[[तैत्तिरीयोपनिषत् मूलम् च भाष्यम् Source: EB]]
[
तैत्तिरीयोपनिषत्
शिक्षावल्ली- मूलम्
ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥1॥
ॐ शिक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बƒम् । साम सन्तानः । इत्युक्त शीक्षाध्यायः ॥2॥
सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः सं?हितायाः उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधिƒोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासं?हिता इत्याचक्षते ॥3॥
अथाधिƒोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः । वायुः सन्धानम् । इत्यधिƒोकम् ॥4॥
अथाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः । वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् ॥5॥
अथाधिविद्यम् । आचार्यः पूर्वरूपम् । अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनं? सन्धानम् । इत्यधिविद्यम् ॥6॥
अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा सन्धिः । प्रजननं? सन्धानम् । इत्यधिप्रजम् ॥7॥
अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् । इत्यध्यात्मम् । इतीमा महासं?हिताः । य एवमेता महासं?हिता व्याख्याता वेद । सन्धीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण ƒोकेन ॥8॥
यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योध्यमृतात् सम्बभूव । समेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोसि मेधयापिहितः । श्रुतं मे गोपाय ॥9॥
आवहन्ती वितन्वाना । कुर्वाणा चीरमात्मनः । वासां?सि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । ƒोमशां पशुभिः सह स्वाहा ॥10॥
आ मा यन्तु ब्रह्मचारिणः स्वाहा । वि मा यन्तु ब्रह्मचारिणः स्वाहा । प्र मा यन्तु ब्रह्मचारिणः स्वाहा । दमा यन्तु ब्रह्मचारिणः स्वाहा । शमा यन्तु ब्रह्मचारिणः स्वाहा । यशो जनेसानि स्वाहा । श्रेयान् वस्यसोसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा । तस्मिन् सहस्रशाखे । नि भगाहं त्वयि मृजे स्वाहा ॥11॥
यथापः प्रवता यन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातरा यन्तु ब्रह्मचारिणः स्वाहा । प्रतिवेशोसि प्र मा भाहि प्र मा पद्यस्व ॥12॥
भूर्भुवः स्वरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मै तां चतुर्थीम् । माहाचमस्यः प्रवेदयते । मह इति । तद् ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः ॥13॥
भूरिति वा अयं ƒोकः । भुवः इत्यन्तरिक्षम् । सुवरित्यसौ ƒोकः । मह इत्यादित्यः । आदित्येन वा व सर्वे ƒोका महीयन्ते । भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतीं?षि महीयन्ते । भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूं?सि । मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते । ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स वेद ब्रह्म । सर्वेस्मै देवा बिƒमावहन्ति ॥14॥
स य एषोन्तहृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण ताƒुके । य एषस्तन इवावƒम्बते । सेन्द्रयोनिः । यत्रसौ केशान्तो वि वर्तते । व्यपो ह्यशीर्षकपाƒे ॥15॥
भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ । सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत् ततो भवति ॥16॥
आकाशशरीरं ब्रह्म । सत्यात्मं प्राणारामं मन आनन्दम् । शान्ति समृद्धममृतम् । इति प्राचीनयोग्योपास्व ॥17॥
पृथिव्यन्तरिक्षं द्यौर्दिशोवान्तरदिशाः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । अथाध्यात्मम् । प्राणो व्यानोपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक् त्वक् । चर्म मां?सं?स्नावस्थिमज्जा । एतदधि विधाय ऋषिरवोचत् । पाङ्क्तं वा इदं? सर्वम् । पाङ्क्तेनैव पाङ्क्तं? स्पृणोतीति ॥18॥
ॐ इति ब्रह्म । ॐ इतीदं? सर्वम् । ओमित्येतदनुकृति ह स्म वा अप्यो श्रावयेत्या श्रावयन्ति । ओमिति सामानि गायन्ति । ओं?शोमिति शस्त्राणि शं?सन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति । ब्रह्मैवोपाप्नोति ॥19॥
ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । तपश्च च स्वाध्यायप्रवचने च । दमश्च च स्वाध्यायप्रवचने च । शमश्च च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च ॥20॥
सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥21॥
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि । द्रविणं? सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥22॥
वेदमनूच्याचार्योन्तेवासिनमनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान् मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशƒान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् । देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि । यान्यस्माकं? सुचरितानि । तानि त्वयोपास्यानि । नो इतराणि । ये के चास्मच्छ्रेयां?सो ब्राह्मणाः । तेषां त्वयासनेन प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धया देयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् ॥23॥
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता अयुक्ताः । अƒूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ताः अयुक्ताः । अƒूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवं चैतदुपास्यम् ॥24॥
शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावदिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामवीत् । तद्वक्तारमवीत् । अवीन्माम् । अवीद्वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥
इति शिक्षावल्ली ॥1॥
शिक्षावल्ली-भाष्यम् ॥
तैत्तिरीयोपनिषत् भाष्यम् ॥
सत्यं ज्ञानमनन्तमानन्दं ब्रह्म सर्वशक्त्येकम् । सर्वैर्देवैरीड्यं विष्ण्वाख्यं सर्वदैमि सुप्रेष्ठम् ॥
आदित्यसंस्थितात् विष्णोः श्रुत्वा ब्रह्मा यथा हरिम् । तुष्टाव तत्प्रकारेण वरुणोक्तेन वै भृगुः ॥
विष्णुमस्तौत् तथा प्राह शन्नोमित्रादिका श्रुतिः । यदुवाच हरिस्सूर्यमण्डƒस्थः परः पुमान् ॥
ब्रह्मा तदाह वरुणे वरुणो भृगवेपि तु । शन्नो मित्रादिभिर्वाक्यैस्तैरेव हरिमस्तुवत् ॥
भृगुः पञ्चात्मकं पूर्णमन्नादिमयमच्युतम् । मुक्तगीतावसानैस्तु स्तुतस्तेन जनार्दनः ॥
सुप्रीतः प्रददौ ज्ञानं स्वात्मभक्तिं च शाश्वतीम् ॥ इत्यादि यजुःसंहितायाम् ॥
भृगुवाक्यतया वायुनमस्कारादिकं हरिः । प्रोवाच ब्रह्मणे चैवं वचस्सुबहुदर्शिषु ॥ इति च ॥1॥
वरणीयो वर्णः । स्वरतेस्तु स्वरः । मानात् त्राता मात्रा । बƒरूपः । समश्च सर्वरूपेषु । सन्ततश्च ।
वर्णादिवाचकं रूपं ज्ञेयं वर्णादिनामकम् । विष्णोर्वणादिसंस्थं च पुंसु तत्तत्क्रियाप्रदम् ॥2॥
नारायणादिरूपाणि ƒोकादिषु च पञ्चसु । अनिरुद्धावसानानि ध्येयानि चतुरात्मना ॥
वासुदेवादिकान्येव तानि पूर्वोत्तरार्णयोः । संहितायास्तथा सन्धौ सन्धाने चापि कृत्स्नशः ॥
यो वेदैतानि रूपणि सर्वभोगसमन्वितः । प्राप्नोति वैष्णवं स्थानं मुक्तस्स्वर्गाभिधं परम् ॥3॥
यो विश्वरूपो भगवांश्च्छन्दसामधिपो हरिः । छन्दोभ्योमृतरूपेभ्यस्सुव्यक्तस्तदुपासनात् ॥
मेधावी तत्त्वविज्ञानी भूत्वा क्षिप्रं विमुच्यते ॥ इति च
वेदवासत्वतो विष्णुबर्रह्मकोश इति स्मृतः । भगः षड्गुणपूर्णत्वाद् बहुरूपत्वतो विभुः ॥
सहस्रशाख इत्युक्तस्तमुपास्य जनार्दनम् । मुच्यते नात्र सन्देहस्सर्वभोगैश्च युज्यते ॥ इति प्रक्लृप्ते ।
आवहन्ती चिरं सर्वभोगान् या श्रीस्सनातनी । तां मय्यावह गोविन्द सुशिखण्डोपशोभिताम् ॥ इति च ॥12॥
भूरादिव्याहृतिभिस्तु वाच्यं मूर्तिचतुष्टयम् । अनिरुद्धादिकं वासुदेवान्तं देहमध्यगः ॥
वासुदेवो महोनामा त्वनिरुद्धश्शिरो मतः । भूर्नामाथ भुवोर्नामा बाहू प्रद्युम्न ईरितः ॥
सङ्कर्षणस्सुवर्नामा पादौ तस्य महात्मनः । अनन्योप्यन्यशब्देन चतुरात्मा प्रकीर्त्यते ॥
निर्विशेषोपि भगवान् सङ्ख्यामात्रविशेषतः ॥13॥
ƒोकज्योतिःप्राणवेदेष्वेकस्स पुरुषोत्तमः । प्रत्येकशश्चातुरात्म्यात् षोडशात्मा प्रकीर्तितः ॥
महीयते महति च स्वयं स भगवान् हरिः । पूज्यपूजकभेदोत्र नैव कश्चिदपीष्यते ॥
नामप्रवृत्तिहेतुत्वान्नाम ƒोकादिकं हरेः । अयं समीपस्थतया त्वसौ प्राणे स्थितत्वतः ॥
ईक्षणादन्तरिक्षं चाथादित्यस्त्वदितेस्सुतः । अग्निरग्नौ स्थितत्वाच्च वायुर्वयित यज्जगत् ॥
चन्द्र आह्लादरूपत्वादृगर्च्यत्वाज्जनार्दनः । यजुर्याज्यस्वरूपत्वात् साम चासौ समत्वतः ॥
बृहत्वात् ब्रह्म वेदानां समुदायेखिƒे स्थितः । तत्सम्बन्धाद्वेदराशिबर्रह्मशब्देन कीर्तितः ॥
प्रकृष्टनयनात् प्राणोपानोवाङ्नयनाद्धरिः । विविधं नयनाद् व्यानस्सोन्नं सर्वोपजीव्यतः ॥
एवं षोडशरूपोसौ चतुरात्मा व्यवस्थितः । महाचमसनामासौ यस्मादतिचमत्कृतिः ॥
माहाचमस्यस्तज्ज्ञानी ब्रह्मा सम्परिकीर्तितः । एवं षोडशरूपाणां ज्ञानयोग्यश्चतुर्मुखः ॥
स एव ब्रह्मवित् तस्मात् पूज्यते मुक्तिगोपि सन् । सर्वदेवैरतितरा यस्सम्यक् षोडशात्मवित् ॥ इति व्याहृतितत्त्वे ।
“तस्य भूरिति शिरः एकं शिरः । एकमेतदक्षरम् । भुव इति बाहू । द्वौ बाहू । द्वे एते अक्षरे । सुवरिति प्रतिष्ठा । द्वे प्रतिष्ठे । द्वे एते अक्षरे’ इत्यादिश्रुतेः । सर्वव्याहृतीनां प्रवेत्ता माहाचमस्यश्चतुर्थीत्वेनेतां प्रवेदयत इति विशेषः ।
भूर्नामा स्फूर्तिरूपत्वात् भूरिवीर्यत्वतो भुवः । सुवस्सुबƒरूपत्वात् महः पूर्णत्वतो विभुः ॥
तदेतच्चतुराकारं ब्रह्मोक्तं गुणबृंहणात् । स आत्मा सर्वदेवानां चतुरात्मा जनार्दनः ॥
तस्य ब्रह्मादयो देवा अङ्गमागन्तुकत्वतः । वासुदेवादिरूपोसौ षोडशात्मा चतुश्चतुः ॥
स एव सर्ववेदोक्तस्सर्वविद्यासु चेश्वरः । प्रणवार्था व्याहृतयो व्याहृत्यर्था ऋगादयः ॥
इतिहासपुराणं च पञ्चरात्रं च सर्वशः । सम्यग्व्याहरणात् विष्णोः श्रुता व्याहृतयस्त्विति ॥
सर्ववेदोक्तसर्वस्वव्याहृतेर्व्याहृतित्वमु । विशेषेणाहरन्तीमं विष्णुमित्यथवा स्मृताः ॥ इति व्याहृतिसारे ॥14॥
य एष हृदयाकाशस्त्वनिरुद्धस्तु तद्गतः । प्रद्युम्नस्ताƒुमध्यस्थो ƒम्बिन्यामिन्द्रनामकः ॥
व्याख्यस्सुपर्णरूपत्वात् केशान्ते वर्तते तु यः । सङ्कर्षणस्सुपर्णात्मा वासुदेवोव्ययस्स्मृतः ॥
यस्माद्य्वपगतेस्थाता जगति प्रƒये विभुः । अशीर्षकपाƒोसौ कपाƒादुपरि स्थितः ॥15॥
अनिरुद्धस्तु भूर्नामा हुताशे संव्यवस्थितः । प्रद्युम्नो भगवान् वायौ भुव इत्येव कीर्तितः ॥
सङ्कर्षणस्सुवर्नामा सूर्ये तिष्ठति केशवः । महोनामा वासुदेवो ब्रह्मणिस्थश्चतुर्मुखे ॥
स वासुदेवस्स्वाराज्यं व्याप्यास्मिन् मनसस्पतौ । अनिरुद्धे च संव्याप्तः ततो वागादिनां पतिः ॥
वागादिषु स्थितो नित्यं भवत्येष जनार्दनः ॥16॥
स्वव्यापी च जगद्य्वापी नित्यैश्वर्यात् स ईश्वरः । आकाशवद्य्वाप्तदेहस्सत्यात्मा गुणपूर्तितः ॥
वायोर्विशेषरमको बƒानन्दस्वरूपवान् । ज्ञानानन्दस्वरूपोसौ शान्तिनामा सुखोन्नतेः ॥
