श्रीमहैतरेयोपनिषद्भाष्यम्

[[श्रीमहैतरेयोपनिषद्भाष्यम् Source: EB]]

[

द्वितीयप्रघट्टकः

भाष्यम्
एष नारायणो वायुना सहेमं लोकमभ्यार्चत्, ब्रह्मादिशरीरेषु प्रविवेश । पुरुष इत्यन्तर्यामिरूपस्याऽख्या, पुरि शेत इति । प्रसिद्धत्वाच्च पञ्चरात्रेषु । य एष सूर्यमण्डले स्थित्वा तपति स भगवान् नारायणः ।
`य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद’ इत्यादिश्रुतिभ्यः । `य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’ इत्युक्त्वा `तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी’ इत्युक्तत्वान्न शिवादयः । शिवो हि विरूपाक्षः । प्रसिद्धश्च पुण्डरीकाक्ष इति भगवान् नारायणः । `यमादित्यो न वेद’ इत्युक्तत्वान्नाऽदित्यः । `भेदव्यपदेशाच्चान्यः’ इति च भगवद्वचनम् । `वृत्रं यदिन्द्र शवसाऽवधीरहिमादित् सूर्यं दिव्याऽऽरोहयो दृशे । यत् सूर्यस्य हरितः पतन्तीः पुरः सतीरुपरा एतशे कः । सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतः सूर्यमारोहयो दिवि ।’,`चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत’,`यः सूर्य य उषसं जजान यो अपां नेता स जनास इन्द्रः’,`उद्वेति प्रसवीता जनानां महान् केतुरर्णवः सूर्यस्य’,`येनाऽवृतं खं च दिवं महीं च येनाऽदित्यस्तपति तेजसा भ्राजसा च’,`यमन्तःसमुद्रे कवयोऽवयन्ति तदक्षरे परमे प्रजाः’,`तमेताः पञ्चदेवताः परिम्रियन्ते विद्युद् वृष्टिश्चन्द्रमा आदित्योऽग्निः इत्यादौ सूर्यस्य सर्वत्र पराधीनत्वावगतेश्च । `ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुधृर्तशङ्खचक्रः’ इति च नारसिंहपुराणे ।
`तापनी पाचिका चैव शोषणी च प्रकाशनी ।
नैव राजन् रवेः शक्तिः शक्तिर्नारायणस्य सा ॥’
इति च पादम्े ॥
`यदादित्यगतं तेजो जगद् भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत् तेजो विद्धि मामकम् ॥’ इति च ॥
नच विष्णोरन्याधीनत्वं श्रुतिषूक्तं कुत्रचित् । उत्पत्तिस्तु प्रादुर्भावापेक्षया `एको नारायण आसीन्न ब्रह्मा नच शङ्करः’ इति महाप्रलये तस्यैवावस्थानश्रुतेः । `यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’ इति ब्रह्मशिवादीनां देव्यधीनपदप्राप्तिमुक्त्वा तस्या अपि भगवदधीनत्वम् । `मम योनिरप्स्वान्तः समुद्रे । ततो वितिष्ठे भुवना नु विश्वा’,`परो दिवा पर एना पृथिव्या’ इत्याह । `अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ’,`अहं सुवे पितरमस्य मूर्धन्’ इति ब्रह्मरुद्रयोर्देव्याः सकाशात् सृष्टिसंहारौ चोक्तौ । `अस्य देवस्य मील्ढुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदे हि रुद्रो रुद्रियं महित्वं यासिष्ठं वर्तिरश्विनाविरावत्’ इत्यादिना विष्णोः प्रसादादेवी शिवादीनां पदप्राप्तिकथनाच्च । `तमेताः सप्ताक्षितय उपतिष्ठन्ते तद् या इमा अक्षन् लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः’ इत्यादिना शिवादिसर्वदेवोपास्यस्य वायोः `अयं वाव शिशुर्योऽयं मध्यमः प्राणः’ इति मध्यमप्राणशब्दोक्तस्य `प्राणः स्थूणा’ इति प्राणशब्दोदितो नारायण आश्रय उक्तः । तस्मात् सर्वोत्तमो भगवान् नारायणः प्राणशब्दोदित आदित्यमण्डलस्थस्तपतीत्यादि सिद्धम् ।
`क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः ।
आजानजाः कर्मदेवास्तात्त्विका दक्ष एव च ॥
शक्रश्चोमा च रुद्रश्च भारती वायुरेव च ।
मुक्ता उक्ताः शतगुणा बलज्ञानसुखादिभिः ॥
विष्णुभक्त्यादिभिश्चैव गुणैः सर्वैः क्रमाधिकाः ।
तस्माद् रमा ततो विष्णुरनन्तगुणतोऽधिकः ॥
नित्यमुक्तः स्वतन्त्रश्च नचान्यस्तादृशः क्वचित् ।
कुत एवाधिकोऽन्यः स्याद् यन्मुक्ता अपि तद्वशाः ॥
रमाऽपि तद्वशा नित्यं स नान्यस्य वशे प्रभुः ।
न भेदः शेषशिवयोः सुपर्णः शेषसम्मितः ।
कामः शक्रसमो नित्यं प्रतिबिम्बाश्च ते क्रमात् ॥’
इत्यादि च महासंहितायाम् ॥
स पुरुषेषु शतवर्षं गत इति शतर्चिनामा । बहुरूपत्वाद् बहुवचनम् । एतमेव तथा सन्तं मुख्यत आचक्षते । ऋषींस्तूपचारतः । आत्मन उदरे धृतवान् मध्ये स्थित्वा धृतवांश्च ।
`प्राणस्थः प्राणनामाऽसावपानेऽपाननामकः ।
नेतृत्वाच्चापनेतृत्वाद् भगवान् पुरुषोत्तमः ॥’ इति च ॥
वामो भद्रः । वसिष्ठो वसतामुत्तमः । अभ्यपवयत पावयामास संसारात् । तद् विष्ण्वाख्यं ब्रह्म सूक्तान्यवोचतेति सूक्तनामकमभवत् । बतेत्यास्वादने । स्वात्मनैव स्वयं सुष्ठूक्तमिति वा । इदं सर्वं परिपूर्णं सन्नहमल्पप्राणिषु प्रविश्य सूक्ष्मरूपो महाप्राणिषु महारूपश्च भवानीति स भगवानब्रवीत् । तस्मात् क्षुद्रोऽसानीत्युक्तत्वात् क्षुद्रसूक्तास्ते क्षुद्रप्राणिषु स्थिता भगवत्स्वरूपसङ्घाः । महानसानीत्युक्तत्वान्महासूक्ता महाप्राणिस्थिताः । सूक्ष्मरूपत्वादेव क्षुद्रनाम भगवतः । नतु सामर्थ्याल्पत्वात् । नहि सामर्थ्यादिगुणेषु कश्चिद् विशेषो भगवद्रूपेषु । एभ्यः प्राणिभ्यो गतवानित्यृक् । गच्छति हि मरणकाले ।
`ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते बुधैः’ इति हि भारते ।
`म्रियमाणमियं जीवं वासुदेवादिदेवताः ।
त्यक्त्वा भागेन गच्छन्ति भागतोऽनुव्रजन्ति तम् ॥
गतैर्भागैरपि पुनर्विशेयुर्भोगसिद्धये ।
भोग्यलोकमनुप्राप्तं तस्मात् स्वप्नवदन्तरा ॥’ इति च ॥
`अर्च गतिपूजनयोः’ इति च । `ऋ गतौ’ इति धातोः । सर्वेभ्योऽर्द्धेभ्यः स्थानेभ्यः शरीरेभ्यो गतवानिर्त्यद्धचः । अधिकं क्षरतीत्यक्षरम् । क्षरणं नाम सन्ततदानम् । `क्षर विनाशसन्ततदानयोः’ इति धातोः । एवमृषिषु शब्देषु च व्यवह्वियमाणानि सर्वाणि नामानि विष्णोरेव मुख्यतः । किमु देवतानामानि?
`यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या’,`इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्’,`यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रामाहुर्यमु सत्यमाहुः । नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’ इत्यादिश्रुतिभ्यः ।
न केवलमृष्यादीनां नाम भगवतः । सर्वे वेदा अपि तस्यैव नाम । किमुच वेदाः? समुद्रघोषवृक्षपतनभेरीताडनादिसर्वघोषा अपि तस्यैव नामानि यथायोग्यं योजनीयानि । एकमेव व्याहरणम् । एकप्रकारमेव नाम । निर्दोषगुणपूर्तिवाचकत्वादेकप्रकारता । प्राणे नारायण एव । नारायणविषय एव व्यवहारः । ऋचस्तु विशेषत इन्द्रादिनामवतो विष्णोर्गुणानल्पज्ञानामपि प्रकाशयन्तीति प्राणे नारायण एवेति विद्यात् । उक्तं च बृहत्संहितायाम् -
`हुङ्कारेण सदैवाब्धिः सर्वाभिभवशक्तिमान् ।
विष्णोर्वक्ति यतो हुं हि पराभिभववाचकः ॥
ओमिति स्वरते नित्यं वायुर्मेघेषु संस्थितः ।
बलवान्नादसंयुक्तो ह्यधिकोच्चत्वमस्य च ॥
ओङ्कारस्यार्थ उद्दिष्ट उक्तार्थाधिक्यमेव च ।
नादो बली प्रवदति तथा भेरीध्वनिः प्रभोः ॥
अनुदात्तस्वरूपत्वादौदार्यं वदतीशितुः ।
तदपेक्षयाऽन्यनीचत्वं घण्टाद्याः स्वरितात्मकाः ॥
उच्चस्थितिमुदात्तस्तु स्वर्णचञ्च्वादिकस्वरः ।
विष्णोर्वक्ति तथा मन्द्रः श्वासादिः प्रचयात्मकः ॥
एकप्रकारतां विष्णोः सदाऽचाल्यां वदत्यपि ।
इत्यादयः सर्वघोषा विष्णोरेव गुणोन्नतिम् ॥
वदन्ति किमु वेदाद्या मार्जाराद्यभिधास्तथा ।
मारयित्वा प्रभक्ष्यैव जरयत्यखिलं जगत् ॥
तेन मार्जार उद्दिष्टो नामाऽसावित्याद्येकोऽभिधीयते ।
सर्वनामाऽपि भगवान् सर्वशक्तिश्च सर्ववित् ॥
ब्रह्मरुद्रादिजीवेभ्यो जडेभ्यः श्रिय एवच ।
व्यतिरिक्तः सदाऽनन्तः सान्द्रानन्दैकरूपकः ॥
तस्यैव मुख्यनामानि समाकृष्येतरेष्वपि ।
उपचारात् प्रवर्तन्ते व्यवहारप्रसिद्धये ॥
तथैव सर्वनामानि प्रवर्तन्ते च मारुते ।
न तावन्मुख्यवृत्त्यैव मुख्यतोऽन्यव्यपेक्षया ॥
मुख्यतः सर्वनामा तु विष्णुरेको नचापरः ।
तस्मात् प्राणादिशब्दाश्च विष्णावेव हि मुख्यतः ॥
अन्यव्यपेक्षया वायौ मुख्यवृत्तिर्विधीयते ।
वायुश्च सूर्यसंस्थः संस्तपत्येतज्जगत्त्रयम् ।
आज्ञयैव हरेर्वायोः शक्त्या सूर्यस्तपत्ययम् ॥’ इत्यादि ॥
न प्रसिद्धसूर्यस्येयं तापशक्तिरिति ज्ञापयितुम् `प्राणो ह्येष य एष तपति’ इत्युक्तम् । `प्राणाद् वा एष उदेति प्राणेऽस्तमेति’ इति च श्रुतिः । प्राणशब्दश्च मुख्यतो विष्णौ वर्तमानोऽपि वायावपि वर्तते । अतः सर्ववेदाद्यभिधेयत्वं वायोरप्यस्ति । `प्राणस्य प्राणः’ इति श्रुतेरुभयोरपि प्राणशब्दः सिद्ध एव । `अयं वाव शिशुर्वोऽयं मध्यमः प्राणः’ इति वायोर्विशेषणादुत्तमः प्राणो विष्णुरिति च सिद्धम् ।
