[[तवकारोपनिषत् मूलम् भाष्यम् Source: EB]]
[
** श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं तƒवकारोपनिषद्भाष्यम् ॥**
अथ तƒवकारोपनिषत्
प्रथमः खण्डः ॥
केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥1॥
श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥2॥
न तत्र चक्षुर्गच्छति न वाग् गच्छति नो मनः । न विद्म न विजानीमो यथैतदनुशिष्यात् ॥3॥
अन्यदेव तद् विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्य्वाचचक्षिरे ॥4॥
यद् वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥5॥
यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥6॥
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥7॥
यच्छ्रोत्रेण न श?ृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥8॥
यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥9॥
इति प्रथमः खण्डः
तƒवकारोपनिषत् भाष्यम् ॥
प्रथमः खण्डः ॥
अनन्तगुणपूर्णत्वादगम्याय सुरैरपि ।
सर्वेष्टदात्रे देवानां नमो नारायणाय ते ॥
वैजयन्ते समासीनमेकान्ते चतुराननम् । विष्णोर्विविदिषुस्तत्त्वं पर्यपृच्छत् सदाशिवः ॥
यदिदं पुरुषावश्यं तत्र तत्र पतेन्मनः । केन तत्प्रेरितं याति प्राणः सर्वोत्तमस्तथा ॥
चक्षुःश्रोत्रं तथा वाचं को देवो विनियोजयेत् । इति पृष्टस्तदा ब्रह्मा प्राह देवमुमापतिम् ॥
ध्यात्वा नारायणं देवं सर्वाधारमनूपमम् । सर्वज्ञं सर्वशक्तिं च सर्वदोषविवर्जितम् ॥
यः प्राणस्य प्रणेता च चक्षुरादेश्च सर्वशः । अगम्यस्सर्वदेवैश्च परिपूर्णत्वहेतुतः ॥
प्राणादीनां प्रणेता च सर्ववेत्ता च सर्वशः । सर्वोत्तमश्च सर्वत्र स विष्णुरिति धार्यताम् ॥
॥ इति प्रथमखण्डभाष्यम् ॥
**********************************************************************************
द्वितीयः खण्डः - मूलम्
यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।
यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ॥1॥
नाहं मन्ये सुवेदेति नाहं नो न वेदेति वेद च ।
यो नस्तद् वेद तद् वेद नो न वेदेति वेद च ॥2॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥3॥
प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेमृतम् ॥4॥
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीत् महती विनष्टिः ।
भूतेषु भूतेषु विचिन्त्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥5॥
इति द्वितीयः खण्डः ॥
द्वितीयः खण्डः - भाष्यम्
यं सम्यङ् नैव जानाति कश्चिन्निरवशेषतः । सर्वात्मना विजानामीति तु यस्य मतं भवेत् ॥
तस्याज्ञातस्स भगवान् यो नैवं मन्यते सदा । ज्ञातस्तस्य तथास्त्यैव निश्शेषं मननं कृतम् ॥
इति यो मन्यते नास्य मतस्स पुरुषोत्तमः । नातिवेद्यो न चावेद्यस्तस्मात् स परमेश्वरः ॥
नेदं जीवस्वरूपं तद् ब्रह्म विष्ण्वाख्यमव्ययम् । किन्तु यत्ते समीपस्थमास ते विनियामकम् ॥
तदेव ब्रह्म विद्धि त्वं विष्ण्वाख्यं परमव्ययम् । नियामकं तद्देवानां मर्त्यानां किमुतोत्तमम् ॥
तत्प्रसादं विना जीवे मन्तव्या न प्रवृत्तयः । किमु जीवस्य तद्भावो न मन्तव्य इतीर्यते ॥
॥ इति द्वितीयखण्डभाष्यम् ॥
***********************************************************************************************************************
तृतीयः खण्डः - मूलम्
