिप्रायमाह ॥ निर्मूलस्येति ॥ कृत्स्नश इत्रत तत्स्वरूपलक्षणविवक्षया । धानारुह इव वृक्ष इत्येतद्वयाचष्ये ॥ धानाजात इवेति ॥ इवशब्दाभिप्रायकथनं अविदुषामिति ॥ विदुषामपि तथाकुतो न दृश्यत इत्यत आह अस्वातन्त्ऱ्ादिति ॥ अस्वातन्त्ऱ्ान्नेव तत्कारणं भवेत्‌ । अविद्यमानं कथं विदुषां दृश्येतेति भावः । अविदुषां विदुषामिति कर्तरिषष्ठयौ । अञ्जसाप्रेत्यसम्भव इति वाक्यं सम्भवशब्देन भाव उच्यत इत्रत प्रतीति निरासाय व्याचष्ये ॥ अञ्जसेति ॥ प्रेत्यस्थितस्येति शेषः । अनेन सम्भवति अस्मादिति व्युत्पत्तिः दर्शिता । अञ्जसाप्रेत्यसम्भूतिकारणमपि स्वयं जव एव किं नस्यादित्यत आह ॥ प्रेत्येति ॥ जीवस्त्वस्वतन्त्र इति भावः । जात एव न जायत इत्यादेः ऋषीणां परिहारवाक्यत्वमिति प्रतीति निरासायमध्येवक्तव्यमाह ॥ इतीति ॥ तद्वेत्तारोपि उत्पादकस्वरूपवेत्तारोपि तत्प्रश्ऱ्ननिर्मूलने तत्पृष्यलक्षणकथनेन सर्वथाप्रश्ऱ्नपरिहारेबलोज्खिता इत्यर्थः ।ते ह ब्राह्मणानदधृषुः इत्यतस्यतात्पर्यमाह ॥ अधाष्यर्यादिति ॥ विज्ञानमानन्दं ब्रह्मेति वाक्यमपेक्षिताध्याहारं सूचवन्व्याचष्ये ॥ पूर्णानन्द इति ॥ मुख्यामुख्ययोः मध्येमुख्येसम्पत्यय इति पूर्णानन्द इत्युक्तम्‌ । पूर्णविज्ञान इत्यपि ग्राह्यम्‌ । जात एव न जायते कोन्वेनं जनयेत्‌ पुनरिति वाक्यं हेतुहेतुमद्भावप्रतिपादकतया व्याचष्ये ॥ नैवेति ॥ रातिः र्दातुः इत्यस्यार्थमाह ॥ सप्रिय इति ॥ तद्विदः परायणमित्यस्यार्थमाह ॥ ज्ञानिनामिति ॥ ज्ञानिनां मध्यमभक्तानामित्यर्थः । तिष्ठमानस्य परायणमित्यस्यार्थमाह ॥ येत्विति ॥ तुत्तिशेषेण । तद्भाविता एकान्तिन इत्यर्थः । ततश्ऱ्चायंखण्डार्थः ॥ अथवा चक्नव्युपरमानन्तरं एनं याज्ञवल्क्यम्‌ । शकलस्यापत्यं शाकल्यः विदग्धोनामतः पप्रच्छ । किं हेयाज्ञवल्क्य देवाः कति किं सङ्खयाका इति एवं पृष्यः सः याज्ञवल्क्यः यावन्तो यावत्सङ्खयाकादेवाः वैश्ऱ्वदेवस्य शस्त्रस्य निविदि निवित्संज्ञिकमन्त्रे उच्यन्ते तावतो देवान्‌ ह एतयावक्ष्यमाणयानिविदातत्संज्ञकमन्त्रेण प्रतेपि देज्ञातवान्‌ । तां निविदं दर्शयति ॥ त्रयश्ऱ्चेति ॥ त्रयश्ऱ्चत्रीचशतात्रयस्त्रिंशच्छतानि । त्रयश्ऱ्चत्रीचसहस्रात्रयस्त्रिंशत्सहस्राणीत्यर्थः । यद्यपि इतोप्यधिकसङ्खयादेवानामस्ति । नवकोट्योहि देवानामित्याद्युक्तेः । तथापि तेषु त्रय स्त्रिंशत्सहस्रसङ्खयाकादेवा अधिकाः तेषु त त्रयस्त्रिंशच्छतसङ्खयाका अधिका इति भावः । एवं याज्ञवल्क्योक्तं परिहारं शाकल्योङ्गीकरोतीत्याह ॥ ओमिति होवाचेति ॥ शाकल्य इति शेषः । त्रयस्त्रिंशच्छतसङ्खयाकेष्वपि देवेषु अधिकान्‌ पृच्छति ॥ कत्येवेति ॥ उत्तरमाह ॥ त्रयस्त्रिंशदिति ॥ एवमुत्तरत्रापि प्रश्ऱ्नपरिहारौ व्याख्येयौ । अथ सङ्खयेयस्वरूपं पृच्छति ॥ कतम इति ॥ 1 ॥ स एवं पृष्यो याज्ञवल्क्यः उवाच । किं त्रयस्त्रिंशदेवदेवाः तु विशिष्याः । एतेत्रयस्त्रिंशच्छतसङ्खयाकानां देवानां महिमान एव महिनामाहात्म्येनमिताः परिमिताः न्यूनाः अत एव तेषां परिवारभूता एवेत्यर्थः । तेषां बहुलत्वात्‌ पृथङिर्देशमकृथ्वामहिमान इत्येवोक्तम्‌ । तथा एते त्रयस्त्रिंशत्सहस्रसङ्खयाकादेवाः एषां त्रयस्त्रिंशच्छतसङ्खयाकानां देवानां महिमान इत्यपि योज्यम्‌ । त्रयस्त्रिंशत्सङ्खयाकान्‌ पृच्छति ॥ कतम इति ॥ ते त्रयस्त्रिंशच्छतसङ्खयाकेष्वधिकाः । उत्तरमाह ॥ अष्याविति ॥

?Rइन्दश्ऱ्चप्रजापतिश्ऱ्चत्रयस्त्रिंशौद्वात्रिंशत्रयस्त्रिंशत्सङ्खयापूरकौ । अत्रेन्द्रशब्देन वायुज इन्द्रो ग्रौह्यः । नक्षत्रशब्देन रूपान्तरग्रहणात्‌ । प्रजापतिशब्देनेन्द्रपुत्रोजयन्त उच्यते । 2 ॥ अग्निः सुपर्णः पृथिवीतद्भार्यासौपर्णी वायुः सूत्रात्मा अन्तरिक्षं तत्पत्नीश्रद्धा आदित्यः शिवः द्यौस्तद्भायर्ोमाचन्द्रमाः कामः नक्षत्राणीन्द्रः बहुवचनं रूपबाहुल्याभिप्रायेण । इत्येतेवसवः कुत एते वसुशब्दाभिधा इत्यत आह ॥ एतेष्विति ॥ सर्वं वसतीति वसुशब्दवाच्यं जगत्‌ एतेषु अष्यसुहितं निहितं इति हि यस्मात्‌ तस्मादेते वसव इत्यथर्ः ॥ 3 ॥ पुरुषे जीवे वर्तमानाः प्राणाः ज्ञानेन्द्रियकर्मेन्द्रियनियामकाः इमे प्रसिद्धाः दक्षाग्निप्रमुखावायुपुत्राः दश आत्मबुद्धयभिमानीबृहस्पतिः एकादशः एकादशत्व सङ्खयापूरकः । तेषु रुद्रशब्दं निर्वक्तुमाह ॥ तेयदेति ॥ तेएकादशेन्द्रियाभिमानिनः यदायस्मिन्काले । अस्मान्मर्त्यात्‌ स्रियमाणाच्छरीरात्‌ उत्क्रान्ति काले रोदयन्ति तस्माद्रुद्रा इत्युच्यन्त इत्यर्थः ॥ 4 ॥ संवत्सरस्य संवत्सरात्मकस्य कालस्य वैप्रसिद्धायेद्वादशमासाद्वादशमासाभिमानिनः एते आदित्याः तेच धातार्यमाविवस्वान्पूषात्वष्यासविताभगः पर्जन्योवरुणोमित्रयोयमश्ऱ्चन्द्र इत्येते तेष्वादित्यशब्दं निर्वक्तुमाह ॥ एतेहीति ॥ एतेद्वादशादित्याः इदं सर्वं प्राणिनामायुरादिकं आददानायन्ति परितोयान्ति । तेयत्‌ यस्मात्‌ इदं सर्वमाददानायन्ति तस्मादादित्या उच्यन्त इत्यर्थः ॥ 5 ॥ वायुजेन्द्रजयन्तयोः रूपविशेषं पृच्छति ॥ कतम इति ॥ स्तनयित्नुरेवतदभिमान्येव प्रसिध्यर्थ एव कारः यज्ञोयज्ञाभिमानी तस्यापि रूपविशेषं पृच्छति ॥ कतम इति ॥ अशनिः वज्राभिमानी पशवः पश्ऱ्वभिमानी ॥ 6 ॥ एतेषु त्रयस्त्रिंशद्देवेषु येषडधिका उक्तास्तान्पृच्छति ॥ कतमेषडिति ॥ अग्न्यादिशब्दार्थस्तूक्त एव । एतेषां त्रयस्त्रिंशत्स्वाधिक्ये हेतुमाह ॥ एतेषुहीति ॥ इदं बुद्धिस्थं षष्‌ज्ञानविज्ञानैश्ऱ्वर्यवीर्यश्रीयशोरूपगुणषट्‌कं एषु अग्न्यादिशब्दाभिधेयेषु गरुडादिषु सर्वं पूर्णं देवतान्तरापेक्षयोत्कृष्यं हि यस्मात्‌ इति तस्मात्‌ त एव त्रयस्त्रिंशत्स्वधिका इत्यर्थः ॥ 7 ॥ षट्‌त्स्वधिकान्‌ त्रीन्पृच्छति ॥ कतम इति ॥ इम एव पूवर्ोक्ता अग्निवाय्वादित्यशब्दवाच्याः वीन्द्रवायुमहेश्ऱ्वराः लोकाः स्वस्वभार्याणशमाश्रयाः ज्ञानरूपाश्ऱ्च । अनेन वायुवीन्द्रमहेश्ऱ्वराणशं सर्वदेवोत्तमत्वं लब्धं तत्कुतइत्यत आह ॥ एषुहीति ॥ हि यस्मादेषु वायुवीन्द्रमहेश्ऱ्वरेषु सर्वेदेवा अन्तर्भूताः इति तस्मात्तेसर्वदेवोत्तमा इत्यर्थः । अत्र सर्वदेवानां तदन्तर्भावोनामतत्परिवारत्वं विवक्षितमिति बोध्यम्‌ । षट्‌त्सुस्वभार्यापेक्षयाधिकप्रश्ऱ्नेत्रय इति परिहारोभिहितः । षट्‌त्स्वेवस्वरूपोत्तमापेक्षया अधिकप्रश्ऱ्नेद्वावितियदुत्तरमुक्तं तयोः द्वयोः स्वरूपं पृच्छति ॥ कतमाविति ॥ अन्नं प्रागन्तरीक्षब्दोक्ताश्रद्धा प्राणः तत्पतिः मुख्यवायुः चशब्दौ परस्परसमुच्चये । एवकारः प्रसिद्धर्थः ॥ 8 ॥ अध्यर्धस्वरूपं पृच्छति ॥ कतम इति ॥ यः सर्वलोकाधारतया पवते अयमध्यर्ध इत्युच्यते । तत्् तत्रवायोरध्यर्धशब्दवाच्यत्वविषये आहुः पृच्छन्तिशाकल्याद्या । किमिति कथमध्यर्थ इति केननिमित्तेन अध्यधर्शब्दवाच्य इत्यर्थः । तस्योत्तरमाह ॥ यदस्मिन्निति ॥ यत्‌ यस्मात्‌ अस्मिन्‌ वायौ इदं बुद्धिस्थं सर्वं ज्ञानादिगुणजातं अध्यार्ध्नोत्‌ आधिक्येन ऋद्धमभवत्‌ तेन कारणेनाध्यर्ध इति । तत्‌ तत्रापि आहुः पृच्छन्ति । किमिति कथमस्मिन्‌ गुणजातमध्यार्ध्नोदिति । तस्योत्तरमाह ॥ यदयमिति ॥ यत्‌ यस्मात्‌ अयं वायुः एक इवैवपवते । नायमेक एव यतो विष्णुरेतद्विशिष्यः ।नापि द्वितीय एव । विष्ण्वतिप्रीति विषयत्वात्‌ अतोऽयमेक इवैवेत्युच्यते । अथ तस्मात्‌ उक्तनिमित्तेनैक इवैवेत्युच्यमानत्वात्‌ । अस्मिन्‌ इदं सर्वमध्यार्ध्नोदित्यर्थ इति योज्यम्‌ । यत्‌ यस्मात्‌ । असिमन्वायौ । इदं सवर्ं प्रमाणप्रमितं जगत्‌ अध्यार्ध्नोत्‌ आधिक्येन स्थापितमभवत्‌ तेनाध्यर्ध इत्युच्यत इत्यपि यदस्मिन्निति वाक्यं व्याख्येयम्‌ । प्राणोविष्णुः सप्राणनामाविष्णुः । ब्रह्मेति गुणपूर्ण इति त्यदिति तत्‌ तथा । यथा श्रुत्यादौ प्रतिपातं तथैवनतु विकारेणानाद्यनन्तकालेषु यातीति त्यादित्याचक्षते विद्वांसः ॥ 9 ॥ पुनरपि प्रष्युं प्रष्यव्यार्थज्ञानिनस्तात्फलमाह ॥ पृथिवीति ॥ हे याज्ञवल्क्य यस्य पुरुषस्य पृथिव्येवय प्रसिद्धैव पृथिवी आयतनमाश्रयः यदभिमन्यमानेति यावत्‌ । अग्निर्वागभिमान्यग्निस्ता अग्निशब्दाभिदारमा लोको बाह्यप्रकाशहेतुः मनोवृत्तिहेतुः मनः मनः स्थितामनोनाम्नीरमा ज्योतिरान्तरप्रकाशरूपस्वरूपज्ञानाविर्भावहेतुः तं सर्वस्यात्मनोजीवजातस्य परायणं उत्तमाश्रयं उत्तमाश्रयं पुरुषं यो वैय एवाधिकारी विद्यात्‌ जानीयात्‌ सवै स एव वेदिताज्ञानी स्यादित्यर्थः । अ तिं पुरुषं त्वं जानासिकिमिति ग्राह्यम्‌ । याज्ञवल्क्य उत्तरमाह ॥ वेदवा इति ॥ हे शाकल्य यमात्थतं सर्वस्यात्मनः परायणं पुरुषं अहं वेदवैजानाम्येव । यदि वेत्थतर्हि तं ब्रूहीत्यत आह ॥ य एवेति ॥ योयं प्रसिद्धः शारीरः पुरुषः जीवाभिमानीस्यायम्भुवोमनु; स एव एषत्वयापृष्यः नैतावतो परं तव्यं किं तु प्रष्यव्यं पृच्छैवेत्याह ॥ वदैवेति ॥ शाकल्यः पृच्छति तस्य मनोः कादेवतानियमनादिकर्त्रीति । एवं पृष्ययोयाज्ञवल्क्यः अमृतं वायुर्देवतेत्युत्तरमुवाचहेत्यर्थः ॥ 10 ॥ एवमेवोत्तरखण्डसप्तकस्याक्षरयोजनाद्रष्यव्या । कामोमनोवृत्तिविशेषः । हृदयं हृद्ययनाहृदयं बुद्धिस्थारमा ।

एवमुत्तरत्रापि चक्षुर्लोक इत्यादौ चक्षुःशब्दद्वयेन श्रोत्रशब्देन हृदयशब्दत्रयेण च तत्तदन्तर्गतातत्तच्छब्दाभिधारमैवोच्यते । अत्र

?Rसर्वत्रमनोज्योतिरित्यत्र मनः शब्देन रमैवोच्यते । काममयः कामाभिमानीप्रद्यम्नः स्त्रियः श्रीसरस्वत्युमाः ॥ 11 ॥ रूपाणिशुक्लादीनि आदित्येवर्तमानः पुरुषोरुद्रः त्यञ्चतुर्मुखः ॥ 12 ॥ आकाशोभूताकाशः श्रौत्रःश्रोत्रगतस्सन्‌ प्रतिृणोतीति प्रातिश्रुत्कः पुरुषश्ऱ्चन्द्रः विशोगरुडशेषदक्षाः ॥ 13 ॥ तमः प्रसिद्धं छायामयः तदभिमानीनिर्ऋतिः मृत्युर्यमः ॥ 14 ॥ आदर्शेविद्यमानः पुरुषः सूयर्ः असुःअन्तर्गतरूपो वायुः ॥ 15 ॥ आपोजडभूताः अप्सुपुरुषः पर्जन्यः वरुणः प्रसिद्धः ॥ 16 ॥ रेतः प्रसिद्धं पुत्रमयः पुत्राभिमानीशक्रः प्रजापतिः प्रजापालाकोब्रह्मा ॥ 17 ॥ एवमतिप्रश्ऱ्नादनर्थं पश्यन्‌ याज्ञवल्क्यः करुणयाह ॥ शाकल्येति ॥ याज्ञवल्क्यः शाकल्येति सम्बोध्योवाच । किं इमेब्राह्मणाः स्थित्‌ वितर्के नूनं त्वां अङ्गारावक्षयणं अङ्गाराः अवक्षीयन्ते इतस्ततः अवक्रियन्ते न काष्ठेनतत्‌ अङ्गारावक्षयणं तत्स्थानीयं अकृतकृतवन्तः त्वं तु तन्नजानासि । अकृता इति प्लुतिःकारुण्यविशेषद्योतिका ॥ 18 ॥ एवमुक्तं हितोपदेशं विपरीतार्थं मत्वाऽमर्षवशेनयाज्ञवल्क्येति सम्बोध्योवाचशाकल्यः । त्वं कुरुपाञ्चालानां देशानां सम्बन्धिनः तद्देशस्थान्‌ ब्राह्मणानतिक्रम्य मामङ्गारावक्षयणं कृतवन्त इति यदवादीः इदं किं ब्रह्मविद्वानिति बुध्योक्तं सत्यमहंब्रह्मविद्वानिति । न केवलमहंब्रह्मस्वरूपमात्रं विद्वान्‌ किन्तु सर्वप्रतिष्ठात्वेन तद्विद्वानित्याशयेनाहयाज्ञवल्क्यः ॥ दिशोवेदेति ॥ अहंसदेवाः अभिमानिदेवतासहिताः स प्रतिष्ठाः साधाराः दिशोवेद ॥ 19 ॥ शाकल्यः पृच्छति यत्‌ यदि स देवाः दिशोवेत्थ तर्हि अस्यां प्राच्यां दिशिकिं देवतोसिकादेवताधिष्ठात्रीज्ञाता येन सकिं देवतः । अस्यां दिशिकां देवतां जानासीति यावत्‌ । उत्तरमाहयाज्ञवल्क्यः ॥ आदित्यदैवत इति ॥ यदि सप्रतिष्ठादिशोवेत्थ तर्हि दित्यः कस्मिन्प्रतिष्ठित इति योज्यम्‌ । चक्षुषिचक्षुस्थेदृष्यिशक्तिप्रेरकेस्वायम्भुवमनावित्याहयाज्ञवल्क्यः तस्याप्याधारं पृच्छति ॥ कस्मिन्निति ॥ रूपेषु रूपाभिमानीन्द्रे चक्षुषातदभिमानिस्वायम्भुवमनुनातत्प्रसादेन रूपाणितदभिमानीन्द्रं पश्यति जीवोहियस्मात्‌ तस्माच्चक्षुः रूपेषु प्रतिष्ठितम्‌ । अमात्यप्रसादेन राजदर्शने अमात्यस्य राजाधीनत्वदर्शनात्‌ । यद्वारूपज्ञानस्य चक्षुःसत्वव्यवस्थापकत्वेन बाह्येन्दियापेक्षयाविषयस्य प्राधान्यविवक्षयारूपाणिहिचक्षुषापश्‌यतीत्येवं याज्यम्‌ । अन्यथायथाश्रुतेऽसम्भवात्‌ । अचेतनयोः नियम्यनियामकभावस्तुचेतननियम्यनियामकभावाधीन इति भावः । हृदयेबुध्यभिमानिन्यामुमायां हि यस्मात्‌ हृदयेन रूपाणिजानाति मनसः सर्वज्ञानसाधनत्वप्रसिद्धेः । तस्मात्‌ हृदये एव रूपाणिप्रतिष्ठितानि भवन्तत्यर्थः । हे याज्ञवल्क्य एतत्‌ त्वयोक्तं एवमेवेत्याहशाक्यः ॥ 20 ॥ यज्ञेतदभिमान्यनिरुद्धे । दक्षिणायां तदभिमानिरत्याम्‌ । श्रद्धायां तदभिमानिकामे । तदुपपादयति ॥ यदेति ॥ यस्मिन्काले श्रद्धत्ते अथ तदा दक्षिणां ददाति वैप्रसिद्धम्‌ । हि यस्मात्‌ तस्मात्‌ श्रद्धायामेवदक्षिणाप्रतिष्ठितेति । हृदय इत्यादि पूर्ववत्‌ ॥ अप्सुतदभिमानिनि चन्द्रे रेतसितदभिमानि बृहस्पतौ हृदये उमायाम्‌ । तस्मादपि तस्मादेव । जातं प्रतिरूपं पुत्रम्‌ । आहुलौकिकाः । किं अस्य पितुः हृदयादिव अयं पुत्रः सृप्तः विनिःसृतः हृदयादिवनिर्मितः । यत एवं अतः हृदये एव रेतः प्रतिष्ठितमित्यर्थः ॥ 22 ॥ दीक्षायां शतरूपायां सत्येस्वायं भुवमनौ तस्मादपि तस्मादेव दीक्षितं पुरुषं सत्यं वदेत्याहुः । हि यस्मात्‌ एवं तस्मात्‌ सत्येदीक्षाप्रतिष्ठितेति । हृदये उमायाम्‌ ॥ 23 ॥ अस्यां ध्रुवायां प्राचीदक्षिणामध्यभूतायां वाचिवागभिमानिनि बृहस्पतौ । हृदये उमायाम्‌ । एवं शक्राद्याश्रयभूतायाहृदयात्मिकोमाया अप्याश्रयं पृच्छति ॥ कस्मिन्निति ॥ 24 ॥ हे अहल्लिक अहर्ज्ञानं लीनमस्येत्यहर्लीक अहर्लीक एवाहल्लिक अज्ञेति होवाच याज्ञवल्क्यः । कुतस्तस्याज्ञत्वमित्यतः ह ॥ यत्रेति ॥ यत्र यस्मात्‌ । एतत्‌ हृदयं अस्मात्‌ अहङ्काराभिमानि नोरुद्रात्‌ अन्यत्र मन्यासेजानासि बुध्यभिमानि न्युमाया अहङ्काराभिमानिरुद्राश्रितत्वं प्रसिद्धं न जानासीति यावत्‌ । तस्मत्‌ त्वमज्ञ इत्यर्थः । तस्यारुद्रानाश्रितत्वे किं वाधकमित्याह ॥ यद्धीति ॥ यत्‌ यदि एतत्‌ हृदयं अस्मात्‌ अस्मात्‌ अहङ्काराभिमानिरुद्रात्‌ अन्यत्र स्यात्‌ तदनाश्रितं स्यादिति यावत्‌ । तर्हि बुध्यभिमान्युमायाः देहाभिरक्षणोपयोगिबुद्धिशक्त्यभाव प्रसङ्गेनैतच्छरीरं श्ऱ्वानोवाद्युः वयांसिच एनत्‌ शरीरं विमथ्नीरन्‌ विकर्षेरन्‌ कस्यापि जीवनं न स्यादिति भावः ॥ 25 ॥ इदानीं रुद्रोमयोराधारं पृच्छति ॥ कस्मिन्निति ॥ त्वं त्वमहमिति रूपः अहङ्काराभिमानीरुद्रः आत्माबुध्यभिमान्युमाच इत्येतौ कस्मिन्प्रष्ठितौस्तः (स्थः) इति प्रोप्राणनामके शेषे अपाने अपाननामिकायां भारत्यां व्यानेव्यानाभिधेवायौ उदाने उदाननामिकायां श्रियां समाने समानशब्दाभिधेये हरौ । कुत एवं समाननामकस्य विष्णोः सर्वाधारत्वमित्यत आह ॥ स एष इति ॥ सकतम एको देवः प्राण इत्युक्तः । एष समानशब्दाभिधेयः आत्माविष्णुः । इति न दुःखास्पृष्यरमावन्न भवति । इति न दुःखस्पृष्य ब्रह्मादिवन्न भवति । यद्वा इति न बद्धब्रह्मादिवन्न भवति । इति न रमादिमुक्तवन्न भवतीत्यथर्ः । तत्र हेतुमाह ॥ अगृह्य इति ॥ अगृह्यः अग्राह्यः साकल्येन ज्ञातुमशक्यः कुतइत्यतः

?Rपरमात्मनः साकल्येन ग्राह्यत्वे प्रमाणाभावादित्याह ॥ नहीति ॥ परमात्मासकल्येन गृह्यत इत्यत्र प्रमाणं नहीत्यर्थः ।

?Rवैलक्षण्ये हेत्वन्तरमाह ॥ अशीर्य इति ॥ कारणकालादिप्रयुक्तविशरणशून्यः स्वत इति शेषः । कुत इत्यत आह ॥ नहीति ॥ परमात्माशीर्यत इत्यत्र प्रमाणं न हीत्यर्थः । वैलक्षण्ये एव हेत्वन्तरमाह ॥ असित इति ॥ स्वत एव बन्धाभाववान्‌ । तत्रापि हेतुमाह ॥ नेति ॥ व्यथतेदुःखीभवतीत्यत्र प्रमाणं नहीत्यर्थः । हेत्वन्तरञ्चाह ॥ नरिष्यतीति ॥ त्रैकालिकनाशशून्य इत्यर्थः । अत्रापि प्रकरणान्नहिनरिष्यतीति ग्राह्यम्‌ । एवं शाकल्यप्रश्ऱ्नस्य सर्वस्योत्तरमुक्त्वा स्वयं सामर्षोयाज्ञवल्क्यः शाकल्यं पृच्छति ॥ एतानीति ॥ एतानि पृथिव्येवयस्यायतनमित्यादिनोक्तानिपृथिव्यादीनि अष्यावायतनाति अग्निर्लोक इत्यादिनोक्ता अष्यौ लोकाः अमृतमिति होवाचेत्यादिनोक्ताः अष्यौ देवाः शारीरः पुरुष इत्याद्युक्ता अष्यौ पुरुषा उक्ताः सप्रसिद्धोयस्तान्‌ पुरुषान्‌ उपलक्षणमेतत्‌ आयतनलोकदेवानपि निरूह्यतदपेक्षां विनानिर्गत्य बहिष्ठरूपेणोह्य प्रत्यूह्यप्रतितत्तदन्तर्यामिरूपेणोह्यात्यक्रामत्‌ अतिक्रान्तवान्‌ । तं औपनिषदं उपनिषन्मात्रगम्यं पुरुषं त्वात्वां पृच्छामि तं पुरुषं चेत्‌ यदि मेममत्वं विशेषेण न वक्ष्यसि तर्हि ते मूर्धाशिरः विपतिष्यतीत्युवाचयाज्ञवल्क्यः । शाकल्यः किं कृतवानिति जिज्ञासायां श्रुतिः स्वयमाह ॥ तमिति ॥ शाकल्यः तं याज्ञवल्क्य पृष्यविशेषवन्तं परमात्मानं न मेने न ज्ञातवान्‌ ह तस्य शाकल्यस्य मूर्धाविपपात प्रश्ऱ्नोत्तराज्ञानात्‌ । न केवलमयं मृत एव अपितु अस्य शाकल्यस्य अस्थीन्यपि परिमोषिणः स्तेना अन्यन्मान्यमानाः सादृश्‌यात्‌ रजतं मन्यमानाः अपजह्रुरपहृतवन्तः ॥ 26 ॥ अथ शाकल्यशिरः पातानन्तरं याज्ञवल्क्य उवाच । हे ब्राह्यणाभगवन्तः पूजार्हाः वोयुष्माकं मध्ये यः कामयते याज्ञवल्क्यं पृच्छामीति इच्छति समामां पृच्छतु अथवा सर्वेयूयं मामां पृच्छत वोयुष्माकं मध्येयः कामयते याज्ञवल्क्यो मां पृच्छत्विति तं वोयुष्‌माकं मध्येवर्तमानं अहं पृच्छामि वाऽथवा सर्वान्वोयुष्मान्पृच्छामीति । एवं याज्ञवल्क्येनोक्तास्तेब्राह्मणानदधृषुः धैर्यवन्तोना भवन्‌ ॥ 27 ॥ तान्ब्राह्मणान्‌ तैः वक्ष्यमाणैः श्ऱ्लोकैः पप्रच्छयाज्ञवल्क्यः । ननु जीवस्यैवदेहातिरिक्तस्याभावात्‌ भावेवास्यैव देहेन सहैवनाशेन पूर्वोत्तरदेहेष्वेकस्याभावेन तस्य पुनरुत्पादकप्रश्ऱ्नोऽक्त एवेत्याशङ्कापरिहारायपुरुषस्य नित्यत्वं तावदुपोद्धातसङ्गत्यासाधयति ॥ यथेति ॥ यथावनस्पतिः । प्रथमासप्तम्यर्थे वनस्पतौ । वृक्ष इत्ययंशब्दः अमृषाविद्यमानार्थः । तथैव पुरुषेपुरुष इतययंशब्दोऽमृषाविद्यमानार्थ एव । वृक्षशब्दप्रवृत्तिनिमित्तं वृक्णत्वं यथावनस्पतौ विद्यमानं तथापुरुकालसत्वरूपं पुरुषशब्दप्रवृत्तिनिमित्तं पुरुषे विद्यमानमेव । तथाचोक्तप्रवृत्तिनिमित्तकपुरुषनामकत्वात्तन्नित्यत्वं सिद्धमिति भावः । एवं वृक्षसदृशतया प्रकृतस्य पुरुषस्य शीरस्य हेयत्वख्यापनार्थं वृक्षसादृश्यं वक्ति ॥ तस्येत्यादिना ॥ यद्वा नित्यस्य पुरुषस्य पुनरुत्पत्तिर्नाम देहोत्पत्तिरेव देहस्यैवोत्पत्तिनाशसिध्यर्थं पुरुषस्य वृक्षसाम्यमाह ॥ तस्येत्यादिना ॥ अथवा कस्मान्मूलात्प्ररोहतीत्यत्र पुरुषोत्पादकमिव वृक्षोत्पादकमपि प्रष्युं पुरुषोत्पादकप्रश्ऱ्नावसरेवृक्षरोत्पादकप्रश्ऱ्नोसङ्गत इत्याशङ्कापरिहाराय वृक्षपुरुषयोस्साम्यमुपपादयति ॥ तस्येत्यादिना ॥ तस्य पुरुषदेदेहस्य लोकानि पणर्ापिवृक्षपर्णानीव अस्य पुरुषदेहस्य त्वकूलोमाश्रयभूतं चमर् बहिरुत्पाटिकावृक्षस्य सर्वापेक्षया बर्हिभूतत्वगिव ॥ 1 ॥ पुरुष त्वचः वृक्षत्वक्‌ साम्यमुपपादयति ॥ त्वच इति ॥ यथा अस्य वनस्पतेः त्वचः उत्पटः निर्यासः प्रस्यन्दी तथाऽस्य पुरुषस्य त्वच एव रुधिरं प्रस्यन्दि । तदेवविवृरोति ॥ तस्मादिति ॥ यस्मादेवं साम्यं तस्मात्‌ आहतात्‌ छिन्नात्‌ रस इव आतृणात्सम्यक्‌ छिन्नाद्देहात्‌ तद्रुधिरं प्रकर्षेण एति निर्गच्छतीत्यर्थः ॥ 2 ॥ वृक्षदेहयोः साम्यान्तरमाह ॥ मांसानीति ॥ अस्य मांसानिशर्कराणिवृक्षशकलस्थानीयानि वृन्तस्त्वङ्‌निभानिवास्नावमध्येयत्‌ स्थिरं विद्यते अस्थिं लग्नं तत्‌ कीनाटतिमव दारुसंश्ऱ्लिष्यपाशवत्‌ । पुरुषस्यास्थीनिवृक्षस्यान्तरतो विद्यमानदारूणिवृक्षान्तस्थसारभूतदारूणीववनस्पतिमज्जा पुरुषमज्जोपमापुरुषमज्जायाः दृष्यान्तभूताकृतेत्यर्थः ॥ 3 ॥ एवं पुरुषस्य वृक्षसाम्यमुपपाद्येदानीं नाशोत्पत्तिमत्त्वेनापि साम्योपपादनपूर्वकं यत्प्रष्यव्यं तत्पृच्छति ॥ यदिति ॥ यद्यथावृक्‌ णःछिन्नो मूलान्नवतरः पूर्वस्मादभिनवतरः पुनः प्ररोहते उत्पद्यते तथामृत्युनावृक्णः मर्त्यः स्विन्मर्त्योपि पुनः प्ररोहति । स वृक्षोमर्त्यश्ऱ्च कस्मान्मूलात्कारणात्प्ररोहत्युत्पद्यते । वृक्षपुरुषयोः स्वतन्त्ऱ्ेणोत्पदकः कः किं लक्षणश्ऱ्चेति प्रश्ऱ्नाशयः ॥ 4 ॥ स्वयमेव पुरुषोत्पत्तौ सम्भावितं कारणान्तरमाशङ्कयनिराकरोति ॥ रेतस इति ॥ हे ब्राह्मणाः रेतसः सकाशात्पुरुषः प्ररोहतीति मावोच तमैवं वक्तुमर्हथ कुत इत्यत आह ॥ जीवत इति ॥ यस्मात्‌ तत्‌ रेतोजीवतः पित्रादेः प्रजायते मयातु अञ्जसाप्रेत्यस्थितस्य महाप्रलयानन्तरमिति यावत्‌ । सम्भवत्यस्मादिति सम्भव उत्पादकः । पृष्यः नहि महाप्रलयेरेतः सिचः पित्रादेः जीवनं तस्माद्रेतसः पुरुषोतपत्तिर्नशङ्कनीयेत्यर्थः । ननु वृक्षस्य पुनरुत्पादकप्रश्ऱ्नोऽयुक्तः तस्य धानाजन्यत्वस्य प्रत्यक्षसिद्धत्वादित्यत आह ॥ धानारुह इवेति ॥ वृक्षरोधानारुहः स्वतन्त्ऱ्ेणधानाजन्य इवाऽविदुषां प्रतीयते नतु विदुषाम्‌

अतस्तन्नस्वातन्त्ऱ्ेण वृक्षकारणमिति भावः । ननु वृक्षोभूलाद्रोहतीत्युक्तत्वात्‌ वृक्षोत्पदकप्रश्ऱ्नः सिद्धविषय इति चेत्‌ न ।

?Rतस्याङ्गीकारवादमात्रत्वात्‌ ॥ 5 ॥ कुत इत्यतः तममिपक्षं दूषयन्मर्त्य इति पूर्वोक्तमेवानुवदति ॥ यत्समूलमिति ॥ यत्‌ यदा समूलं वृक्षं पुरुषा आवृहेयुरुद्वर्तयेयुस्तदासः उन्मूलोवृक्षः पुनरासम्यक्‌ नभवेत्किं यथा एवं मृत्युनावृक्णोमर्त्यः स्वित्‌ मर्त्योपि पुनर्भवेत्किम्‌ । भवेदेववृक्षोमर्त्यश्ऱ्च । तत्कस्मान्मूलात्प्ररोहतीत्यर्थः । एवं याज्ञवल्क्येन पृष्येपुरुषस्य पुनरुत्पादकं भगवनज्तं जानन्तोपि ऋषयस्तत्पृष्‌टं सर्वं वक्तुमशक्तत्वात्‌ तूष्णीं बभूवुः ॥ 6 ॥ तेषु तूष्णीं भूतेषु याज्ञवल्क्यः स्वयमेव परिहरति ॥ जातएवेत्यादिना ॥ ब्रह्मपरं बह्मैव सृज्यसर्वर्जनेकारणमित्यर्थः । सार्वज्ञाभावे सर्वसर्जनायोग इत्यत उक्तम्‌ ॥ विज्ञानमिति ॥ विज्ञानपूर्णमित्यर्थः । प्रयोजनापेक्षयासर्जनेऽपूर्णताप्रसङ्ग इत्यत आनन्द्रोद्रेकादेवसर्जनमित्याशयेनोक्तमानन्दमिति । आनन्दपूर्णमित्यर्थः । तस्याप्यन्यत उत्पत्तौ कोविशेषोजीवादित्यत उक्तम्‌ ॥ कोन्विति ॥ एनं परमात्मनं नुइदानीं सृष्यिकाले पुनः कःपुरुषोजनयेन्नकोपि । कुत इत्यत उक्तम्‌ ॥ जात एवेति ॥ अयं परमात्माजात एवनित्यजात एव अनादिकालतश्ऱ्चिदानन्ददेहयुक्त एव अतोनजायते तथाच क एनं जनयेदित्यर्थः । नकेवलं पूर्णविज्ञानान्दं ब्रह्म किन्तु अधिकारियोग्यतानुसारेणपुरुषार्थप्रदञ्चेत्याह ॥ रातिरिति ॥ दातुः स्वोद्देशेन हविरादिदातुः यजमानस्य रातिरिष्यः । तद्विदः ब्रह्मविदः परायणं परमप्रियः तिष्ठमानस्य निष्ठावतः परायणं मुख्याश्रय इत्यर्थः ॥ 7 ॥ 28 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य बृहदारण्यकोपनिषद्भाष्यटीकायां रघूत्तममुनिविरचितायां पञ्चमोध्यायः ॥ 5 ॥

?Rआगतानामृषीणां मध्येयो ब्रह्मिष्ठस्तस्य गुरुत्वेन वरणशयहि तद्विवेकार्थमृषिभिः कथाकारिताजनकेन । कथयाचयाज्ञवल्क्यः श्रेष्ठोनिश्ऱ्चितस्तदनन्तरं जनकोयाज्ञवल्क्यं गुरुत्वेन वव्रचेत्याहानेनाध्यायेन । यद्वा पञ्चमाध्यायेविद्यापरीक्षायेतुभूतायाविजिगीषु कथयाब्रह्मस्वरूपं निर्धारितं इदानं गुरुशिष्ययोः याज्ञवल्क्यजनकयोः वादरूपकथयाब्रह्मस्वरूपनिर्धारणायाय मध्यायः प्रवर्तते । पशूनिच्छन्नण्वन्तानित्युभयमेवसभ्रालिति होवाचेत्येतत्पशूनण्वन्तानित्युभयमिच्छन्‌ इति योजनया याज्ञवल्क्य वचनमिति प्रतयते तदयुक्तम्‌ । याज्ञवल्क्यस्य स्वयं ज्ञानित्वेनान्यस्मादण्वन्तेच्छाभावादित्यतः पशूनिच्छन्नण्वन्तानित्येतज्जनकस्यैव वाक्यमिति सूचयन्नपेक्षिताध्याहारेणाऽण्वन्तानित्येतद्वयाचष्ये ॥ अणुरिति ॥ तद्विषयानित्यनेनाणोरन्ता अण्वन्ता इति विग्रहः षष्ठीचकमर्णीत्युक्तं भवति । अन्तानित्यस्यार्थोनिर्णयानिति वक्तुञ्चेति शेषोक्तिः अब्रवीत्तुतेतस्यायतनं प्रतिष्ठामित्यादिवाक्यषट्‌कगतप्रतिष्ठशब्द आश्रयपर इत व्याख्याख्यानमसत्‌ आयतनशब्देन पुनरुक्तिप्रसङ्गादिति भावेन प्रतिष्ठाशब्दार्थं निर्वचनपूर्वकमाह ॥ प्रतिष्ठेति ॥ प्रतिरूपेणप्रतिबिम्बरूपे प्रतिष्ठाशब्दोक्ताप्रतिमाकेत्यत आह ॥ प्रतिमेति ॥ रमाविष्णोः मुख्याप्रतिमा ब्रह्मादीनामपि प्रतिमात्वान्मुख्येत्युक्तं तत्र हेतुः विष्णोरधिकसादृश्यदिति । तदधीनत्वे सति तत्सदृशत्वस्यैव प्रतिबिम्बत्वादिति भावः । नित्यमुक्तत्वदेशव्याप्त्याद्यधिकसादृश्यादित्यर्थः । सदेतिस्वरूपसङ्कीर्तनं यद्वामुक्तानामपि स्वनन्दानुभवतृत्वादिनाऽधिकसादृश्यात्सदेत्युक्तम्‌ । ननु श्रुतावाकाशः प्रतिष्ठेत्याकाशस्य प्रतिमात्वोक्तेः कथमेतदित्यत आकाशशब्देन रमैवोच्यत इत्याह ॥ दीप्तत्वादिति ॥ आ इत्यनुवादेन सम्मतादिति व्याख्यानम्‌ । ननु एकस्य विष्णोः यथैकैवप्रतिमा एवमेकमेवायतनं वक्तव्यम्‌ कथं वागादीनिषडायतनान्युक्तनीत्यत आह ॥ पत्येकमिति ॥ वाक्‌ प्राणचक्षुः श्रोत्रमानोहृदयनामकानां प्रत्येकं विष्णुरूपाणां अन्यत्‌ रमाभिन्नं वागिन्द्रियादिकं पृथगायतनमित्यर्थः । ननु वाग्वैब्रह्मेत्याद्युपदिष्यस्य वागादिनामकब्रह्मणः पूर्णत्वात्‌ एकपाद्वा एतत्सम्रालिति कथमुच्यत इत्यतः तदभिप्रायमाह ॥ प्रतिमानमिति ॥ प्रतिमेत्यर्थः । साथर्कं प्रतिपाद्यार्थसहितं रहस्यं नामेति सम्बन्धः । रहस्यं नामतदर्थश्ऱ्चेति चतुष्यमित्यर्थः । विद्याफलं सम्यगिति सम्बन्धः । तथाच विद्यासम्पूर्णफलायज्ञातव्यचतुष्ययेजित्वादिभिः षड्‌भिराचार्यैः वाग्वैब्रह्मेत्यादिनारहस्यं नामैवोक्तं न प्रतिष्ठादित्रयं अत एकपाद्वा एतदित्युक्तमिति भावः । ननु काप्रज्ञता काप्रियतेत्यादिधर्मप्रश्ऱ्नेवाक्‌ प्राणादिनिष्ठोधर्म एवोत्तरत्वेन वक्तव्यः वागेवसम्रलिति प्राणएव सम्रालिति वाक्‌ प्राणादिरूपोधर्मीकथमुत्तरत्वेनोच्यत इत्यत आह ॥ केति ॥ इत्यादेः प्रश्ऱ्नपरिहारात्मकस्य वाक्यस्य धर्मधर्म्यभेदोऽभिप्रेत इत्यर्थः । ननु ऋग्वेदादि विद्यासाधनकथनप्रकरणेविद्याकथनमयुक्तम्‌ । नच करणव्युत्पत्त्याविद्याशब्देनतत्साधनमेवोच्यत इति वाच्यम्‌ । ऋगादिव्यतिरिक्तस्य तस्याभावात्‌ । नचानुक्तपञ्चरात्रपरत्वं विद्याशब्दस्येति वाच्यं भारते पञ्चरात्रविदोमुख्या इति प्रकृतञ्चपञ्चरात्रविषयत्वेन ऋषीनुवाचतान्‌ सर्वान्‌ अदृश्यः पुरुषोत्तमः । कृतं शतसहस्रं हि श्ऱ्लोकानां हितमुत्तममिति श्ऱ्लोकशब्दस्य प्रयोगात्‌ श्ऱ्लोकशब्देन पञ्चरात्रोक्त्यापुनरुक्तिप्रसङ्गादित्य आह ॥ अमितेति ॥ अमिताक्षरं गद्यात्मकं मिताक्षरं छन्दोबद्धपद्यात्मकम्‌ । पञ्चरात्रमित्यनुवर्तते वेदविद्या उपनिषदः श्ऱ्लोका इति वेदवाक्येविद्याश्ऱ्लोकशब्दाभ्यामुभयं

?Rगद्यात्मकं पद्यात्मकं च पञ्चरात्रमीर्यत इत्यर्थः । यद्यपि विद्याख्यामूलिका श्रुतिरित्युक्तं तापि व्याख्यानान्तरमेतदित्यदोषः ।

?Rनचैवं मूलश्रुतेरसङ्ग्रहः ऋगादिपदेनैव तद्ग्रहणात्‌ । ऋचस्सऋच उद्धृत्येत्यादिमूलश्रुतावपि ऋगादिपदप्रयोगात्‌ । सूत्राक्षीति सूत्रपदेन ब्रह्मसूत्रमात्रग्रहणेबहुवचनानुपपत्तिरिति भावेनाह ॥ सूत्रमिति ॥ व्याख्यानानीत्यस्यार्थमाह ॥ ब्रह्मतर्कादय इति ॥ वाग्वैब्रह्मप्राणोवैब्रह्मचक्षुः वैब्रह्मश्रोत्रं वैब्रह्ममनोवैब्रह्महृदयं वैब्रह्मेतिवाक्यानिवागादीन्द्रियाणामेवब्रह्मत्वमुच्यत इति प्रतीतिनिरासायव्याचष्ये ॥ वागिति ॥ वाचकत्वेन वाचकत्वशक्तिप्रदत्वेन वचनक्रियाकर्तृत्वेनेति यावत्‌ । वागादिशब्दाब्रह्मवाचका इत्यत्र समाख्यामाह ॥ अन्नमिति ॥ नचतत्रापि विवादः । अधीहिभगवोब्रह्मेति ब्रह्मप्रश्ऱ्ने अन्नादीनामुक्तत्वात्‌ । यतो वा मानिमूतानिजायन्ते अन्नं ब्रह्मेति व्यजानादित्याद्युत्तरवाक्याच्चान्नादिशब्दानां ब्रह्मपरत्वावगमात्‌ । अन्नमत्रानुपयुक्तं आदिपदेन हृदयं ब्रह्मेत्यारुणय इति श्रुति ग्रहणम्‌ । ननु तथापि वाग्वैब्रह्मेत्यादौ वागादिशब्दानां न ब्रह्मपरत्वमङ्गीकर्तुं शक्यम्‌ । तथासति नैनं वाक्‌ जहाति नैनं प्राणोजहातीत्यादिफलवाक्यानुपपत्तेः । नहि ब्रह्मोपासकस्य वागादीन्द्रियात्यागः फलं सम्भवति । उपासनाननुगुणत्वात्‌ । अत इन्द्रियाणामेव ब्रह्मत्वमुच्यत इत्यत आह ॥ वागादिष्विति ॥ अस्त्वेवं वाग्वैब्रह्मेत्यत्र वागादिशब1दानां परब्रह्मपरत्वं इन्द्रियपरत्वस्याप्यङ्गीकारेकिं बाधकमित्यत आह ॥ अत इति ॥ B-25

?Rत एवं प्रमाणेन व्याख्यातमतोवागेवायतनमित्यादावायतनत्वेनोक्तमेववागादिकं वागिन्द्रियादि नतु वाग्वैब्रह्मेत्यादिनाब्रह्मत्वेनोक्तं तद्विरोधापत्तेरित्यर्थः । अतो वाग्वैब्रह्मेत्यादिनोक्तं वागादिब्रह्मैवेति वक्तव्ये आयतनमेव वागादीन्द्रियादीत्युक्तिः ब्रहमत्वेनोक्तवागादेः वागादीन्द्रियत्वे वागेवायतनमिति वागादीन्द्रयस्यैवायतनत्वोक्तिः विरुद्धास्यात्‌ । नहि स्वस्यैवस्वयमायतनमिति बाधकान्तरसूचनार्था एतेनैतद्बाधकपरिहारायवाग्वैब्रह्मेत्यादौ वागाद्यभिमानिदेवताऽग्न्यादिरेव वागादिशब्देनोच्यते वागेवायतनमित्यादौ तु वागिन्द्रियमेवतस्यायतनत्वेनोच्यत इति यत्परव्याख्यानं तदप्यपास्तम्‌ । उदाहृतप्रमाणविरोधस्य तदवस्थत्वात्‌ । वाग्वैब्रह्मेत्यादौ वागादिशब्देनेन्द्रियमात्रग्रहणेबाधकान्तरमाह ॥ परममिति ॥ यदि वाग्वैब्रह्मेत्यादौ वागादिशब्दानां वागादीन्द्रियपरत्वं तर्हि वाग्वैसम्राट्‌परमं ब्रह्मेति परमब्रह्मत्ववचनं न स्यात्‌ । नहीन्द्रयस्य परमब्रह्मत्वं सम्भवति । स य एवं विद्वाने(न)तदुपास्त इत्युक्तमुपास्य त्वं च न स्यात्‌ । नहीन्द्रियमात्रस्य जडस्योपास्य त्वं युक्तं अचेतनोपासनस्य व्यर्थत्वात्‌ । तथाच साङ्कर्षणं सूत्रं अचेतनासत्यायोग्यान्यनुपास्यान्यफलत्वे विपर्ययाभ्यामिति । यद्यपि वाग्वैब्रह्मेत्यादौ बह्मशब्द एव वागादेः परब्रह्मत्वसाधकोस्ति तथापि ब्रह्मशब्दस्य कथञ्चिद्वागिन्द्रियादावेवसावकाशताशङ्कापरिहारायपरमं ब्रह्मेति वचनादित्युक्तम्‌ । यद्वा वागादिशब्दसमभिव्याहृत ब्रह्मशब्दस्य परब्रह्मत्वसाधकत्वं शिष्यैरेवसुज्ञेयमिति भावेनव्यवहितवाक्यगतपरमब्रह्मशब्दोपादानमित्यवधेयम्‌ । ननु नात्रवागादीन्द्रियमात्रमुपास्य मुच्यते येन तद्वैयर्थ्यं किन्तु वागादेः परब्रह्मत्वेनोपासनमेव । तस्य च शुद्धब्रह्मोपासनाङ्गत्वेन सार्थकत्वादिति चेन्न । वागादीनां ब्रह्मत्वस्याभावेन तदुपासनस्य मिथ्योपासनत्वात्‌ मिथ्योपासनायाश्ऱ्च अनर्थफलहेतुत्वादित्याह ॥ ब्रतिमाद्यमिति ॥ हरित्वेनेत्यस्योत्तरत्रापि सम्बन्धः । अग्नौपतङ्गवत्‌ वागादीन्द्रियेषु वागादिनामक भगवदुपासकोयः कश्ऱ्चित्‌ देवोभूत्वादेवत्वमप्यतीति प्रतीतिनिरासायदेवोभूत्वादेवानप्येतीति समग्रं वाक्यं व्याख्यातुं तदुपासनाधिकाणिस्तावदाह ॥ सर्वेति ॥ ननु देवोभूत्वादेवानप्येतीतित कथं देवत्ववनव्यरिरेकेण देवत्प्राप्तेरभावादित्यतोदेवानप्येतीत्येतावन्मात्रं तद्वयाचष्ये ॥ तयेति ॥ इदानीं देवोभूत्वादेवानप्येतीति समग्रं वाक्यं व्याचष्ये ॥ सायुज्यमिति ॥ अथ देवप्राप्त्यनन्तरं सर्वाण्येनं भूतान्यभिक्षरन्तीति वाक्यमैहिकफलपरत्व प्रतीतिनिरासायव्याचष्ये ॥ दुहन्तीति ॥ तेभ्योदेवेभ्यः तेच मुक्तादेवाः स्वोत्तमेभ्योभोगान्‌ दुहन्ति तेचोत्तमादेवा हरये भोगान्दुहन्तीति सम्बन्धः । ननु देवोभृत्वेत्येतत्‌ स्वोत्तमदेवोभूत्वेत्येवकुतो न व्याख्यायते । अधमदेवस्योत्तमदेवाभेदस्य प्रमाणबाधितत्वादिति चेत्‌ । तर्हि स्वोत्तमेषु सायुज्यं सम्प्राप्तयेति कथञ्चिदधिकारोस्तिनवा । नाद्यः फलाभावात्‌ । देवोभूत्वेत्यादेः देवतापरत्वात्‌ । नद्वितीयः प्राक्‌ युगपदिति विशेषणवैयर्थ्यापत्तेरित्यतः प्रथमपक्षन्तावदङ्गीकरोति ॥ इन्द्रियेष्विति ॥ तत्रोक्तदोषपरिहारार्थं देवोभूत्वेति वाक्यं व्याचष्ये ॥ स इति ॥ मनुष्याणां सुरत्वाभावात्कथमेतदित्यत आह ॥ मानुषा इति ॥ देवानप्येतीत्येतद्वयाचष्ये ॥ मानुषा इति ॥ हस्त्यृषभंसहस्रमित्यस्य हस्तितुल्यऋषभोयस्मिन्‌ गोहस्रेतत्सहस्रहस्तिऋषभंसहस्रमिति व्याख्यानमसत्‌ । गजऋषभाभाणोमेवगुरुदक्षिणात्वेन क्षत्रियेणदातव्यतया जनकराजेनतेषामेवगुरुदक्षिणात्वप्रतिज्ञोपपत्तेः । गवां च वैश्येनैवतत्वेन दाव्यत्वादिति भावेन तत्र प्रमाणमाह ॥ ऋषभानिति ॥ अनेन हस्तिनायुक्तऋषभोहस्तिऋषभस्तम्‌ । सहस्रं सहस्रसङ्खयाकं ददामीत्यर्थ उक्तो भवति । एवञ्च द्वन्द्वसमासत्वे हस्त्यृषभाविति स्यादिति परास्तम्‌ । गवां सहस्रमवरुरोधेति पूर्वमुक्तं भोसहस्रावरोधनं तु विद्यापरीक्षणशर्थमेवनतु गुरुदक्षिणशर्थमिति न तद्विरोधः । ननु जनकस्य जित्वादयोयादृशगुरवो याज्ञवल्क्योपि किं तादृश एव नेति ब्रूमः । किन्तु मुख्यगुरुरेव तन्मोक्षसाधनविद्योपदेष्यृत्वात्‌ । जित्वादयस्त्वमुख्यगुरवः । मोक्षसाधनादन्यविद्याप्रदत्वात्‌ । जित्वाद्युपदिष्यविद्या अपि मनुष्यादिमोक्षसाधनत्वेनासिद्धोहेतुरिति चेन्न । तथापि जनकमोक्षहेतुत्वाभावात्‌ । नन्वेकस्या एव विद्यायामनुष्यादिमोक्षहेतुत्वं जनकादिमोक्षहेतुत्वाभावश्ऱ्च कथमित्यत आह ॥ अन्ययेति ॥ योग्यताभेदादित्यस्यात्रापि सम्बन्धः । तत्रापि एकस्यामपि । तर्हि सर्वेषामपि सुराणां किमेकयैवविद्ययामुक्तिर्नैवेत्याह ॥ तत्रापीति ॥ सुरेष्वपीत्यर्थः । प्रतिभेदाः प्रातिस्विकभेदाः । मोक्षसाधनतदन्यविद्यादातृत्वयोः मुख्यामुख्यगुरुत्वाभ्यां व्याप्तिमाह ॥ ययेति ॥ 2 ॥ नन्वयाज्ययाजनाप्रतिग्राह्यप्रतिग्रहचौर्याणिभोजनसाधनान्येव नतु प्राणपीति साधनानि । अतः प्राणस्यैव कामायायाज्यं याजयतीत्यादिकथमुच्यत इत्यतः श्रुतावप्ययाज्याजनादीनां परम्परयैव प्राणप्रीति साधनत्वं विवक्षितमिति भावेनाह ॥ प्राणेति ॥ तदिच्छयावस्तुतः प्राणस्थविष्णुप्रीति करभोजनेच्छया ज्ञानिनोभोजनसाधनमयाज्ययाजनादिकं कुर्युः । अज्ञा अपि भोजनसाधनञ्चौर्यादिकुर्युरित्यपिशब्दार्थः । तत्र वधाशङ्कं भवतीत्यस्य तात्पर्यञ्चौर्येति । आदिपदेनाऽयाज्ययाजनाप्रतिग्राह्यप्रतिग्रहयोः ग्रहणम्‌ । चौर्यस्येतरदोषापेक्षयाप्रबलत्वाच्छति क्रमोल्लङ्घनं चौर्यादिकरणेकिं तेषां स्वातन्त्ऱ्यं नेति भावेनोक्तम्‌ ॥ तदिच्छयैवेति ॥ प्राणस्थविष्णोरिच्छयैवेत्यर्थः । अनेन प्राणस्यैवकामायेति द्वितीयवाक्यं व्याख्यातं भवति । ननु प्राणस्थविष्णुप्रीति करभोजनेच्छयातदिच्छयैव यदिचौर्यादिकुर्युस्तर्हितेकथमज्ञा इत्यत आह ॥ तथापीति ॥ यद्यपि वस्तुतः प्राणस्थविष्णुप्रीतिकरभोजनेच्छयातदिच्छयैवचौर्यादिकुर्युः । तथापीत्यर्थः ॥ 3 ॥ चक्षुः वैब्रह्मेत्यादौ चक्षुःशब्देननेन्द्रिमात्रमुपपाद्यते । किन्तु विष्णुरूपमेवेत्यत्र प्रमाणान्तरमाह ॥ यदिति ॥ ननु चक्षुषां वैसम्राट्‌ पश्यन्तमाहुरत्यिदिनाचक्षुरिन्द्रियस्यैव सत्यत्वमुपपाद्यते । तत्कथमेतदित्यतस्तदपि चक्षुर्नामकभगवत एव सत्यत्वोपपादकमित्यभिप्रेत्याद्राक्षीरिति स आहाद्राक्षमित्यादिकमुपलक्षणपरमिति भावेन चक्षुःस्थभगवद्रूपविशेषं दर्शयन्नाह ॥ शब्दादेरिति ॥ आदिपदेनगन्धादिग्रहणं अपिशब्देन रूपसमुच्चयः दक्षिणाक्षिस्थविश्ऱ्वनामकविष्णुरूपस्य जाग्रद्दर्शनमात्रहेतुत्वादिति भावः । विश्ऱ्वनामकविष्णोरूपादिसाक्षशत्कारहेतुत्वं व्यतिरेकेणोपपादयति ॥ तद्गतस्येति ॥ चक्षुर्गतस्येत्यथॅ; । ततश्ऱ्चक्षुषःकुतोनजायत इत्यत आह ॥ चक्षुर्निमीलनमिति ॥ स्वप्नावस्थायां श्रोत्रादिसर्वेन्द्रियगुणैः व्यापारैस्सहचक्षुर्निमीलनं स्यात्‌ अतः सन्निकर्षाभावान्नज्ञानमिति भावः । किं तत इत्यत आह ॥ चक्षुरात्मेति ॥ ततोजाग्रद्दशर्नहेतुत्वात्‌ ॥ 4 ॥ ननु अनन्त इत्येत(न)दुपासीतेति श्रोत्रनामकस्य भगवतोऽनन्तत्वाकानन्ततादिश इति होवाचेति दिशामनन्तत्वमुच्यते तदसङ्गतमित्यत आह ॥ सर्वव्यापीति ॥ दिक्षुस्थ इति सप्तम्या अलुक्‌ ॥ 5 ॥ ननु कानन्दतेति प्रश्ऱ्नेमन एवेति मनोनामकस्य भगवतः आनन्दत्वं प्रतिज्ञायममनसावैसम्राडित्यादिनापुत्रस्यानन्दत्वमुच्यते । तदसङ्गतं पुत्रस्यानन्दत्वमयुक्तं चेत्यत आह ॥ मन इति ॥ यत्‌ यदा कैमुत्येन मनःस्थस्य भगवत आनन्दहेतुत्वमुपपादयितुं पुत्रस्यानन्दहेतुत्वमुच्यत इति नासङ्गतिरिति भावः ॥ 6 ॥ हृदयं वैसभ्राट्‌ सर्वेषां भूतानां प्रतिष्ठेति प्रतिज्ञावाक्येहृदयशब्देन सर्वदाजीवधारकं सुप्तौ च जीवधारकं भगवद्रूपमुच्यत इति ज्ञापनायहृदयेह्येवसम्राट्‌ सर्वाणिभूतानि प्रतिष्ठितानि भवन्तीत्युपपादकवाक्यं अपेक्षिताध्याहरेणद्वेधाव्याचष्ये ॥ सदेति ॥ ननु हृदयनामकं हृद्गतं च भगवद्रूपमेकमेव । अत्र तु हृदयं वैसम्राट्‌ सर्वेषां भूतानामायतनमित्यायतनत्वेनोच्यमानं रूपं एकं प्रतिष्ठात्वेनोच्यमानं रूपद्वयमिति रूपत्रयमुच्यते । तत्कथमित्यतोहृदयस्थं रूपत्रयमप्यस्त भावेनहृदयं वैसम्राट्‌ सर्वेषां मूतानामायतनमिति वाक्यं तावद्वयाचष्ये ॥ हृदय इति ॥ तत्तद्धृदयव्यापीतत्तज्जीवस्थानमिति सर्वेषां जीवानां स्थानमित्यर्थः । एवं सर्वेजीवाः प्रतिष्ठिता इत्युत्तरवाक्यमपि व्याख्येयम्‌ । हृदयं वैसम्राट्‌ सर्वेषां भूतानां प्रतिष्ठेति वाक्यं द्वेधाव्याचष्ये ॥ हृत्कर्णिकेति ॥ प्रतिष्ठिताः सर्वदेति शेषः । तुविशेषेणप्रविशन्तीत्यन्वयः । अनेन प्रादेशमात्रं पुरुषं वसन्तमिति अङ्गुष्ठमात्रः पुरुष इति अङ्गुष्ठाग्रप्रमाणक इति वचनानानां विरोधः परिहृतो भवति । ननु जाग्रदवस्थायां जीवोदक्षिणशक्षिस्थः स्वप्नावस्थायां कण्ठदेशस्थः सुप्तौ तु हृदयस्थः । जाग्रदाद्यवस्थाप्रेरकविश्ऱ्वतैजसप्राज्ञानां दक्षिणाक्ष्यादिषु स्थितत्वात्‌ । यथोक्तं दक्षिणाक्षिमुखेविश्ऱ्व इत्यादि । तथाच हृत्कर्णिकामूलगतभगवद्रूपेजीवः सर्वदाप्रतिष्ठितः । सुप्तौ हृत्कर्णिकाग्रगत हरौ प्रविशतीति कथमुक्तम्‌ । कथं वाहृदयव्याप्तप्रादेशपरिमितभगवद्रूपस्य सर्वदाजीवस्तानत्वमिति चेन्न । हृदिस्थमेवसर्वदाजीवस्वरूपं हृदिह्येष आत्मेत्यादि श्रुतेः । अवस्थिति वैशेष्यादिति चेन्नाभ्युपगमाद्धृदिहीति सूत्राच्च । जागरितादावप्यक्ष्यादिषु विशेषसन्निहितं भवति दीपप्रकाशवत्‌ । यथोक्तं गुणाद्वलोकवदिति । ननु कथमङ्गुष्ठमात्रत्वं भगवद्रूपस्य परिमाणान्तरस्यापि तत्र सत्वादिति चेन्न ।

हृदिविद्यमानाकाशस्याङ्गुष्ठमात्रत्वेन भगवन्मूर्तिविशेषस्य तत्राभिव्यक्त्यालक्षणयाङ्गुष्ठमात्रत्वव्यपदेशात्‌ । भिन्नेष्वपि

?Rस्थानैक्याक्तिवत्‌ हृदयाकाशस्याङ्गुष्ठमात्रत्वेन तत्सम्बन्धात्सर्वगतेपि हरावुपचारेणवाङ्गुष्ठमात्रत्वव्यपदेशात्‌ । नन्वेवं विष्णुरूपस्यैव यद्यायतनत्वं प्रतिष्ठात्वं च तर्हि श्रुतौ हृदयमायतनं हृदयं प्रतिष्ठिति कथमुक्तमित्यत आह ॥ सोयमिति ॥ नन्वायतनप्रतिष्ठाशब्दयोः नार्थभेदोस्ति । नचायतनशब्दः स्थानार्थ इत्युक्तमिति वाच्यं तथापि प्रतिष्ठाशब्दस्यतदन्यार्थानुपलम्भादित्यत आह ॥ स्थानमिति ॥ 7 ॥ इति षडाचार्यब्राह्मणम्‌ ॥ 1 ॥ अथखण्डार्थः ॥ एवं विद्यापरीक्षानन्तरं जनकोहवैदेह आसाञ्चक्रे आसनं कृतवान्‌ । सिंहासनमिधरूपढ इति यावत्‌ । अथ तदनन्तरं याज्ञवल्क्योजनकसमीपमावव्राज । तं याज्ञवल्क्यं विधिवत्सम्पूज्यहोवाच जनकः । किमिति हेयाज्ञवल्क्य किमर्थमचारीः पर्यटनमकार्षीः किं पशूनिच्छन्नुताणुर्भगवान्‌ द्विषयानन्तान्निर्णयान्वक्तुं वेति । एवमुक्तोयाज्ञवल्क्यो हे सम्राट्‌ सार्वभौम उभमेवपश्ऱ्विच्छाण्वन्तवचनं चेत्युभयमपि ममचरणेनिमित्तमित्युवाच । उभयमेवनान्यदिति वा ॥ 1 ॥ यद्यण्वन्तान्‌ वक्तुमागतस्तर्हिवक्तव्यमिति राज्ञोक्तेस्वयमन्येभ्यो ज्ञातादधिकं मुक्तिसाधनं वक्तुं ते तव कश्ऱ्चिदाचार्योयदब्रवीत्‌ तत्तावद्वयं ृणवामेत्याहयाज्ञवल्क्यः । एवमुक्तो जनक आह ॥ अब्रवीदिति ॥ मेमम शिलिनस्यापत्यं शैलिनः जित्वानामतो ब्रह्मगुणपरिपूर्णं विष्ण्वाख्यं वाग्वैव क्तृत्वाद्वाङ्‌नामकं वैप्रसिद्धमित्यब्रवीत्‌ । शैलिनोपदिष्यं स्तोतुकामोयाज्ञवल्क्यस्तस्याप्तत्वप्रयोजकीभूतशुद्धित्रयमाह ॥ यथेति ॥ मातायस्यानुशासित्रीसमातृमान्‌ पितायस्यानुशासकः सपितृमान्‌ आचार्योयस्यानुशासकः स आचार्यवान्‌ पुरुषोयथा स्वशिष्याय ब्रूयात्‌ शैलिनस्तुभ्यं वाग्वैब्रह्मेत्यब्रवीदिति यत्तत्तथेत्यर्थः । वाग्वैब्रह्मेत्येतन्मुनिरेवोपपादयति ॥ अवदत इति ॥ अवदतोवाङ्‌नामकभगवद्रूपशून्यस्य किं फलं स्यात्‌ वचनक्रियाया एवासम्भवेनाध्ययनादिनित्यकर्मानुष्ठानस्यैवासम्भवात्‌ । हि यस्मादिति । तस्माद्वाग्ब्रह्मेति साधूक्तम्‌ । अनेनैवोपदेशेन कृतकृत्योस्मीति न मन्तव्यमिति भावेन नृपं प्रतिमुनिः पृच्छति ॥ अब्रवीदिति ॥ स जित्वा ते तव तस्य वाङ्‌नामकस्य भगवतः आयतनं स्थानं प्रतिष्ठां प्रतिमां उपलक्षणमेतत्‌ । वाङ्‌नामार्थं तुर्विशेषेणाब्रवीकिमिति । एवमुक्तोजनकोनमेब्रवीदित्याह तं प्रतिमुनिराह हेसस्राट्‌एतत्‌ जित्वोपदिष्यमुपास्य स्यभगवतोवाङ्‌नामकत्वमेकपाद्वा इति । उपास्यस्यभगवतोहि आयतनं प्रतिमारहस्यं नामतदर्थश्ऱ्चेति चतुष्ययं मोक्षार्थं ज्ञेयम्‌ । तत्र जित्वारहस्य नाममात्रमुपदिष्यवानिति तदुपदिष्यमेकदेशरूपमेवेत्यर्थः । एवमुक्तोराजाह ॥ स इति ॥ हेयाज्ञवल्क्य सवैसर्वब्राह्मणप्रश्ऱ्नोत्तरदातात्वं नोऽस्माकं ब्रूहि । वाङ्‌नामकस्य भगवत आयतनादित्रयमिति शेषः । एवमुक्तोमुनिराह ॥ वागेवेति ॥ वागेवप्रसिद्धवागिन्द्रियमेवायतनमधिष्ठानं आकाश आसमन्ताद्दीप्तत्वादाकशनाम्नीरमा प्रतिष्ठाप्रतिमा । एनदेतत्प्रज्ञेत्युपासीत । राजापृच्छति ॥ काप्रज्ञतेति

?R॥ धर्मधर्मिणोरभेदाभिप्रायेणोत्तरमाह ॥ वागेवेति ॥ वाङ्‌नामकभगवद्रूपमेवेत्यर्थः । तस्य प्रज्ञतामुपपादयति ॥ वाचेति ॥ वाचावैङ्‌नामकभगवद्रूपेण बन्धुःप्रज्ञायते । कोबन्धुरित्यत आह ॥ ऋग्वेद इति ॥ ऋग्वेदादीनामिष्यसाधनावबोधकत्वाद्बन्धुत्वम्‌ । विद्येत्यमिताक्षरं पञ्चरात्रमुच्यते श्ऱ्लोका इति मिताक्षरं पञ्चरात्रं सूत्राणि ब्रह्मसूत्रादीनि अनुव्याख्यानानिवेदव्याख्यानविस्तररूपाणिबृहहत्तर्कादीनि व्याख्यानानिवेदव्याख्यानभूत ब्रह्मतर्कादीनि इष्यं यजनं हुतं होमः अशितमन्नदानं पायितंपेयदानं अयं च लोकः परश्ऱ्चलोकः सर्वाणिभूतानि च वाचावैप्रज्ञायन्ते । उपसंहरति ॥ वाग्वा इति ॥ अत इति शेषः । यद्वा ब्रह्मशब्दस्यान्यत्रापि कथञ्चिद्वृत्तषर्वाग्वैब्रह्मेत्यत्र वाङ्‌नामकत्वमन्यस्योच्यत इति न भ्रमित व्यमित्याह ॥ वाग्वा इति ॥ उक्तप्रकारेण वाङ्‌नामकभगवदुपासकस्य फलमाह ॥ नैनमिति ॥ योदेवत्वयोग्योधिकारी एवमायतनादिचतुष्ययसाहित्येन एतत्‌ वाङ्‌नामकभगवद्रूपं विद्वानुपास्ते एनमधिकारिणं वाक्‌ वाङ्‌नामकं ब्रह्म न जहाति सदेवान्देवत्वमप्येति । ततोदेवोभूत्वास्वोत्तमदेवेषु सायज्यं प्राप्य देवान्‌ क्रीडादिगुणसम्पन्न श्ऱ्वतद्वीपादिस्थितभगवद्रूपविशेषान्‌ ब्रह्मणासहाप्तयेति प्राप्नोति । तत्र मुक्तौ सर्वाणिभूतानितदवराणि एनमभिक्षरन्ति एतस्मैसवर्ान्‌ भोगान्‌ दुहस्तीत्यर्थः । यो देवपदायोग्य एवं विद्वानेतदुपास्ते सदेवोभूत्वादेवलोकस्थोभूत्वादेवानप्येति मुक्तौ देवेषु सायुज्यं प्राप्नोति ।इतरत्समानम्‌ । अत्र देवपदायोग्यस्य वागिन्द्रियादिषु युगपदुपासनं अन्यस्य तु क्रमेणेति युक्तः फलभेदः । एवमुपदिष्योराजास्वयोग्यगुरुदक्षिणां प्रतिजज्ञे ॥ हस्त्यृषभमिति ॥ हस्तिनायुक्तऋषभोहस्त्यृषभस्तं सहस्रं सहस्रसङ्खयाकं ददामीति होवाचजनकोवैदेहः । एवमुक्तः सयाज्ञवल्क्योहोवाचकिं । अननुशिष्यशिष्यस्योपदेष्यव्यं सर्वमनुपदिश्य नाहरेतगुरुदक्षिणां न गृह्णीयादिति मेमत्पिताऽमन्यत । अतो नाहं समग्रमनुपदिश्यगृह्णामीति भावः । एमुत्तरखण्डपञ्चकेप्यक्षरयोजना ॥ 2 ॥ शुल्बायनस्यापत्यं शौल्बायनः । उदंकोनामतः ब्रह्मप्राणः प्रणयनात्प्राणनामकं

वैप्रसिद्धमित्यब्रवीत्‌ । अप्राणतः प्राणनामकभगवद्रूपशून्यस्य किं स्यात्‌ । चेष्यादिसर्वप्रवृत्तिविलोपापत्तेः प्राण एव

?Rप्राणापानादिरूपोवायुरेव आयतनं स्थानं एत(न)त्प्राणनामकं ब्रह्म प्रियमित्युपासीत । प्राणनामकस्य भगवतः प्रियत्वमुपपादयति ॥ प्राणस्यैवेति ॥ हे सम्राट्‌प्राणस्यैव प्राणस्थस्य प्राणनामकस्य विष्णोरेव कामायसम्प्रीत्यै भोजनं भवेत्‌ । तादृशभोजनार्थमेवाज्ञोपि जनः प्राणस्य तन्नामकविष्णोः कामायेच्छयैवायाज्यं याजनायोग्यं शूद्रादिकमपि याजयति । अप्रतिगृह्यस्याप्रतिग्राह्यमपि प्रतिगृह्णाति यस्मात्प्रतिग्रहोनग्राह्यस्तस्य सकाशादिति वा । चौर्यं च करोति तदर्थं यां दिशमेति तत्र वधाशङ्कं वधविषयाशङ्काभवतीत्यर्थः । यद्वा यां दिशमेति तत्र वधाशङ्कं यथाभवति तथातां दिशमेतीत्यर्थः । एनमुपासकं प्राणः प्राणस्थः प्राणनामकोविष्णुः न जहाति ॥ 3 ॥ बट्‌कुर्नामतः वृष्णस्यापत्यं वार्ष्णः चक्षुः सर्वदर्शनाच्चक्षुर्नामकं वै । अपश्यतश्ऱ्चक्षुर्नामकं भगवद्रूपशून्यस्य किं स्यात्‌ । विश्ऱ्वनामकस्य तस्य जाग्रद्दर्शनमात्रहेतुत्वेन तदभावे जाग्रद्दर्शनमात्राभावापत्तेरिति भावः । चक्षुरेवचक्षुरिन्द्रियमेव । आयतनमवस्थानम्‌ । चक्षुःस्थस्य चक्षुर्नामकस्य विश्ऱ्वस्य सत्यत्वमुपपादयति ॥ चक्षुषेति ॥ चक्षुषाचक्षुःस्थेन चक्षुर्नामकेनविश्ऱ्वाख्यविष्णुरूपेण तत्प्रेरणयेति यावत्‌ । पश्यन्तं पुरुषं प्रत्याहुरन्येपुरुषाः । त्वं तत्र रूपादिकमद्राक्षीरिति । स पश्यन्नाह ॥ अद्राक्षमिति ॥ पुनर्द्दृष्यञ्चेत्‌ तद्वस्तुसत्यं यथास्थितं भवति । श्रौत्रज्ञानाद्युपलक्षणमेतत्‌ । एवमन्वय उक्तः । चक्षुस्थविश्ऱ्वाख्यविष्णुरूपस्य कण्ठस्थानादौ गमने जाग्रद्दशर्नं न भवतीति व्यरिरेकोपि द्रष्यव्यः । यत एवञ्च चक्षुर्नामकभगवतोयथार्थज्ञानहेतुत्वं तत्तस्माच्चक्षुस्थं ब्रह्मसत्यं भवतीत्यर्थः । एनमुपासकं चक्षुस्थं चक्षुर्नामकं ब्रह्म न जहातीत्यर्थः ॥ 4 ॥ गर्दभीगर्दभदेशीयः विपीतोनामतः भरद्वाजस्यापत्यं भारद्वाजः । ब्रह्म श्रोत्रं श्रवणशच्छ्रोत्रनामकं वा इत्यब्रवीत्‌ । अशृण्वतः श्रोत्रनामकभगवच्छून्यस्य किं स्यात्‌ । सच्छास्त्रश्रवणाद्यसम्भवात्‌ श्रोत्रमेवश्रोत्रेन्द्रियमेवायतनम्‌ । दिश एवचक्षुस्थितोदिङ्‌नामकः विष्णुरेवेत्यर्थः । दिग्गतस्य विष्णोरनन्तत्वमुपपादयति ॥ तस्माद्वा इति ॥ हे सम्राट्‌ हि यस्माद्दिशोऽनन्ताः दिङ्‌नामादिक्षुस्थितोविष्णुः सर्वव्यापी तस्मादेवयः कोपि यां काञ्चनदिशं तन्नामकभगवदधिष्ठितां दिशं प्रतिगच्छति अस्यादिशोन्तमवसानं नैवगच्छतीत्यर्थः । यदधिष्ठितदिशामेवानन्तत्वं सोनन्त इति किमुवक्तव्यमित्यर्थः । नन्वेवं दिङ्‌नामकस्यदिक्‌स्थस्य विष्णोरनन्त्वेपि श्रोत्रान्तर्गतस्य विष्णोरनन्तत्वेनोपासनं कथं स्यादित्यत आह ॥ दिशोवा इति ॥ दिक्‌स्थं विष्णुरूपमेव श्रोत्रं श्रोत्रान्तर्गतमित्यर्थः । एनमुपासकं श्रोत्रस्थं श्रोत्रनामकं ब्रह्म न जहाति ॥ 5 ॥ जबालाया अपत्यं जाबालः सत्यकामोनामतः मनोमन्तृत्वतोमनोनामकं वब्रह्मेत्यब्रवीत्‌ । अमनसोमनोनामकभगवद्रहितस्य किं स्यात्‌ । मननादेरसम्भवात्‌ । मन एव प्रसिद्धमनोरूपेन्द्रियमेवायतनम्‌ । एतन्मनोनामकं ब्रह्मानन्द आनन्दहेतुरित्युपासीत । आनन्दात आनन्दहेतुता मनोगतस्य मनोनामकस्य विष्णोरानन्दहेतुत्वमुपपादयति ॥ मनसेति ॥ मनसामनोनामकविष्ण्वधिष्ठितेन मनोरूपेन्द्रियेणैव पुमान्‌ स्त्रियं प्रत्यभिहार्यते नीयतेह । तस्यां स्त्रियां प्रतिरूपोऽनुरुपः पुत्रोजायते । स जातः पुत्रः आनन्दः आनन्दहेतुः । एवं यदधिष्ठितमनोव्यापारेण जातः पुत्रः सुखहेतुः स आनन्दरूपः परमात्मासुखहेतुरिति किमुवक्तव्यमित्यर्थः । एनमुपासकं मनोनामकं मनस्थं ब्रह्म न जहातीत्यर्थः ॥ 6 ॥ विदग्धोनामतः शकलस्यापत्यं शाकल्यः हृदयं हृदयनामकं वैब्रह्मेत्यब्रवीत्‌ अहृदयनामकभगवद्रूपशून्यस्य किं स्यात्‌ । जीवस्य सुप्त्याद्यसम्भवादिति भावः । हृदयमेवप्रसिद्धं हृदयमेव । आयतनं स्थितिहेतुः । स्थिततास्थितिहेतुता । उत्तरमाह ॥ हृदयमेवेति ॥ हृदयमेवहृदयगतं हृदयनामकं हृदयेसर्वत्रव्याप्तं प्रादेशपरिमितं हृत्कणिकामूलगतं अङ्गुष्ठाग्रप्रमाणकं हृत्कर्णिकाग्रगतमङ्गुष्ठमात्र परिमितञ्चेति भगवद्रूपत्रयमेवस्थितिहेतुरित्यर्थः । आद्यस्य हृदयनामकस्य स्थितिहेतुत्वमुपपादयति ॥ हृदयं वा इति ॥ हे सम्राट्‌ हृदयं वै हृदद्गतं हृदयनामकं हृदये सर्वशोव्याप्तं प्रादेशपरिमितं भगवद्रूपं सर्वेषां मूतानामायतनं स्थानं वैप्रसिद्धमित्यर्थः । द्वितीयतृतीयरूपयोः स्थिति हेतुत्वमुपपादयति ॥ हृदयं वा इति ॥ हृदयं हृदयनामकं हृदद्गतं कणिर्कामूलगतं हृत्कर्णिकाग्रगतं विष्णुरूपं सर्वेषां भूतानां प्रतिष्ठाधारकं सर्वदासुप्तौचैवेति शेषः । तदुपपादयति ॥ हृदयेह्येवेति ॥ हृदयनामकेहृत्कर्णिकामूलगतेविष्णुरूपे एव सर्वाणिभूतानि सदाप्रतिष्ठतानि भवन्तीत्यर्थः । तथा हृदयनामकेहृत्कर्णिकाग्रगतेविष्णुरूपेसर्वाणिभूतानि विशेषतोपि सुप्तौ प्रतिष्ठितानि भवन्तीत्यर्थः । एन(त)मुपासकं हृदयस्थं हृदयनामकं भगवद्रूपं न जहातीत्यर्थः ॥ 7 ॥ षडाचार्यब्राह्मणम्‌ ॥ 1 ॥ ननु पूर्वमुपसत्तिमकृत्वेदानीमुपसत्तिकरणेकिं निमित्तमित्यतस्तत्रतनिमित्तप्रदर्शनपूवर्कं जनकोहवैदेहः कूर्चादुपावसर्पन्नुवाचेति वाक्यमर्थाप्रतीतेरपेक्षिताध्यहारेण व्याचष्ये ॥ स्वयोग्यमिति ॥ ज्ञानं ज्ञानसाधनं ज्ञेयं वा । इन्द्रियेषु भगवदुपास्तिस्तुनासाधारण्येनस्वयोग्या युपगदुपास्तौ देवानां क्रमेणोपास्तौ मनुष्याणां चाधिकारादिति भावः । कूर्चादित्यस्यार्थः सिंहासनादिति । अवरुह्येति शेषोक्तिः । उपासवर्पन्नित्यस्यार्थः उपसदनं कृत्वेति । ननु स्वयोग्योपदेशं

श्रोतुमुपसदनं कृतवन्तं राजानं प्रतियाज्ञवल्क्येन त्वदुपास्यं किं जानासीति प्रष्यव्ये इतोविमुच्यमान; क्वगमिष्यसीति मुक्तौ प्राप्य प्रश्ऱ्नोसङ्गत इत्यतस्तदभिप्रायमाह ॥ यत्स्वात्मनेति ॥ पृच्छति इतो विमुच्यमान इत्यादिनेति शेषः । ननु जनकस्य देवत्वाभावात्कथं तस्मिन्वृन्दारकशब्दप्रयोग इत्यत आह ॥ बृन्दैरिति ॥ बृन्दैः भृत्यादिसमूहैः अर्यतेप्राप्यत इति बृन्दारक इत्यर्थः ॥ 1 ॥ ननु जनकस्य मुक्तौ प्राप्यं वक्ष्यामीति प्रतिज्ञाय इन्धोहवैनामैषयोयं दक्षिणेक्षन्‌ पुरुष इति दक्षिणशक्षिस्थ इन्द्रनामाकथं प्राप्यत्वेनोच्यते । अन्तरुपास्तियोग्यानां राज्ञां स्वहृदिस्थस्यैवोपास्य स्यमुक्तौ प्राप्यत्वादित्यतः सत्यमित्याह ॥ राज्ञामिति ॥ इन्द्रइत्याचक्षत इत्युक्त्यनुरोधादिन्द्रोनामेत्युक्तम्‌ । प्रमाणान्तरे इन्द्रस्थस्य यमस्थस्य वा भगवद्रूपस्य मुक्तौ राजप्राप्यत्वोक्तेस्तदनुरोधादाह ॥ सइन्द्रेचेति ॥ तिष्ठतीति शेषः । तस्मान्मुक्तौ प्राप्यत्वात्प्राप्यस्यैवोपास्यत्वात्‌ । एषास्यपत्नीविराडिति वाक्यं व्याचष्ये ॥ विराण्णामेति ॥ अस्य पत्नीत्यस्यार्थः तदाश्रयेति । तयोरेषसंस्ताव इति वाक्यं व्याचष्ये ॥ तयोरिति ॥ श्रुतौ प्राणेन क्रियत इत शेषोक्तिः । य एषोन्तर्हृदय आकाश इतयाकाशशब्दस्य काशनात्सर्वजीवानामित्यर्थं वक्तुं तस्यासम्भावनाशङ्कामादौ परिहरति ॥ कर्णाविति ॥ ज्ञेयासर्वजीवैः संस्ताव इति समित्युपसर्गतात्पर्यमाह ॥ सर्ववेदात्किकेति ॥ एवमसम्भावनाशङ्कां परिहृत्याकाशशब्दार्थमाह ॥ काशनादिति ॥ इत्युच्यत इति शेषः । यदि राज्ञांहृदयसंस्थ इन्द्रनामामुक्तौ राजभिः प्राप्य उप्य उपास्यश्ऱ्च तर्हि श्रुतौ दक्षिणषक्षन्पुरुष इति दक्षिणाक्षिस्थस्येन्द्रनाम्नः कथं प्राप्यत्वमुच्यत इत्यत आह ॥ जाग्रतामिति ॥ सराजहृदयसंस्थ इन्द्रः ॥ 3 ॥ तस्य प्राचीदिक्‌ प्रांचः प्राणा इत्यादि वाक्यं प्राच्यादिदिशान्तत्तत्प्राणानाञ्चाभेद उच्यत इति प्रतीति निरासाय व्याचष्ये ॥ तस्येति ॥ सभार्याविन्द्राग्नी इत्यनेन प्रांचः प्राणा इति बहुवचनोपपत्तिर्दर्शिता । अग्निराक्षसवाय्वीशानाः कोणपाः । सर्भायावित्यस्योत्तरत्रापि सम्बन्धः । तेन तत्रोपि बहुवचनोपपत्तिः ॥ सर्वादिशः सर्वेप्राणा इति वाक्यं व्याचष्ये ॥ सभार्या इति ॥ चशब्दोपि शब्दार्थः । सर्वेपीन्द्राद्यास्सभार्याः एकैकस्यां दिशिचत्वारएवेति सम्बन्धः । यद्येवं तर्हि कथं श्रुतौ प्राशब्दप्रयोग इत्यत आह ॥ नेतृत्वादिति ॥ प्राणब्दस्य तेषु योगमुक्त्वारूढिमप्याह ॥ इन्द्रियेति ॥ इन्द्रियाणां च प्राणशब्दवाच्यत्वादिति भावः । योयदभिमानीसतच्छब्दवाच्य इत्येतत्प्रसिद्धमिति द्योतनायाद्य एवशब्दः । प्राणा इत्येवशब्दितः प्राणशब्दरूढिविषया एवेत्यर्थः । अभयं त्वागच्छताद्याज्ञवल्क्ययोनोभगवन्नभयं वेदयस इत्यस्यैकवाक्यतासिद्धयेयत्तच्छब्दाध्यहारेण वाक्यं योजयति ॥ त्वत्प्रसादादिति ॥ नन्वात्मारामस्य मुनेरभयनामाभगवांस्तृप्तिहेतुरिति सिद्धमेव तत्किमनेनोच्यत इत्यतस्तत्तात्पर्यमाह ॥ नान्यदिति ॥ अत्र दृष्यान्तमाह ॥ स इति ॥ इति वचनस्य यथानित्यतृप्तस्य भगवतः प्रत्युपकाराभाव एव तात्पर्यं तथाऽत्रापीत्यर्थः ।इन्ध इत्यस्य स्थूलार्थभोक्तृत्वेन सदास्फुरणादिति व्याख्यानमसत्‌ । तन्मतेभोक्तुः विशिष्यस्य प्राप्यत्वायोगात्‌ प्राप्यस्य च भोक्तृत्वाभावादिति भावेनेन्धशब्दार्थमाह ॥ इन्ध इति ॥ ननु जीवभोग्यस्येशभोग्यत्वाभावादीशभोग्यस्य च जीवभोग्यत्वाभावेनेशस्य प्रविविक्ता हारतरत्वमेववक्तव्यं अतः कथमिवशब्दप्रयोग इत्यत आह ॥ जीवभोगस्येति ॥ भोगस्य भोग्यस्य तद्भोग्यभुगित्यर्थः । गन्धादिषु योजीवेन्द्रियागोचरः सारभागस्तस्यापि परमात्मभोग्यत्वादिति भावः । यद्वा श्रोत्रंचक्षुः स्पर्शनंचरसनं घ्राणमेवच । अधिष्यायमनश्ऱ्चायं विषयानुपसेवत इतीशस्य जीवभोग्यविषयभोगोक्तेः कथं शरीरात्प्रविविक्ता हारतरत्वमित्यत आह ॥ जीवेति ॥ यद्यपि जीवभोग्यस्येशोभोक्ता तथापि जीवस्तद्भोग्यभोक्तानैव भवति गन्धादिस्थजीवेन्द्रियागोचरसारभागस्यापीशभोग्यत्वात्‌ । अतोसौविविक्तमुगित्युच्यत इत्यर्थः । अवतारेषु स्थूलमपि मुङ्‌क्त इतीवशब्दः । अनेन प्रविविक्ताहारतरोऽयं जीवएवेति परास्तम्‌ । शारीरादात्मन इति भेदाभिधानात्‌ । नहि जीवोजीवादेवविलक्षणाहार इति युज्यते । ननु शारीराज्जागरावस्थाज्जीवात्स्वप्नसुषुप्त्यवस्थः स एव प्रविविक्ताहारतर इत्यवस्थाभेदोपाधिकं जीवस्यभेदमङ्गीकृत्यव्याख्यास्यामीति चेत्‌ न । शारीरस्तुत्रिधाभिन्नोजाग्रदादिष्ववस्थितेरिति वचनात्‌ त्ऱ्यवस्थास्यापि शारीणशब्देन गृहीतत्वात्ततः स्वप्नसुषुप्त्यवस्थस्यभेदायोगात्‌ । नन्वस्तुत्ऱ्यवस्थोपि शारीरः तताप्यस्मादिति विशेषणेनात्रशारीरादिति जागरावस्थोजीवोगृह्यते तस्माच्चस्वप्नाद्यवस्थस्यभेदोक्तिरुक्तविधयासम्भवति । भवत्पक्षेशारीरादिति जीवेसिद्धे अस्मादिति विशेषणं व्यर्थंस्यादिति चेन्न ।एतद्विशेषणसार्थक्यायेश्ऱ्वरं परित्यज्यजीवस्य ग्राह्यत्वात्‌ । शारीरौतावुभौज्ञेयौजीश्ऱ्चेश्ऱ्वरसंज्ञित इति ईश्ऱ्वरस्यापि शारीरत्ववचनाच्छारीरादित्येवोक्तावीश्ऱ्वरस्यापि प्राप्तावीश्ऱ्वरादेवेश्ऱ्वरस्य भेदानुपपत्तेस्तद्वयावृत्त्यस्तद्वयावृत्त्यर्थं जीवमात्रपरिग्रहायविशेषणमिति सार्थक्योपपत्तेः । नन्वेवं पक्षद्वयेप्युपपत्तावीश्ऱ्वर एवात्रोच्यते नजीव इति कुतोविनिगमनमिति चेत्‌ न । भेदश्रुतेः स्वभाविकभेदरूपेगत्यन्तरे सम्भवति पुरुषभेद एवार्थतयाग्राह्यः न त्ववस्थाभेदः मुख्यामुख्ययोः मुख्येसम्प्रत्ययात्‌ । अतो युक्तं विनिगमनम्‌ । दूषयिष्यते चायं भेदः आहच प्रविविक्तभुग्यतोह्यस्माच्छारीरात्पुरुषोत्तम इति ॥ 4 ॥ ततश्ऱ्चायंखण्डार्थः ॥ जनकोहवैदेहः स्वयोग्यं ज्ञानं श्रोतुं कूर्चात्सिंहासनादवरुह्योपावसर्पन्‌ गुरूपसदनं कुर्वन्कृत्वेति यावत्‌ उवाच । हे याज्ञवल्क्य तेन मोस्तु मामां अनुशाधि मोक्षानुकूल्येनशिक्षय । एवमुक्तोयाज्ञवल्क्य इतरसाधनसामग्रीसम्पत्तिमतोपि यत्स्वात्मनामुक्तौ प्रप्यं तदुपासनयैवमुक्तिर्भवतीति भावेनेतरसामग्य्रनुवादपूर्वकं प्राप्यं पृच्छति ॥ सहोवाचेत्यादिना ॥ हे सम्राट्‌ यथाकश्ऱ्चित्‌ त्वादृशः सम्राट्‌राजा महान्तमध्वानं मार्गं स्थले जलेवैष्यन्यथाक्रमं रथं नावं वासमाददीत । एवं त्वमेताभिः पूर्वोक्ताभिः वाग्वैब्रह्मेत्यादिभिरुपनिषद्भिः समाहितात्मास्वस्थमना असि । अनेनान्तःकरणशुद्धिरुक्ता । वैराग्यं सूचयन्विशेषणशन्तरमाह ॥ एवमिति ॥ एवं दृश्यमानप्रकारेण बृन्दारकः भृत्यादि बृन्दैःप्राप्यतमः आढ्यः धनीसन्नपि अधीतवेदः उक्तोपनिषत्कः व्याख्यातोपनिषत्कस्त्वमितः संसाराद्विमुच्यमानः क्वगमिष्यसीति । अहं यत्र गमिष्यामीति तत्प्रमेयं न वेदेति राज्ञोक्तेमुनिराह ॥ अथेति ॥ त्वं यत्र गमिष्यसितत्प्राप्यमहं ते तव वक्ष्यामीति । एवमुक्तः सराजोवाच ब्रवीतु भगवानिति ॥ 1 ॥ मुनिरुपदिशति ॥ इन्ध इति ॥ योयं प्रसिद्धः सर्वेषां दक्षिणषक्षन्‌ दक्षिणेक्षिणि विद्यमानः पुरुषो दीप्तत्वादिन्धोवैनाम एषमुक्तौराजभिःप्राप्यः । अतः स एव तद्धृदिस्थः उपास्यः तं राजहृदयां तस्थमेनं(त)दक्षिणशक्षिस्थमिन्धमिन्धनामानं सन्तमिन्द्र इति परोक्षेणाप्रसिद्धेननाम्नाऽऽचक्षतेदेवाः । कुत एवमाचक्षत इत्यत आह ॥ परोक्षप्रिया इति ॥ हि यस्माद्देवाः परोक्षप्रियाः अप्रसिद्धनाम्नाभगवदुपदेशप्रियाः प्रत्यक्षद्विषः प्रत्यक्षनाम्ना भगवदुपदेशद्वेषिणः प्रत्यक्षोपदेशेऽसुराणामपि सम्यग्दर्शनापत्तेः । असम्यग्दर्शनेन तत्पतनस्यैवदेवानां प्रियत्वात्‌ । क्वचिद्योग्येष्वपरोक्षोपदेशेनापि प्रीतिमत्त्वात्परोक्षप्रिवया इवेतीवशब्दः ॥ 2 ॥ दक्षिणशक्षिस्थभगवद्रूपमहिमानमाह ॥ अथेति ॥ अथशब्दोमाहात्म्योक्तिप्रारम्भार्थः । B-26

?Rतद्दक्षिणाक्षिस्थितमेवपुरुषरूपं वामेक्षिणिस्थितं एषाप्रसिद्धा विराण्णम्नीश्रीः अस्य दक्षिणाक्षिस्थपरमात्मनः पत्नी यद्वा यदेतत्‌ प्रसिद्धं वामेक्षिणिविद्यमानं पुरुषरूपं पुरुषप्रतिमा एषविराट्‌ विराण्णाम्नीश्रीः अस्य दक्षिणाक्षिस्थपरमात्मनः पत्नी । एषः तयोरिन्द्रविराजोः संस्तावः सर्ववेदात्मिकास्तुतिः । कः योन्तर्हृदयेप्राणेन क्रियमाण आकाश आसम्यक्‌ सर्वजीवानां काशमानः । कर्णपि धानेघोषात्मकतया श्रूयमाण एष इत्यर्थः । अथ य एष प्रसिद्धोन्तर्हृदयेन्तःस्थितो लोहितपिण्डोहृत्कमलरूप एतदेनयोः पूवोक्तयोरन्नं तत्रस्थित्वाताभ्यामन्नादनात्‌ । अथ यदेतत्प्रसिद्धं हृदयेन्तर्जालकमिवस्रगिववतर्मानं वपारूपमेतदेनयोः पूर्वोक्तयोः प्रावरणम्‌ । अथयैषाप्रसिद्धा हृदयादूर्ध्वोपरिवर्तमाना नाडी उच्चरतिमस्तकपर्यन्तं उद्गच्छति एषात(एन)योः पूर्वोक्तयाः सञ्चरणीसञ्चरणहेतुभूतासृतिर्मार्गः । हृत्कमललोहितपिण्डस्थितः किं भुङ्‌क्ते इत्यतः तस्याहारं वक्तुमाह ॥ यथेति ॥ यथाकेशः सहस्रधाभिन्नः एवमेताः प्रसिद्धाहितानामजीवस्य हितकारित्वात्परमात्मस्वरूपविशेषसन्निहित्वाद्वा(सन्निधियुतत्वाद्वा)हितानामनाड्यः सहस्रधभिन्नाः अस्य जीवस्य हृदयेन्तःप्रतिष्ठिताभवन्ति । एताभिः हितानामकनाडीभिरेतत्‌ जीवभुक्तेन्नेजीवेन्द्रियागोचरगन्धादिसारभूतं आस्रवत्‌ क्रमेणस्यन्दमानं आमास्रवति आगच्छति । तस्मात्तददनात्‌ एष परमात्मा अस्माच्छारीरादात्मनोजीवात्‌ प्रविविक्ताहारतर अतिशयेनविलक्षणभोग एव भवति । अवतारेषु स्थूलमपि भुङ्‌क्त इतीवशब्दः जीवभोग्यस्येशभोग्यत्वेपि ईशभोग्यस्य जीवभोग्यत्वाभावाद्वा इव शब्दः ॥ 3 ॥ तस्य परमात्मनः सर्वत्रावस्थितान्‌ सेवकानाह ॥ तस्येत्यादिना ॥ प्राञ्चःप्राचीदिगवस्थिताः प्राणा नेतृत्वात्प्राणनामका इन्द्रियाभिमानिनोवा । इन्द्राग्नीतद्भार्येचेति चत्वारः । तस्य परमात्मनः प्राचीदिक्‌ प्राच्यां दिशिप्रतिष्ठिताः । अत्र दिक्‌ चतुष्यय विवक्षयाग्नेय्या अपि दिशः प्राचीदिगन्तर्भावेण सभार्यस्याग्नेः प्राक्त्वोक्तिः । एवमुत्तरत्रापि । दक्षिणाः प्राणाःदक्षिणदिगवस्थायमनिः ऋतीतद्भार्येचेति चत्वारस्तस्य दक्षिणादिक्‌स्थाः । प्रत्यञ्चः प्रतीचीदिक्‌स्थाः प्राणा वरुणवायूतद्भार्येचेति चत्वारस्तस्य प्रतीचीदिक्‌स्थाः । उदञ्चः प्राणाः उत्तरदिक्‌स्थाः सोमेशानौतद्भार्येचेति चत्वारः । तस्य उदीचीदिक्‌स्थाः । ऊर्ध्वादिगवस्थिताः प्राणाश्ऱ्चतुर्मुखप्रधानवायूतद्भार्येचेति चत्वारस्तस्योर्ध्वदिगवस्थिताः । अर्वाञ्चः अदोदिगवस्थिताः प्राणाःशेषकामौतद्भार्येचेति चत्वारस्तस्यार्वाचीदिगवस्थिताः । एव सर्वेप्राणाः सभार्या इन्द्राद्याः सवर्ादिशः परमात्मनः परितः सर्वासुदिक्षुप्रतिष्ठिताः । स एष इत्याद्युक्तार्थम्‌ । हेजनकत्वमभयं मुक्तस्य सर्वदाऽभयप्रदं अथाभयं भवेद्ब्रह्मतस्यमुक्तिस्य सर्वदेति वचतनात्‌ । प्राप्तोसीति होवाचयाज्ञवल्क्यः । जनकस्यनिश्ऱ्चितमोक्षत्वात्प्राप्तोसीत्युक्तम्‌ । एष्यत्तुनिश्ऱ्चितं यत्स्यादतीतत्वेन भण्यत इति वचनात्‌ । सजनकोहवैदेह उवाच ह भगवन्‌ याज्ञवल्क्य यस्त्वं प्रसन्नः सन्‌ नः अस्मान्‌ यदभयं परमात्मरूपं वेदयसेप्रापयसि तं त्वां तदेवाभयं गच्छतात्‌ तत्‌ तवतृप्तिहेतुरस्तु नान्यद्वयं प्रत्युपकर्तुं शक्नुम इति यावत्‌ । तत्तुभ्यं नमोस्तु । अन्यत्किं देयं इमेमदीयत्वेन प्रसिद्धाविदेहाविदेहदेशास्तवयथेष्यं भोगायसंतु । अयं त्वयोपदिष्योहं तवदासोस्मि । मांराज्यं च यथेष्यं प्रतिपद्यस्वेत्यर्थः ॥

कूचर्ब्राह्मणम्‌ ॥ 2 ॥ जनकं हवैदेहमित्यादेः याज्ञवल्क्योयदाजनकं प्रतिगत्वाकामप्रश्ऱ्नवरं ददौ तदैवजनकः पप्रच्छेति

यथाश्रुतव्याख्यानं प्रमाणविरुद्धमिति भावेन तद्वाक्यतात्पयर्प्रमाणेनाह ॥ याज्ञवल्क्य इति ॥ समेनेन वसिष्यइत्यस्याथर्ः संवादकामुक इति कामप्रश्ऱ्नवरं दत्वास्वयमेवकिमिति वैदेहनगरं प्रायादित्यत आह ॥ सन्त इति ॥ किञ्च यथाश्रुतव्याख्यानेकामप्रश्ऱ्नवरदानानन्तरमेव प्रश्ऱ्नेसम्राट्‌पप्रच्छेत्येतावतापूर्तेः पूर्वशब्दैवशब्दौ व्यर्थौस्याताम्‌ । तर्हि पूर्वं वरंदत्वाविदेहनगरं प्रयादिति व्याख्यानेपि कथं तयोस्सार्थक्यमित्यत आह ॥ तथापीति ॥ यद्यपि तवकामप्रश्ऱ्नवरदाताऽहंत्वत्पृष्यं वक्तुमागतोस्मित्वयातुयथेष्यं प्रष्यव्यमिति याज्ञवल्क्य वचनानन्तरं राज्ञाप्रश्ऱ्नः कर्तव्यः तथाप्यौत्सुक्यात्सम्राडेवपूर्वं पप्रच्छेत्यर्थः यद्वा यद्यपि याज्ञवल्क्येन संवादकामुकतयाऽऽगतत्वेनैव प्रथमतो वक्तव्यं ततापि कामप्रश्ऱ्नवरस्य स्वीकृतत्वात्सम्राडेवपूर्वं पप्रच्छेत्यर्थः … 1 ॥ अस्य जीवस्याऽऽत्मैवस्वमेव ज्यातिरिति जीवस्य स्वज्योतिष्ट्वतिः भवतीति वाक्यं व्याचष्ये ॥ आत्मेति ॥ ननु सुप्त्यादावस्य जीवस्य भगवानेवज्योरिति न युज्यते भगवतोऽस्तमयादिशून्यस्य जाग्रत्यपि ज्योतिष्ट्वप्राप्त्यातदाविशिष्यात्मज्योतिष्ट्वोक्त्यनुपपत्तेरित्यत आह ॥ भाव इति ॥ यद्यपि सूर्यादेः ज्यातिषोभावे अभावेपि जीवानां विष्णुज्यर्ोतिर्भवत्येव तथापि सूर्यादेवरभावेतु तत्‌ विष्ण्वाख्यं ज्योतिर्विशेषतो ज्ञेयमिति योजना । तथाच तदाज्यातिरन्तराभावाभिप्रायेण विशिष्योक्तिरिति भावः । ननु सूयर्ादेर्विषयप्रकाशकत्वादिनाबुद्धिहेतुत्वाद्युक्तं जीवं प्रतिज्योतिष्ट्वं भगवतः कथं जीवं प्रतिज्यातिष्ट्वमित्यपेक्षायामाह ॥ अस्वातन्त्ऱ्ादिति ॥ स्वबुद्धिद्योतनेजीवस्य स्वातन्त्ऱ्येविष्णुज्यातिष्ट्वाङ्गीकारोऽयुक्तः स्यादित्यत उक्तं अस्वातन्त्ऱ्यादिति । तुशब्द एवार्थः । तमस्यपि सूर्यादिज्योतिरन्तराभावदशायां न केवलं त्तसद्भावदशायामित्यपि शब्दः । नन्वंधेतमसितावन्नजीवबुसिद्धप्रेरकत्वमीश्ऱ्वरस्य । तथात्वे तत्स्थस्येश्ऱ्वरस्य दुःखादिप्राप्तेः । अतस्तत्र स्वत एव बुद्धिद्योतनमित्यङ्गीकायर्म्‌ । तथाच तद्वदत्रापि कि नस्यादित्यत उक्तं तमस्यपीति ॥ यथोक्तं तत्रापि तद्वयापादविरोध इति ॥ 6 ॥ यद्यात्माभगवान्‌ तर्हि तस्य ध्यायतीवलेलायतीवेति ध्यानग्रहणकर्तृत्वं कथमुच्यते तस्य जीवधर्मत्वात्‌ । नचास्य जीवपरत्वे इव शब्दवैर्थ्यं ध्यानादेरपि मिथ्यात्वाभिप्रायेणतदुपपत्तेरित्यतस्तद्यथावद्वयाचष्ये ॥ स्वातन्त्ऱ्ादिति ॥ असौ सर्वेश्ऱ्वरेश्ऱ्वरो जीमञ्जसाध्याययन्‌ स्वयं ध्यातीवेत्युच्यते । कुतः स्वातन्त्ऱ्ादिति योजना । लाउपादान इवशब्दोऽल्पार्थे । ननु विज्ञायतेऽनेनेति विज्ञानं बुद्धिस्तन्मयस्तत्प्राय इति जीवस्य विज्ञानमयत्वोक्तेः कथमात्मा भगवानित्यत आह ॥ सदेति ॥ ननु समसमानः सन्नुभौलोकावनुसञ्चरतीत्युभयलोकसञ्चरणमुच्यते । तच्चजीवस्यैव कर्मवशादुपपद्यते नतु भगवत इत्यतः तद्वयाख्यातुं समानशब्दार्थं तावदाह ॥ समान इति ॥ यतः सदासमः अतः समानः । कथं सदासमत्वमित्यत आह ॥ अविकारादिति ॥ तदिदानीं व्याचष्ये ॥ समानस्सन्निति ॥ ननु स्वप्नोभूत्वेमंलोकमतिक्रामति मृत्योरूपाणीति जीवलिङ्गप्रतीतेः कथं भगवत्परतयाव्याख्यानमित्यतस्तद्वयाचष्ये ॥ स्वापकत्वादिति ॥ ननु स्वप्नावस्थाप्रेरकः परमात्मेमं लोकं पृथिव्याख्यमतिक्रामतीत्यसङ्गतमनुपपन्नं चेत्यत उक्तम्‌ ॥ जाग्रदाख्यमिति ॥ इमंलोकमतिक्रामतिमृत्योरूपाण्यतिक्रामतीति वाक्यभेदप्रतीतिनिरासायाह ॥ मृत्युरूपात्मकमिति ॥ तर्हि श्रुतौ बहुवचनानुपपत्तिरित्याशङ्कां परिहरन्‌ जाग्रदवस्थायामृत्युरूपात्मकत्वमुपपादयति ॥ बह्विति ॥ तारयेदित्यनेनातिक्रामतीत्येतत्‌ अन्तर्णीतणिजन्तमित्युक्तं भवति ॥ स्वापकत्वात्स्वप्ननामकस्य जाग्रत्तरणहेतुत्वं कथमित्यत उक्तं स्वप्नमानयन्निति । जीवमित्यनुवर्तमानं वक्ष्यमाणं वातारयेदित्यत्र स्वप्नमानयन्नित्यत्र च सम्बध्यते । प्रकारान्तरेणापि तद्वाक्यं व्याचष्ये ॥ इमंलोकमिति ॥ अस्मिन्पक्षेस्वप्नोभूत्वेत्यस्यान्तरिक्षलोकप्रापकोभूत्वेत्यर्थोभिप्रेतः । यथाश्रुतेऽसङ्गत्यापत्तेरिति भावेनाह ॥ अन्तरिक्षगमिति ॥ अननैव देहेनजीवमन्तक्षिगं कुर्यात्किमिति जिज्ञासायामुक्तं मृताविति । भूर्लोकस्य मृत्युरूपत्वमुपपायति ॥ भूर्लोक इति ॥ बहुवचनार्थमाह ॥ बहव इति ॥ चशब्दोयस्मादित्यर्थे । मत्यवः कलावाभ्रोपमाजीवा इत्यादिवक्ष्यमाणप्रकारेण बहवः हेत्वन्तरेणापि मृत्युरूपत्वमुपपादयति ॥ पापेति ॥ नन्विदं च परलोकस्थानंचेत्युक्तभूलोकस्वर्गलोकसन्धौस्वप्नावस्थायाभवनाभावात्कथं सन्ध्यं तृतीयं स्वप्नस्थानमित्युक्तमिचेत्‌ । भूलोकपरेदं शब्देन जाग्रदवस्थायाः द्युलोकपरपरलोकस्थानशब्देन सुषुप्त्यवस्थाया अवस्थावाचकस्यप्नशब्देनान्तरिक्षलोकस्यापि ग्रहणात्‌ । तथाच जाग्रत्सुषुप्तिसन्धौ भवं सन्ध्यं स्वप्नस्थानं भूलोकद्युलोकयोः सन्धौभवं सन्ध्यं अन्तरिक्षलोकस्थानमिति वाक्यार्थ इति भावेन लोकवाचकशब्दयोरवस्थावाचकत्वं अवस्थावाचकशब्दयोरवस्थावाचकत्वं अवस्थावाचकशब्दस्य लोकवाचकत्वं प्रमाणेनाह ॥ जाग्रच्चेति ॥ अनेनेमंलोकं जाग्रदाख्यमिति यदुक्तं अन्तरिक्षगमित्यनेन स्वप्नोभूत्वेत्यस्य अन्तरिक्षलोकप्रापकोभूत्वेति च यद्विवक्षितं तदुभयमपि उपपादितं भवति । एवं लोकवाचकशब्दस्यावस्थाया अपि वाचकत्वे

उभौ लोकावित्यत्र न लोकमात्रं ग्राह्यम्‌ । किन्तु अवस्थापि ग्राह्येत्याह ॥ तद्वयभिप्रायिकेति ॥

?Rतस्माल्लोकवाचकशब्दस्यावस्थावाचकत्वस्यापि सत्वादित्यथर्ः । ननु सवा अयं पुरुषोजायमान इत्यादिजीवलिङ्गात्कथमात्माभगवानिति व्याख्यानमित्यत आह ॥ सवाइति ॥ द्वयाश्रयाईशजीवोभयपरा । न केवलमुभौलोकावितिश्रुतिः द्वयभिप्राया । किन्तु इयमपीति द्वयभिप्रायकत्वमात्रसमुच्चयार्थश्ऱ्चशब्दः । ननु कथमियं श्रुतिरीशजीवोभयपरा ईशस्य पूर्वं प्रकृत्वात्‌ सवा इति तत्परामर्शेपि जीवस्याप्रकृतत्वात्तत्परामशर्स्यासम्भवादित्यत आह ॥ यस्येति ॥ तथासवा अयं जायमान इत्यनेन तथाचात्मैवास्य ज्योतिरित्यत्रास्येति भगवज्ज्योतिष्ट्वेन जीवस्यापि प्रकृतत्वात्तत्परामर्शोपि युक्त इति भावः । आत्मैवास्येति योजीवः सपरामृश्यते । तथेत्येव वक्तव्येयस्य ज्योतिरयं विष्णुरित्युक्तिस्तद्वाक्यव्याख्यानार्था प्रमाणेन पूर्वं तस्याव्याख्यानात्‌ । नन्वथापि नेयं श्रुतिरीशजीवोभयपराईशस्य जननमरणपापसंसर्गतद्धानानामसम्भवादित्यत आह ॥ यदेति ॥ स्वातन्त्ऱ्यतस्तन्नियामक इति सम्बन्धः । यथाजयपराजययोः भृत्यगतत्वेपि तन्नियामकतया राजाजयीपराजयीत्युच्यते तथाजीवनमरणयोः जीवगतत्वेपि तन्नियामकत्वेन भगवान्‌ जायमानोम्रियमाण इत्युक्त इत्यर्थः । राज्ञोभृत्यनियामकत्वं यथान्याधीनं नैवं भगवत इत्याशयेनस्वातन्त्ऱ्यत इत्युक्तम्‌ । पापानामित्यस्य पूर्वोत्तराभ्यां सम्बन्धः । ग्रह उपादानं फलादानादित्यत्रापि पापानामित्येतदनुवर्तते । नन्वेवमपि कथमियं श्रुतिः द्वयाश्रया जीवस्य जननमरणपापसंसर्गाणं सम्भवेपि तद्धानासम्भवादित्यत आह ॥ जीवोपीति ॥ इदं च परलोकस्थानं चेत्यादिकं न केवलमुक्तरीत्यावस्थालोकोभयमात्रपरं किन्तु संसारमोक्षपरञ्चेत्यभिप्रेत्याह ॥ स्वर्ग इति ॥ सुप्तिरित्यादिकमिदं वच इति सम्बन्धः । आदिपदेनस्वर्ग इति परलोकस्थानमितीत्यस्य ग्रहणम्‌ । यतस्सुप्तिरित्याख्यानकेवलं सुप्तिस्वर्गयोः किन्तु मुक्तेरपि समा अतः सुप्तिरितीदं वचोद्युसुप्तिमोक्षाणामभिप्रायात्प्रवृत्तम्‌ । यतः परलोकोमुख्योमुक्तिरेवामुख्यतस्तुस्वर्गसुषुप्ती अतः परलोक इतीदं वचः द्युसुप्तिमोक्षाणामभिप्रायादिति योज्यम्‌ । सुप्तिरिति स्वर्ग इति वाक्यान्तराभिप्रायेणोक्तं सुप्तिरिति कथं मुक्तेराख्येत्यतः तत्पयर्ायस्वापशब्दस्य स्वशब्दवाच्यविष्णुप्राप्तिरूपमुक्तिपरत्वादिति भावेनाह ॥ स्वेतीति ॥ स्वर्ग इति कथं मुक्तेराख्येत्यतोवाह ॥ स्वेतीति ॥ स्वरिति वक्तव्येरेफमविवक्षित्वास्वेतीत्येवोक्तम्‌ । तं प्रतिगमनात्स्वर्ग इति मुक्तेराख्येति भावः । ननु सुप्तिरिति वचोयदिद्युसुप्तिमोक्षाणामभिप्रायात्‌ तर्हि असुप्तः सुप्तानभिचाकशीतीत्येतन्मुक्तपरत्वेनापि व्याख्येयम्‌ । नचतद्युक्तं शुक्रमादायपुनरेति स्थानमिति जीवस्य पुनरागमनोक्तेरित्यत आह ॥ पुनरागमनमिति ॥ तर्हि न च पुनरावर्तत इत्यादिश्रुतिविरोध इत्यतः पुनरागमनं विवृणोति ॥ प्रलयत्विति ॥ पुनः संसारप्राप्तिरूपपुनरागमननिषेधपराश्रुतिरिति भावः । निर्गच्छन्ति सृष्यिकाले । ननु मुक्तानां भगवति प्रलयेप्रवेशे सृष्यौ निर्गमनेचाऽज्ञानदुःखादिकं स्यादित्यत उक्तम्‌ ॥ ज्ञानाविलोपेनेति ॥ सुखाविलोपेनेत्यपि ग्राह्यम्‌ । तदेवविवृणोति ॥ नचेति ॥ तेमुक्ताः सृष्यौ बहिः लये अन्तश्ऱ्चरमन्त्येव । नच तेषां ज्ञानुसुखादीनां कश्ऱ्चिद्विशेष इति सम्बन्धः । ननु सयत्रप्रस्वपितीति स्वापकर्तृत्वलिङ्गबलाज्जीव एवात्रप्रतिपाद्योऽवगम्यत इति कथं भगवत्परतया व्याख्यानमित्यत आह ॥ स्वापयतीति ॥ नन्वेवमन्तर्णीतणिच्‌ त्वादिनेदं प्रकरणं विष्णुपरतया कुतोव्याख्येयमिति चेत्‌ तस्मिन्सन्ध्येस्थानेतिष्ठन्नुभेस्यथानेपश्यति तमाक्रममाक्रम्योभयान्पाप्मन आनन्दांश्ऱ्च पश्यतीत्यस्य विष्णावेव सम्भवात्‌ जीवेचाऽसम्भवादिति भावेनाह ॥ आनन्देति ॥ लोकादेरित्यत्र लोकशब्देन पृथिवीस्वर्गयोः ग्रहणम्‌ । आदिपदेन जाग्रत्सुषुप्त्योः संसारमुक्त्योश्ऱ्चसङ्ग्रहः । अनेनोभेस्थाने इत्येतदुक्तार्थम्‌ । श्रुतौ तास्मिंत्सन्ध्येस्थानेतिष्ठन्नितिस्वप्नेस्थितोभगवानुभेस्थानेपश्यतीत्युक्तम्‌ । तेन स्वप्न एव स्थितस्य विष्णोर्लोकादिदशर्नं न सुप्तिस्थस्येति शङ्कास्यात्‌ । तां परिहर्तुं स्वप्नसुप्त्योरपि स्थितस्येत्युक्तम्‌ । विष्णोरेवेति सम्बन्धः । नन्वात्मैवास्य ज्योः भवतीत्युक्त एवार्थः अत्रायं पुरुषः स्वयं ज्योतिः भवतीति प्रत्यभिज्ञायते । तत्र च जीवस्यैवस्वज्योतिष्ट्वमुच्यते । अत आत्मा भगवानिति व्यायानेप्रत्यभिज्ञाविरोधः स्यादित्यत आह ॥ अत्रेति ॥ अत्र सुप्तौ अवस्थान्तरेपि भगवतोज्यातिष्ट्वात्‌ किं विशिष्योच्यते इत्यत आह ॥ विशेषत इति ॥ तथाच इदमपि वाक्यं भगवत्परमेवेति न प्रत्यभिज्ञाविराध इति भावः । तद्वाक्यस्य जीववपरत्वे बाधकमाह ॥ नहीति ॥ हिशब्दो यस्मादित्यर्थे । स्वयं स्वातन्त्ऱ्ेणास्वयं ज्योतिष्ट्वं नामस्वातन्त्ऱ्ेण द्रष्यृत्वं तच्चजीवस्य न सम्भवतीति भावः । अयं अत्रायमिति वाक्यप्रतिपाद्यः । ईश्ऱ्वरपक्षेच वाक्यार्थोयुज्यत इति भावेनाह ॥ सर्वमिति ॥ यद्वाऽऽनन्दपापलोकादेः दर्शनं जीवस्य नास्ति विष्णोरेवास्तीत्युक्तम्‌ । तत्कुत इत्यत आह ॥ नहीति ॥ द्रष्युं आनन्दपापलोकादिकमिति शेषः । न तत्र रथा इत्यादिवाक्यानिस्वप्नमात्र परत्वप्रतीति निरासायव्याचष्ये ॥ स्वप्न इति ॥ ननु बाधकाभावात्कथं जवलिङ्गानामन्यार्थत्वमित्यतो जीवपक्षेबाधकमाह ॥ जीवपक्ष

?Rइति ॥ यद्यात्मैवास्य ज्योतिः भवतीत्यत्रात्मजवः स्यात्‌ तर्हि कतम आत्मेति प्रश्ऱ्नोनयुक्तः स्यात्‌ जीस्याहमिति

?Rप्रत्यविषयत्वेन प्रसिद्धत्वात्‌ प्रसिद्धप्रश्ऱ्नस्य चासम्भवादित्यर्थः । भगवतश्ऱ्चपरोक्षत्वेनाप्रसिद्धत्वात्तद्विषयक प्रश्ऱ्नोनानुपपन्न इति भावः । बाधकान्तरमाह ॥ नचेति ॥ समानोविकारः कुत इत्यत आह ॥ सुखेति ॥ जीवस्य द्युपृथिवीलोकसञ्चरणे सुषुप्तिजाग्रत्सञ्चरणेच यथाक्रमं सुखदुःखविशेषवत्त्वान्नसमानत्वमित्यर्थः । ननु सुखदुःखविशेषवत्त्वेपि जीवस्य न समानत्वमनुपपन्नम्‌ । सुखदुःखादेः मिथ्यात्वेन वास्तवसमानत्वाविरोधित्वात्‌ नह्यारोपित नीलिम्नागगनरूपत्वं विरुद्धं इत्यत आह ॥ नचेति ॥ स्यादेतदेवं यदि सुखादेः मिथ्यात्वमेवस्यान्नचैतदस्ति । तत्र प्रमाणाभावात्‌ । नतावदत्र प्रत्यक्षमस्ति । इदं नीलमितिवत्‌ सुखादिकं मिथ्येति प्रतीत्यभावात्‌ । प्रत्युतसुखादिकं सदित्येवप्रतीतेश्ऱ्च । नाप्यनुमानं लिङ्गाभावात्‌ । विमतं मिथ्यादृश्यत्वादित्यनुमानमस्तीति चेन्न । मिथ्यात्वस्यासत्वेऽपसिद्धान्तापातात्‌ । अनिर्वचनीयत्वे अप्रसिद्धविशेषणत्वात्‌ सत्यविवेकस्य मिथ्याभावस्य साध्यत्वान्नाप्रसिद्धविशेषणतेति चेन्न । सत्यविवेकस्यासत्वानतिरेकेणापिसिद्धान्तानिस्तारात्‌ । असदनिर्वचनीयसाधारणं सद्विविक्तत्वमिति चेन्न । तर्ह्यसत्वमादायार्थान्तरतापातात्‌ । अपरोक्षतयाप्रतीयमानत्वेनासत्वबाधे अनिर्वचनीयत्वमेवसेत्स्यतीति चेन्न । असतोप्यपरोक्षप्रतीरति सम्भवेन तस्यासत्वाबाधकत्वात्‌ । अन्यथाशुक्तिरूप्यादावसत्प्रतिभासिकवैलक्ष्यज्ञानाभावे प्रवृत्त्यभावापत्तेः । अनिर्वचनीयस्यैवाभावेन धूमबाष्पयोः धूमत्ववत्सद्विविक्तत्वस्य साधारणत्वायोगाच्च । दृश्यत्वं च यदि दृग्विषयत्वं तदाऽऽत्मनि व्यभिचारः । अन्यथावेदान्तजनितविज्ञानस्य आत्मज्ञानत्वाभावापातात्‌ । नचात्मज्ञाननिवर्तकत्वनात्मज्ञानत्वं तदविषयकस्य तदज्ञाननिवर्तकत्वे अतिप्रसङ्गात्‌ । यदि च दृग्वन्यफलाश्रयत्वं तदाऽसिद्धम्‌ । ज्ञाततादिरूपफलस्यान्यत्र निराकृतत्वात्‌ । दृष्यान्तस्य साध्यसाधनवैकल्यञ्चेति । नाप्यागमः । नेहनानेत्यादेरन्यार्थत्वस्योक्तत्वात्‌ । नापि ख्यातिबाधान्यथानुपपत्तिः । असतोपि परोक्षापराक्षप्रतीति सम्भवेनासच्चेन्नप्रतीयेतेत्यापादनासम्भवात्‌ । सच्चेन्नबाध्येतेत्यत्र चेष्यापत्तिः । नाप्युपमानं तस्य सादृश्यादिनियतविषयत्वात्‌ । नाप्यभावः प्रत्यक्षेणसुखदुःखादेः सत्यत्वस्यैवावगमेन सत्वानुपलब्ध्यसिद्धेरिति । तदेतदुक्तं किञ्चिदिति । न केवलं प्रमाणाभावान्नसुखदुःखादेः मिथ्यात्वं किन्तु तद्विरुद्धत्वाच्चेत्याह ॥ याथातथ्यत इति ॥ कविस्सर्वज्ञो मनसामीष्य इति मनीषी परिभवति सर्वानिति परिभूः सर्वोत्तमः स्वयमेवभवतीति स्वयं भूः स्वतन्त्रः परमेश्ऱ्वरः शाश्ऱ्वतीभ्यः समाभ्यः सर्वदा अर्थान्‌ पदार्थान्‌ महदादीन्‌ याथातथ्यत एव व्यदधान्नतुमिथ्याभूतानित्यर्थ : । गीतायां जगदसत्यत्ववादिनां निन्दनात्तत्सत्यत्वेतात्पर्यावगमात्तद्विरोधाजगन्मिथ्यात्वस्येति भावः । आदिपदेन नासतोदृष्यत्वान्नाभाव उलब्धेरिति सूत्रग्रहणम्‌ । ननु यद्यपीदानीं सुखादिकं मिथ्येत्यनुभवोनास्ति तथाप्युत्तरत्रैतत्‌ सुखादिजगन्नासीन्नास्ति न भविष्यतीत्यनुभवोवेदान्तजन्यश्ऱ्च रमसाक्षशत्काररूपोभविष्यति । तेनैव जगतोबाध्यत्वरूपमिथ्यात्वसिद्धिः । नच श्रुत्यादि विरोधः । व्यावहारिकसत्वपरत्वात्तस्य प्रत्यक्षन्तु वर्तमानमात्रग्राहित्रिकालबाधाभाव ग्राह्कं नेति नतद्विरोधोपि । तथाच कथं जगन्मिथ्यात्वे मानाभावस्तद्विरोधश्ऱ्चेत्यत आह ॥ नचेति ॥ स्यादेतत्‌ यद्ययमनुभव एवोत्तरत्र भविष्यतीति स्यात्‌ । नचतदस्ति तत्र प्रमाणाभावात्‌ । नतावत्तत्र प्रत्यक्षं तस्य वर्तमानमात्रग्राहित्वस्योक्तवत्वात्‌ । विमतं बाध्यं दृश्यत्वादित्यनुमानमस्त्विति चेन्न । बाध्यत्वस्यापि बाध्यत्वे अबाध्यत्वस्य सत्यत्वप्राप्तेः । अन्यथा तत्र हेतुवृत्तौ व्याभिचारः । अवृत्तौचाऽनुमानवैयर्थ्यात्‌ पूर्वोक्तदोषानिस्ताराच्च । अनिर्वचनीयत्वेन बाध्यत्वं साध्यमिति चेन्न । हेतुस्वरूपासिद्धेः । ज्ञातेद्वतं न विद्यते इति आगमोत्रमानमिति चेन्न । ज्ञानेन अमाननिवृत्तौ तदुपादानकं जगत्स्वयमेवबाध्यत इति हि तवाभिप्रायः सनयुक्त; । अज्ञानस्य ज्ञाननिवर्त्यत्वं हि जनज्यध्वंस प्रतियोगित्वमेव नत्रैकालिकाभावप्रतियोगित्वं शुक्तिज्ञानेन शुक्तिकाज्ञानं नष्यमित्येवानुभवात्‌ एतादृग्बाध्यत्वस्यास्मकमप्रतिपक्षत्वाच्च । नच जगतोऽज्ञानतोपादानकत्वे किं चिन्मानम्‌ । शुक्तिरूप्यादेरप्यज्ञानोपादानकत्वासम्मतेः । तस्मादुक्तानुभवसत्वेन किञ्चिन्मानं तदेतदुक्तं किञ्चिन्मानं नेति । यदुक्तं जगन्मिथ्यात्वं वैधर्म्याच्चनस्वप्नादिवदिति सूत्रविरुद्धमिति तदयुक्तम्‌ । सूत्रेहि प्रपञ्चस्य स्वप्नादिवैधर्म्यमुच्यते तच्चप्रपञ्चस्य किञ्चित्कालस्थिरत्वेनैव स्वाप्नपदार्थस्याशुतरविनाशित्वात्‌ किञ्चित्कालस्थिरत्वमात्रं चास्माभिरपि प्रपञ्चस्याङ्गीक्रियते । तस्य शून्यवाद्यङ्गीकृतात्यन्तासत्वविरोधित्वेप्यस्मदभिमतमिथ्‌यात्वाविरो

?Rधित्वादित्यत आह ॥ किञ्चिदिति ॥ यद्यत्र सूत्रे किञ्चित्कालस्थिरत्वमात्रेण प्रपञ्चस्य स्वप्नादिवैधर्म्यमुच्यते तदातत्सूत्रं शून्यवादिनिराकरणपरं न स्यात्‌ किञ्चित्कालस्थिरत्वमात्रेण स्वप्नादिवैधर्म्यस्य शून्यवादिनामपि सिद्धत्वात्‌ । तथाच तत्सूत्रं व्यर्थं स्यादित्यर्थः । एतेन प्रपञ्चस्य व्यावहारिकसत्वेन स्वप्नादिवैधर्म्योक्तिरित्यपि निरस्तम्‌ । व्यावहारिकसत्वस्य तेनाप्यङ्गीक्रियमाणत्वात्‌ । यथोक्तं शून्यवादिना सत्वं तु द्विविधं प्रोक्तं सांवृतं पारमार्थिकम्‌ । सांवृतं व्यावहार्यं स्यात्‌ निवृत्तौ

पारमार्थिकमिति । तर्हि केन प्रकारेणस्वप्नादिधर्म्यं प्रपञ्चस्य सूत्रेभिप्रेतमित्यत आह ॥ अत इति ॥

?Rअर्थान्तरस्यासम्भवादित्यर्थः । अस्य प्रपञ्चस्य नास्तिनासीन्नभविष्यतीत्यनुभवः कदापि न भविष्यतीत्यभिप्रायेणैवस्वप्नादिवैधर्म्यवचनं प्रवृत्तम्‌ । शून्यवादिना प्रपञ्चस्योक्तरूपानुभवः कदाचिद्भविष्यतीत्यङ्गीकारेण सूत्रस्य तद्दूषणपरत्वस्य सम्भवेन वैयर्थ्यासम्भवादित्यर्थः । ननु प्रपञ्चस्योक्तबाधाभावरूपेण सौत्रादि पदोपात्तरज्जुसपादिवैलक्षण्यसम्भवेपि स्वप्नवैलक्ष्योक्तिः न युज्यते । नतत्र रथा इत्यादिनासृष्ययुक्त्यास्वप्नपदार्थस्य सत्वत्वादिति चेन्न । स्वप्नशब्देनात्र स्वाप्नपदार्थे आरोपित जाग्रत्त्वग्रहणात्‌ । तस्यच रज्जुसर्पादिवद्बाध्यत्वात्‌ । नन्वस्त्वेवमबाध्यत्वेनैव प्रपञ्चस्य स्वप्नादिवैधर्म्योक्तिस्तथाप्यस्माकं कथं तद्विरोधः । (तस्य)शून्यवाद्यभ्युपगतजगदसत्यत्वविरोधित्वेप्यस्मदभिमतानिर्वचनीयत्वाविरोधादिति चेत्‌ न । प्रपञ्चस्यानिवर्चनीयत्वं वदता किं प्रपञ्चोनास्तिनासीन्नभविष्यतीत्यनुभवोङ्गीक्रियते नवा । द्वितीयेन विवादः अबाध्यत्वाविरोध्यनिर्वचनीयत्वस्यास्माकमप्रतिपक्षत्वात्‌ इति । आद्यं दूषयति ॥ नचेति ॥ तथानुभवेत्वयाप्यङ्गीक्रियमाणे शून्यवाद्युक्तजगदसत्यत्वस्य त्वदुक्तानिर्वचनीयत्वस्य च न कश्ऱ्चिद्विशेषः । तथाऽनुभविषयत्वेऽसत्वस्यैव प्राप्तेः । मयातादृशानुभवाङ्गीकारेष्यसद्वैलक्षण्यं अङ्गीक्रियत इति चेन्न । अर्थक्रियाकारित्वादिना तद्वलक्षण्यस्य तन्मतेपि सत्वात्‌ । तदभिप्रेतपारमाथिर्कसत्वाभावस्य त्वन्मतेपि सत्वात्‌ । तथाच वाङ्मात्रभेद एवायं नार्थ भेद इति सूत्रविरोधोदुर्वार इति भावः । ननु शून्यवादिनिराकरणपरसूत्रविरोधोऽस्मकं कथमिति चेन्न । सूत्रनिरसनीयांशस्य त्वन्मतेपि साम्यात्‌ । मायावादिनिरासायशून्यवादिनिरासकसूत्रोदाहरणष इतोपि नानुपपत्तिरित्याह ॥ नचेति ॥ तद्वादिनां मायावादिनां मत इति शेषः । यद्यपि मायावादिनां शून्यवादिनाञ्च मते आचारविशेषोदृश्यते तथापि शास्त्रविषयीभूतप्रमेये न कश्ऱ्चिद्विशेषः । तथाच शून्यवादिनिरासकसूत्रेण मायावादिनिरासोनानुपपन्न इत्यर्थः । ननु शास्त्रविषयभूतेपि प्रमेयेशून्यवादिमतान्मायावादिमतस्य कुतो न विशेष इति चेत्‌ सच विशेषः किं प्रधानफलविशेषात्तत्साधनवैलक्षण्यात्परमप्रमेयवैषम्यादपरप्रमेयविशेषाद्वा । आद्यपक्षं दूषयति ॥ नचेति ॥ प्रधानफलं हि मोक्ष एव सचशून्यवादिनायादृशोऽभिदीयते तादृश एव मायावादिनाप्यभिधीयत इति मोक्षेशून्यवादिनां मायावादिनाञ्च मते न कश्ऱ्चिद्विशेषः । तथाहि मायावादिमते हि अविद्यास्तमयोमोक्षः सासंसार उदाहृत इत्युक्त्याकिं मोक्षोऽविद्यानिवृत्तिरूपः उत ब्रह्मवेदब्रह्मैवभवति ब्रह्मूयायल्पत इत्यादि श्रुतिस्मृतिप्रामाण्याभिमानेन ब्रह्मभावः । आद्ये शून्यवादेपि संवृतिनिवृत्तेः मोक्षत्वेन तद्वैलक्षण्याभावः । अविद्यानिवृत्तिः संवृतिनिवृत्तिविलक्षणेति चेत्‌ तकिमविद्यानिवृत्तेः संवृतिनिवृत्तिवैलक्षण्यं स्वतः प्रतियोगिवैलक्षण्याद्वा । नाद्यः । स्वतोवैलक्षण्यायोगात्‌ । द्वितीये संवृतिवैलक्षण्यं किमविद्यायाविरुद्धलक्षणयोगात्‌ किंवा आवरणविक्षेपादिकार्यभेदादथसंज्ञाभेदात्‌ । नाद्यः । मायावाद्यभिमतस्यानाद्यनिर्वाच्यत्वादेरविद्यालक्षणस्य शून्यवादिभिः संवृतावप्यङ्गीकारात्‌ । उक्तं हि(तस्यैवानादिसंवृत्येत्यादि) । न द्वितीयः । संवृतिशब्देनैवावरकत्वस्य स्फुटं प्रतिभासनात्‌ । विक्षेपस्य तैरप्यभ्युपगमाच्च । यथोक्तम्‌ । तस्यैवानादिसंवृत्यानानाभेदात्मकं जगत्‌ । सदिवाभातीत्यादि । नापितृतीयः । पर्यायभूतसंज्ञाभेदस्यार्थवैलक्षण्याप्रयोजकत्वात्‌ । संवीयते अनयेति संवृतिरित्यावरकत्वारूपसंवृतावपि सत्वात्‌ । उक्तं चानुव्याख्याने । मायातेषां तु संवृतिरिति । किञ्चाविद्यानिवृत्तिस्त्वन्मतेह्यात्मरूपैव । यथोक्तं आत्मैवाज्ञानहानिरिति । शून्यवादिनोपि संवृतिनिवृत्तिः शून्यमात्रमित्यङ्गीकुवर्न्ति । यथोक्तमनुव्याख्याने शून्यन्तत्वमसम्बाधं नानासंवृतिवर्जितम्‌ । मोक्ष इत्युच्यत इति । तथाच कथं विशेषः । केचिन्मायावादिनस्त्वविद्यानिवृत्तिरात्मातिरिक्तापञ्चमप्रकारैव । यथोक्तं न सन्नासन्नसदसन्नानिर्वाच्यश्ऱ्चतत्क्षयः । यक्षानुरूपोबलिरित्याचार्याः प्रत्यपीपदन्निति । आत्ममात्रत्वेऽसाध्यत्वापातात्‌ । वृत्तिविशिष्यात्मरूपत्वे वृत्तिनिवृत्तौ मोक्षनिवृत्त्यापातात्‌ वृत्त्युपलक्षितात्ममात्रत्वे तु वृत्त्युपलक्षितात्मनः पश्ऱ्चादिवपूर्वमपि सत्वेन संसारदशायामपि मोक्षत्वापातात्‌ । अनात्मत्वेपि सत्वेऽद्वैतहानिरसत्वेतदभावः । सदसत्त्वं विरुद्धं सदसद्विलक्षणत्वेऽज्ञाननिवृत्तित्वानुपपत्तिः । प्रतियोगितन्निवृत्त्योः वैलक्षण्यस्यावश्यकत्वादिति वदन्ति । तन्मतस्यापि शून्यवादिमतान्नविशेषः । शून्यवादिभिरप्यगत्वातत्वस्य पञ्चमप्रकारत्वस्वीकारात्‌ । यथाहुः शून्यवादिनः न सन्नासन्नसदसन्नचाप्यनुभयात्मकम्‌ । चतुष्कोटिविनिर्मुक्तं तत्वं माध्यमिकाविदुरिति । तस्मादविद्यानिवृत्तिरूपमोस्य न शून्यवाद्यभिमतसंवृतिनिवृत्तिरूपमोक्षवैलक्षण्यम्‌ । नान्त्यः । ब्रह्मभावरूपमोक्षस्य शून्यवाद्यभिमतशून्यभावरूपमोक्षानतिरेकात्‌ । यथोक्तं शून्यवादिना तद्भावं योगिनं नयेदिति । नन्वस्मन्मते ब्रह्मणः परमानन्दात्मकतया तद्भावः पुरुषार्थः । दुःखनिवृत्तिव्यरिरेकेण निरतिशयानन्दस्फुरणात्‌ । यथोक्तं तस्मादविद्यास्तमयोनित्यानन्दप्रतीतितः ।

निःशेषदुःखच्छेदाच्चपुरुषार्थः परोमत इति । नैवं शून्यमिति न तद्भावः पुरुषार्थ इति चेत्‌ । आनन्दमनुभूयासमिति

वदानन्दोभूयासमितीच्छाया अदर्शनेनाऽऽनन्दत्वस्यापुरुषार्थत्वात्‌ । स्ववृत्त्यानन्दानुभवः पुरुषार्थोपि परेणनेष्यते । सुखस्य स्ववृत्तित्वानभ्युपगमात्‌ । स्वस्मिन्कर्तृकमर्भावानभ्युपगमाच्च । किञ्चब्रह्मणः सुखमात्रत्वेप्रकाशमात्रत्वे वासुखप्रकाशाभावेनापुरुषार्थत्वम्‌ । उभयात्मकत्वे चाखण्डत्वहानिः । ननु वस्तुतो ज्ञानसुखात्मकत्वे भवेदखण्डत्वहानिः । नचैवं किन्तु जाड्य्यादिविरोधित्वमात्रम्‌ । अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धमिति सिद्धान्तरहस्य ज्ञैरुक्तत्वादिति चेन्न । एवं सत्यानन्दादिरूपतायावाङ्मात्रत्वापत्त्वानब्रह्मभावः पुरुषार्थः स्यात्‌ । अन्यथाशून्यवादिभिः शून्यस्य जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधियदित्यादिनाजाड्यदुःखविरोधिरूपज्ञानानान्दात्मकत्वोक्त्याशून्यभावोपि पुरुषार्थः स्यादिति न तद्वैलक्षण्यं ब्रह्मभावस्य । ननु शून्यवादिभिरात्मनाशोमोक्ष इत्युच्यते । नतथास्माभिरङ्गीक्रियते मोक्षे आत्मनोनित्यज्ञानस्वरूपमस्तीत्यङ्गीकारात्‌ । अतः कथं न विशेष इत्यत आह ॥ नचेति ॥ B-27

moक्ष इत्यनुवर्तते । आत्मनोमोक्षेनित्यज्ञानस्य रूपमस्तीति वचनेन मायावादिमतस्य शून्यवादिमतान्नकश्ऱ्चिद्विशेषः । शून्यवादिभिरपि शून्याभिन्नात्मस्वरूपानुवृत्तेः मुक्तावप्यङ्गीकारात्‌ । अन्यथा तद्भावं योगिनं न येदित्युक्तः शून्यभावः कस्य स्यात्‌ । कर्तृत्वभोक्तृत्वप्रमातृत्वादिविशिष्यात्मनाशस्तुमायावादिनामपि सम इति भावः । ननु यद्यपि शून्यवादिन आत्मस्वरूपमात्रं मुक्तावनुवर्तत इत्यङ्गीकुर्वन्ति नतु तन्नित्यज्ञानस्वरूपमिति । अतो विशष इति चेन्न । त्वन्मतेप्यात्मस्वरूपं नित्यज्ञानात्मकमिति वचनमात्रत्वेन वस्तुगत्याऽयोगात्‌ । तदिदमुक्तम्‌ इति वचनेनेति । आत्मनोनित्यज्ञानस्वरूपत्वं कुतो नयुक्तमिति चेत्‌ न । तदाऽऽत्मस्वरूपभूतं ज्ञानं सविषयं निर्विषयं वा । द्वितीयं तावद्दूषयति ॥ ज्ञेयेति ॥ आत्मस्वरूपं न ज्ञानात्मकं विषयशून्यत्वाद्घटवत्‌ । अन्यथाघटोपि ज्ञानं स्यादित्यर्थः । अत्र विषयशून्यत्वं विषयानुल्लेखित्वं नतूल्लिखितस्य विषयस्याऽवर्तमानत्वमत्यन्तासत्वं वा येनातीतासत्वं वा येनातीतादिज्ञानेतुच्छादिज्ञानेच व्यभिचारः स्यात्‌ । ननु विषयशून्यघटस्य ज्ञानत्वाभावेपि आत्माविषयशून्योपि ज्ञानमस्तु कोदोषः । नहि सर्वैर्भावैरेकविधैः भाव्यमिति नियमोस्ति यथान्योज्ञाताऽन्यश्ऱ्चज्ञेय इत्यन्यत्र दर्शनेप्यात्मन्यैक्यं दृश्यन्ते ततेति चेत्‌ । मामहंजानामीति प्रमाणसद्भावात्‌ तत्र तथाकल्पनात्‌ । नचात्र किंचित्प्रमाणमस्तीत्याह ॥ नहीति ॥ सविषयकत्वेपि किं तत्परविषयं स्वविषयं वा । नाद्यः । परमतेमोक्षेपराभावात्‌ । त्वन्मतेवर्तमानस्यैव साक्षात्साक्षिविषयत्वाच्च । द्वितीयं दूषयति ॥ नचेति ॥ यद्यप्यस्मन्ते आत्मरूपं ज्ञानं स्वविषयकं आत्मनः स्वप्रकाशत्वाङ्गीकारात्‌ । ततापि तेषां मायावादिनां पक्षोन भवति । नचेवमात्मनस्तन्तेस्वप्रकाशत्वाङ्गीकारविरोधः । अपरप्रकाश्यत्वं स्वप्रकाशत्वमिति परसिद्धन्ताविति भावः । आत्मस्वरूपं ज्ञानं स्वविषयमिति तेषां पक्षोन भवतीति कुतोज्ञायत इत्यत आह ॥ तदेति ॥ यदि आत्मस्वरूपभूतं ज्ञानं स्वविषयं स्यात्‌ तदाज्ञानस्यैव कर्तृत्वं कर्मत्वं चाङ्गीकर्तव्यं स्यात्‌ विषयीकरणलक्षणव्यापारं प्रतिज्ञानस्य कर्तृत्वात्‌ । अन्यथाज्ञानं स्वात्मानं विषयीकरोतीति न स्यात्‌ । नचैकस्यां क्रियायामेकस्यैवकर्तत्वं कर्मत्वं च युक्तं विराधात्‌ । परसमवेतक्रियाजन्यफलशालित्वस्य कर्मलक्षणत्वादिति भावः । एवमात्मस्वरूपस्य विषयशून्यत्वेन ज्ञानत्वाभावमुपपाद्येदानीं मात्रभवादपि तन्नज्ञानमित्याह ॥ नचेति ॥ आत्मस्वरूपभूतज्ञानं प्रति न तावदन्यः कर्ताऽस्ति तदभावात्‌ । अत आमस्वरूपज्ञानमेवस्वं प्रतिकर्त्रिति वक्तव्यम्‌ । तत्रेदं दूषणम्‌ । आदपदेनानुभवतीत्यादेः ग्रहणम्‌ । ज्ञानस्यात्मस्वरूपस्य कुत एतज्ज्ञायत इति चेत्‌ ज्ञानरूपक्रियां प्रत्यात्मरूपज्ञानस्यकर्तृत्वाङ्गीकारे आत्मरूपज्ञानं स्वश्रय इत्युक्तं स्यात्‌ । धात्वर्थाश्रयस्यैव कतर्ृत्वात्‌ । नचतद्युज्यत इत्याह ॥ निर्विशेषत्वेति ॥ तर्हि भवतामप्यामज्ञानात्मकः कथमिति चेत्‌ अस्माभिस्तस्य स्वविषयकत्वस्याप्यङ्गीकारात्‌ । आत्मन एव ज्ञातृत्वाङ्गीकाराच्चेति । नचोक्तदोषः । अभेदेपि भेदप्रतिनिधिविशेषबलात्सर्वस्योपपत्तेः । नचपरमतेतद्वुज्यत इत्याह ॥ निर्विशेषत्वेति ॥ ज्ञातृज्ञेयशून्यस्यापिज्ञानत्वाङ्गीकारेकोदोष इत चेत्‌ वाच्यवक्तृविहीनस्य वचनस्य भोज्यभोक्तृविहीनस्य भोजनस्य जम्यगन्तृविहीनस्य गमनादेरप्यङ्गीकारापातात्‌ । एवञ्चात्मनोनित्यज्ञानस्वरूपत्वमस्तीत्यस्य वाङ्मात्रत्वेन मोक्षेशून्यवादिमतान्मायावादिमतस्य न कश्ऱ्चिद्विशेष इति स्थितम्‌ । नापि तत्साधनवैलक्षण्यादिति द्वितीयः पक्षरोयुक्तः । शून्यवादिभि; शून्याद्वैतत्साक्षात्कारस्यैव मायावादिभिरपि ब्रह्माद्वैतसाक्षात्कारस्यैव मोक्षहेतुत्वोक्तेः । नन्वस्तुतृतीयः पक्षः । मायावादिनोहिब्रह्मैव तत्वमिति ब्रूवते शून्यवादिनस्तुशून्यमेवेति तताच नद्वितीयपक्षरोक्तदोषः । ब्रह्मसाक्षात्कारशून्यसाक्षात्कारयोः विषयवैलक्षण्यादेव वैलक्षण्यसिद्धेः । एवं च कथं तयोरविशेष इति चेत्‌ । न शून्यवाद्यभिमतशून्यान्मायावाद्यभिमतब्रह्मणो विशेषोक्तेः व्याहतत्वात्‌ । कुत इत्यत आह ॥ निर्विशेषत्वेति ॥ तैरित्यनुवर्तते ननु माभूत्‌ ब्रह्मणोनिर्विशेषत्वाच्छून्याद्विशेषः शून्यस्य ब्रह्मणोविशेषः किं न स्यादिति मन्दाशङ्कामप्यपाकरोति ॥

निविर्शेषत्वेति ॥ शून्यस्य शून्यवादिनापीति शेषः । निर्विशेषं स्वयं भातमित्यादितद्वचनात्‌ । किञ्च यद्धियतोव्यावर्तते तत्तद्वयावतर्कधर्मयोगेनैव ततोव्यावृत्तं दृष्यं यथाघटात्पटः । नच ब्रह्मशून्ययोः कश्ऱ्चिद्वयावर्तकधर्मोस्ति । कुत इत्यत आह ॥ निर्विशेषत्वेति ॥ शून्यवादिमायावादिभ्यां शून्यब्रह्मणोरिति शेषः । किञ्च न तावद्ब्रह्मणः शून्याद्विशेषोविरूद्धलक्षणयोगादिति वक्तुं युक्तम्‌ । स किं जगत्कारणत्वादिरूपतटस्थलक्षणयोगो वा सत्यत्वज्ञानत्वादिस्वरूपलक्षणयोगो वा । नाद्यः । मायावादिभिः शूद्धब्रह्मणोजगत्कारणत्वाद्यनङ्गीकारात्‌ । कुत इत्यत आह ॥ निर्विशेषत्वेति ॥ अज्ञानोपहितस्य जगत्कारणत्वाङ्गीकारस्तु शून्यवादेपि समः संवृतियोगेन शून्यस्यापि शून्यवादिभिः जगत्कारणत्वाङ्गीकारात्‌ । यथाहुः शून्यवादिनः । विश्ऱ्वाकारञ्च संवृत्यायस्य तत्पदमक्षयमिति । यथोक्तमनुव्याख्याने । नहि लक्षणभेदोस्ति निर्विशेषत्वतस्तयोरिति । नद्वितीयः । मायावादिभिः ब्रह्मणः परमार्थतः सत्यत्वाद्यनङ्गीकारात्‌ । कुत इत्यत आह ॥ निर्विशेषत्वेति ॥ ननु परमार्थतः सत्यत्वाद्यभावेपि अनृतविरोधित्वादिनैव सत्यत्वादिव्यवहारः । यथाहुरस्मन्मतत्ववेदिनः । अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरूद्धमिति तथाचोक्तविधलक्षणप्रयुक्त एव शून्याद्ब्रह्मणोविशेष इति चेन्न । शून्यवादिभिरपि शून्यस्योक्तविधलक्षणाङ्गीकारात्‌ । यथहुःशून्यवादिनः । जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधियदिति । उक्तं चानुव्याख्याने । अनृतादिविरोधित्वमुभयोश्ऱ्चस्वलक्षणमिति । नापि विरुद्धधर्मयोगाच्छून्याद्ब्रह्मणोविशेषः । सच ब्रह्मशून्ययोः किं भावत्वाभावत्वं वा सत्वासत्वं वा दोषित्वगुणवत्त्वं वा हेयत्वोपादेयत्वं वाऽन्यद्वा । सर्वत्रापि दोषमाह ॥ निर्विशेषत्वेति ॥ शून्यवादिमायावादिभ्यां शून्यब्रह्मणोरिति शेषः । नन्वन्योन्यस्तिमन्नन्योन्यात्मकतामन्योन्यधर्मांश्ऱ्चेत्यादिनाभाष्यकृता(ज्ञानमा)नन्दाविषयानुभवोनित्यत्वञ्चेति सन्ति धर्मा इति पञ्चपादिकाकृताच ब्रह्मणिधर्माः स्वीकृता इति चेत्‌ सत्यम्‌ । नतु परमार्थतः काल्पनिकास्तु भावत्वादयोधर्माः शून्यवादिनाशून्यस्याप्यङ्गीक्रियन्त एव । यथाहुः शून्यवादिनः । भावार्थप्रतियोगित्वं भावत्वं वा न तत्वतः । नास्य सत्वमसत्वं वा न दोषोगुण एव वा । हेयोपादेयरहितं तच्छून्यं पदमक्षयमिति । ननु धर्माङ्गीकारस्तावज्ज्ञायते । सच परमार्थतोनेति कथं ज्ञायत इत्यत आह ॥ निर्विशेषत्वेति ॥ यदि ब्रह्मणोधर्माङ्गीकारः पारमार्थिकः स्यात्‌ तदानिर्विशेषत्वाङ्गीकारविरोधः स्यादित्यर्थः । ननु ब्रह्मेति शून्यमिति संज्ञाभेदादेवतयोभ; भेदसिद्धिरिति चेत्‌ न । निमित्तभेदरहितसंज्ञाभेदस्यार्थवैलक्षण्याप्रयोजकत्वात्‌ । तथाहि ब्रह्मशब्दस्य किं ब्रह्मणिमुख्यवृत्तिरमुख्यवृत्तिर्वा आद्येपिकिं योगोरूढिर्योगरूढिर्वा । नाद्यः । ब्रह्मशब्दस्य यौगिकार्थोहिगुणपूर्णत्वं अथ कस्मादुच्यते ब्रह्मेति बृहन्तोह्यस्मिन्‌ गुणा इत्यादि श्रुतेः । नच त्वन्मते ब्रह्मणस्तद्युक्तं कुत इत्यत आह ॥ निर्विशेषत्वेति ॥ देशकालवस्तुपरिच्छेदराहित्यरूपमहत्वमेव ब्रह्मशब्दप्रवृत्तिनिमित्तमिति तु मन्दं तस्य शून्यवादिभिः शून्येप्यङ्गीकृतत्वेन तथाविधयोगवृत्तिमतो ब्रह्मशब्दस्य तद्वैलक्षण्याप्रयोजकत्वात्‌ । यथाहशून्यवादी जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधियदिति । नापिद्वितीयः । अदिद्धेरपसिद्धान्ताच्च । यथाघटादिशब्दानां यथाघटत्वादिकमेवप्रवृत्तिनिमित्तमेवं ब्रह्मण्यपि ब्रह्मशब्दप्रवृत्तिनिमित्तं किञ्चिद्वाच्यम्‌ । नच तद्युक्तं कत इत्यत आह ॥ निर्विशेषत्वेति ॥ एतेन तृतीयोपि निरस्तः । अमुख्यवृत्तिरिति द्वितीयपक्षेपि किं ब्रह्मशब्दस्य ब्रह्मणिगौणीवृत्तिः लक्षण वा । नाद्यः । प्रवृत्तिनिमित्तातिरिक्तमुख्यार्थगुणयोगेहिगौणीदृष्या । नचात्रमुख्यार्थगुणयोगोस्ति । कुत इत्यत आह ॥ निर्विशेषत्वेति ॥ नद्वितीयः । मुख्यार्थसम्बन्धिनि अर्थान्तरेवृत्तिर्लक्षणा । नच ब्रह्मणोमुख्यार्थसम्बन्धोस्ति । कुत इत्यत आह ॥ निर्विशेषत्वेति ॥ ब्रह्मणिब्रह्मशब्दवच्छून्यवादिनाशून्येपि शून्यशब्दस्य लक्षणाङ्गीकाराच्च । यथोक्तं शून्यवादिना । अवाच्यं सर्वशब्दैस्तल्लक्ष्यतेचाखिलैः पदैरिति । तस्माच्छून्यब्रह्मणोरविशेषान्नपरप्रमेयेशून्यवादान्मायावादस्यवैलक्षण्यम्‌ । अपरप्रमेये वैलक्षण्याभावोपपादनं तत्प्रागेवकिञ्चित्कृतमिति चतुर्थोपि निरस्त एवेति । एवं मायावादस्य शून्यवादसाम्यमुपपाद्योपसंहरति ॥ अत इति ॥ एवं सुखदुःखादेः मिथ्यात्वाभावाज्जीवस्य समानत्वं नयुज्यत इति स्थितम्‌ । ननु जीवपक्ष इवेश्ऱ्वरपक्षेपि बाधकमस्ति ईश्ऱ्वरस्य स्वप्नाभेदाभावेन स्वप्नोभूत्वेत्यस्यानुपपत्तेरित्यतः तदनूद्यव्याचष्ये ॥ स्वप्नोभूत्वेति ॥ जीवपरतया यथाश्रुत एवार्थः किं नस्यादित्यत आह ॥ नहीति ॥ तस्याप्यवस्थाभिन्नत्वादित्यर्थः । स्वप्न इत्यस्य स्वापक इत्यर्थं व्युतपाद्यदर्शयति ॥ स्वापमिति ॥ 7 ॥ ननु ततापीश्ऱ्वरस्य जननमरणादिकर्तृत्वासम्भवात्तत्पक्षे सवा अयं पुरुषोजायमानो म्रियमाणः सय त्रप्रस्वपिति इमंलोकमतिक्रामतीत्यादिकं न युक्तमित्यत आह ॥ जायमान इति ॥ विवाहं पाणिग्रहणं कृत्वाकारयित्वा विजानीहिविज्ञापय जज्ञे जनयामास द्रष्युर्दशर्यितुः तदतन्मेविजानीहीत्येतावत्युदाहर्तव्येऽप्यन्तर्णीतणिजर्थत्वख्यापनाय

यथाहमित्याद्युदाहृतम्‌ । एवं सवा अयं जायमान इत्यदिकमन्तर्णीतणिच्‌ त्वेनोपपन्नमिति प्रयोगोपदर्शनेनोपपाद्यतथाप्रयोगेकिं

निमित्तमित्यतः प्रयोजनं नियामकसूत्रेण दर्शयति ॥ स्वतन्त्ऱ्ेति ॥ स्वातन्त्ऱ्यस्नेहयोः विवक्षितयोः णिच्‌ अन्तरन्तर्गतोनतु प्रयुज्यत इत्यथर्ः । प्रकृतेस्वातन्त्ऱ्यरूपार्थप्रदर्शनायाऽन्तर्णीतणिच्‌ प्रयोग इति भावः । एवं जीवपरतया प्रतीयमानानामपि लिङ्गानां विष्णौ सावकाशत्वमुक्तं तदनङ्गीकृत्यजीवपरत्वाङ्गीकारे बाधकान्तरमाह ॥ कथमन्थेति ॥ अन्यथाजीवपक्षे स्वयमेव ब्रह्यव्यापारविरामकर्तृत्वस्य स्वाप्नपदार्थस्रष्यृत्वस्य सर्वकतर्ृत्वस्य च जीवे असम्भवात्‌ । स्वप्नेत्यादिमन्त्रस्यासङ्गतेश्ऱ्च । नह्ययं जीवप्रतिपादको येन सङ्गतिः स्यादिति भावः । नन्वीश्ऱ्वरनिष्ठमपि समानत्वस्वप्नपदार्थकर्तृत्वादिकं जीवस्यापि सम्भवत्येव । तस्येश्ऱ्वराभिन्नत्वेन स्वरूपैक्यविवक्षयासमानत्वाद्युक्तिसम्भवात्‌ । नचैवं यथाऽभेदाभिप्रायेण समानत्वादिकं जीवेनीयते तथाजायमानत्वादिकमप्यभेदाभिप्रायेणेशेनेतुं शक्यत इति किं जीव एवेति निर्बन्धेकारणमिति वाच्यम्‌ । चैतन्यैक्याभ्रिपायेशगतसमानत्वादेः जीवेमुख्यवृत्तिवदीश्ऱ्वरेजायमानत्वादेः विशिष्यनिष्ठस्यामुख्यतोपि वक्तुमयोगात्‌ । नच जीवेशाभेद एव कुत इति वाच्यम्‌ । तदुभयप्रापकलिङ्गसामानाधिकरण्यान्यथानुपपत्त्यैव तत्सिद्धेः । नच जीवप्रापकलिङ्गानि ईशपरतया व्याख्यातानीति वाच्यम्‌ । एवमभेदेनैवोपपत्तौ तथाव्याख्यानेनियामकाभावादित्य आह ॥ उक्तार्थेचेति ॥ यद्यत्रोभयप्रापकलिङ्गान्यथानुपपत्त्या जीवेशभेदोविवक्षितः स्यात्‌ । तदास्वप्नेनेत्यादिमन्त्रा असङ्गताविरुद्धाश्ऱ्चस्युः । उक्तार्थेखल्वेतेमन्त्राः प्रमाणत्वेनोक्ताः जीवेशाभेदोह्युक्तार्थः । अत्र च जीवेशभेद एवोच्यत इति तत्‌ कुत इति चेत्‌ । असुप्तत्वसुप्तत्वव्यपदेशात्‌ शुक्रमादायेति कर्मकर्तृव्यपदेशाच्च । कर्मकर्त्रोरुत्सर्गतोभेदस्यैव सत्वात्‌ । नच कर्तेश्ऱ्वरः कुत इति वाच्यम्‌ । हिरण्मयत्वैकहंसत्वादि विशेषणात्‌ । कुलायाद्बहिश्ऱ्चरणस्यापि स्वप्नाद्यवस्थायां जीवस्य स्वतोसम्भवात्‌ । अमृतस्येश्ऱ्रस्य सम्भवात्‌ । न तं पश्यति कश्ऱ्चनेत्यदृष्यत्वोक्तेश्ऱ्च । नच जीवस्यादृष्यत्वमस्ति । तं नाय तं बोधयेदित्ययोग्यं प्रत्यनुपदेश्यत्वोक्तेश्ऱ्चेति । तस्मादुक्तरीत्याजीवप्रापकलिङ्गानामीश्ऱ्वरपरत्वेनैवव्याख्यानं युक्तम्‌ । नतु जीवेशाभेद इत्यर्थः । ननु मन्त्रेष्वेपि जीवेशाभेद एव विवक्षितः । अन्यथाकथमसुप्तत्वादीश्ऱ्रलिङ्गानां स्वप्नान्त मुच्चावचमीयमान इति भयानि पश्यन्नितिजीवलिङ्गानां च सामानाधिकरण्यमुपपन्नं स्यादिति चेत्‌ । न स्वप्नान्तमुच्चावचमीयमान इत्यस्यान्यथाव्याख्यास्यमाननत्वादिति भावेन जक्षदुतेवापि भयानिपश्यन्निति वाक्यमीश्ऱ्वरतया व्याचष्ये ॥ ईश्ऱ्वर इति ॥ जक्षभक्षहसनयोरिति धातोरिति भावः । तथाचेदमपि जीवेशभेदपरमिति भावः । ननु स्वप्नेन शारीरमित्यादौ भेदप्रतिपादनेपि तत्र तात्पयर्ाभावान्नतद्विराध इत्यत आह ॥ प्राज्ञेनेति ॥ इत्यादिषु सवर्त्र सम्बन्धः । आदिपदेन एतस्यैवानन्दस्यान्यानिभूतानीत्यादिवाक्यादिवाक्यसङ्ग्रहः । चशब्देन स्वप्नेनशारीरमित्यादिमन्त्रसमुच्चयः । अभ्यासस्य च तात्पर्यलिङ्गत्वमिति भावः । ननु प्राज्ञेनात्मनासंपरिष्वक्त इति सुषुप्तिप्रेकरणप्राज्ञेनात्मनान्वारूढ इत्युत्क्रन्तिप्रकरणे च जीवेशभेदः प्रतिपाद्यत इति कुतोऽवगतमिति चेत्‌ सम्परिष्वक्तान्वारूढशब्दबलादेव हेत्वन्तरमाह ॥ सुषुप्त्युत्क्रान्त्योरिति ॥ सुषुप्त्युत्क्रन्त्योः प्रकरणयोः जीवेशयोः भेदेन व्यपदेशादिति सूत्रार्थः । एतेन सवा एष एतस्मिन्‌ सम्प्रसादेरत्वेत्यादौ रमणचरणकर्तृत्वपुण्यपापफलशुभाशुभद्रष्यृत्वस्वापादिद्रत्वरूपजीवलिङ्गस्य पुण्यपापानन्वागतत्वासङ्गत्वरूपेशलिङ्गस्य च सामानाधिकरण्यान्यथानुपपत्त्याजीवेशाभेदोविवक्षित इत्यपि परास्तम्‌ । सर्वज्ञत्वेन स्वापादिद्रष्यृत्वस्येशएवोपपत्तेः । इतरलिङ्गानामीशेसावकाशत्वस्य वक्ष्यमाणत्वाच्च । ननु स्वप्नेनशारीरमिति न जीवेशभेदः प्रतिपाद्याते किन्तु असुप्तोजाग्रदवस्थापन्नोजीवः शारीरं सुप्तमात्मानं स्वप्नेनाभिप्रहत्येत्यवस्थाभेदेन जीवभेद एव एवञ्च सुषुप्त्यत्क्रन्तिप्रकरणयोरपि तद्भेद परत्वमेवेत्य आह ॥ नचेति ॥ किमुपारमार्थिक इति कैमुत्यद्योतनायापिशब्दः । स्यादेतत्‌ । यदि जागराद्यवस्थाभेदेनैकस्यैव जीवस्यभेद एव स्यात्‌ । नच सोस्ति प्रमाणाभावादित्यर्थः । पारमार्थिकभेदाभावेपि व्यावहारिकः स्यादित्यत उक्तम्‌ ॥ व्यावहारिकोपीति ॥ त्वन्मतेजीवभेदस्य व्यावहारिकस्य सत्वादस्य तत्परत्वे कथञ्चिदुपपत्तिः । अवस्थाभेदोपाधिकजीवभेदपरत्वाङ्गीकारेतु न कथञ्चिदिति भावः । किञ्चावस्थाभेदोपाधिकोव्यावहारिकोजीवभेदोयदिस्यात्‌ । तदायथाव्यावहारिकभेदाभिप्रायेण द्वसुपर्णेति द्वाविमौपुरुषावितिच प्रयोगोस्ति । तथा जाग्रत्स्थः स्वप्नस्थश्ऱ्चेति द्वावितिप्रयोगः स्यात्‌ । नचसोस्तीत्याह ॥ नहीति ॥ ननु वैदिकप्रयोगाभावेपि लौकिकप्रयोगः स्यादित्यत उक्तम्‌ ॥ लौकिक इति ॥ ननु लोकेपि ज्ञानिनां तादृशप्रयोगासम्भवेपि अज्ञाप्रयोगः स्यादित्यत आह ॥ अज्ञप्रयोगोपीति ॥ ननु यद्यपि ज्ञानिनां तादृशप=?Rयोगोन सम्भवति । प्रयोगमूलभूतस्य ज्ञानस्य प्रमारूपस्य भ्रमरूपस्य वाऽसम्भवात्‌ । तथाप्यज्ञप्रयोगः सम्भवति । प्रयोगमूलभूतप्रमारूपज्ञानास्भवेपि भ्रमरूपज्ञानसम्भवादित्य आह ॥ नचेति ॥ तादृशः

?Rजाग्रत्स्थःस्वप्नस्थश्ऱ्चद्वावित्येवमाकारः अस्तीत्यनुवर्तते । एतावत्पर्यन्तं मयास्वप्नोदृष्य इति उत्थितस्य प्रत्यभिज्ञानेन

?Rविशेषदर्शनस्य य एवाहमेतावत्पर्यं तं सुखमस्वाप्सं स एवेदानीं दुःखमनुभवामि । य एवाहं स्वप्नेगजादिकमद्राक्षं स एवेदानीं घटादिकमनुभवामीति च विशेषदर्शनस्य सर्वजनसाधारणत्वादिति भावः । यद्वानन्वत्र श्रुत्यनुमानयोरभावेपि प्रत्यक्षप्रमाणं स्यादिति चेन्न तत्प्रत्यक्षं किं स्वकीयं परकीयं वा । नाद्यः । तदभावात्‌ । नद्वितीयः । तस्य प्रत्यक्षत्वेन व्यवहारानुमेयत्वात्‌ । नचासावस्तीत्याह ॥ नहीति ॥ ननु व्यावहारिकतादृशभेदाभावेपि प्रातिभासिकः स्यादेवेत्यत आह ॥ नचेति ॥ उक्त एव वाक्यद्वयार्थः । जीवपक्ष इतयादिनोक्तमुपसंहरति ॥ तस्मादिति ॥ जीवपक्षेबाधकसद्भावात्‌ । साधकाभावाच्चेशपक्षेचतदभावादित्यर्थः । एवशब्दोजीवव्यावर्तकः । अत्रात्मैवास्य ज्योतिरित्यादौ सर्वकर्तृत्वेनेति सहकर्तेति वाक्यार्थकथनेन जीवपक्षेबाधकं ईशपक्षेसाधकं चोक्तम्‌ । एतेन सहिकतर्ेति वाक्यं जीवपक्षेन युज्यत इति यदुक्तं तन्न । कर्तृत्वमात्रस्य जीवेपि सत्वादित्यशङ्कापि परास्ता । सर्वकर्तृत्वस्यैवतद्वाक्यार्थत्वात्‌ तस्य च जीवेऽसम्भवात्‌ । अन्यथातस्य पूर्वोक्तस्वाप्नपदार्थस्रष्यृत्वेहेतुत्वासम्भवादिति भावः । वेशान्ताः पल्वला इति व्याख्यानमसत्‌ । पुष्करिण्य इत्यनेनैवतेषामपि ग्रहणसम्भवेन पृथगुक्त्ययोगादिति भावेन तस्य पदस्यार्थमाह ॥ वेशान्त इति ॥ इदञ्च परलोकस्थानञ्चेत्यादिकमिदं प्रकरणमवस्थालोकमोक्षपरत्वेनातोद्युसुप्तिमोक्षाणामभिप्रायादिदं वच इति व्याख्यातम्‌ तस्य प्रकरणस्य सुषुप्तिमोक्षपरत्वेनियामकान्तरमाह ॥ सुषुप्तीति ॥ उभयविवक्षयैव नत्वेकमात्रविवक्षयेत्येवार्थः तद्वचनं अत्रपिताऽपिताभवतीत्यादिवचनमित्यर्थः । अपिशब्देन पूर्वोदाहृतप्रमाणसङ्ग्रहः । सूत्रकर्त्रापीत्यर्थः । तद्वचनमुदाहरति ॥ स्वप्ययेति ॥ यदुक्तं प्रदीपवदावेशस्तथाहि दर्शयतीति पूर्व सूत्रे मुक्तस्य दुःखाद्यनुभवोनास्तीत्यत्र दर्शयति हीत्यंशेन । तीणर्ोहि तदासर्वांच्छोकान्हृदयस्य भवतीति वाक्यं प्रमाणमिति तदयुक्तम्‌ । तीर्णोहीति वाक्यस्य स्वर्गस्थपरत्व सम्भवेन मुक्तानामदुःखित्वे प्रमाणत्वासम्भवात्‌ । नच स्वर्गस्थस्य कथं दुःखाभाव इति वाच्यम्‌ । स्वर्गेलोकेन भयं किञ्च नास्ति न तत्र त्वं न जरया बिभेतीत्यादिनास्वर्गेदुःखाभावसिद्धेरित्याशङ्कापरिहारायेदं सूत्रम्‌ । स्वाप्ययोमुक्तिः सम्पत्तिः सुप्तिः । तीर्णोहीति वाक्यं मुक्तिसुप्तिविषयमेव नस्वर्गविषयम्‌ । कुतः अत्र पिताऽपिताभवति अनन्वागतं पापेनेत्यादिनापि तृत्वपुण्यपापाद्यसङ्गतत्वादिलिङ्गश्रवणात्‌ । अस्य वाक्यस्य सुप्तिमुक्तिविषयत्वस्याविष्कृतत्वात्स्फुटं प्रतीयमानत्वात्‌ । स्वर्गस्थस्य श्राद्धादिभोक्तुस्तदसम्भवादिति सूत्रार्थः । ननु यदुक्तं सुषुप्तिमोक्षोभय विवक्षयैव तद्वचनमिति तदयुक्तम्‌ । सूत्रेऽन्यतरशब्देन एकविवक्षया तद्वचनमित्युक्तत्वात्‌ । अन्यथास्वाप्ययसम्पत्त्यपेक्षमित्येतावतापूर्णत्वेनान्यतरपदवैयर्थ्यापत्तेः इत्यत आह ॥ उभयापेक्षमिति ॥ स्वाप्ययसम्पत्त्यपेक्षमित्युक्त इत्यर्थः । यदि स्वाप्ययसम्पत्त्यपेक्षमित्युच्यते तदास्वाप्ययेमोक्षेयासम्पत्तिः तदपेक्षं तद्विषयमिति प्रतीत्यामोक्षेपि सुप्तिरस्तीत्याशङ्कास्यात्‌ नचाज्ञाननिवृत्तिरूपेमोक्षेकथमज्ञानकार्यसुप्तिशङ्कास्यादिति वाच्यम्‌ । प्रेक्षावतां तच्छङ्काऽभावेपि मन्दस्य मोक्षस्याज्ञाननिवृत्तिरूपत्वं सुप्तेरज्ञानकार्यत्वं वाऽजानतः शङ्कासम्भवादित्यर्थः । किं तत इत्यत आह ॥ अत इति ॥ अत एव मन्स्याशङ्कानिवृत्त्यर्थमेवेत्यर्थः । ज्ञापयितुमेवेति वासम्बन्धः । ननु स्वाप्ययसम्पत्त्योरन्यतरापेक्षमित्युक्तयामोक्षेसुप्तिरस्तीत्याशङ्कानिवृत्तिरेव भवति । द्वन्द्वसमासप्रदर्शनेन तत्पुरुषत्वभ्रान्तिनिवारणात्‌ । नतु मोक्षेसुप्तिरेवनास्तीति ज्ञापनम्‌ । ज्ञापकानुक्तेः । तस्मादत एवान्यतरापेक्षमित्युक्तमित्येव वक्तव्यं नतु मरेक्षेसुप्तिरेव नास्तीति ज्ञापयितुमिति । अत एवोक्तं कर्मनिर्णये मोक्षेपि सुप्तिरस्तीत्याशङ्कानिवृत्त्यर्थमेवान्यतरपदमिति तत्कथमेतदिति चेत्सत्यम्‌ । मोक्षेसुप्तिर्नास्तीति कृत्वा खलुतच्छङ्कानिवारणं कतर्व्यं अन्यथा तदपि सूत्रस्यार्थान्तरं स्यादिति तन्निरासायव्यर्थपदप्रयोगानुपपत्तेः । तथाच मोक्षेसुप्तिरस्तीति शङ्कानिवारणेनैवतत्रसुप्तिर्नास्तीति ज्ञापितमिति भावः । ननु सम्बन्धे षष्ठीमङ्गीकृत्यस्वाप्ययसम्पत्त्योरपेक्षमित्येवकुतो न कृतं तावताप्युक्तशङ्कापरिहारात्‌ अन्यतरपदप्रयोगः किमर्थ इति चेत्‌ न । अनेकार्थस्य तीर्णोहीति वाक्यस्यैकार्थव्याख्यानेरुचिरेव व्याख्यातुः प्रमाणं नतु मुख्यामुख्यताविशेषोस्तीति सूचनायान्यतरशब्दस्य सार्थक्यादिति भावः । अत एव सुत्रभाष्येसूत्रनिर्देशानुसारेणमोक्षेसुप्तौ चेति वक्तव्येमुख्यामुख्यताविशेषाभाव ज्ञापनायैवसुप्तौ मोक्षेचेति व्यत्यासेनोक्तिः । यत्र यस्य रुचिः स एवार्थोह्यस्य वायस्य व्याख्येय इति भावेनैव वाशब्दस्य प्रयोगश्ऱ्चेति । अत एव तत्वप्रकाशिकायां इदं वाक्यं सुप्तिमुक्तिविषयमिति तीर्णोहीति वाक्यस्योभयविषयत्वमुक्तम्‌ । एवकारव्यावत्यर्माह ॥ नत्विति ॥ नतु स्वप्ययसम्पत्त्योः मध्येन्यतर एक एवार्थोविवक्षितोनतूभयमिति ज्ञापयितुमन्यतरापेक्षमित्युक्तमित्यर्थः । कुत इत्यत आह ॥ ज्ञान इति ॥ ज्ञानेज्ञातव्य इत्यर्थः । यदि स्वाप्ययसम्पत्त्योः मध्ये एक एवार्थोविवक्षितः स्यात्तदास्वाप्ययापेक्षमित्येव वा सम्पत्त्यपेक्षमित्येव

?Rवा ब्रूयात्‌ नतु विकल्पवाचकान्यतरशब्दप्रयोगः । वस्तुनिविकल्पायोगात्‌ । नच सूत्रकारस्याप्ययमेवार्थ इति

?Rनिश्ऱ्चयाभावादेवं प्रयोग इति वाच्यम्‌ । सूत्रकृतोज्ञाने विरुद्धानेकाकारकल्पनायोगात्‌ सूत्रकृतः संशयायोगादिति यावत्‌ । अन्यथासूत्रस्यासन्दिग्धत्वव्याहतेरित्यर्थः । एवं तीर्णोहीति वाक्यस्य सुप्तिमोक्षोभयविषयत्वेनेदं प्रकरणं सुप्तिमोक्षोभयविवक्षयैव प्रवृत्तमिति स्थितम्‌ । किंतत इत्यत आह ॥ अत इति ॥ यत उक्तरीत्येदं प्रकरणं सुप्तिमोक्षोभयपरं यतश्ऱ्च प्रमाणेन तथाव्याख्यातं अतोस्मिन्प्रकरणेसुप्त्याद्यवस्थाश्ऱ्चसर्वेलोकाश्ऱ्चपृथिव्यन्तरिक्षद्युरूपोमोक्षाश्ऱ्चप्रकतिपाद्यतयाविवक्षिता इत्यर्थः । अप्रतीतेः सर्वावत इति पदमनूद्यव्याचष्ये ॥ आसमन्तादिति ॥ आ इत्यनुवादेन सम्मतादिति व्याख्यानं सर्वावत इत्येतत्‌ षष्ठयन्तं लोकस्येत्यस्य विशेषणमिति व्याख्यानमसत्‌ । सर्ववत इत्येव वक्तव्यतया सर्वावत इत्ययोगात्‌ मतुपोव्यर्थत्वाच्च । सर्वस्य लोकस्यैकदासुप्त्यभावाच्चेति भावेन सर्वावत इत्येतत्‌ द्वितीयाब्रहुवचनमित्यङ्गीकृत्यतस्य तात्पर्यं वदन्‌ अन्वयमाह ॥ सर्वज्ञानानीति ॥ सर्वजाग्रत्पदार्थवियषयज्ञानानीत्यर्थः । अनेन सर्वं विषयत्वेनेषामस्तीति सर्ववत इति व्याख्यातम्‌ । स्वेनभासास्वेन ज्योतिषेत्यत्र पुनरुक्तिपरिहारायभाज्योतिःशब्दयोः अथभेदमाह ॥ बाह्यप्रकाश इति ॥ वर्चोरूप इत्यर्थः । नतत्रानन्दामुदः प्रमुद इत्यत्र पुनरुक्तिपरिहारायानन्दादिशब्दार्थमाह ॥ सुखमिति ॥ बुद्धयाविविक्तस्योत्थमित्यस्य प्रकृष्यविषयादित्यत्रापि सम्बन्धः । शुक्रमादायपुनरेतिस्थानमित्यस्य शुक्रंशुद्धं ज्यातिष्मदिन्द्रियादिमात्रारूपमुपादायपुनः जागरितस्थानमेतीति व्याख्यानमसत्‌ । जीवस्य स्वयमेवेन्द्रियादानायोगादिति भावेन शुक्रशब्दार्थमाह ॥ शुक्रमिति ॥ परपक्षेबाधकस्य स्वपक्षे तदभावस्य च सूचनायादायेत्यस्यानुवादः । जीवेशुक्रशब्दं निर्वक्ति ॥ शोकेनेति ॥ हिरण्मयश्ऱ्चैतन्यज्योतिः स्वगाव इति व्याख्यानमपदार्थवर्णनं प्रमाणविरुद्धञ्चेति भावेन द्वेधाव्याचष्ये ॥ रत्येति ॥ रत्यानन्दाविति क्रमेणरेफणकारार्थोक्तिः । स्वरूपतः कालतश्ऱ्चप्राचुर्यं मयडर्थ इति भावेन पूर्णनित्यावित्युक्तम्‌ । हीत्यस्यार्थोहिताविति निहितावित्यर्थः । स्वर्णेति हिरण्‌यमय एव हिरण्मयः । यकारलोकोनिर्वचनत्वात्‌ । एक एव जाग्रत्स्वप्नेहलोकपरलोकादीन्हन्ति गच्छन्तीत्येकहंस इति व्याख्यानं प्रमाणविरुद्धमिति भावेन व्याचष्ये ॥ प्रधानेति ॥ वायोरपि हंसरूपसद्भावात्‌ प्रधानेत्युक्तम्‌ । नन्वीश्ऱ्वरोजीवस्य स्वाप्नान्‌ गजादीनन्तरेवदर्शयति । तेषां वासनोपादानकत्वात्‌ । यथोक्तं मनोगतां स्तुसंस्कारान्‌ स्वेच्छयापरमेश्ऱ्वरः । प्रदर्शयति जीवायसस्वप्न इति गीयते इति । तथाच बहिष्कुलायादमृतश्ऱ्चरितत्वेति वाक्यं तद्विरुद्धं स्यादित्यत आह ॥ अंशेनेति ॥ सामस्त्येन जीवस्य बहिः न शरीरस्य मृतकत्वापत्तिरित्यत उक्तम्‌ ॥ अंशेनेति ॥ जीवं देवादिरूपं सर्वेषामंशव्यतिरेकाभावात्‌ तदपि न सर्वदेत्युक्तं क्वचित्कदाचिदिति तत्र निदर्शनमाह ॥ फल्गुनमिति ॥ तर्हि कागतिरुदाहृतप्रमाणस्येत्यत आह ॥ वासनारूपकानिति ॥ तथाच प्रायिकाभिप्रायं तद्वचनमिति भावः ॥ 8-11 ॥ किंतत इत्यत आह ॥ अत इति ॥ अस्य देवादिविशिष्यजीवकादाचित्कस्वप्नबहिः निर्गमनविषयत्वादित्यर्थः ॥ 12 ॥ स्वप्नान्तमुच्चावचमीयमानमिति जीवलिङ्गसद्भावात्‌ कथमेतत्प्रकरणं विष्णुपरमित्यतस्तद्वयाचष्ये ॥ उच्चेति ॥ रूपाणिदेवः कुरुते बहूनीत्यस्यार्थोबहुरूपत्वमायातीति । उतेवस्त्रीभिः सहमोदमन इतीवशब्दात्‌ स्त्रीभिः मोदोमृषेति प्रतीतिनिरासायवशब्दाभिप्रायमाह ॥ मोदरूपत्वत इति ॥ विडम्बनमनुकरणं अनेन जक्षदुतेवेतीवशब्दस्याप्यभिप्राय उक्तः । नन्वस्याराममाक्रीडनं स्वप्नपदार्थनिर्माणादिलक्षणमेव पश्यन्ति जनाः । कश्ऱ्चन तं न पश्यतीति कथम्‌ । एवं विधकर्मकर्तृत्वेन मुक्तैः दृश्‌यमानत्वादित्यत आह ॥ जीवस्येति ॥ एवं विधानिप्रमाणप्रसिद्धानिकर्माणिकुर्वाणोपीत्युक्त्याऽऽराममित्यस्यार्थ उक्तः । न दृश्यतेम्रियमाणादिभिः । तथा जागरितेसुप्तावित्यस्यैवं विधानीति पूर्वेण सम्बन्धः । भगवदज्ञानीजनस्तर्हि ज्ञानिनाबोधनीय इति चेत्सत्यम्‌ । तथापि न सर्व इति भावेन तं नायतं बोधयेदित्याहुरिति वाक्यं व्यचष्ये ॥ तथापीति ॥ अयतेभ्योज्ञानार्थं प्रयत्नशून्येभ्य अयोग्येभ्य इति यावत्‌ दुर्भिषज्यं हास्मैभवतियमेषनप्रतिपद्यत इति वाक्यमन्वयक्रमेण व्याचष्ये ॥ यस्येति ॥ गोचरतां ज्ञानविषयताम्‌ । अथोखल्वाहुः जागरितदेश एवास्यैष इति वाक्यं व्याचष्ये ॥ सुप्तिकालेपीति ॥ सुप्तिकालः स्वप्नसुषुप्तिकालः जीवस्याजागरणात्मकोपीति विरोधस्फोरणायाप शब्दः । यानिह्येवजाग्रत्पश्यति तानि सुप्त इति हेतुवाक्यं व्याचष्ये ॥ यानीति ॥ सुप्तेति भावेक्तः । स्वप्नसुषुप्त्यवस्थायामित्यत आह ॥ नित्येति ॥ नित्यं सर्वदाजीवस्य विष्ण्वन्यस्वतन्त्रप्रकाशशून्यत्वेपि यदा जाकरितेऽन्यदादित्यादिकं ज्यातिः भवेत्‌ तदाश्रुति प्रत्यक्षाभ्यां जीवस्य स्वतन्त्रप्रकाशः किं विष्णुरादित्यादिर्वेति संशयः स्यात्‌ । विष्णुत्वकोट्यनुपस्थितावज्ञानं विष्णुः स्वातन्त्ऱ्ेणप्रकाशक इत्यज्ञानं अन्य एव स्वतन्त्ऱ्ेण प्रकाशक इति भ्रमोवास्यात्‌ । अतोऽत्रायं पुरुषः स्वयं ज्योतिर्भवतीति । वाक्येऽत्रेति स्वप्नसुषुप्त्यवस्थाप्रदर्शकं विशेषणमुपात्तम्‌ ।

?Rतदुपादानेच तदाज्यातिरन्तराभावात्तत्कोटिकसंशयोवातत्स्वतन्त्ऱ्यभ्रमोवानेति भावः । ननु जागरितदेश एवास्यैष इति वाक्ये

?Rअस्य जीवस्य एषः स्वप्नकालोजागरित देश एवेति जीवस्य स्वप्नावस्थायामपि जागरितत्वमुच्यत इति किं न स्यात्‌ । सर्वेन्द्रियोपरमलक्षणसुप्तौ तदसम्भवेपि स्वप्नावस्थायां तत्सम्भवादिति चेन्न । एवं वदताकिमीश्ऱ्वरस्य जीवस्वप्नावस्थायां जागरितत्वमघ्गीक्रियते तदा एष स्वप्नकालोजागरितदेश एवेति पूर्तेरस्येति विशेषणं व्यर्थं स्यात्‌ यदि स्वप्नकालः किञ्चित्प्रतिजागरितोनस्या तथाच वैयर्थ्यमेव । अस्मत्पक्षेतु जीवव्यावृत्त्यर्थं तदिति भावः । अतः ऊर्ध्वं विमोक्षायब्रूहीत्युक्त्यापूर्वोक्तं मोक्षायनभवतीति शङ्कां परिहरति ॥ पूर्वोक्तमपीति ॥ B-28

?Rर्हि किमर्थं विमोक्षायब्रूहीति प्रार्थनमित्यतस्तद्वयाचष्ये ॥ अत ऊर्ध्वमिति ॥ अन्यथा विशब्दवैयर्थ्यमिति भावः । मोक्षस्यान्यत्साधनविमोक्षस्यान्यत्साधनमिति कुतः कश्ऱ्चविशिष्यमोक्ष इत्यत आह ॥ स्वयोग्य इति ॥ यानिह्येवजाग्रत्पश्यति तानि सुप्त इति वाक्येसुप्तशब्देन सुप्तिमात्र मुच्यत इति प्रतीतिं निवारयति ॥ स्वप्नेति ॥ जागरितदेशएवास्यैष इतिपूर्ववाक्येजीवस्य स्वप्नसुषुप्तिकालोपि अस्य जागरितदेश एत्तेत्युक्तम्‌ तत्राप्येष इति सुप्तिकालमात्रग्रहणेस्वप्नावस्थायामीश्ऱ्वरस्य जागरणाभावावापत्तेः । तत्र हि यानिह्वजाग्रत्पश्यति तानिसुप्त इति वाक्येन हेतुरुच्यते । तत्र यदिसुप्तशब्देन सुप्तिमात्रं गृह्यते तदास्वप्नकालस्येश्ऱ्वरजागरितदेशत्वं नोपपादितं स्यात्‌ अतः स्वप्नसुषुप्त्युभयाप्रायेण तानि सुप्त इत्युक्तमित्यर्थः । नन्वेवं तर्हि सवाएष एतस्मिन्सम्प्रसादेरत्वेत्यत्राप्येतस्मिन्सम्प्रसाद इत्यनेन स्वप्नसुप्त्योरुभयोरपि परामर्शः कर्तव्यः पूर्वमुभयोः प्रकृतत्वात्‌ नचासौयुक्तः तथात्वे एतस्मिन्सम्प्रसादेरत्वास्वप्नायैवाद्रवतीत्युक्त्यनुपपत्तेतिरत्यत आह ॥ तत्रेति ॥ उभयोः प्रकृतत्वेपि बाधकवशादेकस्यैव परामर्शोयुज्यते इत्यत्र प्रमाणमाह ॥ यत्रेति ॥ उभयोः प्रकृतत्वे उभयपरामर्शेबाधकाभावेन यत्रोभयविवक्षास्यात्तत्रोभयोः परामर्शः स्यात्‌ । यथासवाअयं जायमान इत्यत्र पूर्वप्रकृतेशजीवोभयपरामर्शः । यत्र क्वचिदुभयपरामर्शेबाधकसद्भावेनैकस्य विवक्षास्यात्तदैकस्यापि परामर्शोभवेत्‌ नत्वेकविवक्षायां द्वयोः परामर्श इत्यर्थः ॥ 14 ॥ स्वप्नान्तं च बुद्धान्तञ्चेत्यत्रान्तशब्दस्य प्रकृतेनाशनिर्णयार्थत्वासम्भवात्स्वप्नान्तपदं व्याचष्ये ॥ स्वप्नाख्येति ॥ उपलक्षणमेतत्‌ बुद्धान्तशब्दोप्येवं व्याख्येयः । अन्तशब्दस्य स्थानवाचकत्वेऽभिधानमाह ॥ एतेन स्वप्नान्तयैवेत्यस्य स्वप्नस्यान्तोलयोयस्मिन्सस्वप्नान्तः सम्प्रसाद इति व्याख्यानमपहस्ति तं भवति । तथासति बुद्धान्तायैव जागरितस्थानायैवेति स्वप्नान्ते स्वप्नस्थाने इति च त्वदुक्तेरेवायोगात्‌ । स्वप्नान्तं च बुद्धान्तचेत्यत्र स्वप्नान्तशब्दस्य स्वप्नपरत्वाङ्गीकाराच्च । ननु सुषुप्तिस्वप्नजाग्रद्रूपस्थानत्रयस्य पूर्वं प्राप्यत्वेनोक्तत्वात्‌ स्वप्नान्तं बुद्धान्तञ्चेत्यत्रद्वयरोरेवग्रहणं कथमित्यत आह ॥ स्वप्नान्तमिति ॥ न केवलं तानि सुप्त इत्युभयाभिप्रायेणेत्यपिशब्दः । न केवलं स्वप्नान्तायैवेत्यत्र स्वाप्नान्तशब्दः स्वप्नसुषुप्त्युभयाभिप्रायेण किन्त्वत्रापीति वा पिशब्दः । सवाएष एतस्मिन्सम्प्रसादेरत्वेत्यादिखण्डं त्रयस्य जीवपरत्वप्रतीति निरासायतात्पर्यमाह ॥ शुभाशुभमिति ॥ अनेन दृष्ट्वैव पुण्यञ्चेत्येतदुक्तार्थम्‌ । स्वप्न इति स्वप्नसुषुप्त्युभयाभिप्रायेण । चापिशब्दावितरेतरसमुच्चये । दृष्यैवेत्येवकारव्यावृत्त्यार्थमुक्तम्‌ सयत्तत्रयकिञ्चित्पश्यत्यनन्वागतस्तेन भवतीति तस्यार्थमाह ॥ असंस्पृष्य इति ॥ पुण्यफलभोक्तृत्वेन तत्संसर्गसत्वात्कथं तेनानन्वागत इत्यत आह ॥ दुःखैरिति ॥ जीवपक्षेनैतदुपपन्नमिति भावः । सम्प्रसादेरत्वास्वप्नायाद्रवति । स्वप्नेरत्वाबुद्धान्तायाद्रवति बुद्धान्तेरत्वास्वप्नान्तायाऽद्रवतीत्युक्तेः तात्पर्यम्‌ ॥ पुनः पुनश्ऱ्चरतीति ॥ यदि स्वप्नान्तशब्दःस्वपनसुषुप्त्युभयाभिप्रायेण तर्हि स्वप्नाद्यवस्थात्रयप्राप्त्योभेकूले इति दृष्यान्तानानुगुण्यं स्यादित्याशङ्कां परिहरन्‌ तद्यथामहामत्स्य इति खण्डं व्याचष्ये ॥ स्वप्नेति ॥ 15-18 ॥ तद्यथास्मिन्नाकाशेश्येन इति खण्डं व्याचष्ये ॥ यमिति ॥ यथाश्येन आकाशेविपरितनेन श्रान्तस्सन्गृहं श्रमनिवारकं स्वनीडमभ्येति । तथाजीवोजागरितेस्वप्ने च भ्रमन्‌ श्रान्तः सुप्तौयं विष्णुमभ्येतीति सम्बन्धः । यमिति यच्छब्दस्य तमयमित्युत्तरत्रतच्छब्देनान्वयः । यत्र सुप्त इति सुप्तशब्दार्थमाह ॥ खितीति ॥ आनन्दः आनन्दरूपः स्वित्युच्यत इति सम्बन्धः । सुशब्दस्य सुखवाचकत्वात्‌ । यत्र सुप्तो न कञ्चनकामं कामयत इत्यादिवाक्यं व्याचष्ये ॥ सम्प्राप्येति ॥ न कञ्चन स्वप्नं पश्यतीत्यस्यार्थः नचेति । यत्रेत्यस्यार्थोसुषुप्ताविति चशब्दोपिशब्दार्थः । सुषुप्तावपितं सम्प्राप्येत्यन्वयः । यत्र सुप्तोन कञ्चनकामं कामयत इत्यादिवाक्यं मुक्तिपरत्वेनापि व्याचष्ये ॥ किम्विति ॥ यत्रेत्यस्यार्थोमुक्ताविति सुप्त इत्यस्यार्थोजनार्दनं प्राप्त इति । कामयेन्नैवेत्यादिकमत्राप्यनुवर्तते । कैमुत्यस्फोरणायज्ञानात्प्राप्त इत्युक्तम्‌ । सुप्तौत्यज्ञानादेवेति ॥ 19 ॥ तावा अस्यैताहितानामनाड्य इति वाक्यस्थाहितशब्दार्थमाह ॥ निहित इति ॥ शुक्लस्येत्यादिवाक्यं व्याचष्ये ॥ नानावर्ण इति ॥ शुक्लादिवर्णः नानारूपीवासुदेवादिरूपी । अत्र शुक्लोवासुदेवो नीलोऽनिरुद्धः पिङ्गलः सङ्कर्षणः हरितः प्रद्युम्नः लोहितोनारायण

?Rइति विवेकमुत्तरत्र वक्ष्यति । किंतत इत्यतो लोहितस्य पूर्णा इत्यनन्तरं वक्तव्यमाह ॥ तासामिति ॥ अथ यत्रैनं

?Rघ्नन्तीवेत्यादिवाक्यं व्याचष्ये ॥ ताएवेति ॥ हितानाड्यएव यदेवजाग्रद्भयं पश्यति तद्भयमत्रस्वप्नेऽविद्यया अज्ञानेन मन्यत इत्येकवाक्यमिति प्रतीयते ॥ तदयुक्तम्‌ ॥ स्वप्नेजाग्रद्भयदर्शनासम्भवात्‌ स्वप्नदर्शनमात्रस्याज्ञानकार्यत्वेन विशिष्यभयमात्रग्रहणायोगाच्च । अज्ञानस्यापि जडत्वेन स्वप्नदर्शनं प्रतिस्वतन्त्रकारणत्वायोगाच्चेति भावेन तावत्‌ यदेवजाग्रद्भयं प्रश्यतीत्येतद्वयाचष्ये ॥ जाग्रद्वदिति ॥ अनेन यदा यत्र जाग्रदिवभयं पश्यतीति व्याख्यातं भवति । तदत्राविविद्ययामन्यते इति वाक्यं व्याचष्ये ॥ अ इतीति ॥ तेन विष्णुकर्तृकज्ञानेन । अप्रतीतेः जिनंति विच्छाय यथीति पदद्वयमनूद्यव्याचष्ये ॥ जिनन्तीवेत्यादिना ॥ अथ यत्र देव इव राजेवाहमेवेदं सर्वोस्मीति मन्यत इति वाक्यं प्रकृतस्वप्नपरमित्यसत्‌ । तथासति प्रकरणविच्छेदकाथशब्दायोगात्‌ । सोऽस्यपरमोलोक इति परमलोकत्वोक्त्याऽस्य वाक्यस्य मुक्तपरत्वावगमाच्च । यथोक्तम्‌ । परलोकोयतोमुख्योमुक्तिरेव नचापर इति । ननु नेदं मुक्तपरमितिवक्तयु युक्तम्‌ । मुक्तस्य सर्वात्मकत्वानुसन्धानाभावेन अहमेवेदं सर्वोस्मीत्यस्यायोगात्‌ । स्वप्नस्थस्य च तथाविधभ्रान्ति सम्भवेन तत्परत्वेतदुपपत्तेरित्यतस्तदनूद्यव्याचष्ये ॥ अहमेवेति ॥ ननु सर्वेषामपि मुक्तानां स्वस्वयोग्यतानुसारेण पूर्णत्वादहमेवेत्यन्योगव्यवच्छदः कथमित्यत आह ॥ विषयेति ॥ तथाचावस्थाविशेषेविषयभोग्यव्यावृत्त्यर्थमेवकार इति भावः । नन्विदंशब्दस्य विशेष्यनिघ्नत्वादयं सर्वोस्मीति वास्यात्‌ । इदं सर्वमस्मीति वा स्यात्‌ । इदं सर्व इति कथमित्यत आह ॥ इदमितीति ॥ नात्रेदमित्येतत्सर्वशब्दार्थपूर्णरूपधर्मिविशेषणम्‌ । येन नपुंसकलिङ्गत्वानुपपत्तिः किन्तु पूर्णगतपूर्णत्वरूपधर्मविशेषणमित्यर्थः । ननु शब्दार्थत्वाभिमतधर्मिगतधर्मविशेषणत्वेनेदं शब्दप्रयोगः क्वदृष्य इत्यत आह ॥ अजानतेति ॥ यथादिंशब्दोमहिमत्वरूपधर्मविशेषणत्वाभिप्रायेण प्रयुक्तः अन्यथेमं महिमानमिति प्रयोगापत्तेः । तथाऽत्रापीति भावः । नन्वस्त्विदमिति पूर्णत्वविशेषणं तथापि कथापि कथमेतस्य स्वयोग्यतापेक्षयेत्यर्थोक्तिः । तस्यार्थस्य पूर्वमनुक्तत्वेनेदं शब्देन परामर्शायोगादित्यत आह ॥ स्वपूर्णतामिति ॥ इदंशब्दस्य समभिव्याहृतशब्दार्थधर्मिगतधर्मविशेषणत्वे प्रमाणमाह ॥ क्वचिदिति ॥ तस्य धर्मिणोभावः तद्भावस्तस्य शेषः तद्विशेषणं स्यादित्यर्थः । क्रियाशेषः क्रियाविशेषणं तद्यथातं डुलादिनदं पचतीति । पदार्थशेषः पदार्थविशेषणं यथेदं नीलमिति । ननु कुत एवं व्याख्येयं यथाश्रुत एवार्थः किं न स्यादिति चेन्न । तथासति दृष्यान्तानानुगुण्यं स्यादित्याह ॥ नहीति ॥ ननु यथाराजाहमेवेदं सर्वोस्मीति मन्यते । तथामुक्तोपीति राजदृष्यान्ताते नैवपूर्तेः किं देवदृष्यान्ततेनेत्यत आह ॥ राज्ञ इति ॥ मुक्तो विषयभोगानन्वित स्वरूपानन्देन पूर्ण इत्युक्तार्थेन राजदृष्यान्तः । तस्य विषय भोगेनैव पूर्तिमत्त्वात्‌ देवश्ऱ्च तत्पदयोग्यस्वरूपानन्देन पूर्ण इति देवदृष्यान्तग्रहणमित्यर्थः । तर्हि देवदृष्यान्तेनैव पूर्तेराजदृष्यान्तोव्यर्थ इत्यत आह ॥ प्रत्यक्षेति ॥ देवस्याप्रत्यक्षत्वादिति भावः । मनुष्याधिकारिकमपि शास्त्रं भवतीति तेषां पूर्णत्वस्य प्रत्यक्षतोदर्शनार्थं राजदृष्यान्तः । अतो न व्यर्थ इत्यर्थः । श्रुत्यर्थनिश्ऱ्चायकं प्रमाणमप्याह ॥ स्वयोग्येति ॥ यथेति शेषः । पूर्तेरिति सम्बन्धेषष्ठी । ईश्ऱ्वरदत्तस्वातन्त्ऱ्ादित्यर्थः ॥ 20 ॥ अतिच्छन्दा इति कथं विष्णुरूपस्यातिच्छन्दस्त्वमुच्यते । तस्य गायत्ऱ्यादिवत्‌ च्छश्ऱ्दोरूपत्वाभावादित्यतस्तं शब्दं तत्र निर्वक्ति ॥ छन्दसामपीति ॥ साकल्येनेति शेषः । प्राज्ञेनात्मनासम्परिष्वक्त इत्येतत्सुप्तमात्रपरमिति प्रतीति निरासाय व्याचष्ये ॥ तेनेति ॥ तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपमिति वाक्यमन्वयं दर्शयन्व्याचष्ये ॥ विष्णोरिति ॥ नित्यं सर्वदेत्यु(त्य)भय विशेषणम्‌ । अभयं भयरहितम्‌ । यच्छब्दस्यत तेनाश्ऱ्चिष्य इति पूर्वेण सम्बन्धः । तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरमिति वाक्यं व्याचष्ये ॥ आप्तकामञ्चेति ॥ विष्णोरूपं यदिति अत्रानुवर्तते । आप्ताः कामाः काम्याः येनासावाप्तकामः ।तत्र हेतुः पूर्णत्वादिति । आत्मैवकामः काम्यत इत्यातमकामः । तत्र हेतुः सुखत्वत इति । सुखस्वरूपत्वादित्यर्थः । शोकस्यान्तोऽभावोयस्मिन्‌ तच्छोकान्तं तच्च तद्रञ्चेति शोकान्तरमित्यर्थः । अकामशब्दार्थः स्पष्यत्वान्नोक्तः ॥ 21 ॥ अत्र पिताऽपिताभवति माताऽमातेत्येतद्विरोधपरिहाराय व्याचष्ये ॥ तेनेति ॥ औपचारिकपुत्राणामेवायं न पिताकिमित्यत उक्तम्‌ ॥ दायादानामिति ॥ पूर्वं दायादानां स्वपुत्राणां पितातेन परमात्मनाश्ऱ्लिष्यः सुप्तोमुक्तश्ऱ्च पितानैव भवति । पूर्वं मातातेनाश्ऱ्लिष्यानमाता । तत्र हेतुस्तेषामिति । लोका अलोका इत्येतद्वयाचष्ये ॥ लोकमान्यपीति ॥ पूर्वमिति शेषः । अलोकमानात्‌ लोकाभिमानाभावादित्यर्थः । मुक्तिसुप्त्योरपि देवत्वस्यानपायात्कथं देवा अदेवा इत्युक्तमित्यतस्तद्वयाचष्ये ॥ देवोपीति ॥ वेदा अवेदा इत्येतद्वयाचष्ये ॥ वेदमान्यपीति ॥ पूर्वमिति शेषः । वेदाभिमानाभावादित्यर्थः । अत्रस्तेनो अस्तेनोभवतीत्यादिवाक्यचतुष्ययतात्पर्यमाह ॥ पापीति ॥ पूर्वं स्तैन्यादिनिमित्तकपापवानित्यर्थः । पापफलाप्ययात्पापफलभोगाभावादित्यर्थः । अश्रमणत्वतापसत्वयोः सुप्तिमुक्त्योरपि सत्वात्कथं श्रमणोऽश्रमणस्तापसोतापस