अन्तगत्वात् स्वतः पूर्तेस्समृद्धं तत् प्रकीर्तितम् । इत्युपास्व प्राथमिको योग्यस्त्वं मदुपासने ॥
प्राधान्यादिति पूर्वं हि प्राह विष्णुश्चतुर्मुखम् ॥ इति ब्रह्मसारे ॥17॥
पृथिव्याद्यं पाङ्क्तषट्कं पाङ्क्तेनैव स्वयं हरिः । नारायणादिरूपेण बƒयत्यञ्जसा प्रभुः ॥
इत्युवाच स्वयं विष्णुर्वेदद्रष्टा गुणाधिकः ॥ इति तत्त्वसंहितायाम् ॥
आत्मा अहङ्कारतत्त्वम् ॥18॥
ॐनामा भगवान् विष्णुरधिकोच्चगुणत्वतः । यद्यद्रूपं भगवतस्तदिदं सर्वमेव च ॥
ओमेवाधिकपूर्णत्वात् तस्माद्यज्ञेषु चर्त्विजः । ओमित्येव स्वकर्माणि कुर्वन्त्युद्दिश्य केशवम् ॥
अधिकोच्च शृणुष्वेति हरिमध्वर्युराह हि । अधिकोच्च महाधाम सूच्च देेवेति चादरात् ॥
प्रति प्रति गृणात्येनं शंरूपात्युच्चशावन । इत्याह होता शस्त्रेषु तथैवान्येपि चर्त्विजः ॥
एवं स्वध्यायकृच्चाह ब्रह्मप्राप्त्यर्थमञ्जसा । एवं जानन्त एते तु प्राप्नुवन्त्येव तत्परम् ॥ इति च ॥19॥
ऋतं च स्वाध्यायप्रवचने च कर्तव्यानि । प्रवचनं व्याख्यानम् । यथार्थज्ञानं ऋतम् । तत्पूर्वकं यथार्थवचनं करणं च सत्यम् ।
ऋतं यथार्थविज्ञानं सत्यं तत्पूर्विका कृतिः । ध्यानसत्ये पूज्यपूजा तप इत्यभिधीयते ॥ इति शब्दनिर्णये ॥
सर्वकर्मकृतिकाƒेष्वपि स्वाध्यायप्रवचनयोः कर्तव्यत्वात् तयोः सर्वत्र अनुषङ्गः ।
मन्त्रो मन्त्रार्थवचनमन्यस्य स्वात्मनोपि वा । सर्वकर्मसु कर्तव्यौ सर्वकर्मात्मकौ ततः ॥ इति कर्मतत्त्वे ।
आत्मनश्चेन्मनसैवार्थवचनम् ।
मानुषं मानुषो धर्मो देवा अपि हि मानुषे । मनुष्यवत् प्रवर्तन्ते नैवैश्वर्यप्रकाशिनः ॥ इति च ।
प्रजाया रक्षणं चैव पुनः प्रजननं तथा । प्रकृष्टजातिकरणं कर्मभिस्तनये पितुः ॥ इति च ।
सत्ये तपसि वा चीर्णे सर्वकर्म कृतं भवेत् । स्वाध्याये च प्रवचने ह्यन्तर्भावो विशेषतः ॥
यं यं क्रतुमधीते तेन तेनास्येष्टं भवति इति च श्रुतिः ।
जप्येनैव तु संसिद्ध्येत् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ इति भारते ॥
सम्यग्ज्ञात्वा तु यो विष्णुं व्याख्यायीत जपेत च । न तस्य किञ्चिदकृतं कर्तव्यं मुच्यते च सः ॥ इति कर्मतत्त्वे ।
संसारवृक्षच्छेत्ताहं मत्कीर्तिः पर्वतोपमा । अत्युत्कृष्टेन हरिणा पावितोस्मि यतः स्फुटम् ॥
वाजिरूपश्च नेता च वाजिनी सूर्य उच्यते । तत्रस्थो भगवान् विष्णुस्सम्प्रोक्तो वाजिनीवसुः ॥
तेनामृतोस्मि द्रविणं नित्यानन्दस्वरूपतः । तेनामृतेन सिक्तोहं तेन व्याप्तो यतस्सदा ॥
इत्याह मन्त्रदृक् पूर्वं त्रिशङ्कुर्मानवो नृपः ॥ इति यजुर्विवेके ॥
संहितायाः पञ्चाधिकरणाभिमानित्वं प्राणादिरूपस्य वायोरपि भवति । पृथिव्यन्तरिक्षमित्युक्तपाङ्क्तत्वं च । अत उपक्रमोपसंहारयोः “त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम्’ इति युज्यते ॥
॥ इति शिक्षावल्ली ॥1॥
*************************************************************************************************
ब्रह्मवल्ली-मूलम्
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥1॥
ॐ ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोश्नुते सर्वान् कामान् । ब्रह्मणा विपश्चितेति ॥2॥
तस्माद्वा एतस्मादात्मनः आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योन्नम् । अन्नात् पुरुषः ॥3॥
स वा एष पुरुषोन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा ॥4॥
तदप्येष श्ƒोको भवति ।
अन्नाद्वै प्रजाः प्रजायन्ते याः काश्च पृथिवीं?श्रिताः । अथो अन्नेनैव जीवन्ति अथैनदपियन्त्यन्ततः । अन्नं? हि भूतानां ज्येष्ठं तस्मात् सर्वौषधमुच्यते । सर्वं वै तेन्नमाप्नुवन्ति येन्नं ब्रह्मोपासते । अन्नं? हि भूतानां ज्येष्ठं तस्मात् सर्वौषधमुच्यते । अन्नाद् भूतानि जायन्ते जातान्यन्नेन वर्धन्ते । अद्यतेत्ति च भूतानि । तस्मादन्नं तदुच्यत इति ॥5॥
तस्माद्वा एतस्मादन्नरसमयात् । अन्योन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपानः उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा ॥6॥
तदप्येष श्ƒोको भवति ।
प्राणं देवा अनुप्राणन्ति मनुष्या पशवश्च ये । प्राणो हि भूतानामायुः तस्मात् सर्वायुषमुच्यते ॥
सर्वमेव ते आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥7॥
तस्माद्वा एतस्मात् प्राणमयात् । अन्योन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग् दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसं पुच्छं प्रतिष्ठा ॥8॥
तदप्येष श्ƒोको भवति ।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचनेति ॥
तस्यैष एव शारीर आत्मा यः पूर्वस्य ॥9॥
तस्माद्वा एतस्मात् मनोमयात् । अन्योन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा ॥10॥
तदप्येष श्ƒोको भवति ।
विज्ञानं यज्ञं तनुते कर्माणि तनुतेपि च । विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वान् कामान् समश्नुत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥11॥
तस्माद्वा एतस्मात् विज्ञानमयात् । अन्योन्तर आत्मा आनन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ॥ तदप्येष श्ƒोको भवति ।
असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥12॥
अथातोनुप्रश्नाः । उताविद्वानमुं ƒोकं प्रेत्य । कश्चन गच्छती3 । आहो विद्वानमुं ƒोकं प्रेत्य । कश्चित् समश्नुता3 उ ॥13॥