ब्रह्म ह देवेभ्यो विजिग्ये । तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । त ऐक्षन्तास्माकमेवायं विजयोस्माकमेवायं महिमेति ॥1॥
तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव । तन्न व्यजानन्त । किमिदं यक्षमिति ॥2॥
तेग्निमब्रुवन् । जातवेद एतद्विजानीहि किमेतद् यक्षमिति ॥3॥
तथेति तदभ्यद्रवत् तमभ्यवदत् कोसीति । अग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥4॥
तस्मिन् त्वयि किं वीर्यमिति । इदं सर्वं दहेयं यदिदं पृथिव्यामिति ॥5॥
तस्मै तृणं विदधावेतद्दहेति । तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुम् । स तत एव निववृते । नैतदशकं विज्ञातुं यदेतत् यक्षमिति ॥6॥
अथ वायुमब्रुवन् वायवेतद् विजानीहि किमेतद् यक्षमिति । तथेति ॥7॥
तदभ्यद्रवत् तमभ्यवदत् कोसीति । वायुर्वा अहमस्मीत्यब्रवीत् मातरिश्वा वा अहमस्मीति ॥8॥
तस्मिंस्त्वयि किं वीर्यमित्यपि । इदं सर्वमाददीयं यदिदं पृथिव्यामिति ॥9॥
तस्मै तृणं निदधावेतदादत्स्वेति । तदुपप्रेयाय सर्वजवेन । तन्न शशाकादातुम् । स तत एव निववृते । नैतदशकं विज्ञातुं यदेतत् यक्षमिति ॥10॥
अथेन्द्रमब्रुवन् । मघवन्नेतद् विजानीहि किमेतद् यक्षमिति । तथेति तदभ्यद्रवत् । तस्मात् तिरोदधे ॥11॥
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीम् । तां होवाच किमेतत् यक्षमिति ॥12॥
इति तृतीयः खण्डः ॥
तृतीयः खण्डः- भाष्यम् ।
इत्यत्राख्यायिकां वच्मि शृणु तां त्वं महेश्वर । स्थित्वा देवेषु तद् ब्रह्म व्यजयद्दैत्यदानवान् ॥
देवेभ्योर्थाय विजयं ते देवा मेनिरे स्वकम् । आविष्टा असुरैस्तेषां प्रबोधाय जनार्दनः ॥
यक्षरूपः प्रादुरभूदुमाशिवसमन्वितः । ब्रह्मणा चापि सहित एतेभ्योपि परो ह्यहम् ॥
एतेपि मे भृत्यभूताः परिवार्य व्यवस्थिताः । इति ज्ञापयितुं विष्णुः सह तैरप्युपागतः ॥
यूयमेतानपि ज्ञातुमशक्ताः किमु मामिति । तज्ज्ञानार्थं हुताशश्च नासिक्यो वायुरेव च ॥
इन्द्रश्च क्रमशो जग्मुस्तं ज्ञातुं नैव चाशकन् । तत्रेन्द्रोधिकबुद्धित्वात् पृच्छतीति जनार्दनः ॥
मत्तः शिवाद् ब्रह्मणश्च श्रोतुं नैवापि शक्तिमान् । इति ज्ञापयितुं तत्र नादृश्यत स केशवः ॥
एषैव ज्ञानदाने ते योग्योमेति व्यदर्शयत् ॥
॥ इति तृतीयखण्डभाष्यम् ॥
*********************************************************************
तवकारोपनिषत् - मूलम्
ब्रह्मेति होवाच । ब्रह्मणो वा एतद्विजयेमहीयध्वमिति । ततो वै विदाञ्चकार ब्रह्मेति ॥1॥
तस्माद् वा एते देवा अतितरामिवान्यान् देवान् यदग्निर्वायुरिन्द्रस्ते ह्येतन्नेदिष्ठं पस्पृशुः ॥2॥
ते ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ॥3॥
तस्माद्वा इन्द्रोतितरामिवान्यान् देवान् । स ह्येनन्नेदिष्ठं पस्पर्श । स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ॥4॥
तस्यैष आदेशो यदेतद् विद्युतो व्यद्युतदा3 इति । न्यमीमिषदा3 इत्यधिदैवतम् । अथाध्यात्मम् ॥5॥
यदेतद्गच्छतीव च मनोनेनैव तदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥6॥
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यम् । स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ॥7॥
उपनिषदं भो ब्रूहीति । उक्ता त उपनिषद् । ब्राह्मी वाव त उपनिषदमब्रूमेति ॥8॥
तस्मै तपो दमः कर्मेति प्रतिष्ठा । वेदाः सर्वाङ्गानि सत्यमायतनम् ॥9॥