?Rइत्युक्तिरित्यतस्तद्वयाचष्ये ॥ श्रमणश्ऱ्चापीति ॥ पापीचेति चशब्दान्वयः । यति धर्मात्समुत्थितेस्तद्विध्यतीतत्वादित्यर्थः ।

?Rनन्वस्माद्धयेवात्मनोयद्यत्कामयते तत्तत्सृजत इति मुक्तौ पुण्यफलसत्वात्कथमनन्वागतं पुण्येनेत्युक्तमित्यतोऽनन्वागतं पापेनेत्येतद्वयाचष्ये ॥ अनिष्यमिति ॥ अपि पदं सर्वशोक इत्यर्थः । अनेन तीर्णोहिसर्वान्‌ शोकानित्यस्यार्थ उक्तो भवति । हृदयस्येत्यस्यार्थोविष्णोरिति । सम्प्राप्तिमात्रत इति शेषोक्तिः । तदेत्यस्य तात्पर्यमुक्त इति ॥ 22 ॥ यद्वैतन्नपश्यतीत्यादिकं परेणैवं व्याख्यातं सुप्त्यवस्थायामहङ्कारादितत्कार्यविलयमात्रेण क्रियाकारकफलरूपद्वितीय जगदभावः सुप्तस्यात्मनोविधीयते तथाहि प्राक्‌ हृद्यं तर्ज्योतिरिति ज्यातिश्शब्देन सुप्तस्य ज्ञानसद्भावोभिहितः पुनरेवायमात्माप्राज्ञेनात्मनासम्परिष्वक्तोन बाह्यं किंच न वेदानान्तरमिति ज्ञानाभावश्ऱ्च तदुभयं विप्रतिषिद्धमित्याशङ्कयेदमुच्यते । सुप्तोयं न पश्यतीति यदुक्तं तद्वैतत्‌ तथैव । नच विप्रतिषेधः यतःपश्यन्वैमानवानेवतन्नपश्यतीत्युक्तम्‌ । कुतोज्ञानवत्त्वं नहि द्रष्युर्दृष्येर्विपरिलोपोविद्यते अविनाशित्वात्‌ । कथं पश्यन्नेवनपश्यतीति । यतः स्वस्माद्विभक्तं पश्येत्तद्वितीयं तु नास्ति अतो विषयाभावान्नपश्यतीत्युच्यते निर्विषयस्य स्वरूपज्ञानस्य स्थितत्वात्पश्यन्नित्यपि । अतो न परस्परविरोध इति । तदसत्‌ । प्रमाणविरोधादिति भावेन तावत्तद्वाक्यं प्रमाणेन व्याचष्ये ॥ यदिति ॥ नतु तद्द्वितीयमस्तिततोऽन्यदिति प्रतिज्ञावाक्यस्यार्थः ॥ तत्सममिति ॥ अनेन द्वितीयशब्दः समार्थकोव्याख्यातः तत्र हेतुरुच्यते यद्वैतन्नपश्यतीति । तद्वयाचष्ये ॥ यत्तन्नविष्णुः पश्येतेति ॥ यद्यस्माद्विष्णुःतत्स्वसमं न पश्येत्तत्तस्मात्तत्समं नान्यदिष्यत इति सम्बन्धः । ननु विष्णुनादृष्यत्वेपि विष्णुसमं कुतो नास्तीति चेत्‌ विष्णुर्यन्नपश्यति तन्नास्त्येवेति व्याप्तेरित्याह ॥ यद्वैतन्नपश्यतीति तद्वयाचष्ये ॥ यत्तन्नविष्णुः पश्येतेति ॥ विष्णुर्यन्नपश्येत्तन्नास्त्येवेर्थः । ननु यद्विष्णुः न पश्यति तन्नास्त्येवेति कथं नह्यस्मदाद्यदृष्यं धर्माधर्मादिकं नास्तीति शक्यते वक्तुमित्यत उक्तम्‌ ॥ पश्यन्वा इति ॥ तन्निगदव्याख्यानमिति भावेनानुवदति ॥ पश्यन्वैतन्नपश्यतीति ॥ सर्वज्ञ एव सन्‌ स्वसमं न पश्यतीत्यर्थः । ननु विष्णोस्सार्वज्ञं किं भ्रान्त्या नेत्याह ॥ नहिद्रष्युरिति ॥ हि यस्माद्द्रष्युर्दृपरिलोपोव

?Rैपरीत्यमयथार्थत्वं न तस्मान्नभ्रान्त्यासार्वज्ञम्‌ । कुतो विपरिलोपाभाव इत्यत उक्तम्‌ अविनाशित्वादिति । तद्वाचष्ये ॥ नित्येति ॥ निर्दोषज्ञानत्वादबाध्यज्ञानत्वाच्चेत्यर्थः । एतदेवस्ववाक्येन विवृण्वन्‌ यद्वैतं न पश्यतीत्याद्यं वाक्यं व्याचष्ये ॥ यत्किञ्चिदिति ॥ अनेन श्रुतौनञ आवृत्तिः । वैशब्दोऽवधारणार्थकः । हृदयशब्दप्रकृतं ब्रह्मत्रकर्तृत्वेन सम्बध्यते इत्युक्तं भवति । उदाहृतवचनेन आवृत्तेरप्रदर्शनात्पृथग्व्याख्यानारम्भः । ननु भगवतानदृष्यं नास्त्येवेति कथं नह्यस्मदाद्यदृष्यं धर्माधर्मादिकं नास्तीत्याशङ्कयपरिहारतयापश्यन्वा इति वाक्यं व्याचष्ये ॥ विद्यमानमिति ॥ भगवानिति विभक्तिविपरिणामेनाऽनुवर्तते । अत्रापि वैशब्दोवदारणार्थ इति भावेनोक्तमेवेति । स्येदेवास्मदाद्यदृष्यमपि धर्माधर्मादिकं अस्मदादीनां विद्यमानसर्वज्ञत्वाभावात्‌ । भगवांस्तु विद्यमानं सर्वं पश्यत्वेव सचेन्नपश्यति तदातन्नास्तयेवेति भावः । यद्वाविष्ण्वन्यद्विष्णुसमं नास्ति । विष्णुनाऽदृष्यत्वात्‌ इत्यत्र अन्वयव्याप्तिप्रतिपादकतया यद्वैतन्नपश्यतीति वाक्यं व्याख्यायव्यरिरेकव्याप्तिप्रतिपादकतयाऽ(पश्यन्वै)इत्यतद्वयाचष्ये ॥ विद्यमानमिति ॥ व्यभिचारशङ्कानिरासाय सर्वमित्युक्तम्‌ । ननु यथा अस्मादानीनां भ्रान्तत्वेन अस्मादादिदृष्यविरुद्धद्रष्याऽस्मदाद्यदृष्यद्रष्याच भगवांस्तथा भगवद्दृष्यविरुद्धद्रष्याभगवददृष्‌टद्रष्याच यद्यन्यः स्यात्तदाकथं भगवान्विद्यमानं सर्वं पश्यतीत नियम इत्याशङ्कापरिहाराय तावत्‌ नतु तद्द्वितीयमस्तीति वाक्य प्रकारान्तरेण व्याचष्ये ॥ नहीति ॥ तुशब्दो हेत्वर्थ इति भावेन हीत्युक्तम्‌ । श्रुतौ द्वितीयमिति नपुंसकलिङ्गसद्भावेपि उदाहरिष्यमाण प्रमरणानुसारेण पुल्लिङ्गप्रयोगः । ननु ब्रह्मादीनां सवर्ेषामपि द्रष्यृत्वात्कथमेतत्‌ । उक्तशङ्कायां द्रष्यृमात्रनिषेधे न सङ्गतश्ऱ्चेत्याशङ्कानिरासाय ततोन्यद्विभक्तं यत्पश्येदिति वाक्यं प्रवृत्तमिति भावेन विभक्तं पश्येदित्यंशस्यार्थमाह ॥ य इति ॥ सद्वितीयोद्रष्यानास्तीति सम्बन्धः । ननु यो विभक्तत्वेन जगत्पश्यति द्वितीयो द्रष्यानास्तीति कथं सर्वेषामपि विभक्तत्वेन जगद्द्रष्यृणां सत्वात्‌ । असङ्गतं चैतत्‌ । विभक्तत्वेन जगद्द्रष्युरनाशङ्कितत्वात्‌ इत्यतो विभक्तत्वेन जगत्पश्यतीत्युक्तमेव विवृणोति ॥ तद्विरोधेनेति ॥ भगवद्दृष्यविरोधेनेत्यर्थः । भ्रान्तः सर्वोपि जनःशुक्तित्वेनेश्ऱ्वरदृष्यामेव शुक्तिं रजतत्वेन जानातीति तद्विरोधेन पश्यत्येवेत्यत उक्तमभ्रान्त इति । ततोऽन्यदित्यशं व्याचष्ये ॥ तद्दृष्यादिति ॥ अन्यद्वायः पश्यति सद्वितीयोद्रष्यानास्तीति पूर्वेण सम्बन्धः । ननु तद्दृष्यादन्यच्छुक्तिरजतं भ्रान्तः पश्यत्येव नचैवमसार्वज्ञप्रसङ्गः । विद्यमानाशेषार्तज्ञत्वमेवसार्वज्ञमित्यङ्गीकारादित्येतच्छङ्कानिरासायाभ्रान्तपदमनुवर्तनीयम्‌ । ब्रह्मादीनां द्रष्यृत्वेपि त्तद्दृष्यविरुद्धद्रष्यृत्वं तददृष्यद्रष्यृत्वं वा नास्तीति भावः । भगवद्दृष्यविरुद्धद्रष्यातददृष्यद्रष्याच नास्तीत्यत्र प्रमाणमाह ॥ नान्य इति ॥ अतः परमात्मनोऽन्योद्रष्याभगवद्दृष्यविरुद्धद्रष्‌टातददृष्यद्रष्या च नास्तीत्यर्थः । द्रष्युमात्रनिषेधायोगादिति भावः ।

?Rस्वकृतव्याख्यानदार्ढ्याय श्रुतिव्याख्यानरूपं प्रमाणमाह । यदिति ॥ प्रथमतच्छब्दःप्रसिद्धयर्थः । अनेन यद्वैतं न पश्यतीति

?Rवाक्यं व्याख्यातम्‌ । नतु तत्‌ द्वितीयमस्तीत्यस्यार्थोनह्यन्यदिति । ननु ब्रह्मादीनां सत्वात्कथमेतदित्यत आह ॥ य इति ॥ अनेन ततोन्यत्‌ यत्पश्येदिति वाक्यं व्याख्यातम्‌ । तद्विरुद्धञ्चेति शेषः । तेन विभक्तं यत्पश्येदिति वाक्यं व्याख्यातम्‌ । ननु ब्रह्मादय एव तददृष्यद्रष्यारः तद्दृष्यविरुद्धद्रष्‌टारश्ऱ्चकिं नस्युः इत्यत आह ॥ ब्रह्मादिरिति ॥ एवं यत्‌ वैतदिति पदच्छेदमभ्युपेत्ययद्वैतं न पश्यतीत्यादिवाक्यं हृदयशब्दप्रकृतविष्णुसमनिषधपरत्वेन व्याख्यातम्‌ । ननु खथमत्रविष्णुसमनिषेध; विष्णुरूपाणामेवतत्समत्वात्‌ । नच तदन्यत्‌ तत्समं नेत्युक्तमित वाच्यम्‌ । शुक्लस्य नीलस्येत्यादिना भगवद्रूपाणां विलक्षणरूपवत्त्वोक्त्यातद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपमिति षष्ठयारूपरूपवतोश्ऱ्चभेदस्य प्रतीतेरित्याशङ्कानिरासकतयापि यत्‌ द्वैतमिति पदच्छेदमभ्युपेत्यतदेव व्याचष्ये ॥ यदिति ॥ उभयत्राप्युच्चारणस्यैकप्रकारत्वादुभयथापदच्छेदोनानुपपन्नः । यदित्यनुवादनेनावतारादिकमिति व्याख्यातम्‌ । आदिपदेन गुणादिग्रहणम्‌ । द्वैतत्वेन स्वतः परस्परञ्च भिन्नत्वेन तुशब्द एवार्थे । तदवतारादिकम्‌ । ततःस्वस्मात्परस्परञ्चेत्यर्थः । अनेन ततोऽन्यदित्युत्तरवाक्यस्थं तत इत्येतत्‌ नतु तत्‌ द्वितीयमित्यत्रापि सम्बध्यत इत्युक्तं भवति । द्वितीयं भिन्नं यत्‌ द्वैतमिति यच्छब्दस्य नतु तदितिव्यवहिततच्छब्दान्वयस्तु यत्तदोर्नित्यसाकाङ्क्षत्वादाकाङ्क्षायाश्ऱ्च सन्निधानाद्बलीयस्त्वाद्युक्त इति भावः । ननु भगवताभिन्नत्वेनाऽदृष्यत्वेपि कुतोन भिन्नं नह्यस्माभिः शुक्तिकायाभिन्नत्वेन रजतं न दृश्यत इतयेतावतातत्‌ ततो न भिन्नम्‌ । मैवम्‌ । पश्यन्‌ सर्वज्ञ एव तत्‌ अवतारादिकं भिन्नत्वेन न पश्यति वै । ननु यदि भगवतो भ्रान्त्यैव सार्वज्ञम्‌ तर्हि तेन भिन्नत्वेननादृष्यमवतारादिकं ततो भिन्नं न भवतीति कथमित्यतः प्रवृत्तं नहि द्रष्युर्दृष्येर्विपरिलोपोविद्यतेऽविनाशित्वादिति वाक्यमुपोद्धातसङ्गत्या व्याचष्ये ॥ नित्येति ॥ निर्दोषज्ञानत्वान्निर्बाधज्ञानत्वाच्चेत्यर्थः । यद्वा यदवतारादिकं द्वैतत्वेन न पश्यतीत्यस्य द्वैतत्वाभावत्वेन पश्यतीत्यर्थोविवक्षितः । यद्वक्ष्यति अभेदेन स्वावतारान्‌ हरिः वेत्तीति । ननु विष्णुनाऽभेदेन दृष्यत्वेपि भेदाभावः कुतः नहि शुक्तिकाया अभेदेन रजतं दृश्यत इत्येतावतातत्ततोन भिन्नमित्यतः प्राप्तं नहि द्रष्युरिति वाक्यं व्याचष्ये ॥ नित्येति ॥ ननु विष्णुः यद्भिन्नत्वेन पश्यति तत्‌ ततोऽन्यदस्त्येवेति नियमश्ऱ्चेत्तदाऽवतारादिकं भिन्नत्वेन न पश्यतीति तद्भिन्नं न भवतीति वक्तुं शक्यते तदेवकुत इत्यतः प्राप्तमस्तिततोन्यद्विभक्तं यत्पश्येदिति वाक्यं व्याचष्ये ॥ यद्विभक्तत्वेनेति ॥ किं विभक्ततवेन पश्यति किं ततोन्यदित्यत उक्तमेव विवृणोति ॥ यस्मादिति ॥ यद्वा ननु यथाऽवतारादिकं विष्णुनाभिन्नत्वेनादृष्यत्वान्नभिन्नं तथा जीवजडादिकं विश्ऱ्वमपि तेन भिन्नत्वेनादृष्यं चेद्भिन्नं न स्यादित्येतच्छङ्कानिरासकत्वेनास्ति ततोन्यद्विभक्तं यत्पश्यदिति वाक्यं विश्ऱ्वं विष्णुनाभिन्नं तत्वेन तेन दृष्यत्वाद्‌ितयनुमानपरतया व्याख्यातुं तत्र व्याप्तिप्रतिपादकतयास्ति ततोन्यद्विभक्तं यत्पश्येदिति वाक्यमेवव्याचष्ये ॥ यद्विभक्तत्वेनेति ॥ चशब्दोवदारणार्थः । तेन व्यभिचाराभावमाह ॥ इति चार्थ इति शेषः ॥ तेन पूर्वव्याख्यानसमुच्चयः । यद्भिन्नत्वेन विष्णुः पश्यति तत्‌ ततोन्यदस्त्येवेति कुतः । नहि चन्द्रश्ऱ्चन्द्रात्‌ भिन्नत्वेनाऽस्माभिः दृश्यत इत्येतावताभिन्न इत्याशङ्कानिरासार्थं नहि द्रष्यरिति वाक्यव्याख्यानरूपं नित्यज्ञानत्वाद्भ्रमाभावादिविक्यमत्रापि यो जनीयम्‌ । एवं व्याप्तिप्रतिपादकत्वेनास्ति ततोन्यद्विभक्तं यत्पश्येदिति वाक्यं व्याख्याय अनुमानप्रदर्शनपरत्वेनापि तदेव वाक्यं व्याचष्ये ॥ यस्मादिति ॥ श्रौतयच्छब्दार्थोयस्मादिति यस्माद्धेतोरित्यर्थः । तत इत्यस्यार्थः तस्मादिति । स्वस्माद्भिन्नत्वेनेति शेषः । यस्माद्विभक्तत्वेनैव पश्यति तस्मादन्यदिति वा सम्बन्धः । भेदाभेदव्यवच्छेदाय प्रथमैवकारः । नतु तद्द्वितीयमस्ति ततोन्यद्विभक्तं यत्पश्येदिति वाक्ये यत्‌ ततः स्वस्माद्विभक्तं पश्येत्तद्द्वितीयंतु नास्तीति सुप्तौ सकलजगदभाव उच्यत इत्यपव्याख्यानं दूषयति ॥ नचेति ॥ कुतोनेत्यत आह ॥ अन्यदिति ॥ यत्पश्येत्तद्द्वितीयं नास्तीत्येतावतापूर्णत्वादित्यर्थः । यत्ततः स्वस्मादन्यद्विभक्तं पश्येत्तद्द्वितीयंतु नास्तीति व्याख्यानादनुवादपरत्वेन न वैयर्थ्यमिति चेत्‌ न । तथासति विभक्तं यत्पश्येतन्नास्तीत्येतावतापूणर्त्वेन शेषवैयर्थ्यादिति भावः । किञ्च न सुप्तौ सकलजगदभावो वक्तुं युक्तः देवदत्तस्य सुप्तावपि यज्ञदत्तस्य जगत्प्रतीतेस्सत्वात्‌ । ननु देवदत्तेसुप्तेदेवदत्तदेहादिकं जगद्देवदत्तं प्रति नास्त्येव देवदत्तभ्रन्तिकल्पितस्य तस्य तन्निवृत्तौ निवृत्तेरावश्यकत्वात्‌ जाग्रतो यज्ञदत्तस्य तु भ्रन्तेरनिवृत्तत्वेन तद्भ्रन्तिकल्पितं जगत्तं प्रति अस्त्येव । अत एवास्माभिः दृष्यिसृष्यिर्जगतोङ्गीक्रियत इति चेत्‌ न । स्यादेतदेवं यदि जगतोभ्रन्तिकल्पितत्वेवस्यान्न च तदस्ति प्रमाणाभावादित्याह ॥ नचेति ॥ नचास्मादात्मनः सर्वेप्राणाः सर्वेलोकाः सर्वेदेवाः सर्वाणिभूतानि व्युच्चरन्तीति श्रुतिस्तत्रमानं अन्यथादृष्यिसृष्यियभावेकतं सुप्तोत्थिताज्जीवात्प्राणादिसृष्यिरूपपन्नास्यादिति वाच्यं अस्य सर्वलोकादिसृष्यिरस्ति ॥ 23-30 ॥ किञ्च जगतोभ्रन्तिकल्पितत्वे असत्वमेवस्यात्‌ । तत्र तस्यव प्रयोगकत्वात्‌ । किंतत इत्यत आह ॥ असत्यमिति ॥ ननु

?Rयत्रवान्यदिवस्यात्तत्रान्योन्यत्पश्येदित्युत्तरवाक्ये यत्र जागरिते स्वप्नेवान्यदिवात्मनो वस्त्वन्तरमिवाविद्याप्रत्युपस्थापितं स्यात्‌ ।

?Rतविन्योन्यमिवात्मानं मन्यमानोऽन्यत्स्वस्माद्विभक्तमिवाविद्योत्थं वस्त्वन्तरं पश्येत्‌ । यत्र पुनःसाविद्यासुषुप्तेवस्त्वन्तरप्रत्युपस्थापि काशान्तातेनान्यत्वेनाविद्याप्रविभक्तवस्तुनोऽभावात्केन कं पश्येदित्युच्यते । अतः पूर्ववाक्यमपि सुषुप्तौ जगदभावपरत्वेनैव व्याख्येयमित्यतस्तात्पर्यमाह ॥ द्रष्य्रन्तरेति ॥ यत्र वेतिवाक्यस्य तात्पर्यं द्रष्य्रन्तरनिषेधेनेति । एको द्रष्येत्यस्य तात्पर्यं तस्यैव सर्वद्रष्यृत्वमिति परव्याख्याननिरासायैवशब्दः चशब्दोस्यार्थस्य पकृतत्वानुसन्धानार्थः अस्य वाक्यस्य परोक्त एवाथर्ः किं न स्यादित्यत आह ॥ अन्यथेति ॥ अस्य वाक्यस्य स्वोक्तार्थमनभ्युपगम्यपरोक्तार्थाङ्गीकारेन्योन्यत्पश्येदित्यादिवाक्येद्वितीयान्यपदं व्यर्थं स्यात्‌ तत्रान्यः पश्येदित्येतावतापूणर्त्वादित्यर्थः । ननु दर्शनादि विषयस्य दर्शनादिकर्त्ररन्य इति विशेषणमुक्तं तदाविषयस्य तदनन्यत्वशङ्कैव न भवति नह्येकस्यान्यत्वेन्यस्य तदनन्यत्वं भवति येनैवं शङ्कास्यादित्यर्थः । द्वितीयान्यशब्दवैयर्थ्यमुपपाद्योपसंहरति ॥ अत इति ॥ यद्वा यत्रान्यदिवस्तयात्तत्र पश्येदित्येतावतापूर्णत्वे अन्योन्यादिति पदद्वयं व्यर्थं स्यादित्यर्थः । ननु विषयापेक्षयाज्ञातुरनन्यत्वशङ्कावारणाय प्रथमान्यपदं सार्थकमित्यत आह ॥ नहीति ॥ एकस्य विषयस्यान्यत्वेऽभिहिते अन्यस्य ज्ञातुरन्यत्वं शङ्कार्हं न भवतीत्यर्थः । आर्थिकस्याप्यन्यत्वस्य शब्देन प्रतिपादनार्थं प्रथमान्यपदं सार्थकमिति चेन्न । तथापि द्वितीयान्यशब्दोव्यर्थ एवेत्याह ॥ अत इति ॥ विषयान्यत्वस्यान्यदिवेत्यन्यशब्देनैव प्रतिपादितत्वादित्यर्थः । ननु यत्र वान्यदिवस्यात्तत्रान्यः पश्येदित्येवोक्तेयत्राविद्यकोभेदोनास्तितत्रान्य आत्मान पश्यति न जिघ्रतीत्यादिद्रष्यृत्वादिमात्रनिषेधः कृतः स्यात्‌ इचायुक्तः आविद्यकभेदाभावदशायामपि अन्यद्रष्यृत्वाभावेपि आत्मनः स्वात्मद्रष्यृत्वाद्युपपत्तेः । अत आविद्यकभेदाभावदशायां स्वभिन्नकर्मकदर्शनादिनिषेधार्थमेवविषयवाचकद्वितीयान्यशब्दः सार्थक इतिच्चेन । स्यादेवमात्मन; स्वदृश्यत्वादिकं यद्यात्मनोदृश्यत्वादिकमेवस्यात्‌ नच तदस्तीत्याह ॥ नचेति ॥ रस्यत्वादिकमिति पठेतु दृश्यत्वस्य कथं चिदुपपत्तावपि रस्यत्वादिक सर्वथानुपपन्नमिति ज्ञापनायक्रमोल्लङ्घनम्‌ । द्रष्य्रंतरनिषेधेनेति यत्र वान्यदिवस्यादित्यादिवाक्यतात्पर्यमुक्तं ततस्तस्याप्रततेः स्पष्यं तद्वयाचष्ये ॥ तस्मदिति ॥ परव्याख्यानस्यायुक्तत्वादित्यर्थः । यत्र दया किञ्चिदपि अल्पमपीत्यर्थः । इवशब्दार्थः किञ्चिदिति वैशब्दार्थोपीति अन्यस्य भगवदन्यस्य तत्रैवतदैव अन्यशब्दस्य साकाङ्क्षत्वाद्भगवत इति भगवद्दृष्यादिति चोक्तम्‌ । एवञ्चान्यशब्दद्वयमप्यस्माकं सार्थकमिति भावः । प्रयोजकाभावेन प्रयोज्याभावं दर्शति ॥ तदेवेति ॥ तदेवभगवदन्यस्य किञ्चित्स्वातन्त्ऱ्यमेव स्तन्त्ऱ्यं तु जडान्प्रतीत्युक्तेः जीवानामपीश्ऱ्वरदत्तकिञ्चित्स्वातन्त्ऱ्यसत्वात्स्वत इत्युक्तं अन्यदिवेतीवशब्देन किञ्चित्स्वातन्त्ऱ्यमुच्यत इत्युक्तं तदुपपादयितुं प्रतिजानीते । अन्यदिति ॥ इवशब्द इवशब्दशिरस्कान्यशब्द इत्यर्थः । तत्र लौकिकप्रयोगमाह ॥ राज्ञ इति ॥ राज्ञोभृत्यः पृथगिवराजानमपेक्ष्यकिञ्चित्स्वतन्त्र इत्यर्थः । इवशब्दस्याल्पार्थत्वेभिधानमाह ॥ उपमार्थ इति ॥ अन्यशब्दस्य स्वातन्त्ऱ्ार्थत्वेपि तदाह ॥ स्वरूपेति ॥ अन्यशब्दस्य स्वातन्त्ऱ्यार्थत्वेवैदिकप्रयोगमप्याह ॥ अनन्या इति ॥ योधा अपि कुन्तीसुदनन्या तमपेक्ष्यस्वतन्त्रानेत्यर्थः । इवशब्दस्याल्पार्थत्वेपि प्रयोगं दर्शयति ॥ दशरात्रैरिति ॥ प्रयोगाच्चेत्यस्यानुकर्षणार्थश्ऱ्चशब्दः । श्रुतेः स्वोक्तार्थेदार्ढ्याय श्रुत्यर्थनिश्ऱ्चायकं प्रमाणमाह ॥ प्रकृतेरिति ॥ प्रकृतेः लक्ष्म्ाः पुरुषाणां ब्रह्मदीनां तत्र हेतुः विष्णुनेति । ततःस्वातन्त्ऱ्ाभावात्‌ । ननु भगवददृष्य्रभावेपि तददृष्यं वस्तु किं न स्यात्‌ । तथाच न तस्य सार्वज्ञमित्यत आह ॥ तदपि भगवद्दृष्यमपि किं वा भवेदिति पदार्थमात्रस्य कस्यचित्प्रत्यक्षत्वावश्यंभावादत्र च तदभावादिति भावः । यद्वैतं न पश्यतीत्यादे द्वितीयं व्याख्यानं प्रमाणेन द्रढयति ॥ अभेदेनेति ॥ B-29

?Rजीवाजीवमिति समाहारद्वन्द्वः । यद्यस्माद्धरिः स्वावतारान्‌ स्वावतारादिकं स्वाभेदेनेवेत्ति अतस्तदवतारादिकं सहरिरेवेत्यनेन यद्वैतं न पश्यति नतु तत्‌ द्वितीयमित्यस्याभिप्रायोक्तिः । यस्माज्जीवाजीवं भेदतोवेत्ति तस्मात्तद्द्वयं जीवाजीवं तदन्यच्चेति ततोन्यद्विभक्तं यत्पश्येदित्यस्यार्थः । अभ्रम इति न हीति वाक्यार्थः । ननु यत्र वा अन्यदिवस्यादिति वाक्यस्योक्तरीत्याद्रष्य्रंतरनिषेधपरत्वं नतु तत्‌ द्वितीयमस्तीत्यस्य प्राचीनव्याख्यानेसङ्गतम्‌ । द्वितीयव्याख्यानेत्व सङ्गतमिति चेत्‌ न । तदातस्य ततोन्यद्विभक्तं यत्पश्येदित्युक्तभेदपञ्चसत्यत्वमेवाभेदनिषेधेनोपसंह्रियत इत्येवं परत्वाङ्गीकारादित्याशयेन तत्प्रकारान्तरेण व्याचष्ये ॥ अन्यदपीति ॥ अन्यदिवेत्यस्यार्थोऽन्यवदवस्थितमिति । तर्हि भेदोमिथ्यास्यादित्यत इवशब्दार्थ उक्तः अन्यदपि स्वतोभिन्नमपि अस्वातन्त्ऱ्ेणनिमित्तेनान्यवदिति । यस्मिन्पक्षेन्यदेवनास्तिनतत्रान्यदर्शनादिव्यवहारोयुज्यत इति वाक्यशेषः । नन्वयमन्यदर्शनादिव्यवहाराभावः किमिदानीमापाद्यते मोक्षे वा नाद्यः । व्यावहारिकभेद सद्भावेन तदुपपत्तेः

?R। नान्त्यः इष्यत्वादिति चेत्‌ न । व्यवहारिकभेदस्य निराकरिष्यमाणत्वात्‌ । इष्यापत्तेश्ऱ्च मैत्रेयीब्राह्मणे

?Rपरिहृतत्वात्परिहरिष्यमाणत्वाच्च । नन्वन्याभावेपि तद्गोचरदर्शनादिव्यवहारदिकं किं न स्यादिति चेन्न । ततासति सप्तमरसादिदर्शनस्याप्यापातेन तेनानुभूयमानरसदर्शनेनेवसुखाद्यतिशयापातात्‌ । नच तदस्तीत्याह ॥ सप्तमेति ॥ इति चार्थ इति शेषः । ननु सिद्धान्तेऽसतोप्यपरोक्षप्रतीतेरङ्गीकारात्कथमेतदिति चेन्न । अत्र प्रधानस्यैवाभावेन रसनेन्द्रियजन्यसप्तमरसादिगोचरभ्रमस्याप्यसम्भवात्‌ । यथोक्तं अधिष्ठानं च सदृशं तथ्यवस्तुद्वयं विना । नभ्रान्तिः भवति क्वापीति । अत एव तत्वविवेकटीकायां यदि नानकूर्मरोमादिकमनारोपितमति कूर्मरोमादेरारोपविषयत्वाभाव उक्तः । नन्वस्मिन्पक्षेयत्र वान्यदिवस्यात्तत्रान्यः पश्येत्‌ इत्येतावतापूर्णत्वेनास्मकमिव भवतामपि द्वितीयोन्यशब्दो व्यर्थः । एकस्यान्यत्वे द्वितीयस्यानन्यत्वायोगादिति चेन्न । अस्मत्पक्षे हि यत्रान्यदिवस्यात्तत्रैवान्यः पश्येत्‌ । यत्र त्वन्यदेवनास्तितत्रान्योनपश्यतीत्यादिवाक्यार्थो न युज्यते । अन्यस्य विषयस्याभावेपि भगवतः स्वरमणत्वेन स्वविषयदर्शनाघ्राणनादिव्यवहारस्य सत्वात्‌ । अतोन्याभावे स्वभिन्नगोचरदर्शनादिव्यवहारो न युज्यत इति वक्तुं विषयवाचकमन्यदिति पदं सार्थकमिति भावेनाह ॥ सर्वेन्द्रियेति ॥ स्वात्मन्यपीति सम्बन्धः । यत्र वान्यदिवस्यादित्यस्यान्यदिववस्त्वन्तरमिवाविद्याप्रत्युपस्थापितमिति व्याख्याने बाधकमाह ॥ यदीति ॥ यदि भिन्नं जगदेव नस्यादाविद्यकं स्यादिति यावत्‌ । तदा विद्यानिवृत्तिरूपेमोक्षेप्यन्यानिभूतानीति अन्येषां भूतानां सत्वोक्तिरयुक्तास्यादित्यर्थः । स्यादेतत्‌ यदीदं वाक्यं मोक्षपरमेवस्यात्‌ । तदेवनास्ति । अस्य वाक्यस्य सुषुप्तिपरत्वादित्यत आह ॥ मोक्षेति ॥ सुषुप्तिप्रकरणत्वसमुच्चयार्थश्ऱ्चशब्दः 1 कुत इति चेत्‌ अत्र पिताऽपिताभवतीत्याद्येतत्प्रकणणशेपक्रमवाक्यस्य सुषुप्तिमोक्षोभयविषययकत्वस्य सूत्रकृतानिर्णीतत्वादिति भावेन तत्सूत्रं पठति ॥ स्वाप्ययेति ॥ 31 ॥ सलिल एको द्रष्याद्वैतोभवतीत्यस्य सलिलः सलिलवच्छुद्धोविजातीयभेदरहितः एकः सजातीयभेदशून्योत एद्रष्याद्वैतः स्वगतभेदशून्य इति परव्याख्यानमसत्‌ । भेदप्रतिपादकेन ततोन्यदिति पूर्ववाक्येनान्यानिभूतानीत्युत्तरवाक्येन च विराधात्‌ । तद्वयाख्यानरूपप्रमाणविराधाच्चेति भावेन तद्वयाचष्ये ॥ यदाहीति ॥ रस्यां सलिलरूपचेतनप्रकृतौ । ननु सललात्मप्रकृतेरेव सत्वात्कथमेकोऽद्वैतश्ऱ्चेत्यतस्तत्पदद्वयं व्याचष्ये ॥ अविरोधादिति ॥ विरोधिशून्यत्वादित्यर्थः । प्रकृतेश्ऱ्चनविरोधः । नापि साम्यमिति भाव; । एष जीवो ब्रह्मलोकोज्योतीरूपं ब्रह्मैवेति व्याख्याननिरासाय ब्रह्मलोकशब्दार्थमाह ॥ बृहज्ज्ञान इति ॥ बृहत्सर्वविषयं ज्ञानं यस्यासौतथोक्तः । एषास्य परमागतिरित्यस्यार्थमाह ॥ सर्वगत्वादिति ॥ अस्येत्यनुवादेन विष्णोरिति व्याख्यानं एषास्य परमासंपदित्येतद्वयाचष्ये ॥ पूर्णेति ॥ एषोस्य परमोलोक इत्येतद्वयाचष्ये ॥ सार्वज्ञादिति ॥ लोको ज्ञानं एषोस्य परम आनन्द इति वाक्यं व्याचष्ये ॥ आनन्द इति ॥ विष्णोरिति वर्तते विष्णोरानन्दश्ऱ्चपरमोज्ञेयः । कुतः हि यस्मात्स आनन्दः पूर्णः सदोदितः । तत्र हेतुः स्वातन्त्ऱ्ादेवेति । एतस्यैवानन्दस्यान्यानिभूतानिमात्रामुपजवन्तीति वाक्यं विष्णुस्वरूपभूतानन्दैकदेशभोक्तृत्वमन्येषामुच्यत इति प्रतीनिरासाय व्याचष्ये ॥ प्रतिबिम्बबरूपेति ॥ मात्रामित्यस्यार्थोविप्लुट्‌कानिति । उक्तान्यथाप्रतति निरासाय प्रतिबिम्बरूपेत्युक्तम्‌ । सयोमनुष्याणामित्यादेस्तात्पर्यं तारतम्येनेति । पूर्वं सप्तम्यन्तत्वमङ्गीकृत्यसलिलपदं व्याख्यातम्‌ । प्रथमान्तत्वमङ्गीकृत्यापि व्याचष्ये ॥ सलिल इति ॥ लीलयासहितः सलीलः इत्यर्थः । दीर्घलोपः छान्दस इति भावः ॥ 32 ॥ सयो मनुष्याणां राद्ध इति प्रकरणं संसारिपरमिति प्रतीति निरासाय व्याचष्ये ॥ अन्येभ्य इति ॥ अन्येभ्योमनुष्योत्तमेभ्यः शतोद्रिक्त इत्यन्तं मूलानुक्तम्‌ । अथ येशतं मनुष्याणामानन्दाः स एकः पितृणामानन्दः इतयस्यार्थमाह ॥ पितॄणामिति ॥तेभ्यश्ऱ्चक्रवर्तिभ्यः पितॄणामानन्दः शतोद्रिक्त इति सम्बन्धः । अनेन श्रुतौ मुनुष्यशब्दश्ऱ्च क्रवर्तिपर इत्युक्तं भवति । तदुत्तरकक्ष्यमाह ॥ तेभ्योपीति ॥ ऋषीणां विश्ऱ्वामित्र ब्रह्मपुत्रव्यतिरिक्तानाम्‌ । ननु श्रुतौ पितृभ्योगन्धर्वाणां शताधिकत्वमुच्यते अत्रतु ऋषीणां क्वचित्तु आजानदेवानां तत्कथमेतदिति चेन्न । गन्धर्वाणां ऋषीणामाजानदेवानाञ्चसाम्यात्‌ । यतोक्तं पुरस्तात्‌ । तुम्बुरुप्रमुखाये च तथोर्वश्यादिका अपि । विश्ऱ्वामित्रब्रह्मपुत्रानृतेचाप्यृषखिलाः । कार्तवीर्यादिराजभ्योदेवभृत्याः शतावराः । आजानदेवास्तेप्रोक्ता इति । अथ येशतं गन्धवर्लोक आनन्दाः स एकः कर्मदेवानामानन्दः इत्यस्यार्थमाह ॥ कर्मदेवेति ॥ तेभ्यः ऋषिभ्यः । अथ ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्द इत्यंशंव्याचष्ये ॥ तेभ्यश्ऱ्चेति ॥ अथयेशतं आजानदेवानामानन्दः सएकः प्रजापतिलोक आनन्दः इत्यस्यार्थमाह ॥ तेभ्यश्ऱ्चेति ॥ उमापतेः वारुणीपतेरित्यर्थः । अथयेशतं पजापतिलोक आनन्दाः सएको ब्रह्मलोक आनन्द इत्यस्यार्थमाह ॥ तस्मादिति ॥ श्रुतौ पअजापतिशब्देन गरुडोपि ग्राह्य इति भावेनोक्तं गरुडादपीति । अथैष एवपरम आनन्द इत वाक्यमेषएवेत्यनेन ब्रह्मलोकशब्दप्रकृत चतुर्मुखपरामर्श इति प्रतीतिनिरासाय व्याचष्ये ॥ एष

?Rएवेति ॥ विष्णोरप्रकृतत्वात्कथं तत्परामर्श इत्यत एतस्यैवानन्दस्यान्यानिभूतानीति वाक्येप्रकृतत्वापरामर्शोपपत्तिरिति भावेन

?Rतत इत्युक्तं हेतुं विवृणोति ॥ यस्येति ॥ एवं प्रमाणवाचनेनेदं प्रकरणं मुक्तपरत्वेन व्याख्यातम्‌ । इदानमत्रापि मुक्तज्ञापकानिदर्शयिष्यन्‌ सयोमनुष्याणामिति प्रथमवाक्येमुक्त ज्ञापकमाह ॥ राद्ध इति ॥ राधसाधसंसिद्धावितिपठ्यते । राघधातोश्ऱ्चगत्यर्थाकर्मकश्ऱ्लिषशीङ्‌स्थासवसजनरुहचीर्यतिभ्यश्ऱ्चेत्यकर्मकत्वातकर्तरिक्तः । ततोराद्ध इत्यस्य संसिद्ध इत्यर्थोवगम्यते । संसिद्धिश्ऱ्चमुक्तिरेव । नित्यत्वेन दुःखासंभिन्नत्वेन च समीचीनसिद्धित्वात्‌ । नेतरा अनित्यत्वेन दुःखसंन्नित्वेनासमीचीनत्वात्‌ । नच मुख्येसम्भवत्यमुख्यार्थोङ्गीकर्तुं युक्त इति भावः । ननु यदिराद्धोमुक्तस्तर्हि समृद्ध इति विशेषणं व्यर्थम्‌ । इत्यतः इति हेतोः । असमृद्धमुक्तस्यैवाभावेनाव्यावर्तकत्वादित्यत आह ॥ मुनुष्याणामिति ॥ प्रयत्नाधिक्यात्‌ ज्ञानोत्तरकृतराजसूयादिप्रयत्नाधिक्यात्‌ । इत्यतः इति हेतोः । असमृद्धमुक्तस्यापि सत्वान्नसमृद्धपदं व्यर्थमित्यर्थः । ननु ज्ञानोत्तरानुष्ठितप्रयत्नाधिक्यान्मुक्तौ प्राप्यमाधिक्यं नाम न तावत्स्वरूपसुखस्यैव पुनराधिक्यं तस्य क्लृप्तत्वेनानागन्तुकत्वात्‌ । नापि क्लृप्तसुखस्यैवाभिव्यक्तिः ज्ञानेनावरणीभूताविद्यानिवृत्तावात्मस्वरूपसुखाभिव्यक्तेः सर्वसाधारण्यात्‌ । नापि पृथगेवसुखं जायते तदनङ्गीकारात्‌ । तत्कथमेतदिति चेत्‌ मैवम्‌ । नाविद्यैवात्मस्वरूपस्यावरणं किन्त्वीश्ऱ्वरेच्छापि । तथाच ज्ञानेनाविद्यायां निवृत्तायामशेषानिष्यनिवृत्तिर्भवति । स्वरूपसुखञ्च बहुतरं व्यज्यते नतु सर्वम्‌ । एवञ्च योग्यतयासाम्येपि येन ज्ञानोत्तरं निवृत्तकर्मानुष्ठानलक्षणं प्रयत्नाधिक्यं कृतं तेन तज्जन्येश्ऱ्वरप्रसादद्वारायावत्स्वरूपाभिव्यक्तिलक्षणमाधिक्यं प्राप्तुं शक्यते । येन तु न तदनुष्ठितं तेन नेति । एतभिप्रायेणैवानन्दवृद्धिह्रासप्रतिपादनं तत्र तत्र क्रियते । इदमपि देवेषु न सम्भवति देवानां यावत्स्वरूपाभिव्यक्तेः सत्वेन तत्र वृद्धिह्रासाभावादित्यतोमनुष्याणामित्युक्तम्‌ । मनुष्याणां च वृद्धिह्रासौ वर्तेते एव । यथोक्तं वृद्धिह्रासौ विमुक्तिगौ नृणामिति यावत्स्वरूपानभिव्यक्तिलक्षणानन्दह्रासम्प्रतिविकर्मवत्‌ भगवत्पूजात्मककर्माकरणमपि निमित्तम्‌ । यथोक्तं कृष्णोपास्तिमकुर्वतः । ज्ञानिनोपि यतोह्रास आनन्दस्य भवेद्ध्रुवमिति । अयोग्यकान्महापदेविधातुरेष हि क्रतुः । समानयोग्यतागणात्करोति मुक्तिगं वरमित्येतदपि चक्रवर्तिरूपमनुष्यपरं योज्यम्‌ । तथाहि वाक्यशेषः । अतस्त्रिशङ्कुपुत्रकोनृपानतीत्यवर्तत इति । ननु समृद्धपदेन कथमेवं विधासमृद्धमुक्तव्यावृत्तिरित्यतः समृद्धपदं व्याचष्ये ॥ यावदिति ॥ अन्यस्तु नैवं विध इत्यर्थः । नन्वन्येषामधिपतिरिति कथं मुक्तमनुष्यविशेषणम्‌ । मुक्तचक्रवर्तिनः सांसारिकान्याधिपतित्वायोगात्‌ । नच ये संसारावस्थायां चक्रवर्तिनियम्यास्तेषामपि मुक्तौ तदाधिपत्यं सम्भवतीति वाच्यम्‌ । नियमाभावादित्यत आह ॥ स्वराष्य्र इति ॥ पूर्वं स्वराष्य्र मुक्तिसाधनज्ञानोपदेष्यृत्वात्तदुपदेश्यानां तत्सहैव मोक्षात्‌ मुक्तावपि तेषामधिपतिरित्यर्थः । ननु सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतम इति कथं मुक्तविशेषणं संसारगतमानुष्यक भोगानां मुक्तावभावादित्यतस्तद्वयाचष्ये ॥ ज्ञानेति ॥ मानुष्यकैऱ्तियस्यार्थोमनुष्यत्वे चक्रवर्तित्तवदशायां दानादिकं कृत्वातत्फलैरिति । न केवलं ज्ञानफलैरित्यपेरर्थः। ननु मनुष्यत्वावस्थायां कृतदानादेः काम्यत्वे स्वर्गादौनिष्कामत्वे च ज्ञानजन्मन्येवोपक्षय इति कथं तत्फलस्य मुक्तिगामित्वमित्यत उक्तं ज्ञानपूर्वकत्वेनेति । अपरोक्षज्ञानपूर्वकत्वेनेत्यर्थः । कृत्वेत्यनेन सम्बन्धः । अपरोक्षज्ञानोत्तरकृतदानादिकर्मफलस्य मुक्तिगत्वं युज्यत इत्यर्थः । अत्र श्रुतिमाह ॥ नहास्येति ॥ ननु स्रक्‌चन्दनादिभोगसाधनैः समृद्धोन्येषां भृत्यादीनामधिपतिः सर्वैः मनुष्यभावैर्भोगैः तत्करणैः सम्पन्नतम इति परोक्तरीत्यासंसारिपरमेवेदं किं न स्यादित्यत आह ॥ अन्यथेति ॥ मुक्तपरत्वाभाव इत्यर्थः । राद्धशब्दार्थसंसिद्धत्वस्य संसारिण्यभावादसम्भवाच्चराद्ध इति विशेषणं विरुद्धार्थमित्यथर्ः । नच भोगक्षमावयवैराध्यात्मिकैः राद्धः संसिद्ध इति व्याख्याय इति वाच्यम्‌ । तस्याप्यनित्यत्वेनराद्धशब्दमुख्यार्थत्वाभावात्‌ । मुख्येसत्यमुख्य ग्रहणायोगात्‌ । उपलक्षणमेतत्‌ । समृद्ध इति विशेषणं व्यर्थं भवतीत्यपि ग्राह्यं मुक्तिं विनासम्यगृद्धेरभावेन समृद्धपदस्यापि मुक्तमात्रवाचकत्वात्‌ । ननु तस्येयं पृथिवीत्यादिपूर्वभाविव्यपेक्षयेत्यनुव्याख्यानेतस्येयं पृथिवीसर्वावित्तस्य पूर्णस्यादिति तैत्तिरीयवाक्यस्यामुक्तपरत्वोक्त्यासमानन्यायतयान्येषामधिपतिरित्यादिवाक्यस्याप्यमुक्तपरत्वमभिप्रेतम्‌ । यथोक्तं सुधायाम्‌ । अनेनैवन्यायेनान्येषामधिपतिरित्यादिकममुक्तविषयं प्रतिपत्तव्यमिति । तथाच तेन विरोधः स्यादिति चेन्न । अयमभिप्रायोभाष्यकारस्य नेदं वाक्यं सर्वतापरोक्तरीत्यासंसारिमात्रपरं ततात्वे राद्धत्वसमृद्धत्वयोरनुपपत्तेः किन्तु मुक्तामुक्तपरं मुक्तमात्रपरं वा तत्र प्रथमपक्षमभ्युपेत्यानुव्याख्यानेराद्धसमृद्धशब्दयोः मुक्तपरत्वं राद्धः संसिद्ध इत्येवमुक्त एवावगम्यते इत्यनेनोक्त्वाऽन्येषामधिपतिरित्यादीनाममुक्तपरत्वमङ्गीकृतं अत्रतु द्वितीयपक्षमङ्गीकृत्यान्येषामधिपरिरित्यादिकमपि मुक्तपरत्वेनैवव्याख्यातम्‌ । एवं च राद्धः समृद्ध इत्येतन्मुक्तमात्रपरं अन्येषामधिपरिरित्यादिकं तु मुक्तामुक्तोभयपर्‌ । तथाचोक्तं सुधायाम्‌ । अन्येषामधिपतिरित्याकं तु मुक्तामुक्तसाधारणमिति तस्मान्नकाप्यनुपपत्तिरिति । किञ्चैतद्वाक्यस्य

?Rसंसारिपरत्वे परमानन्द इत्यानन्दस्य परमत्वविशेषणमयुक्तम्‌ । वैषयिकानन्दस्य सान्तत्वसदुःखत्वादिनापरमत्वाभावादिति

?Rभावेनाह ॥ स इति ॥ अस्त्वेवममुक्तानामपि स्वरूपानन्दसद्भावेन नानुपपत्तिरित्यत आह ॥ नहीति ॥ तथाच परमानन्द इति आविर्भूतस्वरूपानन्दोविवक्षित इति भावः । मास्त्वमुक्तस्य स्वरूपपानन्दाविर्भाव

?R: तथापि परमानन्द इति मुक्तज्ञापकं कुत इत्यतो मुक्तस्य स्वरूपानन्दभोक्तृत्वे अन्येषां तदभावेच प्रमामाह ॥ भुज्यत इति ॥ अन्यैरमुक्तैस्ततोपरः स्वरूपसुखादन्भासोवैषयिकानन्दोभुज्यते । एतत्प्रकरणस्य मुक्तपरत्वे द्वितीयवाक्यस्थमपि ज्ञापकमाह ॥ जितलोका इति ॥ जितलोकाः प्राप्तब्रह्मज्ञाना इत्यर्थः । ज्ञानसामान्यजयस्य चेतनमात्रसाधारणत्वेनावक्तव्यत्वात्‌ । गन्धर्वलोक अनन्द इत्यस्य गन्धर्वलोकेस्थितानामानन्द इति संसारिपरत्वप्रतीति निरासाय तदपिमुक्तज्ञापकं यथास्यात्तथाव्याचष्ये ॥ गन्धर्वेति ॥ ब्रह्मति योग्यतयासम्बन्धः । अनेन प्रजापतिलोक इति प्रह्मलोक इत्येतच्चव्याख्यातम्‌ । ननु जितलोका इत्यतत्कथं मुक्तत्वाज्ञापकं जीवन्मुक्त्यवस्थायामपि ब्रह्मज्ञानजयसद्भावात्‌ । अत एव ब्रह्मज्ञानेमुक्तावितिचकथं व्याख्यानमित्यतस्तदुपपादयति ॥ तदाहीति ॥ मुक्त्यवस्थायामित्यर्थः । अन्यदातुतिरोभावादेः सम्भवात्‌ मुख्येसत्यमुख्यग्रहणायोगादिति भावः । लोकशब्देनात्रज्ञानमेवविवक्षितमिति कुतः प्रसिद्धलोकार्थत्वेबाधकाभावादित्यत आह ॥ एष इति ॥ आदिशब्देन एशषोस्य परमोलोक इति पूर्ववाक्यस्य एष ब्रह्मलोक इत्युत्तरवाक्यस्य च ग्रहणम्‌ । नच तत्रापि विवादः कर्तव्यः । ब्रह्मलोक इत्यस्य लोकनाल्लोकोज्योतीरूपं ब्रह्मैवेति परमोलोक इत्यस्य लोकनाल्लोकः स्वयं ज्योतिः स्वभाव इति त्वयाव्याख्यातत्वात्‌ । अथयेशतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दोयश्ऱ्च श्रोत्रियोऽवृजिनोकामहत इति वाक्यं परैरेवं व्याख्यतम्‌ । येशतं कर्मदेवानामानन्दाः सएक आजानदेवानामाजानत एवोत्पत्तित एव येदेवास्ते आजानदेवास्तेषामानन्दः । यश्ऱ्चेश्रेत्रियोऽधीतवेदः अवृजिनः पापरहितः अकामहतोन कामहत आजानदेवानन्दावधिभूतपूर्वानन्देषु वितृष्णः एवं भूतस्याप्याजानदेवैः समान आनन्दः इत्यन्वाकृष्यते च शब्दादिति । तदेतदसत्‌ वाक्यभेदकल्पनाप्रसङ्गात्‌ । आजानदेवानन्दावधिभूतपूर्वानन्देष्वित्यस्याश्रुतस्य कल्प्यत्वात्‌ । वितृष्णत्वरूपाथर्स्याकामशब्देनैव लाभाद्धतशब्दवैयर्थ्याच्च । विरक्तानां सवर्त्रकामाभावात्तारतम्योक्त्यनुपपत्तेश्ऱ्च । नचाजानदेवपदकाम इति विवक्षितमिति वाच्यम्‌ । अश्रुतकल्पनाप्रसङ्गात्‌ पूर्वं दूषितञ्चैतत्सविस्तरम्‌ । तस्माद्वचनव्यत्यासेनैकमेव वाक्यमिदम्‌ । ततश्रच श्रोत्रियत्वादिकं प्रकृताजानदेवादीनामेव विशेषणम्‌ । तर्हि यश्ऱ्चश्रोत्रिय इत्यादिकं व्यर्थं किमर्थमुच्यत इत्यतस्तदपि मुक्तज्ञापनार्थमेवेति भावेनाह ॥ यश्ऱ्चेति ॥ आजानदेवादीनामपीत्यपिशब्दोदेवोत्तमानामपीति नियमेनानन्दशतगुणोद्रेक सम्भावनायाम्‌ । अन्यदासंसारदशायां कदाचित्‌ चित्तविक्षेपाभावदशायां भवति आनन्दशतगुणोद्रेक इति वर्तते कदाचित्प्रारब्धकर्मफलभोगदशायां श्रोत्रियत्वादि विशेषणविशिष्यानामाजानादीनामानन्दशतगुणोद्रेकः कथ्यते श्रोत्रियत्वादिकं चोक्तवक्ष्यमाणन्यायेन मुक्तानामेव सम्भवति नचामुक्तानाम्‌ । तताच मुक्तानामेवायं नियमोनान्येषामिति ज्ञायत इति भावः । ननु येशतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दः येचश्रोत्रियाः अवृजिना अकामहतास्तेषामिति वाक्ययोजनायां च शब्दो नुपपन्नः स्यात्‌ । चशब्दोह्ययं समुच्चयस्य द्योतकः । देवदत्तोधनिकोयज्ञदत्तश्ऱ्चेति यथा । नचैकविषयतायामेवं युज्यते ।नहि भवति वसिष्ठोरुन्धतीपतिश्ऱ्चेति प्रयोगः । तस्माद्वाक्यभेदमङ्गीकृत्यास्मदुक्तरीतत्यैव व्याख्येयमित्यत आह ॥ चशब्द इति ॥ तताच ये श्रोत्रियाः अवृजिना अकामहताश्ऱ्चेति विशेषणसमुच्चायकत्वान्नदोष इति भावः । ननु विभक्तिवचनव्यत्यासेनश्रोत्रियाणामवृजिनानामकामहतानां चाजानदेवानामिति योजनोपपत्तौ य इति विशेषणं व्यर्थम्‌ । नच यच्छब्द्य बुद्धिस्थवाचकत्वान्मुक्तानांचात्र बुद्धिस्थत्वात्तत्स्वीकारार्थं तदिति वाच्यम्‌ । श्रोत्रियत्वादिविशेषणबलादेवतत्सिद्धेरित्यत आह ॥ मुक्तस्यैवेति ॥ एते श्रोत्रियत्वादयोगुणाः मुक्तस्यैव भवन्ति नान्यस्येति वस्तुगतिप्रदर्शनोत्यर्थः । मुक्तस्यैवैतेगुणाभवन्तीत्यत्र प्रमाणमाह ॥ सर्वमिति ॥ हि यस्माचछ्रोत्रियत्वं प्राप्तश्रुतिफलत्वं श्रुतिफलं च मुक्तिस्तद्गतानन्दातिशयश्ऱ्च तत्सर्वं मुक्तैरेवप्राप्यं अतो मुक्त एवमुख्यतः श्रोत्रियः अन्योऽमुक्तः मुख्यतः प्राप्त श्रुतिफलत्वाभावात्‌ मुख्येस्तयमुख्यग्रहणायोगादित्यर्थः । यद्यपि श्रोत्रियशब्दः छन्दोधिगतिनिमित्तोवगतः यथाह श्रोत्रियं छन्दोदीत इति । तथाप्यत्रपुरुषार्थप्रकरणत्वात्‌ विशेषप्रमाणोक्तत्वाच्चायमेवार्थोग्राह्यः । अवृजिनत्वं चादुःखित्वं वृजिनन्दुः खमित्युक्तेः तच्चमुक्तस्यैवेत्यर्थः । कामैरहततातस्यैवेति सम्बन्धः । तत्कुत इत्यतः कामहतशब्दार्थं तावदाह ॥ य इति ॥ उक्तमनुवदन्निमित्तान्तरमाह ॥ काम्याप्राप्तेरिति ॥ पापात्कामाच्चनिषिद्धकामाच्चेत्यर्थः । किंतत इत्यत आह ॥ उभयस्येति ॥ एतेन येकेचिदेकवाक्यतामङ्गीकृत्यापि प्रकृतामुक्ता जानदेवविषयमेव यश्ऱ्चश्रोत्रिय इत्यादिवचनमिति व्याचक्षते तेपि

?Rनिरस्ताभवन्ति । उक्तरीत्यामुक्तेषु श्रोत्रियत्वादीनामसम्भवात्‌ । विषयवैराग्योपेतत्वादकामहत इति व्याख्यानेहतशब्दवैयर्थ्याच्च

?R। अत्रोत्रियत्वादिविशिष्याजानदेवाद्यभावेन व्यावर्त्याभावात्‌ व्यर्तत्वाच्च । नेदं श्रोत्रियत्वादिकं विशेषणं किन्त्वाजानदेवानां कर्मदेवेभ्यः शतगुणोद्रिक्तानन्दवत्त्वेहेतुरनेनोच्यत इति चेन्न । सर्वत्रापि विद्यमानस्य श्रोत्रियत्वादेः हेतुत्वायोगात्‌ । नच कर्मदेवेभ्योप्यतिशयेनश्रोत्रिया अवृजिना अकामहताश्ऱ्चय इत्रत व्याख्यायत इति वाच्यम्‌ । अश्रुतकल्पनाप्रसङ्गादिति । नन्वनुव्याख्याने अथयेशतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दोयश्ऱ्चश्रोयियोवृजिनोकामहत इत्यत्र वाक्यभेदमङ्गीकृत्याद्यं वाक्यममुक्तपरं द्वितीयं मुक्तपरमिति व्याख्यातम्‌ । यथोक्तं तस्मादमुक्तसुखगं तारतम्यं पृथक्‌ पृथक्‌ । उक्त्वायश्ऱ्चेति मुक्तानां तारतम्यं सुखेश्रुतिः । आहेतिपेशलमिति । तत्कथमत्रैकवाक्यमङ्गीत्यमुक्तमात्रपरं व्याख्यायते इति चेत्‌ न । अयमभिप्रायोभाष्यकारस्य सर्वथाऽनुव्याख्यानोक्तरीत्यावाक्यद्वयमेवेदं भिन्नविषयम्‌ । ततासति मुक्तामुक्तयोरुभयोरपि तारतम्योक्तिलाभात्‌ । वाक्यभेद ज्ञापकचशब्दसद्भावाच्च । उक्तञ्च । तच्चचशब्दादेवगम्यत इति वचनव्यत्यासादेरनाश्रयणीयत्वाच्च । एकवाक्यताश्रद्धयामप्यक्तिरीतयामुक्तमात्र विषयमस्तुवचनव्यत्यासश्ऱ्चशब्दोभिन्नक्रमश्ऱ्चेत्यनुपपत्त्यल्पत्वात्‌ । नतु परोक्तप्रकारेणामुक्तमात्रविषयं तत्रोक्तरीत्या अनुपपत्तिबाहुल्यात्‌ । द्वितीयापव्याख्यानेवचनव्यत्यासादेः साम्याच्चेत । आजानत एवोत्पत्तित एव येदेवास्ते आजानदेवा इति व्याख्यानमसत्‌ । आगन्तुकदेवत्वाभावेन व्यर्थत्वात्‌ तस्मादनाख्यातादेवकुतलेजाता एवाजानदेवा इत्युच्यन्त इति कश्ऱ्चित्‌ तदप्यसत्‌ । कर्मदेवावराणशन्तेषां कर्मदेवोत्तमत्वोक्त्यसम्भवादिति भावेनाजानदेवशब्दार्थमाह ॥ आजानेति ॥ जानाजातास्तेभ्य आसमीचीनावरा आजानास्ते च तेदेवाश्ऱ्चाजानदेवा इत्यर्थः । ननु यदियश्ऱ्चश्रोत्रिय इत्यादेः मुक्तज्ञापकत्वं तर्हि स एकः प्रजापतिलोक आनन्दः स एको ब्रह्मलोक आनन्द इति वाक्यद्वये यश्ऱ्चश्रोत्रिय इत्येतद्वयर्थं स्यात्‌ । गन्धर्वलोकेगन्धर्वाणां ब्रह्मज्ञानेमुक्तावित्युक्तरीत्याप्रजापतिलोकब्रह्मलोकपदाभ्यामेवप्रजापतिब्रह्मणोः मुक्तत्वसिद्धेरित्याशङ्कयाह ॥ प्रजापतीति ॥ ब्रह्मलोक इत्युक्तेरेवमुक्तब्रह्मसिद्धावित्यपि ग्राह्यम्‌ । अयं विशेषः श्रोत्रियत्वादिरूपः । एतेन श्रोत्रियत्वेनैवमुक्तत्वासिद्धेरन्यद्वयर्थमित्यपि निरस्तम्‌ । स्वरूपकथनाय तदुपपत्तेः । ननु मुक्तस्यैवायं विशेष इति कथं उपचरित श्रत्रियत्वादेरमुक्तस्यापि सत्वात्‌ । नचोक्तरीत्यानुपचरितश्रोत्रियत्वादिकं मुक्तस्यैवेति वाच्यं तताप्यनुपचरितश्रोत्रियत्वादिकमेव श्रुतौ विवक्षितमित्यत्रज्ञापकाभावादिति चेत्‌ न । मुख्येसत्यमुख्यग्रहणायोगस्यैव तज्ज्ञापकत्वात्‌ । मापकान्तरं चाह ॥ अनुपचरितेति ॥ यद्वा नन्वेकत्रोक्तस्यैव सर्वत्रानुवर्तनेन मुक्स्वरूपमेतादृशमिति ज्ञातुं शक्यत्वात्किमर्थ६ यश्ऱ्च श्रोत्रिय इति पुनःपुनर्वचनम्‌ । अन्यथासर्वत्र तदुक्तिप्रसङ्गादित्यत आह ॥ अनुपचरितेति ॥ अभ्यासोहितात्पर्याधिक्यलिङ्गम्‌ । अधिकतात्पर्यविषय्वादस्यार्थस्यानुचरितत्वं सिध्यतीति भावः । प्रयोजनान्तरमाह ॥ सर्वेषामपीति ॥ कस्यचिन्मुक्तस्यैव मासीदितीतिहासरूपेणनोच्यते किन्तु सर्वेषामप्येवमिति ज्ञापनार्थमित्यथर्ः । यथोक्तं पुरस्तात्‌ । सर्वव्यक्तिष्वभिव्याप्त्यैतात्पर्याधिक्यवित्तये पुनः वचनमुद्दिष्यमिति । प्रजापति लोकेविराट्‌शरीरे ब्रह्मलोकेहिरण्यगर्भात्वावस्थापन्नस्य शतगुणानन्दवत्त्वं प्रामाणिकं प्रजापतिशब्दस्येव विराट्‌शरीरवाचकत्वस्य ब्रह्मशब्दस्यैव हिरण्यगर्भवाचकत्वास्य चोपपत्तौ लोकशब्दवैयर्थ्याच्च । तस्मात्तेभ्यश्ऱ्चोमापतेरित्युक्तरीत्याप्रजापतिशब्द उमापतिपर इत्येवक्तव्यम्‌ । तदपिकथमित्यतः प्रजापतिशब्दमुमापतौ निर्वक्ति ॥ प्रजा इति ॥ अथैष एव परमानन्द एष ब्रह्मलोक इत्यस्य एष एव ततो विष्णुः पूर्णानन्द इति परमात्मपरत्वेन व्याख्यानमसत्‌ । तस्याप्रकृतत्वेनैष इति तत्परामर्शयोगात्‌ । नचै तस्यैवानन्दस्येत्यत्र सोपि प्रकृत इति वाच्यम्‌ । स एको ब्रह्मलोक इति पूर्ववाक्येब्रह्मलोकशब्दोक्तहिरण्यगर्भात्मन एवैष ब्रह्मलोक इत्येन न परामर्शप्रतीत्यादूरोक्तपरमात्मपरामर्शायोगादित्यत आह ॥ अथेति ॥ एष ब्रह्मलोक इति द्वितीयब्रह्मलोकशब्दस्य न पूर्वोक्तहिरण्यगर्भपरत्वं वक्तुं युक्तं तथासति प्रकरणविच्छेदकाथशब्दायोगात्‌ एष ब्रह्मलोक इति विशेषणायोगाच्च । नहि एष हिरण्यगर्भोब्रह्मलोकोहिरण्यगर्भात्मेत्युपपन्नम्‌ । किन्तु परब्रह्मपत्वमेव । तथासति तयोरुपपन्नत्वादित्यर्थः । यत्प्रजापतेरपि शतगुणानन्दोब्रह्मा अथ तस्मादेष एव परमानन्द इत्यथशब्दोहेत्वर्थत्वनोपपद्यत इति चेन्न । अथ येशतं मनुष्‌याणामानन्दा इत्यादाविवात्राप्यथशब्दस्य प्रकरणविच्छेदार्थकत्वस्यावश्यकत्वात्‌ । ननु यत्रानन्दोत्कर्षतारतम्यं विश्रान्तमेवष ब्रह्मलोकोहिरण्यगर्भात्मापरमानन्द इति व्याख्यानान्नैष ब्रह्मलोक इत्यस्य वैयर्थ्यमित्यत आह ॥ अन्यथेति ॥ पूर्वेण एष एवेत्यनेन प्रकृतपरामर्शसिद्धः द्वितीय एष इतिशब्दोऽनर्थकः स्यादित्यर्थः । नच युष्मद्रीत्यावाक्यभेदमङ्गीकृत्यैष एव हिरण्यगर्भः परमानन्द एष हिरण्यगर्भोब्रह्मलोकः पूर्णमान इति वा एष हिरण्यगर्भोब्रह्मरोकः ज्योतीरूपब्रह्मस्वरूप इति वा व्याख्यायत इति वाच्यम्‌ । निरूपचरितपरमत्वस्य पूर्णत्वस्य च

?Rविष्णोरन्यत्राभावात्‌ हिरण्यगर्भात्मनोब्रह्मस्वरूपत्वस्य सर्वप्रमाणविरुद्धत्वाच्चेति भावः । पुनः प्रयुक्त इति शेषः । तेन

?Rसमानकर्तृता । परब्रह्मैवोच्यत इत्यत्र हेतुत्वन्तरमाह ॥ तस्यैवेति ॥ सलिल एकोद्रष्याद्वैतेभवति एष ब्रह्मलोकः सम्राडिति पूर्वं ब्रह्मलोकशब्देन तस्यैव परब्रह्मण एव श्रवणाच्चेत्यर्थः । यद्वा ब्रह्मलोकशब्देन पूर्णज्ञानप्रतिपादकशब्देनेत्यर्थः । तथाचैष ब्रह्मलोक एषोस्य परमोलोक इत्युभयमादायाभ्यासोद्रष्यव्यः । यद्वा सलिल एकोद्रष्यद्वैतोभवति एष ब्रह्मलोक इति पूर्ववाक्यगतं विपापोविरजोविचिकित्सोब्राह्मणो भवति एष ब्रह्मलोकः सम्राडित्युत्तरब्राह्मणस्थवाक्यगतं च ब्रह्मलोकशब्दमादयाभ्यासः । ननु तेयेशतं मानुषा आनन्दाः स एको मुनुष्यगन्धर्वाणामानन्दः तेयेशतं मनुष्यगन्धर्वाणामानन्दः स एकोदेवगन्धर्वाणामाननदः तेयेशतं देवगन्धर्वाणामानन्दाः सएकः पितॄणां चिरलोकलोकानामानन्द इति तैत्तिरीयश्रुतौ क्षितिपामनुष्यगन्धर्वादेवाश्ऱ्चपितरश्ऱ्चिरा इति श्रुत्यन्तरेचमनुष्यपदवाच्य चक्रवर्तिभ्योमनुष्यगन्धर्वाणां तेभ्योदेवगन्धर्वाणां तेभ्यः पितॄणां शतगुणानन्दत्वमुक्तं । क्वचित्तुचक्रवर्तिभ्य एव देवगन्धर्वाणशं शतगुणानन्दत्वमुक्तम्‌ । अत्रतु चक्रवर्तिभ्य एव पितॄणां शतगुणानन्दत्वमुच्यते । अतो विरोध इत्यस्तं परिहरति ॥ नचेति ॥ कुत इत्यतः शतशब्दार्थं तावदाह ॥ शतशब्दस्येति ॥ तथापि विरोधपरिहारः कथमित्यत आह ॥ अत इति ॥ तथाच यत्र देवगन्धर्वाणामेवचक्रवर्तिभ्यः शतगुणानन्दत्वमुच्यते तत्र शतशब्दोऽयुतार्थः अत्रदिशलक्षार्थक इति न विराध इति भावः । एतेनैतदपि निरस्तं श्रुत्यन्तरे इन्द्रादिभ्यः पार्वत्यादीनां ततो रुद्रस्य ततः सरस्वत्याः ततो ब्रह्मणः शतगुणानन्दवत्त्वोक्कथमत्रेन्द्राद्याजानदेवेभ्यः प्रजापतेस्तस्माद्ब्रह्मणः शतगुणानन्दत्वमुच्यत इति । येशतमाजानदेवानामानन्दा इत्यत्र येशतं प्रजापतेरानन्दा इत्यत्र च शतशब्दस्यायुतवाचित्वात्‌ । ननु तैत्तिरीयादि श्रुतौ पितॄणां गन्धर्वापेक्षा आधिक्यमुक्तं अत्रतु पित्रपेक्षयागन्धर्वाणामतोविरोधात्कथमेतदुक्तमित्यत आह ॥ उत्तमेति ॥ तुम्बुरुप्रमुखाणशं गन्धवाणां आजानदेवतासमत्वेन पितृभ्यस्तेषामाधिक्यं युज्यत इत्यर्थः । यथोक्तं तुम्बुरुप्रमुखायेचेत्यादि । नन्वत्राजानदेवानां कर्मदेवोत्तमत्वमुच्यते तैत्तिरीयादिश्रुतौ तु कर्मदेवावरत्वमित्यतो विरोध इत्यत आह ॥ आजानदेवेभ्य इति ॥ तैत्तिरीयादिश्रुतौ हि आजानजानां देवानामिति पाठः अत्र त्वाजानदेवानामित्येव । तथाच अत्रोक्तानां जातेभ्योवराणां आजानदेवानामिन्द्रादीनां कर्मदेवोत्तमत्वेपि तत्रोक्तानामाजानदेवेभ्य इन्द्रादिभ्योजातानामनाख्यातानां कर्मदेवावरत्वं युज्यत इति न विरोध इति भावः । ननु यत्रवाक्य आजानजा इत्येवकर्मदेवानामुपरिपाठस्तद्वाक्यस्य तैत्तिरीयादि श्रुतिविरोधः स्यादेव । तत्राजानजानां कर्मदेवावरत्वेनोक्तत्वादित्यत आह ॥ यत्रेति ॥ B-30

?Rस्यादयं विरोधः यदि तैत्तिरीयादि श्रुतौ आजानजशब्दोक्ता इन्द्रादि देवेभ्योजाता अनाख्‌यातादेवा एवात्रोच्येरन्‌ नचैवम्‌ । किं नाम आजानेभ्योजातेभ्योवरेभ्योब्रह्मादिभ्योजाता इन्द्राद्या एवाजानजशब्देनोतच्यन्ते । तेषां च कर्मदेवोत्तमत्वं सम्भवतीति न विरोध इति भावः ।ननु तैत्तिरीयादि श्रुतौ देवेभ्य इन्द्रस्येन्द्राद्बृहस्पतेस्तस्माच्चप्रजापतेः शतगुणानन्दत्वमुक्तं अत्रतु आजानशब्दवाच्येभ्योदेवाभ्य एव प्रजापतेः शतगुणानन्दत्वमतोविरोध इत्यत आह ॥ इन्द्रेति ॥ तैत्तिरीयवाक्यस्य विशेषवचनत्वादस्यच सामान्यवचनत्वात्तत्रोक्तविशेषोत्राप्यङ्गीकार्य एवेत्यर्थः । विशेषवचनोक्तमपि सामान्यवचनेकुतो ग्राह्मयमिति चेत्वशेषवचनस्य सामान्यवचनापेक्षया बलवत्त्वात्‌ । प्रबलानुसारेणदुर्बलस्य नेयत्वादिति भावेन विशेषवचनस्य सामान्यवचनाद्बलवत्त्वेप्रमाणमाह ॥ सामान्येति ॥ वैशेषिकात्तत्तदाश्रमोचितदर्मात्‌ जपोपदेशादिरूपात्‌ सामान्यधर्मः सर्ववर्णसाधारणधर्मोविष्णुभक्त्यादिरूपोयथाबलवांस्तथासामान्यवचनात्‌ विशेषवचनं बलवदिति सम्बन्धः । ननु तैत्तिरीय श्रुतौ इन्द्रवरस्य बृहस्पतेरिरिन्द्रोत्तमत्वमुच्यते तत्कथं तत्रोक्तोविशेषोङ्गीकायर् इत्याशङ्कां परिहरन्‌ अशेषमुक्ततारतम्यप्रतिपादकप्रमाणमाह ॥ नृपा इति ॥ देवाः देवगन्धर्वाः देवैराजानजैः सहितगन्धर्वा इति केषाञ्चिद्गन्धर्वाणामाजानजसमत्वोक्त्योत्तमगन्धर्वोपेक्षयेत्युक्तमपि प्रमापितं इन्द्र इत्यनुवादेन बृहस्पतिरिति व्याख्यातम्‌ । तथा बृहस्पतिरित्यनुवादेन प्रधानेन्द्र इत व्याख्यातं प्रदानेन्द्रशब्देन यज्ञानामकेन्द्रप्रतीति निरासाय पुरन्दर इत्याह । ननु जनकेनातऊर्ध्वं विमोक्षायब्रूहीत्येकवारं पृष्येपि विशिष्यमोक्षसाधनं याज्ञवल्क्यो वक्ष्यत्वेवकिमर्थं पुनः पुनः प्रश्ऱ्नकरणमित्यत आह ॥ अद्धेति ॥ याज्ञवल्क्यदत्तादिति शेषः । अत्र हयाज्ञवल्क्यो बिभयाञ्चकारेत्युक्तं याज्ञवल्क्यस्य पुनः पुनः प्रश्ऱ्नकरणनिमित्तकं भयं स्वस्य तत्परिहारासामर्थ्यादिति प्रतीयते तां परिहर्तुं भयनिमित्तमाह ॥ रहस्यमिति ॥ राज्ञः सुमेधया भूत इति सम्बन्धः । सवर्ेभ्यो मां तेभ्यः उदरौत्सीदिति तेभ्नय इति कस्य परामर्शः । अव्यधानेन कस्याप्यप्रकृतत्वादित्यतः पूर्वाध्यायेप्रश्ऱ्नकतर्ृत्वेन प्रकृताश्ऱ्वालदिपरामर्श इति भावेनाह ॥ तेभ्य इति ॥ 33 ॥ ननु सवाएष एतस्मिन्निति पूर्वोक्तमेवपुनः किमर्थमुच्यत इत्यतस्तत्र प्रमाणमुदाहृत्यपुनर्वचनकृत्यामाह ॥ सर्वदेति ॥ एवं

?Rनियमविज्ञाप्तिरपि किमर्थेत्यत उक्तम्‌ ॥ जीवेति ॥ परिवृत्तिं परिवर्तनम्‌ ॥ 34 ॥

?Rतद्यथाऽनःसुसमाहितमुत्सर्जद्यायादित्यत्रोत्सर्जनक्रियायाः सकर्मत्वादत्र कर्मानुक्तेस्तद्दर्शयति ॥ ग्रामादिकमिति ॥ अनेन उत्सर्जत्‌ नानाविधं शब्दं कुर्वदिति व्याख्यानमपदार्थतयानिरस्तं प्रमाणविरुद्धत्वाच्चतन्नयुक्तमिति भावेन समग्रवाक्यव्याख्यानरूपं प्रमाणमाह ॥ यथेति ॥ सुसमाहितमित्यस्यार्थः पुमधिष्ठितमिति ॥ 35 ॥ सयत्रामणिमानं न्येतीत्यस्य सोयं देह अणिमानं कार्श्यं यदान्येति गच्छ्वति तदोर्ध्वोच्छ्वासीभवतीति व्याख्याननिरासायाणिमशब्दार्थमाह ॥ अणिमानमिति ॥ अणिमशब्दस्य भगवद्वाचकत्वे श्रुतिमाह ॥ स इति ॥ मरणकाले जीवोभगवन्तं गच्छतीति वाक्यार्थेसमाख्यामप्याह ॥ तेज इति ॥ तेजः श्रीः परस्यां देवतायां सम्पद्यते श्रिया(सह)भगवन्तं प्राप्नोतीत्यर्थः । यद्वा सय एषोणिमेत्यत्र पुरुषं सोम्योपतापिनं ज्ञातयः पर्युपासत इति पूर्वोक्तजीवपरामशर् एव किं न स्यादिति चेन्न । तेजः परस्यां देवतायामित्यव्यवतिपूर्ववाक्यपकृतपरदेवतापरामर्शस्यैव ग्राह्यत्वादिति भावेनाह ॥ तेज इति ॥ उपतपतेत्यस्य पुरुषपरत्वेन्वयासम्भवात्तदनूद्य व्याचष्ये ॥ उपतपतेति ॥ उपतापयतीत्युपतपन्निति उपतपतेत्यनेनरोगादिकमुच्यत इत्यर्थः । तद्यथाम्रं औदुम्बरं वा पिप्पलं वेति दृष्यान्तत्रयाभिदानं किमर्थमित्यतस्तदभिप्रायमाह ॥ आम्रमिति ॥ प्राणायैवेत्यस्य शरीरान्तरग्रहणायेति व्याख्याननिरासाय तदनूद्यपुनः प्रतिन्यायं प्रतियोन्याऽऽद्रवति प्राणायैवेति वाक्यव्याख्यानरूपप्रमाणमेवाह ॥ प्राणायैवेति ॥ वायुमेवार्चिरादिमार्गगतं मुख्यवायुमेव । ननु वायुं प्रतदानीमेवाद्रवणाच्छतौ पुनः प्राणायैवाद्रवतीति कथमुक्तमित्यत आह ॥ तदनुज्ञयैवेति ॥ यतो वाय्वनुज्ञयैव जीवस्य ज्ञानित्वं जातम्‌ । अतो चिर्रादिमार्गस्थवायुं प्रत्याव्रजनं पुनराव्रजनमित्यर्थः । तदेवविवृणोति ॥ सर्वेपीति ॥ सर्वेजान्ते ज्ञानिनश्ऱ्चभवन्तीति शेषः । ज्ञानिनोऽखिला इत्यस्योत्तरत्रापि सम्बन्धः ॥ 36 ॥ एवंविदं संसारिणं सर्वाणिभूतानि शरीरारम्भकाणि प्रतिकल्पन्ते प्रतीक्षन्ते स्वात्मनिदेहाकारेणपरिणते सति तत्राऽऽत्माभिव्यक्तिमाकाङ्क्षते । कथं इदं ब्रह्माभिन्नं भोक्तृकतर्ृचायातीदमागच्छतीति व्याख्यानमसदिति भावेनेदं ब्रह्मायातीदमागच्छतीति वाक्यं व्याचष्ये ॥ इदमिति ॥ एवं सत्ययमायात्ययमागच्छतीति दृष्यान्तवाक्यानानुगुण्यं स्यादित्यतस्तदपि यथावद्वयाचष्ये ॥ यथेति ॥ परोक्त एवार्थः किं न स्यादिति चेत्‌ अचेतनानां शरीरारम्भकमूतानामुक्तप्रकारप्रतीक्षासम्भवात्‌ । बाधकान्तरमाह ॥ अन्यथेति ॥ अयमायातीत्ययमागच्छतीति दृष्यान्तवाक्येपि द्विरुक्तिर्व्यर्थास्यादित्यपि ग्राह्यम्‌ । नन्वादरार्थं वीप्सात्वोपपत्तेः नद्विरुक्तिवैयर्थ्यमित्यत आह ॥ वीप्सात्वेति ॥ इदं ब्राह्मायातीत्येकप्रकारेण शब्दाभ्यासः स्यादित्यपि द्रष्यव्यम्‌ । आदरार्तं वीप्सात्वे एकप्रकारएव शब्दानामभ्यासोभवेदित्यत्र प्रमाणमाह ॥ एकेति ॥ तुशब्दएवार्थः । आदिपदेन पदग्रहणम्‌ अपितस्यैकार्थप्रतिपादकतयाप्रतीयमानत्वेपीत्यर्थः । वाक्येवीप्सापदेचैकप्रकाशब्दानामभ्यासत्वादरार्थक इति सम्बन्धः । प्रातिस्विकार्थेस्थितेभ्यासेपि तथावातथैवभवेत्‌ । यथाऽन्नमयादिषुपञ्चसुवर्तमानोब्रह्मशब्दः । आदरार्थमिदं पुनर्वचनमित्यङ्गीकारे आगमविरोधमभिधायलौकिकप्रयोगोपि तथानास्तीत्याह ॥ नचेति ॥ अन्तरितप्रयोगस्तु द्विरूपोदृष्यः यथाकदाचिन्मैत्र आयात्विति अन्यदात्वागच्छत्विति अतोऽनन्तरित इत्याह । नन्विदं मुक्तजीवस्वरूपमिति व्याख्यानमयुक्तम्‌ । सर्वेषां भूतानां मुक्तजीवस्वरूपदर्शनाभावात्‌ । नच सर्वाणिभूतानीति सवर्भूतशब्दोदेवपरः ततासति देवानाममुक्तजीवसहागत हरिदशर्नस्यापि सत्वेनेदं मुक्तजीवस्वरूपमिति मुक्तग्रहणायोगादित्यत आह ॥ यदेति ॥ स्वकृतव्याख्यानदार्ढ्याय तद्यथाराजानमायान्तमित्यादि श्रुतिव्याख्यानरूपं प्रमाणमाह ॥ यथेति ॥ स यत्रायमणिमानं न्येतीत्युक्ताणिमशब्दस्य कार्श्यार्थत्वेबाधकं सूचयन्‌ भगवदर्थत्वं युक्त्याद्रढयति ॥ तस्मादिति ॥ सर्वगतस्य ब्रह्मणः कथमणिमत्वमिति शङ्कानिरासायजीवगतमित्युक्तम्‌ । यस्मादुक्तप्रकारेणदं ब्रह्मयातीत्युत्तरवाक्येजीवगतं ब्रह्मैवोच्यते तस्मात्सयत्राणिमानमिति पूर्ववाक्येप्यणिमशब्देन जीवगतब्रह्मैवोच्यते अन्यथोत्तरवाक्ये इदं ब्रह्मेति प्रकृत परामर्शकेदं शब्दानुपपत्तेरिति भावः । नु दह्यमानगेहान्तर्गतस्य दाहवज्जीवस्योपतापादिके सति तदन्तर्गत ब्रह्मणोपि स्यादित्यत आह ॥ जीवेति ॥ अग्निस्तं भनवतो ददाहाभाववत्‌ सामर्थ्यवैशेष्‌योणजीवगतस्यापि ब्रह्मणोजीवोपतापादिकं नैव भवतीत्यर्थः । तद्यथा राजानं प्रयियासन्तमित्यादि वाक्यं मरणकालेगच्छन्तं जीवमनुवागादिप्राणाः समायान्तीति प्रतीतिनिरासाय तत्प्रमाणेन व्याचष्ये ॥ जीवमिति ॥ गच्छन्तं विष्णुमित्यन्वयः ॥ 37 ॥ उग्राः क्रूरकर्माणः प्रत्येनसः पापिष्ठशासकाग्रामण्योग्रामनेतार इत्यन्यथाप्रतीतिनिरासायोग्रादिशब्दार्थमाह ॥ उग्रास्त्विति ॥ श्रेणयः प्रधानाः । ननु तद्यथाराजानमायान्तमुग्रा इत्यादिनोग्रादीनां राजागमनेतत्पूजाकल्पकत्वमुक्तं इदानीं तेषां राज्ञासह गमनमुच्यते अतो विरोध इत्यत आह ॥ तेसर्व इति ॥ द्वैविध्यमेव दर्शयति ॥ राज्ञेति ॥ किमुग्रादयः परस्परं समाः नेत्याह ॥ ते सर्व इति ॥ ननु जनपदस्थोग्रादिस्थानीयाः

?Rराजसहस्थितोग्रोदिस्थानीयाश्ऱ्च देवा एव अतोदृष्यन्तानानुगुण्यमिथ्‌टथशष धषत्तशश्रशज्ञत्रफ द्वैविध्यमाह ॥ अनुयान्तीति ॥

?R38 ॥ ततश्ऱ्चायखण्डर्थः ॥ जनकं वैदेहं प्रति याज्ञवल्क्योजगाम । किमर्थं एनेनानेनजनकेन राज्ञासंदिष्येसंवादं करिष्ये इति संवादकामुकतया वैदेहं प्रत्येवगमनेनिमित्तमाह ॥ अथेहेति ॥ जनको वैदेहश्ऱ्चयाज्ञवलक्यश्ऱ्चेतावग्निहोत्रे अग्निहोत्र विषये यद्यदासमुदाते संवादं कृतवन्तौ तदाराज्ञोऽग्निहोत्र विषयमति विशदं ज्ञानमुपलभ्य सन्तुष्योह याज्ञवल्क्यस्तस्मैराज्ञे वरं ददौ । स राजा कामप्रश्ऱ्नमेवेच्छाप्रश्ऱ्नमेव वरं वव्रे । नत्वैश्ऱ्वर्यादिकं हेत्याश्ऱ्चर्ये । तं राज्ञायाचितं कामप्रश्ऱ्नवरमस्मैराज्ञे ददौ याज्ञवल्क्यः । हेति याज्ञवल्क्यस्य कामप्रश्ऱ्नपरिहारसामर्थ्यं प्रसिद्धमिति सूचयति । यद्यस्मादेवं पूर्वं जनकाय कामप्रश्ऱ्नवरं ददौ याज्ञवल्क्योऽथहतस्मादेवजनकं प्रति संवादकामुको जगामेत्यर्थः । यद्यपि तव पूर्वं कामप्रश्ऱ्नवरोमयादत्त स्त्वत्पृष्यं च वक्तुमिदानीमागतोस्मि त्वया यथेष्यं प्रष्यव्यमिति याज्ञवल्क्यवचनानन्तरमेव राज्ञाप्रश्ऱ्नः कर्तव्यस्तथापि औत्सुख्यात्सम्राडेव पूवर्ः पूर्वं पप्रच्छ ॥ 1 ॥ किमिति याज्ञवल्क्य अयं पुरुषः संसारी किं ज्योतिः यस्यासौकिं ज्योतिरिति । अस्य पुरुषस्य प्रवृत्त्यादिव्यापारेस्वयमसमर्थत्वेन किञ्चित्‌ ज्योतिरपेक्षितं तत्किमित्यर्थः । एवं पृष्यो याज्ञवल्क्योहे सम्राडयं पुरुषः आदित्य एव ज्योतिः यस्यासावादित्यज्योतिरित्युवाच हेत्यादित्यज्योतिष्ट्वं जीवस्य प्रसिद्धमित्याह आदित्यज्योतिष्ट्वमेवोपपादयति ॥ आदित्येनैवेति ॥ यस्मादयं पुरुष आदित्येनैवज्योतिषाऽऽस्ते तिष्ठति उपविशति वा पल्ययते ग्रामादिकं प्रति गच्छति तत्र कर्मकुरुते विपल्येति पुनः प्रत्यावर्तते तस्मादयमादित्य ज्योतिरित्यर्थः । दिवाबाह्यज्योतिष्वादित्यस्य प्राधान्यापेक्षयैवशब्दो नतु ज्योतिरन्तराभावाभ्रिप्रायेण दिवापि वागादीनां सत्वात्‌ । एवं याज्ञवल्क्योक्तं राजाङ्गीकृतवानित्याह ॥ एवमेवेति ॥ हे याज्ञवल्क्यै तत्त्वयोक्तमेवमेव ॥ 2 ॥ तथापि आदित्यास्तमयेपि पुंप्रवृत्तिदर्शनादादित्येस्तमितेसत्ययं पुरुषः किं ज्यातिरेव आदित्यस्यास्तमयात्पुंप्रवृत्तिहेतुभूतं ज्योतिः किमेवस्यादित्यर्थः । अस्य पुरुषस्य आदित्यास्तमयादिकाले चन्द्रमा एव ज्योतिर्भवति । तदेवोपपादयति ॥ चन्द्रमसैवेति ॥ रात्रौ बाह्यज्योतिः षुचन्द्रस्य प्राधान्यापेक्षयाऽवधारणम्‌ ॥ 3 ॥ आदित्यचन्द्रमसोरुभयोरप्यस्तमयेपि कृष्णपक्षरात्रौ पुंप्रवृत्तिदर्शनात्तद्धेतुभूतं ज्योतिः पृच्छति ॥ अस्तमित इति ॥ 4 ॥ आदित्यचन्द्राग्नीनामभावेप्यन्धकारेपुंप्रवृत्तिदर्शनात्पृच्छति । अस्तमित आदित्य इति ॥ वागेवेत्यनेनाशब्दो गृह्यते नेन्दियं शब्दस्य ज्योतिष्ट्वमप्रसिद्धं कथमुच्यत इत्यतः तदनुभवारूढं करोति ॥ तस्मादिति ॥ हे सम्राट्‌ तस्माद्वैतस्मादेववाचोपि ज्योतिष्ट्वदेव यत्र यदादित्यचन्द्राग्न्यभावकाले स्वः स्वकीयोपि पाणिः हस्तो न विनिर्ज्ञायते विस्पष्यं न दृश्यते अथ तदाबाह्यज्योतिषोऽभावेन प्रवृत्तिनिरोधे यत्र यस्मिन्प्रदेशे वाक्‌शब्दः उच्चरति तत्र तं प्रदेशं प्रति उपन्येत्येवोपगच्छत्येव अन्यथा तन्नस्यादित्यर्थः ॥ 5 ॥ आदित्यचन्द्राग्निवाचामभावेपि सुप्त्यादौ प्रवृत्तिदर्शनात्तत्र किं ज्योतिरिति पृच्छति ॥ अस्ममित इति ॥ आत्मा भगवानेवास्य ज्योतिः ॥ 6 ॥ जीवदेहेन्द्रियादिविवेके नात्मनोप्रसिद्धेः पृच्छति ॥ कतम इति ॥ जीवदेहेन्द्रियादिभ्योविवेकेनात्मानमाह ॥ योयमिति ॥ यो विज्ञानमयोविज्ञनपूर्णः प्राणेषु इन्द्रियेष्वन्तः हृद्यन्तश्ऱ्चवर्तमानः ज्योतिः जीवस्य बुध्य्यादिद्योतनेन प्रवृत्तिहेतुः पूर्णषड्‌गुणः अयमेवात्मेत्यर्थः । तस्य महिमानमाह ॥ स इति ॥ स आत्मा समानः सन्‌ अविकारात्सदैकप्रकारः सन्‌ उभौलोकौ भूलोकद्युलोकौ जाग्रत्सुषुप्ती वा जीवमादायानुसञ्चरति ध्यायतीव इवशब्दोल्पार्थः । जीवमल्पं ध्यायति लेलायतीवजीवमल्पं ग्राहयति । तस्यैव महिमान्तरमाह ॥ स इति ॥ स आत्मा स्वप्नोभूत्वास्वापकोभूत्वा जीवस्य स्वप्नमानयन्‌ मृत्योरूपाणि बहुपापैकहेतुत्वान्मृत्युरूपात्मकमिमं लोकं जाग्रदाख्यं अतिक्रामतितारयति हि प्रसिद्धम्‌ । यद्वा स आत्मा स्वप्नोभूत्वा अन्तरिक्षलोकान्तर्गतो भूत्वा मृत्योरूपाणिबहुमृत्युरूपात्मकं बहुपापहेतुभूतं चेमंलोकं भूराख्यं अतिक्रामति जीवमन्तक्षिगं कुवन्‌ तारयति ॥ 7 ॥ महिमान्तरमाह ॥ सवा इति ॥ स जीवं प्रति ज्योतिष्ट्वेनोक्तः अयं समानः सन्नित्यादिनोक्तः पुरुषो जायमानोवै । तस्यैव व्याख्यानं शरीरमभिसम्पद्यमान इति जीवगतशरीराभिसम्पत्तिनियामकः सन्‌ पाप्मभिः संसृज्यते जीवेन पापं कारयित्वा तेषां फलदानायता

?Rनि गृह्णातीत्यर्थः । स आत्मा म्रियमाणः न मरणमात्रमत्रविवक्षितं किन्तूत्क्रामन्‌ ऊर्ध्वं गच्छन्‌ मुक्तिं गच्छतन्‌ जीवगतोत्क्रमणनियामकस्सन्‌ पाप्मनोविजहाति जीवकृतपापफलं न ददातीत्यर्थः । यद्वा जीव वैलक्षण्येन भगवज्ज्ञानार्थं जीवस्वरूपमाह ॥ सवा इति ॥ स आदित्यादिज्योतिष्ट्वेनोक्तः अयं आत्मज्योतिष्ट्वेनोक्तः पुरुषः संसारीजीवः जायमानः न घटादिवत्स्वरूपतः किन्तु शरीरमभिसम्पद्यमानः सन्‌ पाप्मभिः संसृज्यते सम्बद्धो भवति । स जीवोम्रियमाणः तस्यैव व्याख्यानमुत्क्रामन्‌ मुक्तिं गच्छन्सन्‌ पाप्मनो विजहातीत्यर्थः ॥ 8 ॥ तस्यात्मनः स्थितिस्थानमाह ॥ तस्यवा इति ॥ तस्यै तस्य पुरुषस्य पूर्णषड्‌गुणस्य द्वे एव स्थाने भवतः । किं ते इदं च परलोकस्थानञ्च भूलोकः स्वर्गलोकश्ऱ्चजाग्रत्सुषुप्तिश्ऱ्चेति

?Rवा । नन्वन्तरिक्षलोकस्य स्वप्नावस्थायावातृतीयस्थानस्य विद्यमानत्वात्कथं द्वे एव स्थाने इत्युक्तमित्यत आह ॥ सन्ध्यमिति

?R॥ तृतीयं स्वप्नस्थानं स्वप्नावस्थाख्यं स्थानमन्तरिक्षलोकाख्यं वा स्थानं सन्ध्यं सन्धौ भवं जाग्रत्सुषुप्तिसन्धौ भूद्युलोकसन्धौ वा भवं अतो न पृथगुक्तमित्यर्थः । तस्मिन्सन्ध्येस्थाने स्वप्नस्थानेऽन्तरिक्षलोके वा तिष्ठन्नेते उभेस्थानेपश्यति । के ते उभेस्थाने इदं च परलोकस्थानं च भूलोकः स्वर्गलोकश्‌चजाग्रत्सुषुप्तिश्ऱ्च न केवलं स्वप्नावस्थायां तिष्ठन्‌ जाग्रत्सुषुप्ती अन्तरिक्षलोके तिष्ठन्‌ द्युपृथिवीलोकौ पश्यति किन्त्वित्यत आह ॥ अथेति ॥ अथ जाग्रत्सुषुप्त्यवस्थादर्शनानन्तरं अयं पुरुषः परमात्मा परलोकस्थाने सुषुप्त्याख्ये जाग्रत्स्थानाद्गन्तव्ये यथाक्रमामः यन्मार्गः भवति तमाक्रमं मार्गं स्वप्नाख्यमाक्रम्यतत्र स्थित्वोभयान्‌ तस्यैव विवरणं पाप्मन आननदाश्ऱ्च जाग्रदवस्थायां जीवेनानुभूयमानानि पापफलानिदुःखानि सुप्तावनुभूयमानानन्दांश्ऱ्च पश्यतीत्यर्थः । तथा परलोकेस्थाने स्वर्गाख्ये पृथिवीलोकाद्गन्तव्ये सति अयं पुरुषो यन्मार्गः तमाक्रमं मार्गमन्तरिक्षाख्यमाक्रभ्योभयान्पाप्मन आनन्दांश्ऱ्च पृथिव्यां अनुभूयमानपापफलानिदुःखानि स्वर्गेनुभूयमानानन्दांश्ऱ्च पश्यतीत्यर्थः । नन्वात्मैवास्य ज्योतिः भवतीत्युक्तं जीवस्यात्मज्योतिष्ट्वं कदा आदित्यचन्द्राग्निवाचामभावकाले इति चेत्‌ साप्यवस्थाकेत्याशङ्कां परिहयन्नाह ॥ सयत्रेत्यादिना ॥ स आत्मा यत्र यदा प्रस्वपिति जीवं प्रस्वापयति । कथंप्रस्वापयतीत्यत आह ॥ अस्येति ॥ अस्यलोकस्य जनस्य सर्वावतः सर्वविषयज्ञानानि मात्रामिन्द्रियशक्तिं चोपादाय स्वयं विहृत्यजीवं बाह्यव्यापाररहितं कृत्वा स्वयमेवनिर्मायस्वाप्नपदार्थान्‌ रथादीनुत्पाद्य स्वेनस्वकीयेन स्वरूपभूतेन वा भासाबाह्यप्रकाशेन स्वेनज्योतिषा आन्तरप्रकाशेन प्रस्विपिति जीवं प्रस्वापयति । अत्रास्मिन्स्वापकोले अयं पुरुषः परमात्मा स्वयमेव विशेषतोज्योतिभः भवतीत्यर्थः । तथा स आत्मा यत्र प्रस्वपिति जीवमन्तरिक्षलोकं स्वर्गलोकं वा प्रापयति स्वप्नसुप्तिशब्द योरन्तरिक्षस्यर्गवाचकत्वेन स्वप्नसुषुप्त्युभयसाधारणस्वापशब्दस्य तदुभयलोकसाधारणस्य सत्वात्‌ । कथम्‌ । अस्य लोकस्य जनस्य सर्वज्ञानानीन्द्रियाभिमानि देवांश्ऱ्चोपादाय स्वयं विहत्यजीवं भूलोकस्थ व्यापाररहितं कृत्वा स्वयं निर्मायान्तरिक्षेस्वर्गेवातत्र कमर्ानुसोण भोगसाधनरथादीनुत्पाद्य स्वेन भासास्वेन ज्योतिषा प्रस्वपिति अन्तरिक्षलोकं स्वर्गलोकं वा प्रापयति । अत्रान्तरिक्षादिप्राप्तिकाले अयं पुरुषः स्वयमेवज्योतिः भवतीत्यर्थः ॥ 9 ॥ ननु स्वप्नेन्तरिक्षेस्वर्गेवायदि रथाद्याः पूर्वमेवस्थितास्तदाकथमेतस्य तदुत्पादकत्वमित्यत आह ॥ नतत्रेति ॥ तत्र स्वप्नावस्थायां अन्तरिक्षेस्वर्गे वा रथाः प्रसिद्धाः न भवन्ति पूर्वं न स्थिताः रथयोगाः रथैर्युज्यन्त इति रथयोगा अश्ऱ्वादयो न भवन्ति पुरानस्थिताः पन्थानोमार्गाः पूर्वं न स्थिताः किन्तु अथ तदैव स आत्मा तत्तत्कर्मानुसारेण रथान्नथ योगान्पथः सृजते आनन्दाः स्वरूपभूतसुखानि मुदः अप्रष्यविषयोत्थसुखानि प्रमुदः प्रकृष्यविषयोत्थसुखानि वेशान्ताः वेश्यागृहाः पुष्करिण्यः सरांसि स्रवन्त्योद्यः न केवलमेतावत्‌ किन्तु स परामात्मा सर्वस्य कर्ता हि प्रमाण प्रसिद्धम्‌ ॥ 10 ॥ तस्य वा एतस्य पुरुषस्येत्यादिकं संसारमोक्षपरतयापि योज्यम्‌ । परलोकशब्दस्य मोक्ष एव मुख्यत्वात्‌ तथाहि तस्यै तस्य पुरुषस्य द्वे इव स्थाने भवतः के ते इदंच संसारावस्थारूपं परलोकस्थानं मोक्षाख्यञ्चेति जीवन्मुक्त्यवस्थायाः पृथक्सत्वातकथं द्वे एवेत्युक्तमित्यत आह ॥ सन्ध्यमिति ॥ तृतीयं स्वप्नस्थानं जीवन्मुक्त्याख्यं सन्ध्यं संसारमोक्षयोः सन्धौ भवमतो न पृथगुक्तं तस्मिन्त्सन्ध्येस्थाने जीवन्मुक्ताख्येतिष्ठन्नेते उभेस्थानेपश्यति । के ते इदंच परलोकस्थानञ्च । अथ संसारमुक्तिदर्शनानन्तरम्‌ अयं पुरुषो जीवः परलोकस्थानेमोक्षेगन्तव्ये यथाक्रमोयन्मार्गोभश्ऱ्चपश्यति स परमात्मा यत्र यदा प्रस्वपिति प्रस्वापयति स्वापं मोक्षं प्रापयति कथं अस्य लोकस्य मुच्यमानस्य सर्वावतः वृत्तिरूपसर्वज्ञानानि मात्रामिन्द्रियाभिमानि देवांश्ऱ्चोपादाय स्वयंवि(ह)हृत्यसांसारिकव्यापाररहितं कृत्वा स्वयं निर्मायमुक्तौ भोगसाधनरथादीन्‌ उत्पाद्य स्वेन भासास्वेन ज्योतिषा प्रस्वपिति मोक्षं प्रापयति । अत्रास्मिन्मोक्षकाले अयं पुरुषः परमात्मा अस्य जीवस्य स्वयमेवरथाद्याः स्थिताः किन्त्वपरोक्षज्ञानोत्तरकृततत्तत्कर्मानुसारेण तदैवरथादीन्सृजत इत्यर्थः ॥ 10 ॥ तत्तत्र पूर्वोक्तार्थे एते वक्ष्यमाणाः श्ऱ्लोकामन्त्राभवन्ति प्रमाणत्वेनेति शेषः । तान्मन्त्रानुदाहरति ॥ स्वप्नेनेति ॥ हिरण्मयः हिरण्यवर्णः एक हंसः प्रदानहंसरूपः पुरुषः पूर्णषड्‌गुणः परमात्मा स्वपनेन सुषुप्त्यास्वर्गेण मोक्षेण वा शारीरं जीवं अभिप्रहत्यसंयोज्य स्वयमसुप्तः सुप्तिशून्यः स्वकर्मनिर्मितस्वर्गशून्योबन्धध्वंसरूपमुक्तिशून्यो वा सुप्तान्सुप्त्यवस्थागतान्‌ स्थागतान्‌ स्वर्गगतान्मोक्षगतान्वाशारीरान्‌ जीवानभिचाकशीति पश्यति । एवं सुप्त्यवस्थादिप्रदर्शनानन्तरं शुक्रं शोकेन रत्यायुक्तं शारीरं जीवमादाय पुनः स्थानं जाग्रदाख्यं भूलोकाख्यं सृष्यिस्थानं वा एतीत्यर्थः । न केवलं शरीर एव स्वप्नप्रदशर्कोभगवानित्याह ॥ प्राणेनेति ॥ अमृतः पुरुषः स्वप्नेजीवमादाय कुलायाच्छरीराद्बहिश्ऱ्चरित्वा तानभिचाकशीतीति वा शुक्रमादायपुनः कुलायरूपं स्थानमेतीति वा सम्बन्धः । ननु स्वप्ने जीवमादाय यदि बहिः गच्छतीश्ऱ्वरस्तर्हि तस्य शरीरस्यावस्थानं कथं स्यादित्यत आह ॥ प्राणेनेति

?R॥ प्राणेन जीवस्यांशेन मुख्यप्राणेन वा अवरं कर्मनिर्मिततयानिकृष्यं कुलायं रक्षन्‌ अंशेन जीवमादाय बहिः

?Rगमनेप्यंशान्तरस्यात्रसद्भावान्नकाप्यनुपपत्तिरित्यर्थः । सोमृतो हिरण्मय एक हंसः पुरुषो यत्र कामं कामो वियस्तत्र ईयते ज्ञायते विषयेष्वस्वातन्त्ऱ्ात्तज्ज्ञापकोन्योस्तीत्यनुमीयत इत्यर्थः ॥ 12 ॥ तस्यैव महिमान्तरमाह ॥ स्वप्नान्त इति ॥ देवः स्वप्नान्ते स्वप्नाख्यस्थाने उच्चावचमीयमानः वासनारूपेषु उच्चावचेषु गजपिपीलिकादिषु प्रविशन्स्वस्य बहूनिरूपाणि कुरुते उत शब्दश्ऱ्चशब्दार्थः स्त्रीभिश्ऱ्चेतनप्रकृतिरूपाभिः सह मोदमान इव च मोदरूपस्य स्त्रीभिः मोदोविडम्बनमितीवशब्दः जीवस्य भयानिपश्यन्नपि जक्षदिवहसदिवच हसनक्रियायानित्यवादिवशब्दः उत शब्दश्ऱ्चशब्दार्थः ॥ 13 ॥ ननु सुषुप्तिस्वप्नजाग्रदवस्थाप्रेरकः किं सुप्तादिभिः प्रदृश्यते न वेति जिज्ञासायामाह ॥ आराममिति ॥ अस्यात्मनः आरामं आकीडनं तन्निर्मितस्वाप्नपदार्थादिकमेव पश्यन्ति नतु तमात्मानं कश्ऱ्चन पश्यति भगवदज्ञानीकिं ज्ञानिना बोधनीयोनेत्याह ॥ तमिति ॥ तं भगवन्तं अयतं प्रयत्नशून्यमयोग्यं प्रति न बोधयेदित्याहुः विद्वांसः कुतोयं न बोधनीय इत्यत आह ॥ दुभिःषज्यमिति ॥ एष आत्मा यं न प्रतिपद्यते यस्य ज्ञानविषयो न भवतीति यावत्‌ अस्मै अस्य दुर्भिषज्यं भवति प्रतीकारो न विद्यत इति यावत्‌ हेतिप्रसिद्धिमाह जीववत्परमात्मनोपि सुप्तत्वेऽसुप्तः सुप्तानभिचाकशीतीत्युक्तमयुक्तमित्यत आह ॥ अथो इति ॥ अथोशब्दोपि शब्दार्थः । एषोपि जीवस्य स्वप्नसुषुप्तिकालोप्यस्य परमात्मनोजागरितदेश एवेत्याहुः विद्वांस इत्यर्थः । तत्र हेतुमाह ॥ यानिहीति ॥ हि यस्मात्‌ जाग्रत्‌ जागरिते यानिपश्यति तानि सुप्तेस्वप्नसुषुप्तिकालेपि पश्यति इति तस्मात्‌ स्वप्नसुषुप्तिकालोजागरितात्मक इत्यर्थः । तत्रापि कोहेतुरित्यतः स्वतः सार्वज्ञमेवेति भावेनाह । अत्रेति ॥ अत्र स्वप्नसुषुप्त्यवस्थायां अयं पुरुषः परमात्मा स्वयं ज्योतिः भवतीत्यर्थः । एवं श्रुत्वाराजागुरुदक्षिणां प्रति जज्ञ इत्याह ॥ सोहमिति ॥ हे याज्ञवल्क्यभगवते पूज्यायते सत्वदुपदिष्योहं सहस्रं हस्तिवृषभसहस्रं ददामि । अत ऊध्वर्मतः परं विमोक्षाय विशिष्यमोक्षाय ब्रूहीत्याह ॥ 14 ॥ राज्ञा एवं पृष्यो याज्ञवल्क्यो भगवतः सुप्त्याद्यवस्थाप्रेरकत्वं स्पष्यमाह ॥ सवा इति ॥ स एष परमात्मैव एतस्मिन्‌ सम्प्रसादेसम्यक्‌ प्रसीदतिजीवोस्मिन्निति सम्प्रसादः सुप्तिः तस्मिन्‌ रत्वारमणं कृत्वा पुण्यञ्च पापं च दृष्ट्वैव चरति चरित्वाचप्रतिन्यायं प्रतिकालं प्रतियोनिप्रतिजीवं पुनः स्वप्नायैव जीवस्य स्वप्नावाप्तये एवाद्रवति । दृष्ट्वैवेत्येवकारव्यवच्छेद्यमाह ॥ स इति ॥ स परमात्मा तत्र सुप्तौ यत्किञ्च्तिपापं पश्यति तेन पापफलेन दुःखेन अन्वागतः असंस्पृष्यो भवति कुत इत्यत आह ॥ असङ्ग इति ॥ हि यस्मादयं पुरुषः असङ्गस्तत्कर्तृपापफलसंसर्गशून्यः इति तस्मात्तेनानन्वागत इत्यर्थः । उक्तमङ्गीकृत्यपुनर्गुरुदक्षिणशं प्रति जज्ञे इत्याह ॥ एवमिति ॥ एवमुत्तरत्रापि व्याख्येयम्‌ ॥ 15 ॥ बुद्धान्तायैव बुद्धाख्यस्थानाय जाग्रत्स्थानायेत्यर्थः ॥ 16 ॥ स्वप्नान्तायैव स्वप्नाख्यस्थानायैव ॥ अत्र स्वप्नशब्दः सुषुप्तिपरः ॥ 17 ॥ स्वप्नसुप्तिजाग्रदवस्थाप्रेरकत्वं दृष्यान्तेनोपपादयति ॥ तद्यथेति ॥ तत्‌ निदर्शनं यथा महामत्स्यः नद्या उभेकूले अभिसञ्चरति के ते पूर्वं चापरञ्च एवमेवायं पुरुषः एतावन्तौ स्थाने अनुसञ्चरति कौतौ स्वप्नान्तं च स्वप्नसुप्त्यात्मकमेकं बुद्धयात्मकं जाग्रदाख्यञ्चेति ॥ 18 ॥ नन्ववस्थात्र यविशिष्ये संसारेभ्रमतोजीवस्य श्रमपरिहारः कदाभविष्यतीति चेत्‌ मोक्ष एव तदाविष्णुं प्राप्तत्वात्‌ । ननु मोक्षेविष्णुं प्राप्त्तवेपि श्रमाभावः कुत इति चेत्‌ । प्रतिदिनमज्ञानादेव सुप्तौ विष्णुं प्राप्तस्य न श्रमः किमुज्ञानान्मुक्तौ विष्णुप्रप्तस्यैति भावेन सुप्तौ विष्णुं प्राप्तस्य श्रमाभावं सदृष्यान्तमुपपादयति ॥ तद्यथेति ॥ तत्‌ वक्ष्यमाणं निदर्शनं यथाश्येनोवासुपर्णो वास्मिन्नाकाशे विपरिपत्य इतस्ततः प(र्यट)रिपतनं कृत्वा श्रान्तः पक्षौ स(ह)हृत्य सङ्कोच्य सल्लयायैवश्रमपरिहारकस्वनीडायैव घ्रियते गच्छति एवमेवायं पुरुषो जागरितेस्वप्नेच भ्रमन्‌ श्रान्तः तत्परिहारायैतस्मा अन्ताय धवति । कस्मै यत्र यस्मवस्थायां सुप्त आनन्दरूपं विष्णुं प्राप्तो जीवो न कञ्चन कामं काम्यं कामयते न कञ्चन स्वप्नं पश्यति नच स्वप्नसदृशभ्रान्तिज्ञानमाप्नोति एतस्माअन्तायसुप्त्याख्यस्थानायेति सम्बन्धः ॥ 19 ॥ स्वप्नदर्शनस्यानिष्यरूपत्वे न कञ्चन स्वप्नं पश्यतीति वक्तव्यं तदेव कुत इत्यतः प्रकृतसुप्तिस्वप्नस्वरूपं निरूपयितुमाह ॥ तावा इति ॥ अस्य पुरुषस्य ताः प्रसिद्धाः एताः वक्ष्यमाणा हि तानामनाड्यो यथाकेशस्सहस्रधाभिन्नस्तावताणिभ्रासूक्ष्मपरिमाणेन तिष्ठन्ति तासां हितनामत्वं कुत इत्यतो नानारूपेण भगवता तत्र निहितत्वादिति भावेनाह ॥ शुक्लस्येति ॥ शुक्लस्य शुक्लरूपेण भगवता पूर्णाः व्याप्ताः तासां मध्ये सुषुम्नाच तत्र सुप्तिं व्रजत्ययमिति वक्तव्यम्‌ । अथ यत्र यासुकण्ठदेशस्थितासुनाडीषु स्थितो जीवः एनं स्वप्नदृष्यमात्मानं अन्येचोराः घ्नन्तीव पश्यति कदाचिज्जिनन्तीवताडयन्तीव पश्यति एवं स्वातमानं हस्तीव पश्यति अन्यः कश्ऱ्चनैनं विच्छाय यतिभयेन विच्छायं करोतीव पश्यति स्वयं गर्तं जीर्णकूपादिकं पततीव पश्यति जाग्रदिवभयं च पश्यति अत्र बाह्यार्थवैलक्षण्यादिवशब्दः पश्यतीत्युक्त्याप्राप्तं स्वाप्नार्थदर्शने जीवस्य स्वातन्त्ऱ्यं निवारयति ॥ यदेवेति ॥ यदायस्यामवस्थायां जीवोयदेवस्वाप्नं जाग्रत्‌

?Rजाग्रद्वस्तुवत्पश्यति तद्वस्तु अत्राऽविद्यया अः परमात्मातद्विद्यातन्निरीणणं तेन विष्णुकर्तृकज्ञानेनैव मन्यते पश्यति नतु

?Rस्वतन्त्ऱ्ेण सुप्तौ मोक्षेच न कञ्चन कामं कामयत इत्युक्तं तर्हि कथं तिष्ठतीत्यपेक्षायामाह ॥ यत्रेति ॥ यत्र मोक्षषसुप्तौ वा देव इव राजेवाहमेवेदं सर्वोस्मिस्वयोग्यतया पूर्णोस्मीति मन्यते सोस्य परमात्मनः परमोलोक आश्रयः ॥ 20 ॥ पूर्णत्वमस्य कुतोऽभूदित्यत आह ॥ तद्वा इति ॥ अस्य भगवतः तत्प्रसिद्धमेतत्‌ रूपमतिच्छन्दा तिक्रन्तानि च्छन्दांसि येनासावति च्छन्दाः छन्दसमवाच्यं अपहताप्मापापवर्जितमभयं भयरहितं भगवद्रूपस्यैवं विधत्वेपि किमा(मेवंविधञ्चेत्किमा)यातं प्रकृत इत्यतो भगवत्प्राप्त्यापूर्णत्वमस्येति सदृष्यान्तमाह ॥ तद्यथेति ॥ तत्‌ निदशनं यथा । प्रियामनोहरणसमर्थयास्त्रिया सम्परिष्वक्तः कामुको बाह्यं घटादिकं किञ्चन किमपि नवेद आन्तरं दुःखादिकञ्चन वेद स्त्रीपरिष्वङ्गेणैव पूर्णो भवति एवमेवायं पुरुषो जीवः प्राज्ञेन सर्वज्ञेनात्मना सम्परिष्वक्तः सुप्तोमुक्तो वा न बाह्यं किञ्चन वेदनान्तरं प्राज्ञात्मसं(परिष्वङ्गे)श्ऱ्लेषेणैव पूर्णो भवतीत्यर्थः । भगवत्प्राप्तस्य महिमान्तरं वक्तुं प्रकृतभगवत्स्वरूपमाह ॥ तद्वा इति ॥ B-31

?Rस्यात्मनस्तत्‌ प्रसिद्धमेतत्‌ रूपं आप्तकामं आप्ता एव नत्वा प्तव्याः कामायेन तदाऽऽप्तकामं पूर्णसुखरूपत्वादात्मैव काम्यत इत्यात्मकामं अकामं विषयकामनारहितं शोकान्तरं शोकस्यान्तोभावोयस्मिन्‌ तच्छोकान्तं रमत इति रंशोकान्तञ्च तन्द्रचेति शोकान्तरं 21 ॥ इदानीमेतदृग्भगवद्रूपं प्राप्तस्य महिमानमाह ॥ अत्रेति ॥ तेनाप्तकामादिगुणेन भगवतासम्परिष्वक्तोजीवः पूर्वं स्वपुत्राणां पिताऽत्रसुप्तौ मुक्तौ वा अपि ता भवति पूर्वं स्वपुत्राणां माताऽत्रामाता भवति तेषां दुःखेन स्वस्य दुःखाभावात्‌ पूर्वं लोकालोकाभिमानिनोत्रालोकाः तदालोकाभिमानाभावात्‌ पूर्वं देवा अपि अत्रादेवाः वर्षणादिरूपस्वाधिकाराभावात्‌ पूर्वं वेदावेदाभिमानिनोप्यत्रावेदाः वेदाभिमानाभावात्‌ पूर्वं स्तेनस्तस्करोत्रास्तेनो भवति पूर्वं भ्रूणहात्राभ्रूणहा भवति पूर्वं चण्डालोत्राचण्डालो भवति पूर्वं पौल्कसोत्रापौल्कसो भवति स्तैन्यादिपापफलस्याप्यपायात्‌ पूर्वं श्रमणोयतिः अत्राश्रमणः यतिधर्मात्समुत्थितेः अत एव पूर्वं तापसोतापसः पुण्टेनानिष्येनानन्वागतं पापेनानन्वागतं हृद्ययनाद्धृदयस्य विष्णोः सम्प्राप्तिमात्र तस्तदासुप्तौ मुक्तौ वा सर्वाञ्छोकान्‌ तीणर्ो भवति । यद्वा तदासर्वान्‌ शोकान्‌ तीर्णः हृदयस्य शेषभूतो भवतीत्यर्थः ॥ 22 ॥ एवमवस्थाप्रेरको भगवानित्युक्तं देशकालान्तरयोरन्योप्यवस्थाप्रेरकः किमित्याशङ्कापरिहाराय भगवतः समाभ्यधिकराहित्यरूपमहिमानमाह ॥ यद्वा इत्यादिना ॥ नतु तद्द्वितीयमस्तिततोन्यदिति प्रतिज्ञावाक्यं ततोन्यत्‌ विष्णोरन्यत्‌ तत्‌ द्वितीयं तत्समं नैवास्तीत्यर्थः । तत्र हेतुः यद्वैतं न पश्यतीति ब्रह्मयद्यस्मात्‌ तत्‌ स्वसमं वस्तु न पश्यति तत्तस्मान्नतु तत्‌ द्वितीयमस्तीति सम्बन्धः । ननु भगवददृष्यत्वेपि भगवत्समं कुतोनास्तीति चेत्‌ यत्किञ्चिस्तु भगवता न दृष्यं तन्नास्त्येवेति व्याप्तेरित्यप्याह ॥ यद्वैतन्नपश्यतीति वैशब्दोवधारणार्थः । नञःआवृत्तिः पूर्वं प्रकृतब्रह्मयद्वस्तु न पश्यति तन्नास्त्येवेति व्याप्तेः भगवददृष्यं भगवत्समं नास्त्येवेत्यर्थः । ननु यद्भगवतानदृष्यं तन्नास्त्येवेति कथं नह्यस्मदाद्यदृष्यं वस्तुनास्तीति वक्तुं शक्यते इत्यतो भवेदेवास्मदाद्य दृष्यं वस्तु अस्मदादीनामसर्वज्ञत्वात्‌ भगवांस्तु विद्यमानं सर्वं पश्यन्वै सचेन्नपश्यति तदानास्त्येवेत्याह ॥ पश्यन्वा इति ॥ ननु विष्णोः सार्वज्ञं किं भ्रान्त्यानेत्याह ॥ नहीति ॥ हि यस्मात्‌ द्रष्युर्भगवतो दृष्येः विपरिलोपोऽयथार्थत्वं न तस्मान्नभ्रान्त्यासार्वज्ञं तत्र हेतुमाह ॥ अविनाशित्वादिति ॥ निर्दोषत्वादबाधाच्चेत्यर्थः । ननु यथास्मदादीनां भ्रान्तत्वेनास्मदादि दृष्यविरुद्धद्रष्या अस्मदाद्यदृष्याच भगवांस्तथा भगवद्दृष्यविरुद्धद्रष्याभगवद्दृष्यादन्यवस्तु द्रष्याच यद्यन्यः स्यात्तदाकथं भगवान्‌ सर्वज्ञः स्यादिति चेत्‌ स्यादेति चेत्‌ स्यादेतदेवं यदि भगवदृष्यादन्यवस्तु द्रष्याभगवद्दृष्यविरुद्धद्रष्याच कश्ऱ्चित्स्यात्‌ नचासावस्तीत्याह ॥ नतु तद्द्वितीयमस्तिततोऽन्यद्विभक्तं यत्पश्येदिति ॥ तुशब्दो हिशब्दार्थश्ऱ्च ततोन्यत्‌ भगवद्दृष्यादन्यत्‌ ततो विभक्तं भगवद्दृष्याद्विरुद्धं वस्तु यत्पश्येत्‌ तत्‌ द्वितीयं भगवद्वयतिरिक्तं द्रष्यृनैवास्ति हि यस्मात्तस्माद्विद्यमानं सर्वं पश्यन्वै इत्यर्थः ॥ 23 ॥ ननु चक्षुषिस्वसमानवस्तु दर्शनाभावेपीन्द्रियान्तरेण स्यदित्यत आह ॥ यद्वैतन्नजिघ्रतीत्यादि ॥ योजनातु पूर्ववदेव घ्रातेः घ्राणसम्बन्धिज्ञानस्य ॥ 24 ॥ रसयतेः रासनज्ञानस्य ॥ 25 ॥ वक्तेः वागिन्द्रियव्यापारस्य विपरिलोपोसत्यत्वम्‌ ॥ 26 ॥ श्रुतेः श्रोत्रज्ञनस्य ॥ 27 ॥ मतेर्मानसज्ञानस्य ॥ 28 ॥ स्पृष्येः स्पार्शनज्ञानस्य ॥ 29 ॥ विज्ञातेः अन्तःकरणप्रभेदबुद्धिरूपेन्द्रियसम्बन्धिज्ञानस्य ॥ 30 ॥ नतु तद्द्वितीयमस्तीति यद्भगवद्दृगवद्दृष्यानास्तीति उक्तं तदुपसंहरति ॥ यत्र वा अन्यदिवस्यादित्यादिना ॥ यत्र यदा अन्यद्भगवद्वयतिरिक्तं अन्यदिववै अल्पस्वातन्त्ऱ्ोपेतमपि भवेत्‌ । तत्र वातदैव अन्योभगवद्वयतिरिक्तः पुरुषः अन्यद्भगवद्दृक्ष्याद्भिन्निं पश्यतीत्यादि युज्यते तदेवनास्ति । अतो नान्योन्यत्पश्येदित्यर्थः ॥ 31 ॥ एवं द्रष्य्रंतरनिषेधमुपसंहृत्यतस्यैव सर्वद्रष्यृत्वमित्युक्तमुपसंहरति ॥ सलिल इति ॥ सलिलेप्रकृतिरूपे एकः समवर्जितः अद्वैतः अद्वितीयो विरोधिद्वितीयशून्यः द्रष्याविष्णुः भवति तिष्ठति । लीलासहितः सलीलः सलील एव सलिलः इति वा । विष्णोरेव

?Rद्रष्यृत्वं नान्यस्यति कुत इत्यत आह ॥ एष इति ॥ हे सम्राट्‌ एष आत्मा ब्रहमपूर्णं लोकोज्ञानं यस्यासौ ब्रह्मलोक इति हैनं

?Rजनकमनुशशास याज्ञवल्क्य इत्यर्थः । यद्वा शुक्लस्य नीलस्येत्यादिनानाडीनां परस्परविलक्षणरूपवद्भिः भगवद्रूपैः व्याप्तत्वमुक्तं तेन भगवद्रूपाणां भेदः प्राप्तः तथा तद्वा अस्यै तदाप्तकाममित्यत्र प्रष्ठयारूपरूपि भेदश्ऱ्च तन्निराकर्तुमाह ॥ यद्वैतमिति ॥ हृदयशब्दप्रकृतं ब्रह्म यद्यस्मात्‌ तत्‌ शुक्लादिकं रूपं द्वैतं स्वतः परस्परञ्च भिन्नं न पश्यति तत्तस्मात्‌ तत्‌ द्वितीयं नास्ति न भवति भगवताभिन्नत्वेनादृष्यत्वेपि कुतो न भिन्नं तह्यस्माभिः शुक्तिकायाभिन्नत्वेन रजतं न दृश्यत इत्येतावतातत्ततो न भिन्नमित्यत आह ॥ पश्यन्निति ॥ पश्यन्सर्वज्ञ एव सन्‌ तच्छुक्लादिकं भिन्नत्वेन न पश्यति वै एवं तर्हि जीवजडात्मकं विश्ऱ्वमपि किं ततोन भिन्नं नेत्याह ॥ ततोन्यत्‌ विभक्तं यत्पश्येदिति ॥ यद्यस्माद्भगवान्‌ यज्जीवादिकं स्वतोविभक्तं भिन्नं पश्येत्‌ तस्मात्तततोन्यदेव भगवता भेदेन दृष्यत्वेपि कुतो भिन्नं नहि चन्द्रश्‌चन्द्राभिन्नत्वेनास्माभिः दृश्यत इत्येतावता भिन्न इत्यत आह ॥ नहीति ॥ द्रष्युः परमेश्ऱ्वरस्य दृष्येः ज्ञानस्य विपरिलोपोवैपरीत्यमयथार्थत्वं न विद्यते । कुतः अविनाशित्वान्निर्दोषत्वादबाधाच्चेत्यर्थः । ततोऽन्यद्विभक्तं यत्पश्येदिति यद्भेदसत्यत्वमुक्तं तदिदानीमभेदनिषेधेनोपसंहरति ॥ यत्रवेति ॥ यत्र यस्मिन्पक्षेन्यदिवस्वतोभिन्नमप्यस्वातन्त्ऱ्ेण निमित्तेनान्यदिवस्थितं स्यादस्ति तत्रैव पक्षेऽन्यः पुरुषोऽन्यद्धटादिकं पश्येदित्यादि युज्यते । यत्र तु पक्षेतदेवनास्ति न तत्रान्यदर्शनादिव्यवहारोयुज्यत इत्यर्थः । स्वगतभेदशून्यस्यैव भगवतो महिमान्तरमाह ॥ सलिल इति ॥ व्याख्यानं पूर्ववत्‌ । तस्यैव महिमान्तरमाह ॥ एषेति ॥ अस्य विष्णोरेषागतिः परमासार्वत्रिकत्वात्‌ । अस्यैषासम्पत्परमानिरतिशयपूर्णत्वात्‌ । अस्यैष लोकोज्ञानं परमः सर्वविषयकत्वात्‌ । अस्यैष आनन्दः परमः पूर्णत्वात्‌ । ननु ब्रह्मरुद्राद्यानन्दस्यापि पूर्णत्वेन परमत्वात्‌ कथमेषोस्य परम आनन्दः इत्युक्तमित्यत आह ॥ एतस्यैवेति ॥ अन्यानिभूतानि ब्रह्मादीनिमुक्तान्यपि एतस्य विष्णोरेवानन्दस्य मात्रां पति बिम्बरूपविप्लुट्‌ पमुपजीवन्ति अश्ऱ्नन्तीत्यर्थः ॥ 32 ॥ ननु ब्रह्मादयः किं परमात्मानन्दप्रति बिम्बभूतं विप्लुडानन्दं साम्येनैवाश्ऱ्नन्ति उत तारतम्येनेति जिज्ञासायां तारतम्येनैवेत्याह ॥ स इत्यादिना ॥ स प्रसिद्धोयोनुष्याणां चक्रवर्तिनां मध्ये राद्धः संसिद्धोमुक्तः समृद्धोयावत्साधनैः साधरयितुं शक्यते तावत्सम्पूर्णत्वेन मुक्तः स्वराष्य्रेज्ञानोपदेष्यृत्वादन्येषामधिपातिः मानुष्यकैः मनुष्यत्वदशायां ज्ञानोत्तरकृतदानादिफलभूतैः सर्वैः भोगैः सम्पन्नतमो भवति समनुष्याणां परमानन्दः आविर्भूतस्वरूपानन्दः । आनन्दतद्वतोरभेदात्‌ समनुष्याणां मध्ये परमानन्दीत्यर्थः । यद्वा स इति तदीयानन्द परामर्शः तदुत्तरकक्ष्यमाह ॥ अथेति ॥ ये मनुष्याणां शतमानन्दः स एको जितोलोको ब्रह्मज्ञानं यैस्तेजितलोकामुक्तास्तेषां पितॄणामानन्दः । अत्र शतशब्दो दशलक्षपरः मनुष्येभ्योमनुष्यगन्धर्वाणान्तेभ्योदेवगन्धर्वाणां तेभ्यः पितॄणां शतगुणानन्दवत्त्वस्यान्यत्रोक्तत्वात्‌ । अथ जितलोकानां पितॄणां ये शतमानन्दाः स एको गन्धर्वलोकेगन्धर्वाणां ब्रह्म ज्ञानेमुक्तौ मुक्तानां गन्धर्वाणामानन्द इत्यर्थः । उत्तमगन्धवर्ापेक्षयैवेतत्‌ । अथ येशतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानां मुक्तानामानन्दः । केकर्मदेवा इत्यत आह ॥ य इति ॥ अथ येशतं कर्मदेवानामानन्दाः स एक आजानदेवानां जातेभ्यो वराणशमिन्द्रादीनामानन्दः । तेषां मुक्तत्वाज्ञापकमाह ॥ यश्ऱ्चेति ॥ वचनव्यत्यासः ये श्रोत्रियाः श्रुतिफलं प्राप्ताः अवृजिनादुःखरहिताः अकामहताः कामैरहताश्ऱ्चतेषामाजानदेवानामिति सम्बन्धः । एवमुत्तरत्रापि । अथ येशतमाजानदेवानामानन्दाः स एकः प्रजापतीनां पशुपतीनां रुद्राणां शेषाणामिति यावत्‌ । लोकेब्रह्मज्ञानेमुक्तौ आनन्दः । ये श्रोत्रिया अवृजिना अकामहताश्ऱ्चतेषां प्रजापतीनामिति सम्बन्धः । अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोके ब्रह्मणां लोके ब्रह्मज्ञानेमुक्तावानन्दः । ये श्रोत्रिया अवृजिना अकामहताश्ऱ्चतेषां ब्रह्मणामित्यन्वयः । हे सम्राट्‌ एवं तारतम्येस्थितानिब्रह्मादीनिमुक्तानि एतस्यानन्दस्य मात्रामेवोपजीवन्ति यस्मात्‌ अथ तस्मादेष एव परमात्मापरमानन्दः निरतिशयपूर्णानन्द; एष ब्रह्मलोकः पूर्णज्ञान इति होवाच याज्ञवल्क्यः । राजाह ॥ सोहमिति ॥ अत्रैवं राज्ञापृष्ये सति याज्ञवल्क्यो बिभयाञ्चकार भीतवान्‌ । भयनिमित्तमाह ॥ मेघावीति ॥ मेधावीप्रज्ञावान्‌ राजा सर्वेभ्यः प्रश्ऱ्नकर्तृभ्यस्तेभ्य आश्ऱ्वलादिभ्यो मामुदरौत्सीत्‌ उत्कृष्यतया वरोधं कृतवानिति ॥ 33 ॥ विमोक्षायब्रूहीत्युक्तो याज्ञवल्क्य आह ॥ सवा इति ॥ पूर्वस्यैव पुनः वचनमभ्यासार्थम्‌ ॥ 34 ॥ एवं सुप्त्यादिनियामको भगवानित्युक्तं इदानीं मरणनियामकोपि स एवेत्याह ॥ तद्यथेति ॥ तत्‌ निदर्शनं यथा सुसमाहितं पुमधिष्ठितं अनःग्रामादिकं उत्सर्जद्यायात्‌ गच्छेत्‌ एवमेवायं शारीरः शरीराभिमानी आत्मा जीवो यत्र यदा ऊध्वर्ोच्छ्वासी भवति एतत्‌ एतस्मिन्काले प्राज्ञेनात्मना परमात्मना अन्वारूढो देहं उत्सर्जत्परित्यजन्‌ याति ॥ 35 ॥ न केवलं साधारणमरण एव भगवान्वारूढो जीवः किन्तु मोक्षरूपमरणेपीत्याह ॥ स इति ॥ सोयं जीवः यत्र यदा अणिमानं भगवन्तं न्येति निर्गच्छति भगवत्प्राप्तिरूपं मोक्षं गन्तुमिच्छतीति यावत्‌ ।

?Rतदाप्राज्ञेनात्मनापरमात्मनान्वारूढो देहं उत्सर्जदिति पूर्वेण सम्बन्धः । भगवन्तं कदान्येतीत्यत आह ॥ जरयेति ॥

?Rजरयावोपतपता उपतापयतीत्युपतपन्‌ रोगादिस्तेन वा अणिमानं निगच्छति । ननु सर्वेपि जरयैवाणिमानं निगच्छति अतः कथमुपतपतावेति पक्षान्तरोक्तिरित्यतो नायं नियम इति सदृष्यान्तमाह ॥ तद्यथेति ॥ तत्‌ निदर्शनं यथा म्रं वा फलं बाल्ये औदुम्बरं फलं परिणामे पिप्पलं अश्ऱ्वत्थफलं वा सम्यक्‌ पाके बन्धनात्प्रमुच्यते पतति एवमेवायं पुरुषः कलौ बाल्ये त्रेतादौ मध्यमेवयसि कृते चरमेवयसि येभ्योऽङ्गेभ्यः शरीरावयवेभ्यः शरीरादिति यावत्‌ सम्प्रमुच्य प्रतिन्यायं प्रतियोनि प्राणायैव वायवे एव पुनराद्रवति पूर्वमेकदावायुं प्राप्यजायस्वज्ञानमाप्नुहीति तद्वरादेवोत्पद्यज्ञानं सम्पाद्यपुनः प्राणं प्राप्नोति ततो भगवन्तं प्राप्नोतीत्यर्थः ॥ 36 ॥ स जीवो यदाभगवन्तं प्रति गच्छति तदाविशेषमाह ॥ तद्यथेति ॥ तत्‌ निदर्शनं यथा अयं तमागच्छन्तं राजानं दृष्ट्वा उग्राः श्रेणयः प्रत्येन सोयोधाः सूताश्ऱ्च ग्रामण्यश्ऱ्चभूपालाश्ऱ्चेति सूतग्रामण्योजनपदस्थाः अन्नैः पानैरावसथैरावासस्थानैः पूजां प्रति कल्पन्ते कल्पयन्ति । कथं दूरादागच्छतो राज्ञोदर्शनं च तेषामित्यत आह ॥ अयमिति ॥ अयं ध्वज आगच्छति तस्मादयं राजाप्यायातीति ज्ञात्वा प्रतिकल्पन्त इति सम्बन्धः । एवमेवं विदं पूर्वोक्तप्रकारेण भगवदपरोक्षज्ञानिनमायान्तं दृष्यावा सर्वाणिभूतानि अर्चिरादि दैवतानि पूजां प्रतिकल्पन्ते । ननु ज्ञानिन्यागते देवैः किमिति पूजाकल्पनीया उग्रादिवत्तेषां तद्भृत्यत्वाभावादित्य आह ॥ इदमिति ॥ इदं मुक्तजीवस्वरूपमागच्छति अतः अनेन सह इदं परं ब्रह्मा यातीति तत्पूजार्थं प्रतिकल्पन्त इत्यर्थः ॥ 37 ॥ मुक्तं जीवमादाय भगवानेक एव गच्छति किं नेति भावेनाह ॥ तदिति ॥ तन्निदर्शनं यथा राजानं प्रयियासन्तं गच्छन्तं राज्ञासहस्थिता उग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायान्ति एवमेवे ममात्मानं मुक्तमादाय गच्छन्तं परमात्मानं अन्तकाले मोक्षकाले सर्वेप्राणाः शरीरस्थाः वागादीन्द्रियदेवाः अभितःसमायान्ति । अन्तकालमेवाह ॥ यत्रेति ॥ 38 ॥ ज्योतिर्ब्रह्यणम्‌ ॥ 3 ॥ (तद्यथान) इत्यादिना निरूपितमन्त्यमरणप्रकारमेव विविच्छ दर्शयति ॥ सयत्रेत्यादिना ॥ स यत्रायमात्माबल्यं न्येत्यत्राबल्यमबलभावं दौर्बल्यमिति व्याख्यानमसत्‌ प्रमाणविरुद्धत्वादिति भावेन प्रमाणेन बल्यशब्दार्थमाह ॥ सर्वेषामिति ॥ बलसम्बन्धीबल्यः सम्बन्धश्ऱ्च तत्कारित्वमित्यभिप्रेत्यबलकारित्वादित्युक्तं सङ्कोचेकारणाभावात्सर्वेषामिति । नन्वेवं स आत्माबल्यं न्येत्यसंमोहमिवन्येतीत्यनुपपन्नं जीवस्य विष्णुप्राप्तेरेवमरणरूपत्वेन तदनन्तरं संमोहप्राप्त्यसम्भावात्‌ । दौर्बल्यप्राप्त्यनन्तरं संमो

?Rहप्राप्तेश्ऱ्च सम्भावितत्वादित्याशङ्कां परिहरन्‌ सयत्रायमित्यादिप्राणश अभिसमायन्तीत्यन्तं वाक्यं व्याचष्ये ॥ तंयदेति ॥ यत्रेत्यस्यार्थोयदेति न्येत्येतस्यार्थः प्रप्येति श्रौतात्मशब्दस्य विष्णुपरत्वे संमोहप्राप्त्यादेरसम्भवादाह ॥ जीवात्मेति ॥ उक्तशङ्कापरिहाराय मृतेः पूर्वमिति शेषोक्तिः । न्येतीत्यस्यार्थोयातीति एनमित्यस्यार्थो विष्णुमिति अथेत्यस्याथर्स्तदेति एथ प्राणा इत्यस्यार्थो देवा इति स एतास्तेजोमात्रा इत्युत्तरत्रानुवादादाह ॥ तेजः स्वरूपिण इति ॥ स एतास्तमात्राः समभ्याददानोहृदयमेवान्ववक्रामतीति वाक्यं व्याचष्ये ॥ तानादायेति ॥ स यत्रैवचाक्षुष इत्युत्तरनिवादाच्चक्षुःस्थानादित्युक्तम्‌ । अथारूपज्ञोभवतीत्युक्तरूपाज्ञत्वं प्रकृतचाक्षुषपुरुषस्य विष्णोरुच्यत इति प्रतीतिं परिहरन्‌ अथारूपज्ञोभवतीत्येततद्वयाचष्ये ॥ तदेति ॥ अनेन तदाकस्यापि ज्ञानाभावेनारूपज्ञ इति विशिष्योक्तिः कथमिति शङ्कापरिहृता । रूपशब्दस्योपलक्षकत्वाङ्गीकारात्‌ । ब्रह्मसमाश्रित इत्युक्त्याजीवस्याप्रकृतत्वशङ्कानिरस्ता । बल्यं न्येत्येति ब्रह्मसमाश्रितत्वेन प्रकृतत्वात्‌ । ननु अथैनमेते प्राणा इत्यत्रैनमिति पूर्वप्रकृतजीवपरामर्शप्रततेः कथं विष्णुमिति व्याख्यानमित्यत आह ॥ एनमिति ॥ जीवपरत्वे प्रानां तदभिगमनं न स्यादिति बाधकसूचनायाभिसामायान्तीत्यनुवादः । सचाक्षुषः पुरुषो जीवो यत्र यदा पराक्‌ बहिः पर्यावर्तते तदा अरूपज्ञो भवतीति प्रतीतिनिरासाय किञ्चिदध्याहारेण तद्वयाचष्ये । पराक्‌स्थित इति ॥ बहिर्व्यापारं कुर्वन्‌ स्थित इत्यर्थः । प्रत्यक्‌ अन्तर्हृदयस्थानम्‌ । अन्यथा यथाश्रुतार्थाङ्गीकारे उक्तानुवादरूपत्वानुपपत्तेः । चाक्षुषो भगवानित्युक्त्याभगवतश्ऱ्चक्षुस्थत्वमुक्तं तत्र प्रमाणमाह ॥ इन्ध इति ॥ 1 ॥ एकीभवति न पश्यतीत्याहुरित्यादिवाक्यमप्रतिपत्तिविप्रतिपत्तिनिरासाय व्याख्यातुं किञ्चित्प्रमेयमाह ॥ हृदय इति ॥ ननु जीवस्य हृदयस्थत्वे सर्वदेहगतस्पर्शादि ज्ञानं चक्षुरादिनारूपादिज्ञानं च कथं स्यादित्यत आह ॥ विशेषेणेति ॥ किंतत इत्यत आह ॥ चक्षुरादिष्विति ॥ तयोर्जीवेशयोः रूपाणिजाग्रत्काले चक्षुरादिषु बहूनि सन्ति अतः सर्वगतः स्पर्शादिज्ञानोपपत्तिः । जीवपक्षेरूपाणीत्यस्य प्रकाशगुणेन विशेषसन्निधानं विवक्षितम्‌ । यथोक्तमैतरेवभाष्ये जागरितेप्यक्ष्यादिषु विशेषसन्निहितं भगतिदीपप्रकाशवदिति । इदानीं तद्वक्यं व्याचष्ये ॥ तान्येवेति ॥ तानिचक्षुरादिषु स्थितानि जीवरूपाणिविष्णुरूपाणिच हृदयस्थेन जीवरूपेण विष्णुरूपेण च इत्याहुरित्यस्यार्थः इति विदुः प्राज्ञा इति । ननु देहान्तः सूर्यादितेजसोभावात्‌ केन हृदयाग्रद्योतनमित्याशङ्कां परिहरन्‌ तस्येहैतस्येति वाक्यं व्याचष्ये ॥ तदेति ॥ स्वतेजसास्वरूपभूततेजसा । तेन प्रद्योतेनैष

?Rआत्मानिष्क्रामतीति वाक्यं जीवपरत्वनिरासाय व्याचष्ये ॥ तेनेति ॥ तमुत्क्रामन्तं प्राणोनूत्क्रामतीत्यस्यार्थमाह ॥ प्राण इति

?R॥ प्राणमनूत्क्रमन्तमित्यादेरर्थमाह ॥ प्राणमन्य इति ॥ अन्ये देवाः प्राणमनुव्रजेयुः । अव्रविशेषस्तु अन्येषां म्रियमाणानां प्राणाभागत एवतु । देवतास्वेकतां यान्ति भागवतोनुव्रजन्ति तम्‌ । ज्ञानिनां मुच्यमानानां नैव यान्ति स्मदेवताः । तेनैव सह संयान्ति ततोनूत्क्रमणा श्रुतिरिति वचनादवगन्तव्यः । तं विद्याकर्मणीसमन्वारभेते पूर्वप्राज्ञाचेत्यस्याथर्माह ॥ विद्येति ॥ विद्याकर्मयोग्यताशब्दैः प्रसिद्धविद्यादिकमेवोच्यत इति प्रतीति निरासाय तेषां शब्दानां विवक्षितमर्थं प्रमाणेनाह ॥ कर्मेति ॥ न केवलं ब्रह्मैव ज्ञानाभिमानीविष्णुमनुगच्छति किन्तु वायुरपि तर्हि तस्य प्राणोनूत्क्रमतीत्यनुगमनस्याभिहितत्वात्पुनरुक्तिरित्याशङ्कापरिहरति ॥ वायुरिति ॥ प्राणात्मकश्ऱ्चेति द्विधैवेति सम्बन्धः । ननु हृदयाग्रप्रद्योतनप्रकाशितद्वारेण गच्छन्‌ ज्ञानीमूर्ध्न एव गच्छतीति प्रतीयते निर्भिद्यमूर्धन्‌ व्यसृजेत्परङ्गत इति वचनात्‌ । अतश्ऱ्चक्षुषोवामूर्ध्नोवान्येभ्योवाशरीरदेशेभ्य इत्युक्तिः कथमित्यत आह ॥ देवलोक इति ॥ यद्देवलोक इत्यर्थः । तद्देवताद्वारेणतद्देवताभिमतचक्षुरादिद्वारेण । ब्रह्मणश्ऱ्चतुर्मुखस्य लोकं गच्छन्नपि तथैवमूर्ध्न एवोत्क्रामेत्‌ तर्ह्यनयोः कोविशेष इत्यत आह ॥ सुषुम्नायाविभेदत इति ॥ विष्णुलोकं गच्छन्‌ सुषुम्नयामूर्धानं गत्वोतक्रामेत्‌ ब्रह्मलोकं गच्छंस्तुसुषुम्नाप्रभेदेन मूर्धानं गत्वोत्क्रामतीति तयोः विशेष इत्यर्थः । स विज्ञानो भवतीत्यस्य स परमात्माविज्ञानोभवतीत्यर्थ प्रतीतिनिरासायतदनूद्यव्याचष्ये ॥ सविज्ञान इति ॥ नन्वेवं सविज्ञानमेवान्ववक्रामतीत्यस्यजीवसहितं भगवन्तमन्वक्रामतीत्यर्थः स्यात्‌ नचासौयुक्तः । जीवसहितभगवन्तं प्रतिगन्तुरभावादित्यतस्तद्वाक्यं यथावद्वयाचष्ये ॥ स इति ॥ ननु जीवः पूर्वमेव भगवन्तं प्राप्तोस्त्येव । बल्यं न्येतीत्युक्तत्वात्‌ तथाच स भगवान्‌ जीवमन्ववक्रामतीति कथमुच्यत इत्यतस्तदभिप्रायमाह ॥ जीवमिति ॥ भगवान्‌ जीवमारुह्यगच्छतीत्यत्र प्रमाणमाह ॥ प्राज्ञेनेति ॥ नन्वत्र विज्ञानशब्दोजीवपरः कुत इति चेत्‌ योविज्ञानेतिष्ठन्नित्यन्तर्यामिब्राह्मणे काण्वशाखिनां विज्ञानशाखिनां आत्मशब्दस्य जीवाभिप्रायेण पाठात्‌ । तत्समाख्यात्रापि विज्ञानशब्दस्य जीवपरत्वोपपत्तेरिति भावेनाह ॥ य इति ॥ उभयोः काण्वमाध्यन्दिनशाखिनोर्विज्ञानात्मशब्दयोः जीवाभिप्रायेण पाठ इत्यत्र नियामकं सूत्रं पठति ॥ शारीरश्ऱ्चेति ॥ नच स्मार्तमिति पूर्वसूत्रान्नञोनुकर्षणार्थश्ऱ्चशब्दः । शारीरोजीवश्ऱ्च नान्तर्यामी कुतः यतः उभयेपि काण्वमाध्यन्दिनाश्ऱ्च यो विज्ञानेतिष्ठन्निति य आमनितिष्ठन्निति एनं जीवमन्तर्यामिणोभेदेनाधीयत इति भगवद्वचनेन विज्ञानात्मशब्दयोः जीवपरत्वोक्तेस्तयोः जीवाभिप्रायेण पाठ इति सिद्धमित्यर्थः । विज्ञानशब्दस्य जीववाचित्वेस्पष्यं च प्रमाणमाह ॥ विज्ञानात्मेति ॥ तदेतदक्षरं वेदतेयस्तुसोम्यससर्वज्ञः सर्वमेवाविवेशेति वाक्यशेषः । विज्ञानात्माविज्ञानस्वरूपोजीवः प्राणशश्ऱ्चक्षुरादयः भूतानिपृथिव्यादीनि सर्वैर्देवैरभिमानिभिः सूर्याद्यैः सह यत्र यस्मिन्नक्षरे (सम्‌ अजस्रं) इम्प्रतिष्ठति तदेतदक्षरं वेदते विज्ञानातियः पुरुषः ससर्वज्ञः सर्वं परब्रह्माविवेशैवध्रुवमाविशत्येवेत्यर्थः । नचात्रा विज्ञानात्मशब्दो ब्रह्मपरः यत्र सम्प्रतिष्ठन्तीत्युक्तिविरोधात्‌ किंच षट्‌प्रश्ऱ्नोपनिषदिपूर्वोक्तार्थेह्ययं मन्त्र उदाह्रियते पूर्वोक्तश्ऱ्चार्थो जीवस्य विज्ञानरूपत्वं सुषुप्तौ कस्य सुखं भवतीति पृष्येशरीरेसुखं भवतीत्युक्तत्वात्‌ शरीरशब्द्य ज्ञानात्मकत्वेन भगवत्सादृश्ययुक्तजीवपरत्वात्‌ । यथोक्तं सादृश्यद्देहवज्जीवोविष्णोस्तस्य सुखं भवेदिति । ननु तेन प्रद्योतेनैष आत्मा जीवोनिष्क्रामतीत्येवाथर्ः किं न स्यात्‌ । बाधकाभावात्‌ । अतः किं विष्णुपरतया व्याख्यानेनेत्यतस्तत्र बाधकमाह ॥ एष इति ॥ यद्यत्रात्मशब्दो जीवपरस्तर्ह्युत्तरत्रापि अयमात्मेदं शरीरं निहत्येत्यत्र सवा अयमात्माब्रह्मेत्यत्र चात्मशब्दोजीवपर इत्यङ्गीकारापातेन इदं शरीरं निहत्येत्यादिकमपि जीवकर्तृकमित्यङ्गीकर्तव्यं स्यात्‌ । नच तद्युक्तमित्यर्थः । कुतो न युक्तमित्यत आह ॥ नहीति ॥ सवा अयमात्मा ब्रह्मेत्यत्रात्मशब्दस्य जीवपरत्वायोगेहेतुमाह ॥ नचेति ॥ अत्रात्मशब्दस्य जीवपरत्वे विज्ञानमयत्वादेः कथञ्चित्तस्मिन्‌ सम्भवेपि सर्वमय इत्युक्तं सवर्प्राधान्यं जीवस्य कथमपि न युज्यते । नच सर्वमय इति स्वरूपत्वमुच्यत इति वाच्यम्‌ । त्ययापि जीवस्य विशिष्यस्य सर्वस्वरूपत्वानङ्गीकारात्‌ । जीवचैतन्यस्य सर्वचैतन्याभेदाथर्त्वेच लक्षणशपातात्‌ । अतो नायमात्मशब्दो जीवपर इत्यथर्ः । तविहेत्वन्तरमाह ॥ ब्रह्मेति ॥ 2 ॥ ननु मुच्यमानस्य देहान्तरप्राप्तेरसम्भवात्कथं तृण जलूकादृष्यान्त इत्यतस्तज्जीवपरमिति प्रतीति निरासाय प्रमाणेन व्याचष्ये ॥ यथेति ॥ अयमात्मेत्यस्यार्थोभगवान्पुरुषोत्तम इति । जीवस्य सूक्ष्मशरीरं लिङ्गशरीरं प्राप्येत्यनेनान्यमाक्रममाक्रम्येत्येतद्वयाख्यातं आत्मानमुपसंहरतीत्यस्यार्थः स्थूलं देहं परित्यजेदिति । इदं शरीरं निहत्येत्यस्यार्थमाह ॥ इदमिति ॥ अविद्यां गमयित्वेत्यस्यार्थमाह ॥ अविद्याञ्चैवेति ॥ ज्ञानसर्जनादेवेत्यन्वयः ॥ 3 ॥ तद्यथापेशस्कारीपेशसोमात्रामुपादायेत्यादिव्याचष्ये ॥ स्वर्णकार इति ॥ कल्याणतरमित्यस्यार्थः स्वर्णमलमग्नौनिहत्येति

?Rआत्मेष्यंरूपं रुचककटकादिकं आत्माग्नौ आत्मज्ञानाग्नौस्वेच्छयाप्ययोग्यानां योग्यं रूपं करोतिकिमित्यत आह ॥

?Rयद्योग्यमिति ॥ एतदेव विवृण्वन्‌ पित्ऱ्यं वेत्यादेरथर्माह ॥ पितृजीवस्येति ॥ पित्ऱ्यं रूपं कुरुत इति सम्बन्धः । तस्य गन्धर्वजीवस्य गान्धर्वमेवेति सम्बन्धः । प्रजापतेः रुद्रस्य । ननु भवत्वेवमुत्सर्गः ततापि क्वपि देशेक्वापि कालेतत्तद्योग्यतातिक्रमेणापि करोति किं नेत्याह ॥ नेति ॥ विनारूपं कुरुते इत्यनुवर्तते । ननु स्वादेतद्वदियोग्यतैव सिद्धा स्यात्‌ सैव कुत इत्यत आह ॥ पूर्वप्रज्ञेति ॥ तं विदयाकर्मणीसमन्वारभेतेपूर्वप्रज्ञाचेति श्रुतेः योग्यतासिद्धिरित्यर्थः । ननु पित्रादिजीवस्य पित्ऱ्यादिरूपं कुरुत इति कथं पित्रादीनां पित्ऱ्यादेरूपस्य पूर्वमेवसिद्धत्वात्‌ सिद्धस्य करणायोगादित्यतः तदभिप्रायमाह ॥ यदेति ॥ ब्रह्मायदामुक्तो भवेत्‌ तदैवसमुख्यतो ब्रह्म एवमेव प्रजापतिरपि रुद्रोपि शेष इति यावत्‌ यदामुक्तो भवेत्‌ तदैवमुख्यतः प्रजापति अन्येपि देवाद्यायदामुक्ता भवेयुस्तदैवतेमुख्यतो देवाद्याः मुक्तेः पूर्वं तु ब्रह्मादीनां ब्रह्मत्वादियोग्यतामात्रं न मुख्यतो बह्मत्वादिकं अविद्यवृतत्वादित्यर्थः । तथाच पूर्वं विद्यमानमपि पित्ऱ्यादिरूपमविद्यवृतं तन्निवर्तनेनैवशुद्धं करोतीति भावेनैव तत्करोतीति व्यपदेशो नतु पूर्वमविद्यमानकरणाभिप्रायेणेति भावः । अत्र दृष्यान्तमाह ॥ यथाहीति । स्वर्णरूप्याद्यं तन्मयरुचककटकादिकं मलहानावेव तद्भवेत्‌ मुख्यतः स्वर्णरूप्यादिमयरुचककटकादिकं भवेत्‌ पूर्वं मलसद्भावदशायान्तु योग्यतामात्रं न मुख्यतः सुवर्णादिमयरुचककटकादिकमित्युच्यत इत्यर्थः । स्वर्णरूपादीति पाठेपि स्वर्णमयं रुचककटकादीत्येवार्थः । एकस्यैव पूर्वं योग्यतामात्रं पश्ऱ्चादतिशयभावेन मुख्यतस्तद्भवनमित्यत्र स्पष्यं दृष्यान्तमाह । द्विजत्वमिति ॥ बालके अनुपनीते यथाद्विजत्वं द्विजत्वयोग्यतैव नतु मुख्यतो द्विजत्वं उपनयनरूपसंस्कारे च यथामुक्यो द्विजत्वं तथेत्यर्थः । एवं पित्ऱ्यं वागान्धर्वं वेत्यादिकं मुक्तपरत्वेन व्याख्यायेदानीं पित्ऱ्यं पितृलोकेभोगयोग्यं शरीरं कुरुते । एवं गान्धवर्मित्यादि अन्येषां मूतानां तिर्यगादि सम्बन्धिशरीरं कुरुत इति यत्परेणामुक्तपरतयाव्याख्यातं तत्‌ दूषयति ॥ नहीति ॥ किञ्चामुक्तानां पित्रादीनां कल्याणतरत्वाभावेपि कल्याणमात्रत्वं सम्भावितं तेषामविद्याकार्मादिरूपमलसद्भावेपि शारीरमलाभावात्‌ । अन्येषां मूतानामित्युक्तानां तिर्यगादीनां कल्याणत्वमपि न सम्भवति । शारीरमलस्यापि सद्भावादिति भावेनाह ॥ नचेति ॥ ननु अयमात्मेदं शरीरं निहत्यपातयित्वा अविद्यां गमयित्वाचेतनं कृत्वा अन्यन्नवतरं कल्याणतरं रूपं शरीरं कुरुत इति मरणमात्रमेवात्रोच्यते मुक्तिरूपमरणेशरीरान्तरग्रहणायोगात्‌ अतः कथं मुक्त परत्वेन व्याख्यानमित्यत आह ॥ मरणमात्रं चेदिति ॥ व्यर्थं विगतार्थं उक्तरीत्या विरुद्धार्थञ्च किञ्च पित्ऱ्यं वागान्धर्वं वेत्यादिनोक्ताः पित्रादयोनामुक्ताः । स एकः पितॄणां जितलोकानामानन्द इत्यादिना पूर्व प्राह्मणोक्तानां पित्रादीनामेवात्रोक्तत्वात्‌ तेषां च जितलोकत्व श्रोत्रियत्वादिभिः मुक्तत्वस्य निर्णीतत्वात्‌ । नच तत्र पितरोगन्धर्वाः कर्मदेवाः जानदेवाः प्रजापतिः ब्रह्माचेति षडुच्यन्ते अत्र पुन पित्ऱ्यंवेत्यादिना पञ्चैव अतः कथं तत्रोक्तानामेवात्रोक्तिरिति वाच्यम्‌ । दैवमित्यस्य कर्मदेवा जानदेवसम्बन्धीति व्याख्यानात्‌ इति भावेनाह ॥ पूर्वोक्तेति ॥ ननु पित्ऱ्यं वेत्याद्युक्तानां पित्रादीनाममुक्तत्वे यथाकल्याणतरतवमयुक्तं तथा तेषां मुक्तत्वाङ्गीकारे नवतरत्वमनुपपन्नं पूर्वमविद्यमानस्वरूपप्राप्तेरभावादित्यत आह ॥ पूर्वेति ॥ कल्याणतरत्वसमुच्चयार्थश्ऱ्चशब्दः । प्रकारान्तरेणापि नवतरत्वं प्रमाणेन घटयति ॥ अल्पेति ॥ संसृतौ जीवरूपमल्पतेज एव तथापरिमाणतोप्यल्पमेवास्ति हि यस्मात्‌ संसृतावल्पतेजोजीवरूपं मुक्तौ सुमहत्तेजः करोति । तथैव संसृतावल्पं परमं सूक्ष्मं जीवरूपं मुक्तौ महत्‌ महापरिमाणवत्करोति । अतो ब्रह्मादीनामेतद्रूपं नवतरं करोतीत्युच्यत इत्यर्थः । ननु पूवर्ब्राह्मणेसमनुष्याणां परमानन्द इति चक्रवर्तिनोऽभिहिताः नचात्रतेऽभिधीयन्ते अतः कथं तत्रोक्तानामेवात्रोक्तिरित्यतः अन्येषां वा भूतानामित्यनेन तेप्युक्ता एवेत्याह ॥ अन्येषां वेति ॥ म्नुष्यादीनां चक्रवर्त्यादीनामित्यर्थः । पूर्वब्राह्मणे मनुष्यपदेन चक्रवर्तिनामुक्तत्वात्‌ । आदिपदेनमनुष्योत्तमाग्राह्याः । पूर्वब्राह्मणे च चक्रवर्तिभ्योनीचामनुष्योत्तमाग्राह्या एव । अन्येभ्योपि विमुक्तेभ्य आनन्दश्ऱ्च क्रवर्तिनामित्युक्तत्वात्‌ । नन्वन्येषां भूतानामिति सामान्यत एवोक्तत्वात्तेनोक्तव्यरिरिक्तभूतमात्र ग्रहणं किं न स्यादिति चेन्न । तमोयोग्यानां नित्यसंसारिणाञ्च कल्याणतरं मोक्तं रूपं न भविष्यतीति प्रमाणसिद्धत्वेन तेन तेषां ग्रहणायोगादिति भावेनाह ॥ नासुरादीनामिति ॥ B-32

?Rनु यदि पूर्वब्राह्मणोक्तानामेव पित्रादीनामत्रोक्तिस्तर्हि तद्वदेवात्रापि तेषां तारतम्यं विवक्षितमिति वक्तव्यं नच तद्युक्तं तथात्वे सुवर्णदृष्यान्तातानानुगुण्यात्‌ । नहि स्वर्णेस्वाभाविकं तारतम्यं वर्तत इत्याशङ्कां प्रमाणेन परिहरति ॥ मयन्त्विति ॥ तुशब्द एवार्थः पीतमेवेति सम्बन्धः यतोयं नैजोविशेषः अतोग्न्यादिनापि तानिमानुषस्वर्णादीनि समतां न यन्ति । अग्न्यादिनेत्यादिपदेनौषध ग्रहणं स्वभावेनैव विशिष्या इति सम्बन्धः । किञ्च पित्ऱ्यं वेत्यादिनोक्ताः पित्रादयोमुक्ता एवेत्याङ्गीकार्यं एतत्प्रकरणस्य मुक्तपरत्वात्‌ तदेवकुत इति चेत्‌ एतत्प्रकरणोपक्रमे सय त्रायमणिमानं न्येति

?Rसयत्रायमात्माबल्यं न्येत्येति भगवत्प्राप्तेरुक्तत्वात्‌ । तस्य है तस्येति हृदयाग्रद्योतनलिङ्गस्योक्तत्वाच्च उक्तार्थेतेन धीरा इति

?Rतेनैतीति च यस्यानुवित्त इति च मुक्तप्रतिपादकमन्त्रोदाहरणाच्चेति भावेनाह ॥ सयत्रेति ॥ एतत्प्रकरणस्य मुक्तविषयत्वे नियामकान्तरमाह ॥ मुक्तविषयत्वेनेति ॥ ननु तदोकोग्रज्वलनमिति सूत्रस्य मुक्तविषयत्वेपि सगुणमुक्तविषयत्वमेव न निर्गुणमुक्तविषयत्वं हृदयाग्रप्रज्वलनप्रकाशितमार्गेणोत्क्रान्तस्य अर्चिरादिना तत्प्रथितेरित्यादिना अर्चिरादिमार्गोक्त्या तत्र तेषां भोगप्रतीतेः । नच निर्गुणमुक्तौ भोगोस्ति तथाच कथमेतत्सूत्र बलादेतत्प्रकरणस्य निर्गुणमुक्तिपरत्वसिद्धिरिति चेत्‌ । न । स्यादेतत्‌ यदि भोगरहितानिर्गुणमुक्तिः नामकाचित्स्यात्‌ नच ससास्ति तत्र प्रमाणाभावादित्याह ॥ नचेति ॥ न केवलं प्रमाणाभावादन्यामुक्तिः नास्ति अपितु श्रुतिस्मृतीतिहासपुराणेषु निर्गुणमुक्तिविषयत्वेन प्रसिद्धेष्वेवस्थलेषु तेषां मुक्तानां मुक्त्यनन्तरभोगोक्तेश्ऱ्चेत्याह ॥ सोश्रुत इति ॥ तेषां निर्णयेमुक्तिविषयत्वेनेति पोठेतषां श्रुतिस्मृतीतिहासपुराणवाक्यानां निर्णयेकृत इत्यर्थः । परममुक्तिविषयत्वेनेत्यर्थः । (यद्वा तेषां मायावादिनामित्यथर्ः) । नच सोश्ऱ्नुत इति वाक्यं गौणमुक्तिविषयं ब्रह्मविदापनोति परमित्युक्तौ किं च तद्वेदनं कीदृशीच तत्प्राप्तिरिति शङ्कात्रयोत्पत्तौ आद्यशङ्काद्वयेसत्यं ज्ञानमिति योवेदेति च वाक्यद्वयेन परिहृते तृतीयशङ्कापरिहार्थं ह्येतदुच्यते । नच गौणमुक्तौ परब्रह्मप्राप्तिरस्तीति भावः । नचानन्दमयशब्दोन परब्रह्मपरः किन्तु कोशपर इति वाच्यम्‌ । तथात्वे उपसङ्क्रम्येति तत्प्राप्तेः फलत्वेन कथनायोगात्‌ । नहि कोशप्राप्तिः फलं नचानन्दमयमात्मानमतिक्रम्येत्यर्थो वाच्यः। तथात्वे उपशब्दविरोधात्‌ । त्वः कश्ऱ्चिद्ब्रह्मा ऋचां पोषं पोषणं पुपुष्वान्कुर्वन्नास्ते त्वः कश्ऱ्चिद्ब्रह्मा शक्वरीषु ऋक्षु आरूढं गायत्रं सामगायतीति मुक्तस्य ब्रह्मणः ऋक्‌ पोषणकर्तृत्वादिभोगः प्रतीयते अनेक ब्राह्मप्रतीतेरिदं परममुक्तिविषयम्‌ । नहि सगुणमुक्तावनेके ब्रह्मणः सन्ति स एकधेत्यादिनोक्तं बहुरूपत्वमपि भोग एव । विजानतां मुनीनामात्मास्वामी हिरण्यगर्भोपि परमात्मानं प्राप्यतादृगेव भवतीति परमात्मसाम्यप्राप्तिरूपोभोग उच्यते । परमं साम्यं स्वरूपानन्दाविर्भावरूपं मम साधर्म्यमागता इत्यस्य परममुक्तिपरत्व सिध्यर्थं पूर्वोत्तरवाक्योदाहरणम्‌ । ननु श्यामावदाताः शतपत्रलोचना इत्यादिना मुक्तानां शरीरं प्रतीयते स तत्र पर्येतीत्यादिनाक्रियाच तच्चाशरीरं वा वसन्तमित्यादि प्रमाणविरुद्धमित्यतस्तयोर्विरोधं परिहरति ॥ अशरीरेति ॥ ते विमोक्षिणः सत्यदिगुणमयदेहादेरभावत अशरीराक्रिया उच्यन्ते चिदानन्दशरीरादेः सदेहाद्या उच्यन्त इत्यर्थः । किमेवं प्रमाणद्वयव्यवस्थाकल्पनया सर्वथा देहाद्यभाव एवार्थः किं न स्यात्‌ इति चेन्न । इन्द्रियादिशून्यानामपि भोगोक्तेस्तदन्यथानुपपत्त्योक्तव्यवस्थाया अङ्गीकार्यत्वादिभावेनाह ॥ अनिन्दिया इति ॥ 4 ॥ विज्ञानमयोमनोमय इत्यादौ मयटोविकाराथर्त्वप्रतीति निरासायार्थद्वयमाह ॥ मयडिति ॥ सवा अयमात्मेत्यादिकं जीवपरमिति परकीयव्याख्याननिरासाय तावत्पदचतुष्ययं प्रमाणेन व्याचष्ये ॥ आत्मेति ॥ विज्ञानमय इत्यादिशब्दपञ्चकं व्याचष्ये ॥ पूर्णेत्यादिना ॥ मयटः प्राचुर्यार्थत्वमभिप्रेत्यपूर्णेत्युक्तं स्वरूपार्थत्वमभिप्रेत्यस्वरूपत्वादित्युक्तम्‌ । एवमुत्तरत्रापि । सर्वं मनुत इति सर्वमन्तातत्स्वरूपत्वादित्यर्थः । एवं सर्वद्रष्यृस्वरूपत्वादित्यादिकं व्याख्यायम्‌ । पृथिवीमय इत्यादिशब्दपञ्चकस्यार्थमाह ॥ सर्वाधारादिति ॥ पृथिवीवद्धारकत्वाद्गन्धवत्त्वाच्चपृथिवीत्युच्यते । मयटः प्राचुर्यार्थत्वेन सर्वाधारत्वात्सुगन्धत्वाच्चपृथिवीमय इत्युच्यत इत्यर्थः । एवमपतृप्तिकरत्वादाप इत्युच्यते सर्वतृप्तिकरत्वादापोभयः स्मृत इत्यादिव्याख्येयम्‌ । अवकाशप्रदातृत्वादाकाश ईर्यते सर्वेषामवकाशप्रदातृत्वात्स्वान्त्ऱ्ेणावकाशप्रदातृत्वाद्वा आकाशमय इत्यर्थः । पूर्णतेजः स्वरूपत्वादित्यनेन मयटोर्थद्वयमुक्तम्‌ । काममयः क्रोधमयोधर्ममय इति पदत्रयं व्याचष्ये ॥ सृष्ययादीति ॥ अतेजोमय अकाममयः अक्रोधमयः अधर्ममय इति शब्दचतुष्ययस्य विरोधपरिहारायार्थमाह ॥ अप्राकृतेति ॥ प्राकृत तेजः स्वरूपत्वाद्यभावादेवातेजोमय इत्याद्युक्त इत्यर्थः । यद्वा अतेजोमय इत्यादिवदविज्ञानमय इत्याद्यपि ग्राह्यमिति भावेन तस्यार्थमाह ॥ अप्राकृतेति ॥ प्राकृत विज्ञानादिस्वरूपत्वाभावादेवाविज्ञानमय इत्याद्युक्त इत्यर्थः । अविज्ञानमय इत्यादीनामतेजोमय इत्यन्तनां शब्दानामर्थान्तं क्रमाविवक्षयाऽऽह ॥ अपार्थिव इत्यादिना ॥ हरेः गन्धोपार्थिवोयतोतोपृथिवीमय इत्युच्यत इत्यादि व्याख्येयम्‌ । अस्य श्रोत्राद्याः श्रोत्र चक्षुः प्राणाः नोत्राद्याः प्रसिद्धश्रोत्रादितत्वात्मकाः न भवन्ति । अस्याकाश आकाशतत्वात्मको न भवतीति योज्यम्‌ । अविज्ञानमय अमनोमय इत्येतदपि मन; प्रभेदान्तरराहित्योपलक्षकमिति भावेनाह ॥ नाहमिति ॥ सर्वात्मकत्वप्रतीति निरासाय सर्वमय इत्येतद्वयाचष्ये ॥ प्रकृत्यादीति ॥ प्रकृत्यादीनां रमादीनां गुणा आनन्दाद्याः परमात्मगुणप्रतिबिम्बभूताः यस्मादतोविष्णुः सवर्मयः सर्वप्रधानः सर्वगुणस्वरूपश्ऱ्चेत्यर्थः । सर्वात्मकत्वमेवार्थः किं न स्यादित्यत आह ॥ सर्वाद्यत्वादिति ॥ प्रकृत्यादिसर्वोपजीव्यत्वात्प्रकृत्यादिसर्वात्मको न भवतीत्यर्थः । अविज्ञानमय इत्यादिवदसर्वमय इत्यपि ग्राह्यमिति भावेन

?Rतथोक्तौ वा हेतुमाह ॥ सर्वाद्यत्वादिति ॥ असर्वमय इत्युक्तौ हेत्वन्तरमाह ॥ चिदानन्देति ॥ तस्य गुणाः

?Rसर्वदाचिदानन्दात्मकाः न केवलमेतावत्‌ किन्तु सर्वगुणात्मकाश्ऱ्च यतो त एषां भगवद्गुणानां सर्ववैलक्षण्यमसर्वमय इत्यनेन प्रकीतिर्तमित्यर्थः । ननु भगवतः क्रोधरूपगुणः प्रज्वलनात्मकोचिदानन्दात्मकश्ऱ्चाङ्गीकार्यः तथाच कथमेवमुक्तमित्यत आह ॥ क्रोध इति ॥ कुत इत्यत आह ॥ अन्येति ॥ जीवक्रोध सदअश इत्यथर्ः । एवं क्रोधस्येतरवैलक्षण्यमुपपाद्येतरेषामपि गुणानां तदुपपादयति ॥ एवमिति ॥ सर्वेभ्योऽन्यगुणेभ्यः । नन्वस्त्वेवं सवा अयमात्मेत्यादेः व्याख्यानं तथाप्यसङ्गतमेतत्कथमुच्यत इत्याशङ्कां परिहरति ॥ पूर्वेति ॥ तमुक्तमाहात्म्यविशिष्यं तथाच सयत्रायमात्माबल्यमित्यानामुक्तप्राप्यत्वेन प्रकृतपरमात्ममाहात्म्यप्रतिपादकत्वान्नासङ्गतिरिति भावः । पूर्वप्रज्ञानामकेत्यत आह ॥ अनादीति ॥ विष्णुसंश्रयाविष्णुविषयिका इदं मय अदोमय इति शब्दयोरर्थावाह ॥ वर्तमानमिति ॥ इदं मयादोमयशब्दाभ्यां कथमुक्तार्थलाभ इत्यतस्तदुपपादयं मयशब्देनोच्यते तस्यातीतानागतस्य जगतः प्रधानोहरिरदोमयशब्देनोच्यते । हरेरस्य तस्य प्राधान्येहेतुमाह ॥ नित्येति ॥ तथाच सर्तमानस्यातीतानागतस्य च जगतोविष्णुवशत्वं लभ्यत इति भावः । यतः स्वरूपेमयट्‌प्रोक्तोभवेत्‌ तत इदं रूपोवर्तमानकालावच्छिन्नोहरिरिदं मयशब्देनोच्यत । अदोरूप अतीतानागतकालावच्छिन्नोहरिरदोमयशब्देनोच्यते । वर्तमानातीतानागतरूपत्वेहेतुमाह ॥ नित्यत्वत इति ॥ अनादिनित्यत्वत इत्यर्थः । तत्‌ यत्‌ एतत्‌ इति पदत्रयस्य प्रसिद्धार्थत्वप्रतीति निरासायार्थान्तरं प्रमाणेनाह ॥ यथेति ॥ अतीतवर्तमानकालयोरेकप्रकारत्वं तच्छब्दार्थः । ब्रह्माण्डात्‌ शरीराद्वबरिन्तश्ऱ्चैकप्रकारत्वं यच्छब्दाथर्ः । वर्तमानभविष्यत्कालयोरेकप्रकारत्वमेतच्छब्दार्थ इत्यर्थः । यथाकारीत्यादिकं जीवपरमिति प्रतीतिनिरासायतावत्सयथाकारीयथाचारी तथा भवतीति वाक्यं व्याचष्ये ॥ स इति ॥ साधुकारीसाधुर्भवति पापकारीपापोभवतीति वाक्यं व्याचष्ये ॥ साधुरिति ॥ पुण्यः पुण्येन कर्मणाभवतिपापः पापेनेति वाक्यं पुण्यादेः स्वातन्त्ऱ्यनिरासाय व्याचष्ये ॥ तत्प्रेरितेनेति ॥ अथोखल्वाहुः काममय एवायं पुरुष इति वाक्यं व्याचष्ये ॥ आहुश्ऱ्चेति ॥ काममयः कामप्रधानकः योग्यतया हरेरित्यस्य लाभः त(त्र)स्य लब्धार्थमाह ॥ तत्कामाधीनमिति ॥ सयथाकामोभवति तत्क्रतुर्भवतीति वाक्यं व्याचष्ये ॥ यथाकाम इति ॥ तथाभवेत्‌ तथाकमो भवेत्‌ । नन्वेवं परमात्मा यदि जगत्सृष्ययादिकामस्तदाऽयमिमपि तत्कामः स्यात्‌ किमित्यतस्तदभिप्रायमाह ॥ तत्कामादस्य कामः स्यादिति ॥ प्रकारान्तरेणापि सयथाकामो भवति तत्क्रतुर्भवतीति वाक्यं व्याचष्ये ॥ कामानुसारिणीनिष्ठेति ॥ भगवत्कामनुसारिणीत्यर्थः । यत्क्रतुभर्वतितत्कमुकुरुत इत्यस्यार्थमाह ॥ कर्मनिष्ठानुसारत इति ॥ यत्कर्मकुरुतेतदभिसम्पद्यत इत्येतद्वयाचष्ये ॥ फलं कर्मानुसारेणेति ॥ स यथा काम इत्यादिकं प्रकृतासङ्गतं किमर्थमुच्यत इत्यतोजीवस्य विष्णुकाममयत्वोपपादकं तदिति नासङ्गतमित्याह ॥ विष्णोरिति ॥ हि यस्मात्तत्कामादस्य कामः स्यात्‌ यस्माच्चततकामानुसारिणीनिष्ठा निष्ठानुसारतः कर्मकर्मानुसारतः फलं ततोऽयं जीवः विष्णोः काममय इति सम्बन्धः । अस्त्वेवं सवा अयमात्मेत्यादिकमीश्ऱ्वरपरं बाधकाभावाज्जीवपरमपि किं न स्यात्‌ । नच ब्रह्मेति विशेषणाच्चेति बाधकमप्युमिति वाच्यम्‌ । जीवस्य ब्रह्माभिन्नत्वाभिप्रायेण तद्विशेषणसम्भवादिति चेन्न । स्यादेतदेवं यदि जीवेश्ऱ्वराभेद एव भवेत्‌ नचैतदस्ति तदङ्गीकारे प्रमाणविरोधापत्तेरिति भावेन तावत्सूत्रविरोधमाह ॥ जीवेति ॥ सुषुप्त्युत्क्रान्त्योः प्रकरणयोः जीवस्य परमात्मनोभेदेन व्यपदेशान्नजीवस्येश्ऱ्वराभेद इत्यर्थः । सूत्रोपात्तश्रुतिविरोधञ्च दर्शयति ॥ प्राज्ञेनेति ॥ ननु श्रुतिसूत्रयोः जीवेश्ऱ्वररभेदोक्तावपि न तयोरभेदाङ्गीकारेतद्विरोधः । श्रुतिसूत्रयोः मिथ्याभूतभेदपरत्वेन पारमार्थिकाभेदाविरोधित्वादिति चेत्‌ न । सुषुप्त्युत्क्रान्तिप्रकरणयोः मोक्षपरतायाः प्रागुपपादितत्वात्‌ । मोक्षेच विद्यमानस्य भेदस्य मिथ्यात्वं नामपरिभाषामात्रम्‌ । किञ्च जीवेश्ऱ्वरभेदस्य मिथ्यात्वे स भेदः किं व्यावहारिकः प्रातिभासिकोवा भवेत्‌ । न तावदाद्यः जीवेश्ऱ्वरभेदस्य व्यावहारिकत्वे प्रमाणाभावात्‌ । नतावत्तत्र प्रत्यक्षं मानं ईश्ऱ्वरस्याप्रत्यक्षत्वात्‌ । प्रत्यक्षस्य भेदव्यावहारिकत्वागाचरतवाच्च । अनुमानं तु स्यात्‌ यदिकोपि भेदोव्यावहारिको भवेत्‌ । तत्सत्वे तद्दृष्यान्तेनास्यापि भेदस्य व्यावहारिकत्वानुमान सम्भवात्‌ । नच तदस्ति तत्र प्रमाणाभावादित्याह ॥ नचेति ॥ यद्वा प्रमाणभावेन भेदमात्रस्यैव व्यावहारिकत्वाभावे जीवेशभेदव्यावहारिकत्वस्य सुतरामयुक्तत्वादित्याह ॥ नचेति ॥ द्वितीयं दूषयति ॥ भ्रान्तिभेदत्व इति ॥ भ्रान्तिसिद्धभेदत्वे प्रातिभासिकत्वे इति यावत्‌ । यद्वा मास्तु व्यावहारिकोभेदः कश्ऱ्चिदस्तीत्यत्र किञ्चित्प्रमाणं तथापि भ्रान्तिसिद्धश्ऱ्चन्द्रभेदोस्त्येव । तथाच तद्दृष्यान्तेन जीवेशभेदस्यापि भ्रान्तिसिद्धत्वसिद्धेः तत्परत्वं श्रुतिसूत्रयोः स्यादित्यत आह ॥ भ्रान्तिभेदत्व इति ॥ ननु जीवेशभेदस्य भ्रान्तिसिद्धत्वे श्रुतिसिद्धत्वं कुतो न स्यात्‌ न भ्रान्तिसिद्धश्ऱ्चन्द्रभेदोयज्ञदत्तादिवाक्यसिद्धोन भवतीति चेत्‌ न । स्यादेव भ्रान्तिसिद्धस्यापि

?Rचन्द्रभेदस्य यज्ञदत्तादिवाक्यसिद्धत्वं तस्य दुष्येत्वेनाप्रमात्वात्‌ । श्रुतेश्ऱ्चनिर्दोषवाक्यत्वेन प्रमाणत्वात्‌ । तत्सिद्धभेदस्य

?Rभ्रान्तिसिद्धत्वायोगादित्यत आह ॥ नहीति ॥ भ्रान्तं भ्रान्तिविषयः । ननु श्रुतिवाक्यसिद्धस्यापि जीवेश्ऱ्वरभेदस्य भ्रान्तिसिद्धत्वमस्तु कोदोष इति चेत्‌ । तथा सति तत्सिद्धस्य जीवब्रह्मभेदादेरपि भ्रान्तिसिद्धत्वं स्यात्‌ अविशेषात्‌ । अस्तुतदपीति चेत्तत्राह ॥ उन्मत्तवाक्यवदिति ॥ वाक्यस्य भ्रमसिद्धार्थप्रतिपादकत्वेप्यप्रामाण्यं कुतः दृष्यान्तेकारणान्तरसम्भवादिति चेन्न । यावतातदेववाक्यस्याप्रामाण्यं यत्स्वविषयस्य भ्रमसिद्धत्वमेव । नच तदतिरिक्तमप्रामाण्यं नामास्ति येन दृष्यान्तेकारणान्तरमसमम्भव इत्याह ॥ नचेति ॥ ननु जीवेशभेदस्य भ्रमसिद्धत्वेपि तत्प्रतिपादकवाक्यस्य प्रामाण्यं युक्तं अभेदबोधकागमवत्तत्त्वावेदकत्वलक्षणप्रामाण्याभावेपि जीवब्रह्मभेदस्यानिर्वाच्यत्वेन तत्प्रतिपादकवाक्यस्याऽतत्वावेदकप्रमाणत्वोपपत्तेरिति चेन्न । तथा सति त्वन्मते उन्मत्तवाक्यप्रतिपाद्यार्थस्यापि अनिर्वाच्यत्वेन तस्याप्यतत्वावेदप्रमाणत्वापत्तेरित्याह ॥ तन्मत इति ॥ ननून्मत्तवाक्यं प्रातिभासिकार्थप्रतिपादकमित्यप्रमाणं श्रुत्यादिकन्तु व्यावहारिकभेदप्रतिपादकमिति प्रमाणं स्यादिति चेन्न । व्यावहारिकभेदेमानाभावेन श्रुत्यादेस्तत्परत्वायोग इत्युक्तत्वात्‌ । जीवेशभेदस्यापि भ्रान्तिसिद्धत्वाङ्गीकारेप्रातिभासिकत्वस्याप्यापाताच्च । प्रातिभासिकत्वे भ्रान्तिसिद्धत्वस्यैव प्रयोजकत्वात्‌ । ब्रह्मज्ञानान्यबाध्यभ्रमसिद्धत्वादेः गौरवकरत्वेनाप्रयोजकत्वात्‌ । अन्यथा प्रवृत्तिमात्रेसंसर्गज्ञानं न कारणं किन्तु प्रवृत्तिविशेषं प्रत्येव । वह्निमात्रेधूममात्रं न प्रयोजकं किन्तु धूमविशेष एवेत्यपि स्यादिति । किञ्च न केवलं प्रमाणाभावाच्छत्यादेः नापरमार्थिकभेदपरत्वं किन्तु जीवेश्ऱ्वरौभिन्नौ विरुद्धधर्माधिकरणत्वाद्घटपटवदिति अनुमानविरुद्धत्वाच्च । नचासिद्धिः श्रुत्यादिषु भगवतः स्वातन्त्ऱ्ादेः जीवस्य तदनुजीवनादेश्ऱ्चश्रवणात्‌ । नन्वस्त्वेवं जीवेश्ऱ्वरभेदसाधनं नैतदस्माकं विरोधि । अस्माभिरपि असत्यस्य जीवेश्ऱ्वरभेदस्याप्युपगमात्‌ । नच विरुद्धधर्माधिकरणत्वानुपपत्तिः । तस्याप्यसत्यत्वाभ्युपगमादित्यत आह ॥ सत्य इति ॥ स पूर्वोक्तः अस्य महिमासत्यः विप्रप्रधानकेषु यज्ञेषु शवः सुखमुद्दिश्यतं गृणष इत्यर्थः । गृणतोमघोनोदेवस्य रातिमिष्यं एनं परमात्मानं विश्ऱ्वेजीवाः अनुमदन्ति अनुजीवन्तीत्येतत्सत्यमित्यर्थः । अस्त्वेवं विरुद्धधर्माधिकरणत्वस्य सत्यत्वं किंतत इत्यत आह ॥ तदेति ॥ किञ्च न जीवेश्ऱ्वरभेदोसत्यः अस्तीति विधिप्रत्ययसिद्धत्वात्‌ संसारमोचनाद्यर्थक्रियासमर्थत्वाच्च । नच प्रत्ययसिद्धत्वमेवहेतुरस्त्विति वाच्यम्‌ । शुक्तिकामेवायं रजतत्वेन जानातीत्यनुवादरूपप्रतीति विषयशुक्तिरूप्यादौ व्यभिचारापत्तेः । नचैवमपि व्यभिचारः । सर्वविधिपअत्ययसिद्धस्य हेतुत्वात्‌ नच सर्वेषामेकस्मिन्नर्थे भ्रान्तिरस्ति नचासिद्धिः श्रुत्यादिना सार्वज्ञ्यादिगुणं परमात्मनं प्रत्यक्षेणतद्विरुद्धमात्मानं च पश्यतः तद्भिन्नोऽहमिति प्रतीतेः सर्वानुभवसिद्धत्वात्‌ यथोक्तम्‌ । अज्ञताचाल्पशक्तित्वमित्यादि । नन्वस्तुसवर्विधिप्रत्ययसिद्धत्वमर्थक्रियासमर्थत्वं वा मास्त्वसत्यत्वाभाव इत्यत आह ॥ नचेति ॥ सर्वविधिसिद्धस्यार्थक्रि

?Rयाकारित्वेन सिद्धस्येत्यर्थः । स्यादेवं यदि सर्वविधिप्रत्ययसिद्धस्यार्थक्रियासमर्थस्यापि कुत्रचिद्बाधः स्यात्‌ । नचासौदृष्यः । तेनासत्यत्वाभावे सर्वविधिप्रत्ययसिद्धत्वादिकमेव प्रयोजकमिति भावः । ननु भयकम्पाद्यर्थक्रियाकारिणः रज्जुसर्पादेः स्वप्नार्थस्य च बाधोदृष्य एवेति चेन्न । रज्जुसर्पादिज्ञानस्यैव भयकम्पादिजनकत्वात्‌ । तस्य चाबाध्यत्वात्‌ । स्वप्नार्थस्य सृष्ययुक्त्यातत्सत्यत्वस्यलोक्तत्वादिति । इतोपि न जीवेश्ऱ्वरभेदस्यासत्यत्वमित्याह ॥ नहास्येति ॥ नन्वत्र मुक्तिवाचकपदाभावात्‌ संसार एवात्माधीनत्वं जीवस्योच्छत इति किं न स्यादित्यत आह ॥ नहीति ॥ नन्वक्षीणकर्मत्वं नामाक्षीणकर्मफलत्वमेव । तच्चसंसारावस्थायामप्यस्त्येव सर्वात्मनाकर्मफलस्याक्षीणत्वाभावेपि बहुकालानुवृत्तत्वाभिप्रायेण तदुक्त्युपपत्तेरित्य आह ॥ नचेति ॥ असबाधक इति ॥ एवमुपपादितं जीवेशभेदासत्यत्वाभावमुपसंहरति ॥ अत इति ॥ ननु स भगवान्यथाकरीयथाचारीयादृशं कर्मयादृशमाचारं च कोति तथा भवतीत्यर्थप्रतीतेः स यथाकरोति पुरुषमिति कथं व्याख्यानमित्यत आह ॥ स इति ॥ जीवमिति शेषः । तथा भवति जीव इति शषः । नच कर्माचारयोः भेदाभावः । आचार इति सम्प्रोक्तः कर्मङ्गत्वेन शुद्धिद इत्युक्तेः । स यथाकामो भवति तत्क्रतुर्भवतीति वाक्यं यथाकामस्तथाभेवेदिति प्रमाणेन व्याख्यातमप्यस्फुटीभूतत्वात्‌ जीवोयथाकामो भवतीति प्रतीतिनिरासाय व्याचष्ये ॥ स भगवानिति ॥ तत्क्रतुरित्यस्यार्थस्तथाकाम इति । ननु भगवतो जगत्सृष्ययादिकामत्वे जीवस्य तत्का(मत्वा)माभावात्कथमेतदित्यतः तत्कामादस्यकामः स्यादिति प्रमाणोक्तं तात्पर्यं विवृणोति ॥ इत्थमिति ॥ क्रतुशब्दस्य ज्ञानवाचकत्वात्तत्क्रतुरित्यस्य तथाकाम इति कथं व्याख्यानमित्यत आह ॥ क्रतुरिति ॥ अथवा कामानुसारिणीनिष्ठेति क्रतुशब्दोनिष्ठापरतया व्याख्यातः तत्र निष्ठाक्रतुशब्दयोरेकार्थत्वसिध्यर्थं क्रतुशब्दार्थमाह ॥ इत्थमिति ॥ अस्त्वेवं क्रतुः निश्ऱ्चयरूपः कामः स भगवदिच्छया भवतीत्यत्र किं मानमित्यत आह ॥ स इति ॥ हीति दैववशेन अस्येत्थमिच्छाजातेति लोकप्रसिद्धिं प्रमाणयति ॥ श्रुतिञ्चाह

?R॥ कामेनेति ॥ यद्वा हिशब्दसूचितां श्रुतिमाह ॥ कामेनेति ॥ मृत्योः कामेनमेकाम आगादित्यर्थः ॥ 5 ॥

?Rअथाकामयमान इत्यादिकममुक्तपरमिति प्रतीतिनिरासायाकामयमानाकामनिष्कामशब्दानां पुनरुक्तिं परिहरन्‌ प्रमाणेन मुक्तपरतया व्याचष्ये ॥ अयोग्येति ॥ तथाशब्द उपमार्थः । अकामयमानश्ऱ्चेति चशब्दान्वयः । राहित्यादित्यनुवर्तते । मुक्तस्यायोग्यकामोनास्त्येव । योग्यकामस्यापि सर्वस्य सर्वदानसमुद्भिति : । किन्तु कस्यचित्कदाचिदेव । तथाच योग्यकामस्यापि कादाचित्कसमुद्भूतेरपि भगवत्कामनां विनाराहित्यात्सोकामयमान इतीरित इत्यर्थः । आप्तकामात्मकामशब्दार्थावाह ॥ कामितस्येति ॥ कामत्वेन काम्यत्वेन । ननु तमुत्क्रामं तं प्राणोनूत्क्रामतीत्यादिना प्रामानामुत्क्रन्त्युक्तेः न तस्य प्राणा उत्क्रमन्तीति कथमित्यत आह ॥ मुक्तस्येति ॥ जीवोब्रह्मैवसन्‌ ब्रह्मप्येतीति जीवस्य ब्रह्मात्मकत्वमुच्यत इति परव्याख्याननिरासायप्रथमब्रह्मशब्दार्थं प्रमाणेनाह ॥ जीवोपीति ॥ तथाच ब्रह्मैव सन्नित्यस्य जीव एव सन्‌ जीवभावमविहायैवेत्यर्थः । द्वितीयब्रह्मशब्दस्यापि जीवपरत्वशङ्कानिरासायेदानीं तद्वाक्यं व्याचष्ये ॥ प्राप्नोतीति ॥ नन्वकामयमानत्वादि विशिष्योमुक्तः पूवर्मेवपरब्रह्मप्राप्तः अकामयमानत्वादेः त्प्राप्त्युत्तरकालीनत्वात्‌ तथाच मुक्तो ब्रहमैवसन्‌ ब्रह्माप्येतीति कथमुच्यत इत्युक्तम्‌ ॥ प्रलयेप्रलय इति ॥ तर्ह्यन्यदापि ब्रह्मप्राप्तेः सद्भावात्‌ किं विशिष्योच्यते प्रलय इति तत्राह ॥ अन्यदेति ॥ प्रलयेतु न विष्णोः स्वरूपाद्बहिरप्येतीति विशेष इत्यर्थः । प्रलये अन्यदावाविष्णोरन्तर्बहिर्वास्थितस्य मुक्तस्य किं दुःखादिकं भवति नेत्याह ॥ स्वेच्छयेति ॥ रमत एवेत्यन्वयः । यद्वा ब्रह्मसमश्ऱ्नुत इत्युत्तरमन्त्रानुसारेण ब्रह्माप्येतीत्येतद्भोगार्थत्वेन व्याचष्ये ॥ स्वेच्छयेत्वाद्धृदिश्रिता इति विशेषणं व्यर्थं व्यावर्त्याभावादित्यत आह ॥ स्वरूपभूता इति ॥ यदीदं विशेषणं न स्यात्‌ तदासर्वकामविमोचनोक्तिः बाधिततास्यात्‌ मुक्तानां स्वरूपभूतकामसद्भावात्‌ । अतोऽन्तःकरणस्थानामेव कामानां निवृत्तिं प्रतिपादयितुं तद्विशेषणमित्यर्थः । ननु मुक्तस्यापि हृदिस्थाः सर्वेकामाः मुच्यन्त इति कुत इत्यत आह ॥ हृदयस्यैवेति ॥ अथाकामयमान इत्यादेरमुक्तपरत्वाङ्गीकारेतत्रोदाहृतश्ऱ्लोके यदासर्वेप्रमुच्यन्ते इत्येतदयुक्तं स्यादित्याह ॥ नहीति ॥ नन्वमुक्तस्यापि सुप्तिमोहयोस्सर्वकामविमोचनमस्त्येव तदाकामानामनुपलम्भात्‌ यत्र सुप्तोन कञ्चनकामं कामयत इत्यादि श्रुतेश्ऱ्च । तत्कथमेवमुक्तमिति चेन्न । सुप्त्यादावप्यात्मनः कामसद्भावात्‌ । नच श्रुत्यानुपलम्भेन च विरोधः । विद्यमानानामपि कामानां तदानीमव्यक्तत्वेन श्रौताभावव्यवहारस्यानुपलम्भस्योच्चोपपेरित्याशयवानाह ॥ सुप्त्यादावपीति ॥ आदिपदेन मोहग्रहणम्‌ । अभिभवोऽव्यक्तिः । एवशब्देनाभावव्यावृत्तिः । ननु सुप्त्यादौकमसद्भावे सिद्धे युक्तमव्यक्तिकल्पनम्‌ । स एव कुत इत्यत आह ॥ वासनाया इति ॥ कामवासनाया इत्यर्थः । वासनारूपेणकामस्य सुप्त्यादावनुवर्तमानत्वादिति यावत्‌ । स्यादेतत्‌ यदि तदाकामवासनासद्भाव एव सिद्धः स्यात्‌ स एव कुत इत्यत आह ॥ वासनायाहीति ॥ वासनाया इति षष्ठी पुनरुद्भवोऽभिव्यक्तिः । अयमाशयः । यत्कामोदेवदत्तः स्वापमाप्नोति तस्यैव कामस्योत्थपानानन्तरं पुनरुद्भवः तावदस्ति भोजनादिकामनयासुप्तस्य पुनरुत्थापितस्य तद्विषयकव्यवहारस्यैव कदाचिद्दर्शनेन तदातस्य कामसद्भावानुमानात्‌ । नचासावुत्थानानन्तरमेवोत्पन्नः । तदादेवदत्तस्यावशत्वात्‌ । वस्तुदर्शने अनुमानादिनेष्यसाधनताज्ञाने च सति खलुकामोदयः स्यात्‌ । नचावशस्यैवं विधाकामसामग्रीकल्पयितुं शक्या । अतः प्राक्तनस्यसुप्त्यादावनुवर्तमानस्य पुनरुद्भवोवाच्यः । नच प्राक्तनस्यापि कामस्याभिव्यक्तस्यैव तदाऽनुवर्तमानत्वं वक्तुं शक्यम्‌ । श्रुत्यनुपलम्भबाधपरिहारोपायाभावात्‌ तस्माद्वासनारूपेण विद्यमानस्य सहकारिविशेषलाभेपुनरुद्भवोभवतीत्यङ्गीकार्यम्‌ । तथाच यादि सुप्त्यादौ कामवासनैव न स्यात्‌ । तदाकस्य पुनरुद्भवः स्यादिति । उक्तं च यत्कामः स्वापमाप्नोति तदेवोत्थापितः पुनः । अवशोपि व्याहरति कुतः सुप्तावकामतेति । एवं यदासर्व इति मन्त्रं मुक्तपरतया व्याख्यायतस्यामुक्तपरत्वाङ्गीकारे बाधकमुक्तं तत्र प्रमाणमाह ॥ यावदिति ॥ मोक्षेतु नहृदिस्थाः कामा इति शेषः । कुत इत्यत आह ॥ चित्ताभावादिति ॥ मुक्तनां चित्ताभावेस्वरूपभूताः कामाद्याः कथं स्युरित्यत आह ॥ स्वरूपभूतचित्तेनेति ॥ सुखात्मका इति स्वरूपभूतचित्तस्य सुखात्मकत्वादिति भावः ॥ दुःखात्मका इति ॥ तमसिपतितानामिवतादृशचित्ताभावादित्यर्तः । अथ तस्मात्पूर्ववत्‌ शरीराभिमानशून्यत्वादयं जीवन्मुक्तोप्यशरीर एव । अत एवामृतः शरीरस्यैवतद्धमर्त्वात्‌ । अत एव प्राणः प्राणितीति प्राणः साक्षीब्रह्मैवाशनादिवर्जितः परमात्मैव । किं पुनस्तत्तेज एव विज्ञानज्योतिरेवेति एकवाक्यतया अथायमशरीर इत्यस्य परकीयव्याख्यानमसत्‌ । जीवन्मुक्तस्य परब्रह्मत्वायोगादिति भावेन वाक्यभेदमङ्गीकृत्याथायमशरीर इति वाक्यं जीवस्येश्ऱ्वराद्वैलक्षण्यप्रतिपादकतया व्याचष्ये ॥ अयं जीव इति ॥ अशरीरो भवति अमृतो भवतीत्यर्थः । जीवादीश्ऱ्वरस्य वैलक्षण्यपतिपादनायामृतः प्राणः ब्रह्मैवेति वाक्यं प्रवृत्तमिति भावेनामृतशब्दाथर्माह ॥ अमृत इति ॥ नन्विदममृतत्वं मुख्यप्राणस्यायुक्तमित्यतः प्राणोब्रह्मैवेत्येतद्वयाचष्ये ॥ प्राणाख्यमिति