सोकामयत । बहु स्यां प्रजायेयेति । स तपोतप्यत । स तपस्तप्त्वा । इदं? सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानु प्राविशत् । तदनु प्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निƒयनं चानिƒयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत् सत्यमित्याचक्षते ॥14॥
तदप्येष श्ƒोको भवति । असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानं? स्वयमकुरुत । तस्मात् तत् सुकृतमुच्यत इति ॥15॥
यद्वै तत् सुकृतम् । रसो वै सः । रसं? ह्येवायं ƒब्ध्वानन्दीभवति । को ह्येवान्यात् क प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति ॥16॥
यदा ह्येवैष एतस्मिन्नदृश्ये अनात्म्ये अनिरुक्ते अनिƒयने अभयं प्रतिष्ठां विन्दते । अथ सोभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोमन्वानस्य । तदप्येष श्ƒोको भवति ।
भीषास्माद् वातः पवते भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति ॥17॥
सैषानन्दस्य मीमां?सा भवति । युवा स्यात् साधु युवाध्यायकः । आशिष्ठो दृढिष्ठो बिƒष्ठः । तस्येयं पृथिवी वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः । स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य ॥18॥
ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितॄणां चिरƒोकƒोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं पितॄणां चिरƒोकƒोकानामानन्दाः । स एको आजानजानां देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतमाजानजानां देवानामानन्दाः । स एको कर्मदेवानामानन्दः ॥19॥
ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य । ते ये शतं कर्मदेवानां देवानां आनन्दाः । स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवानामानन्दाः । स एको इन्द्रस्यानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं इन्द्रस्यानन्दाः । स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं बृहस्पतेरानन्दाः ॥20॥
स एको प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य ॥21॥
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात् प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रामति । एतं प्राणमयमात्मानमुपसङ्क्रामति । एतं मनोमयमात्मानमुपसङ्क्रामति । एतं विज्ञानमयमात्मानमुपसङ्क्रामति । एतमानन्दमयमात्मानमुपसङ्क्रामति ॥22॥
तदप्येष श्ƒोको भवति । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति ॥
एतं?ह वाव न तपति । किमहं? साधु नाकरवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानं? स्पृणुते । उभे ह्येवैष एते आत्मानं? स्पृणुते । य एवं वेद । इत्युपनिषत् ।
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥
इति ब्रह्मवल्ली ॥2॥
ब्रह्मवल्ली-भाष्यम्
स्वयोग्यं ब्रह्मवित् भुङ्क्ते विरिञ्चेन परेण च । ब्रह्मणा सह तद्वश्यः सुखमेव न दुष्कृतम् ॥ इति च ॥2॥
स एष भगवान् विष्णुर्भूतस्रष्टा गुणाधिकः । स एवान्नात् पुनर्जातो ह्यजातोपि यतो विभुः ॥
अन्नात्मनि शरीरेसौ व्यज्यते सुविवेकिभिः । अन्नस्य सारभूतोयं शरीरस्य च केशवः ॥
अन्ननामा चान्नसंस्थः शरीरेषु च संस्थितः । अत्तृत्वात् सर्वƒोकानामन्नमित्युच्यते हरिः ॥
उपजीव्यश्च भूतानामिति चान्नं जनार्दनः ॥4॥
स ज्यायान् सर्वभूतेभ्यस्तस्मात् सर्वौषधं स्मृतः । संसारे दह्यमानानामाश्रयत्वात् स औषधम् ॥
प्रचुरं मय इत्युक्तं प्रचुरात्ता यतो हरिः । प्रचुरैस्सेव्यते नित्यमतोन्नमय ईरितः ॥
देहस्यैव शिरस्यस्य शिरो विष्णोः प्रतिष्ठितम् । बाह्वोः पक्षौ तथा मध्ये मध्यं पश्चात्तनी तथा ॥
पुच्छमित्येष भगवाननिरुद्धः स्वयं हरिः ॥5॥
तस्यान्तरं परं रूपमभिन्नमपि भिन्नवत् । प्रद्युम्नाख्यं प्राणमयं प्रणेतृत्वात् प्रकीर्तितम् ॥
शिरस्तस्य प्राणगतं प्राण इत्येव नामतः । व्यानाख्यो दक्षिणः पक्षो व्यानगश्चोत्तरस्तथा ॥
अपानाख्योपानगत आकाशस्थं च मध्यमम् । आकाशाख्यं तथा पुच्छं पृथिव्यां पृथिविनामकम् ॥
उदान आकाशनामा समानः पृथिवीति च । प्रणेतृत्वात् प्राणनाम शिरो विष्णोः प्रकीर्तितम् ॥
विशेषाच्चेष्टयेद्यस्माद् व्यानाख्यो दक्षिणः करः । यस्मादपनयेद्दोषानपानः सव्य उच्यते ॥
आकाशस्त्ववकाशत्वान्मध्यदेहो महात्मनः । पृथिवी पुच्छमस्योक्तं सर्वस्यापि प्रधारणात् ॥
स एष जगतामायुस्तस्मिन् सङ्कर्षणः स्थितः ॥6॥
शिरस्तस्य यजुर्नाम यज्ञानां हरणात् स्मृतम् । यजुःसंस्थं च बाहू तु ऋक्सामान्तस्थितौ सदा ॥
ऋगर्चनायाः स्वीकारात् साम दोषात् समीकृतेः । पञ्चरात्रगतं मध्यमादेशाख्यं सुविस्तृतेः ॥
अथर्वाख्यं तथा पुच्छमधरं चाङ्गिनां रसः । मनोवाचामगम्यं तं ज्ञात्वानन्दस्वरूपिणम् ॥
कुतश्चिन्न बिभेत्येव वासुदेवोन्तरस्ततः ॥9॥
श्रद्धाख्यं श्रुतिधर्तृत्वाच्छ्रद्धायां तच्छिरः स्मृतम् । ऋतं ज्ञानततेर्दाता चर्तस्थो दक्षिणः करः ॥
वामः सत्यस्थितः सत्यं सतां यस्मान्नियामकः । योगाख्यं सर्वƒोकस्य योगादत्रैव योगगम् ॥
मध्यं पुच्छं महोनाम महनीयत्वतस्सदा । तस्मिन्नान्दरूपोसौ स्थितो नारायणस्सदा ॥11॥
शिरः प्रिये स्थितं तस्य परेयं प्रियनामकम् । मोदप्रमोदयोर्बाहू मोदनाच्च प्रमोदनात् ॥
मोदप्रमोदनामानावानन्दस्त्वाततत्वतः । मध्यमानन्दसंस्थं च ब्रह्म सृष्ट्या तु बृंहयेत् ॥
पुच्छं प्रधानवायौ च ब्रह्माख्ये संस्थितं सदा । अभेदोप्यविशेषोपि परमैश्वर्ययोगतः ॥
देहदेहिवदेवासौ पञ्चधावस्थितो हरिः । बहिःस्थो देहवद्विष्णुरन्तस्थो देहिवत् स्मृतः ॥