यो वा एतामुपनिषदमेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥10॥
इति तƒवकारोपनिषत् ॥
तवकारोपनिषत् - भाष्यम्
उमा सा सम्यगाचष्ट तस्मै विष्णुं परं पदम् । यस्माद् ब्रह्मा च वायुश्च शेषवीन्द्रौ शिवस्तथा ॥
सभार्या गर्विणो नासन् सुरेभ्यस्तेधिकास्ततः । इन्द्रस्तु प्रथमं ब्रह्म व्यजानात् तेन तूत्तमः ॥
दक्षादिभ्यस्तथा कामः स ज्ञातुं पूर्वमुक्तवान् । दक्षो बृहस्पतिश्चैव मनुः कामात्मजस्तथा ॥
सूर्याचन्द्रमसौ धर्मो वरुणश्चोचुरोमिति । नासिक्यवायुरग्निश्च प्रथमं तदपश्यताम् ॥
सर्वदेवाधिकास्तस्माद् एते देवाः प्रकीर्तिताः । एतेभ्यश्चेन्द्रकामौ तु ताभ्यां ब्रह्मादयोधिकाः ॥
एतेषामवमो वह्निः परमो विष्णुरुच्यते । अन्तराƒे स्थितास्त्वन्ये ब्रह्माद्याः पूर्वमीरिताः ॥
अग्निः पश्चाद्य्वजानात् तदिन्द्रवाक्यात् ततोवमः । तस्माद्विष्ण्वभिसम्बन्धात् पारावर्यं सुुरेष्विदम् ॥
व्यद्योतयद्विद्युदादीन् कपिƒाख्यस्तु यो हरिः । अक्ष्णोर्निमेषणं कृत्वा यः शेते क्षीरसागरे ॥
स एवैकः परं ब्रह्मेत्येवं तस्योपदेशनम् । अधिदैवे तथाध्यात्मे यं मनो गच्छतीव च ॥
सम्यङ् न गच्छति क्वापि मनो येन स्मरत्यपि । सोनिरुद्धाख्य ईशेशः परं ब्रह्मेति कीर्त्यते ॥
स विष्णुस्तद्वनं नाम ततत्वाद् वननीयतः । एवमेनं तु यो वेद भवेत् सर्वैरपेक्षितः ॥
एतत् श्रुत्वा हरोपृच्छद् ब्रह्माणं पुनरेव तु । विद्याकारं मम ब्रूहीत्युक्तो ब्रह्माह तं पुनः ॥
विद्यावेद्यं तव प्रोक्तमास्थानं ते वदाम्यहम् । तपोदानस्वधर्मेषु ये स्थितास्तेषु तिष्ठति ॥
विद्या स्थानानि तस्यास्तु वेदा अङ्गानि निर्णयः । वेदैतामेवमखिƒां यो विष्णौ प्रतितिष्ठति ॥ इत्यादि ब्रह्मसारे ॥
विद्युतः सूर्यादिप्रकाशान् । आसमन्ताद्य्वद्युतत्प्राकाशयत् ।
“यदादित्यगतं तेजो जगद्भासयतेखिƒम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥’ इति वचनात् ।
“तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ इति च । न्यमीमिषत् आ समन्तान्निमीिƒताक्षमभवत् ।
“स वै किƒायं पुरुषः पुरातनो य एकः आसीदविशेष आत्मनि ।
अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीिƒतात्मा निशि सुप्तशक्तिषु ॥’ इति वचनात् ।
पूर्णत्वाच्च आः । अभीक्ष्णं सङ्कल्प इति मनसो विशेषणम् । सङ्कल्पकमित्यर्थः । सप्रतिष्ठां सायतनामुपनिषदं ब्रूहीत्युक्ते सम्यगेव मयोपनिषत्स्वरूपमुक्तम् । तत्र वक्तव्यं नास्ति । तपो दमः कर्म च विद्यायाः प्रतिष्ठा । तद्वत्सु विद्या प्रतितिष्ठतीत्यर्थः । सत्यमिति मीमांसा ।
“निर्णीयते यतः सम्यगिदं सत्यमिति स्फुटम् । श्रुतिस्मृत्युदितं सर्वं व्यक्तं मीमांसयैतया ॥
सत्यमित्युच्यते तस्मान्मीमांसा ब्रह्मनिश्चयः ॥’ इति शब्दनिर्णये ॥
“ऋग्यजुस्सामाथर्वाख्याः पञ्चरात्रं च भारतम् । मूƒरामायणं चैव पुराणं भगवत्परम् ॥
वेदा इत्युच्यते सद्भिः शिक्षाद्यं स्मृतयस्तथा । अङ्गानि सत्यं मीमांसा तद्विद्यायतनं त्रयम् ॥’ इति विद्यानिर्णये ॥
यश्चिदानन्दसच्छक्तिसम्पूर्णो भगवान् परः ।
नमोस्तु विष्णवे तस्मै प्रेष्ठाय प्रेयसां च मे ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं तƒवकारोपनिषद्भाष्यम् ॥
*****************************************************************************************************
]