?R॥ प्राणशब्दस्य ब्रह्मवाचकत्वे श्रुतिमाह ॥ कतम इति ॥ उर्वरितस्य तेज एवेत्यस्यानन्वयशङ्कां वारयितुं तदपि

?Rपृथग्वाक्यमिति भावेनाह ॥ तेज एवेति ॥ जीवव्यावृत्त्यर्थमेव शब्दः । परब्रह्मसमुच्चयार्थश्ऱ्चशब्दः । तेज एव च कदापि न मृतमिति सम्बन्धः । तेजःशब्दार्थमाह ॥ तेज इति ॥ उच्यत इति शेषः । मुक्त्यनन्तरमेव जीवोमृतो भवति । परब्रह्मतेजश्ऱ्चनित्यामृतमित्यर्थं प्रमाणेन द्रढयति ॥ अन्येषामिति ॥ प्राणशब्दस्य परब्रह्मवाचकत्वे प्रमाणान्तरं वदन्‌ तेजः शब्दस्य श्रीवाचकत्वे प्रमाणमाह ॥ प्राणस्त्विति ॥ 7 ॥ इदानीमणुः पन्था इति मन्त्रमन्यथाप्रतीति निरासाय व्याचष्ये ॥ तत्कप्राप्तेरित्यादिना सदैवहीत्यन्तेन । अनेन पन्था इति (एकात्म)ऐकात्म्यज्ञानलक्षणोमार्ग इत्यपहस्तितम्‌ । तस्यानर्थहेतुत्वेन मोक्षहेतुत्वाभावात्‌ । मांस्पृष्य इत्यस्यार्थः श्रियास्पृष्य इति । अनुवित्तोमयैवेत्यस्यार्थोऽनुवित्तस्तयैवेति । तेनेत्यस्यार्थस्तस्य प्रसादादिति । विमुक्ता इति बहुवचनाभिप्रायः सर्वमोक्षिण इति । तस्मिंच्छुक्लमिति मन्त्रं व्याचष्ये ॥ रूपमिति ॥ 8 ॥ तस्मिन्नित्यस्यार्थोऽजेहराविति । एष इत्यस्य परामृश्यं दर्शयन्नेषपन्था ब्रह्मणाहानुवित्त इत्येतद्वयाचष्ये ॥ पञ्चेति ॥ स्वरूपतोऽभिन्नोपि पञ्चप्रकारेण विभक्तोयः स पन्था इत्यन्वयः । ब्रह्मणामनेकत्वात्पद्मजेनेत्युक्तम्‌ । ब्रहमवित्पुण्यकृत्तैजसश्ऱ्चेत्येतद्वयचष्ये ॥ परब्रह्मेति ॥ एवं विधोपीत्यनेन तैजसश्ऱ्चेति चशब्दोपि शब्दार्थ इत्युक्तं भवति । तेनैतीत्यस्यार्थमाह ॥ तस्यैवेति ॥ तां कतिं तल्लोकमित्युक्तां गतिमिति शेषोक्तिः । तेनैतिबह्मविदित्येतत्‌ एष पन्था इत्यत्र हेतुप्रतिपादकमित्याह ॥ अत इति ॥ स्वलोकप्राप्तिहेतुत्वात्‌ । ननु स्वरूपतोऽभिन्नः पञ्चभेदविभिन्न इति यदुक्तं तत्‌ विरुद्धमित्यतो विरोधं परिहरति ॥ स्वगतेति ॥ स्वगतैः अखिलैः गुणावयवादिभिः भेदेन विहीनोपि सन्‌ भेदोत्थानामन्यत्र भेदनिमित्तकानामयं गुणोयं गुणीपञ्चरूप इतयादीनां सर्वेषां व्यवहाराणां घटनेईश्ऱ्वरः समर्थोहि यस्मात्‌ अत एव स्वरूपतोभिन्नोपि पञ्चभेदादिनाभिन्न इत्युच्यते । नान्यथेत्येतदमृषेत्यर्थः ॥ 9 ॥ अन्धन्तमः प्रविशन्तीति मन्त्रमप्रतीत्यन्यथाप्रतीति निरासाय प्रमाणेन व्याचष्ये ॥ अन्यथेति ॥ श्रुतावविद्यापदं विषयिवाचकं विषयस्यान्यथाकारस्य लक्षकमित्यभिप्रेत्याविद्यामुपासत इत्येतत्‌ अन्यथोपासका इति व्याख्यातम्‌ । ततः अन्यथोपासकप्राप्यतमसः । भूय एवेत्यस्यार्थमाह ॥ किञ्चिद्विशेषेणेति ॥ श्रुतावुशब्दोऽवधारणार्थोविद्यायामित्यनेन सम्बध्यते । तेन विद्यायां यथार्थज्ञान एव रताः नत्वन्यथाज्ञाननिन्दां कुर्वन्तीत्येषोर्थो लभ्यते । अत उक्तं दुर्ज्ञानस्याविनिन्दका इति । अन्यथोपासकापेक्षयादुर्ज्ञानाविनिन्दकाः किञ्चिद्विशेषणतमोयान्तीति कुत इति चेत्‌ न । तदपेक्षयातेषामधिकपापित्वात्‌ । तदपि कुतः । उभयोरपि दुर्ज्ञानाविनिन्दकत्वादिशेषादित्यत आह ॥ सम्यगिति ॥ विद्यायां रता इत्युक्तत्वेन तेषां समीचीनाचार्योपदेशस्तावत्प्राप्तः । सम्यगाचार्यवचनं ब्रह्मनिर्गुणत्वादिनिन्दापरं सम्यगबाधिताथर्मविज्ञायाचार्योतार्थविरोधिनिब्रह्मनिर्गुणत्वादौसत्वबुद्धिं यतः कुर्युस्ततस्ते अन्यथोपासकापेक्षयाऽधिकपापिन इत्यर्थः । नन्वन्यथोपासका अपि ब्रह्मनिर्गुणत्वादौ सत्वबुद्धिकारिण एवततः कथं ते अधिकपापिन इत्यत आह ॥ अप्राप्तत्यागिन इति ॥ B-33

?R अन्यथोपासकोह्यप्राप्तत्यागी तस्य विद्यारतत्वाभावेन समीचीनाचार्योपदेशाभावेदुर्ज्ञाननिन्दनस्याप्राप्तत्वात्‌ । अयं तु प्राप्तनिष्ठाहीनः सम्यगाचार्योपदेशप्राप्तेदुर्ज्ञाननिन्दनेनिष्ठाशून्यत्वात्‌ । अप्राप्तत्वागिनः प्राप्तनिष्ठाहीनोह्यधिकदोषवानिति । आचार्योपदेशाभावेन अप्राप्तनित्यकर्मादित्यागिनः आचार्योपदेशादिनाप्राप्तनित्यकर्मादौनिष्ठाहीनोदोषवानिति लोकप्रसिद्धमिति हिशब्देन दर्शयति ॥ 10 ॥ अनन्दा इत्युक्तानन्दशब्दार्थमाह ॥ नित्येति ॥ नन्दःसुखम्‌ । नञोविरुद्धाथर्त्वेन अनन्द इति तद्विरुद्धन्दुःखमुच्यते । मुख्येसत्यमुख्यग्रहणायोगात्‌ नित्यदुःखस्वरूपत्वादित्युक्तम्‌ । इनानीमननन्दानाम ते लोका इति मन्त्रं व्याचष्ये ॥ बोधक इति ॥ अविद्वांसोबुध इत्यस्य बोधकेविद्यमानेपि ये विदुर्नपरं रिमिति कथं व्याख्यानम्‌ । ततः तस्याप्रतीतेरित्यतस्तद्वयाचष्ये ॥ बुध इति ॥ ननु बुध इत्यस्य प्रथमान्तत्वात्‌ कथं बुधः सकाशेपीत्युक्तमित्यतः षष्ठयन्तमेवतदित्यभिप्रेत्यतन्मन्त्रव्याख्यानरूपं स्पष्यं प्रमाणमाह ॥ बोधनादिति ॥ 11 ॥ आत्मानञ्चेद्विजानीयादिति मन्त्रं व्याचष्ये ॥ यदीति ॥ आत्मानमित्यस्यार्थः परात्मानमिति । विजानीयादित्यस्यार्थोवेदितुं योग्योभवेदिति पुरुष इत्यस्य जीव इति शरीरमनुसंज्वरेदित्यस्यार्थः शरीरच्छेदादेः दुःखीभवेदिति किमिच्छन्‌ कस्य कामायेत्यस्य तात्पर्यं कथमिति । यदि जीवस्तथावेदितुं योग्यस्तदादुःखीनस्यादित्युक्ततर्कस्य विपर्ययेपर्यवसानमाह ॥ दुःखीति ॥ ननु जीवस्य स्वतोदुःखशून्यत्वादिष्यापत्तिः विपर्ययपर्यवसानेच बाध इत्यत उक्तम्‌ ॥ शरीरसम्बन्धादिति ॥ ननु संसारिणोजीवस्य दुःखित्वन परमात्माहमस्तीति ज्ञातुमयोग्यतवेपि मुक्तस्य तद्योग्यतास्यादेवतस्य परमात्मवददुःखित्वादानन्दभोक्तृत्वाच्चेत्यत आह ॥ विष्णोरिति ॥ प्रसादत एवेति विप्लुडानन्दमेवेति च एवशब्दसम्बन्ध; । ननु यदि परमात्मापि एवं विधः तदाकथं मुक्तः

?Rसोस्मीति वेदितुमयोग्यः स्यादित्यत आह ॥ नित्यमुक्त इति ॥ विष्णोः प्रसादतोऽदुःखीत्यस्य प्रतियोगीनित्युमुक्त इति

?Rविप्लुडानन्दं भोक्ष्यतीत्यस्य प्रतियोगीपूर्णसुख इति । स्वतन्त्र इत्यस्य प्रतियोगिनमाह ॥ परतन्त्र इति ॥ एवं विरुद्धधर्माधिकरणत्वेनोभयोः भेदेनिश्ऱ्चितेजीवः सोस्मीति वेदितुं कथं योग्यः स्यादिर्थः । किंतत इत्यत आह ॥ तस्मादिति ॥ तर्हि कथं ज्ञातव्य इत्यत आह ॥ तदीयोस्मीति ॥ 12 ॥ यस्यानुवित्त इति मन्त्रमन्वयक्रमेण व्याचष्ये ॥ यस्येति ॥ येनेत्यर्थः । अनुवित्त इत्यस्यार्थो ज्ञात इति प्रतिबुद्ध इत्यर्स्योनित्यबुद्ध इति आत्मेत्यस्यार्थो भगवान्पुरुषोत्तम इति तस्य लोकः स उलोक एवेत्यस्यार्थमाह ॥ तस्येति ॥ उशब्दार्थ एक इति प्रधान इत्यर्थः । सविश्ऱ्वकृत्‌ सहिसर्वस्य कर्तेत्यनयोरेकार्थतापरिहारायतद्वयचष्ये ॥ सहीति ॥ विश्ऱ्वकर्तेत्यस्य वायोरपि कर्तेति कथं व्याख्यानमित्यत आह ॥ विश्ऱ्व इति ॥ तर्हि सर्वस्य कर्तेत्युक्त्यैव सर्वमध्यपतितवायुकर्तृत्वस्यापि लाभात्‌ तद्वयर्थं स्यादित्यत आह ॥ तदन्यस्यापि सर्वस्येति ॥ वाय्वन्यस्यापीत्यर्थः । यद्वा विष्ण्वन्यस्यापीत्यर्थः । हि यस्मादन्यस्य सर्वस्यापि कर्ताऽतोवायोरपि कर्तेति योजनान्नवैयथ्यम्‌ । स्वात्मानं प्रति स्वस्य कर्तृत्वासम्भवादन्यस्येत्युक्तम्‌ । अस्मिन्सन्दोघेगहनेप्रविष्य इत्येतद्वयाचष्ये ॥ प्रविष्य इति ॥ देहमध्येस्थिते गहनेहृद्गुहास्थाने प्रविष्य इत्यर्थः । देहमध्य इत्येतत्कस्य व्याख्यानमित्यत आह ॥ सन्दोघनामनीति ॥ सन्दोह इति पाठस्याप्ययमेवार्थः । इहैवसन्त इत्यस्य तात्पर्यमाह ॥ तज्ज्ञानीति ॥ यदैतमनुपश्यन्तीत्यस्य तात्पर्यमाह ॥ तत्प्रसादादिति । 13 ॥ यस्दर्वाक्‌ संवत्सर इति मन्त्रं व्याचष्ये ॥ नवत्सराश्ऱ्चेति ॥ वत्सरादिकृतविकारोनास्तीत्यर्थः । तत्र हेतुमाह ॥ नित्याविकारत इति ॥ ज्योतिषामादित्यादीनां ज्योतिष्ट्वप्रदमित्यर्थः । आयुरित्यस्यार्थोचलमिति ॥ 16 ॥ यस्मिन्पञ्चजना आकाशश्ऱ्चप्रतिष्ठित इति मन्त्रं व्याचष्ये ॥ प्राण इति ॥ पञ्चपञ्चेति द्विरुक्तेस्तात्पर्यं प्रतिपुरुषमिति । प्राणस्य प्राणमिति वाक्यशेषपर्यालोचनयान्नमत्र विवक्षितमिति न ज्ञायत इति चेन्न । माध्यन्धिन शाखायां प्राणस्य प्राणमुत चक्षुषश्ऱ्चक्षुरुतश्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसोमन इत्युक्तत्वेनतदभिप्रायेणात्रान्नग्रहणात्‌ । एतदभिप्रायेणोक्तं सूत्रकृता प्राणादयोवाक्यशेषादिति तर्ह्येतदुपनिषदुक्ताः पञ्चजनाः क इति चेत्‌ वाक्यशेषेपरमात्मनः प्राणचक्षुः श्रोत्रमनसां चतुर्णामेव प्राणादिप्रदत्वोक्त्याप्राणादिचतुर्णामेवपरमात्माश्रितत्वावगमेपि पूर्ववाक्ये ज्यातिषां ज्यातिरिति ज्योतिपां ज्यातिष्ट्वप्रदत्वोक्त्याज्यातिषःपरमात्माश्रितत्वावगमात्‌ तेन सपपञ्चत्वसम्भवात्‌ । तथाचोक्तं सूत्रकृता ज्यातिषैकैषामसत्यन्ने इति । उक्तं च भाष्ये तद्देवाज्यातिषां ज्यातरित्यनेन काण्वानां पञ्चकमिति । अत्र ज्यातिरन्नशब्दयोरेकार्थत्वं पृथक्‌ पञ्चकं त्वित्युपपन्नमिति टीकोक्तमनुसन्धेयम्‌ । अत्र पञ्चजनादशब्दानां प्राणादिपरत्वेपि इदं वाक्यं विपञुपरं भवत्येवेति भावेनैवं व्याख्यतम्‌ । सूत्रभाष्येतु समन्वयसूत्रोपपत्त्यर्थं पञ्चजनादिशब्दा अपि विष्णुपराएवेत्युक्तमित्यवधेयम्‌ । यद्वा तदुक्तरीत्या अत्राप प्राणादिशब्दास्तत्तन्नियामकभगवत्परा एव । नचैवमाधारादेयभावानुपपत्तिः । शरीरनियामकेश्ऱ्वराधारप्राणादिषु भगवद्रूपाणां अवस्थितिमात्रेणाधाराधायभावोपपत्तेरिति ॥ 17-18 ॥ नेहनानास्ति किञ्चनेति वाक्यमन्यथाप्रतिपत्तिनिरासाय व्याचष्ये ॥ तस्येत ॥ मृत्योः समृत्युमिति मन्त्रं व्याचष्ये ॥ तद्भेदेति ॥ 19 ॥ एकधैवानुद्रष्यव्यमित्येतदुपसंहारपरमिति नेहनानास्ति किञ्चनेत्यनेन गतार्थमित्याह ॥ तस्मादिति ॥ एतदप्रमेयमित्युक्ताप्रमेयशब्दार्थमाह ॥ परिमाणेति ॥ परिमिति विहीनत्वादित्यर्थः । अत्राप्रमेयत्वं सर्वांत्मनाप्रमित्यविषयत्वमुच्यत इति व्याख्यानं प्रमाणविरोदेन पराचष्ये ॥ इत्यादिवचनादिति ॥ अवाच्यत्वामनोविषयत्वयोः ग्रहणं प्रसङ्गात्परमतप्रतिक्षेपार्थम्‌ । इत्यादीत्यादिपदेनाप्रसिद्धेरवाच्यं तदित्यादिवचनपरिग्रहः । यद्वा यतो वाचोनिवर्तन्ते अप्राप्यमनसासहेति श्रुताववाच्यत्वामनोविषयत्वयोरुक्तत्वात्सवर्ात्मनाप्रमित्यविषयत्वमेवाप्रमेयत्वमिति वाच्यमित्यत आह ॥ अवाच्यत्वममनोविषयत्वञ्चेति ॥ अप्रमेयत्वममनोविषयत्वं च सर्वात्मनानेत्यत्र हेत्वन्तरमाह ॥ मनसैवेति ॥ ननु सर्वात्मनाशब्दावाच्यत्वाङ्गीकारेकोदोष इति चेत्‌ । तथासति वेदाप्रतिपाद्यत्वापत्त्यावेदान्तानामखण्डार्थनिष्ठताभ्युपगमव्याघातात्‌ । ननु निर्गुणेब्रह्मणिशब्दप्रवृत्तिनिमित्ताभावेन वाच्यत्वाभावेपि लक्षणयासर्ववेदप्रतिपाद्यत्वं भविष्यतीति चेत्तत्राह ॥ नचेति ॥ लोके हि केनचित्पेन वाच्यस्यैव केनचित्पदेन लक्ष्यत्व दृष्यम्‌ । यथातीरपदवाच्यस्य तीरस्य गङ्गापदलक्ष्यत्वम्‌ । नचकेनापि पदेनावाच्यस्य लक्ष्यत्वं दृष्यम्‌ । येन सर्वशब्दावाच्यस्यापि ब्रह्मणोलक्ष्यत्वं स्यात्‌ । तथाच विप्रतिपन्नं न लक्ष्यं केनापि पदेनावाच्यत्वात्‌ व्यतिरेकेणतीरवादित्यनुमानविरुद्धत्वान्नलक्षणायावेदप्रतिपाद्यत्वमित्यर्थः । सर्वपदार्थानां लक्षणायोग्यत्वान्नसपक्षत्वमिति नासाधारण्यम्‌ । नन्विक्षुक्षीरगुडादीनां माधुर्यविशेषास्तावद्विद्यन्ते । अनुभवसिद्धत्वात्‌ । नच तेकेनापि पदेनवाच्याः । तद्वाचकपदाभावात्‌ । तथापि लक्ष्यादृश्यन्ते । अन्यथावाग्व्यवहाराभाव प्रसङ्गात्‌ । अतस्तत्र व्यभिचारः । यथोक्तं इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत्‌ । भेदस्तथापि नाख्यातुं सरस्वत्यापि शक्यत इति ॥ तथाच

?Rयथाकेनापि पदेनावाच्यानामिक्षुक्षीरमाधुर्यविशेषाणां लक्ष्यत्वं तथा ब्रह्मणोपि केनापि पदेन अवाच्यस्य लक्ष्यत्वं स्यादित्यत

?Rआह ॥ क्षीरेति ॥ तत्तच्छब्देनैव क्षीरमाधुर्यविशेषादिशब्देनैव । ननु वाचकत्वं पदस्य धर्मः माधुर्यविशेष इति च न पदं किन्तु वाक्यं अनेकपदात्मकत्वात्‌ । अतः कथं तच्छशब्देनैव वाच्यत्वमुक्तमिति चेत्‌ ऐकपद्यमैकस्वर्यं समासप्रयोजनमिति शाब्दैरङ्गीकृतत्वात्‌ । अथवा तत्तच्छब्देन सूदशास्त्रप्रसिद्धेनविशदादिशब्देन वाच्यत्वादित्यर्थः । तत्र प्रमाणमाह ॥ विशदमिति ॥ ननु ब्रह्मतावन्निर्गुणं केवलोनिर्गुणश्ऱ्चेति श्रुतेः । नच तत्रशब्दानां वचनवृत्तिः सम्भवति प्रवृत्तिनिमित्ताभावात्‌ । नच सर्वथाशब्दाप्रतिपाद्यं ब्रह्म सत्यज्ञानादिवाक्यानां निर्विषयत्वापातात्‌ समन्वयसूत्रानुपपत्तेश्ऱ्च अतः केनापि शब्देन अवाच्यस्यापि लक्षणाङ्गीकार्येत्यत आह ॥ नचेत ॥ स्यादेतदेवं यदि ब्रह्मनिर्गुणमेव भवेत्‌ । नच तदस्ति । तथासति ब्रह्मणः सत्वस्यैवाभाव प्रसङ्गात्‌ । नच निर्गुणस्य वस्तुनः सत्वं लोकेदृष्यं येन तथासम्भावयामः । निगर्ुणश्ऱ्चेति श्रुतिः सत्वादिगुणाभावपरा । अन्यथा एको देव इतयादिनोक्तानामपि गुणत्वाद्वयाघातः । अतो ब्रह्मणः सत्वमिध्यर्थं सगुणत्वमेवाङ्गीकर्तव्यमिति तस्य वाच्यत्वाङ्गीकारेन काप्यनुपपत्तिरिति भावः । ननु गुणादिपञ्चकस्य निर्गुणत्वं पदार्थविदोमन्यन्ते तथाच तद्वद्ब्रह्मणोपि सत्वं किं न स्यादिति चेन्न वैषम्यात्‌ । निर्धर्मकस्य वस्तुनः सत्वमेवनास्तीत्यत्र विवक्षितं नहि गुणादीनां निर्धर्मकत्वं केप्यभ्युपयन्ति गुणत्वादीनामेव धर्माणां तत्र स्वीकारात्‌ । किञ्च सत्यत्वमभ्युपगम्यते वैशेषिकादिभिः गुणादिपञ्चकस्य निर्गुणत्वं तद्वस्तुनो न सम्भवति कुत इत्यत आह ॥ गुणभेदादीनामिति ॥ गुणभेदोगुरविशेषः । आदिपदेन कर्मभेदादिग्रहणम्‌ । यद्वा गुणश्ऱ्चभेदोऽन्योन्याभावश्ऱ्चेति गुणभेदौ तावादीयेषां कर्मादीनां गुणभेदादयस्तेषां गुरभेदादीनामिति विग्रहः । अयमाशयः । गुणभेदादीनां निर्गुणत्वं कस्मादङ्गीकतर्व्यम्‌ । नतावत्प्रतीत्यभावात्‌ । चतुर्विंशतिर्गुणाः रूपं रसात्पृतक्‌ कर्मपञ्चविधं सामान्यं त्रिविधं एकः समवायः घटान्योन्याभाव एककित्यादिप्रतीतेः दुरपह्नवत्वात्‌ । नचेयं भ्रान्तिः बाधकाभावात्‌ । किञ्च यद्यपि गुणेसंयोगादिव्यवहारं द्रव्ययोरेवसंयोग इति दुर्दर्शनाभ्यासवान्‌ जनो न करोति । तथापि घटपटयोः संयुक्तयोस्तद्गतरूपे अपि संयुक्ते इति लोकः करोत्येव । किञ्च रूपेणयुक्तोघट इति सर्वेपि व्यवहरन्ति । तथापि संयुक्त इति न व्यवहरन्तीति चेत्‌ ध्वंसप्रध्वंसशब्दयोरिवानयोरर्थभेदास्फुरणात्‌ । द्रव्याणां कर्मसंयोगेत्यादौ जैमिन्यादिभिः परीक्षकैरद्रव्यसम्बन्धेपि संयोगव्यवहाराच्च । ननु गुणादिपञ्चकस्य अद्रव्यत्वात्कथं तत्र गुणादिसद्भाव इति चेत्कथमेतन्निश्ऱ्चितं भवता । द्रव्यस्यैव गुणवव्वमिति प्रतीतेरुभयत्राविशिष्यत्वात्‌ । ननु चतुर्विंशतिर्गुणा इत्यादिव्यवहार एव न प्रतीतिः । सचोपचार एवेति चेन्न । बाधकाभावात्‌ । अन्यथा द्रव्येपि तथात्वापत्त्यासङ्खयादिगुणासिद्धिप्रसङ्ग; । ननु प्रतीत्यनुरोधेन तावदेकत्र सङ्खयादिकमङ्गीकर्तव्यं तत्र द्रव्येष्वेव तदङ्गीकारेण सर्वस्योपपत्तावन्यत्र न तदङ्गीकार आवश्यकः । अतोन्यत्र सङ्खयदिव्यवहार उपचार एवेति चेन्न । उपचारनिमित्ताभावेन तदयोगेतत्रापि तद्वयवहारस्य मुख्यत्वावश्यं भवात्‌ । तताहि नतावदेकार्थसमवायोनिमित्तं द्रव्येचतुर्विंशतित्वनियमाभावात्‌ प्रत्येकं रूपादिषु तत्प्रसङ्गाच्च अपर्योयचतुर्विंशति शब्दवाच्यत्वमिति चेत्‌ न । शब्देपि चतुर्विंशतित्वाभावात्‌ । चतुविर्ंशतिपुरुषोच्चारितापर्यायशब्दवाच्यत्वमिति चेत्‌ रूपरसादिशब्दोच्चारयितृपुरुषाणां चतुर्विंशतित्वेमानाभावात्‌ । बधिरादीनां रूपादिषु सङ्खयाव्यवहाराभाव प्रसङ्गाच्च । ननु रूपं रसात्पृथगिति प्रतीतिराश्रयगतं पृथक्‌ त्वमपेक्ष्यैवेति चेन्न । समानाधिकरणरूपरसयोस्तथाप्रतीतेरनुभवसिद्धत्वात्‌ । साप्रतीतिः रूपेरसान्योन्याभावमवगाहत इति चेन्न । तथासति घटः पटात्पृथगिति प्रतीतेरप्यन्योन्याभावविषयकत्वोपपत्तौ पृथक्त्वविलोपापातादिति । ननु तथापि न गुणादिपञ्चकस्य गुणवव्वमङ्गकर्तुं शक्यम्‌ । एकत्वमेकं पृथक्त्वं पृथक्‌ भेदोभिन्न इत्यादिप्रतीत्यैकत्वादिष्वप्येकत्वाद्यङ्गीकारापातात्‌ । अन्यथारूपादिष्वपि तदभावापातात्‌ । तथाच तत्राप्येकत्वादावेकत्वाद्यन्तरमङ्गीकर्तव्यमित्यनवस्थापातादित्यत आह ॥ नचेति ॥ कुतोनेत्यत आह ॥ स्वनिर्वाहकत्वादिति ॥ स्यादेवमनवस्था यद्येकत्वादौ विद्यमानमेकत्वादिकं ततो भिन्नं स्यात्‌ नचैवं स्वस्यैव स्वैकत्वादिव्यवहारनिर्वाहकत्वाभ्युपगमात्‌ । अन्यथा प्रमेयत्वे प्रमेयत्वान्तरस्याप्यङ्गीकारापातेनानवस्थापातादित्यर्थः । उक्तमर्थं प्रमाणेन द्रढयति ॥ अवाच्यमिति ॥ यतो ब्रह्मागुणं ततोऽवाच्यममनोगम्यमिति यद्यङ्गीक्रियते तदावक्तव्यं तदगुणञ्चेत्कुतोस्तीति । अगुणत्वे तस्य सत्वमेव न स्यादिति यावत्‌ । फलितमाह ॥ तस्मादिति ॥ ब्रह्मरूपं च वस्तु अगुरमिति वदन्नित्यर्थः । शून्यतां ब्रह्मण इति शेषः । यद्वा वस्तु

?Rशून्यतामित्येकं पदम्‌ । अनवस्थापरिहारायगुणाः स्वेनैवगुणिन इत्युक्तम्‌ ॥ 20 ॥ सर्वस्य वशी सर्वस्येशानः र्स्वस्याधिपतिरित्येतेषां पुनरुक्तिपरिहारायार्थभेदमाह ॥ सर्वमिति ॥ ईशानपदान्तर्गतानशब्दार्थमाह ॥ ब्रह्मरुद्रादेरिति ॥

?Rअनश्ऱ्चेष्यक इत्यर्थः । अधीत्यस्यार्थोगुणाधिक इति पतिरित्यस्य पालक इति । सर्वस्याधिपतिरित्यनेन

?Rगर्तार्थतापरिहारायभूताधिपतिशब्दं व्याचष्ये ॥ भूत एवेति ॥ तात्पर्यमाह ॥ नास्येति ॥ ननु ब्रह्मापरोक्षज्ञानात्पूर्वमेवमननशीलत्वस्य सिद्धत्वात्तं विदित्वामुनिर्भवतीति कथमुच्यत इत्यत आह ॥ नित्य इति ॥ तत्र हेतुमाह ॥ बोध इति ॥ ते हस्मपुत्रैषणायाश्ऱ्चवित्तैषणायाश्ऱ्चलोकैषणायाश्ऱ्चव्युत्थयेति वाक्यं व्याचष्ये ॥ यंविदित्वेति ॥ अथ भिक्षाचर्यं चरन्तीति भिक्षाचरणोक्त्याप्रप्तं दुःखं निवारयति ॥ उत्पत्तीति ॥ तर्हि कथं तेषां भिक्षाचरणमित्यत आह ॥ आनन्दभिक्षामिति ॥ एतमुहैवेतेनतरतः पापमकरवंकल्याणमकरवं इत्यंशं व्याचष्ये ॥ स एषमिति ॥ यदि विष्णुरेतन्नकरोति तर्हि कः करोति जीव इति चेत्‌ सोपि किं स्वातन्त्ऱ्ेण तथा कोतीति जिज्ञासायां प्राप्तमतः पापमकरवमित्यतः कल्याणमकरवमिति वाक्यं व्याचष्ये ॥ कृतेमयेति ॥ श्रुता बुहैवेत्यस्यात्रान्वयः । उशब्दोवधारणार्थः । उशब्दैवशब्दयोरतः शब्दद्वयेनान्वय इति भावेनोक्तम्‌ । अत एवेति ॥ प्रसिध्यर्थकस्य हेत्यस्यार्थ उक्तमिति । उभे उहैवैष एतेतरतीति वाक्यं ब्रह्मज्ञानिपरमिति निरासाय व्याचष्ये ॥ तीर्ण इति ॥ नैनं कृताकृतेतपत इति वाक्यं व्याचष्ये ॥ नैनमिति ॥ 21 ॥ तस्मादेवं विच्छान्तोदान्त उपरतस्तितिक्षुः समाहितोभूत्वेत्युक्तशान्त्यादिपदार्थानाह ॥ शान्तिस्त्विति ॥ सर्वमात्मानं पश्यतीति वाक्यमैक्यमुच्यत इति प्रतीति निरासाय व्याचष्ये ॥ सर्व इति ॥ नैनं पाप्मातरति सर्वं पाप्मानं तरतीत्यादिपापतरणाक्तिरूपलक्षणम्‌ । विपापोविरजोविचिकित्स इति परमात्मनोरागसन्देहाभावयोरप्युक्तेरिति भावेनाह ॥ रागेति ॥ विपापोविरजोविचिकित्स इति वाक्यस्य ज्ञानिपरत्वे पुनरुक्तिप्रसङ्गात्तत्र हेतुप्रतिपादकतयाव्याचष्ये ॥ नित्यं हीति ॥ आदिशब्देन न सन्देहग्रहणम्‌ । ननु वर्णशून्यत्वाद्विष्णोः कथं ब्राह्मणोभवतीत्युक्तमित्यत आह ॥ वेदाख्येति ॥ स्वरव्यत्यासस्त्वाधिक्यार्थ इति भावः । नित्यं हीत्यस्त्रापि सम्बन्धः । अण्यत्वाद्गम्यत्वात्‌ । अणपणगताविति धातोः । एष ब्रह्मलोक इत्येतत्‌ षष्ठीसमासप्रतीति निरासाय व्याचष्ये ॥ पूर्णत्वादिति ॥ 22 ॥ अमोमृत इत्यनयोः पुनरुक्तिपरिहारायार्थमाह ॥ नेति ॥ अत्र ब्रह्मत्वं नाम यदि पूर्णगुणत्वं तदा ब्रह्मलोक इत्युक्तब्रह्मशब्देन पुनरुक्तिः स्यादित्य आह ॥ ब्रह्मायमिति ॥ अभयं हि वै ब्रह्मभवति य एवं वेदेति फलवाक्यं व्याचष्ये ॥ एवमिति ॥ ज्ञानिनः सन्देहोनास्तीत्युक्तं तत्र विशेषमाह ॥ परमार्थेभगवतीति ॥ ब्राह्मणो भवतीति वर्तमानप्रयोगेण भगवतोतीत भविष्यात्कालयोर्वेदप्राप्यत्वं नास्तीति प्रतीतिं निवारयन्नाह ॥ ब्राह्मण इति ॥ यद्वा ननु विपापोविरजोविचिकत्सोब्राह्मणो भवतीत्यत्र भवतीति वर्तमानप्रयोगेण विपापत्वादीनां वर्तमानत्वमेव प्रतीयते । अतः कथं नित्यं हि पापरागादेः मुक्त इत्यादिव्याख्यानमित्यत आह ॥ परमार्थ इति ॥ अविचिकित्सोब्राह्मणो भवतीति वतर्मानप्रयोगस्य नित्यमेवतथाभवतीत्यर्थः । कुतः । नहि घटोभवतीत्युक्ते नित्यमेवतथा भवतीत्यर्थः प्रतीयत इत्यत उक्तं परमार्थ इति । विषयसप्तमीयम्‌ । विपापत्वादिकं खलु ब्रह्मणोविशेषणमुच्यते । तस्य च यदि भवतीत्यनेन वर्तमानमेवोच्यते तदातद्भगवद्विशेषणपरं न स्यात्‌ । तथात्वे भगवत इतरसाधारण्यापत्त्या उत्तमार्थत्वाभाव प्रसङ्गात्‌ । अतः परमार्थे भगवति विषये अविचिकित्सोब्राह्मणो भवतीत्यस्य नित्यमेव तथा भवतीत्यर्थो वक्तव्य इति भावः । अत्र यद्यपि विपापोविरजोविचिकित्सोब्राह्मणो भवतीत्यनुवादोयुक्तः । ततापि लाघवाददविचिकित्सोब्राह्मणो भवतीत्युक्तं । नचैवं ब्राह्मणो भवतीत्येव वक्तव्यमिति वाच्यम्‌ । ततासति भवतीत्यस्य तत्रैवान्वयप्रतीति प्रसङ्गादिति । भगवति प्रतिपाद्येभवतीत्यस्य नित्यभावानाभिदायकत्वं कुत इत्यतस्तत्र प्रमाणमाह ॥ अभूदिति ॥ 24 ॥ ततश्ऱ्चायंखण्डार्थः ॥ स पूर्वोक्तः अयं प्रसिद्धः आत्मामुच्यमानो जीवः यत्र यदा बल्यं सर्वेषां बलकारिणं विष्णुं न्येत्यनितरामेत्यप्राप्य मृतेः पूर्वं संमोहमिवविमुग्धत्वमेव न्येति प्राप्नोति । मृतेः पूर्वं विमुग्धत्वं प्राप्य यदा विष्णुं प्राप्नोतीति यावत्‌ । अथ तदा एनं बल्यं विष्णुं एते प्राणाः स्वस्वलेकस्थास्तेजः स्वरूपिणोदेवाः अभिसमायन्ति सचक्षुस्थोविष्णुः तेजोमात्रास्तेजस्वरूपभूताः एतादेवताः समभ्याददानश्ऱ्चक्षुः स्थानाद्धृदयमेवान्ववक्रामति गच्छति तदनन्तरं भाव्यवस्थामाह ॥ स इति ॥ स एष चाक्षुषोदक्षिणाक्षिस्थः पुरुषः पूर्णषड्‌गुणो भगवान्पराक्‌ स्थितो बहिर्व्यापारं कुर्वन्‌ स्थितो यत्र यदा प्रत्यक्‌ पर्यावर्तते अन्तरागच्छति हृदयं प्रतिगच्छतीति यावत्‌ अथ तदा विष्ण्वाश्रितो जीवोऽरूपज्ञो भवति रूपाज्ञो भवति तदानकिञ्चिज्जानातीत्यर्थः ॥ 1 ॥ ननु भगवतो हृदयं प्रतिगमनेजीवः किमपि न जानातीति कुत इत्यत आह ॥ एकीभवतीति ॥ जीवेश्ऱ्वरौ विशेषेण हृदयस्थौ तयोरं शास्तु चक्षुरादिषुस्थिताः तथाच यदा चक्षुस्थः परमात्मांशोजीवांशश्ऱ्चहृदयस्थेन परमात्मरूपेण जीवरूपेण च एकी भवति तदाजीवोनजिघ्रतीत्याद्याहुरिति योज्यम्‌ । तदुत्तरभाविनीमवस्थामाह ॥ तस्यहेति ॥ तस्य परमात्मानं प्राप्तस्य एतस्य किञ्चिदप्यजानते मुच्यमानजीवस्य यद्धृदयं तस्याग्रं विष्णोः स्वरूपभूत तेजसा प्रद्योततेप्रज्वलति । तेन प्रद्योतेन प्रकाशितद्वारेण एष आमाविष्णुः

?Rजीवमादायशरीरान्निष्क्रामति । केन द्वारेणेत्याशङ्कायामाह ॥ चक्षुष इति । यदि मुच्यमानोजीवः आदित्यलोकेचिरं

?Rरत्वामुक्तिगमनयोग्यः तर्हि जीवमादायचक्षुष एव वा रमणयोग्यस्तर्हि तमादायमूर्ध्न एव निष्क्रमाति । यदि श्रोत्राद्यभिमानिदेवलोकेचिरं रत्वामुक्तिगमनयोग्यस्तर्हि तमादायान्येभ्यः शरीर देशेभ्य एव तत्तद्देवाभिमत शरीरावयवेभ्य; श्रोत्रादिभ्य एव निष्क्रामति । एवमुत्क्रामन्तं विष्णुं अनु अनुसृत्य प्राणोमुख्यप्राणः उत्क्रामति । एवमुत्क्रामन्तं प्राणमनुसृत्यसर्वेप्राणाः शरीरस्थाः देवा अनूत्क्रामन्ति । उत्क्रमणकाले परमात्मा कथं गच्छतीत्यत आह ॥ सविज्ञान इति ॥ स विष्णुः सविज्ञानोविज्ञानेन जीवेन सहिता भवति । ननु पूर्वमेव जीवसाहित्यसद्भावात्किदिनीं जीवसाहित्यमुच्यत इत्यतस्तदेवविशदयति ॥ स इति ॥ स भगवान्विष्णुः विज्ञानं जीवमेव आरुह्य अन्ववक्रामति गच्छीत्यर्थः । एवं तं जीवमारुह्यगच्छन्तं भगवन्तं अनुअनुसृत्य विद्यकर्मणीविद्याकर्माभिमानिनौ समन्वारभेते गच्छतः । न केवलमेतावत्‌ किन्तु पूर्वप्रज्ञाचयोग्यताभिमानिनीच गच्छतीत्यर्थः । अत्र विद्याभिमानिनौ ब्रह्मवायू कर्माभिमानीगरुडः योग्यताभिमानिनीरमेति ज्ञेयम्‌ । 2 । तेनैष निष्क्रामतीत्युक्तं निष्क्रमणं विविच्य दर्शयति ॥ तद्यथेति ॥ तत्‌ निदर्शनं यथा तृण जलूका तृणस्यान्तमवसानं गत्वा अन्यमाक्रमं आक्रम्यत इतयाक्रमोवष्यम्भस्तमाक्रमं तृणान्तरं आक्रम्यप्राप्य आत्मानं पूर्वतृणात्‌ उपसंहरत्यादत्ते पूर्वतृणं परित्यजतीति यावत्‌ । एवमेवायमात्मा विद्यादानेन अविद्यां गमयित्वा इदं शरीरं निहत्यपरित्यज्य अन्यमाक्रमं जीवस्य सूक्ष्मं रूपं आक्रम्यप्राप्य आत्मानं जीवस्य स्थूलदेहात्पसंहरति आदत्ते । स्थूलदेहं परित्यजतीति यावत्‌ । 3 । ननु परमात्मामुक्त्ययोग्येभ्योपि मुक्तिं प्रयच्छति किं नेति सदृष्यान्तमाह ॥ तद्यथेति ॥ तद्यथावक्ष्यमाणनिदर्शनं यथा पेशस्कारीस्वर्णकारः पेशसः सुवर्णस्य मात्रामंशमुपादाय अन्यत्‌ अन्यदिवनवतरं प्रागननुभूतत्वात्‌ कल्याणतरं मलापकर्षणात्‌ रूपरुचकपादिकं तनुतेकोति एवमेवायमात्मापरमात्मा जीवास्य स्वर्णमलस्थानीयमिदं शरीरं निहत्य अविद्यां गमयित्वाऽन्यदिवनवतरं प्रागननुभूतत्वात्‌ कल्याणतरं रूपं तत्तद्योग्यं कुरुते । तदेवाह ॥ पित्ऱ्यमिति ॥ पितृजीवस्य पित्ऱ्यमेवरूपं गन्धर्वजीवस्य गान्धर्वमेवरूपं देव जीवस्य दैवमेवरूपं प्रजापतेः रुद्रस्य प्राजापत्यं रूपं ब्रह्मणश्ऱ्चतुर्मुखस्य ब्राह्ममेवरूपं अन्येषां भूतानां मनुष्योत्तमादीनां तत्तद्योग्यमेवरूपं करोतीति प्रत्येकं सम्बन्धः । अत्र सुवर्णस्यैव यथारुचकादिभावः सुवर्णकारेण क्रियते न यस्य कस्यचिद्द्रव्यस्य तथामुक्तियोग्यानामेवेश्ऱ्वरेण मुक्तत्वं क्रियते नान्येषामित्युच्यते ॥ 4 ॥ एवं मोक्षदस्य परमात्मनोमहिमानमाह ॥ सवा इति ॥ मुक्तप्राप्यत्वेन प्रकृतः परमात्मासदूरस्थो वा अयं समीपस्थः आत्माव्याप्तः ब्रह्मगुणपरिपूर्णं विमानमय इत्यादौ तेजोमय इत्यादिवत्‌ अविमानमय इत्याद्यपि ग्राह्मम्‌ । विज्ञानमयः पूर्णविज्ञानस्वरूपः प्राचुर्यस्य स्वरूपत्वस्य च मयडथर्त्वात्‌ । अविज्ञानमयः यस्य बुद्धिर्बुद्धितत्वात्मिकान भवति मनोमयः सर्वमन्तृस्वरूपः यस्य मनोमनस्तत्वात्मकं न भवति सोऽमनेमयः प्राणमयः पूर्णबलस्वरूपः यस्य प्राण अहङ्कारकार्यप्राणतत्वात्मनो न भवति सोप्राणमयः चक्षुमर्यः सर्वद्रष्यृस्वरपः यस्य चक्षुश्ऱ्चक्षुस्तत्वात्मकं न भवति सो चक्षुर्मयः श्रोत्रमयः सर्वश्रोतृस्वरूपः यस्य श्रोत्रं श्रोत्रतत्वात्मकं न भवति सोश्रोत्रमयः पृथिवीमयः पृथिवीवत्सर्वाधारः सुगन्धस्वरूपो वा यस्य गन्धः पार्थिवोन भवति सो पृथिवीमयः आपोमयः सर्वतृप्तिकरः यस्य तृप्तिरबात्मिकानभवति सोनापोमयः वायुमयः सर्वकर्तृस्वरूपः यस्य बलं वाय्वात्मकं न भवति सोऽवायुमयः आकाशमयः अवकाशप्रदातृस्वरूपः यस्याकाश आकाशतत्वात्मको न भवति सोऽवायुयुमयः आकाशमयः अवकाशप्रदातृस्वरूपः यस्याकाश आकाशतत्वात्मको न भवति सोऽनाकाशमयः तेजोमयः पूर्णतेजः स्वरूपः अतेजोमयः यस्य तेजोनाग्न्येयं भवति काममयः सृष्ययादीच्छास्वरूपः अकाममयः प्राकृतेच्छाशून्यः क्रोधमयः सर्वदुष्यप्रतीपस्वरूपः अक्रोधमयः जीवक्रोधसदृशक्रोधशून्यः धर्ममयः आनन्दादिधर्मस्वरूपः अधर्ममयः प्राकृतसुकादिधर्मशून्यः सर्वमयः प्रकृत्यादिसर्वप्रधानः सर्वगुणस्वरूपश्ऱ्च प्रकृत्यादिसर्वात्मको न भवतीति वा यस्य गुणाः सर्वविलक्षणा इति वा असर्वमयः तत्‌ अतीतवर्तमानकालयोरेकप्रकारं यद्ब्रह्माण्डाच्छरीराद्बहिरन्तश्ऱ्चएकप्रकारं एतत्‌ वर्तमानभविष्यकालयोः एक प्रकारं इदं मयोवर्तमानजगत्प्रधानः वर्तमानस्वरूपश्ऱ्च अदोमय अतीतानागतजगत्प्रधानः अतीतानागतस्वरूपश्ऱ्च । यदर्तं महिमोक्तिस्तदाह ॥ इतीति ॥ इति एवं महिमविशिष्योयतः अतः भगवान्यथाकारीजीवं यथाकरोति यथाचारी आचारयति तताभवति जीवः तदेवविवृणोति ॥ साधुकारीति ॥ यदि स भगवान्साधुकारीजीवं साधुं करोति तदा स जीवः साधुः भवति पापकारी यदि जीवं पापं करोति तदा स पापो भवतीत्यर्थः । परमात्मापि स्वतो साधुं करोति स्वतो पापं करोति किं नेत्याह ॥ पुण्य इति ॥ ईश्ऱ्वरप्रेरितेन पुण्येन जीवः पुण्यो भवति । तत्प्रेरितेन पापेन पापो भवति । यद्वा ईश्ऱ्वर एव जीवं साधुं पापं च यदि करोति तर्हि कृतं पुण्यपापाभ्यामित्यत आह ॥ पुण्य इति ॥ ईश्ऱ्वराधीनत्वं जीवस्य वृद्धमत्याद्रढयति ॥ अथो इति ॥ अथो

?Rतस्मादेवजीवस्य ईश्ऱ्वराधीनत्वादेव खलु अयं पुरुषो जीवः काममयोष्णोरिच्छादीन इत्याहुः विद्वांसः । कुतः स

?Rभगवान्यथाकामो भवति । तत्क्रतुस्तत्कामोजीवोभवति यद्वा स भगवान्यथाकामो भवति तत्क्रतुस्तन्निष्ठावान्‌ इत्थंकरिष्याम्येति निश्ऱ्चयरूपकामवान्‌ जीवो भवति । यत्क्रतुर्यन्निष्ठावाञ्जीवो भवति तत्तादृशङ्कर्मकुरुते । यादृशं कर्मकुरुते तादृशं फलं प्राप्नोति । अतः परमात्मेच्छाधीनो जीव इत्यर्थः ॥ 5 ॥ निष्ठानुसारेण कर्मकुरुते कर्मानुसारेण फलं प्राप्नोतीत्युक्तार्थेमन्त्रोस्तीत्याह । तदेष इति ॥ तत्तत्रोक्तार्थे एष वक्ष्यमाणः श्ऱ्लोको भवति । तदुपादत्ते ॥ तदेवेति ॥ अस्य शरीरिणः लिङ्गं शरीरं मनश्ऱ्च यत्र यस्मिन्फले निषक्तं निररां सक्तं तत्र फले सक्तः पुरुषः तदेवफलं तत्साधनीभूतस्वकृतकर्मणासह एति । अयं पुरुषः इह लोके यत्किञ्चित्कर्म करोति तस्य कमर्णः अन्तमवसानं प्राप्य तस्माल्लोकात्कर्मफलभू तात्स्वर्गादेः पुनरस्मैलोकाय एति आगच्छति किमर्थं कर्मणे कर्मकर्तुमिति । मुक्तामुक्तयोरुभयोरपि प्रकृतत्वात्कोवा अत्र प्रतिपाद्य इत्यतो ब्राह्मणं स्वयमाह ॥ इति नुकामयमान इति ॥ निरूपित इति शेषः । एवं संसारिस्वरूपं निरूप्यमुक्स्वरूपमाह ॥ अथेति ॥ अथशब्दः संसारिप्रकरविच्छेदार्थः । योकामः अकारवाच्यविष्णुकाः निष्कामः अयोग्यकामरहितः योग्यकामस्यापि न सर्वस्य सर्वदासमुद्भूतिः किन्तु कस्यचित्कदाचिदेव । सायोग्यकामस्य कादाचित्कसमुद्भूतिरपि भगवत्कामानां विनानेत्यकामयमानः आप्ताः कामाः काम्यायेनासावाप्तकामः आमैव कामः काम्यश्ऱ्चिदानन्दात्मकत्वादित्यात्मकामोमुक्तः । तस्य प्राणामुक्त्यनन्तरं पुनः नोत्क्रामन्ति । ननु जीवभावपरित्यागेन मुक्तस्य परब्रह्मवदेव स्वातन्त्ऱ्यप्राप्तौ कथमुक्तमकामत्वादिकं तदपरित्यागेपि मुक्तस्नयदाप्राणानामुत्क्रान्त्यभावेपि महाप्रलयेस्यादित्यत आह ॥ ब्रह्मैवेति ॥ सुमुक्तो ब्रह्मैव सन्‌ जी एव सन्‌ जीवभावमविहायैव परं ब्रह्माप्येति प्रतिप्रलयेहपरं ब्रह्माप्नोतीत्यर्थः ॥ 6 ॥ न तस्य प्राणा उत्क्रामन्तीत्युक्तेमुक्तस्य मरणाभावे ब्रह्माप्येतीत्युक्तब्रह्मप्राप्तौ च प्रमाणमाह ॥ तदेष इति ॥ मन्त्रं पठति ॥ यदेति ॥ अस्य जीवस्य ये हृदिश्रिताः अन्तःकरणस्थाः कामाः ते सर्वे यदाप्रमुच्यन्ते तदामुक्तो भवति । अनेन मुक्तस्याकामत्वनिष्कामत्वादिकं कुत इत्यत्र हेतुरुक्तो भवति । अथ मुक्त्यनन्तरं मर्त्यः पूर्वं मरणशीलः मुक्त्यनन्तरममृतो भवति । कदाचिदस्य मृतिर्नभवतीत्यर्थः । अत्र मुक्तौ प्रलये वा ब्रह्मसमश्ऱ्नुते प्राप्नोति । ननु न तस्य प्राणा उत्क्रामन्तीति मुक्तस्य मरणाभाव उक्तः स न युक्तः । तथात्वे ईश्ऱ्वरान्मुक्तस्य विशेषाभावापत्तेरिति चेत्‌ न मुक्तस्य पूर्वं शरीरिण एव सतःशरीरत्यागानन्तरमेवाशरीरत्वं परमात्मनस्तुसर्वदा अशरीरत्वमिति वैलक्षण्यादिति भावेनाह ॥ तद्यथेति ॥ B-34

?Rतत्‌ निदर्शनं यथा अहिः सर्पोनिलीयते स्यामिति अहिनिलयनीसर्पत्वाक्‌ वल्मीके प्रत्यस्ताप्रक्षिप्तामृतासवर्पेणत्यक्ताशयीत एवमेदं शरीरं जीवेन परित्यक्तं शेते । अथशरीरत्यागरूपमुक्त्यन्तरं एव अयं जीवः अशरीरो भवति । प्राण अमृतः कदापि न मृतः । कः प्राण इत्यत आह ॥ ब्रह्मैवेति ॥ न केवलं प्राणाख्यं परं ब्रह्मैव नित्यमुक्तं किन्तु श्रीरपीत्याह ॥ तेज इति ॥ तेजः श्रीरेवामृतं कदापि न मृतमित्यथर्ः । एवं श्रुतो राजागुरुदक्षिणां प्रतिजज्ञे इत्याह ॥ सोहमिति ॥ 7 ॥ भगवान्मोक्षदातेत्याद्युक्तार्थेमन्त्राः सन्तीत्याह ॥ तदेत इति ॥ तत्‌ तत्र पूर्वोक्तार्थे एते वक्ष्यमाणाः श्ऱ्लोकाः प्रमाणत्वे न भवन्ति । तानुपादत्ते ॥ अणुरित्यादिना ॥ अणुर्विततोव्याप्तः पन्थाः सुखहेतुप्राप्तिमान्‌ पुराणोऽनादिः मां श्रियं श्रियास्पृष्यः मयैवश्रियैवानुवित्तोज्ञातः ऊर्ध्वःसर्वविशिष्यो भगवान्‌ यः तेन तत्प्रसादेन धीराब्रह्मविदः इतः संसाराद्विमुक्ताः स्वर्गं स्वरूपभूतरमणज्ञानात्मकं लोकं वैकुण्ठादिकमपि यन्ति प्राप्नुवन्तीत्यर्थः ॥ 8 ॥ ननु भगवज्ज्ञानाद्रमाज्ञानान्निवृत्तकर्मानुष्ठानाच्चमोक्षोभविष्यति तत्र काभगवत्प्रसादस्यापेक्षा अतः कथं भगवतो निरुक्तपथित्वमित्यतः शुक्लस्य नीलस्येत्युक्तार्थे मन्त्रं वदन्नाह ॥ तस्मिन्निति ॥ तस्मिन्हरौ शुक्लं वासुदेवाख्यम्‌ । नीलमनिरुद्धाख्यं पिङ्गलं सङ्गर्षणाख्यं हरि तं प्रद्युम्नाख्यं लोहितं नारायणाख्यमिति पञ्चरूपाणिसन्तीत्याहुः । एष पञ्चरूपो भगवान्‌ पन्थाब्रह्माणाचतुर्मुखेनाऽनुवित्तोज्ञातः हेति प्रमाणसिद्धिमाह ॥ किं प्रकृत इत्यतः पथित्वमेवदर्शयति ॥ तेनेति ॥ ब्रह्मवित्परब्रह्मज्ञानी तैजसः महातेजोभूतश्रीस्वरूपज्ञानी पुण्यकृत्‌ भगवत्कर्मकर्तापि तेनैव भगवता तत्प्रसादेनैव स्वर्गं लोकमित्युक्ताङ्गतिमेति यस्मात्‌ तस्माद्भगवान्पन्था इत्यर्थः ॥ 9 ॥ एवं यथावत्परमात्मादिज्ञानं भगवत्प्रसादद्वारामोक्षसाधनमित्युक्तं न केवलमेतावत्‌ किं नामान्यथाज्ञानि निन्दासमुच्चितमेवेति भावेन यथायज्ज्ञानस्येवान्यथाज्ञाननिन्दाया अप्यावश्यकत्वोपपादनायान्यथाज्ञाननिन्दनस्यान्यथाज्ञानापेक्षयाधिकयेनानर्थसाधनत्वं मन्त्रेणाह ॥ अन्धतम इति ॥ ये अविद्यां विरुद्धविद्यां मिथ्याज्ञानं तद्विषयमन्यथाकारं ब्रह्नर्गुणत्वादिकमुपासते ते अन्धन्तमज्ञः प्रविशन्ति । ये विद्यायां यथार्थज्ञन एव रताः नत्वन्यथाज्ञाननिन्दां कुर्वन्ति ते ततोन्यथोपसकाद्भूय एव किञ्चिद्विशेषणतमःप्रविशन्तीत्यर्थः ॥ 10 ॥ ननु भगवज्ज्ञानं कदासम्पादनीयमिति चेत्‌ सम्यग्ज्ञानिन्युपदेष्यरिसत्येव अन्यथा

?Rअनर्थसद्भावादिति भावेन तत्र मन्त्रमाह ॥ अनन्दा इति ॥ यद्वा न केवलमन्यथाज्ञानिनस्तदनिन्दकस्य च तमः प्राप्तिः किन्तु

?Rगुरूपदेशोल्लङ्घिनश्ऱ्च अतो भगवदुपदेष्यरिसति भगवत्स्वरूपं ज्ञातव्यमेवेति भावेन तत्र मन्त्रमाह ॥ अनन्दा इति ॥ बुधः बोधयततीति भत्‌ज्ञानीतस्मात्‌ ज्ञानिनो ये भगवत्स्वरूपमविद्वांसोजनाः ते प्रेत्य अन्धयतीत्यन्धेन तमसावृताः सुखवित्युक्तं तत्र कोयमन्यथाकारोयदुपसकस्य तमः प्राप्तिरिति चेत्‌ जीवेश्ऱ्वराभेद एवान्यथाकारः तत्पक्षेदोषसद्भावादिति भावेन तत्प्रक्षेदोषमाह ॥ आत्मानमिति ॥ चेद्यदि पुरुषो जीव; अयं परमात्मा अहमस्मीति परमात्मानं विजानीयात्‌ विज्ञातुं योग्यः स्यात्‌ तर्हि किमिच्छन्‌ तस्यैव विवरणं कस्य कस्मैकामायेति कथमिति यावत्‌ शरीरं शरीरच्छेदादिकमनुसंज्वरेत्‌ दुःखीभवेदित्यर्थः । यदि जीवः स्वस्य परमात्मत्वानुसन्धानयोग्यः स्यात्तर्हि दुःखी न स्यात्‌ परमात्मनोदुःखाभावादिति भावः ॥ 12 ॥ भगवज्ज्ञानं मोक्षसाधनमित्यत्र मन्त्रान्तरं पठति ॥ यस्येति ॥ हि यस्मात्स आमासर्वस्य कर्ता तस्माद्विश्ऱ्वकृत्‌ वायोरपि कर्ता अस्मिन्त्सन्दोहेदेहेविद्यमानं यद्गहनं हृद्गुहास्थानं तस्मिन्प्रविष्यः प्रतिबुद्धः सर्वज्ञः स आत्मा यस्य येनोपासकेनानुवित्तोज्ञातः तस्योपासकस्य उ एकः प्रधानः स एव लोको भवति स कः यो लोकः परमात्मन इति शेषः ॥ 13 ॥ सद्गुरूपदेशेनैव ज्ञानं सम्पादनीयं तदुल्लङ्घनेचानर्थप्रप्तिरितीममर्थं मन्त्रान्तरेण द्रढयति ॥ इहेति ॥ बुध इत्युक्तो ज्ञानी इहेति परामृश्यते इह ज्ञानिनिबोधके विद्यमान एव सन्तःसज्जनावयं तत्‌ (परं)ब्रह्म विद्मः जानीमः । वेदपुरुषवचनमेतत्‌ । कालान्तरेसम्पादयिष्येब्रह्मज्ञानं इति वदन्तं प्रत्याह ॥ नेति ॥ तस्मिन्बोधके सत्यपि चेद्यदि नावेदीः परं ब्रह्म न जानीयाः तर्हि महतीविनष्यिः । सद्गुरूपदेशजज्ञानस्य किं फलमित्यत आह ॥ य एतदिति ॥ एतत्परं ब्रह्म सद्गुरूपदेशेनेति शेषः । नचेदवेदीर्महतीविनष्यिरित्युक्तमेव विवृणोति ॥ अथेतरे इति ॥ गुरूपदेशोल्लङ्घिन इत्यर्थः । दुःखमेव अन्धन्तम इत्यर्थः ॥ 14 ॥ ज्ञानमाहात्म्यप्रतिपादकमन्त्रमाह ॥ यदेति ॥ ये भूतभव्यस्येशानं देवं क्रीडादिगुणमे(त)नमात्मानं यदाञ्जसानुपश्यन्ति ततस्तदननतरम्‌ । न विजुगुप्सते भयाभावादात्मानं गोप्तुं नेच्छति । यथोक्तम्‌ । यःपश्येत्सभयाभावादात्मानं गोप्तु नेच्छतीति ॥ 15 ॥ तद्यदेतदिदं मयत्यित्र तदेतच्छब्दाभ्यामुक्तेविष्णोः भूतभविष्यतद्वर्तमानकालेष्वेकप्रकारत्वे अमृतः प्राण इत्युक्तामृतत्वे च मन्त्रं पठति ॥ यस्मादिति ॥ अहोभिः सहसंवत्सरोयस्मादर्वाक्‌ परिवर्तते यस्मिन्स्वव्यापारं कर्तुमसमर्थ इति यावत्‌ तज्ज्योतिषां ज्योतिः ज्योतिष्ट्वप्रदं आयुरचलममृतं नित्यमुक्तं देवा उपासते हेति प्रसिद्धिमाह ॥ 16 ॥ ब्रह्मज्ञानस्यैवमोक्षसाधनत्वे मन्त्रान्तरं पठति ॥ यस्मिन्निति ॥ यस्मिन्पञ्चपञ्चजनाः प्रतिपुरुषं पञ्चजनाः प्रतिष्ठिताः आकाशोभूलप्रकृतिश्ऱ्च प्रतिष्ठितः तमेवात्मानं मन्येविजानीयां किं तज्ज्ञानेनेत्यत आह ॥ अमृतं नित्यमुक्तं ब्रह्मविद्वानमृतोमुक्तो भवतीति ॥ 17 ॥ आत्मनि प्रतिष्ठिताः पञ्चजनाः क इति चेत्‌ ज्योतिषां ज्योतिरिति ज्योतिः नियामकत्वोक्त्या पञ्चानां मध्ये ज्योतरेकमुक्तमेव इतरेप्राणादय एवेति भावेन भूतलादेः घटाद्याधारवत्‌ न पञ्चजनाधारत्वं परमात्मन; किन्तु तन्नियामकत्वे नेति वदन्‌ तथा परमात्मज्ञानिनः फलमाह ॥ प्राणस्येति ॥ प्राणं प्राणत्वप्रदं निचिक्युः प्राप्तवन्तः ॥ 18 ॥ ननु मोक्षसाधनं ब्रह्मापरोक्षज्ञानं केन करणेन सम्पादनीयमित्यत आह ॥ मनसैवेति ॥ शुक्लस्य नीलस्य इत्यादिनाबहुरूपत्वोक्त्यारूपाणां परस्परं मूलरूपेण च सवा अयमात्माब्रह्मविज्ञानमय इत्यादि नागुणानामुक्त्यागुणानां परस्परं गुणिनाच भेदः प्राप्तः । तन्निराचष्ये ॥ नेहेति ॥ इह ब्रह्मणि किञ्च न रूपगुणादि नानाभिन्नं नास्तीत्यर्थः । कु नास्त चेत्‌ यतो भेदाभेद दर्शिनोप्यनर्थसद्भावः किमुभेदमात्र दर्शिन इति भावेन भेदाभेददर्शिनोऽनर्थं प्रमाणेनाह ॥ मृत्योरिति ॥ य इह ब्रह्मणिरूपं गुणादिकं नानेवभिन्नाभिन्नं पश्यति समृत्योः मृत्युमन्धन्तमः प्राप्नोतीत्यर्थः ॥ 19 । तर्हि कतं भगवान्‌ ज्ञातव्य इत्यत आह ॥ एकधैवेति ॥ यस्माद्भेदज्ञानेनर्थसद्भावः तस्मादप्रमयं परिमिति रहितं ध्रुवं नित्यमेतद्ब्रह्मैकप्रकारेणैव द्रष्यव्यमित्यर्थः । परमात्मापरोक्षज्ञानेमनः करणमित्युक्तं न तावन्मात्रेण तद्भवति किन्तु श्रवणादिसाधनादपीति भावेन साधनान्तरमाह ॥ विरज इति ॥ दीरोमनोधैर्यवान्‌ ब्रह्मणोब्रह्माण न योग्यो विरजोनिर्दोषः आकाशान्मूलप्रकृतेः पर उत्तमः केनापि प्रकारेण न जायत इत्यजःमहान्परिमाणतो ध्रुवोनित्यः तमेव आत्मानमेव परोक्षतो विज्ञाय प्रज्ञामपरोक्षज्ञानं कुर्वीतसम्पादयेदित्यर्थः । तमेव विज्ञायेति परमात्मन एव वेदादिनाविज्ञायत्वमुक्तं तद्वयावर्त्यमाह ॥ नेति ॥ शब्दान्‌ वेदादिरूपान्बहून्मुखतोहरहिरण्यगर्भादिरूपबह्वर्थप्रतिपादकान्‌ नानुध्यायेत्‌ नानुचिन्तयेत्‌ । कुतः तद्बह्वर्थप्रतिपादकवेदाध्ययनादिकं वाचोवागिन्द्रिस्य विग्लापनं श्रमकरमित्यर्थः । इतिशब्दः श्ऱ्लोकसमाप्तिद्योतकः ॥ 20 ॥ नन्विदं प्रकरणं चतुर्मुखपरमेवेति प्रतीयते । अज आत्मामहानित्यजादिशब्दश्रणात्‌ । तेषां च विष्णुजातत्वयोगेन आत्माविरिञ्चःसुमहानित्यभिदानेन महत्तत्वाभिमानित्वेन च तत्र सम्भवादित्यत आह ॥ सवा एष इति ॥ एष मन्त्रोक्तोमहानज आत्मा सवैस एव सक इत्यतो योयं विज्ञानमयः पुरुषः प्राणेषु हृद्यन्तर्ज्योतिरित्युक्त एवेति भावेन

?Rतद्वाक्यमर्थतोऽनुवदति एवेर्त्थः । पूवर्ोक्तश्ऱ्चभगवानेवेति भावः । ननु यदुक्तं भगवज्ज्ञानमेव मरोक्षसाधनमिति । तन्न ।

?Rवेदाध्ययन यज्ञदानतप आदीनामपि मोक्षसाधनत्वश्रवणादित्यतो न तेषां साक्षान्मोक्षसाधनत्वं किन्तु तत्साधनब्रह्मज्ञानसाधनत्वमेवेति भावेन यन्महिमाविशिष्यभगवज्ज्ञानं मोक्षसाधनं तदुक्तिपूर्वकं वेदानुवचनादेः ब्रह्मज्ञानसाधनत्वामाह ॥ सर्वस्येत्यादिना ॥ अत्र सर्वत्र यच्छशब्दोनुवर्तनीयः । तस्य तमेतमिति तच्छब्देनान्वयः । यद्वा स वा एष महानजःइत्यादिकमसम्भेदायेत्यन्तं मोक्षसाधन ज्ञानविषय भगवन्माहात्म्यप्रतिपादकमेव । एवं सति प्रथमवाक्ये यच्छब्दोनुकर्षणीयः । तथाच अयमर्थः । यः सवैमुक्तनियामकत्वेनोक्तः एष महानज आत्मा यश्ऱ्चायं प्रसिद्धो विज्ञानपूर्णः प्राणेषु य एषोन्तर्हृदये हृदयस्यान्तराकाशस्तस्मिंश्ऱ्चशेते यश्ऱ्च सर्वं स्ववशे वर्तत इति सर्वस्य वशी सर्वस्येशस्य ब्रह्मरुद्रादेरनश्ऱ्चेष्यक इति सर्वस्येशानः सर्वस्य ब्रह्मरुद्रादेः सकाशादधि अधिको गुणैः सर्वस्य पतिः पालकश्ऱ्चेति सर्वस्याधिपतिः यश्ऱ्च सप्रसिद्धः जीववत्साधुनाकर्मणातत्फलेन सुखेन भूयान्‌ न भवति नित्याभिपूर्णत्वात्‌ असाधूनाकर्मणातत्फेलेन दुःखेन कनीयान्नो एव भवति तदभोक्तृत्वात्‌ यश्ऱ्चैषः प्रसिद्धः सर्वेश्ऱ्वरः सर्वेश्ऱ्वरत्वं न सादि किन्तु यश्ऱ्चैष भूत एवाधिपतिः नास्याधिपत्यमादिमदिति भूताधिपतिः यश्ऱ्चैष भूत एव पालः पालकः यश्ऱ्चैष एषां लोकानां असम्भेदायासाङ्कर्याय एषां लोकानां विधरणः विधारणसमर्थः न केवलं सामर्थ्यमात्रं किन्तु एषां लोकानां सेतुराश्रयश्ऱ्च तमेतमुक्तगुणवन्तं भगवन्तं ब्राह्मणाः ब्रह्माण न योग्याः वेदानुवचनेन वेदाध्ययनेन यज्ञेन दानेन तपसा कायक्लेशात्मकेन अनाशकेनानशनव्रतेन विविदिषन्ति वेत्तुमिच्छन्तीति । अनाशकेन शरीरनाशाकरणेन तपसेति विशेषणविशष्यभावो वा । अश्ऱ्वेन जिगमिषतीत्यत्र यथाश्ऱ्वस्य धात्वर्थगमनसाधनत्वमेव नत्विच्छासाधनत्वं एवमत्रापि यज्ञादे; धात्वर्थवेदनसाधनत्वमेवोच्यत इत्यवगन्तव्यम्‌ । वेदनेन किं स्यादित्यत आह ॥ एतमेवेति ॥ एतं पूर्वोक्तमहिमानं परमाकिञ्नमेव विदित्वमुनिर्ज्ञानस्वरूपोमुक्तो भवतीति यावत्‌ । किञ्चै(तं)नं भगवन्तमेव लोकमाश्रयं इच्छन्तः प्रार्थयन्तः प्रव्राजिनः प्रव्रजनशीलाः प्रव्रजन्ति निषिद्धकाम्यकर्मत्यागलक्षणसंन्यासं स्वीकुर्वन्ति यद्वा लोकमाश्रयमिच्छन्तः प्रव्रजिनशीलाः एतमेव प्रतिप्रजन्ति गच्छन्ति । श्रुतः स्वोक्तार्थे पूर्वाचारं प्रमाणयति ॥ एतदिति ॥ तदेतत्‌ भगवानेवाश्रय इति प्रमेयं विद्वांसः पूवर्ेपि प्रजां उपलक्षणमेतत्‌ निषिद्धं वस्तुन कामयन्ते हस्मवा इति निपातत्रयं सुप्रसिद्धिद्योतकं प्रजाद्यकामनेकारणं निरूपयति ॥ किमिति ॥ येषां नोऽस्माकमयं पूर्वोक्तमहिमविशिष्योभगवानात्मास्वामी अयं लोक आश्रयश्ऱ्च ते वयं किं प्रजयाकरिष्याम इति भावेन प्रजां न कामयन्त इति सम्बन्धः । तर्हि ते किं कृतवन्त इत्यत आह ॥ तेहीति ॥ व्याख्यातमेतत्‌ । यज्ज्ञानादेषणात्रयव्युत्थान लक्षणोमोक्षोयस्माच्चनन्दादिभिक्षातस्य महिमानमाह ॥ स एष इत्यादिना ॥ महिमान्तरमाह ॥ एतमिति । अहं पापमकरवं कृतवानिति अहं कल्याणमकरवं कृतवानिति एते भावने एतमुभगवन्तमेवनैवतरतो नैव व्याप्नुत; न जीवमपि जीवं तु व्याप्नुत एव । जीवं किं स्वातन्त्ऱ्ेण व्याप्नुते नेत्याह ॥ अतः पापमिति ॥ एवेत्यनुवर्तते । अहं पापमकरवमिति यच्चिन्तनं जीवस्य तदतएव परमेश्ऱ्वरादेव कल्याणमकरवमिति यच्चिन्तनं जीवस्य तदप्यत एवेत्यर्थः । ननु परमात्मापुण्यपापप्राप्तावपि तादृशीं भावनां करोति किं नेत्याह ॥ उभे इति ॥ एषपरमात्मैव एते पुण्यपापेतरति नित्यतीर्णो वर्तते । ननु भगवतः प्रुयपापतरणं न तावदनाश्रयत्वं सर्वाश्रयत्वात्‌ नापि तदननुभव; सर्वज्ञत्वात्‌ अतः किंतत्तरणं नामेत्यत आह ॥ नैनमिति ॥ कृताकृतेनित्यकर्मानुष्ठानाननुष्ठाननिमित्तकण्यपापे ॥ एनं भगवन्तं न तपतः ततकृतनीचोच्चत्वादिलक्षणविकारोनास्तीत्यर्थः ॥ 21 ॥ उक्तार्थेप्रमाणमप्यस्तीत्याह ॥ तदेतदिति ॥ ब्रह्मणावेदेनगम्यत इति ब्राह्मणो विष्णुः तस्यैष पूर्वोक्तो महिमानित्यः कुतः शुभकर्मणा न वर्धते पापकर्मणानोकनीयान्‌ । अस्त्वेवं भगवत्स्वरूपं किं मयाकार्ममित्यतः तज्ज्ञानं सम्पादनीयमित्याह ॥ तस्यैवेति ॥ तस्य नित्यमहिम्नः कर्मफलशून्यस्य विष्णोरेव पदवित

?R्‌ स्वरूपज्ञानीस्यात्‌ । किं तज्ज्ञानेनेत्यत आह ॥ तं विदित्वेति ॥ इतिशब्द ऋक्‌समाप्तिद्योतकः । एवं भगवज्ज्ञानस्य मोक्षसाधनत्वात्‌ तत्कामोन्योपि तज्ज्ञानं सम्पादयेदित्याह ॥ तस्मादिति ॥ तस्माद्भगवज्ज्ञानस्य मोक्षसाधनत्वात्‌ एवंवित्‌ भगवज्ज्ञानं मोक्षसाधनमिति ज्ञानवान्शान्तो भगवन्निष्ठो दान्तोनिगृहीतमदः उपरत उपसमीपे वर्तमानेस्वहृदिस्थे विष्णौ रमतीत्युपरतः तितिक्षुः द्वन्द्वं सहिष्णुः समाहितो यथावस्तुज्ञानी मूत्वाऽऽत्मन्येवस्वस्मिन्नेव विद्यमानमात्मानं पश्यति पश्येत्‌ । केनप्रकारेणेत्यत आह ॥ सर्वमिति ॥ आत्मानं सर्वं पूर्णं पश्यति पश्येदित्यर्थः । यद्वा न केवलं श्रवणमननादिरूप परोक्षज्ञानमेवापरोक्षज्ञानसाधनं किन्तु शान्त्यादि सहितमिति वदज्ज्ञानस्य मोक्षसाधनत्वे ज्ञानिनामाचारं प्रमाणयति ॥ तस्मादिति ॥ भगवज्ज्ञानिनः फलमाह ॥ नैनमिति ॥ एनं ज्ञानिनं पाप्मानतरतिनप्राप्नोति । किन्त्वयमेव सर्वं पाप्मानतं

?Rरतीति । नैनं पाप्मातरतीत्युक्तं विवृणोति ॥ नैनं पाप्मातपतीति ॥ सर्वं पाप्मानं तरतीत्युक्तं विवृणोति ॥ सर्वं पाप्मानं

?Rतपतीति ॥ एवं नैवं रजस्तरति सर्वं रजस्तरति नैनं विचिकित्सातरति सर्वां विचिकित्सान्तरतीत्यपि ग्राह्यम्‌ । एवं ज्ञानिनः पापरागसन्देहाभावा अभिहिताः । तत्कुत इत्यतस्तदुपास्यस्य भगवतो नितयं पापरागसंदेहशून्यत्वादित्याह ॥ विपाप इति ॥ विष्णुः नित्यं विपापोविरजोऽविचिकित्सोब्रह्मणावेदेन गम्यत इति ब्राह्मणो भवति यतः अतस्तज्ज्ञान्यपि तादृश इत्याह ॥ सोहमिति ॥ भगवते पूज्याय ते विदेहानपि मयानुभूयमानानपि विदेहदेन्‌ दास्यायमांचमयापि सह दास्यामीत्यर्थः ॥ 22 ॥ विद्यान्तरमुपदिशति ॥ सवा इति ॥ अन्नमत्तीत्यन्नादः वसुदैवमानुषात्मकं ददातीति वसुदानः । तज्ज्ञानिनः फलमाह ॥ विन्दत इति ॥ 23 ॥ विद्यान्तरमाह ॥ सवा इति ॥ अजरोजराशून्यः नमरिष्यतीत्यमरः न मृत इत्यमृतः अभयोभयशून्यः ब्रह्माप्तकामः । ब्रह्मणोऽभयत्वं कुत इत्यतस्तदेतदमृतमभयं भवति भयराहित्याय भवतीत्यर्थः । यद्वा य एवं वेदसोभयं भयरहितः ब्रह्माप्तकामो भवतीति प्रसिद्धमित्यर्थः ॥ 24 ॥ इति शारीरब्राह्मणम्‌ ॥ 4 ॥ प्रियावैखलुनोभवतीसतीप्रियमवृधदित्यत्र प्रियमवृधत्‌ वृद्धमभवदिति यथाश्रुत प्रतीतिरनुपिपन्ना प्रियस्य स्वत एव वर्धनायोगात्‌ भवतीत्वं पूर्वमपिनः पिनः प्रियैवसतीदानीमति प्रियं प्रीति मवृधत्‌ वर्धितवत्यसीति व्याख्यानमयुक्तं अवृधदित्यस्यान्तर्णीतणिच्त्वेनयथाश्रुते नैवोपपत्तौ त्वमित्यध्याहृत्यतदुपपत्तये वर्धितवत्यसीति प्रतिपादनायोगात्‌ बह्वध्याहारापाताच्च प्रियशब्दस्य प्रीतिशब्दस्य प्रीतिविषयवाचकत्वेन प्रीतिवाचकत्वायोगाच्च प्रियं भाषस इति प्रागुक्तविरोधाच्चेति भावेन प्रियमवृधदिति वाक्यं कर्तृप्रदर्शनपूर्वकं व्याचष्ये ॥ प्रियामिति ॥ तथापि प्रियं वचनमिति वक्तव्यमिति चेत्‌ सत्यं अर्तानुवादोयमित्यदोषः । शाखान्तराभिप्रायेण वा ।एतदुपनिषत्पुस्तकेष्वपि क्वचित्प्रियामवृधदिति पाठोपलम्भाच्च । स यथासैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नोरसघन एवेत्यत्र न विद्यते अन्तरमन्तस्थं बाह्यञ्च यस्मात्तदनन्तरमबाह्यमिति सैन्धवघनस्य सूक्ष्मत्वं व्याप्तत्वं चोच्यत इति प्रतीति निरासाय तद्विशेषणस्योपयोगं दर्शयंस्तद्वाक्यं व्याचष्ये ॥ बाह्येति ॥ अनेन न विद्यते अन्तरस्मिन्बाह्येच विशेषो यस्य तदन्तरमबाह्यमित्यर्थ उक्तो भवति । तच्च विशेषणं हेत्वर्थगर्ममिति भावेन विशेषाभावेनेत्युक्तम्‌ । कृत्स्न इत्यस्यार्थः । सर्वत्रेति ॥ रसघन इति कस्य रस इति न प्रतीयते अत उक्तम्‌ ॥ लवणेति ॥ अत्रैवमाभगवन्मोहान्तमापीपिपन्नवा अहमिमं विजानातीति यथाश्रुत प्रतीति निवारणायतदनूद्यसमग्रवाक्यमन्वय प्रदर्शनपूर्वकं व्याचष्ये ॥ नवा इति ॥ अहमित्यर्स्थोऽहेयमिति । जीव इति कर्तृरध्याहारः । मुक्त इत्यर्थः । मोहस्यान्त इति भ्रमनिरासायमोहाख्यं नाशमित्युक्तं एवमत्राहंशब्दस्याहेयार्थकत्वात्‌ यत्प्रागुक्तमस्माभिस्तदात्मानमेवावेदहंब्रह्मास्मीत्यादिष्वहंशब्दोऽहेयत्ववाचीति तदपि सिद्धमित्याह ॥ अत इति ॥ स्यादेतत्‌ यद्यत्रैवाहंशब्दोऽहेयत्वार्थकः स्यात्‌ तदेवकुतः अस्मच्छब्दरूपत्वाङ्गीकारे बाधकाभावादित्यत आह ॥ अन्यथेति ॥ अस्मद्युत्तम इत्रत विजानामीत्युत्तमपुरुष प्रयोगापत्तेरिति भावः । ननु विजानातीत्येतत्‌ विजानामीति पुरुषव्यत्यासेन व्याख्यायत इति चेत्‌ तथात्वे नवा अहमिमं विजानातीत्यस्य न प्रेत्यसंज्ञास्तीति याज्ञवल्क्योक्त्यनुवादरूपत्वानुपपत्तेः । याज्ञवल्क्ये नहि मोक्षेभूतानां विनाशाद्भूतजं ज्ञानं नास्तीति भावेन न प्रेत्यसंज्ञास्तीत्युक्ते तमभिप्रायमजानतीमैत्रेयीमुक्तस्य ज्ञानसामान्यनिषेधोऽनेन कृत इति बुद्‌ध्वा खलु पृच्छति ॥ अत्रैवेति ॥ तताच यदि अहमिमं परमात्मानं न विजानामीत्यर्थः स्यात्‌ तदाकथं तस्य तदनुवादरूपत्वं स्यात्‌ अतस्तत्सिध्यर्थमस्मदुक्त एवार्थोङ्गीकार्य इति । ननु नवा अहमित्येतत्‌ न याज्ञवल्क्योक्तानुवादरूपं अत्रैव वस्तुनिप्रज्ञानघन एवनप्रेत्यसंज्ञास्तीति मोहान्तमापीपिपत्‌ अतोऽहमिमं न विजानामीति व्याख्यानादति चेत्‌ न । उक्तरीत्यानवा अहमित्यस्व न प्रेत्यसंज्ञास्तीत्यनुवादरूपत्वोपपत्तावध्याहारेणैव8 व्याख्यानायोगात्‌ । ननु तथापि मुक्तोऽहेयं परमात्मानं न विजानातीत्येतत्कथं प्रागुक्तज्ञानसामान्यनिषेदानुवाद इति चेन्न । यदि मुक्तस्य ज्ञानमेव न स्यात्‌ तदापरमात्मज्ञानमपि न स्यात्‌ तथाज्ञानं च मिथ्याज्ञानमिति मैत्रेय्याशयादिति । एतावदरेखल्वमृतत्वमिति होक्त्वायाज्ञवल्क्यो विजहारेत्यत्रैतावदेवोक्तरूपात्मज्ञानमेवामृतत्वं मोक्षसाधनमिति प्रतीतिनिरासाय व्याचष्ये ॥ एतावदिति ॥ विज्ञातुः जीवस्य । आदिशब्देन विषयपरिज्ञानं गृह्यते । हिशब्देन प्रमाणप्रसिद्धिमाह ॥ पूर्वं याज्ञवल्क्यः नवा अरे अहं मोहं ब्रवीमित्यमेव मदभिप्रायमज्ञात्वा अन्यथाकल्पयसीत्युक्त्वा मोक्षे विप्रतिपत्तीर्निराकर्वन्‌ आमनाशमोक्षं वदतां बौद्धानां मतं अविनाशीवा अरेऽयमात्मा इत्यनेन निराकृत्य अशेषविशेषगुणोच्छेदोमोक्ष इति वैशेषिकमतं न विद्यते उच्छित्तिर्नातेऽनिष्यमापादयितुं यत्र हीत्यादिना व्यतिरेकव्याप्तिमुक्त्वा यत्र त्वस्य सर्वमात्मैवाभूदित्यादिना तन्मते विषय भोगः स एष नेति नेतीत्याद्युक्तमाहात्म्यवतायेनेदं सर्वं विजानाति तत्परब्रह्मकेन विजानीयादिति परमात्मज्ञानं विज्ञातारमरेकेन विजानीयादिति स्वस्वरूपज्ञानं च न स्यादित्युक्त्वा तत्रेष्यापत्तिपरिहारायमैत्रेय्येतावदरेखल्वमृतत्वमित्युच्यते तथाच

?Rतद्वाक्यस्यास्मदुक्त एवार्थो न परोक्त इति भावः । अत्र प्रमाणमाह ॥ विष्णोरिति ॥ अत्रादिशब्देन जीवस्य विषयस्य च

?Rज्ञानं गृह्यते । ननु विगलिताखिल भेदेमोक्षेक्वविभूज्ज्ञानं मोक्ष इत्यत आह ॥ ज्ञानाभाव इति ॥ शून्यता । आत्मनः स्यादिति शेषः । आत्मनो ज्ञानस्वरूपत्वादित्यर्थः । तथाच कस्य सुकं स्यादिति भावः । विपर्ययेपर्यवसानमाह ॥ तस्मादिति ॥ सुखरूपत्वतोज्ञानरूपस्यात्मनः सद्भावोऽवश्यमपेक्षितः । ज्ञानञ्च ज्ञेयसापेक्षमिति ज्ञेययुक्तो मोक्षइत्यर्थः । अत्र ब्राह्मणार्थः पूर्वमेवोक्तः ॥ मैत्रेयीब्राह्मणम्‌ ॥ 5 ॥ अध्यायद्वयोक्तविद्यासुबुभुत्सुश्रद्धाजननाथर्ं तासां विद्यानां प्रवर्तकान्‌ ऋषिनाह ॥ अथ वंश इत्यादिना ॥ अत्रोपदेष्यारः सर्वेपि न नियमेन श्रोतृभ्योऽधिकाः अश्ऱ्विभ्यामाथर्वण आधिक्याभावादिति भावेनाह ॥ अवरेभ्य इति ॥ वंशब्राह्मणम्‌ ॥ 6 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विचित श्रीद्बृहदारण्यकभाष्यटीकायां श्रीमद्रघुवर्यतीर्थ पूज्यपादशिष्यरघूत्तमयति कृतायां परब्रह्मप्रकाशिकायां षष्ठोऽध्यायः ॥ 6 ॥ चतुर्ष्वध्ययेषूक्तानां अखिलाः शेषभूताः सप्तमाष्यमाभ्यां निरुप्यन्ते । पूर्वं शुक्लस्य नीलस्येत्यादिना भगवदवतारा अभिहिताः । तत्र भूलरूपस्यावताररूपस्य च परावरतवेन पूर्णत्वापूर्णत्वे स्यातामित्याशङ्कापूर्णमद इति प्रथमब्राह्मणेनापाक्रियते । अप्रतिपत्तिविप्रतिपत्तिनिरासाय तद्ब्रह्मणं प्रमाणेन व्याचष्ये ॥ अवतारा इत्यादिना ॥ पूर्णमिदमिति एकस्यैवावतारस्य पूर्णत्वमुच्यत इति शङ्कानिरासाय तस्यार्थमाह ॥ अवतारा इति ॥ पूर्णमद इत्यस्यार्थमाह ॥ पूर्णञ्चेति ॥ परं मूलरूपमित्यर्थः । पूर्णात्पूर्णमुदच्यत इत्यस्यार्थमाह ॥ पूर्णादिति ॥ ननु मूलरूपस्य परत्वेन अवताररूपस्यावरत्वेन देशकालसामर्थ्यैर्विशेषावगमात्कथमुभयोः पूर्णत्वमित्यत आह ॥ परावरत्वमिति ॥ पूर्वमेवाभिव्यक्तत्वान्मूलरूपं परमित्युच्यते । अनन्तरभिव्यक्तत्वादवतारारूपमव(प)रमित्युच्यत इत्यर्थः । मात्रपदव्यवच्छेद्यमाह ॥ नेति ॥ पूर्णस्य पूर्णमादायेति वाक्यं व्याचष्ये ॥ पूर्वेति ॥ अवतारत्वेन गम्यत इत्यवतारगम्‌ । ननु ब्रह्मादीनां स्वात्मन्यादानवत्‌ स्वावताररूपादानस्यापि देहलयरूपत्वे कथं तस्य पूर्णत्वं स्यादित्यत आह ॥ लौकिकेति ॥ लोकविषय इत्यथर्ः । तददृष्यिं भूभारक्षपणादिव्यवहारादृष्यिं कृष्णादिनां कृष्णादीनां ह्रस्वः छान्दसः । एतेन अदः परोक्षं निरुपाधिकं ब्रह्मपूर्णम्‌ इदं नामरूपोपाधिविशिष्यमपि स्वरूपेण पूर्णं नतु विशिष्यरूपे तदिदं विशिष्यरूपं पूर्णात्कारणात्मनः सकाशात्पूर्णमेवोदच्यते उद्गच्छति पूर्णात्मभावस्य त्यागायोगात्‌ पूर्णस्य कार्यात्मनो ब्रह्मणः पूर्णं पूर्णत्वमेकरसत्वलक्षणमादाय विद्यया आविद्यकोपाधिसंसर्गतिरस्कारपूर्वकं पूणर्मेवनिरन्तरप्रज्ञानघनैकरसस्व भावं केवलं ब्रह्मावशिष्यते इति परकीयव्याख्यानमपास्तम्‌ । विशिष्याविशिष्यब्रह्मसद्भावेमानाभावात्‌ उदाहृतप्रमाणविरोधाच्च । ओं खं ब्रहमखं पुराणं वायुरं खं इत्येतद्वयाचष्ये ॥ ओता इति ॥ अस्मिन्विष्णौ ओता इत्यन्वयः । खमिति त्रिवारमुक्तस्यैकार्थता प्रतीति निरासायाऽर्थमाह ॥ खमिति ॥ इति हस्मादकौरव्यायणीपुत्र इत्यस्यार्थमाह ॥ रौहिणेय इति ॥ वेदोयं ब्राह्मणाविदुरित्येतद्वयाचष्ये ॥ वेदोयमिति ॥ वेदोनेनैन यद्वेदितव्यमित्यत्रैनेत्येतत्‌ अशब्दस्य तृतीयान्तमिति भावेन तदर्थमाह ॥ निर्दोषत्वादिति ॥ तद्वाक्यं व्याचष्ये ॥ तेनेति ॥ कौरव्यायणीपुत्र इत्येतत्‌ रौहिणेय इति व्याख्यातं तद्घटयति ॥ बाह्लीकेति ॥ हि यस्माद्बाह्लीकः कौरव्यः तत्सुताचरोहिणीकौरव्यायणीत्युच्यते । अतस्तत्पुत्रोबलभद्रः कौरव्यायणीपुत्र इत्युच्यते इत्यर्थः । ततश्ऱ्चायंखण्डार्थः ॥ अदोमूलरूपं पूर्णं इदमवताररूपं च पूर्णं पूर्णान्मूलरूपात्‌ पूर्णं अवताररूपं उदच्यते उद्गच्छति पूर्णस्य मूलरूपस्य पूर्णं यदवताररूपं तदात्मन्यादायैकीभूय पूर्णं मूलरूपमेवाव तिष्ठते । तस्यैव ब्रह्मणोमूलरूपस्य स्वरूपमाह ॥ ओमिति ॥ तन्मूलरूपं सर्वगुरपरिपूर्णत्वादोमित्युच्यते प्रकाशरूपत्वात्खं व्याप्तत्वाद्ब्रह्म सुखरूपत्वात्खं अनादित्वात्पुराणं वायोः रतिदत्वाद्वायुरं ख्यातत्वात्खमिति कौरव्यायणीपुत्रोबलभद्र आहस्म अयं परमात्मा ज्ञानरूपत्वाद्वेद इति यं ब्राह्मणाविदुस्तेन वेदेन ज्ञानरूपेण एननिर्दोषत्वादकारवाच्येन यदिदं प्रसिद्धं तत्सर्वं वेदितव्यत्यिर्थः ॥ इति प्रथमं ब्राह्मणम्‌ ॥ 1 ॥ अथभाष्यार्थः ॥ सर्वप्राणिसाधरणानुष्ठेयमाह ॥ त्रया इति ॥ देवादीन्‌ सृजताभगवता तत्तत्कर्तव्यस्योपदिष्यत्वात्पुनः कस्माद्ब्रह्मणं पप्रच्छुरित्यत आह ॥ ज्ञानदानमिति ॥ उपलक्षणमेतत्‌ देवानां दयादमश्ऱ्च मनुष्याणामसुराणां च दानादित्रयमपि विहितमिति ग्राह्यं देवनरासुराः विशेषं बुभुत्सव इति शेषः । यद्वा अत्र देवानां दमस्य मनुष्याणां दानस्य असुराणां दयाया विहितत्वेन देवानां दानं नास्तीति प्रतीयते तदनुपपन्नम्‌ । ज्ञानदानमेवदेवानां विहितं इत्यादि श्रुत्यादेवानां ज्ञानदानस्य मनुष्यकृतकर्मफलदानस्य च प्रमितत्वादित्यत आह ॥ ज्ञानदानं त्विति ॥ विष्णुनैव तस्य विहितत्वान्नतद्ब्रह्मणाविहितमिति भावः । देवा ऊचुःब्रवीतुनोभवानिति । अथहैनं मनुष्या ऊचुः अथहैनमसुरा ऊचुरिति वाक्यत्रयं व्याचष्ये ॥ पुनरिति ॥ तेभ्यो हैतदक्षरमुवाचद इतीति देवानां दमोविहितः । तत्र दमोनामनेन्द्रियनिग्रहः अपरोक्षज्ञानिनां तेषां स्वत एव निगृहीतेन्द्रियत्वादत आह ॥ देवानामिति ॥ देवानामनहङ्कारमात्रं विहितमित्यन्वयः ।

?Rऐश्ऱ्वर्यादिना अहङ्कारोन कर्तव्य इति विहितमित्यर्थः । मात्रपदं दानव्यवच्छेदार्थः । तत्किथर्मित्यत आह ॥

?Rसद्गुणोच्छ्रितोरिति ॥ ज्ञानभक्त्यादिगुणवृद्धयथर्मित्यर्थः । ननूत्पन्नापरोक्षज्ञानानां तेषां मोक्षस्य निश्ऱ्चितत्वात्किं सद्गुणवृद्धयेत्यत आह ॥ सर्वोच्चेति ॥ ज्ञानमात्रेण संसारनिवृत्तिरूपमोक्षस्य सिद्धत्वेपि आनन्दातिशयविशिष्योमोक्षोन सिध्यतीति तदर्थं साऽपेक्षितेति भावः । तेभ्ये हैतदेवाक्षरमुवाचद इत्यादि नामनुष्याणां दानं विहितं तत्कस्य दानं कस्मैच दातव्यं किमर्थं चेत्यत आह ॥ नराणामिति ॥ ेवादीनां हविरादेर्दानमेव नराणं ज्ञानसाधनं प्रकीर्तितमित्यन्वयः । ननु देवानां दमवत्‌ मनुष्याणां दानमपि सद्गुरवृद्धिद्वारासर्वोच्चमोक्षकारणं किं नेत्यतो वाऽऽह ॥ नराणामिति ॥ ज्ञानसाधनमेवेत्यन्वयः । अनुत्पन्नापरोक्षज्ञानत्वात्तेषामिति भावः । असुराणां दयोपदेशेनिमित्तमाह ॥ तम इति ॥ तद्विलम्बेसाधनानुष्ठानाधिक्येदुःखाधिक्यसिद्धिरिति भावः ॥ अथखण्डार्थः ॥ B-35

?Rत्रयास्त्रिविधाः प्रजापतेः ब्रह्मणोपत्यानिप्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यं ब्रह्मचारिव्रतं कृत्वत्वोषुः । केते त्रय इत्यत आह ॥ देवा इति ॥ तत्र देवा ब्रह्मचर्यमुषित्वाभवान्नोस्माकं ब्रवीत्वित्यूचुः । एवं पृष्योब्रह्मा तेभ्यो देवेभ्य एतद्वक्ष्यमाणमक्षरमुवाचह । किं तदक्षरमित्यत आह ॥ दइतीति ॥ द इत्येकमक्षरमुपदिश्यतदभिप्रायोज्ञातः किमिति पृच्छति ॥ व्यज्ञासिष्ठा इति ॥ एवं पृष्यादेवाव्याज्ञासिष्मेति होचुः । तर्ह्यनुवदतेत्यत आह ॥ दाम्यतेति न आत्थेति ॥ एवमभिप्रायोद्घाटने ब्रह्मभवत्ययं ममाभिप्राय इत्याह ॥ ओमितिहोवाचेति ॥ 1 ॥ एवमुत्तरत्रापि ॥ 2 ॥ यदेतद्ब्रह्मणोपदिष्यं तदेतदेव एषा दैवीवागप्यनुवदति कासेत्यत आह ॥ स्तनयित्नुरिति ॥ अनुवादप्रकारं दर्शयति ॥ ददद इतीति ॥ त्रिवारमुक्तस्याभिप्रायमाह ॥ दाम्यतेति ॥ तत्तस्माद्ब्रह्मणोपदिष्यत्वात्‌ अद्यतनोपि एतत्रयं शिक्षेत्‌ । किंतत्रयम्‌ । तमंदानंदयामिति ॥ शिक्षेदिति प्रत्येकं सम्बन्धः । इति द्वितीयं ब्रह्मणम्‌ पूर्वप्रककृत चतुर्मुखस्यैव स्वरूपमाह ॥ एष प्रजापतिरति ॥ तत्र प्रजापतिशब्दवाच्यस्य चतुर्मुखस्य हृदयशब्दवाच्यत्वमुक्तम्‌ । तत्र किं निमित्तमित्यतः अभिहरन्तीति ददतीति एतीति फलवाक्यानुसारेण तन्निमित्तं वदन्‌ ब्राह्मणं व्याचष्ये ॥ हरणादिति ॥ हरणात्‌ हृदानतोदः अव्यवधानेनान्यद्द्वारमन्तरेण परस्य ब्रह्मणोयानात्प्राप्तेः यः अभिहरन्त्यस्मैस्वाश्ऱ्चान्येच य एवं वेदददत्यस्मैस्वाश्ऱ्चान्येच य एवं वेद एतिस्वर्ग लोकं य एवं वेद इति फलवाक्यत्रयं व्याचष्ये ॥ तस्येति ॥ अभिहरन्ति ददतीत्यनयोरेकार्थत्व प्रतीतिं निराकुर्वन्‌ हृतिदानेत्युक्तं विवृरोति ॥ हृत्वैवेति ॥ अन्यस्मादिति शेषः । न केवलमेतद्ब्राह्मणेपूर्वब्राह्मण प्रकृत चतुर्मुख एवैष प्रजापतिरिति प्रजापतिशब्देनोच्यते किन्तु परमात्माचेत्याह ॥ परमात्माचेति ॥ अन्यथा एतत्‌ ब्रह्मैतत्सत्यमित्यस्य चतुर्मुखेमुख्यतोपपत्तेरिति भावः ॥ तृतीयं ब्राह्मणम्‌ ॥ 3 ॥ पृकत भगवतो वासुदेवाख्यावतारनिरूपणेन एतत्सत्यमित्युक्तं विवृणोति ॥ तद्धैतदिति ब्राह्मणेन ॥ तद्वयाचष्ये ॥ तत्वादिति ॥ अनेन प्रथमतच्छब्दस्यार्थद्वयमुक्तम्‌ । ततत्वाद्वयाचप्तत्वात्‌ । एकरूपत्वादतीतवर्तमानकालयोरिति शेषः । यथोक्तं पुरस्तात्‌ । यथापूर्वं तथेदानीमिति विष्णुस्तदुच्यत इति । यद्वा तत्तत्वादिति तच्छब्दार्थः र्वतमानानागतकालयोराकरूपत्वादिति एतच्छब्दार्थः यथोक्तं पुरस्तात्‌ । यथेदानीं तथानित्यं यस्मादेष भविष्यति अत एतदिति प्रोक्त इति परं ब्रह्मतदिति कीर्तितमित्युपलक्षणं एतदिति कीर्तितमित्यपि ग्राह्यम्‌ । ननु व्याप्तमेकरूपं च वस्तुपरमात्म सदृशमन्यदप्यस्ति किं नेत्याह ॥ परंब्रह्मैवेत्यर्थः । एतत्तदाससत्यमेवेति वाक्यं अन्वयक्रमेण व्याचष्ये ॥ तदेतदिति ॥ ननु तदेवतादृशं प्रोक्तमित्यतेतत्कस्य व्याख्यानमिति न प्रतीयते इत्यतस्तद्वयाख्येय प्रदर्शनाय श्रुतावन्वयमाह ॥ तदेव हितदिति ॥ अनेन द्वितीयैतच्छब्दोपरिगतस्यैव शब्दस्प्रथमतच्छब्देनान्वयः तदासेति तच्छाब्दस्यात्रापि सम्बन्ध इत्युक्तं भवति । हेत्यस्यानुवादोहीति तथाच स्मृतौ तदित्यस्यार्थस्तादृशमिति हशब्दार्थ प्रोक्तमितीति भावः । ननु तदेतत्सत्यमेवासीदिति स्मृतौ तदेतदित्यनुवादांशः सत्यमेवेत्यवशब्दश्ऱ्चान्ययोगव्यवच्छेदक इति प्रतीयते तदनुपपन्नम्‌ । अनुवादेव्यर्थत्वात्‌ सङ्कर्षणशदिरूपान्तरस्यापि सद्भावादित्यतः स्मृत्यर्थमाह ॥ तदिति ॥ तथाचैवशब्दः प्रसिद्धयर्थक इति भावः । सयोहैतं महद्यज्ञं प्रथमजं वेद सत्यं ब्रह्मेति जयतीम?ाल्लोकानिति फलवाक्यं व्याचष्ये ॥ स्वस्मादिति ॥ तत्र प्रथमजमित्यस्याथर्कथनमेतत्‌ महद्यज्ञमित्यस्यार्थो महायाज्यमिति । जित इन्वसावसदिति वाक्यं व्याचष्ये ॥ प्राप्नोत्येवेति ॥ जयतीम?ाल्लोकानित्यक्तः एतल्लोकजयोनामक इत्यत आह ॥ जीवन्निति ॥ ननु परमात्माच प्रजापतिरित्येनेन एष प्रजापतिः यत्‌ हृदयमिति ब्राह्मणं परमात्मपरमित्युक्तं तत्र परमात्मनोहृदयशब्दवाच्यत्वे किं निमित्तं नच हरणाद्यज्ञभागादेरित्युक्तमेवेति वाच्यं यानादव्यवधानेन परस्यब्रह्मण इत्यस्य विष्णावनुपपत्तेरित्यतः प्रकारान्तरेण हृदयशब्दर्वचनपूर्वकमेतत्सत्यमित्येतद्वयाचष्ये ॥ स्वभागेति ॥ चतुर्मुखपरमात्मनोरुभयोरपि एष प्रजापरिरिति प्रजापतिशब्दवाच्यत्वमुक्तं तत्र तयोः किं साम्येन तच्छशब्दवाच्यत्वं नेत्याह ॥ प्रजापतिरिति ॥ अमुख्यतः

?Rप्रजापतिशब्दवाच्योब्रह्मा एष प्रजापतिरित्यत्र प्रतिपाद्यत्वेन कुतोङ्गीकार्य इति चेत्‌ त्रयाः प्राजापत्या इति पूर्वब्रह्मणे तावत्‌

?Rचतुर्मुख एव प्रजापतिशब्दवाच्यः । तथाचैष प्रजापतिरित्यत्र तस्यापि ग्रहणे बाधकाभावात्सोपि प्रतिपाद्य इत्रत भावेनाह ॥ यस्मिन्निति ॥ देवासुरनर इति नृशब्दोबहुवचनान्तः । तर्हि कोमुख्यतः प्रजापतिशब्दाभिधेय इत्यत आह ॥ एष इति ॥ कुतोत्र विष्णोरेवमुख्यतः प्रतिपाद्यत्वमिति चेत्‌ एतिस्वर्गं लोकं य एवं वेदेति तज्ज्ञानान्मोक्षोक्तेः । नह्यन्यज्ञानान्मोक्षः सम्भवतीति भावेन तद्वाक्यं व्याचष्ये ॥ यज्ज्ञानादिति ॥ यद्धृदयमिति व्याचष्ये ॥ हृदयं च स इति ॥ स ब्रह्मानकेवलं प्रजापतिरित्येवोक्तः किन्तु हृदयं च अमुख्यतोहृदयशब्दवाच्यश्ऱ्चेत्यथर्ः । तत्र निमित्तं हरणादिति पूर्वोक्तमेवाह ॥ हृतीति ॥ सतोज्ञानादेः दानं सद्दानम्‌ । यानं परब्रह्मणः अव्यवदानेन यानम्‌ । यद्वा सविष्णुः नकेवलं मुख्यतः प्रजापतिरेव किन्तु हृदयञ्चेत्यर्थः । तत्र निमित्तं स्वभागहरणादित्युक्तमेवाह ॥ हृतीति ॥ यानं यापनम्‌ । एतत्सत्यमित्यस्यार्थमाह ॥ सत्यमिति ॥ इदमप्युभयपरतया योज्यम्‌ ननु यथा एष प्रजापतिरिति ब्राह्मणमुभयपरं तथा तद्धैतदेवेति ब्राह्मणमपि किं नेति भावेनाह ॥ यत्तदिति ॥ सत्यतां सत्याख्यं रूपान्तरं वासुदेवाख्यम्‌ । केयं सत्यतेत्यत आह ॥ सत्यत्वमिति ॥ सदनीयत्वमपि तस्यास्तिकिमित्यत आह स्य इति भावेनाह ॥ तदेतदिति ॥ हृदयमिति यत्‌ तदेतत्‌ त्ऱ्यक्षरं तदेव विवृणोति ॥ हृ इत्येकमक्षरमिति ॥ स्वभागहरणनिमित्तेन हृ इत्येकाक्षरेण विरिञ्चस्य विष्णोः र्वोपासकस्य फलमाह ॥ अभिहरन्तीति ॥ य एवं हृ इत्येकाक्षरेण परमात्मानं विरिञ्चं वा वेदोपास्ते अस्मा उपासकायस्वाः स्वकीयाश्ऱ्चान्येचाऽभिहरन्ति शत्ऱ्वादिभ्यो बलिं हरन्तीत्यर्थः । द इत्येकमक्षरं तथोपासकस्य फलमाह ॥ ददतीति ॥ य एवं द इत्येकाक्षरेण वेदापोस्ते अस्मैस्वाश्ऱ्चान्येचान्येभ्योहृत्वाददतीत्यर्थः । यमित्येकमक्षरम्‌ । य एवं वेदसः स्वर्गं लोकं मुक्तिरूपमेति ॥ तृतीयं ब्राह्मणम्‌ ॥ 3 ॥ तद्धैतदिति ॥ पूर्वं प्रकृतं परब्रह्म तत्‌ ततत्वात्‌ एतद्वर्तमानानागतकालयोरेकप्रकारत्वात्‌ व्याप्तमेकरूपं च वस्नयदप्यस्ति किं नेत्योप्याह ॥ तद्धैति ॥ एतदेवेत्येवशब्दोत्र सम्बध्यते तदासेति तच्छशब्दोत्रापि सम्बध्यते तदेवहतत्‌ तदेवपरंब्रह्मैवतादृशं प्रोक्तं नान्यदित्यर्थः । तस्य विष्णोः प्रथमावतारमाह ॥ एतत्तदाससत्यमेवेति ॥ तन्नारायणाख्यं परब्रह्मैतदेवसत्यं वासुदेवाख्यमासेत्यर्थः । सत्याख्यवासुदेवस्य ब्रह्मत्वेनोपासकस्य फलमाह ॥ सय इति ॥ सोधिकारी महद्यज्ञं महायाज्यं प्रथमजं स्वस्मादेव नारायणात्प्रथमत अवतीर्णं एतं वासुदेवं सत्यं ब्रह्मेति वेदस इम?ाल्लोकान्‌ जयति धर्मज्ञानादिपरिपूर्णो भवतीत्यर्थः । न केवलमेतावत्‌ योऽधिकारीमहद्यज्ञं प्रथमजमेतमेवं वेद । एवं शब्दार्थं विवृणोति ॥ सत्यं ब्रह्मेति ॥ तेनासौ परलोकोजित इनुजित एवासत्‌ अभवदित्यर्थः । एवं ब्रह्मत्वेन सत्योपासकस्य फलसद्भावात्सत्यं ब्रह्मभवत्येवेत्याह ॥ सत्यं ह्येवेति ॥ चतुर्थं ब्राह्मणम्‌ ॥ 4 ॥ नारायणाख्यं परंब्रह्मसत्यं वासुदेवाख्यमासीदित्युक्तं तदेवविवृणोति ॥ आप इति ब्रह्मणेन ॥ अत्राप्‌शब्दो प्रसिद्धोदकपरः । तासां कायर्त्वेन महाप्रलयेवस्थानायोगात्‌ । नच अव्याकृतात्मनाऽवस्थिता एवापोग्राह्या इति वाच्यं तथापि तासां सत्याख्यपरब्रह्मणं प्रमाणेन व्याचक्षाणस्तावदप्‌शब्दार्थमाह ॥ सदेति ॥ ता आपः सत्यमसृजन्तेति वाक्यं सत्यं सत्यवचनमिति प्रतीतिनिरासाय व्याचष्ये ॥ द्वितीयमिति ॥ आत्मनोद्वितयं रूपमित्यन्वयः । सत्यं कर्तृब्रह्मासृजतेति निरासाय सत्य ब्रह्मेत्येतद्वयाचष्ये ॥ ब्रह्मेति ॥ ब्रह्मप्रजापतिमित्येतदसृजतेति पदानुवृत्या व्याचष्ये ॥ तस्मादिति ॥ प्रजापतिः देवानित्येतत्पूर्ववद्वयाचष्ये ॥ तत इति ॥ ते देवाः सत्यमेवोपासत इत्यत्र देवशब्देन प्रजापतिन्यदेवानामेव ग्रहणमिति प्रतीतिं निवारयंत्सत्यस्यैवोपास्तौ निमित्तमाह ॥ तस्मादिति ॥ तदुत्पन्नत्वादित्यर्थः । मध्यतोनृतमिति तीत्येतदनृतवाचकमित्युक्तम्‌ । तत्रानृतशब्दार्थं वदंस्तद्वयाचष्ये ॥ ततत्वादिति ॥ पुरुषेषु व्याप्तत्वादित्यर्थः । तदेतदनृतमुभयतः सत्येन परिगृहीतमित्येतद्वयाचष्ये ॥ तस्येति ॥ सदात्मासाधुस्वरूपोवासुदेवाख्यः सादनात्सकारवाच्यो हरिः । अनृतमज्ञानं सादयन्‌ अल्पं कुर्वन्‌ तस्य ज्ञानस्याधस्तात्स्थितः सदात्मा वासुदेवाख्योविनाशनात्‌ यं नामाहरिरनृतं नाशयंस्तस्योपरिष्याच्चस्थित इत्यन्वयः । अत्रोभयत्र सदात्मेत्युक्त्याप्रथमोत्तमे अक्षेरे सत्यं इत्येतदपि व्याख्यातम्‌ । नैवं विद्वांसमनृतं हिनस्तीति फलवाक्यं व्याचष्ये ॥ एवमिति ॥ वेदोपास्ते । नन्वेवमुपासनासर्वेषामपि स्यात्किमित्यत आह ॥ योग्यतेति ॥ यद्वा ते देवाः सत्यमेवोपासते इत्युक्तत्वेनास्यामुपासनायां देवानामेवाधिकारः किमित्यत आह ॥ योग्यतापेक्षयेति ॥ योग्यतापेक्षयाऽन्येषामपि सोपासास्यादित्यर्थः । योग्यानामप्युपासनैवोक्तं फलं(ददाति)दिशति किमित्यत आह ॥ अथेति ॥ आपरोक्ष्यादिति ल्यब्लोपनिमित्तापञ्चमी उपासास्नवपूर्त्यनन्तरं अपरोक्षज्ञानमुत्पाद्यैव तत्फलं सम्यग्ददाति । अन्यथाऽपरोक्षज्ञानोत्पव्यभावेपि उपकाणिणीभवेदेवेत्यर्थः । तर्ह्यत्ययोग्येन कृतापि सोपकारिणीभवेत्किं नेत्याह ॥ अत्ययोग्यायेति ॥ नन्वयोग्यकृताया अपि भगवदुपासायानरकादिविपरीतफलप्रदत्व कथमित्यत आह ॥ वैपरीत्यमिति ॥ उक्तं च स्वाधिकाराधिकोयत्नः

?Rप्रायशोनोपपद्यते । कथञ्चिधिकेयत्नेदोषः कश्ऱ्चित्समापतेदिति ॥ 1 ॥ तत्तश्ऱ्चायं खण्डार्थः ॥ आसम्यक्‌ सर्वान्‌ गुणान्‌

?Rपिबतीत्यापोनारायण एव इदमग्रे अस्याग्रे आसुरासशब्दस्वभावत्वाद्बहुवचनं ता आपअप्‌शब्दवाच्यो नारायणः सत्यं सत्याख्यमात्मनोद्वितीयं रूपं वासुदेवाख्यं असृजन्तासृजत्‌ तद्वासुदेवाख्यं द्वितीयं रूपं सद्गुणरूपत्वात्सत्यं पूर्णत्वाद्ब्रह्मेत्याहुः विद्वांसः ब्रहमवासुदेवाख्यं प्रजापतिं चतुर्मुखमसृजत्‌ ।स प्रजापतिः ब्रह्मा । देवान्‌ शेषादीन्‌ । असृजत्‌ । ते वासुदेवोत्पन्नाब्रह्माद्यादेवाः स्वपितरं सत्यमेव वासुदेवाख्यमुपासते । सत्यस्यापास्तिप्रकारं वक्तुमाह ॥ तदेतदिति ॥ सत्यमिति यत्‌ तदेतदक्षरं कथमित्यत आह ॥ सदित्येकमक्षरमिति ॥ तीत्येकमक्षरमित्यत्र हलं ततकारनिर्देशार्थं इकारानुबन्धः । तत्र प्रथमान्तिमाक्षरयोरर्थमाह ॥ प्रथमेति ॥ उत्तमशब्द अन्तिमशब्दार्थः । प्रथमोत्तमे अक्षरेसकारयकारौ सत्यं वासुदेववाचकौ इत्यर्थः । मध्यतो विद्यमानमक्षरन्तीत्येतदनृतं मिथ्याज्ञानवाचकमित्यर्थः । तदतदनृतं मिथ्याज्ञानं उभयतः पूर्वोत्तरतः । सत्येन वासुदेवेन सकारयकारवाच्येन परिगृहीतमन्तर्भावितं सादनात्सकारवाच्योवासुदेवोऽज्ञानं सादयन्‌ तदधस्तात्स्थितः नाशनाद्यकारवाच्योवासुदेवोऽज्ञानं नाशयन्‌ तदुपरिष्यात्स्थित इत्यर्थः । एवं पूर्वोत्तराभ्यां सत्येन परिगृहीतत्वादनृतं सत्यभूयमेव सत्यशब्दवाच्यवासुदेवप्रधानकमेव भवति । एवं वेत्तुः फलमाह ॥ नैवमिति ॥ एवं विद्वांसमनृत मिथ्याज्ञानं नहिनस्ति नास्य मिथ्याज्ञानं भवेदित्यर्थः ॥ 1 ॥ अथभाष्यर्थः ॥ तस्यैव वासुदेवस्योपासनास्थानमाह ॥ तदिति ब्राह्मणेन ॥ तत्र सत्याख्यस्य वासुदेवस्यादित्याभेद उच्यत इति प्रततिनिरासाय तद्वयाचष्ये ॥ स इति ॥ तत्र निमित्तमाह ॥ आदानादिति ॥ यश्ऱ्चायं दणिणेक्षन्पुरुष इत्येतद्वयाचष्ये ॥ स एवेति ॥ तावेतावन्योन्यस्मिन्प्रतिष्ठितौ इति वाक्यं व्याचष्ये ॥ तच्चेति ॥ ननु दक्षिणाक्षिस्थं रूपमादित्ये आदित्यस्थं रूपं दक्षिणाक्षिणितिष्ठतीत्येतदसम्भा वितमित्यत उक्तं उपनिषदिरश्मिभिरिति तस्यार्थमाह ॥ प्राणैरिति ॥ स यदोत्क्रमिष्यन्‌ भवतीत्यादि व्याचष्ये ॥ दक्षिणेति ॥ शुद्धमित्यस्यार्थे विरश्मिकमिति किं रश्म्यभावादेव विरश्मिकं नेत्याह ॥ नास्येति ॥ तदैवेत्युक्तं विवृणोति ॥ तत्क्षण इति ॥ सप्तभिः दिनैः सप्तदिनात्पूर्वंम्‌ ॥ ततश्ऱ्चायं खण्डार्थः ॥ तत्प्रसिद्धं यत्सत्य वासुदेवाख्यं पूर्वोक्तं तदसौ असौ कः एतस्मिन्परिदृश्यमाने मण्डले य एष पुरुषो वर्तते स आदित्थः आदित्यस्थोहविषामादानादादित्यनामा योयं दक्षिणेक्षन्नक्षणिपुरुषो वर्तते स

?R चेति योजना । न केवलमादित्यस्थं वासुदेवस्य रूपमादित्य एवाक्षिस्थं रूपं अक्षण्येव वर्तते किन्तु तावेतावादित्याक्षिस्थौ परमात्मानावन्योन्यस्मिन्प्रतिष्ठतौ अदित्यस्थश्ऱ्चक्षुषिचक्षुस्थश्ऱ्च आदित्ये वर्तत इत्यर्थः । नन्वेतदसम्भावितमित्यत आह ॥ रश्मिभिरिति ॥ एष आदित्यस्थोहरीरश्मिभिः सहास्मिन्‌ चक्षुषिप्रतिष्ठितः आदित्यरश्मयश्ऱ्चक्षुषः उपकारकतयाचक्षुष्यपि तिष्ठन्तीति आदित्यस्थश्ऱ्चक्षुष्यलमपि प्रकाशयन्तस्तस्मिस्तिष्ठन्तीति अयममुष्मिन्‌ प्रतिष्ठित इत्यर्थः । दक्षिणाक्षिस्थस्यैवादित्यस्थत्वे हेतुमाह ॥ स इति ॥ दक्षिणाक्षिस्थोभगवान्‌ यदाऽस्माद्देहादुत्क्रमित्क्रमिष्यन्नुतक्रन्तीच्छर्भवति तदैवतत्क्षण एव तत्सप्तदिनात्पूर्वं वा म्रियमाणोजीव एतत्सूर्यमण्डलं शुद्धमेव विरश्मिकमेव पश्यति रश्म्यभावाद्विरश्मिकं पायति किं नेत्याह ॥ नैनमिति ॥ एते विद्यमाना अपि रश्मयः एनं म्रियमाणं न प्रत्याययन्ति नास्य प्रतीयन्त इत्यर्थः ॥ 2 ॥ अत्र भाष्यार्थः ॥ सूर्याक्षिस्थितयोः वासुदेवरूपयोः ध्यानार्थं तदवयवनामानितयोरहस्यं नामचाह ॥ य एष इति ब्राह्मणेन ॥ तत्र तस्यभूरिति शिर इत्यादित्याक्षिस्थ विष्णुशिरसोभूर्नामकत्वमुक्तं तत्र निमित्तं दर्शयंस्तद्वयाचष्ये ॥ तस्येति ॥ आदित्याक्षिस्थस्येत्यर्थः । भावनं नामकिमित्यत आह ॥ भावनमिति ॥ भूसत्तायामिति धातुस्सत्ताचरक्षणरूपैवेत्यर्थः । उत्पादनहेतुत्वेन भुशब्दवाच्यत्वस्य दक्षिणबाहोवर्क्ष्यमाणत्वादेवं व्याख्यातम्‌ । तर्हि शिरसः कथं रक्षणहेतुत्वमित्यत आह ॥ दृष्ययेति ॥ विष्णुः दृष्ययावाचाचभक्तात्रक्षति । दृष्ययादिकं च शिरोन्तर्भूतमित्यर्थः । भुव इति बाहू इति वाक्यं व्याचष्ये ॥ उत्पादनादिति ॥ वागतिगन्धनयोरिति धातोर्वातेः गत्यर्थत्वात्‌ सनष्य इत्यर्थे सगत इति प्रयोगात्‌ गतिश्ऱ्च विनाश इति भावेनाह ॥ विनाशनादिति ॥ सुवरिति प्रतिष्ठेति वाक्यं व्याचष्ये ॥ स्वित्यानन्द इति ॥ तद्दानात्‌ स्वरूपभूतानन्दज्ञानदानात्‌ । कः पादः किं वर्णनामक इत्यत आह ॥ दक्षिणश्ऱ्चेति ॥ क्रमादेवेत्यन्वयः । दक्षिणश्ऱ्चसव्यश्ऱ्चेत्यस्य पादावित्यन्वयः । मुक्तिरित्यभिधीयते भेजेखगेन्द्रध्वजपादमूलमित्यादौ । तस्मातपदद्वयस्य मुक्तिदातृत्वमुपपन्नमित्यर्थः । तस्योपनिषदहमित्यत्राक्षिस्थस्य जीवस्याहमिति नामोक्तमित्यसत्‌ जीवस्याक्षणिपृतक्‌ शिरोबाह्वादेरभावात्‌ हृदिस्थितमेवतस्य रूपं जागरितेप्यक्ष्यादिषु विशेषसन्निहितं भवतीत्युक्तं प्राक्‌ तस्मादक्षिस्थस्य विष्णोरेवाहमिति रहस्यं नामोक्तम्‌ । तस्यार्थमाह ॥ अहमिति ॥ एष दक्षिणाक्षिस्थः । अहेयत्वं कथमित्यत आह ॥ जीवेनेति ॥ तस्योपनिषदहरिति वाक्यं व्याचष्ये ॥ असाविति ॥ असावादित्यस्थः प्रकाशनादिति अहर्दिनं प्रकाशश्ऱ्चेति

?Rवचनादित्यर्थः । हन्ति पाप्मानं जहाति च य एवं वेदेति वाक्य व्याचष्ये ॥ तद्वेदनादिति ॥ तद्वेदनादेवेति सम्बन्धः ।

?Rकानिचिज्जहातिचेत्यन्वयः । तदेव विवृणोति ॥ हन्तीति ॥ ततश्ऱ्चायं खण्डार्थः ॥ य एष प्रसिद्धः एतस्मिन्मण्डले वर्तमानः पुरुषः पूर्णषड्‌गुणोवासुदेवः । तस्य शिरोभावनाद्रक्षणशद्भूरित्यच्यते भूरित्यस्य शिरोनामत्वे युक्तिमाह ॥ एकं हीति ॥ हि यस्माच्छिर एकमेतद्भूरित्यक्षरं चैकमतः साम्याच्छिरसोभूरिति नामवत्त्वं उपपन्नमित्यर्थः । तस्य बाहूभुव इत्युच्यते उत्पादनाद्दक्षिणोबाहुर्भुज इत्युक्तः । विनाशनात्सव्योबाहुर्व इत्युक्त इत्यर्थः । तत्र पूर्ववद्युक्तिमाह ॥ द्वाविति ॥ तस्य प्रतिष्ठापादः सुवरित्युच्यते । तस्य दक्षिणः पादः स्वरूपभूतानन्ददानात्‌ स्वित्युक्तः सव्यः पादः स्वरूपभूतज्ञानदानाद्वरित्युक्त इत्यर्थः । तत्र युक्तिमाह ॥ द्वे इति ॥ आदित्यस्थस्य विष्णोः रहस्यं नामाह ॥ तस्येति ॥ सर्वलोक प्रकाशनादहरिति तस्योपनिषद्रहस्यं नाम । एवं हेतुः फलमाह ॥ हन्तीति ॥ य एवं वेदसपाप्मानं सर्वं हन्ति कल्यादीन्‌ पापप्रेरकान्संजहाति चेत्यर्थः ॥ 3 ॥ योयमित्यादिकं पूर्ववदुक्तार्थम्‌ ॥ 4 ॥ इति पञ्चमब्रह्मणम्‌ ॥ 5 ॥ एवमादित्याक्षिस्थत्वेन भगवदुपासनामुक्त्वाहृत्स्थत्वेनापि तदुपासनं कर्तव्यमिति भावेन तद्गुणानाह ॥ मनोमय इति ब्राह्मणेन ॥ तत्र मनोमय इति मनोविकारित्वमुच्यत इति प्रतीतिनिरासाय तदनूद्य व्याचष्ये ॥ मनोमय इति ॥ मनु अवबोधन इति धातोः मनःशब्दस्य ज्ञानवाचित्वाज्ज्ञानमय इत्युक्तम्‌ । मयटोविकारार्थत्वप्रतीति निरासायार्थमाह ॥ प्रधानमिति ॥ तादात्म्यञ्चेति ग्राह्यम्‌ । वक्ष्यमाणश्ऱ्चशब्दोत्र सम्बध्यते । तेन वातादात्म्यसमुच्चयः । अस्त्वेवं मयटोऽर्थद्वयं ततो ज्ञानमय इत्यस्य कोर्थोलभ्यत इत्यत आह ॥ महाज्ञानात्मक इति ॥ एवकारोविकारार्थत्वनिवारणार्थः । भारूपः प्रकाशरूपः सत्य इत्यस्य व्याख्यानं सद्गुणात्मक इति । सर्वमिदं प्रशास्तियदिदं किञ्चेत्यस्यार्थः सर्वप्रकाशासकोविष्णुरिति ॥ 6 ॥ ततश्ऱ्चायं खण्डार्थः ॥ अयं पुरुषः पूर्णषड्‌गुणो भगवान्‌ मनोमयोमहाज्ञानात्मकः भाः प्रकाशरूपस्सत्यः सद्गुणात्मकः व्रीहिः वायवोवायथायत्प्रमाणः तथातत्परिमाणः सन्‌ तस्मिन्प्रसिद्धेऽन्तर्हृदयेहृदयां तस्तिष्ठति योगिभिः दृश्यते वा स एष हृत्स्थः परमात्मासर्वस्येशानः सर्वस्याधिपतिः यदिदं प्रसिद्धं किञ्चेदं सर्वं जगत्प्रशास्तीत्यर्थः ॥ इति षष्ठं ब्राह्मणम्‌ ॥ 6 ॥ अथ भाष्यार्थः ॥ भगवद्विषयं विद्यान्तरमुपदिशति ॥ विद्युदिति ब्रह्मणेन ॥ तद्वयाचष्ये ॥ विद्युदिति ॥ विष्णुरित्यत्रापि सम्बध्यते विदानाद्विद्युदिति विद्युच्छशब्दनिर्वचनं कृतम्‌ । तत्र विदानादित्यस्यार्थमाह ॥ सर्वस्यवेदनादिति ॥ य एवं वेदविद्युद्ब्रह्मेतीत्यत्रैवं शब्दोव्यर्थः । व्याख्यानव्याख्येय भावश्ऱ्चाऽगतिकागतिरित्याशङ्कापरिहाराय तद्वयाचष्ये ॥ य एनमिति ॥ एनं वेत्तारमिति विद्युद्ब्रह्मेतीत्यर्थः । एवं शब्दर्थः सर्वस्य परमेश्ऱ्वरमिति । ततश्ऱ्चपूर्वब्राह्मणोक्तपरामर्शकतयानतस्यवैयथ्‌र्यमिति भावः । ततश्ऱ्चपूर्वब्रह्मणोक्तप्रकारेण भगवज्ज्ञानिनोपि इदमेव फलम्‌ । अत एव पूर्वब्रह्मणेफलानुक्तिः । विद्यत्येनं पाप्मन इति वाक्यं व्याचष्ये ॥ पापेभ्य इति ॥ 7 ॥ ततश्ऱ्चायं खण्डार्थः ॥ विद्युद्ब्रह्मेत्याहुः विद्वांसः । तत्र निमित्तमाह ॥ विदानादिति ॥ सर्वस्य वेदनात्‌ खण्डनाद्बाविद्युत्‌ । उपासकस्य तदनुरूपं फलमाह ॥ विद्यत्येनमिति ॥ योधिकारी एव पूर्वब्रह्मणोक्तप्रकारेण विद्युद्ब्रह्मेति च वेद एनं वेत्तारं तेन ज्ञातोहरिः पाप्मनोविद्यतिमोचयति । न केवलमेतावत्‌ ।किन्तु एनं स्वात्मनं विद्यतिवेदयतीत्यर्थः । सप्तमं ब्राह्मणम्‌ ॥ 7 ॥ अथ भाष्यार्थ ॥ सर्वविद्यासिद्धयाङ्गभूतसरस्वतीविषयां विद्यामाह ॥ वाचमिति ब्राह्मणेन ॥ अत्र वाग्धेनुत्वमविद्यमानमेवोपासनार्थमुच्यत इति प्रतीति निरासाय ब्राह्मणं प्रमाणेन व्याचष्ये ॥ सरस्वतीति ॥ स्तनानेवेति ॥ स्वहाकारादिषु चतुर्मुर्षुसरस्वतीस्तनसन्निधानादित्यर्थः । तस्याः प्राणऋषभ इति वाक्यं व्याचष्ये ॥ तस्या इति ॥ मनोवत्स इत्यस्यार्थमाह ॥ वत्स इति ॥ 8 ॥ ततश्ऱ्चायं खण्डार्थः ॥ धेनुं गोरूपां वाचं वागभिमानिनीं सरस्वतीमुपासीत । किमित्युपासनीयमित्तो देवाद्युपजीव्यस्तनवत्त्वेनेति वक्तुमाह ॥ तस्या इति ॥ तस्याः गोरूपायाः सरस्वत्याश्ऱ्चत्वारः स्तनाः । केत इत्यत आह ॥ स्वाहाकार इति ॥ स्वाहाकाराभिमानीत्यादि व्याख्येयम्‌ । तस्यै तस्याः द्वौस्तनौ देवा उपजीवन्ति कौतावित्यत आह ॥ स्वाहाकारमिति ॥ मनुष्याः पितर उपजीवन्तीति सम्बन्धः ।तस्याः गोरूपायाः वाचः प्राणो मुख्यवायुः ऋषभः पतिः मनो मनोभिमानीरुद्रो वत्स इत्युपासीतेति सम्बन्धः । इत्यष्यमब्राह्मण्‌ ॥ 8 ॥ अथभाष्यर्थः ॥ भगवद्विषयं विद्यान्तरमाह ॥ अयमग्निरिति ॥ अग्निर्वैश्ऱ्वानर इति वैश्ऱ्वानरशब्दस्य प्रसिद्धाग्निशब्दसामानाधिकरण्येन ब्राह्मणमग्निपरमिति प्रतीतिनिरासाय प्रमाणेन व्याचष्ये ॥ अग्निनामात्विति ॥ कुत इत्यत आह ॥ अग्नौप्रतिष्ठित इति ॥ योयमन्तःपुरुष इत्यादिवाक्यानुरोधानौ दर्येत्यग्निविशेषणम्‌ । वैश्ऱ्वानरशब्दार्थमाह ॥ विश्ऱ्वैरिति ॥ विश्ऱ्वगुणसम्बन्धित्वात्‌ द्वैश्ऱ्वः आसम्यक्‌ नरीयत इत्यानरः वैश्ऱ्वासावानरश्ऱ्चेति वैश्ऱ्वानर इत्यर्थः । आनर इत्यस्यार्थोऽनन्तत्वादिति । अग्निनामा तु भगवानित्युक्तम्‌ । तत्राग्निशब्दं निर्वक्ति ॥ सोग्निरिति ॥ तस्यैष घोषो भवतीत्यादिव्याचष्ये ॥ तस्येति ॥ 9 ॥ ततश्ऱ्चायं खण्डार्थः ॥ योयं प्रसिद्धः

?Rअन्तःपुरुषे पुरुषस्याऽन्त र्वर्तते अयमग्निर्जाठराग्निस्थोऽग्निनाममा भगवान्वैश्ऱ्वानरः विश्ऱ्वगुणसम्बन्धित्वाद्वैश्ऱ्वः आसम्यक्‌

?Rनरीयत इत्यानरः वैश्ऱ्वश्ऱ्चासावानरश्ऱ्चेति वैश्ऱ्वानरः । तस्य व्यापारमाह ॥ येनेति ॥ यदिदं प्रसिद्धं पुरुषैरद्यते इदमन्नं येन पच्यते अयमग्निरिति सम्बन्धः । एष वायुनाक्रियमाणोघोषस्तस्य विष्णोः स्तुतिरूपो भवति । कः यं घोषं कर्णावपिधाय एतत्‌ एष पुरुषः शृणोति । सवष्णुर्यदाऽस्माच्छरीरादुत्क्रमिष्यन्‌ भवति तदाम्रियमाणो जीव एनं घोषं न ृणोति तदेवमरणसूचकमित्यर्थः ॥ नवमब्राह्मणम्‌ ॥ 9 ॥ अथभाष्यर्थः ॥ तस्य हैतस्य हृदयस्याग्रं प्रद्योतत इत्युक्तप्रकारेणोत्क्रान्तो परोक्षज्ञानकेन मार्गेणभगवन्तं प्राप्नोतीत्यतो मागर्माह ॥ यदावा इति ब्राह्मणेन ॥ सवायुमागच्छतीति वायुशब्दः प्रधानवायुपरः इति प्रतीतिनिरासाय तद्वयाचष्ये ॥ प्रवहमिति ॥ अन्यथापूर्वगमनाऽनुपपत्तेरित्यर्थः । यथोक्तं आतिवाहिकस्तल्लिङ्गादिति । ननु सवायुमागच्छतीति श्रुतौ वायुः यदि न प्रधानवायुस्तर्हि तस्य प्राप्यत्वमेव न स्यात्‌ श्रुतावनुक्तत्वात्‌ । अनुक्तोपि ग्राह्म इति चेत्‌ तर्हि पूर्वोक्तोमुख्यवायुरुत्तरोकतः प्रवह इति किं न स्यादिति चेन्न । द्यौर्वावविद्यत्तत्पतिं वायुमुपगम्येतयुत्तरप्राप्यस्य वायोः विद्युदाख्यसरस्वतीपतित्वविशेषणात्‌ मुख्यत्वसिद्धेः । पूर्वप्राप्यस्य वायोः विद्युनिदाख्यसरस्वतीपतित्वविशेषणात्‌ मुख्यत्वसिद्धेः । पूर्वप्राप्यस्य वायोः प्रवहत्वसिद्धेरिति भावेनाह ॥ विद्युतं प्रधानवायुं च प्राप्येति ॥ यथोक्तं उभयव्यामोहात्तत्सिद्धेरिति । नात्र यायोः प्रथमाप्राप्यत्वं मन्तव्यम्‌ । तथातवे तेर्चिषमभिसम्भवन्ति अर्चिषोहरित्युत्तराध्यागतवाक्य विरोधात्‌ । नचाधिकारिभेदेनोभयोरपि प्रथमप्राप्यत्वम्‌ । द्वेसृती अृणवमित्यत्र ज्ञानिनामेकमागर्स्यैवोक्तत्वात्‌ । अत एव सूत्रकारः अर्चिरादिनातत्प्रथितेरित्याह ॥ एतद्वाक्यस्य वायोः द्वितीयप्राप्यत्वपरत्वोपपत्तेः । तथाच श्रुतिः । इतोगतोद्वितीयाङ्गतिं वायुमागच्छति इति । अत एव सूत्रकारोपि वायुशब्दादविशेषविशेषाभ्यां इत्याह नचैवमर्चिषो हरिति वाक्यविरोधः तत्राह्नोद्वितीयप्राप्यत्वावगमात्‌ अधिकारिभेदेनोभयोरपि द्वितीयप्राप्यत्वस्यच निरस्तत्वादिति वाच्यम्‌ । द्वितीयाङ्गतिमिति निरवकाशवाक्य बलेन तद्वाक्यस्याह्नस्तृतीय प्राप्यत्वपरत्वात्‌ । तथापि नायमेवाशेषमार्गक्रमः किन्तु उत्क्रान्तस्तु शरीरात्स्वाद्गच्छत्यचिर्षमेवतु । ततो हि वायोः पुत्रं च योसौ नाम्नाति वाहिकः । ततो हःपूर्वपक्षं वाप्युदक्‌ संवत्सरं तथा । तटितं वरुणं चैव प्रजापं सूर्यमेव च । सोमं वैश्ऱ्वानरञ्चेन्द्रं ध्रुवं देवीं दिवं तथा । ततो वायं परं प्राप्यते नैति पुरुषोत्तममिति प्रमाणान्तरादुक्त एव । एवञ्च तदनुसारेणात्रापि वायोः पूर्वमर्चिषो वायोरनन्तरमहरादीनां प्रजापत्यन्तानां सो मानन्तरं वैश्ऱ्वानरेन्द्रध्रुवाणां ग्रहणमिति ज्ञेयम्‌ ॥ 10 ॥ ततश्ऱ्चायं खण्डार्थः ॥ यदायस्मिन्काले पुरुषो परोक्षज्ञान अस्माल्लोकाच्छाररात्प्रैति उत्क्रान्ततो गच्छति । सोर्चिर्द्वारावायुं प्रवहं वायुमागच्छति अन्येषामविद्यमानावायुप्राप्तिरुत्क्रान्ततस्यैव कुत इति चेत्‌ अन्येषामयोग्यत्वात्‌ स्वलोक प्रवेशनेमार्गं न ददाति वायुरस्य तु ददातीत्याह ॥ तस्मा इति ॥ स वायुस्तस्मै उत्क्रान्त पुरुषायतदागमनायेति यावत्‌ । तत्र स्वलोके विजिहीते आगमनमार्गेछिद्रङ्करोतीत्यर्थः । कियत्परिमाणं यथा रथचक्रस्य खं छिद्रं एवं स वायुस्तस्मैस्वलोकं प्राप्तायज्ञानिनेज्ञानिनः स्वलोकादुत्तरलोकगमनायेति यावत्‌ । यत्र लोके विजहीते गमनमार्गे विवरं करोति यथा रथचक्रस्य खं छिद्रमित्यपि योज्यम्‌ । स ज्ञानी तेन छिद्रेणोर्ध्व ऊर्ध्वं आक्रमते गच्छति लम्बरस्य वाद्यविशेषस्य । ततः क्वगच्छतीत्यत आह ॥ स आदित्यमिति ॥ स ज्ञानी अहरादिद्वारा आदित्यमागच्छतीत्यर्थः । ततः क्वगच्छतीत्यत आह ॥ सचन्द्रमसमिति ॥ तर्हि क्वविश्राम इत्यत आह ॥ सलोकमिति ॥ सः चन्द्रलोकाद्वैश्ऱ्वानरादि द्वारामुख्यवायुं प्राप्तज्ञानी अशोकमहिमं शोकराहित्याख्यमाहात्म्य विशिष्यं अशोकं शोकरहितं अहिमं हिमादिदुःखरहितं वा लोकं सत्यलोकं विष्णुलोकं वा गच्छति तस्म?िल्लोके शाश्ऱ्वतीस्समाः बहून्संवत्सरान्‌ चतुर्मुखमुक्तिपर्यन्तं वसतीत्यर्थः ॥ इतिद दशमब्राह्मणम्‌ ॥ 10 ॥ ननु व्याध्यादिग्रस्तस्य मोक्षसाधनानुष्ठासम्भवात्कथं तस्योक्तो मार्ग इत्यतो व्याध्यादिकमपि तपोरूपत्वात्‌ मोक्षसाधनमेवेत्याह । एतद्वा इति ब्राह्मणेन ॥ तत्र सर्वेषामपि व्याधिशवहृतिशवदाहानामेव परमतपस्त्वमुच्यत इति प्रतीतिनिरासाय ब्राह्मणं प्रमाणेन व्याचष्ये ॥ व्याधीनिति ॥ ननु व्याधिर्विष्णवे तप इति चिन्तयितुं शक्यते नशवहृतिशवदाहौ तदा स्वस्य मृतत्वादित्यत आह ॥ अक्लेशितोपीति ॥ न व्याध्यादिप्राप्तावेव तस्य विष्णुं प्रतितपस्त्वचिन्तनं किन्तु अतीतानागतमपि व्याध्यादिकं विष्णुं प्रति तप इति चिन्तनीयमिति भावः । ननूक्तप्रार्थनस्यैव परप्राप्तिरूपमोक्षसाधनत्वे ब्रह्मविदाप्नोति परं इत्याद वाक्यविरोध इत्यत आह ॥ विष्णोरिति ॥ ननु विष्णुस्वरूपज्ञानिनो यद्वाधितस्तप्यत इत्युक्तमुपासनात्रयं पूर्णमद इत्युक्तोपासनावालित्तवैव मोक्षसाधनं उतैकापीति जिज्ञासायामाह ॥ यथेति ॥ अपिशब्देन किमुमिलिता इति कैमुत्यमभिप्रैति । ननु यथावद्विष्णुज्ञानिन एकैकाप्युपासना यदि मोक्षसाधनं तर्ह्यज्ञस्य सर्वा अपि मिलितामोक्षसाधनं भवेयुरित्यत आह ॥ सहिता इति ॥ क्वचित्कदाचित्‌ मोक्षायनस्युः किंतत्‌ मोक्षायेत्यत उक्तमुपसंहरति ॥ यथावदिति ॥ तस्मादिति शेषः । यद्वाविष्णुस्वरूपवेत्तुः

?Rएकैकोपासनाकिं साक्षान्मोक्षाय भवति नेत्याह ॥ यथावदिति ॥ 11 ॥ ततश्ऱ्चायं खण्डार्थः ॥ एतद्वैपरमतपः किं

?Rयद्वयाधितस्तप्यते व्याधि(तस्तापो) स्तपो विष्णवेतप इति चिन्तनं तस्य फलमाह ॥ परममिति ॥ य एवं व्याधि(तस्तापो)स्तपो विष्णुं प्रतितप इति वेदसपरमं हैवलोकं जयति प्राप्नोति यं प्रेतं मां अरण्यं प्रतिहरन्त ज्ञातयस्तद्विष्णुं प्रतितप इति यत्प्राक्कालीनं चिन्तनमेतद्वैपरमन्तपः यं प्रेतं मामग्नावभ्यादधति तद्विष्णुं प्रतितप इति यत्प्राक्कालीनं चिन्तनमेतद्वैपरमं तप इत्यर्थः ॥ इत्येकादशब्राह्मणम्‌ ॥ 11 ॥ B-36

?Rब्रह्मवायुविषयां विद्यामाह ॥ अन्नमिति ॥ तत्रान्नप्रणशब्दयोः प्रसिद्धार्थत्वप्रततिनिरासायार्थमाह ॥ अन्नाभिमानीति ॥ एतेत्वेव देवते एकधाभूयंभूत्वापरमतां गच्छत इति वाक्यं तयोरैक्यमुच्यत इति प्रतीतिनिरासाय व्याचष्ये ॥ अन्येति ॥ एकधाभूयं भूत्वेत्यस्यार्थः अन्योन्यानुप्रविष्याविति परमतां गच्छन्त इत्यस्यार्थः सुसंस्थिताविति श्रुतौ भूत्वैवेत्येवकारसम्बन्ध इत्रत भावेन तदभिप्रायोक्तिः सवर्दैवेति । ननु किमन्योन्यानुप्रवेशेन बह्मवाय्वोः स्वत एव समर्थत्वादित्यतः प्राप्तं पूयति वाऽन्नमृते प्राणात्‌ शुष्यति वैप्राण ऋतेन्नादिति वाक्य द्वयं व्याचष्ये ॥ वायुमिति । वायुर्वायुदेहः तद्धस्माहप्रातृदः पितरमिति वाक्यं व्याचष्ये ॥ तयोरिति ॥ तयोरेवं परिज्ञानत्यनेन तद्धस्मेति तच्छशब्दस्योक्तप्रकारेण तयोः ज्ञानित्वादित्यर्थः उक्तो भवति । प्रतृद इत्यस्यार्थोवासिष्ठ इति । सहस्माहपाणिनामाप्रातृद इत्युत्तरत्रानुवादात्‌ पाणिनामक इत्युक्तं वसिष्ठं प्राब्रवीदित्युत्तरेणान्वयः । किं स्विदेवैवं विदुषेसाधुकुयर्ां किमेवास्मा असाधुकुर्याति वाक्यं व्याचष्ये ॥ ब्रह्मेति ॥ ब्रह्मवायुविदेकीदृशं साधुकीदृशमसाधुकुर्याति प्रश्ऱ्नः क्रियत इति प्रतीतिनिरासायकिं शब्दस्याक्षेपार्थत्वमभिप्रेत्यत दभिप्रायमाह ॥ नेति ॥ असौ ज्ञानी असाधुना अपकारेण साधयितुं स्ववशीकर्तुं न शक्य; । अपकारस्य तस्मिन्विफलत्वात्‌ साधुनोपकारेणापि साधयितुं स्ववशीर्कतुं न शक्यः यतः कृतकृत्यत्वादस्यार्थः प्रयोजनं नास्तीत्यर्थः । न केवलं ब्रह्मवायुमात्रज्ञानिन एवं सामर्थ्यं किन्त्वित्यत आह ॥ यदीति ॥ इति प्रशस्तज्ज्ञानमित्यनेन किं स्विदेवं विदुष इत्येत देवप्रश्ऱ्नवाक्यमिति व्याख्यानमपास्तम्‌ । पितरमित्यस्यार्थो वसिष्ठमिति । ततः प्रशंस नानन्तरं कस्त्वेन योरेकदाभूयं मूत्वापरमतां गच्छतीति प्रश्ऱ्नवाक्यस्याऽन्य8न्यानुप्रवेशं कृत्वाऽनयोर्मध्येकः प्रयोजनं प्राप्नोतीत्यर्थः प्रतीयते तदनुपपन्नम्‌ । वायुप्रवेशेन ब्रह्मणः ब्रह्मप्रवेशेन वायोश्ऱ्चप्रयोजनस्योक्तत्वादित्यतः प्रश्ऱ्नवाक्याभिप्रायमाह ॥ अन्योन्येति ॥ ब्रह्मवाय्वोरन्योन्यानुप्रवेशेन सामान्यप्रयोजनं शोषणाद्यभावरूपमस्त्येव विशेषतः प्रयोजनं कस्य भवेदिति प्राब्रवीदिति सम्बन्धः । तस्मा उहैतदुवाचेत्येतत्‌ कर्तृप्रदर्शनपूर्वकं व्याचष्ये ॥ तं प्रतृद इति ॥ नन्वेवं प्रश्ऱ्नस्य वीतिरमित्युपदेशः कथं परिहार इत्यतस्तदभिप्रायमाह ॥ ब्रह्मेति ॥ निवशेनयोवायुना अस्य ब्रह्मणः अन्योन्ययोरात्मनिप्रवेशनादित्यर्थः ॥ 12 ॥ ततश्ऱ्चयं खण्डार्थः ॥ अन्नमन्नाभिमानी ब्रह्मा ब्रह्मेति भगवन्तं विना स्वकार्येन न्यापेक्षमित्येके आहुः । किं तज्ज्ञानिनां मतं नेत्याह ॥ तन्नतथेति ॥ कुत इत्यत आह ॥ पूयतिवेति ॥ यस्मादन्नमन्नाभिमानि ब्रह्मदेहः प्राणात्‌ मुख्यवायोः ऋतेपूयति वै तस्मान्नतथेत्यर्थः । मतान्तरमाह ॥ प्राण इति ॥ प्राणोमुख्यवायुः ब्रह्मेति भगवन्तं विना स्वकार्येऽनन्यापेक्षमित्यके आहुः तदपि न ज्ञानिमतं इत्याह ॥ तन्नथथेति ॥ कुत इत्यत आह ॥ शुष्यतीति ॥ प्राणोमुख्यवायुदेहः अन्नादृते शुष्यति वै तस्मान्नतता तर्हि कः सिद्धान्त इत्यत आह ॥ एतेत्विति ॥ एते अन्नप्राख्ये ब्रह्मवायुरूपदेवते एकधाभूयमन्योन्यानुप्रवेशं भूतवाप्राप्यैवतु सर्वदैव परमतां गच्छतः सुसंस्थितावित्यर्थः । कुत एवमन्योन्यानुप्रवेशेनानयोः सुसंस्थितत्वमित्यतस्तज्ज्ञानि प्रशंसामाख्यायिकामाह ॥ तद्धेति ॥ तत्तस्मात्तयोरेवं परिज्ञानित्वात्प्रातृदः प्रतृदस्य वसिष्ठस्यापत्यं पुमान्‌ प्रातृदः पितरं वसिष्ठमाह स्महेत्यास्वादने किमिति अहमेव मुक्तप्रकारेण ब्रह्मवायुस्वरूपविदुषे किं स्विदेवसाधुकुर्यां कृतकृत्यत्वेन प्रयोजनशून्यत्वादुपकारेण असौ स्ववशीकर्तुं न शक्यत इति यावत्‌ अस्मैएवं विदुषेकिमेवासाधुकुर्यां अपकारस्य तस्मिन्विफलत्वात्तेनाप्यसौ स्ववशीकर्तुं न शक्यत इत्यर्थः । इत्याहेत्यन्वयः । एवं स्वपितरं प्रतिब्रह्मवायुज्ञानिनं प्रशस्येदानीं पृच्छतीत्याह ॥ स इति ॥ स पाणिनामापाणिनामकः प्रातृदः स्वपितरं प्रतृदं प्रत्याहस्मकिमिति एकदाभूयं भूत्वान्योन्यानुप्रवेशं प्राप्य अनयोः ब्रह्मवाय्वोः मध्येकः परमतां गच्छति प्रयोजनविशेषं प्राप्नोतीति एवं पुत्रेण पृष्यः प्रतृदोवसिष्ठस्तस्मैपुत्रायैतद्वक्ष्यमाणमेवोवाच आह ॥ वीतीति ॥ वीत्यस्यार्थमाह ॥ अन्नं वैवीति ॥ कुत इत्यत आह ॥ अन्नेहीति ॥ हि यस्मादिमानि सर्वाणि अन्ने अन्नाभिमानि चतुर्मुखेविष्यानिप्रविष्यानि भवन्ति अतोन्नं वीत्युच्यते ॥ रमिति ॥ उवाचेति सम्बन्धः । तस्यार्थमाह ॥ प्राणोवैरमिति ॥ तदुपपादयति ॥ प्राणेहीति ॥ निमित्तसप्तमी । सर्वभूतैर्निवेशनीयत्वाद्वायुनापि निवेशनीयोब्रह्मा । सर्वभूतरति प्रदत्वाद्ब्रह्मणोपि रतिप्रदोवायुरतोन्योन्यप्रवेशेनोभयोः प्रयोजनं तुल्यमेव नतु विशेष इति भावः । एवं ज्ञानिनः फलमाह ॥ सर्वाणीति ॥ इति द्वादशब्राह्मणम्‌ ॥ 12 ॥ अथभाष्यार्थाः ॥

?Rप्रकृतमुख्यप्राणस्यैवोक्थत्वादिमाहात्म्यं तदुपासनार्थमाह ॥ उक्थमिति ब्राह्मणेन ॥ तद्वयाचष्ये ॥ उत्थापनादिति ॥

?Rसर्वस्योत्थपनादित्यर्थः । अनेन प्राणोवा उक्थं प्राणोहीदं सर्वं उत्थापयतीत्येतद्वयाख्यातम्‌ । प्राणो(वै)वायजुःप्राणेहीमानि सर्वाणियुज्यन्त इत्येतद्वाक्यं व्याचष्ये ॥ मोक्ष इति ॥ वायोः ब्राह्मत्वानन्तरं यदा मोक्षस्तदा यद्वा मोक्षे अखिलैः गम्ये सति अखिलैः मुच्यमानैः प्राप्यः वायोः ब्रह्मप्रापकत्वादित्यर्थः । प्राणो वै क्षत्रं त्रायते हैनं प्राणः क्षणितोरिति वाक्यं व्याचष्ये ॥ अथेति ॥ अथशब्दः प्रकारान्तरत्वद्योतकः । प्राणोवैसामप्राणेहमानि सर्वाणिभूतानिसम्यंचीति वाक्यं व्याचष्ये ॥ सम्यक्‌ त्वेति ॥ कारणत्वार्त्थः । अत्र सर्वत्रापि हेतुर्जगत्पतिरिति ॥ 13 ॥ ततश्ऱ्चायं खण्डार्थः ॥ उक्‌थमित्युपासीत किमुक्थमित्यत आह ॥ प्राणो वा उक्थमिति ॥ कुत इत्यत आह ॥ प्राथोहीति ॥ उत्थापयति उत्पादयति ॥ तथोपासकस्य फलमाह ॥ उदिति ॥ य एवं वेदास्मैज्ञानिने उक्थत्वेन प्राण मानवीरः उत्तिष्ठति ह नकेवलमेतावात्‌ य एवं वेद स उक्थनामकस्य प्राणस्य सायुज्यं स लोकतां च स्वयोग्यतानुसारेण जयति प्राप्नोति ॥ 1 ॥ यजरित्युपासीत किं यजुरित्यत आह ॥ प्राण इति ॥ कुत इत्यत आह ॥ प्राणेहीति ॥ मोक्ष इति शेषः । ततोपासकस्य फलमाह ॥ युज्यन्त इति ॥ य एवं वेदास्मै अस्य श्रैष्ठय सर्वाणिभूतानि युज्यन्ते ह अयं नःश्रेष्ठो भवत्विति प्रयतन्त इत्यर्थः । य एवं वेद सायुज्यं सलोकतां च स्वयोग्यतानुसारेण जयति ॥ 2 ॥ सामेत्युपासीत किं सामप्राणोवैसम कुतः हि यस्मादिमानिसर्वाणि भूतानि प्राणेनिमित्तसप्तमीयं सम्यं चिसर्वभूसम्यक्त्वकाणमित्यर्थः । य एवं वेदास्मै अस्य सर्वाणिभूतानि सम्यञ्चि कोपिन विरोधं करोतीत्यर्थः । न केवलमेतावत्‌ अस्य ष्ठयायचकल्प्यन्ते समर्थाभवन्ति । साम्न इत्यादि पूर्ववत्‌ ॥ 3 ॥ क्षत्रमित्युपासीत किं क्षत्रं प्राणो वैक्षत्रं कुतः प्राण एव क्षत्रमित्यतस्तत्प्रसिद्धमित्याह ॥ प्राणोहिवैक्षत्रमिति ॥ प्राणेक्षत्रशब्दं निर्वक्ति ॥ त्रायत इति ॥ प्राणः क्षणितोः क्षतादेनं जीवं त्रायते हयस्मात्तस्मात्प्राणः क्षत्रं तथोपासकस्य फलमाह ॥ प्रक्षत्रमिति ॥ एवं वेद सप्रक्षत्रं प्राणादेवप्रकृष्यीक्षणं अक्षत्रं प्राणादन्येनारक्षणं च प्राप्नोति क्षत्रस्य क्षत्राख्यस्य प्राणस्य सायुज्यं सलोकतां च जयति ॥ 4 ॥ त्रयोदशब्राह्मणम्‌ ॥ 13 ॥ अथभाष्यार्थः ॥ सर्वेषां गायत्ऱ्या अपेक्षित्वात्तन्निष्ठां विद्यामाह ॥ भूमिरन्तरिक्षमिति ब्राह्मणेन ॥ अत्र भूमिरन्तरिक्षं द्यौरित्यष्यावक्षराणि अष्याक्षरं हवा एकं गायत्ऱ्यैपदमित्यादिनाष्याक्षरत्व साम्यमुक्त्वातज्ज्ञानिनो लोकाधिपतित्वादिकं फलमुच्यते तदयुक्तमतिप्रसङ्गादित्यतस्तदभिप्रायमाह ॥ ऋग्यजुरिति ॥ अनेन ऋचोयजूंषि सामानीत्यादेरभिप्राय उक्तः । भूमिरन्तरिक्षमित्यादेरभिप्रायमाह ॥ तृतीयेनेति ॥ ननु तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि । धियोयोनः प्रचोदयादिति त्रिपदाया एव गायत्ऱ्याः सां व्यावहारिकत्वाच्चतुर्थपादस्यैवानुपलम्भात्कथमेतदेवतुरीयं पदमित्यत आह ॥ चतुर्थपाद इति ॥ चतुर्थपादप्रतिपाद्यमाह ॥ तद्वाच्य इति ॥ ननु य एष तपतीति सूर्यस्य तद्वाच्यत्वोक्तेः कथं भगवांस्तद्वाच्य इत्यतस्तत्र विशेषमाह ॥ सूर्येति ॥ परोरजा इतिशब्दं भगवति निर्वक्ति ॥ रज आख्येति ॥ प्रधानतश्ऱ्चेतन प्रकृतितः चेतनप्रकृतेः रज आख्यत्वं रञ्जनादेव नतु तदुपलक्षितगुणत्रयवत्त्वेन दोषित्वेन वेति भावेन प्राक्‌ सत्वात्मिकेत्युक्तं ज्ञानानन्दरूपैवेत्यर्थः । यस्माद्रज आख्यप्रधानतः परस्तस्मात्परोरजा इति सम्बन्धः । अत्र यद्यपि सूयर्मण्डलस्थस्यैव भगवतश्ऱ्चतुर्थ पादप्रतिपाद्यत्वं वक्तुं शक्यम्‌ । यद्वक्ष्यति सूर्यमण्डलगोविष्णुरिति तथापि तत्र परोरजा इत्यस्यानुपयोगात्‌ तदनुरोधेन सूर्यमण्डलस्थातुयारमातत्स्थ इति विशेष उक्तः । एवं गायत्रीपादचतुष्यय प्रतिपाद्य भगवज्ज्ञानिनः स यावदेषु त्रिषु लोकेषु तावद्धजयति सयावतीयं त्रयीविद्यातवद्धजयति स यावदिदं प्राणिति तावद्धजयति श्रिया यशसातपतीति वाक्यचतुष्ययेन फलमुक्तं तद्वयाचष्ये ॥ य एवमिति ॥ यस्य कस्यापि गायत्ऱ्युपासकस्योक्तं फलं भवतीति निरासायाह ॥ गायत्ऱ्युपासन इति ॥ नवानां ब्रह्मणां सत्वाच्चतुर्मुख इत्युक्तं हि यस्मात्‌ गायत्ऱ्युपासने गायत्रीप्रतिपाद्य भगवदुपासने ब्रह्मैव मुख्यतो योग्यः तस्मात्‌ सर्वोपासापादचतुष्ययप्रतिपाद्य भगवदुपासनातस्यैव हि यस्मात्तस्यैव सर्वोपासातस्मादुक्तं सर्वं फलं च तस्यैवेति सम्बन्धः ।तर्ह्यन्येषां कथमित्यत आह ॥ अंशेनेति ॥ ननु किमन्येषामेकदेशेनोपासनाङ्गीकारेण ब्रह्मातिरिक्ताः गायत्ऱ्युपासने योग्या एव न भवन्तीति किं न स्यादित्यत आह ॥ गायत्ऱ्या इति ॥ वेदानधिकारिण एवायोग्यत्वात्‌ द्विज इत्युक्तम्‌ । द्विजस्तु वेदाधिकारी वेदः कृत्स्नोधिगन्तव्यः सरहस्योद्विजन्मनेत्युक्तेः । तर्हि सर्वेषामपि द्विजानां गायत्ऱ्युपासने योग्यत्वादुक्तं फलं सर्वेषां स्यादेवेत्यत आह ॥ योग्योपीति ॥ मुख्ययोग्योपीत्यर्थः । न योग्यमात्राणां सर्वफलप्राप्तिः । किन्तु मुख्ययोग्यस्यैव । मुख्ययोग्यस्तुविरिञ्चमृते कोपि नास्तीति तस्यैवाखिलं फलमित्यर्थः । तुरीयं दर्शतं पदं परोरजाय एष तपतीति वाक्यमन्वयं दर्शयन्किञ्चिद्वयाचष्ये ॥ य इति ॥ तुरीयमित्यस्यार्थः तुरीयपदेन प्रणवेनेति । पदमित्यस्यार्थः पद्यत इति । अत्रेति शब्दोध्यहार्यः सतु हीयपदमित्यन्वयः । एष सूर्यमण्डलगोविष्णुः ददृशे इव स्वयं दृष्यवानिव वस्तुनो न

?Rदृष्यवानिति प्रतीति निरासाय तदनूद्य व्याचष्ये ॥ ददृश इवेति ॥ ननु सूर्यमण्डलान्तर्गतस्य भगवतोन्यैरदृष्यत्वादेव

?Rदृष्यइवेत्युक्तिरपि कथमित्यत आह ॥ तदधीनेति ॥ तस्यादृष्यत्वेपीति शेषः । अत्र प्रमाणमाह ॥ सूर्येति ॥ सूर्यमण्डलस्थरमागत इत्यर्थः । परोरजा इति पदमनूद्य श्रुतौ व्याख्यातं परोरजा इति सर्वमुह्येवैषरज उपर्युपरितपतीति तत्र रजः कर्तृसर्वमुपर्युपरितपतीति प्रतीतिनिरासायान्वयमाह ॥ सर्वं रज इति ॥ तद्वयाचष्ये ॥ सर्वां प्रकृतिमिति ॥ रजःशब्दस्य केन निमित्तेन प्रकृतिवाचकत्वमित्यतस्तत्र प्रमाणमाह ॥ रञ्जनादिति ॥ शोभनादित्यर्थः । सर्वं रज उपर्युपरितपतीत्यस्य परोरजा इत्येतद्वयाख्यानत्वं कथमित्यत आह ॥ तस्या अपीति ॥ सैषागायत्ऱ्यैतस्मिंस्तुरीये दर्शते पदेपोरजसिप्रतिष्ठितेति वाक्यस्थगायत्रीशब्दाभिधेयमाह ॥ अभिमानिनीत्विति ॥ तर्ह्यनयोः कथं परोरजसिप्रतिष्ठितत्वमित्यतो ब्रह्मण्याः परं परया श्रियस्तु साक्षादेवेति भावेनाह ॥ सात्विति ॥ मुख्यगायत्रीं मुख्यगायत्ऱ्यभिमानिनीं तद्वैतत्सत्ये प्रतिष्ठितमित्यस्य तद्वैतत्तुरीयं पदं सत्येप्रतिष्ठितमिति व्याख्यानमसत्‌ तुरीयपदस्यानन्याश्रितत्वेन सत्याश्रितत्वायोगात्तद्वैतदिति तत्परामर्शायोगादिति भावेनाह ॥ तद्वा एतदिति ॥ जगतो प्रकृतत्वात्कथं तदेतच्छशब्देन तस्य परामर्श इत्यत आह ॥ भूमिरिति ॥ प्रमाणविरुद्धञ्च परव्याख्यानमिति भावेन तत्र प्रमाणमाह ॥ तद्वा इति ॥ चक्षुर्वैसत्यमित्यत्र न तावच्चक्षुःशब्देन जडमुच्यते नापि तदभिमानी सूर्यः उभयोरपि भूमिरन्तरिक्षमित्यादिनाप्रस्तुत जगदाश्रयत्वाभावादिति भावेनाह ॥ चक्षुःसूर्याभिमानिनीति ॥ चक्षुःशब्दाभिदेयसूर्याभिमानिनीत्यर्थः । अभिमन्यमानवाचकस्याभिमानिनिमुख्यत्वात्सूर्याभिमानी शेषः चक्षुःशब्दवाच्य इति भावः । विराण्नामनीति प्रमाणान्तरसङ्गहाय तद्वैतत्सत्यं बलेप्रतिष्ठितं प्राणोवैबलमिति वाक्यं व्याचष्ये ॥ शेष इति ॥ तस्मादाहुर्बलं सत्यादोजीय इति हेतुवाक्यं व्याचष्ये ॥ सहीति ॥ बलवत्तर इत्युक्त्याबलशब्दोपि

?R प्राणेव्याख्यातः । सत्यशब्दं शेषेनिर्वक्ति ॥ ससत्य इति ॥ सन्‌ निर्दुष्यो हरिरस्मिन्यातिवर्तत इति शेषः । सत्य इति सम्प्रोक्त इत्यर्थः । बलं सत्यादो जीय इत्यनन्तरं तद्वैतद्बलं गायत्ऱ्यां प्रतिष्ठितमिति ग्राह्यम्‌ । अन्यथा इत्येवमेषा गायत्रीत्यनुवादानुपपत्तेरिति भावेनाह ॥ वायुरिति ॥ इत्येवमेषागायत्ऱ्यध्यात्मं प्रतिष्ठितेति वाक्यं व्याचष्ये ॥ साचेति ॥ अनेन उशब्दश्ऱ्चशब्दार्थ इत्युक्तं भवति । यथा जगत्सत्येप्रतिष्ठितं सत्यं बलेबलं गायत्ऱ्यामेवमित्यर्थः । अध्यात्मशब्दार्थ आत्मनामधिपतिमिति । चतुर्मुखादिव्यावृत्त्यर्तं परममिति साहैषागयांस्तत्रे प्राणावैगया इत्यादिना गायत्रीशब्दो निरुच्यते तद्वयाचष्ये ॥ प्राणानामिति ॥ सादेवी सयामेवामूं सावित्रीमन्वाहेति वाक्यं स आचार्यः माणवकं प्रति अमुं सावित्रीमाहेति प्रतीतिनिरासाय व्याचष्ये ॥ सावित्रीति चेति ॥ यां गायत्रीनामिकां देवीं स इत्यनुवादेन विष्णुरिति व्याख्यानं तस्य प्रकृतत्वप्रदर्शनायोक्तम्‌ ॥ परतोरजा इति ॥ आचार्यस्त्वप्रकृत इति भावः । ननु गायत्रीसावित्ऱ्योः भिन्नत्वात्कथं गायत्रीमे(व)षसावित्रीमाहेत्यत उक्तं श्रुतावेषैवसेति । तद्वयाचष्ये ॥ एषैवेति ॥ हीति प्रसिद्धिमाह ॥ ननु गायत्रीनामिका श्रीः कथं सावित्रीत्युच्यते । तस्याः सवितृशब्दवाच्यसूर्यसम्बन्धित्वायोगादित्यतः सावित्रीशब्दार्थं वक्तुं तावत्सवितृशब्दार्थमाह ॥ सविताहीति ॥ तत्र निमित्तमाह ॥ तस्मादिति ॥ इदानीं सावित्रीशब्दार्थमाह ॥ सावित्रीचेति ॥ यदि सविताजनार्दनस्तर्हि सवितृमण्डलमध्यवर्तीत्यादावादित्येपि सवितृशब्दप्रयोगः कथमित्यत आह ॥ आदित्य इति ॥ आदित्यस्य सवितृनामक भगवत्प्रतिमात्वेपि सवितृनाकत्वं कुत इत्यत आह ॥ प्रतिमायामिति ॥ यथा कथञ्चिदादित्येपि सवितृशब्दप्रयोगात्‌ प्रकृते स एव वाच्यः किं न स्यादित्याशङ्का उपचारत इत्यनेन परास्ता मुख्येसत्यमुख्यग्रहणायोगादिति भावः । सयस्मा अन्वाहतस्य प्राणां स्त्रायते इति वाक्यं व्याचष्ये ॥ यस्मा इति ॥ यस्मैब्रह्मण इत्यन्वयः । तामिति ॥ तत्सवितुः वृणीमहे वयं देवस्य भोजनम्‌ । श्रेष्ठं सर्वधातमन्तुरं भगस्य धीमहि । इति ऋगात्मकामित्यर्थः । श्रेष्ठं सर्वधातॄणामुत्तमं भगस्य समस्तैश्ऱ्वयर्ादिगुणस्वरूपस्य विष्णोः पुरुषंतुरं वायुं धीमहि ध्यायेमहि यस्मात्‌ तस्मात्सवितुः जगत्प्रवितुर्वेवस्य विष्णोः सकाशाद्वयं भोजनं वृणीमहे प्रप्नुम इत्यर्थः । तन्नतथाकुयर्ाद्गायत्रीमेव सावित्रीमनुब्रूयात्‌ इत्येतद्वयाचष्ये ॥ नैवेति ॥ यदि हवा अप्येवं विदित्यादिनागायत्रीवेत्तुः फलमुच्यते । यस्य कस्यापि तद्वेत्तुरिदं फलमुच्यते इति प्रतीति निरासायाह ॥ गायत्रीति ॥ यदि हवा अप्येवं वित्‌ बह्विवप्रतिगृह्णाति न हवैतद्गायत्ऱ्या एकं च न पदं प्रतीति वाक्यसिद्धमर्थमाह ॥ तेषामिति ॥ तद्वाक्यं व्याचष्ये ॥ नचेति ॥ प्रतिग्रहजन्यानि च सुखानि गायत्ऱ्या एक पदविज्ञानफलायनालमित्यर्थः । ननु गायत्रीमुख्यवेत्तॄणां ब्रह्मपदयोग्यानां प्रतिग्रह एव न सम्भवति दातुरभावात्‌ अतः कथं प्रतिग्रहाद्दोषो नेत्याद्युक्तमित्याशङ्कां परिहरन्‌ सय इमां स्त्रींल्लोकानित्यादि सोऽस्या एतत्तृतीयं पदमाप्नुयादित्यन्तं वाक्यं व्याचष्ये ॥ विष्णोरिति ॥ ब्रह्मपदयोग्यानामपि जन्मान्तरे लोकव्यापारानधिकृतत्वेन प्रतिग्रहासम्भवाद्विरिञ्च जन्मनीत्युक्तम्‌ । अखिलां ल्ल्कनिति सम्बन्धः । तेन पूर्णानित्येतदुक्तार्थं कृत्स्नशोवेदान्‌ चेतनानिति सम्बन्धः तेन यावतीयं त्रयीविद्यातावदिति यावदिदं

?Rप्राणितावदिति च वाक्यं व्याख्यातम्‌ । फलमात्रं फलैकदेशः अथास्तया एतदेवतुरीयं दर्शतं पदं परोरजाय एष तपति नैव

?Rकेनचनाप्यमिति वाक्यं व्याचष्ये ॥ प्रणवेति ॥ सोस्या एतत्प्रथमं पदमाप्नुयात्‌ सोस्या एतद्द्वितीयं पदमाप्नुयात्‌ सोस्या एतत्तृतीयं पदमाप्नयुदिति वाक्यत्रयं गायत्रीपदविज्ञानफलमात्रपरमिति व्याख्यातम्‌ । इदानीं चतुर्थपादप्रतिपाद्यवासुदेवस्यैव केनाप्यप्राप्यत्वं कथमित्याशङ्कानिरासाय प्रकारान्तरेण व्याचष्ये ॥ गायत्रीति ॥ ननु मुक्तब्रह्मणो निरुद्धादि व्यापकत्वं कुत इति चेत्‌ । गायत्रीत्रिपदज्ञेयानिरुद्धादिमूर्तित्रयस्य लोकवेदवायुस्थत्वेन परिच्छिन्नत्वात्‌ मुक्तब्रह्मणोपि तावद्रूपेण तत्र स्थितत्वात्तद्वयाप्तिसम्भवादिति भावेनाह ॥ लोकस्थमिति ॥ अनिरुद्धादिरूपत्रयस्य क्रमेणपादत्रय प्रतिपाद्यत्वात्तस्य च भूमिरन्तरिक्षमित्यादिनालोक वेदवायुस्थत्वोकतेः लोकस्थमनिरुद्धमित्यद्युक्तं विमुक्तिगोब्रह्मागायत्रीज्ञानसामर्थ्याद्वया(प्य)प्त्यासम्पश्येदित्यन्वयः । ननु वर्णानामपरिच्छिन्नत्वेन तदात्मकवेदगतस्य प्रद्युम्नस्यापि वासुदेववद2परिच्छिन्नत्वात्कथं ब्रहमणस्तद्वयाप्तिरिति चेत्‌ न । वर्णानामपरिच्छिन्नत्वेपि परिच्छिन्नपुरुषोच्चरितध्वनिजन्याभिव्यक्तिविशिष्यानां क्रमविशेषविशिष्यानामेव वेदत्वात्‌ । तेषां च परिच्छिन्न(त्वसम्भवा)त्वादिति भावः । यदि वासुदेवं न व्याप्नोति तर्हि गायत्रीचतुर्थपादप्रणवपरिज्ञानं व्यर्थं स्यादित्यत आह ॥ प्रणवेति ॥ चशब्दोवधारणे सम्पश्येदेवेत्यन्वयः । कुतोन व्याप्नोतीत्यतः सर्वगमित्युक्तमेवहेतुं व्यनक्ति ॥ अनन्तत्वादिति ॥ ननु तुरीयपादप्रतिपाद्यवासुदेवस्यापि परोरजाय एष तपतीति सूर्यमण्डलस्थत्वोक्तेः कथमपरिच्छिन्नत्वमित्याशङ्कां परिहरन्‌ सर्वमुह्येवैषरज उपर्युपरितपतीति वाक्यानुसारेण परोरजा इत्यस्यर्थमाह ॥ वर्णत्रयात्मेति ॥ अनेन सर्वं रजः सर्वां प्रकृतिमित्युक्तं विवृतं भवति । सूर्यमण्डलेस्थितोवासुदेवः शुक्लकृष्णकनीनिकालक्षणवर्णत्रयाभिमानिप्रकृतिमतीतो बाह्येस्थितो वासुदेवः सत्यरजस्तमोगुणाभिमानिनीं प्रकृतिमतीतोयतोतः स परोरजा इत्यर्थः । तथाच सूर्यमण्डलगतस्य परिच्छिन्नत्वेपि रूपान्तरस्यापरिच्छिन्नत्वान्नानुपपत्तिरिति भावः । अनेन परोरजा इत्यत्र कनीनिकावाचकः रजोगुणवाचकोवारजः शब्दोन्योपलक्षक इत्युक्तं भवति । कुत उ एतावत्प्रतिगृह्णीयादिति वाक्यं स हेतुकं व्याचष्ये ॥ यत इति ॥ अनिरुद्धादिकं ब्रह्मणाव्याप्यमतस्तत्सकाशाद्ब्रह्मणो लोकादिप्रतिग्रहोस्त्येव । सोसौ बाह्येस्थितोवासुदेवोब्रह्मणापि न व्याप्यते यतोत अस्य वासुदेवस्य सकाशाद्ब्रह्मणः प्रतिग्रहोनास्तीत्यर्थः । यावतीयं त्रयीविद्याय स्तावत्प्रतिगृह्णीयादित्यदेः कृत्स्नशोवेदांश्ऱ्चेतनान्प्रतिगृह्णन्तीति व्याख्यानमसत्‌ । यावतीयं त्रयीविद्यातावत्तावदविच्छन्नं वस्त्वन्तरं यः प्रतिगृह्णीयादिति व्याख्यानेन सर्ववेदसर्वप्राणिपरिमितवस्त्वन्तरस्य प्रतिग्राह्यत्वप्रतीतेरित्यतस्तद्दूषयितुं स्वयं तावद्वयाचष्ये ॥ तावदिति ॥ तावदित्यनुवादेनैतावदिति व्याख्यातं तस्यैव वेदादेरेवसामस्त्येन ग्रहणार्थं नत्वेतावद्वस्त्वन्तरग्रहणार्थमित्यर्थः । नन्वस्तुतावच्छशब्द एतावदर्थकः तथाप्येतावच्छशब्देनापि तस्यैव सामस्त्येन ग्रहणमिति कुत इत्यतस्तत्र प्रयोगं दर्शयति ॥ एतावदेवेति ॥ यथा एतावदेव मम हस्ते विद्यत इत्यत्रैतावच्छशब्देन हस्ते विद्यमानं यावत्‌ तस्यैव सङ्ग्रहः । नतु तत्सदृशवस्त्वन्तरस्य एमत्रापीत्यर्थः । ननु इदं यावत्तावदन्यत्रास्ति इत्यादौ तावच्छशब्दस्य तावदवच्छिन्नवस्त्वन्तरेपि प्रयोगादत्र तावदवच्छिन्नवस्त्वंतरवाचकत्वं किं न स्यादित्यत आह ॥ नहीति ॥ स्यादेवं यदि सर्ववेदातिरिक्तं तत्सदृशं शब्दजातं सर्वप्राणिव्यतिरिक्तं तत्सदृशं चेतनजातं वास्यात्‌ नच तदस्ति । अतस्तावच्छब्द एतावदर्थक इति भावः । तस्या उपस्थानं गायत्ऱ्यस्यैकपदी द्विपदीत्रिपदी चतुष्पद्यपदसि नहि पद्यस इत्यत्रैकपदीत्वादिकमुक्तं तद्विरुद्धमित्यतस्तावदेकपदीत्वं घटयति ॥ अष्याक्षरत्वादिति ॥ ननु गायत्ऱ्याश्ऱ्चतुर्विंशत्यक्षरत्वात्‌ प्रणवसहितायास्तुततोप्यधिकाक्षरत्वात्‌ कथमष्याक्षरत्वमित्यत आह ॥ प्रणवेनेति ॥ यदा गायत्ऱ्या एकपदीत्वविवक्षा तदाप्राणवेन सहैतागायत्ऱ्यश्ऱ्चतुर इति ज्ञेयं तथाच गायत्रीचतुष्ट्वविवक्षायां प्रत्येकमेकैकस्यापि पादस्य गायत्रीत्वात्तस्य चाऽष्याक्षरत्वमस्त्येवेति भावः । नन्वेवं प्रणवस्यापि गायत्रीत्वात्तस्य कथमष्याक्षरत्वमित्यत आह ॥ अकारादीति ॥ प्रणव अकारोकारमकारनादबिन्दुकलाशान्तातिशान्तरूपाष्याक्षरात्मकोयतः अतस्स एकः पाद इत्यर्थः । गायत्ऱ्याद्विपदीत्वं घटयति ॥ पाद इति ॥ यदा प्रणवसंयुक्तः प्रणवरूपः पादः पृथक्‌ एकदेशः सात्रिपदागायत्रीपृथगेकदेशः तदद्विपदीति प्रोक्तेत्यर्थः । यद्वा प्रणवसंयुक्तः पादोयदापृथग्गायत्री सातदाद्विपदीप्रोक्तेत्यर्थः । त्रिपदीत्वं घटयति ॥ त्रिपदीति ॥ इदानीं प्रणवस्य गायत्रीत्व विवक्षानास्तीति ज्ञेयम्‌ । चतुष्पदीत्वं घटयति ॥ चतुष्पदीति ॥ अपदसिन हि पद्यसे इति कथं ब्रह्मणाज्ञेयत्वादित्यतः तद्वाक्यं व्याचष्ये ॥ ब्रह्मण इति ॥ एतेन त्रैकोक्यपदेनैकपदीत्रयीविद्यापदेन द्विपदीप्राणाद्यात्मक पादेन त्रिपदीमण्डलान्तर्गतपुरुषलक्षणेन पादेन चतुष्पदीति व्याख्यानमपि निरस्तम्‌ । त्रयीविद्यादिपदान्तरेणापि एकपदीत्व(द्य)सम्भवात्‌ मण्डलान्तर्गतपुरुषस्यार्थरूपत्वेन शब्दपादत्वासम्भवाच्च । तस्या उपस्थानमित्यस्यार्थं वदन्‌

?Rनहैवास्मैसकाऋध्यत इति फलवाक्यं द्वेधा व्याचष्ये ॥ कामाप्राप्तिमिति ॥ काम्याप्राप्तिमीषत्प्राप्तावपि तदपूर्तिं वेत्यर्थः ।

?Rअनेन ऋध्यत इत्यद्यार्थद्वयमुक्तं भवति । ननु फलान्तरार्थमुपासनेपि शत्रवेकामाप्राप्तिमपूर्तिं वा करोति किं नेति भावेन प्रवृत्तं असावदोमाप्रापदिति यं द्विष्यादसावस्मैकामोमासमृद्धीति वा इति वाक्यं व्याचष्ये ॥ असाविति ॥ असौ शत्रुः अदः काम्यं मैव प्रापन्नैव प्राप्नोतु सागायत्रीत्थुपस्थिताचेत्तर्हि कामाप्राप्तिमपूतिर्ं वा शत्रवेकरिष्यतीति सम्बन्धः । श्रुतौ अहमदः प्रापमिति वायस्मा एवमुपतिष्ठते अस्मैसकामऋध्यत इति सम्बन्धमभिप्रेत्यतद्वाक्यं व्याचष्ये ॥ यदीति ॥ इतिशब्दात्‌ परत उपस्थिरेत्यनुवर्तते । नन्वेतदयुक्तं अयोग्येन ममसत्यलोकाधिपत्यं भवेदित्युपासनेपि तदलाभात्‌ स्वस्य कामपूर्तेरैहिकत्वेन गायत्ऱ्याऐहिकमात्रफलसाधनत्वप्राप्तेश्ऱ्च गायत्ऱ्याः शब्दरूपत्वेन जडत्वादुक्तफलदानासामर्थ्याच्चेत्यत आह ॥ सम्यगिति ॥ तर्ह्यन्येषां कथमित्यत आह ॥ अलेपमिति ॥ तस्या अग्निरेव मुखमिति वाक्यं व्याचष्ये ॥ वक्तव्य इति ॥ ज्ञातव्य इत्यथर्ः । मुखसंस्थितः प्रथमाक्षरगः । तर्ह्यग्निर्मुखमित कथमुच्यत इत्यत आह ॥ अग्निमण्डलग इति ॥ गायत्रीप्रतिपाद्यभगवत्परिज्ञानेनैव फललाभोपपत्तौ किं मुखस्थविष्णुज्ञानेनेत्यत आह ॥ गायत्ऱ्या इति ॥ मुखस्थ हरिज्ञानाभावेगायत्रीप्रतिपाद्यहरिज्ञानं किं व्यर्थं नेत्याह ॥ अन्यथात्विति ॥ किन्तत इत्यत आह ॥ गायत्रीति ॥ एवं विद्यद्यपि बह्विवपापं करोति सवर्मेव तत्सम्प्सयेति फलवाक्यं व्याचष्ये ॥ संहर्तेति ॥ सवर्दाहक इत्यनेन यदि हवा अपि बह्विवाग्नावभ्यादधाति सर्वमेव तत्सन्दहतीति वाक्यं व्याख्यातम्‌ । अग्निस्थरूपं कीदृशं किमित्यत आह ॥ नित्येति ॥ 14 ॥ ततश्ऱ्चायं खण्डार्थः ॥ गायत्रीप्रतिपाद्यमाह ॥ भूमिरन्तरिक्षमित्यादिना ॥ भूमिरन्तरिक्षं द्यौरित्यष्यावक्षराणि द्यौरित्यस्य दिऔ इति द्ययक्षरत्वात्‌ गायत्ऱ्यैगायत्ऱ्याः एकं पदं तत्सवितुः वरेण्यमिति प्रथमपदमष्याक्षरं हवा किंतत इत्यत आह ॥ एतदुहैवास्या एतदिति ॥ अस्यागायत्ऱ्याः एतत्‌ अष्याक्षरात्मकप्रथमपादप्रतिपाद्यं एतदेव उभूमिरन्तणिं द्यौरित्यष्याक्षरप्रतिपाद्यं भूम्यन्तरिक्षस्वर्गस्थं अनिरुद्धाख्यं भगवद्रूपमेव खल्वित्यर्थः । हेति पमाण प्रसिद्धिद्योतकम्‌ । एवं ज्ञानिनः फलमाह ॥ स इति ॥ योगायत्ऱ्युपासने मुख्याधिकारी ब्रह्मपदयोग्यः अस्यागायत्ऱ्याः एतत्पदं प्रथमपादप्रतिपाद्यं हरिं एवमुक्तप्रकारेण वेदोपास्ते स एषु लोकेषु यावद्विद्यते तावदेतावत्‌ जयति प्राप्नोति हसर्वलोकाधिपतिः भवतीत्यर्थः ॥ 1 ॥ ऋचो यजूंषिसामानीत्यष्याक्षराणि गायत्ऱ्यैगायत्ऱ्याः एकं पदं भर्गोदेवस्य धीमहीति द्वितीयं पदं अष्याक्षरं हवा किंतत इत्यत आह ॥ एतदिति ॥ अस्यागायत्ऱ्याः एतदष्याक्षरात्मकद्वितीयपादप्रतिपाद्यं एतदेव उऋचोयजूंषिसामानीत्यष्याक्षरप्रतिपाद्यं ऋग्यजुःसामसंस्थं प्रद्युम्नाख्यं भगवद्रूपमेव खल्वित्यर्थः । तज्ज्ञानिनः फलमाह ॥ स इति ॥ योगायत्ऱ्युपासने मुख्याधिकारीब्रह्मपदयोग्यः अस्यागायत्ऱ्या एतत्पदं द्वितीयपदप्रतिपाद्यं एवमुक्तप्रकारेण वेद स यावतीयं त्रयीविद्या तावदेतावत्‌ जयति सर्ववेदाधिपतिः भवतीत्यर्थः ॥ 2 ॥ प्राणोपानोव्यान इत्यष्याक्षराणि प्राणः अपानव्यान इति विश्ऱ्लेषात्‌ । गायत्ऱ्यैगायत्ऱ्या एकपदं धियोयोनः प्रचोदयादिति तृतीयं पदं अष्याक्षरं हवा किंतत इत्यत आह ॥ एतदिति ॥ अस्यागायत्ऱ्याः एतत्तृतीयपादप्रतिपाद्यं एतदेव उप्राणोपानोव्यान इत्यष्याक्षरप्रतिपाद्यं प्राणापानव्यानस्थं सङ्कर्षणाख्यं भगवद्रूपमेव खल्वित्यर्थः । तज्ज्ञानिनः फलमाह ॥ स इति ॥ योधिकारीब्रह्पदयोग्यः अस्याः एतत्पदं तृतीयपादप्रतिपाद्यं एवं वेद स यावदिदं प्रसिद्धं प्राणितावदेतावयति सर्वेषां प्राणिनामधिपतिः भयतीत्यर्थः ॥ 3 ॥ अथ गायत्रीपादत्रयप्रतिपाद्यकथनानन्तरं चतुर्थपादप्रतिपाद्यमुच्यत इति शेषः । अस्यागायत्ऱ्याः तुरीयं पदं तुरीयपदेन प्रणवेहन प्रतिपाद्यं एतदेव किं यद्दर्शतं तत्‌ य एष प्रसिद्धः परोरजास्तपतिसचेत्यर्थः । तुरीयमित्येतत्‌ श्रुतिः स्वयमेवव्याकरोति ॥ यदिति ॥ यच्चतुर्थं वैप्रसिद्धं लोके तत्तुरीयं तुरीयशब्देनोच्यत इत्यर्थः । दर्शतं पदमित्येतदनूद्य व्याचष्ये ॥ दर्शतं पदमितीति ॥ B-37

?Rहि यस्मादेषचतुर्थपादप्रणवप्रतिपाद्योवासुदेव आदित्यण्डलान्तर्गतः सन्‌ ददृश इवाऽन्यैर्दृष्य इव तदधीनतेजः पुंजस्य सूयर्मण्डलस्य दृष्यत्वात्‌ अतो दर्शतमित्युच्यत इत्यर्थः । परोरजा इत्येतदनूद्य व्याचष्ये ॥ परोरजा इतीति ॥ हि यस्मादेवषचतुर्थपादप्रणवप्रतिपाद्यो वासुदेवः सर्वमुरजः सर्वामपि प्रकृतिमुपर्युपर्येवोपरिष्यादेव तपतिप्रकाशते तदुत्तममिति यावत्‌ तस्मात्परोरजा इयुक्त इत्यर्थः । अत्र चतुथर्पादप्रणवप्रतिपाद्योवसुदेवः सूर्यमण्डलस्थितः शुक्लकृष्णकनीनिकात्मकप्रकृत्युत्तमोबाह्येस्थितोगुणत्रयात्मकप्रकृत्युत्तम इति ज्ञापनाय सर्वं रज इत्युक्तं तदुपासकस्य फलमाह ॥ एवमिति ॥ योऽधिकारी ब्रह्मपदयोग्यः अस्यागायत्ऱ्याः एतत्पदं चतुर्थपादप्रणव प्रतिपाद्यं एवमुक्तप्रकारेण वेदोपास्ते च एवमेव उपास्य वासुदेव वदेव सर्वलोकवेदप्राण्युत्तमः सन्‌ श्रिया यशसाच तपति प्रकाशत इत्यर्थः । अत्र ब्रह्मपदयोग्यानां स्वोपासनानुसारेण फलं ज्ञेयम्‌ ॥ 4 ॥ एवं गायत्रीप्रतिपाद्यमुक्त्वातदभिमानिदेवताया भगवदाश्रितत्वमाह ॥ सैषेति ॥

?Rसैषागायत्रीगायत्ऱ्यभिमानि देवता श्रीः सरस्वती वा एतस्मिन्पूर्वप्रकृते परोरजसिदर्शते तुरीये पदेवासुदेवे साक्षात्परं

?Rपरयावाप्रतिष्ठिता । एतदेव क्रमपूर्वकमाह ॥ तद्वा इति ॥ तद्वा एतत्‌ भूमितन्तरिक्षमित्यादिना प्रस्तुतं जगत्‌ सत्येसन्‌ विष्णुरस्मिन्‌ यातीति सत्यनामकः सत्याभिमानी शेषः तस्मिन्प्रतिष्ठितम्‌ । सकीदृश इत्यत आह ॥ चक्षुर्वैसत्यमिति ॥ सत्यं सत्यनामकः शेषः । चक्षुरेवचक्षुर्नामकसूर्याभिमानी । कुत इत्यतस्तत्प्रसिद्धमित्याह ॥ चक्षुर्हवैसत्यमिति ॥ हत्युक्तामेव प्रसिद्धिं दर्शयति ॥ तस्मादिति ॥ यत्‌ यस्मादेको ब्रूते अहं गजादिवस्त्वदर्शमिति अपरोब्रूते अहं तद्वस्तुतथान भवतीत्यश्रौषमित्येवं विवदमानौ विरुद्धं भाषमाणौ द्वाविदानीमेयातामागच्छेतां तयोः मध्ये य एवाहमदर्शमिति ब्रूयात्‌ तस्मा एव श्रद्दध्यामश्रद्धां कुर्मोन पुनरहमश्रौषमिति योब्रूयात्तस्मै श्रुत्यपेक्षयादृष्येः बलवत्त्वात्‌ । तस्मात्सत्यप्रतिपत्तिहेतुत्वाच्चक्षुः सत्यमित्यर्थः । तद्वैतत्सत्यं सत्यनामकः शेषः । बले प्रतिष्ठितम्‌ । किं बलमित्यत आह ॥ प्राणोवैबलमिति ॥ पदाथर्मुक्त्वावाक्यार्थमाह ॥ तदिति ॥ यस्मात्‌ बलं प्राणः तत्‌ तस्मात्‌ बलेप्रतिष्ठितमित्यस्य प्राणेप्रतिष्ठितमित्यर्थ इत्यर्थः । बले सत्यं प्रतिष्ठितमिति कुत इत्यत आह ॥ तस्मादिति ॥ तस्माद्बलस्य सत्याधारत्वात्‌ बलं प्राणाख्यं सत्याच्छेषाख्यादो यो बलवत्तरमित्याहुः विद्वांसः । अत्र तद्वा एतद्बलं गायत्ऱ्यां प्रतिष्ठितमिति वक्तव्यम्‌ । गायत्ऱ्यां तदभिमानिश्रियाम्‌ । एषागायत्रीतदभिमानिनीश्रीः यथा जगत्सत्येसत्यं बलेबलं गायत्ऱ्यामेवमध्यात्मं प्रतिष्ठिता आधिक्यार्थे अधीत्यव्ययम्‌ । आत्मनामिधिकत्वेन वर्तमानमध्यात्मन्तस्मिन्प्रतिष्ठित्यर्थः । गायत्ऱ्यभिमानिन्यां श्रियां गयत्रीशब्दं निर्वक्तुमाह ॥ सेति ॥ सैषागायत्ऱ्यभिमानिनी श्रीर्गयांस्तत्रिति ह । केते गया इत्यत आह ॥ प्राणावैगया इति ॥ प्राणाः प्राणापानाद्याः पञ्चप्राणागया इतयुच्यन्ते इत्यर्थः । पदार्थमुक्त्वावाक्यार्थमाह ॥ तत्प्राणांस्तत्र इति ॥ यस्माद्गयाः प्राणास्तत्‌ तस्माद्गयांस्तत्र इत्यस्य प्राणांस्तत्रय इत्यर्थ इत्यर्थः । इदानीं गायत्रीशब्दं निर्वक्ति ॥ तदिति ॥ यद्यस्मात्‌ सैषागायत्ऱ्यभिमानिनी श्रीः तत्तस्योपासकस्य गयान्प्राणांस्तत्रे तस्माद्गायत्रीनामगायत्रीति प्रसिद्धा अत्र दैर्ध्यमवधारणशर्थं दैर्ध्यंप्लुतिश्ऱ्चहिकारोबिन्दुरप्यवधारण इति वचनात्‌ । एवं गायत्रीनामिकायास्तदभिमानिन्याः श्रियोनामान्तरमाह ॥ स इति ॥ स परोरजाविष्णुः याममूंगायत्रीमेवगायत्रीनामिकान्तदभिमानिनीं श्रियमेव सावित्रीं सवितृनामकभगवदाश्रितत्वेन सावित्रीनामिकामन्वाह ॥ गायत्रीसावित्ऱ्योः परस्परं भिन्नत्वात्कथं गायत्रीमेव सावित्रीमाहेत्यत आह ॥ एषैवेति ॥ एषा सावित्रीसागायत्ऱ्येव न तयोः भेद इत्यर्थः । तद्यद्गयांस्तत्र इत्युक्तं तद्वयक्तिविशेषनिष्ठतया दर्शयति ॥ स इति ॥ सविष्णुर्यस्मैब्रह्मणे गायत्रीमन्वाह तस्य ब्रह्मणः प्राणान्‌ सागायत्ऱ्यभिमानिनीश्रीस्त्रायते रक्षतीत्यर्थः ॥ 5 ॥ एषैसेति गायत्ऱ्येवसावित्रीत्युक्तं तत्र केषाञ्चित्पक्षमनुवदति ॥ तांहैतामिति ॥ तां हैतां सावित्रीं सवितृनामकभगवदाश्रितां श्रियमेके अनुष्युभं अनुष्युबभिमानिनीमन्वाहुः । केयमनुष्युबित्यत आह ॥ वागनुष्युबिति ॥ तत्सवितुर्वृणीमहे इति वाक्‌ अनुष्युबित्यर्थः । यस्माद्वागनुष्युप्‌ तस्मात्‌ एतां वाचं सावित्रीमनुब्रूम इत्येके आहुरिति सम्बन्धः । अनूदितं पक्षं दूषयति ॥ तन्नतथाकुर्यादिति ॥ सिद्धान्तमाह ॥ गायत्रीमेवेति ॥ गायत्रीऋचमेव सावित्रीनामकश्रीप्रतिमामनुब्रूयात्‌ गायत्ऱ्या एवमुख्यप्रतिमात्वादनुष्युभश्ऱ्चतदभावादित्यर्थः । गायत्ऱ्युपासकस्य फलनिरूपणव्याजेन गायत्रीमाहात्म्यं निरूपयति ॥ यदि हवा इति ॥ यद्यपि एवं विदुक्तप्रकारेणगायत्रीप्रतिपाद्यादिज्ञानी ब्रह्मा बह्विवबह्वेवविष्णोः प्रतिगृह्णाति हवा इत्युक्तार्थप्रसिद्धिद्योतकम्‌ । ततापि तत्‌ बहुप्रतिग्रहजन्यं सुखं गायत्ऱ्या एकं च न पदं प्रति एकपादविज्ञान फलं प्रति न पर्याप्तं हवै प्रसिद्धमित्यर्थः । अनेन तत्प्रतिग्रहस्य दोषाधायकत्वं दूरनिरस्तम्‌ ॥ 6 ॥ एतदेव विवृण्वन्‌ फलान्तरमाह ॥ स इति ॥ योगायत्रीज्ञानी ब्रह्मा स पूर्णान्‌ इमां स्त्रीन्‌ लोकान्‌ लोकस्थानिरुद्धात्प्रतिगृह्णीयात्‌ प्रतिगृह्णाति स लोक प्रतिग्रहस्तज्जन्यं सुखमिति यावत्‌ । अस्यागायत्ऱ्याः एतत्प्रथमं पदमाप्नुयात्‌ प्रथमपादोपास्तिफलैकदेशं प्राप्नुयादित्यर्थः । न केवलं गायत्ऱ्युपासकस्यै हि कं लोकाधिपत्यमात्रं किन्तु मौक्तं फलमप्यस्तीत्याह ॥ सोस्या इति ॥ स गायत्रीज्ञानी ब्रह्मा मुक्तस्सन्‌ अस्यागायत्ऱ्या एतत्प्रथमं पदं प्रथमपादप्रतिपाद्यं भूम्यादि लोकस्थमनिरुद्धमाप्नुयात्‌ । तमन्तःप्रविश्यव्याप्नोतीत्यर्थः । अथ पुनर्योगायत्रीज्ञानीब्रह्मा स यावतीयं त्रयीविनद्या तावदेतावत्‌ सर्वामपि त्रयीविद्यामिति यावत्‌ । सर्ववेदस्थ प्रद्युम्नात्प्रतिगृह्णाति स यावत्‌ ससर्ववेदप्रतिग्रहस्तज्जन्यं सुखमिति यावत्‌ । अस्यागायत्ऱ्याः एतद्द्वितीयं पदमाप्नुयात्‌ द्वितीयपादोपास्तिफलैकदेशमाप्नुयादित्यर्थः । पूर्ववत्फलान्तरमाह ॥ स इति ॥ स गायत्रीज्ञानी ब्रह्मामुक्तः सन्नस्यागायत्ऱ्या एतद्द्वितीयं पदं द्वितीयपादप्रतिपाद्यंऋगादि वेदस्थं प्रद्युम्नमाप्नुयात्‌ व्याप्नोतीत्यर्थः । अथ पुनर्यः गायत्रीज्ञानी ब्रह्मा स यावदिदं प्रसिद्धं प्राणि तावदेतावत्‌ सर्वानपिचेतनानिति यावत्‌ । वायुस्थसङ्कर्षत्प्रतिगृह्णीयात्सप्रतिग्रहोऽस्या एतत्तृतीयं पदं तृतीयं पदं तृतीयपादप्रतिपाद्यं प्राणापानादिवायुस्थं सङ्कर्षणमाप्नुयात्‌ व्याप्नोतीत्यर्थः । एवं मुक्तब्रह्मणोलोकवेदवायुस्थानिरुद्धादिरूपत्रयं

?Rव्याप्यम्‌ । अथ पुनर्य एष परोरजास्तपति यच्चदर्शतं एतदेवास्यागायत्ऱ्यास्तुरीयं पदं रुरीयपादप्रणवप्रतिपाद्यं वासुदेवाख्यं रूपं