अन्तर्व्याप्तिविशेषेण न त्वशक्तत्वतो बहिः । सर्वेपि पुरुषाकाराः उत्तरात् पूर्वसम्भवाः ॥
उत्तरैः पूरिताः पूर्वे निश्छिद्रत्वेन सर्वशः । अत्तृत्वं च प्रणेतृत्वं बोधो विविधवेत्तृता ॥
आनन्दश्च यतः पूर्णस्ततोन्नादिमयास्स्मृताः । अत्त्यादिदास्ते प्रत्येकं सर्वे सर्वगुणा अपि ॥
नामभेदस्ततस्तूक्तः सर्वनामवतामपि । पञ्चरूपं च तद् ब्रह्म जीवादन्यन्न विद्यते ॥
इति ये तु विजानन्ति तेसन्तस्तमआƒयाः । जीवादन्यत् परं ब्रह्म पञ्चरूपं च ये विदुः ॥
सन्तस्त इति विज्ञेया मोक्षयोग्या हि ते ध्रुवम् ॥12॥
इत्युक्ते ब्रह्मणा पूर्वं पप्रच्छ वरुणो विभुम् । अविद्वानपि यः कश्चिद् ब्रह्माप्नोति कथञ्चन ॥
विद्वानेवोत तत्रापि सर्वे वाथैव केचन । यदि सर्वेथ तत्रापि सर्वे सम्यक् समाप्नुयुः ॥
केचिदेवोत सम्यक् तदसम्यगपरे जनाः । ज्ञानिनोपीति पृष्टः सन् ब्रह्मा प्राह चतुर्मुखः ॥
अज्ञा न प्राप्नुयुबर्रह्म प्राप्नुयुर्ज्ञानिनोखिƒाः । तत्रापि सम्यक् प्राप्तिस्तु विरिञ्चस्यैव सर्वदा ॥
अन्येषां तारतम्येन प्राप्तिः सुखविशेषतः । इत्यभिप्रायवान् ब्रह्मा ह्युकारेण समासतः ॥
उक्त्वा प्रश्नोत्तरं पश्चाद्विस्तरेण जगाद ह । कश्चिदेवोत सम्यक् तदाप्नुयादिति वाक्यतः ॥
अनन्तरं तथैवेति ब्रह्मोङ्कारमुवाच ह ॥13॥
अज्ञो नैवतदाप्नोति ज्ञान्येवैतदवाप्नुते । इति ज्ञापयितुं विष्णोः स्वातन्त्र्यज्ञापनाय तु ॥
आह सृष्टिं प्रवेशं च माहात्म्यज्ञानतो यतः । प्रीतिं यान्ति महान्तस्तु तद्वशा एव चेश्वराः ॥
अग्न्यादयोपि किमुत तदन्ये मुक्तिदस्ततः । स एवैकस्स विज्ञेयः पूर्णैश्वर्यादिरूपवान् ॥
इति तस्य महैश्वर्यमुच्यते स त्वकामयत् । सृष्ट्वा जगदिदं सर्वं नियामकतयास्य तु ॥
बहुरूपो भवानीति स्याज्जगच्चेत्यचिन्तयत् । स्यादित्याƒोचनान्नान्यत् तपो विष्णोः कदाचन ॥
अवतारेष्वनुकृतिर्बाह्यवृत्या तपस्विनाम् । सृष्टिर्नाम स्वरूपात्तु बहिर्निष्क्रमणं स्मृतम् ॥
यद्यपीदं जगत्सर्वं स्वोदरस्थं महात्मनः । तथाप्येष द्वितीयेन रूपेण बहिराक्षिपेत् ॥
रूपान्तरेणाविशच्च जगत्सर्वं जनार्दनः । त्यच्चानिरुक्तं विज्ञानं तथा निƒयनं महान् ॥
सत्यं प्राणस्तथा श्रीश्च सन्निरुक्तं तथानृतम् । अविज्ञानं चानिƒयनं प्रकृतिप्राणयोः परम् ॥
तद्गविष्णोस्तु सम्बन्धात् स्वतस्तन्नामको हरिः । ततो नियामकश्चैति त्यादनन्त्यादवाच्यतः ॥
अनिरुक्तं निƒयनं सर्वाधारत्वतो हरिः । विज्ञानं सर्वविज्ञानात् सत्यं साधुस्वरूपतः ॥
अवसादसुवाच्यत्वदौर्बल्याज्ञप्त्यसाधुताः । प्रकृतिप्राणतोन्यत्र कुर्वंस्तन्नामको हरिः ॥
अतः साधुस्वरूपः सन् सत्यनामानृतादिकम् । नामानेन गतत्वादेर्यदिदं किञ्च भाषितम् ॥
सन्निरुक्तादिशब्देन तत् सर्वं साधुतैव हि । अवसादनादिहेतुत्वं साधुतैव हि सर्वशः ॥
असाधुतावसादादिस्तत्कर्तृत्वं हि भावितम् ॥14॥
अनासाद्यस्त्वसन्नामा पूर्वं नारायणाभिधः । स आसाद्यश्च सन्नामा वासुदेवोभवत् प्रभुः ॥
सः वासुदेवः स्वात्मानं चक्रे सङ्कर्षणादिकम् । तस्मात् तत् सुकृतं नाम स आनन्दो रसस्ततः ॥
आनन्दमेनं सम्प्राप्य मुक्तो मोदेन्न चान्यथा । आदीप्तस्त्वेष भगवान् यद्यानन्दो भवेन्न च ॥
सामान्यचेष्टा धर्म्याश्च कस्य स्युस्तमृते प्रभुम् । सुखं ƒब्ध्वा हि कुरुते ƒोकचेष्टां जनार्दनः ॥
अल्पात् सुखादल्पकर्मा पूर्णानन्दाद्धि सर्वकृत् । न ह्यार्ताः कर्म कुर्वन्ति मुग्धाश्चैव विशेषतः ॥
तस्माद् यादृक् सुखं तादृक् कर्म पूर्णसुखत्वतः । सर्वकृत्त्वात् परो विष्णुराह तस्मात् सनातनी ॥
सुखं ƒब्ध्वा करोतीति च्छन्दोगानां श्रुतिः परा । अƒब्ध्वा तु सुखं नैव करोतीत्यपि सादरम् ॥
तत् पूर्णानन्ददेवैन कारितः प्राणिति स्फुटम् । सर्वƒोकः स एवैक आनन्दयति चाखिƒम् ॥16॥
तस्मादवश्यके जैवानां गुणानामप्यसङ्गतेः । अनात्म्येथ गुणानन्त्यादनिरुक्ते निराश्रयात् ॥
अनिƒयनेभयत्वेन यदा ज्ञानेन तिष्ठति । तदाभयं हरिं गच्छेन्नैवाज्ञानी कथञ्चन ॥
यदैतस्मिन् परे विष्णावुदरं जीवगत्वतः । भेदं करोति तेनैव भयमस्य महद् भवेत् ॥
अ इत्युक्तः परो विष्णुरेभ्यः उच्च स एव तु । त उदा जीवसङ्घाः स्युरुदरं तद्गतान्तरम् ॥
तदेव ब्रह्म भयकृद् विदुषोविदुषस्तथा । विदुषोल्पभयं कुर्याद् यावन्मुक्तिं व्रजत्यसौ ॥
अथाभयं भवेद् ब्रह्म तस्य मुक्तस्य सर्वदा । तस्माद् वाय्वादयो देवा विद्वांसोपि विशेषतः ॥
भीताः स्वकर्म कुर्वन्ति विष्णोः प्रीत्यर्थमञ्जसा । अमन्वानस्य नुर्विष्णुः कुर्यान्नित्यं महद्भयम् ॥
तमआख्यमनुत्थानम् …….. ॥
…….. विदुषां नियमेन तु । स्यादेव मोक्षस्तत्रापि ह्यानन्दस्य विचित्रता ॥
यस्तु साधुगुणैर्युक्तस्तस्यैवाप्यखिƒा मही । त्रेतायुगे चक्रवर्ती यदा मुक्तस्तु संसृतेः ॥
अधीतिफƒपूर्णत्वादाध्यापकः इतीरितः । स एव विष्णुना युक्तो गच्छतीति युवा स्मृतः ॥
एकानन्दस्वरूपोसौ मानुषो मुक्त इष्यते । तस्माच्छतगुणानन्दा गन्धर्वा मानुषात्मकाः ॥
मुक्ताः श्रुतिफƒं प्राप्तास्ततः कामाहतास्तथा ॥17॥
तेभ्यः शतगुणानन्दा देवप्रेष्यास्तु मुख्यतः । ये ते हि देवगन्धर्वा मुक्तेभ्यस्तेभ्य एव च ॥
शताधिका हि पितरस्तेभ्य आजानदेवताः । अनाख्याता देवतास्तु जाता देवकुƒे च याः ॥
आजानदेवतास्ता हि ताभ्योग्र्याः कर्मदेवताः । बल्याद्या अन्तराप्राप्तदेवताः कर्मदेवताः ॥
ताभ्यश्च तात्त्विका देवाः सृष्ट्यादौ देवतां गताः । तेभ्यो दक्षश्चेन्द्रनामा स हीन्दुं रारयत् पुरा ॥
तस्मात् बृहस्पतिर्नाम महेन्द्रत्वात् पुरन्दरः । तस्मात् प्रजापतिर्मुक्तो रुद्रः प्रजननेशिता ॥