?Rकेन च केनापि नैवाप्यं नैवव्याप्यम्‌ । तदन्तःप्रविश्यव्याप्नुं केनापि न शक्यमिति यावत्‌ । लोकादिस्थानिरुद्धादिरूपत्रयस्य परिच्छिन्नत्वात्‌ सूर्यमण्डलान्तर्गतस्य प्ररिच्छिन्नत्वेपि गुणत्रयात्मकप्रकृत्यतीतस्य परोरजः शब्दवाच्यस्य वासुदेवस्यापरिच्छिन्नत्वादिति भावः । नन्वनिरयुद्धप्रद्युम्नसङ्कर्षणेभ्यस्तद्ययाप्यलोकवेदप्राणिप्रतिग्रहोब्रह्मणो वर्तते वासुदेवात्‌ प्रतिग्रहः कुतो नास्तीत्यत आह ॥ कुत इति ॥ यावत्‌ वासुदेवव्याप्यमेतावत्‌ क एव प्रतिगृह्णीयात्‌ सर्वगतत्वेन वासुदेवोब्रह्मणापि यतो न व्याप्यः अतो न वासुदेवात्प्रतिग्रह इति भावः ॥ 7 ॥ इदानीं गायत्ऱ्युपासनप्रकारमाह ॥ तस्या इति ॥ तस्यागायत्ऱ्यास्तत्प्रतिपाद्य भगवतः उपस्थानमुपासनं कर्तव्यम्‌ । कथं हे गायत्रिगायत्रीप्रतिपाद्य भगवन्‌ त्वमेकपद्यसि एकपादप्रतिपाद्योसि एवमुत्तरत्रापि । प्रणवयुक्तपादत्रयस्य प्रत्येकं गायत्रीत्वात्‌ तस्याश्ऱ्चाष्याक्षरत्वादित्यर्थः । त्वं द्विपद्यसि पादत्रयस्यैकपादत्वेन प्रणवस्य चापरपादत्वेन विवक्षणात्‌ त्वं त्रिपद्यसि पादत्रयोपेतत्वात्‌ प्रणवस्य गायत्रीत्वाविवक्षणात्‌ तद्विवक्षायां तु त्वं चतुष्पद्यसि । त्वमपदसि कुतः हि यस्मात्‌ त्वं ब्रह्मणोन्येन न पद्यसे साकल्येन न ज्ञायसे परोरजसेदर्शताय तुरीयाय पदाय वासुदेवाय तुभ्यं नमोऽस्तु । एवमुपासनस्य फलमाह ॥ असाविति ॥ असौ शत्रुः । अदःकाम्यं माप्रापत्‌ नैवाप्नोत्वित्यभिप्रायेणासौकामोस्मैशत्रवेमासमृद्धिपरिपूर्णोभूदित्यभिप्रायेण वा गायत्ऱ्युपासकोयं शत्रुं द्विष्यात्‌ अस्मैशत्रवेसकामोनैव ऋध्यते ह नैसव प्राप्यते समृद्धश्ऱ्चन भवतीत्यर्थः । अहमदः कामजातं प्रापं प्राप्नुयामित्यभिप्रायेण वायस्मैयत्कामार्थमेवमुक्तप्रकारेणोपतिष्ठते उपासते अस्माउपासकायसकामऋध्यते समृद्धो भवतीत्यर्थः ॥ 8 ॥ एवं गायत्रीज्ञानस्य प्रतिग्रहदोषनाशकत्वादिकं फलमुक्तं तद्गायत्रीमुखपरिज्ञान एव सम्यक्‌ फलदं नान्यथेति भावेन गायत्रीमुखपरिज्ञानस्यावश्यं सम्पाद्यत्वेकाञ्चनाख्‌यायिकामाह ॥ एतद्धेति ॥ जनकोवैदेहो बुडिलं नामत अश्ऱ्वतराश्ऱ्वस्यापत्यमाश्ऱ्वतराश्ऱ्वस्यापत्यमाश्ऱ्वतराश्ऱ्विं प्रतितदेतद्य्वमाणमुवाच ह वै प्रसिद्धं किंतत्‌ हे बुडिलत्वं नु इदानीमहं गायत्रीविदस्मीति यदब्रूथास्तत्‌ त्वद्वचनं हो आश्ऱ्चर्यकरं त्वं गायत्रीविन्नभवसीति तात्पर्यं कुत इत्यत आह ॥ अथेति ॥ यदित्वं गायत्रीवित्स्याः अथ तर्हि हस्तीभूतोमूर्खः सन्‌ प्रतिग्रहदोषं कथं वहसीति गायत्रीवेदनस्य प्रतिग्रहदोषनाशकत्वात्ततुप्रतिग्रहदोषवत्त्वान्नगायत्रीवित्त्वमिति भावः । एवमुक्तोबुडिलोहेसम्राट्‌ मद्योग्यतानुसारेण गायत्रीविदप्यहं हि यस्मादस्यागायत्ऱ्यामुखं प्रथमाक्षरस्थां देवतां न विदां चकार न ज्ञातवानस्मि तस्मान्नममप्रतिग्रहदोषोगत इत्युवाचह किं गायत्रीमुखमित्यतः श्रुतिः स्वयमाह ॥ तस्या इति ॥ तस्यागायत्ऱ्यामुखं प्रथमाक्षरस्थमग्निरेवाग्निमण्डलगोग्निनामापरशुरामदेवः । तज्ज्ञानिनः फलं सदृष्यान्तमाह ॥ यदीति ॥ यद्यप्यग्नावग्निस्थेपरशुरामे बह्विवबह्वेवेन्धनमभ्यादधति निक्षिपन्ति हवा इति प्रसिद्धिद्योतकं तथापि सोग्निस्थस्तत्सर्वमेव यथा सन्दहति एवं तथा एवं वित्‌ गायत्रीमुखस्थ भगवद्रूपवित्‌ यद्यपि बह्विवपापं कुरुते तथापि सगायत्रीमुखगतपरशुरामज्ञानी तत्प्रसासात्तत्सर्वमेवपापं सम्प्सायसम्भक्षयित्वाशुद्धोनिर्दोषो त एव पूतः पवित्रीभूतोन्यानपिपवित्रीकरणसमर्थो वा अजरोजराशून्योमृतोमुक्तः सम्भवतीत्यर्थः ॥ 9 ॥ चतुर्दशब्राह्मणम्‌ ॥ 14 ॥ एवं पूर्वोक्तविद्यासु भगवदुपासनं तत्साक्षात्कारद्वारामोक्षसाधनमित्युक्तं तत्रेश्ऱ्वरसाक्षात्कारोनोपासनामात्रेण भवति नापि मोक्षः साक्षात्कारमात्रेण किन्तु भगवत्प्रसादादेवेत्यतः कृतोपासनेन साक्षात्कारार्थं प्राप्तसाक्षात्कारेपि मोक्षार्थं भगवत्प्रार्थनं कार्यं तत्प्रकारप्रदर्शनार्थं हिरण्मयेन पात्रेति ब्राह्मणमारभ्यते तत्र सगुणब्रह्मप्राप्त्यर्थमेक ऋष्यादिशब्दाभिधेयमादित्यं प्रतिमार्गयाचनमनेन क्रियत इत्यन्यथाप्रतीतिनिरासाय ब्राह्मणं प्रमाणेन व्याचष्ये ॥ सूर्यमण्डलेति ॥ मुखमिति समस्तविग्रहोपलक्षणम्‌ । यदि हिरण्मयेन पात्रेण सत्यस्य मुखमपि हितं तर्हि तस्यान्यविषयज्ञानं न स्यादित्याशङ्कां परिहरति ॥ जगत्सर्वमिति ॥ नन्वेतद्विरुद्धमित्यत आह ॥ अमितविक्रम इति ॥ सूर्यमण्डलेपात्रशब्दं निर्वक्ति ॥ उदकमिति ॥ तत्त्वं पूषन्नपावृण्विति वाक्यं व्याचष्ये ॥ पूषेति ॥ पुषपुष्याविति धातोः यथाभूतस्य धर्मस्यानुष्ठातासत्यधर्मेति व्याख्यानमसत्‌ । सत्यस्यापि हितमिति सत्यशब्देन विष्णोः प्रकृतत्वेन प्रकृतपरित्यागापत्तेरिति भावेन तदर्थमाह ॥ विष्णुधर्मिण इति ॥ विष्णुं धारयतीति विष्णुधर्मीतस्येत्यर्थः । नच विष्णोरनाधारत्वात्‌ कथमेवं व्याख्यानं विष्णुं हृदये धारयतीति व्याख्यानात्‌ । हृदये विष्णुदारणं चादरनैरन्तयर्ोपेतं तद्धयानादिकमेव तच्चभक्तस्यैव सम्भवतीति विष्णुधर्मीति विष्णुभक्त एवोच्यते अत एवोक्तमन्यत्र सत्यधर्माय भक्तायेति अनेन श्रुतौ सत्यधर्मायेति चतुर्थीषष्ठयर्तेत्युक्तं भवति । यद्यपि मन्त्रे अपावृण्विति प्रार्थनं अत्र प्रकाशयेदिति स्वरूपकथनं तथापि मन्त्रतात्पर्यमात्रोक्तिरित्यदोषः । एकं प्रधानम्‌ । अन्यत्रा विष्णुधर्मित्वाभावे पूषन्नेकषर्ेयमसूर्यप्राजापत्येत्यत्र पूषन्नित्यस्य व्याक्यातत्वादितरान्‌ शब्दान्व्याचष्ये ॥ नान्य इति ॥ एकं प्रधानऋषिर्ज्ञानं यस्यासावेकऋषिः यथोक्तं

?Rप्रधानज्ञानरूपतोविष्णुरेक ऋषिरिति ज्ञानस्य प्राधान्यं च तत्सदृशज्ञानान्तरराहित्यमित्यभिप्रेत्यैव मुक्तं नियमनात्सर्वस्येति शेषः

?Rऊरीकृतेरुदकस्य स्वभक्तस्य वाङ्गीकृतेः प्रजापतेः हिरण्यगर्भस्यायं प्राजापत्य इत्यभिसन्धायसम्बोधोदर्शितः । प्रजापतेरेव ज्ञेय इति विशेषेणेति शेषः । योसावसौ पुरुषः सोहमस्तीत्यत्र द्विरसाविति किमर्थमुच्यत इति शङ्कां निवारयंस्तद्वयाचष्ये ॥ प्राण इति ॥ एकस्यासावित्यस्यार्थः प्राण इति ॥ ननु यद्यसुःप्राणस्तस्मिन्नसावित्यर्थः स्यात्तर्हि एतदनन्वितं स्यात्‌ क्रियापेक्षत्वादधिकरणस्येत्यतः क्रियाध्याहारेणान्वयं दर्शयति ॥ स्थित इति ॥ असावसाविति वीप्सार्थतयाकिं न व्याख्यायत इति चेन्न । एवं व्याख्याने विष्णोः प्राणाख्यप्रतीकस्याप्युक्तिलाभात्‌ ॥ हेयत्वादिति ॥ न हीयत इत्यहेयमित्यर्थः । असुत्वात्प्राणरूपत्वात्‌ वायुरनिलममृतमिति वाक्यमेवं भूतस्य मे शरीरपाते सति त्स्थोवायुराध्यात्मिकः प्राणः अनिलं बाह्यं वायुं अमृतमाधिदैविकं प्रतिगच्छतु । अथेदं शरीरं भस्मान्तं सत्‌ पृथिवीं प्रतियात्विति परैः व्याख्यातं तदसत्‌ । अवश्यभाविन्यर्थेप्रार्थनायोगात्‌ । प्रकरणा(दप्यु)दुपपत्तेर्बलीयस्त्वात्‌ । अतो लिङ्गव्यत्ययेन विभक्तिव्यत्ययेन वासमानाधिकरणान्येतानि पदानि । ननु तर्हि वायरनिलमिति पुनरुक्तिरित्यत आह ॥ अदोषत्वादिति ॥ अ इत्युक्तः हरिरिति वर्तते यतो वायुस्तन्निलयः स हरिरेवनिलं निलय आश्रयोयस्यासौ तन्निलयः तत एवानिलमिति कीर्त्यत इत्यर्थः । अमृतञ्चेति कीर्त्यते अतिरोहितविज्ञानादिति शेषः । ननु विष्णुप्रार्थनप्रकरणेवायोरनिलत्वामृतत्वोक्तिरसङ्गतेत्यत आह ॥ तदाश्रय इति ॥ स हरिराश्रयोयस्यासौतदाश्रयः । तथाच कैमुत्येनेश्ऱ्वरामृतत्वं साधयितुं वायोरमृतत्वमत्रोच्यते । वायोरमृतत्वमात्रेण कथमीश्ऱ्वरामृतत्वं कैमुत्यलभ्यमित्यतोनिलयपदेन वायोरीश्ऱ्वराश्रितत्वमुच्यत इति नासङ्गतिरिति भावः । ॐ क्रतोस्मरेत्युक्तक्रतुशब्दं निर्वक्ति ॥ क्रतुश्ऱ्चेति ॥ क्रतुर्मनीषेत्यभिधानादित्यर्थः । अग्नेनयेत्यग्निशब्दं व्याचष्ये ॥ सोग्निरिति ॥ अङ्गं शरीरमप्रदानं जगद्वानयतीत्यग्निरित्यर्थः । विश्ऱ्वानिवयुनानिविद्यानित्यस्यार्थमाह ॥ विश्ऱ्वेति ॥ त्वद्दत्तयावयुनयेदमचष्यविश्ऱ्वमिति प्रयोगाद्वयुनशब्दोज्ञानवाचीति भावेन विश्ऱ्वज्ञानेत्युक्तम्‌ । जुहुराणं कुटिलमित्यन्यथाप्रतीति निरासाय तदनूद्य व्याचष्ये ॥ जुहुराणमिति ॥ अन्यथा यदस्मान्कुरुतेऽत्यल्पांस्तदेनोस्मद्वियोजयेति वचनविरोधादिति भावः । तस्योपनिषदहमित्यत्र योसावसौपुरुष; सोहमस्मीत्यत्र चाहंशब्दो हेयत्ववाचीत्युक्तं तदुपपादयति ॥ नवेति ॥ अत्राहंशब्दस्याहेयत्ववाचित्वं प्रागेवोपपादितम्‌ ॥ 15 ॥ ततश्ऱ्चायं खण्डार्थः ॥ हिरण्मयमिवहिरण्मयं ज्योतिर्मयं पिबतिरसां स्त्रायते च जगदिति पात्रं तेन हिरण्मयेन पात्रेण सूर्यमण्डलेन सत्यस्य सद्गुणपूर्णस्यादित्यमण्डलान्तर्गतस्य तव मुखं वपुरपिहितमस्ति । हेपूषन्‌ तद्वपुः सत्यधर्मायत्वद्विषयध्यानादिमते मह्यं दृष्ययेममत्वद्दर्शनसिद्धयर्थमिति यावत्‌ । अपावृणु अपगता वरणं कुरु । हे पूषन्नेकर्षेयमसूर्यप्राजापत्य मदीयान्नश्मन्‌ व्यूह तेजश्ऱ्च समूह स्वरूपं बाह्यं च मदीयं ज्ञानं विस्तारयेति यावत्‌ । तथाच यत्तेरूपं कल्याणतमं तत्तेप्रसादादहं पश्यामि । असुःप्राणस्तस्मिन्नसौस्थितोयः पुरुषः सोसावहेयत्वेनासुत्वमेयत्वाभ्यां चाहमस्मिनामकस्तंच पश्यामीति वाक्यशेषः । ननु मुख्यप्राणान्तर्गतस्य भगवतस्सोहमस्मीति नित्यास्तित्वं कल्याणतमत्वं चोक्तं तदयुक्तम्‌ । मुख्यप्राणदेहस्य भस्मान्तर्गतस्य परमेश्ऱ्वरस्य न मरणादिदोषप्रसङ्गः कुतः अनिलः परमेश्ऱ्वराश्रितवायुरपि यदाऽमृतोथतदापरमेश्ऱ्वोऽमृत इति किमुवक्तव्यमिति तदमृतत्वस्य कैमुत्यसिद्धत्वादित्यर्थः । अथप्रणवप्रतीकं भगवन्तं प्रार्थयते ॥ ॐ मिति ॥ ॐ ओतत्वादिगुणयुक्तं क्रतो ज्ञनरूप मांस्मरमयाकृतं ध्यानादिकं स्मर अभ्यासस्तात्पर्यार्थः । नित्यज्ञानस्वरूपस्य विष्णोः भक्तविषयकस्मरणं नाम तदनुग्रहोन्मुखत्वमेव नतु संस्कारकाणकं ज्ञानमिति ध्येयम्‌ । यथोक्तं भक्तानां स्मरणं विष्णोः नित्यज्ञाप्तस्वरूपतः । अनुग्रहोन्मुखत्वन्तु नैवान्यत्किञ्चिदिष्यत इति । एवं साक्षात्कारप्रार्थमनानन्तरमभ्निप्रतीकं भगवन्तं मोक्षं प्रार्थयते ॥ अग्न इति ॥ हे अग्ने अस्मान्‌ सुपथापुनरावर्तिवर्जितेनार्चिरादिमार्गेण राये मोक्षाख्यवित्ताय नय । कुतः हेदेव अस्मसदनुष्ठितानिविश्ऱ्वानि सम्पूर्णानिमोक्षाय पर्याप्तानीति यावत्‌ । वयुनाति ज्ञानानि भवान्वेद प्रारब्धकर्मप्रतिबद्धस्य कथं मोक्ष इत्यत उक्तम्‌ ॥ युयोधीति ॥ अस्मज्जुहुराणं अस्मानल्पीर्वत्‌ संसारे परिवर्त यदिति यावत्‌ । एनः पापमनिष्यं कर्मेति यावत्‌ अस्मद्युयोधि अस्मत्तोवियोजय । वयन्ते तुभ्यं भक्तिज्ञानाभ्यां भूयिष्ठां नम इत्युक्तिं विधेम नतु तत्प्रतिकर्तुं शक्नुम इत्यर्थः ॥ इति प्रञ्चदशब्राह्मणम्‌ ॥ 15 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचित श्रीमद्बृहदारण्यभाष्यटीकायां रघुवर्यतीर्थपूज्यपादशिष्यणघूत्तमयतिकृतायां पदवाक्यप्रकाशिकायां सप्तमोध्यायः ॥ 7 ॥

?Rहरि ॐ सप्तमाध्यायोक्तविद्याशेषभूताविद्या अष्यमाध्यायेनिरूप्यन्ते । तत्रादौ प्राणविषयां विद्यामाह ॥ योहवा इत्यादिना ॥ अत्रेन्द्रियाणां जडानामेव परस्परं विवाद उच्यत इति प्रतीति निरासाय तद्ब्रह्मणं प्रमाणेन व्याचक्षाणस्तावत्तात्पर्यमाह ॥ अहमिति ॥ अहं श्रोयानित्यर्थे विवादं असमर्था जाताः स वायुः सुरनायकः निश्ऱ्चित इति शेषः । एवं

?Rतात्पर्यतोव्याख्यायते हेमेप्राणा अहं श्रेयसे विदमानाब्रह्मजग्मुरिति वाक्यं व्याचष्ये ॥ विवदन्त इति ॥ अहं श्रेयानहं

?Rश्रेयानिति विवदन्त इति सम्बन्धः । तद्धोवाच यस्मिन्व उत्क्रान्त इदं शरीरं पापीयोमन्यते सर्वोवसिष्ठ इति वाक्यं तात्पर्यतोव्याचष्ये ॥ उक्तमिति ॥ त्यक्ते देह इति शेषः । सवोवसिष्ठ इत्यनन्तरं वक्तव्यमाह ॥ इत्युक्ता इति ॥ वाग्धोच्चक्रामचक्षुर्होच्चक्रामेत्यादीनि वाक्यानि व्याचष्ये ॥ उत्क्रान्ताश्ऱ्चेति ॥ तद्धिज्ञप्त्यैभगवदुक्तपरीक्षशर्थं सासंवत्सरं प्रोष्याऽगत्योवाचेत्यादि एवमजीविष्मेत्यन्तानि वाक्यानि अत्र वागादिशब्दैः प्रसिद्धवागादिकमुच्यत इत्यन्यथाप्रतीतिनिरासाय तात्पर्यतो व्याचष्ये ॥ सुपर्णेति ॥ अत्र सुपर्णशेषरुद्राः मनोभिमानिनः इन्द्रः श्रोत्राभिमानी सूयश्ऱ्चक्षुरभिमानी आदिपदेन वागभिमान्यग्नीरेतोभिमानी वरुणश्ऱ्च ग्राह्यः । यथोक्तमन्यत्र । अग्निरेवतु उपचारतोवसिष्य; स्यात्प्रतिष्ठैवं रविस्तथा । सम्पदिन्द्रस्तथैवोक्तोरुद्र आयतनं तथेति वरुणोवीर्यदेवतति च । नन्वेकस्योत्क्रान्तत्वात्कथं शरीरं न पपातेत्यत आह ॥ ऋत इति ॥ अनेन यथाऽकला अवदन्तो वाचाप्राणन्तः प्राणेन पश्यन्तश्ऱ्चक्षुषा ृण्वन्तः श्रोत्रेण विद्वाससोमनसाप्रजायमानारेतसेत्यादीनि वाक्यानिव्याख्यातानि । अथ हप्राण उत्क्रमिष्यन्नित्यादि न वैशक्ष्यामस्त्वदृते जीवितुमितीत्यन्तवाक्यस्य तात्पयमाह ॥ प्राण इति ॥ एतदेवकैमुत्येन साधयति ॥ प्राणं विनेति ॥ यदा प्राणं विना ब्रह्मापि स्थातुं नैवशक्तस्ततस्तदाऽन्येस्थातुं न शक्ता इति कुतः किमु इति सम्बन्धः । यद्वा यदा यस्माद्ब्रह्माप्यसमर्थः ततस्तस्मादन्येकुतः कारणाच्छक्ता इत्यर्थः । तर्ह्येवं प्राणोनन्यापेक्षः किं नेत्याह ॥ तं विनेति ॥ तं ब्रह्माणं विनाप्राणोपिस्थातुं नैवशक्त इत्यर्थः । प्राणब्रह्माणौ परस्परानाश्रयेणस्थातुमशक्तौ चेत्कथं तिष्ठत इत्यत आह ॥ अन्योन्येति ॥ नन्वेवं सति उदासीनवदास्तां तौ केशवश्ऱ्चाब्जसम्भवः । तेषां बलपरीक्षार्थमिति हरेः विरिञ्चस्य तु मध्यसंस्थिते स्तदन्यदेवाधिपतिः समारुत इति वचनेन विरोधः स्यादिति चेन्न । अत्रापि प्राणकलहेब्रह्मणोप्रवेशात्‌ श्रुतौ तथानुक्तत्वात्‌ प्राणं विनेति वचनं तु प्राणब्रह्मणोः स्वस्वशरीरेस्थातुं परस्परं सापेक्षावेवसमर्थौ नतु निरपेक्षौ । वायुं विना ब्रह्मणोपि शरीरं पूतिमेष्यति । वायुश्ऱ्च शोषमायातिविनाब्रह्माणमित्युक्तत्वात्‌ । सतिचैवं यदावायुव्यतिरेकेण ब्रह्मास्वशरीरस्थितावसमर्थः किम्वन्य इत्येवं परम्‌ । ननु यस्माच्छाराद्देवा नामुत्क्रमणमासीत्सोपि ब्रह्मदेहः तथाच कथं विष्णुं ब्रह्माणं विना वायुमात्रेण तद्देहावस्थानमिति चेत्‌ न । तयोस्तत्रोदासीनमात्रत्वेन नियमेन व्यतिरेकाभावादिति ज्ञेयम्‌ । ते होचुर्माभगवन्नु(उ)त्क्रामीर्नवैशक्ष्यामस्त्वदृते जीवितुमिति वाक्यफलितमाह ॥ तस्मादिति ॥ तथाच श्रुत्यन्तरं तं हाभिसमेत्चुर्भगवन्नेधित्वं नःश्रेयोऽसिमोत्क्रामीरिति ॥ 1 ॥ ततश्ऱ्चयं खण्डार्थः ॥ प्राणज्ञानमवश्यं सम्पाद्यमिति भावेन तज्ज्ञानिनः फलमाह ॥ योहावा इति ॥ योऽधिकारी अखिलदेवानां वयसाज्येष्ठं गुणतः श्रेष्ठञ्च वेद स इहैवस्वानां मध्येज्येष्ठश्ऱ्च भवति ज्येष्ठश्ऱ्चक इत्यत आह ॥ प्राण इति ॥ न केवलं प्राणस्य ज्येष्ठत्व श्रेष्ठत्व वेत्तुरुक्तं फलमैहिकमात्रं ज्ञायते किन्तु मौक्तञ्चेति भावेन फलान्तरमाह ॥ ज्येष्ठश्ऱ्चेति ॥ य एवं वेदसः न केवलमुक्तौ स्वनां मध्य एव अपिच अपितु मुक्तावपि येषां मध्येज्येष्ठश्ऱ्चश्रेष्ठश्ऱ्चबुभूषति भवितुमिच्छति तेषां मध्येज्येष्ठः श्रेष्ठश्ऱ्च भवतीत्यर्थः । यथोक्तं यःश्रेष्ठंज्येष्ठमखिलं देवानां वायुमञ्जसा । वेदसः स्वसमानानां ज्यष्ठश्रेष्ठोविमुक्तिग इति ॥ 2 ॥ योहवैवसिष्ठां वसतामुत्तमां वेद स इहैवस्वानां स्वकीयानां वसिष्ठोवसतामुत्तमो भवति । कावसिष्ठेत्यत आह ॥ वाग्वा इति ॥ वागभिमान्यग्निरित्यर्थः । यथोक्तं अग्निरेवतु । उपचारतोवसिष्यः स्यादिति । न केवलं वाचोवसिष्ठात्ववेत्तुरुक्तमैहिकमात्र फलं किन्तु मौक्तं चेति भावेन फलान्तरमाह ॥ वसिष्ठ इति ॥ यथोक्तं समीपे वसतां श्रेष्ठोवसिष्ठस्यैव वेदनादिति ॥ 2 ॥ यो हवैप्रतिष्ठां वेदस ज्ञानी यदि एतल्लोकेस्थितीच्छुः तदासमेसर्वप्राप्यतया सर्वसाधारणे अस्मिन्ललोके प्रतिष्ठति । यदि स्वर्गादिलोकेस्थितीच्छुः तदादुर्गेगन्तुमश्य अमुष्मिन्स्वर्गादिलोकेप्रतितिष्ठति । तथाच श्रुत्यन्तरम्‌ । यो हवैप्रतिष्ठां वेदप्रतिहतिष्ठत्यस्म?िल्लोकेमुष्मिंश्ऱ्चेति काप्रतिष्ठेत्यत आह ॥ चक्षुर्वैप्रतिष्ठेति ॥ चक्षुः सूर्यः यथोक्तं प्रतिष्ठैवं रविस्तथेति ॥ तदुपपादयति ॥ चक्षुषाहीति ॥ न केवलं सूर्यस्य प्रतिष्ठात्ववेत्तुरुक्तं फलमैहिकमात्रं किन्तु मौक्तं चेति भावेनाह ॥ प्रतितिष्ठतीति ॥ य एवं वेद स ज्ञानी यदि सान्तानिकलोकस्थितीच्छुस्तदा समेसर्वयोग्यसाधारणे अस्मिन्‌ सान्तानिकलोके प्रतितिष्ठति । यदि विष्णुलोकेस्थितीच्छुस्तदादुर्गेऽन्यैर्गन्तुमश्ये विष्णुलोके प्रतितिष्ठतीत्यर्थः । यथोक्तं एकस्थाने स्थितिस्तुस्यात्प्रतिष्ठाज्ञस्य चेच्छत इति ॥ 3 ॥ यो हवैसम्पदं वेद सः इहयं कामं कामयते सोस्मैज्ञानिसम्पद्यते ह कासम्पदित्यत आह ॥ श्रोत्रमिति ॥ श्रोत्राभिमानिनी इन्द्रः । यथोक्तं सम्पदिन्द्रस्तथैवोक्त इति । तदुपपादयति ॥ श्रोत्रेहीति ॥ तज्ज्ञानिनोमौक्तं चोक्तं फलमाह ॥ समिति ॥ यथोक्तं सम्पद्वेत्तुः सम्पदः स्युरिति ॥ 4 ॥ यो हवा अयतनं वेद सस्वानां स्वकीयानामायतनं गृहमाश्रयो भवति । न केवलं स्वानामेव किन्त्वन्येषामपि जनानामायतनं भवति ।

?Rकिमायतनमित्यत आह ॥ मन इति ॥ मनोभिमानिनः शेषसुपर्णरुद्राः । यथोक्तं रुद्र आयतनं तथेति । तत्र

?Rसुपर्णशेषरुद्रेत्यतद्भाष्यानुसोण रुद्रशब्दोऽन्योपलक्षकः । तज्ज्ञानिनोमौक्तं चोक्तं फलमाह ॥ आयतनमिति ॥ यथोक्तं गऽहंचायतनं विदुरिति ॥ 5 ॥ यो हवैप्रजापतिं वेद सप्रजयापशुभिश्ऱ्च प्रजायते प्रकृष्यो जायते कः प्राजापतिरित्यत आह ॥ रेत इति ॥ रेतोभिमानीवरुणः मौक्तं च फलमाह ॥ प्रजायत इति ॥ 6 ॥ प्राणस्य ज्येष्ठत्वं श्रेष्ठत्वं चोक्तं तत्कुत इत्यतो मीमांसया समर्थितत्वादिति भावेननाख्यायिकामाह ॥ तेहेम इति ॥ त इमेपूर्वोक्ताः प्राणाः वायुपुरः सराः देवाः अहं श्रेयसे अहं श्रेयानित्यर्थे विवदमानाः ब्रह्मनारायणाख्यं प्रति जग्मुर्ह । तत्र गत्वादेवास्तन्नायणाख्यं ब्रह्मप्रत्यूचुः किमिति नोस्माकं मध्ये कोवसिष्ठः श्रेष्ठ इति । एवमुक्तं तद्ब्रह्म देवान्‌ प्रत्युवाच किमिति वोयुष्माकं मध्ये यस्मिन्नुत्क्रन्ते अस्माच्छरीरान्निर्गते सति इदं शरीरं ब्रह्मशरीरं पापीयः पापिष्ठं मन्यते लोकः स वायुष्माकं मध्ये वसिष्ठः श्रेष्ठ इति यसिस्मन्नुत्क्रान्ते सत्यन्येस्थातुमशक्ताः सः श्रेयानिति भावः ॥ 7 ॥ एवमुक्ते सति तत्परीक्षणायतेषां मध्ये वागुच्चक्रामह तदुत्क्रमणेपि शरीरं न पपातेति ग्राह्यम्‌ । सोत्क्रान्तावाक्‌ संवत्सरं संवत्सरपर्यन्तं प्रोष्यान्यत्रस्थित्वा पुनर्ब्रह्मदेहस्थान्‌ देवान्प्रत्यागत्योवाच । किमिति यूयं मदृते मां विना जीवितुं स्थातुं कथमशकतेति । एवमुक्तास्तेदेवाः ऊचुर्ह यथा अकलामूकाः वाचावागिन्द्रियेणावदन्तोपि प्राणेन प्राणन्तः चक्षुषापश्यन्तः श्रोत्रेण ृण्वन्तो मनसाविद्वांसो रेतसाप्रजायमानाः प्रजामुत्पादयन्तो जीवन्ति एवमजीविष्मेति । एवमुक्ता वाक्‌ नाहं वसिष्ठेति निश्ऱ्चित्यतस्मिन्‌ शरीरेप्रविवेशह ॥ 8 ॥ एवं चक्षुर्होच्चक्रामेत्यादि व्याख्येयम्‌ ॥ 9 ॥ 10 ॥ यथामुग्धाः षण्मासाः बालाः मनसाऽविद्वांसः । यथोक्तं षण्मासात्पूर्वबलानां केवलं प्राणतो भवेत्‌ । व्यापार्यं मनसासर्वमतः पश्ऱ्चादपस्मृतिरिति ॥ 11 ॥ 12 ॥ अथह यथालोकेमहासुहयः महांश्ऱ्चासौ सुहयश्ऱ्चेति महासुहयः परिमाणतोमहान्सुशोभनलक्षणोपेतो हयः सैन्धवः सिन्धुदेशभवः अश्ऱ्वपरीक्षार्थं पुरुषेणारूढः कशावेत्रादिनाताडितश्ऱ्च पट्वीशाङ्कून्‌ पटनशीलाः पटवस्तेषां संहतिः पट्वी तस्याः ईशानियामकाः पट्वीशाः पट्वीशाश्ऱ्चते शङ्कवश्ऱ्चेति तथोक्तास्तान्‌ । यद्वा पटुभूतस्य हयस्येशानियामकाबन्धका इति यावात्‌ । पट्वीशाः तेचतेशङ्कवश्ऱ्चेति तथोक्तास्तान्‌ संवृहेदुन्मूलयेदेवमेव प्रोमुख्यप्राण उत्क्रमिष्यन्‌ इमान्प्राणान्‌ वागादीन्संबबर्ह स्वस्वस्थानाद्भ्रंशितवान्ह । एतावताकिं सिद्धमित्यत आह ॥ तेहेति ॥ B-38

?Rते इमेप्राणा ऊचुर्ह किमिति हे भगवान्‌ अस्माच्छरीरात्‌ मोत्क्रमणं माकुरु । कुतः यस्मात्‌ वयं त्वदृतेजीवितुं न वैशक्ष्यामः नैवशकनुम इति । यद्येवं मच्छ्रेष्ठता भगवद्भिर्ज्ञाता तर्हि तस्य उभवताश्रेष्ठत्वेनावधृतस्य मे यूयं बलिजाङ्कुरुतेति प्राणेनोक्तादेवास्तथेति पूजाङ्कुर्म इत्युचुः ॥ 13 ॥ तत्प्रकारं दर्शयति ॥ सेति ॥ सापूर्वोक्तावागुवाच हे प्राणाहं वसिष्ठास्मिवततामुत्तमोस्मीति यत्‌ त्वं तद्वसिष्ठासिवै त्मेवमयि स्थित्वामदीयवसिष्ठात्वनियामक इत्यर्थः । एवमुत्तरत्रापि । इति चक्षुरुवाचेति सम्बन्धः । यतोक्तं ज्येष्ठःश्रेष्ठोवासिष्ठश्ऱ्च सम्पदायतनं तता । वायुरेव महानिति सर्वेन्द्रियाणं व्यापान्‌ प्राण एव करोत्ययम्‌ । इन्द्रियस्थाः पृथक्‌ चासौ शक्तोपि स्वयमेवत्विति च । एवमुक्तः प्राणस्तस्योमेकिमन्नं किं वास इत देवान्प्रत्युवाच । एवमुक्तादेवा ऊचुः आश्ऱ्वभ्य आकृमिभ्य; आकीटपतं गेभ्यश्ऱ्चकृमिकीटपतङ्गपर्यन्तप्राणिभिः यदिदं किं चान्नमद्यते तत्तेन्नं आपस्तैः पीयमानावास इति । तवसर्वप्राणिस्थत्वात्तदद्यमेवतवान्नं तत्पेयमेवतववास इत्यर्थः । नन्वेतदन्नं वासश्ऱ्चप्राणस्य पूर्वमेव सिद्धं कथं देवैः दत्तमिति चेत्‌ सिद्धस्यैव देवैः स्वार्थं समर्पणात्‌ । यथोक्तं सिद्धमेवान्नवस्त्राद्यं विष्णोः स्वतन्त्ऱ्यतस्तदा । स्वार्थं समर्पयेद्विष्णोः यथाप्राणेसुराः पुरेति । सर्वाद्यस्य प्राणान्नत्ववेत्तुः फलमाह ॥ नहवा इति ॥ य एवमुक्तप्रकारेण एतत्सर्वप्राभिरद्यमानं सर्वं अनस्य सर्वप्राणिषु स्थित्वाचेष्यकस्य मुख्यप्राणस्यान्नं वेद अस्य प्राणान्नविदः कदाचिदभक्ष्यभक्षणेपि अनन्नमभक्ष्यं जग्धं भक्षितं नैव भवति ह । तथा यद्यप्ययमप्रतिग्राह्यं प्रतिगऽह्णाति तथाप्यन्नमप्रतिग्राह्यं नैव परिगृहीतं भवति । प्रामादिकाभक्ष्यभक्षणाप्रतिग्राह्यप्रतिग्रहकृतदोषेण लिप्यत इति भावः । नेदं सर्वाद्यस्य प्राणान्नविदः फलं किन्तु स्तुत्यर्थमेवोच्यते । फलं च प्राणातमभाव एवेति वदतोमायावादिनः श्रुत हानिरश्रुतपरिग्रहश्ऱ्च । यस्मादापोवासस्तत्तस्माद्विद्वांसः श्रोत्रिया अधीतच्छन्दसोब्राह्मणाः अशिष्यन्तो भोक्ष्यमाणाभोजनात्प्राक्‌ अप आचामन्ति । अशित्वाभुक्त्वाचाचामन्ति । केनाभिप्रायेणेत्यत आह ॥ एतमेवेति ॥ एतमेवानं चेष्याकं मुख्यप्राणं तत्तेन भोजनोभयत अपां भक्षणेन अनग्नं वस्त्राच्छादितं कुर्वन्तोमन्यन्ते यस्मादेवं पूर्वेविद्वांसः कुर्वन्ति । तस्मादधुनाप्येवं विद्वानशिष्यन्नाचामेदशित्वाचाचामेत्‌ । एवं कुर्वतः फलं प्राणस्य वस्त्रबुद्धयातु भोजनोभयतः पिबन्‌ । स्वर्गेमुक्तौ तथादिव्यवस्त्रलाभूभवत्यलमिति वचनादवगन्तव्यम्‌ ॥ 14 ॥ प्रथमब्राह्मणम्‌ ॥ 1 ॥ पञ्चाग्निविद्यामाख्यायिकापूर्वमाह ॥

?Rश्ऱ्वेतकेतुर्हवा इति ब्राह्मणेन ॥ तत्र तेय एवमेतद्विदुरिति पञ्चाग्निस्वरूपवेत्तॄणामर्चिरादिद्वाराब्रह्मलोकं प्राप्तानां न

?Rपुनरावृत्तिरिति पुनरावृत्तिशून्यत्वमुच्यते ॥ तदयुक्तम्‌ । ब्रह्मज्ञानेनैव पुनरावृत्तिशून्यलोकप्राप्तेः प्रमाणसिद्धत्वात्‌ । पञ्चाग्निविद्यायाश्ऱ्चाऽब्रह्मविद्यात्वादित्यतः तामपि ब्रह्मपरतया प्रमाणेन व्याचष्ये ॥ द्युपर्जन्येति ॥पपञ्चाग्निविद्यावेत्तुरैहिकं च फलमाह ॥ नास्येति ॥ इदानीमभावेपि कालान्तरेस्यादित्यत आह ॥ कदाचनेति ॥ यद्यप्यस्यां श्रुतौ इदं फलं नोक्तं तथापि च्छन्दोगश्रुतौ अथ य एतानेवं पञ्चाग्नीन्‌ वेद न सहतैरप्याचरन्‌ पाप्मनालिप्यत इति हिरण्यस्तेनादिपञ्चमहापातकिभिः सहचरतोपि तत्संसर्गदोषोनास्तीत्युक्तत्वादत्रापि तद्ग्राह्यमिति भावेनाचार्यैरुक्तं उत्तरब्राह्मणे सयः कामयते महत्प्राप्नुयामितीत्यत्र महच्छब्दो भावप्रधानः महत्त्वं च न केवलमैहिकं किन्तु आमुष्मिकं चेत्याह ॥ दृष्यादृष्येति ॥ यथोक्तम्‌ । ज्येष्ठश्रेष्ठादिकैः हुत्वाप्राणायात्रपरत्र च । ज्येष्ठः श्रेष्ठः समानेभ्योभवेन्नात्र विचारणेति । एषां भूतानां पृथिवीरस इति चतुर्थब्राह्मणे पुत्रप्रजातिकर्मोच्यते तत्किमर्थं वक्तव्यमित्य आह ॥ अनेनेति ॥ अत्र प्रमाणमाह ॥ यथेति ॥ उपनिषदुक्तप्रकारमनतिक्रम्येत्यर्थः । उपनिषदुक्तकर्मानुष्ठानमात्रेण जातः पुत्रः कथमपवर्गयोग्य इत्यतस्तत्र विशेषमाह ॥ यदीति ॥ संयोगावसर इति शेषः । पित्रोः मातापित्रोः ननूपनिषदुक्तप्रकारेण कर्मानुष्ठानाभावेपि यदासंयोगावसरेपित्रोः मनोविष्णुगं तदाजातः पुत्रः कीदृश इत्यत आह ॥ नकुर्यादिति ॥ यदि पित्रोस्तुमनः स्थितरं विष्णुगमिति सम्बन्धः । स्थिरमिति क्रियाविशेषणं तदा जातः पुत्र इति शेषः मोक्षयोग्यः भवेदित्यनुवर्तते । ननूपनिषदुक्तकर्माकणेपि जातः पुत्रेदृष्यसामर्थ्यवान्‌ क्वचिद्दृष्योऽतः कथमेवमुच्यत इत्यत आह ॥ दृष्येति ॥ आज्ञाद्यैः महतामिति शेषः । आद्यशब्दाद्वरादिग्रहणं आज्ञादिरूपविशेषकारणाभावे । यथोक्तं उपनिषदुक्तकर्मानुष्ठानाभावेपि जातः पुदिष्यसामथ्वर्यहीन इत्युक्तं अन्यथानभवेदित्यर्थः । द्यपिर्जन्यधरापुंस्त्रीसंस्थितमिति द्युपर्जन्यादिषु नारायणादिपञ्चरूपोहरिस्तिष्ठतीति स एव द्युपर्जन्यादिशब्दाभिधेय इत्युक्तम्‌ । इदानं द्युपर्जन्यादिशब्दां स्तासुमूर्तिष नर्वक्ति ॥ नारायण इत्यादिना ॥ द्युतिहेतुतोज्ञानहेतुत्वात्‌ । यद्यपि श्रुतावसौ वैलोक इत्येवश्रूयते नतु द्युशब्दः तथापि तस्य द्युलोकपरत्वमभ्यपेत्यद्युशब्दोव्याख्यातः । यथा श्रुतस्य तु व्याख्यानं असौ लोकः प्रकाशत्वात्प्राणस्थत्वाच्चेकशव इत्यन्यत्र कृतमनुसन्धेयम्‌ । परमुत्तमं चतुर्मुखं परमस्य सकाशाज्जन्यमिति पर्जन्य इत्यर्थः । प्रथितत्वाद्देवेषु प्रसिद्धत्वात्‌ अयं वैलोक इत्यस्य पृथिवीपरत्वमभ्युपेत्यदं व्याख्यानं यद्वा पृथिवी वा वगौतमाग्निरिति च्छन्दोग्येऽभिधानात्पृथिवीशब्दव्याख्यानं तस्य पृथिव्येवसमिदिति पृथिवीशब्दोप्येवमेव व्याख्यातव्यः । नचास्यैव पृथिवीशब्दस्येदं व्याख्यानमिति युक्तं तस्य पृथिवीशब्दस्य नारायणपरत्वेन सङ्कर्षणपरत्वाभावात्‌ । पूरयेदिति ॥ पॄपालनपूरणयोरिति धातुः । सहितः स्थितः तथाच स्त्रीत्यत्र सकारः सहितत्वार्थक इति भावः । केषु त्रिषुस्थितोनिरुद्ध इत्यत आह ॥ अनिरुद्धोहीति ॥ यद्यपि श्रुतौ योषावा अग्निरिति योषाशब्दोस्ति तथापि तात्पर्यायस्त्रीशब्दोत्र निरुक्तः । यथाश्रुतस्य तु योषाज्योष्योयतोखिलैरिति व्याख्यानं द्रष्यव्यम्‌ । ननु यद्येवं द्यपर्जन्यादिशब्दाः परमात्मपरास्तर्हि प्रसिद्धद्युपर्जन्यादिषु तद्वयवहारोन स्यात्‌ । नच ब्रहमवाचका अपिशब्दाः हानादिव्यवहारसिद्धयर्थं ज्ञानिभिरन्यत्र व्यवहियन्ते अन्यैस्त्वज्ञानादेवेति वाच्यम्‌ । तथासत्यवाचकत्वाविशेषेणघटादिशब्दानां पादौ व्यवहारप्रसङ्गात्‌ इत्यत आह ॥ द्युवादिष्विति ॥ द्युपर्जन्याद्यनतर्गतभगवत एव द्यपर्जन्यादिशब्दुख्यभिधेयत्वात्‌ तत्सम्बन्धात्प्रसिद्धेषु द्युपर्जन्यादिषु द्युपर्जन्यादिशब्दवृत्तिरित्यर्थः । पञ्चस्थलेषु स्थितानामग्न्यं गारार्चिर्विष्फललिङ्गसमिच्छब्दानां प्रसिद्धाथर्त्वप्रतति निरासायाभिधेयमाह ॥ तथाग्न्यादिरिति ॥ यथाद्युपर्जन्यादिशब्दवाच्यः परमस्तथाग्न्य दिशब्दवाच्यश्ऱ्चेत्यर्थः । कथमित्यतस्तांच्छब्दांस्तत्रनिर्वक्ति ॥ अदनादिति ॥ सर्वस्यं संहारादित्यर्थः । अग्निः भवेदिति सम्बन्धः । अर्च्यतवात्पूज्यत्वात्‌ विष्वक्त्वाद्विविधस्फुरणादित्यर्थः । यथोक्तं विविधं स्फुरणाच्चैव विष्फुलिङ्ग इतीरित इति यद्वा विष्वक्त्वात्‌ विष्वक्‌ देशस्थत्वादित्यर्थः । समेधनात्‌ सम्यग्वर्धनात्‌ सर्वात्तमत्वादिति यावत्‌ । अग्न्यादिशब्दपञ्चकवाच्भगवतः स्थलविशेषमाह ॥ तत्र तत्रेति ॥ यद्वा नारायणशदेः द्युपर्जन्यादिशब्दवाच्यत्वेनिमित्तांतरमाह ॥ तत्र तत्रेति ॥ नन्वेवं तर्हि द्युवादिशब्दानामन्यत्र व्यवहारोनस्यात्‌ नच द्युवादिषुप्रसिद्धेषु तत्सम्बन्धात्‌ द्युवादिकः शब्दोभवेदित्युक्तमिति वाच्यं तथात्वे द्युपर्जन्यादिशब्दानां प्रसिद्धद्युपर्जन्यादिषु लक्षणेतरवृत्त्यभावापत्तेः इति चेन्न । परमात्मसम्बन्धेनान्येषामपि वाच्यत्वाङ्गीकारादित्यत आह ॥ इतरेत्विति ॥ वचनव्यत्ययेन वाच्या इत्यनुवर्तते इदानीं आदित्य एव समित्‌ रश्मयोदूम इत्युक्तादित्यरश्म्य हरादिशब्दाभिदेयमाह ॥ आदित्य इति ॥ अवस्थिताः हरावितिशेषः । द्युपर्जन्य धरापुंस्त्रीरूपपञ्चभेदा उक्तास्तेष्वपि भगवांस्तिष्ठतीत्युक्तं तन्मूर्तिविशेषमाह ॥ एकैकस्मिन्निति ॥ यथा पञ्चस्वग्निषु नारायणादिभेदेन पञ्चभेन प्चभेदाः प्रतिपादिता इत्यर्थः । अयमत्र विवेकः । द्युस्थोद्युशब्दोक्तो नारायणः

?Rपुनर्नारायणाद्यात्मनापञ्चविधः तत्र नारायणः समित्‌ वासुदेवोधूमः सङ्कर्षणोर्चिः प्रद्युम्नोङ्गारः । अनिरुद्धोविष्फुलिङ्ग इत्यादि ।

?Rपूर्वं धूमशब्दस्याव्याख्यातत्वात्‌ व्याचष्ये ॥ धूत्करादिति ॥ धूञ्‌कं पन इति धातोः अर्च्यत्वादर्चिरित्यक्तं तन्नसर्वसाधरण्येनेत्यत आह ॥ अर्चिरिति ॥ स्वाङ्ग इति ॥ स्वयं स्वाङ्गत्वनार्यते इत्यङ्गार उदीर्यत इत्यर्थः । ननु स्वस्यांगित्वात्कथमङ्गत्वमित्यत आह ॥ अङ्गित्वेनेति ॥ प्राचीनवचनामप्येवमेव व्याख्येयम्‌ । अत्र वंशब्रह्मणे अङ्‌भृण्यादित्यादिति अंभृण्या अदित्याद्विद्याश्रवणमुच्यते । तदयुक्तं तस्यारमात्मकत्वेनादित्याद्विद्याश्रवणायोगादित्यत आह ॥ नीचादपीति ॥ ज्ञायते अनेनेति ज्ञानं शास्त्रमित्यर्थः । तर्हि किमाधिक्यज्ञापकमित्यत आह ॥ यस्येति ॥ पूर्वं आदित्योरश्मिरित्याद्याः शब्दाश्ऱ्चैवमस्थिता इत्यादित्यशब्दाभिधेयोभगवानित्युक्तं इदानीं तां च्छशब्दांस्तत्र निर्वक्ति ॥ आदानादिति ॥ हविरादीनामिति शेषः । रमणात्‌ रतिरूपत्वादित्यर्थः । शामनादन्येषां सुखकरणादित्यथर्ः ॥ अहीनत्वादिति ॥ कस्यापि अपेक्षयानीचत्वाभावादित्यथर्ः । चन्द्रमा अङ्गार इत्युक्तचन्द्रशब्दं निर्वक्ति ॥ चन्दनादिति ॥ आह्लादनादित्यर्थः । नक्षत्राणिविष्फुलिङ्गा इत्युक्तनक्षत्रशब्दं व्याचष्ये ॥ अस्येति ॥ क्षत्रं रक्षकं विष्णोरेकत्वान्नक्षत्राणीति बहुवचनं कथमित्यत आह ॥ बहुरूपत्वादिति ॥ नक्षत्राणां बहुत्वेन तदन्तर्गतस्यापि बहुरूपत्वादित्यर्थः । अयंन्यायोन्यत्राप्यनुसन्धेयः ॥ ज्ञानादिति ॥ वातेर्गत्यर्थत्वाद्गत्यर्थस्य च ज्ञानार्थत्वादित्यर्थः । आयुष्ट्वादायुः प्रदत्वादित्यर्थः । यद्यप्यस्यामुपनिषदिवायुपदं न श्रूयते ततापि पर्जन्योवागौतमाग्निस्तस्य वायुरेव समिदितिच्छान्दोग्ये अयं वैलोकाग्निर्गौतमास्य पृथिव्येवसमिद्वायुर्धूम इति माध्यन्दिनाय न शाखायां चाभिहितत्वाद्वायुशब्दोव्याख्यातः । सर्वविद्यानिणर्शयकपूर्णप्रज्ञेनतस्या अपि विद्यायानिर्णेयत्वात्‌ अभ्राणिधूमोविद्युदर्चिरशनिरङ्गाराह्रादुनयोविष्फुलिङ्‌गा इत्युक्ताभ्रादिशब्दचतुष्ययं निर्वक्ति ॥ अन्यैरित्यादिना ॥ अशनात्सर्वस्य संहारात्‌ निर्ह्रादनान्नितरां हर्षणशदित्यर्थः ॥ आसमन्तादिति ॥ यद्यप्यस्यां श्रुतावाकाशशब्दो न श्रूयते तथापि पृथिवी वा वगौतमाग्निस्तस्याः संवत्सर एव समिदाकाशोधूम इति च्छन्दोग्ये श्रवणादाकाशशब्दो व्याख्यातः । तस्य संवत्सर एव समिदित्युक्तं संवत्सर शब्दं व्याचष्ये ॥ सम्यगिति ॥ वत्सान्‌ भक्तानित्यर्थः । दिशोङ्गारा अवान्तरदिशोविष्फुलिङ्गा इत्युक्तदिगवान्तरदिक्‌ शब्दौ व्याचष्ये ॥ आदेशनादित्यादिना ॥ प्रधानस्य परमात्मस्वरूपस्यादेशनादित्यर्थः । रात्रिरर्चिरित्युक्तरात्रिशब्दं व्याचष्ये ॥ रतिकरत्वादिति ॥ प्राणोधूमोवागर्चिश्ऱ्चक्षुरङ्गाराः श्रोत्रं विष्फुलिङ्गा इत्युक्त वाक्‌ प्राणचक्षुःश्रोत्रशब्दान्निर्वक्ति ॥ वचनादिति ॥ जहातीति ॥ जुहु इत्यस्यार्थो जहातीति वा इत्यस्यार्थोगमयतीति स्वभक्तानां पापं जहातिपरित्याजयति मोक्षं प्रति च गमयतीत्यर्थः । यद्यप्यस्यां श्रुतौ अयंशब्दो न श्रूयते तथापि छान्दोग्येजिह्वाऽर्चिरिति श्रवणात्तच्छब्दोव्याख्यातः । उपस्थ एव समिदित्युक्तोपस्थशब्दं व्याचष्ये ॥ उपस्थितत्वादिति ॥ सर्वजीवानां हृदयस्थितत्वेन समीपेस्थितत्वादित्यर्थः । योनिरर्चिरित्युक्तयोनिशब्दं व्याचष्ये ॥ यापयतीति ॥ ग्रामादिकं यापयतिसत्कर्मणिनयतीत्यर्थः । सज्जनान्मोक्षं प्रति यापयति दुर्जनां स्तमःप्रतिनयतीति वार्थः । अभिनन्दाविष्फुलिङ्गा इत्युक्ताभिनन्दशब्दं निर्वक्ति ॥ अभीति ॥ यदुपमन्त्रयते सधूम इति च्छान्दोग्योक्तस्योपमन्त्रणस्य यदन्तःकरोति ते अङ्गारा इत्यत्रोक्तस्यान्तःकरणस्य च पुरुषर्कृकत्वप्रतीति निरासाय तद्वयाचष्ये ॥ उपमन्त्रणमिति ॥ यद्यप्यादानादादित्य इत्यादिभाष्यं नैतदुपनिषदुक्तक्रमेण नापि च्छन्दयोग्योक्तक्रमेण तत्र प्रथमाग्नौ अदित्य एव समित्‌ रश्मयोधूमोरात्रिरर्चिश्ऱ्चन्द्रमा अङ्गारानक्षत्राणिविष्फुलिङ्गा इत्युक्तत्वात्‌ रात्रिशब्दस्य चात्रान्ते व्याख्यातत्वात्‌ । नापि माध्यन्दिन शाखोक्तक्रमेण तत्र प्रथमाग्नौ तस्यादित्य एव समिद्रश्मयोधूमोहरर्चिश्ऱ्चन्द्रमा अङ्गारानक्षत्राणिविष्फुलिङ्गा इत्युक्तत्वेपि द्वितीयाग्नौ तस्य संवत्सर एव समिदित्युक्तत्वात्‌ । अत्र च नक्षत्रशब्दव्याख्यानानन्तरं वायुशब्दव्याख्यानात्‌ । तथापि प्रथमाग्नौ माध्यन्दिनशाखोक्तक्रममनुसृत्यादित्यादिशब्दपञ्चकव्याख्यानं द्वितीयतृतीयचतुर्थपञ्चमाग्नौ तु च्छन्दोग्योक्तक्रममनुसृत्यवायुशब्दादिविंशतिशब्दव्याख्यानम्‌ । तथाहि च्छान्दोग्येद्वितीयाग्नौ तस्य वायुरेवसमिदभ्रं धूमोविद्युदर्चिरशनिरङ्गाराह्रादुनयोविष्फुलिङ्गा इत्युक्तात्वात्‌ । अत्रापि वाय्वादिशब्दपञ्चकस्य व्याख्यानात्‌ । तृतीयाग्नौ यद्यपि तस्याः संवत्सर एव समिदाकाशोधूमोऽहरर्चिर्दिशोङ्गारा अवान्तरदिशोविष्फुलिङ्गा इत्युक्तं तथापि संवत्सराकाशशब्दयोर्व्यत्यासमात्रेण व्याख्यानम्‌ । अहःशब्दस्य माध्यन्दिन शाखायां प्रथमाग्नावेवसत्वेन तत्र तदुक्तक्रममनुसरताप्रागेवव्याख्यातत्वात्‌ अत्र न व्याख्यातः । च्छान्दोग्ये प्रथमाग्नौरात्रिरर्चिरित्युक्तत्वेनोर्वरितः सरात्रिशब्दोऽत्रव्याख्यातः । नचोर्वरितस्यान्ते व्याख्यानं स्यादिति वाच्यं काण्वमाध्यन्दिनशाखयोः तृतीयाग्नौ रात्रिरर्चिरित्युक्तत्वेनात्रैवतस्य व्याख्येयत्वात्‌ । चतुर्थाग्नौतस्य वागेवसमित्‌ प्राणोधूमलोचिह्वार्चिश्ऱ्चक्षुरङ्गाराः श्रोत्रं विष्फुलिङ्गा इत्युक्तत्वादत्रापि वागादिशब्दपञ्चकस्य व्याख्यानात्‌ । माग्नावपि तस्या उपस्थ एव समित्‌ यदुपमन्त्रयते सधूमोयानिरर्चिर्यदन्तः

?Rकरोतिते अङ्गारा अभिनन्दाविष्फुलिङ्गा इत्युक्तत्वात्‌ । B-39

?Rत्राप्युपस्थादिशब्दपञ्चकस्य व्याख्यानादिति मन्तव्यम्‌ । उभयशाखोक्तक्रमानुसरणं त्वस्भाष्यस्य तुभयशाख्नर्णाकत्वमप्यस्तीति ज्ञापनार्थम्‌ । अत एव च्छान्दोग्यभाप्यभिहितम्‌ । आदित्यः स तथा दानात्‌ रश्मीरतिशरूपतः । तमसाहननीयत्दहश्ऱ्चन्द्रःपरं सुखम्‌ । अनन्यराजोनक्षत्रं वायुः ज्ञानायुयूपतः । अभ्रमब्भरणाद्विष्णुर्विद्युत्‌ विद्‌तनादपि । अशनादशनिश्ऱ्चैवनिर्ह्रादात्‌ ह्रादुनिस्तथा । संवत्सरोवासनाच्च स आकाशः प्रकाशनात्‌ । रात्रिश्ऱ्चरतिदानात्सदिशतीति दिशः स्मृतः । अवान्तरं दिशेद्यस्मादवान्तरदिगुच्यते । वचनाद्वाक्‌ तथाप्राणस्त्वननाच्चक्षुरुच्यते । दर्शनाच्छ्रवणाच्छ्रोत्रं जिह्वावैहोमतः स्मृतः । उपस्थितेरुपस्थः स उपमन्त्रकृदेवसः । योनिः युनक्तियस्मात्ससवर्ान्तः कृच्चनन्दन इति । यद्वा विवक्षितश्रुतिक्रममनुसृत्य प्रवृत्तमुदाहृतवचनमनुसृत्यैव प्रास्तदुक्तक्रमेणैव आदित्यादिशब्दव्याख्यानमिति द्रष्यव्यम्‌ । एवं द्युपर्जन्यादिशब्दप्रवृत्तिनिमित्ताधिकरणत्वेन विष्णुर्द्युपर्जन्दशब्दाभिधेय इत्युक्तम्‌ । इदानं प्रसिद्धद्युपर्जन्यादिगतद्युपर्जन्यादिशब्दप्रवृत्तिमित्तस्य भगवदधीनत्च्चच्छब्दवाच्यत्वमिति भावेनाह ॥ तदधीनमिति ॥ यथा भृत्यगतजयस्य राजाधीनत्वेन राजाजयीत्युच्ते तथेत्यर्थः । नचान्यगतशब्दप्रवृत्तिनिमित्तप्रेरकेशब्दप्रवृत्तिरमुख्यास्यादिति वाच्यम्‌ । राजनिविजयिशब्दस्य बहुलप्रयोगात्‌ । बहुलप्रयोगसिद्धस्यैव च मुख्यत्वादिति भावेन मुख्याभिधेय इत्युक्तम्‌ । नन्वेवं सत्यन्यत्र व्यवहारो न स्यात्‌ । तत्संबन्धादन्यत्र शब्दवृत्त्यङ्गीकारे लक्षणामात्राङ्गीकारापत्तेः । नचान्त्रापि वचनवृत्तिरङ्गीक्रियत इत्रत वाच्यं तथासत्युभयोरपि मुख्यवाच्यत्वापातात्‌ । परमात्मसम्बन्धेनान्त्र शब्दवृत्तिरित्यपि न वैपरीत्यस्यापि वक्तुं शक्यत्वादित्त आह ॥ अन्यानति ॥ उपचारतोभिधेयानति सम्बन्धः । तदधीनं यतः सर्वमित्तदत्रापि सम्बध्यते । यतः सर्वं तदधीनमतः स्वतन्त्रपरमात्मसम्बन्धेनैवान्न उपचारतोभिदेयानि । नत्व्यसम्बन्धेन परमात्मोपचारतोऽभिधेयो नवोभयोः मुख्याभिधेयत्वमिति भावः । तदुक्तं एवमेवहिशब्दानां प्रसिद्धिरपि लौकिकी । वाचकत्वं प्रधानस्य त्वितरस्तदन्वयादिति । अन्यगतशब्प्रवृत्तिनिमित्तस्य भगवधीननत्न भगवानेवान्यवाचकत्वेन प्रसिद्धशब्दमुख्यार्थ इत्यत्र सूत्रमुदाहरति ॥ तदधीनत्वादिति ॥ सर्वस्य तदधीनत्त्तस्मिन्नेव सर्वशब्दजातमर्थवदित्यर्थः । नन्ववं सर्वेषां शब्दानां परमात्मपरत्वे कथमन्यत्र व्यावहारः । तत्सम्बन्धादन्यत्र शब्दप्रवृत्तौ लक्षणामात्रस्वीकारापत्तेः । नचान्यत्रापि योगरूढ्यादिवृत्त्यङ्गीकान्नदोषः । तथासत्भयोः मुख्यवाच्यत्वापातात्‌ । योगरूढ्योरेवमुख्यवृत्तित्वात्‌ । नह्यक्षादिशब्दानां रूढ्यादिनैवानेकार्थवाचिनां क्वचिन्मुख्यत्वां क्वचिन्नेत्यस्तीत्याशङ्कापरिहाय सूत्रं पठति ॥ समाकर्षादिति ॥ न परमात्मनः सर्वशब्दवाच्यत्वाङ्गीकारे अन्यत्र व्यवहारलोपप्रसङ्गः । अन्यत्ररूढ्यादेरभ्यपगमात्‌ । तथासत्युभयोः मुख्यवाच्यत्वं प्राप्तमितिचेन्न । भवेदेतद्यद्यक्षादिशब्दवदुभयत्रान्न्नरपेक्षाशब्दवृत्तिः स्यात्‌ । नचैवं किन्तु स्वतः परममुख्ययावृत्त्यापरमात्मैकवाचिनां शब्दानां व्यवहासिध्यर्थं ततः समाकृष्यान्यत्र रूढत्न सङ्केतितत्वात्‌ । अल्पप्रवृत्तिनिमित्तानां च तदधीनत्वादिति सूत्राभिप्रायः । एवं पञ्चाग्निविद्याभगवत्परतयाव्याख्याता न केवलमेतावत्‌ किन्त्वयमध्यायः सर्वोपि भगवत्पर इति भावेनैतदयस्य भगवत्परत्वे प्रमाणमाह ॥ पञ्चाग्निविद्ययेति ॥ एवकारत्रयस्य प्रत्यकं पुरुषोत्तम इत्यनेन सम्बन्धः । तेन विद्यानां प्रसिद्धार्थकत्वं व्यवच्छिनत्ति । चशब्दौ तथाशब्दौ च परस्परसमुच्चये । ज्ञानप्रदानतोय आर्चास्तेषां वंशज्ञानादित्यर्थः । यद्वा ज्ञानप्रदानेन योयमाचार्यवंशस्तद्विज्ञानादित्यर्थः । ज्ञानप्रदानत इति आचार्यपुत्रपौदिपरम्पराव्युदासः । नन पञ्चाग्निविद्याया उक्तप्रकारेण भगवत्परत्वेपि प्राणादिविद्यायाः कथं भभगवत्परत्वं तत्र स्पष्यं प्राणादेव प्रतिपाद्‌त्व प्रतीतेरेरित्यतः सर्वत्रयुक्तिमाह ॥ सर्वान्तर्यामिक इति ॥ तथाच प्राणाद्यन्तर्यामिण एव प्राणादिविद्याप्रतिपाद्यत्वमिति भावः । 2 ॥ तथाचायं ब्राह्मणचतुष्यस्याक्षरार्थः ॥ श्ऱ्वेतकेतुर्नामतः अरुणस्यापत्वं आरुणिस्तस्यापत्यमारुणेयोह पित्राऽनुशिष्यः स्वपाण्डित्यख्यापनायपाञ्चालानां परिषदं सभामाजगाम । तत्रागत्यजिबिलस्यापत्यं जैबलिं प्रवाहणं नामतः परिचारयमाज्ञणं स्वभृत्यैः परिचर्यमाणं प्रत्याजगाम । स प्रवाहणस्तमागतं श्ऱ्वेतकेतुमुदीक्ष्यगर्वेगतोयमित्युत्प्रेक्ष्य तद्गर्वशान्त्यर्थं हेकुमारा3इत्यभ्युवादाभ्युक्तवान्‌ । कुमार3इति प्लुतिः भर्त्सनार्था । सश्ऱ्वेतकेतुरपि क्रोधाद्भो इति प्रतिशुश्रावप्रतिश्रावितवान्‌ । एवं प्रतिश्रावितः प्रवाहण आह त्वं पित्रानुशिष्योसिनुकिमिति एवमुक्तः श्ऱ्वेतकेतुरोमिति होवाच ॥ 1 ॥ तत्र प्रवाहणः पृच्छति ॥ वेत्थेत्यादिना ॥ इमाः प्रजाः प्रयत्योलोकान्तरं गच्छन्त्यो यथाविप्रतिपद्यन्ता3यिति येन मागर्ेण विशिष्यस्थानं ब्रह्मलोकं चन्द्रलोकं वाप्रप्नुवन्ति तं मार्गं त्वं वेत्थकिमिति । विप्रतिपद्यन्त3यितिप्लुतिः विचारणार्था । एवं पृष्यःश्ऱ्वेतकेतुः नेति नवेद्मीति होवाच । द्वितीयं पृच्छति ॥ वेत्थेति ॥ पुनरावृत्तिमत्‌ चन्द्रलोकरूपविशिष्यस्थानं गता इमाः प्रजायथायेन मार्गेण इमं लोकं पुनरापद्यन्ता3यिति वेत्थकिमिति किं गतेनैव मार्गेण पुनरागमनं उत मार्गान्तरेणेति भावः । एवं

?Rपृष्यःश्ऱ्वेतकेतुः नेति होवाच । तृतीयं पृच्छति ॥वेत्थेति ॥ एवं प्रसिद्धजरादिनिमित्तेन पुनः पुनः

?Rप्रयद्भिर्गच्छद्भिर्बहुभिरप्यसौ लोकः परलोको यथा येन हेतुना न सम्पूर्यते तं प्रकारं वेत्थकिमिति पृष्यो नेति होवाच । चतुर्थं पृच्छति ॥ वेत्थेति ॥ यतिथ्यां यत्सङ्खयाकायामाहुत्यां हुतायामापः जीवसम्परिष्वक्ताः जीवलब्धदेहाकारपरिणताः पुरुष इति वाक्‌ या सान्ताः पुरुषवाचः पुरुषशब्दवाच्याभूत्वासमुत्थाय वदन्ति वदनादिव्यापारं कुर्वन्ति तामाहुन्ति वेत्थकिमिति पृष्योनेति होवाच । अत्रापः पुरुषवोचोभूत्वेति वचनबलेन मरणकाले भूतानिजीवे न सहगच्छन्तीति प्रष्युरभिप्रेतमित्यवगम्यते । अन्यथाऽप इत्यनुवादायोगात्‌ मरण एव भूतानां निवृत्तौ भूतनिवृत्तेरेवमोक्षत्वेन प्रसिद्धमरण एव मोक्षसम्भवेतदर्थं वैराग्दसाधनानुष्ठानविधानायोगाच्च । तर्ह्यत्राप इति विशेषोक्तेः कथं सर्वाणिभूतानि जवेन सहगच्छन्तीत्यवगन्तुं शक्यमिति चेन्न । अपां क्षिति सलिलानलात्मकत्वेन तद्ग्रहणेऽन्यभूतानामपि प्राप्तेः । नन्वपां भूत्रयात्मकत्वे कथं तर्हि तत्राप्‌शब्द इति चेन्न । मिश्रत्प तत्तद्भूतस्याधिक्येन तत्तद्वयवहारोपपत्तेः । तदुक्तं त्ऱ्यात्मकत्त्तुभूयस्त्वादिति । ननु यदि मरणकाले भूतानि जीवेन सहगच्छन्ति तर्हि तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जह्वतीत्युत्तरत्रोत्क्रान्तस्य श्रद्धेयेष्यवतः श्रद्धासहितस्यैव द्युवाख्यप्रथमाग्नौ होमश्रवणं न स्यात्‌ । भूतानामपि सहगतौ तथोक्तिप्रसङ्गादिति चेन्न । तत्र श्रद्धाशब्द्याऽजहल्लक्षणयाश्रद्धयाऽद्भिश्ऱ्च विशिष्यस्य जीवस्य प्रतिपाकत्वात्‌ यथोक्तं सूत्रकृताप्रथमेश्रवणादिति चेन्न ता एव ह्युपपत्तेरिति । पञ्चमं पृच्छति ॥ वेत्थेति ॥ देवयान्य वापथः पितृयाणस्य वापथः प्रतिपदं वेत्थ उवेत्थकिं किं तत्प्रतिपदमित्यत आह ॥ यदिति ॥ यत्कर्मकृत्वादेवयानं वापन्थानं पितृयाणं वापन्थानं प्रतिपद्यन्ते तत्प्रतिपदं साधनं वेत्थकिमित्यर्थः । ननु देवयानपितृणरू पमार्गद्वयमेवनास्ति । तत्सद्भो प्रमाणाभावात्‌ । अतः कथमयं प्रश्ऱ्न इत्यत आह ॥ अपि हीति ॥ हि यस्मात्‌ नः अस्माभिः मार्गद्यप्रकाशकं ऋषेवर्चोपि श्रुतं अतो मार्गद्वयमस्तीत्यर्थः । तद्वचनमुदाहरति ॥ द्वे इति ॥ मत्यानां मरणशीलानां द्वे एव सृतीमार्गौ अहमृणवम्‌ । के ते देवानां च पितॄणां च सम्बन्धिन्यौ देयानपितृणलक्षणे इति यावत्‌ । यदि मर्त्यानां द्वे एव सृतीतर्हि तमः प्रभृत्यधोगतिः केषाञ्चिन्नस्यादित्यत आह ॥ ताभ्यामिति ॥ एजत्प्रत्यवायाद्बिभ्यत्‌ वेदोक्तप्रवृत्तनिवृत्तकर्मादिसाधनसम्पूर्तमदिति यावत्‌ । इदं विश्ऱ्वं जीवजातं ताभ्यां सृतिभ्यां ब्रह्मस्वर्गं च समेत एजदिति वैदिकानुष्ठानवत उक्तेः नाधोगत विरोधः तन्मार्गद्वयंक्वास्तीत्यत उक्तम्‌ ॥ यदिति ॥ द्यौः नः पितापृथिवीमातेति श्रुतेः पितरं मातरं चान्तराद्यावापृथिव्योः मध्ये यत्‌ यः प्रदेशस्तत्र वर्तत इति यद्वा द्यावापृथिव्योः मध्ये वर्तमानं यदेजदिदं विश्ऱ्वं जीवजातमिति सम्बन्धः इतिशब्दोमन्त्रसमाप्तिद्योतकः । एवमुक्तः श्ऱ्वेतकेतुरहमेतेषु त्वत्कृतप्रश्ऱ्नेषु एकं च नैकमपि न वेदेति होवाच ॥ 2 ॥ अथ स्वकृतप्रश्ऱ्नोत्तरदानासामर्थ्यनिर्णयानन्तरं एनं श्ऱ्वेतकेतुं वसत्यावसति प्रयोजनेन स्वसमीपवासायेति यावत्‌ उपमन्त्रयाञ्चक्रे आज्ञां दत्तवान्‌ । सकुमारः श्ऱ्वेतकेतुः वसति मनादृत्यप्रदुद्राव गतवान्‌ । अथवा एतद्गर्वशान्त्यनन्तरम्‌ । एनं वसत्या उपमन्त्रयाञ्चक्रे इह वसतु भवान्‌ अर्ध्यपाद्दकं ग्रहाणेत्युपमन्त्रणं कृतवान्‌ सकुमारस्तां वसति मनादृत्यगतवानिति । सकुमारः स्वपितरं प्रत्याजगाम आगत्यतं पितरं प्रत्युवाच हेपितस्त्वं इति वावकिलैवं प्रकारेणवै पुरापूर्वं नः अस्माननुशिष्यानवोच इति सम्यक्‌ विद्यामनुक्त्वैनुशिष्यानवोच इति भावः । एवं साक्षेपं पुत्रवचः श्रुत्वापिताऽह ॥ कथमिति ॥ हे सुमेधः कथं त्वं नानुशिष्योसीति । तत्कारणं पुत्र आह ॥ पञ्चेति ॥ राजन्यबन्धुः क्षत्रियाभासः । राजन्याराजपुत्रा एव बन्धवोयस्यासौ राजन्यबन्धू राजश्रेष्ठो वा मामां पञ्चप्रश्ऱ्नान्‌ प्रष्ययार्थानप्राक्षीत्‌ ततस्तेषु प्रश्ऱ्नेषु एकं चनैकमप्यहं न वेदेति । एवमुक्तः पितातेप्रश्ऱ्नाः कतमा इत्याह ॥ पुत्र इमे ते प्रश्ऱ्नाः इति प्रतीकानिप्रश्ऱ्नवाक्यप्रतीकान्युदाजहारोदाहृतवान्‌ ॥ 3 ॥ एवं प्रश्ऱ्नवाक्नश्रुत्वासपितापुत्रक्रोधमुपशमयन्नुवाच । हे तात वत्स यथा येन प्रकारेण यत्किञ्चन यत्किञ्चिद्विद्याजतमहं वेद तत्सर्वं तथा तेन प्रकारेणाहन्तु भ्यमवोचमित्येवं त्वं नोऽस्मान्‌ जानीथा इति त्वत्तः कोऽन्योममप्रियतरोऽस्ति यदर्थमहं रक्षिष्योराजपृष्यां विद्यां अहं न जानामीति भावः । तामपि विद्यां चेदवाप्तुमिच्छसि तर्हि प्रेहि आगच्छ तत्र राजसमीपं प्रतीत्यगत्वा तु आवां विद्याथर्ं ब्रह्मचर्यं वत्स्याव इति पित्रोक्तेपुत्र आह ॥ भवानेव गच्छत्विति इत्युक्तः स गौतमोगौतमगोत्रोत्पन्नः तत्राजगाम कुत्र यत्र प्रवाहणस्य जैबलहेरिति षष्ठीद्वयं प्रथमार्थे जैबलिः प्रवाहणनामाराजा आस आगतं ब्राह्मणं दृष्ट्वा स राजा तस्मैगौतमाय अनुरूपमासनमाहृत्य । अर्ध्यपाद्दसिद्धये उदकं भृत्यैः । आहरयाञ्चकार । अथ उदकहरणानन्तरम्‌ । अस्मैगौतमाय । अर्घ्यं तदुपलक्षितां पूजाञ्चकार । पूजां कृत्वा तं गौतमं प्रति गौतमाय भवतेवरं दद्म इत्युवाच ह ॥ 4 ॥ एवमुक्तः स गौतम उवाच । हे राजन्‌ वरं दद्म इति त्वया प्रति ज्ञातोवरोमे एषः कः कुमारस्य मत्पुत्रस्य अन्तेसमीपेयां वाचं प्रश्ऱ्नरूपां अभाषथास्तां मे ब्रूहीति ॥ 5 ॥ एवं प्रार्थितः स राजोवाच हे गौतम तत्‌ त्वया प्रार्थितं दैवेषु वरेषु वै अतस्तस्य रहस्यत्वात्तन्नप्रार्थनीयं किन्तु मानुषाणां हिरण्दीनां मध्ये

?Rकिमपेक्षितं ब्रूहीति ॥ 6 ॥ एवमुक्तः स गौतम उवाच । ममहिरण्यस्य बहुतरस्यापात्तं प्राप्तिरस्तीति त्वया विज्ञायते न

?Rकेवलं हिरण्यमात्रस्य किन्तु गो अश्ऱ्वानां दासीनां प्रवाराणां परिवाराणां दासानामिति यावत्‌ परिधानस्य प्रधिनयोग्यस्य क्षौमादेरप्यपात्तं प्राप्तिरस्तीति त्वया विज्ञायते ह अतोनमानुषो वरोमाप्रार्थ्यते किन्तु दैव एव सच त्वया देय एवेति भावेनाह ॥ मानोभवानिति ॥ नोऽस्माकं भवान्‌ बहोः प्रभूतस्यानन्तस्यानन्तफलहेतुभूतस्यापर्यन्तस्य अपरिसमाप्तिकस्य पुत्रपौदिगामिकस्य दैववित्तस्भ्यावदान्योऽदातामाभूदिति अवश्यं दैवं वित्तं त्वयादेयमेवेति भावः । बहोः बहुगुणस्यानन्तस्य नाशरहितस्य । अपर्यं तस्येयत्तारहितस्य भगवतस्तद्विद्याया अभ्यवदान्योमाभूदिति वार्थः । एवं प्रार्थितवरं प्रति स राजा हे गौतम तीर्थेनोपसदनशास्त्रेणतदुक्तप्रकोण । विद्यामिच्छसि इच्छस्वेत्याह । अन्यथाऽदेयत्वात्‌ । एवं राज्ञास्मारितशास्त्रार्थोगौतम आह ॥ अहं भवन्तमुपैमिशिष्यत्वेनोपगच्छामिति । नन्वेवं क्षत्रिये ब्राह्मणेन शिष्यवृत्तिकरणे शास्त्रविरोधः स्यादित्यतः श्रुतिः स्वयमाह ॥ वाचेति ॥ पूर्वे हि किल ब्राह्मणाः क्षत्रियान्‌ विद्यामर्थयमानाः सन्तः क्षत्रियान्‌ शिष्यवृत्त्यावाचैवोपयन्ति उपगच्छन्ति । नोपायनशुश्रूषणादिभिः । अतः स गौतम उपायनकीर्त्योपायनकथनमात्रेणोवास ॥ 7 ॥ स राजा तं ब्राह्मणं पुत्रतिरस्कारेण क्रुद्धं मत्वाक्षमापयन्नुवाच । हे गौतम यथा तवपितामहाः अस्मबत्पितामहेषु अपराधं क्षमन्ते तथात्वं नोऽस्मान्‌ मापराध्यास्त्वत्पुत्रस्त रस्कृत इत्यपराधिनोन

?Rकुरु । तमपराधं क्षमस्वेति भावः । यद्वा त्वं नः अस्मान्‌ मापराध्यः अपराधिनोनकुरु तथा तव पितामहाश्ऱ्चनोमापराध्यः अपराधिनोनकुर्वन्तु त्वत्पुत्रतिरस्कारेण ममापराधं त्वं त्वत्पितामहाश्‌चसर्वेक्षमन्तामित्यर्थः । नन्वयमपराधः कुतः क्षन्तव्य इत्यतोमया अपूर्वविद्याप्रदानादिति भावेन वक्ष्यमाणविद्यां स्तौति ॥ यथेति ॥ इयं वक्ष्यमाणाविद्येतः पूर्वं कस्मिंश्ऱ्चन ब्रह्मणे यथा यथावन्नोवास क्षत्रियाणामेवासाधारणविद्येति भावः । तां तु तादृशीमपि अन्तुभ्यं वक्ष्यामियतोऽतोस्मदपराधः क्षन्तव्यः । यथा यथावन्नोवास क्षत्रियाणामेसाधारणविद्येति भावः । तां तु तादृशीमपि अहं तुभ्यं वक्ष्यामियतोऽतोस्मदपराधः क्षन्तव्यः । किमेवमपूवर्अविद्यां दत्वाऽञपराधक्षमबापनेन अपूर्वत्वाद्विद्यैवनोच्यत इति कुतोनोच्यत इत्यत आह ॥ कोहीति ॥ एवं ब्रुवन्तमहं तव शिष्योस्मीति ब्रुवन्तं प्रत्याख्यातुं विद्यां न दास्यामीति निषद्धुकोऽर्हतीत्युवाचेति सम्बन्धः । इतरप्रश्ऱ्नोत्तराणां चतुथर्प्रश्ऱ्नोत्तरपापेक्षत्वात्‌ चतुर्थप्रश्ऱ्नोत्तरं वदन्‌ पञ्चाग्निविद्यामाह ॥ असावित्यादिना ॥ हे गौतम असौ मुख्यप्राणस्थितः लोकः प्रकाशरूपोद्युलोकस्थितोनारायणः अग्निरदनादग्निनामकः । नन्वस्याग्नित्वेतस्य समिदादिकं वक्तव्यमित्यत आह ॥ तस्येति ॥ अयं नारायणः पुनर्नारायणाद्‌त्मकत्वेन पञ्चरूपः तस्य द्युलोकस्थितनारायणाग्नेः समित्‌ समित्स्थानीयः समेधनात्मसमिच्छब्दवाच्यः समित्स्थः नारायणः आदित्य एव आदानारदितन्यनामकस्तदन्तर्गत एव धूमोधूमस्थानीयोधूत्काराद्धूमनामकोधूमस्थवासुदेवः रश्मयः रमणाच्छासनाच्चरश्मिनामकः रश्मिस्थः बहुरूपत्वाद्बहुवचनं अर्चिरर्चिः स्थानीयः अर्च्यत्वादचिर्र्नामकोर्चिः स्थः सङ्कर्षणः अहः अहीनत्वादहर्नामकोहः स्थश्ऱ्च अङ्गाराः अङ्गारस्थानीयाः स्वाङ्गत्वेनार्यते इत्यङ्गारनामका अङ्गारस्थाः प्रद्युम्नरूपविशेषाः दिश आदेशनात्‌ दिङ्‌नामकाः दिक्‌ स्थाश्ऱ्च विष्फुलिङ्गाः विष्फुलिङ्गस्थानीयाः विविधस्फुरणाद्विष्फुलिङ्गनामकाः विष्फुलिङ्गस्था अनिरुद्धरूपविशेषाः अवान्तरमादिशन्तीत्यवान्तरदिशस्तत्स्थाश्ऱ्च तस्मिन्नितस्मिन्द्युस्थेनायणाख्येऽग्नौ देवाः श्रद्धां श्रद्धयेष्यवन्तं अद्भिश्ऱ्चविशिष्यमुत्क्रान्तं जीवं जुह्वति एवं द्युलोकनिक्षिप्तो जीवः तस्या अहुत्या इति चतुर्थपञ्चम्यर्थे तस्या अहुतेः सोमोराजासम्भवति सोमान्तर्गतो भवतीत्यर्थः । हे गौतम पर्जन्यः परमस्य सकाशाज्जन्य इति पर्जन्यनामकोमेघचक्रस्थोवासुदेवोऽग्निर्वैवासुदेवोपि नायणाद्यात्मनापञ्चरूपः तस्य पर्जन्यस्थ वासुदेवाख्याग्नेः समित्तदन्तर्गतोनारायणः संवत्सर एव सम्यग्वत्सान्‌ रमयतीति संवत्सरनामकः संवत्सरस्थ एव धूमस्तत्स्थोवासुदेवः । अभ्राण्यन्यैरभरणीयत्वादभ्रनामकान्यभ्रस्थानि च अर्चिरर्चिस्थः सङ्कषर्णो विद्युत्‌ विद्योतनाद्विद्युन्नामको विद्युत्स्थश्‌च अङ्गास्तत्स्थः प्रद्युम्नोशनिरशनादशनिनामकस्तत्स्थश्ऱ्च । विष्फुलिङ्गाः तत्स्थानिरुद्धरूपविशेषाः ह्रादुनयः निर्ह्रादनात्‌ ह्रादुनिनामकाः गजर्नस्थाश्ऱ्च तस्मिन्नेतस्मिन्पर्जन्याख्याग्नौ सोमं राजानं सोमराजान्तर्गतं जीवं जुह्वति एवं पर्जन्याग्नौहुतो जीवस्तस्या आहुतेः वृष्यिः सम्भवति वृष्ययन्तर्गतो भवतीत्यर्थः ॥ 10 ॥ अयं वैलोकः पृथिवीलोकस्थः पृथिवीनामकः सङ्कर्षणोग्निर्वैसोपिनारायणाद्यात्मनापञ्चरूपः तस्य पृथिवीलोकस्थ सङ्कर्षणाख्याग्नेः समित्‌ तत्स्थोनायणः पृथिव्येवप्रथितत्वात्पृथिवीस्थ एव धूमस्थोवासुदेवोऽग्निरदनादग्निनामकोग्निश्ऱ्च । अर्चिस्थः सङ्कर्षणोरात्रीरतिकरत्वाद्राथिनामकस्तत्स्थश्ऱ्च अङ्गारस्थः प्रद्युम्नश्ऱ्चन्द्रमाश्ऱ्चन्दनाच्चन्द्रमानामकस्तत्स्थश्ऱ्च विष्फुलिङ्गस्थानिरुद्धरूपविशेषाः नक्षत्राणि अस्य क्षत्रमन्यन्नास्तीति नक्षत्रनामकास्तस्थाश्ऱ्च तस्मिन्नेतम?िल्लोकाग्नौ देवावृष्यिं

?Rतदन्तर्गतं जीवं जुह्वति एवं लोकाग्नौतो जीवस्तस्या अहुतेरन्नं सम्भवति अन्नान्तर्गतो भवति ॥ 11 ॥ पुरुषो

?Rजगत्पूरणात्पुरुषनामा पुरषस्थः प्रद्युम्नोऽग्निर्वै सोपि पूर्वपत्पञ्चविधः । तस्याग्नेः समित्स्थोनारायणोव्यात्तमेव व्यात्तनामकः आस्योत्पाटनगः धूमस्थः वासुदेवः प्राणः प्रणयनात्प्राणनामकः तत्स्थश्ऱ्च अर्चिस्थः सङ्कर्षणोवाग्वचनात्‌ वाङ्‌नामातत्स्थश्ऱ्च अङ्गारस्थः प्रद्युम्नः चक्षुश्‌चष्य इति चक्षुर्नामकस्तत्स्थश्ऱ्च विष्फुलिङ्गस्थोनिरुद्धः श्रोत्रं श्रवणाच्छ्रोत्र नामकस्तत्स्थश्ऱ्च तस्मिन्नेतस्मिन्नग्नौ देवा अन्नमन्नान्तर्गतं जीवं जुह्वति एवं पुरुषाग्नौहुतो जीवस्तस्या अहुतेरेतः पुरुषरेन्तोऽन्तर्गतः सम्भवति ॥ 12 ॥ योषा अखिलैर्जोष्यत्वाद्योषानामकः स्त्रीस्थोनिरुद्धोग्निर्वैसोप्युक्तरीत्यापञ्चविधः तस्याग्नेः समित्‌ तदन्तस्थोनायणः । उपस्थ एवोपस्थितत्वादुपस्थनामकस्तदन्तर्गतश्ऱ्च । धूमस्थोवासुदेवोलोमानिलोपकत्वाल्लोमनामको लोमस्थश्ऱ्च अर्चिस्थः सङ्कर्षणोयोनिर्यापयति नयति चेति योनिनामकस्तदन्तस्थश्ऱ्च । अङ्गारस्थाः प्रद्युम्नरूपविशेषाः यदन्तः करोति ते विष्फुलिङ्गस्थानिरुद्धरूपविशेषाः । अभिनन्दा अभिनन्दयतीत्यभिनन्दनामकाः स्त्रीपुंसयोगजाभिनन्दस्थाश्ऱ्च तस्मिन्नेतस्मिन्नग्नौ देवारेतः पुरुषरेतोन्तर्गतं जीवं जुह्वति । एवं योषाग्नौहुतो जीवस्तस्या आहुतेः पुरुषः सम्भवति स्वसहगताबादिभूतारब्धदेहवान्‌ भवतीत्यर्थः । अनेन यतिथ्यामाहुत्यामिति चतुर्थप्रश्‌नस्य पञ्चम्यामाहुत्यां हुतायामापः पुरुषवचसो भवन्तीत्युत्तरमुक्तम्‌ । एवमुत्पन्नस्य व्यापारमाह ॥ स इति ॥ स एवं देहविशिष्योजीवोजीवति कियन्तं कालमित्यत आह ॥ यावज्जीवतीति ॥ यावत्कालपर्यन्तं जवति जीवनहेतुभूतं कर्मतिष्ठतीत्यर्थः ॥ 13 ॥ अथ जीवनहेतुभूतकर्मसमाप्त्यनन्तरमयं पुरुषो यदाम्रियते । अथ तदैनं पुरुषमग्नयेहरन्ति । तदेवविशदयति ॥ तस्याग्निरेवेति ॥ प्रसिद्धाग्निस्थोभगवानित्यर्थः । पुरुषोभास्वरवर्णः सम्भवति निषेकादिभिरन्तेष्ययं तैः कमर्भिः संस्कृतत्वात्‌ ॥ 14 ॥ अथ प्रथमपञ्चमप्रश्ऱ्नोत्तरमाह ॥ तेय एवमिति ॥ ये एवमुक्तप्रकोणैतत्पञ्चाग्निस्थं भगवत्स्वरूपं विदुस्ते ये चामी अरण्येमनोहरप्रदेशेश्रद्धां श्रद्धापूर्वकं सत्यं सद्गुणं भगवन्तमुपासते तेच विशिष्योत्क्रान्त्येमं देहं परित्यज्यार्चिरभिसम्भवति अर्चिर्लोकं प्राप्नुवन्ति । अर्चिषोवायुलोकं गत्वा हर्नामकदेवतालोकं प्राप्नुवन्ति अह्न आपूर्यमाणपक्षं शुक्लपक्षाभिमानि देवतालोकं प्राप्नुवन्ति । आपूर्यमाणपक्षात्‌ यान्‌ षण्मासान्‌ आदित्य उदङ्‌ङुत्तरतः एति । तान्‌ षण्मासान्‌ उत्तरायणसंज्ञकान्‌ तदभिमानिदेवतालोकं प्राप्नुवन्ति । मासेभ्यः संवत्सरतटिद्वरुणप्राप्तिद्वारादेवलोकं प्रजापतिलोकं प्राप्नुवन्ति देवानां संवत्सरतटित्‌ वरुणप्रजापतीनां लोकमिति वार्थः । देवलोकादित्यं लोकं प्राप्नुवन्ति । आदित्यात्सोमवैश्ऱ्वानरेन्द्रध्रुवद्वारावैद्युतं विद्युन्नामकभारत्यधिष्ठित लोकं प्राप्नुवन्ति । मानवः मनु अवबमोधन इति धोतोः मनुर्ज्ञानरूपः परमात्मा तदतिप्रेमास्पत्वेन तत्सम्बन्धीमानवःपुरुषो वायुस्तान्वैद्युतान्‌ विद्युल्लोप्राप्तान्‌ जीवानेत्यब्रह्मलोकान्‌ चतुर्मुखलोकान्विष्णुलोकान्वाप्रतिगमयति । अत्र वायोरन्यस्यापि ब्रह्मलोकगमकत्वशङ्कापरिहायमानव इत्युक्तम्‌ । नहि लोकेराजां यः कश्ऱ्चित्प्रापयति क्लृप्तमतिप्रियं चाऽपहायेति भावः । तथाच श्रुतिः । वायुरेव ब्रअह्मगमयति तस्य ह्येषाशक्तिः नह्यन्योब्रह्मगमयति प्रियोह्येनद्गमयति नह्यन्यः प्रियोब्रह्मण इति । ते ब्रह्मलोकं गताः परा उत्तमास्तेषु ब्रह्मलोकेषु परावतः परं ब्रह्मायुः तद्‌न्तः तावत्सङ्खयाकान्‌ संवत्सरान्वसन्ति । तेषां तल्लोकगतानां न पुनरावृत्तिः ॥ 15 ॥ एवं देवयानमार्गं ससाधनमुक्त्वापि तृयाणमार्गं ससाधनमाह ॥ अथेति ॥ अथ ये यज्ञेन ज्योतिष्योमादिना । दानेन सत्पात्रेद्रव्यत्यागेन । तपा कृच्छ्रचान्द्रायणादिना । कामनयाकृतेन लोकान्‌ चन्द्रलोकान्‌ जयन्ति प्राप्नुवन्ति । तत्कथमित्यत आह ॥ तेधूममिति ॥ ते प्रथमं धूमं धूमाभिमानिदेवता लोकं अभिसम्वन्ति प्राप्नुवन्ति धूमाद्रात्रिंरात्ऱ्यभिमानि देवता लोकं अभिसम्भवन्तीति प्रत्येकं सम्बन्धः । रात्रेरपक्षीयमाणपक्षकृष्णपक्षाभिमानि देवतालोकं प्राप्नुवन्ति । अपक्षीयमाणपक्षात्‌ यान्‌ षण्मासनादित्योदक्षिणादक्षिणत एति तान्षण्मासान्दक्षिणायनसंज्ञकान्‌ तदभिमानि देवता लोकं प्राप्नुन्ति । मासेभ्यः पितृलोकं पितृलोकाच्चन्द्रं प्राप्नुवन्ति । ते चन्द्रं प्राप्यान्नं भवन्ति देवानां भोग्याभवन्तीत्यर्थः । तद्विशदयति ॥ तांस्तत्रेति ॥ देवास्तं श्ऱ्चन्द्रलोकं प्राप्तान्भोग्यान्कर्मिणः पुरुषान्‌ तत्र चन्द्रलोके भक्षयन्ति तैः सेवां कारयन्तीत्यर्थः । तत्र दृष्यान्तमाह ॥ यथेति ॥ यथा यज्ञेऋत्विजः सोमं राजानं तदभिमन्यमानलताविशेषमाप्यायस्वाप्यायनं कुविर्ति पुनरपक्षीयस्वालपक्षयं कुर्विति कंचित्प्रत्युक्त्वातदानीयभक्षयन्ति एवमेनान्कर्मिणः तत्र देवलोकेत्वं स्वात्मानमाप्यायस्वानेन कर्मफलेन आत्मन आप्यायनं कुरु । अपक्षीयस्वतादृशकर्मफलेनात्मनोपक्षयं कुर्वित्यर्थः । एवं ते य एवमेतद्विदुर्येचामी अरण्ये श्रद्धां सत्यमुपासते अथ ये यज्ञेन दानेनेत्दना देवयानपितृयाणमार्गसाधनोक्त्यापञ्चमप्रश्ऱ्नस्य ते अर्चिरभिसम्भवन्ति ते धूममित्यादिनाप्रथमप्रश्ऱ्नस्य चोत्तरमुक्त्वा इदानीमेतल्लोकप्राप्तिप्रकारदर्शनेन द्वितीयप्रश्ऱ्नोत्तरमाह ॥ तेषामिति ॥ तेषां चन्द्रलोकप्राप्तानां कमिर्णां तत्‌ कर्मार्जितमदृष्यं यदापर्यवैतिगच्छति । अथ तदा ते इममेवाकाशमाकाशलोकमभिनिष्पद्यन्ते । आकाशाद्वायुं वायोः वष्यिं

?Rवृष्येः पृथिवीमभिनिष्पद्यन्त इति प्रत्कं सम्बन्धः । ते पृथिवीं प्राप्यान्नमन्नगता भवन्ति । पुनः पुरुषाग्नौ हूयन्ते । ततो योषाग्नेः

?Rजायन्ते ते कर्मकृत्वालोकान्पुनरावृत्तिलोकान्‌ प्रत्युत्थायिनोगमनशीला भवन्ति । ते लोकं प्रतिगताः एवमेवपूर्वोक्तप्रकारेणैवाऽनुस्वकर्माजिर्तादृष्यसमाप्त्यनन्तरं परिवर्तन्ते पुनरागच्छन्ति । ते एवमेवानुपरिवर्तन्ते परिभ्रमन्तीत्यर्थः । तृतीयप्रश्ऱ्नोत्तरमाह ॥ अथेति ॥ अथ ये एतौ पन्थानौ विद्याकर्ममार्गौनविदुस्तेकीटाः पतङ्गा भवन्ति यदिदं दन्दशूकं दशनशीलं सर्पादिकं तच्चभवन्तीत्यर्थः । यथोक्तं "" ?Rविद्यापथः कर्मपथोद्वौपन्थानौ प्रकीर्तितौ । तद्वर्जितास्त्रिधायान्ति तिर्यग्वानरकं तम ’’ इति । सर्वेषां परलोकगमनाभावादसौ लोको न सम्पूर्यत इति भावः ॥ 1 ॥ द्वितीयब्राह्मणम्‌ ॥ 2 ॥ योधिकारीदृष्यादृष्यमहत्त्वमिच्छेत्तस्य कर्तव्यविशेषमाह ॥ सय इत्यादिनाब्राह्मणेन ॥ योधिकारी अहं महत्‌ महत्त्वं दृष्यादृष्यमहत्त्वं प्राप्नुयामिति कामेयेत स उदगयने उत्तरायणे आपूर्यमाणपक्षस्य शुक्लपक्षस्य पुण्याहेपुण्यदिवसे पुंसानक्षत्रेण हस्तस्वात्यादिपुंनक्षत्रेण जुहोति जुहुयादित्यन्वयः । तति कर्तव्यताविशेषमाह ॥ द्वादशाहमिति ॥ होमदिवसात्प्राक्‌ द्वादशाहं द्दशदिवसपयर्न्तमुपसद्व्रतीभूत्वापयोमात्रादिभक्षणेनोपवालक्षणव्रतवान्‌ भूत्वा औदुम्बरे उदुम्बरवृक्षमयेच मसेचमसपात्रे । कं सेकांस्य पात्रे वा सर्वोषधं सर्वासामोषधीनां वक्ष्यमाणवअीह्यादिधान्यनां समुदायं फलानि अनिषिद्धानिक्रमुककदलीप्रभृतीनिफलानीत्येवमादिसम्भरणीयं सम्भृत्य संगृह्य परिसमूह्यभूशुद्धिं कृत्वा परिलिप्य कुण्डमुपलिप्य तत्राग्निमुपसमाधाय स्थापयित्वा परिस्तीर्यस्वशाखोक्तिप्रकारेण दर्भैरास्तीर्य आवृताज्यं होमाज्यं विलापनादिना संस्कृत्य मन्थं सर्वौषधीनां पिष्यं संनीयसमीपमानीय संस्कताज्येन जुहोति । होममन्त्रान्पठंस्तावद्देवताप्रार्थनारूपं मन्त्रद्वयं पठति ॥ यावन्त इत्यादिना ॥ जातं सवर्अं वेत्तीति जातवेदाः तस्य सम्बुद्धिर्हेजातवेदः सर्वज्ञाग्न्यंतर्गत भगवन्‌ त्वयि स्थितायान्तो देवास्तिर्यंचोवक्रगतयः सन्तः पुरुषस्य ममकामान्‌ घ्नन्ति । तेभ्योदेवेभ्यः भागधेयमाज्यभागमहं जुहोमि ते गृहीताज्यभागादेवास्तृप्ताः सन्तोमामांसर्वैः कामैः स्तर्पयन्तु स्वाहेति प्रथमाहुतिमन्त्रः । अहं विधरणीविघ्नकत्रर्ीति या देवतातिरश्ऱ्चीवक्रगतिः निपद्यते ज्ञायते तां संराधनीं समस्तपुरुषार्थसाधिकां त्वात्वां अहं घृतस्य धारयायजेस्वाहेति द्वितीय होममन्त्रः । प्रथमाहुतिद्वयमाज्यमात्रेण घृतस्य धारयेति श्रवणात्‌ तथाचेयं योजना । संराधनीमहं स्वाहेति मन्त्रेणाग्नावाज्यं हुत्वा मन्थेसर्वौषदीनां पिष्ये संस्रवंस्रुवसंस्पृष्यमाज्यमवनयति सिञ्चेत्‌ । एवमाज्यसंस्कृतं पिष्यं ज्येष्ठायस्वाहाश्रेष्ठाय स्वाहा तस्यैव विवरणं प्राणायस्वाहेति मन्त्रेणाग्नौ जुहुयात्‌ । एवमग्नौ हुत्वा पुनर्मन्थेसंस्रवमवनयति । तदाज्यसंस्कृतं पिष्यं वसिष्ठायै स्वाहा ॥ तस्यैव विवरणं वाचेस्वाहेति जुहुयादित्यादि दृष्यव्यम्‌ । एतेनाग्नौ हुत्वामन्थेसंस्रवमवनयतीत्यन्ते उक्तस्याधिक्यं नेति न तस्योपसंहारपरत्वं कल्पनीयम्‌ । यद्वा ज्येष्ठाय श्रेष्ठायस्वाहेति मन्त्रेणाग्नावाज्यसंस्कृतमन्थं हुत्वा पुनर्होम्येमन्थेसंस्रवमवनयतीत्यादि यथाश्रुतमेव नचान्ते उक्तस्याधिक्यं होमशेषस्मन्थस्यात्तरत्रोपयोगकथनेन तत्संस्कारार्थमन्तेपि मन्थेसंस्रवणं कर्तव्यमिति भावेन तथोक्तत्वात्‌ एवं हुते दृष्यादृष्यमहत्त्वं लभ्यते उक्तं च "" ?Rज्येष्ठश्रेष्ठादिकैः हुत्वाप्राणायात्र परत्र च । ज्येष्ठः श्रेष्ठः समानेभ्योभवेन्नात्र विचारणे ’’ इति ॥ 2 ॥ 3 ॥ अथ होमानन्तरमेनं होमावशिष्यपिष्यं अभिमृशति अभिमर्शनं कुर्यात्‌ । तन्मन्त्रमाह ॥ भ्रमदसीत्यादिना ॥ B-40

?Rअत्र मन्थस्थोविष्णुः स्तूयते हे मन्थस्थ ब्रह्मन्‌ त्वं भ्रमदसि । जगत्सर्जनादिक्रियारूपमसि जगद्भ्रामकमसीति वा । ज्वलदसि प्रकाशरूपमसि । गुणैः पूर्णमसि । प्रस्तब्धं निष्क्रियमसि । अक्लिष्यकारित्वात्‌ । एकसभमसि । एकासभाजगद्रूपायस्य तत्‌ त्वमेकसभमसि एकशफमिति पाठे एकशफात्मकाश्ऱ्वाद्यन्तर्गतमसीति व्याख्येयम्‌ । यज्ञारम्भेप्रस्तोत्रायत्‌ हिंकृतं तत्‌ त्वमसि त्वमेवयज्ञारम्भे उच्चरितहिंकारप्रतिपाद्यमिति भावः । तेनैव यज्ञमध्ये यत्‌ हिक्रियमाणं तत्‌ त्वमसि तत्प्रतिपाद्यमसि । उद्गात्रा यज्ञारम्भे उद्गीथमसि उच्चत्न गीतमसि । तेनैव यज्ञमध्ये उध्गीयमानमुच्चत्वेन गीयमानमसि । अध्वर्युणाश्रावितमसि । आग्नीध्रेण त्वं प्रत्श्रवावितमसि त्वमेवतदुभयोच्चारितमन्त्र प्रतिपाद्यमिति यावत्‌ । आर्द्रमेघोदरेविद्युदाद्यन्तर्गतरूपेण दीप्तमसि । विभुर्व्यापकोऽसि । प्रभुः समथोऽसि । अन्नमसि अद्यत्वादत्तृत्वाच्च ज्योतिर्ज्ञानरूपोसि । निधनं सर्वेषां लयस्थानमसि । संवर्गोऽसि समीचीनोवर्गोदेवतारूपोयस्य सः संवर्गः सोऽसीति ॥ 4 ॥ अथैवमभिमर्शनानन्तरं एनं मन्थं सपात्रमुद्यच्छति हस्तेगृह्णाति । हस्तेगृहीत्वाजप्यमन्त्रमाह ॥ आमंसीति ॥ हे मन्थस्थ भगवन्‌ । ते तव महि महत्तरं रूपं त्वमेवाऽऽमंसि आसमन्तात्साकल्येन जानासि वयं च ते तव महिमहत्तरं रूपम्‌ । ते तव प्रसादात्‌ आमं हि ईषदेव जानीम इत्यर्थः । सत्वं राजेशान ईशानां ब्रह्मादीनां अनश्ऱ्चेष्यकः । गुणाधिकः पालकश्ऱ्चेत्यधिपतिरितिह प्रसिद्धमित्यर्थः । स राजेशानोभगवान्मामधिपतिं स्वावरस्वामिनं करोत्वित्यर्थः । इतिशब्दः मन्त्रसमाप्तिद्योतकः ॥ 5 ॥ अथैवं मन्त्रजपानन्तरम्‌ । एनं हस्तेगृहीतं मन्थं ग्रासचतुष्ययं कृऽत्वापृथक्‌ संस्थाप्यप्रथमं ग्रासमाचामति भक्षयति भक्षयेदित्यर्थः । तन्मन्त्रमाह ॥

?Rतत्सवितुरिति ॥ द्वितीयग्रासमन्त्रमाह ॥ भर्गोदेवस्येति ॥ तृतीयग्रासमन्त्रमाह ॥ धियोनोन इति ॥ चतुर्थग्रासमन्त्रमाह ॥

?Rसर्वाञ्चेति ॥ सर्वांचसावित्रीं गायत्रीं सर्वाश्‌च मधुमीरुक्त्वा अनुपश्ऱ्चादहमेवेदं सर्वं स्वयोग्यतानुसारेण पूणर्ं भूयासमिति वदेत्‌ । ततो भूर्भुवः स्वाहेति चतुर्थग्रासं भक्षयेत्‌ । अन्ततो भक्षणां तत आचम्याऽऽचमनं कृत्वा पाणीहस्तौ प्रक्षाल्य शुद्धचमनं च विधाय जघनेनाग्निं अग्नेर्जघनप्रदेशेपश्ऱ्चिमेदेशे प्रक्‌ शिरारात्रौ संविशति शयीतेत्यर्थः ॥ अयं गायत्ऱ्यर्थः ॥ यः नोऽस्माकमशेषजीवानां धियोबुद्धीः प्रचोदयात्‌ तस्य सवितुः देवस्य नारायणस्य तत्‌ गुणैस्ततं तस्मादेववरेण्यं वरणीयं भजनीयं भर्गोभारति ज्ञानरूपं धीमहिचिन्तयाम इति ॥ अयं मधुमत्यर्थः ॥ वातावायवो मधुनः सुखं यथा भवति तथा ऋतायते वान्तिवान्तु प्रार्थनप्रकरणात्‌ । सिन्धवोनद्योमधुनः सुखं यथास्यात्तथाक्षरन्ति स्रवन्ति स्रवन्तु । ॐ षधीरोषदयोनोऽस्माकं माध्वीरानन्दकराः सन्तु । नक्तं रात्रिरूरुष स उत दिवसाश्ऱ्च मधुसुखमुद्दिश्यसन्तु । पार्थिवं रजोमधुमत्‌ आनन्दकरमस्तु । पिताद्यौर्नोमधुसुखमुद्दिश्याऽस्तु । वनस्पतिर्नोमधुमान्‌ सुखकरोऽस्तु । सूर्योमधुमानस्तु । गावोनोऽस्मकं माध्वीः सुखकराः भवन्त्विति । अत्र सर्वत्र वाय्वाद्यभिमानि देवतायास्तदन्तर्गतविष्णोर्वाप्रार्थनं क्रियते । पूर्णोभूति वरोऽनन्तसुख इति व्याहृत्यर्थः । रात्रौ शयित्वाप्रातः सन्ध्यावन्दनं (नादिकं)कृत्वासूर्योदयकाले आदित्यमुपतिष्ठते अदित्यान्तर्गतभगवदु(पस्थानं)पासनं कुर्यात्‌ । तन्मन्त्रमाह ॥ दिशामिति ॥ हे आदित्यान्तर्गतभगवंस्त्वं दिशां सवर्दिग्वर्तिप्राणिनामेकपुण्डरीकमसिमुख्यः श्रेष्ठोसि अतस्तदुपासकोऽहं मनुष्याणामेकपुण्डरीकं भूयासमित्यर्थः । पूवर्ं शयनाद्यथेतं सन्ध्यावन्दनाद्यर्थं गतं तथा एत्यगत्वाजघनेनाग्निमग्नेः पश्ऱ्चिमदेशे आसीनः उपविष्यः सन्‌ वंशमेतद्विद्योपदेशकाचार्यपरम्परालक्षणं जपति जपेत्‌ ॥ 6 ॥ तमेववंशमाह ॥ ते हैतमिति ॥ तमेतं निर्माणक्रमसहितं मन्थं अरुणस्याऽपत्यमारुणिरुद्दालक नामा वाजसनेयाय याज्ञवल्क्यायांऽतेवासिने शिष्यायोक्त्वोवाच । किं हे याज्ञवल्क्य योऽधिकारी एनं होमावशिष्यमन्थम्‌ । यदि शुष्केस्थाणौ निषिञ्चेत्‌ तर्हि तस्मिन्‌ स्थाणौ शाखाजायेरन्‌ पलाशानिपर्णानि च प्ररोहेयुरिति । एमुत्तरत्रापि व्याख्येयम्‌ ॥ 7 ॥ मधुकोनामतः पिङ्गस्याऽपत्यं र्पैग्यः ॥ 8 ॥ चूलोनामतः भगवित्तेरपत्यं भागवित्तिः ॥ 9 ॥ जनकस्याऽपत्यं जानकिः आयस्थूणोनामतः ॥ 10 ॥ सत्यकामोनामतः जबालस्यापत्यं जाबालः ॥ 11 ॥ बहुत्वात्तच्छिष्याणामन्तेवासिभ्य इत्येवोक्तं एतद्विद्यासम्प्रदानयोग्यानाह ॥ तमेतमिति ॥ तमेतं पूर्वोक्तमाहात्म्यविशिष्यं मन्थमपुत्राय पुत्रशून्याय न ब्रूयात्‌ । अनन्तेवासिनेशिष्यशून्याय च न ब्रूयात्‌ । तादृशाकथनेपरम्पराविच्छेदेन बहुपुरुषार्थालाभात्‌ । यद्वा अनन्तेवासिनेऽन्यविद्यास्वशिष्याय न ब्रूयात्‌ । यथोक्तं "" ?Rअन्यविद्यास्वशिष्यस्य न ब्रूयात्‌ प्रथमं क्वचित्‌ ’’ इति ॥ 12 ॥ औदुम्बरेकं सेचमसेवेत्यादिवाक्ये अपेक्षितमनुक्तं भागमाह ॥ चतुरौदुम्बर इति ॥ औदुम्बरः उदुम्बरविकारश्ऱ्चतुश्ऱ्चतुस्सङ्खयाको भवति । तदेवाह ॥ औदुम्बरः स्रुव इति ॥ उपमन्थन्यावरणी । सर्वौषधं सम्भृत्येत्युक्तं विवृणोति ॥ तशेति ॥ ग्राम्याणिप्रधानानिधान्यानि दशभवन्ति भवेयुः । कानितानीत्यत आह ॥ वअीहियवा इति ॥ व्रीहियवास्तिलमाषाः प्रसिद्धाः अणवः श्यामाकाः प्रियं गवोगोधूमाश्ऱ्चप्रसिद्धाः मसूराः देशान्तरप्रसिद्धाः खल्वानिष्पावाः ख(ल्व)लुकुलाः कुलित्थाः तान्‌ वअीह्यादीन्‌ पिष्यान्‌ पिष्यीकृतान्‌ दधनिमधुनकृते उपसिञ्चति तेनाक्तं कुर्यादित्यर्थः । एवमुक्तं कृत्वानन्तरमाज्यस्य भागं पूर्वोक्तप्रकोण जुहोतीति ॥ तृतीयं ब्रह्माणम्‌ ॥ 3 ॥ अनेनोपनिषदुक्तविधानेन जातः पुत्रः प्रायः स्वर्गापवर्गयोग्योभवतीति प्रजातिकर्मवक्तुमिदं ब्राह्मणं प्रवतर्ते । तत्रादौ तावत्पुत्रोत्पत्तिहेतुभूतं रेतः स्तोतुमाह ॥ एषां भूतानामिति ॥ एषां प्रसिद्धानां भूतानां चराचराणां पृथिवीरसः सारः सर्वगुणैः वरा । पृथिव्या आपोवरुणोरसः अपामोषधयः तदभिमानीसोमोरसः ओषधीनां पुष्पाणितदभिमानीरसः पुष्पाणां फलानितदभिमानीरसः फलानां पुरुषः पुंस्त्वाभिमानीरुद्रः पुरुषस्य रेतः तदभिमानिनीसरस्वतीरसः । अनेन रेतसः उत्तमाभिमानिनीकत्वात्‌ श्रैष्ठयमुक्तं भवति । यथोक्तं पृथिवीसर्वभूतेभ्यः सदासर्वैर्गुणैः वरा । रसः सारोवरश्ऱ्चतिशब्दा एकार्थवाचकाः । पृथिव्यावरुणः श्रेष्ठस्तस्मादोषधिदेवता । सोमस्तस्मात्तुपुरुषोरुद्रोयत्पौस्य देवता । तस्मात्सरस्वतीवाग्धिश्रेष्येति । अत्र यद्यपि पुष्पाणां फलानां रेतसश्ऱ्चाऽभिमानीनोक्तः तथाबिपि तारतम्यप्रकरणात्पुष्पाभिमानिनोदक्षबृहस्पत्यादयः फलाभिमानीन्द्रः कामोवाग्राह्यः । रेतोभिमानिनीचसरस्वत्येव रुद्रस्य पुंस्त्वदेवतात्वोक्तेरिति ज्ञेयम्‌ ॥ 1 ॥ एवं रेतसः श्रेष्ठत्वादेवसप्रजापतिः ब्रह्मेक्षां विचारञ्चक्रे । कथं हन्त अस्मा अस्य सर्वसारभूतस्य रेतसः प्रतिष्ठाबारं पकल्पयानीति । एवं विचार्यसप्रजापतिः स्त्रियं रेतसः प्रतिष्ठाभूतं ससृजे उत्पादितवान्‌ । तां स्त्रियं सृष्ट्वा अध उपास्तमिथुनीभावाख्योपासनं कृतवान्‌ । यस्मादेवं प्रजापतिः कृतवान्‌ तस्मादद्यतनोपि स्त्रियमध उपासीत । स उपासकः उक्तोपासनेन एतं प्राञ्चं प्रक्कालीनम्‌ । ग्रावाणं ग्रानिभं रेतः आत्मन एव समुदपायत्‌ निष्कासयेत्‌ । तेन

?Rनिष्कासतेन रेतसैनां स्वस्त्रियमभ्यसृजत्‌ संयोजयेदित्यर्थः ॥ 2 ॥ नन्ववश्यं भाविन्यर्थेकथमयं विधिरिति चेत्‌ न ।

?Rमिथुनीभावस्यापि यज्ञत्वभावनायाविधानादिति भावेन प्रसिद्धवा जपेयादि यज्ञवदत्रापि वेद्यादिकमाह ॥ तस्या इति ॥ तस्या स्त्रियः उपस्थोवेदिः तत्साम्यात्‌ लोमानितद्बृत्तीनिबर्हिः तद्बृत्तिचर्मौवचर्मकृष्णाजिनस्थानयं यौमध्यतोमध्यप्रदेशेविद्यमानौ मुष्कौ वृषणौ ताधिषवणेसोमाभिषवफलके इत्यन्वयः । मध्यतोयोनिमध्यप्रदेशः समिद्धोदीप्तोग्निः तस्मिन्नग्नौ रेतोजुहुयादिति भावः । उक्तप्रकोण मिथुनीभावस्य यज्ञभावनाकर्तुः फलमाह ॥ स इति ॥ वाजपेयेन यजमानस्य स प्रसिद्धो याव?ाल्लोको भवति ताव?ाल्लोकः अस्योक्तप्रकारेण मिथुनीभावोपासकस्य भवति । वाजपेयेन यजमानस्य परलोकेयावत्सुखं तावत्सुखमपि स्यादिति भावः । फलान्तरमाह ॥ य एवमिति ॥ यः पुरुषः एवमुक्तप्रकारेण मिथुनीभावस्य यज्ञत्वं विद्वानधोपहासंस्त्रीसङ्गचरति स आसां स्त्रीणां सुकृतं वृंक्ते च्छेदयति स्त्रीभिः कृतं सर्वं सुकृतं स्वयमादायतासां यथासुकृतं नास्तितथाकरोतीत्यर्थः । मिथुनीभावस्य यज्ञत्वमविज्ञायैवतदनुष्यातुरनर्थमाह ॥ अथेति ॥ अथ पुनर्यः पुरुष इदं मिथुनीभावस्य यज्ञत्वमविद्वानधोपहासञ्चरति अस्य पुरुषस्य सुकृतं स्त्रिय आवृंजतेच्छेदयन्तीत्यर्थः ॥ 3 ॥ मिथुनीभावस्य यज्ञत्वमननुसन्धाय तदनुष्ठातु रनर्थफलं मवतीत्येतदनेकाचार्यसम्मतमित्याह ॥ एतद्धस्मेति ॥ तत्‌ मिथुनीभावस्य यज्ञत्वं व्विन्नुद्दालक नामा अरुणस्यापत्यमारुणिः एतद्वक्ष्यमाणमाह । हस्मवा इति निपातत्रयं प्रसिद्धिद्योतकम्‌ । एवमुत्तरत्र । नाकोनामतः मुद्गलस्यापत्यं मौद्गल्यः कुमारोनामतः हरीतस्यापत्यं हारीतः उद्दालकादयः किमाहुरित्यत आह ॥ बहुवोमर्या इति ॥ ये इदं मिथुनीभावस्य यज्ञत्वमविद्वांसः अधोपहासञ्चरन्ति ते बहवोमर्या मरणशीलाः ब्राह्मणाय नाब्राह्मणाभासाः निरिन्द्रियाविनष्येन्द्रियाः विसुकृतो विकृतपुण्याः सन्तोऽस्माल्लोकात्प्रयन्ति नरकादिकं प्रतिगच्छन्तीत्यर्थः । इतिशब्दस्येत्याहेति प्रत्कं सम्बन्धः । उक्तप्राकारेणोपहासचरणं श्रेयस्साधनमित्युक्त्वा इदानीमुपहासंविनारेतः स्कन्दनेप्रायश्ऱ्चित्तमाह ॥ बह्विति ॥ सुप्तस्य वाजाग्रतोवापुरुषस्य यदीदं रेतोबहु वाशब्दादल्पंच स्कन्दतिनिःसरति ॥ 4 ॥ तदातत्‌ स्कन्नं रेतोहस्तेनाऽभिमृशेत्‌ अनुपश्ऱ्चात्‌ मन्त्रयेतवा मन्त्रयेच्च । तं मन्त्रमाह ॥ यदिति ॥ मेमम अद्याप्राप्तकाले यद्रेतः पृथिवीं प्रति अस्कंत्सीत्‌ स्कन्नमासीत्‌ यदोषधीः प्रतिवाऽसरदगमत्‌ यदपः प्रतिवाऽसरत्‌ तदिदं रेतः अहमाददेगृह्णामीति मन्त्रेणानामिकां गुष्ठाभ्यामादायरेतोरूपेणा बहिर्निर्गतमिन्द्रियं पुनर्मां प्रत्येतु तेजः कान्तिः पुनरेतु भगऐश्ऱ्वयर्ं ज्ञानं वा पुनरेतु धिण्या(धिष्ण्यो)होमस्थानभूतोऽग्निः पुनर्मामेतु आगतानीन्द्रियादीनियथास्थानं कल्पन्तां तिष्ठन्तु इति मन्त्रेणस्तनौ भ्रुवौवांऽतरेण स्तनयोर्भ्रूवोर्वामध्येनिमृज्यात्‌ लेपयेत्‌ ॥ 5 ॥ प्रायश्ऱ्चित्तप्रसङ्गादन्यस्यापि तदाह ॥ अथेति ॥ यद्वा यस्मिन्नुदकेरेतस्सेकस्तस्मिन्नेवोदकेस्वात्मदर्शनेप्रायश्ऱ्चित्तमाह ॥ अथेति ॥ यद्युदकेसाधारणेरेतः सिक्ते वा आत्मनं परिपश्येत्तदातदुदकं मन्त्रयीत । तं मन्त्रमाह ॥ मयीति ॥ उदकेस्वात्मपरिदर्शनेन गतं तेजः इन्द्रियं यशोद्रविणं दैवं मानुषञ्च सुकृतं पुण्यञ्च मय्यस्त्वित्यर्थः । यस्यां पुत्रोजनयितव्यस्तां स्त्रियं स्तु वन्नुपहासे इत्थंभावमाह ॥ श्रीरिति ॥ यद्यस्मात्कारणात्‌ स्त्रीणां मध्ये मलोद्वासा उद्गतमलवद्वस्त्रा कृतरजस्वलास्नानेति यावत्‌ । एषापत्नी श्रीर्यशस्विनी पुत्रोत्पत्तिहेतुत्वात्‌ हवा इति प्रसिद्धिद्योतकं तस्मान्मलोद्वास संयशस्विनीं कीर्तिमन्तीप्रत्यभिक्रम्यगत्वोपमन्त्रयेतविशिष्यपुत्रोत्पादनं कर्तव्यमिति विचारं कुर्यात्‌ ॥ 6 ॥ साचेदस्मैनदद्यात्‌ मिथुनीभावानुकूलानस्यात्‌ तर्हि एनां स्वभार्यां कामं यथाभिलषितभोगादिभिरवक्रीणीयात्‌ वशं कुर्यात्‌ । एवमपि साचेदमस्मैनैव दद्यात्तदाकामं स्वेच्छनुसारेणैतां स्त्रियं यष्ययादण्डेन वापाणिनाहस्तेना वोपहत्यताडयित्वाऽतिक्रमेत्‌ । अतिक्रम्यगच्छेत्‌ गमनकालेवक्तव्यमाह ॥ इन्द्रियेणेति ॥ यशसायशोहेतुभूतेनेन्द्रियेण गुह्येन्द्रियेण ते तव यशोयशोहेतुभूतपुत्रोत्पत्तिकरं रेतः आददेगृह्णामीति वदेत्‌ । एवमुक्तासास्त्री अयशा एव यशोहेतुभूत पुत्रशून्यैव भवति ॥ 7 ॥ साचेदस्मैतदादद्यात्‌ । तदायशसा इन्द्रियेण ते यश आदधानिप्रापयामीति वदेत्‌ । तदातौ स्त्रीपुरुषौ यशस्विनावेव भवतः ॥ 8 ॥ अथ याभर्तुर्द्वेषिणी भवति तस्यास्तद्विषेप्रीतिसम्पत्त्युपायं वदन्‌ उपहासे इत्थं भावान्तरमाह ॥ सायामिति ॥ स पूर्वोक्तकामी इयं मामां कामयेतेति यांस्वभार्यामिच्छेत्‌ तस्यां तदीययोनौ अर्थं गुह्येन्द्रियं निष्ठायनिक्षिप्य स्त्रीमुखेन सहमुखं सन्धायमेलयित्वा अस्या उपस्थमभिमृश्यमन्त्रं जपेत्‌ । तन्मन्त्रमाह ॥ अङ्गादिति ॥ हे तस्तदन्तर्गतभगवन्‌ त्वं अङ्गादं गात्सर्वस्मादं गात्सम्भवसिसमुत्पद्यसे विशेषतश्ऱ्चहृदयात्तत्स्थनाडीद्वारेणाधिजायसेप्रकटीभवसि सत्वमङ्गकषायोसि अङ्गानां रसोसि अतोदिग्धविद्धामिवौषधलिप्तां स्त्रीमिवेमाममूं मद्भार्यां मयिविषये मादय हर्षयुक्तां कुरु । मद्वशां कुर्वित्यर्थः ॥ 9 ॥ अथ य

?Rांस्वभार्यां यौवनादिभ्रंशभयात्‌ गर्भं न दधीत नधारयीते तीच्छेत्‌ । तस्यामित्यादिपूर्ववत्‌ । अभिप्राण्यश्ऱ्वासंमुक्त्वा

?Rअपान्यात्‌ तं गृह्णीयात्‌ । एवं श्ऱ्वासनिरोधं कृत्वाजप्यमन्त्रमाह ॥ इन्द्रियेणेति ॥ मदीयेन रेतसारेतः कारणीभूतेन्द्रियेण

?Rगर्भोत्पत्तिकरं रेत आददे इति जपेत्‌ । एवं कर्तुः फलमाह ॥ अरेता एवेति ॥ पुत्रोत्पत्तिहेतुभूतरेतः शून्यैवभवतीत्यर्थः ॥ 10 ॥ अथ यांस्वाभार्या गर्भं दधीतेतीच्छेत्‌ अपान्यश्ऱ्वासमादाय अभिप्राण्यात्‌ श्ऱ्वासंमुञ्चेत्‌ ततोजप्यं मन्त्रमाह ॥ इन्द्रियेणेति ॥ मदीयेन रेतसेन्द्रियेण तेत्वयिरेत आदधामीति जपेत्‌ सति चैवं सागर्भिण्येव भवति ॥ 11 ॥ एवं स्वभार्यवैवोपहासः कर्तव्य इत्युक्तम्‌ इदानीं स्त्ऱ्यन्तरेणोपहासकरणे अभिचारमाह ॥ अथेति ॥ य्य पुरुषस्य जायायैजायाया जार उपपतिःस्यात्‌ तमुपपतिञ्चेद्द्विष्यात्‌ निजपतिः स आमपात्रे अपक्वमृण्मयभाजने अग्निमुपसमाधाय प्रतिलोमं पश्ऱ्चिमाग्रं दक्षिणाग्रं वायथास्यात्तथाशरमयं बर्हिस्तीर्त्वा आस्तीर्य तस्मिन्नग्नौ एताः शरभृष्यीः बाणैषिकाः प्रतिलोमाः विपरीताग्राः सर्पिषाक्ताघृताक्ता जुहुयात्‌ । तन्मन्त्रमाह ॥ ममेति ॥ मममदीये समिद्धेयौवनादिनासमिद्धेयोषाग्नौ अहौषीः रेतोहुतवानसि । अतस्तेतव प्राणानावादद इति मन्त्रमुच्चार्यप्रथमाहुतिं जुहुयात्‌ । अनन्तरमसावितिशत्रोः नामगृह्णीयात्‌ । एवमुत्तरत्रापि । पुत्रं पशूनित्युपलक्षणं इष्यासुकृते इष्यं यजनजनितं पुण्यं सुकृतं तदतिरिक्तकर्मजन्यं आशेच्छा पराकाश उत्तमते जश्ऱ्चेत्याशापराकाशौ एवं हुतेकिंस्यादित्यत आह ॥ सवा इति ॥ एवं विद्वानभिचारकर्मविद्बआह्यणोयं जायोपपतिं शपति स एव जारोनिरिन्द्रियोविसुकृतः गतसुकृतः । अस्माल्लोकात्प्रेतिमृतोभवतीत्यर्थः ॥ तस्मादेवं वित्परदारगमने उक्ताऽनिष्यवित्‌ श्रोत्रियस्य दारेण दारैः हस नोपहासमिच्छेत्‌ न कुर्यादिति किमुवक्तव्यम्‌ । किन्तत इत्यत आह ॥ उतेति ॥ हि यस्मात्परदारहर्तुरेवं वित्‌ अभिचारकर्मवेत्तापरः शुत्रुः भवति उत तस्मान्नेच्छेदित्यर्थः ॥ 12 ॥ स्त्रीणां ऋतुकालेऽनुष्ठेयं व्रतमाह ॥ अथेति ॥ यस्य पुरुषस्य जायां भार्यामार्तवं ऋतुभावोविन्देत्प्रापनुयात्‌ तदा तस्य भार्यातदारभ्यत्ऱ्यहं दिवसत्रयं कं सेकांस्यपात्रे न पिबेत्‌ नाश्ऱ्नीयात्‌ अहतवासा अधौ तवासाभवेत्‌ । एनां ऋतुमतीं वृषलः शूद्रोनोपहन्यान्नस्पृशेत्‌ वृषलीशूद्रीच न पृशेत्‌ । त्रिरात्रान्ते चतुर्थेऽहनिप्रातः काले आप्लुत्यस्नात्वाव्रीहीनवघातयेत्‌ ॥ 13 । इदानीं पुत्रविशेषेच्छायां कर्तव्यविशेषमाह ॥ स इति ॥ सयः पुरुषो मेममपुत्रः शूक्लः शुद्धो गौरोगौरवर्णो जायेत वेद मेकं वेद मनुब्रवीत सर्वमायुः शतवर्षपरिमितमायुरियात्‌ प्राप्नुयादितीच्छेत्‌ तदाक्षीरोदनं पाचयित्वातेन होमं कृत्वासपिर्ष्मन्तं तच्छेषं तौ दम्पती अश्ऱ्नीयाताम्‌ । एवं सति जनयितवै तादृशं पुत्रं जनयितुमीश्ऱ्वरौ समर्थौ भवत इत्यर्थः ॥ 14 ॥ एवमुत्तरत्र कपिलोलोहितः पिङ्गलः पिङ्गलाक्षः दध्योदनं पाचयित्वादध्नाचरुं श्रपयित्वा ॥ 15 ॥ उदौदनं उदकेनौ दनं पाचयित्वेति क्षीरादिव्यावृत्त्यर्थम्‌ ॥ 16 ॥ दुहिता कन्यापण्डिता स्वयोग्यानुसारेणागमजज्ञानवती ॥ 17 ॥ विजिगीथोजयशीलः समितिङ्गमोविद्वत्सभां प्रवेष्या शुश्रूषितां श्रोतुमीप्सिताम्‌ । मां समिश्रितौदनं तन्मांसंकिमीयमित्यत आह ॥ औक्षेपेति ॥ उक्षागोवृषः तत्सम्बन्ध्यौक्षं वृषभोबलीवर्दः तत्सम्बन्धिवार्षभन्ते न मांसेनयुक्तमोदनमित्यन्वयः ॥ 18 ॥ क्षीरौदनं पाचयित्वासर्पिष्मन्तमश्ऱ्नीयातामित्युक्तं तत्कदेत्यतोवक्ष्यमाणहोमानन्तरमेवेति भावेन सत्पुत्रोत्पत्त्युपयुक्तं होममाह ॥ अथेति ॥ अथ त्रिरात्रान्ते आप्लुतयास्त्रियाव्रीह्यवहननकरणानन्तरं चतुर्थेह्नि प्रातरेव स्थालीपाकावृताज्यं स्थालीपाकं चावृताज्यं च होमाज्यं चेति स्थालीपाकावृताज्यं तत्‌ । अभिवेष्यित्वासम्यक्‌ कृत्वा स्थालीपाकस्याज्यसंस्कृतस्योपघातं भागं जुहोति जुहुयात्‌ तन्मन्त्रमाह ॥ अग्नयेस्वाहेति ॥ अत्राग्न्यनुमतिवितृशब्दास्तदन्तगर्तविष्णुपराः तस्यैव सकलयज्ञभोक्तृत्वात्‌ । देवाय क्रीडादिगुणसम्पन्नाय । सवितृशब्दार्थमाह ॥ सत्यप्रसवायेति ॥ सत्यभूतजगत्कारणायेत्यर्थः । सत्पुत्रप्रसवकारणायेति वा । इत्यनेन मन्त्रेण हुत्वा स्थालीपाकस्थं चरुशेषमुद्धृत्य प्राश्ऱ्नाति भक्षयेत्‌ । स्वयं प्राश्य इतरस्याः भार्यायाः तदेवप्रयच्छति दद्यात्‌ । ततः प्राणीप्रक्षाल्योदपात्रं पूरयित्वातेनोदकेनैनां भार्यां त्रिरभ्युक्षतित्रिवारमभ्युक्षणं कुर्यात्‌ तन्मन्त्रमाह ॥ उत्तिष्ठेति ॥ हे विश्ऱ्वावसोगन्धर्व अतो मद्भार्यातः उत्तिष्ठ त्वमन्यां प्रभर्व्यांपीरीन्तरुणीमिति यावत्‌ इच्छ इमां जायान्तु पत्यामया सह संसृजसंयोजयेत्यर्थः ॥ 19 ॥ अथैवं गन्धर्वोच्चाटनानन्तरं यथा कामं क्षीरोदनादिभोजनानन्तरं एनां स्वभार्यामभिपद्यते प्राप्नुयात्‌ । तदावक्तव्यमाह ॥ अमोहमिति ॥ अहं मदन्तर्यामि श्रीमन्नारायणः अमोनिर्दोषत्वात्‌ अम इति नामकोस्मि त्वं त्वदनन्तर्गता श्रीः लक्ष्मीः सारत्वात्सेति नामिका सात्वमसि अमोहमित्यभ्यासस्तात्पर्याथर्ः । एवमुभयोः मिलितत्वात्सामशब्दवाच्यत्वमुक्तं इदानीं ऋक्‌ सामशब्दवाच्यत्वमाह ॥ सामेति ॥ अहं मदन्तर्यामिनारायणोद्योतनात्‌ द्युशब्दवाच्यः त्वं त्वदन्तर्गतालक्ष्मीः प्रथितत्वात्पृथिवीनामिकेत्यर्थः । हे भार्येत्वमे हि आगच्छ । तौ लक्ष्मीनारायणाधिष्ठितावावांसंरभावहैसंरंभं कुर्वः । को सौ संरम्भः सह मिलित्वारेतोदधावहैरेतोमिलितं कुर्व इति यावत्‌ । किमर्थमयमारम्भ इत्यत उक्तम्‌ ॥ पुंस इति ॥ चतुर्थीषष्ठयर्थे पुंस्त्वविशिष्यस्य पुत्रस्य पूतः छिद्रकर्मणस्त्राण न समर्थस्य वित्तयेलाभायेत्यर्थः ॥ 20 ॥ अथैवं वचनानन्तरं अस्यास्त्रियः ऊरूविहापयति विश्ऱ्लेषयेत्‌ । तन्मन्त्रमाह ॥

?Rविजिहाथामिति ॥ हे द्यावापृथिवीतत्स्थानीये ऊरूविजिहाथां विश्ऱ्लिष्ये भवेतामिति मन्त्रेण विहापयतीति सम्बन्धः ।

?Rअनन्तरं तस्यामर्थं निष्ठायमुखेन मुखं सन्धाय एनाभार्यामनुलोमां मूर्धानमारभ्यपादान्तमिति यावत्‌ । त्रिस्त्रिवारमनुमार्ष्यिमार्जनं कुर्यात्‌ । तन्मन्त्रमाह ॥ विष्णरिति ॥ व्याप्तोविष्णुनामकोवासुदेवो योनिं कल्पयतु पुत्रोत्पत्तिसमर्थां करोतु योनिशुद्धिं करातु वा । त्वष्यात्वेषात्‌ त्वष्यृनामकः सङ्गर्षणो रूपाणिगर्भस्थ पुत्रस्यां गानिपिंशतुकरोतु । प्रजापातनात्प्रजापतिनामकः प्रद्युम्नः आसिञ्चतु आसेकं करोतु गर्भात्प्रजापातनं करोतु धारणकर्तृत्वाद्धाता भगवाननिरुद्धस्तेगर्भं दधातु धारयत्वित्यर्थः । यथोक्तं योनिक्लृप्तिर्वासुदेवाद्रूपं सङ्कर्षणाद्भवेत्‌ । आसेककर्मप्रद्युम्नात्‌ अनिरुद्धाच्चधारणमिति । व्याप्तेः विष्णुर्वासुदेवस्त्वष्यात्वेषात्‌ द्वितीयकः । प्रजापतिः प्रजापातान्निषेकः पातनन्ततः । प्रजापतिस्तुप्रद्युम्नोधाताधारणकर्मतः । अनिरुद्ध इति प्रोक्त इति च । हे सिनीवालिचतुर्दशीमिश्रितामावास्यादेवतेतदन्तर्गत भगवन्‌ गर्भं धेहि धारय । हे पृथुष्युकेगर्भं धेहि । अत्र पृथुष्युकाशब्देन पृथुविस्तीर्णास्तुतिः यस्याः सापृथुष्युकेति सरस्वत्युच्यते । गर्भं धेहि सिनीवालिगभर्ं धेहि सरस्वतीति शाखान्तर पाठात्‌ । पुष्करस्रजौपद्ममालावन्तौ देवौ क्रीडादिगुणसम्पन्नावश्ऱ्विनावाशुगतीकृष्णरामौ ते गर्भमाधत्ताम्‌ । कृष्णरामौ तताश्ऱ्विनाविति वचनात्‌। 21 ॥ आवां हिरण्मयी अरणी याभ्यामरणीस्थानीयाभ्यामावाभ्यामश्ऱ्विनौ कृष्णरामौ निर्मन्थतां मथनं कृतवन्तौ तं मथनोत्पन्नं गर्भं ते त्वयि हवामहे । दशमेमासिसूतवेप्रसवाथर्मित्यर्थः । प्रकृतं गर्भं स्तौति ॥ यथेति ॥ यथापृथिवी अग्निगर्भा यथा द्यौः द्युलोक इन्द्रेण तत्पालकेन गर्भिणी यथा वायुः दिशां गर्भः एवं तादृशगर्भं ते त्वयि दधामि । असाविति स्वात्मनो गर्भेजायमानस्य वानामगृह्णाति ॥ 22 ॥ प्रसवावसरेकर्तव्यमाह ॥ सोष्यन्तीमिति ॥ सोष्यन्तीं प्रसविष्यन्तीं भार्यामद्भिरभ्युक्षति तन्मन्त्रमाह ॥ यथेति ॥ यथावायुः पुष्करणीं सर्वतः समिञ्जयति स्वरूपोपघातमकृत्वाचालयति । एवा एवमेव ते गर्भः सूचिकावायुनाप्रेरित एजतु स्थानाच्चलतु । तदनन्तरं जरायुणोल्बेन सहावैतुनिर्गच्छतु उत्तरत्रेन्द्रप्रार्थयितुं तत्रादौ हेतुमाह ॥ इन्द्रस्येति ॥ इन्द्रस्येन्द्रेण परमैश्ऱ्वर्यसम्पन्नेन भगवता । सार्गलः अर्गलयावायुनिरोधेन सहितः । स परिश्रयः परिश्रयेण परिवेष्येनेन जरायुणासहितः । अयं गर्भः । व्रजः आश्रयः । कृतः । गर्भमाश्रित्यतद्रक्षकतया भगवान्‌ वर्तत इति यावत्‌ । किं तत इत्यत आह ॥ तमिति ॥ हे इन्द्रपरमैश्ऱ्वर्यसम्पन्न सा वरमावरणसहितं तं गर्भं नि(र्ग)र्जहिनिर्गमय निर्गम्यमानेन गर्भेण सहतन्नियामकतयात्वमपि नि(र्ग)र्जहि निर्गच्छेति मन्त्रेणाभ्युक्षतीति सम्बन्धः ॥ 23 ॥ प्रसवानन्तरं कर्तव्यमाह ॥ जात इति ॥ पुत्रेजाते सति तमं के आधायाग्निमुपसमाधाय कं सेकांस्य पात्रे पृषदाज्यं संस्कृताज्यं संन्नीयसम्पद्य पृषदाज्यस्योपघातं भागं जुहोति । होममन्त्रमाह ॥ अस्मिन्निति ॥ हि अग्न्यन्तर्गत भगवन्नहमस्मिन्‌ स्वगृहे सहस्रं पुष्यासम्‌ । एधमानोवर्धमानश्ऱ्चभूयासमित्यर्थः । अस्मिन्पुत्रेनिमित्तेसतीति वा । अस्य पुत्रस्योपसद्यां सन्ततिं प्रजयापशुभिश्ऱ्च सहमाच्छैत्सीः विच्छिन्नं माकुरु । मयिस्थितान्प्राणान्‌ मनसासह त्वयि जुहोमित्वद्विषयान्करोमि । इहकर्तव्यकर्मविषयेकर्मणा यदत्यरीरिचमधिकमभवमधिकं कर्मकृतवानस्मीति यावत्‌ यद्वान्यूनमकरमकरवं तत्सर्वं स्विष्यकृत्‌ स्वभक्तिज्ञानादिपूर्वकमिष्यं न्यूनाधिकमपि सम्यक्करोतीति स्विष्यकृन्नामा विद्वान्सर्वज्ञोऽग्निस्तदन्तर्गतो भगवान्‌ स्विष्यं सुहुतं करोत्वित्यर्थः ॥ 24 ॥ एतद्धोमानन्तरं कर्तव्यमाह ॥ अथेति ॥ अथ स्विष्यकृद्धोमानन्तरमस्य शिशोर्दक्षिणकर्णमभिनिधायपि तास्वाभिमुखं निधाय त्रयीलक्षणावाक्‌ त्वयि प्रविशत्वित्यभिप्रायवान्‌ वाग्वागिति त्रिर्जपेदिति शेषः । अथ त्रिर्जपानन्तरं दधिमधुघृतं सन्नीयानन्तर्हि तेन वस्त्राद्यनावृतेन जातरूपेण सुवर्णेन प्राशयति । अन्नप्राशनमन्त्रं पठति ॥ भूरिति ॥ हे भूः ते त्वयि दधामि इत्यर्थः ॥ 25 ॥ अथ पूर्वोदाहृतैश्ऱ्चतुर्मन्त्रैः प्रत्येकमन्नप्राशनानन्तरमस्य शिशोर्नामकरोति किमिति वेदोसिवेद इति नामकोसीति तदेतद्वेद इति नामास्याशिशोः गुह्यं गोप्यमेव भवति । नतु प्रकटनीयं व्यवहारार्थं प्रसिद्धनामतु स्वाभिप्रेतदेववाचकं कर्तव्यमिति भावः ॥ 26 ॥ अथ नामकरणानन्तरमेनं शिशुं तन्मात्रेप्रदायस्तनं प्रयच्छति दापयेत्‌ । तन्मन्त्रमाह ॥ यस्त इति ॥ हे सरस्वति ते तव यस्तनः शशयः शंसुखं तस्य शयः आशयः शेसुखेशेत इति वाशशयः योमयोभूः अवग्रहदर्शनाद्भिन्नं पदं मयः सर्वप्रधानो भूः पूर्णः योत्नान्याभरणरूपाणिधत्त इति रत्नधा वसुआभरणरूपमेव विन्तति प्राप्नोतीति वसुवित्‌ । यः सुदत्रः सम्यक्‌ दातारक्षकश्ऱ्च येन त्वदीयेन स्तनेन त्वं विश्ऱ्वाविश्ऱ्वानि वायर्ाणिवरणीयानिदेवादीनि पुष्यसि तं स्तनं इह लोके धातवेशिशोः पानार्थं अकः अकार्षीरित्यर्थः । अनेन स्त्रीस्तने सरस्वतीस्तनसन्निधानमस्तीति गम्यते ॥ 27 ॥ अथस्तनप्रदानान्तरमस्य शिशोः मातरमभिमन्त्रयते तन्मन्त्रमाह ॥ इलासीति ॥ हे भार्ये त्वमिलासिस्तुत्यासि मैत्रावरुणीमित्रावरुणनामकभगवद्रूपाधिष्ठानभूतासि हे वीरे अरब्धां तगामिनीया भवती वीरं पुत्रमजीजनत्‌ सात्वं पुनर्वीरवतीपुत्रवतीभव । एवमाशीर्वादकरणनिमित्तमाह ॥ यास्मानिति ॥ याऽस्मान्वीरवतः पुत्रवतो करत्‌ अकरोदिति । एवमुक्तप्रकारेण शिशोः संस्कारकरणे किं स्यादित्यत आह ॥ तं

?Rवाए(त)नमिति ॥ एवं विदः पूर्वोक्तप्रकारेण भगवज्ज्ञानवतोब्राह्मणस्य यः पुत्रोजायते तं वा एनं जनाः हे

?Rपुत्रत्वमतिपितापितरमतिक्रान्तोभूः बतेत्श्ऱ्चर्ये । न केवलमेतावत्‌ अतिपितामहः पितामहमतिक्रान्तोऽभूः कुतः अयं श्रियायशसाब्रह्मवर्चसेन परमां काष्ठामवधिं प्रापबह्वैश्ऱ्वर्यादिसम्पन्न इत्याहुरिति सम्बन्धः ॥ इति चतुर्थ ब्राह्मणम्‌ ॥ 4 ॥ अध्यायद्वयोक्तविद्याप्रवर्तकऋषिपरम्परामाह ॥ अथवंश इति ॥ आदित्यानि आदित्येन प्रोक्तानि इमानि शुक्लानि शुद्धानियजूंषिवाजसने न याज्ञवल्क्येनाख्यायं ते प्रकटीक्रियन्त इत्यर्थः । प्रजापतिः ब्रह्मणः परब्रह्मणः श्रुतवानित्यर्थः । परब्रह्मकस्माच्छतमित्यत आह ॥ ब्रह्मस्वयंभ्विति ॥ यद्वा प्रजापतिः रुद्रोब्रह्मणः कोवाब्रह्मवाच्य इत्यत आह ॥ ब्रह्मस्वयम्भ्विति ॥ स्वस्मादेवस्वयं भवतीति स्वयम्भु अवतारत्रयविशिष्योमुख्योवायुब्रह्मेत्यर्थः । यद्वाक्ष्यति स्वयम्भुब्रह्मसंज्ञोसाविति । वेदपुरुषोपि अन्ते(षोन्तेपि)मङ्गलमाचरति ॥ ब्रह्मणेनम इति ॥ परस्मैब्रह्मणेनम इत्यर्थः । एवं समापितभाष्यो भगवानाचार्योयद्गुणविशिष्यतया भगवन्तं एतदुपनिषदर्थत्वेन प्रतिपादितवांस्तद्गुणविशिष्यभगवदुपासनमेवान्तेप्याशास्ते ॥ नित्यानन्दमिति ॥ पूर्णानन्दमित्यर्थः । अपूर्णत्वस्यापि विनाशशब्दाथर्त्यात्‌ उपमैव औपमंस्वार्थिकोण्‌ नास्त्पमं यस्सौ अनौपमः तं य्वा उपमाया अयमौपमः सोपम इति यावत्‌ । नविद्यते औपमोयस्यासावनौपमस्तमिति । परं सर्वोत्तमं विलक्षणमिति वा केनापि प्रकारेण न जायत इत्यजं सर्वत्रगं प्राणादिषु वर्तमानं सुस्थिरं सुनित्यं सर्वं जानातीति सर्वज्ञा इति ज्ञानवत्त्वोक्त्याज्ञानतद्वतोः भेदशङ्कां वारयति प्रतिबोधमात्रमिति । अमलं निर्दोषं अच्युतैः देशतः कालतो गुणतश्ऱ्चच्युतिशून्यैः प्रमतिः मोक्षसाधनीभूतज्ञानं यथार्थं ज्ञानं वा सतां मोक्षः सन्मोक्षः द्वन्द्वैकवद्भावोयं कारणत्वं च न ब्रह्मादीनामिवेत्याह ॥ परमिति ॥ मे सततं प्रष्ठं नित्यं न्रियात्प्रियतममित्यन्वयः विष्णुमिति विशेष्याध्याहारः ॥ 1 ॥ स्वभाषितभाष्यस्याप्तिमूलत्वसमर्थनाय श्रुतिप्रसिद्धं स्वस्य परमाप्तत्वं दर्शयन्नाह ॥ यस्येति ॥ यस्य वायोः देवस्य बलित्थेत्दवेदवचने दिव्यानिक्रीडादिगुणयुक्तानि त्रीणिरूपाण्युदितानि तस्य यत्‌ तृतीयकं वपुः तेनेदं भाष्यं प्रभौ प्रभुविषयतया कृतं हीत्यन्वयः । कीदृशं चास्य मूलरूपं कानिच क्षिणिरूपाणिकीदृशानि च तत्राह ॥ अलमिति ॥ तस्य वायोः भूलरूपं बटूबलात्मकं दर्शतं ज्ञानं रूपं च दृशेरौणादिकोतच्‌प्रत्ययः । अनेन वायुशब्दोव्याख्यातः । वशब्दोबलवाची अयतिः गत्यर्थः गत्यर्थाश्ऱ्चावगत्यर्थाः तत उण्‌ वश्ऱ्चासावायुश्ऱ्चेति वायुरिति । किञ्च भर्गः भरणगमनकर्तृ डुभृञ्‌भरणे गम्लृगतौ आभ्यामसुन्प्रत्ययोडिच्च इदमपि वायुशब्दव्याख्यानम्‌ । वातेः भरणार्थादयतेश्ऱ्च उण्‌ । अनेकार्थत्वाद्धातूनां वातिः भरणेपि वर्तते अपिच महत्‌ श्रेष्ठं वयश्रेष्ठ इत्यस्मादुण्‌ तदित्थमेवरूपत्रयावताराय भगवता निहितं प्रेरितमवतीर्णञ्च तत्र प्रथमकं हनुमदाख्यं वपुः रामवचोनयं रामस्य वचांसिसीतां प्रतिनीतवत्‌ रामविषयवचांसिभूलरामायणरूपाणिशिष्येषु नीतवद्वा रामवचसियोनयोन्याय आज्ञारूपस्तद्युक्तं वा द्वितीयं भीमनामकं पृक्षः कुरुपृतनाक्षयकारि तृतीयं वपुरानन्दरूपस्य हरेः प्रतिपादकशास्त्रनिर्मातृमध्वाभिधमिति । अतः परमाप्तप्रणीतत्वादिदं भाष्यं सकलसुजनैरादरेणाङ्गीकार्यमिति भावः । ननु बलित्थेत्यादिवेदवचनेवायोस्त्रीणिरूपाण्युदितानीत्यसत्‌ तस्य सूक्तस्येत्रेताग्निपरत्वादित्यतः तत्सूक्तं वायुरूपत्रयपरतया प्रमाणेन व्याकुर्वन्‌ यदीमुपह्वरतेसाधते मतिरित्युक्तं मतिशब्दं तावद्वयाचष्ये ॥ हनुशब्द इति ॥ हनहिंसागत्योरिति धारोः गत्यर्थस्य चावगत्यर्थत्वेन हनुशबनदस्य ज्ञानवाचित्वेन मतिशब्दसमानार्थत्वाद्धनुमान्मतिशब्देनोच्यत इत्यर्थः । हनुशब्दस्य ज्ञानवाचित्वे हनुमान्मतिमच्छब्दवाच्यः स्यादिति चेत्‌ न । ज्ञानवतोपि ज्ञानस्वरूपताप्रकटनाय मतिशब्दप्रयोगात्‌ । ऋतस्य धेना अनयन्तसस्रुत इत्येतद्वयाचष्ये ॥ रामस्येति ॥ ऋतस्येत्यस्यार्थः स्वृस्तरूपस्येति । सुष्ठुसर्वदासर्वत्र च सत्यरूपस्य चेत्यर्थः । यद्वा पूर्वावगतवत्सदास्थितस्येत्यर्थः । यथोक्तम्‌ । ऋगतावितिधातोस्तुपूर्वावगतवत्सदा । स्थितेः ब्रह्मर्तमित्युक्तमिति । धेना इत्यस्यार्थोवाच इति । अनयन्तसीतां प्रतीतिशेषः । रामस्य वाचोरामप्रतिपादकमूलरामायणरूपास्तेन हनुमताशिष्यान्‌ प्र=?Rत्यनयन्तेति वा । एवं यदीमुपह्वरत इत्यर्धर्चस्य हनुमदाख्यप्रथमावतारप्रतिपादकत्वमुक्त्वा इदानीं पृक्षोवपुरित्यस्य भीमाख्यद्वितीयावतारप्रतिपादकत्वसिध्यर्थं आशये सप्तशिवासुमातृषु इत्येतद्भीमशब्दार्थप्रतिपादकमिति भावेन तावद्भीमशब्दार्थमाह ॥ भृतम इति ॥ भृताः पूर्णाः माः प्रमाः प्रमाणानि यस्मिन्नसौ तथोक्तः । अस्त्वेवं भीमशब्दाथर्ः किंतत इत्यतोमातृष्वित्युक्तमातृशब्दार्थं तावदाह ॥ वाच इति ॥ माः प्रमाणभूतावाचोमापकत्वान्मातरः स्मृता इत्यर्थः । सप्तशिवास्वित्युक्तसप्तशिवशब्दार्थमाह ॥ ऋगाद्या इति ॥ ऋगाद्याश्ऱ्चत्वारः अस्त्वेवं मातृसप्तशिवाशब्दार्थः तथापि किमित्यत आह ॥ तत्रेति ॥ यतो भृतमोभीम इत्युक्तस्ततोभीमशब्दसमानार्थत्वात्तत्रोक्तासुसप्तशिवासुमातृषु शयोनिष्णातोभीमः स्मृत इत्यर्थः । तृतीयमस्येत्यादेरानन्दतीर्थाख्यतृतीयावतारप्रतिपादकत्वसिध्यर्थं प्रदिवोमध्व अधव

?Rइत्युक्तमध्वशब्दस्यानन्दतीर्थशब्दसमानार्थत्वमाह ॥ मध्वित्यानन्द इति ॥ मधुद्यौरस्तुनः पितेति प्रयोगात्‌ । वातेरवगत्यर्थात्‌

?Rकरणे घञर्थेकविधानमिति कः मधु अनन्दकरं वं तीर्थं शास्त्रं यस्त मध्व इत्यर्थः । स्वरित्यत्रेवोकारलोपः । आनन्दकरं तीर्थं यस्यासावानन्दतीर्थः तृतीयमस्येत्यत्रवपुरित्येतदनुवर्तत इति भावेनोक्तम्‌ ॥ तृतीयामारुतीतनुरिति ॥ तृतीयामारुतीतनुः मध्वः आनन्दतीर्थः स्यादिति सम्बन्धः । तात्पर्यद्योतनायै तज्ज्ञानफलमाह ॥ इतीति ॥ यदीमुपह्वरतेसाधतेमतिरित्यस्याऽर्थमाह ॥ साधक इति ॥ साधत इत्यस्यार्थोयं उपह्वरत इत्यस्यार्थस्तत्समीपगत इति । मतिशब्दार्थोहनुमानिति । पृक्षोवपुः पितुमानित्येतदपि भीमज्ञापकमिति भावेन व्याचष्ये ॥ भीमस्त्विति ॥ भीमस्तुद्वितीयोज्ञेयः पितोरन्नस्य बहुभुगित्यनेन पितुमानित्यस्याथर्ः उक्तः पृतनाक्षयकारीत्येनेन पृक्ष इत्यस्य बकासुरवधादौ भीमेबह्वन्नभोक्तृत्वं कुरुपृतनाक्षयकारित्यं च प्रसिद्धमिति भावः । तृतीयमस्य वृषभस्य दोहसे इत्येतद्वयाचष्ये ॥ तृतीयक इति ॥ आनन्दतीर्थनामातृतीयकस्तुपूर्णप्रज्ञः प्रकीतिर्त इति सम्बन्धः । फऊर्रफ्रम इत्यनेन दशप्रमतिशब्दोव्याख्यातः । तदपपादयति -B-41

?R॥ दशेतीति ॥ इह दशेतिशब्देन सर्वमुद्दिष्यं दशेतिवैसर्वमिति श्रुतेः । सर्वमिशब्देन च पूर्णमुच्यते दशसर्वपूर्णशब्दाः पर्याया इति यावत्‌ । ततो दशशब्दस्य पूर्णवाचित्वात्‌ प्रमतिशब्दस्य प्रज्ञावाचित्वात्‌ दशप्रमतिशब्देन पूर्णप्रज्ञ एवोच्यत इत्यर्थः । यदीमनुप्रदिवोमध्व आधवेगुहासन्तं मातरिश्ऱ्वामथायति इति वाक्यं व्याचष्ये ॥ आसमन्तादिति ॥ आधव इत्यस्यार्थोयं धव इत्यस्य भावप्रधानत्वमभ्युपेत्यपतित्व इत्युक्तम्‌ । गुहासन्तमित्यस्यार्थोगूढं हरिमिति तत्र निमित्तमाह ॥ कलियुग इति ॥ न केवलं कालबलाद्गूढः किन्त्वित्यत आह ॥ असत्यमिति ॥ अनीश्ऱ्वरं जीवातिरिक्तेश्ऱ्वर रहितं जीवेश्ऱ्वरैक्यमिति यावत्‌ । ननु जगतः सत्यत्वेतदन्तर्गतसर्वज्ञत्वासर्वज्ञत्वादिनविरुद्धधर्माणामपि सत्यत्वात्कथं जीवेश्ऱ्वरैक्यमित्यत आह ॥ असत्यमिति ॥ नन्वसत्यत्वं नाम न शशविषाणादीनामिवात्यन्तसत्वं अपरोक्षप्रतीति विषयत्वादित्यतस्तदेवव्याचष्ये ॥ अप्रतिष्ठमिति ॥ ज्ञानबाध्यमित्यर्थः । मातरिश्ऱ्वेत्युक्तयामूलवायुपरत्वप्रतीतिनिरासाय तृतीयोसुरित्युक्तम्‌ । तृतीयोसुःकलियुगेकालबलाद्गूढं तदेतज्जगदनीश्ऱ्वरं वदद्भिश्ऱ्चगूहितं हरिमासमन्तात्‌ सर्वप्रकारेण प्रतित्वेसर्वस्वामित्वेविषयेमथायति ब्रह्मसूत्रोपनिषदादिव्याख्यानेन हरेः पुरुषोत्तमत्वमाविष्करोतीत्यर्थः । निर्यदीं बुधनान्महिषस्य वर्पस ईशानासः शवसाऽक्रन्त सूरय इत्येतद्वयाचष्ये ॥ येनेति ॥ यदित्यस्यार्थोयेनेति तृतीयावतारेणेत्यर्थः । महिषस्येत्यस्यार्थोविष्णोरिति वर्पस इत्यस्यार्थोवर्पाख्यान्गुणानिति निराक्रन्तेत्यस्यार्थोऽज्ञासिषुरिति ज्ञातवन्त इत्यर्थः । ईशानास इति ब्रहुवचनमाद्यर्थे ईशानाद्यादेवा अन्ये सूरयश्ऱ्च ब्रह्मनिर्गुणमित्युक्तिभिर्निगूढान्‌ गुणानित्यन्वयः । अवतारत्रयस्य कालभेदमाह ॥ त्रेतायामिति ॥ क्रमादेवेत्यन्वयः । त्रयोजाता इति शेषः । प्रयत्पितुः परमान्नीयत इत्यस्य तात्पर्यमाह ॥ (तेषांहि) एतेषामिति ॥ असौ विष्णुः स्वयम्भुब्रह्मसंज्ञोसावित्नेन ब्रह्मस्वयम्भ्वित्येतदुपनिषदंत्यवाक्यं विष्णुपरमित्युक्तं भवति । ब्रह्मणेनम इत्यस्य ब्रह्मशब्दस्यान्यपरत्वप्रतीतिनिरासाय व्याचष्ये ॥ परस्मा इति ॥ यद्वा न केवलं हनुमदादिरूपत्रयविशिष्योवायुः बलित्थेत्यादिश्रुतावेव प्रतिपाद्यः । किन्तु प्रजापतिः ब्रह्मणोब्रह्मस्वयम्भ्वित्येतदुपनिषदन्त्यवाक्येचेति भावेनाह ॥ स्वयम्भुब्रह्मसंज्ञोसाविति ॥ असौ रूपत्रयविशिष्योवायुः स्वस्मत्स्वयमेवोत्पन्नत्वात्स्वयं शब्दवाच्यविष्ण्वाज्ञयोत्पन्नत्वाद्वास्वयम्भूः । ज्ञानादिगुणपूर्णत्वाद्ब्रह्मेत स्वयम्भुब्रह्मसंज्ञ इत्यर्थः । तर्ह्युपनिषदिब्रह्मणेनम इत्युत्तरवाक्ये ब्रह्मशब्देनाऽयमेव ग्राह्यः किं नेत्याह ॥ परस्मा इति ॥ ततश्ऱ्चायं सूक्तार्थः । सहसः सहोरूपस्य देवस्य क्रीडशदिगुणसम्पन्नस्य वायोः मूलरूपं बट्‌ बलात्मकं दर्शतं ज्ञानरूपं भर्गोजगद्भरणगमनगुणं तत्‌ इत्था इत्थं भूतमेव वपुषेरूपत्रयावताराय यतो यस्माद्भगवता धायि अधायि निहितं भगवता प्रेरितमित्यर्थः तस्मादजनि यद्वा यतो वायोः भगवानजनिव्यक्तोभूत्तस्माद्वायोरिति सम्बन्धः । प्रथमावतारस्वरूपमाह ॥ यदीमिति ॥ यदींयदेवमतिः हनुमदाख्यं प्रथमं रूपमुपह्वरतेरामस्य समीपे तिष्ठति । साधतेरामकार्याणिसाधयति तेन हनुमता ऋतस्य सत्यरूपस्य रामस्य सस्रुतः अमृतस्रावयुक्ताः धेनावाचः अनयन्तसीतां प्रतीतिशेषः । द्वितीयावतारस्वरूपमाह ॥ पृक्ष इति ॥ द्वितीयं वपुर्भीमाख्यं पृक्षः पृतनाक्षयकारी पितुमान्‌ अन्नवान्‌ बहुभुगिति भावः । नित्यः नित्यं सप्तशिवासुपरममङ्गलरूपासु सप्तसुमातृषु प्रमाणभूतासुऋगादिषु आशयेशेते तद्विचारयतीति भावः । अनेन द्वितीयावतारवाचकभीमशब्दार्थ उक्तो भवति । तृतीयावतारस्वरूपमाह ॥ तृतीयमिति ॥ अस्य वृषभस्य श्रेष्ठस्य वायोः तृतीयं वपुः दोहसेज्ञानदोहाय दशप्रमतिं पूर्णप्रज्ञनामकं योषणः नार्योगुरुत्वाद्बहुवचनं जनयन्त अजनयन्त ॥ नियर्दीमिति ॥ बुध्नात्‌ ज्ञानरूपात्‌ यदींयस्मादेव महिषस्य महितषड्‌गुणस्य हरेः वर्पसः वरणीयत्वात्पालकत्वाद्वर्पोनामकान्‌ गुणानीशानासः रुद्राद्या देवाः अन्येसूरयोज्ञानिनश्ऱ्च शवसासुखेन निराक्रन्त ज्ञातवन्तस्तत्तृतीयं वपुरिति पूवर्ेण सम्बन्धः ॥ यदीमिति ॥ यदींय एव प्रदिवः

?Rप्रकृष्यप्रकाशरूपोमध्वः आनन्दतीर्थाख्योमातरिश्ऱ्वावायुः गुहासन्तं जीवेश्ऱ्वरैक्यं वदद्भिर्गहितं सन्तं हरिं आधवे

?Rआसमन्तात्पतित्वे मथायति मथ्नाति शास्थेण विचार्यनिश्ऱ्चाययतीति भावः ॥ प्रयत्पितुरिति ॥ यत्‌ रूपत्रयं पितुः स्वोत्पादकात्‌ परमादुत्तमाद्विष्णोः प्रणीयते प्रकर्षेण प्रेर्यते पृक्षुधः प्रश्ऱ्नरूपान्‌ वीरुधस्तं बायीन्‌ दंसुदन्तेषु पर्यारोहतिचर्विचवच्छकलीकरोतीत्यर्थः ॥ उभेति ॥ यत्‌ यस्मादस्य जनुषं जन्मावतारं उभा उभौ लक्ष्मीनारायणौ इन्वतः प्रेरयतस्तस्मात्‌ घृणाशुचिः कृपया शुद्धः । स आदित्‌ आभ्यां नारायणाभ्यामेव यविष्ठोवरोभवदित्यर्थः । गर्भसम्बन्धनिमित्तकदुःखलेशोपिनास्तीत्याह ॥ आदिति ॥ यतो वायुः लक्ष्मीनारायणप्रेरणादेवमातॄराविशत्‌ न पुनरस्य गर्भवासादिनिमित्तं विकर्मास्तीति भावः । उर्वियेति ॥ उर्वियोत्कृष्ययागर्भवास पीडया अहिस्यमानोऽबाध्यमानोविवावृदेविशेषणाभिवृद्धोऽभूदिप्तशिवासुमातृष्वित्युक्तं तत्र विशेषमाह ॥ अन्विति ॥ स नाजुवः सदातनं भगवन्तं जुषन्ते प्रतिपादयन्तीति स नाजुवः रुहिदिति यत्‌ तदनुक्रमादेव उपक्रमादेव उपक्रमादिलिङ्गैः क्रमेणैव ऋगादिवेदचतुष्ययार्थं विचारयामासेत्यर्थः । त्वेन नूतनासु अवरासुत्रिषु इतिहासपुराणपञ्चरात्राख्यासुमातृषु निधावते उपक्रमादिपर्यालोचनं विनैव शीघ्रमेवार्थं विचारयतीत्यर्थः । इति परमात्मस्तवननमनाभ्यामेव ग्रन्थः समापनीयोनतु स्वस्तुत्यैवेति भावेन पुनर्भगवन्तं प्रणमति ॥ पूर्णेति ॥ वेधसेसर्वज्ञायेत्यशेषमतिमङ्गलम्‌ ॥ श्रीमदानन्दतीर्थार्यहृत्सरोजाख्यमन्दिरः । इन्दिराराध्यपादाब्जः प्रीयतां पुरुषोत्तमः । प्रौढिप्रकाशनार्थं वानमात्सर्यादि दोषतः । कृतेयं भाष्यविवृतिः किन्तु मन्दोपकारिणी ॥ बृहदारण्यभाष्यस्य विवृतिर्याकृतामया । तज्जन्यपुण्यमखिलमवाप्नोतु गुरुर्मम ॥

**इति श्रीबृहदारण्यकभाष्यटीकायां श्रीमद्रघुवर्यतीर्थपूज्यपादशिष्यरघूत्तमयतिकृतायां परब्रह्मप्रकाशियां अष्यमोऽध्यायः ॥ 8 ॥ B-42 **

************************************************************************

?Rश्रीमद्धनुमद्भीमध्वान्तर्गतरामकृष्णवेदव्यासात्मक लक्ष्महयग्रीवाय नमः ॥

हरिः ॐ ॥

?Rलक्ष्मीपतिं सुखमुखैरखिलैः गुणौघैः पूर्णं व्यपेतनिखिलाघमचिन्त्यशक्तिम्‌ ।

?Rप्राणादिसर्वजगतो जनिपूर्वहेतुं मोक्षैक हेतुमनिशं प्रणमामि विष्णुम्‌ । 1 ॥

?Rनिखिलाद्वैतसिद्धान्तप्राप्ता ज्ञानविनाशकाः ॥

?Rश्रीमदाचार्यसूर्योयं दद्यात्तत्वप्रकाशनम्‌ । 2 ॥

?Rवाग्वज्रेणाच्छिनद्योसकृदति विवदद्वादिसन्दोहभूभृत्पक्षान्धीमन्दरेण प्रमथनमकरोन्मध्वसिद्धान्तवार्धेः ।

?Rसम्प्राप्याथोमुधां योनिखिलसुमनसः पाययामासमुक्त्यैतं मूर्ध्ना श्रीजयार्यं सपदिबहुदृशं संयमीन्द्रं नमामि ॥ 3 ॥

?Rयेन वेदान्तभाष्याणि विवृतानि महात्मना ।

?Rतं वन्दे व्यासतीर्थाख्यं वेदान्तर्थप्रसिद्धये ॥ 4 ॥

?Rयोऽध्यापयित्वावेदांश्ऱ्चमध्वसिद्धान्तमादिशत्‌ ।

?Rन्यासं प्रादाद्धरेः प्रीत्यैरघुवर्यगुरूं भजे । 5 ॥

?Rयत्काण्वोपनिषद्भाष्यं पूर्णप्रज्ञविनिर्मितम्‌ ॥

?Rतत्कृपालवमाश्रित्यव्याख्‌यास्येतद्यथामति । 6 ॥

?Rइहामुत्रफलभोगविरक्तस्य शमदमादिमतो मुमुक्षोरधिकारिणोऽनिष्यनिवृत्तेः परमानन्दावाप्तेश्ऱ्च साधनत्वेन प्रवृत्तां काण्वीमुपनिषदमन्यैरन्यथाव्याख्यात त्वेनाप्रवृत्तामिवमन्यमानो यथा वद्वयाचिख्यासुभर्गवानानन्दतीर्थमुनिः विलीनप्रकृतितयान्तराय विधुरोप्यनवरतमीश्ऱ्वरप्रवणकरणवृरिपि नारायणप्रणामादिकं प्रारिप्सितस्य अनन्तराय परिसमाप्तेः प्रचयस्य च हेतुतयाविगीतशिष्‌टाचारपरम्परादिना अवगतमवश्‌यकरणीयं शिष्यान्‌ ग्राहयितुं ग्रन्थादौ निबध्नाति । प्राणादेरिति । स्वस्य विष्णुवन्दनं कादाचित्कं न भवतीत्याशयेनोक्तम्‌ । सदेति । ननु सीष्वन्यासुदेवतासुकुतो विष्णोरेव वन्द्यत्वमिति चेत्‌ अन्यत्र वन्द्यत्व प्रयोजकविशिष्यत्वाद्यभावात्‌ । त्रिविधाहि देवता वन्द्या भवति विशिष्याधिकृतेष्याचेति । नहि देवता वन्दनं व्यसनितया क्रियते । किन्तु विघ्नविघातादिप्रयोजनापेक्षितया । विशिष्यैव देवतातस्येष्ये । अधिकृताच स्वविषयकग्रन्थप्रबोधादिकं सम्पादयति । वन्दंन खलु भक्त्याद्युपेतमेव सफलं तच्चेष्यायामेव देवतायामुपपद्यत इति । तत्र विशिष्यत्वाधिकृतत्वप्रतिपादनाय प्राणादेः ईशितारमित्यादीनि सर्वाण्यपि विशेषणशनि । लक्ष्मीमुक्तव्यावृत्त्यर्थं परमेति सुखविशेषणम्‌ । पारतन्त्ऱ्ादि सर्वदोषव्यपेतम्‌ । देशतः कालतो गुणतश्ऱ्च पूर्णत्वलाभाय सुपूर्णमित्युक्तम्‌ । पराधीन विशेषलाभादिना केनापि प्रकारेण न जायत इत्युजम्‌ । सर्वबाह्यं सर्व विलक्षणम्‌ । अपूर्णत्वदि चतुर्विधनाशाभाव लाभायमुनित्यमित्युक्तम्‌ । सर्वज्ञं स्वपरगताखिलविशेषज्ञम्‌ । सर्वशक्तिं प्रकृतिप्राणशदिपालननियमनादिविषवशक्तिमन्तम्‌ । सुराः पद्मापद्मभवादयः । सेव्यत्वेनिमित्तोक्तिः सकलेति । सकलस्य जगतः अनाद्यन्ताः चेष्योत्पत्तिनाशा यस्मात्सतथोक्तः तम्‌ । सेवाप्रयोजनोक्तिरानन्ददमिति । स्वातन्त्ऱ्ेण मौक्तानन्ददम्‌ । एवं चैतेषां विशिष्यधर्मप्रतिपादकतया विशिष्यत्वप्रतिपादकत्वं द्रष्यव्यम्‌ । यः प्राणमन्तरोयमयतीत्यादिना प्राणादेरीशितृत्वम्‌ । अथैष एव परम आनन्द इति परमसुखनिधित्वम्‌ । यो अशनायापिपासे इत्यादिना सर्वदोष व्यपेतत्वम्‌ । यः पृथिव्यां तिष्ठन्नित्यादिना सर्वान्ततस्थत्वम्‌ । यो यमात्मेदममृतमिदं ब्रह्मेदं सवर्मित्यत्र ब्रह्मसर्वपदाभ्यां सुपूर्णत्वम्‌ । अमृत पदेन सुनित्वम्‌ । एतस्मिन्खल्वक्षरेगार्ग्याकाश ओतश्ऱ्च प्रलोचश्ऱ्चेति प्रकृतिपतित्वम्‌ । "" ?Rआत्मैवेदमग्रअ आसीदित्यजत्वम्‌ । नेति नेतीति सर्वबाह्यत्वम्‌ । सर्वानुभूरित्यनुशासनमिति सवर्ज्ञत्वम्‌ । स यथा आद्रेन्धग्नेरित्यादिना । सर्वसृष्ययुक्त्यासवर्शक्तित्वम्‌ । तद्योयोदेवानां प्रत्यबुध्यते त्यादिना सुरादि सेव्यत्वम्‌ । अशनाया हि मृत्युः स तया वाचातेनात्मनेदं सर्वमसृजत सर्वं वा अत्तीत्यादिना सकलजगदनाद्यन्तत्वं कं हवा स्मै भवतीत्यादिनानन्ददत्वमुक्तमित्येतेषामधिकृत्वप्रतिपादकत्वं द्रष्यव्यम्‌ । इष्यत्वप्रतिपादनार्थमप्यानन्ददमित्युक्तम्‌ । यद्वा नानिर्धारितस्वरूपस्य प्राणामोयुक्तः नचांन्तरेण लक्षणं वस्तुनिर्धारणमिति विभवादनेकानिविष्णोः लक्षणान्यनेनोच्यन्ते । एतेषां विशेषणानां विष्णुमात्र निष्ठत्वं प्रागेवोक्तमिति । योहवा अविदितार्पछन्दोदैवत ब्राह्मणेन मन्त्रेण यजति याजयति वाध्यापयति वास्थाणुं वर्छति गर्तेवापद्यत्प्रवामीयत इति श्रुतेः देवतादिज्ञानवत एव विद्याफलतदीति ज्ञायते । तत्र ब्राह्मणपदोपलक्षितार्थज्ञानं व्याख्यानादेव भविष्यति । प्रायः छदोवद्धत्वं नास्त्येव । तदुपनिबन्देतु अक्षरपरिगणनया तज्ज्ञानं सुकरमेव । अतः ऋषिदेवतेज्ञापयन्नाह ॥ यथेति । यथा यत्प्रकारानुपूर्वीविशिष्योपानिषदा लक्ष्मीशन्तुष्याव तथा तत्प्रकारानुपूर्वीविशिष्यामुपनिषदं जगादेत्यर्थः । अस्या उपनिषदोवा

?Rजसनेयकं काण्‌वमिति लोकप्रसिद्धं नामोपपादयन्नवान्तर ऋषीनाह ॥ वाजिरूपेणेति । सूर्येण प्रोक्तत्वेसौर्यमिति स्यादित्यतो वाजिरूपेणषत्युक्तम्‌ । तेन कण्वाधीतत्वेन लक्ष्मीशमित्युपनिपत्प्रतिपाद्योक्त्या संसारव्याविवृत्सुभ्यः संसारनिवृत्तिसाधनब्रह्मात्मैकत्व विद्याप्रतिपत्तये ग्रन्थावृत्तिरारभ्यत इत्युक्तं परास्तम्‌ । ब्रह्मात्मैकत्व ज्ञानस्यानर्थफलत्वेन संसारनिवृत्तिसाधनत्वाभावात्‌ । पूर्वं अन्तःकरणशुद्धिद्वारा ब्रह्मविद्याधिकारार्थमश्वमेधोनिरूपितः । कर्मणाशुद्धान्तः करणस्य सुविक्तस्य ब्रह्मस्वरूपं निरूपयति । उषावा अश्रवस्य मेध्यस्येत्यादिकया समग्रोपनिषदा । ननु तदप्यध्यायद्वयं कुतो न व्याख्यातमिति चेन्न । तस्य कर्मकाण्डत्वेनाब्रह्मविद्यात्वात्परैर व्याख्यातत्वेनान्यथाप्रतीत्यभावाच्चेति । तत्रादौ प्रकृताश्ऱ्वमेधयागेमेध्यभूताश्ऱ्वनिष्ठब्रह्मविद्यामाह । उषा इति । तत्र मेध्यस्या श्ऱ्वस्योष अदिसर्वजगदाश्रयत्वं प्रतीयते । तदीशलिंगम्‌ । अतोऽयुक्तमित्यतस्तद्घटयति । अश्ऱ्वेति । तत्र अश्ऱ्वरूपेचतुर्मुखे । अस्त्वेवं किं ततः प्रकृते न ह्यत्राश्ऱ्वरूपोविष्णुः विरिंचोवाप्रतिपाद्यः । मेध्यस्याश्ऱ्वस्य श्रवणादित्यत आह । तयोरिति । तयोः विष्णुब्रह्मणोः । तदंगेषु मेध्याश्ऱ्वांगेषु । ननु मेध्याश्ऱ्वस्य विष्णुविरिंचप्रतिमात्वेप तदंगेषु जगत्सन्निहितमित्युक्तिः कथमित्यत आह । तयोरिति । विष्णुविरिंचयोरित्यर्थः । ननूच्चैः श्रवाः मेध्याश्ऱ्वेतिष्‌ठतीति क्वचिदुक्तेः कथं विष्णुब्रह्माणौ तत्र तिष्ठत इत्युक्तिरित्यतस्तद्घटयति । उच्चैः श्रवा इति । कर्मांगस्य पशोः संस्कर्तव्यत्वात्कालादिदृष्ययः शिर आदिषु क्षिप्यन्त इत्यन्यैः खण्डतात्पर्यमुक्तं तदप्यनेनापहस्तितं भवति । अप्रामाणिकत्वात्‌ । मिथ्यादृष्यित्वेन तस्य पशुसंस्काररूपत्वाभावाच्च । पर्वतादिशब्दानां प्रसिद्धपर्वतादिपरत्वमन्यैरुक्तं तन्निरासार्थं तेषां देवतापरत्वं प्रमाणेनाह ॥ पर्वता इति ॥ सिकताश्ऱ्चैवेत्येवकारश्ऱ्चशब्दार्थः । अन्यथासूर्यश्ऱ्चक्षुरित्यादिदेवतोपक्रमविरोधः स्यादिति भावः । ननु तर्हि सूर्यश्ऱ्चक्षुरित्यादिवत्‌ देवतावाचकपदप्रयोगः स्यादित्यत आह । तत्तन्नामैवेति । पवर्ताद्यभेदात्किं तेषां तन्नामेत्यततस्तदभिमानादित्याह । भिन्नानामिति । तर्हि विष्णोः पर्वताद्यभिमानाभावान्नामानि सर्वाणीति श्रुत्यादौ कथं पर्वतादिशब्दवाच्यत्वोक्तिरित्यत आह । नामानीति । तान्यपि अन्यवाचकत्वेन प्रतीतान्यपि मुख्ययावृत्त्येति शेषः । तत्र हेतुमाह ॥ तत्तच्छब्दनिर्वचनलभ्यगुणैः अधिकोहियस्मादित्यर्थः । ननूपावा अश्ऱ्वस्य मेध्यस्य शिर इति समानाधिकरणतया प्रयुतत्वात्कथं सर्वं जगत्तदंगेषु सन्निहितमिति व्याख्यानमित्यत आह ॥ उषा इति । ब्रहमनामेत्यनेन नाम ब्रह्मेति श्रुतिमुपादत्ते । तत्वमसीत्यादौ विद्यमानाः शिरो नाम तदित्यादिप्रथमान्ताः शब्दा इत्यथर्ः । सप्तम्यर्थत्वे प्रयोजनं सूचयति । तदैक्यवाचिवदिति । तदैक्यप्रतिपादकवत्प्रतीयमाना अपि उषाः शिर इत्यादिवाक्यरूपाः शब्दास्तद्गत्वप्रतिपादका इत्यर्थः । कुतो नैक्यार्था इत्यत आह ॥ ते सर्व इति । शिरश्ऱ्चक्षुरित्यादि प्रथमान्तान्‌ शब्दान्‌ सप्तम्यर्थत्वेन व्याख्यायेदानीं प्रथमां तत्वेनापि व्याख्याति । ईशेति । भगवच्छिर आद्यं गानां प्रकाशरूपत्वसूरिप्राप्यत्वादिनोपाः सूर्य इत्यादिशब्दार्थत्वतः शिर आदिशब्दा ईशांगवाचिनोवास्युरित्यर्थः । प्रथमायाः सप्तम्याद्यर्थत्वमनुशासनैः द्रढयन्‌ तदर्थत्वे योजनां सूचयति । सप्तस्विति । तत्तद्योग्यर्थतेति । प्रथमायाः पंचमीतृतीयार्थत्वे उष आदीनां शिर आदिजातत्वं षष्ठयर्थत्वेतच्छेषत्वं चतुर्थ्यस्थित्वं द्वितीयार्थत्वेतत्प्रत्युपासकतया स्थितत्वमित्यादि यथया योग्यार्थतेत्यर्थः । ननु विष्णोः मेध्याश्ऱ्वहृदयमात्रगतत्वेन तदंगेष्वभावात्‌ तयोरंगेष्विति विष्णवंगगतत्वेन जगतो मेध्याश्ऱ्वांगगतत्वोक्तिघटनाकथमित्यत आह ॥ अंगेति ॥

?Rअश्ऱ्वस्य मेध्यस्येति सर्वत्रानुषङ्गार्थं पुनर्वचनमित्यन्यैव्यर्ाख्यातं तदसत्‌ । प्रथमोक्तेरेवसर्वत्रानुषङ्गसम्भवात्‌ । कस्यचिदश्ऱ्वस्यैवमासीदितीति हासरूपेणोच्यत इति शङ्काया अपरिहाराच्चेत्यभिप्रेत्यस्वयं पुनः वचनप्रयोजनमाह ॥ पुनरपीति । कुत एतत्सिध्यतीत्यतदोनियामकं पठति ॥ सर्वव्यक्तिष्विति ॥ विश्ऱ्वस्मादिन्द्र उत्तर इति पुनर्वचनं एतत आत्मान्तर्याम्यमृत इत्यादि पुनवर्यचनं च तात्पर्याधिक्यवित्तये । एतने सर्वेव्याख्याताव्याख्याता इति प्रतीतानुपपत्तेराभासत्वविवक्षयोद्विष्यमिति योज्यम्‌ । न केवलमेकवारं पुनर्वचनं किन्तु शतशोपिस्युः । पृथक्पृथक्प्रतिवाक्यम्‌ । उवध्यंसिकता इत्येतत्‌ उवध्यमुदरस्थमजीर्णमशनं सिकताः विश्लिष्यावयवसाम्यादित्यन्यैर्व्याख्यातम्‌ । तदसत्‌ । अप्रामाणिकत्वात्प्रमाणविरुद्धत्वाच्चेति भावेनोवध्यशब्दार्थं प्रमाणेनाह । विष्णोरिति ॥ इदानीमुवध्यंसिकता इति वाक्यार्थमाह ॥ तत्स्थत्वादिति ॥ ननु पृथिवीपाजस्यमिति पृथिव्याः पादगत्वोक्तः कथमुदरगतोवध्यूपत्वमित्यत आह ॥ उर्व्यास्त्विति ॥ एकस्याजडरूपायाः पृथिव्याः कथं पादोदरोभयगतत्वमित्यत आह ॥ तासाञ्चेति ॥ एकस्याबहुरूपत्वं कथमित्यत आह ॥ ऐश्ऱ्वर्यादिति ॥ आत्मानं बहुधाकृत्वाक्रीडते योगसम्पदेत्युक्तयोगसम्पदादिरूपहेतुसमुच्चये चशब्दः । अवान्तरदिशः पर्शव इत्येतद्वयाचष्ये । अवान्तरेति ॥ पार्श्ऱ्वस्थास्थीनिपुच्छञ्चेत्यर्थः । ननु दिशाञ्चतुष्ट्वात्पार्श्ऱ्वयोर्द्वित्वात्कथं दिशः पाश्ऱ्वर्े इत्युक्तिरिति चेत्‌ अत्र सर्वमुखत्वोपपत्तेरश्ऱ्वस्यपाश्ऱ्वाभ्यामेवसर्वदिशांसं बाधाददोष इति केचित्‌ । तदसत्‌ ।

?Rमुखपुच्छाद्यवयवेनापि सर्वदिशांसंम्बन्धादतिप्रसङ्गादिति भावेन स्वयं प्रमाणेन परिहरति । पूर्वेति । पार्श्ऱ्वयोः पअत्येकं पूर्वपश्ऱ्चिमार्धभागसद्गावेन चतुष्ट्वादित्यर्थः । ॠतवोङ्गानीत्यत्रापि सङ्खयावैषम्यं परहिरति । शिरश्ऱ्चेति ॥ पादमूलानि खुराः । संवत्सरोद्वादशमासाः त्रयोदशमासावा आत्मा शरीरमित्यन्यथाप्रतीति निरासाय संवत्सर आत्मेत्येतद्वयाचष्ये ॥ संवत्सराभिमानीति ॥ अप्रतीतेः यकृत्क्लोमन्‌ शब्दार्थं वदन्‌ यकृच्चक्लोमानश्ऱ्चपर्वता इति वाक्यं व्याचष्ये ॥ क्लोमानश्ऱ्तेति । हृदयगतदक्षिणोत्तरभागस्थमांसविशेषावित्यर्थः । गुदस्यैकत्वेन बहुवचनानुपपत्तेः सिन्धवागुदा इत्येतद्वयाचष्ये ॥ आन्त्रेष्विति ॥ नभोमांसानीत्येतत्‌ नमो नमस्थामेघाः अन्तरिक्षस्योदरत्वोक्तेर्मांसानीति परैः व्याख्यातम्‌ । तदसत्‌ । नभः शब्दस्यलाक्षणिकत्वापत्तेः । नच मुख्यार्थानुपपत्त्यातदङ्गीकारः । नभोन्तरिक्षशब्दयोः पृथग्वाच्यार्थसम्भवेन तदयोगादिति भावान तद्वाक्यद्वयं व्याचष्ये ॥ नभोमानीति ॥ 1 ॥ अथखण्डार्थः ॥ मेध्यस्य मेधार्हस्य यागीयस्याश्ऱ्वस्य तदन्तर्गत भगवतः शिरः शिरसि उषाः स्थिता । वा इति अयार्थस्य प्रमाणप्रसिद्धिं सूचयति । सूर्यश्ऱ्चक्षु चक्षुर्गतः वातोनासिक्यवायुः प्राणः घ्राणगतः । वैश्ऱ्वानरोवै?श्ऱ्वानरनामाऽग्निः व्यात्तं विवृतमुखगतः । संवत्सरस्तदभिमानी ब्रह्मा मेध्यस्याश्ऱ्वस्य तदन्तर्गतस्यात्मासर्वशरीरगः । द्यैर्द्युलोकाभिमानी पृष्यं पृष्ठाश्रितः । अन्तरिक्षमन्तरिक्षाभिमानीविघ्नेशसूनुः उदरं उदरेस्थितः । पृथिवीतदभिमानिनी पाजस्यं पादाश्रिता । दिशोदिगभिमानिनः । पार्श्ऱ्वेप्रत्येकं पूर्वपश्ऱ्चिमार्धभेदेन भागद्वयोपेतोभयपार्श्ऱ्वस्थाः । अवान्तरदिशः आग्नेयादिकोणाधिपाः । पर्शवः पार्श्ऱ्वस्थास्थिपुच्छाश्रिताः । ऋतवोवसन्तद्यभिमानिनः षट्‌ । अङ्गानिशिरः खुरचतुष्ययपुच्छरूपषणडगाश्रिताः । मासाश्ऱ्चार्धमासाश्ऱ्चेति च शब्दावितरेतरयोगे । मासाभिमानिनः पक्षाभिमानिनश्ऱ्च । पर्वाणि प्रधानसन्धिषु अवान्तरसन्धिषु च स्थिताः । अहोरात्राणि तदभिमानिनः । प्रतिष्ठाः प्रतितिष्ठन्त्येतैरिति प्रतिष्ठाः पादाः तदाश्रिताः । एकस्प भगवदङ्गस्यानेकदेवाश्रयत्वोपपत्तेः पृथिवीपाजस्यमहोरात्राणिप्रतिदष्ठा इत्याद्युक्तिरुपपन्ना । नक्षत्राण्यश्ऱ्विन्यादीनि दैवतानि । अस्थीनितदाश्रितानि । नभो नभोभिमानीविघ्नेशः । मांसानितदाश्रितः सिकताः तदभिमानिदेवाः । उवध्यं विष्णुपुरीस्थानीय पृथिव्याश्रिताः । स्यन्दनात्सिन्धवोनद्यः । गुदाः आंत्राश्रिताः । पर्वताः गिर्यभिमानिनः । यकृच्चक्लोश्ऱ्चहृदयस्य दक्षिणोत्तरभागमांसविशेषाश्रिताः । ओषधयश्ऱ्चवनस्पतयश्ऱ्चेति चशब्दावितरेतरसमुच्चये । तदभिमानिदेवाः । लोमानितदाश्रिताः । उद्यन्‌ उदयं प्राप्तः सविता । पूर्वार्धः नाभेरूध्वर्भागाश्रितः । निम्लोचन्‌ अस्तङ्गतः सविता । जघनार्धोनाभेरधोभोगाश्रितः । विद्योततेविद्योतनं तदभिमानी । यद्विजृम्भतेविजृम्भणम्‌ । तत्‌ तदाश्रित इति योजना । स्तनयति गर्जनं तदभिमानी । यद्विधूनतेविधूननं गात्रकम्पनं तत्‌ तदाश्रितः । वर्षतिवर्षणं तदभिमानी । यन्महतिमेहनं मूत्रणम्‌ । तत्तदाश्रितः । वागेवप्रसिद्धवागभिमानिनी । अस्यवाक्‌ तदाश्रितेति ॥ 1 ॥ अथभाष्यार्थः ॥ प्रकृताश्ऱ्वमेधसम्बन्धिविद्याविशेषमाह ॥ अहारित्यादिना ॥ अहः सौवर्णोमहिमाग्रहः सुवर्णपात्रम्‌ । अश्ऱ्वं पुरस्तात्‌ अन्वजायत । तस्य पूवर्ेपूर्वः समुद्रेसमुद्रः योनिः आसादनस्थानम्‌ । रात्रिः राजतोमहिमाग्रहः रजतपात्रम्‌ । एनं अश्ऱ्वपश्ऱ्चात्पृष्ठतः अन्वजायत इत्यादिपरकीयव्याख्यानं अप्रमाणिकत्वात्प्रमाणविरुद्धत्वाच्चासदिति भावेन व्याचष्ये ॥ अश्ऱ्वेति ॥ अश्ऱ्वपूर्वापरौहोम्यौभाकौहोमार्थं गृह्येते इति ग्रहनामानौमहिमानौस्मृतावित्यन्वयः । एवं महिमशब्दार्थमुक्त्वा अहर्वा अश्ऱ्वं पुरस्तादित्यादिवाक्यार्थमाह ॥ अहोरात्रेति ॥ तयोः महिम्नोः । कौतावित्यत आह ॥ काम इति ॥ परस्परसमुच्चयेचशब्दौ । परोक्तव्यावृत्त्यर्थमेवकारः । तस्य पूर्वेसमुद्रेयोनिः तस्यापरेसमुद्रेयोनिरत्यिस्य ततात्पर्यमाह ॥ विष्ण्विति । तयोः समुद्रशब्दं निर्वक्ति ॥ समुद्रेकादिति ॥ अपरः समुद्र इति शेषः । अनेनाश्ऱ्वं एनमिति द्वितीयाषष्ठयर्थे । पुरस्तात्पश्ऱ्चादित्यनन्तरं भाग इत्यध्याहारः । महिमाहोमार्थं गृहीतत्वेन ग्रहनामकः । ततश्ऱ्चाश्ऱ्वं अश्ऱ्वस्य विभक्तस्य पुरस्तात्पूर्वोभागोमुखभाग इति यावत्‌ । महिमाहोमार्थं गृहीतत्वेन ग्रहनामा । अहः अहरभिमानिकामाभिमन्यमान अन्वजायत । तस्या हरभिमानिनः पूवर्ेपूर्वोमुख्यः समुद्रेसमुद्रः समुद्रेकात्समुद्रनामा विष्णुः योनिः कारणम्‌ । एनं एतस्याश्ऱ्वस्य पश्ऱ्चात्परभागः पुच्छभाग इति वायत्‌ । महिमाग्रहो रात्रिः रात्ऱ्यभिमानिरत्यभिमन्यमानः अन्वजायत । तस्य रात्ऱ्यभिमानिनः अपरे अपरः अमुख्यः समुद्रेसमुद्रः उपचारेणोद्रेकात्समुद्रनामाचतुर्मुखो योनिः कारणमिति व्याख्यातं भवति । एतौ पूर्वोक्तौ महिमानौग्रहौ अश्ऱ्वमभितः अश्ऱ्वमभिव्याप्य । अश्ऱ्वसमग्रदेहादिति यावत्‌ । सम्बभूवतुरिति वाक्यशेषार्थो ज्ञेयः । न केवलं भगवानश्ऱ्वरूपीमेध्याश्ऱ्वेतिष्ठति । किन्तर्हि देवादिवाहेष्वपीत्युक्तम्‌ ॥ हयइत्यादिना ॥ तद्वाक्यं मेध्याश्ऱ्वोहयोविशिष्यगतिः जातिविशेषोवाभूत्वादेवानवहत्‌ देवत्वमगभत्‌ देवानामोढावाऽभवदित्यादिनान्यैरन्यथा व्याख्यातम्‌ । तददिति भावेनाह ॥ सविष्णुरिति ॥ एतेन भगवान्स्वयमेवहवादिः भूत्वादेवादीनवहदित्यपि परास्तम्‌ । समुद्र एव परमात्माबन्धुर्बन्धनं

?Rबध्यतेस्मिन्नित्वेतदपव्याख्यानमिति भावेन समुद्र एवास्यबन्धुरित्येतद्वयाचष्ये ॥ चद्बन्धुरिति ॥ तद्बन्धुरिति ॥ अस्य मेध्याश्ऱ्वस्य समुद्रः परमात्माप्रसिद्धसमुद्रो योनिः कारणमित्येतदपव्याख्यानमिति भावेनाह ॥ तस्मादेवेति ॥ जन्यजनकभावात्पितापुत्रवद्भेदोनमन्तव्या इत्याह ॥ रूपेति ॥ भेदाभावेकथं जन्यजनकभाव इत्यत आह ॥ ऐश्ऱ्वर्यादिति ॥ तथापि भेदाभावेपि किं निमित्ततोभगवान्हयादिनामेत्यत आह ॥ हत्वेति ॥ ह हत्वानिर्वचनत्वात्‌ । यातेः कप्रत्यये धात्वाकारलोपेयातीति य इति हयः । वाजं युद्धमस्यास्तीति वाजी । इनेरथर्ः कर्तृत्वादिति । ऋगतावित्येतस्मादतीत्यर्थेवन्प्रत्ययेगुणेचार्वेतिरूपसिद्धिः । आशुत्वादाशुगभनादित्यर्थः । आशूपपदाद्वागतिगन्धनयोरित्यतः कप्रत्यरये उपपदोकारलोपे आकारह्रस्वत्वेचाश्ऱ्व इति रूपसिद्धिरिति भावः । स्मृतौ विष्णोः हयादिशब्दवाच्यत्वे हत्वायातीत्यादिनैवनिमित्तमुक्तमिति प्रतीयते । नतु देववाहेषुसंस्थित इत्यादिना तदुक्तमिति । अतस्तद्वाक्यद्वयतात्पर्यं स्ववचनेनाह ॥ तेषामिति ॥ अनेन विष्णुः देवादिवाहेषुसंस्थितः सन्हयादिनामेति योजनासूचिता भवति । यद्वाहत्वायातीत्यादावुक्तनिमित्तेन हयाद्यननतर्गतस्य भगवतो हयादिशब्दवाच्यत्वमुच्यत इत्यन्यथाप्रतीति निरासायस्मृति तात्पर्यमाह ॥ तेषामिति ॥ नन्वसुराद्यश्ऱ्वानामपि हन्तृत्वाद्धत्वायातीति देवाश्ऱ्वानामेव कथं विशेष इत्याशङ्कां परिहरति ॥ पतन्तीति ॥ नियमाभिप्रायेण तदुक्तिरिति भावः । नन्वतिगमनाशुगमनयोः भेदाभावात्कथमर्वाश्ऱ्व इति शब्दभेद इत्यत आह ॥ वेगेति ॥ सर्वदायुद्धकर्तृत्वादिति गन्धर्वाश्ऱ्वानां सदायुद्धकर्तृत्वोक्त्यागन्धर्वाणामपि तल्लब्धम्‌ । तत्कथं देवानामपियुद्धकर्तृत्वादित्य आह ॥ गन्धर्वा इति ॥ ननु गन्धर्वागानादिकर्तारः श्रूयन्तेतत्कथं तेषां युद्धरतत्वमित्यत आह ॥ केचिदिति ॥ चारणाः गुप्तचारकाः ॥ खण्डाथर्ःस्पष्यः ॥ 2 ॥ प्रकृताश्ऱ्वमेधयज्ञो देवादिभिरप्यनुष्ठित इति वक्तुं तदुपयुक्तामाख्यायिकामाह ॥ नैवेहेत्यादिना ॥ तत्रादिवाक्यं इहसंसारमण्डलेऽग्रेमन आदेरुत्पत्तेः प्राक्‌ किञ्चनकिञ्चिदपि नाम रूपप्रविभक्तविशेषं नैवासीन्नबभूवेति परैः व्याख्यातम्‌ । तदसत्‌ । अप्रामाणिकत्वात्प्रमाणविरुद्धत्वाच्चेति भावेन तद्वाक्यं प्रमाणेन व्याचष्ये ॥ सर्वसंहारकमिति ॥ देवीमित्यादिवद्विष्णुमित्येववाच्येयत्सर्वसंहारकमिति विशेषणमुक्तं तेन सर्वसंहारकर्तुः संहारकारणाभावादिति विष्णोः अवस्थानेयुक्तिरुक्ता । देवीं रमां त्रिगुणसाम्यं प्रकृतिं कर्माणि अदृष्यानि प्राणं अहंकारकार्यविशेषं सूक्ष्मरूपम्‌ । इन्द्रियमिन्द्रियसूक्ष्मरूपम्‌ । विष्ण्वादीनां प्रलयकाले भावेनिमित्तकारणाद्यभावेनोत्तरत्रसृष्यिः न स्यादिति भावः । यद्वा इह अस्वतन्त्रवर्गे किमपि प्रलयकालेनैवासीदित्येवश्रुत्यर्थः । ननु तर्हिप्रलयेरमाजीवादीनामपि सत्त्वात्कथमियमुक्तिरित्यतः प्रवृत्तं मृत्युनैवेदमावृतमासीदिति वाक्यं व्याचष्ये ॥ लयकाल इति ॥ तथाचाव्याक्तत्वाद्यपेक्षयैवनैवासीदित्युक्तं नत्वभावादित्यभिप्रायेण । अव्यक्तादौ तद्वद्वयपदेशस्य लोकेदृष्यत्वादिति भावः । अथवा यदि नैवेहकिञ्चनाग्र आसीदिति वाक्यस्य रमादिव्यतिरिक्तं किमपिनासीदित्यर्थः ॥ लयकाल इति ॥ पूवर्ोक्त एवाभिप्रायः । यद्वा विष्ण्वादिव्यातिरिक्तं किमपि नासीदिति पूर्ववाक्यार्थः । तत्र विष्णुरमादीनां प्रलये सतां किं साम्यं न इति प्रवृत्तं मृत्युनेति वाक्यं व्याचष्ये ॥ लयकाल इति ॥ अनेन मृत्युशब्दोहिरण्यगर्भपर इत्रत परेषां व्याख्यानमपास्तम्‌ । अद्य्भः सम्भूतोहिरण्यगर्भ इत्यादि श्रुत्याहिरण्यगर्भस्याब्जन्यत्वप्रतीतेरप्सृष्येः पूर्वं हिरण्यगर्भस्यैवाभावात्‌ । सयद्यदेवासृजतेत्यादेरपि तत्परत्वप्राप्तावत्ताचराचरग्रहणादित्यादि सूत्र विरोधाच्च । मृथ्योरावरकत्वं कुत इत्यत उक्तम्‌ ॥ अशनाययेति ॥ तद्यथावरकत्वेहेतुप्रतिपादकं स्यात्तथातं परमात्मनिनिर्वक्ति ॥ अशनमिति ॥ अश्यत इत्यशं तं नयतीति अशनाया । अशनायेत्युक्त इत्यर्थः । अनेनाशितुमिच्छा अशनायासैवमृथ्योः लक्षणं तया लक्षितेन मृत्युनेति परकीयं व्याख्यानं प्रमाणविरुद्धमित्युक्तं भवति । यस्मात्कर्मनायकस्तत उदन्येति प्रोक्त इत्यर्थः । अप्‌ शब्दापरपर्यायोदशब्दस्यकर्मवाचित्वात्‌ । अत एव तस्मिन्नपोमातरिश्ऱ्वादधातीत्यत्राप्‌शब्दः कर्मपरतया व्याख्यातः तस्मिन्कर्माण्यधान्मरुत्‌ इति । न्येत्यस्य नायकत्वार्थकत्वादिति भावः । यद्वा अशनं आसम्यगात्मेच्छयाया पयतीत्यशनाया । तथाच परमात्मनः सर्वसंहारकत्वेन स्वोदरेसर्वस्य निक्षिप्तत्वेनावरकत्वमिति भावः । ननु यदि जगन्नियामकत्वेन मृत्योरावरकत्वं तर्हि रमादीनामपि श्रुत्यादौ जगन्नियामकत्व प्रतीतेस्तदावृतमित्यप्युक्तिः स्यादित्याशङ्कानिवर्तकत्वेनोत्तरवाक्यमवतारयति ॥ अन्यत्रेति ॥ यद्वा ननु संहर्तृत्वेन मृत्योरावरकत्वं यदि तर्हि रमादीनामपि संहर्तृत्वात्तदावृतमासीदित्यप्युक्तिः स्यादित्याशङ्कानिवर्तकत्वेनोत्तरवाक्यमवतारयति ॥ अन्यत्रेति ॥ नेता स्वत इति शेषः । श्रुतिषु प्रसिद्धेरिति हि शब्दार्थ उक्तः । मृत्युशब्देन प्रकृतस्यात्रतदिति परामशर् इति प्रतीतिं निवारयन्व्याचष्ये ॥ तत्तत एवेति ॥ अन्यथा स इति पुल्लिङ्गनिर्देशः स्यादिति भावः । तदिति परामृश्यमानं तुं दर्शयति ॥ यत इति । समृत्युः मनः करणमकुरुतकृतवानित्यन्यथाप्रतीतिमपाकुर्वन्नप्रतीतेरात्मन्वीत्यस्यार्थमाह ॥ आत्मवानिति ॥ मनोकुरुतेत्यस्यार्थः

?Rएच्छदिति । ननु कथं स्वस्य वत्वं कथं च तदिच्छोपपन्नेत्यत आह ॥ शरीरवान्स्यामितीति ॥ शरीरं जगत्‌ । तथाच यतः स्वयमेवासीन्नान्यत्तत आत्मन्वीस्यामित्यैच्छ

?Rदित्यनयोः हेतुहेतुमद्भावालेपपत्तिः । तस्यार्चत आपोजायन्त इत्युत्तरवाक्यानुरोधेन सोर्चन्नित्यस्मात्प्रागध्याहार्यमाह ॥ अबिति ॥ अन्यथाशरीरवान्स्यामितीच्छायां शरीररूपं जगदजायतेत्युक्तिः स्यात्‌ । नत्वापोजायन्तेत्युक्तिः स्यादिति भावः । आत्मवान्‌ शरीरवान्‌ स्यामित्येतत्प्रमाणेन द्रढयति ॥ ऐच्छदिति ॥ अदेहः सन्नित्यनेनयतः स्वयमेवासीन्नान्यदित्येतत्प्रमापितम्‌ । ननु विष्णोः जन्यदेहाभावातकथं तदिच्छेत्यत आह ॥ यत इति ॥ कथं भगवच्छरीरत्वं जगत इत्यत उक्तम्‌ ॥ तद्वशत्वादिति ॥ शरीरस्येवजगतः तदधीनत्वादित्यर्थः । ननु विष्णोः अदेहत्वेपद्य्भां भूमिरजायतेत्यादि श्रुतिविरोध इत्यत आह ॥ स्वयमिति ॥ सोर्चन्नचरदित्यत्र कर्मानुक्तेस्तत्प्रदर्शनपूर्वकं व्याचष्ये ॥ सोत्मानमिति ॥ अन्यस्य विष्ण्वर्च्यत्वाभावादिति भावः । अप्सृष्ययर्थं अर्चन्निति सम्बन्धः । तस्यार्चत आपोऽजायन्तेति वाक्यमपेक्षितपूरणेन व्याचष्ये ॥ अर्चत इति ॥ तत्र सामान्यन्यायमाह ॥ यत्कुर्वन्निति ॥ तदात्मकं तदनुगुणम्‌ । यत्कुर्वन्यत्सृजेदीशस्तत्तदात्मकं भवेदिति सामन्यन्यायोहियतोत आपश्ऱ्चार्चतोयतोजात अतोऽर्चनसाधना इति सम्बन्धः । यद्वाऽप्दृष्ययर्थमर्चनं किमिति कर्तव्यमित्यतस्तत्र सामान्यन्यायमाह ॥ यत्कुर्वन्निति ॥ तदात्मकं तदनुगुणं अतोर्चत इत्तः शब्दस्य पूर्वणोन्वयः । यत्कुर्वन्यत्सृजेदीशस्तत्तदनुगुणं भवेत्‌ हियस्मात्‌ अतः सोत्मानं अर्चन्नचरदित्यर्थः । भगवानबादिसृष्यावर्चनादिनाविनाऽशक्तः किं । नेत्याह ॥ अन्यथेति ॥ अन्यथाकर्तुं अचर्नां विना बादिकं कर्तुम्‌ । ईशोपितदबादिकं तत्तदात्मकमर्चाद्यनुगुणं कर्तुं तत्तत्प्रवृत्तिः अर्चनादि विषय प्रवृत्तिः सन्नबादिकं करोतीत्यर्थः । ननु उपनिषद्द्रष्युश्ऱ्चतुर्मुखादेरबादिस्रष्यृत्वाभावात्‌ । अर्चतोवैमृत्योः कमभूदिति वक्तव्यम्‌ । म इत्यस्मच्छब्दप्रयोगः कथमित्यत आह ॥ म इति । चतुर्मुखाद्यन्तर्यामिण इति भावः । अन्तर्यामिणोऽहेयत्वेन निमित्तेन अस्मच्छब्दवाच्यत्वेप्रमाणं दर्शयन्‌ प्रसङ्गाद्युष्मदादिशब्दवाच्यत्वेपि प्रमाणं दर्शयति ॥ अस्मदिति ॥ यद्वा सर्वाहेयत्वेनाहमिति प्रथमान्तशब्दवाच्यत्वसम्भवेपि म इति षष्ठयन्तशब्दवाच्यत्वं कथमित्यतस्तत्र प्रमाणं वदन्प्रसङ्गादन्यत्राप्याह ॥ अस्मदिति ॥ सप्तविभक्त्यन्तैरस्मच्छब्दैरित्यर्थः । प्रतियोगित आभिमुख्येनावस्थितेरित्यर्थः । तच्छब्दैरिति बहुवचनेन सर्वविभक्त्यन्तैरिति सूचयति । परोक्षतः परोक्षत्वतः । ननु तर्हि विष्णोरेकत्वाद्द्विवचनबहुवचनान्तास्मदादिशब्दवाच्यत्वं कथमित्यत आह ॥ स एवेति ॥ बहुशब्दोनेकपरः । बहुवचनान्तशब्द इत्यर्थः । केन रूपेणास्मदादिशब्देन चोच्यते इत्यत आह ॥ जीवेति ॥ हृद्गेनेति ॥ जडहृद्गेनेत्यर्थः । अहमादिशब्दवाच्त्यवं जीवाभेदेनैवकिं न स्यादित्यत उक्तम्‌ ॥ भिन्नोपीति ॥ सर्ववस्तुभ्योजडेभ्यः । जीवभेद एव कुत इत्यत आह ॥ पूर्णेति ॥ अर्चतोवैमेकमभूदिति तदेवार्कस्यार्कत्वमिति वाक्यं प्रमाणेन व्याचष्ये ॥ उदकमिति ॥ अर्चतो जातमित्यनेनैवार्कशब्दप्रवृत्तिनिमित्तमुच्यत इति भ्रमं वारयितुं स्मृत्यभिप्रायमाह ॥ अर्चत इति ॥ स्मृतौकशब्दस्य पूर्वं निर्वचनादरित्यस्य पश्ऱ्चान्निरुक्तत्वात्कारिति स्यान्नत्वर्क इत्यतोवाह ॥ अर्चत इति ॥ कं हवा इत्यत्र कशब्दस्योदकार्थत्व प्रतीतिं निवारयन्व्याचष्ये ॥ कमिति ॥ उदर्कार्थत्वमेवकिं न स्यादित्यतो ज्ञानस्यैव सुखहेतुत्वप्रतीतिं निवारयन्समग्रं वाक्यं प्रमाणेन व्याचष्ये ॥ अपामिति ॥ विष्णोरचर्त इति शेषः ॥ 1 ॥ अयं खण्डार्थः ॥ अग्र प्रलये । इह अस्वतन्त्रवर्गे । किञ्चन जीवजडरूपम्‌ । नैवासीत्‌ । अनादिनित्यजीवादेः सत्वान्नसीदिति कथमुक्तिरित्यत उक्तम्‌ ॥ मृत्युनैवेति ॥ मृत्योरावरकत्वेहेतुः ॥ अशनाययेति ॥ अश्यत इत्यशंजगत्‌ तन्नयतीति अशनायातया । अन्यत्र नेतृत्वप्रतीतावपि श्रुतिषु प्रसिद्धेः स एव नेतेत्याह ॥ अशनायाहीति ॥ मृत्युरशनायेति श्रुत्यादि प्रसिद्धमित्यर्थः । यस्मान्मृत्युः स्वयमेवासीदन्यन्नैवासीत्‌ तत्‌ तस्मात्‌ । आत्मन्वी आत्मवान्‌ जगद्रूपशरीरवान्स्यामिति मनोकुरुत ऐच्छत्‌ । समृत्युः शरीररूपजगत्सिसृक्षयाऽप्सृष्ययर्थं मनोकुरुतेति शेषः । तदनन्तरं समृत्युः अर्चन्नात्मानं पूजयन्‌ अचरत्‌ सञ्चचार । तस्यार्चतः पूजयतः मृत्योः सकाशात्‌ पूजसाधनभूता आपोऽजायन्त । उपनिषद्द्रष्यचतुर्मुखो वक्ति ॥ अर्चत इति ॥ अचतो वैमेसर्वाहेयस्तय मदन्तर्यामिणः मृथ्युरूपस्य विष्णोः सकाशात्‌ कं सुखं भवत्यस्मादिति सुखसाधनं कं उदकं अभवत्‌ उत्पन्नमिति यत्‌ तदेवार्चद्विष्णुजातत्वसुखसाधनत्वं चार्कस्यार्कत्वं अर्कशब्दप्रवृत्तिनिमित्तम्‌ । अर्चतोजातत्वादरसुखसाधनत्वात्कं इति ज्ञेयम्‌ । योऽधिकारी एवं उक्तरीत्या अर्कस्यार्कत्वं वेद तेन वेदनेनेश्ऱ्वरप्रसादद्वारा अस्मैकं सुकं मौक्तं भवति । हवा इति प्रमाण प्रसिद्धिद्यातकौनिपाताविति ॥ 1 ॥ अथाभाष्यार्थः ॥ आपोवार्क इति वाक्यं परैः कः पुनरसावर्क इति उच्यते । आपोया अर्चनाङ्गभूतास्ता एवाग्नेरर्कत्वस्य हेतुत्वात्‌ इति व्याख्यातं तदसत्‌ । पूर्वखण्ड एवापामर्कत्वस्योक्तत्वेन कः पुनरसाविति प्रश्ऱ्नस्यैवायोगात्‌ । नहि सिद्धेर्थेप्रश्ऱ्नः सम्भवतीत्याशयवान्‌ पुनर्वचनप्रयोजनमाह

?R॥ अर्कशब्दस्येति ॥ तदेवार्कस्यार्कत्वं इत्युत्तरवाक्य गतार्कशब्दस्यादित्येप्रसिद्धत्वात्‌ तस्यार्चत आप इति पूर्ववाक्यगताप्‌ शब्दोपि तत्रादित्य एव वर्तत इत्यङ्गीकर्तव्यम्‌ । तस्यार्चत आपोजयन्तेत्युक्तं अर्चते वैमेकमभूदित्यनूद्य तदेवार्कस्यार्कत्वमित्युक्तत्वेन पूवर्ोत्तरवाक्यगताप्‌ शब्दार्कशब्दयोरकेविषयत्वावगमात्‌ । तथाचादित्यस्यैवात्र सृष्यिरुच्यत इति शङ्कां निवर्तयितुमिति भावः । पुनर्वचनेन साशङ्काकथं निवृत्तेत्यत आह ॥ नेति ॥ अप्स्वेवेत्यनेन वा इत्येतदवधारणशर्थत्वेन व्याख्यातम्‌ । बाणाद्यर्थत्वप्रतीतेः शरशब्दार्थमाह ॥ शर इति ॥ मण्डोघनीभूत इत्यर्थः । कुतः शरशब्दोमण्डार्थ इत्याशङ्कां परिहरन्‌ तद्यदपांशर आसीत्तत्समहन्यतसापृथिव्यभवत्‌ इति वाक्यं प्रमाणेन व्याचष्ये ॥ फेनरूपस्त्विति ॥ सुसंहतः मृथ्युनास्वरेतसासङ्घातत्वं प्रापित इत्यर्थः । पृथिवीत्वं ब्रह्माण्डरूपत्वम्‌ । प एव ससर्जादौतासुवीर्यमवासृजत्‌ । तदण्डमभवद्धैमं इत्यन्यत्रोक्तत्वात्‌ । तस्यामश्राम्यत्‌ इत्येतत्परैः तस्यां पृथिव्यामुत्पादितायां समृत्युः प्रजापतिः अश्राम्यत्‌ श्रमयुक्तो बभूव । सर्वोहिलोकः कार्यं कृत्वाश्राम्यति । प्रजापतेस्तन्महत्कार्यं यत्पृथिवीसर्ग इति व्याख्यातम्‌ तदसत्‌ । मृत्युशब्दस्य परमात्मपरत्वेन व्याख्यतत्वात्‌ । परमात्मनश्ऱ्चश्रमाभावयात्‌ । न च लोकदृष्यिविरोधः । तस्याशक्तविषयत्वादित्याशयवां स्तद्वाक्यं व्याचष्ये ॥ तस्यामिति ॥ श्रुतौ तस्य तप्तस्येत्यनुवादान्यथानुपपत्त्यातस्यामश्राम्यदित्यनन्तरं अध्याहार्यमाह ॥ तत इति ॥ वाय्वादिदेवतोत्पदकत्वेहेतुर्देवराडिति । तस्य श्रातस्य तप्तस्यतेजोरसोनिरवर्तताग्निः इति वाक्यार्थमाह ॥ तच्चिन्तनादिति ॥ नन्वग्निः स्यादिति चिन्तनाद्वयुः कथमुत्पन्न इत्यत आह ॥ अग्नीति । कथं वायुरग्निशब्दाभिधेय इत्यत आह ॥ अग्रजत्वादिति ॥ ननु शक्तिविस्रंसनवचित्वेनैवश्रमशब्दस्य प्रसिद्धेः कथं तस्यांशिश्य इति शयनार्थतया व्याख्यानमित्यत आह ॥ शक्तीति ॥ च शब्दौपरस्परसमुच्चये । तर्ह्युभयार्थत्वे श्रमशब्दस्य कथं शयनार्थतयाव्ख्यानमित्यशङ्कयाह ॥ हरेरिति ॥ यद्यपि शक्तिविस्रंसनेशयनेच श्रमशब्दः कीर्तितः तथापिहरेः शक्तिविस्रंसनाभावाच्छमोनामशयनेमेवेत्यभिप्रायेणोपसंहरति ॥ अत इति ॥ श्रमशब्दस्यशनार्थत्वे आन्तरोपपत्तिमप्याह । तस्यामिति । चशब्देन पूवर्ोक्तप्रमाणोक्तां युक्तिं समुच्चिनोति ॥ साधिकरणत्वादिति ॥ श्रमशब्दस्योभर्यार्थत्वेपि प्रकृते श्रमोनामशयनमेवयुक्तम्‌ । तस्यामश्राम्यदिति पृथिव्यधिकरणत्व श्रवणात्‌ । शयनक्रियायाश्ऱ्चथिव्यधिकरणत्व सम्भवादित्यर्थः । पृथिव्यधिकरणत्व श्रवणेपि शक्तिविस्रंसनं कुतो न श्रमशब्दार्थ इत्यत आह ॥ नहीति ॥ श्रमः शक्तिविस्रंसनम्‌ । ननु श्रमस्यान्तः करणमधिकरणं तस्य शरीरमधिकरणं शरीरस्य पृथिव्यधिकरणमित्यधिकरणपरं पराविवक्षयान्तः करणधर्मस्यापि श्रमस्य पृथिव्यधिकरणत्वं युज्यत इत्याशङ्कयाह ॥ अधिकरणेति ॥ ननु शयनार्थत्वेपि पृथिव्याः साक्षादधिकरणत्वं न युक्तम्‌ । विष्णुशयनक्रियायाः शेषः शेषस्यश्ऱ्वेतद्वीपः तस्य क्षीरसागरः तस्य च पृथिव्यधिकरणमिति अधिकरणपरं पराकल्पनस्यावश्यकत्वादित्यतः प्रमितत्वान्नक्लिष्यकल्पनेत्याशयवांस्तत्र प्रमाणमुदाहरति । सृष्ट्वेति ॥ तस्यां पृथिव्यां अब्धिमध्यगः सन्‌ श्ऱ्वेताख्येद्वीपे अनन्तेशेषेत इति सम्बन्धः । ननु सन्तापार्थकतप्तस्येति तप्तशब्दबलादश्राम्यदित्येतच्छक्तिविस्रंसनार्थकं युक्तमित्यतस्तस्यप्रमाणेनार्थान्तरमाह ॥ तप्त इति ॥ यत आलोचनायुक्तस्तप्त इत्युच्यते तस्माद्धरेस्तप्ततातुकार्यार्थकामनेति सम्बन्धः । अत्राचनानामेच्छाविशेष ग्राह्याः । प्राक्प्रमाणेन तेजोरसशब्दस्य व्याख्यातत्वादप्रतीतेस्तंव्याचष्ये ॥ तेज इति ॥ जगत इति शेषोक्तिः । तेजः शब्दार्थकथनं सामर्थ्येति रसशब्दार्थः सारभूत इति । रसः सारोवरश्ऱ्चेति शब्दाः पर्यायवाचका इत्यभिधानामित्येतद्वयाचष्ये ॥ 2 ॥ ततश्ऱ्चायं खण्डार्थः ॥ अर्कशब्दस्यादित्येप्रसिद्धत्वादप्‌ शब्दोपितत्रेत्याशङ्कां निवारयितुमाह ॥ आप इति ॥ आप एवार्कः अर्कशब्दवाच्या इत्यर्थः । तत्‌ तत्राप्सु यत्‌ यः अपां शरः फेनरूपोमण्डः आसीत्‌ तत्‌ सशरः मृत्युना स्वरेतसा समहन्यत सङ्घातत्वं प्रापितः । यः सङ्घातः सा पृथिवीब्रह्माण्डरूपाऽभवत्‌ । तस्यां पृथिव्यां अश्राम्यत्‌ शिश्ये मृथ्युनामाजनार्दनः । तदनन्तरं अग्निः स्यादिति कामनामकरोदिति शेषः । श्रान्तस्य शयितस्यतप्तस्य कार्यकामनावतः तस्य मृत्युनामकस्य परमात्मनः साकाशात्‌ । तेजोरसोजगत्सामर्थ्यसारभूतः अग्निः अग्रजत्वादग्न्याभिधानवान्‌ वायुः निरवर्तत आजायतेति ॥ 2 ॥ अथभाष्यार्थः ॥ सत्रेधात्मनं व्यकुरुतेत्यस्य सजातः प्रजापतिः त्रेधात्रिप्रकारमात्मानं स्वयमेवकार्यकारणसङ्घातं व्यकुरुतव्यभजत्‌ इत्यादिपरव्याख्यानमप्रामाणिकं प्रमाणविरुद्धञ्चेति भावेन खण्डं प्रमाणेन व्याचष्ये ॥ वायुरत्यिदिना ॥ सत्रेधेत्युक्तत्वादग्निं तृतीयमित्यपि ग्राह्यमिति सूचयन्‌ अग्निशब्दं तावत्प्रकारान्तरेण वायौ निर्वक्ति ॥ वायुरिति । सत्रेधात्मानमित्युक्तरूपाणां मूलानुक्तव्यापारानाह ॥ सवायुरिति ॥ हूयते हविरादायहूयते हविः प्रक्षषपाधिकरणत्वे हूयते वा । आदित्यशब्दस्य सूर्यपरत्वप्रतीतिं निवारयितुं वायौ निर्वक्ति ॥ आदायेति ॥ आयुरादायेत्यन्वयः । आदित्‌ इत्यस्यार्थ आदायेति । यकारस्यार्थो यातीति । आयुरिति योग्यतया सम्बध्यते ।

?Rतर्ह्यादित्याग्निशब्दयोः सूर्यादौप्रसिद्धिः कथमित्यत आह ॥ तत्सम्बन्धादिति ॥ अत्रोपनिषदि अन्तेग्राह्यवाक्यगताग्निशब्दस्यादौनिर्वचनेन आदौप्रयुक्तवाक्यगतादित्यशब्दस्यान्तेनिर्वचनेन मध्यवाक्यप्रतिपाद्यवायोर्व्यापारस्यादावुक्त्यात्रयाणां रूपाणां साम्येन न क्रमेणनिर्देशेप्राधान्यादिकं निमित्तमित्यभिप्रेत्योपनिषदि आदित्यां तृतीयं आग्नंतृतीयमित्युक्तमिति सूचितम्‌ । तस्य प्रकाचीदिक्‌ शिर इत्यादेः तस्यास्य प्रथमाग्नेः अश्ऱ्वमेधक्रतूपयोगिकस्यार्कस्य विराजः चित्यात्मकस्याश्ऱ्वस्येवदर्शनमुच्यते इत्यादिपरेषां व्याख्यानं निर्मूलकमिति भावेन व्याचष्ये ॥ स एष इत्यादिना ॥ स एषोप्सुप्रतिष्ठित इत्यंशं व्याचष्ये ॥ स एष इति ॥ विष्णोः कूर्मरूपप्रतिपादकप्रमाणानुरोधेनाह ॥ विष्णुनेति ॥ अनन्तशेषः । असौचासौचेर्मौ असौचासौचसक्थ्यौ इति वाक्यद्ययतात्पर्यं वदन्कूमर्स्वरूपस्यपादाः कुत्र सन्तीति जिज्ञासायामाह ॥ अप्स्विति ॥ ईर्मौ;सक्थ्यावित्यस्य चत्वातः पादा इत्यनेन तात्पर्यमुक्तं भवति । असौचासौचेत्यादेः कोणसंस्थिता इत्यनेन । अण्डोदेकोणसंस्थिताश्ऱ्चत्वारः पादाः अप्सुसंस्थिता इस्त्विति ॥ ननु शिर आद्यवयवानामपि भूमिसंश्लिष्यत्वात्किं विशिष्योच्यते उरस्तु भूमिसंश्लिष्यमित्यत आह ॥ अतिरिच्येति ॥ पार्श्ऱ्वेन पुच्छेन च सहशिरश्ऱ्चभूमिमतिरिच्यैवलोदकसंस्थितमित्यर्थः । अन्तरिक्षमुदरमित्येतद्वयाचष्ये ॥ आकाशमिति ॥ द्यौः पृष्यमित्येतद्वयाचष्ये ॥द्यैरिति ॥ यत्र क्वचैतत्यादिव्याचष्ये ॥ एवं विद्वानिति । तदेवेत्यस्यार्थः । तत्रैवेति ॥ गमनेच्छायामप्यन्यत्रगमनप्रतिबन्धकत्वेन कथमस्यविज्ञानफलत्वमित्यत स्तदभिप्रायमाह । स्थानेच्छेति ॥ वायुज्ञानस्योक्तफलमानुषङ्गिकं अधिकमपि फलमस्तीति भावेनोभयविषयं प्रमाणं पठति ॥ उपास्त इति ॥ लोकं चावृत्तिवर्जितं इत्यनेन यत्र क्वचस्वयोग्यमुक्तस्थानं गच्छति तत्रैव प्रतितिष्ठति न पुनरावचर्ते इति प्रकारान्तरेणव्याख्यातं भवति । नन्वत्राग्निशब्दश्रवणशदश्ऱ्वमेधक्रतूपयेग्यग्निप्रकाणकमेवेदं किं नस्यादित्यत आन्तरोपपत्तिमप्याह ॥ स इति ॥ चशब्दः पूर्वाक्तप्रमाणसुच्चायकः । वायुः एतत्प्रकरणप्रतिपाद्य इति शेषः । कूर्मस्यरूपेण विष्णुनाधारितः कूर्मरूपोवायुः अण्डोदकस्थः शेषधारकः इत्येतत्प्रमाणां रेणापि द्रढयति ॥ बिभर्तीति ॥ तस्य प्राचीदिक्‌ शिरोसौचासिचेर्मौ असौचासौचसक्थ्यौ इति वाक्यत्रयं स्पष्यप्रमाणेन व्याचष्ये ॥ वायोरिति ॥ पूर्वतः पूर्वस्यां दिशि ॥ 3 ॥ ततश्ऱ्चायं खण्डार्थः । सः अग्निनामकोवायुः आत्मानं त्रेधात्रिप्रकारं व्यकुरुतव्याभजत्‌ । कथं आदित्यं तृतीयं अग्निवाय्वपेक्षयात्रित्वसङ्खयापूरकम्‌ । वायुं तृतीयं आदित्याग्न्यपेक्षया त्रित्वसङ्खयापूरकम्‌ । एवमग्निं तृतीयं आदित्यवाय्वपेक्षयात्रित्वसङ्खयापूरकमिति ग्राह्यम्‌ । स एष मृत्युनोत्पन्नोग्निनामकः प्राणोमुख्य वायुः उक्तप्रकारेण त्रेधाविहितोमृत्युना । वायोः जगद्धारकं कूर्मरूपं निरूपयति । तस्येति । रूपान्तरनिरूपाणारम्भज्ञापकतयाऽथास्योत्यत्रत्याथ शब्दः प्रथमतोयाज्यः । तस्य बुद्धिसन्निहितस्य कूर्मरूपस्य वायोःशिरः प्राचीक्‌ प्राच्यांदिशिवर्तते । ईर्मौबाहू असौचासौच आग्नेयेशानगौ । चशब्दावितरेतरयोगे । अस्य पुच्छं प्रतीचीदिक्‌ प्रतीच्यां दिशिस्थितम्‌ । सक्थ्यौपादौ असौचासौचनैः ऋतवायव्यगौ । पाश्ऱ्वेदक्षिणाचोदीचिच । चशब्दावितरेतययोगे । दणिशे;टादिग्गते । द्यौः द्युलोकः पृष्यं पृष्ठेस्थितः । अन्तरिक्षं आकाशः उदरं उदरेस्थितः । उरः वक्षस्थलं इयं मूमिः । तत्संश्लिष्यम्‌ । एतादृशंवायोः कूर्मरूपं कुत्रतिष्ठतीत्यत आह ॥ स इति ॥ यस्त्रेधाविहितः स एषकूर्मरूपोवायुः अप्सु अण्डोदके प्रतिष्ठितः । एवं विद्वान्‌ आदित्यवाय्वग्निरूपस्य जगत्पालकत्वादिना कूर्मरूपस्य तु जगद्धारकत्वेन ज्ञानीयत्र क्वचदेशे एतिगच्छति अवस्थानेच्छाचेत्तदेवतत्रैव पअतितिष्ठति । यद्वा एवं विद्वान्विष्ण्वपरोक्षज्ञानद्वारायत्र क्वचयोग्यमुक्तस्थानेगच्छति तत्रैव प्रतितिष्ठति । न पुनरावर्तत इति ॥ 3 । अथभाष्यार्थः ॥ सोकामयतद्‌ितयोम आत्माजायेत इति वाक्यं परैः समृरिष्यमाणप्रमाणविरोधादिति भावेन स्वयं व्याचष्ये ॥ आत्मेति ॥ द्वितीयोवाय्वपेक्षया । अनेन स इत्यकामयतेत्यन्वयोदर्शितः । ननु आगमेक्वचिद्ब्रह्मणासह क्वचिद्ब्रह्मनन्तरं वायोः जन्मोक्तेः कथमत्रब्रह्मजन्मोक्तेः पूर्वं वायुजन्मोक्तिरित्यत आह । वायुरेवेति ॥ B-1

?Rउक्तार्थे प्रमाणमाह ॥ वायुरेवेति ॥ वदेत्‌ श्रुतिरिति शेषः । ननूभयोः सहजननेपि अस्तूक्तनिमित्तेनक्वचिद्वायुजन्मोक्तेः प्राथम्यम्‌ । क्वचिद्ब्रह्मजन्मोक्तेः प्राथम्येकिं निमित्तमित्यत आह ॥ क्वचिदिति ॥ आत्माब्रह्मेति व्याख्यानमभिधानेननिगमयति । आत्मेति ॥ यः पूर्वजः प्रजापतिरित्यन्वयः । दक्षादि व्यावृत्त्यर्थं पूर्वज इति विशेषणम्‌ । यद्वापूर्वज इत्येतच्चतुर्मुखश्ऱ्चेतीति शब्दात्पूर्वं योज्यम्‌ । समृत्युः मनसापूर्वोत्पन्नेन वाचं त्रयीलक्षणां मिथुनं द्वन्द्वभावं समभवत्सम्भवनं कृतवानित्यादिना समनसावाचं मिथुनं समभवदित्येतत्परैरन्यथाव्याख्यातम्‌ । तदसदिति भावेन व्याचष्ये ॥ स इति ॥ द्वितीय इति समनसेत्यनयोः वाक्ययोः स्वकृतं व्याख्यानं द्रढयन्‌ खण्डं प्रमाणेन व्याचष्ये ॥ ममेत्यादिना ॥ ब्रह्माद्वितीयोजयेतेतीत्यन्वयः । वाचमित्यस्यार्थो वेदाभिमानिनीमिति । श्रियामिथुनीभावं विना

?Rब्रह्माणमुत्पादयितुमशक्तत्वेस्वेच्छयेति व्यर्थमित्यत आह ॥ यत इति ॥ तद्यद्रेत आसीत्ससंवत्सरोभवदित्येतद्वयाचष्ये ॥ तत इति ॥ ततोरेतसः मिथुनीभावान्तरं वा । अनेन नहपुराततः संवत्सर सेत्येतदुक्ततात्पर्यं भवति । तमेतावन्तकालमबिभर्यावान्सं वत्सर इत्येतद्वयाचष्ये ॥ तं गर्भमिति ॥ तं जातमभिव्याददादित्येद्वयाचष्ये ॥ तमिति ॥ सभाणमकरात्‌ स ऐक्षतेति वाक्यद्वयादर्थतः सिद्धस्यार्थस्यकथनं श्रुत्वारावमिति । स्तुतिरूपं शब्दमित्यर्थः । सतायावाचातेनात्मनेदं सर्वमसृजतेत्युत्तरखण्डस्थवाक्यतात्पर्यकथनं व्यदधादिति । तमित्यनुवर्तते । अत एव तत्वप्रकाशिकायां भाष्योदाहृत प्रमाणगतसृष्यिकर्मण्ययोजयदिति वाक्यव्याख्येयत्वेन सतयेति वाक्यमुदाहृतयम्‌ । श्रुतावशनायां वाचमित्यन्वयभ्रान्तिं वारयितुं व्याचष्ये ॥ बिन्दुलोपेनेति ॥ द्वितीयाविभक्त्यर्थाविवक्षयेत्यर्थः । तथैवान्वयः किं नस्यादित्यत आह । अशनायाहीति ॥ हियस्मादुक्तमित्यर्थः । तथात्वेऽशनायात्वस्य प्रमाण प्रसिद्धामृत्युविशेषणत्वोक्तिविरोधः स्यादिति भावः । द्वितीयार्थाविवक्षायां किमर्थं बिन्दुप्रयोग इत्यत आह ॥ सर्वेति ॥ बिन्दुप्रयोगात्कथमेतल्लब्धमित्यत आह ॥ आधिक्य इति । अर्थाधिक्येविवक्षितेधिकं शब्दरूपं भवतीत्यर्थः । संवत्सरकालं धृतगर्भगतत्वेनैवसंवत्सरशब्दवाच्यत्वञ्चतुर्मुखस्येति प्रतीतिं निवारयन्संवत्सरशब्दञ्चतुर्मुखेनिर्वक्ति ॥ सम्यगिति ॥ यद्वा संवत्सरकालनिर्मातासंवत्सरः प्रजापतिरिति परेषां व्याख्यानमसत्‌ । जन्यवाचकशब्देनजनकग्रहणेलाक्षणिकत्वापत्तेरिति भावेन संवत्सरशब्दस्य चतुर्मुखेयोगमाह ॥ सम्यगिति ॥ सभाणमकरोत्सैववागभवदित्येद्वाक्‌ शब्दस्य शब्दमात्रार्थत्वप्रतीतिं वारयन्‌ प्रमाणेन व्याचष्ये ॥ ब्रह्मण इति । ब्रह्मणोमुखादिति सम्बन्धः । तां सरस्वतीमपि वागीश्ऱ्वरीति हेतोः वाचं चाहुरिति सम्बन्धः । ननु यदि वाक्‌ शब्दः सरस्वतीपरः तर्हि कथं सैववागिति तस्याः भाण्‌ शब्दाभेनेनोक्तिरित्यत आह ॥ तदभिमानित्वादिति ॥ महतश्ऱ्चप्रकाशरूपश्ऱ्च । णरूपः सुखरूपः । ननु यदि भाण्‌ शब्दोभगवत्परः तर्हि स भाणमकरोदिति कथम्‌ । नहि भगवत्करणं सम्भवतीत्यत आह ॥ तद्वयञ्जकत्वादिति ॥ चज्ज्ञानजनकत्वादित्यर्थः । स भाणमिति भाण्‌ शब्दस्य भणन शब्दसमानार्थताज्ञापनाय भणनमित्युक्तम्‌ । तथाचोक्तयोगेन भाण्‌ शब्दोमुख्यतोभगवत्परस्तद्वयञ्जजकत्वेन तत्सम्बन्धाद्वक्‌ पर इति भावः ॥ 4 ॥ ततश्ऱ्चायं खण्डार्थः ॥ समृत्युनामाभगवान्मेमम्‌ आत्मा ब्रह्मा द्वितीयोवाय्वपेक्षया जायेत इत्यकामयत । तदनन्तरं अशनायां सर्वाशननेता समृत्युः मनसास्वेच्छयैव वाचं वेदाभिमानिनीं श्रियं मिथुनं द्वन्द्वभावं समभवत्‌ । तत्‌ तेन मिथुनीभावेन यद्रेत आसी त्सः तदुपादानकदेहवान्संवत्सरः सम्यगात्मनोवत्सान्देवादीन्‌ रमयतीति संवत्सरनामकश्ऱ्चतुर्मुखोऽभवत्‌ । ततो मिथुनीभावात्‌ पुरा देहयोगरादित्येन देवादिरमणहेतुत्वायागात्संवत्सरनामको नास हयस्मात्तस्मात्संवत्सरोभवदिति सम्बन्धः । तं रेत उपादानकं गर्भं यावान्संवत्सरः द्वादशमासात्मकः कालः एतावन्तं कालं अबिभः अबिभ्रत्‌ वाङ्‌वीम्नीरमेति शेषः । तं गर्भस्थं एतावतः संवत्सरात्मकस्य कालस्य परस्तादनन्तरं असृजत असूत जातं तं संवत्सरं अभि अभिलक्ष्य अत्तुमिति यावत्‌ व्याददत्‌ विददार । स्वमुखं मृत्युरिति शेषः । ससंवत्सरो भयात्‌ भाणं भाणिति वचः अकरोत्‌ निःसारितवान्‌ । यद्भाणिति वचः सैवतदभिमानिनीज्ञानप्रकाशसुखरूपभगवद्वयञ्जकत्वेन भाण्‌ शब्दाभिधेया वाक्‌ वागभिमानिनीसरस्वती अभवत्‌ अभिमन्यमान शब्दोच्चारणकाल एवाभिमानिनीदेव्यभवदिति यावदिति ॥ 4 ॥ अथभाष्यार्थः ॥ अप्रतीतेरभिमंस्य इत्येतदनूद्यव्याचष्ये ॥ अभिमंस्य इति ॥ अभिपूर्वोमन्यतिः हिंसार्थ इति व्याख्यानसत्‌ । मन्यतेरेवलयवाचकत्वस्य प्रामाणिकत्वेउपसर्गस्य धात्वर्थ बाधकत्वस्यानाश्रवणीयत्वादिति भावेन तत्राभिधानमाह ॥ मानमिति ॥ ऋचः समानाक्षरपादबन्धसमन्वितमन्त्रविशेषाः । यजूंषि अनियताक्षरपादाः । ऋच एव स्तोभाक्षरसंयुक्ताः सामानीत्यादिनाऋगादिशब्दाः प्रसिद्धार्थत्वेनैव परैः व्याख्यातास्तदसदिति भावेन स तया वाचेत्यादिकं प्रमाणेन व्याचष्ये ॥ वेदाभिमानिन इति ॥ अदिति शब्दस्य देवमातरिप्रसिद्धेस्तत्परत्वभ्रमं वारयितुं सयद्यदेवेत्यादिव्याचष्ये ॥ यद्यदिति ॥ तत्तदत्तीत्यनेन सर्वं वात्तीत्यनुवादान्यथानुपपत्त्या श्रुतावादच्चेति पूरणीयमिति सूचितम्‌ । सर्वं वा अत्तीति तददितेरदिति त्वमित्येतत्तात्पर्यतोव्याचष्ये ॥ आदाद्मसृष्यसर्वात्तृत्वेन । अदितिशब्दस्य देवमातृपरत्वे सर्वं वात्तीति सर्वात्तृत्वविरोधः स्यादिति भावः । सर्वस्तस्यात्ताभवतीत्येत्परैः य एतददितेरदिति त्वं वेद उपसीत सः सर्वात्माभूत्वा आदिति वत्सर्वस्यैतस्यात्ताभवतीति व्याख्यातं तदसत्‌ । तत्प्रतिपादकभावात्‌ । जीवाभेदस्य निरसिष्यमाणत्वाच्चेति भावेन ज्ञानमात्रेण सर्वेषामपि सर्वात्तृत्वं भवतीति प्रतीतिमपि वारयंस्तद्वाक्यं प्रमाणेन व्याचष्ये ॥ उपास्त इति ॥ सर्वदोपास्त इति वा । सवर्दाप्रतिकल्पमेवमत्तीति वा सम्बन्धः । उतोपास्त्यनन्तरम्‌ । योग्यतामेवदर्शयति ॥ ब्रह्मेति ॥ अत्तृत्वमन्येषां बहुल्स्यदर्शनादिकमित्यनेक प्रमारम्‌ । नतु सर्वेषामेक प्रकारम्‌ । कुतः योग्यताभेदादित्यर्थः । नन्वितरेषां कथं

?Rर्वात्तृत्वध्यायिनां बहुलदर्शनादिकं फलं तस्य ध्यानाननुगुणत्वात्‌ इत्यतस्तेषां न सर्वात्तृत्वध्यानं किन्तु तथास्मरणमतोनोक्तदोष इत्याह ॥ आत्मन इति । यथा मनुष्याणां सर्वात्तृत्वस्मरणमात्रं तथाकिं केषाञ्चिद्दिवानामपीत्यत आह ॥ दैवतानामिति ॥ 5 ॥ ततश्ऱ्चायंखण्डार्थः ॥ समृत्युः कृतरवं कुमारमालोक्य ऐक्षतविचारमकरोत्‌ किमिति यदीमं जातं संवत्सरं अभिमंस्येलीनं करिष्तदा कनीयोल्पं अन्नं करिष्तो बह्वन्नं भवत्वित्यालोच्य समृत्युः तयापूर्वोत्पन्नया वाचागायत्ऱ्या तेनात्मनाचतुर्मुखेन यदिदं किञ्चेदं सर्वमसृजतजनयामास । तदेवविवृणोति ॥ ऋच इत्यादिना ॥ ऋचोऋगभिमानिनीरित्यादि द्रष्यव्यम्‌ । ससंवत्सरः ब्रह्मा यद्यदेवासृजत तत्तत्‌ अत्तुं समृत्युनामाजनार्दनः अध्रियत । मन इति शेषः आदच्चेति शेषः । कुतः सर्वात्तृत्वं मृत्योः सर्वमत्तीति यत्‌ तद्वैतदेव दितेरदिति शब्दवाच्यस्य परमात्मनः अदितित्वं अदिति शब्दप्रवृत्तिनिमित्तं यस्मात्‌ । य एवमुक्तप्रकारेण अदितेरदिति त्वं वेद उपास्ते स एतस्य स्वयोग्यस्य सर्वस्य अत्ता भावति । अस्योपासकस्य सर्वं स्वयोग्यं अन्नं भवतीति पुः वचनं तात्पर्यद्योतनायेति ॥ 5 ॥ अथ भाष्यार्थः ॥ यजनेच्छायाः श्रमादिहेतुत्वायोगेन कथं तदनन्तरं श्रमाद्युक्तिरित्यतः साक्षाच्छ्रमादिहेतुं प्रदर्शयन्‌ सोकामयतेति वाक्यं प्रमाणषन व्याचष्ये ॥ इच्छत इति ॥ साधनास्मृतेः यः श्रमः तस्मात्‌ । स तपोतप्यतेत्यनन्तरं अध्याहारं सूचयति ॥ देहं तमिति ॥ तस्य श्रान्तस्य तप्तस्य यशोवीर्यमुदक्रामदित्येतद्वयाचष्ये ॥ इच्छयेति ॥ चशब्दः श्रमतापयोरनुकर्षणार्थः । अपिशब्दः समुच्चये । नेन तप्तस्येत्यनन्तरं शरीरत्यागेच्छवता इत्यपि ग्राह्यमिति सूचितम्‌ । स्वावस्थानेप्राणनिर्गमनायोग इत्यत उक्तम्‌ ॥ प्राणैः सहा ॥ केनानिमित्तेन प्राणानां यशोवीर्यशब्दामित्यत आह ॥ यश इति ॥ ननु साधनास्मृतिनिमित्तकाल्पश्रमतापाभ्यां कथं ब्रह्मणोदेहत्यागेच्छा तदिच्छयावाकथं प्राणैः सहनिः सरणं लोके आदर्शनादित्यत आह ॥ अत्यल्प इति ॥ यद्यपि श्रमेतापेचात्यल्पेसञ्जातेपि न लोके देहत्यागस्येच्छा तदिच्छयापि न प्राणानिः सरन्ति । तथापि सा सदाधनास्मृतिनिमित्तक श्रमतापजन्येच्छा च शब्दात्तनिच्छयाप्राणैः सहनिः सरणं विभोः समर्थस्य चतुर्मुखस्य क्रीडास्मृतेत्यर्थः । शरीरं श्ऱ्वयितुमध्रियत इत्येतदनन्तरमध्याहार्यमाह ॥ बृंहमाणमिति ॥ बृंहमाणमित्यनुवादेनैव शरीरं श्ऱ्वयितुमध्रियत इत्येतदुक्ततार्त्पयम्‌ । श्ऱ्वयितुमिति वृद्धयर्थकस्यटु ओश्ऱ्विगतिवृद्धयोरिति धातोरूपम्‌ । तस्य शरीर एवमन आसीदित्येतद्वयाचष्ये ॥ पुनरिति ॥ तस्मिन्विवेशचेतिशेषपूरणम्‌ । ततोऽश्ऱ्वः समभवदित्येतद्वयाचष्ये ॥ तस्मिन्निति ॥ अनेन ततइत्येतत्‌ प्रवेशानन्तरमिति व्याख्यातम्‌ । स ब्रह्मा तस्मिन्प्रवेश्यप्रविश्य तस्मिन्प्राणान्प्रवेश्य वाप्रविश्येति क्वचित्पाठः । महायज्ञे उपायं दऽष्ट्वा अथ दर्शनानन्तरं अश्ऱ्वाकारं द्वितीयं वपुरग्रहीत्‌ इति योजना । ततो श्ऱ्वःसमभवदिति वाक्यं यदश्ऱ्वदित्येतत्सम्बन्धित्वेनापि व्याचष्ये ॥ श्ऱ्वैतीभावादिति ॥ यदश्ऱ्वत्तन्मेध्यमभूदिति तदेवाश्ऱ्वमेधस्याश्ऱ्वमेधत्वं इति वाक्यं व्याचष्ये ॥ यदर्थमिति ॥ तद्देहः चतुर्मुखदेहः यदर्थं यज्ञाद्यर्थं श्ऱ्वेततां मेध्यतामप्याप तेन शरीरेण तदाकृतः स यज्ञो नाम्नाश्ऱ्वमेधोभूदित्यन्वयः । एवमश्ऱ्वमेध शब्दस्य क्रतुपरत्वमभ्युपगम्यव्याख्यातम्‌ । इदानीं यज्ञकर्तृचतुर्मुखपरत्वमभ्युपेत्यापि तदेववाक्यं प्रकारान्तरेण व्याचष्ये ॥ श्ऱ्वैतीभावमिति ॥ शुभानिचत्वारिमुखानियस्यासौशुभचतुर्मुखः अैनेनास्य कर्तृरूपत्वं सूचयति ब्रह्मेति विशेष्यस्य पृथगुक्तेः । अश्ऱ्वमेध शब्दस्य यागीयाश्ऱ्वरूपचतुर्मुखपरत्वमभ्यपेत्यापि तदेववाक्यं व्याचष्ये ॥ अश्ऱ्व इति ॥ स्मृत अश्ऱ्वमेधनामेत्यन्वयः । मेध्यः सोभवदित्युक्तमेध्यशब्दार्थमाह ॥ मेध इति । ननु मेध्यं मइदं स्यादित्यादौ मेध्यशब्दस्य शुद्धे प्रयोगात्कथमेतदित्यत आह । शुद्धमिति ॥ अथेति पक्षान्तरे शुद्धमपीत्यन्वयः । अनेन शवरूपस्य मेध्यतामिति मेध्यतामपीति पुनर्मेध्ये इत्येतदपि व्याख्यातम्‌ । एष ह वा अश्ऱ्वमेधं वेद य एनमेवं वेदेति वाक्यं व्याचष्ये ॥ एवं विदिति ॥ एवं यदर्थमित्याद्युक्तप्रकारेण य इत्यनन्तरमेष इति शेषः । अश्ऱ्वमेधविद श्ऱ्वमेध शब्दार्थवित्‌ । 7 ॥ तमनवरुध्येवामन्यतेत्येतद्वयाचष्ये ॥ तमिति ॥ देशविशेषेनुक्त्यासर्वस्मिन्‌ भुवन इति संवत्सरस्य परस्तादित्युत्तरवाक्यानुरोधेनाब्दमितिचोक्तम्‌ । तं संवत्सरस्य परस्तादात्मन आलभत इत्यतत्‌ आत्मने आत्माथामातप्रततिनिवारयन्व्याचष्ये ॥ तदन्त इति ॥ स्वस्मिन्स्थिताय परमात्मने इत्यात्मशब्दस्यैवार्थद्वयम्‌ । पशून्देवताभ्यः प्रत्यौहदित्येतद्वयाचष्ये ॥ अजादिकानिति ॥ ब्रह्मास्वयमेवकुतः पशुर्जात इत्यात आह ॥ कर्तृत्वेनेति ॥ स्वादेतद्यादियज्ञपशोः फलं स्यात्‌ तदेवकुत इत्यत आह ॥ अबुद्धीति ॥ इति भावेनाजोश्ऱ्वरूपमधारयदिति सम्बन्धः । न केवलं ब्रह्मादिरश्ऱ्वमेधशब्दाभिधेयः अपि तर्हि सूर्योपीत्युक्तं एष हवा इति ॥ तद्वयाचष्ये ॥ एवमिति ॥ सूर्यस्याश्ऱ्वमेधशब्दवाच्यतवं केननिमित्तेनेत्यतः प्राप्तं तस्य संवत्सर आत्मेति वाक्यं व्याचष्ये । संवत्सराभिध इति ॥ संवत्सराभिधस्य ब्रह्मणः सूर्येस्थितत्वेपि अश्ऱ्वमेधनामासूर्यः कथमित्यत आह ॥ अश्ऱ्वमेधाभिधः स्वयमिति । ननु संवत्सर आत्मेति सूर्यस्य संवत्सररूपत्वोक्तेः कथं सूयर्ेस्थित इत्युक्तमित्यत आह ॥ सूर्ये इति ॥

?Rततत्वाद्वयाप्त्तवादित्यर्थः । अश्ऱ्वमेधनाम्नोब्रह्मणोमहिमोक्तः अयमग्निरित्यादिना । तत्राभेदप्रतीतिं निवारयन्व्याचष्ये ॥ अग्नाविति ॥ अर्कः अर्कस्थोब्रह्मा । आत्मशब्दस्य स्वरूपार्थत्वप्रतीतिं निवारयितुं तस्येमेलोका आत्मान इत्येतद्वयाचष्ये ॥ ब्रह्मातता इति ॥ ब्रह्मणः सूर्यादिषुस्थित्युक्त्याप्राप्तां सर्वोत्तमत्वशङ्कां परिहर्तुं प्रवृत्तं तावेताविति वाक्यं अर्काश्ऱ्वमेधशब्दयोरग्निलोकोपलक्षकत्वमभिप्रेत्य व्याचष्ये ॥ ब्रह्मेति ॥ ब्रह्मेत्यश्ऱ्वमेधशब्दार्थकथनम्‌ । अपपुनर्मृत्युं जयतीति फलाभिधायकं वाक्यं सर्वाधिकारिपरत्वपअतीतिं निवारयन्व्याचष्ये ॥ तादृशमिति ॥ मृत्युरेवेत्यनन्तरं य एनमेवं वेदेति वाक्यमनुवर्तनीयमेवेति भावः । ब्रह्मादिषु व्याप्तं मृत्युं अपमृत्युम्‌ । एकदा अपमृत्युप्राप्त्यभावात्पुनरपमृत्युं जयतीति कथमुक्त

?Rिमत्यत आह ॥ पुनर्मृत्युरिति ॥ तथाचापपुनर्मृत्युमित्यस्यापमृत्युमित्यर्थ उक्तो भवति । ननु नैनं मृत्युराप्नोतीति कथं मृत्युशब्देन प्रकृत परमात्मनः सदा चतुर्मुखव्याप्तेरित्यतस्तद्वयाचष्ये ॥ नैनमिति ॥ मृत्यात्मकः अपमृत्यात्मकः । ननु यद्येनं मृत्युर्नाप्नोति र्हि कथमस्यात्मस्यादित्याशङ्कां मअत्युर्नरसिंहोऽस्य चतुर्मुखस्यात्मा भवतीति योजनादर्शिता भवति । ननु मृथ्योः मृत्युर्नरसिंहः सर्वेषामप्तयात्मा भवति तथाच किं विशिष्याभिधीयते एनं चतुमर्ुखं मृत्यात्मकोमृथ्युर्नाप्नोतीति तत्राह ॥ हरिसेवनादिति ॥ अन्येत्वयमस्माकं आत्मेति ज्ञात्वातथा नृहरिसेवनं न कुवर्न्तीति भावः । आत्मशब्दस्य स्वरूपार्थत्वप्रतीतिं निवारयन्‌ आत्मशब्दं नृसिंहेनिर्वक्ति ॥ आततत्वादिति ॥ आततत्वात्‌ व्याप्तत्वात्‌ अत्तृत्वात्संहर्तृत्वात्‌ आदानात्‌ भृत्यत्वेन चतुर्मुखादेरादानात्‌ आत्तनिर्माणात्‌ आत्तमुपात्तं व्याप्तं वातच्चनिर्माणं च तस्मात्‌ आत्तज्ञानात्‌ व्याप्तज्ञानात्‌ तथाच शब्दौ समुच्चये एवशब्दः स्वरूपत्वव्यावृत्त्यर्थः प्रत्येकं सम्बध्यते । आङ्‌पूर्वात्‌ तनोतेः ङ्मन्‌ । तथा आङ्‌पूर्वादत्तेदापश्ऱ्चड्‌मन्‌ । उभयत्रापि दकारस्यतकारः । आङ्‌पूर्वाभ्यां तनुविस्तारेमानिर्माण इति धातुभ्यां डन्‌ । आङ्‌पूर्वाभ्यां तनुविस्तारेमाङ्मान इति धातुभ्यां डन्निति ज्ञातव्यम्‌ । एतासां सेवतानामेकोभवति इत्येतद्वयाचष्ये ॥ एतासामिति ॥ ईशत्वेनेत्यनेनैकशब्दः प्रधानार्थक इत्युक्तं भवति । मृत्युरस्यात्माभवतीत्येतदत्रापि हेतुप्रतिपादकतया व्याचष्ये । नृसिंहस्येति ॥ एतेनध्येयत्वेन ज्ञेयत्वेन ब्रह्मणाऽऽत्तत्वादात्मेति व्याख्यातं भवति । भूयोयजेयेत्यत्रभूयः शब्दोजन्मान्तरकरणापेक्षयेतिपरैरुक्तं तदसत्‌ । अवश्यवक्तव्यस्यार्थान्तरस्य सम्भवे अगतिकस्यतस्यानाश्रयणीयत्वादिति भावेन तद्वयाचष्ये ॥ भूयः शब्द इति ॥ श्रुतौ विशेष्यानुक्तेस्तत्प्रदर्शनपूर्वकमन्वयमाह ॥ परमेश्ऱ्वरमिति ॥ अश्ऱ्वोभूत्वायतोमेध्य इति अश्ऱ्वे अश्ऱ्वमेध शब्दोनिरुक्तः तदुपनिषदारूढं कतर्ुं यदश्ऱ्वत्तन्मेध्यमभूदित्येतद्वयाचष्ये । अश्ऱ्वदिति ॥ अश्ऱ्वदित्यनूद्याश्ऱ्वोभवदिति व्याख्यातम्‌ । जृस्तं भ्वित्यङ्‌ श्ऱ्वयतेरः पररूपत्वं अश्ऱ्वत्‌ । मेध्यमित्यनुवादेनयज्ञे अलं भनीयमिति व्याख्यानम्‌ । अश्‌वमेधः अश्ऱ्वमेधशब्दवाच्यः । अश्ऱ्व इति शेषः । ननु अश्ऱ्वदित्यश्ऱ्भवदिति कथं व्याख्यानं मूलेऽश्ऱ्वरूपाप्रतीतेः । नच ततोश्ऱ्वः समभवदिति वाक्यात्तत्प्रतीतिरिति वाच्यम्‌ । तत्राश्ऱ्वशब्दस्यावृद्धयर्थत्वेनिर्णयासम्भवादित्यत आह । तमिति ॥ यतोतोश्ऱ्वोभवदिति व्याख्यानं युक्तमिति शेषः । श्ऱ्वैतीभावमित्यादिनाकृतं व्याख्यानं उपनिषदारूढं कुर्वन्‌ यदश्ऱ्वदिति वाक्यं प्रकारान्तरेण व्याचष्ये ॥ अश्ऱ्वदिति ॥ सचतुर्मुखः अश्ऱ्वमेधः अश्ऱ्वमेधशब्दवाच्यः । तमनवरुध्येवामन्यतेति वाक्यस्य तमश्ऱ्वरूपमात्मानं अनिवारितवद्विभुश्ऱ्चारयामासेति व्याख्यानमयुक्तम्‌ । तत्र तावदर्थाप्रतीतेरित्यतः शेषपूरणेन व्याचष्ये ॥ निरोधमिति ॥ तथाचोदाहृतवचनं तमनवरुध्येवामन्यतेत्येतदनन्तरभाविप्रमेयकथनपरमिति भावः । तर्हीत्तशब्दप्रयोगः कथमित्यत आह ॥ स्वेच्छयेति ॥ निरोध्यनिरोधकभेदाभावादिव शब्दः प्रयुक्तइत्यर्थः ॥ 8 ॥ इत्यश्ऱ्वमेधब्राह्मणम्‌ ॥ 2 ॥ ततश्ऱ्चायं खण्डार्थः ॥ ससंवत्सरनामाब्रह्मा भूयसाक्रतुश्रेष्ठेन यज्ञेनाश्ऱ्वमेधनामकेन भूयः परिपूर्णं परमात्मानं यजेययक्ष्ये इत्यकामयत ऐच्छत्‌ इति शेषः । श्रान्तस्य तप्तस्य देहत्यागेच्छावतः तस्य यशोवीर्यमुदक्रामत्‌ । किन्तद्यशोवीर्यम्‌ । प्राणाश्ऱ्चक्षुरादयः यशोवीर्यनिमित्तत्वाद्यशोवीर्यं यशेवीर्यनामानः । प्राणैः सहस्वयं शरीरादुत्क्रामदिति यावत्‌ । तत्प्राणेषु चतुर्मुखप्राणेषु । तेन सहितेष्विति यावत्‌ । उत्क्रान्तेषु सत्सु शरीरं श्ऱ्वयितुं उच्छूनभावं गन्तुं अध्रियत आरब्धं अमेध्यं चाभवत्‌ । बृंहमाणं तच्छुष्ट्वा तस्य चतुर्मुखस्य शरीर एव तास्मन्नेवशरीरेप्रवेष्युं मन आसीदिच्छाबभूव ॥ 6 ॥ तत्र प्रवेशाय मेमम इदं शवरूपं शरीरं मेध्यं शुद्धं स्यादित्यकामयतैच्छत्‌ । देहान्तरग्रहण सम्भवात्किमिति तस्यैवशुद्धीच्छा इत्यत उक्तम्‌ ॥ आत्मन्वीति ॥ अहमनेनैवविसृष्येनैव देहेनात्मन्वीदेहवा न्स्यामित्यभिप्रेयेणाकामयतेति सम्बन्धः । ततस्तन्मेध्यमभूत्‌ । तस्मिन्‌ शरीरेविवेशच । ततः तत्प्रवेशानन्तरं स इत्यनुवर्तते । यज्ञपशुत्वनिमित्तकश्रलस्यापि लाभार्थं अश्ऱ्वः अश्ऱ्वाकारः समभवत्‌ । तद्द्वितीयरूपं केन निमित्तेनाश्ऱ्वनामकमित्यत उक्तम्‌ । यदश्ऱ्वदिति ॥ तत इत्यादि अत्रापि सम्बध्यते । पूर्वप्रकृतं

?Rपुरुषशरीरं अश्ऱ्वत्‌ श्ऱ्वैतीभावङ्गतम्‌ । ततः श्ऱ्वैतीभावानन्तरं द्वितीयमश्ऱ्वरूपं अभवत्‌ जज्ञे यद्यस्मात्‌ ततस्तस्मात्सोश्ऱ्वोश्ऱ्वनामकः समभवसिदति योजना । अत्राश्ऱ्वमेधनामकश्ऱ्चतुर्मुखोऽश्ऱ्वमेधनामकेन स्वकीयद्वितीयाश्ऱ्वरूपेण पशुनाऽश्ऱ्वमेधनामकं यज्ञमकरोदिति वक्तव्यम्‌ । तत्र त्रयाणशमश्ऱ्वमेधशब्दवाच्यत्वव्युत्पादनार्थं यदश्ऱ्वदित्यादि प्रवृत्तम्‌ । तस्यैवं योजना । तत्‌ ब्रह्मशरीरं यत्‌ यदर्थं यज्ञसाधनास्मृत्यानिः सृतप्राणमश्ऱ्वत्‌ श्ऱ्वैतीभावं प्राप्तं ततश्ऱ्चामेध्यं सद्ब्रह्मेच्छयापुनर्यज्ञार्थमेवमेध्यं शुद्धमभूत्‌ इति यत्‌ तदेवतच्छरीरेणतदाश्ऱ्वैतीभावमेध्यताप्राप्त्यनन्तरं कृतत्वमेव अश्ऱ्वमेधस्य चतुर्मुखकृताश्ऱ्वमेधनामकयज्ञस्य अश्ऱ्वमेधत्वं अश्ऱ्वमेधशब्दप्रवृत्तिनिमित्तमिति । तथा यत्‌ तत्पुरुषशरीरमश्ऱ्वत्‌ बृंहितं पश्ऱ्चान्मेध्यञ्चाभूदिति यत्‌ तदेवतच्छरीरेस्थितत्वमेव अश्ऱ्वमेधस्याश्ऱ्वमेधनामकस्य ब्रह्मणोश्ऱ्वमेधत्वं इति । तथा तत्‌ चतुर्मुखस्य द्वितीयं रूपं अश्ऱ्वत्‌ अश्ऱ्वो अश्ऱ्वोभवत्‌ तदेवरूपं मेध्यं यज्ञ आलं भनीयञ्चाभूदितियत्‌ तदेवाश्ऱ्वाकरेण यज्ञीयत्वमेव अश्ऱ्वमेधस्याश्ऱ्वमेधनामकस्य चतुर्मुखद्वितीयरूपस्याश्ऱ्वमेधत्वमिति । योधिकारी एनं यजमानं पुशुरूपं चतुर्मुखं तत्कृतयज्ञञ्च एवमुक्तनिमित्तेनाश्ऱ्वमेधशब्दवाच्यत्वेन वेदजानाति एष अश्ऱ्वमेधं अश्ऱ्वमेधशब्दार्थं वेद । हवा इति प्रमाण प्रदिद्धिं द्योतयति ॥ 7 ॥ यदर्थमश्ऱ्वोभवत्‌ तत्राश्ऱ्वस्येत्थं भावपुर्वकं विनियोगमाह ॥ तमिति ॥ विभुस्तमश्ऱ्वरूपं स्वात्मानं अनवरुध्यनिरोधमकृत्वेव स्वेच्छागृहीतरूपान्तरत्वेन निरोध्यनिरोधकभावाभावादिवेत्युक्तम्‌ । चारयिष्यामीत्यमन्यत । सर्वस्मिन्‌ भुवनेसंवत्सरपर्यन्तञ्चारयामास च । तं संवत्सरचारितमश्ऱ्वं संवत्सरस्य परस्तादन्ते आत्मनेस्वस्थितायपरमात्मने तदुद्देशेन यज्ञे आलभत आलम्भनं कृतवान्‌ । पशून्‌ अजादिकान्‌ देवताभ्योन्यदेवस्थपरमात्मोद्देशेन प्रत्यौहत्त्यक्तवान्‌ । यस्मात्पशून्‌ देवताभ्यः प्रत्यौहद्ब्रह्मा तस्मादेवाधुनातनायाज्ञिकाः प्राजापत्यं देवताभ्योदीयमानत्वेन प्रजापतिज्ञापिततया प्रजापति सम्बन्धिनं प्रोक्षितं मन्त्रपूतं पशुं सर्वदैवत्यं सर्वदेवतोद्देशेन आलभन्ते । न केवलं ब्रह्मादिरश्ऱ्वमेध शब्दाभिधेयः अपि तर्हि य एष दृश्यमानमण्डलान्तर्गतस्तपति एष सूर्योपि अश्ऱ्वमेधनामा केननिमित्तेन यतः संवत्सरः संवत्सराभिधोश्ऱ्वमेधनामाब्रह्मा तस्य सूर्यस्य आत्मासूर्येव्याप्ततयास्थितः । अस्याश्ऱ्वमेधनामनोब्रह्मणोमहिमानमाह ॥ अयमित्यादिना ॥ अर्कः अर्केस्थितोयं संवत्सराभिधोब्रह्मा अग्निरग्निस्थत्वेनाग्निशब्दवाच्यः । इमेलोकाभूरादयः तस्य संवत्सरस्यात्मानः तेन व्याप्ताः । एवं सूर्याग्निलोकेषु चतुर्मुखस्यास्थित्युक्त्या प्राप्तासवात्तमत्वशङ्कां वारयति ॥ तावताविति ॥ तावेतौपूर्वोक्तौ अर्काश्ऱ्वमेधौसूर्यचतुर्मुखौ उपलक्षणमतत्‌ आग्नलोकाश्ऱ्च या पुनरेकैवमुख्यैवदेवताभवति सा उसैव तदाश्रिता एवेति यावत्‌ । कासा मृत्युरेवनृसिंह एव । य एनमेवं वेदेत्यनुवर्तते । योधिकारीएनं नृसिंहं एवं ब्रह्मसूर्याग्निलोकेषु व्याप्तं वेद सचतुर्मुखः अपपुनर्मृत्युं अकालमृत्युजयति पराजितोप्यपमृत्युः पुनः कदाचिदेनं प्राप्नोति किं नेत्याह ॥ नैनमिति ॥ एनं चतुर्मुखं मृत्युरपमृत्युः कदापि नाप्नोति । कुतः यस्मादस्य मृत्योर्मृत्युः नृसिंहोऽस्य चतुर्मुखस्यात्माऽनेन चतुर्मुखेन ज्ञेयत्वतध्येयत्वादिनास्तवीकृतो भवति । एतस्मादेव हेतो रेतासांदेवतानां अर्कानीनामेकः प्रधानभूतो भवति ॥ 8 ॥ इत्यश्ऱ्वमेधाब्राह्मणम्‌ ॥ 2 ॥ अथभाष्यार्थः ॥ अश्ऱ्वमेधादिषु वायुरेवोद्गाताकतर्व्यः तस्यैव तत्र पआप्तविघ्नपरिहारक्षमत्वादिति भावेन तत्रोपयुक्तां च न कथामाह ॥ द्वया इत्यादिना ॥ इदं ब्राह्मणं द्वयाः द्विप्राकाराः प्राजापत्याः प्रजापतेः हिरण्यगर्भस्य यजमानावस्थस्येमेऽपत्यभूताः गोलकावस्थावागादयः प्राजापत्याः केतेद्विप्रकाराः देवाश्ऱ्चासुराश्ऱ्च । शास्त्रीयज्ञानकर्मवासनावासितोसद्योतनात्मकादेवाः । प्रत्युक्षानुमानजनितदृष्यप्रयोजनकस्वाभाविकज्ञानकर्मवासना असुरा इत्यादिनापरैरन्यथा व्याख्यातम्‌ । तदसत्‌ । देवासुरादिशब्दानां वागादिगोलकपरत्वे ते होचुर्वागुदगायत्‌ ते विदुरित्यादिसंवादानुपपत्तेः ।नहि तेषां जडानां वागादिकरणमस्ति । सुखप्रतिपत्त्यर्थं श्रुत्यावागादेः करणान्यारोप्यसंवादाद्युपदिश्यत इति वदन्देवानां प्रियः श्लाघनीयप्रज्ञः । चेति ॥ 2-6 ॥ अथहममासन्यप्रामूचुः इति वाकये व्याचष्ये ॥ मुख्यवायु ॥ दैत्या इति ॥ न श्यत्येवेति एव शब्दसम्बन्धः । स यथा श्यानमिति दृष्यान्तोक्त्यासूचितमर्थमाह ॥ तस्मादिति ॥ असुराणां स्वतोवायुशक्तिखण्डनासामर्थ्येपि शङ्करवरादिना तत्स्यादित्यत आह ॥ शापैरिति ॥ तर्हि कथमजगरबन्धनादिना भीमस्य शक्तिविस्रंसनादिदर्शनमित्यत आह ॥ स्वेच्छयैवेति ॥ ईश्ऱ्वरसङ्कल्पानुसारेणस्वेच्छयैवशक्तिप्रतिहतिप्रदर्शनं नतु तयाविनेत्यर्थः । भवत्यात्मनेत्यादिफलवाक्यं तात्पर्यमोव्याचष्ये ॥ एवमिति ॥ किमुदेवा इति कैमुत्यार्थोपि शब्दः । भ्रातृव्यइत्यस्याथर्कथनं पापेभ्य इति द्विषन्नित्यस्य शत्रुभ्य इति ॥ 7-9 ॥ सावा एषा देवता सामित्यादिगमयाञ्चकारेत्यन्तं वाक्यं व्याचष्ये ॥ सवायुरिति ॥ एषेत्यस्यार्थोवासुदेवबलाश्रय इति । रुद्रशक्रादेः सकाशात्‌ विमुच्यमोचयित्वा विमोच्येति क्वचित्पाठः । पापसङ्घातमित्येतत्‌

?Rअवाक्षिपदित्यत्रापि सम्बध्यते ॥ 10 ॥ एतासां देवतानामित्यादि अवहदित्यन्तं वाक्यं व्याचष्ये ॥ उन्मुच्येति ॥ 11 ॥ सवैवाचमेवप्रथमामत्यवहदित्यादिखण्डपञ्चकतात्पर्यमाह ॥ अग्निरिति ॥ दिश इत्यस्यार्थोदिक्पा इति । केत इत्यत उक्तम्‌ ॥ इन्द्रादय इति ॥ रुद्रोपिमनोभिमानी ॥ 12-16 ॥ 17-19 ॥ वाग्वैबृहतीत्यत्र वाक्‌ शब्दस्य प्रसिद्धाथर्त्वाप्रतीतिं निवारयन्‌ बृहतीशब्दनिर्वचनपूर्वकं तद्वयाचष्ये ॥ स्त्रीगुणैरिति ॥ सर्वपूर्णत्वात्सर्वात्मनापूर्णत्वात्‌ । वाग्वैब्रह्मेत्येतत्‌ पूर्ववद्द्वेधाव्याचष्ये ॥ अनन्तेति ॥ तस्या एष पुतिरिति वाक्यद्वयं व्याचष्ये ॥ तत्पतिरिति ॥ 20-21 । वाग्वैसेत्येतत्‌ व्याचष्ये ॥ सारत्वादिति ॥ वागेवगीथेत्येतत्‌ व्याचष्ये ॥ सामरूपतः गीथेत्युक्तेति ॥ सामवेदाभिमानित्वात्‌ इत्यर्थः । नमीयत इत्यम इति स्पष्यत्वादुच्छब्दस्योपनिषदैवनिरुक्तत्वात्‌ नैतद्वयाख्यातम्‌ । ननु यदि सामोद्गीथशब्दान्तर्गतसेति गीथेति शब्दवाच्यासरस्वती तर्हि वायोः सामोद्गीथ शब्दवाच्यत्वाभावात्‌ एष उ एव सामैष उएवोद्गीथ इति च कथमुक्तं इत्यत आह ॥ तदिति ॥ तत्‌ तस्मात्‌ सरस्वत्याः सेतिगीथेति शब्दवाच्यत्वात्तयार्धतनुर्वायुः उद्गीथसामाख्य इति सम्बन्धः । अत एव साचामश्ऱ्चेति उच्चगीथाचेति द्वन्द्वसमासोक्तिरिति भावः ॥ विष्णोरर्धनारीनरात्मकत्वं प्रमाण प्रसिद्धं तत्कथं वायोरित्यत आंह ॥ अर्धनारीति ॥ कुत्रचित्‌ एष उएवसामेत्यादौ ॥ 22- 23 ॥ वाचाचह्येवसप्राणेन चोदगायदिति वाक्यम्‌ अपेक्षितं पूरयन्व्याचष्ये ॥ अयास्य इति ॥ तेनार्धनारीनरात्मकेन । अनेन वाचाप्राणेनेत्युभयोक्तेस्तात्पर्यमुक्तं भवति । 24 ॥ तस्य वै स्वर एव स्वमित्येतद्वयाचष्ये ॥ गृहेति ॥ तद्रूपीतदभिमानी अस्योद्गातुः ॥ 25 ॥ भूषणेति ॥ स एव वायुरेव भूषणस्वर्णरूपा च पि स्वरास्थत इति योजना ॥ 26 ॥ तस्य वैवागेवप्रतिष्ठावाचिहि खल्वेष एतत्प्राणः प्रतिष्ठितोगीयत इत्येतद्वयाचष्ये ॥ वागिन्द्रियमिति ॥ वागिन्द्रियं गानकालेतस्य देवस्य वायोः पीठरूपं संस्थितमित्यन्वयः । गानकाल इत्यनेनैतदुक्तार्थम्‌ । अन्नइत्युहैक आहुः इत्येतद्वयाचष्ये ॥ अन्यदात्वन्नमिति ॥ 27 ॥ ननु वायोरेकत्वात्पवमानानामित्युक्तिः कथमित्यत आह ॥ पवमाना इतीति ॥ योगिनोयोग्याः योग्यताचनागन्तुकेत्याह ॥ अनादीति ॥ इदानीमथात इत्येतद्वयाचष्ये ॥ सर्वेति ॥ विमुक्तिगमित्यनेनाथेत्युक्तातात्पर्यम्‌ । सवैखलुप्रस्तोतेत्यादिजपेदित्यन्तं वाक्यं व्याचष्ये ॥ प्रस्तावेति ॥ प्रस्तावकालेजपेदिति सम्बन्धः । योग्य इत्यस्य पूर्वेणोत्तरेण च सम्बन्धः । य इति श्रवणात्‌ स इति लभ्यते तु शब्दएवार्थे स्मरन्नेवेति सम्बन्धः । ननु वायुत्वयोग्यानां किं लक्षणं येन तेषां वायुपदयोगतां ज्ञात्वोद्गातृत्वेन वरणमित्यत आह ॥ द्वात्रिंशदिति ॥ सरस्वतीव्यावृत्त्यर्थं सम्यगिति ॥ सरस्वत्यपेक्षयेति शेषः । तेनैवशब्दसम्बन्धः । नियमेन वायुत्वयोग्यका इति सम्बन्धः । सम्यग्द्वात्रिंशल्लक्षणोपेतः कश्ऱ्चिदपि वायुपदायोग्योनेत्यर्थः । ननु रामकृष्णादौ विद्यमानमिदं लक्षणं कथं वायुपदयोग्यताज्ञापकमित्यत आह ॥ विष्णोरिति ॥ प्रादुर्भावास्त्विति सम्बन्धः । वायुपदयोग्यापेक्षयाविशेषतः सम्यग्द्वात्रिंशल्लक्षणैर्युताः । तथाच सरस्वत्यपेक्षयैवेत्युक्त्तयातिव्याप्तिपरिहार इति भावः । सर्वात्मनान्यानिष्ठं भगवतो लक्षणान्तरमाह ॥ सहस्रारेणेति ॥ सरस्वत्या इव सम्यगित्यनेनैवरुद्रादेरपि व्यावृत्तिः किं नेत्याह ॥ अष्याविंशदिति ॥ षोडशादा षोडशपर्यन्तम्‌ । षोडशादारभ्य अष्यकादा अष्यकपर्यन्तं ऋषयश्ऱ्चोक्ता इत्यर्थः । असत इत्यादि मन्त्रद्वयस्य मृत्योः मामृतं गमयेति तात्पर्यकथनेन मन्त्राणामेकार्थत्वं प्रतीयते तन्निरासाय मृत्युः वा असत्सदमृतं मृत्यर्वैतमोज्योतिरमृत मित्येतद्वयाचष्ये । असदिति ॥ B-2

?Rसन्मृत्युर्दुःखात्मकः इत्यादि योज्यम्‌ । नात्रतिरोहितमिवास्तीत्यस्याभिप्रायमाह ॥ मृत्योरिति ॥ चशब्देनामृतं मोक्षमित्यपि ग्राह्यम्‌ । एवेति प्रसिद्धयर्थकम्‌ । तस्मादुतेषु वरं वृणीतेत्यतद्वयाचष्ये ॥ एवं विदिति ॥ एवं विद उक्तमन्त्रार्थविदश्ऱ्चतेवायुपदयोग्याश्ऱ्चेति विग्रहः । योग्या एवेति सम्बन्धः । याजी यजमानः । स एष एवमित्यादिलोकजिदेवेत्यन्तवाक्यं व्याचष्ये ॥ आत्मन इति ॥ एवं विध उद्गाता आत्मनेस्वार्थं याजिनेपि वा यदि फलमुद्दिश्योद्गायेत्‌ तर्हि तत्फलं भवेदेवात्राभीष्ये विचारणानकार्येति हि यस्मात्तस्मात्तेषु याजीवृणुयाद्वरमिति पूर्वेण सम्बन्धः । लोका जदवत्यवकाराभिप्रायानात्रात । पूर्ववाक्यशेषत्वमप्यभिप्रेत्यतद्वाक्यार्थः कैमुत्यसिद्ध इत्याह । तस्मादिति ॥ तस्मात्सामनामकवायुरूपविदोलोकप्राप्तिनियमात्‌ । यदातद्विद इष्यलोकराहित्येनाशाकायर्ा तदावायुपदयोग्यैः येषां यजमानानां लोकाः प्रकीतिर्ताः गानकालेफलत्वेनोक्तास्तेषां न केवलमरिणेष्यलोकराहित्ये आशानकार्या किन्त्वलोकशङ्का च नैव कार्येति किमुवक्तव्यमिति भावः । तज्ज्ञानेन वातदुक्त्यावालोकप्राप्तिनियमः कुत इत्यत आह ॥ यस्मादिति ॥ अयतेगच्छति अयपयगताविति धातोः । आस्यायइति भवितव्ये अयास्य इति धातोः पूवर्निपात इति भावः । मन्त्रद्वयाभ्यामनतिरिक्तार्थत्वात्तृतीयमन्त्रस्याव्याख्येयत्वमाहमृत्योरितीति कश्ऱ्चित्‌ । तदसत्‌ ।

?Rतथात्वेतृतीयमन्त्रजपवैयर्थ्यापत्तेरित्यभिप्रेत्यनात्रतिरोहितमिकवास्तीत्युक्तौनिमित्तमाह ॥ प्रसिद्धेति ॥ मृत्य्वमृतशब्दार्थयोः मरणमोक्षरूपप्रसिद्धमृत्यु अमृतत्वादित्यर्थः । अस्तीत्युक्तमिति शेषः । य एवं वित्‌ उक्तप्रकारेण प्राणवित्‌ । स एष उद्गातेत्युद्गातुः प्राणादन्यत्वप्रतीतिनिरासायाह ॥ एष इति ॥ उच्यत इति शेषः । पवमानशब्दवाच्यवायुत्वयोग्यानामेवतेषु वरं वृणीतेत्युद्गातृत्वेन प्रकृतत्वादेवं विदित्यस्यपूर्वोक्तमन्त्रार्थविदित्येवार्थोनतु प्राणस्वरूपविदिति । अत एव प्रमाणेमन्त्र त्रय व्याख्यानानन्तरमेव एवं विसिति वायुपदयोग्यानामेवविशेषणमुक्तमिति भावः । ननु तस्मादुतेषु वरं वृणीतेत्यत्राथयानीतराणीत्यादिनोक्तस्य हेतुत्वायोगेन तस्मादित्युक्तोहेतुः क इत्यतः स एष एवं विदित्यादिकमेवहेतु प्रतिपादकमित्यभिप्रेत्येति शब्दाध्याहारेणयोजयति ॥ तद्धैतदिति ॥ इति शब्दः प्रकारार्थः । एवं रूपात्‌ । तस्माद्धेतोरित्यर्थः । यद्वा इति हेतोः तस्माद्वायुपदयोग्याद्वराभियाचनं कर्तव्यमित्यर्थः । अत एव स एष इत्यस्य वाक्यस्यान्वन्यपरत्वे तेषु पवमानेषु सत्सु वरं वृणीतेत्यत्र हेतुप्रतिपादकत्वं न स्यादिति भावेनैष उद्गातेति वायुत्वयोग्य इत्युक्तम्‌ ॥ 28 ॥ ततश्ऱ्चायं खण्डार्थः ॥ प्रजापतेरिमेप्राजापत्याः ब्रह्मसुताः देवाश्ऱ्चासुराश्ऱ्चेति द्वयाः द्विप्रकाराः । ततः तत्र देवासुरभागयोः । देवाः कानीयसाः कनीयांस एव । असुराः ज्यायसाज्यायांसः । तेदेवासुराः एष लोकेषु बहुवचनमाद्यर्थे लोकाद्यर्थं । अस्पर्धं तस्पर्धयायुद्धं कृतवन्तः । बहुत्वादसुरैः देवाजिता इति वक्तव्यम्‌ । तेपराजिताः देवाः परस्पमूचुर्हकिमिति हन्तेत्यास्वादने । विष्णुपूजात्मकेयज्ञे उद्गीथेन उद्गातुरुद्गानबलेन । असुरान्‌ अत्ययाम जयामेति ॥ 1 ॥ तेदेवाः हनिश्ऱ्चयेन वाचमग्निमूचुः । योवाचीति ॥ योवाचिभोगोवेद पाठादिः तं तज्जनितं पुण्यं देवाभ्यः आगायत्‌ उद्गानेन प्रपयामास । उद्गानं न केवलं यजमानार्थमेव किन्त्वात्मार्थमपीत्याह ॥ यदिति ॥ यत्कल्याणं तदतिरिक्तं वदति तत्‌ तज्जनितं पुण्यं आत्मने आगायदिति सम्बन्धः । ते असुराः अनेनैवाग्निनैव उद्गात्रा नोस्मान्‌ देवाः अत्येष्यन्ति जेष्यन्तीति वेदुः । एवं ज्ञात्वा तमुद्गातारं अभिद्रुत्यवेगेनाभिगम्य पाप्मनापापेन अविध्यन्वेधितवन्तः । अग्नेरसुरकृतपापवेधः कथं ज्ञेय इत्यत आह ॥ सय इति ॥ योसुरप्रक्षिप्तः पाप्मा सः । स एवेति कः यदेवयस्मादेवपापात्‌ इदमप्रतिरूपं अनृतं शास्त्रप्रतिषिद्धं वा वदति स एव पाप्मास इति योजना । यद्वा स असुरप्रक्षिप्तः सपाप्मा यः कः । यतश्ऱ्चोदेति सूर्य इत्यादेः यच्छब्दस्य किं शब्दार्थकत्वात्‌ । इदमप्रतिरूपं वदतीति यत्‌ ससपाप्मेति वायोजाना ॥ 2 ॥ अथ हप्राणमूचुरित्यादेः यदेवेदमप्रतिरूपं सङ्कल्पयति स एव सपाप्मेत्यन्तस्य ग्रन्थस्यैवमेवयोजनाद्रष्यव्या ॥ अथग्नेः पापवेधानन्तरम्‌ । एवमुत्तरत्रापि । प्राणं (घ्राणं) नासिक्यावायुम्‌ । (घ्राणे) प्राणेभोगईश्ऱ्वरसमर्पित गन्धाघ्राणनम्‌ । यत्कल्याणं तदितरशुभगन्धम्‌ ॥ 3 ॥ चक्षुः सूर्यं चक्षुषिभोगोविष्णुप्रतिमादि दर्शनरूपः कल्याणं रद्वयतिरिक्तं शुभरूपादिकम्‌ ॥ 4 ॥ श्रोत्रं दिग्देवताः श्रोत्रेभोगोहरिकथादिश्रवणरूपः कल्याणं तदितरशुभशब्दम्‌ ॥ 5 ॥ मनश्ऱ्चन्द्ररुद्रादीन्‌ मनसिभोगः विष्णुस्मरणादिरूपः कल्याणं तद्वयतिरिक्तशुभकार्यं न केवूमुक्तानामेवासुरकृतपापवेधः किन्तु त्वागाद्यभिमानिनां सर्वेषामपीत्याह ॥ एवमिति ॥ एवं उ एवमेव एताः त्वगाद्यभिमानिनीः देवताः उपासृजन्‌ संयोजितवन्तः । निगमयति ॥ एवमिति ॥ एवमुक्तप्रकारेणै नाः मुख्यप्राणव्यतिरिक्ताः सर्वादेवताः पाप्मना अविध्यन्निति । 6 ॥ इमं समर्थत्वेन प्रसिद्धं आसन्यं आस्येभवं मुखान्तगतं प्राणमुख्यवायुम्‌ । स वक्ष्यमाणोदृष्यान्तो यथा लोष्यः पांसुपिण्डः अश्मनं वज्रशिलां ऋत्वाप्राप्य विध्वंसेत नश्यत्यव एवमेवहखलु प्राणं वेद्धुमीप्सन्तः असुराः विध्वंसमानाः विस्रंसमानदेहाः सन्तः विष्वंचः सर्वत्र विनेशुः अदर्शनं प्राप्ताः । ततो नन्तरं देवाः प्राप्तपदा इति शेषः । अभवन्‌ । असुराः पराभवन्‌ । योधिकारी एवमुक्तप्रकारेण प्राणं वेद । अस्य द्विषन्‌ शत्रुः आत्मना परमात्मना तत्प्रसादेन पराभवति । भ्रातृव्यः भ्रातृवत्सहस्थितः पाप्माच पराभवति । 7 ॥ ते देवाः यः इत्थं असुरविध्वंसनादिकायर्कर्तृत्वेन नोस्मान्‌ असक्तप्राप्तवान्‌ स भगवान्‌ क्वनुभूत्‌ क्वस्थितः इति ऊचुर्ह । आस्ये अन्तः इति अयं प्राणः उवाच । प्रकारान्तरेण वायोः महिमानमाह ॥ स इत्यादिना ॥ सः प्राणः आस्यादयत इत्ययास्य शब्दवाच्यः । आङ्गिरस शब्दं निर्वक्ति ॥ अङ्गानामिति ॥ 8 ॥ हि यस्मात्‌ अस्याः प्राणाख्यदेवतायाः मृत्युः पापरूपः दूरं दूरे तस्माद्दूरिति ख्यातेति सम्बन्धः ॥ 9 ॥ एषा विष्णुबलाश्रया सा प्राणाख्यदेवताः यत्‌ यस्मात्‌ एतासां देवतानां रुद्राद्यानां सकाशात्् पाप्मानं मृत्युं पापाख्यं मृत्युं अपहत्यमोचयित्वा यत्‌ यस्मात्‌ तासां प्रसिद्धानां दिशां अन्तस्तत्‌ तत्र गमयाञ्चकार । आसां देवतानां पाप्मनः पापानि तत्तद्दिगन्तस्थितजने विन्यदधात्‌ विशेषेणस्थापि तवती । तस्मादहं पाप्मानं मृत्युं नेत्‌ नैवान्ववायानिप्राप्नवानीति मन्वानोधिकारिलोकः जनं पापाश्रयं नेयात्‌ न गच्छेत्‌ अन्तं पापजननिवासस्थानं दिगन्तरं नेयादिति । 10 ॥ मृत्युविमोचनानन्तरं किमकरोत्‌ इति जिज्ञासायां उक्तानुवादपूर्वकमाह ॥ सेति ॥ अथ मृत्युविमोचनानन्तरं एनाः रुद्रादिदेवताः मृत्युमति मृत्युमतिक्रम्यवर्तमानं तत्तद्देवतास्वामिकमूर्ध्वलोकं अवहत्प्रापयामास ॥ 11 ॥ एतदेवविवृणोति ॥

?Rस इत्यादिना ॥ सवैमुख्यप्राणः प्रथमां पूर्वमेवोद्गातृत्वेन स्वीकृतां वाचमग्निमेव मृत्युं अत्यवहत्‌ । सावाक्‌ यदा मृत्युं अत्यमुच्यत तदा सोग्निरभवत्‌ । स्वपदेस्थितः । स्वव्यापारञ्चाकोदित्याह । सोयमिति । परेणप्राणेन एवमुत्तरत्रापि ॥ 12-14 ॥ अतिक्रान्ताः स्वव्यापारं कुर्वन्तीति शेषः ॥ 15 ॥ अनेन देवा अभवन्नितिप्रागुक्तमेवविवृतं भवति । य एवमुक्तमहिमाविशिष्यं प्राणं वेद एनं एषा प्राणाख्यदेवता एवं वा एवमेव अग्न्यादिदेवता इव मृत्युं पापं अतिअतिक्रामयित्वा तद्वोग्योर्ध्वलोकं वहतिप्रापयति । 16 ॥ अथ देवताकार्यसाधनानन्तरं आत्मनेस्वार्थे अन्नचतत्‌ अद्य अन्नाद्य अन्नामातयावत्‌ । इह प्राणिषु भिरिति शेषः तत्सर्वमन्नं अनेन प्राणेनैवाद्यते कथं प्राणिभिरद्यमानमन्नं अनेनाद्यत इत्युक्तिरित्यत आह ॥ इहात ॥ इह प्राणिषु प्रतितिष्ठति प्राणः । 17 ॥ ते देवा अब्रुवन्‌ किमिति यदिदं प्राणिभिरद्यमानं एतावद्वाएतावदेवान्नं इतोतिरिक्तमन्नं नास्ति तत्सर्वं आत्मने आत्मार्थमेव त्वमागासीः । वयमप्यन्नं विनास्थातुं न शक्नुम इति ॥ अनु त्वदनन्तरं अस्मिन्नन्ने नः अस्मान्‌ आभजस्वभागिनःकुर्विति ते देवाः अब्रुवन्निति सम्बन्धः । ते अन्नार्थिनोयूयं मा मां अभिसम्मततः परिवारतया न्यविशन्त । तस्माद्देवानन्नभागिनः कृत्वाप्राणिषु निवेशितत्वात्‌ । अनेन देवता परिवृतेन प्राणेन प्रेरितः प्राणी यदन्नमत्ति देनान्नेनैतादेवताः तृप्यन्ते । आश्रितानां स्वानां भर्तापोषकः तेषां मध्ये श्रेष्ठः सन्‌ पुरः पुरतः एता गन्ता अन्नादोभोक्ता धिपतिश्ऱ्च भवति । प्राणविद्विद्वेषिणोनिष्यमाह ॥ य इति ॥ एवं विदं प्रति स्वेषु ज्ञातिषुमध्ये द्रव्यविषये वा य उयः कश्ऱ्चित्प्रति प्रतिकूलो बुभूषति भवितुमिच्छति स भार्येभ्योभर्तव्येभ्यः तद्भरणार्थमिति यावत्‌ । अलं समर्थो नैवभवति ह । प्राणविदनुकूलस्येष्यमाह ॥ अथेति ॥ एतं प्राणविदं य एवानुभवति अनुकूलोभवति योवायश्ऱ्चै तं प्राण विदमन्वेवानुवर्तयन्नेव भार्यान्‌ भर्तव्यान्‌ बुभूषति भर्तुमिच्छति स एव भार्येभ्योलं भवतिह ॥ 18 ॥ सोयास्यः आङ्गिरसोङ्गानां हिरसइत्युक्तं प्राण एवोपपादयितुं अनुवदति ॥ स इति ॥ उपपादयितुं प्रतिजानीते । प्राणोवा इति ॥ वैशब्दोवधारणार्थे । अङ्गानां रस इति प्रागुक्तः प्राण एवेत्यर्थः । कुत इत्यतः तत्प्रसिद्धमित्याह ॥ प्राणोहीति ॥ प्राण एवाङ्गानां शरीरावयवानां रसोनियामक इति प्रसिद्धमित्यर्थः । तन्नियामकत्वमेवकुत इत्यतस्तदुपपादनपूर्वकं हेतुसिद्धिं दर्शयति । तस्मादिति ॥ प्राणोयदा यस्मात्कस्माच्चिदङ्गादुत्क्रमति तदेवतदैव तदङ्गं शुष्यति । अन्यथातन्नस्यादित्यर्थः । निगमयति ॥ एष इति ॥ 19 ॥ प्राणस्य महिमाधिक्यलाभायतत्र बृहस्पत्यादिशब्दान्प्रतिज्ञापूर्वकं निर्वक्ति ॥ एष इति ॥ उशब्दश्ऱ्चशब्दार्थे बृहस्पतिश्‌चेति सम्बन्धः वाग्वैवागेव सरस्वती स्त्रीगुणैः बृंहितत्वाद्बृहती ॥ 20 ॥ वाक्‌ अनन्तवेदाभिमानित्वात्‌ विष्णुना बृंहितत्वाद्वा ब्राह्मा ॥ 21 ॥ वाग्वै सा स्त्रीषुसारस्वत्वात्‌ । एष णः अमः अमयत्वात्‌ साचामश्ऱ्चातयदधनारीनरात्मकत्वं तत्साम्नः सामशब्दवाच्यस्य वायोः सामत्वं सामशब्दप्रवृत्तिनिमित्तं प्रकारान्तरेण सामशब्दं निर्वक्ति ॥ यद्वेवेति ॥ यत्‌ उ एवेति पदच्छेदः । उशब्दएवार्थः यस्मादेवप्लुषिणशसम एव । तदन्तर्गतरूपेण तत्तुल्यपरिमाणक एवेत्यर्थः । एवमुत्तरत्रापि । तस्मात्‌ उ एवेति पदच्छेदः । उशब्दोवाशब्दार्थः । तस्मादेव वा साम सामशब्दवाच्यः । य एवं उक्तनिर्वचनपूर्वकं सम सामनामकं एतदर्धनारीनरात्मकं वयूरूपं वेद स साम्नोवायोः । सायुज्यमश्रुते तद्योग्यः । अन्यस्तुसलोकतामश्ऱ्नुते ॥ 22 ॥ एष उ एवेत्यादिपूर्ववद्यद्वयाख्येयम्‌ ॥ 23 ॥ अर्धनारीनरात्मकस्यवायोः विश्ऱ्वसृग्यज्ञोद्गात्र यायादिप्रेरकत्वरूपमहिमानमाख्यायिकयाह ॥ तदिति ॥ तत्‌ अयास्यादिप्रेरकत्वं हापि प्रसिद्धमपि ब्रह्मदरत्तोनामतः चैकितानेरपत्यं चैकितानेयः राजानं सोमं भक्षयन्नुवाच लताभिमानित्वेनेयमुक्तिः । विश्ऱ्वसृग्यज्ञे अयास्य आङ्गिरसश्ऱ्चऋषिः इतः प्राणात्‌ अन्येन प्रेरितः सन्‌ उदगायदिति यदिस्यात्‌ तदायं राजामयाभक्ष्यमाणसोमाभिमानीचन्द्रः अस्य प्राणेनैव प्रेरित उदगायदिति वदतः मेमूर्धानं शिरः विपातयतात्‌ विस्पष्यं पातयतु इत्युवाच । श्रुतिः शपथकरणेर्थत्त्सवं हेतुमाह ॥ वाचाचेति ॥ चशब्दावितरेतरयोगे । सोयास्यादिर्हियस्मात्‌ वाचाच प्राणेन चार्धनारीनरात्मकवायुनैव प्रेरितः सन्‌ उदगायदिति ॥ 24 ॥ तस्येति ॥ तस्य एष उ एव सामेत्यादिनाप्रकृतस्यै तस्यायास्याद्युद्गातृप्रेरकत्वेनोक्तस्य साम्नोर्धनारीनरात्मकस्य वायोः स्वंगृहकोशाद्यभिमानिरूपविशेषं योवाद अस्य स्वंगृहकोशादिकं भवति ह । यत्‌ स्वंगृहकोशाद्यभिमानिरूपं तत्‌ तस्योद्गातुः स्वर एव स्थितं वै । यस्मादुद्गातृस्वरेवायुरूपं स्थितं तस्मादार्त्विज्यं ऋत्विग्भावं उद्गातृत्वं करिष्यन्‌ वाचि स्वरं इच्छेत इच्छेत्‌ तस्मादेव वायुरूपस्योद्गातृस्वरेस्थितत्वादेव यज्ञे उद्गातारं कर्तुमिति शेषः । स्वरवन्तं दिदृक्षन्त इत्यर्थः । उक्तमेवफलं निर्धारयति । भवतीति ॥ सुवर्णं भूषणस्वर्णाभिमानिरूपं शिष्यं पूर्ववत्‌ । अनेनायास्यादीनामभावे प्राणस्वरवानेवोद्गाताकर्तव्य इत्युक्तं भवति ॥ 26 ॥ प्रतिष्ठां पीठं वाक्‌ वागिन्द्रियं हियस्मा द्गीयते यदेति शेषः एतदेतस्मिन्‌ गानकाले एषः प्राणः वाचिप्रतिष्ठितः तस्माद्वागेव प्रतिष्ठेति सम्बन्धः । अन्यदातु एष प्राण अन्नेप्रतिष्ठित इत्येके आहुः ॥ 27 ॥ अतः

?Rपूर्वोक्तमहिमाविशिष्यत्वा दकारवाच्यविष्णुप्रसादाद्वा अथ मुक्त्यनन्तरं पवम

?Rानानामेवमुख्यवायुत्वयोग्यानामेव अभ्यारोहः सर्वाधिक्यारोहणं स्वसहमुक्तसर्वनियमनादि । अयास्यादीनां तत्प्रेरणयैवोद्गातृत्वात्सवैवायुत्वयोग्य एव प्रस्तोताप्रस्तोतुं योग्य इति स एव सामप्रस्तौति । स प्रस्तोता यत्र यदा । प्रस्तूयात्‌ प्रस्तावमारभेत तत्‌ तदा प्रस्तावकाले एतानिवक्ष्यंमाणानि विष्णुप्रार्थनरूपाणियजूंषिंस्तोत्राणि जपेत्‌ । तान्युदाहरति । असत इति ॥ तिरोहितार्थत्वादुदाहृतमन्त्रमनूद्यव्याचष्ये ॥ स इति । समन्त्रोयदाह तत्र मृत्युर्वा असदित्यादि योजना । मृत्युर्दुःखात्मकः अमृतं आनन्दात्मकं । पदार्थमुक्त्वावाक्यार्थमाह ॥ मृत्योरिति ॥ तात्पर्यमाह ॥ अमृतमिति ॥ तद्वाक्यमित्येवाहत्यर्थः । एवमुत्तरत्रापि । मृत्युरज्ञानात्मकः मृतं ज्ञानात्मकम्‌ । तिरोहितमिवतिरोहितमेव नैवेति वान्वयः । अतो न व्याख्येयमिति भावः । इतराणि उदाहृतमन्त्रव्यरिरिक्तानि उद्गानेवायुनाविनियुक्तानि आत्मने आत्मार्थम्‌ । वायुपदयोग्यस्वैवाभिमत फलसाधकत्वेन वरार्थं स एव प्रार्थनीय इत्याह । तस्मादिति ॥ एवं वित्‌ उदाहृतमन्त्रार्थवित्‌ अत एव वायुपदयोग्य उद्गाता यजमानायवा आत्मनेव । यं कामं काम्यं फलत्वेन कामयते तमुद्दिश्यागायति । तत्‌ वायुपदयोग्यकृतमेतदुद्गानं लोकजिदेव कामित लोकादिफलसाधनमेव हनिश्ऱ्चितम्‌ । यस्मात्तस्मात्तेषु वायुपदयोग्येष्वेवोद्गातृषु सत्सु यजमानो यं कामं कामयते तं वरं वणीतेति सम्बन्धः । य एवमुक्तप्रकारेण सामनामकं वायुं वेद तस्य वेत्तुः अलोक्यतायाः लोकस्यायं लोक्यः न लोक्यः अलोक्यः तस्य भावस्तथा । लोकराहित्यस्येति यावत्‌ । आशानास्ति अरिणशनकार्येति भावः ॥ 28 ॥ इत्युद्गिथब्राह्मणम्‌ ॥ 3 ॥ स तया वाचातेनात्मनेदं सर्वमसृजतेत्युक्तसृष्यिप्रकारं दर्शयति ॥ आत्मैवेत्यादिना ॥ तद्वाक्यं परैरिदं दृश्यमानं शरीरभेदजातं अग्रेशरीरान्तरोत्पत्तेः प्राक्‌ आत्मैव प्रजापतिरेवासीदिति व्याख्यातम्‌ । तदसत्‌ । शरीरान्तरोत्पत्तेरित्यध्याहारप्रसङ्गात्‌ । शरीरभेदजातस्य जडस्य प्रजापतिमात्रत्वायोगाच्चेति भावेन तद्वाक्यं व्याचष्ये ॥ इदमिति ॥ एतस्येति वदताषष्ठयर्थेतीयेत्युक्तं भवति । पुरुषविध इत्येतदात्मनोविशेषणं इति परेषां व्याख्यानमप्रामाणिकमिति भावेन तद्वयाचष्ये ॥ तत इति ॥ अनेनासीदित्यस्योत्तरत्रापि सम्बन्धः तत इत्यध्याहार इत्युक्तं भवति । पुरुषविधः पुरुषाकारशिरः पाण्यादिलक्षण इत्यन्यथाप्रतीतिनिरासायाह । पुरुष इति ॥ अप्रामाणिकत्वात्प्रमाणविरुद्धत्वाच्च न परकीयं व्याख्यानं युक्तमिति भावेन ब्राह्मणं प्रमाणेन व्याचष्ये ॥ एतस्येति ॥ आत्मैवेत्येवकाराभिप्रायमाह ॥ एक एवेति ॥ तर्हि श्रियासार्धमित्युक्तिः कथमित्यतः उक्तम्‌ ॥ पर इति ॥ सर्वोत्तम इत्यर्थः ।ननु श्रुतावात्मेति श्रवणान्नारायण इत्युक्तिः कथं इत्यत आह ॥ तमिति ॥ पुरुषेत्यपीति पुरुषविध शब्दगतपुरुष शब्दार्थकथनम्‌ । तस्मात्प्रभोरिति सम्बन्धः । ननु पुरुषसादृश्यस्य सर्वसाधारण्यात्‌ विशिष्यकिमुच्यते पुरुषविधोब्रह्मेतीत्यत आह ॥ ब्रह्मादेरिति ॥ एतस्मादेवेति सम्बन्धः । यथा विष्णुश्ऱ्चेतनवर्गे उत्तमस्तथाधिकारिवर्गेब्रह्मोत्तम इत्यनेन प्रकारेण सर्वोत्तमतैव ब्रह्मणः पुरुषविधेतति भावः । सोनुवीक्ष्यनान्यदात्मनोपश्यदित्येतद्वयाचष्ये ॥ स इति ॥ दिग्दर्शनस्यान्यादर्शनपूर्वकालीनत्ववत्‌ अन्यादर्शनस्यापि व्याहरणपूर्वकालीनत्वात्‌ नान्यद्दृष्ट्वेत्युक्तम्‌ । स विराडात्माहमस्मिसर्वात्मेत्यग्रेत्यग्रेप्रथमं व्याहरत्‌ ज्ञातवानिति व्याख्यानमसत्‌ । विशिष्यैक्यानङ्गीकारात्‌ चैतन्यैक्यस्य च प्रमाणविरुद्धत्वात्‌ इति भावेन सोहमस्मीति वाक्यं व्याचष्ये ॥ अब्रवीदिति ॥ स्वसम्बन्धिनोन्यस्याप्यहेयत्वात्‌ किं विशिष्योच्यते स्वाहेयत्वमितीत्यतस्तदेवविशदयति ॥ हातुमिति ॥ किं स्वसम्बन्धिदेहेन्द्रियादिकं वास्वाहेयमुतपुत्रवित्तादिकं वा नाद्य इत्याह । हातुं शक्यमिति ॥ अस्वाभाविकत्वादिति भावः । नेतरः तेषामधुनाप्यनुत्पन्नत्वात्‌ इत्याह ॥ एक इति ॥ उत्पत्स्यमानमपीदं पुत्रादिकं हातुं शक्यमेवेत्याह ॥ हातुमिति ॥ ततः स्वरूपस्यैवस्वाहेयत्वं समचिन्तयदिति सम्बन्धः । स एवमिति पाठे एवमित्यस्य तत इत्यर्थः । ततोहं नामाभवदित्येतद्वयाचष्ये ॥ तत इति ॥ यतो ब्रवीत्तत इति सम्बन्धः । स य त्पूर्व इत्येतद्वाक्योक्तः क इति न ज्ञायते अत आह ॥ सचेति ॥ न केवलं नारायणः पुरुषाभिधः ब्रह्माचेति समुच्चयार्थश्ऱ्चशब्दः । पुरुषाभिधश्ऱ्चेति वा । तद्वयाचष्ये ॥ ओषणादिति ॥ पुरु इत्यस्यार्थः पूर्व इति । अथवा पुरुइत्यस्यर्थः सेचेति । उष इत्यस्यार्थः ओषणादिति । नारायण प्रसादेनौषणादिति सम्बन्धः । तेनोक्त प्रवृत्तिनिमित्तेन पुरुष शब्दाभिधेयत्वं नारायणस्यैव मुख्यत इति सूचयति । ओषतिहवा इति फलवाक्यं व्याचष्ये ॥ य एवमिति ॥ पुरुषाभिधं ब्रह्माणमिति शेषः । सवेत्ता यस्तुशत्रुः स्वाभिमतं अधिकार्यभिमतं पूर्वं प्राप्तुमभीप्सति तं ब्रह्मविष्णुप्रसादतः स्वयमतुष्यः सन्‌ ओषेत्‌ ओषतीति याजना । 1 ॥ सोबिभेत्तस्मादेकाकीबिभेतीत्येतद्वयाचष्ये ॥ विममर्शेति ॥ यद्यस्मान्मत्तोन्यद्वस्त्वंतरं किमपिनास्ति तस्मादहं प्रत्यक्‌ चैतन्याद्वितीयब्रह्मरूपः कस्मान्नुबिभेमीति परकीयव्याख्यानमसत्‌ । चैतन्यैक्यस्याप्रामाणिकत्वादिति भावेन यन्मदन्यदित्यादिवीयायेत्यन्तं वाक्यं व्याचष्ये ॥ यस्मादिति ॥ पञ्चमुखच्छेत्तृत्वेन

?Rहरस्यैवबाधकत्वं स्यादित्यत आह ॥ इत इति ॥ द्वितीयाद्वैभयं भवति नतु स्वस्मात्‌ द्वितीयं चाविद्याकल्पितं इति व्याख्यानमसत्‌ । अविद्याकल्पितत्वस्याप्रामाणिकत्वादिति भावेन कस्मादिति वाक्यं व्याचष्ये ॥ विष्णोरिति ॥ द्वितीयादित्येतत्रेधाव्याचष्ये ॥ समानादिति ॥ विरोधिन इत्येतदत्रापि सम्बध्यते । पारवश्यतः हीनस्यस्वानधीनत्वतः । पारवश्यतः स्वस्यहीनाधीनत्वतोवेत्यर्थः । प्रकृतेत्रयाणामप्यभावादिति पक्षधर्मता द्रष्यव्या । तत्राद्यस्योपपादनं तदन्येषां पितृत्वत इति द्वितीयस्योपादनं विष्णोरिति तस्येत्येतदत्रोभयत्रापि सम्बध्यते । तृतीयमुपपादयति ॥ हीनमेवेति ॥ यतः सर्वं हीनं जगत्‌ तस्यैव वशेएव न पुनः सतद्वशः तद्वाएतदवशमित्यर्थः । एवं हीनसद्भावमभ्युपेत्यतस्य स्वानधीनत्वाभावेन भयहेतुत्वं नास्तीत्युक्तम्‌ । इदानीं हीनं नास्त्येवतदाऽनुत्पन्नत्वादित्याह । नचेति । जातं च नेति सम्बन्धः । अधिकस्य विष्णोरिति प्रियत्वेपि अन्यस्मादधिकाद्भयं किं न स्यादित्यत आह ॥ हरिरेवेति ॥ परः अधिकः ॥ 2 ॥ सवैनैवरेमेतस्मादेकाकीनरमत इत्येतद्वयाचष्ये ॥ नेति ॥ तत एकत्वात्‌ । सद्वितीयमैच्छदितयेतद्वयाचष्ये । अथापीति ॥ अथ शब्दोहेत्वर्थे अपि शब्द एवार्थे । रत्यभावादेवेत्यर्थः । स हैतावानासयथास्त्रीपुमांसौसंपरिष्वक्तावितिद वाक्यं व्याचष्ये ॥ स इति ॥ पूर्वदेहं परित्यज्यता वद्देहोभवदिति प्रतीति निरासार्थं सस्थूलत्वमुपागत इत्युक्तम्‌ । यत्किंचिद्दंपतीदेहद्वयसमपरिमाणकदेहेन सरस्वत्युत्पादनायोगाद्ब्रह्माचैवसरस्वतीत्युक्तम्‌ । ब्रह्मासरस्वतीचेति दम्पती स एव तद्देहवानेवस्थूलत्वमुपागतः सन्नित्यन्वयः । स इममेवात्मानं द्वेधायातयदित्येतद्वयाचष्ये ॥ तदेति ॥ ततः पातनात्पतिः मन्वाख्याः पत्नीशतरूपाचाभवतामिपि परकीयव्याख्यानं अप्रामाणिकमिति भावेन ततः पतिश्ऱ्चपत्नीचाभवतामित्येतद्वयाचष्ये ॥ पातनादिति ॥ द्वन्द्वात्परस्त्वप्रत्ययः उभयत्रापि सम्बध्यते । शब्द इति जात्यपेक्षयैकवचनम्‌ । पतित्वपत्नीत्वनिमिज्ञत्तकः पतिरिति पत्नीति शब्दः एनोरेतयोरजायतेत्यर्थः । पत्नीचतिपाठेपतिः पत्नीचेति शब्द इत्यर्थः । अन्यव्याख्यानेतु कथंनुमाऽऽत्मन एव जनयित्वेत्युत्तरवाक्यविरोधः । प्रजापतिनाशतरूपोत्पत्तिस्वीकारान्मनोश्ऱ्चसम्भोगकर्तृत्वादिति भावः । तस्मादिदमर्धबृगलमिवस्व इति वाक्यं व्याचष्ये ॥ तस्मादिति ॥ तस्मात्‌ द्विधाभूतैकदेहत्वात्‌ तयोः जायमानं सुखम्‌ । सप्तम्यर्थेवतिः । पात्रार्धद्वयसिद्‌थतघृतवदित्यर्थः । ततोमनुष्या अजायन्तेत्येतद्वयाचष्ये ॥ तत इति ॥ मनुष्यशब्दोमनुष्येषुप्रसिद्धः अतः कथं देवानित्यादिव्याख्यानं इत्यत आह ॥ बोधस्येति ॥ मनुष्यतामनुष्यशब्दप्रवृत्तिनिमित्तम्‌ । अन्यथा सैषाब्रह्मणातिसृष्णिः यच्छ्रेयसोदेवानसृजतेत्युत्तरवाक्यविरोधः स्यादिति भावः ॥ 3 ॥ सोहेयमीक्षाञ्चक्रेकथं नुमात्मन इत्यत्र सरस्वत्या अज्ञानाभक्त्यादिप्रतीयते तां निवारयंस्तिरोभावस्य प्रयोजनमाह ॥ सर्वज्ञापीति ॥ पुरुषे आगतेस्त्रियस्तिरोभवन्तीति स्त्रीस्वभावं दर्शयन्ती । ब्रह्मसृष्यायाः स्वस्याः तत्सम्भोगमधर्ममिवेत्यर्थः । सरस्वती ब्रह्मणोर्गोत्वादिभावेप्रयोजनामाह ॥ नानेति ॥ 4 ॥ सोवेदहंवावसृष्यिरस्म्यहंहीदं सर्वमसृक्षीति वाक्यं व्याचष्ये ॥ सर्जनादिति ॥ सृष्ययां हास्येति फलवाक्यं व्याचष्ये ॥ तद्विदिति ॥ तत्पुत्रतां साक्षात्पुत्रतां परं परयापि पीलिकादिजन्मनोज्ञाफलत्वायोगात्‌ । एतस्यामित्यस्यार्थः पिपीलिकान्तरुद्रादाविति ॥ 5 ॥ अथेतीति पदद्वयमपेक्षितपूरणेन व्याचष्ये ॥ अथेति ॥ अन्नमपीति सम्बन्धः । अभ्यमन्थनिदत्येतच्छेषं पूरयन्व्याचष्ये ॥ ओष्ठद्वयमिति ॥ अन्तरेवेति सम्बन्धः । च शब्देन योनेरपि समुच्चय; । एवमेवमुखाच्चैवेत्येवकारचशब्दयोरर्थोज्ञेयः । समुखाच्चेत्यादि व्याचष्ये ॥ तन्मुखादिति ॥ एतस्यैव साविसृष्यिरेष उह्येवसर्वेदेवा इति वाक्यस्य हि यस्माद्याः सर्वोपि देवभेद एतस्यैव प्रजापतेः साविसृष्यिस्तस्मादेष एव हिरण्यगर्भः सर्वेदेवाः नान्यद्देवतान्तरमस्तीति परव्याख्यानं असत्‌ । विशिष्यैक्यस्यानङ्गीकारात्‌ चैतन्यैक्यस्य बाधितत्वादिति भावेन सामानाधिकरण्यव्यपदेशेनिमित्तमाह ॥ एवमिति ॥ अनेन श्रौताहिशब्दोहेत्वर्थ इत्युक्तं भवति । नन्वेवं सति सर्वेदेवा इति प्रयोगस्यामुख्यत्वं स्यात्‌ मुख्येसत्यमुख्यग्रहणायोगात्‌ इत्यत आह ॥ स्वतन्त्रेष्विति ॥ स्वतन्त्रेष्वेवेति सम्बन्धः । अथ यत्किञ्चेत्यादि सोम इत्यन्तं वाक्यं व्याचष्ये ॥ स इति ॥ श्रेयस इति देवानां श्रेयस्त्वोक्त्यार्थाच्चतुर्मुखस्यावमत्वं सूचितम्‌ । तदुभयं च न परस्परावधिकं किन्तु कयाचनविवक्षयेति वक्तुं अथ यन्मर्त्यः सन्नितिवाक्यं प्रवृत्तमित्यभिप्रेत्यद्वाक्यद्वयं व्याचष्ये ॥ सर्वेति ॥ पुरापूर्वं सरस्वत्यामिथुनीभावादिमर्त्यधर्मतयावम इत्यनेन श्रुतौमर्त्यः सन्नित्येतत्‌ पूर्ववाक्यसूचितावमत्वोपपादकमिति । आयुः मात्रतोधिकानित्यनेनामृतानित्येतत्‌ श्रेयस इत्युक्त श्रेयस्त्वोपपादकमित्युक्तं भवति । अन्यथा यच्छ्रेयसोदेवानसृजतेत्यनेनैवाति सृष्यत्वस्योपपादितत्वात्‌ अस्य वाक्यस्यवैयथ्‌र्यं स्यादिति भावः । ननु परस्परावधिकत्वेनैव ब्रह्मणोदेवानां चावमत्वश्रेयस्त्वेकिं न स्यातं इत्यत उक्तं सर्वाधिको(क्ये)पि योग्यत्वादिति योग्यताहीनानिति च । देवलोके जननमात्रेण न देववत्‌ तस्यसुखमित्याह ॥ आत्मेति ॥ यद्वा तदयोग्यानां फलमाह ॥ आत्मेति ॥ ननु ततो मनुष्या अजायन्तेत्यस्य ततस्तस्यामुमेशादीन्देवान्सर्वान्मनूनपि । जनयामासेति

?Rव्याख्यानमयुक्तम्‌ । तथासति तद्यदिदमाहुरत्यिद्युत्तरग्रन्थस्य देवतासृष्यिप्रतिपादकस्य वैयर्थ्यापत्तेरित्यतस्तस्य प्रयोजनमाह ॥ भगवदिति ॥ एतत्प्रागुक्तं सृष्यिकर्तृत्वं तथाचैतस्यैवसाविसृष्यिरिति पूर्वोक्तमेवसृष्यिकर्तृत्वमनूद्यतत्तस्माद्भगवदुपासनादिति तस्य भगवदुपासनानिमित्तकत्वमुच्यते नतु देवसृष्यिः पुनरुच्यत इति न वैयर्थ्यमिति भावः ॥ 6 ॥ इति प्राजापत्यब्राह्माणम्‌ ॥ 4 ॥ ततश्ऱ्चायं खण्डाथर्ः ॥ इदमग्रे एतस्याग्रे परमात्मैवासीत्‌ । तः पुरुषविधोब्रह्मासीत्‌ । स ब्रह्मासर्वादिशोऽनुवीक्ष्यदृष्ट्वा आत्मनो न्यन्नापश्यत्‌ । स ब्रह्मा स्वरूपस्य स्वाहेयत्वं स्मरन्‌ अहमस्मीति अग्रेपूर्वं व्याहरत्‌ ततोहंनामाभवत्‌ । यस्मादेवन्तस्मात्तत्सृष्योपिलोकः एतर्हि एतस्मिन्‌ काले आमन्त्रितः कस्त्वमिति पृष्योऽहमयमित्येव अग्रेप्रथममुक्त्वाऽथानन्तरं अन्यत्पिण्डविषयं यदस्यपुरुषस्य माता पितृकृतं भवति तन्नामप्रब्रूते कथयति । स ब्रह्मा यद्यस्मात्‌ सर्वस्मादस्मादधिकारिवर्गात्‌ पूर्वोमुख्यः न्‌ सर्वान्पाप्मनः औषत्‌ ददाह तस्मात्पुरुषः पुरुषशब्दवाच्यः । य एवमुक्तप्रकारेण पुरुषाभिधं ब्रह्माणम्‌ वेद सः तं ओषति दहति । तं कं योस्मादधिकारिणः पूर्वः सन्‌ बुभूषतिभवितुमिच्छति तदभिमन्तस्वयं प्रापनुमिच्छतीति यावत्‌ तमिति सम्बन्धः ॥ 1 ॥ सब्रह्माऽबिभेत्‌ भीतवान्‌ एकाकित्वात्‌ यस्मादेवं तस्मात्‌ अद्यतनोयः कोपि एकाकी निर्विवेकं बिभेति । सोयं ब्रह्मा ईक्षां विमर्शं चक्रेह । किमिति यद्यस्मादन्यत्‌ मद्बाधकं नास्ति अतः कस्माद्बिभेमीति । तत एव विमर्शनादेव अस्य भयं वीयायविस्पष्यं गतवत्‌ । तत्रोपपत्तिमाह ॥ कस्मादिति ॥ हियस्माद्द्वितीयाद्विरोधिनः समानाद्विरोधिनोधिकात्‌ स्वानधीनहीनाद्वा भयं भवति तच्चात्रनास्ति अतः कस्मादभेष्यत्‌ ॥ 2 ॥ स वा इत्येततपूर्ववद्वयाख्येयम्‌ । सब्रह्मा एकस्य रमणाभावात्‌ द्वितीयं पत्न्नयाख्यमैच्छत्‌ ।स्त्रीपुमांसौसरस्वतीब्रह्माणौ सम्परिष्वक्तौसहितौ यथायावत्‌ तद्वेहद्वयं मिलितं यावत्परिमाणकं एतावान्‌ एतद्देहवानास । स इममेस्थूलमेवात्मानं देहं द्वधापातयत्‌ । ततः पातनात्‌ ब्रह्मसरस्वत्यौ पतिश्ऱ्चपत्नीच पतिपत्नीशब्दवाच्यौ अभवताम्‌ । तस्मादेतयोरेकदेहविभक्तदेहवात्त्वात्‌ इदं एतद्देहद्वयनिमित्तकं अनयोः जायमानं स्वःसुखं अर्धबृगलमिव एक पात्रार्धद्वयस्थितघृतवत्‌ । अत्राभियुक्तसम्मतिमाह ॥ इतीति ॥ तस्मादर्धाङ्गित्वादेव अयं पुरुषदेहसन्निहितः आकाशः प्रदेशः स्त्रियापूर्यत एव । तां सरस्वतीं समभवत्‌ । तः सम्भोगानन्तरं मनुष्याबोधप्रधानकादेवाद्याः अजायन्त ॥ 3 ॥ सा उह इयं इति पदच्छेदः । यानादिकालतोब्रह्मणः स्त्रीसैवेयं सरस्वीती ईक्षां विचारं चक्रेह किमिति । मामां आतमनः स्वस्मादेव जनयित्वा कथंनुसम्भवति सम्भोगं करोति । हन्तेत्यश्ऱ्चार्ये । तिरोसानीति तिरोभूतासानीति ।एवं लौकिकस्त्रीस्वभावं दर्शयित्वागवादिनानासृष्ययथर्ं सासरस्वती गौरभवत्‌ । इतरश्ऱ्चतुर्मुखः वृषभः सन्‌ तां समभवत्‌ । ततो गोवृषसंयोगेन गावोऽजायन्त । इतरासरस्वती बडवाऽश्ऱ्वा अभवत्‌ । इतरः अश्ऱ्ववृषः अश्ऱ्वश्रेष्ठः । तां समभवदिति सम्बन्धः । इतरागर्दभी अभवत्‌ । इतरोगर्दभः तामेवगर्दभीमेव समभवत्‌ । ततो बडवाश्ऱ्ववृषादि सम्भोगेन एकशफं अश्ऱ्वगर्दभाद्येकशफोपेतजातीयमजायत । बस्तः च्छागः शिष्यं पूर्ववत्‌ । एवमेवोक्तप्रकारेण सन्‌ ब्रह्मा आपि पीलिकाभ्यः पिपीलिकापर्यन्तं यदिदं किञ्चमृगकीटादिकं मिथुनं मिथुनसृष्यियोग्यं तत्सर्वमसृजत ॥ 4 ॥ B-3

?Rब्रह्माऽवेत्‌ व्यजानात्‌ । किमिति अहमेवसृष्यिः सृष्यिनामकोस्मि । कुतः हियस्मादहं इदं देवादिपि पीलिकान्तं सर्वं असृक्षिसृष्यवान्‌ इति । ततः सृष्यिकर्तृत्वेन प्रवअत्तिनिमित्तेन सृष्यिरस्मीति ब्रह्मणोज्ञानात्सृष्यिः सृष्यिनाकोऽभवदिति वेदपुरुषः स्वयमाह ॥ योयोग्यः एवमुक्तनिमित्तेन सृष्यिनामानं ब्रह्माणं वेद सोस्य चतुर्मुखस्य कर्तरिषष्ठी एतस्यां रुद्रादिपिपीलिकान्तविषयायां सृष्ययां भवति । साक्षाद्ब्रह्यसृष्यानामेतेषां मध्येस्वयोग्यतानुसिरेणतत्पुत्रोभवतीत्यर्थः ॥ 5 ॥ भोक्तृसृष्यिमुक्त्वापाचकसृष्यिमाह ॥ अथेति ॥ अथभोक्तृसृष्ययनन्तरम्‌ । अन्नमन्नादं च स्रक्ष्यामीति चिन्तयन्‌ मुखस्य ओष्ठद्वयं हस्तद्वयं योनिञ्च अन्तः परस्परमभ्यमन्थत्‌ । समुखाद्योनेश्ऱ्चहस्ताभ्यां चाग्निनमसृजत । तस्माद्दाहकाग्न्युत्पत्तिस्थानत्वात्‌ हस्तद्यं मुखञ्चेत्येतदुभयं अन्तरतः अलोमकम्‌ । योनि अन्तरतः अलोमकाहीति प्रसिद्धम्‌ । पूर्योक्तदेवतास्रष्यृत्वं किं स्वसामर्थ्यादित्यतो भगवदुपासनाजनितप्रसाददित्याह ॥ तद्यदिदमिति ॥ एकैकं देवमुद्दिश्य अमुं रुद्रं अमुं इन्द्रं यजेति यत्‌ साविसृष्यिः विशिष्यसृष्यिः । एतस्यैव चतुर्मुखस्यैव हि यस्मादुतस्देव सर्वेदेवा एष एवेति यदाहुवर्ेदविदः इदं तत्तस्मात्‌ भगवदुपासनाजनितप्रसादादिति । अ?थ पाचकसृष्ययनन्तरं यत्किञ्चेदं आर्द्रं द्रवात्मकं अन्नं तत्‌ रेतसोसृजत । तदार्न्द्रं सोम एव सोमाभिमन्यमानकमेव । स्रष्यव्यान्तरशङ्कां वारयति । एतावद्वा इति ॥ यद्वा अन्नान्नादयोः सृष्येः प्रागनुक्तत्वात्कथमेतदित्यत आह ॥ सोम एवेति ॥ सैषाप्रागुक्ता ब्रह्मकर्तृकादेवसृष्यिः । कथं यद्यस्मात्‌ अवमोब्रह्मा श्रेयसः अधिकान्देवानसृजत तस्मादति सृष्यिरिति सम्बन्धः । देवोत्तमस्य ब्रह्मणः कथमवमत्वं देवानाञ्च कथं श्रेयस्त्वं इत्यभिप्रेत्यशङ्कते ॥ अथेति ॥ ब्रह्मणोदेवानाञ्च यदवमत्वं श्रेयस्त्वञ्च न तत्परस्पराधिकं किन्तु

?Rकयाचनविवक्षयेति भावेनोत्तरमाह ॥ यदिति ॥ यद्यस्मान्मर्त्यः सन्‌ मर्त्यधर्मोपेतः सन्‌ अमृतान्‌ अमृता इवामृतान्‌ बहुकालं जीवतः असृजत तस्माच्छ्रेयसोदेवानसृजतेति सम्बन्धः । तथाच ब्रह्मामर्त्यधर्मत एवावमोनतु स्वरूपयोग्यतया । देवाश्ऱ्चायुमर्ात्रत एवाधिकानतु स्वरूपेणेति भावः । वेत्तुः फलमाह ॥ अतिसृष्ययामिति ॥ योधिकारी एवमुक्तप्रकारेण अतिसृष्यिं वेद सोस्य ब्रह्मणः एतस्यां अतिसृष्ययां देवसम्बन्धिन्यां सृष्ययां भवति देवलोके जायत इति यावदिति ॥ 6 ॥ इत प्राजपत्यब्राह्मणम्‌ ॥ 4 ॥ आत्मैवेदमग्र आसीदित्युक्तस्यात्मनस्तद्यदिदमाहुरित्यनेनयोपासनोक्तातस्याः प्रकारं दर्शयन्‌ प्रागुक्तां चतुर्मुखात्सृष्यिं प्रपञ्चयत्यनेनाव्याकृत ब्राह्मणेन । अत्र विश्ऱ्वं भर इत्येतत्‌ विश्ऱ्वं भरोग्नि; जाठरत्वेन सर्वभरणादित्यग्निपरत्वेन परैः व्याख्यातं तदसत्‌ । अग्नेः जाठरत्वेन पाचकत्वेपि भरणहेतुत्वाभावात्‌ । वायोस्तु सप्तस्कन्धगतोलोकान्योबिभर्ति महाबलः वायुनावैगौतमसूत्रेणेत्यादिश्रुत्याभरणहेतुत्वस्य प्रमितत्वादिति भावेनाह ॥ विश्ऱ्वं भर इति ॥ एतेन विश्ऱ्वम्भर शब्दस्य भगवति प्रसिद्धत्वात्कथं तस्यैव स एष इह प्रविष्य इत्यत्र दृष्यान्तत्वमुच्यते अभेदादित्येतदपि परास्तम्‌ । ननु शरीरान्तः प्रविष्यस्य भगवतो पूणर्त्वाभावात्कथमकृत्स्नोहि स इत्युक्तमित्याशङ्कापरिहारकत्वेन सयोत इत्येतद्वाक्यं प्रवृत्तमित्याह ॥ अकृत्स्न इति ॥ इत्यादि वाक्यम्‌ । अभिप्रयः अभिप्रायप्रदर्शकं तथाच प्राणनाद्येकैकभागमात्रोपाकस्याकृत्स्नोपासकत्वेन तदुपासनाविषयत्वाभिप्रेयेणैवाकृत्स्नोहि स इत्युक्तं नत्वपुर्णत्वाभिप्रायेणेति भावः । तान्येतान्यस्यात्मनः कर्मनामान्येवनतु वस्तुमात्रविषयाणीति परेषां व्याख्यानमसत्‌ । आत्मशब्दस्यापि वस्तुमात्र विषयकत्वाभावात्‌ इत्यभिप्रायेण तान्यस्यैतानि कमर्नामान्येवेति वाक्यमेवकारव्यावर्त्यं प्रदर्शय व्याचष्ये ॥ प्राण इत्यादीति ॥ कस्तर्हि गुणसम्पूर्णत्ववाचक इत्यतोऽत्रह्येत इति वाक्यतात्पर्यमाह ॥ आत्मशब्दएवेति ॥ आत्मेत्येवेत्यादिवाक्यस्यात्मेत्येवोपसीत न केनचिद्विशेषणेन विशिष्यतया । तत्र हेतुमाह ॥ अत्रेति ॥ अत्रास्मिन्निरुपाधिके आत्मनि एते सर्वेप्राणाद्युपाधिकृताविशेषाः एकमभिन्नाभवन्ति तस्मादात्मेत्येवोपासीत । अनात्मनोपिविद्यमानत्वात्कथमात्मोपासने नियमविधानमित्यत आह ॥ तदेतदिति । तदेतत्‌ तदेव पदनीयं गमनीयं किन्तत्‌ अस्य सर्वस्य निर्धारणेषष्ठी अनात्मपदार्थेषु यदयमात्मेति परेषां व्याख्यानमसत्‌ । ब्रह्मणोनिर्विशेषत्वस्य एकीभावस्य च निराकरिष्यमाणत्वादिति भावेन तद्वाक्यत्रयं व्याचष्ये ॥ अस्येति ॥ ननु आत्मशब्दस्य गुणसम्पूर्णवाचकत्वेपि तेन शब्देन परमात्मोपास्तिः कुतः अन्योपास्तिः कुतो नस्यादित्यत उक्तम्‌ ॥ अस्येति ॥ आतमनः सर्वगुणाश्रयत्वेपि आत्मशब्देनैव तदुपासनं कुतः प्राणशदिशब्देन कुतोनेत्यत उक्तम्‌ ॥ सर्वगुणवाचकेनेति ॥ अत्र हीति वाक्यार्थस्य हेतुत्वेनानुवादोयम्‌ । अनेन ह्येतत्सर्वं वेदेति वाक्यं तस्यैव पदनीयत्वे हेतुमाह ॥ अनेनात्मज्ञानेन हि यस्मादेतत्सर्वं अनात्मजातं वेद जानातीति परेषां व्याख्यानम्‌ । तदसत्‌ । एकविज्ञानेन सर्वविज्ञानस्य तदभिप्रेतस्य दूष्यमाणत्वात्‌ इति भावेन तद्वाक्यं अनूद्यपूवर्वाक्यार्थे हेतुत्वेन व्याचष्ये ॥ अनेनेति ॥ हि शब्दार्थोयस्मादिति । उपासकस्येति शेषः । यस्मात्सर्वज्ञानप्रदः तस्मात्सर्वगुणः यस्मात्सर्वगुणः तस्मात्सर्वगुण इत्येवोपानं तस्य युक्तमिति योज्यम्‌ । ननु भगवतः सर्वज्ञानप्रदत्वेपि सर्वगुणवत्त्वं कुतः तेन सर्वज्ञमात्रलाभेपीतरगुणानामलाभादित्यतो हेतुहेतुमद्भावं स्पष्ययति ॥ यदुपासनादेवेति ॥ अनेनोत्तरफलवाक्यानुसारेण श्रुतौ सर्वं वेदेत्यतदुपलक्षणमित्युक्तं भवति । यथा हवैलोके पदेन गवादिखुराङ्कितेन देशेनान्विष्यमाणोनष्यं विवक्षितं गोसुवर्णादिवस्तु विन्देत्‌ लभेत एवं श्रुत्यादिनाऽत्मनिलब्धेतु सर्वं लभेत इति यथा हवैपदेनेति वाक्यं पूर्ववाक्यान्वितत्वेन परैः व्याख्यातं तदसत्‌ । यथैवं शब्दाभ्यां यथेत्यादेः फलवाक्येनान्वयस्य स्पष्यं प्रतीतेः पदशब्दस्य खुराङ्कितप्रदेशार्थकत्वे लाक्षणिकत्वापत्तेश्ऱ्चेति भावेन पदशब्द्यार्थं वदन्‌ यथेत्यादिवाक्यं व्याचष्ये ॥ पद्यत इति ॥ एवं वेदेत्यत्र ज्ञानमात्रं न विवक्षितं आत्मेत्येवोपातेत्युपक्रमानानुगुण्यादिति भावेनोक्तम्‌ ॥ भगवदुपानादिति ॥ पुनरुक्तिपरिहाराय श्लोकमिष्यैः सहसङ्घातमिति श्लोकशब्दोव्याख्यातः । तदसत्‌ । अपदाथर्त्वादिति भावेन विग्रहप्रदर्शनपूर्वकं श्लोक शब्दार्थमाह ॥ शमिति । शकारस्थाकारलोपोनिर्वचनत्वात्‌ । सुखज्ञानयोरात्मानुपासकानामपि सत्त्वात्कथं तत्फलमित्यत उक्तम्‌ ॥ परमेति ॥ लोकशब्दस्य ज्ञानार्थत्वेधातुं पठति ॥ लुगिति ॥ धातोः धातुव्याख्यानात्‌ । स्वकृतं व्याख्यानं द्रढयन्‌ खण्डद्वं प्रमाणेन व्याचष्ये ॥ आसीदित्यादिना ॥ आत्मैवेदमग्र इति ब्रह्मवा इदमग्र इति पूर्वोत्तरवाक्यानुरोधेन तावदादिवाक्यं व्याचष्ये ॥ आसीदिति ॥ तर्हीत्यस्यार्थः पूवर्मिति । तदिदमव्याकृतं विकाररहितमित्यस्य हरिरिति देवीति चायर्थद्वयम्‌ । तदेववाक्यं प्रकारान्तरेण व्याचष्ये ॥ अन्यदिति ॥ तदिदमित्यस्यार्थोन्यदिति । अव्याकृतमित्यस्याव्याक्ततां यातमिति । तन्नामरूपाभ्यामेवेत्यतत्‌ तदव्याकृतं नामरूपाभ्यां स्वयमेवव्याक्रियतेति प्रतीति निरासाय व्याचष्ये ॥ तद्वयक्तमिति ॥ स एष इह प्रविष्य इत्येतद्वयाचष्ये । सृष्ट्वेति । आनखाग्रेभ्य इति वाक्यानुरोधाद्देहांश्ऱ्चेत्युक्तम्‌ । देवांश्ऱ्चेत्यपि क्वचित्पाठः ।

?Rअनेनेहेति सृष्येजगतीति व्याख्यातं भवति । यथाक्षुर इत्यादिवाक्यद्वयं व्याचष्ये ॥ यथेति ॥ यद्यपि श्रुतौ क्षुरस्य क्षुरधाने अव्याप्यवर्तमानत्वात्‌ परमात्मप्यव्याप्यवर्तते किमित्याशङ्कापरिहारायविश्ऱ्वम्भर इत्यनन्तरं प्राणदृष्यान्तोक्तिः । तथापि प्राधान्यज्ञापनायात्रादौ तदुक्तिरिति ज्ञेयम्‌ । सर्वे तं न पश्यन्तीत्यन्यथाप्रतीति निरासाय तं न पश्यन्तीत्येतद्वयाचष्ये ॥ प्रविष्यमिति ॥ पृथग्जनाः मूर्खाः । अकृत्स्नोहि स इत्यस्य सयोत इत्युत्तरवाक्यानुसारेण तात्पर्यमाह ॥ प्रविष्य इति । प्राणनादिर्केत्यपि वक्तव्यम्‌ । तस्मादयं प्रवेशः प्राणनादिच तद्गुणभागस्तस्माज्जनश्ऱ्च जानन्नपि प्रविष्य इत्यादिकमेवजानन्‌ । सर्वशः साकल्येन न जानातीति सम्बन्धः । अनेनाकृत्स्नविद्वेदनविषयत्वादकृत्स्नोहीत्युक्त इत्युक्तं भवति ।तान्यस्यैतानिकर्मनामान्येवेत्येतद्वयाचष्ये ॥ प्राणादीति ॥ तु शब्द एवार्थे कर्मनामान्येवेति सम्बन्धः । अकृत्स्नोह्येषोत एकैकेन भवतीति वाक्यं व्याचष्ये ॥ तस्मादिति ॥ यस्मात्प्राणादिनामानिकर्मनामान्येवतस्मादित्यर्थः । अनेन हिशब्दतः शब्दादुक्तार्थौ भवतः । प्राणादिनाम्नोपासकोकृत्स्नोपासकः कुत इत्याशङ्का परिहारकत्वेन सयो त एकैकमुपास्तेन सवेदेति वाक्यं व्याचष्ये ॥ यस्मादिति ॥ अनेन न वेदेत्यत्र सर्वश इति शेष इति सूचितम्‌ । ननु परमात्मनः प्राणनादिमात्रगुणकत्वेकथं तद्वेत्तातद्गुणभागविदितिस्यादित्यत आह ॥ पूर्णत्वेपीति ॥ अत एवैकैकमिति एकैकेनेति चोक्तमिति भावः । कस्तर्हि कृत्स्नवेत्तेत्यत उत्तरवाक्यानुसारेणाह ॥ कृत्स्नस्येति ॥ आत्मेत्येवेत्येवशब्द सम्बन्धः यच्छब्दश्रवणात्स इति ग्राह्यम्‌ । तेन चैवशब्दसम्बन्धः । आत्मेत्येवोपासीतात्र ह्येतेसर्वएकं भवन्तीति वाक्यद्वयं व्याचष्ये ॥ चिदिति । यस्माच्चिदानन्दादयोगुणाः यस्य सदैवाप्ताः सहरिः तस्मात्‌ गुणानामाप्तित आत्मेति प्रविज्ञेय इति सम्बन्धः । प्रवीत्युपसर्गाभ्यां ज्ञानविशेषरूपोपानोक्ता । यथाप्राणादि शब्दस्य चिदानन्दादिसर्वगुणानभिधायित्वं ततात्मशब्दस्यापि प्राणनादिकर्मानभिधायित्वेतत्प्रहाण्यात्मेत्युपास्तौ किं नियामकमित्यत आह ॥ प्राणनादीनीति ॥ चिदानन्दादिगुणसमुच्चयार्थश्ऱ्चशब्दः । प्राणनत्वादि विशेषरूपेणेति विशेषार्थकस्तुशब्दः । अनेनात्रह्येत इति वाक्यं प्रकारान्तरेणोक्ततात्पर्यम्‌ । तदेतत्पदनीयमित्येतद्वयाचष्ये ॥ तदिति ॥ अनेन ह्येतत्सर्वं वेदेति वाक्यं व्याचष्ये । यत इति ॥ हि शब्दार्थो यत इति सर्वविदित्युपलक्षणं यत इति श्रवणात्तत इति ग्राह्मं तस्य ज्ञेयस्य आत्मनामीश्ऱ्वरः आत्मचासावीश्ऱ्वश्ऱ्चेति वा । प्रग्रहीत्र पेक्षयादातरिविशेषद्योतनायतु शब्दः । यथा हवैपदेनेत्यादिफलवाक्यं व्याचष्ये ॥ एवमिति ॥ वेदोपास्ते आत्मेत्येवोपास्तौतु सर्वेषामप्यधिकारः । नचैवं ब्रह्मादिव्यात्तिरिक्तानां सर्वगुणोपास्त्ययोग्यानां उपास्त्यभावापत्तिः । आत्मशब्दस्य तत्तद्योग्यतानुसारेणैव गुणाभिधायकत्वात्‌ । अत एवोत्तममन्दाधिकारिविवणयासर्वगुणैः युक्तं सर्वजीवेश्ऱ्वरमिति चोक्तम्‌ ॥ 1॥ तदेतत्प्रेय इत्येतद्वाक्यं स्वत्मनोजीवस्य प्रियत्वमुच्यत इति प्रतीतिं निवारयन्व्याचष्ये ॥ स इति ॥ स प्रलयाग्रवर्ती एषः सर्वत्र प्रविष्य इत्यर्थः । अनेन तदेतदित्युक्तार्थम्‌ । यद्यपि श्रुत्यनुसारेणान्यस्मादित्यनेनैवात्मनोपि सङ्ग्रहः तथापि उत्तरग्रन्थोपक्षेपाय तथात्मन इति पृथगुक्तम्‌ । ननु पुत्रवित्तादीनामात्मार्थत्वेन स्वभावतः प्रेष्ठत्वाभावेपि स्वस्यैवस्वभावतः प्रेष्ठत्वात्‌ विष्णुः कथं स्वभावतः प्रेष्ठ इत्यत आह ॥ आत्मनोपीति ॥ पुत्रादिभ्यः आत्मन; प्रियत्वे विशेषद्यातनार्थस्तु शब्द; । ननु स्वात्मनः प्रियत्वं तेन कृतमिति तदास्यात्‌ यद्यपि्रयत्वं कदाचित्स्यादित्यपेक्षायामाह ॥ आत्मन इति ॥ कुर्यात्करोति स्वाप्रियत्वं चेति सम्बन्धः । निरयायकर्माणि करोतीत्युक्त्याप्राप्तां स्वाप्रियत्वस्य स्वाधीनत्वशङ्कां परिहरति ॥ सचेदिति ॥ आत्मनमप्रियं करोतीत्यप्रियकृत्‌ । नन्वेवं स्वात्मादेः प्रियत्वस्य विष्रुकृतत्वेनास्वाभाविकत्वेपि विष्णोः स्वभावतः प्रेष्ठत्वं कुतः इत्यत आह ॥ अस्मिन्निति ॥ यस्मादिति शेषः । अस्मिन्हरौ एकोमुख्यः स्वभावत इति शेषो वा । ननु अयमात्मेति मूलानुसारात्‌ स एष आत्मा भगवानिति वक्तव्यं विष्णुरिति कथमुक्तमित्यत आह ॥ सचेति ॥ स योन्यमात्मन इत्यादि व्याचष्ये ॥ अत इति ॥ विष्णोः एव निरुपाधिकप्रियत्वादित्यर्थः । विष्णोरन्यमिति शेषः । प्रियरोधं त्वदीयसुखनाशम्‌ । ईश्ऱ्वरो हेत्येतदपेक्षितं पूरयन्व्याचष्ये ॥ एवमिति ॥ ननु विष्ण्वन्यस्यात्मादि प्रियत्वोक्त्यैवनरकादिदुःखप्राप्तेः शापः किमर्थः इत्यत आह ॥ तस्येति ॥ तदुक्त्यैवदुःखिनोपि तस्य तदुक्त्या वैष्णवशापरूपोक्त्याविशेषेणच दुःखं स्यादिति योजना । अनेन तथास्यादित्येतदुक्तार्थम्‌ । स य आत्मानमेव प्रियमुपास्ते इत्यादिवाक्यं व्याचष्ये ॥ तस्मदिति ॥ हरेर्निरुपाधिकप्रियत्वात्प्रियः सन्‌ । विष्णोरिति शेषः । इदानीं स य आत्मानमेवप्रियमुपास्ते इति पूर्ववाक्यं व्याचष्ये ॥ तस्मादिति ॥ विष्णुमेवेति सम्बन्धः । अन्यापि फलार्थीति शेषः ॥ 2 ॥ ततश्ऱ्चायं खण्डार्थः ॥ तर्हि तदाप्रलये तत्पूर्वोक्तमि

?Rदं अव्याकृतं विकारशुन्यं नारायणाख्यं परं ब्रह्मलक्ष्मीश्ऱ्चासीत्‌ । हेति प्रसिद्धिमाह ॥ (तदिदन्तदन्यत्‌ चेतनाचेतनरूपजगदव्याकृतं अव्याक्तमासीत्‌) । तदव्यक्तं नामरूपाभ्यामेवव्याक्रियत हरिणाव्याक्तमकारि । तदेवविवृणोति

?R॥ असौनामेति ॥ अयं ब्रह्मादिर्महत्तत्वादिश्ऱ्चपदार्थः । अदो हिरण्यगर्भोमहानित्यादि नाम वाचकं यस्यसः असौनामा । इदं चतुर्मुखत्वादि अहंकाराद्यपेक्षयापरिमाणविशेषोपेतत्वादि रूपं यस्य सः इदं रूप इति व्याक्रियत इति सम्बन्धः । तत्तस्मात्‌ विष्णुनाब्रह्मादेः महदादेश्ऱ्चनामरूपाभ्यामेवव्याकृतत्वादेव एतर्ह्यपि इदानीमपि इदं देवदत्तघटादिवस्तु अदोदेवदत्तोघट इत्यादिनामयस्यासावसौनामा इदं शिरः पाण्यादिकं पृथुबुध्नोदराकारादि रूपं यस्यासाविदं रूप इति नामरूपाभ्यामेवव्याक्रियते । प्रलयाग्रवर्ती एष जगत्सर्जकः परमात्मा इहस्वसृष्येदेवादौ आनखाग्रेभ्यः उपलक्षणमेतत्‌ । आकेशात्सर्वशरीरादिकं अभिव्याप्येति यावत्‌ । प्रविष्य इति सम्बन्धः । तं स्वशरीरप्रविष्यमपि न पश्यन्ति पृथग्जना इति शेषः । स प्रविष्योहरिः अकृत्स्न इत्यच्यते हि भगवतोकृत्स्नत्ववचनेनिमित्तं वक्तुमाह । प्राणन्नेवेति ॥ प्राणनक्रियामात्रं कुर्वन्नित्यर्थः । एवमुत्तरत्रापि । तान्येतानिप्राण इत्यादिनामानि अस्यकर्मनामान्येवप्राणनादिकर्मकर्तृत्वमात्रवाचकानि न सर्वगुणपरिपूर्णताभिधायकानि । ततः किमित्यतोभगवतोकृत्स्नत्वोक्तौ निमित्तं लब्धमित्याशयेनाह ॥ स इति । हि यस्मात्प्राणादिनामानि कर्मनामान्येव अतः एकैकेन प्राणादिनाम्ना तं य उपास्ते एष अकृत्स्नः अकृत्स्नोपासको भवति । कुतः यतः स प्रसिद्धो य एकैकं प्राणनादिकमेवोपास्ते सः साकल्येन न वेद अतोकृत्स्नोपासक इति सम्बन्धः । तथाचाकृत्स्नोपासकोपास्तिविषयत्वादकृत्स्नोहीत्युक्तमित्युक्तं भवति । तर्हिकः कृत्स्नोपासक इति जिज्ञासायामात्मत्वोपासक एवेति भावेनाह ॥ आत्मेतीति ॥ प्राण इत्याद्युपासनाव्यावृत्त्यर्थमेवकारः । नन्वात्मशब्दस्यापि स्वामित्वमात्रार्थकत्वे प्राणादिशब्दसमानयोगक्षेमत्वात्‌ तथैवोपास्तिः कुत इत्यत आह ॥ अत्रेति । अत्र आत्मशब्दार्थे एतेचिदानन्दादयोगुणाः प्राणनादिकर्माणिच एकं भवन्ति अन्तर्भवन्ति हि यस्मात्तस्मात्तथैवोपासीतेति सम्बन्धः । आत्मशब्दस्यसर्वगुणवाचकत्वेपि परमात्मनः सवर्गुणाभावेतथोपास्तिर्मिथ्योपास्तिः स्यादित्यत आह ॥ तदेतदिति ॥ यदयं योयमुपास्यत्वेनोक्तः आत्मा तदेतदात्मरूपं अस्य आत्मशब्दार्थस्य सर्वस्य गुणजातस्य पदनीयमाश्रयः कुतः सर्वगुणाश्रय इत्यत आह ॥ अनेनेति ॥ हि यस्मादनेनोपासितेन परमात्मना एतत्‌ स्वयोग्यं सर्वं वेद आनन्दादिकं च प्राप्नोतीत्यपि ग्रह्यम्‌ । तस्मात्सर्वगुणाश्रय इति । तात्पर्यद्योतनायवेत्तुः फलमाह ॥ यथेति ॥ यथापदेन तत्तत्साधनेन तत्तत्फलमनुविन्देत्‌ प्राप्नुया देवं योधिकारी एवं सर्वगुणयुक्तमात्मानं वेदोपास्ते सकीर्तिं शंलोकः श्लोकः तं परमानन्दं परमज्ञानञ्च विन्दते ॥ 1 ॥ आत्मत्वेनोपासनं प्रेमयुक्तं चेत्पुरुर्षाहेतुरिति वक्तुमाह ॥ तदेतदिति ॥ तदेतदन्तरतरं शरीरान्तर्गतजीवान्तः प्रविष्यं सर्वान्तः प्रविष्यं वा पुत्रात्प्रेयः अतिशयेनप्रियम्‌ ।अतिशयश्ऱ्चनिरुपाधिकत्वम्‌ । अन्यस्मात्सर्वस्मात्स्वात्मादेः किं तत्‌ यदयमात्मा यश्ऱ्चासावयञ्चेति यदयं आत्मासर्वगुणवाचकात्मशब्दवाच्यः । योवैष्णवः आत्मनः परमात्मनोन्यं स्वात्माद्यं प्रियं ब्रुवाणं दुरात्मानं प्रति प्रियं त्वदीयं सुखं रोत्स्यतिनाशयति भवानिति ब्रूयात्‌ । एवं ब्रुवन्सवैष्णवः तस्य प्रियरोधने ईश्ऱ्वरोहसमर्थ एव ॥ कुतः यतस्तदुक्त्या ततैवस्यात्‌ । यदर्थमेतदुक्तं तदाह ॥ आत्मानमेवेति ॥ प्रियत्वेनात्मोपासकस्य फलमाह ॥ सप्रसिद्ध इति ॥ प्रमायुकं(क्तं)विनाशयुक्तम्‌ ॥ 2 ॥ अथभाष्यार्थः ॥ भगवज्ज्ञानादेवपरमसुखज्ञानप्राप्तिः भवतीत्युक्तं तदेतदाक्षेपपरिहाराभ्यां समर्थितमित्याह ॥ तदाहुरिति ॥ इदं वाक्यजातं मायावादिन एवं व्याचक्षते तद्वक्ष्यमाणं नित्यनिरतिशयश्रेयः प्रतिपित्सवॅ आहुः किं तत्‌ यद्ब्रह्मविद्ययाब्रह्मस्वात्मतादात्म्यविद्ययासर्वं निरवशेषं भविष्यन्तो भविष्यामः इत्येवं मनुष्याः मन्यन्ते सम्भावयन्ति । तत्किं ब्रह्म । किं वावेत्‌ । कोवासर्वभावः । इति पृच्छति ॥ किमिति ॥ यस्माद्विज्ञानात्तत्‌ ब्रह्मसर्वमभवत्‌ तद्ब्रह्म किमु किमात्मस्वरूपमतिरिक्तं वा । किं वावेत्‌ स्वरूपं तदतिरिक्तं वा । यस्मात्तत्सर्वमभवदिति सर्वभावापत्तिरपि किं विद्यमानैवाभिव्यज्यते किं नूतनैवोत्पद्यते इत्यर्थः । तत्राद्यस्योत्तरमाह ॥ ब्रह्मवा इति ॥ अग्रेशास्त्रजन्यप्रबोधादपि प्राक्‌ इदं शरीरस्थं प्रमात्रादि साक्षिभूतं त्वंपदलक्ष्यं ब्रह्मैवासीदित्यर्थः । द्वितीयस्योत्तरमाह ॥ तदात्मानमिति ॥ तदविद्याविशिष्याधिकारिस्वरूपभूतं ब्रह्म नासित्वं संसारी किन्तु सकलसंसारधर्मरहितं चिदानन्दैकरसं ब्रह्मैवासीति दयालुनाचार्येण बोधितमात्मनमेव अहं ब्रह्म प्रमात्रादि साक्ष्यशनायाद्यतीतादिलक्षणमस्मिभवामीत्येवमवेदित्यर्थः । तृतीयस्योत्तरमाह ॥ तस्मादिति ॥ तस्मादहं ब्रह्मास्मीति विज्ञानादेव । तत्‌ ब्रह्म सर्वमभवत्‌ । ब्रह्मात्मापरोक्षेणाविद्यापगमात्‌ तत्कार्यस्यासर्वत्वस्यनिवृत्तौस्वाभाविकं सर्वत्वं प्राप्तमिति यावदिति । तदेतदसत्‌ । आदिवाक्येप्रतिपित्सव इत्यध्याहारप्रसङ्गात्‌ । किमाहुरित्यस्योत्तरत्र परिहारानुपलम्भाच्च । नहि यद्ब्रह्मविद्ययासर्वं भविष्यतोमनुष्यामन्यन्त इत्यत्रेदमाहुरिति प्रतीयते । ब्रह्मविद्ययेत्यस्य ब्रह्मणः स्वात्मतादात्म्यसाक्षात्कारेणेति व्याख्यानमसत्‌ । अपदार्थत्वात्‌ वक्ष्यमाणरीत्याऽप्रमाणिकत्वात्‌ प्रमाणविरुद्धत्वाच्च । अत एव सर्वं निरवशेषमित्येतदप्ययुक्तं निराकरिष्यतेचैतत्‌ । भुवष्यन्त इत्यस्य भविष्याम इति विपरिणामायोगाच्च । प्रश्ऱ्नवाक्यस्य सङ्गत्यभावाच्च । किमुतद्ब्रह्मावेत्‌ यस्मात्तत्सर्वमभवदित्यस्यैकवाक्यत्वेनैवस्पष्यमन्वय

?Rप्रतीतेरुक्तरीत्यावाक्यभेदायोगाच्च । तृतीय प्रश्ऱ्नवाक्यस्य सर्वथाप्यश्रुतस्यैवकल्पनीयत्वाच्चेति भावेन तद्वाक्यजातं यथावद्वयाकुर्वन्‌ आहुः यद्ब्रह्मविद्ययासर्वं भविष्यन्त इत्येतद्वाक्यमन्वयं दर्शयन्व्याचष्ये ॥ ब्रह्मविद्ययेति ॥ परब्रह्मापरोक्षज्ञानेन । सर्वमित्यस्यार्थः पूर्तिमिति । निरुपचरितपूर्तेर्बाधादात्मयोग्यतेत्युक्तम्‌ । महान्तोदेवाद्या इति विशेष्याध्याहारः । यदाहुः किं तदितिजिज्ञासानिवर्तकत्वेन ब्रह्मविद्ययासर्वमित्येतदेवापेक्षिताध्याहारेण व्याचष्ये ॥ ब्रह्मविद्ययेति ॥ ननु मुक्तावागन्तुकसुखाद्यभावात्‌ कतं सर्वं प्राप्यत इत्युक्तिरित्यतः तदेवविवृणोति ॥ नित्येति ॥ अभिव्यक्तिः स त एव नत्वसतः इत्यत इदमुक्तम्‌ । आनन्दश्ऱ्चानुभवश्ऱ्चेति द्वन्द्वः । नित्यौनिर्दुःखासम्भिन्नौ आनन्दानुभवौरूपं स्वरूपं यस्य तथोक्तः । अहं दुःखीत्याद्यनुभवविरोधपरिहारायोक्तं स्वतः स्वभावत इति । दुःखादिकमविद्याकामकर्मनिमित्तकं न स्वाभाविकमिति भावः । उत्तम इति तमोयाग्यादिव्यावृत्त्यर्थं । अनुपलम्भबाधपरिहारायोक्तं अज्ञानात्तिरोहितमिति । अभिव्यज्यत एव ननूतनं प्राप्यत इत्यर्थः । ब्रह्मविद्यदैवेत्यपि एव शब्दसम्बन्धः । तद्वयावर्त्यमाह ॥ नचेति ॥ अन्यथा कर्मादिमात्रेण । तत्तत्रेत्यस्य सम्बन्धप्रतीत्यर्थं यदाहुरिति पुनरनुवादः । नन्वेवं व्याख्‌यानेपि महान्त इत्यध्याहारः ब्रह्मविदययासर्वमित्यस्यावृत्तिः प्राप्यत इत्यध्याहारश्ऱ्चकर्तव्य इति चेत्‌ तथापि त्वत्पक्षवत्‌ बहुदोषाभावात्‌ । एतावन्मात्राध्यहारादेरपि यदाहुः ब्रह्मविज्ञानादित्युदाहरिष्यमाणप्रमाणसिद्धत्वेन त्वद्वयाख्यानवदप्रमाणिकत्वाभावाच्च । तदाहुरिति तच्छब्दस्य अभवदितीति शब्दस्य च मनुष्यामन्यन्त इत्यनेन सम्बन्धं दर्शयन्‌ किञ्चिद्वयाचष्ये ॥ तत्तत्रेति ॥ इति शब्दार्थं स्फुटयन्‌ किमुतद्ब्रह्मेत्येतद्वयाचष्ये ॥ स्वरूपमपीति ॥ ब्रह्मापीत्यनेन उशब्दोप्यर्थक इत्युक्तं भवति । यदि जीवस्वरूपाभिव्यक्तिः ब्रह्मज्ञानसाध्या तर्हि ब्रह्मणः परिपूर्णत्वाद्यभिव्यक्तिरपि किं ब्रह्मज्ञानसाध्येति प्रश्ऱ्नाभिप्रायः ॥ 3 ॥ ब्रह्मणः परिपूर्णत्वाद्यभिक्तेः ब्रह्मज्ञानसाध्यत्वाभावेपि ज्ञानाविनाभावोस्नत्येवेत्यभिप्रायकं तदात्मनमेवावेत्‌ तस्मात्सर्वमभवदित्येतद्वयाचष्ये । सत्यमित्यादिना । जानाति विषयीकरोति नित्यापरोक्षज्ञानेनापि विषयीकरणं नकादाचित्कमिति भावेन सर्वदेत्युक्तम्‌ । जानात्येवेत्यनेनावेदेवेति सम्बन्धोदर्शितः । अत एवेत्यनेना ज्ञानस्याभिव्यक्तिव्यापकत्वामाह । परिपूर्णमिति । अभिव्यक्तानन्दादिपरिपूर्णमित्यर्थः । कादाचित्कभिव्यक्तिजन्यापरोक्षज्ञानयोरेवसाध्यासाधनभाव इति भावः । एतेनैतदपि परास्तं यत्केनचित्प्रलपितं मनुष्या अधिकारिणो ब्रह्मविद्ययाब्रह्मणः स्वात्मतादात्म्यलक्षणब्रह्मसाक्षात्कारेण सर्वं निखिलं भविष्यन्तोभविष्यामः इति यन्मन्यन्तेमननं कुर्वति तत्‌ दुर्घटमित्याहुः विचारकाः ब्राह्मणाः । तद्दौर्घट्योपपादनायोत्तरत्र प्रश्ऱ्नः क्रियते इति । अत्रापि दुर्घटमित्यस्याध्याहारप्रसङ्गात्‌ । किञ्चाधिकारिकृतमननप्रकारोवातत्वं विचारकब्राह्मणोक्तं दौर्घट्यं वा नाद्यः । अधिकारिमतार्थेदौघर्ट्यापादकानां ब्राह्मणानां विचारकत्वायोगात्‌ । नद्वितीयः मननकर्तृणां धिकारित्वासम्भवात्‌ । दौर्घट्योपपादनायकृतप्रश्ऱ्नानां ब्रह्मवा इदमग्र आसीदित्यादिनापरिहारेदौर्घट्योभावाच्चेति । नन्ववेदभवदिति प्रयोगेणज्ञानस्यपूर्णत्वाभिव्यक्तेश्ऱ्चेकादाचित्कत्वप्रतीतेः कथं नित्यापरोक्षज्ञानेनेति सर्वदापरिपूर्णमिति चोक्तमित्यत आह ॥ तदात्मानमिति ॥ ब्रह्मसत्तासदातनत्वस्य प्रमितत्वेनासीदिति लङःसदातनसत्ताप्रतिपादकत्ववदवेदित्यादेरपि सदातनज्ञानादिप्रतिपादकत्वमित्यर्थः । यथोक्तम्‌ । प्रयोग एककालीनः सर्वकालेनुषज्यते । ददर्शविष्णुरित्यादौनित्यचिद्रूपतोहरेरिति । अत एव जानातीति क्रियाप्रबन्धवितिलट्‌प्रयोगः । इदं त्वंपदलक्ष्यञ्चैतन्यं ब्रह्मैवासीदिति व्याख्यानमसदिति भावेन व्याचष्ये । इदमग्र इति । इदमित्यस्य अस्येति व्याख्यानं कथमित्यत उक्तम्‌ ॥ षष्ठयर्थ इति ॥ तदात्मनमेवावेदहं ब्रह्मास्मीत्यस्य तदधिकारिस्वरूपभूतं ब्रह्माचार्योपदिष्यमात्मनं अहं ब्रह्मास्मीत्यवेदिति व्याख्यानं दूषयितुं अहं ब्रह्मास्मीत्यवेदित्येतद्वयाचष्ये ॥ अहमिति ॥ मेयत्वेप्रकारप्रदर्शनायास्तीतीति शब्दः । अन्यथासर्वदास्तिमेयमितीत्येववक्तव्यम्‌ । कुत एवं व्याख्येयं परोक्तरीत्याप्रसिद्धार्थावेवाहमस्मिशब्दौ किं न स्यातामित्यस्तद्वयाख्यानं दूषयति ॥ यदीति ॥ अस्मच्छब्दार्थवाची प्रत्यगर्थवाची । अहं ब्रह्मास्मीत्यनेनैवात्मनं ब्रह्मत्वेनावेदित्यस्यार्थस्य लाभात्किमिति कर्माकाङ्क्षाभावेन तद्वैयर्थ्यमिति भावः । विपर्ययेपर्यवसानं सूचयन्‌ स्वव्याख्यानं निगमयति ॥ अत इति । अर्थान्तरस्यायोगादित्यर्थः । उक्तार्थावेव नत्वर्थान्तरपरौ । अहमस्मिशब्दयोः अहेयत्वाद्यर्थकत्वे तु एतैः विशेषणैः कमवेदिति कर्मकाङ्क्षानिवर्तत्वेनात्मानमित्येतदावश्यकमिति भावः । किञ्चाचार्योपदेशोप्यश्रुत एव कल्पनीयः । तत्परित्यागेच बाधितार्थकत्वापत्तेः । नहि तादृशोपदेशाभावे अहं ब्रह्मस्मीति वेदनमस्ति । नन्वत एव तदध्याहारः क्रियत इति चेदन्यथोपपत्तेरुक्तत्वात्‌ । ननु भवद्वयाख्यानेपि ब्रह्मवा इदमग्र आसीदिति व्यर्थम्‌ । किमुत द्ब्रह्मेत्यादि प्रश्ऱ्नस्य तदात्मानमेवावेदित्यादिनैव परिहारारत्‌ । अतो स्मद्वयाख्यानमेवाश्रणीयमित्यत आह ॥ अग्र इति ॥ अग्र

?Rसीदित्युक्तानादिकालविद्यमानत्वसमुच्चयार्थोजानाति चेतिचशब्दः । सर्वभवनसमुच्चयार्थो वा । ब्रह्मण एवानादित्वाभावेऽवेदित्यस्याभवदित्यस्नय च सदातनज्ञानसदातनपूर्णभावाचकत्वानुपपत्तिरिति शङ्कापरिहारार्थं ब्रह्मणोनादित्वमनेन कथ्यत इति भावः । नन्वहमहेयमित्यत्र स्वाहेयत्वं सर्वाहेयत्वं वा ॥ नाद्यः । सर्वसाधारण्येनावक्तव्यत्वात्‌ । नद्वितीयः । विशेषहेत्वभावादित्यत आह ॥ सर्वेति ॥ अहेयं सर्वैरिति शेषः । सर्वनियन्तृराजादिवत्परिच्छिन्नत्वेसर्वाहेयत्वं नसिध्यतीत्यतः सर्वगतत्वादित्युक्तम्‌ । सर्वगतत्वमात्रस्य हातुमशक्यत्वारूपाहेयत्वेहेतुत्वं न सम्भवति । अप्रयोजकत्वादित्यतः सर्वनियन्तृत्वेनेत्युक्तम्‌ । अनेन नियन्तृहानेव्यापारमात्रोच्छेद इति विपक्षेबाधकं सूचितम्‌ । किञ्चस्यादेव ब्रह्मवा इदमग्र इत्यादेः परकृतव्याख्‌यानं । यदि जीवब्रह्क्यमेवप्रामाणिकं स्यात्‌ । नच तत्रप्रमाणमस्ति । तद्योहं सोसौयोसौसोहं इत्यादिवाक्यमेवब्रह्मात्म्यैक्यप्रतिपादकमस्तीति चेत्तत्राह । तद्य इति ॥ नैतद्वाक्यबलेनजीवेश्ऱ्वरैक्यमङ्गीकतर्ुंशक्यम्‌ । एतद्वाक्यस्य तद्यः सयोबृहतीसहस्रसस्थितोद्वासप्ततिसहस्ररूपः विष्णुः पुरुषेस्थितः अन्तर्यामित्वेन पुरुषैरहेयत्वादहंनामकः । स एवासौ सूर्यसंस्थः । योसौसूर्यगतोविष्णुः द्वासप्ततिसहस्ररूपः सोप्यन्तर्यामित्वेन सूर्यादिभिरहेयत्वादहंनामक इत्यर्थत्वात्‌ । अन्यथायोहं सोसावित्येतावतापूर्णत्वेन ोसौसोहमित्यस्य वैयर्थ्यात्‌ । नच योहंसासावित्यनेन सूर्यस्य पुरुषाभेद बोधनेपि पुरुषस्य सूयर्ाभेदबोधनाययोसौसोहमिति वाक्यमिति वाच्यम्‌ । सूयर्स्य पुरुषाभेदे पुषस्य सूर्यभेदशङ्काया एवानुदयेनवैयथ्यर्ानिस्तारात्‌ । नचायमभ्यास इति युक्तम्‌ । प्रयोगद्वैविध्यदर्शनात्‌ । एकप्रकारासकृदुक्तेरेवाभ्यासत्वात्‌ । अस्मत्पक्षेतु न राहेयत्वं सुराहेयत्वं चोच्यत इति न वैयर्थ्यमिति । योसावसौपुरुष इति वाक्यं तच सप्तमाध्यायेव्याख्यास्यते । नन्वथापि तत्सत्यं स आत्मातत्वमसीति वाक्यमेव जीवब्रह्मैक्यप्रतिपादकमस्ति तथाचैतद्वाक्यबलेन ब्रह्मवा इदमग्र आसीदित्यादेः तद्योहं सासावित्यादेः च ऐक्यपरत्वं वक्तुं शक्यम्‌ ॥ इत्यत आह ॥ तत्सत्यमिति ॥ स आत्माऽतत्वमसि स एव परमात्मा त्वं तु अतत्‌ तस्मादन्यद्वस्त्वसीत्युद्दालकेनपित्रापुत्रं श्ऱ्वेतकेतुं प्रतिभेदस्यैवोपदिष्यत्वेन नैतद्वाक्यबलेनापि जीवेश्ऱ्वरैक्यसिद्धिरिति न तेषामप्यैक्यपरत्वं प्रत्युतैतद्वाक्यविरोधेन तेषामुक्तार्थत्वमिति भावः । नचास्य स्वार्थेतात्पर्याभावः शङ्कनीयः । नवकृत्वोभ्यासात्‌ । अभ्यासस्य तात्पर्यलिङ्गत्वादिति भावेनोक्तम्‌ ॥ नवकृत्वोभ्यासादिति ॥ तथाच निश्रिचततात्पर्यकत्वेन प्राबल्यात्तद्विरोधेन तद्योहमित्याद्यन्तर्याम्यैक्यपरमेवेति भावः । यद्यप्यसन्दिग्धानिजीवेश्ऱ्वरभेदवाक्यानिसन्ति तथाप्यैक्यस्यागमप्रमाणासिद्धत्वं तद्विरुद्धत्वं चोपपादयितुं अस्य वाक्यस्योदाहरणम्‌ । ननु यस्यस्य वाक्यस्यातत्वमसीति पदच्छेदेन भेदप्रतिपादकत्वं तर्हीदं ऐक्यप्रतिषेधपरमित्युक्तं स्यात्‌ । नचैवं युक्तम्‌ ॥ जीवेश्ऱ्वरैक्यस्याप्राप्तत्वेन प्रतिषेधानुपपत्तेरित्यतः प्राप्तिं दर्शयति ॥ तद्य इति ॥ । B-4

?Rसम्यगर्थः श्रुतितात्पर्यविषयीभूतः । तदपरिज्ञानात्‌ योतपन्नाभ्रान्तिः तया प्रप्त इत्यर्थः । श्रुतितात्पर्या परिज्ञानोत्थभ्रमप्राप्तं श्रुत्यैव निराक्रियत इत्येतत्‌ कुत्र दृष्यमित्यत आह ॥ तद्धैक इति ॥ एकमेवाद्वितीयमित्यस्यानन्तरं यस्मादसतः सदजायतेति वाक्यमुदाहर्तव्यम्‌ । एमनूदितं मतं दूषयति ॥ कुत इति । एवमासीति कुतस्तुस्यान्नकुतोपि । व्याहतत्वात्‌ । कथमसतः सज्जयेत असतः कारणत्वादर्शनादित्यर्थः । ब्रह्मवा असत्‌ सद्वावाप्रण इत्यादि श्रुत्युक्तो ब्रह्मणः प्रलयाग्रवृत्तित्वं प्राणस्य चज्जातत्वमित्येवं रूपोयोर्थः तदपरिज्ञानोत्थभ्रमो भ्रमप्राप्तमसतः प्रलयाग्रवर्तित्वं सतः तज्जन्यत्वञ्चेत्यर्थः । निरन्तरवाक्येनाप्यभेदप्राप्तिं दशर्यति ॥ स इति । स एषोणिमैतदात्म्यमित्यत्र प्रकृतोयः स आत्माजीव इति आतमशब्दाच्च । भ्रान्तिप्राप्तस्त्वभेद इति पूर्वेण सम्बन्धः । नन्वात्मशब्दस्य परमात्मनिमुख्यत्वात्‌ कथं ततो जीवब्रह्मैक्यभ्रान्तिरित्यत आह ॥ आतमशब्दस्येति ॥ आत्मशब्दस्य परमात्मनिमुख्यत्वेपि तदप्रतीति दशायां जीवे एतद्वाक्यगतात्मशब्दवाच्यत्वभ्रान्तिरुपपद्यते । जीवस्याप्यमुख्यत आत्मशब्दवाच्यत्वादित्यर्थः । अस्त्वेवं निरन्तरवाक्येनाप्यभेदप्राप्तिः किन्तत इत्यत आह ॥ तन्निवृत्त्यर्थमिति ॥ नन्वैतदात्म्यमिदं सर्वमिति जीवेश्ऱ्वरैक्यं प्रतीयते एतत्सत्‌ आत्मायस्य सर्वस्य तदेतदात्म तस्य भाव ऐतदात्म्यं इति । तत्कथमतत्वमसीति अभेदनिराकरणं युक्तमित्यत आह ॥ यच्चेति ॥ यद्यस्मादाप्नोति व्याप्नोति । सर्वमिति शेषः । आदत्तेस्वीयतयासर्वान्‌ सर्वाधिपतिरित्यर्थः । भावः सत्ता सन्ततोनित्यः आङ्‌पूर्वाभ्यान्तनुविस्तारेमाडूमाने इति धातुभ्यां डन्‌ । तथाचाङोर्थः समिति । तनुविस्तार इत्यस्य कालतोविस्तृतिमाभिप्रेत्यतत इत्युक्तम्‌ । उत्पदनं च संस्थानमित्युदाहृतवनानुसारेण मानं सत्तेत्यभिप्रेत्यभाव इत्युक्तम्‌ । इत्यादिनाऽत्मशब्दस्य व्याप्त्याद्यभिधायकत्वावगमादिति शेषः । आप्त्यादिकं व्याप्त्यादिकम्‌ । ऐतदात्म्यमित्येतदन्तर्गतात्मशब्देनेत्यर्थः । तथाचैषचासावात्माचैतदात्मा विचित्राहितद्धितगतिरिति एतदात्मन इदं इत्यर्थेतद्धितोयमिति भावः । स आत्माजीव इत्यर्थोनचेत्कस्तदर्थ इत्यत आह ॥

?Rपूर्णत्ववाचीति ॥ आत्मशब्दः पूर्णत्ववाची हरिश्ऱ्चपूर्णः अतः पूर्णत्वतोहरिरात्मेति योजना । इत्यादिना आत्मशब्दस्य पूर्णत्वाभिधायकत्वावगमादिति शेषः । स्यादेतत्सर्वं खल्विदं ब्रह्मेति सर्वस्य प्रपञ्चस्य ब्रह्मात्मैकत्वमुक्त्वा तत्कथमित्याकाङ्क्षायान्तज्जलानितिशान्त उपासीतेति तज्जत्वात्तल्लत्वात्तदनत्वादिति सर्वस्य ब्रह्मोपादानत्वं प्रागुक्तम्‌ । उपादानत्वं च न परिणामित्वेन । निर्विकारत्वश्रुति विरोधात्‌ । किन्तु जगदारोपाधिष्ठानत्वेन यथाशुक्तिकायाः रजतारोपाधिष्ठानत्वम्‌ । तद्वज्जगतो ब्रह्मोपादानत्वं प्रपञ्चयितुं षष्ठस्य पूर्वार्धः प्रवृत्तः । तत्र श्ऱ्वेतकेतुं प्रत्युद्दालकेन उत तमादेशमप्रायोयेना श्रुतं श्रुतं भवत्यमन्तं मतं अविज्ञातं विज्ञातं इत्येकस्य ब्रह्मणोज्ञानेन सर्वस्य ज्ञानं भवतीत्युक्तम्‌ । न तद्वुक्तं अन्यज्ञानेनान्यज्ञानस्य क्वाप्यदर्शनात्‌ । इत्यभिप्रायेण कथंनु भगवः स आदेशोभवतीति श्ऱ्वेतकेतुनाक्षिप्ते कायर्स्यि उपादानादनन्यत्वान्नानुपपतित्तिरित्याशयवतोद्दालकेन मृत्पिण्डादिदृष्यान्ताः कथिताः । तस्य चायमर्थः । एकेनमृत्पिण्डेन परमार्थतोमृदात्मनाविज्ञातेन सर्वं मृण्मयं घटादिकं मृदात्मकत्वाविशेषात्‌ विज्ञानं भवेदित्यादि । तथाच ब्रह्मातिरिक्तस्य जगतोमिथ्यात्वं षष्ठाद्यार्धस्य निश्ऱ्चितम्‌ । तत्कथं पूर्वार्धविरुद्धभेदपरत्वं उत्तरार्धस्योच्यते । किं नाम तस्मादुहैवं विद्यद्यपि चण्डालायोच्छिष्यं प्रयच्छेदात्मनिहैवास्य तद्वैश्ऱ्वानरेहुतं स्यात्‌ इत्युक्तार्थस्योपपत्तयेसर्वजीवानं ब्रह्मणाऽभेद एवोत्तरार्धेन प्रतिपाद्यत इति युक्तमिति । मैवं । सादृश्यप्राधान्याभ्यामेववैकविज्ञानेन सर्वविज्ञानं प्रतिज्ञायतत्रैवमृत्पिण्डादिदृष्यान्तानामुक्तत्वेनोत्तरार्धस्य भेदपरत्वाङ्गीकारेपूर्वार्धविरोधाभावात्‌ । ननु साधृश्यस्यैवात्र हेतुत्वेन विवक्षितत्वेदृष्यान्त त्रयं व्यर्थमिति चेत्‌ विकारमिथ्यात्वस्य हेतुत्वेन विवक्षायामपिवैयर्थ्यं सममेव । दुर्गमत्वात्तत्वस्यानेकदृष्यान्तोपादानमिति चेत्‌ सममस्मन्मतेपि । अस्तिचात्रविवक्षाविशेष इत्याह ॥ यथेत्यादिना ॥ विकारविकाणिणोरभेदाभावेपीत्यापि शब्देन द्योतयति ॥ ननु प्रधानवाचकपदाभावात्प्रधानविज्ञानेनेति कथमुक्त इत्यत उक्तम्‌ ॥ मणिशब्दादिति ॥ लोहप्रधानसुवर्णविज्ञानेनाप्रधानं सर्वं तदन्यत्‌ लोहमयमित्यर्थः । भवतीतीति ॥ उक्तमित्यनुवर्तते । मणिशब्दस्य प्रधानवाचकत्वं कुत इति चेत्‌ मणिप्रधानशब्दयोः पर्यायत्वात्‌ । तदपिकुत इत्यत आह ॥ मणिरिति ॥ अभ्यासस्तात्बपर्यार्थ इति ॥ अभ्युपेत्यचेदमुदितं । अत्यल्पेपि हि विज्ञाते स दृशेतादृशं बहु । ज्ञायते नखकृन्तन्यायथासर्वमयोमयम्‌ । किमुविष्णोः बहोर्ज्ञानादत्यल्पं जगदीदृशम्‌ । इति च्छन्दोग्यभाष्येऽत्रापि विवक्षाविशेषस्योक्तत्वात्‌ । ननु दृष्यान्तवाक्यत्रये अधिष्ठानत्वादिरूपोपादानत्वादिकमेव विवक्षितमिति किं न स्यात्‌ । उपादानोपादेययोरेकत्वेन तद्विज्ञानेन तद्विज्ञानस्य सम्भवादित्यतस्तदनूद्यतत्रानुपपत्तिमाह ॥ उपादानेति ॥ एकत्वेति । उपादानोपादेययोरिति शेषः । व्यर्थानि विगतप्रयोजनानि विरुद्धार्थानिचेत्यर्थः । विगतप्रयोजनकत्वं तावदुपपादयति ॥ तस्मिन्निति ॥ विरुद्धार्थत्वञ्चोपपादयति ॥ नहीत्यादिना ॥ नचतेनेति ॥ सर्वमृण्मयस्यैकमृत्पिण्डविकारत्वाभावादेवेत्यर्थः । एवमुत्तरत्रापि सर्वं कार्ष्णायसमित्यनन्तरं नच तेनैकीभूतमित्यपि वक्तव्यम्‌ । नन्वेतद्दृष्यान्तत्रयोपपादनाय त्रयाणामपि वाक्यानां शेषाः सन्ति । वाचारम्भणं विकारोनामधेयं मृत्तिकेत्येवसत्यम्‌ । वाचारम्भणं विकारोनामधेयं लोहमणिरित्येव सत्यम्‌ । वाचारम्भणं विकारोनामधेयं कार्ष्णायसमित्येवसत्यम्‌ इति । तत्र विकारस्य मिथ्यात्वमुच्यते । वाचारम्भणं वागालम्बनं विकारोनामधेयं नामैवकेवलम्‌ । न विकारानामवस्त्वस्तिपरमार्थतोमृत्तिकेत्येवमृत्तिकैवसत्यं वस्तु । अतः कारणव्यतिरिक्तस्य कार्यस्य मिथ्यात्वाद्यथासोम्येत्युक्तमुपपन्नामिति । एवं श्रुत्यास्वयमेवविकारमिथ्यात्वस्यैक विज्ञानेन सर्वत्तिज्ञानहेतुत्वेनोक्तत्वात्कथं सादृश्यादेः हेतुत्वमुच्यते । श्रुत्यभिप्रायेनिश्ऱ्चिते पदवैयर्थ्यादिकं न दोषः इत्यतस्तद्वाक्यत्रयतात्पयर्माह ॥ वाचारम्भणमिति । प्रधाने परिज्ञाते गुणभूतं सर्वं विज्ञातं भवतीत्यनुपपन्नम्‌ । प्रधानभूतराजादि परिज्ञानेपि भृत्यादीनामविज्ञानादित्यत उक्तम्‌ ॥ ज्ञातमिवेति ॥ ज्ञातफलकं भवतीति भावः । यथासोम्येति दृष्यान्तस्योक्तत्वाद्दृष्यान्तान्तरमित्युक्तम्‌ । दृष्यान्तन्तरप्रतिपादकमित्यर्थः । ननु कथमुक्तार्थेदृष्यान्त प्रतिपादकमिदं वाक्यं अप्रतीतेः इत्यत उपलक्षणत्वेन प्रथमवाक्यं व्याचष्ये ॥ वाचेति ॥ वाचावागिन्द्रियेण नाम्नां संस्कृतातिरिक्तानां यदारम्भणमुत्पदनं तद्विकारः । विकारशब्दार्थमाह ॥ विविधत्वेनेति । साङ्केतिकनामोत्पदनस्य पुरुषेच्छाधीनत्वादिति भावः । तत एव साङ्केति कनाम्नां विनाशश्ऱ्चेति लभ्यते । सत्यशब्दार्थं वदन्‌ नामधेयं मृत्तिकेत्येवसत्यमित्येतद्योजयति ॥ सत्यमिति ॥ नन्वस्तु साङ्केतिकनाम्नामुत्पत्तिविनाशवत्त्वं संस्कृतनाम्नामनादिनित्यत्वं च । तथापि कथमेतद्वाक्यं प्रधानविज्ञानेनाप्रधानविज्ञानेदृष्यान्तान्तरप्रतिपादकं इत्यत आह ॥ सङ्केतरूपेणेति ॥ शक्यन्त इत्यनन्तरं तथाच नानाविधतत्तन्नामपरिज्ञानाद्विद्वद्वयवहारगोचरत्वादिकं भवति यद्यपीति वाक्यशेषः । तथापीत्यनन्तरं साङ्केतिकनामापरिज्ञानेपि यथेति शेषः । तत्तन्नामविद्भवति तत्तन्नामवेदनप्रयोजनवान्भवतीत्यर्थः । प्राधान्योपपादनार्थं नित्यासाम्येत्यादि

?Rसर्ववित्सवर्ज्ञानफलवान्‌ अत एव वक्ष्यति सर्वं ज्ञातमिवेति । अनेन श्रुतौ यथा सोम्यते न तद्विज्ञातं स्यादिति प्रकृतमनुवर्तनीयमित्युक्तं भवति । तथाच प्राकृत्वादनित्यत्वाच्चपरापेक्षत्वेन साङ्केतिकं नामाप्रधानम्‌ । अनादिनित्यत्वात्परानपेक्षत्वेन सस्कृतं प्रधानम्‌ । तत्र यथा प्राधान्यात्संस्कृत ज्ञानमात्रेण साङ्केतिकं ज्ञातफलं भवति । एवमनित्यत्वादिनाऽप्रधानस्य देवताकर्मादिमिश्रस्य सकलस्यापि जगतोज्ञानेयत्फलं तत्समस्तमपिनित्यत्वादिना प्रधानस्य परमात्मनोज्ञानाल्लभ्यते तत्फलेन्तर्भवतीति भावः । नन्वेवं तर्हि येना श्रुतमित्यत्रोपचार इतयुक्तं स्यात्‌ । विज्ञातशब्दस्य विज्ञातेसति यत्फलं तदर्थत्वाङ्गीकारात्‌ । तथाचोपचारप्रयोगेप्रयोजनं वक्तव्यमित्यतानिरूढत्वादस्य प्रयोगस्य न प्रयोजनापेक्षेति भावेन तादृशलौकिकवैदिक प्रयोगप्रदर्शनपूर्वं प्रकृते योजयति ॥ यथेत्यादिना । नाशितेत्यत्र शशासेत्यत्र च प्रधानपुरुषनाशरक्षणयोरप्रतीरेस्तदुदाहरणं प्रकृतानुपयुक्तमित्यतः स्वयमुभयत्र यथाचेत्यादिपूरितम्‌ । नन्वेकविज्ञानेन सर्वविज्ञानेमुख्येसम्भवत्यमुख्यग्रहणं किमर्थं कार्यमित्यतोमुख्यत्वे बाधकमाह ॥ नचेति ॥ एतदेवोपपादयति ॥ तथासतीति ॥ ज्ञातेजिज्ञासाविरहादिति भावः । ननु यदि विकारमिथ्‌यात्वमत्र न प्रतिपाद्यं स्यात्तदा सदेवसोम्येदमग्र आसीत्‌ तत्तेजोसृजत सन्मूलाः सोम्येमाः सर्वाः प्रजाः इत्यादिनायदादौब्रह्ममात्रावस्थानं तस्मादेव जगतः सृष्यिः सदायतनत्वमित्याद्युक्तं तदसङ्गतं स्यात्‌ । तद्धिजगतोब्रह्मनिवर्तत्वोपपादनेन कार्यस्यपृथगसत्त्वपरम्भवतीत्यत आह ॥ सृष्यीति ॥ आदौ ब्रह्म मात्रावस्थानादि समुच्चयार्थश्ऱ्चशब्दः । अवधारणार्थकः प्राधान्यार्थमेवेति वासम्बध्यते । प्राधान्यज्ञापनार्थमित्यर्थः । स्यादिदमसङ्गतं सृष्ययादिकथनमस्मन्मते यदि ब्रह्मविवर्तादिपरं तत्स्यात्‌ । नचैवं । किं नाम यद्वाचाम्भणादिदृष्यान्तेन प्राश्रान्यात्‌ ब्रह्मज्ञानेनाप्रधापञ्चज्ञानमुक्तं तत्र कथं जगदपेक्षया ब्रह्मणः प्राधान्यमित्यपेक्षायां जगन्निमित्तकारणत्वादिनातज्ज्ञापनार्थमेवेति कथमसङ्गतिरिति भावः । ननन्वपागादग्नेग्नित्वं वाचारम्भणं विकारोनामधेयं त्रीणिरूपाणीत्येवसत्यं इत्यत्तरवाक्येविकारमिथ्यात्वमुक्त्वोपादानभूत तेजोबन्नानां त्रयाणामेवसत्यत्वोक्त्याकारणव्यरिरेकेण कार्याभावावगमात्‌ । तदनुसारेण वाचारम्भणमिति पूर्ववाक्यत्रयस्यापि तदर्थत्वमेवयुक्तम्‌ । नतु प्रधाने परिज्ञातेगुणभूतं ज्ञातमिवभवतीत्यत्र दृष्यान्तकथन परत्वमित्यत आह ॥ त्रीणीति ॥ यद्वा प्राधान्यज्ञापनार्थं सृष्यिकथनमिति न युक्तम्‌ । अपागादग्नेरग्नित्वमित्युत्तरवाक्ये विकारमिथ्यात्वमुक्त्वोपादानभूत तेजोबन्नानां त्रयाणामेवसत्यत्वोक्त्यातत्तेजोसृजतेत्यादिकथनस्य कारणव्यतिरेकेण कार्यासत्वेतात्पर्यावगमादित्यतस्तद्वाक्यस्य तात्पर्यमाह ॥ त्रक्षणीति ॥ किमपेक्षया विष्णोः प्राधान्यज्ञापनार्थमिदं वाक्यमित्यत उक्तम्‌ ॥ अभिमानिदेवतापेक्षयेति ॥ स्येदेतदेवं यदि त्रक्षणिरूपाणीति उपादानभूत तेजोबन्नान्युच्येरन्‌ । नचैवम्‌ । तथासतीति शब्दवैयर्थ्यात्‌ । किन्तु तत्तेजोसृजत तदपोसृजत ता अन्नमसृजन्तेति परमात्मसृष्यत्वनोक्तानां तेजोबन्नाभिमानि देवतानां त्रीणीति नामधेयम्‌ । उपलक्षणमेतत्‌ अग्न्यादिनामधयञ्च सत्यमुख्यमिति त्रीणिरूपाणीत्यादिशब्दमुख्यार्थत्वोक्तयातत्स्रष्युः भगवतः तपेक्षया प्राधान्यलाभेनेदमपि वाक्यं प्राधान्यज्ञापनार्थमेव प्रवृत्तमित्यर्थः । प्रतीतार्थ परित्यागेनोक्तार्थ परत्वं वाक्यानां कुत इत्यस्तत्तेजोसृजतेत्यादि व्याख्यानरूपं प्रमाणं पठति ॥ तेज इत्यादिना ॥ कास्ता अभिमानि देवता इत्यत आह ॥ तेज इति ॥ अनेन तत्तेजोसृजत तदपोसृजत ता अन्नमसजन्तेति वाक्य त्रयगततेजोबन्नशब्दाव्याख्याताः । तेजोभिमानवान्‌ ब्रह्मेत्यवान्तराभिमानि व्यपेक्षया । तेन सोसृजत्प्रथकं देवीं तेज आख्यां श्रियं सतीं । इत्यनेन न विरोधः । तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति अण्डजं जीवजमुद्भिज्जमित्येतद्वाक्यतात्पर्यमाह ॥ अपीति ॥ जगदप्येतत्कारणकमित्यर्थः । न केवलं तेज आदिशब्देन तदभिमानिन एव ग्राह्याः किन्तु भूतमपीति भावेन तत्तेजोसृजतेति वाक्यत्रयं व्याचष्ये ॥ अभिमन्यमानेति ॥ तदपोसृजत ता अन्नमसृजन्तेति अबन्नयोस्तेजोब्जन्यत्वोक्तेः कथं विष्णोः जाता इत्यत उक्तम्‌ ॥ क्रमेणैवेति ॥ साक्षाद्विष्णोरेव क्रमेणजातत्वेकथमुक्तशङ्कानिरास इत्यतस्तदेवविशदयति ॥ पूर्वस्मादिति ॥ जातमिति सम्बन्धः । अभिमान्यभिमन्यमानयोः किं समप्रधानभावेन तेज आदिशब्दवाच्यत्वं नेत्याह ॥ तेज इति ॥ तस्मादभिमानित्वात्‌ एषामेवमुख्येति शेषः । नामधेयं त्रीणिरूपाणीत्येव सत्यमित्येतद्वयाचष्ये ॥ एत इति ॥ चोवधारणे । मुख्यत इति शेषः । तेन त्रीणिरूपाण

?Rीति नामधेयं सत्यं मुख्यमिति व्याख्यातं भवति । सेयं देवतेमास्तिस्रोदेवता अनेन जीवेनात्मनानुप्रविश्यनामरूपे व्याकरोत्‌ इति वाक्यतात्पर्यमाह ॥ ब्रह्मेति ॥ यदग्नेरोहितं रूपं तेजसस्तद्ब्रूपं यदाद्‌ितयस्यरोहितरूपं यच्चन्द्रमसोरोहितं रूपं यद्विद्युतोरोहितं रूपं इत्यादिवाक्यचतुष्ययं व्याचष्ये ॥ अत इति ॥ अग्न्यादिरूपाणां जगदन्तर्गतत्वात्‌ इत्यर्थः । अपि शब्देनविद्युतोग्रहणम्‌ । तेभ्य उद्भवोयस्य रूपस्येति व्याधिकरणबहुव्रीहिः । अग्निसोमसूर्यविद्युतां रोहितं रूपं ब्रह्मोद्भवं शुक्लं

?Rरूपं वायूद्भवं कृष्णं रूपं रुद्रोद्भवमित्यर्थः । अपागादग्नेरग्नित्वमित्यादिवाक्यचतुष्ययतात्पर्यमाह ॥ अत इति ॥ अग्न्यादिरूपाणां ब्रह्मादिजन्यत्वेनाग्न्यादिशब्दप्रवृत्तिनिमित्ताग्नित्वादिकं अग्न्यादिषु मुख्यतोनास्तिब्रह्मादिष्वेवमुख्यतोवर्तते यत इत्यर्थः । एषामेवमुख्यत इति शेषः । यथोक्तं छान्दोग्यभाष्ये अतो यल्लोहितं रूपं श्रियस्तद्रूपसम्भवम्‌ । यच्छुक्लं वायुजं विन्द्यात्कृष्णं चैव शिवोद्भवम्‌ । तस्मादग्नेः यदत्तृत्वं अग्निनामप्रवर्तकम्‌ । लक्ष्म्ादिदेवतानां तन्नैवाग्नेरग्निता ततइत्यादि । कुतोग्न्यादिशब्दप्रवृत्तिनिमित्तमग्नित्वादिकं अग्न्यादितोपगतं ब्रह्मादावेव वर्तते इत्याशङ्कापरिहारकत्वेन त्रीणिरूपाणीत्येव सत्यमित्येतद्वाक्यं प्रकारान्तरेण व्याचष्ये ॥ सादनादिति ॥ इत्येवेत्यस्यार्थः सादनाद्यमनाच्चेति । एतेषामग्न्यादीनां सादनादिति सम्बन्धः । यद्वाऽत इत्युक्तं मेवहेतुं दर्शयितुं त्रीणिरूपाणीत्येतद्वाक्यं व्याचष्ये ॥ सादनादिति ॥ ननु योदेवानां नामधा इत्यग्न्यादिनाम्नां विष्णावेव मुख्यत्वोक्तेः कथं ब्ररह्मादीनां तन्मुख्यमित्यत आह ॥ तेषामिति ॥ एतेच त्रीणिरूपाणीत्यत्र सत्यशब्दोमुख्यार्थोभिप्रेतः तत्कथमित्यत आह ॥ प्राधान इति ॥ यथा सोम्यैकेन लोहितमणिनेति वाक्यं व्याचष्ये ॥ यथैवेति ॥ एवकारः प्रसिद्धयदग्नेरोहितं रूपं तेजसस्तद्रूपं यदादित्यस्य रोहितरूपं यच्चन्द्रमसोरोहितं रूपं यद्विद्युतोरोहितं रूपं इत्यादिवाक्यचतुष्ययं व्याचष्ये ॥ अत इति ॥ अग्न्यादिरूपाणां जगदन्तर्गतत्वात्‌ इत्यर्थः । अपि शब्देन विद्युतोग्रहणम्‌ । तेभ्य उद्भवोयस्य रूपस्येति व्यधिकरणबहुव्रीहिः । अग्निसोमसूर्यविद्युतां रोहितं रूपं ब्रह्मौद्भवं शुक्लं रूपं वायूद्भवं कृष्णं रूपं रुद्रोद्भवमित्यर्थः । अपागादग्नेरग्नित्वमित्यादिवाक्यचतुष्यय तात्पर्यमाह ॥ अत इति ॥ अग्न्यादिरूपाणां ब्रह्मादिजन्यत्वेनाग्न्यादिशब्दप्रवृत्तिनिमित्ताग्नित्वादिकं अग्न्यादिषु मुख्यतोनास्ति ब्रह्मादिष्वेवमुख्यतो वर्तते यत इत्यथर्ः । एषामेवमुख्यत इति शेषः । यथोक्तं छान्दोग्यभाष्ये अतो यल्लोहितं रूपं श्रियस्तद्रूपसम्भवम्‌ । यच्छुक्लं वायुजं विन्द्यात्कुष्णञ्चैवशिवोद्भवम्‌ । तस्मादग्नेः यदत्तृत्वं अग्निनामप्रवर्तकम्‌ । लक्ष्म्ादि देवतानां तन्नैवाग्नेरग्निता तत इत्यादि । कुतोग्न्यादि शब्दप्रवृत्तिमित्तमग्नित्वादिकं अग्न्यादितोपगतं ब्रह्मादावेव वर्तते इत्याशङ्कापरिहारकत्वेन त्रीणिरूपाणीत्येवसत्यमित्येतद्वाक्यं प्रकारान्तरेण व्याचष्ये ॥ सादनादिति ॥ इत्येवेत्यस्यार्थः सादनाद्यमनाच्चेति । एतेषामग्न्यादीनां सादनादिति सम्बन्धः । यद्वाऽत इत्युक्तं मेवहेतुं दर्शयितुं त्रीणिरूपाणीत्येतद्वाक्यं व्याचष्ये ॥ सादनादिति ॥ ननु योदेवानां नामधा इत्यग्न्यादिनाम्नां विष्णावेव मुख्यत्वोक्तेः कथं ब्रह्मादीनां तन्मुख्यमित्यत आह ॥ तेषामिति ॥ एतेच त्रीणिरूपाणीत्यत्र सत्यशब्दोमुख्यार्थोभिप्रेतः तत्कथमित्यत आह ॥ प्रधान इति ॥ यथा सोम्यैकेन लोहितमणिनेति वाक्यं व्याचष्ये ॥ यथैवेति ॥ एवकारः प्रसिद्धयथर्कः । यथा सोम्यैकेन मृत्पिण्डेन यथा सोम्यैकेन नखनिकृन्तनेनेति वाक्यद्वयं व्याचष्ये ॥ यथेति ॥ यथैवेति सम्बन्धः । कार्ष्णासान्तरे कार्ष्णासान्तरेण । दार्ष्यान्तिकमाह ॥ एवमिति ॥ एवमेवेति सम्बन्धः । श्रेष्ठएव न त्वभिन्न इति वा । किन्तत इत्यतोयेनाश्रुतं श्रुतं भवतीत्यादि व्याचष्ये । तेनत्विति ॥ तुशब्दोवधारणे । नतु जगतोब्रह्मण्यारोपितत्वेन । सन्मूला इत्यादि व्याचष्ये ॥ स इति ॥ संहर्तेत्यनेन सत्‌ आयतनं प्रलये यासान्ताः सदायतना इत्यर्थ उक्तो भवति । नियन्तेत्यनेन सत आयतनानियम्यत याधिष्ठानभूता इत्यर्थ उक्तो भवति । रक्षितेत्यनेन सत्‌ प्रतिष्ठारक्षकं यासान्ताः सदायतना इत्यर्थ उक्त भवति । ऐतदात्म्यमिदं सर्वमित्येतद्वयाचष्ये ॥ तेनेति ॥ स आत्मेत्येतदनूद्य व्याचष्ये ॥ स इति ॥ स एषोणिमेत्यणिमशब्दार्थमाह ॥ ससूक्ष्म इति ॥ सूक्ष्मत्वे तेन व्याप्तमिति विरुद्धमित्यत आह ॥ सर्वग इति । परिमाणद्वयस्यापि सद्भावेन न विरोध इति भावः । यद्वाऽऽत्मशब्दस्यार्थान्तरमाह ॥ सर्वगइति ॥ तत्सत्यमित्येतद्वयाचष्ये ॥ सर्वोत्तमत्वादिति ॥ प्राप्तप्रतिषेधस्यायोगादादौ जीवाभेदस्य वादिप्राप्तिं दर्शयति । जीवाभिन्नमिति ॥ तत्‌ ब्रह्म । अतत्वमसीत्यस्यतत्वं नासीत्यर्थमभिप्रेत्यतदभिप्रायमाह ॥ नत्वमिति ॥ तर्हि कथं ज्ञेयमिति पृच्छति । किन्त्विति ॥ तदुत्तरत्वेन त्वमतत्‌ तस्मादन्योसीत्यर्थमभिप्रेत्य तदभिप्रायमाह ॥ विष्णुरिति ॥ कुतो भेदः प्रतिपत्तव्य इत्यतः सर्वेति अत्यल्पेति च भेदकधर्मोक्तिः । पृथगेवेति भेदाभेदनिरासायैवकारः । किमर्थमेवं ज्ञातव्यमित्यत आह ॥ अत इति ॥ सर्वदेवेश्ऱ्वरत्वादिनाभेदज्ञानादित्यर्थः । एवं सति मोक्ष धनेज्ञानस्यैवस्वातन्त्ऱ्यं नमन्ततव्यमित्याह ॥ सर्वोत्तम इति ॥ इमं ज्ञातारं नत्वं तथाविद्धीत्युक्तं तथाज्ञानेऽनिष्यमाह ॥ जीवेति ॥ ननु विष्णुत्वप्राप्तिरूपोमोक्षः कथं भेदज्ञानात्स्यादित्यत आह ॥ विष्णोरिति ॥ सुप्तेरपि मोक्षत्वपरिहारायोक्तं दासतयेति । दासत्वज्ञानेनेत्यर्थः । इत्थं भावलणेतृतीया । मुक्तियोग्य संसारिणामपि विष्णुदासत्वज्ञानस्यमोक्षत्वप्रसङ्गपरिहाराय विष्णोः सामीप्यमित्युक्तम्‌ । विष्णुत्वमेवकुतो न मोक्ष इत्यत आह ॥ एषोहमिति ॥ यदि विष्णुत्वं मोक्षः स्यात्‌ तदैषविष्णुरहमिति मुक्ते न प्रतिसन्धीयेत । नच तत्प्रतिसन्धानमस्ति । अतो न विष्णुत्वं मोक्ष इत्यर्थः । वाशब्दः प्रमाणान्तरसमुच्चयार्थः । ननु विद्यमानमपि विष्णुत्वं न ज्ञायत इति चेत्‌ न । तथा सति इष्यत्वाविशेषेण प्रतिबन्धकाभावाविशेषेण च संसारतीर्णत्वमुक्तत्वायोरपि ज्ञानाभाव

?Rप्रसङ्गात्‌ । अस्तु तदपीति चेत्तत्राह ॥ संसारेति ॥ विमोक्षेण किं फलं तदनुभवस्यैव पुरुषार्थत्वादिति भावः । ननु विशिष्यवस्तुत्वापत्तेरेवपुरुषार्थत्वोपत्तौ किं तज्ज्ञानेनेत्यत आह ॥ यथेति ॥ तथा विष्णुत्वं प्राप्तोपि न सुखीभवेदिति शेषः । अनेन यथा सोम्यमधुमधुकृतो निस्तिष्ठन्तीति खण्डतात्पर्यमुक्तम्‌ । ननु मास्तुविशिष्यवस्तुत्वं मोक्षः किन्तु विशिष्यप्राप्तिरेव । तथा च तत्प्राप्तेरेव पुरुषार्थत्वोपपत्तौ किं तत्र ज्ञानेनेति चेन्न । किं विशिष्य यत्किञ्चिद्वस्तु प्राप्तिर्मोक्ष उत विष्णुप्राप्तिरेव । नाद्य इत्याह ॥ यथेति । अज्ञानादित्येव वक्तव्ये इयमस्मीति चाज्ञानादिति यदुक्तं तद्वयतिरेकेण भेदज्ञानस्य मोक्षसाधनत्वोपपादनार्थम्‌ । अनेन इमाः सोम्य नद्य इति खण्डतात्पर्यमुक्तम्‌ । नद्वितीय इत्याह ॥ यथासुप्त इति ॥ हरिं प्राप्तोपीति सम्बन्धः । पृथक्त्वज्ञानवर्जनादित्यस्य पूर्वोक्त एवाभिप्रायः । अनेन सतासोम्यतदासम्पन्नोभवतीति वाक्यतात्पर्यमुक्तम्‌ । भेदज्ञानाभावे मोक्षाभाव इति व्यतिरेकमुक्त्वान्वयमाह ॥ एवमिति ॥ सदोच्चतामेवेति सम्बन्धः । उपसंहरति ॥ तस्मादति ॥ न केवलं ज्ञानाभावे मोक्षस्य पुरुषार्थत्वाभावः किन्त्वनिष्यरूपत्वं च स्यादित्याह ॥ मग्नस्येति ॥ परे अज्ञानेमग्नस्य । सर्वथामुक्तस्य ज्ञानाभानां गीकार इति यावत्‌ । दुःखतरं दुःखातिशयो न भवेत्किं भवेदेव । अन्धादौ धर्शनादित्यर्थः । ननु भेदश्रुतीनामाविद्यकभेदपरत्वान्नतद्विरोधेनाहंब्रह्मास्मि तद्योहमित्यादीनां अद्वैत श्रुतीनां अन्यार्थताव्याख्येयेत्यतोनभेदस्याऽऽविद्यकत्वं मुक्तावप्यनुवर्तमानत्वोक्तेरित्याह ॥ तस्मा इति ॥ यत्रेत्यस्य मुक्तस्थानपरत्वप्रदर्शनायोक्त्वेत्यन्तं उक्तम्‌ ॥ नचसमानकर्तृत्वाभावः ॥ भागवते उक्तत्वादित्यध्याहारात्‌ । यत्र लोके सत्त्वशब्दोनेकार्थः क्वचित्प्रकृतिपरिणामविशेषस्य वाचकः क्वचित्साधुभावस्य तत्र सत्त्वञ्च न विद्यत इत्युक्ते न ज्ञायते कस्य प्रतिषेध इत । अतस्तयोरजस्तमसोर्मिश्रं सहचरितमित्युक्तम्‌ । रज आदि प्रकरणात्‌ ज्ञास्यत इति चेत्‌ श्रुत्यभावेप्रकरणाद्यन्वेषणात्‌ । रजः प्रभृतीनामप्रवृत्तिर्नामप्रतिबन्धकतया व्यापाराभावः । कालविक्रमः कालसामर्थ्यकृतो भावविकारः । मायाप्रकृतिः । अपरेमहदादयोनवर्तन्त इति किमुवक्तव्यं । हरेरनुव्रतायत्र वर्तन्ते । असुराः साधवः सन्ति । एवं भूतं लोकं सन्दर्शयामासेति पूर्वेणान्वयः । अत्र हरेरनुव्रता इति जीवेशभेदोक्तिः ।ननु तस्मैस्वलोकमित्यस्य यत्परमुत्तमं नेति वाक्यशेषबलेनगौणमोक्षपरत्वप्रतीतेः कथंनुपरममुक्तौ भेदसद्भाव इति प्रतिपादनाय तद्वाक्योदाहरणमित्यतः समाख्यारूपप्रमाणमुदाहृत्यवाक्यशेषं व्याचष्ये ॥ अदर्शयदिति ॥ हरिवंशेषु उक्तं यत इति शेषः । यदित्यस्य यस्मादित्यर्थत्वे अभिधानञ्च वक्ति ॥ यत्तदिति ॥ न केवलं प्रथमार्थाः पञ्चम्यर्थाश्ऱ्च । ननु भेदज्ञानस्य मिथ्याज्ञानत्वात्कथं श्रुतीनां ऐक्यपरत्वाभाव इत्यत आह ॥ विद्येति ॥ नच भिदाया अबोध इति व्याख्येयम्‌ । अज्ञान्य विद्यात्वाभावात्‌ । इतोपि न श्रुतीनामैक्यपरत्वमित्याह ॥ क्ष्मेति ॥ भूतानामादिर्मूतादिः क्ष्मादिपदैः पञ्चानां भूतानां मनसोदशानामिन्द्रियाणां पञ्चानां विषयाणां भूतादिपदोपलक्षितस्य त्रिविधस्याप्यहंकारस्याभिमानिनोदेवा उच्यन्ते । अव्याकृतं परमेश्ऱ्वरं यर्हियदा गुणत्रयस्यात्माभिमानी परम्परसङ्खयोपेतं परःक्ष्मादिभ्यः । एवं तदाभगवन्तमिति तदीयं लोकम्‌ । अगताभिमानाः अगत जीवभावाः । अत्राव्याकृतं विशतिप्रधानं ब्रह्मोपयान्तीति भेदोक्तिः । आदिपदेन कर्तृत्वात्सगुणं ब्रह्मपुरुषं पुरुषर्षभ । ससङ्गत्वपुनः कालेकालेनेश्ऱ्वरमूर्तिना । जातेगुणव्यतिकरेयथापूर्वं प्रजायते इति वाक्यशेषग्रहणम्‌ । तस्य चायमर्थः । आद्यः स्थिरचराणां योवेदगर्भः सहऋषिभिः योगेश्ऱ्वरैः जीवभेदज्ञानेनाभिमानेनेश्ऱ्वरबहुमानेन निवृत्तकर्मणाच जगत्कर्त्तृत्वात्सार्वज्ञादिगुणोपेतं परमपुरुषाख्यं परं ब्रह्म सङ्गत्वमुक्तः सन्‌ प्रविश्य पुनः कालाख्यपरमेश्ऱ्वरमूर्त्या सृष्यिकालेजातेसति अगुणव्यतिकरेसत्वादिगुणविक्रियाहीनेविष्णुलोके पूर्ववत्‌ सर्वमुक्ताधिपतिः जायत इति । अत्र मुक्तौ भेदः स्फुट एव । हिरण्यगर्भमुक्तित्वादेवपरममुक्तित्वं च सिद्धम्‌ । मुक्तौ भेदप्रतिपादकप्रमाणान्तरमाह ॥ अधिपत्यमिति ॥ सर्वेपि तेमुक्ता आधिपत्यं जगद्वयापारादिकमृते स्वरूपभेतेनान्देन कमर्णाच विषयेणच विषयनिमित्तकभोगेन ब्रह्मणः तुल्या एव नत्वभिन्ना इति योजना । तदामुक्तिदशायाम्‌ तत्कालभाविना मुक्तावप्यनुवर्तमानेन नानात्वेन भेदेन अभिसम्बद्धाः सम्यग्युक्ताबभूवुः । प्रकृतौ करणातीताः प्रकृतिनिमित्तेन्द्रियरहिताः स्वात्मन्येवस्वरूपभूतदेहादावेव व्यवस्थिताः येमुक्तास्तेषु प्रकृतिः सर्वशो न प्रवर्तते । कुतः हियस्मादात्मानं परमात्मानं प्रदर्शयित्वास्वयं च प्रतीता । प्रकृतिपुरुषविवेकज्ञानादिति यावत्‌ । तर्हि प्रकृतिर्निव्यर्ापाराकिं नेत्याह ॥ सापुरुषान्यबहुत्वेन सर्गेप्रवर्ततीति । साप्रकृतिः मुक्तेभ्योन्येषां संसारिणां पुरुषाणां बहुत्वेन कारणेन सर्गेसृष्यिकालेसृष्ययर्थं वा प्रवर्तति प्रवर्तत इत्यर्थः । तेषां मुक्तानां पुनः न प्रवर्तते । तदेवविवृणोति ॥ संयोग इति ॥ कुत इत्यत आह ॥ तत्वेति ॥ ननु सर्वेषां मुक्तानां प्रकृतिबन्धाभावः कुत इत्यत आह ॥ समेति ॥ यदि केषांचिन्मुक्तानां प्रकृतिबन्धः स्यात्तर्हिप्रकृतिबन्धनिमित्तकं दुःखं स्यात्‌ । तथा सति दुःखाभावः परानन्दोलिङ्गभेदः समामता इत्यादि विरोधः । अतः प्रकृतिबन्धाभावः सर्वेषामपि सम इति भावः । तर्हि तारतम्यश्रुति