तस्माद् ब्रह्मा शतगुणो मुक्त इत्येष निर्णयः । यथानन्दे तथा ज्ञाने विष्णुभक्तौ बƒाधिके ॥
सर्वैर्गुणैः शतगुणाः क्रमेणोक्तेन तेखिƒाः । अथवा सहस्रगुणिता अनन्तगुणितास्तथा ॥
परिमाणे शतगुणेप्यानन्दस्फुटतावशात् । यथा दीपाच्छतगुणाप्यग्निज्वाƒा न दीपकम् ॥
स्फुटीभवेद् यथैवग्निर्बहुƒोपि न सूर्यवत् । यथैव सूर्याद् द्विगुणश्चन्द्रो नैव स्फुटीभवेत् ॥
उत्तरेषामुत्तरेषां गुणा एवमतिस्फुटाः । प्रतिबिम्बा यतः पूर्वे ब्रह्मान्तानां नरादयः ॥
अतोस्पष्टस्वरूपास्ते स्फुटरूपास्तथोत्तराः । यत्प्रसादात् स्वरूपाप्तिबर्रह्मादीनां समन्ततः ॥
स विष्णुः सर्वजीवेषु नृषु देवेषु च स्थितः । एक एव महायोगी निर्विशेषोखिƒैर्गुणैः ॥
सर्वोत्तमः स पूर्णश्च तमेवं वेद यः पुमान् । जीवांश्च तारतम्यस्थान् स गच्छेत् पञ्चरूपिणम् ॥
विष्णुं न पुण्यपापे च तस्यानिष्टे कदाचन । प्रियाप्रियेषु ते ज्ञानि ह्यास्तृणोति यतो नृषु ॥
अगोचरं वाङ्मनसोरानन्त्यात् पुरुषोत्तमम् । ज्ञात्वा मुक्तस्य भीर्नैव कुतश्चन भविष्यति ॥ इत्यादि यजुःसंहितायाम् ।
न च “सह ब्रह्मणा’ इत्यादेरन्योर्थः कल्प्यः । अप्रामाणिकत्वात् । अनाश्वासाच्च । न चौषधीभ्योन्नमन्नरसमय इत्यत्रोभयार्थत्वेन विरोधः । “अन्नस्यान्नम्’ “मध्यमः प्राणः’ “प्राणः स्थूणा’ इत्यादिवद् विशेषितत्वादुपपत्तेः । न चान्नमयदीनामब्रह्मत्वे किञ्चिन्मानम् । “येन्नं ब्रह्मोपासते’ “ये प्राणं ब्रह्मोपासते’ “आनन्दं ब्रह्मणो विद्वान्’ “विज्ञानं ब्रह्म चेद् वेद’ “अधीहि भगवो ब्रह्मेति । तस्मा एतत् प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचम्’ इत्यादिना ब्रह्मशब्देनोक्तत्वाच्च । न च ƒौकिकान्नस्यात्तृत्वमस्ति । “येन्यथा विदुस्तेन्यराजानस्ते क्षय्यƒोका भवन्ति’ इति श्रुतेरविद्यमानोपासनाद् दोषावतेश्च । न च रमन्त्यहो असदुपासनयात्महनः’ इति च भागवते ।
नाविद्यमानं ब्रुवते वेदा ध्यातुं न वैदिकाः । अविद्यमानं ध्यायन्तो यान्ति सर्वेधरं तमः ॥
तस्मात् सत्यार्थतां ब्रूयात् वेदानामपि सर्वशः । य एवं वेद स ज्ञानी ज्ञानवान् नान्यथा भवेत् ॥ इति वेदार्थविवेके ।
“स यश्चायं पुरुषे यश्चासावादित्ये’ इत्यधिकरणत्वेन भेद एव जीवस्य परमादुक्तः । “एतस्मिन्नदृश्येनात्म्येनिरुक्तेनिƒयनेभयं प्रतिष्ठां विन्दते’ “एतमानन्दमयमात्मानमुपसङ्क्रामति’ “सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’ “एतमानन्दमयमात्मानमुसङ्क्रम्य । इमान् ƒोकान् कामान्नी कामरूप्यनुसञ्चरन्’ इत्यादिना मुक्तस्यापि भेद एवाभ्यस्यते । “अथ सोभयं गतो भवति’ इति मुक्तिप्रस्तावात् । “सैषानन्दस्य मीमांसा’ इति मुक्तानन्दो मीमांस्यते । श्रोत्रियस्य चाकामाहतस्येति सर्वत्र विशेषणाच्च । न ह्यामुक्तस्याकामहतत्वं मुख्यं भवति । न च मुख्या श्रोत्रियता ।
यस्य श्रुतिफƒं पूर्णं स श्रोत्रिय उदाहृतः । स हि मुक्तोकामहतः स हि कामैर्न हन्यते ॥ इति ब्रह्माण्डे ।
न च देवपदाकामस्य सकाशादिन्द्रपदाकामस्य शतगुणानन्दो दृश्यते सति च प्राजापत्यादिकामे । न च मानुषाः प्रायस्तदिच्छवः । चक्रवर्तिनस्तु युवशब्देनैव मुक्तत्वमुक्तम् । तस्मान्मुक्तविषयेयं मीमांसा । “यदा सर्वे प्रमुच्यन्ते कामा येस्य हृदि स्थिताः’ इत्यत्राप्यन्तःकरणस्थानामेव कामानां विमोक्ष उक्तः । न तु स्वरूपभूतानाम् । “यं यमन्तमभिकामो भवति सोस्य सङ्कल्पादेव भवति’ इति मुक्तानामपि स्वरूपबूतः कामः प्रतीयते ।
कामाः सङ्कल्प आनन्दो मुक्तानां तारतम्यतः । स्वरूपभूतास्ते सर्वे निर्दोषा गुणरूपकाः ॥ इति पाद्मे ।
“सङ्कल्पादेव च तच्छ्रुतेः’ इति सूत्रम् । “भेदव्यपदेशात्’ इति जीवेशयोर्भेदश्चोक्तो भगवता । न च भेददर्शनमसुकरम् । स्वरूपत्वात् भेदस्य । सर्वव्यावृत्तं हि सर्वस्य स्वरूपं सर्वैरनुभूयते । अन्यथाहं वा दृष्टोन्यो वा दृष्ट इत्यपि संशयः स्यात् । न च पश्चात् भेदो ज्ञायत इत्यत्र किञ्चिन्मानम् । न हि दृष्टवस्तुनः पुरुषस्य तस्य वस्त्वन्तराद् भेदे संशयः क्वचिद् दृष्टः । न च सर्वतो व्यावृत्यनुभवे सर्वज्ञतापेक्षितेति दोषः । सामान्यतः सर्वस्य सर्वैरपि ज्ञातत्वात् । यावत्तु सर्वतो भेदो विशेषतो न ज्ञायते तावत् स्वरूपमेव विशेषतो न ज्ञातम् । न हि ज्ञाताद्वस्तुनोव्यावृत्तिः केनचित् शङ्क्यते । यदा तु संशीयते तदापि कुतश्चिद् व्यावृत्तमेव ज्ञायते । नहि सर्वमिदं भवति वा न वेति कस्यचित् संशयः । अतो व्यावृत्तिरेव स्वरूपम् । अस्य भेद इति विशेष्यत्वमस्य स्वरूपमितिवत् । यथास्तीति वर्तमानः काƒो वस्तुना सहैवानुभूयते एवमन्यस्मात् व्यावृत्तमित्यत्रान्यदपि सामान्यतः सहैवानुभूयते । न ह्यस्तीति वर्तमानकाƒापेक्षयानुभूयत इत्येतावता विद्यमानता नाम वस्तुतोन्या । सदित्यपि शत्रन्तत्वात् काƒसम्बन्ध्येवानुभूयते तिष्ठन्नितिवत् । एवमन्यस्मात् व्यावृत्तमित्यन्येन सह प्रतीयमानमपि न स्वरूपादन्यत् । अस्माद् व्यावृत्तिरन्यस्य स्वरूपमन्यस्माद् व्यावृत्तिरस्य स्वरूपमिति नैकस्वरूपता । ज्ञानानन्दादिवत् । स्वरूपत्वेपि व्यवहारविशेषो भवति । न च स्वरूपत्वेन भेदस्याभावो भवति । ज्ञानान्दादिवदेव । अन्यप्रतियोगिकत्वाद् भेदस्य न स्वस्मादपि भवति ।
भेदस्तु सर्ववस्तूनां स्वरूपं नैजमव्ययम् । नष्टानामपि वस्तूनां भेदो नैव विनश्यति ॥
अवस्तुनोपि रूपं स्वं भेद एव न चान्यथा । विशेषरूपनाशेन भेदमात्रावसायिता ॥
नाश इत्युच्यते सद्भिर्भेदो नहि विनश्यति । इत्याहुः केचिदज्ञानात् तत्राहुः सूक्ष्मदर्शिनः ॥
सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशयः । तस्माद् वस्तुविनाशे तु तद्भेदो नास्ति कुत्रचित् ॥
अविनष्टस्य तस्मात्तु भेदोस्त्येव स्वरूपतः । एवंभावादभावस्य न भेदो भावरूपवान् ॥
अभावाद् भावरूपस्य स्वरूपं भाव इष्यते । नष्टभेदोप्यभावात्मा विद्यते च विनाशतः ॥
स्वरूपत्वात्तु भेदस्य भेदे शङ्का न कस्यचित् । सर्वं सामान्यतो यस्मात् सर्वैरप्यनुभूयते ॥
तस्माद् व्यावृत्तता सर्वैः सर्वस्मादनुभूयते । प्रतियोगिता त्वभावस्याप्यस्त्यभावतया स्फुटम् ॥
न ह्यभावोप्यधर्मा स्यान्न तु स्याद् भावधर्मयुक् । अभावस्यास्तिता नाम स्यादेवाभावरूपिणी ॥
अभावतापि सैव स्यान्न तु स्याद् भावरूपिणी । अतः स सर्वव्यावृत्त
स्वरूपो भगवान् परः ॥
येन ज्ञातः स तु ज्ञानी मुच्यते नात्र संशयः ॥ इति तत्त्वनिर्णये ॥
॥ इति ब्रह्मवल्ली ॥2॥
**************************************************************************************
भृगुवल्ली-मूलम्
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत् प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । तं? होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति ॥1॥
स तपोतप्यत । स तपस्तप्त्वा । अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तं? होवाच । तपसा ब्रह्म विजिज्ञासस्व ॥2॥
तपो ब्रह्मेति । स तपोतप्यत । स तपस्तप्त्वा । प्राणं ब्रह्मेति व्यजानात् । प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तं? होवाच । तपसा ब्रह्म विजिज्ञासस्व ॥3॥
तपो ब्रह्मेति । स तपोतप्यत । स तपस्तप्त्वा । मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तं? होवाच । तपसा ब्रह्म विजिज्ञासस्व ॥4॥
तपो ब्रह्मेति । स तपोतप्यत । स तपस्तप्त्वा । विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तं? होवाच । तपसा ब्रह्म विजिज्ञासस्व ॥5॥
तपो ब्रह्मेति । स तपोतप्यत । स तपस्तप्त्वा । आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देेन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति । सैषा भार्गवी वारुणी विद्या । परमे व्योमन् प्रतिष्ठिता । य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिबर्रह्मवर्चसेन । महान् कीर्त्या ॥6॥
अन्नं न निन्द्यात् । तद् व्रतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिबर्रह्मवर्चसेन । महान् कीर्त्या ॥7॥
अन्नं न परिचक्षीत । तद् व्रतम् । आपो वा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिबर्रह्मवर्चसेन । महान् कीर्त्या ॥8॥
अन्नं बहु कुर्वीत । तद् व्रतम् । पृथिवी वा अन्नम् । आकाशोन्नादः । पृथिव्यामाकाशः प्रतिष्ठितः । आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिबर्रह्मवर्चसेन । महान् कीर्त्या ॥9॥
न कश्चन वसतौ प्रत्याचक्षीत । तद् व्रतम् । तस्मात् यया कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्नमित्याचक्षते । एतद्वै मुखतोन्नं? राद्धम् । मुखतोस्मा अन्नं? राध्यते । एतद्वै मध्यतोन्नं? राद्धम् । मध्यतोस्मा अन्नं? राध्यते । एतद्वा अन्ततोन्नं? राद्धम् । अन्ततोस्मा अन्नं? राध्यते । य एवं वेद ॥10॥
क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः । कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ । बƒमिति विद्युति । यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे ॥11॥
तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति । तन्मन इत्युपासीत । महान् भवति । तन्मन इत्युपासीत । मानवान् भवति । तन्नम इत्युपासीत । नमन्येस्मै कामाः । तद्ब्रह्मेत्युपासीत । ब्रह्मवान् भवति । तद्ब्रह्मणः परिमर इत्युपासीत । पर्येणं म्रियन्ते द्विषन्तः सपत्नाः । परि येप्रिया भ्रातृव्याः ॥12॥
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात् प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्राम्य । एतं प्राणमयमात्मानमुपसङ्क्रम्य । एतं मनोमयमात्मानमुपसङ्क्रम्य । एतं विज्ञानमयमात्मानमुपसङ्क्रम्य । एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमां?ल्लोकान् कामान्नी कामरूप्यनुसञ्चरन् । एतत् साम गायन्नास्ते । हा3 वु हा3वु हा3वु । अहमन्नमहमन्नमहमन्नम् । अहमन्नादोहमन्नादोहमन्नादः । अहं?श्ƒोककृदहं?श्ƒोककृदहं?श्ƒोककृत् ॥13॥
अहमस्मि प्रथमजा ऋता3स्य । पूर्वं देवेभ्योमृतस्य ना3भाइ । यो मा ददाति स इदेव मा3वाः । अहमन्नमन्नमदन्तमा3द्मि । अहं विश्वं भुवनमभ्यभवा3म् । सुवर्णज्योतीः । य एवं वेद । इत्युपनिषत् ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥
इति भृगुवल्ली ॥3॥
इति तैत्तिरीयोपनिषत् ॥
भृगुवल्ली-भाष्यम् ॥
चक्षुः स चष्टे यद् विष्णुः श्रोत्रं श्रोतृत्वतो विभुः । वाक् च वक्तृत्वतो नित्यं मनो मन्तृत्वतस्तथा ॥
तपो ज्ञानस्वरूपत्वाद् विज्ञानं तु विवेचनात् । ज्ञानानुसन्धानरूपतपसा तं जनार्दनम् ॥
क्रमाद् भृगुर्व्यजानात् तमन्नादिबहुरूपिणम् । एवं विजानंस्तं विष्णुं तस्मिंस्तु प्रतितिष्ठति ॥
मुक्तो भूत्वान्नवांश्च स्यादन्नादश्च सदैव तु । अन्ननामा तु भगवान् विद्वांस्तमुपजीवति ॥
तद्वांश्च तेन गुप्तत्वाद् ….. ।
…… विद्यार्थे वसतीच्छया । आगतं नेति न ब्रूयात् तदेतद् विदुषो व्रतम् ॥
स विष्णुः पृथिवीनामा पृथुत्वात् प्राणनामकः । प्रकृष्टानन्दबƒत आकाशः सर्ववेत्तृतः ॥