?Rविरोध इत्यत आह ॥ मानुषादीति ॥ ऐक्यज्ञानिनां निन्दितत्वाच्चनजीवेश्ऱ्वरैक्यं श्रुत्यर्थ इत्यभिप्रेत्याह ॥ ऐकात्म्यमिति ॥ एकश्ऱ्चासावात्मच एकात्मातस्य भाव ऐकात्म्यं सर्वात्मनां ब्रह्मैक्यमितियावत्‌ । यदैकात्म्यं नामेदं अनैपुणा अविद्यमाननैपुणाः केचिद्ब्रूयुः । एवं वचनेकिं मूलमित्यत आह ॥ शास्त्रेति ॥ अहं ब्राह्मास्मीति शास्त्राणां तत्वं अभिप्रेतार्थं अविज्ञायब्रूयुः । कथमविज्ञानमात्रेणतदुक्तिरित्यत उक्तम्‌ ॥ तथेति ॥ ऐक्यप्रतिपादकसदृशोयावादः एकविभक्तिमत्त्वादिरूपः सःबलमेषान्ते तथोक्ताः । अहं ब्रह्मास्मीति वाक्यानां अभिप्रेतार्थमविज्ञाय आपततः प्रतीत एवार्थेभ्रान्ता इत्यर्थः। सर्वेषामविद्यमानं शास्त्रतत्वाज्ञानादिकमेतेषामेवकिं निमित्तमित्यत उक्तम्‌ ॥ कामेति ॥ यथोक्तं इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भातेति ॥ ननु द्वासुपर्णेत्यादिषुशास्त्रेषु विरोधिषुसत्सु कथमैक्यं ब्रूयुरित्यत आह ॥ याथातथ्यमिति ॥ भेदपराणां शास्त्राणां याथातथ्यमविज्ञाय शास्त्रदस्यवःतानिशास्त्राण्यतत्वावेदकानि इति मन्यमाना इत्यर्थः । एवमैक्यं मन्यमानाः ब्रह्मस्तेनाः । कामादीनामागन्तुकत्वात्‌ मूलकारणमाह ॥ निरानन्दा इत्यादि ॥ एतेनाधमस्वरूपयोग्यतां लक्षयति । तथापि सर्वज्ञत्वाल्पज्ञत्वादिविरुद्धमैक्यं कथं ब्रूयुरित्यत आह ॥ वैगुण्यमेवेति ॥ जीब्रह्मणोस्तत्वतोनिर्गुणत्वमेव पश्यन्तोगुणानिसार्वज्ञादिगुणान्‌ न नियुञ्जते तत्स्वरूपेण न योजयन्ति । एवं भूतानां फलमाह ॥ तेषामिति ॥ तमोगुणप्रचुरशरीराणां तमोनरकविशेषः परायणं प्राप्यम्‌ ॥ ऐकात्म्यं नचेत्‌ किन्तर्हि त्तवमित्यत उक्तम्‌ ॥ अन्य इति ॥ B-5

?Rननु विष्णुसर्वोत्तमत्वज्ञानस्य मोक्षहेतुत्वात्‌ । भेदः कुतो ज्ञेय इत्यत आह ॥ आधिक्यज्ञानमिति ॥ अन्यत्वेन अन्यत्वज्ञानेनेत्यर्थः । नन्वहं ब्रह्मास्मीत्यादिना स्फुटमैक्यं प्रतिभासते अतस्तद्बलात्‌ भेशाख्देरतत्वावेदकत्वादिकल्पनं युक्तमेवेत्यत आह ॥ यत इति ॥ स्वरूपतः परिमाणभेदतः जातितोजीवत्वादिजातिभेदतः श्रुतितोद्वासुपर्णेत्यादेः अर्थतः प्रयोजनभावाभावाभ्यां यतः सभगवानन्यः प्रतीयते । अतः सोस्मीति सम्बन्धोन्वयोऽसंहितोयोग्यः कथमेवस्यात्‌ । अहं ब्रह्मास्मीत्यादीनां वाक्यानामैक्यपरत्वेनिश्ऱ्चिते अन्येषामतत्वावेदकत्वकल्पनं युक्तं स्यात्‌ । नचैवम्‌ । अनुमानागमविरोधेन प्रतीतान्वययोग्यताविरहात्‌ । सिंहोदेवदत्त इत्यादौ योग्यताविरहस्याकाङ्क्षासन्निधिबाधकत्वस्योपलम्भात्‌ । अन्यथान्योन्यश्रयात्‌ । भेद वाक्यादेरतत्वावेदकत्वादौसिद्धेयोग्यतादिसम्पत्त्याहमादिवाक्यानां ऐक्यार्थतानिश्ऱ्चयः । सति तस्मिन्नत्वावेदकत्वादिनिश्ऱ्चय इति । एवमहंब्रह्मस्मि तद्योहंसोसावित्यादिवाक्यमन्तर्यामिपरत्वेन व्याख्यायविशिष्यैक्यार्थतया च स्मृत्याव्याख्याति ॥ बहव इति ॥ यद्वाभेदस्य मीमांसयासमर्थितत्वाच्चनैक्यं श्रुत्यर्थ इत्यभिप्रेत्याह । बहव इति । उभयविधप्रमाणोपलम्भादिति भावः । बहव इति पक्षेपि सर्वेषां समत्वायोगादेकः श्रेष्ठोवक्तव्यः । सचकः । कथं च श्रैष्ठयमित्याशयेन पृच्छति ॥ कोहीति ॥ अत्र बहूनां पुरुषाणां मध्ये । आद्यप्रश्ऱ्नोत्तरमाह ॥ नैतदिति ॥ एतदित्यस्य विवरणं पुरुषमेकमिति । यद्वा एतस्मिन्‌ जगति । सकलश्रुत्यादिविरुद्धत्वादिति भावः । किन्तु बहव इत्यर्थः । एवं पुरुपैक्यं निराकृत्याद्वैत श्रुतिविराध परिहाराय तदर्थत्वेन विशिष्यैक्यं वदन्‌ द्वितीय प्रश्ऱ्नोत्तरमाह ॥ बहूनामिति ॥ तेषां बहूनां पुरुषाणां मध्ये यायोनिः यः कारणभूतः श्रेष्ठो यथाच श्रेष्ठस्तं पुरुषं तथाऽऽख्यास्यामि । विश्ऱ्वं व्याप्तम्‌ । गीतायामपि जीवभिन्नस्य विष्णोः सर्वोत्तमत्वस्यैव सर्वसच्छास्त्रप्रतिपाद्यत याभिहितत्वात्तदेववेदादि प्रतिपाद्यं नात्मब्रह्मैक्यमित्याह ॥ द्वाविमाविति ॥ द्वावेवेति सम्बन्धः । इमौप्रमितौ पुरुषौचेतनौ । लोके पर्यालोचनेसति । अथवा द्वावेवेत्यस्योपपत्तयेपपत्तयेपरमपुरुषं व्यावर्तयितुं लोक इत्युक्तम्‌ । ईशितव्यवर्ग इत्यर्थः । सर्वाणि भूतानि ब्रह्मादयो जीवाः क्षराः शरीरक्षरणात्‌ । कूटस्थोमहालक्ष्मीः । अक्षरः अक्षरदेहत्वात्‌ । यदर्थं पुरुषद्वयनिरूपणं कृतं तदाह ॥ उत्तम इति ॥ अन्यः क्षराक्षराभ्याम्‌ । न पुनरेतयोरेवमध्येकश्ऱ्चित्पुरुषोत्तमः कल्पनीयः । तत्र श्रुत्यादिसम्मतिमाह ॥ परमात्मेति ॥ आत्मशब्दो हि चेतनपर्यायः । युक्तिमप्याह । य इति ॥ लोकत्रयमिति सर्वोपलक्षणम्‌ । योहियस्यधारणपोषणकतर्ासतस्मादुत्तमोयुक्तः । तदाविष्यस्य तन्नाशेनाशप्रसङ्ग इत्यत उक्तम्‌ ॥ अव्यय इति ॥ तत्कथं ऐश्ऱ्वर्यादित्याह ॥ ईश्ऱ्वर इति । सचक इत्यपेक्षायां अहमेवेति सप्रमाणकमाह ॥ यस्मादिति ॥ क्षरञ्चेत्यन्वयः । लोकेपौरुषेयागमे । अत्रात्मनस्तात्पर्यद्योतनायवेत्तुः फलमाह ॥ योमामिति ॥ एवं नत्वश्ऱ्वकर्णादिशब्दवत्‌ संज्ञात्वेन । एतच्चपुरुषोत्तमत्वं अपारमार्थिकमिति संमोहवर्जितः । सर्ववित्‌ अस्यैव सर्वशास्त्रार्थत्वात्‌ । सर्वभावेन सर्वप्रकारेण । एतच्चनायोग्याय वाच्यमिति भावेनाह ॥ इतीति ॥ सर्वविदित्युक्तं ततः किमित्यत आह ॥ एतदिति ॥ बुद्धिमानपरोक्षज्ञानी । कृतकृत्योमुक्तः । अत्र सर्वविदित्युक्तत्वात्‌ सर्वेषां पौरुषेयापौरुषेयागमानां विष्णोः सर्वोत्तमत्व एव तात्पर्यं स्फुटं प्रतीयते । ऐक्यज्ञानिनामनर्थोक्तेः विष्णुसर्वोत्तमत्वादिज्ञानिनां मोक्षोक्तेश्ऱ्च नैक्यं श्रुत्यर्थ इति भावन पैङ्गिश्रुतिं पठति ॥ ब्राह्मण

?Rइत्यादिना ॥ महातमस्त्रिधाप्रोक्तं ऊर्ध्वं मध्यं तथाधरमित्युक्तेरिति भावः । तुशब्द एवार्थे । ईषद्भेद प्रदर्शी ब्रह्मगुणाद्विविधाः स्वरूपभूताभिन्नाश्ऱ्चेति प्रदर्शीत्यर्थः । तर्हि कथं ज्ञेयमित्यत आह ॥ विजानीयादिति ॥ ततोन्यथाज्ञानेऽनसद्भावात्‌ । ननु गुणात्मकत्वे ब्रह्मणः आनन्दब्रह्मण इत्यादि व्यवहारोगुणगुणिभावश्ऱ्चकथमित्यत आह ॥ गुणानामिति ॥ तच्छरीरोगुणात्मकशरीरः । भूतदेहं भौतिकदेहम्‌ । अधरं तमो विशेयुरिति शेषः । तथा अधरं तमोविशेयुरित्यर्थः । प्रकृतिदेहज्ञाः प्राकृतदेहज्ञाः कर्मनिर्मित देहविदः । आनन्दचिद्देहमित्युक्तमेवविशदयति । चिदान्देति ॥ गुणानामपि परस्परभेदं निवारयति ॥ प्रत्येकमिति ॥ सन्‌ उत्तमः । प्रकृतमाह ॥ जीवाभेदमिति ॥ जगताजडजगता । प्रकृत्यालक्ष्म्ा । ततः किमित्यत आह । तस्मादिति ॥ चिदानन्दात्मकस्यापि देहस्य तस्माद्भेदादिज्ञानेऽनर्थमाह ॥ अन्धतम इति ॥ प्रादुर्भावान्‌ मत्स्यादीन्‌ सर्वभूतस्थितान्‌ अन्तर्यामिरूपविशेषान्‌ भिन्नाभिन्नविदोपिञ्चान्धतमः प्रविशन्तीति पूर्वेणान्वयः ।तदन्यन्पृथ्यादीन्‌ । तर्हि केप्रादुर्भावाः येषां ज्ञानेनान्येषां प्रादुर्भावत्वाभावज्ञानं सुकरमिति जिज्ञासायामाह ॥ मत्स्येति ॥ धन्वन्तरिश्ऱ्चैवेति एव एब्द उत्तरेणान्वितः । तापसोमनुः तापसाख्योमनुः । चशब्दोपि शब्दार्थः । एवमाद्या एव हरेः साक्षादेवप्रादुर्भावा इति सम्बन्धः ।नन्वेतेषामेवविष्णोः प्रादुर्भावत्वेकथं प्रकृत्यादेः प्रादुर्भावत्वोक्तिः इतयतस्तस्याः गतिं वदन्‌ यदुक्तमभेदज्ञाः प्रकृत्याचेति यच्चोक्तं जीवाभेदमिति तदुभयसिद्धयर्थं प्रकृतिजीवस्वरूपमाह ॥ श्रीरित्यादिना ॥ तेन चाविष्येत्यनेन क्वचिदवतारत्वोक्तेः गतिरुक्ताभवति । एमुत्तरत्रापि । हरिः स्वयं तद्वशो न भवति । यद्वास्वयं साक्षाद्धरिर्नेत्यर्थः । एवं तर्हि श्रियोत्यन्तनीचतयानित्यमुक्तत्वमपि न स्यात्‌ इत्यत आह ॥ तथापीति ॥ तद्वशत्वादौ सत्यपि दोषवर्जिताबन्धादि दोषरहिता । सर्वदाऽऽविर्भूतसुखरूपा सर्वदासर्वात्मनाविर्भूतज्ञानरूपिणीत्यर्थः । महान्‌ महत्तत्त्वाभिमानी । चित्तमित्यादिनातदभिमानिरूपमुच्यते । ब्रह्मवाय्वोः स्वरूपेण समानत्वात्‌ इत्यादिबहुरूपिणरोहिरण्यगर्भाः इत्युक्तम्‌ । विमुक्त्यनन्तरं विष्णुवशाः ब्रह्मणः किं श्रीसमानाः नेत्याह ॥ एभ्य इति ॥ कोटिगुणेति गुणशबदोगणनार्थः । ज्ञानानन्दबलादिभ्य इति पञ्चमीतृतीयार्थे । तुशब्दश्ऱ्चशब्दार्थः । सर्वेभ्योहिरण्यगर्भेभ्योभिन्नाचेति । तेतु सर्वेब्रह्माणः परस्परञ्च भिन्नाः । कुत इत्यत आह ॥ अभिमान इति ॥ क्वचित्तेषां ब्रह्मणाऽभेदोक्तः गतिमाह ॥ आनन्द इति ॥ विभक्तिविपरिणामेनतैरित्यनुवर्तते । आनन्दः स्वस्वरूपभूतः ब्रह्मणः सहभोगनिमित्ताभेदोक्तिरिति भावः । नन्वभेदोक्तेः सहभोगनिमित्तत्वमेवकुतः अभेद एवार्थः किं नस्यादित्यत आह ॥ तेत्विति ॥ भिन्ना एवेति सम्बन्धः । नित्यं संसारेमोक्षे च । प्रसङ्गादाह । श्रियोन्येभ्यः । शेषादिभ्य इति । तथाच शब्दौ परस्परसमुच्चये । यद्वा ते तु ब्रह्मणः परस्परं भिन्ना अभिन्नाश्ऱ्चक्वचिदुदिताः तन्निमित्तमाह ॥ अभिमान इति ॥ तेषामभिमानः पृथगिति भिन्नाः । परमात्मनिप्रविश्यस्वस्वरूपभूत एवानन्दः सर्वैः सह भुज्यते इत्यभिन्नाश्ऱ्चेत्युच्यन्ते इत्यर्थः । ते तु भिन्ना इत्यादिकं तत्स्वरूपकथनम्‌ । क्वचिद्विष्ण्ववतारत्वोक्तेः गतिमाह ॥ आविष्य इति ॥ एतेषु हिरण्यगर्भेषु । विष्णुनाहिरण्य्गर्भाणां अत्यन्तभेदे कतमोध्यर्ध इति योयं पवत इत्यादावध्यर्धत्वोक्तिः कथमित्यत आह ॥ विष्णोरिति ॥ हिशब्दः प्रसिद्धिद्यातकः । केषां श्रियोप्यतिपि्रयत्वप्रतीतिनिरासार्थमाह ॥ शेषादिभ्य इति ॥ कुत इत्यत आह ॥ विष्णोरिति ॥ यत इत्यत्राप्यनुषज्यते । तेब्रह्माणः विष्णोः प्रियत्वेश्रियोवराः कुत इत्यत उक्तम्‌ ॥ तद्भक्तौतज्ज्ञानेचावरा इति ॥ आद्येति मूर्त्यन्तरं प्रथमोत्पन्नेतिवा । प्रीतिरित्यादिशब्देनतदभीनानिन्युच्यते । या अतीतानागतवर्तमानाः सरस्वत्यस्तास्तेभ्यश्ऱ्चसर्वब्रह्मभ्य; शतगुणावराईरिता इति सम्बन्धः । अहंकारोहंकाराभिमानी ताभ्यः सरस्वत्यादिभ्यः न केवलं वर्तमानसरस्वत्यादिभ्यः एव वर्तमानशेषाद य एवावराः किन्त्वित्यत आह ॥ अतीतेति ॥ ताभ्य इत्येतदत्राप्यनुवर्तते । अतीतानागताश्ऱ्चयेशेषादयः ते सर्वशोप्यवरा इति सम्बन्धः । एवं सरस्वत्या शतावराः कुत इत्यत आह ॥ समा इति ॥ तद्भार्याः शेषसुपर्णसदाशिवभार्याः । ननु विष्णुवाय्वोः उत्तमयोः यमप्रभृतीनां अत्यवराणाञ्चेद्रपदेस्थितत्वेनेन्द्रत्वात्ताभ्यां शतावरास्त्विन्द्रा इति कथमुक्तमित्यत आह ॥ पुरन्दर इति ॥ अन्ये विष्णुवायुपुरन्दरव्यतिरिक्ताः पर्जन्यमित्रशिखिनोभूतवायुस्तथैव च । द्विगुणा एवानिरुद्धोनिलात्पञ्च गुणाधिकाः । पादालेनोवरुणादग्निरध्यर्धोनः स सोमत इत्यादिप्रमाणविशेषादवगन्तव्यः । अन्याश्ऱ्चदेवता इत्युक्तस्यापवादमाह ॥ सनत्कुमारा इति ॥ सनत्कुमारप्रसङ्गात्सनकादिस्वरूपविशेषानाह ॥ वालीति ॥ इत्येक एव व्यवस्थित इत्येतत्पुरन्दर इत्येतदनन्तरमपि योजनीयम्‌ । सनकाद्यानारदश्ऱ्चेत्यत्र दक्षादीनामिन्द्रवरत्वमुक्तं तत्सूर्यादिसाधारण्येन न भवतीत्याह ॥ स्वायम्भुव इति ॥ स्पर्शाधिपोवायुरुक्तेभ्योऽवरोज्ञातव्यः । प्रोक्तेभ्यः स्वायम्भुवादिभ्यः । अन्यदेवेभ्योवरुणादिभ्यः परस्परं समाश्ऱ्चेति भावः । कार्तवीर्यादीनां विष्ण्ववतारत्वोक्तेः गतिं वदन्‌ तत्स्वरूपमाह ॥ कार्तवीर्य इति ॥ देवेभ्यः अग्न्यादिभ्यः

?Rकार्तवीर्याद्यनन्तरकक्ष्यमाह ॥ तुम्बुरुप्रमुखा इति ॥ ब्रह्मपुत्रान्‌ मरीव्यादीन्‌ अखिला अपीति सम्बन्धः । ये चतुम्बुरुप्रमुखागन्धर्वाः तथा उर्वश्यादिका अपिअप्सरसो विश्ऱ्वामित्र ब्रह्मपुत्रव्यतिरिक्ता खिला अपि ऋषयश्ऱ्च देवभृत्याश्ऱ्चसूर्यादिभ्यः तथामन्वादिभ्यश्ऱ्च कार्तवीर्यादिराजभ्यश्ऱ्च शतावरा एवाधमा इति योजना । तापसोमनुर्विष्णुः स्वायम्भुवोमनुः सूर्यादधिक इत्युक्तं तर्हि तदन्यमनूनामेकप्रकारत्वं किं इत्यत आह ॥ वैवस्वत इति ॥ तत इतरमनुभ्य; देवभृत्याः कइत्यत आह ॥ आजानदेवा इति ॥ देवकुलोत्पन्नाः अनाख्यातदेवा इत्यर्थः । तेभ्य; आजानदेवादिभ्यः पितरः शतावरा इति सम्बन्धः । तत्रापवादमाह ॥ पितॄणामिति ॥ कर्मदेवाः कर्तवीर्यादयः । विश्ऱ्वामित्रस्य ब्रह्मपुत्र समत्वेक्वचित्पितृभिः सहपाठः कथमित्यत आह ॥ आचार्य इति ॥ यद्वाचिरपितृषु अपवादोक्त्यवसरेविश्ऱ्वामित्रस्य ब्रह्मपुत्र समत्वोक्तिरसङ्गतेत्यत आह ॥ आचार्य इति ॥ एवं सति पितरः कतिवजर्यित्वाऽऽजानेभ्योऽवरा इत्यत आह ॥ आजानेभ्य इति ॥ सप्तपितरः विश्ऱ्वामित्र इत्यष्यभ्य इत्यर्थः । तुम्बुरुप्रमुखा इति देव गन्धर्वाणां कर्मदेवावरत्वमुक्तं तत्रापवादं वदन्‌ पित्रनन्तरकक्ष्यमाह ॥ कर्मदेवेति ॥ अष्यगन्धर्वाः कर्मदेवगणाः तत्समाः । तत्परे तेभ्योष्यभ्यः परे । शतं गन्धर्वाः आजानदेवाः तत्समाः । तेभ्योष्योत्तरशतगन्धर्वेभ्योन्येयेगणाः देवैः सर्वदास्वमुखेनैवाऽऽज्ञाप्यन्ते अत एव देवगन्धर्वाः इत्यख्याताः । ते पितृभ्यः शतावरा इति योजना । देवगन्धर्वानन्तरकक्ष्यमाह ॥ येत्विति ॥ तेभ्योदेवगन्धर्वेभ्यः । तदनन्तरकक्ष्यमाह ॥ तेभ्य इति ॥ शतावराश्ऱ्चदेवेभ्यः कर्मदेवा इति स्मृता इत्यादिनागणशस्तारतम्यमुक्तम्‌ । तत्र तत्र गणेप्यवान्तरवैचित्ऱ्यमाह ॥ देवादिष्विति ॥ एषु पूवोक्तेषु सर्वेषु देवादिषु मध्ये समत्वेन प्रोक्ता अपि स्वस्वजात्यं पञ्चां शतोदशांशाद्वापरस्परं विशेषिण इति सम्बन्धः । दैवादिस्त्रीणां स्वपतिभ्यस्तारतम्यमाह ॥ देवस्त्रिय इति ॥ परागन्धर्वादिस्त्रियः । देवादीनामवतारेषु अत्यन्तनिकृष्यस्त्रीणामपि श्रवणात्कणं दशांशोना इत्याद्युक्तमित्यत आह ॥ यासामिति ॥ निरूपिततारतम्यमागन्तुकं नेत्याह ॥ अनादिश्ऱ्चेति ॥ मानुषादिनां मानुषादीनाम्‌ । अनादिरपि केनचिन्निमित्तेन कदाचिदपोहितुं शक्यं किं नेत्याह ॥ इयमिति ॥ न केवलं तारतम्यमन्यथाकर्तुमिच्छं स्तमोब्रजेत्‌ अपि तर्हीत्यत आह ॥ योपीति ॥ यश्ऱ्चमानुषोत्तममारभ्यब्रह्मान्तानां साम्यमुदीरयेत्‌ सोपितमोयातीत्यन्वयः । यासांमुक्तौ सह स्थितिरित्यत्र प्रकृतामुक्तिः केनस्यादित्यत आह । मानुषेति ॥ ब्रह्मान्तानामधिकारिणां विष्णोः भक्तिज्ञानपूर्वं प्रयत्नतोनिवृत्तकर्मानुष्यानश्रवणादिलक्षणादुत्पन्नभक्तिज्ञानपूर्वं विष्णोः प्रसादतोमुक्तिः भवेदिति योजना । ननु श्रवणादिरूपप्रयत्नसाध्यमक्तिज्ञानादेः कथं तत्साधनत्वं अन्योन्याश्रयादित्यत आह ॥ भक्तीति ॥ ननु भक्त्यादेरनादित्वेकथं श्रवणशदिसाध्यत्वं इतः पूर्वमेवकुतः सर्वेनमुक्ताश्ऱ्चेत्यत आह ॥ अनादीति ॥ तत्तद्योग्यतयोत्तरोत्तरं वृद्धानां भक्तिज्ञानादीनां पूर्तावित्यन्वयः । तत्तद्योग्यतयेत्यतद्दृष्यान्तकथनपूर्वकं विवृणोति ॥ यथेत्यादिना ॥ अल्पेन महतावोदकेनेति शेषः । भक्त्याद्यैः पूर्तिर्योग्यतया भवेदित्युक्तमेवाल्पेन महातावेति दृष्यान्तवाक्यानुसारेण विशदमाह ॥ अल्पैरिति ॥ यद्वा यद्युक्तरीत्योत्तरोत्तरेषां पूर्वपूर्वापेक्षयाशताद्यवरत्वं तर्हि नीचानामपूर्ति प्रसङ्गेन मोक्षस्यापुरुषार्थत्वप्रसङ्ग इत्याशङ्कादृष्यान्तोक्तिपूर्वकं परिहरति ॥ यथेति ॥ जीवानाम

?Rपीत्यपि शब्दसम्बन्धः । पूर्तिः स्वरूपानन्दादिलक्षणफलेनेति शेषः । पूर्ववदेवविशदयति ॥ अल्पैरिति ॥ अल्पैः भक्त्याद्यैः साधनैस्तथा अल्पैः महद्भिश्ऱ्चानन्दादिभिः अल्पानां च महतामपि पूर्तिः जायत इति योजना । साधनैरित्युक्तसाधनान्याह ॥ श्रवणमिति ॥ उक्ताविशेषादेवत्वादयो येषान्ते उक्तविशेषाः । तेषां सर्वेषामधिकारिणाम्‌ । उक्तायेविशेषास्तारतम्योपेतानन्दादयः तेषां ज्ञानञ्च साधनं मोक्षस्येति शेषः । यद्वा सर्वेषां ब्रह्मसदासर्वगुणात्मकमित्यादिनापूर्वोक्तानां विशेषाणां ज्ञानमित्यर्थः । कारणताग्राहकव्यतिरेकमाह ॥ त्यक्त्वेति ॥ भक्तिस्वरूपमाह ॥ सर्वोत्तमतयेति । योग्यतोयोग्यत्वतः उत्तमतया ज्ञानपूर्वकः स्नेह एवतदन्येषां भक्तिरति सम्बन्धः । भक्तेः श्रवणादिसाम्यनिरासायाह ॥ विष्ण्विति ॥ अनादिकालतो भक्तेः सद्भावेपि मुक्त्यनुदयात्कथं सातत्र नियतसाधनं इत्याशङ्कां परिहरन्नियतत्वोपपादकावन्वयव्यतिरेकाह ॥ भक्तीति ॥ भक्त्यादेः साधनत्वोक्तयाफलप्राप्त्यनन्तरं अभावशङ्कां निवारयति ॥ भक्तिरिति ॥ कुतो न हीयन्त इत्यत आह ॥ मुक्तानामिति ॥ ननु भक्तेरिवश्रवणादेरपि मुक्तौनियतसाधनत्वात्कोविशेषोभक्तेरित्यत आह । साधनानीति ॥ श्रवणादिवद्भक्तेरप्यन्यसाधनत्वेपुनस्तदवस्थोदोष इत्यत आह ॥ नैवेति ॥ यतोन्यसाधनानां फलरूपाऽतोन्यसाधनं नैवेत्यर्थः । भक्तेः मोक्षसाधनत्वे इत्थम्भावान्तरं वक्तुमाह ॥ स्वात्मेति ॥ द्वेषस्वरूपमाह ॥ गुणानामिति ॥ यदर्थमेतदुक्तं तदाह ॥ द्वेषोज्ज्ञितेति ॥ मोक्षस्यपुरुषार्थत्वं दर्शयितुं वादिविप्रतिपत्तेः मोक्षस्वरूपं दर्शयति ॥ निर्दुःखमिति ॥ सुखस्य वैषयिकत्वशङ्कानिरासायनित्यमित्युक्तम्‌ ॥ मोक्षस्य

?Rनित्यसुखाभिव्यक्तिरूपत्वमङ्गीकुर्वद्भिरपि मुक्तानां निराकारत्वाङ्गीकारात्तन्निरासायाह ॥ चिदानन्देति । क्रीडन्तीत्युक्त्यास्त्रियाक्रीडनं सूचितम्‌ । तत्किं सर्वेषां सर्वाभिः इत्याशङ्कां परिहरति ॥ अनादीति ॥ नियममेवदर्शयति ॥ नेति । अरतिः सम्भोगराहित्यम्‌ ॥ यदुक्तं जीवात्मैक्यस्याप्रामणिकत्वाद्ब्रह्मवा इदमग्रआसीत्‌ तदात्मानमेवावेदित्यादेरैक्यपरतया व्याख्यानमयुक्तमिति तन्न । एकमेवेत्यादि श्रुतेः विद्यमानत्वात्‌ इत्यत आह ॥ एकमेवेति ॥ एकमेवाद्वितीयमिति छान्दोग्यवाक्यम्‌ । नेहनानेत्यारभ्यध्रुवत्यिन्तमेतदुपनिषद्नतम्‌ । मृत्योः समृत्युमित्यादिकाठकवाक्यम्‌ । तत्रैकधैवानुद्रष्यव्यमित्येतन्माध्यन्दिन शाखागतम्‌ । मृत्योः समृत्युमित्यादिशाखान्तरगतं वा । इत्यादि च न जीवब्रह्मैक्यमानमिति शेषः । नन्विहब्रह्मणि किञ्चनकिञ्चिदपि नानाभेदः परमार्थतोनास्तीति सर्वभेद प्रपञ्चनिषेधः श्रूयते । अतः कथं जीवब्रह्मैक्ये इयं श्रुतिः नमानं इत्यत्तद्वाक्यं यथावद्वयाचष्ये ॥ इहेति ॥ इहेत्यस्य वाक्यस्य इत्यर्थ इति सम्बन्धः । निर्धारणसप्तमी । किञ्चनरूपावयवधर्मादिकं नानाभिन्नं ब्रह्मणिनानावयवगुरकर्मादिनिषेधेननानात्वमेव निषिद्धं भवति । स विशेषणषहीतिन्यायात्‌ । उभयनिषेधे गौरवात्‌ । विशेषणस्य प्रथमप्राप्तत्वात्‌ । अन्यथातदुपादानवैयर्थ्यात्‌ । न जीर्णमलवद्वासाः स्नातकः स्यादित्यादेः दर्शनाच्चेति भावः । वृक्षान्तरात्सजातीयोविजातीयः शिलादितः । ततासद्वस्तुनोभेदत्रयं प्राप्तं निवार्यते । ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात्‌ इति । तथाच कथमिदं नैक्येमानं इत्यतस्तदनूद्यव्याचष्ये ॥ एकमेवेति ॥ एकमेवेत्युक्तसर्वोत्तमत्वमुख्यत्वलक्षणस्वतन्त्रत्वरूपार्थद्वयोपपादकत्वेनाद्वितीयशब्दस्यार्थद्वयकथनमित्येतदिति ज्ञेयम्‌ ॥ सतात्पर्यमिति । सदेवसोम्येदमग्रआसीत्‌ । एकमेवाद्वितीयं ब्रह्म । सत्वेवसोम्येदमग्र आसीदेकमेवाद्वितीयं इति छान्दोग्येच अभ्यासात्‌ । एकएवाद्वितीयोसावितिवक्ष्यमाणसमाख्यानाच्च । अभ्यासादेश्ऱ्चतात्पर्यलिङ्गत्वादिति भावः । कुतः श्रुतेरेवमर्थत्वमिति चेत्‌ । सदृष्यान्तं स्मृतौ तथाव्याख्यातत्वादित्याह ॥ एकएवेति ॥ वाशब्दः उपमायाम्‌ । दृष्यान्तवाक्यत्रयेपि योजनीयः । लौकिकप्रयोगाच्चोक्तार्थत्वं श्रुतेरित्याह ॥ यथेति ॥ द्वितीयपुरुषाभावाभिप्रायेण प्रयुक्तैवं विधवाक्यस्यैतदथर्त्वालाभात्‌ उक्तमेकमुत्तममिति ॥ अत्राद्वितीय इति वक्तव्येनान्योस्तीतीत्युक्तेपीत्युक्त्या एवं स्पष्यप्रयोगेपि तात्पर्यलिङ्गबलात्‌ उक्तार्थत्वमवसीयते किमु अद्वितीय इति साधारणशब्दप्रयोगे इति कैमुत्यं सूचितम्‌ । सतात्पर्यमित्युक्ततात्पर्यनिश्ऱ्चायकसमाख्यामाह ॥ एकएवेति ॥ कुतोनेहनानेतिश्रुतेरुक्तार्थत्वं नानात्वमात्रनिषेध एवार्थः किं नस्यादित्यत आह ॥ स्वगतेति ॥ परमेश्ऱ्वररूपावयवधर्मप्रतियोगिकपरमेश्ऱ्वरधर्मिकेत्यर्थः । नानात्वमात्रनिषेधविवक्षायां चेत्यपि ग्राह्यम्‌ । सर्वात्मनाऽविद्यमानार्थनिषेधेऽधिकरणविशेषोक्तिः व्यर्था । नहि भूतले शशविषाणं नास्तीति निषध्यत इति भावः । उपलक्षणञ्चैतत्‌ भावप्रधानत्वकल्पनाचेत्यपि ग्राह्यम्‌ । ननु मनसैवेदमाप्तव्यमिति पूर्ववाक्येनद्रष्यृद्रष्यव्यादिभावोक्त्याभेदशङ्कायां तन्निषेधार्थमिदं वाक्यम्‌ । तदिं शब्देन द्रष्यव्यत्वेनोक्तं ब्रह्मइहेत्यधिकरणत्वेन निर्दिश्यतत्र भेदमात्रं निषिध्यत इति न वैयर्थ्यमिति चेन्न । इहघटोनास्तीति वदधिकरणविशेषसम्बन्धित्वेन भेदनिषेधेऽन्यत्र भेदसत्त्वावश्यं भावेन सर्वथाभेदनिषेधपरत्वे इहेति विशेषणवैयर्थ्यानिस्तारात्‌ । ब्रह्मणः जगदुपादानत्वं जगदारोपाधिष्ठानत्वं वा असिद्धमेवेति य इहब्रह्मणिनानेवभेदं पश्यति समृत्योः मृत्युं गच्छतीति सर्वथाभेददर्शिनिन्दापरत्वेन परकीयव्याख्याननिरासायतां श्रुतिं व्याचष्ये ॥ नानेवेतीति ॥ इव शब्दप्रयोगात्कथमेतल्लब्धमित्यत आह ॥ विरुद्धेति ॥ यदुक्तं पूर्वपदेन तद्विरुद्धद्वितीय संयोग इत्यर्थः । अत्र चनानोक्त्वाप्रयुक्त इव शब्दस्तद्विरुद्धानानात्वं संगृह्णातीति भेदाभेदाख्यमुभयं निराकृतं भवतीति भावः । ननु यथोदकं दुर्गेवृष्यमिति वाक्यं भगवद्भेदादिधर्मदर्शिनामनर्थोक्त्याभेदनिराकरणपरमिति चेत्‌ न । इदमपिवाक्यं न जीवब्रह्मभेदनिराकरणपरं किन्तु भगवद्गुणादीनां भगवता भेदनिराकरणपरम्‌ । भगवद्गुणानां भेददर्शिनामनर्थोक्तेरिति भावेन यथोदकमिति वाक्यं दुर्गमार्थत्वादन्वयं दर्शयन्व्याचष्ये ॥ पर्वतेष्विति ॥ तानित्यस्यार्थः पृथग्दृष्यान्‌ धर्मानिति । पृथग्दृष्यधर्मानन्तर्यं कथमधोविधावनस्येत्यतस्तात्पर्यमाह ॥ तदनन्तरमेवेति ॥ धर्माणां पार्थक्यदर्शनानन्तरमेवेत्यर्थः । परोक्तार्थेपृथगित्यस्य वैयर्थ्यापत्तेरिति भावः । श्रुतेः स्वोक्तर्थेप्रमाणमाह ॥ भेदेनेति ॥ मुखादिनां मुखादीनाम्‌ । एवमैक्यस्याप्रामाणिकत्वान्नतत्परतया ब्रह्मवा इत्यादेः व्याख्यानं युक्तमित्युक्तम्‌ । इदानीं प्रमाणविरुद्धत्वाच्च न तत्परतया व्याख्यानं युक्तमित्याह ॥ जुष्यमिति ॥ यद्वा ननु समाख्याबलेनैकमेवेत्यादि श्रुतेः भवदुक्तार्थत्वेपि अनेकाथर्त्वाच्छतेरस्मदुक्तोप्यर्थः किं न स्यादित्यत स्तस्यप्रमाणबाधितत्वात्‌ इत्यभिप्रायेण भेदे श्रुत्यादिप्रमाणमाह ॥ जुष्यमिति ॥ इति तदेतत्सत्यमित्यादि प्रागुक्तप्रकारेण । अस्य महिमानं यदापश्यति तदामुक्तो भवतीत्यर्थः । संयुक्तौ सखायौ द्वौसुपर्णरूपौ जीवेशौ देहाख्य पिप्पलं आलिलिङ्गतुः । तयोः सुपर्णयोः मध्ये अन्योजीवोऽश्ऱ्वत्थफलरूपं देहजनितं कर्मफलं

?Rअस्वाद्वेवस्वादुत्वेनात्ति । अन्यइर्धश्ऱ्वरः तदनश्ऱ्नन्‌ अभितः प्रकाशत इत्यर्थः । नन्विदं वालक्यद्वयं सासारिकभेदपरमित्याशङ्कानिरासायमुक्तावपि भेदप्रतिपादकं प्रमाणं पठति ॥ य इत्यादिना ॥ ब्रह्मणासहेति उपसंक्रम्येति च भेदोक्तिः । साहित्यस्य समीपप्राप्तेश्ऱ्च भेदसापेक्षत्वात्‌ । आरभ्य स एको ब्रह्मण आनन्द इत्यन्तेनेति शेषः । तारतम्यस्य भेदपेक्षत्वादिति भावः । नन्वस्याः सांसारिकजीवतारतम्यप्रतिपादिकायामुक्तौ भेदेकथं पनित्यर्थोह्यत्र प्रतिपाद्यत इति । तदसत्‌ । श्रोत्रियत्वादिगुणाविशिष्यास्तेकिं ब1ह्मादिविजातीयास्ततस्ततोहीनाः उत ब्रह्मादिसमास्तत्तन्नामान एवेति विकल्पं हृदि निधायाद्यपक्षं दूषयति ॥ नहीति ॥ हि शब्दोहेतौ । उपलक्षणञ्चैतत्‌ । अविद्यमानमकामहतत्वञ्चेति ग्रह्मम्‌ । केषाञ्चिदधिगत इति शेषः । श्रोत्रियत्वं हि अधिगतश्रुत्यर्थत्वम्‌ । तच्चेदपरस्य विशेषणम्‌ । तर्हि प्रकृतब्रह्मादीनां तन्नास्तीत्यर्थादुक्तं स्यात्‌ । अन्यथातद्वयावर्तकत्वासिद्धेः । तच्चबाधितमिति भावः । द्वितीयं दूषयति ॥ नचेति ॥ अकामहताः श्रोत्रिया इत्यपि ग्राह्यम्‌ । पूर्वोक्त एवाभिप्रायः । किमतोयद्येवमित्यत आह ॥ तस्मादिति ॥ अन्येतु न श्रोत्रियस्य चाकामहतस्येति मुक्तसंग्रहार्थम्‌ । किं नाम प्रकृत ब्रह्मादि विषयमेव । नच तत्रासम्भवः । श्रोत्रियंश्छन्दोधीत इति स्मरणात्‌ श्रोत्रियशब्दस्य च्छन्दोधिगति निमित्तत्वात्‌ । ब्रह्मादीनां च सर्वज्ञकल्पत्वात्‌ । विषयवैराग्योपेतत्वेनाकामहताश्ऱ्चभवन्तीति व्याचक्षते ॥ तन्निरासाय प्राप्तश्रुति फलत्वादिति मुख्यमितिचोक्तम्‌ । श्रोत्रियाकामहत एब्दावुक्तार्थावेवकिं न स्यातामित्यत आह ॥ प्राप्तेति ॥ तु शब्द एवार्थः । प्राप्तमोक्षिण इति कर्मधारयात्‌ प्रशंसायामिनिः । चशब्दएवार्थः । आप्तकामत्वादेवेति सम्बन्धः । तथाशब्दः समुजच्चये । संसारिषुमुख्यमकामहतत्वं नास्तीत्यत्र प्रमाणं पठति ॥ ब्रह्मणोपीति ॥ परामुख्या । अपि शब्देनान्येषां नास्तीति किमुवक्तव्यमित्याह ॥ ननु केयं कामहततायदभावोमुक्तेष्वेवमुख्यो न ब्रह्मणोपीत्यत आह ॥ कामेति ॥ उपद्रवोदुःखम्‌ । ननु ब्रह्मणः कामेनोपद्रवः कुतः सिद्ध इत्यत आह ॥ ब्रह्मण इति ॥ दुःखहीनतया प्रसिद्धस्यापीत्यर्थः । व्याघातपरिहारायाह ॥ तदपीति ॥ अल्पमपीत्यर्थः । अनभिमानतः कथञ्चनकष्येन भोगाभावात्‌ दुःखासम्पीडितत्वात्‌ आत्मसम्बद्धतयानास्तीति सम्बन्धः । यदुक्तं श्रोत्रियस्येत्यस्य पुरुषान्तरविषयत्वमिति तत्र दूषणान्तरमाह ॥ नचेति ॥ कुत इत्यत आह ॥ ज्ञानमिति ॥ जगत्पतेरेवेति सम्बन्धः । तेनान्येभ्य आधिक्यं सिध्यति । सहसिद्धं स्वभावसिद्धम्‌ । तथाच श्रोत्रियत्वादिनिमित्तं सुखमपि तस्यैवान्येभ्योधिकमिति न तत्समं सुखमन्यस्येति भावः । यदुक्तं तेषु तेषु पदेष्वकामस्य तत्तत्समानानन्दत्वमत्रोच्यत इति तद्दूषयति । नचेति । तत्समं सुखमित्यनुवर्तते । ननु इन्द्रपादकाम इन्द्रसुखसमसुखवान्‌ तत्पदेविरक्तत्वात्‌ योयत्र विरक्तः सतत्साधकसुखसमसुखवान्‌ यथाकषर्णसाध्यदृष्यधान्यादौ विरक्तः कृषीबलसुखसमसुखवानुपलब्ध इत्यनुमानस्यैवमानत्वात्कथं मानाभाव इत्यतो सम्प्रतिपन्नोदृष्यान्त इत्याह ॥ दृष्येति । कश्ऱ्चिदेवनतुकृषीबलसुखसम इत्यर्थः । ननु नास्मभिः तत्पदविरक्तस्य तत्समसुखवत्त्वं साध्यते येन दृष्यान्तस्य साध्यवैकल्यं स्यात्‌ । किं नाम पूवर्स्मादानन्दोत्कर्षमात्रम्‌ । श्रुतेरपि तत्रैवतात्पर्यमित्यत आह ॥ अन्यत्रेति ॥ दार्ष्यन्तिक इत्यर्थः । यदि तत्तत्पदेविरक्तस्य पूर्वस्मादानन्दोत्कर्षःसाध्यः स्यात्तर्हि इन्द्रपदाद्विरक्तस्य सकाशाद्ब्रह्मपदाद्विरक्तस्य सुखविशेषः स्यात्‌ । नचसोस्ति । लोकेराजपदाकामस्यामात्यपदाकामस्य च सुखविशेषादर्शनात्‌ । तथाच बाध इति भावः । न केवलं प्रमाणाभावः किन्तु प्रमाण विरोधश्ऱ्चेति वदन्नुपसंहरति ॥ अत इति ॥ मानाभावादित्यथर्ः । राज्यमकामयमानस्य राजसमानसुखानुभूतेरनुभवबाधितत्वस्य स्पष्यत्वादिति भावः । एतच्छतिव्याख्यानरूपस्मृतिबलाच्चास्मदुक्त एव श्रुत्यर्थ इत्याह ॥ नरादीति ॥ नित्यानन्दैकभोगिनामपीत्यन्वयः । (अध्वर्यूणां श्रुतौ तैत्तिरीयश्रुतौ) ननु यदाहीति श्रुतौ भेदज्ञानिनोनर्थोक्त्यातन्निषधावगमात्कथं मुक्तावपि भेदसत्त्वेन पारमार्थिकत्वमित्यत स्तस्यार्थमाह ॥ यदाहीति ॥ यदि सर्वात्मनाभेदनिषेधेतात्पर्यं तदानन्तरं भेदं कुरुत इत्येतावतापूर्तेः एतस्मिन्निति अदृश्यत्वदिनाप्रकृतस्य परमात्मनोधिकरणत्वेनोक्तिः व्यर्थास्यादिति भावः । ननु रवगतभेदपरत्वेपि उदरमिति विशेषणं व्यर्थं स्यादित्याशङ्कापरिहारं सूचयन्‌ श्रुत्यर्थनिश्ऱ्चायिकां स्मृतिमुदाहरति ॥ अभेदमिति ॥ भेदमपीति सम्बन्धः । जीवेशयोः भेदमित्यनेनोदरशब्दार्थ उक्तः । अ इत्युक्तः परोविष्णुः येभ्य उच्चः स एवतु । त उदाजीवसङ्घाः स्युरुदरन्तद्गतान्तरमिति वचनात्‌ । एष यदायस्मादुदरं जीवगतमीश्ऱ्वरप्रतियोगिकमन्तरं भेदमेतस्मिन्परेविष्णौ करोति जानाति अथ तस्मादेव तस्य भयं भवति हीति श्रुत्यर्थः । मुक्तौ भेदप्रतिपाकं श्रुत्यन्तरमाह ॥ परमिति ॥ यद्यपि सतत्रेत्याद्येवोदाहर्तव्यम्‌ तस्यैवमुक्तौ भदप्रतिपादकत्वात्‌ ॥ तथापि तस्य मुक्त परत्वज्ञापनायादिवाक्योदाहरणम्‌ । अन्यथा स्वरूपाविर्भावोक्त्यनुपपत्तेतिरिति । ननु पूर्ववाक्यबलादपि सतत्रेत्यस्य न मुक्त परत्वम्‌ । तत्र निर्गुणोपासकस्य स्वरूपाविर्भावाभिधानात्‌ । सतत्रेति दहरविद्योपासकस्यामुक्तस्यैवभोगोक्तेरिति चेन्न । एकप्रकरणत्वेन प्रतीतस्य कारणं विनाभिन्नप्रकरणत्वकल्पनायोगादिति भावेन

?Rतद्वक्यं प्रमाणेन व्याचष्ये ॥ यस्येति ॥ लोकं श्ऱ्वेतद्वीपम्‌ । सतत्रपर्येतीत्यस्य व्याख्यानं जीव इति । तत्रेत्यस्यार्थोविष्णोः समीप इति । स उत्तमः पुरुष इत्यस्य व्याख्यायत्प्रसादादिति । मुक्तौ भेदप्रतिपादकं श्रुत्यन्तरं उदाहृत्योत्तरार्धव्याख्यानरूपां स्मृतिं पठति ॥ अक्षण्वन्त इति ॥ B-6

?Rमग्रश्रुतिव्याख्यानं श्रुतेः मुक्तविषयत्वञ्च श्रुत्वाविष्णुं कर्णफलं इत्याद्यागमान्तरादवगन्तव्यम्‌ । आदध्नास उपकक्षास इत्यस्य व्याख्यादुग्धेति । अनेनत्व इत्येतत्‌ अत्र उभयत्रापि सम्बध्यते इत्युक्तं भवति । उत्वेह्रदा इवस्नात्वेत्यस्यार्थः अमृतेति । अनेनोशब्दश्ऱ्चशब्दार्थः । स्नात्व इवेति सम्बन्धः । तच्चामृतपानबाहुल्यसूचनाय । ह्रदा इति प्रथमासप्तम्यर्थे । अथर्ादमृतेत्यस्य लाभः । पिमन्तीति शेष इत्युक्तं भवति । उत्वेददृ इत्यस्यार्थः केचिदिति । केचिद्देवाएवसदेत्युक्त्यादुग्धसागरगाद्याः कदाचिदेवपश्यन्तीति सूचयति । उपत्व इत्यपि सम्बन्धमभिप्रेत्याह ॥ सदाकेचिदिति ॥ अनेन श्रुतौ मनोजवेष्वसमाबभूवुरित्येतदादध्नास इत्यादिना विवृतमित्युक्तं भवति । मुक्तौ भेदप्रतिपादक श्रुत्यन्तरमुदाहृत्यतद्वयाख्यानरूपां स्मृतिमुदाहरति ॥ आणिमिति ॥ रथ्यं रथं बन्धिवस्तुजातं रथस्याणिं न यद्वत्सर्वदैवसंश्रितमेवं अमृतानिमुक्तभूतानि अब्जजेशपूर्वाण्यधितस्थुराश्रितानि वर्तन्ते । नैतत्प्रशंसामात्रं किन्त्वयमर्थः सकलवेदतात्पर्यगोचरः । कुतः । य उय एव तदुक्तं प्रमेयं चिकेतत्पञ्चमोलकारः अभिपश्येदन्यथेति शेषः । स इहममपुरतोब्रवीत्वित्यर्थः । इत्यादि च भेदेप्रमाणमिति शेषः । यदुक्तं जीवेशाभेदेप्रमाणाभाव इति तदसत्‌ । स यश्ऱ्चायमशरीरः प्रज्ञात्मायश्ऱ्चासावादित्येएकमेतदित्यवोचामेत्यभेदेप्रमाणस्य सत्त्वात्‌ । नचेदमपि शरीरसूर्यान्तर्गतविष्णोरेवाभेदप्रतिपादकमिति वाच्यम्‌ । तथात्वे तौ यत्र विहीये ते इति द्विवचनानुपपत्तेरित्यतः तदुदाहृत्यतात्पर्यमाह ॥ ताविति ॥ परमात्मैव द्विरूपः परामृश्यत इति शेषः । कुत इत्यतः स यश्ऱ्चायमित्यादि श्रुत्यर्थनिश्ऱ्चायिकां स्मृतिं स्मृतिं पठति ॥ शरीरेति ॥ हृदिसंस्थश्ऱ्चेत्कथं अशरीर इत्यत उक्तं शरीरानभिमानीति । प्रज्ञात्मेत्यस्यार्थोऽभिमानवत इति । अनेन प्रज्ञस्य शरीराभिमानवत आत्मेति व्याख्यातम्‌ । यश्ऱ्चासावादित्ये एकमित्येतद्वयाचष्ये ॥ स एवेति ॥ य इत्युक्तः । तद्योहंसोसाविति पूर्ववाक्योक्तत्वं दर्शयति ॥ हंस इति ॥ तस्यैक्यपरत्व शङ्काव्युदासायैवं पदच्छेदः प्रदर्शितः । हंसः सोहमिति पदद्वयस्यार्थमाह ॥ हंतृत्वादिति ॥ सारत्वादित्यपि ग्राह्यम्‌ । ननु सूर्यगतरूपस्य देहगतत्वाभावे न ततो विहानायोगात्कथं तौ यत्र विहीयेते इत्युक्तमित्यत आह ॥ स एवेति ॥ सूर्यसंस्थिते नैव रूपेणात्रावस्थानं कथं इत्यत आह ॥ सूर्यसंस्थादिति ॥ एवञ्च तयोः देहाद्गमनमुपपन्नमित्याह ॥ गच्छत इति ॥ तौ यत्र विहीयेतेचन्द्रमा इवादित्योदृश्यते इत्यादेस्तात्पर्यमाह ॥ तयोरिति ॥ स यत्करणीयं मन्येततत्कुर्वीतेत्यस्य तात्पर्यमाह ॥ तदेति ॥ अभिमानवतोदेह इत्यनेन प्रज्ञात्मेत्येतत्प्रज्ञस्य जीवस्यात्माविनियामकमिति व्याख्यातं तत्र प्रमाणान्तरमाह ॥ क्षेत्रज्ञ इति ॥ शुद्धः क्षेत्रज्ञोऽविशुद्धकर्तुर्जीवस्य मायारचिताः निमित्तभूतस्वेच्छानिर्मिताः अत एवानित्याः आविर्हिताः स्पष्याः तिरोतिश्ऱ्चास्पष्याः मनसोविभूतीः विक्रिया एताः सुखदुःखाद्याः विचष्य इति सम्बन्धः । कः क्षेत्रज्ञ इत्यत आह ॥ क्षेत्रज्ञ इति ॥ स्वमाययास्वाविद्ययाऽऽत्मन्‌ स्वस्मिन्‌ व्यवधीयमानो भिद्यमान इत्यन्यथाप्रतीतिनिरासाय तत्प्रमाणेन व्याचष्ये ॥ स्वेच्छयैवेति ॥ स्वमाययेत्यस्यार्थः स्वेच्छयेति । आत्मन्नित्यस्यार्थोजीव इति । व्यवधीयमान इत्यस्यावृत इति । तिष्ठतीति शेषोक्तिः । यद्यपि भागवत वचने द्वितीय श्ऱ्लोक एवोदाहर्तव्यः । तथापि तत्र जीवस्थत्वोक्तावपि तन्नियामकत्वस्यानुक्तत्वात्प्राजीनश्ऱ्लोकोदाहरणम्‌ । यदुक्तं तौ यत्र विहीयेते इत्यत्र द्विरूपः परमात्मैवपरामृश्यत इति तन्न । यश्ऱ्चासावादित्य इत्यस्य परमात्मपरत्वेपि सयश्ऱ्चायमशरीरः प्रज्ञात्मेत्यस्य जीवपरत्वात्‌ । अत एव एकमेतदित्यवोचामेत्यनेन जीवेशाभेदः प्रतिपाद्यत इति चेन्न । सयश्ऱ्चायमिति वाक्यस्य परमात्मपरत्वे प्रमाणस्योक्तत्वात्‌ । युक्तिञ्चाह ॥ अशरीर इति ॥ अशरीरत्वविशेषणेपि जीवः किं नस्यादित्यत आह ॥ नहीति ॥ मुक्तजीवस्याशरीरं वावसंतमित्यशरीरत्वावगमादमुक्तस्येत्युक्तम्‌ । सयश्ऱ्चायमित्युक्तस्य जीवत्वाङ्गीकारेतौ यत्र विहीयेते इत्युत्तरवाक्यपर्यालोचनयाऽमुक्तत्वमङ्गीकायर्मिति भावः । अमुक्तस्यापि शरीरमिथ्यात्वेनाशरीरत्वोक्तिरित्ययुक्तम्‌ । प्रपञ्चसत्यत्वस्य समर्थितत्वादिति भावः । ननु प्रज्ञात्मत्वविशेषणेपि परमात्मकुत इति चेत्‌ प्रज्ञात्मत्वं हिजीवनियामकत्वं तच्चविष्णोरेवलिङ्गमिति भावेन तत्र श्रुतिमाह । एष इति ॥ अतोन्तर्यामिणोऽन्यज्जीवजातं अतः परमात्मन एव आर्त्तं दुःखीत्यर्थः । यद्यन्तर्यामिणोन्यज्जीवादन्यज्जडं स्यात्तर्हिजीवजातस्यान्तर्यामिनियम्यत्वेनेदं मानं स्यात्‌ इत्यत आह ॥ नहीति ॥ मुक्तजीवस्याशरीरं वावसन्तमित्यशरीरत्वावगमादमुक्तस्येत्युक्तम्‌ । सयश्ऱ्चायमित्युक्तस्यजीवत्वाङ्गीकारेतौ यत्र विहीयेते इत्युत्तरवाक्यपर्यालोचनयाऽमुक्तत्वमङ्गीकार्यमिति भावः । अमुक्तस्यापि शरीरमिथ्यात्वेनाशरीरत्वोक्तिरित्यत्युक्तम्‌ ।

?Rप्रपञ्चसत्यत्वस्य समथिर्तत्वादिति भावः । ननु प्रज्ञात्मत्वविशेषणेपि परमात्माकुत इति चेत्‌ प्रज्ञात्मत्वं हि जीवनियामकत्वं तच्चविष्णोरेवलिङ्गमिति भावेन तत्र श्रुतिमाह ॥ एष इति ॥ अतोन्तर्यामिणोऽन्यज्जीवजातं अतः परमात्मन एव आर्त्तं दुःखीत्यर्थः । यद्यन्तर्यामिणोन्यज्जीवादन्यज्जडं स्यात्तर्हिजीवजातस्यान्तर्यामिनियम्यत्वेनेदं मानं स्यात्‌ इत्यत आह ॥ नहीति ॥ आर्तिर्दुखं सर्वजीवनियामकत्वेह उपसंहारवाक्यं चाह ॥ सर्वेषामिति ॥ भूतएब्दस्य जडभूतपरत्वप्रतीतिनिरासार्थमाह ॥ ब्रह्मादय इति ॥ सःमेमम आत्मारूपमित्यर्थप्रतीतिनिवारणायतद्वयाचष्ये ॥ सम इति ॥ अनेनात्मासम इति विद्यादित्यर्थ उक्तो भवति । यदपि एकमेतदित्यवोचामेत्यनेन जीवेशाभेद उच्यत इति तदप्येते न परास्तम्‌ । तस्य जीवेशाभेदपरत्वे क्षेत्रज्ञ एता इत्यादि भेदप्रतिनपादक प्रमाणविरोधात्‌ । तथाहि क्षेत्रज्ञ एता इत्यत्राविशुद्धकर्तुः शुद्ध इति च भेदोक्तिः । क्षेत्रज्ञ आत्मेत्यत्र आत्मनितिष्ठतीत्युक्त्याभेदोक्तिः । एषत आत्मेत्यादौतु स्फुट एव भेदः । उपपत्तिविरोधश्ऱ्च । तथाहि सयश्ऱ्चायमशरीरः प्रज्ञात्मायश्ऱ्चासावादित्य इत्यस्य भागत्यागलक्षणयाचैतन्यमात्रपरत्वमङ्गीकृत्यतदैक्यं एकमेतदित्यनेन बोध्यत इत्युच्यते अथवा तस्य विशिष्यजीवेशपरत्वमङ्गीकृत्यतदैक्यं वा । नाद्य इत्याह ॥ नचेति ॥ सर्वात्मनामुख्यार्थासम्भवे हि लक्षणाङ्गीकार्या । अन्यथातिप्रसङ्गात्‌ । तथाचोक्तरीत्यास्मदुक्तेमुख्येऽर्थान्तरेसम्भवतिसति न लक्षणायुज्यत इत्यर्थः । द्वितीयं दूषयति ॥ नचेति ॥ कुत इत्यत आह ॥ प्रत्यक्षेति ॥ यः सर्वज्ञः सर्वविदित्यादि श्रुत्यासार्वज्ञादिगुणविशिष्यमीश्ऱ्वरमवगम्यत द्विरुद्धाल्पज्ञत्वादिगुणविशिष्यमात्मानं च पश्यतः तत्प्रतियोगिकभेदस्य प्रत्यक्षसिद्धत्वेन तद्विरोधादित्यर्थः । एवकारेण प्रत्यक्षविरोधस्यापरिहार्यत्वमाह । ईश्ऱ्वरस्य जीवाद्भेदसाधकसर्वेश्ऱ्वरत्वादिधर्मज्ञानस्य मोक्षहेतुत्वोक्तेश्ऱ्चन्वेशैक्यमित्याह ॥ तमेवमिति ॥ इत्यादेः प्रतीयत इति सम्बन्धः । एवमिति पूर्वोक्तप्रकारः परामृश्यते सच सहस्रशीषर्त्यादिनोक्तः सहस्रशीर्षत्वादिरेवेति भावेनोक्तम्‌ ॥ सहस्रेति ॥ प्रथमादिपदेन सहस्राक्षत्वादेः ग्रहणम्‌ । पुरुषएवेत्यादेरथर्ः सर्वेशत्वेति । ततोज्यायांश्ऱ्चपुरुष इत्यस्य सर्वज्यायस्त्वेति । आदिपदेनभूतपादत्वद्युस्थत्वादेः संग्रहः । नान्यः पन्था इत्यस्यार्थमाह ॥ अनन्येति ॥ नत्वैक्यज्ञानेनेत्यर्थः । ननु पुरुषएवेदं सर्वमिति पूर्वं ब्रह्मणोजीवैक्यस्योक्तत्वेन तमेवमित्येवं शब्देन तदैक्यपरामर्शे ऐक्यज्ञानमेवमोक्षहेतुत्वेनोच्यत इति कथमेतदैक्यबाधकमित्यत आह ॥ नचेति ॥ ऐक्यस्य पूर्वमनुक्तत्वादिति भावः । ननूक्तं पुरुष एवेदं सर्वमित्यत्रैक्यमुक्तमिति तत्राह ॥ पुरुष इति ॥ यद्भूतं यच्चभव्यं यच्चभवदमुक्तमिदं सर्वं पुरुष एव पुरुषाधीनमेवेति पुरुषस्यामुक्तसर्वेशितृत्वमेवोक्तं नतु सर्वैक्यमित्यर्थः । कुत इत्यत आह ॥ उतेति ॥ उत्तरार्धेमुक्तेशानत्वस्योक्तत्वात्‌ पूर्वार्धेऽमुक्तसर्वेशितृत्वमेवोच्यते नतु सर्वत्वम्‌ । नहि कोपिवादीमुक्तौभेदममुक्तावभेदमङ्गीकरोति । नापियुज्यते । पूर्वमभिन्नस्य पश्ऱ्चाद्भेदायोगात्‌ । किञ्च यदि पूर्वार्धेसर्वत्वमुक्तं स्यात्तह्युर्त्तरार्धे उत शब्दोप्यर्थः स्यात्‌ । अमुक्तसमुच्चयार्थो हि उत शब्दः । नच द्वयोरीशत्वस्यानुक्तौतत्समुच्चयोक्तेरवकाशोस्तीति भावः । अर्थान्तरस्यासम्भवात्‌ । ईशानश्ऱ्चेत्यन्वये भिन्नक्रमत्व प्रसङ्गात्‌ । अत एवामृतत्वस्येशान इत्येवोदाहर्तव्ये उत शब्दसाहित्येन तदुदाहरणम्‌ । न केवलमुक्तयुक्त्यापुरुष एवेदमित्यस्योक्तार्थत्वं किन्तु भारते तथा व्याख्यातत्वादपीत्याह ॥ पुरुष इति ॥ अपि चेति च शलब्दोयस्मादित्यर्थे । यस्माद्भूतभव्यादिजातस्यामुक्तवर्गेस्येश्ऱ्वरः तस्मान्मुक्तानामपीश्ऱ्वर इति । संसारेस्वाधीनं जगद्यदिमुक्तौस्वाधीनतां जह्यात्‌ तदाप्रेक्षावान्नमोचयेत्‌ । अतो मुक्तावपि तदधीनमेव । श्रुतौ उतामृतत्वस्येशानोयदन्नेनातिरोहतीत्यस्याम्‌ । अनेन यद्यस्मादेवमन्नेनान्नं अदनीयं अमुक्तवर्गमतिरोहत्यतिक्रामति अमुक्ताधिपतिरिति यावत्‌ । तस्मादमृतत्वस्योत भावभवित्रोरभेदेन मुक्तवर्गस्यापि ईशान इति श्रुतिः व्याख्याता भवति । इतोपि नैक्यज्ञानं मोक्षसाधनमित्याह ॥ सर्वस्मादिति ॥ ननु भक्तेरनादित्यादितः पूर्वमेवकुतो न मुक्ता इत्यत आह ॥ तयेति ॥ केयं भक्तेः पूर्णता इत्यत आह ॥ अपरोक्षेति ॥ स्नेहपूर्वकं रामकृष्णाद्यवतारदर्शिनां कुतो न मुक्तिरित्यत आह ॥ अपरोक्षेति ॥ महाचार्यः शिष्ययोग्यताभिज्ञः । महाचार्योक्त कामसाधनगुणविशिष्य गोपालादिरूपदर्शनस्य मोक्षहेतुत्वाभावादाह ॥ सोपीति ॥ मनसासुप्रसन्नधिया । ननु तस्याभिध्यानाद्योजनात्तत्वभावाद्भूयश्ऱ्चान्ते विश्ऱ्वमायानिवृत्तिरित्यादि श्रुतौ सकृदभ्यर्च्यगोविन्दं बिल्वपत्रेण मानवः मुक्तिभागीत्यादिस्मृतौ च ध्यानादेरेवमोक्षसाधनत्वोक्तेः न चान्यत इति कथमुक्तमित्यत आह ॥ ध्यानञ्चेति ॥ ननु भवतु विष्णुभक्तिव्यतिरिक्तमोक्षसाधनाद्यर्थप्रतिपादकपाशुपतादिशास्त्रं कुवर्त्म वैष्णवपुराणेष्वेवतथोक्तेः कागतिरित्यत आह ॥ विष्णोः भक्तिमिति ॥ तदेवविशदयति ॥ दैत्यानामिति ॥ कुतो न ग्राह्यमित्यत आह ॥ विष्ण्विति ॥ विप्राः ऋषयः । हतुमुक्त्वासाध्यमाह ॥ एतदिति ॥ उपसंहरति ॥ तस्मदिति ॥ ध्यानादीनां भक्तिव्यतिरेकेणमोक्षसाधनत्वाभावेप्रमाणान्तरमाह ॥ तुलेति ॥ सर्वभावैरित्यस्य सर्वात्मकत्वेनेत्यन्यथाप्रतीति

?Rनिरासायार्थमाह ॥ भाव इति ॥ नचैवं सर्वभावैरिति बहुवचनानुपपत्तिः । भजनं भक्तिरित्याद्याद्वितीयास्तुतिरूपिणी । तृतीयापरिचर्यास्याच्चतुर्थीप्रेमलक्षणेत्युक्तैः भावैः भक्तिभिरित्यर्थाङ्गीकारात्‌ । यद्वा श्रवणादि नवविधभक्तिविवक्षयाभावैरित्युक्तम्‌ । भक्तेरेवमोक्षसाधनत्वेप्रमाणान्तरमाह ॥ मुक्तानामपीति ॥ मुक्तानां शरीराद्यभिमान रहितानां सिद्धानां ज्ञानिनां कोटिष्वपिनारायण परायणः प्रशान्तात्मासुदुर्लभ इति भागवतवचनं नारायणायननत्वं विनानमुक्तिरित्यस्य द्योतकं । कुतः प्रशान्तात्मनोमुक्तस्य च नारायण परायणत्वविशेषणान्नारायण परायणः प्रशान्तात्मामुक्तः सुदुर्लभ इत्युक्त्या सवर्ेषामपि मुक्तानां नारायणाय नत्वमस्तीति ज्ञायते । अन्यथाकेषाञ्चिन्नारायणायनत्वाभावेनारायणायनः सुदुर्लभ इत्येववक्तव्यतया परायण सति परत्वविशेष वैयर्थ्यापत्तेः । तथाच नारायणायनत्वं विनामुक्तिर्नास्तीति लभ्यत इति भावः । अत्रप्राभाकरावन्दति ॥ यदुक्तं तत्वमस्यादिवाक्यानां जीवेशभेदादिप्रतिपादकत्वमिति तदयुक्तम्‌ । समस्तस्यापि वेदस्य कार्यपरत्वेन सिद्धस्वरूपे जीवेशभेदादौ तात्पर्याभावात्‌ । तथाहि । यज्ज्ञानात्पुरुषःप्रवर्तते तत्र हि तात्पयर्ं शब्दस्याकल्प्यम्‌ । तादृशञ्च कृतिसाध्यत्वे सति कृत्युद्देश्यत्वरूपं कार्यत्वमेव । तत्र लिङादिप्रत्ययः कार्यस्वरूपमेवाभिधत्ते । प्रकृतिस्तद्विषयं पदान्तराणिच प्रकृत्यर्थं तद्विशेषणं कारकं नामधेयं नियोज्यञ्चाभिदधतिकार्यप्रतीतावेवव्याप्रियन्ते । यद्यपि सन्निपत्योपकारकाङ्गवाख्यानिकार्यान्तरशून्यानि । तथापि प्रधानकार्यान्वितस्वार्थाभिधायकतयाकार्यप्रतीतावेवतात्पर्यवन्ति । मन्त्रा अपिकार्याङ्गभूताथर्स्मारकतयातत्रैवविनियुक्ताः कार्य एव व्यापारवन्तः । अथर्वाद अपि तत्रैवरुचिमुत्पादयन्तः उपयुज्यन्ते । वेदान्तानामपि कर्तुस्वरूपप्रतिपादकत्वेन देवताप्रतिपादकत्वेन वा कार्यपरतैवेति कृत्स्नस्यापिवेदस्य कार्येतात्पर्यमिति । तदेतत्प्रतिषध इति ॥ नचेति ॥ सिद्धे कार्यातिरिक्तेर्थे जीवेशभेदादावित्यर्थः । कुत इत्यत आह ॥ अस्तीति ॥ इतयादिषु प्रयोगेषु । आदिशब्देनास्त्यत्र तवमाता सुरूपोसीत्यादेः ग्रहणम्‌ । यो ब

?Rाल्य एव कुतश्ऱ्चित्कारणान्मातापितृभ्यां वियुक्तोमातापितृमतोन्यानवलोक्यस्वात्मनापि तथा भावमनुमायकामेमाताकोमेपिताकीदृशौकुत्र वर्तेते इति जीज्ञासते तं प्रतिकश्ऱ्चिद्ब्रवीति । अत्र पाटलिपुत्रेतवपिताराजाभद्रसेनोस्ति । ते माताभद्रसेनस्य महिषीलीलावतीति । तत्र कार्योपदेशाभावेपि सिद्ध एव तात्पर्यदर्शनादित्यर्थः । ननु यथाद्वारमित्यादावस्तंगतः सवितेत्यादौच पिधेहि न गच्छेत्यध्याहृतकार्येतात्पर्यम्‌ । तथात्रापि त्वं तत्र याहीत्यध्याहृते कार्येतात्पर्यं कल्प्यते । कार्यबोधमन्तरेण नैराकायलक्षणस्य पर्यवसानस्याभावात्‌ । नचगौरश्ऱ्वः पुरुषो हस्तीति वा देवदत्तः पचतीति वा पदजातं पर्यवसितमनुभूयते । किन्तु तृप्तिकामौदनञ्चेति । पर्यवसानहीनस्य च न्यूनतयावाक्याभासत्वं स्यादिति चेत्तत्राह ॥ नचेति ॥ तर्हि कथं वाक्यस्यपयर्वसानमित्यत आह ॥ सुखेति ॥ पर्यवसानादिति ॥ तावतैवश्रोतुः निराकाङ्क्षत्वादिति भावः । ननु यदि वाक्यस्य स्वाथर्मात्रेतात्पर्यवसानेनलिङादिरहितस्थलेकार्येतात्पर्याभाव स्तर्हि ततः प्रवृत्तिनिवृत्त्यभावेन वाक्यप्रयोगोव्यर्थः स्यात्‌ । परप्रवृत्तिनिवृत्त्यभिप्रायेणैववाक्यप्रयोगात्‌ । प्रवृत्त्यादिहतुकार्यताज्ञानस्य ततोऽजननात्‌ । सिद्धज्ञानमात्रस्य प्रवृत्त्याद्यजनकत्वादिति चेत्‌ न । प्रवृत्त्याद्यर्थ एव वाक्यप्रयोग इति नियमाभावात्‌ । यत्र वाक्यार्थज्ञानमात्रेणसुखदुःखावाप्तिहानीभवतः तत्र प्रवृत्त्याद्यभावात्‌ । यत्रापि प्रवृत्तिनिवृत्त्यभिप्रायेण वाक्यप्रयोगस्तत्रापि सिद्धपरत्वं युक्तमेवेत्याशयेनोक्तम्‌ ॥ सुखेति ॥ सुखपदमिष्यपरम्‌ । दुःखाभावसाधनताज्ञानस्यापि प्रवर्तकत्वात्‌ । उपलक्षणमेतत्‌ । अनिष्यसाधनताज्ञानेनैवनिवृत्तेश्ऱ्चदर्शनात्‌ । नच तस्य कार्यताज्ञानमेवप्रवर्तकं इष्यसाधनताज्ञानं तु कार्यताज्ञानस्य कारणमिति वाच्यम्‌ । इष्यसाधनतातिरिक्तायां कार्यतायां प्रमाणाभावादिति भावः । नन्वेवञ्चन्द्रमण्डलादावपि प्रवृत्तिप्रसङ्गः । नच कृत्यसाध्यताज्ञानं प्रवृत्तिप्रतिबन्धकमतोन प्रवृत्तिरिति वाच्यम्‌ । साक्षादविरोधिनोज्ञानस्य जनकीभूतज्ञानविघटकतयैवप्रतिबन्धकत्वनियमेन कृतिसाध्यताज्ञानस्य प्रवृत्त्यजनकत्वेकृत्यसाध्यताज्ञानस्य तत्प्रतिबन्धकत्वायोगात्‌ । अन्यथा(इष्यासाधनतांज्ञानस्यापि प्रवृत्तिप्रतिबन्धकत्वे) इष्यसाधनताज्ञानस्यापि प्रवृत्त्यहेतुत्वापत्तेरिति चेत्‌ मैवम्‌ । कृतिसाध्येष्यसाधनताज्ञानस्यैव प्रवर्तकत्वाङ्गीकारात्‌ । ननु तथापि कृतिसाध्यत्वबोधकं किं लिङादिकं उत प्रमाणान्तरम्‌ । नाद्यः । लिङाद्यर्थोपि सुखसाधनत्वमेवेति लिङादेरिष्यसाधनत्वमात्रार्थकत्वस्य वक्ष्यमाणत्वात्‌ । नान्त्यः । प्रवर्तकज्ञानविषयस्यापि प्रमाणान्तर बोध्यत्वे इष्यसाधनस्यापि तथात्वप्राप्त्याविधिप्रत्ययस्य प्रवर्तकत्वाभावप्रसङ्गादिति चेन्न । इष्यसाधनत्वमात्रस्यैव लिङादिबोध्यत्वेपि कृतिसाध्यत्वस्य कृत्यन्वयव्यतिरेकलक्षणप्रमाणान्तरगम्यत्वात्‌ । नचैवं इष्यसाधनताया अपि प्रमाणान्तरबोध्यतवे लिङाद्यनभिधेयत्वं स्यादितिवाच्यम्‌ । स्वर्गापवर्गादीष्यं प्रतिक्रियाया अन्वयव्यतिरेकयोः दुर्ग्रहत्वेन तदिष्यसाधनत्वस्य मानान्तरागोचरतवेन तत्र

?Rलिङादिशक्तेरावश्यकत्वात्‌ । क्रियां प्रतिकृतेरन्वयव्यतिरेकयोः सुग्रहत्वेन क्रियायाः कृतिसाध्यत्वस्य मानान्तरलभ्यतया तत्र लिङादेः शक्तेरकल्पनात्‌ । अनन्यलभ्यस्यैव शब्दार्थत्वात्‌ । नहि विधिप्रत्ययः स्वर्गकामस्य यागः कृतिसाध्य इत्याह । किन्त्विष्यसाधनमित्येव । तस्मिंस्तुबोधितेशक्तः प्रवतर्ते अशक्तस्तु नेत्येवानुभवसिद्धम्‌ । अन्यथा स्वर्गकामकृत्यसाध्यस्यापि तस्य तत्कृतिसाध्यतयाबोधने विधिप्रत्ययस्य बाधितार्थत्व प्रसङ्गात्‌ । नचैवं यत्प्रवर्तकं कृतिसाध्येष्यसाधनताज्ञानं न तद्विधिप्रत्ययजन्यम्‌ । यच्चविधिप्रत्ययजन्यमिष्यसाधनताज्ञानं न तन्मात्रं प्रवर्तकमिति कथं लिङादेः प्रवृत्तिपरत्वमिति वाच्यम्‌ । लिङादिजन्येष्यसाधनताज्ञानस्यापि प्रवृत्त्युपयोगितयालिङादेः प्रवृत्तिपरत्वाव्याकोपात्‌ । नहि यावान्प्रवर्तकज्ञानविषयः तावान्विधिप्रत्यय शक्य इति शक्यमङ्गीकर्तुम्‌ । इदानीं ममेदमिष्यसाधनमिति प्रवर्तकज्ञानविषययोरपि कालस्वांशयोः लिङाद्यर्थत्वाभावात्‌ । नचैवं कृतिसाध्यताज्ञानस्यापि प्रवर्तकत्वाङ्गीकारेपृतिदसाध्यताविशेषणस्य व्यर्थत्वादिति सुधाग्रन्थविरोध इति वाच्यम्‌ । तद्ग्रन्थस्यातीतादौप्रवृत्तिप्रसङ्गस्येदानीं ममेष्यसाधनताभावादेवकृतिसाध्यत्वविशषषणेप्यावश्यकेनेदानीन्तनत्वविशेषणेनैवपरिहारेतदर्थं कृतिसाध्यतवविशेषणं न देयमित्येवं परतया चन्द्रमण्डलादौकृत्यसाध्येप्रवृत्तिप्रसङ्गवारणायतद्विशेषणदानानिषेधकत्वात्‌ । अत एव तत्वनिर्णयटीकायां चन्द्रमडलादौ प=?Rवृत्तिप्रसङ्ग इति चेन्न । कृतिसाध्येष्यसाधनतायाः कार्यतापरपर्यायत्वस्वीकारादित्युक्तम्‌ । नन्वेवमपि सविषान्नभोजनादौनिषिद्धे अगम्यागमनादौ च प्रवृत्तिः स्यादिति चेन्न । विकल्पासहत्वात्‌ । तथाहि किमगम्यागमनादिजन्येसुखेरागौत्कट्येन तज्जन्येदुखेयस्य द्वेषोनास्तितस्य प्रवृत्तिरापाद्यते यस्य तज्जन्येदुः खेद्वेषौ त्कट्येनतज्जन्येसुखेनेच्छा तस्य वा । नाद्यः । रागान्धस्य प्रवृत्तिदशर्नेनेष्यत्वात्‌ । नद्वितीयः । इष्यसाधनत्वस्यैसवाभावात्‌ । इष्यसाधनत्वं हीच्छाविषयसाधनत्वं तत्कथं तज्जन्यसुखे इच्छाविरहेभवेत्‌ । नचैवमिच्छाज्ञानस्यापि प्रवर्तकत्वापत्तिः । नह्यत्रेच्छाविषयसाधनमेतदितिज्ञानं प्रवर्तकम्‌ । येनोक्तदोषः स्यात्‌ । किं नाम स्वरूपसतीयत्रेच्छातत्साधनताज्ञानं प्रवर्तकमिति । अगम्यागमनादेः निषिद्धस्येष्यसाधनत्वाभावः आचार्याणामभिप्रेत एव । कथमन्यथा कार्यं नहि क्रियाव्याप्यं निषिद्धस्य समत्वत इत्यादिनाक्रियाव्याप्यत्वादेः निषिद्धसाम्येन कार्यतारूपत्वं निराकृत्यस्वयं तदिष्यं साधनं तथा । कार्यमितीष्येष्यसाधनत्वयोः कार्यतारूपत्वमुक्तमिति दिक्‌ । एवमप्युपपत्तावध्याहृतकार्यएवतात्पर्यकल्पनेदोषमाह ॥ अधिकेति ॥ अध्याहृतकार्यकल्पनायामित्यर्थः । अध्याहारोह्यश्रुतकल्पनम्‌ । तच्चकल्पकसद्भावं न दोषः । अन्यथातु दोष एव । कल्पिकाचान्यथानुपपत्तिरेव । प्रकृतेच सुखसाधनत्वविज्ञानेनैव प्रवृत्त्युपपत्तेरित्यन्यथोपपत्तेरुक्तत्वात्कल्पकाभाव इति भावः । ननु यत्र ज्योतिष्योमेनस्वगर्कामोयजेतेत्यादौलिङादिः श्रूयते तत्र तावन्नियोगापरपर्यायकार्य एव तात्पर्यं सिद्धम्‌ । अन्यथालिङादिप्रत्ययस्य प्रवर्तकत्वासम्भवात्‌ ॥ तथाच तद्वदन्यत्रापि कार्यपरलिङाद्यध्याहारः कर्तव्य इति चेन्न । स्यादेतदेवम्‌ । यदि यजेतेत्यादावेवनियोगापरपर्यायकार्येतात्पर्यं सिद्धं स्यात्‌ । नचैतदस्तीत्याह ॥ यजेतेत्यलादिष्वपीति ॥ लिङादिनेति शेषः । यजनादेः धात्वर्थस्य । मात्र पदव्यावर्त्यमाह ॥ नेति ॥ शब्दस्य लिङादिरूपस्य । प्रेरकताप्रवर्तकज्ञानविषयीभूतकार्यताबोधकता । न प्रतीयत इत्यर्थः । यद्वा यदि यजेतेत्यादिषुलिङादिना यजनादेः धात्वर्थस्य सुखसाधनतैव प्रतीयते नतु कायर्ता तर्हि लिङादेः प्रवर्तकत्वं न स्यात्‌ । प्रवर्तकीभूतकायर्ताज्ञानस्य ततो जननादित्यत इष्यसाधनतां बोधयन्कार्यतां बोधयेत्‌ अबोधयन्वा । द्वितीयं तावद्दूषयति ॥ वाक्यमात्रस्येति ॥ यदि लिङाद्युपेतवाक्यस्येष्यसाधनतामबोधयतः कार्यतामात्र बोधकत्वेन प्रवर्तकत्वं तर्हि विषं भुङ्‌क्ष्वेत्यादिना विहितमनिष्यमरणादिसाधनं विषभोजनमपि सवर्ैः क्रियत । अतः परेण तत्रेष्यसाधनताज्ञानाभावेन कार्य;ताबोध एव न जायत इति वक्तव्यम्‌ । अत एव परेण किन्तु स्वयं क्लेशरूपं कर्मयत्कार्यतां व्रजेत्‌ । फलसाधनता तत्र कारणं तेन कार्यता । इति कार्यताज्ञानं प्रतीष्यसाधनता /मरनस्व करीक्षत्वमुक्तम्‌ । नचेष्यसाधनताज्ञानस्य कायर्ताज्ञानकारणत्वेपि नेष्यसाधनत्वेलिङादिशक्तिः कल्पनीया । प्रमाणान्तरेणापि तज्ज्ञानसम्भवादिति वाच्यम्‌ । तदसम्भवस्य प्रागुक्तत्वात्‌ । तत एव कार्यता बोधसम्भवेलिङादेरनुवादकताप्रसङ्गाच्च । तस्मादाद्यएवाङ्गीकार्यः । नचासौयुक्तः । लिङादेः सम्प्रतिपन्नप्रथम प्राप्तेष्यसाधनत्वार्थत्वेनैवचारितार्थ्येतदन्यकार्यताबोधकत्वकल्पनेकल्पनागौरवादिति भावः । ननु वाच्यवाचकभावसम्बन्धज्ञान लक्षणव्युत्पत्त्यपेक्षरोहि शब्दोर्थं बोधयति । नान्यथा । अन्वयव्यतिरेकाभ्यां तथावगमात्‌ । व्युत्पत्तिश्ऱ्चवृद्धव्यवहारदर्शनादेवभवति । वृद्धव्यवहारश्ऱ्चकार्यप्रतिपत्तिनिबन्धन इति कार्यप्रतिपादकतैवयुक्ता । तथाहि । चैत्रजलमाहरेति प्रयोजकवृद्धवाक्यश्रवणानन्तरं प्रयोज्यवृद्धस्य जलाहरणविषयां प्रवृत्तिं दृष्ट्वापार्श्ऱ्वस्थोबाल एवमाकलयति । अस्येयं प्रवृत्तिः बुद्धिपूर्वास्वतन्त्रपअवृत्तित्वात्‌ । मदीयस्तनपानादिप्रवृत्तिहेतुभूतबुद्धिसमानविषया । प्रवृत्तिहेतुबुद्धित्वात्‌ ।

?Rमदीयप्रवृत्तिहेतुबुद्धिवदिति । पुनरेवं निश्ऱ्चिनोति । यद्विषयासाबुद्धिः प्रवृत्तिहेतुभूतातद्वस्त्वनेनशब्देन बोधितम्‌ । तद्भावभावित्वात्‌ । ममतु प्रमाणान्तरेणेत्यावयोः विशेषः । तेन यद्बोधान्ममप्रवृत्तिस्तदनेन शब्देन बोध्यत इति शब्दस्यप्रवृत्तिहेतुभूताथर् बोधकतेति । पुनः कोसौप्रवृत्तिहेतुभूतः शब्दबोध्योर्थ इत्यवधारयितुं स्वात्मनिप्रतिपन्नं प्रवृत्तिहेतुमर्थमनुसन्धत्ते । तत्र न तावदहं क्रियामात्रं फलमात्रं क्रियाफलसम्बन्धमात्रं वाबुध्वाप्रवृत्तः किन्तु कार्यमेव । ममेदं कायर्मिति प्रतीत्याहिस्तनपानादावहं प्रवृत्त इति स्ववृत्तेः कायर्ताबोधपूर्वकतां निश्ऱ्चित्यायमपि कार्यताबोधदेवप्रवृत्त इत्यनुमायवाक्यस्य तावत्सामान्यतः कार्यपरतामवधारयति । ततोलिङाद्यावापेकार्यावगमदर्शनात्‌ तदुद्धारेचादर्शनात्त एव कार्यावगतिं कुर्वन्ति । शब्दान्तराणिच तदन्वितां स्तानर्थानवगमयन्तीत्यावापोद्धाराभ्यां अधिगच्छति । एवं लोकेकार्य एव शब्दानां सङ्गतिग्रहणाद्वेदेपि तदेवशब्दात्प्रतीयते । तथाच यजेतेत्यादिष्वपि यजनादेः कथं सुखसाधनतामात्रं प्रतीयत इत्युक्तमित्यत आह ॥ व्युत्पत्तिरपीति ॥ अङ्गुलिशब्देनतत्प्रसारणं गृह्यते । अङ्गुलिसहितोनिर्देशः साङ्गुलीर्देशः । अत्यपूपांस्तवभ्रातेत्यादिरूपः । आदिपदेनच्छोटिकावादनभ्रूविक्षेपादेः ग्रहणम्‌ । नव्युत्पत्त्यनुसारेणलिङादिशब्दानां कार्यपरताकल्प्या । व्युत्पत्तेरपिसिद्धएवार्थेसम्भवात्‌ । तथाहि छोटिकावादनादिनाऽव्युत्पन्नं बालमभिमुखीकृत्याऽपूपानदन्तं तद्भ्रातरं अङ्गुलिप्रसारणादिनाप्रदर्श्यव्युत्पादयितावाक्यं प्रयुङ्‌क्ते । बालकतावायं भ्राताऽपूपानत्तीति । तदावृद्धव्यवहारदर्शनं विनातेननिर्देशेनैवशब्दमुदायस्य कायर्ान्वयरहित एव तस्मिन्नर्थसमुदायेविषयविषयीभावं तावदगच्छतिबालः इदमनेनायं बोधयतीति । पुनरयन्तेपिताऽपूपं खादतीत्यादिवाक्यान्तरेषु शब्दार्थयोरावापोद्धाराभ्यां शब्दविभागादिकं अवगत्यभ्रात्रादिपदानां योग्येतरान्वितेभ्रात्रादौ वाचकत्वमाकलयतीति किमनुपपन्नम्‌ । एतेनेदमपि निरस्तम्‌ । यावतीसिद्धार्थपरादपि वाक्याद्वयुत्पत्तिः सासर्वाप्रथमभाविकार्यव्युत्पत्त्यनन्तरभावित्वात्कार्यव्युत्पत्तिरेवेति । प्रथमव्युत्पत्तेरेवसिद्धार्थेसमर्थितत्वादिति । एवं सिद्धेव्युत्पत्तिं प्रसाध्यकार्यान्वितेव्युत्पत्तिरिति पक्षं दूषयति ॥ नचेति ॥ विना कार्यमिति शेषः । कुत्रापि कार्यमेवनविद्यत इति कार्यान्वितञ्च नास्ति । अतः शब्दानां कार्यान्वितेव्युत्पत्तिदित्यनुपपन्नमित्यर्थः । ननु त्रय एतेधर्माः एकार्थसमवेताः । कृतिसाध्यत्वं कृत्युद्देश्‌यत्वं इष्यसाधनत्वञ्चेति । तत्राद्यौद्‌सम्भूतौ कार्यतासंज्ञौ । विषभक्षणादौ चन्द्रमण्डलादौ च प्रत्येकं तयोः सत्त्वेपि कार्यताबुद्धयभावात्‌ । इष्यसाधनत्वं तु कृत्युद्दश्यतायां निमित्ततयैवावतिष्ठते । तथाच कथं कार्याभाव इत्यत उक्तम्‌ ॥ सुखसाधनं विनाकार्यं न विद्यत इति । यद्वपि कृतिसाध्यत्वमिष्यसाधनतातिरिक्तमेव । तथापि तदुद्देश्यत्वमिष्यसाधनत्वं विनान्यन्नास्ति । प्रमाणाभावात्‌ । तथाच निमित्तनैमित्तिकभाव एवासिद्ध इति भावः । ननु यागादेरिष्यसाधनत्वातिरिक्तकृत्युद्देश्यत्वरूपमार्यतासत्वे लिङादिशब्दएवमानम्‌ । तस्य तत्रशक्तत्वादित्यत आह ॥ लिङाद्यर्थोपीति ॥ यन्मानत्वे नोच्यते तस्यापि लिङादेरिष्यसाधनत्वमेवार्थो नतु कार्यत्वम्‌ । अतोतिरिक्तकार्यतासद्भावेनेदं मानमित्यर्थः । नच विमतदाप्रवृत्तिः इष्यसाधनत्वातिरिक्तकार्यताबोपूर्विका स्वतन्त्रप्रवृत्तित्वादित्यनुमानं मानमिति वाच्यम्‌ । अप्रसिद्धविशेषणत्वात्‌ । नहि कस्याञ्चित्प्रवृत्ताविष्यसाधनत्वातिरिक्तकार्यबोधपूर्वकत्वं दृष्यम्‌ । नच गवानयनादिप्रवृत्त्यन्यथानुपपत्तिर्मानम्‌ । कृतिसाध्यतैकार्थसमवेतेष्यसाधनताज्ञानादेव प्रवृत्त्युपपत्तेरतिरिक्तकार्यताभावेनुपपत्त्यभावादिति । एवं कुत्रपीष्यसाधनत्वातिरिक्तकार्याभावात्कार्यान्वितमेवनव्द्यित इति न कायर्ेव्युत्पत्तिरित्युक्तम्‌ । इदानीं यदुक्तं प्रकृतिस्तद्विषयं पदान्तराणिचेत्यादिनासर्वस्यापि वेदस्यकार्यान्वित एव स्वाथर्ेतात्पर्यमिति तद्दूषयति ॥ नेचति ॥ नकेवलं प्रमाणाभावात्कर्यान्वितेतात्पर्याभावः किन्तु प्रमाणविरुद्धत्वाच्चेति भावेन प्रमाणमाह ॥ सुखसाधनमिति ॥ वेदोनृणां उत्तमाधिकारिव्यतिरिक्ताधिकारिणां सुखसाधनमेव प्रदर्शयेत्‌ । तान्प्रतिवेदार्थेश्ऱ्वरस्य सुखसाधनत्वात्‌ । इतरेषां तु प्रधानमिष्यमेव प्रतिपादयेत्‌ । उत्तमाधिकारिणः प्रतिवेदाथर्भूतस्य भगवतः इष्यरूपत्वादिति भावः । एवकारव्यावर्त्यमाह ॥ नेति ॥ नरं प्रति कुर्वितिलोट्‌प्रत्ययादिबोध्यं कायर्ं न बोधयतीत्यर्थः । यद्वा कुर्वितिकार्यताबोधकतयानरं क्वापि न प्रवर्तयतीत्यर्थः । तर्हि कथं प्रवृत्तिरित्यत आह ॥ सुखेति ॥ इष्यसाधनताज्ञानादित्यर्थः । न केवलमिष्यसाधनताज्ञानं प्रवर्तकं किन्तु फलेच्छापीत्याह ॥ सुखेति ॥ एवञ्च निषिद्धे अगम्यागमनादौ इष्यसाधनत्वाङ्गीकारेपि तज्जन्येदुःखेद्वेषौत्कट्येनतज्जन्येसुखे इच्छाभावादेवन प्रवृत्तिरिति भावः । ननु फलेच्छाया न प्रवृत्तिहेतुत्वं युक्तम्‌ । स्वरूपसतीयत्रेच्छातत्साधनताज्ञानस्यैव प्रवर्तकत्वाङ्गीकारेणफलेच्छाया इष्यसाधनताज्ञानहेतुतावच्छेदकतयान्यथासिद्धत्वादिति चेन्न । यत्र यत्साध्यताज्ञानं तत्र तदिच्छाप्रवर्तिका । तथाचेष्यसाधनताज्ञानस्यापि फलेच्छाप्रवृत्तिहेतुतावच्छेदकतयान्यथासिद्धवेन प्रवृत्त्यहेतुत्वापत्तेः । तस्माद्विनिगमनाविरहादुभयोरपि दण्डचक्रादिवद्धेतुत्वम्‌ । ननु फलेच्छाभिन्नविषयिणी इष्यसाधनताज्ञानं तु

?Rप्रवृत्तिसमानविषयकमिति विनिगमकसत्त्वादिष्यसाधनताज्ञानमेवप्रवर्तकं नतु फलेच्छेति चेन्न । प्रमाणबलेच्छाया इष्यसाधनताज्ञान प्रवृत्तिहेतुतावच्छेदकत्वमेव । इदन्तु वचनं फलेच्छायाः प्रवृत्तिं प्रतिप्रयोजकत्वमात्रपरमित्याहुः । उपसंहरति ॥ तत इति ॥ B-7

?Rिद्धस्य सिद्धविशेषस्यैव । कारकतां कार्यताबोधकतयाप्रवर्तकतामित्यर्थः । ननु सर्वस्यापि वेदस्यकार्यपरत्वे प्राभाकरवचनमेवप्रमाणमस्ति । अतः कथं मानाभाव इतयत आह ॥ अत इति ॥ वेदस्य सिद्धार्थपरत्वे कार्यपरत्वाभावेच प्रमाणसद्भावात्तद्विरोधिकार्यपरत्वकल्पनं मिथ्याज्ञानादेव । तथाच तदीयवचनस्यमिथ्याज्ञानमूलत्वेनाप्रामाण्यात्‌ । सर्वस्यापि वेदस्यकार्यपरत्वे तन्नमानमित्यर्थः । एवमकार्यशेषतया स्वप्रधानेश्ऱ्वरतद्भेदादौ तात्पर्यमित्युक्तम्‌ । इदानीमस्तु वाकार्यपरत्वं वेदस्य तथापि ;आत्मानमुपासीतेत्याद्युपासनाकार्येकर्मकारकतयाप्रतीतस्येश्ऱ्वरस्य तद्भेदादेश्ऱ्चस्वरूपं प्रतिपादयतां सत्यं ज्ञानं द्वसुपर्णेत्यादिवाक्यानां तत्र प्रामाण्यसम्भव इति पक्षान्तरं समर्थयमानः सिद्धपरेभ्योपि वाक्येभ्योवस्तुतत्वसिद्धिर्भवतीत्येतत्पेणाप्यङ्गीकर्तव्यमित्याह ॥ कार्यान्वित इति ॥ सिद्धवाक्यानां स्वार्थ इति शेषः । प्रामाण्यं तात्पर्यम्‌ । सिद्धवाक्यानां स्वार्थेतात्पर्यानङ्गीकारे बाधकमाह ॥ अन्यथेति ॥ इत्यादौ वाक्ये विधेयस्य वसन्तादेः लक्षणप्रतिपादकवाक्यानां मधुश्ऱ्चमाधवश्ऱ्चवासन्ति कावृतू इत्यादिवाक्यानामित्यर्थः । प्रथमादिपदेन यूपेपशून्वध्नातीत्यादिवाक्यग्रहणम्‌ । द्वितीयादिपदेन खादिरोयूपोभवति यूपमष्यास्रीकरोतीत्यादिलक्षणवाक्यप्रतिपाद्ययूपादिग्रहणम्‌ । एवं तृतीयादिपदेनापि यूपादिग्रहणम्‌ । चतुर्थादिपदेन पशुबन्धादिग्रहणम्‌ । विधिवाक्यप्रकरणपठितानां वाक्यानां कथं चित्कार्यमात्रेतात्पर्योपपादनसम्भवेपि स्थानान्तरस्थानां तदुपपादनमशक्यमित्याशयेनोक्तम्‌ ॥ स्थानान्तरस्थानामिति ॥ इतोपि न सर्वपदानां कार्यान्विते शक्तिरित्याह ॥ कार्यान्वित इति ॥ न सर्वेषां शब्दानां कायर्ान्विते स्वार्थेव्युत्पत्तिरिति वक्तुं युक्तम्‌ । एवं हि वदता लिङादिकार्यपदस्यापि कार्यान्विते स्वार्थे शक्तिरिति वक्तव्यम्‌ । नच तद्युक्तम्‌ । लिङादिकार्यपदस्य हि कार्यमेवस्याथर्ः । नच तस्य कार्यस्य कार्यान्तरेणान्वयोस्ति । गुणप्रधानभावेन खलु पदार्थानामन्वयोभवति । कार्यञ्च प्रधानत एव शब्दे न बोध्यते । नच कार्यद्वयस्य युगदद्गुणप्रधानताभावः सम्भवति । अतः कार्यस्य कार्यान्वयाभावान्नलिङादिकायर्पदस्य कार्यान्विते स्वार्थेशक्तिः । तथा च विधेः कार्यस्यासिद्धिः स्यात्‌ । तस्य प्रमाणान्तरागोचरत्वात्‌ । तथासति लिङादेरनुवादकताप्रसङ्गात्‌ । ततश्ऱ्चप्रवर्तकाभावेन प्रवृत्तिविलोपापात इति भावः । प्रवृत्तिसङ्ग्रहार्थं विध्यादेरित्यादिपदम्‌ । ननु लिङादिकार्यपदस्य स्वार्थेकार्यमात्रेशक्तिः । अन्येषां गवादिपदानां कार्यान्विते स्वार्थेशक्तिरित्यङ्गीकारान्नायं दोष इत्याशङ्कयाह ॥ कार्यपदस्येति ॥ स्वत एव स्वार्थ एव । प्रयोजकद्वैविध्याङ्गीकारादिति भावः । किञ्च लिङादिकार्यपदस्य केवलस्वार्थेशक्त्यङ्गीकारे अन्विताभिधानवादपरित्यागेनापसिद्धान्तः स्यात्‌ । ननु लिङादिकार्यपदस्य सिद्धान्विते स्वार्थेशक्तिरन्येषां कार्यान्विते स्वार्थेशक्तिरित्याङ्गीकारान्नापसिद्धान्त इत्यतोप्याह ॥ कार्यपदस्येति ॥ स्वत एव सिद्धान्वित एव । एकप्रयोजकालाभादिति भावः । ननु सर्वेषामपि शब्दानां कार्यान्वयिनिस्वार्थेशक्त्यङ्गीकारान्नकल्पनागौरवम्‌ । कार्येण सह योन्वयः तद्वत्त्वं कार्यस्य च सिद्धस्य चास्तीत्येकप्रयोजकलाभात्‌ । इति चेन्न । अत्रापि काल्पनागौरवप्रसङ्गात्‌ । कार्येण सह सिद्धस्य योन्वयः सगुणभाव एव । नच कार्यं प्रतिगुणभावः कार्यस्यास्ति । नच गुणेप्रधानेचानुगतमन्वयमात्रं शब्देन बोध्यते । अतः शब्दमात्रमत्रैकं नार्थ इति । एतेन कार्यान्वयान्वयिनिशब्दानां शक्तिः । कायर्स्यि योन्वयः तदन्वयवत्त्वं कार्ये इतरपदार्थेचास्तीत्येकप्रयोजकवर्णनमपि परास्तम्‌ । कार्यपरपदार्थान्विते शब्दानां शक्तिरिति चेन्न । अत्रापि कल्पनागौरवात्‌ । कार्यपरं यत्पदं तस्य योर्थः तेनान्वित इति ह्यस्यार्थः । नहि लिङादिकायर्पदस्य गवादिपदानां च कार्यपरत्वमनुगतम्‌ । लिङादीनां कार्यपरत्वं कार्यवाचित्वम्‌ गवादिपदानान्तु तदुद्देशित्वमात्रमिति द्वैविध्यात्‌ । तथाच कार्यपदस्य कार्योद्देशिमात्रपदार्थान्विते स्वार्थे शक्तिरितरेषां कार्यवाचिपदार्थान्विते स्वार्थेशक्तिरित्यङ्गीकारापत्त्याकल्पनागौरवमेवेति । योग्येतरान्वितस्वार्थेशक्तिरित्यङ्गीकारेत्वेकप्रयोजकलाभाल्लाघवमित्ययमेवपक्षः समाश्रयणीय इत्याह ॥ स्वार्थ इति ॥ सर्वेषां शब्दानां योग्येतरान्वित इति शेषः । न केवलं स्थानान्तरस्थानां वसन्तादिलक्षणवाक्यानां विधिवाक्यस्थज्योतिष्योमस्वार्गकामादिपदानामपि स्वार्थेज्योतिष्योमादियागरूपेकमर्णिस्वर्गादिरूपप=?Rयोजनेतात्पर्यमङ्गीकार्यम्‌ । अन्यथा तदसिद्धिप्रसङ्गादित्याह ॥ कर्तव्यतामात्र इति ॥ अस्त्वेवं स्थानान्तरस्थवसन्तादिलक्षणवाक्यानां विधिवाक्यइतोज्योतिष्योमादिपदोनाञ्च सिद्धेस्वार्थेतात्पर्यं किं ततः नचापसिद्धान्तः कायर्ेपि तात्पर्याङ्गीकारादिति चेत्‌ एवं तर्हि उपासनाकर्मकारकात्मलक्षणप्रतिपादकानां स्थानान्तरस्थानां सत्यज्ञानादिवाक्यानां

?Rआत्मानमेवलोकमुपासीतेत्यादिविधिवाक्यस्थात्मादिपदानाञ्च सिद्धेपि स्वार्थेचेत्युभयत्रतात्पर्यं सिद्धमिति ब्रूमः । ननु युक्तं स्थानान्तरस्थ वसन्तादिलक्षणवाक्यानां विधिवाक्यस्थज्योतिष्मादिपदानाञ्च सिद्धेपि स्वार्थेतात्पर्यम्‌ । अन्यथा वसन्ताद्यसिद्धयायागाद्यसिद्धेः । नतु सत्यज्ञानादिवाक्यानामात्मादिपदानाञ्च स्वार्थेतात्पर्यं युक्तम्‌ । तदनङ्गीकारे बाधकाभावात्‌ । नचोपासनासिद्धिः । असत्यस्यैवोपासनोपपत्तेरित्यत आह ॥ चित्रादीति ॥ आदिपदेन विशाखादिफल्गुन्यन्ततारकाग्रहणम्‌ । चित्रादितारकाणां हस्तस्वात्यादिपूर्वोत्तरतारकाभ्यां द्वन्द्वभावोज्ञातव्यः । ततश्ऱ्च चित्रादिविशाखाद्यव्यवहितपूर्वनक्षत्रं वोत्तरनक्षत्रं वातन्नक्षत्रं वायदायेषु मासेषु पूर्णेन्दुसंयुतं ते मासाश्ऱ्चैत्रादिमासाविज्ञेया इत्यर्थः । इत्यादौचित्रादिपदानामिति शेषः । वस्तुयाथार्थ्येचित्रादितारकाद्वन्द्वस्य तत्तन्मासेषु पूर्णेन्दुसंयुतत्वस्याधुनापि ज्योतिः शास्त्रसिद्धत्वादिति भावः । तज्ज्ञानेज्ञानकर्तव्यत्वेचेत्यर्थः । उपासनावाक्येष्वपि विद्यमानानां आत्मादिपदानामिति शेषः । उपासनायामुपासनाकर्तव्यत्वे । उक्तार्थेप्रमाणमाह ॥ उपासनाया इति ॥ तात्पर्यमस्तीति शेषः । तेनैवकारसम्बन्धः । विधौ विधिवाक्यस्थात्मादिपदानाम्‌ । किन्तत इत्यत आह ॥ तस्मादिति ॥ यस्माद्विष्णोरात्मत्वेच तात्पर्यं वर्तत इत्यर्थः। असत्यं विष्णोरात्मत्वम्‌ । असत्यध्यानस्यानर्थहेतुत्वादिति भावः । ननु नामब्रह्मेत्युपासीतेत्यादौ नामादीनां ब्रह्मत्वेनोपासनं श्रूयते नच नामादीनां ब्रह्मत्वं सत्यम्‌ । अतो सत्यस्यैव ध्यानं कर्तव्यमित्यत आह ॥ ध्यायेदिति ॥ तस्य नामब्रह्मत्वसत्यतायश्राये न प्रकारेणस्यात्तथाध्यायेदित्यर्थः । नाम्नोब्रह्मत्वं कथं सत्यं स्वादित्यत आह ॥ विचार्येति ॥ नाम्नो ब्रह्मत्वं नाम न तावत्तदभेदः । प्रमाणविरोधात्‌ । किन्तु नामादिषु ब्रह्मणः स्थितत्वमेवेति । नामादिप्रणपर्यन्तमुभयोः प्रथमात्वतः । ऐक्यदृष्यिरिति भ्रान्तिरबुधानां भविष्यति । नामादिस्थितिरेवेत्रब्रह्मणोहि विधीयते । इत्यादिभिः बहुभिर्वाक्यैः विचार्येत्यर्थः । विचारश्ऱ्चनस्थूलदृश्ऱ्वनः सम्भवतीति मतिनामुपासनाकर्तव्वत्वे विष्णोरात्मत्वे चेत्युभयत्रापि तात्पर्यम्‌ तर्हि कार्याङ्गीकारप्रसङ्ग इत्याशङ्कां परिहारन्नुपसंहरति ॥ तस्मादिति ॥ इष्यसाधनतातिरिक्तकार्यताभावादित्यर्थः ॥ अत्रतार्किकावदन्ति ॥ यदुक्तमीश्ऱ्वोज्ञानानन्दादिस्वरूपोप्राकृतविग्रहोनन्तगुणपरिपूर्णश्ऱ्चेति तदयुक्तम्‌ । ईश्ऱ्वरस्य स्वतोशरीरत्वात्‌ । नचाशरीरात्कथं वेदघटादिशब्दव्यवहारसम्प्रदाय इति वाच्यम्‌ । सर्गादावदृष्योपगृहीतभूतभेदान्मीनशरीरोत्पत्तावदृष्यवदात्मसंयोगाददृष्यसहकृतप्रयत्नवदीश्ऱ्वरसंयोगाद्वासकलवेदार्थगोचरज्ञानाद्विवक्षासहितान्मीनकण्ठताल्वादिक्रियातज्जन्यसंयोगाद्वेदोत्पत्तिः । एवं कुलालादिशरीरावच्छेदेनादृष्यसहकृतप्रयत्नवदीश्ऱ्वरसंयोगात्तद्बुद्धीच्छासहिताच्चेष्योत्पत्तौसकलघटानुकूलव्यापाराद्घटोत्पत्तिः । एवं प्रयोज्यप्रयोजकभावाभिमतशरीरद्वयावच्छेदेनादृष्यसहकृतेश्ऱ्वरज्ञानेच्छाप्रयत्नादेववाग्व्यवहारः । ततस्तद्दर्शीबालोव्युत्पद्यते । सोयं भूतावेशन्यायः । सच कर्तृत्वोपयुक्तैः ज्ञानेच्छाप्रयत्नैः सङ्खयदि पञ्चभिश्ऱ्च विशिष्य इति शिष्यषड्‌गुणायोग्यः कथमनन्तगुणः स्यात्‌ । यच्चोक्तं मुक्तानामपि ज्ञानानन्दादितारतम्यमिति तदप्ययुक्तम्‌ । मुक्तेरशेषविशेषगुणोच्छेदरूपत्वेन तत्र ज्ञानानन्दादेरभावात्‌ । नचैवमपुरुषार्थत्वापत्तिः । समानाधिकरणदुःखासमानकालीनदुःखध्वंसरूपत्वेन तस्य पुरुषार्थत्वादिति । तदसत्‌ । उदाहृतश्रुत्यादिविरोधादिति भावेनाह ॥ तार्किकाणामिति ॥ ननु यथाऽशरीरत्वाद्यङ्गीकारे उदाहृतश्रुत्यादिविरोधस्तथासशरीरत्वाद्यङ्गीकारेप्यक्षपादादिवचनविरोध इति चेन्न । उभयसम्प्रतिपन्नप्रमाणभावश्रुत्यादिविरोधेन तद्वचनस्य भ्रममूलकत्वेनाप्रामाण्यादिति भावेनाह ॥ अत इति ॥ ननु नोदाहृत श्रुत्यादीनां यथाप्रतीतार्थत्वं वक्तुं युक्तम्‌ । अनुमानविरोधात्‌ । तथाहि ईश्ऱ्वरोशरीरः अजन्यज्ञानादिमत्वात्‌ व्यतिरेकेणदेवदत्तवत्‌ । अजन्यज्ञानस्यचेश्ऱ्वरस्य च शरीराङ्गीकारवैयर्थ्यापातादिति । एवं सुखत्वादावपि साध्यम्‌ । तेन सकलोच्छेदोमोक्षः सिद्धतीत्यत आह ॥ अनुमाया इति ॥ प्रत्यक्षागमयोः परस्परं विरोधेकिमप्रमाणमित्यत आह ॥ आगमेति ॥ अप्रमाणतां गच्छेदित्यन्वयः । आगमद्विट्‌ उपजीव्यागमविरुद्धार्थ ग्राहकम्‌ । यथादेवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरासीदित्याद्यागमबाधितं विष्णुर्दोषवानिति प्रत्यक्षम्‌ । तस्मादितरप्रमाणापेक्षया प्राबल्यात्‌ । प्रकारान्तरेणोत्तमत्वमुपपादयति ॥ धर्तार्थेति ॥ अनुमादेरप्यागमार्थनिश्ऱ्चायकत्वादिनापुरुषार्थहेतुत्वादित्यत उक्तम्‌ ॥ साक्षादेवेति ॥ अनुमानविरोध आगमस्येति शेषः । प्रबलप्रमाणविरोदे हि दुर्बलस्य प्रतीतार्थप्रच्यावनं कार्यम्‌ । नचानुमानस्यागमात्प्रबल्यं प्रत्युतागमस्यैवानुमानापेक्षयाप्राबल्यात्तद्विरुद्धमनुमानमेवनमानमिति भावः । किञ्च यदिज्ञानोत्पत्तावेवशरीरमुपयोगीत्यजन्यज्ञानस्य शरीरानङ्गीकारस्तर्हि प्रयत्नजन्मन्येवेच्छोपयोगिनीति नित्यप्रयत्नस्येच्छापि न स्यात्‌ । ततेच्छोत्पत्तावेवज्ञानमुपयुज्यत इति नित्येच्छस्य ज्ञानमपि न स्यात्‌ । अथ न प्रयत्नमात्रं कर्तृत्वं अपि तर्हि ज्ञानेच्छे अपि । परिदृष्यसामर्थ्यकारकप्रयोक्तृत्वं कर्तृत्वमिति हि बृद्धा इति चेत्‌ । तथापीच्छात्यागेबाधकाभावात्‌ । कुतश्ऱ्चैवं

?Rकल्पनीयम्‌ । कुलालादौ तथादृष्यत्वादितिचेत्किन्तत्र शरीरं न दृष्यं दृष्यमप्यनुपयुक्तमिति चेत्‌ किं नियमाभावादेवमाश्रीयते अन्यत्रोपक्षयाद्वा । नाद्यः व्यभिचाराभावात्‌ । शरीरप्रेरणे परं शरीरं नास्तीति चेत्‌ न । तेनैवशरीरित्वात्‌ । न द्वितीयः । निरस्तत्वात्‌ । अन्यथाज्ञानादीनामप्यनुपयोगप्रसङ्गः । कुतश्ऱ्चास्य नित्यज्ञानत्वसिद्धिः । क्षित्यादिकं सकर्तृकं कार्यत्वात्‌ इत्यनुमानस्यागमासहकृतस्याप्रमाणत्वात्‌ । आगमादेवतत्सिद्धयङ्गीकारेचान्योन्याश्रयात्‌ । सिद्धेह्यागमप्रमाण्येनित्यज्ञानेश्ऱ्वरसिद्धिः तत्सिद्धौचागमस्य तत्प्रणीतत्वेन तत्प्रामाण्यसिद्धिरिति । तथादुः खत्वमात्रस्य पक्षत्वे नित्यदुःखस्यापि सत्त्वेन दुःखत्वेकायर्मात्रवृत्तित्वाभावादसिद्धिः । जन्यदुःखत्वस्य पक्षत्वेतस्य स्वाश्रयासमानकालीनध्वंसप्रतियोगिवृत्तित्वेप्यजन्यदुःखाविरोधेन मोक्षे अजन्यदुःखापातात्‌ । क्रममुक्तेरेवागमिकत्वेन युगपत्सर्वमुक्त्यभावाद्बाधश्ऱ्च । देवदत्तदुःखत्वस्य पक्षत्वेपि देवदत्तस्य मुक्त्ययोग्यत्वेऽसिद्धिः ।तस्मिन्नित्यदुःखस्यापि सत्त्वात्‌ । तदीय जन्यदुःखत्वस्य पक्षत्वेप्यजन्यदुःखाविरोधेन तत्र तत्सत्वापातात्‌ । नच योग्यायोग्यविभाग एवासिद्धः । त्रिविधाजीवसङ्घाद्या इत्यादि प्रमाणसिद्धत्वात्‌ । नच मुक्तियोग्यदेवदत्तदुःखत्वमेवपक्ष इति वाच्यम्‌ । तादृशदेवदत्तदुःखत्वस्य स्वाश्रयासमानकालीनध्वंसप्रतियोगिवृत्तित्वसाधनेसिद्धसाधनत्वात्‌ । अस्माभिरपि मोक्षेदुःखासमानकालीनदुःखध्वंसस्याङ्गीकारात्‌ । यद्वक्ष्यति निःशेषदुःखमोकेन सुखैकानुभवस्तुयः । मोक्ष इत्यच्यत इति । नन्वेवं सुखत्वादावपि साध्यम्‌ । तेन सकलोच्छेदोमोक्षः सिद्धतीत्युक्तमिति चेन्न । अस्मन्मते मुक्तौ सुखज्ञानेच्छादीनामङ्गीकारेणसुखत्वादीनां कार्यमात्रवृत्तिधर्मत्वाभावेनासिद्धेः । जन्यसुखत्वादीनां पक्षत्वेप्यजन्यसुखादिसिध्यविरोधादिति । किञ्चेश्ऱ्वरस्याप्राकृतविग्रहवत्त्वादेः मोक्षस्य ज्ञानानन्दात्मकत्वादेश्ऱ्चप्रतिपादकस्यागमस्य प्रतीतार्थेप्रामाण्याभावः किं केवलानुमानविरोधात्‌ आगममूलकानुमानविरोधाद्वा । नाद्यः । तस्यैव प्रतिपक्षग्रस्तत्वेनाप्रामाण्यादित्याह ॥ सर्वत्रेति ॥ अत्र प्रमाणमाह ॥ निर्णयस्त्विति ॥ न द्वितीयः । वेदादिरूपस्य तस्याभावात्‌ । नन्वशरीरत्वाद्यनुमानस्य वादाद्याग

?Rममूलकत्वाभावेपि अक्षपादादि प्रणीतागममूलकत्वमस्तीति चेन्न । वेदादियुक्तानुमानस्यैव निर्णयाङ्गत्वेन ग्राह्यतया तत्परित्यागेनाक्षपादाद्यागममूरकानुमानस्य ग्रहणायोगादित्याह ॥ नचेति ॥ वेद शब्दस्यावृत्तिः । इतिहासपुराणः पञ्चमोवेदानां वेद इति श्रुतेः वेदात्मकत्वमितिहासादेः । तच्चतत्प्रामाण्योपपादनार्थम्‌ । कुतो न युज्यत इति चेत्‌ अक्षपादाद्यागमानां दुरागमत्वेनाप्रमाणतयातन्मूलन्यायस्याप्रामाण्यात्‌ । वेदाद्यागमानां तु स्वागमत्वेन प्रामाण्यात्तन्मूराकन्यायस्यैव प्रमाणत्वादिति भावेनाह ॥ अक्षपादेति ॥ अक्षपादादिपदेनतत्प्रणीतं शास्त्रं ग्राह्यम्‌ । धर्मोधर्मशस्त्रम्‌ । धर्मश्ऱ्चेत्यत एव स्वागमा इत्यर्थः । कावितिहासपुराणकावित्यत आह ॥ पञ्चरात्रमिति ॥ वेदादीनामेवसदागमत्वेऽन्येषां दुरागमत्वे च प्रमाणान्तरमाह ॥ वेदाश्ऱ्चेति ॥ भागवतं भगवद्विषयं पुराणमित्येत एवमुलप्रमाणं मुख्यप्रमाणमित्यर्थः । उत्तराब्राह्मीमीमांसा च । तथामूलप्रमाणमित्यर्थः । तर्हि मन्वादिस्मृतीनामप्रामाण्यं स्वादित्यत आह ॥ एतेषामिति ॥ वेदादीनां सदाजमत्वमक्षपादाद्यागमानां दुरागमत्वञ्च युक्त्याप्रतिपादयत्प्रमाणं पठति ॥ विष्णोरिति ॥ वेदादिकं विष्णोः सर्वोत्तमत्वसाधकं अक्षपादादिशास्त्रं तु तद्विरोधीति पक्षधर्मताच वक्तव्या । अत्रैव प्रमाणान्तरमाह ॥ विष्णोरिति ॥ एवञ्च प्राकृकतशरीरेणैवेश्ऱ्वरेणवेदोपदेशाद्युपपत्तौ न प्रामाणिकभूतावेशन्यायकल्पं इत्युक्तमिति भावः ॥ सौगताद्यास्तु ॥ शब्द एव तावदप्रमाणम्‌ । कुतस्तद्विशेषोवेदादिरिति कथं तेनोक्तार्थसिद्धिः स्यादित्याहुः । तद्दूषयति ॥ नचेति ॥ कुतो न युक्तमिति चेत्‌ । किमागमाप्रामाण्यं तत्साधकप्रमाणसद्भावात्‌ उत तत्प्रामाण्यसाधकप्रमाणाभावात्‌ । नाद्य इत्याह ॥ तदिति ॥ तत्तत्रागमाप्रामाण्य इत्यर्थः । ननु प्रत्यक्षादेरेवागमाप्रामाण्येप्रमाणत्वेन तत्प्रमाणाभावोसिद्धः । मानसप्रत्यक्षावसेयं हि ज्ञानानामप्रामाण्यमिति चेन्न । प्रत्यक्षादेरेवप्रामाण्येप्रमाणाभावात्‌ । तत्प्रामाण्यं स्वत एवेति चेत्तर्हि आगमप्रामाण्यस्यापि स्वतस्त्वेन न तदप्रामाण्यमित्याह ॥ स्वत इति । प्रत्यक्षादिप्रामाण्यस्य स्वतस्त्वानङ्गीकारेबाधकमाह ॥ तदनङ्गीकार इति ॥ प्रामाण्यग्राहकपरं परानवस्थानात्‌ । कस्यापि व्यवस्थित्यभावादित्यर्थः । न द्वितीयः । तदसिद्धेरित्याह ॥ स्वत इति ॥ सर्वेषामपि ज्ञानानां यथार्थत्वलक्षणप्रामाण्यस्य ज्ञानग्राहकमात्रग्राह्यत्वं स्वतस्त्वम्‌ । प्रत्यक्षादिकरणशनां तु ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयस्य ग्राह्यत्वं स्वतस्त्वम्‌ । तथाचागमजन्यज्ञानस्य प्रामाण्येज्ञानग्राहकः साक्षी । आगमप्रामाण्ये च तदीयज्ञानजनकत्व ग्राहकमेवमानमिति भावः । स्वतस्त्वानङ्गीकारे बाधकमाह ॥ तदनङ्गीकार इति ॥ प्रामाण्यं तावदवश्यं केनचित्प्रमाणेन ज्ञातव्यम्‌ । अन्यथातदभाव प्रसङ्गात्‌ । नच ज्ञानग्राहकातिरिक्तेन तद्ग्रहणं सम्भवति । तत्प्रामाण्यस्याप्यन्येन ग्रहणाङ्गीकारेनवस्थानात्‌ । तस्य स्वतस्त्वे प्रथमस्यैव तथाङ्गीकारोपपत्तेः । अतः

?Rपरिशेषात्स्वतस्त्वत्सिद्धिः । अवश्यवेद्यत्वानभ्युपगमान्नानवस्थेति चेन्न । निःशङ्कप्रवृत्ताववश्यवेद्यत्वात्‌ । तथाहि ज्ञानं तावदबुभुत्सिताग्राह्यतया तीव्रसंवेदनम्‌ । ज्ञाते च तस्मिन्प्रामाण्याप्रामाण्यानुपलब्धौ कथं संशयोनस्यात्‌ । सति प्रामाण्यसंशयेऽर्थसंशयोपि कथं न स्यादिति । नच साक्षिवेद्यत्वेप्यनवस्थापातः । साक्षीस्वप्रकाशः स्वात्मानं स्वप्रामाण्यं च गोचरयतीत्यङ्गीकारात्‌ । ज्ञानस्यैव तथाभावोभ्युपगम्यतामिति चेन्न । अन्तःकरणवृत्तेः ज्ञानस्य जडत्वेन स्वयं प्रकाशत्वायोगादिति । यदुक्तं तत्प्रमाणाभावादिति तदयुक्तम्‌ । अनुमानस्यैव सद्भावात्‌ । तथाहि प्रमाकरणं हि प्रमाणम्‌ । प्रमाकरणञ्च तदुच्यते यस्मिन्सति प्रमाभवत्येव नासति । सत्यपि शब्देन प्रमाजायते । तत्कथं प्रमाणं स्वात्‌ । किञ्च प्रमाणं हि विषयसद्भावेन व्याप्तम्‌ । विषयश्ऱ्चद्वेधा अपरोक्षः परोक्षश्ऱ्च । तत्रापरोक्षः प्रत्यक्षसिद्धः । परोक्षस्त्वनुमानवेद्य इति विषयाभावान्नप्रमाणं शब्दः । अपि च यत्प्रमाणं तद्विज्ञानात्मकं दृष्यम्‌ यथा धूमज्ञानम्‌ । ;अविज्ञानात्माशब्दोऽतो न प्रमाणम्‌ । एवं बाह्यकरणप्रत्यक्षत्वात्‌ आत्मन्यनाश्रितत्वाच्चघटवत्‌ । किञ्च शब्दोर्थेन सम्बद्धस्तं बोधयति उतासम्बद्धः । आद्ये सम्बन्धस्तादात्म्यं संयोगः समावायो वा । नाद्यः । वह्नयादिशब्दोच्चारणेमुखादिदाहप्रसङ्गात्‌ । वर्तमानशब्दस्यातीतादिनार्थेन तादात्म्येर्थस्य वर्तमानत्वं शब्दस्यातीतादित्वं वास्यात्‌ । नद्वितीयः । गुणत्वात्‌ । द्रव्यत्वेपि मूर्तस्य क्रिययार्थसंयोगेऽन्तरावस्थितार्थविषयत्वापत्तिः । सर्वगत्वे तु सर्वार्थप्रतिपासदकत्वप्रसङ्गः । सर्वथातीतानागतादिना संयोगानुपपत्तौ तदप्रतिपादकत्वं स्वात्‌ । नतृतीयः । आकाशगुणस्यान्यत्र समवायोगात्‌ । सर्वशब्दानामाकाशार्थतापत्तेश्ऱ्च । द्रव्यस्यापि मूर्तस्यामूर्तस्य च न घटादिनासमवायोयुज्यते । नद्वितीयः । असम्बद्धबोधकत्वे नियामकाभावात्सर्वोपि सर्वं बोधयेत्‌ । किञ्चाप्तानाप्तप्रयुक्तयोः नद्यास्तीरेपञ+?Rच फलानिसन्तीति वाक्ययोरस्तिकश्ऱ्चिद्विशेषोन वा । नाद्यः । अनुपलम्भात्‌ । पुरुषविशेषोस्तीति चेन्न । तस्य वाक्योच्चारण एवोपक्षीणत्वेन तदुत्पाद्यज्ञानेनुपयोगात्‌ । द्वितीये तु कथमेकस्यसंवादोपरस्य विसंवादः । अतः सम्भावनामात्रेण शब्दात्‌ कृष्यादाविवप्रवृत्तिरित्यत आह ॥ आगमेति ॥ आगमाप्रामाण्यसाधकेत्यनुमानविशेषणम्‌ । एतच्चप्रकृतानुमानाभिप्रायेणैव । वस्तुतस्तु अनुमानादेरित्येव वक्तव्यम्‌ । विशेषणकृत्यन्तूत्तरत्र वक्ष्यते । आदिशब्देन प्रत्यक्षम्‌ । यदि सत्यपि शब्देप्रमानुदयादप्रमाणं शब्दस्तर्हि सत्यपि चक्षुषिरूपज्ञानानुत्पत्तेः सत्यपि धूमेग्निज्ञानानुदयात्‌ आगमवत्प्रत्यक्षानुमानयोरप्यप्रामाण्यं स्यात्‌ । प्रमाजनकत्वाभावाविशेषेपि प्रत्यक्षानुमानयोः प्रामाण्यमागमस्याप्रामाण्यमित्यत्र विशेषप्रमाणाभावात्‌ । यदुक्तं विषयाभावान्नशब्दः प्रमाणमिति तदयुक्तम्‌ । तथासत्यागमवच्चाक्षुषप्रत्यक्षस्याप्रमाण्यप्रसङ्गात्‌ । तस्यापि हि परोक्षोपरोक्षोवाविषयः । नाद्यः । तस्यानुमानविषयत्वात्‌ । नद्वितीयः । तस्य श्रोत्रादि विषयत्वात्‌ । इति वक्तुं शक्यत्वात्‌ । विषयाभावाविशेषेपि चाक्षुस्य प्रमाण्यामागमस्याप्रामाण्यमित्यत्र विशेषप्रमाणाभावात्‌ । यच्चोक्तं अविज्ञानात्मकत्वाच्छब्दोन प्रमाणमिति तदपि न । तथासत्यविज्ञानात्मकस्येन्द्रियस्य सन्निकर्षस्य वा प्रत्यक्षस्य धूमाद्यनुमानस्य चाऽऽगमवदप्रमाण्यप्रसङ्गात्‌ । अविज्ञानात्मकत्वाविशेषपि प्रत्यक्षानुमानयोः प्रामाण्यमागमस्याप्रामाण्यमित्यत्र विशेष प्रमाणाभावात्‌ । तदपि बाह्यकरणप्रत्यक्षत्वादात्मन्यसमवेतत्वाच्छब्दो न प्रमाणमिति तन्न । तथासति बाह्यकरणप्रत्यक्षस्य धूमानुमानस्यात्मन्यसमवेतस्य प्रत्यक्षस्यानुमानस्य चागमवदप्रामाण्यप्रसङ्गात्‌ । तथात्वाविशेषेपि प्रत्यक्षादेः प्रमाण्यमागमस्याप्रामाण्यमित्यत्र विशेषप्रमाणाभावात्‌ । यच्चोक्तं शब्दस्यार्थेन सम्बन्धोस्ति न वेत्यादि तन्न । तथासत्यागमवदनुमानस्याप्यप्रामाण्यप्रसङ्गात्‌ । द्वितीयेतु कथमेकस्य संवादोपरस्यविसंवादः । अतः सम्भावनामात्रेण शब्दात्‌ कृष्यादाविवप्रवृत्तिरित्यत आह ॥ आगमेति ॥ आगमाप्रामाण्यसाधकेत्यनुमान विशेषणम्‌ । एतच्चप्रकृतानुमानाभिप्रायेणैव । वस्तुतस्तु अनुमानादेरित्येव वक्तव्यम्‌ । विशेषणकृत्यन्तूत्तरत्रवक्ष्यते । आदिशब्देन प्रत्यक्षम्‌ । यदि सत्यपि शब्देप्रमानुदयादप्रमाणं शब्दस्तर्हि सत्यपि चक्षुषिरूपज्ञानानुत्पत्तेः सत्यपि धूमेग्निज्ञानानुदयात्‌ आगमवत्प्रत्यक्षानुमानयोरप्यप्रमाण्यं स्यात्‌ । प्रमाजनकत्वाभावाविशेषपि प्रत्यक्षानुमानयोः प्रामाण्यमगमस्याप्रमाण्यमित्यत्र विशेषप्रमाणाभावात्‌ । यदुक्तं विषयाभावान्नशब्दः प्रमाणमिति तदयुक्तम्‌ । लिङ्गस्यधूमादेरसम्बद्धग्हकत्वेऽति प्रसङ्गात्‌ । संयोगादेरव्याप्त्यादिनाऽसम्भवात्‌ । प्रसिद्धसम्बन्धाभावाविशेषेपि अनुमानस्य प्रामाण्यमागमस्याप्रामाण्यमित्यत्र विशेषप्रमाणभावात्‌ । यत्पुनरुक्तमाप्तानाप्तप्रयुक्तयोरित्यादि ददप्यसारम्‌ । आगमवत्प्रत्यक्षानुमानयोरप्यप्रामाण्यप्रसङ्गात्‌ । यथार्थायर्थायोः प्रत्यक्षयोरनुमानागमयोश्ऱ्चविशेषोस्तिन वा । नाद्योनुपलम्भात्‌ । नद्वितीयः । एकस्य संवादोपरस्य विसंवादः इत्यस्याविसंवादः इत्यस्यानुपपत्तेरितिवक्तुं शक्यत्वात्‌ । न्यायसाम्येपि प्रत्यक्षादेः प्रामाण्यमागमस्याप्रामाण्यमाण्यसाधकानुमानस्याप्यप्रामाण्यापत्त्याप्रमाणाभावेनागमाप्रामाण्यासिद्धिः स्वात्‌ । अत

?Rएवानुमानादेरित्येव वक्तव्ये आगमाप्रामाण्यसाधकेत्युक्तम्‌ । शब्दस्याप्रामाण्याङ्गीकारेस्वव्याहतिञ्चाह ॥ स्वीकृतत्वाच्चेति ॥ नागमस्याप्रामाण्यमित्यनेन सम्बन्धः । पूर्वोक्तहेतुसमुच्चयार्थश्ऱ्चशब्दः । तैरपि आगमाप्रामाण्यवादिभिरपीति व्याहतिस्फोरणार्थम्‌ । ननु तैरपि न स्वागमस्य प्रामाण्यमङ्गीक्रियते । किं नाम सम्भावनामात्रेण शब्दात्कृष्यादाविवप्रवृत्तिः । संवादेन च प्रामाण्याभिमानः । नचैवं तदुक्तार्थासिद्धि प्रसङ्गः । अनुमानादिनैव तत्सिद्धेरित्यत आह ॥ नहीति ॥ स्वर्गस्याप्रत्यक्षत्वेन तत्प्रत्यन्वयव्यतिरेकयोः दुर्ग्रहत्वादिति भावः । देवदत्तशरीरादिकं देवदत्तविशेषगुणजन्यं कार्यत्वे सति देवदत्तस्य भोगहतुत्वात्‌ । देवदत्तप्रयत्नजन्यवस्तुवदित्यनुमानादिना अदृष्यस्वरूपमात्र सिद्धावपि न साधनफलसम्बन्धरूपस्तद्विशेषोनुमानादि गोचरः । अतस्तत्साधकत्वेन स्वागमस्य प्रामाण्यं स्वीकायर्मिति भावः । किञ्च यदि स्वोक्तार्थेप्रमाणातरसंवादस्तर्हि अविसंवादि विज्ञानं प्रमाणमिति वदद्भिः स्वागमस्वागमस्य प्रामाण्यमङ्गीकृतमेवेत्यनुमानप्रामाण्यवादिना सौगतेनागमप्रामाण्यं कथञ्चित्सम्भावयितुं शक्यते । तथाविधानुमानाभासोत्प्रेक्षासम्भवात्‌ । तदप्रामाण्यवादिनाचार्वाकेणतु तत्सम्भावयितुं अप्यशक्यमित्याह ॥ नचेति ॥ तत्सिद्धं प्रत्यक्षसिद्धम्‌ । अयथार्थज्ञानजनकत्वरूपाप्रामाण्यस्याप्रत्यक्षत्वादिति भावः । आगमप्रामाण्ये प्रमाणान्तरं सूचयन्‌ नचागमस्येत्यादिनोक्तमुपसंहरति ॥ अत इति ॥ चशब्द उक्तसमुच्चयस्यानुक्तसमुच्चयस्य च द्योतकः । तथाहि । शब्दाज्ज्ञानमुत्पद्यते न वा । नेति पक्षे अनुभवविरोधः । स्वक्रियाविरोधश्ऱ्च । नशब्दोर्थप्रत्यायक इति ब्रूते परप्रत्ययनार्थं शब्दमेवप्रयुङ्‌क्त इति । आद्ये सबोधः संशयोविपर्ययो वा । नाद्यः । एकाकारनियतत्वात्‌ । नद्वितीयः । बाधबोधविरहात्‌ । सर्वत्रापि बाधाभ्युपगमेस्वप्रयुक्तवाक्यस्य तद्भावाभावयोः स्वव्याघातात्‌ । एवं व्यवस्थिते प्रयुज्यते । शब्दः प्रमाणं संशयविपर्ययाजनकत्वे सति ज्ञानजनकत्वात्‌ । प्रत्यक्षादिवदिति । नहि प्रत्यक्षादेरन्यत्प्रामाण्येनियामकमस्ति । नन्विदमेवप्रामाण्यमिति साध्याविशिष्यता । मैवम्‌ । निर्दोषज्ञानसाधनं मानमिति वक्ष्यमाणत्वात्‌ । ननु शब्दो न प्रमाणं आकाशगुणत्वात्‌ । तत्परिमाणवदिति सत्प्रतिपक्ष इति चेन्न । असिद्धेः । वर्णात्माहिशब्दः प्रमाणम्‌ । नचासावाकाशगुणस्तत्वविदाम्‌ । अत्र प्रत्यक्षवदित्यादिव्यतिरेकदृष्यान्तः । यथा प्रत्यक्षादेः नाकाशगुणत्वं तथाशब्दस्यापीति नास्य प्रामाण्यं विहन्यत इति । यद्वा आगमप्रामाण्यसाधकेत्यनेनोक्तस्य तर्कस्यविपर्यये पर्यवसानं सूचयन्न चागमस्येत्यादिनोक्तमुपसंहरति ॥ अत इति ॥ ननु यदुक्तं प्रमाजनकत्वाभावाविशेषादागमवत्प्रत्यक्षानुमानयोरप्यप्रामाण्यं स्वादिति तन्न ।स्यादेवं यदीन्द्रियमात्रं प्रत्यक्षं धूमादिमात्रमनुमानं स्यात्‌ । नचैवम्‌ । किं नाम अन्तःकरणाधिष्ठितं विषयसन्निकृष्यमिन्द्रियं प्रत्यक्षम्‌ । व्याप्तिपक्षधर्मतावत्त्वेनानुसंहितं लिङ्गमनुमानमित्यभ्युपगमात्‌ । नच तस्मिन्सति न प्रमोत्पद्यत इति चेत्‌ । तर्हि वयमपि ब्रूमोनशब्दमात्रं प्रमाणम्‌ । किन्तु श्रुतोनुस्मृसम्बन्धश्ऱ्च । नचैवं विधशब्देसति न प्रमोत्पद्यते । तथाच शब्दमात्रपक्षीकरणेसिद्धसाधनम्‌ । विशिष्यपक्षीकरणेचासिद्धिरिति । तदिदमुक्तं प्रत्यक्षवदनुमानवच्चेति । अथ यदुक्तं विषयाभावाविशेषादागमवच्चाक्षुषप्रत्यक्षस्याप्रामाण्यमिति । तदयुक्तम्‌ । रूपादेः विषयस्य चापरोक्षत्वेपि श्रोत्राद्यविषयत्वात्तत्र चक्षुषः प्रामाण्यस्य युक्तत्वात्‌ इति चेन्न । शब्देप्यस्य समानत्वात्‌ । अस्तिच परोक्षोपि सतादृशःकश्ऱ्चिद्विषयोयोनानुमानस्य विषयः । एतदप्युक्तं प्रत्यक्षवदिति । प्रत्यक्षविशेषवदित्यर्थः । किञ्चैवं विषयविकल्पेन शब्दनिराकरणे शब्दमुपादायानुमानमपाकुर्वन्तं प्रति किं वक्तव्यम्‌ । अनुमानाप्रामाण्ये सकललोकव्यवहारोच्छेदप्रङ्गात्‌ परचित्तवृत्त्याद्यसङ्कीर्णविषयदर्शनात्‌ परोक्षविषयत्वेपि शब्दाद्भिन्नं तदङ्गीकरणीयमिति वाच्यमिति चेत्सममेतच्छब्देपि । तदप्याह अनुमानवदिति । नन्वविज्ञानात्मकत्वाविशेषादागमवदनुमानस्याप्रामाण्यमिति यदुक्तं तन्न । धूमादिज्ञानस्यैवानुमानत्वेन धूमादिमात्रस्यानुमानत्वाभावात्‌ । यथोक्तं लिङ्गपरामर्शोनुमानमितीति चेत्तर्हि शब्दमात्रं न प्रमाणम्‌ । किन्तु तज्ज्ञानमेवेत्यसिद्धिः । एतदप्याहानुमानवदिति । ननु बाह्यकरणप्रत्यक्षत्वाविशेषात्‌ आत्मन्यसमवेतत्वाविशेषाच्चागमवदनुमानस्याप्यप्रामाण्यं स्यादिति यदुक्तं तन्न । धूमादिज्ञानस्यैवानुमानत्वेन धूमादिमात्रस्याप्यनुमानत्वाभावात्‌ इति चेत्तर्हि शब्दमात्रं न प्रमाणम्‌ । किन्तु तज्ज्ञानमेवेत्यसिद्धिः । इदमप्याहानुमानवदिति । किञ्च यथात्मन्यसमवेतमपीन्द्रियमिन्द्रियसन्निकर्षोवाप्रत्यक्षं प्रमाणं तथाशब्दोपि प्रमाणं भविष्यतीति कानुपपत्तिः । एतदप्युवाचप्रत्यक्षवदिति । अथप्रसिद्ध सम्बन्धाभावाविशेषादागमवदनुमानस्याप्यप्रामाण्यमिति यदुक्तम्‌ तन्न । B-8

?R्रसिद्धसम्बन्धाभावेपि लिङ्गस्य लिङ्गिनाव्याप्तिलक्षणसम्बन्धसत्त्यादिति चेत्तर्हि शब्दस्याप्यर्थेन वाच्यवाचकभावलक्षणसम्बन्धसत्वादुक्तदोषानवकाश इति तदप्याहानुमानवदिति । ननु यदुक्तं यथार्थायर्थार्थयोः प्रत्यक्षयोरनुमानयोश्ऱ्च विशषषोस्ति न वेति तत्राप्यस्त्येवदोषसद्भावयतस्तदेवाविषयेप्रयुञ्जानोदुष्यं करोति ।

?Rनिशातमसिमाकाशेप्रयुञ्जान इव । अन्यथानुमानमप्यप्रमाणं स्यात्‌ । कृतकत्वं हि शब्दनित्यत्वसाधनेसाधु । असाधुचाग्न्यनुष्णत्वसाधने । तत्कस्माद्विशेषात्‌ । व्याप्तिपक्षधर्मताभावाभावाभ्यां इति चेत्कालातीतत्वस्यपृथग्दूषणत्वाभावापातात्‌ । ततो विषयवृत्तित्वतदभावरूप एव विशेषोवक्तव्यः । सचसमानः शब्देपीति । तदिदमुक्तं प्रत्यक्षवदनुमानवच्चेति । उक्तयुक्तीनां उत्प्रेक्षामूलकत्वशङ्कानिरासायोक्तार्थेप्रमाणमाह ॥ उक्तञ्चेति ॥ न केवलमस्माभिरेवोक्तं किन्तु भविष्यत्पर्वणिचोक्तमित्यथर्ः । ननु आगमाप्रामाण्यवादिनं प्रति कथं तत्प्रामाण्यसाधनायागमोपन्यासः । अन्योन्याश्रयादिति चेन्न । युक्तिभिरागमप्रामायस्या साधितत्वात्‌ । आगमस्य च दार्ढ्यार्थमुदाहरणात्‌ । यद्वा शिष्यापेक्षयायमुपन्यास इति न दोषः । कुतः प्रमाणात्‌ । तथाच प्रमाणाभावान्नागमामात्वमिति भावः । प्रत्यक्षादेरित्यनन्तरमिति शब्दोनुवर्तनीयः । आदि पदेनानुमानम्‌ । क्वकेनमानेन । प्रामाण्यग्राहकपरम्पराया अवस्थित्यभावेन कस्यापि प्रामाण्यस्य स्थितिः न भवेदित्यर्थः । स्वव्याहतिमप्याह ॥ अङ्गीकृतञ्चेति ॥ बौद्धादिभिरेवागमस्य प्रामाण्यानङ्गीकारत्‌ कथं सर्वैरित्युक्तमित्यत आह ॥ यत इति ॥ ननु तर्ह्यागाप्रामाण्ये स एवागमोमानं स्यात्‌ । तत्रागमाप्रामाण्यस्य कथितत्वादिति चेन्न । स्वव्याहतत्वात्‌ । वेदाद्यागमाप्रामाण्येस्वयं मानमिति चेन्न । प्रत्यक्षादिविरुद्धार्थप्रतिपादकत्वेन तेषशं वस्तुतो प्रामाण्यात्‌ । तर्हि प्रत्यक्षादिविरुद्धार्तप्रतिपादकस्यागमप्रामाण्यं कथमङ्गीकुवर्न्तीत्यत युक्तम्‌ ॥ विरोधेप्यक्षजादिनेति ॥ आग्रहमूलकस्तदङ्गीकार इति भावः । ननु सति प्रत्यक्षादि विरोधेस्वपक्षप्रामाण्याभ्युपगम आग्रहमूलकः । वस्तुतश्ऱ्चाप्रशणमिति स्यात्‌ । स एव कुत इत्यतस्तदुपपादयितुं प्रतिजानीते ॥ तत्प्रक्ष इति ॥ प्रत्यक्षादि विरोधकं यस्य सः प्रत्यक्षादि विरोधकः । आदिपदेनानुमानम्‌ । प्रत्यक्षविरोधेतावदुपपादयति ॥ शून्यतेति ॥ असत्त्वमित्यर्थः । जगत इति शेषः । साकं भावाभावात्मतेति स्याद्वादि मतम्‌ । भावात्मतासव्वमभावात्मताऽसत्त्वम्‌ । भावाभावात्मतासदसत्त्वमित्यर्थः । उपलक्षणमेतत्‌ । सदसद्वैलक्षण्यं सत्त्वे सति सद्वैलक्षण्यं असत्त्वेसत्यसद्वैलक्षण्यं सदसत्त्वे सति सदसद्वैलक्षण्यमित्यपि ग्राह्यम्‌ । साकं युगपदित्यर्थः । सदसद्वैलक्षण्यादिपक्षचतुष्ययेनसाकं भावाभावात्मेतेति वा । शरीरात्मत्वमेवेति चार्वाकमतम्‌ । भेदाभेदनिवृत्त्यर्थमेवकारः । शरीरात्मत्वविरोधिप्रत्यक्षमाह ॥ मद्देह इति ॥ शून्यताक्षणिकत्वभावाभावात्मताविरोधिप्रत्यक्षमाह ॥ भावरूपेति ॥ भावरूपं सत्त्वम्‌ । आदिपदेन केषाञ्चित्सत्वस्यैव केषाञ्चिदसत्वस्य केषाञ्चिद्देशकालादि भेदेन सदसत्त्वस्य ग्रहणम्‌ । ज्ञानमात्रत्वविरोधिप्रत्यक्षमाह ॥ ज्ञानाद्भेदस्येति ॥ घटादेरिति शेषः । घटं जानामीति ज्ञानाद्भेदेनार्थस्य दर्शनादित्यर्थः । ज्ञानार्थयोः क्षणिकत्वस्थायित्वोपलम्भादिति वार्थः । यदुक्तं शरीरात्मत्वं मद्देह इति प्रत्यक्षविरुद्धमिति तदसत्‌ । भेदप्रतीत्यसम्प्रतिपत्तेः । ममदेह इति व्यवहारस्य ममस्वरूपमितिवदौपचारिकत्वोपपत्तेरित्याशङ्कयाह ॥ देहेति ॥ देहभेदोदेहात्मभेदव्यवहारः । स्यादेवदेहात्मभेदव्यवहारस्यामुख्यत्वम्‌ । यदि देहात्मैक्येकिञ्चित्प्रमाणं स्यात्‌ । नच तदस्ति । कस्यापि देहोहमिति प्रतीत्यभावात्‌ । देहात्मत्वप्रतीत्यभावेपि देहधर्माणां वस्त्रमित्यादिव्यवहारवत्तस्यौपचारिकत्वोपपत्तौ देहात्मैक्यव्यवहारेमुख्यत्वाभावादिति भावः । ननु देहेत्मभेदव्यवहारस्य मुख्यत्वमभ्युपेत्यतदभेदव्यवहारस्यामुख्यत्वं वा कल्प्यम्‌ । अथ देहात्मैक्यव्यवहारस्य मुख्यत्वमभ्युपेत्यतद्भेदव्यवहारस्यमुख्यत्वं वा । विशेषप्रमाणाभावादिति चेन्न । मद्देह इति दर्शनादिति देहात्मभेदेप्रत्यक्षस्योक्तत्वात्‌ । प्रमाणान्तरञ्चाह ॥ जातिस्मृतीति ॥ आत्मनोदेहरूपत्वे साधनविशेषात्पूर्वजातिस्मृतिः न स्यात्‌ । पूर्वदेहहानौतददात्मनोनष्यत्वात्‌ । अस्य ततोन्यत्वात्‌ । नह्येकस्यानुभवोपरस्य स्मृतिरितियुज्यत इति भावः । विप्रतिपन्नाजातिस्मृतिः स्वजनकानुभवसमानाधिकरणास्मृतित्वात्सम्प्रतिपन्नस्मृतिवत्‌ इति प्रयोगोभिमतः । आत्मनोदेहरूपत्वाभावे प्रमाणान्तरमाह ॥ अनुष्ठायेति ॥ भोगोपक्षयानुष्यानस्य समानकर्तृत्वं स्वर्गापवर्गयोः पुंसां रसायां भुविसम्पदाम्‌ । सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनमित्यादि शास्त्राथर्ं देवतार्चनादिकमेवकस्मिन्‌ जन्मन्यनुष्याय जन्मान्तरेस्वर्गसम्पदादिफलभोगस्य प्रमाणेन दर्शनान्नयुक्तदेहरूपता । नह्येकस्य सम्पूर्णसाधनानुष्यानमन्यस्य फलभोगः । कृतविप्रणाशाकृताभ्यागमप्रसङ्गादिति भावः । अत्रापि विप्रतिपन्नः फलभोगः साधनानुष्ठातृनिष्ठः फलभोगत्वात्‌ सम्प्रतिपन्नफलभोगवदिति प्रयोगोभिमतः । तथा च देहात्मभेदसाधकैतत्प्रमाणानुरोधेन देहात्मैक्यव्यवहार एवौपचारिकोभ्युपगन्तव्य इति तात्पर्यम्‌ । एतेन देहात्मभेदमङ्गीकुर्वाणा आप तत्तद्देहनाशेतत्तद्देहपरिमाणकस्यात्मनोपि नाशावश्यं भावात्पूर्वोत्तरदेहगतात्मनोः भेदमङ्गीकुर्वन्तोपि परास्ताः । उक्तप्राणद्वयेन पूर्वोत्तरदेहानुस्यूतस्य कस्यैवात्मनः सिद्धेरिति । यद्वा तत्पक्षः प्रत्यक्षादि विरोधक इत्युक्तं तत्र शून्यतेत्यादिना प्रत्यक्षविरोधमुपपाद्येदानीमुपलक्षणत्वेन शरीरात्मत्वस्यानुमानविरुद्धत्वमाह ॥ जातिस्मृतीति ॥ चशब्दः प्रत्यक्षसमुच्चायकः । अनुमानप्रामाण्यं तेनाङ्गीकारयित्वा

?Rइदमुपन्यस्तमिति न कश्ऱ्चिद्दोषः । एवं सन्घटस्तदेवेदमिति प्रत्यक्षस्यापि बाधकाभावेनाभ्रान्तत्वमुपपादनीयम्‌ । एवं तत्पक्षेनुनविरोधोप्युपपादनीयः । अस्तु तत्पक्षः प्रत्यक्षादिविरोधकः किन्तत इत्यत आह ॥ प्रत्यक्षादेरिति ॥ सौगतद्याः सौगताद्यागमाः । न केवलं प्रत्यक्षानुमानविरुद्धत्वाद्दुरागमाः किन्त्वागमविरुद्धत्वाच्चेत्याह ॥ बह्विति ॥ ननु तेषामप्यागमत्वात्कथमेतद्विरुद्धत्वेन दुष्यत्वं तेष्त्तित्यत उक्तम्‌ ॥ बह्विति ॥ ननु सौगताद्यागमानां कथं बह्वागमविरोधः । तदागमविरुद्धत्वाभावात्तेषामित्यत आह ॥ प्रामाण्यमिति ॥ यैःशास्त्रैर्वेदानां प्रामाण्यं स्वीकृतं ते आगमाः । हि शब्दस्तत्र प्रमाणप्रसिद्धिद्योतकः । बौद्धाद्यागमास्तु वेदाप्रामाण्यप्रतिपादका इति नागमा इति भावः । कानितानिस्वीकृतवेदप्रामाण्यानिशास्त्राणि कथं च तेषशं बहुत्वमित्यत आह ॥ शतकोट्य इति ॥ अन्यत्स्मृत्यादिकम्‌ । अस्तु पञ्चरात्रादीनां बहुत्वं तद्विरोधः कथं बौद्धाद्यागमानाम्‌ । इत्यतो विरुद्धविषयत्वादित्यभिप्रेत्य प्रञ्चरात्रादि प्रतिपाद्यमाह ॥ सर्वेति ॥ यत्रेत्यस्यागाहित इति पूर्वेण सम्बन्धः । प्रायिकत्वाभिप्रायेण प्राचीनमागमलक्षणम्‌ । अत एव वक्ष्यति किञ्चित्प्रामाण्यसंयुतमितीति भावः । स्वागमस्य बहुत्वमुक्त्वा इतरागमस्याल्पत्वमाह ॥ विंशदेवेति ॥ तथा शब्दद्वयस्य श्ऱ्लोकानां विंशदेवसहस्राणीत्यर्थः । किन्तत इत्यत आह ॥ अत इति ॥ बहुमानविरुद्धत्वादित्यर्थः । तत्‌ बौद्दादिशस्त्रं तत्र व्याप्तिग्राहकं दर्शयति ॥ बहुमानेति ॥ अनेन व्याप्तौ ज्ञानिनां ज्ञानमेवप्रमाणमित्युक्तं भवति । ननु पञ्चरात्रादि विराधेन सौगताद्यागमाप्रामाण्ये एवतद्विरोधेन तदप्रामाण्यमेव किं न स्यात्‌ । उभयोरप्यागमत्वादिगुणसाम्यादित्यत उक्तम्‌ ॥ गुणासम्येपीति ॥ यथोक्तगुणसाम्येपि पञ्चरात्रादीनां बहुत्वेन प्रबलत्वात्‌ तद्विरोधेन साहगताद्यागमानामेवाप्रामाण्यं वक्तव्यमिति भावः । अभ्युपगम्येचेदमुक्तं । वस्तुतस्तुगुणसाम्यमेव नास्ति । एतेषां च तदभावात्‌ । तथाच विप्रतिपन्नं शास्त्रं न मानं गुणाधिकविरोधित्वात्‌ । इत्यभिप्रेत्यतत्र कैमुत्येन व्याप्तिमुपपादयति ॥ गुणाधिकेति ॥ यदागुणसाम्येपि यद्बहुमानविरुद्धं तन्न मानं तदायद्गुणाधिकविधितन्मानं नेति किमुवक्तव्यमिति विदोविदुरित्यन्वयः । बहुत्वप्रयुक्तप्राबल्यापेक्षयास्वभावप्रयुक्तप्राबल्यस्य बलवत्त्वादिति भावः । अत्रापि व्याप्तौ ज्ञानिनां ज्ञानमेव प्रमाणमित्युक्तं भवति । तथाप्यस्माकं कथं व्याप्तिसिद्धिरित्यतोनुमानद्वयेपि दृष्यान्तमाह ॥ यथेति ॥ ज्ञानत्वादिगुणतः समानानामपि निर्दोषज्ञानविरोधिसदोषज्ञानं यथेति । द्वितीयानुमानदृष्यान्तसमुच्चयार्थश्ऱ्चशब्दः । यथेत्युक्तमेव व्यक्तिविशेषनिष्ठतयोपपादयति ॥ प्रत्यक्षादाविति ॥ आदिशब्देनानुमानशब्दयोः ग्रहणम्‌ । यथेदं रजतमिति प्रत्यक्षं नेदं रजतमिति प्रत्यक्षेणदाहच्छेदादिलिङ्गेनतथाविधाप्तवाक्येन च विरुद्धमप्रमाणं यथावादिमतं मिथ्यादृश्यत्वादित्यनुमानं सदिति प्रत्यक्षेणप्रमाणदृष्यत्वाद्यनुमानेन विश्ऱ्वं सत्यमित्याद्यागमेन च विरुद्धमप्रमाणं यथावेदं रजतमिति भ्रान्तवाक्यं वाप्रपञ्चोमिथ्येति मायावादिवाक्यं वोक्तप्रमाणत्रयविरुद्धममानमिति । एवं सौगताद्यागमानां प्रत्यक्षादि विरुद्धार्थत्वेन वस्तुतोप्रामाण्यान्नतैर्वेदाद्यागमाप्रामाण्यसिद्धिरितित्युक्तम्‌ । न केवलं वेदाद्यागमाप्रामाण्येप्रमाणाभावः किन्तु तत्प्रामाण्ये प्रमाणञ्चास्तीत्याह ॥ तस्मादिति ॥ आगमाप्रामाण्यसाधकशास्त्राणाममानत्वादित्यर्थः । परस्परविरोधिज्ञानां मध्ये बहूनामेवप्रामाण्यदर्शनादिति भावः । एव शब्देन गुणाधिक्याभावेपिति सूचयति । कैमुत्येनापि तत्साधयति ॥ किं पुनरिति ॥ वाक्याप्रामाण्यं हि वक्तृदोषनिबन्धनम्‌ । वेदस्य चापौरुषेयत्वेन तदभावः सिद्धः । तथाच वेदोनाप्रमाणं अप्रामाण्यकारणदोषशून्यत्वात्प्रत्यक्षादिवत्‌ । तथाच ज्ञानकरणस्याप्रामाण्याभावेप्रामाण्यमेवसिद्धमिति भावः । पञ्चरात्रादेस्तदनुसारित्वेन प्रमाण्यसिद्धिरिति भावः । एवं यदाऽदोषत्वाख्यगुणादेववेदाः प्रमाणं किं पुनर्हेत्वन्तरादिति भावेनाह ॥ बलवदिति ॥ च शब्दोत्रापि सम्बध्यते । तदेवोपपादयति ॥ वेदोक्तेति ॥ वेदबाह्यानामाभिचारक्रियासम्बन्धाद्वेदोक्तकर्मयुक्तानां भविष्यत्फलस्य तथासिद्धिमतामपि सिद्धि(द्ध)फलस्य बाधोनास्तीत्यर्थः । ननु वेदोक्ताभिचारक्रियायोगेन वेदबाह्यकर्मसिद्धानामपि बाधाभावेसाम्यं स्यादित्याशङ्कापरिहारायोक्तमनुबदन्नधिकमप्याह ॥ वेदेति ॥ उक्तशङ्कापरिहारः ॥ असाध्यंवेति ॥ वेदोक्तकर्मानुष्यानेपि क्वचिद्दृष्यफलानुपलम्भस्तुकर्तृकरणादि वैगुण्यनिबन्धन एवेति भावः । ततो बलवत्कार्यसाधनात्‌ । ननु कथमत्र प्रयोगः । वेदाः प्रमाणं बलवत्कायर्साधनत्वादित्यत्र दृष्यान्ताभावेन व्याप्त्यभावात्‌ । अप्रयोजकत्वाच्चेति चेन्न । वेदाः स्वाविरुद्धशास्त्रापेक्षयाबलवन्तः तदपेक्षयाबलवत्कार्यसाधनत्वात्‌ । यद्यतो बलवत्कार्यसाधनं तत्ततोबलवदिति सामान्यव्याप्तेः । एवञ्च विरुद्धशास्त्रापेक्षयाप्राबल्येप्रामाण्यं निश्ऱ्चितमेवेति ॥ सौगताद्यागमाः प्रत्यक्षानुमानागमविरुद्ध इत्युक्तम्‌ । तत्तेषां स्वरूपाज्ञानेन ज्ञातुं शक्यमिति प्रत्यक्षादिस्वरूपप्रदर्शनायोत्तरोग्रन्थसन्दर्भः । तत्र तावत्प्रस्तुतत्वादनुप्रमाणं विभागेनोद्दिशति ॥ प्रत्यक्षमिति ॥ प्रमा अनुप्रमाणम्‌ । प्रायेणासन्नाव्यवहितवतर्मानकतिपयार्थग्राहकं प्रत्यक्षम्‌ । अनासन्नातीतानागतव्यवहितार्थगोचरमनुमानम्‌ ।

?Rस्वातन्त्ऱ्ेणाशेषार्थविषय आगम इत्यर्थ ग्रहणक्रमेणोद्देशः । ननु कथं त्रीण्येवप्रमाणानि । उपमानार्थापत्त्यादीनां पृथक्प्रमाणत्वादित्यत आह ॥ उपमाद्यमिति ॥ हि यस्मादन्तर्गतं तस्मात्रिधेति सम्बन्धः । तत्र प्रत्यक्षलक्षणमाह ॥ निर्दोषेति ॥ यद्यपि विषयान्प्रतिस्थितंह्यक्षं प्रत्यक्षमिति गीयते । प्रत्यक्षशब्दानुसारादनुमेति प्रकीर्तिता । आसमन्ताद्गमयति धर्माधौपरम्पदम्‌ । यच्चाप्यतीन्द्रियं त्वन्यत्तेनासावागमः स्मतः । इत्युक्तरीत्यासंज्ञानिरुक्त्यैवैषां लक्षणसिद्धिः । इन्द्रिय शब्देन ज्ञानेन्द्रियमुच्यते । निर्दोषत्वमिन्द्रियार्थयोर्विशेषणम्‌ । अर्थशब्देन तत्तदिन्द्रियविषय उच्यते । अत्रार्थग्रहणेनाकाशादीनां च क्षुरादिसन्निकर्षव्युदासः । निर्दोषत्वग्रहणेनातिसामीप्यादिदोषयुक्तार्थानामिन्द्रियसन्निकर्षनिरासः । सन्द्रियग्रहणेनार्थानामेवान्योन्यं सन्निकर्षव्युदासिः । तन्निर्दोषत्वग्रहणेन मनोनधिष्ठितत्वादि दोषवदिन्द्रियाणशं अर्थसन्निकपर्षव्यावृत्तिः । सन्निकर्ष इतीन्द्रियमात्र व्युदासः । गीयत इति स्वीयलक्षणस्य प्रामाणिकत्वोक्त्या अपरोक्षप्रमाव्याप्तं प्रत्यक्षमित्यादि परेषां लक्षमयुक्तमित्युक्तं भवति । सर्वस्यापि प्रमेयस्येश्ऱ्वरापरोक्षप्रमाव्याप्तत्वेनाति व्यापकत्वात्‌ । साधनाश्रययोरन्यतरत्वे सतीति विशेषणमिति चेन्न । साधनाश्रयययोरेवप्रमाव्याप्तिः सम्भवतीत्येतावतातदुपादानम्‌ । न लक्षणशरीरानुप्रवेशेने

?Rति त्वदुक्त्ययोगात्‌ । आश्रयग्रहणवैयर्थ्याच्च । ईश्ऱ्वरस्यापि प्रत्यक्षत्वसिध्यर्थमिति चेत्‌ । कर्तरिल्युडन्तस्य प्रमाणशब्दस्याननुशासनेनेश्ऱ्वरप्रामाण्यस्यैवायुक्तत्वादिति । अनुमानलक्षणमाह ॥ निर्दोषयुक्तिरिति ॥ अत्रोपपत्तिर्युक्तिलिङ्गं व्याप्यमिति पर्यायः इति पद्धत्युक्तरीत्यायदियुक्तिशब्दोव्याप्यपरः तदाऽसिद्धिव्युदासार्थं निर्दोषग्रहणम्‌ । यदाचोपपत्तिरिति लिङ्गमुच्यते साहचर्यबलेनार्थगमकं लिङ्गमिति प्रमाणलक्षणटीकारीत्यायुक्तिशब्दोव्यभिचारादिसाधारणलिङ्गमात्र वचनः तदातद्वयावृत्त्यर्थं निर्दोषग्रहणं कृतमिति ज्ञातव्यम्‌ । नचैवमनुमायुक्तिरेवोक्तेत्यनुव्याख्यानेन नतु निर्दोषत्वविशेषितेति सुधयाचविरोध इति वाच्यम्‌ । तत्र युक्तिशब्दस्य यथार्थानुमिति जनकत्वरूपमुख्यार्थस्य विवक्षितत्वात्‌ । अत्र च तदभावात्‌ । अत एवोक्तं सुधायाम्‌ । अत्र पुनरन्तर्गतनिर्दोषत्वं मुख्यमेवार्थमुपादाययुक्तिरित्येवोक्तमिति युक्तिग्रहणं प्रत्यक्षादिव्युदासार्थम्‌ । आगमलक्षणमाह ॥ तादृशोक्तिरिति ॥ निर्दोषोक्तिरित्यर्थः । अत्र निर्दोषः शब्द आगगम इत्रत प्रमाणलक्षणरीत्योक्तिशब्दः शब्दमात्र परः । ततश्ऱ्च निरभिधेयत्वेनान्वयाभावेन वा अबोधकत्वं विपरीतबोधकत्वं ज्ञातज्ञापकत्वं अप्रयोजनत्वं अनभिमतप्रयोजनत्वं अशक्यसाधनप्रतिपादनं लुघूपायेसति गुरूपायोपदेशनं इत्यादि दोषयुक्तशब्दव्यावृत्त्यर्थं निर्दोषग्रहणम्‌ । वाक्यमेवागमः शुभमिति वक्ष्यमाणरीत्यावाक्यपरो वा । विभक्त्यन्तावर्णाः पदम्‌ । आकाङ्क्षासन्निधियोग्यतावतां पदानां समूहोवाक्यम्‌ । तत्र यदि पद्धत्युक्तरीत्यापूर्वपदसञ्जाताकाङ्क्षापूरकत्वमात्रमाकाङ्क्षावत्त्वं अविलम्बेनोच्चारितत्वमात्रं सन्निहितत्वं प्रमाणाविरुद्धप्रतीतान्वयप्रतियोग्यर्थप्रतिपादकत्वं योग्यतेत्याकाङ्क्षादेर्लक्षणम्‌ । तदापदत्वेनानभिधेयत्वस्याकाङ्क्षासन्निधिभ्यामन्वयाभावस्य योग्यतयाविपरीत बोधकत्वस्य च निरासेपि ज्ञातज्ञापकत्वाद्यशेषदोषनिरासाथर्ं निर्दोषग्रहणम्‌ । यदि प्रमाणलक्षणटीकोक्तरीत्याश्रोतुराकाङ्क्षिताभिधायकत्वं पूर्वपदसञ्जाताकाङ्क्षापूरकत्वं चाकाङ्क्षावत्त्वं सन्निहितार्थाभिधायकत्वं अविलम्बेनोच्चारितत्वं च सन्निहितत्वं अन्योन्यान्वययोग्यतावदर्थाभिधायकत्वं योग्यतेत्याकाङ्क्षासन्निधियोग्यतानां लक्षणं तदापदत्वेनानभिधेयत्वास्य आकाङ्क्षयानभिमतप्रयोजनत्वान्वयाभावयोः सन्निधिनाऽशक्यसाधनप्रतिपादनान्वयाभावयोः योग्यतया विपरीतप्रतीतान्वयायोग्यार्थप्रतिपादकत्वस्य च निरासेपि आगाभासव्युदासाथर्ं निर्दोषग्रहणमित्यवधेयम्‌ । तथा शब्द उपमायाम्‌ । प्रत्यक्षादिकमिवोक्तिरप्यदुष्येति । उक्तानिलक्षणानि किं रूपाणीति जिज्ञासायामाह ॥ मानमिति ॥ विशेषेणैव मानं लक्षितमित्यर्थः । यद्यपि सामान्यलक्षणोक्तिपूर्वकं विशेषलक्षणाभिधानं प्राप्तं प्रतिपत्तिसौकर्यात्‌ । तथापि सामान्यस्य व्यवहारेष्वनुपयोगाद्विशेषाणामेवतदुपयोगाद्विशेषलक्षणान्येवादावुदितानीति भावः । नन्वेतेष्वेवं परस्परविलक्षणेषु प्रत्यक्षादिष्वेकस्य प्रमाणशब्दस्य वृत्तिः कथमित्यतः सामान्यलक्षणप्रयोगादिति भावेनानुप्रमाणसामान्यलक्षणमाह ॥ निर्दोषेति ॥ मानञ्चैवेत्येतदनुवर्तते । सामान्यतोमानं च निर्दोषज्ञानसाधनमेवेत्यर्थः । एव शब्देन प्रमाव्याप्तं प्रमाणमित्यादिपरोक्तलक्षणानां दुष्यत्वमभिप्रैति । निर्दोषञ्च ज्ज्ञानं च निर्दोषज्ञानं तस्य साधनमिति विग्रहः । ननु यादृच्छिकसंवादिलिङ्गविभ्रमादिष्वति व्याप्तिः । तस्यापि ययार्तज्ञानसाधनत्वादिति चेन्न । यज्जातीयेसति नियमेन प्रमोत्पद्यते तस्यैवात्रसाधनत्वेन विवक्षितत्वात्‌ । यद्वा निर्दोषञ्च तज्ज्ञानसाधनञ्चेति निर्दोषत्वं साधनविशेषणम्‌ । यथार्थज्ञानकरणस्यापि तस्य भ्रमत्वरूपदोषसत्वेन नातिव्याप्तिः । अनेने ज्ञातज्ञावाक्यादावपि प्रमाणलक्षणस्यातिव्याप्तिर्निरस्ता । यथार्थज्ञानकरणस्यापि तस्य ज्ञातज्ञापकत्वादिरूपदोषयुक्तत्वात्‌ । ननु ज्ञातज्ञापकवाक्यादेरलक्ष्यत्वमेवनास्ति येन तत्रातिव्याप्ति शङ्कास्यात्‌ । तता सति स्मृत्यनुवादयोः नाप्रामाण्यमित्यादि विरोधापत्तेरिति चेन्न । अयथार्थज्ञानसाधनत्वाभावमात्रस्य तत्र

?Rविवक्षितत्वात्‌ । नच तावतावाक्यस्य प्रामाण्यम्‌ । तज्जन्यज्ञानस्य यथार्थत्वनियमेपि वाक्यस्य दुष्यत्वेन भ्रान्तप्रतारकवाक्यवदप्रामाण्यात्‌ । अत एव पद्धत्यादौनिर्दोषः शब्द आगमः इत्यत्र निर्दोषग्रहणेन ज्ञातज्ञापकादिवाक्यमागमाद्बहिष्कृतम्‌ । अत एव सुधायां पारिभाषिकसाधनत्वविवक्षयैव यादृच्छिकसंवादिष्वतिव्याप्तिपरिहारेपि ज्ञातज्ञापकवाक्यादेरपि व्यावर्त्यत्वाभिप्रायेण यदानिर्दोषतयासाधनं विशिष्यत इति पक्षान्तरमुक्तम्‌ । ननु प्रमाणलक्षणादौ तत्साधनमनुप्रमाणति यथार्थज्ञानसाधनत्वस्यैवानुप्रमाणत्वेनोक्तत्वात्कथमेतदिति चेन्न । तत्रापि निर्दोषतयासाधनस्य विशेषणीयत्वात्‌ । ततात्वे निर्दोषं ज्ञानसाधनमनुप्रमाणमित्येवास्तु । कृतं यथार्थेति ज्ञानविशेषणेनेति चेन्न । तत्फलितार्थस्यैव निर्दोषग्रहणेन वर्णितत्वात्‌ । निर्दोषकरणजन्यं ज्ञानं याथार्थ्यं न व्यभिचरतीति स्वरूपकथनं वा तदिति । एवञ्च निर्दोषत्वे सति ज्ञेयविषयीकारित्वमेव प्रमाणसामान्यलक्षणमिति न ज्ञातज्ञापकवाक्यादौ तस्यातिव्याप्तिरिति । उपमाद्येतेष्वन्तर्गतमित्युक्तम्‌ । तत्र कस्य कुत्रान्तर्भाव इति जिज्ञासायामाह ॥ अर्थापत्तिरिति ॥ आदिशब्देन परिशेषोपक्रमादेः ग्रहणम्‌ । एवकारः पृथक्‌ प्रमाणत्वव्यावृत्त्यर्थः । अनुपपद्यमानार्थदर्शनात्तदुपपादके बुद्धिरर्थापत्तिः । यथाजीवं श्ऱ्चैत्रोगृहेनास्तीति ज्ञानेजाते सति बहिर्भावज्ञानम्‌ । अत्र यद्यप्येकैकस्बहिर्भावेलिङ्गत्वं नोपपद्यते । व्यभिचारात्‌ । तथापि चैत्रोबहिरस्ति जीवित्वेसति गृहेऽसत्वात्‌ । यो जीवन्यत्र नास्तिसततोन्यत्रास्ति यथाहम्‌ । इति मिलितयोः जीव न गृहाभावयोः लिङ्गत्वमुपपद्यत एव । विरुद्धयोः विशेष्यविशेषण भावानुपपत्तिरिति चेन्न । सामान्यविशेषयोरविरोधस्य स्वस्मिन्नेवदृष्यत्वात्‌ । आत्यन्तिकविरोधेत्वर्थापत्तिरपि न प्रवर्तते । किन्तु विप्रतिपत्त्यासन्देह एव भवतीति । सादृश्यज्ञानसाधनमुपमानमिति मीमांकाः । तत्र तेनायं सदृश इति सदृशाविमाविति वा ज्ञानं प्रत्यक्षजम्‌ । गोगवयौ सदृशाविति वाक्यजं त्वागमएवेति स्फुटमेव । गृह्यमाणेस्मर्यमाणगतसादृश्यं दृष्ट्वास्मर्यमाणे यद्गृह्यमाणसादृश्यं प्रत्येति तदनुमानमेव । स गौरेतद्गवयसदृशोऽस्य गवयस्य तद्गोसदृशत्वात्‌ । यो यत्सदृशः सतत्सदृशः यथायमोयमान्तरेणेति प्रयोगात्‌ । व्याप्तिसत्त्वेवैयधिकरण्यस्यादोषत्वात्‌ । एतद्गवयगतसादृश्यप्रतियोगित्वस्य वा लिङ्गत्वेन सामानाधिकरण्याच्च । बहुलज्ञानेऽल्पज्ञानं सम्भवः । यथाशतमस्यास्तीति ज्ञानेपञ्चाशज्ज्ञानम्‌ । तदप्यनुमानमेव । देवदत्तः पञ्चाशद्वान्‌ शतवत्त्वात्‌ । इति प्रयोगोपपत्तेः । प्रसक्तप्रतिषेधेपरिशिष्यमाणे बुद्धिः परिशेषः । यथादेवदत्तय यज्ञदत्ताविति ज्ञानेसति एकस्मिन्नायं यज्ञदत्त इति प्रतिषेधे देवदत्तत्वबुद्धिः । इयमप्यनुमान जन्या । अयं देवदत्तः देवदत्तययज्ञदत्तयोरन्यतरत्वे सति अयज्ञदत्तत्वात्‌ । व्यतिरेकेणयज्ञादत्तवत्‌ । इति प्रयोगोपपत्तेरिति । उपक्रमादीनामपि व्याप्तिसापेक्षतया तात्पर्यनिर्णायकत्वादनुमानत्वमेति । अभावप्रमिति साधनमभावाख्यं प्रमाणम्‌ । तस्य च नार्थापत्त्यादिवदनुमानमात्रेन्तर्भावः सम्भवतीति भावेन तस्य पृथगन्तर्भावमाह ॥ दुःखाद्यभाव इति ॥ दुःखाद्याभावविषयमित्यर्थः । बाह्यगःप्रत्यक्षयोग्यबाह्यार्थपअतियोगिकाभावगोचरः । न केवलं प्रत्यक्षं9 किन्त्वनुमाच । परोवृत्तिघटाभाव प्रमितिः खडिति जायमानाप्रत्यक्षफलमेव । नत्वनुपलब्धिमात्र जन्या । अपरोक्षज्ञानत्वात्‌ । अनुपलब्धिस्त्ववर्जनीयसन्निधिरेव । अनुमेत्युक्तमुपादयति ॥ योग्यस्येति ॥ यत्र अन्धकारेहस्तप्रसारणादिरूपपरामर्शेन घटाभावं प्रत्येति । तदाभवत्येवानुपलब्धिः । बाह्यगाबाह्यार्थप्रतियोगिकाभावगोचरा । किन्तु युक्तिरेव न पृथक्‌ । अत्र घटो नास्ति योग्यत्वे सत्यनुपलभ्यमानत्वादिति प्रयोगसम्भवात्‌ । यन्नोपलभ्यते तन्नास्तीत्यस्यातीन्द्रियेषु व्यभिचारादुक्तं योग्यस्येति । प्रत्यक्षयोग्यस्येत्यर्थः । अतीन्द्रियार्थप्रतियोगिकाभावज्ञानस्यानुमानागमजन्यतायामविवादात्तन्नोक्तम्‌ । दुःखाद्यभावग्राहकं प्रत्यक्षमित्युक्तं तद्विशदयति ॥ मनस इति ॥ अभावोदुःखाद्यभावः रूप्यते विषयीक्रियते येन तदभावरूपं प्रमाणं दुःखादि रहितात्मनो मनसोयः सम्प्रयोगः तदअूपं प्रत्यक्षमित्यर्थः । ननु दुःखाद्यभावः प्रत्यक्षमित्यसत्‌ । संयोगसमवाययोरसम्भवेनाभावस्येन्द्रियसन्निकर्षानुपपत्तेरिति चेन्न । मनस्संयुक्तात्मविशेषणतारूपसन्निकर्षसम्भवात्‌ । अत एव दुःखादिरहितात्मनोमनसः संप्रयोग इति दुःखाद्यभाव आत्मविशेषणतयोक्तः । अभ्युपेत्यचेदमुदितम्‌ । भाववदभावस्यापि साक्षादिन्द्रियसन्निकर्षेबाधकाभावात्‌ मनसोदुःखाभावेन संयोगोपपत्तेरिति । नन्वेकं तत्रानुभवत इत्यादौ दुःखाद्यभावस्य साक्षिवेद्यत्वोक्तेः कथं मनोवेद्यत्वमित्यतो न वयं तार्किकादिवत्साक्षिभिन्नमनोवेद्यत्वं ब्रूमो येनापसिद्धान्तः स्यात्‌ । किन्तु चचेतनात्मकमनोबेद्यत्वमित्याशयेन मनोद्वैविध्यमाह ॥ मनश्ऱ्चेति ॥ प्रसङ्गादाह ॥ चक्षुराद्यमिति ॥ चक्षुराद्यञ्च तथैवोविधेन्द्रियवत्त्वं सर्वेषामस्ति नेत्याह ॥ मुक्तानामिति ॥ इन्द्रियमित्यनुवर्तते । मुक्तशब्देन संसारसंसर्गाभाववच्चेतनाविवक्षिताः । तेनेश्ऱ्वरादि सङ्ग्रहः । मन आदीन्द्रियाणामात्मस्वरूपत्वे मनसः संप्रयोगोयादुःखादि रहितात्मन इत्ययुक्तम्‌ । स्वेन स्वस्य संयोगानुपपत्तेदर्शनमित्यत आह ॥ रत्नस्येति ॥ ननु दृष्यान्तदार्ष्यान्तिकयोरुभयत्र

?Rभेदाभावे तद्वयाप्तः संयोगः कथमित्यत आह ॥ विशेष इति ॥ अभिन्नेपि भेदकार्यकारीति शेषः । ननु विशेषसद्भाव एव किं मानमित्यत आह ॥ विशेषादिति ॥ व्यवहारविशेषाद्विज्ञेय इति सम्बन्धः । तत्र प्रत्यक्षञ्चाह ॥ दृष्यिगोचर इति ॥ विशेषादित्युक्तमेवव्यवहारान्यथानुपपत्तिरूपप्रमाणं दर्शयति ॥ विष्णोरेवेति ॥ विष्णोरिति पञ्चम्यन्तं षष्ठयन्तञ्च । स्वरूपाणां मत्स्यादीनाम्‌ । त्रयाणामेवशब्दानां स्वरूपाणामेवतद्गुणानामेव शिर आदीनामेवेति सम्बन्धः । तथाशब्दस्समुच्चये । चशब्दः परस्परञ्चेत्यनुक्तसमुच्चये । कश्ऱ्चनाभेदसहितस्तदसहितो वा । किन्तत इत्यत आह ॥ अभेदेपीति ॥ पृथग्व्यवहारः भेदव्यवहारः । विष्ण्वंशानां तद्गुणानां तदवयवानां च विष्णुनापरस्परञ्च नास्तिभेदः । नेहनानास्तिकिञ्चनेति श्रुतेः । अस्तिच भेदकार्यभूतो व्यवहारः । अवतारामहाविष्णोः आनन्दं ब्रह्मणोविद्वान्‌ तस्य प्रियमेवशिरः इत्यादिः । अतस्तदुभयान्यथानुपपत्त्याभेद प्रतिनिधिरूपोविशेषः स्वीकार्य इति भावः । स्वरूपाणामेवेत्याद्येवकारव्यावर्त्यं दर्शयति ॥ विष्णोरिति ॥ यद्वा यदि विष्णोस्तत्स्वरूपादिभिरभेदमङ्गीकृत्यभेदव्यवहारोविशेषबलादुपपादनीयस्तर्हि विष्णोः जडजीवादिभिरप्यभेदमङ्गीकृत्य तत्रापि भेदव्यवहारोविशेषबलादेवकुतो नोपपादनीय इत्यत आह ॥ विष्णोरिति ॥ श्रियोदुःखस्पृष्यत्वलक्षणजीवत्वाभावात्पृथग्ग्रहणम्‌ । नह्यस्माभिः अकस्माद्विशेषोङ्गीक्रियते । किन्तु भेदाभावेनुपचरितभेदव्यवहारेच प्रमिते सति । नच विष्णोः जडजीवादिभिः भेदाभावः प्रमितः । तत्वमसीत्यादिवाक्यानां सम्यग्व्याख्यातत्वात्‌ । प्रत्युतप्रागुदाहृतप्रमाणैः भेद एव प्रमितः । तथाच साक्षाद्भेदेनैव भेदव्यवहारोपपत्तौ भेदहीनेनुपचरितभेदव्यवहारनियामको विशेषोनाङ्गीकायर् इति भावः । व्यवहारान्तरान्यथानुपपत्तिमपि विशेषे प्रमाणमाह ॥ विष्णोः क्रिया इति ॥ तैः ताभिः । अभेदेपि विशेषेणेत्येतदत्रापि सम्बध्यते । अस्तितावद्विष्णोः स्वक्रियादिभिरभेदः । स्वाभाविकीज्ञानबलक्रियाचेति श्रुतेः । अस्तिच विष्णोः क्रिया इत्यादि भेदव्यवहारः । अतस्तदुभयान्यथानुपपत्त्याविशेषोङ्गीकार्य इत्यर्थः । किञ्चानादि नित्यविष्ण्वभिन्नक्रियाणा स इदं सर्वमसृजतेत्यादिकादाचित्कव्यवहारोस्ति । नह्ययं विशेषाङ्गीकारमन्तरेणोपपद्यते । नच शक्त्यात्मनानादिनित्यानामपि क्रियाणां व्यक्त्यात्मनाकादाचित्कत्वव्यवहारोपपत्तिरिति वाच्यम्‌ । शक्तिव्यक्त्योः परस्परं भेदेशक्तिरेवनित्याक्रियात्वनित्येति प्राप्त्यातयोरभेदेङ्गीकार्येशक्त्यानित्यत्वव्यवहारोव्यक्त्याकादाचित्क व्यवहार इति भेदकार्यनिर्वाहाथर्मपि विशेषस्याङ्गीकार्यत्वादित्यभिप्रेत्याह ॥ कादाचित्कत्वमपीति ॥ न केवलं भेदव्यवहारः । किन्तु आसांक्रियाणां कादाचित्कत्वव्यवहारोपीत्यर्थः । एतद्वयवहारविशेषेणापि विशेषमुपपादयितुं विष्णोरेव स्वरूपाणामित्यत्र क्रियानोक्ता । उक्तन्यायमन्यत्राप्यतिदिशति ॥ एवमिति ॥ ऐक्यं नित्यं नियतमेव अस्तिच पृथग्व्यवहारः । अतस्तत्रापि विशेषेङ्गीकायर् इति भावः । विमुक्तेति जीवविशेषणोक्तेः प्रयोजनमाह ॥ भेदाभेद इति ॥ गुणैश्ऱ्चिन्तादिभिः कर्मभिः धर्माधर्मलक्षणादृष्यैः । भेदाभेदयोः कानिस्थलानीत्याशङ्कायां सङ्कलय्याह ॥ अंशांशिनोरिति ॥ उपादानातिरितांशाभावात्किमस्य पृथग्ग्रहणे नेति चेन्न । प्रत्यक्षत एव पटाद्यंशिनान्तं त्वाद्यतिरिक्तहस्तवितस्त्याद्यंशप्रतीतेः । किञ्चाकाशस्य तावदंशाः सन्तीत्यङ्गीकार्यम्‌ । अन्यथाऽऽकाशे विहगशरीरभावाभावयोरवस्थानायोगात्‌ । ननु संयोगः स्वात्यन्ताभावसमानाधिकरण इति निरंशेप्याकाशषविगशरीरसंयोगतदभावयोरवस्थानं युक्तमिति चेन्न । विरोधात्‌ । अन्यथा सर्वत्र भावाभावविरोधाभाव प्रसङ्गः । नचैकस्मिन्नेववृक्षे यथाग्रावच्छेदेन कपिसंयोगोमूलावच्छेदेन तदभावस्तथात्राप्यवच्छेदकमेदेनाविरोध इति वाच्यम्‌ । अवच्छेदकप्रदेशस्यैवांशत्वात्‌ । नच स उपाधिकृत इति न स्वाभाविक इति वाच्यम्‌ । उपादेरपि विहगशरीरसमानयोगक्षेमत्वात्‌ । नचाकाशस्योपादानकारणमस्ति । तस्मात्कार्यकारणातिरक्तांशांशिनावङ्गीकार्यावित्युपपन्नं पृथग्ग्रहणम्‌ । कार्यमुपादेयं पटादि । केचित्परमाणव एव तथातथासन्निकृष्याः पटादिषुबुद्धिविषयाः । नतु पटोनामात्रास्तीति ब्रुवते । अन्येतु कार्यकारणयोरत्यन्तभेदम्‌ । तदुभयनिरासायैवकारः । नन्वेतत्पूर्वोक्तविरुद्धम्‌ । विष्णुमुक्तनां तत्तदंशगुणक्रियादिभिरत्यन्ताभेदस्योक्तत्वात्‌ । इत्यतो भेदाभेदावच्छेदकमाह ॥ विनाश इति ॥ तथापि यत्रांशांश्यादीनां सहैवविनाशः तत्र भेदाभेदाभावात्‌ उक्तमनुपपन्नमित्यत उक्तम्‌ ॥ एकस्मिन्निति ॥ तयोरंशांशिप्रमुखयोः मध्ये । एकस्मिन्नंश्यादौ विद्यमानेपि एकस्यांशादेः विनाशोयत्र दृश्यते तत्र भेदाभेद इति सम्बन्धः । देहाद्यंशिनि विद्यमानेपि हस्ताद्यंशस्य पटाद्यंशेषुहस्तवितस्त्याद्यात्मकखण्डपटेषु तन्तुषु वासत्सु अंशिनः पटादेश्ऱ्च विनाशदर्शनात्‌ कस्यचिदित्युक्तम्‌ । यथादेहाद्यंशिनोहस्ताद्यंशैः । सत्यपि देहादौ हस्ताद्यपगमात्‌ । यथाचूतफलादेः गुणिनःश्यामरूपादिभिः । सत्यपि तस्मिन्पाकावस्थायान्तदपगपात्‌ । यथावापटस्य चलनादिभिः । सत्यपि तस्मिंस्तदभावात्‌ । यथावापटादेस्तंत्वादिभिः । प्रागूर्ध्वं सत्स्वपि तन्तुषु पटस्याभावात्‌ । यथाचब्राह्मणस्य ब्राह्मणत्वेन । महापातकेन जातेरपायात्‌ । नन्वेयं सत्यत्यन्ताभेदः

?Rकुत्राङ्गीकार्य इति चेत्‌ अंशांशादिष्वेवेति ब्रूमः । नच विरोधोऽवच्छेदकभेदेनाविरोधादिति भावेनात्यन्ताभेदावच्छेदकमाह ॥ अविनाभावेति ॥ B-9

?R्यामरूपादीनां चूतफलादिभिरविनाभावेपि अत्यन्ताभेदाभावान्नियमपदम्‌ । तेन परस्पराविनाभावोलभ्यत इत्रत नोक्तदोषः । अविनाभावश्ऱ्चात्रकालिकोविवक्षित इति न कश्रिचत्क्षुद्रोपद्रवः । यत्रांशांश्यादिषु परस्पराविनाभावस्तत्रात्यन्ताभेद इत्यथर्ः । अत्रोदाहरणानिविष्णोरेवस्वरूपाणामित्यादिनाप्रागुक्तान्येव । व्यक्तिसामान्ययोः यथाघटघयत्वयोः । ननु स्वेनाभेदोन्येन भेद इति भेदाभेदस्य सर्वत्र सत्त्वात्किं विशिष्योच्यते । विनाशोयत्र दृश्यते तत्र भेदाभेद इतीत्यतोभिप्रायमाह ॥ अभेदश्ऱ्चेति ॥ स्वेनाभेदोन्येन भेद इति न भेदाभेद शब्दार्थोविक्षितः । येनोक्तदोषः । किन्तु यत्र स्वभिन्नेनाभेदश्ऱ्च एक प्रतियागिक एव भेदाभेदश्ऱ्चेति यावत्‌ । तत्रैव भेदाभेद इति नोक्तदोत्वादिसमुदायं विना । कुतोनेति चेत्‌ । विष्णोः भेदाभेदः किं जीवजडप्रतियोगिको वा उत स्वस्वरूपगुणप्रतियोगिको वा नाद्य इत्याह ॥ भेद एवत्विति ॥ द्वितीयं दूषयति ॥ केवलाभेद इति ॥ ननु विष्णोः स्वरूपादिषु विद्यमानस्य विशेषस्य तदभिन्नत्वे विशेष विशेषिभाव व्यवहारानुपपत्तेस्तद्भेदोवाच्यः । अतः कथं केवल अभेद आत्मनीत्युक्तमित्यत आह ॥ स्वरपेष्विति ॥ नन्वथापि केवलाभेद आत्मत्मनीत्युयुक्तम्‌ । विष्णोः स्वक्रियादिभिरत्यन्ताभेदायोगात्‌ । विष्णोः नित्यत्वात्तत्क्रियाणाञ्चानित्यत्वात्‌ । नित्यानित्ययोश्ऱ्च केवलाभेदायोगात्‌ । तथाच तत्र भेदाभेद एवाङ्गीकार्य इति न क्वापीति कथमुक्तं इत्यत आह ॥ क्रियाणाञ्चेति ॥ विष्णुसमुच्चयार्थश्ऱ्चशब्दः । विष्णुक्रियाणामित्यर्थः । नन्दीश्ऱ्वरस्य परिस्पन्दरूपक्रियाया एवाभावेन तदनित्यत्वशङ्कातत्परिहारश्ऱ्चेति द्वावप्यनुपपन्नौ । नच ज्ञानादिरूपधात्वर्थक्रियाणां विनाशाभावः साधनीयः । ईश्ऱ्वरज्ञानादि नित्यत्वस्य परेणाप्यभ्युपगतत्वादिति चेन्न । ईश्ऱ्वरस्य परिस्पन्दाभावे प्रमाणाभावात्‌ । परममहत्परिमाणेन तत्साधनस्याणुमध्यमपरिमाणाभ्यां सत्प्रतिपक्षत्वात्‌ । असिद्धिशङ्काया उभयत्रापि साम्यात्‌ । महतोमहीयानिति श्रुतत्वान्नासिद्धिरिति चेत्‌ । अणोरणीयानितीतरस्यापि श्रुतत्वात्‌ । अणोरणीयस्त्वमप्रत्यक्षत्वोपलक्षकमिति चेत्‌ । महतोमहत्त्वमपि पूज्यत्वमिति किं नस्यात्‌ । विरोधादुभयाङ्गीकारोनोचित इति चेत्‌ । प्रमाणाभावात्‌ । नतावत्तत्र प्रत्यक्षमस्ति । ईश्ऱ्वर तत्क्रिययोरप्रत्यक्षत्वात्‌ । नाप्यनुमानम्‌ । लिङ्गाभावात्‌ । क्रियात्वं लिङ्गमिति चेत्तद्यदिधात्वर्थत्वं तदाज्ञानेच्छाप्रयत्नैः सत्तया च व्यभिचारात्‌ । यदि च परिस्पन्दत्वं तदानीमीश्ऱ्वरपरिस्पन्दानामपि नित्यत्वेन व्यभिचारात्‌ । विपक्षेबाधकाभावेनाप्रयोजकत्वाच्च । अन्यथाज्ञानत्वादिनाज्ञानाद्यनित्यतासाधनसौलभ्यात्‌ । नच ज्ञानानित्यत्वे धर्मिग्राहकप्रमाण बाधः । केवलानुमानस्य तस्याप्रामाण्यात्‌ । आगमस्य तत्रापि साम्यात्‌ । कार्यत्वस्योपाधित्वाच्च । नच पक्षेपि तत्साधनीयम्‌ । तदकार्यत्वस्य श्रुतत्यादिसिद्धत्वेन बाधात्‌ । ईश्ऱ्वरक्रियाऽनित्याऽसत्यावरणशदौ प्रागूर्ध्वमनुपलभ्यामानत्वात्‌ । कदाचिदेवोपलभ्यमानत्वाद्वघटादिवदिति चेन्न । प्रत्यक्षेणानुपलम्भस्याकाशादौ व्यभिचारात्‌ । योग्यतयाविशेषणेऽसिद्धेः । प्रमाणमात्रेणानुपलम्भस्यासिद्धत्वात्‌ । आगमादिनोपालम्भात्‌ । अत एव द्वितीयहातुरप्यसिद्धः । वर्णनित्यत्ववादेऽनैकान्तिकश्ऱ्च । नाप्यागमः । तदभावात्‌ । स इम?ाल्लोकानसृजतेत्यादेस्सऐक्षतेत्यादि वाक्यसमानयोगक्षेमत्वात्‌ । नन्वथापि ईश्ऱ्वरक्रियाविनाशाभावोन युक्तः । बाधकसद्भावात्‌ । तथाहि यदि सृष्यिसमये संहारादि क्रियाविद्येत तदा तथैव श्रुत्यादावुपलभ्येत । जननविनाशौ च घटस्य युगपत्स्याताम्‌ । क्रियायाः संयोगविभागौ प्रत्यनपेक्षकारणत्वेन तदुत्पत्तिसातत्यप्रसङ्गश्ऱ्चेत्यत आह ॥ तच्छक्तृरिति ॥ क्रियाशक्तेः पूर्वकालमारभ्यसत्त्वात्‌ । अस्त्वेवसृष्यिसमयेपि संहारक्रिया संहारसमयेपि सृष्यिक्रिया । विषयत्वतत्तत्कार्यजनकत्वाद्यङ्गीकारात्‌ । तथाच संहारसमये सर्जनक्रिशक्तिसद्भावेपि न श्रुत्यादौ तथोपलम्भप्रसङ्गः । व्यक्तिरूपेणैव व्यवहारालम्बनत्वात्‌ । व्यक्त्यवस्थाया एव शक्तेः जनकत्वेन जननविनाशयौगपद्यासम्भवः । अत एव न संयोगविभागसातत्यप्रसङ्गश्ऱ्चेति भावः । ननु केयं शक्तेः व्यक्तिर्नाम । न तावत्प्रतीतिः । ईश्ऱ्वरापेक्षयानित्यसिद्धत्वेनोक्तदोषानुषक्तेः । परापेक्षयाकदाप्यभावात्‌ । भावेपि च कार्योत्पादनस्यतदनपेक्षत्वात्‌ । अत एव नावरणनिवृत्तिर्व्यक्तिरिति । मैवं । व्यक्तिशब्देन शक्तेरेवावस्थानविषषस्य विवक्षितत्वात्‌ । ननु अभिव्यक्तायाः सर्जनक्रियाशक्तेः संहारसमये किमुपरतिरस्ति न वा नोचेत्‌ उक्तदोषानिस्तारः । आद्येतुकथं क्रियाविनाशाभावः । उपरते विनाशरूपत्वात्‌ । नच व्यक्तेर्विनाशेपि क्रियाशक्तिनाशोनास्तीति वाच्यम्‌ । तयोरभेदस्य वक्ष्यमाणत्वात्‌ । लाघवेन क्रियाया एवानित्यत्वस्वीकारोपपत्तेश्ऱ्च । केवलाभेद आत्मनीत्युक्तव्यघाताच्चेत्यत आह ॥ विशेष एवेति ॥ तच्छक्तेः पूर्वकालत इत्यत्राप्यनुवर्तते । अस्त्येवाभिव्यक्तायाः सर्जनादि क्रियाया उपरतिः । नचैवमुक्तदोषः । यत उपरतिः नामावस्थाविशेष एव । न विनाश इत्यङ्गीकारादित्यर्थः । नन्वयमपि विशेषः कदाचिदुपरतो

?Rन वा नेति पक्षेपूर्वोक्तदोषानुषङ्गः । आद्येतस्यैव विनाशप्रसङ्गः । नच विशेषस्याप्युपरतिः विशेष एव न विनाश इति वाच्यम्‌ । तस्मिन्नपि विशेषे उक्तविकल्पप्रसरेणानवस्थापपातादित्यत आह ॥ विशेषस्येति ॥ प्रकृतत्वानुसङ्घानार्थश्ऱ्चशब्दः । यदि विशेषस्यान्योपि विशेषोङ्गीक्रियते तदानवस्थास्यात्‌ । नचैवमित्यर्थः । तर्हि विशेषस्योपरतिः कथमित्यत आह ॥ स्वस्यापीति ॥ एतदुपपादनायदृष्यान्तमाह ॥ यथेति ॥ घटादि वस्तुवत्तज्जनेरप्यनादित्वाभावाज्जनेरपि जनिरङ्गीकार्या । सा यदि घटादि वस्तुजनेरन्यास्यात्तदासाप्येवमित्यनवस्थास्यादित्यत उक्तम्‌ ॥ जनेरिति ॥ वस्तुजनेः जनिरन्यानभवति तेन च नानवस्थेत्यर्थः । तर्हि कथं जनेः जनिरित्यत आह ॥ तस्या इति ॥ तस्याः जनेः तज्जनिरेव जनिरित्यर्थः । घटो जायते घटजन्मजायत इत्यनयोः एकार्थत्वस्यैव लौकिक परीक्षकसम्मतत्वादिति भावः । तर्हि स्वयमनुपलब्धसत्ता(सत्त्वा)जनिः कथं घटादिवस्तुनः सत्त्वं सम्पादयेत्‌ । उत्पत्तिक्रियायां हि सत्यां वस्तुनः सत्वप्राप्तिरित्यत उक्तम्‌ ॥ तथापीति ॥ यद्यपि जनेः जनिः वस्तुजनेरन्या न भवति । तथापि साजनिः जनित्वात्‌ उभयजनित्वात्‌ वस्तुनः स्वाख्यस्य घटादेश्ऱ्च युगपदेवसत्त्वमानयेदित्यर्थः । दार्ष्यान्तिकमाह ॥ एवमेवेति ॥ संहारसमये संहारंकरोति सृष्यिं न करातीत्यादि व्यवहारकृदित्यर्थः । ननु शक्तिरूपक्रियायाः व्यक्तिरूपक्रिया किं भिन्नाऽभिन्ना वा । आद्ये शक्तिरेवनित्याक्रियात्वनित्येत्यापन्नम्‌ । द्वितीयेत्वनिवृत्तः सदासंहारव्यवहारादि प्रसङ्ग इत्यत आह ॥ व्यक्तिभावमिति ॥ करोतीति स्वरूपिणीकरोतीति व्यवहारविशेषहेतुभूता । व्यक्तिभावं गतायाक्रिया सैवशक्तिरूपस्थिताक्रियाशक्तिरितीर्यत इति योजना । याशक्तिरूपेणस्थिताक्रियाशक्तिरितीर्यते सैवव्यक्तिभावंगता सतीति स्वरूपिणीति वा सम्बन्धः । तथाच शक्तिव्यक्त्योरभेदाङ्गीकारान्नभेदपक्षरोक्तदोषः । उक्तमेवदृष्यान्तेनोपपादयति ॥ साचेति ॥ क्रियायाः शक्तिरूपायाः जनिवत्‌ जनिक्रियाया जनिर्वस्तुजनिस्वरूपं यथेत्यर्थः । इदानीमभेदपक्षोक्तदोषमुद्धरति ॥ तथापीति ॥ शक्तिव्यक्त्योरभेदेपि साव्यक्तिः विशेषणविशेषिणीविशेषव्यवहारहेतुः । विशेषश्ऱ्चाभिन्नेपि भेदकार्यकारीति भावः । ननु सोपि विशेषो यदि विशेषिभ्यां भिन्नः तदाशक्तिव्यक्त्योरेवभेदः कं नस्यात्‌ । इत्याशङ्कापरिहाराय स्वरूपेणेत्युक्तम्‌ । विशेषिस्वरूपेणेत्यर्थः । व्यक्तिस्वरूपक्रियायाः शक्त्यभिन्नत्वेपि विशेषबलादेवविशेषव्यवहारहेतुत्वं दृष्यान्ते नोपपादयति ॥ जनेरिति ॥ प्रथमान्तत्तसिः । यथा जनेः जनिर्वस्तुजन्यव्यतिरिक्तापि एकैव जनिः विशेषबलेन घटोजातोघटजनिर्जातेति व्यवहारविशेषहेतुस्तथासौ व्यक्तिरूपक्रियाशक्त्यव्यतिरिक्तापि विशेषव्यवहारहेतुः ज्ञातव्येत्यर्थः । ननु विशषस्य विशेषिस्वरूपत्वेऽयं विशेषोऽयं विशषीति व्यवहारानुपपत्तिः । नच तत्र विशेषान्तरबलात्तदुपपत्तिः । तस्याप्यभिननत्वे विशेषविशेषिभावव्यवहारायविशेषान्तराङ्गीकारेन वस्थापातादित्यतोवाह ॥ जनेरिति ॥ ज्ञातव्येतिलिङ्गव्यत्यासः । असौ विशेषोविशेष्यऽव्यतिरेकोपि जनेः जनिवदेवज्ञातव्यः । यथावस्तुजनेः जनि वस्तुजनेरन्यान भवति । किन्तु वस्तुनिरेवजनेर्जनिः । एवं विशषस्य नान्योविशेषः । किन्तु स एव विशेषः स्वस्यापि विशेषः । तथाच स्वनिर्वाहकत्वाङ्गीकारान्नानुपपत्तिरिति भावः । एवमीश्ऱ्वरक्रियानित्यत्वमुपपाद्यतेनैवन्यायेनमुक्तक्रियानित्यत्वमप्युपपादनीयमित्याह ॥ एवमिति ॥ तथाच ईश्ऱ्वरस्य मुक्तस्य च स्वक्रियाभिः ऐक्यमुपपन्नमिति भावः । भेदाभेदस्तुबद्धानामित्यमुक्तक्रियाणां भेदाभेदोभिहितस्तत्साधयितुं प्रतीजानीते ॥ नान्येषामिति ॥ क्रियानित्येत्यनुवर्तते । कुत इत्यत आह ॥ भ्रान्तीति ॥ नामुक्तिक्रियानित्यातस्याभ्रान्त्योत्पत्तेरित्यर्थः । यद्यप्युत्पन्नत्वादित्येववक्तव्यं तस्यैव नित्यत्वाभावे हेतुत्वात्‌ । तथाप्युत्पत्तौ कारणप्रदर्शनार्थं भ्रान्तीत्युक्तम्‌ । हेत्वन्तरमाह ॥ मुक्ताविति ॥ अमुक्तकर्मणोमुक्तावेवोच्छेदतश्ऱ्चननित्यत्वमित्यर्थः । संसार एव जागरावस्थायां चिन्तनादिकमर्व्यक्तेरुच्छेदात्‌ मुक्ताविति किमर्थमुक्तमित्यत आह ॥ अखिलस्येति ॥ इदानीमेकैककर्मव्यवच्छेदेपि अखिस्य च कर्मणोनव्युच्छेद इत्यर्थः । सुषुप्तावखिलस्यापि चिन्तनादिकर्मण उच्छेदोस्त्येवेति किमर्थं मुक्तावित्युक्तमित्यत आह ॥ निःशेषेणेति ॥ सुषुप्तौ तु ननिःशेषेणतदुच्छेदः । वासनायाः सत्त्वात्‌ । अन्यथापुनरुद्भवानुपपत्तेः । वक्ष्यति च वासनायाहि पुनरुद्भाव इति । मुक्तौ तु निःशेषेणैव तदुच्छेदः । पुनरुद्भवाभावेन वासनाया अप्यभावादिति भावः । नन्वेवं मुक्तक्रियाया अपि नित्यत्वमयुक्तम्‌ । मुक्तो यदाक्रियान्तरं करोति तदापूर्वक्रियोच्छेदावश्यम्भावादित्यत आह ॥ नैवमिति ॥ मुक्तक्रियायाश्ऱ्चैव ममुक्तक्रियावत्‌ उच्छेदोनास्तीत्यर्थः । क्रियान्तरकरणकालेक्रियान्तराभावात्‌ कथं नोच्छेद इत्यत आह ॥ तस्याश्ऱ्चेति ॥ क्रियान्तरकरणकालेपि न क्रियान्तरस्योच्छेदः । तस्या एव क्रियायाः पुनरुद्भवात्‌ । विशिष्यविशेष्ययोभ; भेदाभेदो यथा । पर्वतस्याग्निमत्त्वेन । पर्वतसद्भावेप्यग्न्यभावात्‌ । विशेषविशेषिणोश्ऱ्चात्यन्तभेदोदाहरणं स्वरूपेषु विशेषोयः स्वरूपं तस्येत्युक्तमेव ।

?Rचूतफलपीतत्वाभ्यां तन्निष्ठविशेषस्य भेदाभेदौ । ननु यदि विशेषोपि भेदकार्यकारी तर्हि भेदाद्विशेषस्य किं वैलक्षण्यम्‌ । येन भेदपरित्यागेन विशेषोङ्गीकार्य इत्यतः तयोः वैलक्षण्यपअदशर्नाय भेदशब्दार्थमाह ॥ भेदेति ॥ आदिशब्देनां तरादिशब्दग्रहणं । नन्वन्योन्तर आत्माप्राणमय इत्यादौ अन्यान्तरादिशब्दानां अत द्रूपत्ववाचकत्वं न युक्तम्‌ । प्राणमयादीनामन्नमयादि परमात्मस्वरूपत्वादित्यत आह ॥ क्वचिदिति ॥ च शब्दाद्भेदशब्दः । इदानीं विशेषस्वरूपमाह ॥ एकस्मिन्नेवेति ॥ भेदहीन एवार्थेनात्वात्प्रमाणविरुद्धत्वाच्चनतत्परत्वेन ब्रह्मवा इदमग्र आसीत्तदात्मनमेवावेदहं ब्रह्मास्मीति वाक्यं व्याख्येयमित्युक्तम्‌ । इदानीं तद्वयाख्यानरूपप्रमाणविरुद्धत्वाच्चनतद्वयाख्यानं युक्तमित्याशयेन तदाहुः यद्ब्रह्मविद्ययेत्यादिखण्डव्याख्यानरूपं प्रमाणमुदाहरति ॥ यदाहुरित्यादिना ॥ तत्र तदाहुः यद्ब्रह्मविद्ययासर्वं भविष्यन्त इति वाक्यमन्वयं दर्शयन्व्याचष्ये ॥ यदाहुरिति ॥ सर्वमित्यस्यार्थः समग्रत्वमिति । स्वयोग्यतापूर्णत्वमित्यर्थः । भविष्यन्त इत्येतस्य यियासव इति । किमाहुरित्याशङकानिवर्तकत्वेन ब्रह्मविद्ययासर्वमित्येतदेव व्याचष्ये ॥ ब्रह्मज्ञानादिति ॥ समग्रत्वं स्वयोग्यतापूर्णत्वं प्राप्यत इति शेषः । ब्रह्मविद्ययेत्येतत्सावधारणमिति भावेनोक्तं नान्यत इति । निश्ऱ्चयाद्यदाहुरति सम्बन्धः । तदाहुरिति तच्छब्दस्य मनुष्यामन्यन्त इत्येनेन सम्बन्धमभिप्रेत्यव्याचष्ये ॥ तत्रेति ॥ किं मन्यन्त इत्याशङ्कानिवर्तकं किमुतद्ब्रह्मावेदिति वाक्यं व्याचष्ये ॥ ब्रह्मेति ॥ मतेःस्वात्मज्ञानादित्यर्थः । इति मन्यन्त इति सम्बन्धः । तदात्मानमेवावेदित्यादेः परिहारपरत्वप्रतीत्यर्थमपेक्षितमध्याहरति ॥ ब्रूयादिति ॥ न केवलं स्वयमेवजानीयात्‌ । किन्तु तान्प्रतीति वक्ष्यमाणप्रकारेण ब्रूयाच्च । चोवधारणे वा । इत्येवब्रूयादिति सम्बन्धः । तत्परिहारत्वेन तदात्मानमेवावेदहं ब्रह्मास्मीति वाक्यं व्याचष्ये ॥ ब्रह्मापीति ॥ न केवलमधिकारीकिन्तु ब्रह्मापीत्यर्थः । तथा शब्दः समुच्चये । गुणबृंहितञ्चेति सम्बन्धः । विजानात्येवेत्यन्वयः । अवेदिति प्रयोगाज्ज्ञानस्य कादाचित्कत्वशङ्कापरिहारायसर्वदाविजानातीत्युक्तम्‌ । तस्मात्सर्वमभवदिति वाक्यं व्याचष्ये ॥ अत एवेति ॥ अधिकारिसमग्रत्ववत्‌ नेदं ब्रह्मज्ञानजन्यमिति भावेनोक्तम्‌ ॥ सर्वदेति ॥ अभवदिति प्रयोगेण सर्वभावस्य कादाचित्कत्वपरिहारोप्यनेनजातः । लक्ष्मीव्यावृत्त्यर्थं स्वत एवेति । तत्तत्र देवानां मध्येयोयोदेवः आत्मानं प्रत्यबुध्यत । बोधनात्स एव देवः तद्ब्रह्माभवदित्यपव्याख्याननिरासाय तद्योयः प्रत्यबुध्यत स एव तदभवदित्येतत्तावद्वयाचष्ये ॥ तदहेयमिति ॥ तदित्यनुवादेनाहेयमित्यादिव्याख्यानम्‌ । श्रुतौ यच्छब्देवीप्सासत्त्वादत्र तच्छब्देपि सादर्शिता । तदभवदित्यस्यार्थः समग्रतां यातीति । नन्वहेयत्वादि प्रकारकब्रह्मज्ञानेन ब्रह्मयादृशं समग्रत्वं प्राप्तंअन्योपि तादृशमेव प्राप्तोति किमित्यत आह ॥ मुख्यमिति ॥ तत्र हेतुमाह ॥ ज्ञानस्यापीति ॥ समग्रत्वतः । यद्यन्यस्याप्येतादृशमेवसमग्रत्वं तर्हि कोविशेष इत्यतस्तद्योयादेवानांतथर्षीणां तथामनुष्याणामिति क्रमोक्तेभ भावमाह ॥ किञ्चित्समग्रतामिति ॥ तत्र हेतुस्तेषामिति । ऋषयस्तुततो देवेभ्योप्यधमासमग्रतां आपुः । तत्र हेतुः ज्ञानतादृक्त्वादिति । अयं हेतुरुत्तरत्रापि सम्बध्यते । अनेन श्रुतौ न केवलं तथाशब्दद्वयं समुच्चयार्थकं । किन्तु यथाप्रत्यबुध्यततथातदभवदित्यपि व्याख्यातं भवति । तद्ब्रह्मैतदात्मानमेवाहं ब्रह्मास्तीति पश्यन्निति व्याख्यानमसत्‌ । पुल्लिङ्गात्मशब्देन प्रकृतस्यात्मनो नपुंसकलिङ्गैतच्छब्देन परामर्शायोगादिति भावेन तद्धैतत्पश्यन्नित्यादि वाक्यं व्याचष्ये ॥ अहेयमिति ॥ एतच्छब्दार्थोहेयमित्यादि । तच्छब्दार्थो ब्रह्मेति । इत्येतत्सूक्तमिति सम्बन्धः । नन्वत्र सूक्तेवामदेवास्य मन्वादिभाव एव प्रति

?Rपाद्यते । न तु ब्रह्म । तत्कथं अतदर्थं ब्रह्मपश्यन्‌ तत्सूक्तं ददर्शेति युज्यते । तदर्थज्ञानस्यैव तत्प्रतिपादकशब्दस्मृति हेतुत्वादित्यतः सूक्ततात्पर्यमाह ॥ स्वान्तर्यामीति ॥ अन्यथात्वत्पक्षेपि वामदेवस्य मन्वादित्वाभावादनुपपत्तिः । न चेदानीं विशिष्यैक्याभावेपि मोक्षेस्वरूपैक्यविवक्षयातथोक्तिरिति वाच्यम्‌ । सर्वप्रवृत्तिहीनेमोक्षे अहं भूमिमददामार्यायेत्यादि प्रवृत्तिवचनानुपपत्तेरिति भावः । ननु यदीसूक्तं स्वान्तर्यामिव्यपेक्षयाप्रवृत्तं तर्ह्यभवस्मीत्याद्युत्तमपुरुषप्रयोगोनस्यात्‌ । स हि वामदेवापेक्षयाभवतीत्यत आह ॥ अहंशब्द इति ॥ सर्वान्तस्थेविष्णाविति सम्बन्धः । अहं शब्दोऽस्मदादेशरूपः । अस्मद्युत्तम इति उत्तमपुरुषप्रयोगस्यास्मदादेशोपपदेविहितत्वादिति भावः । आदिपदेनास्मीत्यादेः ग्रहणम्‌ । ननु वामदेवान्तर्यामिणोपि मनुसूर्यादिभि अभेदाभावात्कथमहंमनुरभवमित्याद्युक्तिरिति चेत्‌ न । मनुसूर्यादिशब्दानामपि विष्णुपरत्वादिति भावेन अ३हंमन६ुरभव३ंसूर्य६श्ऱ्च३ाहंक३क्षीव३?ाऋष६िरस्म३िविप्र६ (ऋ03।6।15) इति वाक्यगतमनुसूर्यकक्षीवच्छब्दान्‌ विष्णौ निर्वक्ति ॥ मनुरिति ॥ स्वायं भुवादौयोगरूढिभ्यां प्रवर्तमानस्य मनुशब्दस्य तदन्तस्थेयोगमुक्त्वारूढिमुपपादयति ॥ स हीति ॥ हि शब्दःप्रसिद्धयर्थः । यद्वा प्रकारान्तरेण मनुशब्दं निर्वक्ति ॥ सहीति ॥ हि शब्दोहेतौ । आचारश्ऱ्चानुवाचावेदानुसारिवाचाच आचारानुवाचेतयोरीशः । अनुवाचेति टाम्बन्तम्‌ । टापञ्चापि हलन्तानां यथावाचानिशादिशेत्युक्तेः । स्वायं भुवादौ मनुशब्दप्रवृत्तावाचारानुवाचेशत्वं निमित्तम्‌ । तच्चतदंशस्थेपि वर्तते ।

?Rतत्कथमित्यत उक्तम्‌ ॥ प्रेरयन्निति ॥ स एव सूर्य इति शेषः । कक्षंवनमेषामस्तीति कक्षिणः । तेयस्यसन्ति स कक्षीवान्‌ ऋषिस्तस्मिन्समास्थितः । स एव यतो मुमुक्षुभि; कक्षगैः वनस्थैः वेव्यः अतः कक्षीवानित्यर्थः ॥ तथाचायं श्रुत्यर्थः ॥ अहंमदन्तर्यामी मनुर्बोधनादिनामनुनामकोमन्वन्तस्थोऽभवम्‌ । अहं सूर्यः सूरिप्राप्यत्वेन सूर्यनामकः सूर्यस्थश्ऱ्चाभवम्‌ । अहं कक्षीवानृषिः कक्षगैः सेव्यत्वेन कक्षीवान्नामकः कक्षीवतिऋषौ समास्थितोस्मीति ॥ अहं कविरुशनेति वाक्यगतशब्दद्वयं व्याचष्ये ॥ स एवेति ॥ यतो त इति शेषः । वशइच्छायामिति धातुः । वकारस्योकारः । तथाचाहं मदंन्तर्यामी । उशनाकामस्य प्रेरणात्‌ उशनोनामकः । कविर्नीतीः कवयतीति कविनामकः शुक्रस्थोस्मीति श्रुतिवाक्यार्थ इति भावः । अहंपुरोमन्दसानोव्यैरंनवसाकंनवतीःशंबरस्येत्यस्यार्थमाह ॥ सएवेति ॥ अहं मदन्तर्यामी इन्द्रेव्यवस्थितो मन्दसानःमन्देनमदेनहर्षेणसनोतिभक्ताभिलषितं ददातीति मन्दसानः । नवसाकंनवतीः शंबरस्यपुरोव्यैरंभेदितवानस्मीति श्रुत्यर्थ इति भावः । अहं कुत्समार्जुनेयंन्यृंजे इत्यादेस्तात्पर्यमाह ॥ सर्वेति ॥ सर्वकर्मासर्वकर्तास्वान्तयर्ामिणं मन्वाद्यन्तर्यामिणञ्च श्रियःपतिमुतद्दश्यतथाहंमनुरभवमित्याद्युवाचेत्यर्थः ॥ तदिदमप्येतर्हियएवं वेदअहं ब्रह्मास्मीति स इदं सर्वं भवतीति वाक्यमन्यथाप्रतीति निरासाय व्याचष्ये ॥ य इति ॥ एतर्हीत्यस्यार्थः इदानीमिति । तस्य हनदेवाश्ऱ्चनाभूत्या ईशत इति वाक्यं व्याचष्ये ॥ तस्येति ॥ चशब्दोऽपि शब्दार्थः । तेन च नेत्येतदुक्तार्थम्‌ । अभूतिं विद्याफलविघातम्‌ । कथमति समर्थादेवा एतन्मात्र करणेनेशत इत्याद्याशङ्कानिरासायात्माह्येषां स भवतीति वाक्यं व्याचष्ये । आत्माहीति ॥ हि शब्दोहेत्वर्थः । आत्माशब्दस्य स्वरूपार्थत्वप्रतीति निरासायार्थमाह ॥ तेष्विति ॥ कार्येषु नियोक्तृत्वेन तेषु सदाव्याप्तोयतोतस्तेषामात्मेत्यन्वयः । नन्वस्तु विष्णुर्देवानात्मातथापि कुतो देवास्तस्याभूतिं कर्तुं नेशत इत्यत आह ॥ तज्ज्ञ इति ॥ यस्मात्साधकोमोक्षसाधकः । तज्ज्ञो देवनियामकविष्णुज्ञानी । नन्वस्तुसाधकस्य विष्णुज्ञानित्वं तथापि देवाः कुतः तदभीति करणासमर्थाः । नहि राजज्ञस्य यस्य कस्यचित्यत आह ॥ तस्येति ॥ देवाश्ऱ्च न प्रसिद्धामात्यादिवत्‌ स्वामिद्रोहकर्तार इति भावः ।ततः किमित्यत आह ॥ प्रीतियोगादिति ॥ प्रीतियोगादेवनत्वसामर्थ्यादित्यर्थः ॥ एवं परब्रह्माहेयत्वादिज्ञानिप्रशंसांकृत्वामिथ्याज्ञानिनिन्दनायाथयोन्यान्देवतामुपास्तेऽन्योसावन्योहमस्मीति न स वेदयथापशुरिति वाक्यं प्रवृत्तम्‌ । तत्परैर्व्याख्यातम्‌ । यःकश्रिचदब्रह्मवित्‌ स्वात्मनोऽव्यतिरिक्तान्देवतां अन्योहमुपास्य देवताया अन्योसौमत्त उपासनीयोदेव इत्येवं भेददृष्ययोपास्ते स उपासकः उपास्योपासकयोः तत्वं न वेदेति । तदसत्‌ । योन्यां देवतामुपास्तेन स वेदेत्येतावतापूर्णत्वेनान्योसावित्यादिवाक्यवैयर्थ्यात्‌ । अन्यासावन्योहमस्मीति य उपास्तेन स वेदेत्येतावता भेदज्ञाननिन्दालाभात्‌ । पूवर्वाक्यवैर्थ्याद्वा । विद्याऽऽत्मनिभिदाबोध सत्यादप्रमाणविरोधाच्चेति भावेन तद्वयाचष्ये ॥ एवमिति ॥ अथशब्दार्थ एवमिति । देवनियामकत्वादिना । अन्यामित्यस्यावृत्तिमभिप्रेत्यविलक्षणमिति जीवरूपिणमिति चोक्तम्‌ । अथेत्यस्योत्तरत्रापि सम्बन्धमभिप्रेत्य अन्योसावन्योहमस्मीत्यस्यार्थमाह ॥ अहेय इति ॥ अन्यःशबलब्रह्मरूप इति हरिः निर्गुणब्रह्मरूपः इति । अथेत्यनुवादेन अपीति व्याख्यातम्‌ । यद्वाथशब्दश्ऱ्चशब्दार्थः । तस्य चावर्तितस्यमेयश्ऱ्चति हरिश्ऱ्चेति सम्बन्धः । इत्युपास्त इति सम्बन्धः । ननु य उपास्तेन सवेदेति कथमुपासनस्यैवज्ञानत्वादित्यत उक्तम्‌ ॥ परंविष्णुमिति ॥ परंविलक्षणमुत्तमञ्चेत्यर्थः । उभयत्रापि हेतुमाह ॥ जीवेति ॥ यथापशुरित्यस्यार्थः तस्मात्पशुवदिति । मनुष्यपशुवदित्यर्थः । एवं सदेवानामिति वाक्यां व्याचष्ये ॥ देवानामिति ॥ पशुवदित्यनेनैवं शब्दार्थ उक्तः । असौक इत्यत उक्तं योदेवेति । यथाहवैबहवः पशवोमनुष्यं भुंज्युरेवमेकैकः (वैकः) पुरुषो देवान्भुनक्तीति वाक्यं व्याचष्ये ॥ पशव इति ॥ भुञ्ज्युर्भुनक्तीत्येतदन्तर्णीतण्यर्थमिति भावेनोक्तं भोजयन्तीति भोजयतीति च । पशुशब्दो न हीनपशुपर इति भावेनोक्तमेवविवृतम्‌ । बहुगायथेति । गाःगाव । यद्वा एकस्य बहुदेवभोजकत्वं कथमित्यत आह ॥ एकोपीति ॥ बहुगायथेति । एकैकस्मिन्नेव पशावादीयमानेप्रियं भवति किमुबहुष्विति वाक्यं व्याचष्ये । स्वीकारेत्विति ॥ दार्ष्यान्तिकेस्वयमुपपादयति ॥ तस्मादिति ॥ भोजकत्वादित्यर्थः । तस्मादेषान्तन्नप्रियं यदेतन्मनुष्याविद्युरिति वाक्यं व्याचष्ये ॥ नित्याहेय इति ॥ अपि शब्देन जीवाभिनन इतीति समुच्चिनोति । देवानामप्रियत्वेपि कुतो नैवं ज्ञेयमिति चेत्‌ तथा ज्ञानस्यानर्थहेतुत्वादित्याह । विष्णोरिति ॥ विष्णोरेवेति सम्बन्धः । यश्ऱ्चासत्यमिति प्रसङ्गादुक्तम्‌ । यद्वा जगतः सत्यत्वेन तदन्तर्गताल्पज्ञत्वसर्वज्ञत्वादेरपि सत्यत्वात्कथं जीवैरैक्यं हरेरित्यत उक्तम्‌ ॥ यश्ऱ्चासत्यं जगदिति ॥ यद्यप्येकस्यैवमायावादिनः उक्तं सर्वं विद्यते । तथाप्येकैकमपितमः प्राप्तेर्हेतुः । किमुसर्वमिति भावेन यच्छब्दत्रयं ते सर्व इति बहुवचनं चोक्तम्‌ । ननु विष्णोरहेयत्वादिगुणपूर्णत्वं यदि स्यात्‌ तर्हि तदज्ञानमनर्थहेतुर्भवेत्‌ । तदेवकुतः । प्रमाणशभावादित्यत आह ॥ सर्ववेदैरिति ॥ पूर्ण उच्यत इति वक्ष्यमाणमत्रापि सम्बध्यते । हीति प्रसिद्धिमाह । यतः

?Rतस्मात्तदज्ञानमनर्थहेतुरत्यर्थः । ननु जीवस्यचापूर्णत्वेन श्रुतिसिद्धत्वादित्याह ॥ सर्वेति ॥ अस्तुसंसारदशायां विरुद्धधर्माध्यासेन भेदो न मुक्तावित्यत आह ॥ मुक्ता अपीति ॥ ननु मुक्तनामपूर्णत्वेमुक्तेः पुरुषार्थत्वमेवनस्यादित्यत आह ॥ निःशेषेति ॥ मुक्तेशयोः भेदकान्तरमाह ॥ तेपीति ॥ उपासते इत्युच्यते वेदैरित्यनुवर्तते । यदि जगत्सत्यंस्यात्तर्हि तदसत्यत्व ज्ञानमनर्थहेतुःस्यात्‌ । एतदेवकुत इत्यतो जगत्स्वरूपमाह ॥ जगदिति ॥ ननु जगतो विनाशात्कदाचिदन्यथाभावादेतज्जगदाद्यन्तवर्जितमिति कथमित्यत आह ॥ नकदाचिदिति ॥ नाशोनिवृत्तिर्बाध इति यावत्‌ । आद्यन्तवर्जितत्वेपि नावान्तरवैचित्ऱ्यमस्तीत्याह ॥ नकदाचित्तादिति ॥ जगत आद्यन्तवर्जितत्वे भागेप्रत्यक्षादि विराधः स्यादित्यत आह ॥ जगदिति ॥ स्वतोन्यथाभावाभावेपि ब्रह्मज्ञानादिनान्यथाभावोभविष्यतीत्यत आह ॥ ज्ञानत इति ॥ ननु विष्ण्वादीनामेवासत्यत्वाद्विष्ण्वहेयत्वाज्ञानादिकं कथमनर्थहेतुरित्यत आह ॥ ज्ञात्वेति ॥ अतः अन्यथाज्ञानस्यानर्थहेतुत्वात्‌ । स इदं सर्वं भवतीत्यस्य स्वोयाग्यसमग्रतां प्रापनोतीति व्याख्यानमयुक्तम्‌ । तद्वाचकपदाभावादित्यतस्तद्दशर्यति ॥ इदमिति ॥ आत्मनोयोग्यमुच्यत इति शेषः । अन्वयप्रतीति सौकर्यायभवतीत्यनुवादः । ननु पूर्वमप्रकृतत्वात्कथं इदं शब्देनात्मयोग्यमुच्यत इत्यत आह ॥ निर्दुःखेति ॥ स्वयोग्यस्येति शेषः । वक्तृश्रोतृबुद्धौ परिवर्तमानं हि साक्षात्प्रकृतमित्युच्यते । ग्रन्थोक्तत्वन्तु तल्लिङ्गतयैव । आत्मनोयोग्यमित्यस्य श्रोतृबुद्धौ परिवर्तमानत्वेन प्रकृतत्वादिदमिति निर्देशोयुज्यत इत्यर्थः । सर्वं समग्रमिति व्याख्यानमुपपादयति ॥ तत्सर्वमिति ॥ तद्धैतत्पश्यन्नित्यादेः अहेयञ्च गुणैःपूर्णं नित्यास्तिज्ञानगोचरम्‌ ॥ ब्रह्मपश्यन्नहं मनुरिति सूक्तं ददर्शह ॥ इति व्याख्यानं कथम्‌ । सूक्तगताहं शब्दस्यास्मदादेशत्वेनाभवमस्मीत्यादेश्ऱ्चोत्तमपुरुषत्वेन तत्र ब्रह्मणोहेयत्देरप्रतिपादनात्‌ । नहि तदप्रतिपाद्यमर्थं पश्यंस्तत्सूक्तं ददर्शेति युक्तम्‌ । इत्यतस्तद्धैतत्पश्यन्निति वाक्यं प्रकारान्तरेण व्याचष्ये ॥ ब्रह्मेति ॥ तच्छब्दार्थोब्रह्मेति ॥ एतच्छब्दार्थोब्रह्मण इत्यादि । अनेन मनुर्मनुनामकोमन्वन्तर्यामी अहं अहेयः सूर्यः सूर्यनामकस्सूर्यान्तयर्ामी अहं अहेय इति सूक्तयोजनासूचिता । नचैवं सत्यभवमित्याद्यनुपपत्तिः । नविद्यते भव उत्पत्तिर्यस्य तदभवं अस्तीति मेयमित्यस्मीति तस्यापि गुणान्तरवाचकत्वादिति भावः । प्राचीनव्याख्यानं तु अस्य सूक्तस्य प्रतीतार्थत्वेन ब्रह्मपरत्वमेवनास्तीति वदन्तं प्रति तत्परत्वसमर्थनार्थमिति न तस्य वैयर्थ्यमिति ध्येयम्‌ । अत्रापि प्रमाणमाह ॥ ब्रह्मेति ॥ तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति वाक्यस्य यो यो हेयं परं ब्रह्मसदैवास्तीति मानगम्‌ । इदानीमपि जानातीति व्याख्यानमयुक्तम्‌ । परं ब्रह्मेत्यस्य श्रौतब्रह्मशब्दानुवादपरत्वेन तदिदं शब्दयोः वैयर्थ्यापातात्‌ । प्रकारसमर्पकशब्दमध्यगतब्रह्मशब्दस्य विशेष्यपरत्वानुपपत्तेश्ऱ्च । तस्मात्तदिदं यत्सर्वभूतानुप्रविष्यं ब्रह्मैतर्हि एतस्मिन्नपि कालेयः कश्ऱ्चिद्वयावृत्तबाह्यौत्सुक्य आत्मानकेवैवं वेदाहं ब्रह्मास्मीति सकलधर्मातीत ब्रह्मैवाहमस्मिकेवलमिति योवेद स एतादृक्‌ ब्रह्मज्ञानादविद्याकृतासर्वत्वनिवृत्त्या इदं सर्वं भवतीति व्याख्येयमित्यतः स्वयं तावत्तद्वाक्यं सम्यग्व्याचष्ये ॥ तदिदमिति ॥ तदिदमित्यनुवादेन ब्रह्मेति व्याख्यातम्‌ । अहं ब्रह्मास्मीत्यस्यार्थोऽहेयत्वादिगुणमिति । तथाच प्रमाणवाक्येपरं ब्रह्मेत्येतदिदं शब्दार्थकथनपरं ब्रह्मशब्दोयोगेनगुणपूणर्त्वार्थकश्ऱ्चेति भावः । इदानीमपव्याख्यानं दूषयति ॥ अहं शब्दस्येति ॥ अर्थत्वेनेति शेषः । आतमानमेवेत्यस्य समुच्चयार्थोऽपि शब्दः । तदत्रनश्रूयत इति चेत्‌ । परेणतदात्मानमेवावेदिति पूर्ववाक्यानुसारेणात्राप्यात्मानमेवेत्यध्याहृत्यव्याख्यानात्‌ । यद्वा न केवलं तदात्मानमेवावदित्यत्र तदात्मानमिति व्यर्थम्‌ । अत्र वाक्ये इदं शब्दोपीति योज्यम्‌ । तच्छब्दसमुच्चयार्थो वा । तथाचाहं शब्दस्याहेयार्थकत्वमनङ्गीकृत्यास्मदादेशरूपत्वाङ्गीकारे एतर्ह्यपि य एवं वेदाहं ब्रह्मास्मीत्येतावताधिकारिणो ब्रह्मत्वानुसङ्घानलाभेनात्मानकेवेत्यध्याहारः तदिदं शब्दौ च व्यर्थाः स्युरित्यर्थः । अहेयत्वार्थकत्वे तु अहं ब्रह्मास्मीत्येतैः विशेषणैः किं वेदेति विशेष्याकाङ्क्षानिवर्तकत्वेन तदिदं शब्दौ न व्यर्थाविति भावः । इदानीं स इदं सर्वं भवतीत्यस्य स एतादृक्‌ ब्रह्मज्ञानादविद्याकृताऽसर्वत्वनिवृत्त्येदं सर्वं भवतीति परकृतं व्याख्यानं दूषयति ॥ सर्वेति ॥ हि शब्दः प्रसिद्धयर्थः । नाधिकारिणः सर्वस्वरूपत्वमङ्गीकर्तुं युक्तम्‌ । मिथ्याभूत जडपदार्थस्वरूपत्वाङ्गीकारेऽधिकारिचेतनस्यापि मिथ्यात्वापातात्‌ । त्वयानङ्गीकाराच्च । जडस्वरूपत्वं नाम तद्वयतिरेकेण जडस्यासत्त्वमिति चेत्‌ विशेषनिषेधस्य शेषाभ्यनुज्ञानार्थत्वेनानन्दादिवत्‌ जीवचैतन्यवच्च1ब्रह्मचैतन्यात्मकतया सत्त्वापातात्‌ । नापि जडस्य तत्रारापितत्वम्‌ । शुक्त्यादावारोपि तरूप्येतत्स्वरूपत्वव्यवहाराभावात्‌ । उक्तवक्ष्यमाणन्यायैः प्रपञ्चस्य सत्यत्वाच्च । सर्वचैतन्यस्वरूपत्वमेव विवक्षितमिति चेत्‌ न । तत्रापि प्रमाणाभावात्‌ । न तावत्तत्र प्रत्यक्षमस्ति । तस्य तदभावावेदकत्वात्‌ । विमतानि शरीराणिदेवदत्तस्यैव भोगायतनानि शरीरत्वात्संप्रतिपन्नशरीरवदित्यस्य विमतानि कलत्राणि देवदत्तस्यैव भोगायतनानि कलत्रत्वात्‌ सम्प्रतिपन्नकलत्रवदित्याभाससमानयोगक्षेमतयापहास्यत्वात्‌ । विमता

?Rआत्मनोदेवदात्तात्परमार्थतो न भिद्यन्ते आत्मत्वाद्देवदत्तवदित्यनेनसर्वचैतन्याभेदसिद्धिरिति चेत्‌ न । आत्मत्वानिरुक्तेः । तथाहि । किं तदात्मत्वम्‌ । न तावज्जाति विशेषः । तस्यात्मनिपरेण वस्तुतोनभ्युपगमात्‌ । नापि प्रमातृत्वम्‌ । तस्यापि त्वयानभ्युगमात्‌ । नापि ज्ञानरूपत्वम्‌ । ज्ञातृज्ञेयशून्यतयात्मनोज्ञानरूपत्वासम्भवात्‌ । नापि स्वप्रकाशत्वम्‌ । स्वविषयप्रकाशत्वस्यासिद्धत्वात्‌ । अवेद्यत्वं स्वप्रकाशत्वमिति चेत्‌ । तर्हि अज्ञानासिद्धिः । अन्यथास्वरूपासिद्धयापत्तेः । अनुमानवैयर्थ्याच्च । विमताघटाः एतद्घटान्नभिद्यन्ते घटत्वात्‌ एतत्‌ घटवदित्याभाससमानयोगक्षेमत्वाच्च । आगमाश्ऱ्चपूर्वमेव सम्यग्व्याख्याता इति सर्वस्वरूपत्वेन किंचिञ्चत्प्रमाणम्‌ । तथाचाप्रामाणिकं सर्वप्रमाणविरुद्धञ्चाधिकारिणः सर्वस्वरूपत्वं मिथ्याज्ञानित्वेनाग्रहवशादेवाङ्गीकुवर्ाणादुर्विद्वांस इति न तत्प्रेक्षावद्भिरादरणीयमिति भावः । एतेन तस्मात्सर्वमभवदित्यस्य तस्मात्‌ ब्रह्मात्मैकत्वज्ञानादविद्याकृताऽसर्वत्वनिवृत्त्यास्वाभाविकं सर्वत्वं प्राप्तमिति सर्वं भविष्यन्त इत्यस्य सर्वं निरवशेषं भविष्यन्त इति व्याख्यानं परास्तम्‌ । यदुक्तमहं शब्दस्याहेयत्वानङ्गीकारेतदिदं शब्दौ व्यर्थाविति तदयुक्तम्‌ । युष्माकमिवास्माकमपि तदिदं शब्दस्य ब्रह्मपरत्वात्‌ । तदिदं यत्सर्वभूतानुप्रविष्यं ब्रह्मेति व्याख्यानादिति चेत्‌ न । त्वत्पक्षेतदात्मानमेवावेदित्यत्र तच्छब्दवदत्र तदिदं शब्दस्याविद्याविशिष्याधिकारिस्वरूपभूतब्रह्मपरत्वं वोतसकलधर्मातीतपरब्रह्मपरत्वं वा । नाद्यः । अधिकारिप्रदर्शकस्य य इत्यस्य वैयर्थ्यापत्तेः । द्वितीयं दूषयति ॥ इदं शब्देनेति ॥B-10

?Rतदिदं शब्देनेत्यर्थः । उपलक्षणमेतत्‌ । अस्मिशब्दश्ऱ्चेत्यपि ग्राह्मम्‌ । तदुपपादयति ॥ इदमिति ॥ योधिकारीतदिदं ब्रह्माहमिति वेदेत्येवोक्त्या अधिकारिणो ब्रह्मत्वानुसन्धान लाभेनाहं ब्रह्मास्मीत्यत्र ब्रह्मास्मिशब्दौ व्यर्थावित्यर्थः । अस्मत्पक्षेतु ब्रह्मास्मिशब्दयोः गुणान्तरवाचकत्वेन न वैयर्थ्यम्‌ । अत एवोक्तं प्रागहेयत्वादि गुणमितीति भावः । दूषणान्तरमाह ॥ एवं शब्दश्ऱ्चेति ॥ एतदुपपादयकत्वेनापि पूर्ववाक्यं योज्यम्‌ । वेदन प्रकारस्येति शब्देनैवोक्तत्वादेवं शब्दश्रचाव्यर्थ इत्यर्थः । नन्वत्र वाक्ये इत्येवेत्यवधारण;नैतर्ह्यपीत्यस्य वैयर्थ्यमनुज्ञायते । नचैतत्सम्भवति । युष्मत्पक्षेपि साम्यात्‌ । कालविशेषवाचकत्वस्यास्माकमपि साम्यादिति चेत्‌ न । एवशब्दस्य ब्रह्मास्म्येवं शब्दव्यावर्तकत्वेन तदव्यावर्तकत्वात्‌ । ननु युष्मत्पक्षेपि एवं शब्दोव्यर्थः । अहं ब्रह्मास्मीत्यनेनैव वेदनप्रकारस्योक्तत्वादित्यत आह ॥ अस्मत्पक्षेत्विति ॥ नन्वस्मत्पक्षेपि तदात्मानमेवावेदित्युक्ताथर्परामर्शकतया न तद्वयर्थमित्यत आह ॥ तत्पक्ष इति ॥ तदपि स्वस्वरूपज्ञत्वज्ञानमपि । जीवब्रह्मैक्यज्ञानमेव स इदं सर्वं भवतीत्युक्तफलसाधनमिति पक्षेस्वस्वरूपज्ञत्वविज्ञानस्यातत्साधनत्वादिति भावः । दूषणान्तरं चाह ॥ नहीति ॥ कर्मकतर्ृभावविरोधादिति भावः । तथाच तदात्मानमेवावेदित्यस्य परपक्षेस्वकर्मकज्ञानवत्त्वार्थकत्वाभावेन नास्मत्पक्ष इव एवं शब्देन तत्परामर्शसम्भव इति भावः । यद्वा तत्पक्षेतदात्मानमेवावेदित्यत्र तच्छब्दः अविद्याविशिष्याधिकारिस्वरूपभूत ब्रह्मपरः । नच जीवब्रह्मैक्यज्ञानमेवोक्तफलसाधनमिति पक्षे तस्य स्वस्वरूपज्ञत्वज्ञानमिदानीन्तनाधिकारिणः उक्तफलसाधनम्‌ । स्वस्य ब्रह्मत्वानुसन्धानेनैवोक्तफलसिद्धेः । तथाचैवं शब्देन तदात्मानमेवावेदित्युक्तार्थपरामर्शेपि तज्ज्ञानं व्यर्थमिति पूर्ववाक्यार्थः । ननु युष्माकमिवास्माकमपि तदात्मानमेवावेदित्यत्र तच्छब्दः परब्रह्मार्थक एवास्तु । तस्य स्वस्वरूपज्ञत्वज्ञानं तदधिकारिणः फलसाधनं भविष्यतीत्यत आह ॥ नहीति ॥ स्यादेतदेवम्‌ । यदि तत्परंब्रह्मस्वात्मानं वेत्तीत्येतदुपपन्नं स्यात्‌ । नच तदस्ति । एकस्यैव कर्तृकमर्भावविरोधात्‌ । नचास्माकमप्ययं दोषः । विशेषबलेनैकस्यैव कर्तृकर्मभावोपपत्तेः । निर्विशेषब्रह्मपक्षेतु तदनुपपत्तेरित्यर्थः । यथोक्तं सङ्करेणस्वभाष्येतस्मादज्ञानाध्यारोपणनिवृत्तिरेवात्मानमेवावेदित्युक्तम्‌ । नात्मनोविषयीकरणमिति । नन्वथापि नैवं शब्दो व्यर्थः । य एवं वेदेति सामान्यत उक्त्वा अहं ब्रह्मास्मीतीत्यनेनैव व्याख्यानादित्यत आह ॥ व्याख्यानेति ॥ गत्यन्तराभावे हि व्याख्यानव्याख्येय भावोङ्गीकार्यः । गत्यन्तरञ्चात्रोक्तमेवेत्यर्थः । अप्रमाणमाह ॥ अभाव इति ॥ ननु भवत्पक्षेपि ब्रह्मणः स्वस्वरूपत्वज्ञानं व्यर्थमेव । अहेयत्वादिगुणकब्रह्मज्ञानेनैव समग्रभावप्राप्त्युपपत्तेरित्यतस्तस्यापि तत्फलकत्वे प्रमाणमाह ॥ स्वरूपज्ञमिति ॥ नन्वात्माह्येषां सभवतीत्यस्यात्मा हि विष्णुः देवानामिति व्याख्यानमयुक्तम्‌ । नपुंसकलिङ्गतच्छब्देन प्रकृतस्य ब्रह्मणः स इति पुल्लिङ्गतच्छब्देन परामर्शायोगात्‌ । अतस्तस्य हनदेवाश्ऱ्चनाभूत्याईशते इत्युक्तार्थहेतुतया स ब्रह्मविदेषां देवानामात्माशास्त्रस्वरूपप्रकाशित ब्रह्मस्वरूपोभवतीति व्याख्येयमित्यतस्तद्वाक्यं स्वयं तावद्वयाचष्ये ॥ स इति ॥ ब्रह्मविदोब्रह्मस्वरूपत्वं च प्रागेवनिरस्तमिति भावः । अत्रोक्त दोषमुद्धरति ॥ पुल्लिङ्गञ्चेति ॥ यथातत्सत्यमिति नपुंसकलिङ्गतच्छब्देन प्रकृतस्यापि आत्मशब्दापेक्षया स इति पुल्लिङ्गशब्देन परामर्शस्तथात्रापीति भावः । प्रमाणविरुद्धत्वाच्चनपरव्याख्यानमादरणीयमित्याह ॥ देवनामिति ॥ एतस्य स्फुटं तस्य हनदेवा

?Rइति पूर्वोक्तार्थेहेतुत्वाप्रतीतेः तद्दर्शयति ॥ तज्ज्ञ इति ॥ तुशब्दोऽयस्मादित्यर्थे । यस्मात्तेषामात्माहरिः तज्ज्ञः तस्य हरेः प्रियः ततस्तेषां प्रियः । ततस्तस्याधिकारिणोनाभूतिदा इत्यर्थः । अथ योऽन्यां देवतामुपास्त इति वाक्यं पूर्वं जीवब्रह्मैक्यवादि विष्ण्वहेयत्वाज्ञानिनिन्दापरत्वेन प्रमाणवचनेन व्याख्यातम्‌ । इदानीं यस्तार्किकादिरीश्ऱ्वरस्य जीवादिभ्योभेदमङ्गीकृत्यापि तद्गुणेभ्योपि भेदमङ्गीकरोति यश्ऱ्च विष्ण्वतिरिक्त एव हरहिरण्यगर्भादिरनन्तगुणपूर्ण इत्रत मत्वा भगवदन्यामुपास्ते तन्निन्दापरत्वेनापि व्याचष्ये ॥ सवर्ेभ्य इति ॥ अनेनान्यामित्यस्यावृत्तियोग्यतया सर्वेभ्यो जीवादिभ्य; स्वगुणेभ्योहेयत्वादिभ्यश्ऱ्चेति लाभ इत्युक्तं भवति । य उपास्तेन स वेदेति सम्बन्धः । अन्योसावन्योहमस्मीत्यस्यार्थमाह ॥ अहेय इति ॥ अयोहरहिरण्यगर्भादिः । अथेत्यस्य च शब्दार्थकत्वमभिप्रेत्यमेयश्ऱ्चेति । अन्यश्‌चेत्युक्तम्‌ । मत्त्वेतिशेषपूरणम्‌ । योऽन्यां देवतामुपास्ते इति वाक्यमत्रापि सम्बध्यत इति भावेनोक्तम्‌ ॥ योविष्णोरिति ॥ अन्यां देवतां हरहिरण्यगर्भादिरूपाम्‌ । उपासनायाः ज्ञानसमानविषयकत्वलाभाय उपासनाप्रकारप्रदर्शकतया अन्योसाविति वाक्यमावर्तितम्‌ । वाशब्दः प्रमाणवचनकृतव्याख्यानापेक्षया प्रकारान्तरद्योतकः । अत्रापि प्रमाणमाह ॥ जीवादिभ्य इति ॥ यथापशुरित्यस्यार्थोमनुष्याणां पशुर्हि स इति । एवं स देवानामित्यस्यार्थमाह ॥ सम्यग्ज्ञानीति ॥ नन्वेतदयुक्तम्‌ । सम्यग्ज्ञानिनः पूर्वमप्रकृतत्वेन स इति तत्परामर्शायोगात्‌ । न स वेदेति सन्निहिताज्ञानिपरामर्शस्यैव स्वीकार्यत्वाच्च । तथाच यथापशुरेवं स देवानामित्यत्र न वाक्यभेदः । किन्तु एकमेववाक्यमङ्गीकृत्य यथा पशुर्गवाश्ऱ्वादि दोहनवाहनाद्युपकारैः उपयुज्यते । एवमेवसोविद्वान्देवानां मध्ये एकैकस्यापि देवस्य पशुवदिज्याद्यनेकैरुपकारैः उपभोग्योभवतीति व्याख्येयमित्यतस्तावत्स इत्यस्य सम्यग्ज्ञानि परामर्शकत्वे अप्रकृतत्वशङ्कां निवारयति ॥ एवमिति ॥ पूर्वःतदिदमप्येतर्हीति वाक्य प्रकृत इत्यर्थः । ननु यद्येवं सदेवानामित्यत्र सम्यग्ज्ञानिपरामर्शस्तर्हि सम्यग्ज्ञानिनोदेवपशुरूपत्वे देवभोजकत्वेन तत्प्रीति विषयकत्वं स्यात्‌ । नच तद्युक्तम्‌ । तस्मादेतेषां तन्नप्रियं यदेतन्मनुष्याविद्युरिति वाक्यशेषेमनुष्याब्रह्मणस्तत्वं विद्युरिति यदेतदेतेषां देवानां न प्रियमिति मनुष्यसम्यग्ज्ञानस्य देवाप्रियत्वोक्तेरित्यतस्तद्वाक्यं यथावद्वयाचष्ये ॥ एतदिति ॥ मनुष्याविष्णोरन्यां देवतां विद्युरुपासीरन्‌ इति यत्‌ एतत्‌ विष्णोरन्यदेवतोपासनमिति वाक्ययोजनामनेन सूचयति । यथाच योऽन्यां देवतामुपास्ते इत्युक्तमनूद्यतस्यैवदेवाप्रियत्वमुच्यते न सम्यग्ज्ञानस्येत्यर्थः । नन्वथापि एवं स देवानामित्यत्र सन्निहिताज्ञानिपरामर्शसम्भवे तत्परित्यागेन किमिति दूरोक्तज्ञानिपरामर्शः क्रियत इत्यतः तावत्स्वपक्षे वाक्यार्थानुपपत्तिः नास्तीत्याह ॥ नहीति ॥ यद्यज्ञान्येवदेवानां भोजकः स्यात्तर्हि एवं सदेवानामित्यत्र स इति सम्यग्ज्ञानिपरामर्शे तस्य देवभोजकत्वाभावेन देवपशुत्वासम्भवात्‌ वाक्यार्थोबाधितः स्यात्‌ । नचैवम्‌ । किन्तूभावपि देवानां भोजकौ । ततश्ऱ्च न वाक्यार्थानुपपत्तिरित्यर्थः । तर्ह्युभयत्रापि वाक्यार्थानुपपत्त्यभावात्‌ । किमिति सन्निहिताज्ञानिपरामर्शपरित्यागेन दूरोक्तज्ञानिपरामर्शः क्रियत इत्यत आह ॥ ज्ञानीति ॥ सत्यमज्ञान्यपि कर्मकरणादिना देवानां भोजक इति । तथापि न ज्ञानिवत्‌ । ज्ञानिनोविशेषण देवता भोजकत्वात्‌ । तथाच मुख्येसत्यमुख्यग्रहणायोगात्‌ सन्निहितमप्यज्ञानिनं परित्यज्यपूर्वःसम्यग्ज्ञानीपरामृश्यत इत्यर्थः । स्यादेतदेवम्‌ । यदि ज्ञानिनोदेवभोजगकत्वमेवस्यात्‌ । तदेवकुत इत्यतः एतद्ब्राह्मणगतमेव वाक्यं प्रमाणयति ॥ अथो इति ॥ सर्वेषां भूतानां देवादिपिपीलिकान्तानाम्‌ । लोकः तद्भोजकत्वेनाश्रयः । सप्तान्नब्राह्मणगतमपि वाक्यं प्रमाणयति ॥ सय इति ॥ भूतानामात्माभवतीति श्रुतिशेषः । इति वचनादित्यनुवर्तते । ननु ज्ञानिनोदेवभोजकत्वे अथो अयं वा आत्मेति वाक्यं न प्रमाणम्‌ । तत्रायमात्मेत्यनेन यदिहवा अप्यनेवं विन्महत्पुण्यं कर्मकरोतीति पूर्ववाक्यप्रकृतस्याविदुष एव कर्माधिकाणिणोग्रहस्थस्य ग्रहणात्‌ । तथाचाज्ञानिन एव गृहस्थस्य देवादि पिपीलिकान्तसर्वभूतोपभोजकत्वमुच्यते इत्यत आह ॥ ब्रह्मविच्चेति ॥ अज्ञानिसमुच्चयाथर्श्ऱ्चशब्दः ब्रह्मवित्‌ ग्रहस्थश्ऱ्चेत्यर्थः । कुत इत्यत आह ॥ प्रस्तुतत्वादिति ॥ आत्मानकेवलोकमुपास्त इति ज्ञानिनोपि प्रस्तुतत्वादित्यर्थः । नह्युभयोः प्रकृतत्वाविशेषेऽज्ञानिन एव ग्रहणेकश्ऱ्चिद्विशेष हेतुरस्तीति भावः । कथं तर्हि परमात्मैव गृहस्थान्तर्यामित्वेन सर्वेषां लोक आश्रय इति भाष्यम्‌ । यथाच नानुपपत्तिस्तथातत्रैव वक्ष्यामः । ननु स य एवं विदिति वाक्येसप्तान्नोपासकोदेव एवोच्यते । न हवैदेवान्पापं गच्छतीत्युत्तरवाक्यात्‌ । आत्माभवति व्यापकोभवति सर्वेषु व्याप्तिमन्वेतीति स्ववचनप्रमाणाभ्यां देवतापरत्वेन व्याख्यास्य मानत्वाच्च । तथाच ज्ञानीहि देवानां भोजक इत्यत्र कथमिदं प्रमाणम्‌ । नहि देवोदेवानां भोजक इत्यतश्ऱ्चाह ॥ ब्रह्मविच्चेति ॥ नकेवलं सप्तान्नस्रष्यृत्वेन ब्रह्मोपासकोदेव एव तत्र स य एवं विदिति वाक्ये उच्यते । किन्तु ब्रह्मविन्मात्रश्ऱ्च । तथाच य एवं वित्‌ सप्तन्नज्ञानमात्रवान्‌ मनुष्यः स सर्वेषां देवपश्ऱ्वादीनां भूतानां आत्माप्रियो भवति । तत्तद्योग्यान्नभोजकत्वादित्यर्थ इति भावः । कुत इत्यत आह ॥ प्रस्तुतत्वादिति ॥ स देवानपिगच्छतीति ।

?Rअयमेवसयोयमेवं वित्‌ पुरुष इति पूर्ववाक्ये सप्तान्नोपासकवत्‌ सप्तान्नज्ञानिमात्रस्यापि प्रस्तुतत्वात्‌ । नच तत्र विवादः । न नरायोग्याः एतदुपासनेज्ञानमात्रेण देवानां सामीप्यं आप्राप्नुवन्ति ते स एवं विदुषिस्थित इति व्याख्यास्य मानत्वादित्यर्थः । नन्वस्त्वेवं सम्यग्ज्ञानी देवानां भोजकः । तथाप्यज्ञान्यपेक्षयाविशेषेण भोजक इत्यत्र किं मानमित्यत आह ॥ तत्वविदिति ॥ अपि शब्दोवधारणे । देवगौरेवेति सम्बन्धः । देवानामेव भोजकत्वात्‌ । नरगौश्ऱ्चनराणामपि भोजकत्वादित्यर्थः । अत्रैवाऽऽन्तरोपपत्तिमप्याह ॥ तस्यहेति ॥ यद्वा एतन्मनुष्याविद्युरित्यत्र तच्छब्देन विष्णोरन्यदेवतोपासनमुच्यत इति यदुक्तं तन्न । ज्ञानिनः सन्निहितत्वेन तत्परत्वेनाव्याख्यायदूरोक्तमिथ्याज्ञानिपरतया व्याख्यानेकारणाभावादित्यत आह ॥ तस्येति ॥ तथाच तद्विररोधः स्यादिति भावः । एवं सति क्रियावृद्धयाहिकौन्तेय देवलोकः समावृतः । नचैतदिष्यं देवानां मर्त्यैरुपरिवर्तनमिति वचनविरोधः स्यादिति चेन्न । नह्यत्र तत्वज्ञानं देवानामप्रियमित्यच्यते । येन विराधः स्यात्‌ । अयोग्यम्तर्यविषयं वा तदिति अथवा एवं सदेवानामित्यत्र सम्यग्ज्ञानीदेवानां पशुरित्युच्यते इत्ययुक्तम्‌ । असङ्गतत्वात्‌ । नह्ययमर्थः पूर्वेण सङ्गत इत्यतः सङ्गतिं दर्शयति ॥ तस्यहेति ॥ तथाच तदुपपादकत्वेनैवं सदेवानामिति वाक्यं प्रवृत्तमिति भावः । स इदं सवर्ं भवतीत्यत्रैतादृक्‌ ब्रह्मज्ञानादविद्याकृतासर्वत्वनिवृत्त्येदं सर्वं भवतीति व्यावर्तकव्यावृत्तिरूपासर्वत्वस्य ज्ञाननिवर्त्यत्वं परैरुक्तम्‌ । तदसत्‌ । ज्ञाननिवर्त्यत्वरूपासत्यत्ववादिनां निन्दनादिति भावेनाह ॥ असत्यमिति ॥ तत्सत्यत्वेप्रमाणसद्भावाच्चनतद्युक्तमिति भावेनाह ॥ यदिति ॥ स ईश्ऱ्वरो यद्विश्ऱ्वं चिकेतचकार तत्सत्वमित्‌ सत्यमेव नमोघं न मिथ्या स्पार्हंस्पृहणीयं वसुबल्यादिभ्योजेताऽर्थेन्द्रादिभ्योदातापीत्यर्थः । जीवधर्माजडञ्चेतीदं सर्वं जगदित्यर्थः । ईशजगतोरीशजडयोरित्यर्थः । किञ्च विप्रतिपन्नं न ज्ञाननिवत्यर्ं मुक्तैः दृश्यमानत्वादित्यनुमानमभिप्रेत्यासिद्धिं परिहरति ॥ भेदेनैवेति ॥ गुणैः स्वातन्त्ऱ्ादिभिः सहसहितं ईशंगुणैरप्रधानैः जीवादिभिः भेदेन । ननु मुक्तैः दृश्यमानमपि ज्ञाननिवर्त्यं किं न स्यादिति चेत्‌ तथात्वे मुक्तनां भ्रान्तत्वप्रसङ्गात्‌ । नचेष्यापत्तिः । तेषां भ्रमकारणदोषशून्यत्वादिति भावेन मुक्तस्वरूपमाह ॥ निःशेषेति ॥ कालसम्बन्धकृतविकारवर्जिता इत्यर्थः । ननु अथयोऽन्यां देवतामुपास्त इति वाक्यस्य जीवब्रह्मैक्यादि वादिनिन्दापरत्वेन व्याख्यानमनुपपन्नम्‌ । जीवेशाभेदो विष्णोरहेयत्वादिगुणकोभिन्नः विष्णोः स्वगुणादिभिः भेदो जगन्मिथ्यात्वमित्यादिप्रमेयस्य वेदपुराणादिष्वेवतत्र तत्र दर्शनादित्यत आह ॥ तिर्यगिति ॥ प्रकृतेः विकारतातद्देहादेः । विष्णोः सम्यग्भक्तिमृतेनामस्मरणतीर्थस्नानादिभिः । विप्राऋषयः । असंसारित्वं नित्यमुक्तत्वम्‌ । विशेषः हीनोच्चभावः । गुणेषुतद्गुणेषु च । भेदोवाविशेषोवेति वर्तते । साम्यमेव वा । श्रिय इत्यत्रापि सम्बध्यते । ब्रह्मवाय्वोःसकाशादनन्तादेराधिक्यं साम्यं वा तेभ्य अनन्तादिभ्य इन्द्रसूर्यादेराधिक्यं साम्यं वा तत इन्द्रसूर्यादेः बद्धानां मुक्तिगानां विप्रभूपादीनामाधिक्यं साम्यं वा बद्धानां मुक्तिगानां वेत्येतद्वचनविपरिणा

?Rमेन ब्रह्मादेरित्यादौ सर्वत्र सम्बध्यन्ते । मोक्ष एव न तमः मोहार्थं दैत्यानं आपातप्रतीतार्थमपेक्ष्येदमिति बोध्यम्‌ । हरिणापुराणशदौ ब्रह्मणेत्यादावपि तत्प्रणीतशास्त्र इति द्रष्यव्यम्‌ । मोक्षप्रयोजनकवेदादौ किमर्थमेतदुच्यत इत्यत आह ॥ यथेति ॥ न केवलं श्रुतेः किन्तु पुराणादिकतॄअणामपीत्याह ॥ एवमेवेति ॥ तर्हि वेदादावुक्तं तत्वं किमित्यत आह ॥ विष्णोरिति ॥ ऋषिभिः याज्ञवल्क्यादिभिः क्षत्रियाद्यैर्जनकादिभि; । तात्पर्यद्योतनायाह ॥ इदमिति ॥ तथापि नोत्तरत्रेति न मन्तव्यमित्याह ॥ पुनश्ऱ्चेति ॥ नैतत्प्रमाणोक्तमप्यश्रद्धेयमिति भावेनाह ॥ एवमिति ॥ हंसोक्तमवश्यं ज्ञेयमित्याशयेन तन्माहात्म्यमाह ॥ साक्षाद्विष्णुरिति ॥ न पृथ्वादिवादित्यर्थः ॥ 4 ॥ ततश्ऱ्चायंखण्डार्थः ॥ ब्रह्मविद्ययासर्वं भविष्यन्त आत्मयोग्यतापूर्तिप्राप्नुवन्तोमहातो ब्रह्मविद्ययैवस्व योग्यं सर्वं प्राप्यत इति यदाहुः । तत्र केचिन्मनुष्यामन्यन्ते । किमिति यस्मात्तद्ब्रह्मसर्वं पूर्णमभवत्‌ । तत्तस्माद्ब्रह्मापि अवेत्‌ किमिति ॥ 1 ॥ तत्रोत्तरं वक्तुमाह ॥ ब्रह्मेति ॥ इदमग्रे अस्यजगतोग्रेब्रह्मैवासीत्‌ । तद्ब्रह्म अहमहेयं ब्रह्मपरिपूर्णं अस्मिसर्वदास्तीति मेयमित्येतैः विशेषणैरात्मानं स्वरूपमेवावेत्‌ । तस्मादेवतत्‌ ब्रह्मसर्वदासर्वं परिपूर्णमभवदिति परिहारः । देवानां मध्ये यो यो देवः तदहेत्वादिगुणं ब्रह्मयथाप्रत्यबुध्यत स स एव तथातज्ज्ञानानुसारेण तदभवत्‌ । तत्सर्वं समग्रं स्वयोग्यानन्दादिपूर्णमभवत्‌ । तथा ऋषीणां मध्ये यो य ऋषिः यथातत्प्रबुध्यत तथा स एव तदभवत्‌ । तथामनुष्यामणां मध्ये यो यो मनुष्योयथातत्प्रतिबुध्यते । तथाज्ज्ञानानुसारेण तदभवदिति सम्बन्धः । श्रुतिरुक्तार्थेप्रमाणमाह ॥ तदिति ॥ तद्ब्रह्पश्यन्वामदेवोहंमनुरभवंसूर्यश्ऱ्चेति सूक्तप्रतिपाद्यमेतद्ब्रह्मणः प्रागुक्तसर्वजीवाहेयत्वादिगुणजातं प्रतिपेदेव्यजानात्‌ । न केवलं पूर्वमेवदेवादीनां एतज्ज्ञानेनैव फलप्राप्तिः किं तर्हीत्यत आह ॥ तदिदमपीति ॥ य एतर्ह्यपि इदानीमपि । तदिदं परंब्रह्म अहमहेयं ब्रह्मपरिपूर्णं अस्मिसर्वदास्तीति मेयमित्युक्तविशेषणरेवं तदात्मानमेव । वेदित्युक्तस्वस्वरूपज्ञात्वरूपविशेषणेन च वेद । स इदं स्वयोग्यं

?Rसर्वं समग्रमानंदादिपूर्णमभवत्‌ । इदानीन्तनस्य देवकृतविघ्नसम्भवात्कथं विद्याफलप्राप्तिरित्यत आह ॥ तस्येति ॥ तस्य ज्ञानिनोदेवाश्ऱ्चदेवा अपि अभूत्यैविद्याफलविघाताय नेशतेह तद्विघातं न कुर्वन्तीति यावत्‌ । किमसामर्थ्यादेव न कुर्वन्ति नेत्याह । आत्मेति ॥ स ईश्ऱ्वरः एषां देवानं आतमा कार्येषु नियोक्तृत्वेन तेषु व्याप्तत्वात्‌ । आत्माहियस्मात्तस्मादिति पूर्वेण सम्बन्धः । विष्णुज्ञानीहि विष्णुप्रियः । अतो देवानामपि सप्रियः । विष्णुः हि देवनामात्मा ततः प्रीतियोगादेवनविघातं कुर्वन्तीति भावः । एवं सम्यग्ज्ञानि प्रशंसांकृत्वामिथ्याज्ञानिनोनिन्दयति ॥ अथेति ॥ योऽन्यां जीवेभ्योविलक्षरशं विष्णुरूपां देवतामन्यां जीवरूपामुपास्ते सनवेद । अहमस्मीति अहेयत्वादिगुणविशिष्योन्योसौ हरिनिर्र्गुणरूपोन्य इत्यपि य उपास्ते सनवेद । यद्वा सर्वेभ्यो जीवादिभ्योन्यां विलक्षणान्देवतामहेयत्वादिस्वगुणेभ्योप्यन्या य उपास्ते सनवेद । अहमहेयोऽस्मि अस्तीति मेयोऽन्योहरहिगर्भादिरसौविष्णुरन्यस्तद्गुणरहित इति यावत्‌ । इति मत्वायोविष्णोरन्यां हरहिरण्यगर्भादिरूपां अन्योसावन्योहमस्मीत्युपास्ते स न वेदसोऽज्ञानीयथापशुः मनुष्यभोजकज्ञानरहितपशुसदृशः । इदानीमात्माह्येषां स भवतीत्युक्तमेवज्ञानिनोदेवप्रियत्वमुपपादयितुमाह ॥ एवमिति ॥ सः य एवं वेदेति पूर्वोक्तः सम्यग्ज्ञानी । देवानामेवं पशुवदित्यर्थः । पशुवदित्युक्तेः तस्यापि निन्दाप्रतीति निवारणार्थं तदेवविशदयति ॥ यथेति ॥ यथा बहवः पशवोगोरूपाः दोहनादिनामनुष्यं भुज्युः भोजययुरेवमेकैकोज्ञानीपुरुषोदेवान्‌ भुनक्तिभोजयति । ज्ञानिनोदेवभोजकत्वेपि सतत्प्रिय इति कुत इत्यत आह ॥ एकस्मिन्निति ॥ यस्माल्लोके एकस्मिन्‌ भोजके पशावदीयमाने सति प्रियं भवति किमुबहुषु । तस्मात्सुबहुगोरूपेज्ञानिनि देवानां पराप्रतीतिः भवतीति किमुवक्तव्यमिति भावः । न केवलमथयोऽन्यामित्याद्युक्तथर्वेत्तुर्निद्यत्वान्नतथाविद्यात्‌ किन्तु तज्ज्ञानस्य देवाप्रियत्वाच्चेत्याह ॥ तस्मादिति ॥ यस्मात्तत्वज्ञानमेवदेवानां प्रियं तस्मात्‌ तत्‌ एषां देवानां न प्रियम्‌ । किं तत्‌ मनुष्याविष्णोरन्यां देवतां विद्युः उपासीरन्निति यत्‌ एतद्विष्णोरन्यदेवतोपासनम्‌ ॥ 4 ॥ अथ भाष्यार्थः ॥ आतमैवेदमग्र आसीत्‌ पुरुषविध इति विष्णोः सकाशाच्चतुर्मुखसृष्यिरुक्ता । सैव ब्राह्मणजातिसृष्यिरित्यभिप्रायेण तदनुवादपूर्वकं तस्माच्चतुर्मुखात्‌ क्षत्रियादिवर्णभेदेन देवानां सृष्यिमाह ॥ ब्रह्मवाइदमित्यादिना ॥ अपअतिपात्तिविप्रतिपत्तिनिरासाय खण्डं प्रमाणेन व्यचष्ये ॥ विष्णोरित्यादिना ॥ ब्रह्मवा इदमग्र असीत्‌ इत्यत्र ब्रह्मपदं परब्रह्मपरमिति प्रतीति निरासाय व्याचष्ये ॥ विष्णोरिति ॥ ब्रह्मशब्दार्धो ब्राह्मणजातिः सन्निति । तस्यैवार्थान्तरमाह ॥ ब्रह्मेति ॥ नवब्रह्मणां सत्त्वाच्चतुर्मुख इत्युक्तम्‌ । आसीदित्यस्यार्थोजज्ञ इति । इतो वक्ष्यमाणाज्जगतोग्रे । अन्यथा ब्रह्मशब्दस्य परब्रह्मपरत्वे ब्राह्मणजातिसृष्ययुक्तिर्नस्यादिति तदेतद्ब्रह्मक्षत्रं विट्‌शूद्र इत्यनुवादासम्भव इति भावः । तच्छ्रेयोरूपमत्यसृजतक्षत्रमित्येतद्वयाचष्ये ॥ तस्मादिति ॥ यान्येतानिदेवत्राक्षत्राणीन्द्रोवरुण इत्यादिवाक्यं व्यचष्ये ॥ वायुरिति ॥ तत्रेशानशब्दस्यार्थो वायुरिति । रुद्रशब्दः सर्वरुद्रपर इति प्रतीतिनिरासायसदाशिव इत्युक्तम्‌ । मृत्युशब्दस्यार्थोऽन्तत इति । इन्द्रशब्दस्यार्थो गरुड इति । पर्जन्यशब्दस्यार्थः शक्र इति । एतच्चस्वसमाकामोपलक्षणमिति भावेन र्कमश्ऱ्चेत्युक्तम्‌ । सोमशब्दःस्वसमसूर्योपलक्षक इति भावेन सूर्यस्यापि ग्रहणम्‌ । एवकारद्वयेनेशानादिशब्दानां प्रसिद्धार्थतां निवारयति । अन्यथारुद्रेशानशब्दयोः यममृत्युशब्दयोश्ऱ्चपुनरुक्तिः स्यात्‌ । पर्जअन्यस्य द्वादशादित्यान्तर्गतस्योत्तरत्र वैश्यत्वस्य वक्ष्यमाणत्वेन क्षत्रियत्वानुपपत्तेश्ऱ्च । पर्जन्यशब्देनेन्द्रग्रहणेचेन्द्रशब्देन पुनरुक्त्यापत्तेरिति भावः । एतदप्युपलक्षणपरमिति भावेनैव माद्या इत्युक्तम्‌ । यद्यपि श्रुतिरविवक्षितक्रमात्तथापि प्राधान्यक्रममनुसृत्यैव व्याख्यातम्‌ । देवत्रेत्यस्यार्थो देवानां मध्य इति । देवमनुष्यपुरुषपुरुमर्त्येभ्योद्वितीयासप्तम्योः बहुलमिति सप्तम्यर्थेत्राप्रत्ययः । श्रेयोरूपमित्यस्यार्थमाह ॥ श्रेयसीति ॥ श्रुतिस्तच्छ्रेयोरूपमित्यादिका । क्षत्रजातिः सर्वजातिभ्यः श्रेयसीत्याहेत्यर्थः । तस्मात्क्षत्रात्परं नास्तीत्येतद्वयाचष्ये ॥ नैवेति ॥ ब्राह्मणजातेरेवसत्वात्‌ कथमेतदित्यत आह ॥ ब्रह्मजातिमिति ॥ तस्माद्ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूय इति वाक्यं व्याख्यातुं उक्तस्यापवादमाह ॥ ब्राह्णाच्चेति ॥ इदानीं तद्वाक्यं व्याचष्ये ॥ उपास्त इति ॥ सैषाक्षत्रस्य योनिर्यद्ब्रह्मेत्यादिवाक्यं योनिरुत्पत्तिकारणमिति प्रतीति निरासाय व्याचष्ये ॥ तथापीति ॥ यद्यपि राजसूयाश्ऱ्वमेधयोः ब्राह्मणाच्चपरोराजा तथापीत्यर्थः । अनेन यद्यपि राजापरमतां गच्छति तथापि यद्ब्रह्मब्राह्मणः सैषाक्षत्रस्य योनिरुपदेशादिना ज्ञप्तिकारणमिति व्याख्यातं भवति । तस्माद्यद्यपि राजेत्यत्रत्यत्रत्यतस्मादित्यस्य ब्रह्मैवान्तत उपनिश्रयति स्वां योनिमिति वाक्येनान्वयमभिप्रेत्य तद्वयाचष्ये ॥ तस्मादिति ॥ अन्तत इत्यस्यार्थोराजसूयांत इति ब्रह्मैवेत्यस्य ब्राह्मणानिति उपनिःश्रयतीत्यस्य वदंयीतेति य उ एवं हिनस्तिस्वांसयोनिमृच्छतीति वाक्यं व्याचष्ये ॥ य इति ॥ एनं हिनस्तीत्यस्यार्थोब्राह्मणहेति स्वांयोनिमृच्छतीत्यस्यपि तृहेति । स पापीयान्‌ भवति यथाश्रेयांसंहिंसित्वेति वाक्यं व्याचष्ये ॥ पापीयानेवेति ॥ ननु यथाश्रेयांसमित्यस्य

?Rयंकंचनराजश्रेष्ठमिति प्रतीतेः स्वपितरमिति व्याख्यानं कथमित्यत आह ॥ स्वत इति ॥ जनिताचोपनीताचयस्तुविद्यां प्रयच्छति । अन्नदाताभयत्रातापञ्चैतेपितरःस्मृताः । इति पितृत्वमनेकविधमित्यतः साक्षादित्युक्तम्‌ । स्वतोधिकगुणं साक्षादेवपितरं हत्वास्थितस्य यावान्दोषस्तावान्दोषोब्राह्मणं हत्वास्थितस्य क्षत्रस्य ध्रुवं भवेदित्यर्थः । ईशानशब्दोवायुपरतया व्याख्यातस्तत्राभिधानमाह ॥ ईशान इति ॥ मृत्युशब्दस्यानन्तपरत्वे अभिधानमाह ॥ मृत्युरिति ॥ इन्द्रशब्दस्य गरुडपरत्वे तदाह । इन्द्र इति ॥ पर्जन्यशब्दस्य शक्रपरत्वेप्यभिधानमाह ॥ पर्जन्य इति ॥ क्षत्रएव तद्यशोदधातीति वाक्यं प्रागव्याख्यातत्वात्‌ व्याचष्ये ॥ यशोनिधिरिति ॥ तद्यशः । स्वस्यैवतदभावे कथं तद्दानं स्यदित्यतो यशोनिधिरित्युक्तम्‌ । ननु स्वांसयोनिमृच्छतीत्यस्य पितृहेति व्याख्यानं कथम्‌ । स्वांयोनिं स्वपितरं ऋच्छतिगच्छतीत्यर्थप्रतीतेरित्यत आह ॥ ऋच्छतीति ॥ तत्र धातुं पठति । रीङिति ॥ धातोः धातुव्याख्यानात्‌ ॥ 5 ॥ वसवोरुद्राआदित्याविश्ऱ्वेदेवामरुत इति वाक्यं यथा श्रुतार्थप्रतीति निरासाय व्याचष्ये ॥ विवस्वदिति ॥ द्वादशादित्यानां ध्येविवस्वदिन्द्रवरुणशनां क्षत्रियत्वस्योक्तत्वाद्विष्णोश्ऱ्च वर्णशून्यत्वादिदमुक्तम्‌ । अदितेस्सुता आदित्याः । एकादशरुद्रेषु रुद्रस्य क्षत्रियत्वस्योत्वादन्य इत्युक्तम्‌ । मुख्यवायुसहितेषु पञ्चाशन्मरुत्सुमुख्यवायोः क्षत्रियत्वस्योक्तत्वाद्वायोरन्य इत्याह । अष्यवसुषु अग्नेः ब्राह्मणत्वस्य वक्ष्यमाणत्वादग्नेरन्य इत्यभिहितम्‌ । ब्रह्मवा इदमग्र आसीदेकमेवेति वाक्यस्यार्थमाह ॥ एकएवेति ॥ ब्रह्मेति वक्ष्यमाणमत्रापि सम्बध्यते । एवकारव्यावर्त्यं दर्शयति ॥ परिवारविवर्जित इति ॥ अनेन तदेकं सन्नव्यभवदिति वाक्यं व्याख्यातम्‌ । ननु तच्छ्रेयोरूपमत्यसृजत क्षत्रमित्यादिना परिवारभूतक्षत्रियदेवानामुत्पत्तेरुक्तत्वात्पुनः स नैव व्यभवदित्युक्तिः कथमित्यतस्तदभिप्रायमाह ॥ वाय्वादीनिति ॥ नैवव्यभवदित्यस्यार्थोऽल्पपरिग्रह इति । स इत्यस्येच्छन्‌ बहुपरिवारमिति । विशमसृजतेत्यस्यार्थोवैश्यानिति । तर्हि बहुपरिवारस्यापि जातत्वात्सनैवव्यभवत्‌ सशौद्रं वर्णमसृजतेत्युक्तिः कथमित्यत आह ॥ तत इति ॥ शूद्रांश्ऱ्चेति सम्बन्धः । पूषणमियं वैपूषेयं हीदं सर्वपुष्यतीति पृथिव्याः शूद्रदेवत्वमुक्तं तदुपलक्षणपरमिति भावेनाह ॥ अश्ऱ्चिनाविति ॥ निर्ऋतिरपिग्राह्यः । इत्युक्तप्रकारेण देववर्णाः देवेषु ब्राह्मणादिवर्णा स्मृता उक्ता इत्यर्थः । ननु बहुतरपरिवारस्याप्युत्पननत्वात्पुनः सनैवव्यभवदित्युक्तिः कथमित्यतस्तदभिप्रायमाह ॥ स्रष्येति ॥ अस्य जगतोधारणं कथं केन स्यात्‌ । अस्य सज्जनवर्गस्य गतिः मोक्षश्ऱ्चकथं केनस्यादिति मत्त्वेत्यर्थः । ननु स्वेनवास्वसृष्यदेवैः वा धारणं गतिश्ऱ्चस्यादित्यत उक्तं स्रष्येति तच्छ्रेयोरूपमत्यसृजत धर्ममित्येतद्वयाचष्ये ॥ हरेरिति ॥ भक्त्याख्यधर्माभिमानिरूपमिति गतिसाधनरूपोक्तिः । यद्वाधर्मोनिवृत्तधर्मः । तदुपलक्षणपरमित्यभिप्रायेण भक्तिधर्मरूपमित्युक्तम्‌ । अत एव भक्त्यादिरूपिण इति वक्ष्यति । धैर्यरूपं धैर्याभिमानिरूपमिति धारकरूपोक्तिः । अनेन श्रौतधर्मशब्दोद्येधाव्याख्यातः । उत्तरत्ररूपद्वयस्याप्युक्तत्वात्‌ । क्षत्ररूपापेक्षयाप्रथमः पुनः शब्दः । गतिसाधनरूपापेक्षयाद्वितीयः । ननु वायोः स्वरूपेण समत्वात्‌ कथं ब्रह्मातं ससर्जेत्यत आह ॥ विष्णोरिति ॥ तस्माद्धर्मात्परं नास्तीत्यतद्वयाचष्ये ॥ तस्मादिति ॥ विष्णुरेवास्तीत्यत उक्तम्‌ ॥ ऋत इति ॥ तस्मादित्युक्तं हेतुंदर्शयितुं तदेतत्क्षत्रस्य क्षत्रं यद्धर्म इति पूर्ववाक्यं व्याचष्ये ॥ शेषादीनामिति ॥ यस्मादिति शेषः । यद्धर्म इति धर्मशब्दोनपूर्वधर्मशब्दवदुभयार्थः । गतिसाधनरूपस्याथोबलीयानित्यादिना वक्ष्यमाणत्वादिति भावेन तस्यार्थमाह ॥ धारणादिति ॥ प्रजाःशेषद्याः अतो वायुर्धर्मशब्दाभिधेय इति शेषः । अथो बलीयान्‌ बलीयां सं आशं सतेधर्मेणेति वाक्यं व्याचष्ये ॥ अबलोपीति ॥ यतो वायोः परोनास्तितत इत्यर्थः । अनेनाथो इत्युक्तार्थम्‌ । धर्मेणेति धर्मशब्दोनपूर्ववदुभयार्थः धारकरूपस्योक्तत्वादिति भावेनोक्तं विष्णुभक्त्यादिरूपिण इति । युक्तो योगयुक्तः । यथाराज्ञैवमित्येतद्वयाचष्ये ॥ यथैवेति ॥ महाराजं प्राप्तुं इति सम्बन्धः । यो वैसधर्मः सत्यं वैतदित्येतद्वयाचष्ये ॥ धर्माभिमानीति ॥ तस्मात्सत्यं तव दन्तमाहुः धर्मं वदतीति धर्मं वा वदन्तं सत्यं वदतीति इत्येतद्वयाचष्ये ॥ तस्मादिति ॥ सत्यवचनं धर्मवचनं वा विप्रलम्भादि मूलं न भवतीति भावेन धर्मविदमित्यादिना व्यावहारकारणीभूतं ज्ञानं दर्शितम्‌ । एतद्धयेवैतदुभयं भवतीति वाक्यं व्याचष्ये ॥ वायुरिति ॥ स नैवव्यभवदित्यस्य पुनरल्पपरिग्रह इति कथं व्याख्यानम्‌ । ततस्तस्यार्थस्याप्रतीतेरित्यतस्तद्वाक्यं व्याचष्ये ॥ सनैवेति ॥ यद्विशिष्यत्वं तन्नाभवत्‌ न प्राप्तवानित्यर्थः । द्विशिष्यमिति पाठेयथाश्रुत एवार्थः । तथाचाल्पपरिग्रह इति तदर्थलब्धस्योक्तिरिति भावः । एवं स नैवव्यभवदित्युत्तरवाक्यद्वयमपि परिवारबहुतरत्वेन यद्विशिष्यत्वं तन्नाभवदिति मोचकेन धारणकेणचयद्विशिष्यत्वं तन्नाभवदित्यपि व्याख्येयम्‌ । प्रागुक्तब्राह्मणादि वर्णेषु श्रेष्ठानां चतुमर्ुखादीनामग्य्राद्याविष्यत्वरूपमाहात्म्यं वक्तुं तदनुवदति श्रुतिः । तदेतत्‌ ब्रह्मक्षत्रं विट्‌ शूद्र इति । तत्र निर्देशक्रमेप्राधान्यक्रम एव निमित्तमिति भावेन तांश्छब्दांस्तत्र निर्वक्ति ॥ बृहत्त्वादिति ॥ B-11

?Rर्व वर्णानां मध्ये बृहत्त्वाच्छ्रेष्ठात्वात्‌ । ब्राह्मणाः ब्रह्मेति परिकीर्तिता इत्यर्थः । क्षत्रियाश्ऱ्चक्षतत्राणात्‌ क्षत्रमिति कीर्तिताः

?Rवैश्या इति शेषः । वैश्यानां त्रिषूनत्वेनाविट्‌ शब्दवाच्यत्वं कथमित्यत आह ॥ ऊनेति ॥ शुभेदत्त इति ॥ शू इत्यस्यार्थः शुभ इति । दकारस्य दत्त इति । र इत्यस्यार्थोरमत इति । शुभाधिक्यविवक्षयोकारदैर्घ्यम्‌ । तदग्निनैवदेवेषु ब्रह्माभवदिति वाक्यं व्याचष्ये । स इति ॥ देवेषु अग्निनैव सहास्तेतदाविष्य इति यावत्‌ । एमुत्तरत्रापि । ब्राह्मणो मनुष्येष्विति वाक्यं व्याचष्ये ॥ अथ नरष्विति ॥ अनेन ब्रह्माभवदित्येतदत्राप्यनुवर्तनीयमित्युक्तं भवति । क्षत्रियेण क्षत्रिय इति वाक्यं व्याचष्ये ॥ क्षत्रेति ॥ देवेषु राजानोदेवराजानः तैः । समासान्तो विधिरनित्य इति भावः । स हैवास्त इत्यत्राप्यनुवर्तते । वैश्येन वैश्य इति वाक्यं व्याचष्ये ॥ वैश्यजातीति ॥ देवेषु वस्वादिभिः । शूद्रेण शूद्र इत्येतद्वयाचष्ये ॥ शूद्राभिमानीचेति ॥ देवेतासुमध्येनासत्ययोः पृथिव्याञ्चास्ते । मानुषे तु शूद्रेष्वेवास्त इति सम्बन्धः । अनेन क्षत्रियेणेत्यादि वाक्या त्रयेपि देवेषु मनुष्येष्वभवदिति पदत्रयस्य चानुवृत्तिः तृतीयैकवचनं च जात्यभिप्रायेणेत्युक्तं भवति । तस्मादग्नावेवदेवेषु लोकमिच्छन्त इति वाक्यं तस्मादित्युक्तहेतुं दर्शयन्व्याचष्ये ॥ यस्मदिति ॥ सर्वेषां देवानां मध्ये हविः हुत्वेति शेषोक्तिः । ब्राह्मणेमनुष्येष्विति वाक्यं व्याचष्ये ॥ तथेति ॥ विप्रेषु यस्माद्विशेषेण ब्रह्मणः सन्निधिः भवेत्‌ अतो मानुषे विप्रेषु हविः हुत्वालोकान्प्रार्थयन्तीति सम्बन्धः । ब्राह्मण इत्येकवचनं जातिविवक्षयेति भेवेनोक्तं विप्रेष्विति । मानुष इत्येकवचनं जातिविवक्षया । अत एव श्रुतौ मनुष्येष्वित्युक्तम्‌ । अत्र यस्मादिति हेतुवाक्येनैताभ्यां हि रूपाभ्यां ब्रह्माभवदिति वाक्यं पूर्वत्रहेतुप्रतिपादकतया विवृतं भवति । एताभ्यां हि रूपाभ्यामित्येतदेववाक्यं साध्यान्तराध्याहारेणापि व्याचष्ये ॥ सर्वेति ॥ ब्रह्म तुष्ययापि किं फलं विष्णुतुष्येरेव लोकप्राप्तिहेतुत्वेन सम्पाद्यत्वादित्यत आह ॥ तुष्य इति ॥ लोकान्वैकुण्ठादीन्‌ अग्निविप्रार्चनमात्रस्य ब्रह्मतुष्द्विरामोक्षहेतुत्वमिति शङ्कानिरासायाथयोहवा अस्माल्लोकादिति वाक्यं व्याचष्ये ॥ अग्नीति ॥ कर्माकरणेनैव भोजनाभावोपपत्तेरविदितोनभुनक्तीति कथमित्यत आह ॥ अग्निविप्रार्चकोपीति ॥ नैवभोजयेत्‌ लोकानित्यनुवर्तते । यथावेदोवाननूक्तोन्यद्वाकर्माकृतमिति दृष्‌टान्तवाक्यं व्याचष्ये ॥ यथेति ॥ ननु कथमयं दृष्यान्तः अनधीतस्य वेदस्याकृतस्य च कर्मणोनसर्वथाफलहेतुत्वम्‌ । अज्ञकृतकर्मणस्तु स्वर्गादिफलहेतुत्वमिति वैषम्यादित्यत आह ॥ न सम्यगिति ॥ अल्पफलदोपि मोक्षरूपसम्यक्‌ फलदोन भवतीत्यर्थः । सर्वथाफलाजनकस्याप्यनधीतवेदादेः सम्गक्‌ फलप्रदत्वाभावोस्तीति न वैषम्यमिति भावः । नन्वल्पस्याग्निविप्रार्चनामात्रस्य मोक्षहेतुत्वाभावेपि महतोश्ऱ्वमेधादेः मोक्षहेतुत्वं भविष्यतीति किं ज्ञानेनेत्याङ्कानिरासाय प्रवृत्तं यदि हवा इति वाक्यं व्याचष्ये ॥ यदीति ॥ आत्मानमेवलोकमुपासीतेति वाक्यं व्याचष्ये ॥ आप्तेति ॥ उपासीतजानीत च । स य आत्मानमेवेति वाक्यं व्याचष्ये ॥ विष्णुरिति ॥ उपास्तेजानाति च । नन्वेवं क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्येपरावर इत्यनेन विरोधः स्यादित्यत आह ॥ शुभान्येवेति ॥ अशुभकर्मनाशविषयं तत्‌ । शुभहानेरपुरुषार्थत्वादिति भावः । अस्माद्धयेवात्मन इति वाक्यं तात्पर्यतो व्याचष्ये ॥ उपासनेति ॥ नन्वेताभ्यां हि रूपाभ्यां ब्रह्माभवदित्यस्यैताभ्यां हि ब्राह्मणाग्निरूपाभ्यां कर्मकर्त्रधिकरणरूपाभ्यां ब्रह्माभवदित्यर्थप्रतीतेः । सर्वजात्युत्तमोब्रह्मायतो विप्राग्निसंस्थित इति व्याख्यानं कथमित्यतस्तद्वयाचष्ये ॥ एताभ्यामिति ॥ सहयोगतृतीयेति भावः । पूर्वोक्तं तु तात्पर्यकथनमिति हृदयम्‌ । ऐक्यस्य दूषितत्वेन नार्थान्तरसम्भव इति भावः । ननु स्वंलोकमित्यस्य स्वाख्यं लोकं परमात्मानमित्यर्थप्रतीतेः कथमाश्रयं सर्वजीवानामिति व्याख्यानमित्यत आह ॥ स्वंलोकमिति ॥ स्वस्याश्रय स्वाश्रय इत्युक्त्यास्वमित्यस्य स्वीयार्थकत्वमुक्तम्‌ । स्वाज्ञातय इति स्वशब्दस्य स्वीयेपि प्रयोगादिति भावः ॥ 9 ॥ आत्मानमेवलोकमित्युक्तं भगवतः सर्वाश्रयत्वं प्रपञ्चयति ॥ अथो इति ॥ तत्राथो अयं वा आत्मासर्वेषां भूतानां लोक इति वाक्यं अयं प्रकृतो गृहीकर्माधिकृतोऽविद्वानात्माशरीरेन्द्रिय विशिष्यः । सर्वेषां देवादीनां भूतानां लोकोभोग्य इति व्याख्यातम्‌ । तदसत्‌ । आत्मानमेवलोकमुपासीतेत्युपास्यत्वेन प्रकृतस्यैवात्मनोयं वा आत्मेति परामर्शात्‌ । नहि कर्मादिकृतो गृहस्थः पूर्वमात्मशब्देन प्रकृतः येन तत्परामर्शः स्यादिति भावेन खण्डं प्रमाणेन व्याचक्षाणः तावदयमात्मेत्यस्यार्थमाह ॥ योयमिति ॥ सवर्ेषां भूतानां लोक इत्येतद्वयाचष्ये ॥ स इति ॥ सर्वभूतानां देवादीनाम्‌ । स यज्जुहोति यद्यजतेतेनदेवानां लोक इति वाक्यं व्याचष्ये ॥ वैश्ऱ्वेति ॥ ननु किमर्थमेतत्करणं देवताप्रीति सम्पादनार्थमिति चेत्‌ न । आप्तकामस्य तेनापि प्रयोजनाभावादित्यत उक्तम्‌ ॥ कारुण्यादिति ॥ अथ यदनुब्रूते तेनर्षीणामिति वाक्यं अध्ययनकरणमात्रेण कथं ऋषीणामाश्रय इति शङ्कां परिहरन्‌ व्याचष्ये ॥ ऋषीणशमिति ॥ चशब्दः पूर्वत्र सम्बध्यते ॥ ऋषिसंस्मृतेरिति ॥ यो हवा अविदितार्षच्छन्दोदैवतब्रह्मणेनेतिश्रतेः ऋषिपरिज्ञानाभावे अध्ययनस्य व्यर्थत्वादिति भावः । श्रुतौ पूर्ववाक्यात्स इत्येतदत्रानुवर्तत इति भावेन स इत्यनुवादेन जीवेषु सन्निविष्य इति तत्परामृष्यं दर्शितम्‌ । अथ यत्पितृभ्योनिमृणाति यत्प्रजामिच्छते तेन पितॄणामिति वाक्यं व्याचष्ये ॥ पिण्डमिति ॥ अथ यत्पशुभ्य स्तृणोदकं विन्दति तेन पशूनामिति वाक्यं

?Rव्याचष्ये ॥ तृणेति ॥ यदेभ्योऽशनं ददाति तेन मनुष्याणामिति वाक्यं व्याचष्ये ॥ अन्नत इति ॥ उभयत्रापि आश्रयोहरिरिति वक्ष्यमाणेन सम्बन्धः । यदस्यगृहेष्विति वाक्यं व्याचष्ये ॥ उपकाराच्चेति ॥ अथो अयं वा आत्मेत्यादि जीवान्तर्गतो भगवान्यज्ञादिकर्तृत्वाद्देवाद्याश्रय इत्यर्थत्वेन व्याख्यायश्ऱ्वेतद्वीपगतमूलरूपेणशपि यज्ञादिकर्तृत्वाद्देवाद्याश्रय इत्यर्थत्वेनापि व्याकरोति ॥ यज्ञादीनिति ॥ सर्वलोकानां सर्वभूतानाम्‌ । विष्णुरेवमूलूप्येवेत्यर्थः । हैवं विदेसवर्ाणिभूतान्यरिष्यिमिच्छन्तीति वाक्यं व्याचष्ये ॥ एवमिति ॥ यथा हवैस्वायलोकायारिष्यिमिच्छेदेवमिति वाक्यं व्याचष्ये ॥ स्वाश्रयस्येति ॥ स्वाश्रयस्य राजादेरिति सम्बन्धः ।तानिराजाद्याश्रितानि । एवमुत्तमस्य हरेः आश्रयत्ववेदिनः तस्याविनाशितामिच्छन्तीति पूर्वेण सम्बन्धः । तद्वा एतद्विदितं मीमांसितमिति वाक्यं व्याचष्ये ॥ तदेतदिति ॥ एवमथो अयं वा आत्मेत्यादिवाक्यं जीवान्तर्गतरूपेण वामूलरूपेण वायज्ञादिकतर्ृत्वात्‌ भगवान्देवाद्याश्रय इति व्याख्यातम्‌ । इदानीं रामकृष्णाद्यवताररूपेणापि यज्ञादिकर्तृत्वात्‌ देवाद्याश्रय इत्यपि तद्वाक्यस्यार्थमभिप्रेत्यतत्र प्रमाणमाह ॥ किन्त्विति ॥ हरिर्विधिबद्धतयारामकृष्णादिरूपेण देवादीन्पूजयामासेति न किन्त्वित्यर्थः । पुराकृतयुगेविष्णुनाम्नैव विष्णोरेव(देवत्वेन)पूजाकरणेन निरं हसोनिर्गतपापान्‌ अत एवनरकादिभयशून्यान्यथेष्यं पदमागतान्दृष्ट्वात्मनोदेवत्वेन स्वातन्त्ऱ्ेणपूजां च अलब्ध्वोत्तरयुगप्रवृत्तिमिच्छद्भिः ब्रह्मादिभिः देवैरसुरजनमोहनाय हर्याज्ञयैवसम्यगाराधित इत्यर्थः । न केवलं ब्रह्मादिभिः किन्तु अस्माद्विष्णोरपि श्रैष्ठयं दुष्यजनमोहनाय विष्ण्वाज्ञयैववांच्छताहङ्काराभिमानिनामयाच सम्यगाराधितः । रूद्रवाक्यमिदम्‌ । तत आराधनात्प्रसन्नः अंशस्य पुरुषावतारस्य अंशेन रामकृष्णादिरूपेण ॥ 10 ॥ नन्वथो अयं वेत्यादेः भगवान्मूलरूपेण यज्ञादिकर्तृत्वात्‌ देवाद्याश्रय इति व्याख्यानं तदास्यात्‌ यदि मूलरूपस्य भगवतो गृहस्थत्वं यज्ञादिकतर्ृत्वं च प्रामाणिकं स्यात्‌ । तदेवकुत इत्याशङ्कानिरासाय प्रवृत्तमात्मैवेदमग्र आसीदिति खण्डं भगवतो गार्हस्थ्ययज्ञादिकर्तृत्वप्रतिपादकतया प्रमाणेन व्याचष्ये ॥ एक इति ॥ अनेनात्मशब्देन ब्रह्मचारीकथ्यत इति परव्याख्यानं प्रमाणविरुद्धमित्युक्तं भवति । सोकामयत जायामेस्यादिति वाक्यं व्याचष्ये ॥ जायामिति ॥ नन्वविद्यमानस्येच्छादृष्या । नहि नारायणस्य जायाऽविद्यमाना । महालक्ष्म्ाः सदाविद्यमानत्वादित्यत आह ॥ विद्यमानामपीति । स्वरमणस्य तस्य तयाभोगः कादाचित्क इति भावः । एवं तर्ह्यात्मैवेदमग्र आसीदेक एवेति कथम्‌ । नारायणवत्तज्जायाया अपि अनादिनित्यत्वादित्यत आह ॥ नित्यत्वेपीति ॥ यदायस्मात्तयावियुक्तः तस्मादेक इत्युच्यत इत्यर्थः । अथ प्रजायेयेति वाक्यं व्याचष्ये ॥ देव्येति ॥ अन्च्छावद्विष्णोरिच्छानमोघेति भावेन वाक्यशेषमाह ॥ ब्रह्मेति ॥ अथ वित्तं मेस्यादिति वाक्यं व्याचष्ये ॥ जात इति ॥ पूर्ववदत्रापि वाक्यशेषमाह ॥ भूतानीति ॥ अथकर्मकुर्वीयेत्येतद्वयाचष्ये ॥ कुर्यामिति ॥ अत्रापि वाक्यशेषमाह ॥ ततस्त्विति ॥ जायादिकामनया यज्ञकरणेनच प्राप्तापूर्णत्वशङ्कानिरासायात्मशब्दं नारायणेनिर्वक्ति ॥ आहुरिति ॥ तस्मादप्येतर्हीत्यादिवाक्यं व्याचष्ये ॥ तस्मदिति ॥ नारायणेन कामितत्वादित्यर्थः । एतावन्तं जायादिचतुष्यम्‌ । नात्र वित्तशब्देन पूर्ववद्भूतादिकं विवक्षितम्‌ । तस्याधुनातनपुरुषाकाम्यत्वादिति भावेनाह ॥ दैवमिति ॥ सुसम्यक्‌ खंज्ञानं आद्यशब्देन वेदादिशास्त्रम्‌ । यद्वा । सुखस्याद्यं सुखसाधनं वेदादिशास्त्रमित्यर्थः । मित्राद्यं मित्राद्यशब्देन हिरण्यादिग्रहणम्‌ । स यावदप्येतेषामिति वाक्यं स इति तच्छब्देनात्मपरामर्श इति भ्रान्तिनिरासाय व्याचष्ये ॥ इदानीमपीति ॥ तस्मान्नारायणेन जायादिचतुष्ययस्य कामितत्वादिदानीमपि यः कश्ऱ्चिदपि पुरुषः एवमेवनारायणवदेवजायादिचतुष्ययं कामयेत्‌ । तत्र यदि कामितवैकल्यं तदाऽकृत्स्नवानपूर्णोहीत्यर्थः । तस्योकृत्स्नतेत्येतदपेक्षितं पूरयन्व्याचष्ये ॥ एकाकिन इति ॥ तस्येत्यस्यार्थः एकाकिन इति । उशब्दार्थोपीति । कृत्स्नतेत्यस्यार्थोवैकल्यमिति । मन एवास्यात्मेति वाक्यं जडमनः प्रतीतिं निवारयन्‌ व्याचष्ये ॥ स्वात्मन इति ॥ जडमनसः आत्मत्वचिन्तनं च बाधितमिति भावः । वाग्जायेति वाक्यं पूर्ववद्वयाचष्ये ॥ जायामिति । तादृशीं स्वरूपभूतां जडवाक्चननित्यावियुक्तेति भावः । प्राणः प्रजेत्येतद्वयाचष्ये ॥ बलमिति ॥ तादृक्‌ स्वरूपभूतं स्वंस्वकीयं बलमात्मजं चिन्तयेदिति सम्बन्धः । चक्षुर्मानुषं वित्तं श्रोत्रं दैवमिति वाक्यं व्याचष्ये ॥ श्रोत्रमिति ॥ तादृक्‌ स्वरूपभूतं आत्मैवास्य कर्मेत्येतद्वयाचष्ये ॥ एवम्भूतमिति ॥ न केवलमेवं चिन्तनं फलहेतुः अपि तर्हीत्यत आह ॥ एतदिति ॥ आत्मादिकर्मान्तं प्रागुक्तं षट्‌कमित्यर्थः । समपअयेच्चेत्यन्वयः । स एष पाङ्‌क्तो यज्ञ इत्येतद्वयाचष्ये ॥ एवमिति ॥ द्विविधमपि वित्तमित्येवं पञ्चभिरिति सम्बन्धः । पशुपुरुषयोरुक्तपञ्चकसाध्यत्वाभावात्‌ तत्साधनपञ्चकं दर्शयन्पाङ्‌क्तः पशुः पाङ्‌क्तःपुरुष इत्येतद्वयाचष्ये ॥ पुरुष इति ॥ पाङ्‌क्तमिदं सर्वं यदिदं किञ्चेति वाक्यं व्याचष्ये ॥ एवं हीति ॥ मात्रादिपञ्चेकेनेत्यर्थः । जडस्योक्त पञ्चकसाध्यत्वाभावात्‌ इदं सर्वमित्येतत्प्राणिन इति व्याख्यातम्‌ । तदिदं सर्वमाप्नोति य एवं वेदेति वाक्यं व्याचष्ये ॥ एतामिति ॥ य इति श्रवणशत्‌ स इति ग्राह्मम्‌ । तदयोग्यानां

?Rफलप्रतिपादकतयापि तद्वयाचष्ये ॥ ब्राह्मइति ॥ अनेन सर्वशब्दोयथायोग्यार्थक इत्युक्तं भवति । तदयोग्यफलप्रतिपादकतयापि तद्वयाचष्ये ॥ तस्यापीति ॥ न केवलमैहिकं सर्वाधिपत्यादिमात्रफलं किन्त्वित्यत आह ॥ क्रमादिति ॥ मुक्तिञ्चेति सम्बन्धः । नन्विच्छंश्ऱ्चन न विन्देदित्यस्य जायादि चतुष्ययमध्य एव जायामेस्यादित्यादीच्छन्नपि न विन्देदित्यर्थोवाततोन्यत्‌ स्यादिति इच्छन्नपीति वा । नाद्यः । जायापुत्रवित्तकर्मणां लब्धत्वात्‌ । एतावान्वैकाम इति हेतुवाक्यासङ्गतेश्ऱ्च । न द्वितीयः । ततोन्यस्य काम्यस्यैवाभावेनेदं मेस्यादिति विशेषेणेच्छाया एवासम्भवादित्यत आह ॥ अविशेषेणेति ॥ कुतो न विन्देदित्यतः एतावान्वैकाम इति हेतुवाक्यं व्याचष्ये ॥ तत इति ॥ जायादिचतुष्ययादित्यर्थः । आत्मैवास्य कर्मेत्यात्मशब्द एवम्भूतं चिन्तनमिति न्तिनार्थो व्याख्यातः । तत्राभिधानमाह ॥ आत्मेति ॥ यो हवा अस्माल्लोकात्स्वं लोकमदृष्ट्वाप्रैति स एनमविदितोनभुक्तीत्यादिकं प्रमाणेन व्याकृतमपि ज्ञानस्य मोक्षहेतुत्वेवादिति विप्रतिपत्तेः श्रुत्यापि व्याचष्ये ॥ सर्वाश्रयमिति ॥ लोकशब्दार्थस्सर्वाश्रयमिति । स्वमित्यस्यार्थः पितरमिति । स्वशब्दस्य ज्ञातिवाचकत्वात्‌ । गुणपूर्णत्ववाचकात्मशब्दपर्यायोवास्वशब्दः । अत एव श्रुतौ स्वंलोकमित्येतदात्मानमेव लोक

?Rमित्यनूद्यत इति भावेन स्वशब्दस्यार्थान्तरमाह ॥ अधिकं गुणैरिति ॥ पुण्यं पुण्यसाधनं अग्निविप्रार्चनादि । महदश्ऱ्वमेधादिकर्म । फलभाक्‌ अनन्तफलभागित्यर्थः । अनेन यदि हवाअप्यनेवं वित्‌ महत्पुण्यमित्येतदपि व्याख्यातम्‌ । अत एवमहत्पुण्यमित्युक्तम्‌ । स य आत्मानमेवलोकमुपास्त इति वाक्यमुपासनामात्र परत्वप्रतीति निरासाय व्याचष्ये ॥ तथेति ॥ अपरोक्षतोज्ञात्वेत्यर्थः । उदितं वेदादिविहितम्‌ । अस्माद्धयेवात्मन इत्यस्य तात्पर्यं प्राप्नोतीति । ननु अथो अयं वात्मेति वाक्यस्य स लोकः सर्वभूतानां सर्वजीवेषु संस्थित इति व्याख्यानमसत्‌ । पश्ऱ्वादि जीवानां त्रिवर्णेतरेषाञ्च कमर्ाधिकारस्यैवाभावेन त्रिवर्णेष्वपि यत्यादीनां वैश्ऱ्वदेवादिकमर्ाभावेन तदन्तस्थस्य परमात्मनोवैश्ऱ्वदेवादिकरणेन सर्वभूताश्रयत्वाभावात्‌ । अतो स्मादुक्तरीत्याऽविद्वद्गृहस्थपरमेवेदमित्यङ्गीकार्यमित्यतस्तद्वयाचष्ये ॥ परमात्मैवेति ॥ एवकारेणगृहस्थव्यवच्छेदः । गृहस्थस्यैव प्रतिपाद्यत्वे उपनिषदोऽब्रह्मविद्यात्वप्रसङ्गात्‌ । अत्र गृहस्थशब्दोज्ञान्यज्ञान्युभयपरः । उभयोरपि प्रकृतत्वात्‌ । अत एव यो हवा इत्यादिवाक्य व्याख्यानरूपं प्रमाणमुदाहृतम्‌ । सर्वजीवेष्विति वचनं गृहस्थसर्वजीवपरमित्यवधेयम्‌ । प्रमाणविरुद्धत्वाच्चनतद्गृहस्थमात्र परमिति भावेन स यज्जुहोतीत्यादिवाक्यव्याख्यानरूपां श्रुतिं पठति ॥ गृहस्थेति ॥ यदनुब्रूते तेनर्षीणामिति वाक्यं व्याचष्ये ॥ स्वाध्याय इति ॥ स्वाध्याये वेदेऋषिसंस्मृत्या स्वाध्यायाध्ययनादित्यर्थः । अथ यत्पितृभ्य इत्यस्यार्थः श्राद्धत इति । यदेभ्योशनं ददातीत्यस्यार्थोन्नदानत इति । अत्रादिपदमध्याहार्यम्‌ । तेन तृणोदकादि सङ्ग्रहः । मनुष्यादेरित्यादिपदेन पश्ऱ्वादिग्रहणम्‌ । तेन यत्पशुभ्यस्तृणोदकं विन्दतीत्यादिव्याख्यातम्‌ । यथाहवैस्वायलोकायेति फलवाक्यं व्याचष्ये ॥ अत इति ॥ स्वस्यान्तर्यामिणमेवं वेत्तीति सम्बन्धः । न केवलमेतावत्‌ किन्तु सुरादीन्पूजयेच्च । यथालोकाः स्वाश्रयस्य राजादेरविनाशमिच्छन्ति तथासुराः सुराद्याः तस्याविनाशमिच्छन्तीति योजना । तद्वा एतदित्यस्यार्थमाह ॥ तदेतदिति ॥ विष्णोः सर्वाश्रयत्वम्‌ । किञ्चाथो अयं वेत्यादिकं न गृहस्थमात्रपरमिति वक्तुं शक्यम्‌ । गृहस्थस्य मनुष्यस्यदेवाश्रयत्वासम्भवादिति भावेन तत्र प्रमाणमाह ॥ नराणशमिति ॥ नचैवं ब्रह्मविच्चतत्रोच्यत इति उक्तविरोधः । लोकशब्दस्य मुख्याश्रयत्वरूपार्थविवक्षयाप्रवृत्तत्वात्‌ । भोजकत्वरूपामुख्याश्रयत्वरूपार्तविवक्षयातस्य प्रवृत्तत्वात्‌ । अत एवोक्तं गृहीसुरादीन्‌ पूजयेत्तथेति । पूर्वमात्मैवेदमग्र असीदित्यादिकमीश्ऱ्वरपरतयाव्याख्यातम्‌ । इदानीं चतुर्मुखपरतयापि व्याख्यातुं आत्मशब्दार्थमाह ॥ आत्मेति ॥ कुत इत्यतस्तत्प्रमाणमाह ॥ आत्मात्विति ॥ स्वामीत्यर्थः । एवं सति आहुरात्मेति तं देवमित्युक्त श्रुतिविरोधः स्यादित्यत आह ॥ तस्येति ॥ एवमात्मशब्दर्थमुक्त्वा आत्मैवेदमग्र आसीदिति वाक्यार्थमाह ॥ स एवेति ॥ इदमग्र इत्यस्यार्थः प्रथममिति । आसीदित्यस्यार्थोजात इति । वासुदेवादिति शेषोक्तिः । सोकामयतेत्यादि व्याचष्ये ॥ तदनन्तरं भार्याप्राप्त्यनन्तरम्‌ । तत उभयप्राप्त्यनन्तरम्‌ । वित्तं मानुषंदैवञ्च । ततस्त्रितयप्राप्त्यनन्तरम्‌ । इत्यकामयतेति सम्बन्धः । सयावदप्येतेषामित्यादिवाक्यं व्याचष्ये ॥ सोपीति ॥ तस्योकृत्स्नतेत्यस्य तात्पर्यं पूर्णत्वसिद्धयर्थमिति । वाग्जायेत्यादि व्याचष्ये ॥ भायर्ामिति ॥ प्राणं बलं चक्षुर्बाह्यं मानुषं वित्तं श्रोत्रं ज्ञानाख्यमान्तरं दैवं वित्तं अकल्पयदिति सम्बन्धः । स्वात्मानं स्वदेहम्‌ । देहान्तात्पञ्चकादित्युत्तरत्रानुवादात्‌ । एवं कल्पनेन किं कृतवानत आह ॥ एवमिति ॥ स्वरूपभूतवागादिभिः बाह्यजायादिप्रतिनिधिभूतैः पञ्चभिर्मानसयज्ञेकृते बाह्यानिजायापुत्र मानुषदैववित्तकर्माणि च जातानीत्यर्थत्वेन च वाग्जायेत्यादिवाक्याचष्ये ॥ तत इति ॥ मानस यज्ञादित्यथर्ः । अनेन वाक्‌ प्राण इत्यादि प्रथमा पञ्चभ्यर्था जन्यजनकयोरभेदोपचारोवेत्युक्तं भवति । दिशश्ऱ्चक्षुषः श्रोत्राज्ज्ञानमभूदिति ग्राह्यम्‌ । तदुपपादयति ॥ तस्येति ॥

?Rआत्मनादेहेन चकार उत्पादयामास । नन्वेवं तर्हि मन एवास्यात्मेति वाक्यं व्यर्थं इत्यतो जायाद्युत्पत्तौ असाधारणप्रतिपादनपरं तदिति भावेन तद्वयाचष्ये ॥ पुरेति ॥ अस्य ब्रह्मणो जायाद्युत्पत्तेः पुरामानस यज्ञसङ्कल्पात्मकं मन एवासीन्नजायादिकमित्यर्थः । किं तत इत्यत आह ॥ तेनेति ॥ तेन मनसा मानस यज्ञेनेति यावत्‌ । इदं पूर्वमपेक्षितं जायादिकर्मपर्यन्तं पञ्चकमवापेति सम्बन्धः । पूर्वोक्तं प्रातिस्विकं कारणमाह ॥ देहान्तादिति ॥ वाक्‌ प्राणचक्षुःश्ररोत्र देहरूपात्पञ्चकाज्जायादिकर्मपर्यन्तं पञ्चकमवापेति सम्बन्धः । अत्र देहशब्दः स्वरूपभूतचिन्तनात्मकमनोलक्षणदेहपरः । एवं कर्मस्वात्मानमित्यत्रात्मनासर्वकर्माणीत्यत्र चात्मशब्दः पूर्ववत्‌ चिन्तनार्थ इत्याहुः । तदिदं सर्वमाप्नोति य एवं वेदेति फलवाक्यं व्याचष्ये ॥ तस्मादिति ॥ पञ्चकं वागादिपञ्चकम्‌ । तथा जायंदित्वेन कल्पनया उपास्ते मानसयज्ञं करोतीत्यर्थः । इदं सर्वं जायादिकम्‌ । न केवलमेवमुपासकस्यैहिकजायादिप्राप्तिः फलं किं तर्हीत्यत आह ॥ मुक्तिश्ऱ्चेति ॥ न केवलमेवं मानसयज्ञमात्रेणमुक्तिः किं तर्हीत्यत आह ॥ पञ्चानामिति ॥ वागादीनामित्यर्थः । नित्यं स्मरत एवलास्य मुक्तिरिति सम्बन्धः । न केवलमुक्तप्रकारेण वागादिपञ्चकोपासकस्योक्तफलप्राप्तिः किन्त्वित्यतः स एष पाङ्‌क्तोयज्ञ इत्येतद्वयाचष्ये ॥ स वनत्रयमिति ॥ यज्ञे इति पञ्चकं योविष्णूपकरणत्वेनोपास्ते स इदं सर्वमाप्स्यति मुक्तिश्ऱ्चान्तेभवत्यस्येति सम्बन्धः । पाङ्‌क्तःपुरुष इत्येतद्वयाचष्ये ॥ पुरुष इमिति ॥ दिक्‌ चतुष्ययवृत्तिचतुर्भागमित्यर्थः । पाङ्‌क्तमिदं सर्वं यदिदं किञ्चेत्यस्यार्थकथनाय सर्वत्रेत्युक्तम्‌ । पञ्चानां देवतां हरिमित्याद्यत्रापि सम्बध्यते ॥ अथखणडार्थः ॥ ब्रह्मचतुर्मुखाख्यं ब्रह्मब्राह्मणजतिविशिष्यं सदिदमग्रेएकमेवासीत्‌ जज्ञेविष्णोरिति शेषः । तद्ब्रह्म एकं सत्‌ न व्यभवत्परिवारविशिष्यं नाभवत्‌ । तद्ब्रह्मात्मनः परिवारमिच्छन्‌ श्रेयोरूपं सर्वजात्युत्तमं क्षत्रं त्रक्षजातिं अत्यसृजत्‌ । तदेवव्यक्तिभेदेन दर्शयति ॥ यानीति ॥ देवत्रादेवेषु । यान्येतानिप्रसिद्धानि क्षत्राणि । एतानिकानीत्यपेक्षायामाह ॥ इन्द्र इति ॥ इन्द्रोगरुडः वरुणः प्रसिद्धः सोमः सूर्यश्ऱ्चग्राह्यः । रुद्रः सदाशिवः पर्जन्य इन्द्रः कामोपि ग्राह्यः । यमः प्रसिद्धः । मृत्युशेषः ईशानोवायुरिति यस्मात्‌ क्षत्रं श्ररोयोरूपं तस्मात्‌ क्षत्रात्परमुत्तमं ब्राह्मणजातिं विनानास्ति । क्वचित्समयेब्राह्मणादप्युत्तमः क्षत्रियः किमुवैश्यादेरिति भावेन ब्राह्मणात्क्षत्रियस्योत्तमत्वे लिङ्गमाह ॥ तस्मादिति ॥ यस्मात्क्षत्रात्परं नास्ति तस्माद्ब्राह्मणः स्वयं गुरुरपि आसीनं क्षत्रियं आसनाधस्तात्‌ राजसूये उपास्ते किमर्थं इत्यत आह ॥ क्षत्र एवेति ॥ यशोनिधिर्ब्राह्मणस्तत्स्वमी(त्मी)यं यशः तत्तेनाधस्तात्‌ उपासनेन क्षत्र एव दधाति स्थापयति । तस्मैयशोदातुं तथोपास्त इत्यर्थः । स्वयमुत्तमोयशोदातुं अधस्तादुपास्त इति कुतः अपकृष्यत्वादेवतथोपास्त इति किं न स्यादित्यत आह ॥ सैषेति ॥ यद्यपि राजातस्माद्राजसूयकर्तृत्वोपाधेः परमतां गच्छति तथापि यद्ब्रह्मयोब्राह्मणः सैषाक्षत्रस्य योनिरुपदेशादिनाज्ञप्तिकाणं गुरुरिति यावत्‌ । गुरुत्वज्ञापकमाह ॥ ब्रह्मैवेति ॥ तस्मादित्यनुवर्तते । तस्माद्ब्राह्मणस्य गुरुत्वादेव अन्ततोराजसूयान्ते राजास्वां योनिं स्वगुरुभूतं ब्रह्मब्राह्मणमुपानिश्रयति वन्दयीत । इतोपि ब्राह्मणः क्षत्रियादुत्तम इति भावेनाह ॥ य इति ॥ यःक्षत्रियः एनं ब्राह्मणं हिनस्ति सःस्वंयोनिं स्वपितरं ऋच्छति विनाशयति । ब्राह्मणन्तुरपि क्षत्रियस्य पितृजीवनदर्शनात्कथमेतदित्यतोभिप्रायमाह ॥ स इति ॥ यथा श्रेयांसंगुणाधिकं स्वपितरं हिंसित्वाहत्वा पापीयान्‌ भवति तथा ब्राह्मणहाक्षत्रियः पापीयानेव भवति नतु तद्धननेनैतद्धन्तेत्यर्थः ॥ 5 ॥ एवं क्षत्रियदेवोत्पत्त्यनन्तरं सच तुमुखोनैव व्यभवत्‌ परिवारबहुत्वेन यद्विशिष्यं तन्नाभवत्‌ । स बहुपरिवारमिच्छन्विशमसृजत । तदेवव्यक्तिभेदेन दर्शयति ॥ यानीति ॥ यानिदेव एतानिदेवत्वजातिमन्ति वसवोग्निव्यतिरिक्ताः सप्त रुद्राः सदाशिवव्यतिरिक्ताः दश आदित्याः विवस्वदिन्द्रवरुणविष्णुभिन्ना अष्यौ विश्ऱ्वेदेवाः दशमरुतो वायुभिन्नाः एकोनपञ्चाशत्सङ्खयाकाः इति गणश आख्यायन्ते एतान्यसृजतेति सम्बन्धः ॥ 6 ॥ एवं क्षत्रिय वैश्यदेवोत्पत्तावपि सच तुर्मुख्नैवव्यभवत्‌ परिवारबहुपरत्वेन यद्विशिष्यं तन्नाभावत्‌ । सबहुतरपरिवारेच्छुःशौन्द्रवर्णमसृजत । किंतत्‌ । पूषणं कःपूषेत्यत आह ॥ इयमिति ॥ इयं पृथिवी । केन निसिमत्तेनेत्यत आह ॥ इयंहीति ॥ पुष्यति पोषयति । उपलक्षणमेतत्‌ अश्ऱ्विनिर्ऋत्यादयोपिग्राह्याः ॥ 7 ॥ एवं बहुतरपरिवारसम्पत्तावपि सनैवव्यभवत्‌ । जगद्धारकेन मोचकेन चयद्विशिष्यं तन्नाभवदित्यर्थः । स्वस्य स्रष्यृत्वात्‌ । उत्पन्नेवानां च पालकत्वात्‌ । कथमस्य धारणं मोक्षश्ऱ्चस्यादिति विचिन्त्य तद्ब्रह्मचतुर्मुखाख्यं श्रेयोरूपं सर्वश्रेष्ठं धर्मं जगद्धारकं वायोः रूपान्तरमत्यसृजत । तथा श्रेयोरूपं मोक्षसाधनं धर्मं विष्णुभक्त्यादिधर्माभिमानिभूतं वायोरेवरूपान्तरमत्यसृजत । ननुशेषदिष्वपि विद्यमानं धारकत्वं मोचकत्वं च वायोरेव कुत इत्यतस्तावद्धारकत्वमुपपादयति ॥ तदेवदिति ॥ यद्धर्मोयोधारकस्तदेतत्‌ क्षत्रस्य क्षत्रियस्य शेषादेः क्षत्रमधिपतिः यस्मात्तस्माद्धर्माद्वायोः परमुत्तमं विष्णुमृतेनास्ति तथाच तस्यैव धारकत्व(त्वंयुक्त)मिति भावः । इदानीं मोचकत्वमुपपादयति ॥ अथो इति ॥

?Rयस्माद्धर्माद्वायोः परमुत्तमं नास्ति । अयोतस्मादेवाबलीयान्स्वयमेव विष्णुं प्रतिगन्तुमसमर्थः धर्मेण विष्णुभक्त्यादिधर्माभिमानिवायुरूपेण बलीयांसं विष्णुं प्राप्तुं अशंसते इच्छति । अत्र दृष्यान्तमाह ॥ यथेति ॥ यथेति ॥ यथालोके कश्ऱ्चिदबलीयान्स्वयमेवराजानं प्रतिगन्तुमसमर्थो राज्ञायुवराजेन बलीयांसं महाराजं प्राप्तुमाशंसते एवमित्यर्थः । धर्माभिमानिनोवायोः रूपान्तरमाह ॥ यइति ॥ सप्रसिद्धो यो वै य एव धमर्ोधर्माभिमानी एतत्सत्यं वैसत्याभिमान्येवतयोरैक्ये लोकप्रसिद्धिं प्रमाणयति ॥ तस्मदिति ॥ हि यस्माद्धर्मः सत्यञ्चेत्युभयमेतदेवप्रकृतवाय्वभिमन्यमानं एव भवति तस्मात्सत्यं वदन्तं पुरुषमयं धर्मं वदतीत्याहुः । धर्मं वदन्तं च सत्यं वदतीत्याहुः । ज्ञानिन इति योजना ॥ 8 ॥ प्रागुक्तब्राह्मणादि वर्णेषु श्रेष्ठानां चतुर्मुखादीनां अग्न्याद्याविष्यत्वरूपं माहात्म्यं वक्तुं तदनुवदति ॥ तदेतदिति ॥ ब्रह्मक्षत्रं विट्‌शद्र इति यत्तदेतत्प्रागुक्तमित्यर्थः । तत्‌ तत्र ब्रह्मब्राह्मणजात्यभिमानि तुर्मुखाख्यं देवेषु मध्येऽग्निनैव सह अभवत्‌ आस्ते । तदन्तर्गतमिति यावत्‌ । मनुष्येषु मध्येब्राह्मणोभवत्‌ ब्राह्मणान्तर्गतोभवत्‌ । देवेषु मनुष्येष्वभवदिति पदत्रयमुत्तरत्राप्यनुवर्तते । क्षत्रियः क्षत्रजात्यभिमानीवायुः देवेषु क्षत्रियेण सुपर्णशेषादिना सह मनुष्येषु क्षत्रियेणराज्ञा सह अभवत्‌ आस्ते तदन्तर्गत इति यावत्‌ । वैश्यःवैश्यजात्यभिमानीनासिक्योवायुः देवेषु वैश्येन वस्वादिना सह मनुष्येषु वैश्येन सह अभवत्‌ तदन्तर्गतोभवदित्यर्थः । शूद्रःशूद्राभिमानीनिर्ऋतिर्देवेषु शूद्रेण अश्ऱ्विपृथिसव्यादिना मनुष्येषुशूद्रेण सह अभवत्‌ तदन्तर्गतोऽभवदित्यर्थः । देवेष्वग्नौ मनुष्येषु ब्राह्मणे चतुर्मुखः सन्निहितमभवत्‌ । अग्नौब्राह्मणेच सन्निहितमिति यावत्‌ । तस्माद्देवेषु मध्येऽग्नावेव मनुष्येषु ब्राह्मण एव हविः हुत्वालोकमिच्छन्ति प्रार्थयन्ते । अग्निब्राह्मणयोः ब्रह्मणस्थितत्वात्‌ तौ ब्रह्मणस्तुष्यिद्वारालोकप्राप्तिकामः सर्वोपि जनस्तर्पयेदिति भवेनाप्याह ॥ एताभ्यामिति ॥ अग्निब्राह्मणपूजयैवकिं मोक्षोपि भवति नेति भावेनाह ॥ अथेति ॥ यद्वाकेचिदग्निब्राह्मणपूजयैवमोक्षोभवतीत्याहुः तान्प्रत्याह ॥ अथेति ॥ अथशब्दपूर्वपक्षव्यावृत्त्यर्थः । यो वैयोग्निविप्रार्चकोपि स्वं स्वकीयं लोकमाश्रयं हरिं अदृष्ट्वा अनपरोक्षीकृत्यास्माल्लोकात्‌ देहात्प्रैति । एनं अग्निविप्रार्चकं सःहरिरविदितोऽदृष्यो न भुनक्तिनामृतत्वं भोजयति । अत्र दृष्यान्तमाह ॥ यथेति ॥ यथावेदोननूक्तोनधीतो ईश्ऱ्वरज्ञानादिजननेन न भुनक्ति अन्यद्वाकर्माकृतं स्वकीयफलदानेन न भुनक्तितथेति । तथाप्यश्ऱ्वमेधादिमहत्कर्मानुष्ठानान्मोक्षो भविष्यतीत्यत आह ॥ यदिहेति ॥ यदि अनेवं वित्‌ परमात्मन परोक्षज्ञानी महदपि पुण्यं पुण्यसाधनं कर्माश्ऱ्वमेधादिकं करोति अस्याज्ञानिनः तत्‌ कर्म अन्ततः स्वर्गादिफलभोगावसानेक्षीयत एव हनिश्ऱ्चितं न पुनरक्षयमोक्षसाधनम्‌ । तस्मात्‌ मुमुक्षुः लोकं सर्वाश्रयं आत्मानमेवाप्तकामं विष्णुमेव उपासीत जानीत च् । ज्ञानिकृतकर्मणोप्यज्ञकर्मवत्‌ क्षयेकिं ज्ञानसम्पादनेनेत्यत आह ॥ सय इति ॥ उपास्ते जानाति च कर्मशुभं अशुभस्य क्षयात्‌ । ननु कर्मण अशुतरविनाशित्वान्नक्षीयन्त इति कथमुक्तमित्यत आह ॥ अस्मादिति ॥ हि यस्मादेवमुपासनापरोक्षज्ञानाभ्यामुक्तो यद्यत्कामयते तत्तदस्मादेवापरोक्षीकृतादात्मनस्तत्प्रसादात्‌ कर्मसृजते तस्मान्नक्षीयत इत्युक्तमिति ॥ 9 ॥ आत्मानमेव लोकमिति यद्भगवतः सर्वाश्रयत्वमुक्तं तत्साधयितुं प्रतिजानते ॥ अथो इति ॥ अयं प्रकृतगृहस्थान्तार्यामीमूलरूपो वा रामकृष्णादिहस्थावताररूपो वा आत्मापरमात्मा सर्वेषां भूतानां देवादिपिपीलिकान्तनां लोकः आश्रयः । तत्कथमित्यत उपपादयति ॥ स इत्यादिना ॥ सःगृहस्थानतर्गतोमूलरूपो वा रामकृष्णाद्यवताररूपो वा परमात्मा यज्जुहोतिवैश्ऱ्वदेवादिकं करोति यद्यजते अश्ऱ्वमेधादि यज्ञांश्ऱ्च कुरुते तेन होमादिना देवानां लोकः आश्रयः देवानुद्दिश्याहुति प्रक्षेपात्‌ । यदनुब्रूतेस्वाध्यायमधीते तेन ऋषीणां लोकः अध्ययन कालेवेदद्रऋषिसंस्मरणात्‌ । यत्पितृभ्योनिमृणाति पिण्डं प्रयच्छति यत्प्रजां पुत्रमिच्छते उत्पादयतीति यावत्‌ तेन पितृणां लोकः अथ यन्मनुष्यान्‌ गृहभूम्यादिदानेन वासयते यच्चैभ्योवसद्भयःअर्थिभ्योदानमन्नं ददाति तेन मनुष्याणां लोकः । अथयत्पशुभ्यस्तृणञ्चोदकं विन्दति लम्भयति तेन पशूनां लोकः । अस्य पूर्वोक्तरूपत्रयस्य परमात्मनोगृहेषुश्ऱ्वापदाः मार्जारादयो वयांसिपक्षिणः किं बहुनाऽऽपिपीलिकाभ्यःपिपीलिकां मर्यादीकृत्यवर्तमानाः सर्वेपि प्राणिनोयत्करणबलिहिण्डासाधनाद्युपाजीवन्ति तेन तेषां लोकः । एवं स्वान्तर्यामिणोमलरूपस्यावताररूपस्य वा हरेः सर्वोश्रयत्ववेत्तुर्गृहस्थस्य फलमाह ॥ यथेति ॥ B-12

?Rयथालोकेस्वायस्वकीयाय लोकाय आश्रयायराजादये अरिष्यिं अविनाशमिच्छन्ति एवं ह एवमेवैवं विदे उक्तप्रकारेणस्वान्तयर्ामिणः सर्वाश्रयत्वविदेगृहस्थाय सर्वाणि भूतानि देवादीन्यरिष्यिमिच्छन्ति । परमात्माधिष्ठानभूतगृहस्थपरत्वेनापीदं योज्यम्‌ । तदालोकशब्दोभोजकत्वार्थोज्ञेयः । एवं विष्णोः मुख्यतः सर्वाश्रयत्वमुपपाद्यस्वोक्तार्थे प्रमाणमाह श्रुतिः ॥ तद्वा इति ॥ तदेतद्विष्णोः मुख्यतः सर्वाधारत्वं सर्वैर्वेदैः विदितं प्रतिपादितं मीमांसितं मीमांसाभिः निश्ऱ्चितञ्च ऋषिसङ्घैर्विचारितमिति वा ॥ 10 ॥ ननु यदि मूलरूपस्य भगवतो गार्हस्थ्यं

?Rयज्ञादिकर्तृत्वञ्च स्यात्तदापूर्वोक्तमुपपन्नं स्यात्‌ तदेवकुत इत्यत आह ॥ आत्मैवेति ॥ इदमग्रे अस्याग्रे आत्मापरिपूर्णोनारायण एवासीत्‌ । किमन्यन्नासीत्‌ बाढमित्याह ॥ एकएवेति ॥ स नारायणोऽकामयत किमिति जायामेस्यादिति सर्वदाविद्यमानामपि जायां रमाम्‌ । भोगार्थं ऐच्छत्‌ । अथ तया सहभोगानन्तरं प्रजायेय पुत्रं जनयिष्यामीत्यकामयत । ततो ब्रह्माततोदेवाद्याजाता इति ग्राह्मम्‌ । अथ पुत्रसम्पत्त्यनन्तरं वित्तं पञ्चमहाभूतादिरूपं स्यादित्यकामयत । ततः तज्जातमिति ग्राह्यम्‌ । अथ वित्तसम्पत्त्यनन्तरं कमर्स्वात्मानमुद्दिश्य यज्ञं कुर्वीयेत्यकामयत कृतवाश्ऱ्च । जायाद्यतिरिक्तमपि कुतो न कामनयालब्धवानित्यत आह ॥ एतावानिति ॥ काम्यत इति कामोविषयः एतावानेवयतोतोनेच्छत्येव । भूयः पुनस्ततोन्यत्स्यादित्यविशेषेणेच्छन्नपि न विन्देदित्यर्थः । तस्मान्नारायण;नैवं कामितत्वादेतर्ह्यपि इदानीमप्येकाकीकामयते जायामेस्यादथ प्रजायेयाथवित्तं दैवं मानुषञ्चमेस्यादथकर्मकुर्वीयेति । स एवं कामयमानः कश्ऱ्चित्पुरुषः एतेषां जायादीनां मध्ये एकैकमपि यावन्नप्राप्नोति तावदहमकृत्स्नोपूर्ण एवेति स्वात्मानं मन्यते । तस्य उ अकृत्स्नस्यापि कृत्स्नतापूर्णता वक्ष्यमाणप्रकारेण भवति । यद्वा यथास्यात्तथाशृण्विति शेषः । सूर्यादीन्प्रतिचतुर्मुखादिवाक्यमिदम्‌ । मनः स्वस्वरूपभूतमस्यात्मास्वात्मेति चिन्तयेत्‌ । कुतश्ऱ्चक्षुषाहितन्मानुषवित्तं हिरण्यादिकं विन्दते लभते । श्रोत्रं दैववित्तमिति चिन्तयेत्‌ । कुत आत्मनाचिन्तनेन हि कर्मकरोति । कुतो मन आदीनां आत्मत्वादि चिन्तनं कार्यमिति चेत्‌ । प्रसिद्ध यज्ञस्यापि आत्मादिपञ्चकसाध्यत्वादिति भावेनाह ॥ स इति ॥ स एषः प्रसिद्धो यज्ञः पाङ्‌क्तःआत्मप्रियापुत्रद्विविधवित्तरूप पञ्चकसाध्यः । न केवलं यज्ञ एव पाङ्‌क्तः किन्तु यज्ञाङ्गःपशुःपुरुषश्ऱ्चेति प्रसङ्गादाह ॥ पाङ्‌क्त इति ॥ पशुपुरुषयोः पाङ्‌क्तत्वं मातापितृभ्यामित्युक्तप्रकारेणद्रष्यव्यम्‌ । न केवलं यज्ञाङ्ग एव पुरुषः पाङ्‌क्तः । किन्तु सर्वोपीत्याह ॥ पाङ्‌क्तमिति ॥ यदिदं किञ्चेदं सर्वं प्राणिजातं पाङ्‌क्तं पुरुषवदेवपञ्चकसाध्यमित्यर्थः । एवमुपासकस्य फलमाह ॥ तदिदमिति ॥ यो ब्रह्मपदयोग्यः । क्चिमन आदीनां स्वात्मत्वादिकं वेदोपास्ते चिन्तयति । स यदिदं किञ्च जगत्‌ । तदिदं सर्वमाप्नोति सर्वस्याधिपतिभ; भवतीत्यर्थः । ब्रह्मपदयोग्यस्य तु स्वयोग्यं फलं भवतीति द्रष्यव्यम्‌ । यद्वापूर्वं चतुर्मुखस्य सरस्वतीवायूत्पादकत्वं यज्ञकर्तृत्वं चोक्तम्‌ । तत्राख्यायिकामाह ॥ आत्मैवेति ॥ यधमगअे अस्यागअे प्रथममेवातमासर्वजगतां स्वामीचतुर्मुख एव वासुदेवात्‌ आसीज्जातः । (स एक एव जातः ) स ब्रह्मामेजायास्यात्‌ । अथ जायाप्राप्त्यननतरं प्रजायेय प्रजामुत्पादयिष्यामि । अथ तत्प्राप्त्यनन्तरं वित्तं दैवं मानुषञ्चेति द्विविधमपि मेस्यात्‌ । अथ तत्प्राप्त्यनन्तरं कमर्ेश्ऱ्वरमुद्दिश्ययज्ञादिरूपं कुर्वीयेत्यकामयत । एतावानित्यादेः कुर्वीयेत्यं तस्य पूर्वोक्त एर्थः । सोपि ब्रह्माप्येतेषां जायादीनां मध्ये एकैकं यावन्नप्राप्नोति न प्रापतावदकृत्स्नएवापूर्ण एवाहमिति मन्यते । तस्य उ अकृत्स्नत्वं मन्यमानस्यापि ब्रह्मणः कृत्स्नतापूर्णता । एवं भवति । कथं अस्य ब्रह्मणः पूर्वमात्मास्वरूप भूतं मन एवासीत्‌ मानस यज्ञं करिष्यामीति समकल्पयदित्यर्थः । तत्र मानसयज्ञेवाक्‌ वागिन्द्रियं जायेत्यकल्पयत्‌ । प्राणोबलं प्रजापुत्र इत्यकल्पयत्‌ । चक्षुर्मानुषं वित्तमित्यकल्पयत्‌ । तत्र हेतुश्ऱ्चक्षुषाहीति । श्रोत्रं दैवं वित्तमित्यकल्पयत्‌ । तत्र हेतुः श्रोत्रेणेति । अस्य स्वस्यात्मैव देह एव चिन्तनं वाकर्मेत्यकल्पयत्‌ । तत्र हेतुरात्मनेति । एवं कल्पनेन विष्णुमुद्दिश्यमान सयज्ञेकृते । तेन वागित्यादिप्रथमापञ्चम्यर्थे । वाचोजायासरस्वती । प्राणात्प्रजावायुश्ऱ्चक्षुषोमानुषं वित्तं हिरण्मयालोकाः । श्ररोत्राद्दैवं विद्यारूपम्‌ । अस्यात्मनोदेहाच्चिन्तनाद्वा कर्मसम्भूतमिति योज्यम्‌ । न केवलं वागादीनां विष्णूपकरणतया जायात्वादिकल्पनेन जायादिप्राप्तिः । किन्तु वक्ष्यमाणानुसन्धानेन चेति भावेनाह ॥ स एष इति ॥ स एष यज्ञः पाङ्‌क्तः । सवनत्रयं पूर्वमुत्तरञ्चेति पञ्चकोपेतः । पाङ्‌क्तःपशुःमध्यं शिरः पक्षौपुच्छञ्चेति पञ्चकोपेतः । प्राङ्‌क्तःपुरुषः चतुर्दिशं मध्यमिति पञ्चकोपेतः । न केवलमयमेवपुरुषिः किन्तु यदिदं किञ्च प्राणिजातं इदं सर्वमित्युक्तप्रकारेण पाङ्‌क्तम्‌ । अत्र वागादिपञ्चकस्य सवनत्रयादिपञ्चकस्य च नारायणादि देवताकत्वमप्यनुसन्धेयम्‌ । तस्मादद्यापि योधिकारी एवं स्ववागादिपञ्चकं विष्णूपकरणतया जायादित्वेन नारायणादिदेवताकत्वेन तथायज्ञादौ सवनात्रयादिपञ्चकं नारायणादि देवताकत्वेन वेद उपास्ते । सःतदिदं सर्वं जायादिकमर्ान्तपञ्चकं अवाप्स्तयति अन्तेमुक्तिश्ऱ्चास्य भवतीत्यर्थः ॥ 11 ॥ इति पञ्चमं अव्याकृतब्राह्मणम्‌ ॥ 5 ॥ अथ भाष्यार्थः ॥ एवं चतुर्मुखादि देवतास्रष्यृत्वेन प्रकृतस्य परमात्मनः सप्तान्नस्रष्यृत्वरूपं महिमान्तरमाह ॥ यत्सप्तेत्यादिना ॥ अयं मन्त्रः पिताक्षेत्रज्ञोज्ञानकर्माधिकारीमेधयातपसापाङ्‌क्तेन कर्मणा । सप्तान्नानियत्प्रसिद्धमन्न्मजनयत्‌ । तन्मध्ये एकमस्य साधारणमिति परेण व्याख्यातः । तदसदिति भावेन तावत्पितृशब्दार्थमाह ॥ पितेति ॥ योनःपितेति श्रुतेः । देवतास्रष्यृत्वेन परमात्मन एव प्रकृततयापि तृशब्देन तस्यैव ग्राह्यत्वाच्चनतद्वयाख्यानं युक्तमिति भावः । यदित्यस्य यत्प्रसिद्धमिति व्याख्यानमप्यसत्‌ । एकवचनान्तयच्छब्दस्य

?Rबहुवचनान्तान्नशब्दसामानाधिकरण्यायोगादिति भावेन तदर्थमाह ॥ यदिति ॥ तपसेत्यस्य सन्तापार्थकताप्रतीति निरासायतपः शब्दाथर्माह ॥ तपसेति ॥ यद्वापाङ्‌क्तेन कर्मणेत्यपि व्याख्यानमसत्‌ । प्राणिनां कर्ममात्रस्य सप्तान्नोत्पत्तौ निमित्तत्वेन तद्विशेषोपादानेनियामकाभावात्‌ इति भावेन तपसेत्यस्यार्थमाह ॥ तपसेति ॥ मेधयेत्यस्य ज्ञानकर्माधिकारिमेधयेत्यपि व्याख्यानमसत्‌ । मेधाशब्दस्य कर्मार्थत्वेतपसेत्यनेन पौनरुक्त्यापातात्‌ । पाङ्‌क्तोपासनयेत्यर्थ इति न युक्तम्‌ । नहि ज्ञानकर्माधिकारिणोजीवस्य पाङ्‌क्तोपासनं सप्तान्नोत्पत्तौकारणमित्यत्र नियामकमस्तीति भावेन मेधाशब्दार्थमाह ॥ मेधयेति ॥ तपोमेधाशब्दयोरुक्तार्थत्वं कुत इत्यतः उत्तरब्राह्मणेनैवतथाव्याख्यानादिति भावेनाह ॥ सहीति ॥ धियास्वेच्छया । प्रमाणविरुद्धत्वाच्चनपरकीयं व्याख्यानं युक्तमिति भावेन ब्राह्मणं प्रमाणेन व्याचष्ये ॥ सप्तान्नानीति ॥ ससर्ज । तदेति शेषः । त्रीण्यात्मनेकुरुतेति मन्त्रः प्रतीकग्रहणपूर्वकं मनोवाचं प्राणं तान्यात्मनेकुरुतेति ब्राह्मरेन व्याख्यातः । देवाद्यपेक्षयाविष्णोः हुतादिदेवान्न्पेक्षयातदन्नस्य प्राधान्यादादौ तत्‌ ब्राह्मणं व्याचष्ये ॥ तेषामिति ॥ तेषां मध्ये । ननु मन आदेः विष्ण्वद्यत्वाभावात्कथं तदन्नत्वमित्यतः तुष्यिहेतुत्वगुणयोगादिति भावेनाह ॥ तस्मादिति ॥ तेषामन्नत्वादेवेत्यर्थः । ननु कथं मन आदीनां विष्णतुष्यिहेतुत्वेन तदन्नत्वम्‌ । तदन्यविषयकमन आदेस्तत्तुष्यिहेतुत्वासम्भवात्‌ । इत्यतोनवयमन्यविषयकमन आदीनां विष्ण्वन्नत्वं ब्रूमः । किन्तु तद्विषयकाणामेव । अतः कामःसङ्कल्पोविचिकित्साश्रयद्धाश्राद्धधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एवेत्युक्तमनोवृत्तीनां यःकश्ऱ्चन शब्दोवागेवेत्युक्तवाचश्ऱ्च प्राणोपानोव्यानउदानःसमान इत्युक्तप्राणवृत्तीनां च विष्णुविषयकत्वमेवकर्तव्यमित्याह ॥ तस्मादिति ॥ तद्वेदनेच्छामित्यनेन विचिकित्साशब्दः इच्छार्थक इत्युक्तं भवति । तन्निन्दीति । विष्णुगुणोन्नतिनिन्दकवागादौ प्राप्तेपि तत्र वैगुणोन्नतावधृतिं कुर्यादित्यर्थः । तन्मतस्य विसर्गार्थे अधृतिमिति सम्बन्धः । मनोवागादीन्द्रियाणं अत्र परमात्मनि नियमे नियमनेसमानं कुर्यादिति सम्बन्धः । कदाचित्तद्विषयकमन आदेर्नविष्णवन्नत्वं किन्त्वित्यत आह ॥ अन्नमिति ॥ मन आदेरुक्तेषु विष्णुभक्त्यादिषुसदैवसुस्थैयर्ेसति नरस्तन्मन अदिकं विष्ण्वन्नं कुर्यात्‌ । तस्यैव विष्णुप्रीति हेतुत्वादिति भावः । ननु विचिकित्साशब्देनेच्छाग्रहणेकामशब्देन पुनरुक्तिः स्यादित्यतस्तयोरर्थभेदमाह । अनेकेति ॥ प्राणादीनां भगवत्कर्मादौविनियोगः कर्तव्य इत्युक्तम्‌ । तत्कुत इत्यतः प्राणादीनां व्यापारमाह ॥ प्राण इति ॥ निवर्तनेहेतुःबलकर्माबलरूपकर्मकृत्‌ नोस्मदादीनामित्यर्थः । न इत्येतत्‌ प्रवृत्तिहतुरित्यादावपि सम्बध्यते । मनोवाक्‌ प्राणानां विष्ण्वन्नत्वोपपादनाय तत्प्रशंसापरमेतन्मयो वा अयमात्मेत्यादिवाक्यं आत्मशब्दस्य जीवपरत्वं मयटः प्राधान्यार्थकत्वं चाभिप्रेत्य व्याचष्ये ॥ मन इति ॥ मनोवाक्‌प्राणाभिमानि सान्निध्यप्राधान्यादित्यर्थः । ननु केतेमनोवाक्प्राणाभिमानिनः यत्सान्निध्यप्राधान्येन जीवे उन्नतिरित्याशङ्कापरिहारकत्वेनाप्येतन्मयो वा अयमात्मेति वाक्यं व्याचष्ये ॥ ब्रह्मेति ॥ अनेनायमात्माब्रह्मादिरेतन्मय एतदभिमानीति व्याख्यातम्‌ । ननु ब्रह्मादीनां मन आद्यभिमानित्वमेवकुत इति चेत्‌ । विष्णुमनोवाक्प्राणैस्तेषां जातत्वादिति भावेन तदेववाक्यं व्याचष्ये ॥ मनोवाक्प्राणत इति ॥ तस्य भगवतः । अनेनायमातमाविरिञ्चादिरेतन्मयोविष्णुमन आदिजन्य इति व्याख्यतम्‌ । ननु विष्णोर्मनोवाक्प्राणानामेवाभावे कथं ब्रह्मादीनां तज्जन्यत्वमित्याशङ्कापरिहारकतयापि तदेववाक्यं व्याचष्ये ॥ मनोवाक्प्राणरूप इति ॥ अनेनायमात्मापरमात्मा एतन्मयोमनोवाक्प्राणस्वरूप इति व्याख्यातम्‌ । एषां ह्यन्तमायत्तैषाहिन इति वाक्यद्वयं व्याचष्ये ॥ सर्वस्येति ॥ आयत्ताप्रतिपादयित्रीत्यर्थः । न यस्य कस्यापि वाक्‌ विष्ण्वायत्ता । किन्तु नोस्माकमिति वेददृष्यृवचनम्‌ । ननु यःकश्ऱ्चनशब्दोवागेवेति वाचः सर्वशब्दात्मकत्वमुक्तं तत्कथं तस्याः विष्ण्वायत्तत्वं नहि लौकिकवाचोघोषात्मिकायाश्ऱ्चविष्ण्वायत्तत्वं इत्यत आह ॥ तज्ज्ञानामिति ॥ चोवधारणे सर्वशब्दस्य विष्णुनामकत्वज्ञानामेवेत्यर्थः । तत्फलं विष्णुनामोच्चारणफलम्‌ । मनसाह्येवाभिपश्यतिमनसाशृणोतीति चाक्षुषश्रौत्रज्ञानं प्रतिमनसःकरणत्वमुक्तम्‌ । तदुपलक्षणपरमिति भावेनाह ॥ सर्वेति ॥ सर्वबाह्येन्द्रियजन्यमित्यर्थः । मन आयत्तं मनोजन्यमित्यर्थः । ननु विषयेन्द्रियसंयोगादेवज्ञानोत्पत्तेः मनोजन्यत्वं कुत इत्याशङ्कापरिहारकत्वेन तस्मादपि पृष्ठतः उपस्पृष्योमनसाविजानातीति वाक्यं व्याचष्ये ॥ पृष्य इति ॥ विषयेन्द्रियसंयोगस्याप्रयोजकतासूचनायस्पृष्योपीत्यपि पदम्‌ । अत एव । सर्वेन्द्रियगतज्ञानस्य मन आयत्तत्वादेवेत्यर्थः । अव्याकुल एवेति सम्बन्धः । अन्यत्र मनसिव्याकुलेसतीत्यर्थः । उपलक्षणमेतत्‌ । चक्षुरादिसन्निर्षेपि मनस्य व्याकुल एवेति वयाकुलेतुनवेतीत्यपि वेदा एत एव देवाः पितरोमनुष्या एत एव पितामाताप्रजैत एव विज्ञातं विजिज्ञास्य मविज्ञातमेत एवेति वाक्यानि व्याचष्ये ॥ लोकेति ॥ सुरादेः ज्ञातादेःपिदिश्ऱ्चेत्यर्थः । तत्र सुरादेरित्यादिपदेनपितृमनुष्यग्रहणम्‌ ।ज्ञातादेरित्यादिपदेन विजिज्ञास्याविज्ञातग्रहणम्‌ । पित्रादेरित्यादिपदेन मातृप्रजाग्रहणम्‌ । ब्रह्मासरस्वतीवायुर्मन आद्यभिमानिनः इत्येतदत्राप्यनुवर्तते ॥ 10 ॥ तस्यैवाचः पृथिवीशरीरं

?Rज्योतीरूपमयमग्निः । अथैतस्य मनसोद्याढ शरीरं ज्योतीरूपं असावादित्यः । अथैतस्य प्राणस्यापःशरीरंज्योतीरूपं असौचन्द्र इति वाक्यत्रयं व्याचष्ये ॥ द्युपृथिवीति ॥ मनोभिमानीब्रह्माद्युसूर्ययोर्वागभिमानीसरस्वतीपुथिव्यग्न्योः । प्राणाभिमानीवायुः अपांसोमस्य चाभिमानीति विवेकः । स इन्द्रः स एषो सपत्नः इत्येतद्वयाचष्ये ॥ स इन्द्र इति ॥ असपत्न इत्यस्यार्थोशत्रूरिति । नन्वसुराणामेवशत्रूणां सत्वात्कथमशत्रुरित्याशङ्कापरिहारकतयाद्वितीयो वैसपत्न इत्यस्याभिप्रायमाह ॥ समवर्जनादिति ॥ विरोधिसमसवर्जनादित्यर्थः । असुराणां च नीचत्वादिति भावः । ननु सरस्वत्याः ब्रह्मवायुभ्यां नीचत्वात्कथं त एते सर्व एव समा इत्युक्तमित्यतस्तदभिप्रायमाह ॥ एत इति ॥ नच ब्रह्मवाय्वोरेवकथं व्याप्तिः । अणुश्ऱ्चेति प्राणाणुत्वस्य समर्थितत्वादिति वाच्यम्‌

?R । देहान्तर्गतरूपेणाणुत्वेपि देहाद्बहिर्वर्तमानेन मुख्यवायुरूपेण व्याप्तेरप्यङ्गीकारात्‌ । तथाच श्रुतिः । सवाएषप्राणोणुर्महान्नामान्तर्वा अणुर्बहिर्महानिति । सर्वेनन्ता इत्येतद्वयाचष्ये ॥ अनन्ताश्ऱ्चेति ॥ किं निरुपचरितमानन्त्यम्‌ । नेत्याह ॥ अन्येति ॥ सावधारणमेतत्‌ । कुत इत्यत आह ॥ तेभ्य इति ॥ अथ यो हैताननन्तामुपास्त इत्यस्यार्थमाह ॥ तेषामिति ॥ ब्रह्मसरस्वतीवायूनामित्यर्थः । एवमन्यनीचव्यपेक्षयानन्तगुणवत्त्वेन । स यो हैतानन्तवत उपास्त इत्यादेरर्थमाह ॥ अनित्यस्येति ॥ अन्यथातवद्गुणवत्त्वेन । उपासक इत्यनुवर्तते । अनित्यस्य लोकस्योपभोगीति बुध्याविवेकेन सम्बन्धः ॥ 13 ॥ स एष संवत्सरः प्रजापतिः षोडशकल इत्यत्र संवत्सरः पअजापतिरित्यनुवदेन षोडशकलत्वं विधीयत इत्यनुपपन्नम्‌ । प्रागुनुक्तत्वेनानुवादासम्भवादिति भावेनात्र वाक्यभेदमङ्गीकृत्य स एष प्रजापतिरिति वाक्यं व्याचष्ये ॥ वायुरिति ॥ प्रजापतिः प्रजानां पालक इत्यर्थः । स एष षोडशकल इति वाक्यं चन्द्राभेद उच्यत इति प्रतीतिनिरासाय व्याचष्ये ॥ सोसाविति ॥ अबपेक्षयाविशेषत इत्यर्थः । रात्रीणशमेवकलात्वमुच्यत इति प्रतीतिनिरासाय तस्य रात्रय एव पञ्चदशकला इत्येतद्वयाचष्ये ॥ रात्रिनामका इति ॥ अस्य वायोः पञ्चदशकलारात्रिनामकाः प्रोक्ता इति सम्बन्धः । तत्र निमित्तप्रदर्शनपरं सरात्रिभिरे वा च पूर्यते पचक्षीयत इति वाक्यं व्याचष्ये ॥ रात्राविति ॥ एकैकस्याः कलायाः एकैकस्यां रात्रौरक्षयपूरणे अभिप्रेत्यरात्रौरात्राविति वीप्सा । ध्रुवैवास्य षोडशीकलेति वाक्यं व्याचष्ये ॥ ध्रुवैवेति ॥ षोडशीकलात्विति सम्बन्धः । ननु वायोरकलत्वात्‌ कथं षोडशकलत्वोक्तिरित्यत आह ॥ अकलोपीति ॥ सःवायुः । चन्द्रस्य स्वाधिष्ठानस्य । तथाषोडशकल इति प्रोच्यते । यद्वा वायोरागमापायिकलाशून्यत्वाध्रुवकलावत्त्वं कथमुच्यत इत्यत आह ॥ अकलोपीति ॥ अध्रुवकलारहितोपीत्यर्थः । सोमावास्यामित्यादितस्मादेतां रात्रिं प्राणभृतः प्राणं न विछिन्द्यात्‌ । इत्यन्तं वाक्यं व्याचष्ये ॥ सोमावास्यामिति ॥ अतः प्राणिवधोनकर्तव्य इति शेषः । अपिकृकलासस्येत्यत्रापि पदोक्तकैमुत्यं स्पष्ययन्स्तद्वयाचष्ये ॥ कल्पावेशादिति ॥ स एष संवत्सर इति वाक्यं व्याचष्ये ॥ वायुरिति ॥ 14 ॥ योवैसंवत्सरः प्रजापतिः षोडशकलोयमेवसयोयमेवं वित्पुरुष इति वाक्यं ज्ञानिनावायोरभेद उच्यत इति प्रतीति निरासाय व्याचष्ये ॥ स इति ॥ सचन्द्रसंस्थोवायुः एवं विदुषिहरेः सप्तान्नस्रष्यृत्वज्ञानिनीत्यर्थः । तस्य वित्तमेवपञ्चदशकला इत्येतद्वयाचष्ये ॥ अध्रुवा इति ॥ तस्य ज्ञानिस्थवायोः धनं इति सम्बन्धः । कुत इत्यतः सवित्तेनैवाचपूर्यते पचक्षीयत इत्येतद्वयाचष्ये ॥ आगमापायवत्त्वादिति ॥ आत्मैवास्पषोडशीकलेति वाक्यं व्याचष्ये ॥ ध्रुवावदिति ॥ ध्रुवकलावदित्यर्थः । तदेतन्नभ्यमित्यादिवाक्यं व्याचष्ये ॥ नाभिस्थानमिति ॥ चक्रस्येति पूर्वेणोत्तरेणच सम्बध्यते । प्रधिवत्‌ अरनभ्योदिवदित्यर्थः । तस्माद्यद्यपीवाक्यं व्याचष्ये ॥ सर्वस्वेति ॥ सर्वज्यानिमित्यस्याथर्ः सर्वस्येति । सर्वस्य पराजयेपीत्यर्थः । अस्मात्पुरुषात्‌ । प्रधिनागादित्यस्यार्थः प्रधिमात्रमिति । प्रधिस्थानीयं वित्तमात्रं गच्छति नतु शरीरमिति भावः । हि शब्देनाहुरित्युक्तप्रसिद्धिर्दर्शिता । त्रयोलोका एत एवेत्यादिनोक्तमन आदिमहिममानिनः प्रयोजनं स्वयमाह ॥ एवमिति ॥ देवान्‌ ब्रह्मसरस्वतीवायून्‌ । एवं त्रीण्यात्मनेकुरुतेति मन्त्रव्याख्यानरूपब्राह्मणं व्याख्याय इदानीमेकमस्य साधारणमन्नं इति वाक्यं साधारणान्नकृत्त्वेन भगवदुपासकस्य पापाव्यावृत्तिः कथ्यत इति प्रतीति निरासाय व्याचष्ये ॥ आत्मन इति ॥ स्वकीयत्वमेवेत्यर्थः । अनेनोपास्त इत्युपशब्दस्यावृत्तिः । ततश्ऱ्च य एतदन्नं उपस्वसमीपे वर्तमानं स्वकीयमेवेति यावत्‌ । उपास्तेमन्यत इति व्याख्यातं भवति । पापव्यावृत्तिनिषेध लब्धार्थकथनमक्षयमिति । कुत इत्यतोमिश्रं ह्येतदित्यक्तम्‌ । नन्वेतदन्नस्य देवब्रह्मस्वत्वेन मिश्रत्वेपि कुतो यं न सपाप्मनोव्यावर्तत इत्यत आह ॥ देवेति ॥ द्वेदेवानभाजयदिति मन्त्रोहुतं च प्रहुतं चेति व्याख्यातः । तदनुपपन्नम्‌ । हुतप्रहुतयोरात्माद्यन्नमन आदिवत्साधारणान्नात्पृथगभावात्‌ इत्यतस्तद्वयाचष्ये ॥ तदेवेति ॥ तस्मान्नेष्यियाजुकः स्यादित्येतद्वयाचष्ये ॥ तस्मादिति ॥ मन्त्रपूतस्य साधारणान्नस्य देवाननत्वादित्यर्थः । मन्त्रपूतस्य देवान्नत्वेपि फलेच्छयाकुतो न यजेदित्यतोभिप्रायमाह ॥ यदीति ॥ तेषां देवानामन्नस्येति शेषः । इच्छया

?Rयागेदेवान्नापहर्तृत्वं कथमित्यत आह ॥ देवस्वमिति ॥ येन कारणेन तेन याजकेन देवस्वमेवस्वकाम्यार्थं विनियोजितम्‌ । तेन कारणेनापहर्तेति सम्बन्धः । ननु तेनापि देवस्वं देवेष्वेवविनियुज्यत इति कतं तस्यापहर्तृत्वमिति चेत्‌ । इत्थम्‌ । देवस्वं हिदेवेषुतत्प्रीत्यर्थम्‌ । युष्मदीयमिदं युष्माभिर्ग्राह्यमेवेति विनियोजनीयम्‌ । नतु स्वकाम्यार्थम्‌ । तथात्वेपहर्तृत्वापरिहारादित्यत्र दृष्यान्तमाह ॥ परकीयेनेति ॥ परकीये न वित्तेन तस्मिंस्तद्वित्तस्वामिनिततोवस्त्रादिग्रहणेन विनिमयेन यथातद्वित्तापहर्ता सतथेत्यर्थः । पशुभ्य एकं प्रायच्छुदिति मन्त्रमनूद्य तदेकमन्नं किमित्याकाङ्क्षायां तत्पय इति व्याख्याय पयोह्येवाग्रेमनुष्याश्ऱ्चपशवश्ऱ्चोपजीवन्तीति तदुपपादनं क्रियते तदनुपपन्नम्‌ । उपपादकवाक्येमनुष्यग्रहणस्यासङ्गतत्वादित्यतोमन्त्रगतपशूशब्दो न प्रसिद्धपशुमात्रपरोयेनासङ्गतिः स्यात्‌ । किन्तूभयपर इति भावेन तं मन्त्रं व्याचष्ये ॥ चतुष्पाद्भय इति ॥ यत्पय इत्यस्यार्थः पय आत्मकमिति ॥ पश्ऱ्वन्नत्वेन प्रकृतस्य पयसः संवत्सरं पयसाजुह्वदिति होमसाधनत्वमुच्यते । तद्वत्किञ्चित्पयसोनेति वक्तुमाह ॥ गोक्षीरमिति ॥ अत्र पयसि । किन्तत इत्यत आह ॥ आत्मन इति ॥ चतुर्थीषष्ठयर्थे । देवानां चेति तदेवेति चैवशब्दसम्बन्धः । तद्वदिदमाहुः संवत्सरमित्यादिनामतान्तरमनूद्य न तथाविद्यादित्यनेन तद्दूषितमिति व्याख्यानमसत्‌ । मुनिमतस्य दूष्यत्वायोगेन तस्यापि परिग्राह्यत्वादिति भावेन संवत्सरं पयसाजुह्वदपपुनर्मृत्युं जयतीति वाक्यं व्याचष्ये ॥ संवत्सरमिति ॥ पयोहोमस्य कथं मुक्तिसाधनत्वम्‌ । तमेवं विद्वानिति श्रुतिविरोधादित्यत उक्तं भगवत्तत्वविदुषेति । मुक्तिरानन्दाभिवृद्धिलक्षणा भगवदपरोक्षज्ञानाभावेकिमयं होमोव्यर्थः । नेत्याह ॥ अदृष्येति ॥ नन्वेवं नतथाविद्यादितिकथं निषेध इति चेत्‌ । नापक्षान्तरस्यापि विद्यमानत्वेन तथैवनविद्यादित्यथर्त्वादिति भावेन स्वयं पक्षान्तरमाह ॥ भगवदिति ॥ यदहरेवजुहोति तदहः पुनः मृथ्युमपजयत्वेवं विद्वानिति पक्षान्तरप्रतिपादकं वाक्यं यस्मिन्नहनिपयोहोमः कृतः तदहरेवमुक्त्यभावात्‌ कथमेतदित्याशङ्कानिरासाय व्याचष्ये ॥ सप्तान्नेति ॥ ननूभयोरपि भगवदज्ञानित्वाविशेषात्कस्यचित्संवत्सरकृतहोमेन मुक्तिः कस्यचिदेक होमेनेति विशेषः कथमित्यत आह ॥ विशेषज्ञ इति ॥ ज्ञानित्वाविशेषात्कस्यचिद्धोमेन मुक्तिः कस्यचित्‌ विनाहोमेन मुक्तिरिति कथमित्यतोप्याह ॥ विशेषज्ञ इति ॥ सोयं भगवदिष्यिपूत इति । कस्मात्तानिनक्षीयन्तेद्यमानानिसर्वदेति मन्त्रोन्नाक्षयहेतुप्रश्ऱ्नपर इति व्याख्यानमसत्‌ । मन्त्रेतत्परिहारादर्शनात्‌ । पुरुषोवाऽक्षितिरिति ब्राह्मणेन पुरुष एवान्नाक्षयहेतुरिति परिहारः पथ्यत इति चेत्‌ न । पुरुषस्यान्नक्षयहेतुत्वेन तदक्षयहेतुत्वायोगात्‌ । पुनः पुनरन्नस्रष्यृत्वायोगाच्चेति भावेन पुरुषो वा अक्षितिरिति ब्राह्मण वाक्यस्य कस्मात्तानि न क्षीयन्त इति वाक्यव्याख्यानरूपत्वसिध्यर्थं मन्त्रगतं कस्मादित्यस्यार्थमाह ॥ कोनामेति ॥ कस्मैदेवाय हविषाविधेमेत्यत्र हिरण्यगभर्वाचक कशब्दस्य सर्वनामसंज्ञावदत्रापि द्रष्यव्यम्‌ । तथाच भगवानेवाद्यमानान्नाक्षयहेतुरिति मन्त्रार्थ इति भावः । ननु तर्हि पुरुषो वाऽक्षिति रिति कथं व्याख्यानं तत्र पुरुषस्यानाशप्रतीतेरित्यतः पुरुषो वा क्षितिः सहीदमन्नं पुनः पुनर्जनयति इति वाक्यद्वयमुपपाद्योपपादकभाव प्रतीत्यर्थं व्यत्यासेन व्याचष्ये ॥ प्राणिनामिति ॥ स हीदमन्नं धियाधियाजनयतेकर्मभिरित्युत्तरवाक्यानुसारेण प्राणिनां कर्मभिः स्वेच्छयाचेत्युक्तम्‌ । तस्मादन्नाक्षयहेतुत्वादेव । यो वैतामक्षितिं वेदसोन्नमत्तिप्रतीकेनेति मन्त्रं व्याचष्ये ॥ य एवमिति ॥ एवमन्नाक्षयहेतुत्वेन । प्रतकेनेत्यस्य मुखेनेत्यर्थ उक्तो ब्राह्मणेतस्याभिप्रायमाह ॥ अप्रयत्नेनेति ॥ सदेवानपि गच्छति स ऊर्जमुपगच्छतीति वाक्यं यः कश्ऱ्चित्सप्तान्नोपासकोदेवत्वमूर्जमपि प्राप्नोतीति निरासाय व्याचष्ये ॥ सप्तान्नेति ॥ गुणाः देवान्नस्य तदपि ऊर्जमपीति देवत्वसमुच्चयार्थोपि शब्दः । अनेन श्रुतौ देवानपीत्यपि शब्दः ऊर्जमित्यत्र संवध्यत इत्युक्तं भवति । एतदुपासनयामनुष्यस्याप्युक्तफलप्रप्तिः किं न स्यादित्यत आह ॥ नेति ॥ ननूपासनाभावेपि ज्ञानमात्रं सम्भवतीति चेत्सत्यं तेनाप्युक्तफलाभावेपि फलान्तरं सम्भवतीति भावेन सदेवानपि गच्छतीति वाक्यं व्याचष्ये ॥ ज्ञानमात्रेणेति ॥ 16 ॥ त्वं ब्रह्मेत्यत्र पित्रापुत्रस्य परब्रह्माभेद उच्यत इति पतीति निरासार्थं ब्रह्मशब्दार्थमाह ॥ ब्रह्मेतीति ॥ उच्यत इति शेषः । अन्यथायद्वैकिं चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकतेत्युत्तरवाक्यविरोध इति भावः । ततापि त्वं ब्रह्मेति कथं पुत्रस्य वेदाभेदाभावात्‌ । अत एवत्वं यज्ञः त्वं लोकः इत्येतदप्यनुपपन्नमित्यत आह ॥ स्वाध्यायेति ॥ स एवं वित्सर्वेषां भूतानामात्माभवतीति वाक्यं ज्ञानिनः सर्वाभेद उच्यत इति प्रतीति निरासाय व्याचष्ये ॥ आत्मेति ॥ ननु यथापित्रादि लोकजयोनामतल्लोकप्राप्तिः एवं मनुष्यलोकजयोपि तल्लोकप्राप्तिरेव साच स्वतः सिद्धेति कथं पुत्रेणैवसाध्येत्यत आह ॥ पुनरिति ॥ नन्वस्मिन्‌ जन्मनिकृतेन कर्मणाकर्मकरणयोग्यजन्मान्तरप्राप्तौतत्राप्यनुष्ठितकर्मणापुनः पुनस्तादृशजन्मान्तरप्राप्तौ स्वस्यैव पुनः पुनः कर्मकरणलक्षणमानुष्यजयसम्भवेन पुत्रेणैव जय्योनान्येन कर्मणेति कथमुच्यत इत्यतस्तदभिप्रायमाह ॥

?Rजन्मान्तरमिति ॥ स्वस्यैव जन्मान्तरेण कर्मणापुनः पुनः कर्मकरणसम्भवेपि जन्मान्तरं विना तत्पुनः पुनः कर्मकरणं कर्मणानैवयुज्यते । पुत्रेणोपदिष्यया विद्यायावाशिष्येणेति यावत्‌ । जन्मान्तरं विनैवनित्यं तत्पुनः पुनः कर्मकरणं युज्यत इत्यर्थः । अनेन श्रुतौ पुत्रशब्दः शिष्यस्यापि सङ्ग्राहक इत्युक्तं भवति । किं पुत्रशिष्ययोः समुचितयोरेवपुनः पुनः कर्मकरणहेतुत्वं नेत्याह ॥ एकैकेनापीति ॥ ननु पुत्रशिष्ययोः स्वभिन्नत्वात्कथं ताभ्यां स्वस्य पुनः पुनः कर्मकरणमित्यतः स्वकृतकर्मणेवपुत्रादि कृतकर्मणशपि फलप्रप्तिरेवेत्याह ॥ अष्यभागेति ॥ सप्तन्नवित्पितागुरुर्वापुत्रकृतशिष्यकृतकर्मफलं सर्वं लभेदित्यर्थः । अनेनैतस्मात्सर्वं सन्नयमितोभुनजदितीति वाक्यं व्याख्यातम्‌ । अथैभिरेव प्राणैः सह पुत्रमाविशतीत्यादिपुत्रोमुञ्चतीत्यन्तं वाक्यं व्याचष्ये ॥ पुत्रमिति ॥ सप्तान्नविदिति वर्तते । अंशरूपसामर्थ्यादित्यर्थः । अक्ष्णयेत्यस्य च्छिद्रेति व्याख्यानमुपपादयति ॥ अक्ष्णमिति ॥ अक्ष्णं च्छिद्रमिति पर्यायोयस्मात्तस्माच्छिद्रेति व्याख्यानमुपपन्नमित्यर्थः । तस्मादेनं पुत्रोमुञ्चति तस्मात्पुत्रोनामेति वाक्यं व्याचष्ये ॥ पुत्र इति ॥ तत्तस्मादक्ष्णकर्मणः । नन्वक्ष्णकर्मणः त्राणतः पुत्रशब्दवाच्यत्वं कथमित्यत आह ॥ अक्ष्णञ्चपुदितीति ॥ अक्ष्णं पुदिति यतः पर्यायस्तस्मात्‌ पुतस्त्राणतः पुत्र इत्युच्यत इत्यर्थः ॥ 17 ॥ अथैनमेतेदेवा आविशन्तीति वागादीनां देवत्वमुक्त्वादैवीवाक्‌ दैवं मनः दैवः प्राण इति देवसंम्बन्धित्वमुच्यते तद्धटयति ॥ पृथिव्यादीति ॥ आदिशब्देनाग्निद्वयादित्याप्चन्द्रमसाङ्ग्रहणम्‌ । अनेन पृथिव्यैचैनमग्नेश्ऱ्च दिवश्ऱ्चैनमादित्याच्च अद्भयश्ऱ्चैनं चन्द्रमसश्ऱ्चेति वाक्यं व्याख्यतम्‌ । संसारदशायां पृथिव्यादिस्थिताः सरस्वत्यादिकामुक्ताः । देवेषु सप्तान्नविन्मुक्तदेवेषु । यद्वा पृथिव्यादिशब्देन मुक्ताः पृथिव्यादिदेवताः ग्राह्माः । अत्र मुक्तब्रह्मण एव रूपान्तरेणेतरमुक्तमनः प्राणप्रवेशापेक्षयात्र य इत्युक्तम्‌ । सादैवीवाग्ययायद्यदेववदति तत्तद्भवतीति वाक्यं व्याचष्ये ॥ यदावेशादिति ॥ तद्वैदैवं मनोयेनानन्द्येवभवत्यथोनशोचतीत्येतद्वयाचष्ये ॥ यदावेशान्नेति ॥ मुक्तोदुःखीनस्यात्‌ आनन्दीचस्यात्‌ तदिति ग्राह्यम्‌ । सवैदैवः प्राणः यः सञ्चरंश्ऱ्चासञ्चरंश्ऱ्चनव्यथतेथोनरिष्यतीत्यतद्वयाचष्ये ॥ यदावेशात्सर्वकार्येष्विति ॥ अम्लानोमुक्तः । अम्लानत्वं कुत इत्यत उक्तं सञ्चरणादि सर्वसामर्थ्ययुक्त इति । नरिष्यतीत्यस्यार्थोनस्रीयेतेति ॥ यदावेशादित्याद्युक्तमुपसंहरन्नथैनमेतेदेवा इति प्रतिज्ञावाक्यतात्पर्यमाह ॥ एवमिति ॥ एवं त्रिभिराविष्य इत् िसम्बन्धः । स य एवं वित्सर्वेषां भूतानामात्माभवतीति वाक्यं व्याचष्ये ॥ सर्वेष्विति ॥ सप्तान्नविदित्यनुवर्तते । तर्हि सवर्ेषां दुःखेतस्यापि दुःखं स्यादित्याशङ्कापरिहारकतया यदुकिं चेमा इति वाक्यं व्याचष्ये ॥ नदुःखीति ॥ B-13

?Rअमुंसप्तान्नविद्योपासनेन प्रेरकतया सर्वप्राणिस्थितं प्राणिकृतं पुण्यमेवगच्छति न पापमित्यत्र न हवैदेवानिति कथं हेतुः देवानां पापास्पर्शेपि सर्वप्राणिस्थस्योपासकस्य तत्स्पर्शोपपत्तेरित्याशङ्कां परिहरन्नहवा इति वाक्यं व्याचष्ये ॥ सप्तान्नेति ॥ तस्योपासकस्य । पापं नत्विति पुण्यमेवेत्यवधारणार्थः । ननु यदि सप्तान्नोपासकादेवा एव तर्हि तेषां मृत्यनन्तरं पुत्राणामेवानवस्थानेन तेभ्यः फलाभावात्‌ कथं सयदैवं विदस्माल्लोकात्प्रेत्येत्यादिना पुत्रो मुंचतीत्यन्तेन तेषां मृत्यनन्तरं पुत्रतः फलमुच्यत इत्यत आह ॥ देवा इति ॥ देवाः अंशैर्मनुष्यतामाप्तायेतेषामेवपुत्रतः फलं स्यात्पुत्रेजीवति तेषां मरणसम्भवात्‌ । नतु मूलरूपेणदेवानामेव । पुत्रेजीवति तेषां मरणासम्भवादिति भावः । एतदपि न सर्वदेत्याह ॥ आमुक्तेरिति ॥ कुत इतयत आह ॥ पुत्रतः फलमिति वर्तते । यदि सप्तान्नोपासकस्य मुक्तौ पुत्रतः फलं न तर्हि किं तस्य मुक्तौ तद्विद्यासाध्यफलमित्यत आह ॥ मुक्तानामिति ॥ सप्तान्नविद्याफलतयेति शेषः । ननु वायुरेवसर्वाणिभूतान्यवति नतु तानिवायुं अवन्ति तत्कथमुच्यते सयथैतान्देवतां सर्वाणिभूतान्यवन्तीति । किञ्च सप्तान्नविद्यावेत्तुरपि देवत्वेन सर्वभूतकर्तृकावनासम्भवादेवं विदं सर्वाणिभूतान्यवन्तीति च कथमुक्तमित्यस्तस्याभिप्रायमाह ॥ प्राणज्ञानमिति ॥ सप्तान्नविन्मुक्तस्वरूपज्ञानमित्यर्थः । चशब्देनामुक्तसप्तान्नवित्स्वरूपग्रहणम्‌ । प्राणस्वरूपस्य दैववागाद्यावेशविशिष्यसप्तान्नविन्मुक्तस्वरूपस्य चायोग्येष्वनुपदेशेनेत्यर्थः । ननु तस्मादेकमेवव्रतं चरेदित्यत्र प्राणस्य सर्वोत्तमत्वादित्युक्तं तदनुपपन्नम्‌ । विष्णोस्ततोप्युत्तमत्वादित्यत आह ॥ उत्तम इति ॥ ननु चतुमर्ुखस्यापि सत्वात्कथं प्राणएवेत्युक्तमित्यत आह ॥ चतुमर्ुखस्येति ॥ इदानीं तस्मादेकमेवव्रतं चरेदिति वाक्यं व्याचष्ये ॥ तस्मादिति ॥ हरेरनुप्राणस्य सर्वदेवोत्तमत्वात्‌ । ननु किन्तद्विष्णुप्राणयोः व्रतं यदाचरणीयमित्यतः प्राण्याच्चैवापन्याच्चेति वाक्यं व्याख्यातुं तावत्तयोः व्रतमाह ॥ हंसोपास्तिरिति ॥ श्ऱ्वासरूपेजपे अधिष्ठानेवायाहंसोपास्तिः सातयोः विष्णुप्राणयोः व्रतमुदीरितमिति सम्बन्धः । हंसोपास्तिः कथं तयोः व्रतमित्यत आह ॥ हंसरूपाविति ॥ ननु श्ऱ्वासरूपाधिष्ठाने हंसरूपयोः विष्णुप्राणयोरुपास्तिः कुत इत्यत आह ॥ श्ऱ्वासेति ॥ इदानीं प्राण्याच्चैवापान्याच्चेति वाक्यं व्याख्याति ॥ तस्मादिति ॥

?Rतयोः श्ऱ्वासोच्छ्वासप्रवर्तकत्वात्प्राण्यात्‌ श्ऱ्वासंकुर्यात्‌ अपान्यादुच्छ्वासंकुर्यादित्यर्थः । ननु श्ऱ्वोसोच्छ्वासकर्तृत्वस्य प्राणभृन्मात्रेपि सत्वात्सर्वस्यापि हंसोपास्तिकर्तृत्वं किं नेत्याह ॥ तद्रूपमिति ॥ तस्मादेकमेवेत्येवकारव्यावर्त्यमाह ॥ नान्यस्येति ॥ ननु यद्युच्चरेत्समापि पयिषेदित्यन्यदेवव्रतारम्भकस्यापि कर्तव्यत्वोक्तेः कथमेतदित्यत आह ॥ तद्भृत्यत्वं विनेति ॥ प्रजापतिः हि कर्माणिससृज इति वाक्यं प्रजापतिः ब्रह्मेति प्रतीति निरासायव्याचष्ये ॥ इन्द्रियाणीति ॥ वागादीन्द्रियाभिमानिन इत्यर्थः । वह्नयादि देवताश्ऱ्चेत्यपि ग्राह्यम्‌ । नन्वध्यात्ममधिदैवञ्च वागादीन्द्रियाभिमानिनां अग्न्यादि देवतानां च किं परस्परभेदो नेत्याह ॥ अध्यात्ममिति ॥ तुशब्दोवधारणे । अधिदैवे अग्न्याद्यादेवता एवाध्यात्ममिन्द्रियाणि इन्द्रियवाचकवागादिशब्दाभिधेयान्याहुरित्यर्थः । कोदेवः किमिन्द्रियशब्दाभिधेय इत्यत आह ॥ अध्यात्ममिति ॥ अधिदैवेग्निरध्यात्मं वाङ्‌नामेत्यादि योज्यम्‌ । चन्द्रमानामेत्यन्तेन वदिष्याम्येवाहमिति वाग्दध्र इत्यादिवाक्यगतावाक्‌ चक्षुःश्ररोत्र ब्दाव्याख्याताः । प्राणस्य सर्वदेवोत्तमत्वसिध्यर्थं इतरेन्द्रियाभिमानिषु मनोभिमानिनां प्राधान्यात्तदुत्तमत्वसिद्धौ रसनाद्यभिमानिवरुणाद्युत्तमत्वस्य कैमुत्येनैवसिद्धिरिति भावेनोपलक्षणतया मनोभिमानि परतयैवमन्यानिकर्माणीति वाक्यं व्याचष्ये ॥ मन इति ॥ किं स्थूलत्वमित्यत आह ॥ येनेति ॥ तथाशेषरुद्रविपाः सूक्ष्मंमन उच्यन्ते । किं सूक्ष्मत्वमित्यत उक्तम्‌ । ज्ञानयोग्यमिति ॥ तदेवविशदयति ॥ शेष इति ॥ एवमन्यानिकर्माणीत्यत्र प्राणोपि विवक्षित इति भावेनाह ॥ वायुरिति ॥ अधिदैवेवायुरध्यात्मं प्राण इति प्रोक्तः । किं तस्य कर्मेत्यत आह ॥ येनेति ॥ तानिसृष्यान्यन्योन्येनास्पर्धन्तेति वाक्यं व्याचष्ये ॥ 20 ॥ तएतदिति ॥ व्यूदिरेविवादं कृतवन्तः । अथाधिदैवतं ज्वलिष्याम्येवाहमित्यग्निः दध्र इत्यादि एवमन्यादेवतायाथादवतमित्यन्तं वाक्यं व्याचष्ये ॥ अधिदैव इत्यादिना वीन्द्र इत्यन्तेन ॥ कान्तौ प्रकाशनेशक्तिमान्‌ । तस्थक्रियापरः पञ्चरात्रोक्तविष्णुपूजादिक्रियाप्रवर्तकः । तानिसृष्यान्यन्योन्येनास्पर्धन्तेति वाक्यमधिदैवपरत्वेनापि व्याचष्ये ॥ तेधिदैवेचेति ॥ अध्यात्मसमुच्चयार्थश्ऱ्चशब्दः । अहं श्रेयानिति पस्पृधुः । यथाकर्मेत्यनन्तरं यथादैवमित्यनन्तरं च वक्तव्यमाह ॥ तानित्यादिनाऽनारतममित्यन्तेन ॥ प्रजापतिरित्यनुवर्त्यतानिश्रमोभूत्वोपयेम इति वाक्यं व्याचष्ये ॥ तानेतानिति ॥ तस्माच्छ्राम्यत्येववागित्यादिवाक्यं व्याचष्ये ॥ श्रान्ता इति ॥ श्राम्यत्येवेत्येवकाराभिप्रायमाह ॥ स्वं भगवत्कर्मकर्तुंनशेकुरिति ॥ अथेममेवनाप्नोदिति वाप्त्यंकिं प्राणस्य प्रजापत्यपेक्षयाधिकशक्तिमत्त्वान्नाप्नोदित्याशङ्कां परिहरन्‌ व्याचष्ये ॥ वायुमिति ॥ मध्यमःप्राण इत्यनन्तरं तस्मात्सनाश्राम्यदिति वक्तव्यमिति सूचयन्नाह ॥ तेनेति ॥ श्रमरूपेणब्रह्मणः प्रवेशतोदेवानां किमनिष्यं जातमित्याशङ्कानिवर्तकत्वेन मृत्युरित्यस्यात्रसम्बन्धमभिप्रेत्यतान्याप्नोत्तान्याप्त्वामृत्युरवारुन्द्धदिति वाक्यं व्याचष्ये ॥ श्रमादिति ॥ श्रमान्निमित्तात्‌ भगवत्कर्मवर्जनाद्धेतोः पापात्मकोमृत्युरन्यान्देवानवाप । अनेन श्राम्यतिश्ररोत्रमित्यनन्तरं तान्याप्नोदित्यादि वाक्यं योजनीयमित्युक्तं भवति । अथेममेवनाप्नोदिति वाक्यं प्रकारान्तरेण व्याचष्ये ॥ नैवेति ॥ तानिज्ञातुं दध्रिरइति वाक्यं व्याचष्ये ॥ त इति ॥ वायुमिति शेषोक्तिः । अयं वैनःश्रेष्ठःइत्यस्यार्थमाह ॥ श्रेष्ठोयमिति ॥ त एतस्यैवसर्वेरूपमभवन्निति वाक्यमभेदप्रतीतिं निवारयन्व्याचष्ये ॥ तेनचेति ॥ अनेन रूप्यतेनिरूप्यत इति रपशब्दःप्रतिमार्थ इत्युक्तं भवति । प्रकारान्तरेण तद्वाक्यं व्याचष्ये ॥ तद्भृत्यत्वमिति ॥ अनेन रूप्यतेनिरूप्यत इति रूपशब्दोभृत्यपर इत्युक्तं भवति । तस्मादेतएतेनाख्यायन्ते प्राणा इतीति वाक्यं व्याचष्ये ॥ तस्मादिति ॥ तदाविष्यत्वात्‌ । मरुत इत्याधिदैवापेक्षया । म्लोचन्दिह्यन्यादेवतानवायुरित्यस्मिन्नद्वा इति वाक्यं व्याचष्ये ॥ वायोरिति ॥ तं देवाश्ऱ्चक्रिरेधर्ममित्यतद्वयाचष्ये ॥ तस्मादिति ॥ तद्विषयं व्रतं एषान्ते तद्व्रताः । स एवाद्यस उश्ऱ्वइत्यस्यार्थोनित्यमिति । तस्मादेकमेवव्रतं चरेदित्यस्यार्थमाह ॥ तद्ब्रत इति ॥ अतो देवानां तद्व्रतत्वात्‌ । यद्युच्चरेत्समापि पयिषेदित्यतद्वयाचष्ये ॥ अन्येति ॥ विष्णुवायुभृत्यत्वेनेति शेषः । तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयतीति वाक्यं व्याचष्ये ॥ तेनेति ॥ समापनेनेत्यर्थः । अथैवमेतेदेवाः प्राणा अमृताः आविशन्तीत्यादिप्रकरणं मुक्तपरतया प्रमाणेन व्याख्यतं तत्रान्तरोपपत्तिमप्याह ॥ आनन्द्येवेति ॥ मुक्तः एतत्प्रकरणप्रतिपाद्य इति शेषः । आनन्दित्वदुःखाभावयोः मुक्तलिङ्गत्वादिति भावः ॥ 22 ॥ ततश्ऱ्चायंखण्डार्थः ॥ विष्णोः सप्तान्नस्रष्यृत्वप्रतिपादकमन्त्रानुदाहरति ॥ यत्सप्तेत्यादिना ॥ 1 ॥ अप्रतीतेरुदाहृतमन्त्राननूद्य व्याचष्ये ॥ यत्सप्तान्नानीत्यादिना ॥ प्रसिद्धिद्योतकहिशब्देनायं मन्त्रभागोव्याख्यातः ।मेघातपोभ्यां सप्तान्नजनकत्वं पितुः प्रसिद्धमिति । तथाच पिताविष्णुः सप्तान्नानिमेघयातपसा च यत्‌ यदाऽजनयत्‌ तदातेषां मध्ये एकमस्य साधारणमित्याद्युत्तरत्र सम्बन्ध इति मन्त्रार्थ इति भावः । मेधातपःशब्दार्थौश्रुस्वियमेव वक्ष्यति । द्वितीयमन्त्रे अस्य सर्वस्यैकमन्नमकुरुतकिं तत्साधारणमित्युक्तम्‌ । तदप्रतीतेरनूद्य व्याचष्ये ॥ एकमिति ॥ अस्य मनुष्यवर्गस्य तच्छत्युक्तं साधारणमन्नं इदमेव । किं यदिदं प्रसिद्धं

?Rप्राणिभिरद्यत इत्यर्थः । सर्वसाधारणमिदमन्नमात्मीयत्वेनासाधारणं कुर्वतोदोषमाह ॥ स इति ॥ उपास्त इत्युपशब्दस्यावृत्तिः । ततश्ऱ्चय एतदन्नं उपस्वसमीप एव वर्तमानं स्वकीयमेवेति यावत्‌ । उपास्तेमन्यते सपाप्मनोनव्यावर्तते । अक्षयपापवान्स्यादित्यर्थः । कुतः हि यस्मादेवतदद्यमन्नं मिश्रन्देवब्राह्मणादिसाधारणम्‌ । तच्चकेवलमात्मीयत्वेन मन्यमानोदेवब्रह्मस्वापहारीत्यर्थः । 2 । केतेद्वेदेवान्ने इत्यतो द्वेदेवानाभाजयदिति मन्त्रमनूद्य व्याचष्ये ॥ द्वे इति ॥ मन्त्रपूतं तदेवान्नं हुतं होम्यं प्रहुतं बलिञ्चाभाजयदित्यथर्ः । यस्माद्धुतप्रहुतेदेवान्ने तस्मादिदानीन्तना अपि देवेभ्योजुह्वतिप्रजुह्वति च । न केवलं वैश्ऱ्वदेवबलिहरणेदेवानामन्ने अपि तर्हि अन्यदपि इति भावेन मुनिमतेनाह ॥ अथो इति ॥ अथो इति पक्षान्तरे येद्वे अन्नेदेवानां विष्णुनादत्ते तेदशर्पूर्णमासावित्याहुर्जानिन इत्यर्थः । यस्माद्धुतादिर्देवान्नं तस्मादिष्यियाजुकः फलेच्छया यष्या न स्यात्‌ । तदीयस्यैव स्वफलोद्देशेनतेषु विनियोगेतदपहर्तृत्वप्राप्तेरिति भावः (3) । क्षीण्यात्मनेकुरुतेति मन्त्रव्याख्यानस्य बहुत्वात्सूचीकटाहन्यायेन पशुभ्य एकमिति मन्त्रमादावनूद्यकिं तदेकमन्नमित्यतस्तद्वयाचष्ये ॥ पशुभ्य इति ॥ यदेकमन्नं पशुभ्यः प्रायच्छत्‌ तत्पय इत्यर्थः । पयसः पश्ऱ्वन्नत्वमुपपादयति ॥ पयोहीति ॥ हियस्मत्‌ मनुष्याः पशवश्ऱ्चा ग्रेप्रथमं शैशवे पय एवोपजीवन्ति तस्मात्पशुभ्योदत्तमेकं पय इत्यर्थः । अनेन मन्त्रस्थः पशुशब्दोऽज्ञानित्वसाधारण्यात्‌ बालकमनुष्यपरोपीत्युक्तं भवति । यस्मत्‌ मनुष्या अग्रेपय एवोपजीवन्ति तस्मादद्यतनाजना जातं कुमारं घृतं चैव घृतमेवपयः कायर्ं अग्रेशैशवे प्रतिलेहयंति प्राशयन्ति अनुपश्ऱ्चात्स्तनं वाधापयन्तिपाययन्तीत्यर्थः । यस्माच्चपयः पशवः उपजीवति अथ तस्माज्जातं वत्समतृणादः तृणमत्तीति तृणादः नतृणादः अतृणादः किन्तु पयोद इत्याहुरित्यर्थः । (5) । तस्मिन्सर्वं प्रतिष्ठितं इति मन्त्रे तच्छब्देन प्रकृतसप्तान्नेषु कस्यपरामर्श इति न ज्ञायते प्रकृतान्नसप्तकपरामर्श इति च प्रतीयते इत्यतस्तदनूद्यव्याचष्ये ॥ तस्मिन्निति ॥ यच्चप्राणिति मनुष्यपश्ऱ्वादि यच्चनप्राणिति वृक्षादिस्थावरमिदं सर्वं पयसिप्रतिष्ठितम्‌ । उदकेनेव पयसाप्यं कुराभिवृद्धेर्दर्शनात्‌ । पयोहोमेनादृष्यद्वारास्थावराद्युत्पत्तेः वा । न केवलं जीवनहेतुत्वेनैव पयसिप्राणिजातं प्रतिष्ठितं किन्तु गोपयसोमोक्षादिहेतुत्वेनापीति भावेनाह ॥ तद्यदिदमाहुरिति ॥ संवत्सयं पयसा जुह्वत्‌ होमं कुर्वन्‌ पुरुषो यदि भगवदपरोक्षज्ञानी तर्हि पुनः मृत्युं मरणं संसारमिति यावत्‌ । अपजयतिमुक्तो भवति । यद्यदृष्यभगवत्तत्वः तर्हि पुनः मृत्युं तत्साधनमज्ञानमपजयति भगवदपरोक्षज्ञानीभवतीति यदिदमाहुर्ज्ञानिनः तत्तथैवसंवत्सरहोमेनैवमुक्त्यादिकमिति न विद्यात्‌ ।कुतः यत एवं विद्वान्‌ सप्तान्नसृष्यितत्वाज्ञानी यदहुः पयसाजुहितितदहरेवपुनर्मृत्युमपजयति । एकहोमेनैवमुच्यत इति यावत्‌ । कथमेकहोममात्रेण एवं विदुषोमुक्तिरित्यत आह ॥ सर्वं हीति ॥ यस्मात्सप्तान्न वित्‌ पयोहोमकरणेनैव देवेभ्यः सर्वमन्नाद्यं प्रयच्छति । गोपयसः प्रशस्तत्वेन सर्वान्नादिस्थानीयत्वादिति भावः । यद्वा एवं विद्वान्‌ हि यस्माद्यदहः पयसाजुहोति तदङ्गभूतं सर्वमन्नाद्यं च देवेभ्यः प्रयच्छति । तदहेरेव पुनर्मृत्युमपजयति तस्मत्‌ न तथाविद्यादित्यन्वयः । (6) नन्वद्यमानानामेतेषां अन्नानां क्षये कथं पुनः मनुष्यादीनां अवस्थानमित्यतोऽक्षयत्वोपपादकं मन्त्रमनूद्यव्याचष्ये ॥ कस्मादिति ॥ पुरुषोवा परमात्मै वा अक्षितिरन्नाक्षयहेतुः । कथं पुरुषोन्नाक्षयहेतुरित्यत आह ॥ सहीति ॥ हि यस्मात्पुरुषः इदं सप्तविधमन्नं पुन पुनः जनयते तस्मादक्षितिरिति सम्बन्धः । तथाच तानि साधारणशदीनि सप्तान्नानिसर्वदाद्यमानान्यपि कस्मादान्दरूपाद्भगवतो न क्षीयन्ते भगवानेवान्नाक्षयहेतुरिति यावदिति मन्त्रार्थ इति भावः । (7) यो वैतामक्षितिमिति मन्त्रमनूद्य एतामक्षिति मित्यस्याथर्माह ॥ योवा इति ॥ पुरुषो वा अक्षिति रन्नाक्षयहेतुः कुत इत्यतः प्रागुक्तमेव हेतुं कारणप्रदर्शनपूर्वकमाह । सहीति ॥ धियाधियेति पुनरुक्तिः पुनः पुनरन्नसर्जनापेक्षया । धियास्वेच्छया प्राणिनां कर्मभिरित्युक्त्याप्रथममन्त्रगतं मेधयातपसेति पदद्वयं व्याख्यातं भवति । तदेव्यतिरेकमुखेनोपपादयति ॥ यद्धैतदिति ॥ यत्‌ यदि एतत्‌ सप्तविविधमन्नं पुरुषो न कुर्यात्‌ तर्हि सर्वदाद्यमानत्वात्‌ हनिश्ऱ्चयेन क्षीयेतेत्यर्थः । अनेन यो वा अधिकारी एतां पुनः पुनरन्नजनिकामत एवाक्षिति मन्नाक्षयहेतुं भगवन्तं वेदेति मर्न्थो

?Rव्याख्यातो भवति । सोन्नमत्तिप्रतीकेनेति मन्त्रमनूद्यप्रतीकेन देहेनेति प्रतीतिनिरासाय तद्वयाचष्ये ॥ स इति ॥ प्रतीकं मुखं ततश्ऱ्च प्रतीकेनेत्येतत्‌ मुखेनेत्यर्थमाहेत्यर्थः । तथाच स भगवतोन्नाक्षयहेतुत्वज्ञानी प्रतीकेन मुखेनस्यमुखेनाप्रयत्नेनेति यावत्‌ । अन्नमत्तियेथष्यभोगाननु भवतीति मन्त्रार्थ इति भावः । सदेवानपीत्यादिमन्त्रद्वयमनूद्याक्षरार्थस्यातिरोहितत्वात्तात्पर्यमाह ॥ सदेवानपीति ॥ प्रशंसाभगवतः सप्तान्नसृष्यिकर्तृत्वज्ञानिन इति शेषः । सःसप्तान्नोपासकोदेवपदयोग्यत्वात्‌ देवान्‌ देवत्वं गच्छति प्राप्नोति । स उपासक ऊर्जमपि देवान्नमपि उपजीवति । यद्वा स सप्तान्नज्ञानीमनुष्योदेवान्‌ गच्छति देवसमीपं प्राप्नोतीति न्त्राक्षरार्थ इति भावः । (9) ॥ 2 ॥ एवं सूचीकटशहन्यायेन पशूभ्य एकमित्यादिमन्त्रान्व्याख्यायेनानीं त्रीण्यात्मन इति मन्त्रमनूद्य कानितानि त्रीणीत्याशङ्कापरिहाराय व्याचष्ये ॥ त्रीणीति ॥ एवं त्रीणीति पदार्थमुक्त्वावाक्याथर्माह ॥

?Rतानीति ॥ तानिमनोवाक्‌ प्राणरूपाणित्रीण्यन्नानि आत्मनेस्वार्थमकुरुतेत्यर्थः । साधारणाद्यन्नानामिवमनोवाक्‌ प्राणानां भगवद्विषयकाणां भगवत्तुष्यिहेतुत्वेन भगवदन्नत्वं द्रष्यव्यम्‌ । ननु चक्षुरादिषुज्ञानकरणेषु सुत्सु मन एव कस्मादात्मान्नमकुरुतेत्यतस्तस्य प्राधान्यादिति भावेन तत्प्राधान्यं व्यतिरेकेण समर्थयते ॥ अन्यत्रेति ॥ पुरुषोवस्थितं गजं किं त्वं दृष्यवानसीति केनचित्‌ पृष्य आह ॥ अन्यत्र विषयान्तरेगतं मनोयस्य सोहमन्यत्र मना अभूवमत्तो नादर्शम्‌ । तथा इदं मदीयं वचः किं श्रुतवानसीति पृष्ठ आह ॥ अन्यत्र मना अभूवं अतो नाश्रौषमिति । एवमितरेन्द्रियेष्वपि मनोव्यतिरेकेणज्ञानव्यतिरेको द्रष्यव्यः । मनसिव्याकुलेचक्षुरादिभिः ज्ञानं नोत्पद्यत इत्येतदुपपदयति ॥ मनसाहीति ॥ हि यस्मान्मनस्य व्याकुल एव चक्षुषापश्यति श्ररोत्रेण ृणोतीत्यर्थः। ननु विष्णुभक्तिकामतत्पूजाकरणसङ्कल्पादीनामपि भगवत्तुष्यिहेतुत्वेन तदन्नत्व सम्भवात्‌ कथं मनोवाक्प्राणानामेव भगवदन्नत्वमुक्तमित्यतो मनो ग्रहणेनैवकामसङ्कल्पादयोपि गृहीता इति भावेन कामसङ्कल्पादीनां मनोवृत्तित्वमाह ॥ काम इति ॥ एकविषयेच्छाकामः । अनेकगोचरेच्छाविचितकत्सा । एतत्सर्वं मन एव मन उपादानमेकमेव । विषयेन्द्रियसंयोगादेवज्ञानोत्पत्तौ किं मनसेत्यतो विषयेन्द्रियसंयोगस्याप्रयोजकत्वमाह ॥ तस्मादिति ॥ बाह्मेन्द्रिय जन्यज्ञानस्य मनोधीनत्वात्‌ पृष्यत उपस्पृष्योपि मनसाविजानाति । मनस्य व्याकुल एव अनेनाहं स्पृष्य इति त्वचाविजानातीत्यर्थः । स्पृष्योपीत्यपि पदेनविषयेन्द्रियसन्निकर्षमात्रस्याप्रयोजकत्वमभिप्रैति । ननु ध्वनिवर्णात्मकविष्णुनिमरूपशब्दस्यैवभगवत्तुष्यिहेतुत्वाद्वाचः कथं तुष्यिहेतुत्वेनान्नत्वमित्यत आह ॥ यःकश्ऱ्चेति ॥ यःकश्ऱ्चनशब्दोध्वनिवर्णात्मकोऽसौ वागेवतताच वाचोन्नत्वोक्तौ सर्वस्यापि शब्दस्यान्नत्वमुक्तमेवेति भावः । यत्किञ्चिच्छब्दोच्चारणहेतुभूतवाचः कथं विष्ण्वन्नत्वमित्यत आह ॥ सैषाहीति ॥ हि यस्मात्सैषासर्वशब्दोच्चारणेतुभूतावाक्‌ अन्तं सर्वान्तस्थं विष्णुमायत्ताविषयीकुर्वन्ती । सर्वेषामपि ध्वनिवर्णात्मकशब्दानां विष्णुनामत्वात्‌ अतो वाक्‌ विष्ण्वन्नमित्यर्थः । केषां वाक्‌ विष्णुमायत्तेत्यतो वेदद्रष्यार आहुः ॥ एषाहिन इति ॥ नोस्माकं एषवाक्‌ विष्णुमायत्ता हि प्रसिद्धमित्यर्थः । ननु विष्णुजादिसत्कर्महेतुप्राणस्येवतदन्यकर्मसन्त्यागादिहेत्वपानादेरपि तत्तुष्यिहेतुत्वेन तदन्नत्वात्कथं प्राणस्यैव तदन्नत्वोक्तिरित्यत आह ॥ प्राण इति ॥ नोस्माकं विष्णुकर्महेतुभूतः प्राणः तदन्यकर्मसन्त्यागहेतुरपानः तद्विरोधिनिरासेतुर्व्यानः तद्योगधारणहेतुरुदानः तद्विषयकमनोवागादीन्द्रियनियमनहेतुः समानः इत्येतत्सर्वं प्राण एव प्राणप्रभेद एवेत्यर्थः ।यस्य कस्यापि प्राणापानादेः विष्ण्वन्नत्वं नास्तीति न इत्युक्तं वेद द्रष्यृभिः । मनो वाक्‌ प्राणानां प्राधान्यं प्रकारान्तरेणाप्याह ॥ एतन्मय इति ॥ एतच्छब्दस्य अव्यवधानेन प्रकृतप्राणमात्र परत्वप्रतीति निवारणशयविवृणोति ॥ वाङ्‌मय इत्यादिना ॥ अयमात्मोत्तमोजीवो । वागादिप्रधानकः । वाङ्ममनः प्राणाभिमानिसान्निध्यप्राधान्यनिमित्तकोत्कर्षवानित्यर्थः । कस्तदभिमानीत्यतोप्याह ॥ एतन्मय इति ॥ अयमात्मासरस्वतीब्रह्मवायुरूपः एतन्मयः एतदभिमानीत्यर्थः । अनेन सरस्वत्याद्युत्तमाभिमन्यमानकत्वाच्चवागादिकमुत्तममित्युक्तं भवति । सरस्वत्यादयोवागाद्यभिमानिन इति कुतः यतोयमात्मासरस्वत्यादिरेतन्मयः प्रकृतपरमात्मवागादिजन्य इत्याह ॥ एतन्मय इति ॥ परमात्मनोवागादिसत्त्वेतज्जन्यत्वं तेषां स्यात्‌ । तदेवकुतः यतोऽयमात्मापरमात्मा एतन्मयः वाङ्मनः प्राणस्वरूप इत्याह ॥ 3 ॥ एतन्मय इति ॥ वागाद्युत्तमत्वप्रयोजकसरस्वत्याद्युत्तमत्वसिद्धयेतोषां महिमानमाह ॥ त्रयोलोकाइत्यादिना ॥ एत एव प्रकृतवाङ्मनः प्राणाभिमानि सरस्वतीब्रह्मवाय एव । त्रयोलोकास्त्रिलोकाभिमानिनः । तदेवविशदयति । वागेवेति ॥ वाक्‌ वागभिमानिनीसरस्वत्ययंलोकः पृथिवीलोकाभिमानिनी । मनोमनोभिमानीब्रह्मान्तरिक्षलोकाभिमानीप्राणः प्राणाभिमानीवायुरसौलोकः स्वर्गलोकाभिमानीत्यर्थः ॥ 4 ॥ एवं त्रयोवेदाएतएवेत्यारभ्यप्राण एनं तद्भूत्वावतीत्यन्तस्य ग्रन्थस्य व्याख्यानं द्रष्यव्यम्‌ । यत्किञ्च विज्ञातं विज्ञानविषयः तद्वाचः तदभिमानि सरस्वत्या रूपं प्रतिमा कुतः हियस्मात्‌ वाक्‌ विज्ञाताविज्ञाताभिमानिनी । वाङ्महिमज्ञानिनः फलमाह ॥ वागिति ॥ वाक्‌ सवरस्वती एनं वाग्विभूतिज्ञं तद्भूत्वाविज्ञाताभिमानिनीभूत्वाऽवतीति योजना । एवमुत्तरत्राप । विजिज्ञास्यं जिज्ञासाविषयः अविज्ञातं विज्ञानाविषयः ॥ 10 ॥ सरस्वतीब्रह्मवायूनामेवपृथिव्याद्याभिमानरूपमहिमान्तरमाह ॥ तस्या इत्यादिना ॥ तस्यैतस्य,वाचः तदभिमानिसरस्वत्याः पृथिवीशरीरं ज्योतीरूपं प्रतिमा किं ज्योतिरित्यत उक्तम्‌ ॥ अयमग्निरिति ॥ पृथिव्यग्नीसरस्वत्यभिमन्यमानावित्यर्थः । पृथिव्यग्न्योवर्ागतिक्रमेणवृत्तौ कथं तच्छरीरत्वादिकमित्यत आह ॥ तद्यावत्येवेति ॥ तत्‌ तस्मात्पृथिव्यग्न्योः सरस्वत्यभिमन्यमानत्वात्‌ यावतीवाक्‌ तावत्येवपृथिवीतावानेवायमग्निः अभिमानिव्यतिरेकेणाभिमन्यमानाभावादित्यर्थः ॥ 11 ॥ अथवा गभिमन्यमाननिरूपणानन्तरं मनसोभिमन्यमानं निरूप्यत