शराख्यदेहिनश्चैव शरीरं प्रेरणात् स्मृतः । एतैश्चतुभिर्भगवान् रूपैश्च चतुरात्मभिः ॥
भोग्यभक्तृस्वरूपेण तिष्ठति क्रीडया स्वयम् । न च भोग्यत्वमात्रेण हीनत्वं तस्य कुत्रचित् ॥
न हि भार्योपभोग्यस्तु भर्ता हीनत्वमाप्नुयात् । एवं स भगवान् विष्णुरविशेषोखिƒेष्वपि ॥
रूपेषु क्रीडते नित्यं भोक्ता भोग्य इतीच्छया । अन्नाख्यं तं नैव निन्द्यात् बहु मन्येत तं सदा ॥
इति व्रतद्वयं ह्येतद् भाव्यं यदि सुखे स्पृहा । येन केनापि विधिना बह्वित्येव जनार्दनम् ॥
मत्वैव प्राप्नुयान्नित्यं मनोवाक्कायवृत्तिभिः । य एवं समुपासीत तस्यान्नाख्यो हरिः स्वयम् ॥
सिद्ध इत्येव हि प्राहुर्विद्वांसः परिनिष्ठिताः । यस्य तद् ब्रह्म संसिद्धं पूर्वं तेनाप्यतेग्रतः ॥
मध्ये वयसि चेत् सिद्धं मुक्तो मध्यं प्रपश्यति । वार्धके चेद् विजानाति मुक्तः पादौ प्रपश्यति ॥
तेजोमण्डƒमेवान्यत् अङ्गं विष्णोः प्रपश्यति । पूर्वे वयसि बोद्धव्यमामुखात् सर्वदृष्टये ॥
क्षेमकृत्वात् क्षेमनामा वाचिस्थः स परो हरिः । योगनामा तथा प्राणे सर्वकामनियोजनात् ॥
क्षेमनामा क्षेमकृत्त्वादपानेपि हि हरिः स्वयम् । कर्मनामा हस्तगतः कर्मकृत्त्वाज्जनार्दनः ॥
गतिदत्वात् गतिर्नाम पादस्थः पुरुषोत्तमः । विसर्गकृद् विमुक्त्याख्यः पायुस्थः परमो विभुः ॥
अध्यात्मस्थ इति प्रोक्तोथाधिदैवगतं शृणु । पर्जन्ये तृप्तिनामासौ तृप्तिदत्वाज्जनार्दने ॥
वायौ तु बƒनामा च बƒदत्वात् सदेव हि । यशःप्रदत्वात् दक्षे तु यशः पश्वभिमानिनी ॥
नक्षत्रेषु ज्योतिराख्यो ज्योतिर्दातृत्वतो हरिः । उपस्थमानिनि शिवे प्रजात्यानन्दसन्ततेः ॥
दातृत्वात् तत्तदाख्योसौ सन्ततिस्त्वमृतं स्मृतम् । सर्वः सर्वप्रदत्वात् तु प्रकृतौ पुरुषोत्तमः ॥
स प्रतिष्ठा स्थापकत्वात् मनो मान्यत्वतो हरिः । नमो नम्यत्वतो नित्यं महश्चापि महत्त्वतः ॥
विरिश्चमारकश्चासौ ब्रह्म पूर्णगुणत्वतः । वेदैनं तत्त्वतो ब्रह्मा स एनं पञ्चरूपिणम् ॥
प्राप्य गायति मुक्तः सन्नन्ननामास्मि भोग्यतः । यथेष्टमन्नभोक्ता च कीर्तिकर्ता हरेस्तथा ॥
ऋतरूपस्य विष्णोस्तु पुत्रः प्रथमजो ह्यहम् । देवेभ्यः पूर्वजश्चाहं मुक्तानामाश्रयः सदा ॥
यो ददाति च मां सम्यग् विष्णुतत्त्वप्रकाशकः । स इत्थमेव मां याति विष्णोरन्नमहं सदा ॥
ममान्नं सर्वजीवास्तु भोग्या मम यतः सदा । सर्वमभ्यभवं चाहं गुणैः सवैश्च नित्यकैः ॥
सुवर्णो भगवान् विष्णुर्ज्योतिः स मम रोचकः । योहमेवंविदभवं तस्य मे माधवः पतिः ॥
इति ब्रह्मा गायमानौ मुक्तश्चरति सर्वदा ॥ इति यजुः संहितायाम् ॥
अन्नं भगवन्तं न परिचक्षीत । न निराकुर्यात् । तद्गुणांस्तत्कर्माणि वा कुत्रापि बहु कुर्वीत । बहुगुणत्वेन प्रतिपादयेत् भगवन्तम् । यया कया च विधया बह्वन्नं प्राप्नुयात् । अतिप्रयत्नेनापि विहितप्रकारेण बहुतरां भगवद्विद्यां प्राप्नुयात् । “प्रजापतिः प्रथमजा ऋतस्यात्मनात्मानमभिसम्बभूव’ “प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव’ इत्यादिना विरिञ्चस्यैवैतद् गानम् । अन्यो न परि बभूवेति निषेधात् ।
विद्युद्वन्मानुषा विद्युः सूर्यमण्डƒवत् सुराः । प्रतिबिम्बवच्च गिरिशो ब्रह्मैनं पश्यति स्फुटम् ॥
ब्रह्मा स्थिरचिद्रूपो बहुƒात्मा विशेषतः । अन्ये क्रमादबहुƒास्तथा चञ्चƒचेतसः ॥
तस्मात् सम्यक् न पश्यन्ति हरिं ब्रह्मा तु पश्यति ॥
इति हरिवंशवचनाच्च ब्रह्मैवैनं सम्यग् वेद ।
यस्योच्चोथ समो वा कश्चिन्नैवास्त्यनन्तसच्छक्तैः । तं वन्दे परमेशं प्रेयांसं प्रेयसश्च मे विष्णुम् ॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यƒं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ ॥
हनुशब्दो ज्ञानवाची हनूमान् मतिशब्दितः । रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि ॥
भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृताः । ऋगाद्याः इतिहासश्च पुराणं पञ्चरात्रमकम् ॥
प्रोक्ताः सप्त शिवास्तत्र शयो भीमस्ततः स्मृतः । दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते ॥
प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः । मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ॥
मध्व आनन्दतीर्थः स्यात् तृतीया मारुती तनुः । इति सूक्तगतं रूपत्रयमेतन्महात्मनः ।
यो वेद वेदवित् स स्यात् तत्त्ववित् तत्प्रसादतः ॥ इति च ।
साधको रामवाक्यानां तत्समीपगतः सदा । हनूमान् प्रथमो ज्ञेयो भीमस्तु बहुभुक् पितोः ॥
पृतनाक्षयकारी च द्वितीयस्तु तृतीयकः । पूर्णप्रज्ञस्तथानन्दतीर्थनामा प्रकीर्तितः ॥
दशेति पूर्णमुद्दिष्टं सर्वं पूर्णमिहोच्यते । प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः ॥
आ समन्तात् पतित्वे तु गूढं किƒयुगे हरिम् । असत्यमप्रतिष्ठं च जगदेतदनीश्वरम् ॥
वदद्बिर्गूहितं सन्तं तृतीयोसुर्मथायति । येन विष्णोस्तु वर्पाख्यान् गुणानाज्ञासिषुः परान् ॥
ईशानासः सूरयश्च निगूढान् निर्गुणोक्तिभिः । त्रेतायां द्वापरे चैव कƒौ चैते क्रमात् त्रयः ॥
एतेषां परमो विष्णुर्नेता सर्वेश्वरेश्वरः । स्वयम्भूब्रह्मसञ्ज्ञोसौ परस्मै ब्रह्मणे नमः ॥ इति च ।
पूर्णागण्यगुणोदारधाम्ने नित्याय वेधसे । अमन्दानन्दसान्द्राय प्रेयसे विष्णवे नमः ॥
॥ इति भृगुवल्ली ॥3॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं तैत्तिरीयोपनिषद्भाष्यम् ॥
************************************************************************
]