?Rइत्यर्थः । एतस्य मनसोमनोभिमानिब्रह्मणः द्यैःशरीरं ज्योतीरूपं प्रतिमा । किं ज्योतिरित्यत उक्तम्‌ ॥ असावादित्य इति ॥ द्वयादित्यौमनोभिमानिब्रह्माभिमन्यमानावित्यर्थः । अभिमान्यभिमन्यमानयोः समपरिमाकत्वमाह ॥ तद्यावदेवेति ॥ तौ वाङ्‌ मनोभिमानिनौ सरस्वतीब्रह्माणौ मिथुनं समेतां प्राप्तवन्तौ । ततो मिथुनीभावानन्तरं प्राणोवायुरजायत । तस्य प्राणस्य महिमानमाह ॥ स इति ॥ स वायुरिन्द्रः परमैश्ऱ्वर्यसम्पन्नः । स एष वायुरसपत्नोशत्रुः । कल्पादिशत्रुसद्भावेन कथमशत्रुरित्यत आह ॥ द्वितीय इति ॥ द्वितीयः समबलोवैसपत्नः शत्रुर्भवति कल्पादयश्ऱ्च न समबला इति भावः । वायोरसपत्नत्ववेत्तुः फलमाह ॥ नास्येति ॥ योधिकारी एवं वायुरसपत्न इति वेदास्य सपत्नः शत्रुःकोपि न भवति ॥ 12 ॥ अथैतस्येत्यादेः पूर्ववदेवार्थः । त एते मनोवाक्‌ प्राणाभिमानिनः सरस्वतीब्रह्मवायवः सर्व एव गुणतस्तारतम्योपेता अपि व्याप्त्यासमाः सर्वेरुद्राद्यपेक्षया अनन्ताबहुगुणाः स यःकश्ऱ्चित्‌ एतान्‌ रस्वत्यादीनन्तवतः इतरजीववदल्पगुणानुपास्ते सोन्तवन्तं नाशवन्तं लोकं जयति ह । नरकाद्यनर्थभोगानन्तरं तमः प्राप्तिः भवतीति भावः । अथ योधिकारी एतानन्तानितरजीवापेक्षया बहुगुणानुपास्ते सोनन्तं नाशरहितं विष्णुलोकं जयति प्राप्नोतीत्यर्थः ॥ 13 ॥ चन्द्राभिमानिनोमहिमानमाह ॥ स एष इति ॥ स एष वायुः संवत्सरः विष्णोः वत्सःसन्‌ सम्यग्रमत इति संवत्सर इत्यर्थः । स एष वायुः प्रजापतिः प्रजानां पालनात्‌ स एष वायुः षोडशकलः विशेषतः षोडशकलचन्द्रसंस्थ इत्यर्थः । तस्य चन्द्रस्थस्य वायोः पञ्चदशकलाः रात्रय एव रात्रिनामिका एव । अस्य चन्द्रस्थवायोः षौडशीकलाध्रुवैव । पञ्चदशकलाः केननिमित्तेन रात्रिनामिकाः तत्राह ॥ स इति ॥ स वायुः रात्रिभि; शुक्लपक्षप्रतिपदमारभ्यपौर्णमासीपर्यन्तं पञ्चदशरात्रिभिरेवपञ्चदशकलाभिरापूवर्यते च । कृष्णपक्षप्रतिपदमालभ्यामावास्यापर्यन्तं पञ्चदशरात्रिभिरपक्षीयते च । सःपञ्चदशकलारहितः अमावास्यां अमावास्यायां रात्रिं रात्रौ एतयाध्रुवयाषोडश्याकलया सवर्मिदं प्राणभृत्‌ अनुप्रविश्य ततःप्रातःपतिपदि जायते द्वितयकलायुक्तो भवति । तस्मादावास्यारात्रौ चन्द्रस्थवायोः प्राणभृत्सुस्थितत्वादेतां रात्रिं एतस्यां रात्रौ प्राणभृतो जीवतः प्राणं न विच्छिन्द्यात्‌ । महापापहेतुप्राणिवधोनकर्तव्य इति किमुवक्तव्यं कृकलासस्यापि अल्पदोषहेतुवधस्यापि प्राणं न विच्छिन्द्यात्‌ । तस्यां रात्रौ कृकलासावधोपि माहादोषहेतुरित्यर्थः । हिंसानिषेधस्य प्रयोजनमाह ॥ एतस्या इति ॥ एतस्याः सर्वप्राणभृत्स्थायाः चन्द्रस्थवायुरूपदेवतायाः अपचित्या एव पूजार्थमेवेत्यर्थः । तदाप्राणिस्थं वायुं ज्ञात्वा तद्वधाकरणमपि वायुपूजैवेति भावः॥ 14 ॥ चन्द्रस्थस्यैव वायोः सप्तान्नसृष्यितत्वज्ञानिस्थत्वरूपं महिमान्तरमाह ॥ य इति ॥ सप्रसिद्धोयः संवत्सरः प्रजापतिः षोडशकलोवायुः सोऽयमेवतदन्तर्गत एव अयंकः यः एवं वित्‌ सप्तान्नस्रष्यृत्ववित्‌ पुरुषः तदन्तर्गतो यमित्यर्थः । चन्द्रस्थ एव वायुर्ज्ञानिसंस्थ इत्यर्थः । ननु चन्द्रस्थ वायोः ज्ञानिनिविशिष्यस्थित्युक्तौ किं निमित्तमित्यतः चन्द्रवज्ज्ञानिनोपि षोडशकलत्वेन चन्द्रस्थवत्‌ ज्ञानिस्थस्यापि षोशकलत्वमिति भावेन ज्ञानिस्थवायोः षोडशकलत्वमुपपादयति ॥ तस्येति तस्य ज्ञानिस्थवायोः वित्तमेवमानुषवित्तमेवहिरण्यादिकं पञ्चदशशकलाः सौम्यपञ्चदशकलास्थानीयत्वमुपपादयति ॥ स इति ॥ स ज्ञानिस्थोवायुः वित्तेनैवागतेनैवापूर्यते च अपगतेन वित्तेनैवापक्षीयते च । आगमापायवत्वाद्वित्तस्य पञ्चदशकलास्थानीयत्वमित्यर्थः । शरीरस्य ध्रुवकलास्थानीयत्वं वित्तस्याध्रुवकलास्थनीयत्वं चोपपादयति ॥ तदेतदिति ॥ यश्ऱ्चासावयञ्चेति यदयमात्मादेहः तदेतत्‌ नभ्यं रथचक्रस्थानीयं वित्तं प्रधिः प्रधिस्थानीयं अरनेम्यादिस्थानीयमित्यर्थः ।एवं सति फलितमाह ॥ तस्मादिति ॥ तस्मादात्मवित्तयोः नाभिप्रधिस्थानीयत्वात्‌ । यद्यपि सर्वज्यानिं सर्वस्वं जीयते पराजीते । तथापि आत्मनानाभिस्तानीयेन देहेन चेद्यदिजीवति तदातर्ह्ययं प्रधिनातत्स्थानीयेन वित्तेनागात्‌ वित्तहीनोजात इति यावदित्येवाहुः । 15 ॥ सप्तान्नविद्यावेत्तुः फलं वक्तुं तदुपयुक्तमाह ॥ अथेत्यादिना ॥ केतेत्रयोलोका इत्यत आह ॥ मनुष्यलोक इति ॥ तेषां साधानमाह ॥ सोयमिति ॥ पुत्रेणैव औरसेनशिष्येण च । नान्येन कर्मणेति । यद्यपि पुनः पुनः कर्मकरणलक्षरोमनुष्यलोकजयः ॥ 21 ॥ अथाध्यात्मं प्राणस्य श्रैष्ठयकथनानन्तरम्‌ । अधिदैवतं प्राणस्य श्रैष्ठयं उच्यत इति शेषः । ज्वलिष्यामीत्यादिपूर्ववत्‌ । एवमन्यादेवताः शेषद्याः यथादैवतं तत्तद्देवतायोग्यपञ्चरात्रप्रवृत्त्यादि करिष्याम इति दध्रिरे । अग्यादयः श्रमरूपेण प्रजापतिनाप्राप्ताः मृत्युनावरुद्धाः । वायुस्तुनेत्युक्तमात्राप्यतिदिशति ॥ सयथेति ॥ स वक्ष्यमाणोदृष्यान्तोयथा । एषां वगादीनां प्राणानां मध्ये मध्यमाःप्राणोयथाश्रमरूपेणप्रजापतिनानप्राप्तः त एव नृत्युनावरुद्धोत एव श्रेष्ठश्ऱ्च । तथैतासान्देवतानां अग्न्यादीनां मध्येवायुरित्यर्थः । अन्यादेवताः मृत्युनावरुद्धत्वादेवम्लोचन्ति म्लाना भवन्ति । न वायुर्म्लोचति । कुतः यद्वायुर्योवायुः सैषादेवता नास्तमितायद्यस्मादित्यर्थः । अत्र वायोरपि देवतावत्स्वरूपनित्यत्वदेहानित्यत्वयोः सत्वेपि स्वरूपातिरिक्तेश्ऱ्वरविषयवृत्तिप्रवाहाविच्छेदापेक्षया अविर्भूतज्ञानातिरोभावापेक्षयाचेदमुपपादनीयम्‌ । यद्वा शरीराभिमानाभावेन

?Rतदुत्पत्तिनाशाभ्यां नास्योदयास्तमयाविति भावेनैतदुक्तम्‌ । यथोक्तं ब्रह्मानिरभिमानित्वाच्छरीर्यप्यशरीरवानिति ॥ 22 ॥ देवानां वाय्वधीनत्वेमन्त्रोप्यस्तीत्याह ॥ अथेति ॥ तमुदाहरति ॥ यत इति ॥ सूर्यशब्दोदेवतां तरापलक्षकः । मन्त्राभिप्रेतं ब्राह्मणं स्वयमाह ॥ प्राणाद्या इति ॥ मन्त्रशेषमुदाहरति । तमिति ॥ देवास्तमुद्दिश्य धर्मं हंसोपास्तिलक्षणं चक्रिरे । स एव धर्मोद्यापि वर्तते । स एवश्ऱ्वोपि वर्तिष्यत इत्यर्थः । मन्त्रं व्याचष्ये ॥ यद्वा इति ॥ एतेदेवाः । यद्वा यदेवधर्मसाधनव्रतं अमुर्हि अुष्मिन्कालेप्राणश्रेष्ठत्वनिर्णयकालेध्रियं तघृतवन्तः । तदेवव्रतमद्यकुर्वन्ति अपि शब्देन श्ऱ्वः करिष्यन्तीत्यस्य समुच्चयः । यदथर्ं प्राणस्योत्तमत्वं प्रसाधितं तदाह ॥ तस्मादिति ॥ तस्माद्विष्ण्वनन्तरं प्राणस्य सर्वदेवोत्तमत्वात्‌ मामां पाप्मामृत्युः नेत्‌ नैवाप्नुवदिति मन्वानोधिकारी एकमेव प्राणमात्रविषयकमेव व्रतं चरेत्‌ । किन्तदित्यत उक्तम्‌ ॥ प्राण्यादिति ॥ B-14

?Rप्राण्यात्‌श्ऱ्वासं कुर्यात्‌ । अपान्यात्‌ उच्छ्वासंकुर्यात्‌ । श्ऱ्वासोच्छ्वासात्कहंसोपास्तिं कुर्यादित्यर्थः । आरब्धं प्राणव्रतं मध्येन विसर्जनीयमित्याह ॥ यदीति ॥ अन्यदेवताव्रतमिति शेषः । तस्यफलमाह ॥ तेनेति ॥ तेन प्राणव्रतसमापनेनान्यदेताव्रतसमापनेन वा एतस्यैएतस्याः देवतायाः विष्णुरूपदेवतायाः सायुज्यं तेन वायुना जयति प्राप्नोति तदनधिकारीसलोकतां जयतीत्यर्थः ॥ 23 ॥ इति सप्तान्नब्राह्मणम्‌ ॥ 6 ॥ (॥ अथभाष्यर्थः ॥) प्राणस्यैव रुद्रभारत्युत्तमत्वरूपं महिमान्तरमाह ॥ त्रयं वा इति ब्राह्मणेन ॥ तत्रै तद्धिसर्वैर्नामभिः सममित्यादिवाक्यत्रयं परैरेतद्वाग्रूपशब्दसामान्यं सर्वैः स्वविशेषभूतैः देवदत्तादिनामभिः सममविशेषेणानुस्यूतमिति व्याख्यातम्‌ । तदसत्‌ । वाक्त्वरूपशब्दत्वस्य कथञ्चिच्छब्दविशेषानुस्यूतत्वेपि वागिति सामान्यशब्दस्य तदनुस्यूतत्वाभावात्‌ किञ्चैवं सति नामस्विति सप्तमीस्यान्नतुतृतीया सामान्यशब्दस्य विशेषशब्दकारणत्वाभावेनातो हि सर्वाणिनामान्युत्तिष्ठन्तीत्यस्यानुपपत्तेश्ऱ्चेति भावेन खण्डत्रयगतसममित्यस्यार्थमाह ॥ सहैवेति ॥ सहेत्यस्य सभावः माङ्मान इत्यत आतोनुपसर्गेक इति कप्रत्यये आतो लोप इटिचेत्याकारलोपेमातीति मामित्यर्थः । आत्मेत्येतदित्यात्मशब्देनात्मशब्दवाच्यशरीरनिर्वर्त्यकर्मसामान्यमुच्यत इति व्याख्यानमसत्‌ । तथात्वे आत्मशब्दस्य लाक्षणिकत्वापत्तेः । सर्वकर्मणां शरीरनिर्वर्त्यकर्मसामान्य(जन्य)त्वाभावाच्चेति भावेनात्मशब्दार्थमाह ॥ आत्माप्राण इति ॥ आत्मशब्दक्तमेवतदेतदमृतमिति तदेतच्छब्दन परामृश्यप्राणो वा अमृतमिति तद्वयाख्यानादिति भावः । तदेतत्रयं सदेकमयमात्मेति वाक्‌ चक्षुरात्मनामभेद उच्यत इति प्रतीति निरासाय व्याचष्ये ॥ नामरूपयोरपीति ॥ अत्र नामरूपशब्दाभ्यां वाक्‌ लक्षुषोः ग्रहणं प्राणब्दस्येन्द्रियादिपरत्वमपाकुर्वन्वाक्‌चक्षुःशब्दार्थौ वदन्नामरूपयोरपीत्युक्तार्थेप्रमाणमाह ॥ प्राण इति ॥ तत्पत्नीभारतीनामेति वागिति प्रोक्ता । तत्सुतोरुद्रोरूपमिति चक्षुरिति प्रोक्त इत्यर्थः । प्राणो वा अमृतमिति वाक्यं व्याचष्ये ॥ अमृत इति ॥ नामरूपेसत्यमित्येतद्वयाचष्ये ॥ सत्यमिति ॥ यथार्थवक्तृत्वादेवेति सम्बन्धः । ननु वायोरेवसर्वाच्छादकत्वात्कथं ताभ्यामयं प्राणः छन्न इत्युक्तमित्यतस्तद्वयाचष्ये ॥ रुद्र इति ॥ यतः सत्येरुद्रेसत्येषुवेदेषुतदभिमानिभारत्याञ्च सदाप्रविष्यः प्राणः तस्मात्सत्येनाच्छादित इत्युच्यत इत्यर्थः । ननु नित्यज्ञानात्मकत्वं सर्वसाधारणमिति कथं वायोः अमृतत्वेतन्निमित्तमित्यत आह ॥ नित्यमिति ॥ यतः स्वरूपेणाविर्भूतस्वरूपज्ञानेननित्यं स्थितो तोवायुरमृत इति सम्बन्धः । आविर्भूतज्ञानतिरोभावोनास्तीति भावः । यथोक्तं अतिरोहितविज्ञानाद्वायुरप्यमृतः स्मृत इति ॥ ततश्ऱ्चायखण्डार्थः ॥ सरस्वतीरुद्राभ्यां वायोरुत्तमत्वं वक्तुं तदभिमन्यमानं जगत्तावद्विभजयति ॥ त्रयमिति ॥ इदं जगत्रयं वैत्रिविधम्‌ । त्रैविध्यमेवदर्शयति ॥ नामरूपंकर्मेति ॥ इति शब्दोध्याहार्यः नामाभिमानिस्वरूपमाह ॥ तेषामिति ॥ तेषां नामरूपकमर्णां मध्येनाम्नां वाक्‌ भारतीत्येतद्दैवतं तन्महिमानमाह ॥ एतदिति ॥ एषां नाम्नां वागित्येतदुक्थमुत्थापकम्‌ । कुतः हि यस्मादतोवाचोभारत्याः सर्वाणिनामानि उत्तिष्ठन्ति उत्पद्यन्ते । वाचोमहिमान्तरमाह ॥ एतदिति ॥ वागित्येतदेषां नाम्नांसाम । कुतः । हि यस्मादेवद्वागित्येतत्‌ सर्वैर्नामभिः शब्दैः सहैवरूपाणिकर्माणि च मातिजानातीति च समम्‌ । महिमान्तरमाह ॥ एतदिति । वागित्येतत्‌ एषं नाम्नां ब्रह्म । कुतः । हि यस्मात्‌ वागित्येतत्सर्वाणिनामानि बिभर्ति ॥ 1 ॥ रूपाभिमानिस्वरूपं दर्शयंस्तन्महिमानमाह ॥ अथेति ॥ अथ नामाभिमानिस्वरूपनिरूपणानन्तरम्‌ । रूपाभिमानिस्वरूपमुच्यत इति शेषः । रूपाणां चक्षुश्‌चक्षुर्नामकोरुद्र इत्येतद्दैवतं इतरत्पूर्ववत्‌ । सर्वैः रूपैः सहैवनामानि कर्माणिच मातिजानातीति सममित्यर्थः ॥ 2 ॥ कर्माभिमानिस्वरूपं निरूपयन्तन्महिमानमाह ॥ अथेति ॥ कर्मणामात्माप्राण इत्येतद्दैवतं एतदेवषामित्यादिपूर्ववत्‌ सर्वैः कमर्भिः सहैवनामानिरूपाणिच मातिजानातीति सममित्यर्थः । भारतीरुद्रवायूनां नामादित्रितयाभिज्ञत्वोक्त्यासाम्यशङ्कां वारयति ॥

?Rतदेतदिति ॥ तदेतद्वागादित्रयं सदेकं द्वयोरेकाधीनत्वात्‌ एकमित्यर्थः । किन्तदेकं यदधीनं द्वयमित्यत आह ॥ अयमात्मेति ॥ तथाच वाक्‌ चक्षुषोरात्माधीनत्वमिति भावः । तदुपपादयति ॥ आत्मेति ॥ आत्माप्राणः एकोमुख्यः सन्‌ एतत्रयं वागादित्रयमुच्यत इत्यर्थः । नन्वात्मनः श्रेष्ठत्वं वाक्‌ चक्षुषोरश्रेष्ठत्वं च कथमित्यत आह ॥ तदेतदिति ॥ ततदमृतमित्येतद्वयाचष्ये ॥ प्राणोवा इति ॥ प्राणोवायुरमृतमति रोहितविज्ञानादित्यर्थः । सत्येनेत्युक्तसत्यशब्दाथर्माह ॥ नामरूपेइति ॥ वाक्‌चक्षुषीइत्यर्थः । इदानीं वाक्यार्थमाह ॥ ताभ्यामिति ॥ ताभ्यां वाक्‌चक्षुर्भ्यांसरस्वतीरुद्राभ्यां अयममृतः प्राणःछन्नःतयोः नियामकत्वेन प्रविष्यत्वादित्यर्थः ॥ इति सप्तमब्राह्मणम्‌ ॥ 7 ॥ इति श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितश्रीमद्बृहदारण्यकभाष्यटीकायां श्रीमद्रघुवर्यतीर्थपूज्यपादशिष्यरघोत्तमयतिकृतायां तृतीयोध्यायः ॥ 3 ॥ तृतीयाध्याये प्रायेण अश्ऱ्वमेधब्राह्मणादिभिः बाह्याः ब्रह्मविद्या उक्ताः । प्रायेणान्तराः ब्रह्मविद्या अनेनाध्यायेनोच्यन्ते । तत्र प्रथमब्राह्मणेन न बाह्मयब्रह्मविद्यासाक्षान्मोक्षसाधिका अपि र्हि स्वहृदिस्थब्रह्मविद्येत्याह । अतिष्ठाः सर्वेषां भूतानां मूर्धेत्यत्राप्रतीतेः सर्वेषां भूतानां मूर्धाशिर इत्यन्यथाप्रतीतेश्ऱ्चातिष्ठामूर्ध शब्दार्थावाह ॥ अतीत्येति ॥ जगदन्तर्गतस्य कथं जगदतिक्रम इत्यत आह ॥ जगद्धर्मवजिर्तत्वेनेति ॥ उत्तमत्वान्मूर्धेति ॥ मूर्ध्नःसर्वाङ्गेषूत्तमत्वादित्यर्थः । ननु अपराजितसेनेत्यस्य बहुव्रीहित्वेन भगवद्विशेषणत्वे स्त्रीलिङ्गानुपपत्तिः । देवादिरूपसेनायाः कदाचित्पराजयसम्भवेनापराजितत्वानुपपत्तिश्ऱ्चेति कर्मधारय एवानुसर्तव्यः । तथाच कथमेतद्भगवद्विशेषणम्‌ । स्वस्यैव स्वसेनारूपत्वायोगादित्यतस्तद्वयाचष्ये ॥ जिष्णुरित्यादिना ॥ विषासहिरित्यस्य सहत इति सासहिः विशेषणसहत इति विषासहिरिति व्याख्यानमसत्‌ । विष्णोः दुर्जनादिषुसहनाभावात्‌ इति भावेन तद्वयाचष्ये ॥ विषशसहिरिति ॥ अनेन विर्निषेधार्थ इत्युक्तं भवति । य एवायमात्मनिपुरुष इत्यत्रात्मनीत्यस्य स्वात्मनीत्यर्थत्वे एतदुपासनस्यान्तरुपास्तित्वप्राप्त्यानैतावताविदितमित्युत्तरत्रास्यापि बहिरुपास्तित्वोक्तिः विरुध्येतेत्यतस्तद्वयाचष्ये ॥ आत्मनीति ॥ आत्माविरिञ्चः सुमनाः सुधौतश्ऱ्चेति कथ्यत इत्यभिधानादित्यर्थः । फलवाक्यगतमात्मन्वीत्येतदनूद्याऽप्रतीतेः व्याचष्ये ॥ आत्मन्वीति ॥ ननूपासनेनानुरूपं हि फलं भवति । तथाच कतं हिरण्यगभर्ेभगवदुपास्तिं कुर्वत चित्तवत्त्वं स्यादित्यत आह ॥ चित्तेति ॥ अभिमान्युपास्तौ अभिमन्यमानवान्‌ भवतीति न वैरूप्यमिति भावः । ननु नैतावताविदितं भवतीत्युक्तिः किं पूर्वोक्तविद्यायाः ब्रह्मविद्यैकदेशत्वात्‌ अथवा मोक्षसाधनत्वाभावात्‌ । नाद्यः । ब्रह्मणः केनाप्यनवशेषेणज्ञातुमशक्यत्वात्‌ । वक्ष्यमाणविद्याया अपि ब्रह्मविद्यैकदेशत्वाच्च । नान्त्यः । ब्रह्मोर्ह्युक्तोपासनानां वैफल्यान्नैतदिति वक्तव्यं नैतावतेति कथमुक्तमित्यस्तदभिप्रायमाह ॥ देवतास्विति ॥ उपास्यैवस्थितस्येति शेषः । तेन समानकर्तृता । ननु यदि देवेषु भगवदुपासनं न मोक्षसाधनं किन्तु हृदिस्थोपासनमेवेति राज्ञोभिप्रायः तर्हि सुप्तं प्रति ऋषिं नीत्वासोमान्तर्गतभगवद्वाचकैः बृहत्पाण्डरवासः सोमशब्दैः सुप्तामन्त्रणं किमर्थं क्रियते तेनाभिप्रेतार्थासिद्धेरित्यत आह ॥ स्वहृदिस्थेति ॥ भगवतः सर्वत्राविशिष्यत्वात्‌ हृदिस्थोपासनमेवमोक्षसाधनं न देवतान्तर्गतभगवदुपासनमिति कथमिति मुनेराशङ्कापरिहाराय स्वस्मिन्‌ स्वहृदिस्थभगवद्रूपस्य देवतान्तर्गतरूपापेक्षयाविशेषसम्बन्धज्ञापानार्थमेतैः शब्दैः आमन्त्रणमित्यर्थः । नन्वेतैः शब्दैरामन्त्रणषनकथमयस्मिन्सम्बन्धविशेषाभावः तर्हि देवगतभगवद्वाचकैः शब्दैरामन्थितः सुप्तहृद्गतो विष्णुः जीवमुत्थापयेत्‌ । देवस्थभगवदामन्त्रणस्यैव हृदिस्थभगवदामन्त्रणत्वात्‌ । न चोत्थापयति । तेन ज्ञायते देवगतभगवद्रूपापेक्षयाहृदिस्थभगवद्रूपविशेषवाचकैरसाधारणनामभिरामन्त्रणं कर्तव्यम्‌ । तस्यापि प्रबोधोपायत्वात्‌ । पाणिपेषणं किमर्थमित्यत आह ॥ तेभ्य इति ॥ सत्यमसाधारणनाम्ना आमन्त्रणमपि प्रबोधोपाय इति । तथापि न तच्छीघ्रप्रबोधोपायः । बहुशस्तथोक्तेपि प्रबोधादर्शनात्‌ । किन्तु पाणिपेषणमेव । तदनन्तरं शीघ्रप्रबोधदर्शनात्‌ । किन्तत्र निमित्तमिति चेत्‌ तेभ्योऽसाधारणनामभ्योपि अस्य पाणिपेषणस्य शरीरेविशेष सम्बन्धसत्वात्‌ अतः पाणिपेषणस्य शीघ्रप्रबोधोपायत्वात्‌ पाणिपेषणेन आमन्त्रितो भगवाञ्जीवमुत्थपयामासेत्यर्थः । ननु केषाञ्चित्सर्वगत्वेन केषाञ्चिद्धृदये हरिः । केषाञ्चिद्बहिरेवासावुपास्यः पुरुषोत्तम इत्युक्तेः कथं हृदिस्थं उपास्यैव मोक्ष इत्युक्तिरित्यत आह ॥ येषामिति ॥ 15 ॥ ननु हृदिस्थोपासनमेव मोक्षसाधनमित्यभ्रिपेतार्थेनुपयोगाद्यत्रैष एतत्सुप्तभूत्‌ इत्यादिप्रश्ऱ्नः प्रतिवचनं चकिमर्थम्‌ । नच हृदिस्थस्य देवस्य परमात्मापेक्षयास्वस्मिन्विशेषसम्बन्धज्ञापनार्थं तदिति वाच्यम्‌ । तस्य बृहत्पाण्डरवा स इत्याद्यामन्त्रणेनैवकृतत्वादित्यत आह ॥ स्वहृदिस्थेनेति ॥ सम्बोधनेनार्थाज्ज्ञापि तोविशेषसम्बन्धः । अत्र तु य एषोन्तर्हृदय आकाशः तस्मिञ्शेत इत्यादिनामुखत एवेति विशेषः । अत एव तत्र ज्ञापनार्थमित्युक्त्वात्र दर्शनार्थमित्युक्तम्‌ । स यत्र स्वप्नयाचरतीत्यादेः सङ्ग्रहार्थं समस्तमित्युक्तम्‌ । य एष प्रसिद्धोविज्ञानमयः पुरुषः पुरिशेत इत्येषः यत्र यदा एतत्‌ स्वपनं

?Rयथाभवति तथासुप्तोभूत्‌ तदा एष विज्ञानमयः क्वाभूदिति व्याख्यानमसत्‌ । यत्रेत्यस्ययदेत्यर्थत्वे एष विज्ञानमयः पुरुषो यदासुप्तोभूत तदाक्वाभूदित्येतावतापूर्णत्वेन शेषवैय्यर्थ्यादिति भावेन यत्रैष एतसुप्तोभूदित्येतद्वयाचष्ये ॥ यत्रेति ॥ वक्ष्यमाणपरामर्शसौकर्याय विज्ञानमय इत्याह ॥ नन्वेवमपि एष विज्ञानमयः पुरुषोजीवः क्वाभीदित्येतावतापूर्तेर्य एष इति व्यर्थम्‌ । यत्रेत्यस्य परमेश्ऱ्वर इत्यर्थत्वेक्वैषतदाभूदित्येतत्प्रश्ऱ्नानुपपत्तिश्ऱ्चेत्यतो य एष विज्ञानमय इत्येतद्वयाचष्ये ॥ यत्रेत्यधिकरणभूत एवेति ॥ ततश्ऱ्चैषपरमात्मक्वभूदिति प्रश्ऱ्नवाक्यार्थत्वान्नानुपपत्तिरिति भावः । विज्ञानमय शब्दस्य परमात्मवाचकत्वे श्रुतिमाह ॥ अन्य इति ॥ नन्वत्रापि विज्ञानमय शब्दस्य कोशपरत्वाङ्गीकारात्कथमेतद्विवक्षितार्थेमानमित्यतस्तत्रोदाहृतश्ऱ्लोके ब्रह्मशब्दश्रवणान्नैवं शङ्कयमित्याह ॥ विज्ञानमिति ॥ 16 ॥ तानि यदागृह्णाति अथैतत्पुरुषः स्वपिति नामेत्यत्र पुरुष इत्युक्तजीवस्यैवग्रहणकर्तृत्वमिति व्याख्यानं निवारयंस्तद्वाक्यं व्याचष्ये ॥ तानीति ॥ तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति इन्द्रियवृत्तिग्रहणकर्तृत्वेन परमात्मन एव प्रकृतत्वादिति भावः । स यत्रेत्यस्य स जीवोयत्र यस्मिन्कालेस्वप्नयास्वप्नप्रवृत्त्याचरति वर्तत इति व्याख्यानमसत्‌ । जीवञ्च चारयेत्तत्रेति प्रमाणविरुद्धत्वेन स इति परमात्मन एव ग्राह्यत्वात्‌ । नन्वेवं सति तस्यैवोच्चावचं निगच्छतीत्यत्रापि कर्तृत्वापत्तिः । तत्र कर्त्रन्तरानुक्तेरित्याशङ्कां परिहरंस्तद्वाक्यं व्याचष्ये ॥ स इति ॥ महाराजमहाब्रामहणयोरपि उच्चपदेनैवग्रहणसम्भवात्‌ उच्चावचमित्येवोक्तम्‌ ॥ 18 ॥ ननु जीवेश्ऱ्वरयोरुभयोरपि स्वप्नावस्तागतत्वे किं तयोः वैलक्षण्यं इत्याशङ्कापरिहारकत्वेन तदुतेमाहराजइत्यादिकं स यथामहाराज इत्यादिकं च प्रवृत्तमिति भावेन प्राधान्यज्ञापनायतद्वाक्यद्वयं व्यत्यासेन व्याचष्ये ॥ सर्वदेति ॥ प्राणान्मनोव्यतिरिक्तान्‌ । वास्तवमहाराजादिभवनादेः बाधितत्वात्‌ राजवदात्मानं पश्यतीत्युक्तम्‌ । उच्चेत्यस्य राजवत्‌ ब्राह्मणवच्चेत्यनेनैव व्याख्यातप्रायत्वात्‌ । अवचमित्यस्यार्थः श्ऱ्वमार्जारादिवद्वेति । एतेनोच्चावचं निगच्छतीत्युक्तस्य जीवस्यैव स यथेति महाराजदृष्यान्तेन प्राणग्रहीतृत्वोक्तेः कथं तानि यदापरमात्मागृह्णातीत्युक्तमित्येतदपि परास्तम्‌ । कुमाररोत्यन्तबालोमहाराजोमहाब्राह्मणो वातिघ्नीमतिशयेनदुःखं हन्तीत्यतिघ्नी । आनन्दस्य सुखस्यावस्थाताङ्गत्वाशयीतेति व्याख्यानमसत्‌ । बालादीनां दुःखस्याप सत्वेन दुःखासम्भिन्नसुखाभावादिति भावेनानन्दातिघ्नयादिपदार्थानाह ॥ अनन्दस्येति ॥ कुमारश्ऱ्चित्पितरं वन्दमानं प्रतिनानामरुद्रोपयन्तमिति श्रुतेः कुमारोरुद्रः । क्षत्रजात्यभिमानीतु पवन इत्युक्तेः महाराजोवायुः । विष्णुर्ब्राह्मणजातिः सन्ब्रह्माजज्ञेचतुर्मुख इत्युक्तेः महाब

?R्राह्मणोब्रह्मा । एवं यत्रैष एतत्सुप्तोभूदित्यादिप्रकरणं परमात्मपरत्वेन व्याख्यायजीवपरतया परकीयव्याख्याने उपक्रमविराधं तावदाह ॥ नहीति ॥ श्रौतविज्ञानेनेत्यस्याभिप्रायः विज्ञानपूर्वकमिति । प्राणानां विज्ञानं इन्द्रियाणशं ज्ञानजननशक्तिमित्यर्थः । अस्मादात्मनः सर्वेप्राणाः इत्युपसंहारविराधमप्याह ॥ नचेति ॥ नैतावताविदितं भवतीत्यस्य देवतासुभगवन्तमुपास्येत्यादनायत्तात्पर्यमुक्तं तत्प्रमाणेन द्रढयति ॥ आदित्येत्यादिना ॥ अनेन य एवासावादित्येपुरुषः एतमेवाहं ब्रह्मोपास इत्यादि खण्डद्वादशकगतगार्ग्यवचनानामपि तात्पर्यमुक्तं भवति । गच्छतः पश्ऱ्चात्पृष्ठत उत्पन्न शब्दोगच्छत्पाश्ऱ्चात्यशब्दः । बुध्याविवेकेन गतत्यितत्पूर्वत्राप्यन्वितम्‌ । सार्ष्णितां समीपम्‌ । एषं बहिरुपासनेनेत्युक्तार्थेप्रमाणमाह ॥ अतेति ॥ ननु बृहत्पाण्डुरवासः सोमादिशब्दानां चन्द्रपरत्वेतद्वाचकशब्दैः परमात्मामन्त्रणमयुक्तमित्यतस्तेषां परमात्मपरत्वमाह ॥ यानीति ॥ तर्हि प्रसिद्धिविराध इत्यत आह ॥ तदुक्तान्येवेति ॥ तद्वाचकान्येवनामानि विष्णोराकृष्यसूर्यादे उपचारतो नामानीत्यर्थः । बृहत्पाण्डुरवास इत्याद्यामन्त्रणस्य स्वहृदिस्थभगवद्रूपस्येति यत्तात्पर्यमुक्तं तत्र प्रमाणमाह ॥ विशेषेणेति ॥ हराविति शेषः । सोमादिनाम्ना आहूतो हरिः जीवमुत्थापयामासेति शेषः । स यत्र स्वप्नयाचरतीत्यादेः उच्चावचं निगच्छतीत्यन्तस्य तात्पयर्माह ॥ जीवञ्चेति ॥ न केवलं स्वयं चरति किन्तु जीवं चचारयेदिति च शब्दार्थः । यदाजीवं चारयेत्‌ तत्र तदाऽयं जीवः स्वप्नं पश्यतीति सम्बन्धः । तत्र स्वप्ननाढ्यामिति वा । अथ यदासुषुप्तोभवतीत्यारभ्य य एष एतच्छेत इत्यन्तस्य तात्पर्यमाह ॥ यदेति ॥ जीवोयम्तियत्राप्यनुवर्तते तत्‌ तदा । अस्मादत्मनः सर्वेप्राणा इत्यादि व्याख्यातुं तदर्थसिद्धमर्थमाह ॥ सम्यग्‌ ज्ञानमयादिति ॥ अयं जीवोनकेवलं सुप्तिमेष्यति किन्तु उत्थानं च व्रजेत्‌ । अपि शब्दस्य लोकानामपीत्युत्तरत्र सम्बन्धः । अस्मादातमन इत्येतद्वयाचष्ये ॥ प्राणानामिति ॥ इन्द्रिनामिति ॥ इन्द्रियाणामित्यर्थः । सत्यसत्यइत्यनेन तस्योपनिषत्सत्यस्य सत्यमित्येतद्वयाख्यातम्‌ । स्रष्यापातेत्यादिनाव्युचज्चरेदित्येतदुपलक्षणपरमित्युक्तं भवति ॥ ततश्ऱ्चायंखण्डार्थः ॥ बलाकस्यापत्यंबालाकिः । गर्गस्य गोत्रापत्यं गार्ग्यः ब्राह्मणः । अनूचानोवेदाध्ययनादिसम्पन्नः । अत एव दृप्तोऽहङ्कारी । आसहकिल सगार्ग्यः । काश्याम्भवं काश्यं अजात शत्रुंराजानमभिगम्य ते ब्रह्मब्रवाणीत्युवाचह एवमुक्तः स अजात शत्रुः ।

?Rत्वं ब्रह्मब्रवीतुमसमर्थ इति सूचयन्नु उवाच । एतस्यां वाचिब्रह्मोपदेशरूपायाम्‌ । यदि त्वं ब्रह्मब्रूयास्तर्हि तुभ्यं वयं सहस्रंदद्म इति भावः । कुत एवमपहास इत्यत आह ॥ जनक इति ॥ यदि त्वं ब्रह्मवक्तुं समर्थस्तर्हि ब्रह्मशुश्रूषवोजनाः समीपस्थं ब्राह्मणं त्वां परित्यज्यजनकोजनक इति क्षत्रियं प्रतिधावनं न कुर्युः कुर्वन्ति च । अतो न तवसामर्थ्यमित्यर्थः ॥ 1 ॥ एवमपहासितः स्वभ्यस्ताः बह्वीः ब्रह्मविद्या आह ॥ स इत्यादिना ॥ आदित्येपुरुषो विष्णुः अस्तीति शेषः । राजा इतोधिकमपि तत्र जानामीति भावेनाह ॥ सहोवाचाजात शुत्रुरित्यादिना ॥ मा माम्‌ । एतस्मिन्विष्णोरादित्यस्थत्वे विषये । मासंवदिष्ठाः संवादं माकार्षीः । ज्ञातज्ञापनं न कार्यमिति भावः । यद्वागार्ग्यमतिविक्षषपार्थं मामेति द्विर्निषेधः । अहमेतमादित्यस्थं पुरुषम्‌ । अतिष्ठाः । जगद्धर्मवर्जितत्वेनातीत्यस्थितत्वादतिष्ठाः । सर्वेषां भूतानां मूर्धा उत्तमः । राजतेदीप्यत इति रादेत्युपासेइत्युवाचेति सम्बन्धः । अतिष्ठात्वज्ञानेन फलाभावेतदुपासनं व्यर्थमित्यत आह ॥ स इति ॥ य एतमादित्यस्थं एवमुक्तप्रकारेणोपास्ते स इत्यन्वयः । एवमुत्तरत्रापि योज्यम्‌ ॥ 2 ॥ बृहत्पाण्डुरं शुक्लं वासोयस्यासौतथोक्तः । शुक्लांबरधरमिति वचनात्‌ अस्यापासकस्य गृहे अहरहः प्रतिदिनं सोमस्सुतो भवति प्रसूतो भवतीति निरन्तरं प्रकृतिविकृत्यात्मकयागानुवृत्तिर्भवतीत्यर्थः । अस्योपासकस्यान्नं भोग्यं न क्षीयते ॥ 3 ॥ 4 ॥ न विद्यते प्रवृत्तिरुद्वर्तनं यस्य सः अप्रवृत्तिः । अस्य प्रजासन्ततिरस्मल्लोकात्‌ नोद्वर्ततेनोन्मूल्यत इति सम्बन्धः । 5 ॥ इन्द्रः परमैश्ऱ्वर्यसम्पन्नः विगतं कुण्ठनं पराभवोयस्य स विकुण्ठः । विकुण्ठ एव वैकुण्ठः । स्वयमेवापराजितबहुरूपत्वादपराजितसेन जिष्णुरुत्तमः पराजिष्णुः पराजयशीलोनभवतीत्यपराजिष्णुः । अन्यतस्त्यजायी अन्येषां जेताभवतीत्यर्थः । 6 ॥ न सह्यत इति विषासहिरसह्यः ॥ 7 ॥ प्रतिरूपोनुकूलः । एनं उपासकं । सर्वं प्रतिरूपमेवानुकूलमेव उगच्छति । अवदारणव्यावर्त्यमाह ॥ नाप्रतिरूपमिति ॥ अथो अन्यच्चफलं अस्मादुपासकात्‌ । प्रतिरूपः अनुकूलः पुत्रः । जायत इति ॥ 8 ॥ रोचिष्णुः प्रकाशनशीलः अथो अन्यच्चफलम्‌ । यैः विद्वद्भिः सन्निगच्छतिसङ्गतो भवति तान्सर्वानतिरोचते अतिक्रम्यप्रकाशते ॥ 9 ॥ यं तं गच्छन्तम्‌ । अनुपश्ऱ्चात्‌ पृष्ठतः । शब्दः उदैति उत्पद्यते । तस्मिन्‌ गच्छत्पश्ऱ्चात्यशब्दे । य एवायं पुरुष इत्यर्थः । असुःआयुयप्रदः । सर्वमायुरेतीत्यस्याभ्रिप्रायमाह ॥ नैनमिति ॥ कालात्कालमृत्योः पुरा ब्रपमृत्युं न प्राप्नोतीत्यर्थः ॥ 10 ॥ द्वितीयः द्वियवान्‌ स परिवारः । अपगच्छतीत्यपगः न विद्यतेऽपगः परिवारोयस्य सः अनपगः अविच्छिन्नपरिवार इत्यर्थः । गणःपरिवारः ॥ 11 ॥ छायामयः छायागतः मृत्युर्मारकः ॥ 12 ॥ आत्मनिहिरण्यगर्भे आत्मन्वीचित्ताभिमानिचतुर्मुखवानित्यर्थः । आत्मन्वीभवति चित्तवान्‌ भवति चतुर्मुखस्य चित्ताभिमानित्वात्‌ ॥ 13 ॥ एवं स्वाभ्यस्तविद्या उक्त्वासगार्ग्यस्तूष्णीमासह किल सः अजातशत्रुः तूष्णीं स्थितं गार्ग्यं एतावन्मु एतावदेव ब्रह्मविदितं किमित्युवाच एतावद्धिएतावदेव ब्रह्मविदितमिति गार्ग्यः प्रत्युवाच एवमुक्तवन्तं गार्ग्यं प्रत्यजातशत्रुर्नैतावताब्रह्मविदितं भवतीत्युवाच एतावताऽऽदित्यादिगतपरमात्मोपासनमात्रेण मोक्षार्थं वेदितव्यं विदितं न भवति । स्वहृद्गतपरमात्मरूपविशेषोपासनस्यैवमोक्षसाधनत्वादिति भावः । सगार्ग्योमोक्षसादनविद्याश्रवणार्थं त्वात्वां उपायानिशिष्यत्वेनोपयामीत्युवाच ॥ 14 ॥ एमुक्तः स अजातशत्रुः उवाचाह क्षत्रियोमेब्रह्मवक्ष्यतीति ब्राह्मणः क्षत्रियं शिष्यत्वेनोपेयादितियत्‌ एतत्प्रतिलोमं विपरीतं वैतस्मात्‌ । विएवेति पदच्छदेः । त्वात्वां प्रति । ब्रह्म विज्ञापयिष्याम्येवविज्ञापनमेवकरिष्यामि । नोपदेशमित्यर्थः । सर्वत्रपरमात्मनोऽविशिष्यत्वात्कथं हृद्गतोपासनमेवमोक्षसाधनं न देवाद्यन्तर्गत परमात्मोपासनमित्यतः हृद्गतस्य परमात्मनः देवस्थरूपापेक्षयास्वस्मिन्विशेषसम्बन्धं ज्ञापितुकामः तंगार्ग्यं पाणावादायहस्तेगृहीत्वोत्तस्थौ । तौ गाग्यर्ाजातशत्रू क्वचित्प्रदेशसुप्तं पुरुषं प्रत्याजग्मतुः । पूवर्ोक्तविशेषसम्बन्धज्ञापनार्थं तं सुप्तपुरुषान्तर्गतं परमात्मानं बृहत्पाण्डुरवासः सोमराजन्नित्येतैः नामभिः मन्त्रयाञ्चक्रे सःसुप्तान्तर्गतोनोत्तस्थौनोत्थापयामासजीवं हृद्गतरूपविशेषवाचकासाधारणनामेपेक्षयाशरीरेपणिपेषणस्य विशेषसम्बन्धसत्वेन शीघ्रप्रबोधोपायत्वात्‌ तं सुप्तं पाणिनापेषं कृत्वाबाधयांचकार ससुप्त्थोहरिः पाणिपेषणषनोत्तस्थौ । हकिलपाणिपेषणेन जीवमुत्थापयामासभगवानिति यावत्‌ ॥ 15 ॥ एवमर्थाद्विशेषसम्बन्धं ज्ञापयित्वास्पष्यं दर्शयितुं पृच्छति ॥ सहेति ॥ एषजीवः एतत्‌ एतस्मिञ्शरीरे यत्र यस्मिन्परमेश्ऱ्वरे सुप्तः । एषसुप्ताधारः पुरुषः परमात्मा विज्ञानमयः सम्यक्‌ ज्ञान्वरूपः य एषः प्रसिद्धोविज्ञानमयः पुरुषः । एषः तदासुप्तिसमयेक्वाभूत्‌ कुत्रस्थितः एतत्‌ एतस्मिन्प्रबाधकाले । कुत आगादिति योजना । तत्‌ सुप्तकालीनं परमात्मावासस्थानं तदागभनावधिञ्च गार्ग्यो न मेने ॥ 16 । एवमप्रतिबुध्यमानं प्रश्ऱ्नकता अजात शत्रुरुवाच । यत्रैषएतत्सुप्तभूत्‌ इत्याद्यनुवादः । य एष विज्ञानमयः पुरुषः परमात्मा । तदासुप्तिकाले । एषां प्राणानामिन्द्रियाणाम्‌ । विज्ञानं विज्ञानजननशक्तिम्‌ । विज्ञानेन विज्ञानपूर्वकं आदाय । एष अन्तर्हृदये

?Rहृदस्यान्तराकाशोस्तितस्मिन्‌ शेते । य एषोन्तर्हृदय आमाश इत्यादिनैवोत्तरस्य जातत्वादेषां प्राणानामित्यादिकं व्यर्थमिति चेत्‌ । न । यतः प्रकृतसुप्तिस्वरूपनिरूपणार्थं तदुक्तमिति भावेनाह ॥ तानीति ॥ विज्ञानमयः पुरुषःपरमात्मा । तानिविज्ञानजननशक्तिमन्ति इन्द्रियाणि । यदागृह्णाति अथतदा एषचासौपुरुषश्ऱ्चैत्तत्पुरुषः जीवः । यद्वा एतत्‌ एतस्मिन्परमात्मनिशरीरेवापुरुषः स्वपिति नाम । तानिगृह्णातीत्युक्तं विवृणोति ॥ तद्गृहीत एवेति ॥ प्राणोघ्राणेन्द्रियं त्वागिन्द्रियञ्च । एवं क्वाभीदित्यस्य परिहारोक्तौ कुत आगादित्यस्य परिहारः तत एवागादिति सुज्ञान एवेति पृथङ्‌नोच्यते ॥ 17 ॥ स्वहृदिस्थस्य स्वस्मिन्विशेषसम्बन्धप्रदर्शनार्थमेवस्वप्नावस्ताप्रवर्तकत्वमप्याह ॥ स इति ॥ स परमात्मा यत्र यदा एतदेतस्मिंरीरे स्वप्नयानाड्या चरति जीवं चारयति च । परमात्मनाड्याकुतश्ऱ्चरतीत्यत आह ॥ तेहेति ॥ हयस्मात्‌ । तेनाडीविशेषाः अस्य परमात्मनोलोकाः । तस्मात्तयाचरतीति सम्बन्धः । जीवेश्ऱ्वरयोरुभयोरपि स्वप्नावस्थागतत्वे कोविशेषस्तयोरित्यतस्तदाजीवव्यापारन्तावदाह ॥ तदुतेवेति ॥ तत्‌ तदा महाराज इव भवति तद्वदात्मानं पश्यति । महाब्राह्मण इव भवतीति सम्बन्धः । किं बहुना यदुच्चंगजादि यच्चावचंश्ऱ्वमार्जारादि तद्वदात्मानं निगच्छति । पश्यति उत शब्दाः परस्परसमुच्चये । एवं जीवस्वरूपमुक्त्वापरमात्मस्वरूपं सदृष्यान्तमाह ॥ स इति ॥ जनपदान्देशान्‌ गृहीत्वास्ववशेकृत्वा एष परमात्मा । एतत्प्राणान्‌ एतस्य जीवस्य । मनोव्यक्तिरिक्तेन्द्रियाणि । स्वेस्वाधीनेशरीरे ॥ 18 ॥ य एषोन्तर्हृदय आमाशस्तस्मिन्‌ शेत इत्युक्तम्‌ तत्र विशेषं वक्तुमाह ॥ अथेति ॥ प्रागुक्तसुप्तिस्वरूपं स्मारयन्‌ यदासुषुप्तोभवतीत्युक्तं विवृणोति ॥ यदेति ॥ यदाजीवः कस्यचनकिंचन । न वेद तदा याः जीवस्य सुखहेतुत्वेन परमात्मनानिहितत्वेन वा हि तानाम । द्वाभ्यां अधिकासप्ततिः द्वासप्ततिः सहस्राणिनाड्यः । हृदयात्‌ हृदयमारभ्यवर्तमानं पुरीततं शिरः पर्यन्तं शरीरेव्याप्तम्‌ । सुषुम्नाख्यनाडी विशेषम्‌ । अभिपरितः । प्रतिष्ठन्ते । ताभिर्नाडीभिः प्रत्यवसृप्यचरित्वा पुरीतति सुषुम्नाख्यनाडीविशेषे शेतेपरमात्मा । स दृष्यान्तं सुषुप्तिस्थिति प्रकारमाह ॥ सयथेति ॥ वक्ष्यमाणो दृष्यान्तयो यथा कुमारोरुद्रः महाराजोवायुः । महाब्राह्मणो ब्रह्मा । आनन्दस्यानन्दरूपस्य परमात्मनोतिध्नीसमीकपं ज्ञात्वाशयीतसुखमासीत एवमेवैषजीवः एतदेतस्मिन्सुषुम्नासंस्थिते परमात्मनि । शेते सुखमास्ते ॥ 19 ॥ न केवलं सुप्तप्राप्यत्वं परमात्मनः किन्तु तदुत्थानहेतुत्वं चेति भावेन हृद्गतस्य परमात्मनो माहात्म्यं सदृष्यान्तमाह ॥ सयथोर्णनाभिरिति ॥ अत्रोर्णनाभिशब्देन तदुपभुक्तमन्नं ग्राह्यम्‌ । तन्तुनातनन्तुरूपेण । ऊर्णनाभेः व्युच्चरेत्‌ उद्गच्छेत्‌ । यथा वा क्षुद्राः विष्फुलिङ्गाः अग्नेः व्युच्चरन्ति । एवमेवास्माद्विज्ञानमयादात्मनः परमात्मनः । सर्वेप्राणाः इन्द्रियाणि । सर्वेलोकाभूरादयः । सर्वेदेवाः चतुर्मुखादयः सर्वाणितदन्यानिभूतानि प्राणिनोव्युच्चरन्ति उत्पद्यन्ते । उपलक्षणमेतत्‌ । नश्यन्तीत्याद्यपि ग्राह्यम्‌ । अन्तर्यामिणोगोप्यं नामधेयमाह ॥ तस्येति ॥ तस्य हृद्गतस्य परमात्मनः सत्यस्य सत्यमिति उपनिषद्रहस्यं नाम तद्वयाचष्ये ॥ प्राणा इति ॥ प्राणन्तीति प्राणाः इन्द्रियलोकदेवभूतानि । तेषामेषपरमात्मा सद्भावमुत्पत्तिं यापयति इति सत्य इति ॥ 20 ॥ अजात शत्रुब्राह्मणम्‌ ॥ 1 ॥ अथभाष्यार्थः ॥ इन्द्रियजयाभावे विद्यानसिध्यतीति भावेन काञ्चन विद्यामाह ॥ योहवा इत्यादिना ॥ यद्वा अथेममेवनाप्नोद्योयं मध्यमःप्राणः इत्युक्तप्राणस्य महिमान्तरमाह ॥ योहवा इति ॥ इदमेवाधानं इदमेवप्रत्याधानमिति श्रुतावाधानप्रत्याधानशब्दौ व्याख्यातौ । तत्राप्रतीतेराधानप्रत्याधानेदं शब्दाथर्ानाह ॥ आधानमिति ॥ अवस्थीयते अस्मिन्नित्यवस्थरनय गृहम्‌ । वितानं गृहाश्रयभूतस्थलविस्तारः । सूक्ष्मशरीरं स्थूलशरीरमितीदं शब्दद्वयार्थमथनम्‌ । प्राणशब्दस्य मध्यमप्राणपरत्वे स्वस्य स्वस्थूणात्वायोग इत्यतस्तद्वयाचष्ये ॥ प्राण इति ॥ स्थूणादामबन्धनस्तम्भ इत्यर्थः ।समग्रब्राह्मणं प्रमाणेन व्याचष्ये ॥ वायुरित्यादिना ॥ अयं वावशिशुरिति वाक्यं व्याचष्ये ॥ वायुरिति ॥ पुरुषरूपस्य वायोः दामस्थूणाद्यनपेक्षणात्‌ गोवत्सरूपेणेत्युक्तम्‌ । शिशुशब्दार्थमथनं वत्सरूपेणेति । तस्येदमेवाधानं इदमेवप्रत्याधानमिति वाक्यं व्याचष्ये ॥ सूक्ष्मदेह इति ॥ जीवस्येति शेषः । स्थूलदेह इत्यनुवर्तते । अन्नंदामेति वाक्यं व्याचष्ये ॥ अन्नमिति ॥ अन्नंश्रीः अन्नाभिमानिनीसाक्षाच्छ्रीरव प्रमदोत्तमा । सान्नम्त्यिुच्यत इत्युक्तेः । प्राणःस्थूणेति वाक्यं व्याचष्ये ॥ स्थूणेति ॥ यो हवा इत्यादि अवरुणद्धीत्यन्तं वाक्यं व्याचष्ये ॥ ध्यायत्वेवमिति ॥ भ्रातृव्यानित्यस्यार्थः शत्रूनिति द्विषत इत्यस्यार्थः विषयेष्वभिधावत इति स्वानभिमतविषयाभिधावनहेतुत्वादित्यर्थः । असुराञ्श्रोत्राद्यभिमानिनः इन्द्रियजयस्य स्वतः पुरुषार्थत्वाभावादाह ॥ वेत्तीति ॥ 1 ॥ तमेताः सप्ताक्षितय इत्येतद्वयाचष्ये ॥ दक्षिणाक्षिस्थितमिति ॥ तद्या इमा अक्ष?ल्लोहिन्य इति वायूपासकरुद्रादीनां चक्षुःप्रदेशनिष्ठत्वोक्त्योपास्य स्यातदक्षयस्यैवोपयोगादिति भावः । नास्यान्नं क्षीयते य एवं वेदेति वाक्यं ऐहिकमात्रफलपरत्वप्रतति निवारणशय व्याचष्ये ॥ उपास्यमानमिति ॥ मोक्षार्थं आनन्दादाति शयार्थम्‌ । तमेवं विद्यानिति श्रुतिविरोधपरिहारायोक्तं स्थूणयाविष्णुनासाधर्मिति ॥ 2 ॥ तस्मिन्यशोनिहितं विश्ऱ्वरूपमिति मन्त्रयं यश

?Rआदि शब्दानां प्रसिद्धार्थपरत्वप्रतीतिं निवारयन्व्याचष्ये ॥ विश्ऱ्वरूपमिति ॥ सर्वेषां शिरसीति शेषः । ननु पूर्वं तमेताः सप्ताक्षितय इति वायोः दक्षिणशक्षिस्थितत्वेशिरःस्थितत्वप्रतिपादकमन्त्रोदाहरणं असङ्गतमित्याशङ्कां परिहरति ॥ सर्वेषं दक्षिणाक्षिभाः सन्तःशिरसिसंस्थिता इति ॥ अनेन श्रुतौ तस्मिन्नित्यस्य दक्षिणशक्षिरूपशिरोभागविशेष इत्यर्थ इत्युक्तं भवति । विष्ण्वादिषुविश्ऱ्वरूपशब्दं निर्वक्ति ॥ पूर्णत्वादिति ॥ गुणैरिति शेषः । निरूपचरितपूर्णताज्ञापनायपूर्णत्वादित्येवोक्तम्‌ । स्त्रीषु जीवेष्विति निर्धारणसप्तम्यौ । स्त्रीशब्दःपरतन्त्रचेतनोपलक्षकः । तेष्वेवयशःशब्दं निर्वक्ति ॥ यशइति ॥ एत इति वक्ष्यमाणमत्रापि सम्बध्यते । यतो ज्ञानसुखात्मकाः अतो यश इति उच्यन्त इत्यर्थः । ननु प्राणावैयशोविश्ऱ्वरूपमिति श्रोत्रादिप्राणशनां यशो विश्ऱ्वरूपत्वोक्तेः कथं विष्ण्वादिपरत्वेन व्याख्यानमित्यतः प्राण शब्दमपि विष्ण्वादिषुनिर्वक्ति ॥ प्राणशश्ऱ्चेति ॥ प्राणावाऋषयः इति वाक्यगतऋषिशब्दस्य प्रसिद्धऋषिपरत्वप्रतीति निरासाय प्राणशब्दनिर्वचनपूर्वकं तदभिधेयमाह ॥ प्राणाश्ऱ्चेति ॥ एतेरुद्रपूर्वकाः । प्रणषतृत्वात्प्राणशश्ऱ्च ॥ 3 ॥ अयमेवगौतम इत्यादिवागेवात्रिरित्यन्तानिवाक्यानिरुद्रादिषु गौतमादिशब्दनिवर्चनपूर्वकं व्याचष्ये ॥ गौतम इत्यादिना ॥ रुद्रःपर्जन्य इत्यादिकं अयमिति श्रौतेदंशब्दार्थकथनम्‌ । ताभिरेनं रुद्र इति तेषामेवप्रसक्तत्वादिति भावः । अतिशयितागौः ज्ञानं गोतमातस्या अयमाश्रयोगौतम इति निर्वचनमभिप्रेत्यतत्तात्पर्यमुक्तम्‌ ॥ सर्वज्ञत्वादिति ॥ वाजमित्यनेनभरत्पूयर्माणमन्नं येनेति विग्रह उक्तोभवति । प्रकाशनाद्विज्ञापयेदिति सम्बन्धः । विश्ऱ्वशब्दोपपदादन्तर्णीतण्यर्थात्‌ आङुपसृष्यात्‌ माङ्‌मान इत्यस्मात्कर्तरिकित्रप्रत्यये आतो लोप इटिचेत्याकारलोपेगत्यर्थादमतेरित्रप्रत्ययेह वाविश्ऱ्वामित्र इति रूपसिद्धिरिति ज्ञेयम्‌ । जातमिति ॥ B-15

?Rअन्येभ्योदृश्यत इति जनेः कर्मणि डप्रत्यतये जायत इति जंनिर्वचनत्वान्मकारगतेकारस्याकारेतकारगताकारलोपेतकारस्य दत्वे मितं परिमितं ज्ञातं वामद्‌ । अत्तेः कर्तरिनिप्रत्ययेदस्य गत्वे अत्तीत्यग्निः ॥ वसतामिति ॥ वसतीति वसन्‌ । तत इष्यन्‌ प्रत्ययेटेरिति टिलोपेवसिष्ठ इति रूपम्‌ । अगुणवचनत्वेपि इष्ठन्प्रत्ययः प्रयोगवशाज्ज्ञातव्यः ॥ मेधेति ॥ कमुदकं श्याशयाना पिबतीति कश्यपः । अप्यक्षरसाम्यान्निर्ब्रूयादिति शयानेत्यस्य श्यभावः । पापान इत्यतः कःप्रत्यय इति भावः । वाक्‌ शब्दार्थोद्यौरिति उमेत्यथर्ः । हि यस्मात्तस्थैर्द्युस्यैर्हुतमनयाऽद्यतेतस्मादित्यर्थः । नन्वध्यात्मं शिवादीनां मन आदिषु स्थित्युक्तेः कथं दक्षिणाक्षिस्थितत्वमुच्यत इत्यत आह ॥ श्रोत्रेति ॥ उपलक्षणमेतत्‌ मन आदिष्त्तित्यपि ग्राह्यम्‌ । श्रोत्रनासिकाग्रहणेन रुद्रोन्वायत्तः इत्यत्ररुद्रादिशब्दाः चन्द्रादेरुपलक्षका इत्युक्तं भवति । श्रोत्रदिङ्‌नासिकावाक्‌चक्षुस्संस्थिता एते शिवादयोदेवाद्वितीयेन रूपेण दक्षिणशक्षिषुसंस्थिता इति योजना । सर्वस्यात्ताभावति सर्वमस्यान्नं भवति । य एवं वेदेति वाक्यं व्याचष्ये ॥ एवमिति ॥ तमेताः सप्ताक्षितय इत्यादिस्वोक्तार्थप्रतिपादकमन्त्रव्याख्यानरूपं ब्राह्मणं प्रकरणं शुध्याव्याख्यायेदानीं श्रुत्यभिप्रेतार्थप्रतिपादकमन्त्रव्याख्यानरूपं वा ग्ध्यष्यमीब्रह्मणासंवित्तेति वाक्यं व्याचष्ये ॥ सरस्वतीति ॥ भारतीत्यर्थः । उपास्त इत्यनेन वागष्यमीति मन्त्रे आसत इत्येतद्वचनव्यत्यासेनात्रापि सम्बध्यत इत्युक्तं भवति । वागष्यमीत्यन्ते उक्तत्वात्तस्यारुद्राद्युपासकत्वप्रतीति निवारयणायाह ॥ वायुमेवैकमिति ॥ ब्रह्मणासंवित्तेत्यस्यार्थोब्रह्मवेदितेति । तदेवविवृणोति ॥ वअह्मनामेति ॥ विशेषतोरुद्राद्यपेक्षया सर्वस्यात्ताभवतीति वाक्यमेतच्छेषत्वेनापि व्याचष्ये ॥ इतीति ॥ 4 ॥ ततश्ऱ्चायं खण्डार्थः ॥ साधानं सप्रत्याधानं सस्थूणठ सदामंशिशुं उपासीतेति भावेन तथोपास्तौफलमाह ॥ योहवा इति ॥ योऽधिकारी साधानं सप्रत्याधानं सस्थूणठ सदामंशिशुंवेदोपास्ते सः । द्विषतः विषयाभिधावनहेतून्‌ अत एव भ्रातृव्यान्‌ शत्रून्‌ सप्तमनोबुद्धिसहितश्रोत्रादि ज्ञानेन्द्रियरूपान्‌ तदभिमान्यसुरांश्ऱ्चावरुणद्धिजितेन्द्रियोभवतीति यावत्‌ । कःशिशुःकिमाधानादिकमित्यत आह ॥ अयंवावेति ॥ योयं प्रागुक्तः सर्वप्राणिषु संस्थितोमध्यमः प्राणोवायुः । अयमेवशिशुः गोवत्सरूपः । तस्य सर्वप्राणिगतगोवत्सरूपवायोः । इदमेवप्रमाणप्रसिद्धं जीवसूक्ष्मशरीरमेवाधानम्‌ । आधीयते अस्मिन्नित्याधानं अवस्थानं गृहत्यिर्थः । इदं जीवस्थूलशरीरमेव प्रत्याधानं वितानं गृहाश्रयप्रदेशविस्तारः । प्राणोनारायणः स्थूणावत्सबन्धनस्तम्भः । अन्नंश्रीः दामबन्धकरज्जुः । तथाच जीवस्थूलशरीराख्यप्रदेशविस्तारस्थतल्लिङ्गशरीररूपगृहेनारायणाख्यस्थूणायामन्नाख्यश्रीरूपदामनाबद्धं गोवत्सरूपवायुं योवेदेति पूर्ववाक्याभ्रिपाय इति भावः । अक्षिस्थवायूपास्तौ रुचिजननार्थं परकृतिरूपार्थवादमाह ॥ तमिति ॥ दक्षिणशक्षिस्थितं वायुं अक्षितयः अक्षीणज्ञानमनसः एताः वक्ष्यमाणाःरुद्राद्याः प्तदेवता उपतिष्ठन्ते । कःकिधिष्ठायोपास्त इत्यत आह ॥ तद्या इति ॥ तत्तत्र सप्तसुमध्ये रुद्रः या इमाः प्रसिद्धाः अक्षन्नक्षिणि लोहिन्योराजयोरेखाः ताभिरधिष्ठानभूताभिः ताः अधिष्ठायेति यावत्‌

?R। एनमक्षिस्थं वायुम्‌ । अन्वायत्तः अनुगत उपतिष्ठत इति यावत्‌ । अथान्यत्‌ अक्षन्याः आपोधूमादिसंयोगेनाभिव्यज्यमानाः ताभिः पर्जन्योन्वायत्तः । याकनीनिका चक्षुषिकृष्णवर्णवर्तुलमण्डलमध्यस्था तयादित्योन्वायत्तः । यत्कृष्णं चक्षुषि तेनाग्निन्वायत्तः । यच्छुक्लन्तेनेन्द्रोन्वायत्तः । अधरयावर्तन्याचक्षुगर्तोदकादिनिस्सरणमार्गेणैनं वायुं स्थूणशभूतविष्णुनासहवेद । अस्य वेत्तुः अन्नं न क्षीयते मुक्तः सन्‌ अक्षयमेवान्नमश्ऱ्नुत इत्यर्थः ॥ 2 ॥ दक्षिणाक्षिस्थं वायुं रुद्राद्या उपासत इत्युक्तार्थेमन्त्रमुदाहरति ॥ तदेष इति ॥ तत्तत्रदक्षिणशक्षिस्थवायोः रुद्राद्युपास्यत्वे । एष वक्ष्यमाणश्ऱ्लोकोभवति मन्त्रं पादश अनूद्याऽप्रतीतेः व्याचष्ये ॥ अर्वाक्‌बिल इति ॥ इति मन्त्रभागेयदुक्तं तत्‌ इदं प्रतीयमानं शिरः । कुतः हि यस्मात्‌ एष शिरोलक्षणश्ऱ्चमसः । अर्वाग्विलः बिलं मुखादितस्य बुध्नभागापेक्षयाऽर्वाक्‌ स्थितत्वात्‌ ऊर्ध्वबुध्नः । बुध्नाकारस्यशिरसः उपरिभागेदृश्यमानत्वात्‌ तस्मात्‌ शिर एवोक्तलक्षणश्ऱ्चमसः । चमसविवक्षया एष इति पुल्लिङ्गः । दक्षिणशन्नं वनुतेयोन आत्मेति वत्‌ । तस्मिन्यशोनिहितं विश्ऱ्वरूपमित्येतत्प्राणान्‌ विष्णुरमावायूनाह ॥ कुतः यतो दक्षिणशक्षिरूपशिरोभागस्थितं यशोज्ञानसुखरूपत्वाद्यशःशब्दवाच्याः । विष्णोः निरूपचरितपूर्णत्वात्‌ । रमायाः परतन्त्रचेतनेषु वायोस्तु जीवेषु पूर्णत्वात्‌ विश्ऱ्वरूपशब्दवाच्याः । प्राणावैप्रणेतारोवै । तस्यासतऋषयः सप्ततीर इत्येतत्प्राणशन्‌ गौतमादीन्सप्तर्षीनाह ॥ कुतः यतः ऋषयः गौतमाद्याः सप्तप्राणशवैस्वस्वयोग्यप्रणेतारोवै । तथाच सप्तऋषयः गौतमाद्यास्तस्याक्ष्णः । तीरेलोहितरेखादिरूपस्थानविशेषे । तस्य कर्मणिषष्ठी तं वायुम्‌ । आसते उपासते । इति मन्त्रार्थ इति भावः । न केवलं सप्तऋष्युपास्य त्वमक्षिस्थवायोः किन्तु सरस्वत्युपास्यत्वमपीति भावेनोदाहृतमन्त्रभागमनूद्यव्याचष्ये ॥ वागष्यमीति ॥ वाक्‌ सरस्वती अष्यमी । हीति प्रसिद्धिद्योतकहिशब्देन व्याख्यातम्‌ । तं वायुमास्ते उपास्त इत्यर्थः । ब्रह्मणाब्रह्मनामकेनवायुना संवित्तशसम्यक्‌ ज्ञातेत्यर्थः ॥ 3 ॥ ननु अक्षिस्थवायोरुद्राद्युपास्य त्वमित्युक्तार्थेकथं सप्तऋष्युपास्यत्वप्रतिपादकमन्त्रोदाहरणमित्यतोमन्त्रेपि ऋषिशब्देनरुद्रादयः एव विवक्षिता इति भावेन ऋषिवाचकगौतमादिशब्दान्‌ रुद्रादिपरतया व्याचष्ये ॥ इमावेवेति ॥ तदेवविवृणोति ॥ अयमेवेति ॥ अयं पूर्वोक्तोरुद्रोगौतमः अतिशयितज्ञानवत्त्वात्‌ । अयं पर्जन्योभरद्वाजः वृष्ययाभरत्‌ पूर्यमाणं वाजमन्नं येनेति व्युत्पत्तेः । पूर्ववत्‌ सङ्गृह्याह ॥ इमावेवेति ॥ तद्विशदयति ॥ अयमेवेति ॥ अयमादित्योविश्ऱ्वामित्रः स्वप्रकाशषन विश्ऱ्वज्ञापकत्वात्‌ । अयमग्निः जमदग्निः जंजातं मत्‌ मितत्तीति व्युत्पत्तेः अयमिन्द्रोवशिष्यः वसतामुत्तमत्वात्‌ । अयं पृथिवीरूपः कश्यपः कमुदकं शयानैवपिबतीति व्युत्पत्तेः । वाक्‌ वागभिमानिनीद्यौरुमाऽत्रिः । कुतः । हि यस्माद्दयौरित्युक्तयावाचान्नं द्युस्थैः हुतमद्यते । तर्ह्यत्तीत्यत्तिरिति स्यात्‌ नत्वत्रिरित्यत आह ॥ अत्रिर्हीति ॥ अत्रिरिति यन्नाम एतत्‌ अत्तिरिति हवैप्रसिद्धं उभयोरप्येकार्थत्वमिति भावः । वायूपासकरुद्रादीनामुक्तनिमित्तेन गौतमादिशब्दवाच्यत्वं दक्षिणाक्षिस्थवायोः भारत्युपास्यत्वं च जानतः फलमाह ॥ सर्वस्येति ॥ सर्वस्यात्ताभवति अदनक्रियाशक्तिमान्‌ । अन्नं विना शक्तिमात्रं शक्तिं विनान्नं वानपुरुषार्थ इत्युभयमुक्तम्‌ ॥ 4 ॥ शिशुब्राह्मणम्‌ ॥ 2 ॥ पूर्वोक्तविद्यायां सस्थूणं सदामं शिशुं वेदेत्युक्त्यासाम्यभ्रमनिरासायस्थूणाशब्दोक्तभगवतो मूर्तामूर्तवैलक्षण्योक्त्याऽभूर्तसारत्वोक्तयाचान्नशिशुशब्दोक्तरमावायूत्तमत्वमाहानेन ब्राह्मणेन । नन्वमूर्तस्यापि सत्वात्कथमेतत्सदिति मूर्तस्यैवसत्वमुच्यत इत्यतस्तस्यार्थमाह ॥ विशरणति ॥ विशरणं शैथिल्यं अव्याप्तत्वमिति यावत्‌ । अवसादनं प्रलयादौ ज्ञानविपरिलोपः । सदेः क्विबन्तस्य रूपमेतत्‌ । वाय्वन्तरिक्षयोश्ऱ्चनैतदस्तीति भावः । अप्रतीतेरत्त्यमित्येतद्वयाचष्ये ॥ ततमिति ॥ ततत्वात्‌ तत्‌ । ज्ञानरूपत्वात्‌ यं तनुविस्तार इत्यस्मात्‌ डप्रत्ययेनिर्वचनत्वेन प्रत्ययाकारलोपेत्‌ । या प्रापण इत्यस्मात्कप्रत्यये आतोलोप इत्याकार लोपे यम्‌ । त्‌चतत्‌ यचत्यमिति रूपसिद्धिरिति भावः ॥ 1 ॥ नन्वेवं वायुरन्तरिक्षञ्चामुर्तमिति अन्तरिक्षशब्दोक्ताकाशस्य कथं त्यमित्येततद्विशेषणमित्यतोत्रान्तरिक्षशब्देन रमैवोच्यत इति भावेन तं शब्दं तत्र निर्वक्ति ॥ प्रलयेपीति ॥ न केवलमिदानीं भगवतारता । किन्तु प्रलयेपि कथं भगवदन्तरेव प्रलयेपीत्येतदक्षितेत्यत्रापि सबध्यते । अन्तशब्दोपपदाद्रमतेर्डिप्रत्येक्षिनिवासगत्योरित्यस्माडुप्रत्ययेचान्तरिक्षमिति रूपसिद्धिरिति भावः । अन्तशब्दोपपदात्‌ रमतेः डप्रत्ययेप्रत्ययाकारलोपे अन्तर्‌ । न विद्यते क्षंक्षयोयस्यतत्‌ अक्षम्‌ । तृतीयोतिशये इत्यकारस्येकारे इक्षं अन्तर्‌ च इक्षञ्चेति अन्तरिक्षमिति वाबोध्यम्‌ । य एष तपतीत्युक्तोमूर्तरसः सूर्यमण्डलमिति प्रतीतिं वारयन्नाह ॥ य इति ॥ 2 ॥ मण्डले पुरुष इत्युक्तोऽमूर्तरसः आदित्य इति प्रतीतिं निवारयन्नाह ॥ मण्डल इति ॥ अध्यात्मं मूर्तरसत्वं चक्षुषः अमूर्तरसत्वं दक्षिणाक्षिगतपुरुषस्य सूर्यस्योच्यत इति प्रतीतिनिरासायकृतं व्याख्यानं तत्राप्यति दिशति ॥ एवमेवेति ॥ चक्षुर्हिरण्यगर्भः । दक्षिणेक्षन्पुरुषो भगवानित्यर्थः ॥ 5 ॥ अथात आदेश

?Rइति आदेश इति मूर्तामूर्तरसयोर्हिरण्यगर्भभगवतारुपदेशः क्रियत इति प्रतीतिं निवारयति ॥ तस्यैवेति ॥ अमूर्तरसस्यैवेत्यन्वयः । हिरण्यगर्भस्यामूर्तवायुसमत्वेन तद्वैलक्षण्याभावादिति भावः । नन्वथात इत्यतः शब्दस्य प्रकृतमूर्तामूर्तरसत्वादित्यर्थत्वेन हिरण्यगर्भस्याप्ययमादेश इति कथं तस्यैवायमादेश इत्युक्तमित्यत आह ॥ अत इति ॥ ननु यद्यमूर्तरसत्वादमूर्तसारस्यभगवतः उपदेशः क्रियते तर्हि प्रकरणस्यासमाप्तत्वात्प्रकरणान्तरारम्भार्थकोथ शब्दोनस्यात्‌ इत्यतस्तदर्थमाह ॥ अथेति ॥ अथेति ॥ वैलक्षण्यप्रतियोगिमूर्तामूर्तस्वरूपनिरूपणशनन्तर्येर्थेवर्तत इत्यर्थः । नेति नेति इत्यत्रेति शब्दस्यादेशप्रकारार्थत्वे एकस्येति शब्दस्यवैयर्थ्यं प्रतियोग्यनुक्तिप्रसङ्गश्ऱ्चति भावेन तद्वयाचष्ये ॥ इति नेति ॥ नेति नेतीति वीप्सयामूर्तामूर्ताविद्यातत्कार्यसर्वनिषेधावधित्वेन तत्साक्षित्वेन ब्रह्मनिर्दिष्यं भवतीति व्याख्यानमसदिति भावेन वीप्साप्रयोजनमाह ॥ उभयेति ॥ अर्थान्तरस्याप्रामाणिकत्वादिति भावः । ननु इति इति नेति नेतिनिषिध्यमानत्वं मूर्तामूर्तयोरप्यस्ति । मूर्तस्यामूर्तविलक्षणत्वात्‌ अमूर्तस्य च मूर्तविलक्षणत्वात्‌ । तथाच कथमयमूर्तसारस्य भगवत एवोपदेश इत्याशङ्कापरिहारार्थं तर्ह्येतस्मादिति वाक्यं प्रवृत्तमिति भावेन तद्वयाचष्ये ॥ इतिनेतिनिषिध्यमानमपीति ॥ यद्यपि इति नेतिनिषिध्यमानं मूर्तममुर्तममूतर्ं वा एतस्मादमूर्त सारात्‌ भगवतोन्यदास्ते । तथापि एतस्मात्परमुत्तमं नास्तीत्यर्थः । परनिषेधेन लब्धमर्थमाह ॥ एषवेति ॥ यद्वाननु इति नेति नेति मूर्तामूर्तवैलक्षण्यं भगवतो यथामिधीयते । तथामूर्तममूर्तं च इति नेति मूर्तामूर्तयोः विष्णुवैलक्षण्यं वक्तुं शक्यत एव । तद्वैलक्षण्यस्यापि तत्र सत्वात्‌ । अतः कथमयं विष्णोरेवोपेदेश इत्यतः प्रवृत्तं न हीति वाक्यं व्याचष्ये ॥ इतीति ॥ यद्यापि इति नेति विष्णुवन्नेति निषिध्यमानमेतस्माद्विष्णोरन्यत्‌ मूतर्ामूर्तलक्षणमस्ति । तथापि एतस्मात्परमुत्तमं नास्तीत्यर्थः । नन्वेतावताप्तयादेशस्य साधारण्यशङ्काकथं निवृत्तेत्यभिप्रायमाह ॥ एष एवेति ॥ विष्णोः मूर्तामूर्तसादृश्यनिषेधे एष विष्णुरेवपर इति लभ्यते । पारतन्त्ऱ्ादिना तत्सादृश्यनिषेधेस्वातन्त्ऱ्ादेरेवलाभात्‌ । मूर्तामूर्तयोः तु विष्णुसादृश्यनिषेधेमूर्तामूर्तं विष्ण्वपेक्षया अपरमानुत्तममेवेति लभ्यते । स्वातन्त्ऱ्ादिना तत्सादृश्यनिषेधेपारन्त्ऱ्ादिरूपाऽपरत्वस्यैवलाभादिति भावः । ननु सत्यस्य सत्यमित्येतत्‌ मूर्तामूर्तं सत्यन्तयोरेषसत्यमिति व्ययाख्येयं प्राणावैसत्यमिति कथं व्याख्यायते असङ्गतत्वादिति अत आह ॥ मूर्तामूर्तमेवेति ॥ नन्वेवं प्राणावैसत्यं तेषामेषसत्यमित्यनेन विष्णोः मूर्तामूर्तात्मकप्राणसत्यत्वलाभेपि हिरण्यगर्भसत्यत्वं न लभ्यते । तस्य मूर्तसारत्वेन मूर्तामूर्तात्मकत्वाभावादित्यत आह ॥ ब्रह्मण इति ॥ वायुग्रहणं दृष्यान्ताथर्म्‌ । वायोरमूर्तत्वात्तदविशिष्यस्य ब्रह्मणश्ऱ्चामूर्तत्वादिति योज्यम्‌ । मूर्तामूर्तस्यै तदपेक्षयाऽपरत्वेऽपि मूर्तरसस्य ब्रह्मणः परत्वं स्यादित्यतोवाह ॥ ब्रह्मण इति ॥ मूर्तामूतर्ोभयसादृश्यनिषेधार्थं द्विवारमित्यसत्‌ । मूर्तरसब्रह्मसादृश्यनिषेधार्थं इति नेति पुनरपि वक्तव्यत्वादित्यतोवाह ॥ ब्रह्मण इति ॥ तथाच द्वितीयनिषेधेनैवमूर्तरससाधृश्यमपि निषिद्धमिति भावः । समग्रं ब्राह्मणं प्रमाणेन व्याचष्ये ॥ मूर्तामूर्तमित्यादिना ॥ द्वेवाव ब्रह्मणोरूपेमूर्तं चामूतर्ञ्चेति वाक्येमूर्तामूर्तयोः ब्रह्मस्वरूपत्वमुच्यत इति प्रतीतिं निवारयन्व्याचष्ये ॥ मूर्तामूर्तमिति ॥ प्रतिमात्मकं रूपमित्यन्वयः । स्वरूपत्वमेवरूपशब्दार्थः किं न स्यादित्यत आह ॥ नेति ॥ एतत्‌ मूर्तामूर्ते । एतस्य ब्रह्मणः स्वरूपं न । कुतः हि यस्माद्ब्रह्मसदासर्वपरं सर्वोत्तममित्यर्थः । ननु तदेतत्‌ मूर्तं यदन्यद्वायोश्ऱ्चान्तरिक्षाच्चेति वायुरमाव्यतिरिक्तस्य मूर्तत्वोक्तिः

?R कथम्‌ । तथात्वे हिरण्यगर्भस्यापि मूर्तत्वप्राप्त्यातस्य मूर्तसारत्वोक्तिविराधादित्यत आह ॥ श्रिय इति ॥ एतस्त्रिकव्यतिरिक्तपरतन्त्र चेतनस्यैव मूर्तत्वं कुत इत्यतो मूर्तशब्दं निर्वक्ति ॥ मूरमिति ॥ तेनोक्तत्रिकव्यतिरिक्तपरतन्त्रचेतनेन । तेन पापेन वा । एतत्सदिति वाक्यं व्याचष्ये ॥ विशीर्णमिति ॥ तदेवमूर्तमेव विशीर्णमवसन्नञ्च यतोऽतः सदित्युच्यत इत्यर्थः । ननु मुर्तस्य स्थितत्वं कथं तस्य चेतनत्वेनान्यत्र गुन्तुशक्तत्वादित्यतः एतत्स्थितमित्येतद्वयाचष्ये ॥ पराधीनेति ॥ विष्णुव्यतिरिक्तपुरुषाधीनगतत्वादित्यर्थः । तस्यैतस्येत्यादि य एष तपतीत्याद्युक्तोधिदैवतमध्यात्मञ्च मूर्तरसः क इत्यत आह ॥ तस्येति ॥ रसशब्दार्थः सार इति रसः सारोवरश्ऱ्चेति शब्दाः पर्यायवाचका इति वचनात्‌ । कुत इत्यत आह ॥ तद्विरुद्धेति ॥ अथामूर्तं वायुरन्तरिक्षञ्चेति वाक्यं अमूर्तपदार्थं वदन्व्याचष्ये ॥ मूर्तादिति ॥ एतत्‌ त्यमितित्यशब्दार्थमाह ॥ सर्वज्ञौवेति ॥ यदित्यस्यार्थमाह ॥ नियताविति ॥ हरिव्यतिरिक्तपुरुषानियम्यावित्यर्थः । एतस्यामूर्तस्येत्यादिपुरुष इत्यन्तं वाक्यं अधिदैवाध्यात्मप्रकरणगतं व्याचष्ये ॥ तयोरिति ॥ श्रीवाय्वोः हरिरेवेति सम्बन्धः । चशब्दौपरस्परसमुच्चये । अधिदैवमध्यात्मञ्चेत्युभयोरपि तयोरित्यपि शब्दान्वयः । तस्य सारोविरिञ्च इत्युक्तं तत्रस्थलविशेषानुक्तेः श्रुतौ य एषतपतीति यच्चक्षुरिति तस्योक्तत्वाच्च तदाह ॥ तत्रैवेति ॥ मूर्तसारोपि ब्रह्मा । तत्रैवामूर्तसारहर्यावासस्थान एवादित्यमण्डलेचक्षुषिचस्थित इत्यर्थः । नन्वेवं तर्हि हरिब्रह्मणोः साम्यापत्तिरित्यत आह

?R॥ तस्यचेति ॥ तस्य हैतस्य पुरुषस्य रूपमित्येतद्वयाचष्ये ॥ तस्येति ॥ यथामहारजनं वा स इत्यादिव्याचष्ये ॥ महारजनवासोवदित्यादि ॥ अवेरिदमाविकं ऊर्णादि पाण्डुईषच्छुभ्रमाविकं पाण्ड्‌वाविकं तद्वदित्यर्थः । महारजनापेक्षया इन्द्रगोपस्यातिरिक्तत्वेन पृथगुक्तिः । इन्द्रगोपः कीटविशेषः । विष्णुरूपाणां प्राकृतत्वादिशङ्कापरिहारायोक्तं सुखभास्वर इति । सर्वत्रापि सुखरूपत्वं ज्ञातव्यं रौग्मं कृष्णमित्युक्तकृष्णरूपादिसङ्ग्रहायादिपदम्‌ । नेति नेतीति वाक्यं व्याचष्ये ॥ नैवेति ॥ यद्यपि ब्रह्मणोवायोश्ऱ्चामूर्तत्वादित्युक्तरीत्यानचामूर्तोपम इत्यनेनैवमूर्तरसवैलक्षण्यं सिध्यति । तथाप्यङ्गीकारवादोयमिति ज्ञातव्यम्‌ । न ह्येतस्मादित्यस्याभिप्रायमाह ॥ स एवेति ॥ अथ नामधेयं सत्यस्य सत्यमित्यस्यार्थमाह ॥ सत्यसत्य इति ॥ प्राणावैसत्यं तेषामेष इत्य इत्येतद्वयाचेष्ये ॥ मूतर्ेति ॥ नु मूर्तमूर्तरसामूर्तसादृश्यनिषेधार्थं श्रुतौ नेतीति त्रिवारं स्यादित्यत आह ॥ प्रथमेति ॥ प्रथमनिषेधेनैवनतु द्वितीयनिषेधेन अङ्गीकारवादपक्षेभूर्तपरामर्शकेति शब्देनैवतद्रसपरामर्शस्य योग्यत्वात्प्रथमनिषेधप्रतियोग्युपस्थापकेति शब्दन मूर्तं मूर्तरसश्ऱ्चेत्युभयं विवक्षितमिति भावः ॥ 6 ॥ ततश्ऱ्चायं खण्डार्थः ॥ ब्रह्मणः परमात्मनोमूर्तममूर्तञ्चेति द्वेरूपेप्रतिमे । वावेति प्रसिद्धयर्थः मूतर्ामूर्तयोः विशेषणानिसङ्कलय्याह ॥ मर्त्यञ्चेति ॥ 1 ॥ किं तन्मूर्तमित्यत आह ॥ तदेतदिति ॥ वायोश्ऱ्चान्तरिक्षात्‌ श्रियश्ऱ्च । यदन्यत्‌ रुद्रादिकम्‌ । तदेतत्‌ मूर्तं मुरेणपापेनाप्तत्वात्‌ मूर्तमित्युच्यते उक्तविशेषणानिकानीत्यत आह ॥ एतन्मर्त्यमिति ॥ एतन्मूर्तं मर्त्यशरीराभिमानित्वेन तत्त्यागरूपमरणोपेतं एतत्‌ स्थितं परमात्मव्यतिरिक्तपुरुषाधीनम्‌ । एतत्‌ सत्‌ विशीर्णं अवसन्नञ्च उक्तविशेषणानुवादपूर्वकं मूर्तसारं निरूपयति ॥ तस्येति ॥ य एष आदित्यमण्डलगतस्तपति । एष एतदन्तर्गतश्ऱ्चतुर्मुखः । रसः सारः सदादिविशेषणचतुष्यय सम्पन्नस्यैष आदित्यमण्डलान्तर्गतविरिञ्चोरस इत हि प्रसिद्धमित्यर्थः ॥ 2 ॥ अथमूर्तकथनानन्तरम्‌ । अमूर्तमुच्यत इति शेषः । वायुश्ऱ्चान्तक्षिं श्रीश्ऱ्चाऽमूर्तं पापाप्तत्वलक्षणमूर्तविरुद्धत्वात्‌ अमूर्तमित्यच्यते एतदमूर्तममृतम्‌ । श्रियोनित्यमुक्तत्वादेवामृतत्वम्‌ । वायोस्तुशरीराभिमानाभावेन तत्त्यागोनमरणरूप इत्यमृतत्वम्‌ । एतदमूर्तम्‌ । यत्‌ हरिमात्रनियम्यम्‌ । तद्वयतिरिक्तपुरुषानियम्यमिति यावत्‌ । एतदमूर्तं त्यन्ततं सर्वज्ञञ्चेत्यर्थः । उक्तानुवादेनामूर्तरसं निरूपयति ॥ तस्येति ॥ य एष प्रसिद्धः । एतस्मिन्परिदृश्यमाने आदित्यमण्डले । पुरुषः पूर्णषद्गुणः परमात्मा एष रस इत्यन्वयः । तस्य ह्येषरस इत्येतत्‌ पूर्ववत्‌ ॥ 3 ॥ अथाधिदैवतं मूर्तादिस्वरूपकथनानन्तरम्‌ । अध्यात्मं मूर्तामूर्ततद्रसा उच्यन्ते इति शेषः । तत्र मूर्तस्वरूपमाह ॥ इदमेवेति ॥ प्राणनाद्वायुरेवाध्यात्मं प्राण इत्युच्यते तस्मात्‌ यश्ऱ्चायं प्रसिद्धः अन्तरात्मन्नन्तरात्मनि आकाशस्तदभिमानिश्रीतत्वम्‌ । तस्माच्चयदन्यत्‌ इदमेवमूर्तं इति सम्बन्धः । यच्चक्षुःचक्षुरन्तर्गतोविरिञ्चः ॥ 4 ॥ दक्षिणेक्षन्‌ चक्षुषि । योयं पुरुषः पूर्णषद्गुणः परमात्मा । एष रसः ॥ 5 ॥ तस्याधिदैवतं अमूर्तसारस्यैतस्याध्यात्मं अमूर्तसारस्य पुरुषस्य परमात्मनोरूपमनेकविधमिति शेषः । तदेवबुद्धयारोहाय दृष्यान्तेनाह ॥ यथेति ॥ महारजनं हरिद्रामञ्जिष्ठा वा । तयारक्तं माहारजनं वासोयथेत्यर्थः । यथापाण्डु आविकं ऊर्णानर्मितं सूक्ष्मवस्त्रं तद्वदित्यर्थः । यथा इन्द्रगोपः कीटः तद्वर्णमित्यर्थः । सकृद्विद्युत्तं युगपदुत्पन्नविद्युन्मण्डलमित्यर्थः । सकृद्विद्युत्तमिवभगवद्रूपविदः फलमुपलक्षणयाह ॥ सकृद्विद्युत्तेवेति ॥ य एवं सकृद्विद्युत्तमिवभगवद्रूपं वेदास्य वेत्तुः सकृद्विद्युत्तेवप्रकाशमानाश्रीः भवति ह वा इति । प्रमाणप्रसिद्धत्वमाह ॥ अथमूर्तामूर्तस्वरूपकथनानन्तरं अतः भगवतः अमूर्तसारत्वात्‌ तस्यामूर्तसारस्यैव भगवत आदेशः उपदेशः क्रियते इति न इति नेति । मूर्तामूर्तविलक्षण इत्यर्थः । ननु भगवतिमूर्तामूर्तवैलक्षण्यवत्‌ मूर्तयोरपि भगवद्वैलक्षण्यमस्त्येवेति कोविशेष इत्यत आह ॥ नहीति ॥ यद्यपि इति नेति ॥ निषिध्यमानमेतस्मादन्यत्‌ मूर्तामूर्तरूपमस्ति । तथापि परं नास्तीत्यर्थः । तात्पर्यं भाष्य एवोक्तं अथादेशानन्तरम्‌ । तस्यामूर्तसारस्य । नामधेयं सत्यस्य सत्यमिति तद्वयाचष्ये ॥ प्राणावा इति ॥ प्राणन्तीति प्राणाः मूर्तामूर्तात्मकाः । सत्यम्‌ । तेषामेषपरमात्मा सत्यं सादयति विशरणशदिकं प्रापयतीति सत्‌ यमयति नियच्छतीतियम्‌ । सच्चतद्यञ्चेति सत्यमित्यर्थः । तथाच श्रुतिः । तस्योपनिषत्सत्यस्य सत्यमिति एष ह्येवसादयति यमयति चेति ॥ 6 ॥ इति मूर्तामूर्तब्राह्यणम्‌ ॥ 3 ॥ अमूर्तसारत्वेन प्रकृतभगवतोऽमूर्तसारत्वमुपपादयितुं महिमान्तरमाह ॥ मैत्रेदीत्यादिना ॥ पत्युः भर्तुः कामायप्रयोजनाय पतिः भार्यायाः प्रियोन भवतिकिन्तु आत्मनः स्वस्याः कामायैव भार्यायाः पतिः । प्रियोभवतीति परकीयव्याख्याननिरासाय तावदात्मशब्दं व्याचष्ये ॥ आत्मेति ॥ कुत इत्यतस्तद्ग्रहणे वाक्यार्थ घटनारूपं हेतुं दर्शयन्नात्मनस्त्विति वाक्यं व्याचष्ये ॥ तस्यैवेति ॥ प्रियो भवति जायादेरिति शेषः । अनेन तु शब्दएवार्थः कामायेति चतुर्थीतृतीयार्थेत्युक्तं भवति । जायादीनां अहं प्रियः स्यामिति पत्यादीनां कामनयैवपत्यादिः जायादेः प्रियो भविष्यतीति किं नारायणस्यैव कामेनेत्युच्यत इत्याशङ्कानिरासाकतया एव कारव्यावर्त्यप्रदर्शनपरत्वेन न वा इति वाक्यं व्याचष्ये ॥ नहीति ॥ वा

?Rइत्येतत्प्रसिद्धिद्योतकहिशब्देन व्याख्यातम्‌ । प्रियं पत्यादिकमित शेषः । जायादीनामित्येतदत्रापि सम्बध्यते । प्रियत्वमिति क्वचित्पाठः । तत्र पत्यादीनामित्येतदप्यनुवर्तनीयम्‌ । भगवदिच्छानुसारिणीपत्यादीच्छापि प्रियत्वे हेतुरिति मात्रपदम्‌ । अनेन पत्यादेः कामेन अहं जायादेः प्रियः स्यामितीच्छयापत्यादः जायादेः प्रियोन भवति । किन्तु आत्मनः स्वस्य जायादेः कामेन पत्यादिः ममप्रियोभवत्विति कामनया पत्यादिः जायादेः प्रियोभवतीति यथा श्रुतप्रतीतिरप्यपास्ता । यतः जायादीनामहं प्रियः स्यामिति पत्यादीनां कामनामात्रेणेव पत्यादिः मेप्रियो भवत्विति । जायादीनां कामनामात्रेणापि पत्यादिजायादेः प्रियं न भवत्यविशेषशदिति । नारायणस्यैवेच्छयापत्यादिः जायादेः प्रियोभवति नतु पत्यादीच्छयेत्येतत्कुत इत्यत आह ॥ भगवदिच्छयैवेति ॥ नारायणस्यैव ज्ञानविज्ञानादिसम्पन्नत्वेन तदिच्छाया अमोघत्वात्पत्यादीनां तदभावेन तदिच्छायामोघत्वादिति भावः । अपव्याख्यानं दूषयति ॥ अन्यथेति ॥ अन्यथा आत्मनः कामायेत्यस्य जायायाः प्रयोजनायेत्यर्थत्वे जायार्थेपतिः प्रियः इत्येवस्यात्‌ । पत्युः कामायेत्यस्य च पत्युः प्रयोजनायेत्यर्थत्वे च पतिः पत्यर्थेप्रियोन भवतीत्येवस्यात्‌ । लाघवात्‌ स्पष्यप्रतीतिकत्वाच्चेति भावः । आत्मनोदर्शनेन श्रवणेनमत्याविज्ञानेनेदं सर्वं विदितं भवतीत्युक्तम्‌ । ब्रह्मज्ञानेन सर्वविज्ञानं ब्रह्मव्यतिरेकेणान्यस्याभावादित्याहुः । तदसत्‌ । तद्वचनस्य ब्रह्मव्यतिरिक्तजगतोऽत्यन्तासत्यादित्यर्थत्वे इदं सर्वं विदितं भवतीत्युक्तिविराधात्‌ । अपसिद्धान्तत्वाच्च । ब्रह्मण्यारोपितत्वादित्यर्थत्वे अधिष्ठानयाथात्म्यज्ञानेनाध्यस्तज्ञानाभावात्‌ । प्रत्युततज्ज्ञानेनैतज्ज्ञानस्य निवृत्तेरेव जायमानत्वाच्चेति भावेन स्वयं यथावद्वयाचष्ये ॥ प्राधान्यादिति ॥ ब्रह्मणो जगदपेक्षयाप्राधान्यात्तद्दर्शनेनेदं सर्वं विदितं भवतीत्युक्तमित्यर्थः । प्राधान्यमेवभगवतः कुतः सिद्धमित्यत आह ॥ सर्वकारणत्वाच्चेति ॥ चशब्देन सर्वस्य तदधीनत्वं समुच्चिनोति । ब्रह्मादीनामपि रुद्राद्यपेक्षयाप्रधानत्वात्कथं सर्वप्राधान्यं भगवत इत्यत आह ॥ प्राधान्येति ॥ हिशब्दः प्रमाणप्रसिद्धिद्योतकः । ब्रह्मरुद्रादिगतप्राधान्याप्राधान्ययोरपि भगवन्निमित्तत्वेन भगवतः सर्वप्राधान्यमित्यर्थः । ननु यदि ब्रह्मव्यतिरेकेणान्यस्याभावादेकविज्ञानेन सर्वविज्ञानं न तर्हि ब्रह्मतं परादाद्योन्यत्रात्मनोब्रह्मवेदेत्युत्तरवाक्येयः कोपि आत्मनोन्यत्र पार्थक्येन ब्रह्मब्राह्मणजातिं वेद तं ब्राह्मणजातिः पराकुर्यादिति ब्रह्मव्यतिरेकेणान्यस्याभावप्रतिपादनं असङ्गस्यादिति चेत्‌ । न । स्यादेतदेवं यद्यत्र ब्रह्मव्यतिरेकेणशन्यस्याभावप्रतिपादनं स्यात्‌ । नचैवं किं नाम एकविज्ञानेन सर्वविज्ञानेहेतुभूतप्राधान्यसाधकं जगतस्तधीनत्वमेवोच्यत इति भावेन तदनूद्यान्यत्रेत्येतत्सावधारणमिति भावेन तद्वयाचवर्त्यमाह ॥ अन्यत्रेति ॥ ननु ब्राह्मणजात्याद्यभिमानि चतुर्मुखादेः भगवदधीनत्वाज्ञानेकथं तमः प्राप्तिरित्यतो नात्र भगवदधीनत्वाज्ञानमात्रेतात्पर्यम्‌ । किन्तु तदनाश्रितत्वज्ञानेचेति भावेन तद्वयाचष्ये ॥ तदनाश्रितत्वेनेति ॥ परादात्पराकुर्यादित्यल्पार्थत्वं निवारयंस्तदनूद्यपरेत्यस्यापेक्षिताध्याहारेणार्थमाह ॥ परादादिति ॥ कथमनेनाप्यनर्थातिशयोक्तिरित्यत आह ॥ अन्धेतमसीति ॥ ननु योन्यत्रात्मनोब्रह्मवेदेत्यस्योक्तार्थत्वे इदं ब्रह्मेत्याद्युपसंहारवाक्येन ब्रह्मक्षत्रादेरात्मानतिरिक्तत्वोक्तिरसङ्गतास्यात्‌ । अस्माकं तु सुसङ्गतेत्यतस्तद्वाक्यं व्याचष्ये ॥ इदमिति ॥ यदयमात्मेत्यनुवादः । यदित्यस्यार्थोयत्रेति । अयमिति यत्रेत्यधिकरणभूतः परमात्मापरामृश्यते । तथाच नायमभेदोपसंहारः । किन्तु ब्रह्मादीनां परमात्माश्रितत्वोक्तिरिति भावः । ननु यश्ऱ्चासावं चेति यदयं इत्यभेदोपसंहार एव किं न स्यादित्यत आह ॥ अन्यत्रेति ॥ तत्रापरिज्ञानेचेत्यपि ग्राह्यम्‌ । तत्र परमात्मनि । हिशब्दोहेतौ । उक्तं भवति अर्थात्‌ । परस्परविरुद्धयोरन्यतरनिषेधस्यासामान्यतरविधिव्याप्तत्वादित्यर्थः । हि यस्मात्तत्र परिज्ञानमुक्तं भवति तस्मान्नाभेदोपसंहारः तद्विरुद्धत्वादित्यर्थः । ननु नेयमन्यत्र परिज्ञानेदोषोक्तिः किन्तु भेदज्ञान एवेत्युक्तं अतो न तद्विरोधः इत्यतो योन्यत्रात्मन इत्यस्यापव्याख्यानं दूषयति ॥ अन्यथेति ॥ अन्यत्र परिज्ञानेदोषोक्तित्वानङ्गीकारेभेदपरिज्ञान एव दोषोक्तित्वाङ्गीकारेचयोब्रह्मात्मनोन्यद्वेदेत्येवस्यात्‌ सप्तम्यास्त्रलिति विहितप्रत्ययान्तत्वेनान्यत्रेति प्रयोगोनस्यादित्यर्थः । ननु भवत्पक्षेपि यत्रायमात्मेति स्यात्‌ नतु यदयमित्यत आह ॥ यदित्यव्ययत्वादिति ॥ तत्र दृष्यान्तमाह ॥ यथेति ॥ यद्वायदिति प्रथमान्तमेवसप्तम्यर्थमिति भावेन प्रथमायाः सप्तम्यर्थत्वेनियामकमाह ॥ सप्तस्विति ॥ ननु इदं ब्रह्मेत्यादि यदयमात्मेत्यन्तं वाक्यं यदि जगतो ब्रह्मानतिरिक्तत्वोपसंहारपरं न स्यात्तर्हिदुंदुभ्याघातादिदृष्यान्तकथनमसङ्गतं स्यात्‌ । कथमुपसंहारवाक्योक्तमवगन्तुं शक्यत इत्याशङ्कायां स्फुरणात्मस्वरूपव्यतिरेकेणकिञ्चिदपि ग्रहीतुं न शक्यत इति तु प्रसिद्धम्‌ । यद्वयतिरेण यस्याग्रहणं तस्य दात्मकत्वमेवेति व्याप्तौदृष्यान्तत्रयाभिधानादित्यत आह ॥ दुन्दुभ्याघातादीति ॥ स्यादेतत्‌ यद्यत्रोक्तव्याप्तौ दृष्यान्तकथनं स्यात्‌ । नचैवं किं नाम प्राधान्यसाधकं जगतो ब्रह्माधीनत्वं ब्रह्मणश्ऱ्चजगत्कारणत्वं ज्ञापयितुं दृष्यान्तत्रयाभिधानादित्यर्थः । ननूक्तव्याप्तवेवदृष्यान्ताभिधानं किं न स्यादिति चेत्‌ न ।

?Rतथात्वेदुन्दुभ्यादिव्यतिरेकेणागृह्यमाणस्यदुन्दुभ्यादिजन्यशब्दस्य दुन्दुभ्यात्मकत्वापत्तेः । नच तदस्तीत्याह ॥ नहीति ॥ ननु दुन्दुभ्यादिजन्यत्वात्तच्छब्दस्य तयोरभेदोभविष्यतीति चेत्‌ दुन्दुभ्यादेः तच्छब्दं प्रतिनिमित्तकारणत्वं आहोस्विदुपादानकारणत्वम्‌ । नाद्यः । निमित्तकारणस्य कार्येणाभादेभावात्‌ । द्वितीयं दूषयति ॥ नचेति ॥ कुत इत्यत आह ॥ स्थानान्तर इति ॥ स्थानान्तरेशब्दस्योपलम्भेपि दुन्दुभ्याघातादि शब्दोपादानं किं न स्यादित्यत आह ॥ नहीति ॥ मृदादिपरित्यागेन घटादेः स्थानान्तरे अदर्शनादिति भावः । ननु भेर्यादिप्रदेशोत्पन्नः शब्दः स्थानान्तरे उपलभ्यत इत्यसिद्धम्‌ । शब्दश्रवसोः सन्निकर्षाभावात्‌ । सहि नतावच्छ्रोत्रस्य गननेन सम्भवति । तस्याभूर्तस्य गत्वभावात्‌ । नापि शब्दस्यागमनेन । सहिनतावच्छङ्खादिकमाश्रयं परित्यज्याङ्गन्तुमलम्‌ । गुणत्वात्‌ । नापि शङ्खाद्यागमनेन श्रोत्रप्रत्यासत्तिः । तदनुपलम्भादित्यत आह ॥ शब्दोहीति ॥ स्थानान्तरं स्थानान्तरे गत्वा उत्पद्य श्रुतिं श्रुतिं प्रतिप्रति श्रुतितस्य भावः प्रतिश्रुतित्वं श्रोत्र विषयत्वम्‌ । भेर्यादिप्रदेशोत्पन्नः शब्दः देशान्तरेशब्दान्तरमुत्पादयति सच शब्दान्तरमिति श्रोत्र प्रदेशोत्पन्नः शब्दः श्रोत्रविषयोभवतीति यावत्‌ । यद्वा दुन्दुभ्यादिप्रदेशोत्पन्न एव शब्दोदेशान्तरं कर्णशष्कुल्यवच्छिन्नप्रदेशंगत्वाश्रुति विषयत्वमुपैति । नच गुणत्वात्तदनुपपत्ति; । गन्धादिवदुपपत्तेरित्यङ्गीकारवादेनेदं व्याख्येयम्‌ । ननु यदि भगवत एव जगत्कारणत्वे अयं दृष्यान्तस्तर्हि यथादुन्दुभेरिति दुन्दभेस्तु ग्रहणेनेत्येतावतापूर्तेर्हन्यमानस्याघातस्य वेति किमर्थमुक्तं इत्यत आह ॥ भगवदिच्छाया इति ॥ भगवतो जगत्कारणत्वेदुन्दुभ्यादि दृष्यान्तः । तदिच्छायाः तत्कारणत्वेतदाघातादिदृष्यान्त इत्यर्थः । उक्तार्थेकथमयं दृष्यान्त इत्यतो दुन्दुभेः हन्यमानस्य न बाह्याञ्शब्दान्‌ शक्नुयात्‌ ग्रहणायेति वाक्यं व्याचष्ये ॥ नहीति ॥ दुन्दुभिं पश्यन्नपि मुरजशब्दोयमिति गृह्णात्येवकदाचिदित्यत उक्तम्‌ ॥ दुन्दुभ्याघातइति ॥ दृश्यमान इति शेषः । अयं गृह्यमाणः शब्दः बाह्यानित्यस्यार्थोमुरजशब्द इति । मुरजजन्यः तदधीनश्ऱ्चेत्यर्थः । किन्तु दुन्दुभ्यादिजन्यः तदधीनश्ऱ्चेति गृह्णातीति शेषः । एवं दृष्यान्ततवाक्यं व्याख्याय दार्ष्यान्तिकं स्वयमाह ॥ एवमिति ॥ भगवदिच्छाञ्चेति शेषः । अन्याधीनं अन्यजन्यञ्चेत्यपि ग्राह्यम्‌ । गवदिच्छाधीनं तज्जन्यञ्चेत्यपि ग्राह्यम्‌ । मायावादिभिरुत्पत्तिकालेजगतो ब्रह्मात्मकत्वमवगमयितुं कार्याणामुत्पत्तेः प्राक्कारणादभिन्नत्वे दृष्यान्तमाह ॥

सयथार्द्रेन्घनाग्नेरिति प्रलय कालेप्यस्य प्रपञ्चस्य ब्रह्मात्मकत्वमिति दृष्यान्तपूर्वकमाह ।

सयथासर्वासामपामिति उत्तरप्रकरणतात्पर्यमुक्तम्‌ । तदसदिति भावेन तत्तात्पर्यमाह ॥ तदेवेति ॥ B-16

?Rभगवज्जन्यत्वं भगवदधीनत्वञ्चेत्यर्थः । एवकारेण परोक्ततात्पर्यं व्यावर्तयति । कुतो व्यावर्तनीयमित्यत आह ॥ नह्यग्निरेवेति ॥ ननूदकराशिरेवसमुद्र इत्युच्यत इति न चाप एव समुद्र इति कथमुक्तमित्यत आह ॥ नहीति ॥ यदि समुद्रशब्देनोदकराशिरेवोच्यत तर्हि सर्वासामपांसमुद्र एकायनमिति समुद्रस्याबाश्रयत्वोक्तिः विरुध्येत । अपामेवाबाश्रयत्वाभावादित्यर्थः कस्तर्ह्यपामाश्रय इति पृच्छति ॥ किन्त्विति । उत्तरमाह ॥ वरुण इति ॥ वरुणस्य सर्वप्रत्यक्षत्वाभावात्‌ सर्वप्रत्यक्षसिद्धमेवाश्रयं दर्शयितुं अपां खातोवेत्युक्तं तर्हि श्रुतौ वरुण एकायनमित्याद्युक्तिः स्यादित्यत आह ॥ स एवेति ॥ ननु एवं वा अरे इदं महद्भूतमनन्तमपारमिति दार्ष्यान्तिकवाक्योक्तस्य दृष्यान्तोनोपलभ्यते । नच सयथासैन्धवखिल्य इत्युक्तदैन्धवखिल्यस्यैयतत्र दृष्यान्तत्वमिति वाच्यम्‌ । तस्यानन्तापारत्वाद्यभावात्‌ । अनुक्तेश्ऱ्च । विज्ञानघन एवैतेभ्य इति तदुपमेयस्य वक्ष्यमाणत्वाच्च । नापि उदक इत्युक्तं जलमेव । तस्य वरुणशद्याश्रितत्ववत्‌ । परमात्मनोपि अन्याश्रितत्वप्रसङ्गादित्यतो वरुणापापांखातयोरेवतत्र दृष्यान्तत्वं वक्तुमुक्तमर्थमतिदिशति ॥ एवमेवेति ॥ अनेन लवणमेवेत्यनन्तरं सैन्धवखिल्यस्य विलीनस्य सर्वासामपांसमुद्र एकायनमिति वाक्य मध्याहर्तव्यमित्युक्तं भवति । इदानीमनन्तमपारं इत्युक्तः क इति शङ्कां वारयन्‌ एवं वा इति वाक्यं व्याचष्ये ॥ वरुणवदिति ॥ एवमित्यस्याभिप्रायोवरुणवदित्यादि । सयथासैन्धवखिल्य इत्युक्तसैन्धवखिल्यदृष्यान्तस्य दार्ष्यान्तिकप्रतिपादकतया विज्ञानधन एवैतेभ्य इति वाक्यं व्याचष्ये ॥ जीव एवेति ॥ तल्लयमनुभूतसम्बन्धलयानन्तरमित्यर्थः ॥ भगवन्तमाप्नोतीति ॥ अनेन विज्ञानघनोजीव एवैतेभ्यः भूतेभ्यः समुत्थयतान्येवानुविनश्यति तत इदं महद्भूतमनन्तमपारं भगवन्तं प्राप्नोतीति सम्बन्धः सूचितोभवति । समुद्रेसमुद्रोदके । प्रास्तः सैन्धवखिल्यः यथासमुद्रं प्राप्नोतीत्यर्थः । ननु यदि एवं वा अरे इदं महद्भूतमित्युक्तभगवतो वरुणोपांखातो वा दृष्यान्तत्वेनाभिप्रेतस्तर्हि वरुणाद्याश्रितोदकस्थानीयं भगवदाश्रितं किमित्यत आह ॥ समुद्रेति ॥ मुक्ताः पूर्वमुक्ताः । यतो यतस्त्वाददीतलवणमेवेति समुद्रजलस्यैकस्वभावत्वोक्त्यनुराधादुक्तम्‌ ॥ एकस्वभावा इति ॥ मुक्तस्नयैकत्वेनैकस्वभावत्वशङ्काभावादेकस्वभावत्वोक्तिः व्यर्थादित्यत आह ॥ बहव इति ॥ ननु

?Rतर्हि बहूनां मुक्तानां एकसमुद्रजलस्थनीयत्वं कथमित्यत आह ॥ बहव इति ॥ ननु बहुत्वेसामुद्रं जलमित्येकवचनप्रयोगः कथमित्यत आह ॥ सामुद्रमिति ॥ सामुद्रं जलमिति व्यवहारः एकाश्रयत्वनिमित्त इत्यर्थः । परमात्मरूपैकाश्रयामुक्ताः कथं समुद्रजलस्थानीया इत्यतो वाह ॥ सामुद्रमिति ॥ एको वरुणः अपांखातो वाश्रयोयस्य तत्तथोक्तम्‌ । न हास्योद्ग्रहणायैवस्यादित्युक्तसैन्धवखिल्यस्थानीयमुक्तधर्मप्रतिपादकतया न प्रेत्यसंज्ञास्तीति वाक्यं व्याचष्ये ॥ मुक्तानामिति ॥ अपिशब्देन मुक्तस्वरूपं समुच्चीयते । अन्यैरमुक्तैः । अमुक्तानामपि शास्त्रेणमुक्तस्वरूपादिज्ञानसद्भावादाह ॥ शस्त्रंविनेति ॥ तथाचान्यैरज्ञायमानत्वाभिप्रायेणैवसंज्ञानास्तीत्युक्तम्‌ । नत्वभावाभिप्रायेण तथासति अनन्तं वैनामेत्यादिश्रुति विरोधादिति भावः । ननु परोक्तरीत्याप्रेत्यमुक्त्यनन्तरं संज्ञाज्ञानं मुक्तस्य नास्ति मुक्तो न विजानातीत्येवार्थः किं न स्यादित्यतस्तत्रांऽऽतरानुपपत्तितावदाह ॥ संज्ञेति ॥ न विजानातीत्युक्ते । संज्ञानास्तीत्यस्य न विजानातीत्यर्थत्वे । अलं वाअरे इदं विज्ञानयेत्युक्तेः न प्रेत्यसंज्ञास्तीति मुक्तस्वरूपप्रतिज्ञयाविरोधः स्यात्‌ । कुतः । संज्ञानास्तीति मुक्तस्य ज्ञानाभावमुक्त्वा इदं मुक्त जातं विज्ञानायविज्ञातुमलं समर्थमिति मुक्तस्य ज्ञानसद्भावोक्तेरित्यर्थः । किञ्च तस्य वाक्यस्य मुक्तो न विजानाति इत्यर्थत्वेमोक्षस्यापुरुषार्थत्वं स्वादित्याह ॥ नचेति ॥ न केवलं पुरुषार्थत्वाभावः । किन्तु अनर्थरूपत्वं च स्यादित्याह ॥ मग्नस्यहीति ॥ ननु क्रियाकारकफलसम्बन्धस्यात्यन्तविच्छेदोहिमुक्तत्वमिति । क्वास्तिमुक्तस्य ज्ञानमित्यतोमुक्तस्वरूपेप्रमाणमाह ॥ नानात्वेनेति ॥ व्याख्यातमेतत्‌ । ननु संज्ञानास्तीत्युक्तं विज्ञानाभावमेवान्वयव्यतिरेकाभ्यां दृढीकर्तुं यत्र हीत्यादिवाक्यं प्रवृत्तम्‌ । यत्र यदा अविद्यायां स्थितायां द्वैतमिवभवति शरीरेन्द्रियादिरूपस्वव्यतिरिक्तं किमप्यपारमार्थिकं भवति । तत्‌ तदा इतरः कर्ता इतरं घटं इतरेणचक्षुषापश्यतीत्यादियुज्यते । यत्र वा मुक्तावविद्यायां विवृत्तयां अस्य विदुषः सर्वं कारणशदिकं आत्मैवाभूत्‌ स्वव्यतिरेकेणकिमपि नामूत्‌ तत्तस्यामवस्थायां केन करणेन कं विषयं पश्येदिति । तथाच ज्ञानसद्भावाङ्गीकारेमुक्तस्येदं ज्ञानाभावोपपादनमयुक्तं स्वादिति चेत्‌ । स्यादेतद्यदिमुक्तस्य ज्ञानभावोपपादनायेदं प्रवृत्तं स्यात्‌ । नचैवं किंनाम अलं वा अरे इदं विज्ञानायेत्युक्तं मुक्तस्य ज्ञानसद्भावमुपपादयितुमेवाद्वितीयचैतन्यमात्रावस्थानलक्षणं मोक्षमङ्गीकुर्वतां मतेऽनिष्यप्रसङ्गं वक्तुं तस्य व्याप्तिसाक्षेपत्वात्तदभिधानपूर्वकं प्रवृत्तत्वात्‌ । नत्वापादनमनिष्यस्य भवति । नच भोगाभावादिकमनिष्यम्‌ । अतः प्रसङ्गाभासोयमित्यतश्ऱ्चाह ॥ नचेति ॥ सर्वस्य गन्धादेः विषयस्य विज्ञानकरणस्य परमात्मनो विज्ञातुः स्वस्वान्येषां मुक्तानां चाज्ञानं पुरुषार्थो नच भवतीत्यर्थः । कुत इति चेत्‌ । मोज्ञक्षेदर्शनादिभोगस्य प्रमितत्वेन तद्विरुद्धत्वादिति भावेनाह ॥ भग्नस्येति ॥ ननु किमर्थमिदं परमते अनिष्यप्रसङ्गाभिधान परतयाव्याख्यायतेमुक्तौ करणशद्यभावात्‌ दर्शनादिकं नास्तीति वस्तुस्थिति कथनमेवकिं न स्यादित्यतोमुक्तौ भेदभोगादेः प्रमितत्वादिति भावेन तत्र स्पष्यप्रमाणमाह ॥ नानात्वेनेति ॥ नन्वत्रेवशब्देन भेदमिथ्यात्वोक्तेः कथमुक्तार्थमिदं वाक्यं इत्यतस्तदर्थमाह ॥ इवशब्दस्त्विति ॥ इव शब्दस्यास्वातन्त्ऱ्ार्थत्वमुपपादयति ॥ नहीति ॥ यत्‌ यदधीनं तत्ततः पृथगित्येव इव शब्दाशिरस्कपृथगिति शब्देन नोच्यते । तदनधीनस्यैवतथोच्यमानत्वात्‌ । किन्तु इव शब्दशिरस्केनैवराज्ञः पृथगिव भृत्य इत प्रयोगदर्शनादित्यर्थः । हिशब्देनानुभवप्रसिद्धिं दर्शयति । श्रुतिव्याख्यानमुपक्रम्य अपव्याख्यानं किमर्थं निराक्रियत इत्याशङ्कां परिहरन्नुपसंहरति ॥ तस्मादिति ॥ ज्ञानाभावार्थत्वस्य निराकृतत्वादित्यर्थः । न ज्ञायते मुक्तस्वरूपं तत्संज्ञाचेति शेषः । तथाच अपव्याख्याननिरासस्य स्वव्याख्यानदार्ढ्यार्थत्वान्नासङ्गतिरिति भावः । स्वकृतव्याख्यानदार्ढ्यायब्राह्मणव्याख्यानरूपं प्रमाणमुदाहरति ॥ पतिरित्यादिना ॥ नवा अरेपत्युःक्रामायेति वाक्यं व्याचष्ये ॥ पतिर्जायाप्रिय इति ॥ स्वेच्छयापतीच्छया । एवमुत्तरवाक्यान्यपि व्याख्येयानि । आत्मनस्त्विति वाक्यं व्याचष्ये ॥ विष्णोरिति ॥ तदेवकैमुत्येनोपपादयति ॥ स्वयञ्चेति ॥ यदाविष्णोरिच्छावशेनैवस्वयमपि स्वपि्रयोनस्वेच्छया तदाकिमुवक्तव्यंस्वेच्छयान्यप्रियोनभवतीति । स्वेच्छयैवस्वयं स्वप्रियः किं न स्यादित्यत आह ॥ हन्तीति ॥ स्वात्मानं स्वस्याप्रियं कृत्वात्मनाबुध्या । बुद्धिपूर्वकमात्मानं हन्ति हि यस्मात्तस्मान्नस्वेच्छयास्वयं स्वप्रिय इत्यर्थः । हेत्वन्तरमाह ॥ निरय इति ॥ बुद्धिपूर्वं दुष्कर्माणिकृत्वेति शेषः । आत्मनोविज्ञानेनेदं सर्वं विदितं भवतीत्येतद्वयाचष्ये ॥ प्राधान्येनेति ॥ हरेरित्यस्य पूर्वोत्तराभ्यां सम्बन्धः । विदितवत्‌ विदितफलमित्यर्थः । ब्रह्मतं परादाद्योन्यत्रात्मनोब्रह्मवेदेति वाक्यं व्याचष्ये ॥ ब्रह्मजात्यात्मकमिति ॥ यः ब्रह्मजात्यभिमानिनं ब्रह्माणं विष्णुवशं नैववेत्तीति सम्बन्धः । अन्यवशञ्चेत्यपि ग्राह्यम्‌ । उक्तव्याख्यानम्‌ । क्षत्रं तं परादादित्यादावतिदिशति ॥ एवमिति ॥ वायुं क्षत्रात्मकं वायुं विष्णुवशंयोनवेत्तितं तमसिपातयेदित्यर्थः । एवमुत्तरत्रापि । नवा अरेवित्तस्य कामायेत्यत्रजडवित्तस्य कामनाभावात्‌ तदभिमानीचेतनोग्राह्यः । सचान्यथाज्ञानिनः तमसिपातनेसमर्थएवेति वित्तं परादात्‌

?Rयोन्यत्रात्मनोवित्तं वेदेत्यपि वक्तव्यमित्यभिप्रेत्याह ॥ वित्तरूप इति ॥ पञ्चभूतानितदभिमानिनः अत एव लोका इत्येतत्‌ लोकाभिमानिन इति व्याख्यातम्‌ । जडस्य मिथ्याज्ञान्निऽनर्थदानासामर्थ्यात्‌ । अत एव सर्वं तं परादादित्यत्र सर्वशब्दोन जडाजडपरः किन्त्वित्यत आह ॥ सर्वाभिनानिनीति ॥ इदं ब्रह्मेत्यादियदयमात्मेत्यन्तं वाक्यं व्याचष्ये ॥ सर्वमिति ॥ स यथादुन्दुभेरित्यादिदृष्यान्तवाक्यतात्पर्यमाह ॥ विष्णोर्जातमिति ॥ वशे स्थितमिति अत्राप्यनुवर्तते । शब्दस्य शङ्खाद्यधीनत्वं प्रकारान्तरेणशप्याह ॥ शङ्खशब्द इति ॥ अस्य महतो भूतस्य निश्ऱ्वसितमेतद्वदृग्वेदइत्यादि व्याचष्ये ॥ तस्मादिति ॥ वेदशब्देनात्रावान्तरऋगादीनां ग्रहणं ऋगादिव्यतिरिक्तविद्याभावात्कथं पृथग्विद्याग्रहणमित्यत आह ॥ विद्याख्येति ॥ दयवान्तरभेदाऋगादयः सामूलिकाश्रुतिः विद्याख्या । श्ऱ्लोका इस्यात्यार्थः पञ्चरात्रेति । अनुव्याख्यानानीत्यस्यार्थः तासाञ्चेति । तासांव्याख्यानां विस्तर इति । एतानि सर्वाणीत्यस्य प्रागुक्तपरामर्शकत्वे वैयर्थ्यात्प्रकारान्तरेणार्थमाह ॥ सर्वमेतदिति ॥ स यथासर्वासामपां समुद्र एकायनं एवं सर्वेषां स्पर्शानामित्यादि व्याचष्ये ॥ वरुणस्येति ॥ सर्वे बद्धाहरेः वश इत्यनेन सर्वेषां स्पर्शाभिमानिनां देवानां त्वक्‌ त्वगिन्द्रियान्तर्गतपरमात्मरूपं परमात्मत्वगिन्द्रियं वा अयनं आश्रय इत्यादिव्याख्यातं भवति । स यथासैन्धवखिल्य इत्यादेस्तात्पर्यमाह ॥ मुक्ताश्ऱ्चेति ॥ वरुणस्य वशेयद्वदापः एवं वशेहरेरिति पूर्वेण सम्बन्धः । यत्र त्वस्य सर्वमात्मैवाभूत्केन कं पश्येदित्याद्यापादनस्येष्यापादनत्वशङ्कापरिहारायानिष्यमाह ॥ यदीति ॥ अव्ययत्वादस्तीत्यर्थेचेच्छब्दः । येनेदं सर्वं विजानातीत्यस्य तात्पर्यं भगवद्रूप इति । विज्ञातारमित्यस्य तात्पर्यं स्वरूपेचेति । एतदुपलक्षणमिति भावेनाह ॥ परस्परमिति ॥ मुक्तानामिति शेषः । विपर्ययेपर्यवसानमाह ॥ तस्मादिति ॥ मुक्तेः सर्वैरभिवांच्छनीयत्वात्‌ । तारतम्यादिति स्वरूपकथनाथर्मुक्तम्‌ । ननु निश्ऱ्वसितमेतद्वदृग्वेद इति वेदानामितिहासादीनां च विष्णुजन्यत्वोक्तेः वेदानामपौरुषेयत्वमितिहासादीनां पौरुषेयत्वमिति विशेषः कथमित्यत आह ॥ सर्गेसर्ग इति ॥ वीप्सेयम्‌ । यः शब्दसमूहः न केवलमर्थतः किन्तु शब्दतोपि अन्यथानैवभवेदिति सम्बन्धः । अर्थत एवान्यथा न भवेत्‌ शब्दतस्तुभवेदेव । यदि सर्वेवेदाः विष्णुनिगर्ताः तर्हि ब्रह्मादीनां ऋषित्वप्रसिद्धिर्नस्य यो इत्यत आह ॥ भगवद्दृष्यमेवेति ॥ यदियदा । तत्र तदा ब्रह्मादीनामपि वेदद्रष्यृत्वेको विशेषोविष्णोरित्यत आह ॥ वेद इति ॥ विष्णूक्तोविष्णुनर्गत एव वेदः । परैः ब्रह्माद्यैरयं वेद इति तपसैवदृश्यते । नतु विष्णुवत्तपसाविनैवेति विशेष इत्यर्थः ॥ ततश्ऱ्चायं खण्डार्थः ॥ याज्ञवल्क्योमैत्रेयीति स्वस्त्रियं सम्बोध्य इत्युवाच किमिति अरेमैत्रेयि अहमस्मात्‌ स्थानात्‌ गृहस्थाश्रमात्‌ उद्यास्यन्नस्मिप्रव्रजिष्यन्नस्मि । अहं ते तवानयाकात्यायन्या अन्ययास्वभार्ययासह अन्तनिणॅयं विभागं करवाणीति । हन्तेत्यास्वादने ॥ 1 ॥ सा एवमुक्तामैत्रेयी उवाच ह किल । किमिति । हेभगोः भगवन्‌ यत्‌ यदा मे इदं सर्वा पृथिवीवित्तषन पूर्णास्यात्तदातेन वित्तपूर्णपृथिवीरूपोपायेनामृतामुक्तास्यां कथं किं । नुवितर्के । इति पृष्योयाज्ञवल्क्योनेति नानेनमुक्ताभविष्यसीति होवाच । किं तत्सर्वात्मनाव्यर्थमित्यतोभिप्रायमुद्घाटयति ॥ यथैवेति ॥ यथा लोके उपकरणवतां धनादिसाधनसम्पत्तिमतां सुखेन जीवितमेवस्यात्‌ तथाते वित्तेन जीवितमेवस्यात्‌ नतु तेनामृतत्वशशस्ति ॥ 2 ॥ एवमुक्तासामैत्रेयी उवाच । येन वित्तशदिनाहममृतानस्यान्तेनाहं किं कुर्याम्‌ । ततो मोक्षसाधनत्वेन भगवान्‌ यदेववेदतदेवमेब्रूहीति ॥ 3 ॥ एवं तयोक्तोयाज्ञवल्क्य उवाच । अरेमैत्रेथित्वं सतीपतिव्रता । नःप्रियाप्रीति विषया । नःप्रियं यथाभवति तथाभाषसे । एहि । आस्व उपविश । मोक्षसाधनं व्याख्यास्यामि । व्याचक्षाणस्य तु मेवचोनिदिध्यासस्वव्यासङ्गं विहायमनोधत्स्वेति ॥ 4 ॥ ब्रवीतु भगवानित्युवाचमैत्रेयीति ग्राह्यम्‌ । स एवमुक्तोयाज्ञवल्क्यो । वक्ष्यमाणमहिमाविशिष्यात्मापरोक्षज्ञानमेवमोक्षसाधनमिति भावेन तावत्पत्युर्यज्जायादिप्रियत्वं तद्धेतुत्वरूपमात्ममहिमानमुवाच । ननु पत्युः स्वेच्छयैव जायाप्रियत्वोपपत्तौ किमात्मेच्छयेत्यत आह ॥ नवा इति ॥ अरेमेत्रेयि पत्युःकामय चतुर्थीतृतीयाथर्े कामेन । पतिः प्रियोजायांया इति शेषः । नैव भवति । अस्वतन्त्रत्वात्‌ । किन्तु आत्मनस्तु परमात्मन एव कामायेच्छयापतिः प्रियोपि भवति । जायाया इति शेषः । तस्य स्वातन्त्रत्वादित

?Rयर्थः । एवमुत्तरवाक्यान्यपि व्याख्येयानि । जायायैजायायाः वित्तस्य वित्ताभिमानिनः कुवेरस्य ब्रह्मणः ब्राह्मणजात्यात्मकचतुर्मुखस्य क्षत्रस्य क्षत्रात्मकस्य वायोः । लोकानां लोकाभिमानिनाम्‌ । भूतानां पञ्चमहाभूताभिमानिनाम्‌ । सर्वस्य सर्वाभिमानिन्याः लक्ष्म्ाः । एवमुक्तगुणविशिष्यभगवदपरोक्षज्ञानमेव मोक्षसाश्रमिति भावेनाह ॥ आत्मावा अरेद्रष्यव्य इति ॥ वैशब्दोवधारणे ।दर्शनं कथं स्यादित्यत आह ॥ श्रोतव्य इति ॥ दर्शनार्थं श्रवणमनननिदिध्यासनानिकर्तव्यानीत्यर्थः । ननु देवतास्वरूपादिदर्शनादेरपि फलहेतुत्वेन सम्पाद्यत्वात्कथमात्मैवेत्युक्तमित्यत आह ॥ आत्मनोवा इति ॥ आत्मनोदर्शनेन श्रवणेन मत्यामननेन विज्ञानेननिदिध्यासनेन इदं सर्वं देवतादिरूपं जगद्विदितं

?Rविदितवत्‌ विदितफलं भवति । परमात्मनः प्राधान्येन तज्ज्ञाने सति तत्फलेऽप्रधानजगज्ज्ञानफलमन्तर्भवतीत्यर्थः । कुतः परमात्मनः प्राधान्यमिति चेत्‌ । सर्वस्य जगतः परमात्माश्रितत्वादिति भावेन तद्विपरीतज्ञानिनोऽनर्थमाह ॥ ब्रह्मतमिति ॥ यः पुमान्ब्रह्मब्राह्मणजात्यात्मकं चतुर्मुखम्‌ । आत्मनः परमात्मनोऽधीनत्वेन न वेद । किन्तु अन्यत्र तदनाश्रितत्वेन स्थानान्तरे च वेद तं वेत्तारम्‌ । ब्रह्मचतुर्मुखः । परा लोकालोकस्य परतः अन्धेतमसि अदात्पातयेदित्यर्थः । एवमुत्तरत्रापि क्षत्रादिपदाथर्स्तूक्त एव । वित्तं तं परादादित्यपि ग्राह्यम्‌ । यत्किञ्चित्पति जायापुत्राणामन्यथाज्ञानिनः तमः पातनासमर्थत्वात्तेषामसङ्ग्रहः । एवं ब्रह्मादीनां भगवदनाश्रितत्वज्ञानिनोनर्थोक्त्यायद्भगवदाश्रितत्वं सिद्धं तदाह ॥ इदं ब्रह्मेति ॥ इदं ब्रह्मादिकम्‌ । यत्‌ यत्रायमाधातभूत एवात्मेत्यर्थः ॥ 6 ॥ परमात्मनो जगत्कारणत्वाज्जगतस्तदधीनत्वात्प्राधान्यमिति भावेन जगत्कारणत्वादौ दृष्यान्तमाह ॥ सयथेति ॥ सःवक्ष्यमाणोदृष्यान्तो यथा । हन्यमानस्य दुन्दुभेर्दर्शनेसति श्रूयमाणान्‌ शब्दान्बाह्मयान्स्तत्तदन्यमुरजादिकारणजन्यांस्तदधीनान्ग्रहणायग्रहीतुं न शक्नुयात्‌ । किन्तु दुन्दुभेस्तदाघातस्य वापूर्वभावितयाग्रहणेन स एब्दोगृहीतः । तज्जन्यतयातदधीनत्वेन वा । एवं भगवन्तं तदिच्छाञ्च जानन्‌ जगदन्यजन्यमन्याधीनं इति न गृह्णाति । किन्तु भगवदिच्छाजन्यं तदधीनमित्येवगृह्णातीति भावः । यद्वा हन्यमानस्य दुन्दुभेः तदभिमानिदेवतायाः ग्रहणेसति श्रूयमाणान्‌ शब्दान्बाह्यानन्याधीनान्‌ ग्रहणायनशक्नुयात्‌ । दुन्दुभेस्तदाघातस्य वातदभिमानिदेवतायाः वाग्रहणेन दुन्दुभ्यादिशब्दो देवताधीनतयागृहीत इति योज्यम्‌ । एवमुत्तरत्रापि । वीणशयैवीणशयाः वाद्यमानयैवाद्यमानायाः ॥ 7-9 ॥ ब्रह्मणः जगतकारणत्वमेवदृष्यान्तेनाह ॥ सयथेति ॥ यथा आर्द्रैरेधोभिः काष्ठादिभिरिद्धोग्निः । तस्मादभ्याहितात्‌ । अभितः प्रज्वलितात्‌ । पृथक्‌ नानाप्रकारं धूमाः । उपालक्षणमेतत्‌ । विष्फुलिङ्गादयोपि विनिश्ऱ्चरन्ति । एवं वा एवमेवैतत्‌ वक्ष्यमाणमस्य महताभूतस्य सदाविद्यमानस्य हयग्रीवरूपस्य ब्रह्मणस्सकाशात्‌ निश्ऱ्वसितं निर्गतम्‌ । किं तत्‌ इत्यत आह ॥ यदिति ॥ ऋगाद्याः अवान्तरवेदाः विद्यामूलश्रुतिः श्ऱ्लोकाः पञ्चरात्र संहिताः । यद्यपि इति हासशब्देन श्रलोका अपि गृहीताः । यथोक्तं पुरस्तात्‌ । पञ्चरात्रं भारतं च मूलरामायणं तथा । इतिहास इति प्रोक्त इति । तथापि भारतरामायणयोरेवात्रेतिहासशब्देन ग्रहणमिति न दोषः । सूत्राणिब्रह्मसूत्राणि । व्याख्यानानिवेदव्याख्यानानि । अनुव्याख्यानानि । तद्विस्तारभूतानि अनुव्याख्यानानीति यदित्यर्थः । शब्दप्रपञ्चस्य तज्जन्यत्वमुक्त्वा अर्थप्रपञ्चस्यापि तदाह ॥ अस्वैवेति ॥ एतानि प्रमाणप्रसिद्धानि सर्वाणिमहदादीनि अस्यैवसकाशात्‌ निश्ऱ्वसितानि निर्गतानि । सृष्यावायासाभावसूचनायनिश्ऱ्वसितमित्युक्तम्‌ ॥ 10 ॥ इदानीममुक्तानां परमात्माधीनत्वमेवदृष्यान्तेनाह ॥ सयथेति ॥ सवक्ष्यमाणोदृष्यान्तोयथा । सर्वासामपांसमुद्रोवरुणः अपांखातो वा । एकायनं मुख्याश्रयः । एवं सर्वेषां स्पर्शानां स्पर्शाभिमानिनाम्‌ । त्वक्‌ त्वगिन्द्रियान्तर्गतं भगवद्रूपम्‌ । भगवत्त्वगिन्द्रियं वा एकायनम्‌ । एवमुत्तरत्रापि । अध्वनां गतिरूपकर्मणाम्‌ ॥ 11 ॥ इदानीं मुक्ताश्रयत्वं भगवतः सदृष्यशन्तमाह ॥ सयथासैन्धवखिल्य इति ॥ सिन्धुः समुद्रोदकं तत्र भवः सैन्धवः । सचासौखिल्योलवणशकलं उदकेवरुणापाङ्खातरूपसमुद्राश्रितोदके प्रास्तः प्रक्षिप्तः सन्नुदकमनुखिल्यारम्भकत्वेन तदवयवमूतमुतकं विलीयमानमन्वेव । विलीयते कश्ऱ्चिदपि अस्य विलीनस्य खिल्यस्योद्ग्रहणाय पूर्ववत्‌ विशिष्यगृहीतुं नैवशक्तः स्यात्‌ । हेति प्रसिद्धमाह । कुतः । यतो यतो यस्माद्यस्माद्देशात्‌ । तत्‌ उदकमाददीतगृहीत्वास्वादयेत्‌ । तत्र तत्र लवणमेवलवणरसोपेतमेवगृह्यतेन खिल्यभाव इति तथाच लिलीनभावस्य सैन्धवखिल्यस्य सर्वासामपाञ्चसमुद्र एकायनमिति ग्राह्यम्‌ । यथायं दृष्यान्तः । एवं अरेमैत्रेयि विज्ञाघनोजीव एव तेभ्योभूतेभ्य अवादिभ्यः । समुत्थाय तदुपादानकदेहसम्बन्धे नोत्पद्य । तानिलीयमानिदेहारम्भकमूतानि । अन्वेवविनश्यति सर्वथादेहवियोगलक्षणमुक्तिं प्राप्नोति । भूतबन्धस्तु संसारोमुक्तिस्तेभ्यो विमोचनमिति वचनात्‌ । ततश्ऱ्चेदं महद्भूतं अनन्तमपारं भगवन्तं पूर्वमुक्ताश्रयं प्रापनोति । अत्र वरुणवत्‌ अपांखातवद्वाभगवान्‌ समुद्रजलवत्पूवर्मुक्ताः सैन्धवखिल्यवत्‌ मुच्यमानजीव इति विवेकः ॥ 12 ॥ नहास्योद्ग्रहणायेत्युक्तसैन्धवखिल्यसाम्यं मुच्यमानस्याह ॥ नप्रेत्येति ॥ प्रेत्यमुक्त्यनन्तरं मुक्तानां संज्ञा नामधेयं उपलक्षमेतत्‌ । तत्स्वरूपञ्चामुक्तैः सम्यक्‌ ज्ञायत इति संज्ञा शास्त्रं विनासम्यक्‌ ज्ञानं नास्तीत्यरे अहं ब्रवीमीति याज्ञावल्क्य उवाच । सा एव भुक्तामैत्रेयीमोक्षस्वरूपं सम्यक्‌ ज्ञातुकामासर्वथाज्ञानाभावोऽनेनोक्त इत्यारोप्योवाच । भगवन्‌ अत्रैवावश्यं वेदितव्य एव विषये मामां अमूमुहत्‌ अमोहयत्‌ । कथं प्रेत्यमोक्षानन्तरं संज्ञाज्ञानं नास्तीति । नचेदं सम्यक्‌ ज्ञानम्‌ । परमपुरुषार्थेमोक्षेज्ञानाभावस्यासम्यक्त्वादिति । सः एवमुक्तोयाज्ञवल्क्यः अहं मोहं मोहकवाक्यं न ब्रवीमि । त्वं तुमुक्तसंज्ञाप्यमुक्तैः न ज्ञायत इति मदभिप्रायज्ञात्वा अन्यथाकल्पयसीवत्युवाच । पुनस्तस्याः विशेषजिज्ञासां ज्ञात्वामुक्तस्वरूपमुपदिशति ॥ अलमिति ॥ इदं मुक्तजातं विज्ञानाय यथा योग्यपरमात्मस्वरूपादिकं

?Rविशेषेणज्ञातुमलं समर्थम्‌ ॥ 13 ॥ निर्विशेषचैतन्यभावमापन्नस्य मुक्तस्य न विज्ञानादिकमस्तीति वदतां मायावादिनां मते अनिष्यं प्रसङ्गं वक्तुं तस्य व्याप्तिसापेक्षत्वात्‌ व्यतिरेकव्याप्तिं तावदाह ॥ यत्र हीति ॥ यत्र यदा । द्वैतं द्वयोः भावोद्विताभेद इति यावत्‌ तस्याइदं धमिर् । द्वैतं भिन्नं वस्त्वित्यर्थः । इवशब्दोभिन्नस्य वस्तुनः पारतन्त्ऱ्ाभिप्रायेण तत्‌ तदा । इतरःपुरुषः । इतरं घटादिकम्‌ । पश्यतीत्यादि हिशब्देन यदा द्वैतसद्भावः तदैव दर्शनादिभोग इति व्याप्तौ प्रमाणप्रसिद्धिमाह । एवं प्रसङ्गाङ्गव्याप्तिमुक्त्वाप्रसङ्गमाह ॥ यत्रेति ॥ यत्र मुक्तौ अविद्यायां निवृत्तायाम्‌ । अस्य विदुषः । सर्वं करणादिकम्‌ । आत्मैवाभूत्‌ स्वव्यतिरेकेणकिमपि नाभूत्‌ । तत्‌ तस्यामवस्थायां केन करणेन कं विषयं जिघ्रेत्‌ । घ्राणादिभोगोनस्यादित्यर्थः । येनेश्ऱ्वरेण इदं सर्वं जीवोविजानाति तं परमात्मानं केन विजानीयात्‌ । तज्ज्ञानाभावश्ऱ्चस्यात्‌ । विज्ञातारं स्वात्मानं केन विजानीयात्‌ । एवं मुक्तान्तरविषयकज्ञानमपि न स्यात्‌ इति ग्राह्यम्‌ । नचेष्यापत्तिः । सर्वाज्ञानस्यापुरुषार्थत्वादिति ॥ 14 ॥ इति मैत्रेयीब्राह्मणम्‌ ॥ 4 ॥ स्वहृदिस्थोपासनमेवमोक्षसाधनं न बहिष्ठोपासनमित्युक्त्याप्राप्तं तयोरूपयोः वैलक्षण्यशङ्कां तयोरभेदोक्त्यापरिहरन्नस्य महतो भूतस्येत्युक्त हयग्रीवस्यमहिमान्तरमाह ॥ इयं पृथिवीत्यादिना ॥ स ईश्ऱ्वरोरूपं रूपं देहं देहं प्रतिरूपोरूपान्तरं प्रतिबिम्बोबभूवेति रूपं रूपमित्यस्य परकीयव्याख्यानमसत्‌ । ब्रह्मणो जीवरूपेण प्रतिबिम्बभवनस्य जीवब्रह्मैक्यनिरासेनैवनिरस्तत्वादिति भावेन तद्वयाचष्ये ॥ भगवत इति ॥ ृण्वेवीर इति पूर्वं त्रिविधजीवानां प्रस्तुतत्वात्‌ जीवाख्य इत्युक्तम्‌ । प्रतिबिम्बः । तदधीनत्वे सति तत्सदृश इत्यर्थः । बभूवेत्युक्त्याजीवस्य भगवत्प्रतिबिम्बत्वमिदानीं नास्तीति प्रतीयते प्रतीयतेतां निवारयति ॥ बभूवेतीति ॥ व्याख्यातप्रायमेतत्‌ । इयं पृथिवीसर्वेषां भूतानां ब्रह्मादीनां मधु कार्यम्‌ । पृथिव्याश्ऱ्चसर्वाणिभूतानिमधुकायर्म्‌ । शरीराणां पृथिवीजन्यत्वादिति व्याख्यानमसत्‌ । परमते विद्युत्स्तनयित्नुमानुषादिशब्दानां प्रसिद्धार्थत्वेन तेषां मूतकार्यत्वस्य भूतानां तत्कार्यत्वस्य चाभावात्‌ । मधुशब्दस्य कार्येप्रयोगाभावाच्च प्रमाणविरुद्धत्वाच्चेति भावेन ब्राह्मणं प्रमाणेन व्याचष्ये ॥ सुखदेति ॥ मधुवदित्युक्तवत्यर्थसादृश्यं वक्तुं सुखदेत्युक्तम्‌ । यथा प्रसिद्धं मधुसुखदं तथाऽऽश्रयत्वादिना पृथिवीभूतानां सुखदा । भूतानिच पृथिव्याः शुश्रूषादिना सुखप्रदानीत्यर्थः । पोक्तकायर्त्वव्यावृत्त्यर्थं सुखदैवेत्येवकारसम्बन्धः । नन्वेवं व्याख्यानेपि पृथिव्यादीनां भूतसुखदत्व सम्भवेपि भूतानां पृथिव्यादिसुखदत्वं नोपपद्यते । पृथिव्यादीनां जडत्वेन सुखाभावादित्याशङ्कां परिहरन्‌ कृतं व्याख्यानं इमा आप इत्यादावतिदिशयति ॥ तथेति । सर्वादेवता अबाध्यभिमानिन्योभूतानां सुखदाः । चशब्देन भूतानि तासां देवतानां सुखदानीति समुच्चिनोति । तथाच पृथिवीशब्देनापि देवतैवग्राह्येति भावः । यश्ऱ्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्ऱ्चायमध्यात्मं शारीरः तेजोमयः अमृतमयः पुरुषोऽयमेवसः । योयमात्मेत्यादिचतुर्दशखण्डगतं वाक्यं जातं व्याचष्ये ॥ पृथिव्यादिष्विति ॥ तेजोमयोऽमृतमय इत्येतत्‌ जीवपरमिति प्रतीतिनिरासाय व्याचष्ये ॥ अनन्तेति ॥ इदं ब्रह्मेदं सर्वमिति पूर्वप्रकृतस्यात्मनोजीवस्य ब्रह्मत्वादिकमुच्यते इति प्रतीति निरासायाह ॥ ब्रह्मेति ॥ तदेवहयशीर्षस्वरूपमेव । नजीवतत्वमित्यर्थः । तत्कुतोब्रह्मेत्यत आह ॥ गुणेति ॥ सर्वमित्यस्य सर्वगमिति व्याख्यानमुपपादयति ॥ सर्वमिति ॥ अनूनतोदेशतोऽनूनत्वात्‌ । ननु श्रुतौ योयमात्मेति पृथिव्यादिषु शरीरादिषु च स्थितस्यात्माभेद उच्यते । तस्यैव चामृतत्वादिकमपि । तथाचैकएव परोविष्णुः हयशीर्षस्वरूपधृगिति कथं व्याख्यायते इत्यतस्तदनूद्यतस्मिन्नात्मशब्दं निर्वक्ति ॥ आत्मेति ॥ यःपृथिव्याद्यधिदैवादिषु स्थितः हयशीषाख्यः परोविष्णुः स एव यतः सर्वगोऽत आतमनामाप्रकीर्तित इत्यर्थः । पृथिव्यादीनां शरीरादीनां चाधिदैवत्वाध्यात्मत्वप्रदर्शनार्थमेवपुनरनुवादः । तद्यथेत्यादि आत्मनः समर्पिता इत्यन्तं वाक्यं व्याचष्ये ॥ अराणशमिति ॥ अन्तःप्रतिष्ठितोनाभिः । बहिःप्रतिष्ठितोनेमिरिति यथायोग्यं सम्बन्धः । जीवानामिति मूतशब्दार्थः । आत्मनाम्नां विरिञ्चानाञ्चेत्यपि ग्राह्यम्‌ । अयं वैदशचसहस्राणिबहूनिचानं तानिचेत्येतद्वयाचष्ये ॥ स एवेति ॥ हरयः शतादशेतिमन्त्रेशतशब्दग्रहणात्तद्ययाख्यानरूपब्राह्मणेपि चशब्देन शतानिचेत्येतद्ग्राह्यमिति भावेन तस्यार्थ उक्तः शतमिति । स वा अयमात्मासर्वेषां मूतानामधिपतिः सर्वेषां मूतानां राजेत्येतद्वयाचष्ये ॥ भूताख्येति ॥ भूतशब्दोक्तानामपि विरिञ्चानामाधिक्य विवक्षयायदाह श्रुतिः सर्व एते आत्मान इति । तदनुरोधेनात्र भूतानामित्येतदु पलक्षणमिति भावेनोक्तम्‌ ॥ आत्मनाम्नां विरिञ्चानामिति ॥ राजाधिपतिशब्दयोरर्थभेदमाह ॥ स्वामित्वादिति ॥ अयं विष्णुः राजेति शब्दोयस्य स राजशब्दः । सर्वासुपूर्षुपुरिशय इत्युक्तपुरुष शब्दनिर्वचनपरमिति ज्ञापयन्‌ सवा इत्येतद्वयाचष्ये ॥ पुरुष इति ॥ इति सम्प्रोक्त इत्येतदत्रापि सम्बध्यते । उक्तमेवविवृण्वन्‌ पूर्षुपुरीत्यनयोरर्थमेदकथनपूर्वकं सर्वासुपूर्षुपुरिशय इत्येतद्वयाचष्ये ॥ पुराख्येष्वेवेति ॥ असावेवेति सम्बन्धः । असावेक एव विष्णुः देहेषु हृत्पुर्यपि रूपभेदेन वसतीत्यर्थः । नैनेन किञ्चनानावृतमित्येतद्वयाचष्ये ॥ नानेनेति ॥ नैनेन किं वनासंवृमित्येतद्वयाचष्ये ॥ नानेनेति ॥ तदेतद्ब्रह्मापूर्वमन

?Rपरमनन्तरमबाह्यमयमात्मब्रह्मसर्वानुभूरित्यनुशासनमित्येतद्वयचष्‌ष ॥ नैवास्मादित्यादिना ॥ एवेत्यस्यासावित्यत्रापि सम्बन्धः । असावेवसर्वस्मात्‌ बाह्यतः सर्वस्मादन्तरञ्च । नत्वस्मात्‌ तदन्यद्बाह्यमन्तरञ्चेत्यर्थः । अयमात्मा इदं मानुषं इदं सत्यमयंस्तनयित्नुरिति वाक्यचतुष्ययगतात्मादिशब्दाभिधेयमाह ॥ विरिञ्च इति ॥ यश्ऱ्चायमध्यात्मं शाब्द सौवरः यश्ऱ्चायमध्यात्मं सात्यः यश्ऱ्चायमध्यात्ममात्मेति वाक्यगतसौवरसात्यशब्दान्तर्गतस्वरसत्यशब्दयोरात्मशब्दस्य चार्थमाह ॥ एत एवेति ॥ वायुरूपद्वयं विरिञ्चश्ऱ्चेत्येत एवेत्यर्थः । इदानीं सौवरादिशब्दाभिधेयमाह ॥ तेषामिति ॥ सौवरादिशब्दाभिधेय इति शेषः । तत्कथमित्यतस्तद्विवृणोति ॥ जीवेस्थित इत्यादिना ॥ जीवेजीवस्थेविरिञ्चे । स्वरगः स्वरस्थवायुगः । सत्यग इत्येतदपि एवमेवव्याख्येयम्‌ । यश्ऱ्चायमध्यात्मं धार्म इति धार्ममाह ॥ धर्मग इति ॥ धर्मगोयमगः । यश्ऱ्चायमध्यात्मं मानुष इत्येतद्वयाख्यातुमाह ॥ मनोरिति ॥ देहिष्वध्यात्मं बहिरधिदैवेचस्थितस्य स्वायम्भुवस्यमनोः मानुषेत्येव आख्या । किंतत इत्यतः इदानीं मानुष इत्यस्यार्थमाह ॥ तद्गत इति ॥ देहिगतमनुगतः विष्णुरेवेति सम्बन्धः। मानुषेत्युभयत्राविभक्तिकोनिर्देशः । यश्ऱ्चायमध्यात्मं श्रौतः प्रातिश्रुत्क इत्यस्य यश्ऱ्चायमध्यात्मं तैजस इत्यस्य चार्थमाह ॥ प्रातिश्रुत्क इतीति ॥ श्रोत्रेस्थितः सन्‌ प्रतिृणोतीति प्रातित्कः । विद्युति शरीरगत तेजसीत्यर्थः । सौवरादिशब्दनिर्वचनप्रकारं शरीरादिशब्देप्यतिदिशति ॥ इतीति ॥ B-17

?Rशरीरगतः शारीरः । रेतसिस्थितोरैतसः । वाचिस्थितो वाङ्मयः । हृद्यकाशस्तद्गतः । प्राणेस्थितः प्राणः । चक्षुषिस्थितश्ऱ्चाक्षुषः । मनसिस्थितोमान स इत्येवं नानाविधैः शब्दैः विष्णुरिज्यत इत्यर्थः । इदं वैतन्मधुदध्यङ्‌ङाथर्वणोश्ऱ्विभ्यामुवाचेति वाक्यं व्याचष्ये ॥ दध्यङिति ॥ एतां पूर्वोक्तमधुविद्यां अथर्वणगोत्रोत्पन्नो दध्यङ्‌नामाश्ऱ्विभ्यामदादित्यर्थः । वंशब्राह्मणाभिप्रायमाह ॥ पुरेति ॥ अप्रतीतेः प्रत्यैरयतं इत्येतदनूद्यव्याचष्ये ॥ प्रत्यैरयतमिति ॥ ऋतायन्‌ सत्यं परिपालयितुं इच्छन्निति व्याख्यानमसत्‌ । ततस्तावदर्थाप्रतीतेरिति भावेन तदर्थमाह ॥ ऋतायन्निति ॥ कक्ष्यंगोप्यमित्यन्यथाप्रतीति निरासायार्थमाह ॥ कक्ष्यमिति ॥ त्वाष्यृं त्वष्यृदेवताकमित्यन्यथाप्रतीति निरासायानूद्यव्याचष्ये ॥ त्वाष्य्रमिति ॥ अत एव कक्ष्यं नारायणकवचमिति व्याख्यातम्‌ । इमां विद्यामधिकतोविश्ऱ्वरूपाच्छतक्त्रतुरिति वचनात्‌ । विश्ऱ्वरूपेणेन्द्रं प्रति नारायणकवचस्यैवोपदिष्यत्वात्‌ । अप्रतीतेः स नये इत्यस्यार्थमाह ॥ सनयइति ॥ षणलाभ इति धातोरित्यर्थः । दंसइत्यस्याप्रतीतेरर्थमाह ॥ दंस इति ॥ तन्मतुर्नवृष्यिमित्यस्यार्थमाह ॥ स्तनयित्नुरिति ॥ नकारस्यार्थ इवेति ॥ अश्ऱ्विनौ दधीचे अशव्यंशिरः किमर्थं प्रत्यैरयतम्‌ । सदध्यङ्‌अश्ऱ्वशीर्ष्णाकिमर्थं मधुविद्यां अश्ऱ्विभ्यामुवाचेत्यतस्तदुपयुक्तां कथामाह ॥ तस्यामित्यादिना ॥ इन्द्रेणतस्यां विद्यायामित्याद्युक्त अश्ऱ्विनौ प्रत्याहेत्यर्थः । पावः रक्षावः त्वच्छिर इति शेषः । तच्छिरः तस्य दधीचः प्राक्तनं शिरः । तेनाश्ऱ्वशिरसा । तस्मिन्नश्ऱ्वशिरसि । नन्वनयाकथया अश्ऱ्विभ्यां दधीचैतद्विद्याकथनात्पूर्वं इन्द्रः एतां विद्यां जानातीति लभ्यते । कथमन्यथातस्यां विद्यायां परस्योक्तायां तवशिरच्छेत्स्यामीति ब्रूयात्‌ । तथाविश्ऱ्वरूपस्त्वाष्य्रोश्ऱ्विभ्यामित्यनेन वंशब्राह्मणगतवाक्यन विरोधः स्यात्‌ । तत्र हि अश्ऱ्विभ्यां विश्ऱ्वरूपस्याध्ययनमुच्यते । सचविश्ऱ्वरूपः इन्द्रस्यगुरुः । एतां विद्यामधिगतोविश्ऱ्वरूपाच्छतक्रतुरित्युक्तेः । तथाचेन्द्रेणाश्ऱ्विभ्यां पूर्वमियं विद्यानज्ञातेति प्राप्तेरित्यतस्तं विरोधं परिहरति ॥ पूवर्ं जानन्निति ॥ इतीमां विद्यां पूर्वं जानन्नपीति प्रथमेति शब्दस्य सम्बन्धः । किमर्थं शुश्रावेत्युक्तम्‌ । पुनर्नवत्वायेति । प्रागधीताया अपि विद्यायाः वृत्रहननार्थं पुनर्नवत्वायेत्यर्थः ॥ 5 ॥ ततश्ऱ्चायं खण्डार्थः ॥ इयं पृथिवीतदभिमानिनी सर्वेषां भूतानां मधुमधुवत्‌ आश्रयत्वादिनासुखदा । अस्यैपृथिव्यै अस्याः पृथिव्याः सर्वाणिभूतानि मधु शुश्रूषादिनासुखदानि । यश्ऱ्चायमस्यां पृथिव्यां विद्यमानस्तेजोमयः अनन्ततेजाः । अमृतमयोनित्यः अपूर्णत्वादिनानाशरहितः । पुरुषः यश्ऱ्चायं प्रमितः शारीरस्थः तेजोमयोमृतमयः पुरुषः । सःअयमेव । अयं कः । यः पूर्वोक्तः आत्मासर्वगोहयशीर्ष इत्यर्थः । आत्मस्वरूपमाह ॥ इदमिति ॥ इदाममृतं नित्यं ब्रह्मगुणपूर्णं सर्वमनूनं सर्वगमित्यर्थः । एवमुत्तरत्रापि व्याख्यानम्‌ ॥ 1 ॥ रैतसः रेतसिस्थितः ॥ 2 ॥ वाङ्ममयः । वाचिस्थितः ॥ 3 । प्राणः त्वगिन्द्रियस्थितः ॥ 4 ॥ चाक्षुषश्ऱ्चक्षुस्थः ॥ 5 ॥ श्रौत्रःश्रोत्रगतः सन्प्रतिृणोतीति प्रतिश्रुत्कः ॥ 7 ॥ मानसोमनोगतः ॥ 7 ॥ तैजसः शरीरतेजोगतः ॥ 8 ॥ स्तनयित्नुः तद्गतोवायुः । शब्दःशब्दगतः सन्‌ । सौवरः स्वरगतः ॥ 9 ॥ हृद्याकाशःतद्गतः ॥ 10 ॥ अयं धर्मोयमधार्मः धर्मगतः ॥ 11 ॥ सत्यम्‌ । सत्यगतोवायुः सात्यःसत्यगतः । अत्रशारीरोरैतसः इत्यादौ शरीरादिशब्दैस्तदभिमानिदेवताग्राह्याः ॥ 12 ॥ इदं मानुषं स्वयम्भुवमनुः मानुषः । देहिगतस्वायम्भुवमनुगतः ॥ 13 ॥ अयमात्माविरिञ्चः । अध्यात्ममात्माजीवगतविरिञ्चगतः ॥ 14 ॥ तस्यात्मनोमहिमानमाह ॥ स वा इति ॥ सर्वेषां भूतानां

?Rजीवानाम्‌ । उपलक्षणमेतत्‌ । सर्वेषामात्मनां विरिञ्चानाञ्च अधिपतिराधिक्यात्पालनात्‌ । राजास्वामी कथमित्यतः एतदेवसदृष्यान्तमुपपादयति ॥ तद्यथेति ॥ तत्‌ वक्ष्यमाणं निदर्शनं यथा । चशब्दौ परस्परसमुच्चये । विष्णोः भीतादीनामन्तर्बहिश्ऱ्चाश्रयत्वप्रदर्शनायनाभौनेमौचेति दृष्यान्तद्वयोपादानं ॥ 15 ॥ इयं मधुविद्याऽतिप्रशस्तापूर्वैरनुष्ठितत्वात्‌ उपदिष्यत्वाच्चेत्यह ॥ इदमिति ॥ दध्यङ्‌नामा आथर्वणगोत्रोत्पन्नो ब्राह्मणः इदं प्रमाणप्रमितम्‌ । तत्‌ मधुमधुविद्यामश्ऱ्विभ्यामुवाच । वा इति अस्यार्थस्य प्रमाणसिद्धत्वमाह ॥ पश्यन्वेद द्रष्याऋषिः । तदेतत्‌ दध्यङाधर्वणोश्ऱ्विभ्यामुवाचेत्येतत्प्रमेयमुवाच । तां ऋचं पठति ॥ तद्वामिति ॥ हेनरानेतारौ । अश्ऱ्विनौ वायुवयोः यत्‌ दधीचः पूर्वशिरश्छेदनाश्ऱ्वशिरः सन्धानादिरूपं उग्रं क्रूरं दंसःकर्म यच्चदध्यङाधर्वणोऽश्ऱ्वस्य शीष्णर्ाई शीर्ष्णेव वांयुवाभ्यां मधुमधुविद्यां प्रोवाचेति तदुभयं सनये मोक्षादिपुरुषार्थलाभाय । हनिश्ऱ्चितमाविष्कृणोमि । कः किमिव तन्यतुःस्तनयित्नुः वृष्यिं न । वृष्यिमिव स्तनयित्नुर्यथावृष्यिमाविष्कृणोति तथेत्यर्थः ॥ 16 ॥ अत्रैवागमान्तरं वक्तुमाह ॥ इदमिति ॥ तदेतत्‌ दध्यङाधवर्णोऽश्ऱ्विभ्यां मधुवाचेत्येतत्‌ । तां ऋचं पठति ॥ आथवर्णायेति ॥ हेदस्रोशत्रुभेदकौ अश्ऱ्विना अश्ऱ्विनौ युवामाधर्वणायदधीचे अश्व्यं अश्ऱ्वसम्बन्धिशिरः प्रत्यैरयतं प्रतिसमधत्तम्‌ । सःसन्धिताश्ऱ्वशिरादध्यङ्‌ ऋतायन्‌ वांयुवयोः मधुवक्ष्यामीति पूर्वं प्रतिज्ञातं सत्यं कुर्वन्वां युवाभ्यां मधु मधुविद्यां यत्‌ त्वाष्य्रं त्वष्युः पुत्रेणविश्ऱ्वरूपेणेन्द्रायोक्तं कक्ष्यं नारायणकवचं तदपि प्रवोचत्‌ प्रावोचदित्यर्थः । अडभावश्छान्दसः ॥ 17 ॥ यश्ऱ्चायमध्यात्मं शारीर इति सर्वेषु शरीरेषु भगवांस्तिष्ठतीति यदुक्तं तत्र मन्त्रं वक्तुमाह ॥ इदमिति ॥ पश्यनृषिः तदेतत्‌ सर्वशरीरस्थत्वमुवाच । तं मन्त्रमुदाहरति ॥ पुर इति ॥ स पुरुषोद्विपदः पुरः शरीराणि चक्रेचतुष्पदः पुरश्ऱ्चक्रे । ततः पक्षीभूत्वाद्विपदः पुरश्ऱ्चतुष्पदश्ऱ्च आविशत्‌ । पुरुषो जीव इति प्रतीतिं निवारयन्‌ पुरुष शब्दं निर्वक्ति ॥ सवा अयमिति ॥ स एव परमात्मापुरुष इति उच्यते । कुतः यतः सर्वासुपूर्षुदेहेषु । पुरिहृत्पुर्यपि । शेत इति शयः । न केवलं पुरस्थितिमात्रं किन्तु अन्तर्बहिव्यर्ाप्तिश्ऱ्चास्तीत्याह ॥ नैनेनेति । एतेनानेनात्मना । किञ्च नाऽनावृतमव्याप्तं न किन्तु व्याप्तमेव असंवृतमनाच्छादितम्‌ ॥ 16 ॥ अयमेवसयोयमात्मरूपाणामभेदेमन्त्रं वक्तुमाह ॥ इदमिति ॥ तदेतत्‌ शरीरादिगतभगवद्रूपाणामभिन्नत्वम्‌ । मन्त्रं पठति ॥ रूपंरूपमिति ॥ जीवसमुदायः परमेश्ऱ्वरस्य रूपं रूपं प्रतिरूपः प्रतिबिम्बोबभूव । तद्बिम्बरूपमस्य जीवस्य च क्षणशय साक्षात्काराय भवति मुक्त्यर्थं साक्षशत्कारविषयोभवतीति यावत्‌ । नन्वेकस्य भगवतः कथं विचित्र जीवबिम्बत्वमित्यत आह ॥ इन्द्र इति ॥ स इन्द्रःपरमेश्ऱ्वरोमायाभिः स्वसामर्थ्येन पुरुरूपः अनन्तजीवबिम्बरूपः ईयते ज्ञयते । अस्य इन्द्रस्य हरयः हरिनामकानिरूपाणि दशशतानि युक्ताः संयुक्ताः व्यूहशः सन्तीति हि प्रसिद्धमित्यर्थः । नन्वत्र मन्त्रेपरमात्मरूपाणामभेदाप्रतीतेः कथं तदुदाहरणमित्यतस्तस्याभिप्रायमाह ॥ अयंवा इति ॥ हरयोहरिनामकाः दशमत्स्याद्याः अयं वैहयशीर्षः परमात्मैव चशब्दात्‌ शतानि नारायणादीनि नामकानि । अयं वै अनेन शतादशेत्येतत्‌ पृथग्व्यूहपरत्वेनापि व्याख्याति ॥ सहस्राणीति ॥ विश्ऱ्वादीनि सहस्राणि हरयः अयं वा इति सम्बन्धः । दशेत्यतत्‌ बहुपर्यायमभ्युपेत्यपृथग्व्यूहपरत्वेनापि व्याख्याति ॥ बहूनिचेति ॥ परादीनि बहूनि हरयोऽयं वा इति सम्बन्धः । शतमनन्तं भवतीति वचनात्‌ शतेत्येतदनन्तपर्यायमित्यभिप्रेत्यव्यूहान्तरपत्वेनापि व्याचष्ये ॥ अनन्तानिचेति ॥ अजितादीनि । मत्स्यादिपरमात्मव्यूहानां यदभेद उक्तस्तनन्महिमानमाह ॥ तदेतदिति ॥ अयं पूर्वोक्त आत्माव्याप्तोब्रह्मयत्‌ तदेतत्‌ ब्रह्मगुणपूर्णम्‌ । न विद्यते पूर्वं यस्मात्तदपूर्वमनादीति यावत्‌ । न विद्यते परमुत्तरं यस्मात्तदनपरं अनन्तमित्यर्थः । न विद्यतेन्तरमन्यत्‌ यस्य तदनन्तरम्‌ अयमेवसर्वस्मादन्तरः न विद्यते बहिरन्यद्यस्य तदबाह्यम्‌ अयमेवसर्वस्माद्बाह्यः सर्वमनुभवतीति सर्वानुभीस्सर्वज्ञ इति वेदानुशासनमित्यर्थः ॥ 19 ॥ मधुब्राह्मणम्‌ ॥ 5 ॥ अथभाष्यार्थः खण्डार्थश्ऱ्च ॥ न केवलमिमां ब्रह्मविद्यां दध्यङ्‌ङाधर्वणोश्ऱ्विभ्यामुवाच । किन्तु साविरिञ्चादिभिरप्यधीताव्याख्याताचेत्याह ॥ अथवंश इति ॥ पाराशर्योजातूकर्ण्यादिति पराशरात्मजस्य वेदव्यासस्य जातूकर्ण्यादध्ययनं प्रतीयते । तच्चायुक्तमित्यतोऽयं पाराशर्योन कृष्णः किन्त्वन्य इत्यत्र प्रमाणमाह ॥ पाराशर्य इति ॥ परमेष्ठीविराट्‌ ब्रह्मणोहिरण्यगर्भाद्विद्यां प्राप्त इति व्याख्यानमसत्‌ । हिरण्यगर्भातिरिज अभावादिति भावेन तद्वयाचष्ये ॥ परस्येति ॥ वंशोद्विविधोविद्ययाजन्मनाचेति शिष्यादिपरम्पपरापि वंशपदेनोच्यते । अत्र प्रथमान्तशब्दवाच्याः शिष्याः । पञ्चम्यन्तशब्दवाच्या आचार्या इति बोद्धव्यम्‌ । इतरवत्परब्रह्मणोप्यध्ययन शङ्कां वारयति ॥ ब्रह्मस्वयंभ्विति ॥ स्वयमेवभवतिजानातीति स्वयम्भु अध्यायान्ते मङ्गमाचरति वेदपुरुषः ॥ ब्रह्मणेनमइति ॥ हयग्रीवाख्यब्रह्मण इत्यर्थः ॥ इतिवंशब्राह्मणम्‌ ॥ 6 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्बृहदारण्यकभाष्यटीकायां श्रीमद्रघुवर्यतीथर्पूज्यपादशिष्यरघूत्तममबुनिविरचितायां

?Rचतुर्थोध्यायः ॥ 4 ॥

?R॥ हरिः ॐ ॥ भगवानेवसर्वोत्तमः सर्वगुणपरिपूर्णः सर्वममुक्षपास्योमोक्षद इत्यध्यायद्वयोक्तमृषिभिर्मीमांसयासमर्थितमित्याहानेनाध्यायेन । तत्रादौ मीमांसाप्रकारमेवाख्यायिकयाऽह ॥ जनकोहवैदेहइत्यादिना ॥ अप्रतिपत्तिविप्रतिपत्तिनिरासाय ब्राह्मणं प्रमाणेन व्याचष्ये ॥ होतरीत्यादिना ॥ केन यजमानोमृत्योराप्तिमतिमुच्यत इति प्रश्ऱ्नस्य होत्रर्त्विजाग्निनावाचेति परिहारवाक्यं होत्रादिशब्दानं प्रतीताथर्परत्वनिरासाय व्याचष्ये ॥ होतरीति ॥ समुक्तिरित्यस्याभिप्रायमाह ॥ मुक्तिदमिति ॥ नित्यं सदा । अध्वर्युणाऋत्विजाचक्षुषादित्येनेति वाक्यं पूर्ववद्वयाचष्ये ॥ अध्वर्युसूर्यचक्षुष्विति ॥ मुक्तिदं विष्णुं योनित्यं स्मरेत्‌ समुच्यत इति पूर्वेणसम्बन्धः । खण्डद्वयगतसातिमुक्तिरित्यस्य तात्पर्यमाह ॥ अधिक इति ॥ एतदुपासनामकुर्वद्भयोऽन्येभ्योमुक्तेभ्योपि । अस्यैवाग्न्यादित्रिके आदित्यादित्रिके च विष्णूपासकस्यैव । मुक्तावधिकप्रकाश इष्यते प्रामाणिकैरित्यर्थः । उद्गात्रर्त्विजावायुनाप्राणेनेति वाक्यं व्याचष्ये ॥ तथेति ॥ मुक्तिदं विष्णुमित्यनुवर्तते । तत्फलप्रदर्शनपरतयासातिमुक्तिरित्यस्य तात्पर्यमाह ॥ पूर्णचन्द्रमिति ॥ तदेवविवृणोति । अधिकाह्लादसंयुत इति । भवतीति शेषः । पूर्णचन्द्रपूर्णसुखं विष्णुमिति वा । ब्रह्मणर्त्विजामनसाचेन्द्रेणषति वाक्यं व्याचष्ये ॥ मन इति ॥ मुक्तिदमित्यत्राप्यनुवर्तते । सातिमुक्तिरित्यस्य तात्पर्यमाह ॥ अप्रयत्नेनेति ॥ ननु होत्रादिशब्दानं प्रसिद्धहोत्रादिपरत्वात्कथं होतर्यग्नावित्यादिव्याख्यानमित्यत आह ॥ होत्रिति ॥ मुख्यतः परममुख्यतः । प्रसिद्धिविरोधं परिहरति ॥ तत्सम्बन्धादिति ॥ जुहोतीत्यादिव्युत्पत्तिः प्रसिद्धहोत्रादिष्वेव न विष्णावित्यत आह ॥ सवा इति ॥ वैशब्दोवधारणे । होत्रादिषुस्थित्वेति शेषः । होत्रादिशब्दानां विष्णुपरत्वे आन्तरोपपत्तिमप्याह ॥ तस्मादिति ॥ होत्रादिशब्दानां विष्णुवाचकत्वादित्यर्थः । श्रुतिषुवाग्वैयज्ञस्यहोतातद्येयं वाक्‌ सोययमग्निः सहोतेत्यादि श्रुतिवाक्येषु । अन्यथातद्विरोधः स्यात्‌ । होत्रग्निवागादीनामैक्याभावादिति भावः । केन यजमानोमृत्योराप्तिमति मुच्यत इत्यादिप्रश्ऱ्नेहोत्रर्त्विजाग्निनावाचेत्यादिपरिहारवाक्येहोत्रादीनां मुक्तिसाधनत्वमुच्यते । तच्चोक्तरीत्याविष्णुग्रहण एव सम्भवति । न प्रसिद्धहोत्रादि ग्रहण इति होत्रादित्रिकचतुष्ययस्थितविष्णुरूपविशेषप्रदर्शनपूर्वकमाह ॥ होत्रादिष्विति । वासुदेवादिरूपधृक्‌ विष्णुरेवेति सम्बन्धः । हिशब्दः प्रसिध्यर्थः । नत्वन्यज्ञानादिति भावः । किञ्च होत्रादिशब्दानां प्रसिद्धार्थपरत्वे समुक्तिः सातिमुक्तिरित्येतदनुपपन्नं स्यादिति भावेन समुक्तिरित्यस्य मुक्तिदमिति यत्‌ तात्पयर्मुक्तं तत्पदारूढं करोति ॥ मुक्तिनामेति ॥अनेन मुच्यतेनेनेति मुक्तिरित्यर्थ उक्तो भवति । सातिमुक्तिरित्यस्यापि अधिकः प्रकाश इत्यादिनापूर्वोक्तं तात्पर्यं पदारूढं करोति ॥ मनुष्येभ्य इति ॥ अनेनातिशयेनमुच्यतेनेनेत्यतिमुक्तिरित्यर्थ उक्तो भवति । श्रुतौ यजमान इति प्रमाणेच यःस्मरेदिति सामान्यत एवोक्तत्वात्सर्वेषामप्युपासनायामधिकार इति न मन्तव्यमित्याह ॥ एताहीति ॥ कुत इत्यतस्तथात्वे इत्यतिमोक्षा इत्युपसंहारवाक्यविरोधः स्यादित्याह ॥ अतीति ॥ नृणां तदयोग्यत्वादिति भावः । तर्हि केत त्राधिकारिण इत्यत आह ॥ देवाद्या इति ॥ योगिनोयोग्या इत्यर्थः । तेषां तद्योग्यत्वादिति भावः । किन्ताभिर्जयतीत्यस्य प्रश्ऱ्नस्य । यत्किञ्चेदं प्राणभृदिति यत्परिहारवाक्यं तत्‌ ऋचामेवफलसाधनत्वप्रतीति निरासाय व्याचष्ये ॥ याज्येति ॥ याहुता उज्वलन्ति देवलोकमेवताभिः जयतीत्यादिवाक्यं पूवर्वद्वद्वयाचष्ये ॥ उज्ज्वलदिति ॥ उज्ज्वलत्सुशब्दवत्सुद्राविषु अधोद्रवणवत्सुहविःषु । कतमासादेवतेति प्रश्ऱ्नेमन एवेति कथमुत्तरमुच्यत इत्यत आह ॥ मनस इति ॥ अनन्तं वैमनोनन्ताविश्ऱ्वेदेवा इत्यस्याभिप्रायः सर्वदेवेषु संस्थित इति । अनन्तमेवसतेन लोकं जयतीत्येतत्‌ तेन मनसेति प्रतीति निरासाय तत्परामृश्यं दर्शयन्व्याचष्ये ॥ देवेति ॥ तेन स्मरणेन विश्ऱ्वेषां देवानां स्वरूपानन्त्यस्य सर्वसाधारण्यात्‌ पदादेश्ऱ्चनाशात्कथमनन्तत्वमित्यतः प्रकारद्वयेनोपपादयति ॥ निश्ऱ्चयेनेति ॥ तेषामपरोक्षज्ञानित्वादिति भावः । विमोक्ष्यत्वात्‌ मोक्षरूपानन्तफलभाक्त्वादित्यर्थः । पृथिवीलोकमेव पुरोनुवाक्यया जयतीत्यादिवाक्यं तासामेवफलसाधनत्वमुच्यत इति प्रतीति निरासाय व्याचष्ये ॥ पुरोवाक्यादिष्विति ॥ ऋगाहुति मनस्तोत्रिया सुस्थितामूर्त्तीराह ॥ अत्रापीति ॥ अथ सम्पद इत्येतद्वयाचष्ये ॥ अत्र सर्वेषामधिकारित्वे कथमुक्तसम्पछब्दनिर्वचनमित्यत आह ॥ एता इति ॥ उपासना इत्यर्थः । उपासनाभावेपि ज्ञानमात्रं मनुष्याणां स्यादेवेत्यत आह ॥ मनुष्याणशमिति ॥ ततश्ऱ्चायंखण्डार्थः ॥ विदेहानां वंशभवोवैदेहोजनकोनामहकिलबभूव । सच बहुदक्षिणेन यज्ञेनशाखां तरे एतन्नाम्नाप्रद्धिन । बहुदक्षिणाविशिष्येनाश्ऱ्वमेधादिना वा । ईजे अयजत । तत्र तस्मिन्यज्ञे हविद्वद्बाहुच्येन प्रसिद्धानां कुरूणां पाञ्चालानां च देशानाम्‌ । ब्राह्मणा अभिसमेता बभूवुः । तान्दृष्त्तवतस्तस्य हजनकस्यवैदेहस्य । कःस्वित्‌ कोनु एषां ब्राह्मणानां मध्येऽनूचानतमोतिशयेनानूचानोब्रह्मिष्ठ इति विजिज्ञासाविशेषेणज्ञातुमिच्छाबभूव । पश्ऱ्चात्सजनकोह तद्विज्ञानोपायभूतं गवां

?Rसहस्रम्‌ । गोष्ठे (यज्ञावाटसमीप इति स्वामिनः) वरुरोधावरोधं कारयामास । तासामेकैकस्याः गोः ृङ्गयोः दशदशपादाः पलस्य चतुर्थभागः पादः । एवम्भूताः सुवर्णस्य दशदशपादाः आबद्धाबभूवुः । ृङ्गयोरिति द्विवचनात्प्रतिृङ्गं पञ्चपञ्चपादाः अबद्धा इत्यर्थः । एवं गा अवरुध्यजनकस्तान्ब्राह्मणान्हकिल उवाच । हे ब्राह्मणा भगवन्तःपूजार्हा इति सम्बोध्य । यो वोयुष्माकं मध्ये ब्रह्मिष्ठोतिशयेन ब्रह्मज्ञः । स एता अवरुद्धा गा उदाजतां स्वगृहं प्रत्युद्गमयत्वित्युक्ते । ते ब्राह्मणाहकिलनदधृषुः धैर्यवन्तोना भवन्‌ । आत्मनो ब्रह्मिष्ठतां प्रतिज्ञातुमितिशेषः । अथानन्तरं याज्ञवल्क्योहकिलस्वं स्वीयमेव ब्रह्मचारिणमन्तेवासिनमुवाच । किं हे सौम्यसामश्रवा इत प्लुतिः दूरादाह्वानार्था । सामविधिं शृणोतीति सामश्रवास्तत्सम्बाधनं सामश्रव । एतागा उदाज अस्मद्गृहं प्रति उद्गमाह । एवं गुरुवचनं श्रुत्वाहकिल ब्रह्मचारी । तागाः उदाचकार उत्कलितवान्‌ नीतवानाचार्यगृहं प्रति । एवं ब्रह्मिष्ठाय निर्दिष्यगवामपहरणशत्‌ याज्ञवल्क्येन स्वात्मनो ब्रह्मिष्ठत्व स्वीकरणशदस्माकमब्रह्मिष्ठता प्रतिज्ञायत इति मन्वानास्ते ह ब्राह्मणाश्ऱ्चुक्रुधुः क्रोधं कृवन्तः । तेषां क्रोधाभिप्रायेनिमित्तमाह ॥ कथमिति ॥ नोऽस्माकं एकैकप्रधानानामग्रे ब्रह्मिष्ठोस्मीति कथमयं ब्रवीति कथयेत्‌ । इतिशब्दोभिप्रायसमाप्तिद्योतकः । अथ क्रोधानन्तरं हजनकस्याश्ऱ्वलोनामहोताऋत्विग्बभूव । सब्रह्मिष्ठभिमानीराजाश्रयात्‌ धृष्यस्सन्‌ एनं याज्ञवल्क्यं पप्रच्छ । कथम्‌ । हे याज्ञवल्क्यनोऽस्माकमग्रे । त्वं नुखलु ब्रह्मिष्योसीति प्लुतिः भर्त्सनार्था । अनौद्धत्यं ब्रह्मविदोलिङ्गमिति सूचयन्‌ स याज्ञवक्लयोह उवाच । वयं ब्रह्मिष्ठाय नमस्कुमर्ः । किमिति तर्हि ब्रह्मिष्ठपरभूतागावः स्वगृहं प्रतिप्रस्थापिता इत्यत आह ॥ गोकामा इति ॥ वयं गोकामा एवस्म । अतो गोग्रहणं कृतवन्त इति मुनिनोक्ते । ततो ब्रह्मिष्ठपणस्वीकरणादेव होताश्ऱ्वलस्तं प्रष्युं दध्रेधृतवान्मनः । याज्ञवल्क्येति सम्बोध्योवाच । किम्‌ । इदं सर्वं प्राणिजातं यत्‌ येन मृत्युना आप्तं प्राप्तम्‌ । न केवलमेतावत्‌ । किन्तु मृत्युनाभिप्रन्नं ग्रस्तं च । तस्य मृत्योराप्तिं यजमानः केनोपायेनाति अतिक्रम्यमुच्यत इति पृष्योयाज्ञवल्क्य उत्तरमाह ॥ होत्रेति ॥ होत्रादिषु स्थित्वातत्तत्कर्मकर्तृत्वेन निमित्तेनहोत्रग्निवाक्‌ शब्दवाच्येन वासुदेवेनोपासितेन । यजमानोति मुच्यत इति सम्बन्धः । अधिष्ठानभेदेन परमात्मनोरूपस्य भेदोनाशङ्कनीय इति भावने वाक्‌ स्थितस्य होस्थस्य परमात्मरूपस्य चाभेदमाह ॥ वाग्वा इति ॥ वाक्‌ वागन्तर्गतो वाङ्‌नामावासुदेव एव । यज्ञस्य होताहोतृसंस्थोहोतृनामक इति । वैप्रसिद्धमित्यर्थः । इदानीं वागन्तर्गतस्याग्निस्थस्य चाभेदमाह ॥ तद्येयमिति ॥ साचासौयाच तद्या प्रसिद्धायेयं वाक्‌ वागन्तदर्गतोवाङ्‌नामावासुदेवः । सोयमग्निः अग्निस्थोग्निनामा । इदानीमग्निस्थस्य होतृसंस्थेनाभेदमाह ॥ स इति ॥ सोग्निस्थोग्निनामाभगवान्होताहोतृनामक इत्यर्थः । वागादिस्थस्य कथं मृत्युमोचकत्वमित्यत आह ॥ स इति ॥ योवागादिस्थः समुक्तिः मोक्षप्रदः । मुच्यते नेनेतिव्युत्पत्तेः । न केवलं सर्वसाधारणशविद्यानिवृत्त्यादिरूपमुक्तिदः । किन्तु सातिमुक्तिः अतिशयितमुक्तिदः । मुक्तौ मनुष्येभ्य अधिकं सुखं देवेभ्यः प्रयच्छतीत्यर्थः ॥ 3 ॥ एवमेवोत्तरखण्डत्रयमपि व्याख्येयम्‌ । अहोरात्राभ्यन्तद्विकाराभ्यामित्यर्थः । एवं पूर्वपक्षापरपक्षाभ्यामित्येतदपि व्याख्येयम्‌ । अध्वर्युणाचक्षुषादित्येन अध्वर्य्वादिगतेन सङ्कषणेन । उद्गात्रावायुना प्राणेन । तन्निष्ठप्रद्युम्नेन यद्यस्मादिदं प्रसिद्धमन्तरिक्षं आकाशमनारम्भणमनालम्बनमिवाभासते । अथ तस्मात्केनाक्रमणसाधनेनावष्यम्भेन । यजमानः । स्वर्गलोकं मोक्षमाऋमते प्राप्नोतीत्यर्थः । ब्रह्मणामनसाचन्द्रेणतदन्तर्गतानिरुद्धेनेत्यर्थः । उक्तमुपसंहरति ॥ इत्यतिमोक्षा इति ॥ अतिशयितमोक्षसाधनीभूतोपासनाः इति निरूपिता इत्यर्थः । अथ मोक्षसाधनोपासनानिरूपणशनन्तरम्‌ । सम्बदः देवपदप्राप्तिरूपसम्पत्साधनीभूता उपासनानिरूप्यन्ते ॥ 6 ॥ ता उपासनावक्तुमाश्ऱ्वलप्रश्ऱ्नमवतारयति ॥ याज्ञवल्क्येति ॥ कतिभिः कतिसङ्खयाभिः । ऋग्भिरयं होता । अद्याऽस्मिन्यज्ञे । शंसनं करिष्यतीति पृष्ये । तिसृभिर्ऋग्भिरित्युत्तरमुक्तवन्तं प्रतिपुनस्तासां स्वरूपं पृच्छति ॥ कतमा इति ॥ किं स्वरूपास्ताऋच इति पृष्ये ॥ पुरोनुवाक्याचेति ॥ पुरोनुवाक्याप्रयोगकालात्प्राक्‌ होतृप्रयुज्यमाना ऋग्जातिः । याज्याच यागार्थं प्रयुज्यमानाऋग्जातिः । शस्याशस्त्रार्थं प्रयुज्यमानाऋग्जातिस्तृतीयात्रित्व सङ्खयापूरिका । एतस्याः फलं पृच्छति ॥ किमिति ॥ ताभिः वासुदेवाख्यविष्ण्वधिष्ठानभूताभिस्तत्रत्यवासुदेवेनेति यावत्‌ । किं जयतीति पृष्ये उत्तरमाह ॥ यत्किञ्चेदं प्राणभृदितीति ॥ तज्जयतीत्यन्वयः । सर्वप्राणभृदधिपतिः भवतीत्यर्थः ॥ 7 ॥ याहुताः समिदाज्ज्याहुतयः उज्ज्वलन्ति । याहुतामांसाहुतयः अतिनेदं ते अतीवशब्दं कुर्वन्ति । याहुताः पयः सोमाहुतयः । अधिअधोगत्वाभूमेरधः शेरते । फलं पृच्छति ॥ किमिति ॥ ताभिः सङ्कर्षणाधिष्ठानभूताभिस्तिसृभिराहुतिभिस्तद्गतसङ्कर्षणेनेति यावत्‌ । किं जयतीति पृष्ये उत्तरमाह ॥ या इति ॥ या आहुतयोहुता उज्ज्वलवन्ति । ताभिर्देवलोकमेवजयति देवलोकाधिपत्यं लभते । कथमित्यपेक्षायामुज्ज्वलत्वसाम्यादित्याह ॥ दीप्यत इवहीति ॥ एवमुत्तरत्रापि । पितृलोक अतीवात्यंन्तनेदते । आस्फोटयन्ति पितर इत्यादिवचनात्‌ । अध इव

?Rहिमनुष्यलोक इति । नरकाद्यधोगतिसाम्यव्यावर्तनाय इव शब्दः । देवलोकपितृलोकपेक्षया अधस्तन इत्यर्थः ॥ 8 ॥ अद्यब्रह्माऽऽहनीयस्य दक्षिणतोदक्षिणभागे । ब्रह्मासनेस्थित्वा । कतिभिः देवताभिः यज्ञं गोपयतीति । अन्यत्पूर्ववत्‌ मन एवेति मनोभिमानीचतुर्मुख एव तं स्तौति ॥ अनन्तं वा इति ॥ मनस उक्तमनन्तत्वमुपपादयति ॥ अनन्ता इति ॥ यदधिष्ठिताविश्ऱ्वेदेवा अप्यनन्ताः । किं मनोनन्तमित्यर्थः । निश्ऱ्चयेन विमोक्ष्यत्वादनन्तनामकविष्णूपासकत्वाद्वा विश्ऱ्वेदेवा अनन्तकाः तत्फलमाह ॥ अनन्तमेवेति ॥ तेन मनसातदभिमानि चतुर्मुखेन तदधिष्ठानभूतदेवेषु च विद्यमानेन प्रद्युम्नेन । अनन्तनामकं विष्णुलोकं यजति ॥ 9 ॥ स्तोत्रियाः सामारूढा ऋचः ताऋचः अध्यात्मं याः यदभिमन्यमानाः तादेवताः कतमा इत्यर्थः । पुरोनुवाक्यया पुरोनुवाक्याभिमानिप्राणगतेन । याज्ययायाज्याभिमान्यपानगतेन । शस्य या शस्याभिमानि व्यानगतेनानिरुद्धेनेत्यर्थः । ततः स्वकृतप्रश्ऱ्नोत्तरदानाद्धोताश्ऱ्वल उपररामतूष्णीं बभूव ॥ 10॥ इत्याश्ऱ्वलब्राह्मणम्‌ ॥ 1 ॥ आकाशमात्मेत्यस्यात्मा आत्माभिव्यक्त्यधिष्ठानं हृदयाकाशं महाकाशमप्येतीति व्याख्यानमसत्‌ । आत्मशब्दस्य लाक्षणिकत्वापत्तेः । शरीरनियामकपरमात्मनः क्वचिद्गत्यनुक्तिप्रसङ्गाच्चेति भावेनाकाशशब्दं व्याचष्ये ॥ आकाशमिति ॥ तथाचात्माहृद्गतः परमात्माऽऽकाशं व्याप्तं स्वभूलरूपपरमात्मानमेवाप्येति गच्छतीत्यर्थ इति भावः । एतेनात्माजीव आकाशमेतीति जीवगन्तव्यस्य स्वयमेवोक्तत्वात्‌ क्वायं तदापुरुषोभवतीति प्रश्ऱ्नोऽयुक्त इत्येतदपि परास्तम्‌ । ननु नेति होवाचयाज्ञवल्क्य इति प्राणानामुक्त्रमणाभावोक्तिः कथम्‌ । तमुक्त्रामन्तं प्राणोनूक्त्रामतीत्यादि विरोदादिति चेत्‌ । न प्राणा उक्त्रामन्तिनवेति प्रश्ऱ्नवाक्यस्येन्द्रियाभिमानिदेवताविशिष्यो जीवोपरोक्षज्ञानीब्रह्मनाड्योक्त्रामति न वेत्यर्थमभिप्रेत्यज्ञानी उक्त्रामति न वेति प्रश्ऱ्नस्य नेति परिहारात्‌ । तथापि अपरोक्षज्ञानिन उक्त्रमणा भावोक्तिः कथम्‌ । तस्य हैतस्य हृदयस्याग्रं प्रद्योततेन प्रद्योतनेनैष आतमानि ष्क्त्रमतीत्युत्तरवाक्यविरोधादित्यतोऽधिकारविशेषपरतयेदं व्याचष्ये ॥ केचित्त्विति ॥ आत्मत्वमात्रोपासका अत्यल्पामानुषा इत्यर्थः । यथोक्तम्‌ । आत्मेत्येवं परं देवमुपास्य हरिमव्ययम्‌ । केचिदत्रैवमुच्यन्तेनोक्त्रामन्तिकदाचन । अत्रैवचस्थितिस्तेषामिति । स उच्छ्वयति अध्मायति आध्मातोमृतः शेत इत्यस्यार्थः मरणोच्छूनतादीनिति । नन्वपरोक्षज्ञानिन उत्तरपूर्वाघयोरश्ऱ्लेषविनाशोक्तेः दोषान्भुक्त्वैवसर्वश इति कथमुक्तं इत्यत उक्तम्‌ ॥ स्वकीयारब्धकर्मजानिति ॥ प्रारब्धकर्मणस्तुभोगेनैवक्षय इति भावः । अत एव सर्वशोभुक्त्वैवेत्युक्तम्‌ । बहुनात्र किमुक्तेनयावच्छ्वेतं न गच्छति । योगीतावन्नमुक्तः स्यादित्युक्तेरत्रैवतिष्ठन्तीति कथमुक्तमित्यत आह ॥ दृष्ट्वाविष्णुमिति ॥ सकृच्छ्वतद्वीपं गत्वातत्र विष्णुं दृष्ट्वेत्यर्थः । अत्रैवसमवनीयन्त इत्येतद्वयाचष्ये ॥ अत्रैवतिष्ठन्तीति । पूर्वमप्यत्रैवस्थितत्वात्कोविशेष इत्यतः संशब्दार्थमाह ॥ नित्यानन्दैकभोगिन इति ॥ तथाच यत्रायंपुरुष इत्येतत्‌ जात्येकवचनमित्युक्तं भवति । केचिदत्यल्पामानुषा अपरोक्षज्ञानिनोदेहपाते प्रत्यासन्नेस्वकीयारब्धकर्मजन्मरणोच्छूनतादींस्तुदेहस्य दोषान्सर्वशोभुक्त्वैवस्थितानां देहेक्षीणेदेहतोणीणेदेहतोनुक्त्रम्यैवब्रह्मनाड्याऽनूक्त्रम्यैवचक्षुरादिद्वारान्तरेणनिर्गत्यमुक्तिलिङ्गभङ्गरूपां गच्छन्ति प्राप्नुवन्ति । तदनन्तरं सकृत्‌ श्ऱ्वेतद्वीपं गत्वातत्र विष्णुं दृष्ट्वातदनुज्ञयापुनरत्रैवभूलोक एव नित्यानन्दैकभोगिनः सन्तस्तिष्ठन्तीति योजना । उक्त्रमणप्रतिपादकवाक्यस्या विषयमाह ॥ देहादिति ॥ तुशब्दोविशेषार्थः । मनुष्यकुलेजातादेवास्तुदेहाद्ब्रह्मनाड्योक्त्रम्ययान्ति । स्वमूलरूपमिति शेषः । यद्वा तुशब्दश्ऱ्चशब्दार्थः । तेन समुच्चिताः सच्चिदानन्द आत्मेति चतुर्गुणोपासकामनुष्योत्तमाब्रह्मनाड्यादेहादुक्त्रम्यसनातनं विष्णुं यान्तीत्यार्थः । यद्वाऽत्रैवसमवनीयन्त इति वाक्यमस्मिन्नेवदेहेलीयन्त इति प्रतीति निरासाय व्याचष्ये ॥ देहादिति ॥ देवा इन्द्रियाभिमानिनोदेहान्मुच्यमानजीवदेहादुक्त्रम्यनिर्गत्य । विष्णुमनुयान्तीत्यर्थः । यद्वक्ष्यति । अनुयान्तिशरीरस्था इत्यादि । अनेनात्रैवजीवमादायगच्छति विष्णावेवसमवनीयन्ते तमनुगच्छन्तीति वात्रानेन जीवमादायगच्छताविष्णुनासमवनीयन्तेस्वसहायेन नीयन्त इति वार्थ उक्तो भवति । देवानिति कतवचित्पाठः । तत्र केचिन्मानुषाः इत्यनुवर्तते । तुशब्दश्ऱ्चशब्दार्थः । केचिन्मनुष्याश्ऱ्चतुर्गुणोपासकादेहादुक्त्रम्यदेवान्‌ विष्णुं च यान्त्यतस्तदभिप्रायमाह ॥ देहादिति ॥ देवावागाद्यभिमानिनः । भागत एवरूपान्तरेणैव । स्वाधिदैवमग्न्यादिकम्‌ । तानुक्त्रम्ययातान्‌ जीवान्‌ । ननु प्रज्ञेनात्मनान्वारूढ उत्सर्जद्यातीति मरणकाले परमात्मनोपि जीवेन सह गत्युक्तेराकाशमात्मेति कथमुक्तमित्यतस्तद्ययाचष्ये ॥ आकाशाख्यमिति ॥ भागतोयातीति सम्बन्धः । पुण्यःपुण्येन कर्मणेत्यत्र कमर्साध्यत्वेनोक्तः पुण्योनमोक्षः । तस्य ज्ञानमात्रसाध्यत्वात्‌ । तस्मात्तदुपलक्षणपरमिति भावेन ज्ञानस्य स्वातन्त्ऱ्यनिरासायाह ॥ ज्ञानस्थितेनेति ॥ पुण्यपापयोरेव पुण्यलोकादिहातुत्वमिति प्रतीतिनिरासाय पुण्यं पुण्येनेत्यादिवाक्यं व्याचष्ये ॥ ज्ञानस्थितेनेति ॥

?Rहरिरित्यनुवर्तते । ददातीति शेषः । अन्यगः पापगः । इदञ्चाप्यतिगोप्यत्वात्‌ यस्मैकस्मैचननवाच्यमिति भावेनाह ॥ रहस्यमेतदिति ॥ ज्ञानस्थितेनरूपेणेत्याद्युक्तमेतत्‌ देवानां रहस्यं दैवतैः गोप्यम्‌ । अन्येषामप्येतादृशज्ञानसत्वेकथमेतद्देवानां रहस्यमित्यत आह ॥ विदुरिति ॥ मानुषाः स्वर्गनरकहेतु । पुण्यपापरूपं कमर्ेति विदुः । तस्माद्देवरहस्यत्वादेतत्‌ ज्ञानादिस्थितरूपेण मुक्त्यादिदानरूपं विष्णोः कर्म एतज्जनेषु साधारणजनेषु न प्रकाशयेदित्यर्थः । एकान्तेसंमन्त्रणेकिं प्रयोजनमित्यत आह ॥ अत एवेति ॥ यद्वात्रैवैतदुपानिषद्गतमवष्यम्भकमाह ॥ अत एवेति ॥ यतो जनेषु न प्रकाशयेदत एवेत्यर्थः । कमर्हैवतदूचतुरित्यादावुक्तकर्मशब्दार्थमाह ॥ कर्मनामात्विति ॥ अनेन पुण्येन कर्मणेत्युक्तकर्मशब्दोपि व्याख्यातः । पुण्येन पापेनेत्येतत्‌ पुण्यस्थेन पापस्थेन हरिणेति व्याख्यातम्‌ । तत्र पुण्यपापशब्दौ निर्वक्ति ॥ पातनादिति ॥ ततश्ऱ्चायंखण्डार्थः ॥ B-18

]