`द्वावात्मानौ हि वेदेषु द्वौ प्राणौ द्वौ च चेतनौ ।
अज्ञानाभिभवास्पृष्टौ वायुर्नारायणश्च तौ ।
तदन्ये चेतनाः सर्वे प्राणाश्चाऽत्मान एवच ॥
अज्ञानाभिभवस्पृष्टास्तस्मात् ते ह्यधमाः श्रुताः ।
मध्यमो वायुरेवैक उत्तमः केवलो हरिः ॥
सर्वशब्दोदितौ तस्मादेतौ द्वावेव नापरः ।
अन्ये चैव मितैः शब्दैरुच्यन्ते नामितैः क्वचित् ॥
श्रीरप्यखिलशब्दोक्ता विष्णुवन्नतु मुख्यतः ।
तस्मादमितनामानावपि तौ मितनामवत् ॥
श्रीश्च वायुश्च विष्णुस्तु मुख्योक्तेरमिताभिधः ।
अनन्तनामकत्वाच्च सोऽनन्तगुण ईरितः ।
पृथङ्नामानि यस्मात् तद्गुणानेव प्रचक्षते ॥’
इत्यादि ब्रह्माण्डे ॥
अन्यदेवताविषयत्वेन प्रतीयमाना अप्यृचो भगवद्विषया एव मुख्यतः । तदनन्तरं वायुविषयाश्च ।
तस्माद् बृहतीसहस्रं सर्वं मुख्यतो नारायणस्यान्नम् । तदाज्ञया वायोश्च ।
तस्मात् तच्छंसनेन भगवान् वायुश्चातिप्रीत इति दर्शयति विश्वामित्रं ह्येतदहरित्यादिना ।
`वृत्रं हत्वा पुरेन्द्रस्तु महेन्द्रत्वाभिपत्तये ।
महाव्रतं कर्म चक्रे हौत्रं चक्रेऽत्र कौशिकः ॥
भृगुरध्वर्युरभवद् ब्रह्मा ब्रह्माऽभवत् स्वयम् ।
उद्गाता वायुरभवत् स्वयं नारायणः प्रभुः ॥
सादस्यमकरोत् तत्र तदन्येऽन्येऽपिचर्त्विजः ।
बृहतीसहस्रं शंसिष्यन् यदा सस्मार केशवम् ॥
वायुना सह देवेशस्तदा वासवमाविशत् ।
आविष्टो विष्णुनाऽथेन्द्रो वायुना सह कौशिकम् ॥
शंसेत्युक्त्वा निषण्णोऽभूदिदमन्नं तवेति सः ।
ऋक्साहस्रं शशंसात्र यमाङ्गत्वेन भक्तितः ॥
तच्छत्वा तुष्टिमगमत् कैशवो वायुसंयुतः ।
द्वितीयवारं शंसेति प्राह तं च जनार्दनः ॥
प्रीत्यैव शक्रमाविष्टो विश्वामित्रः शशंस तत् ।
अतिप्रियत्वाद् भगवान् पुनरप्याह कौशिकम् ॥
तृतीयं च शशंसासौ विष्णोरन्नं प्रकल्प्य तत् ।
ततोऽतितुष्टो भगवान् ददानि वरमित्यमुम् ॥
ऊचे स प्रथमे त्वेव निजसालोक्यमीश्वरः ।
प्रादाद् द्वितीये सामीप्यं तृतीये पुनरेव च ॥
वरं ददानीत्युक्तः सन् मुनिः प्राह जनार्दनम् ।
सम्यक् त्वामेव जानीयामिति मोक्षे सुखोच्चताम् ॥
इच्छंस्तं प्राह भगवानिन्द्रस्थो वायुसंयुतः ।
सर्वनामाऽहमस्म्येक इति ज्ञानं ममोत्तमम् ॥
यस्मात् सर्वगुणत्वं स्यात् सर्वनामत्व एव तु ।
नहि दोषाभिधायीनि विष्णोर्नामानि कानिचित् ॥
अदोषत्वान्महाविष्णोर्न सामान्यवचांस्यपि ।
सर्वोत्तमगुणात्मत्वात् सदा नारायणस्य हि ॥
सर्वोत्तमगुणानेव नामान्याचक्षते हरेः ।
यावज्ज्ञानेन मोक्षः स्यात् तावज्ज्ञात्वाऽपि कौशिकः ॥
अधिकज्ञानलब्ध्यर्थं मोक्षेऽधिकसुखाप्तये ।
जानीयां त्वामिति प्राह तस्मा आह स केशवः ॥
इन्द्राविष्टः प्राणनाम तथाऽन्याश्चाभिधाः प्रभुः ।
प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ॥
अहेयत्वादहंनामाऽस्म्यसनान्मिनुतेरपि ।
ततो वेत्तेति च त्वं स सर्वरूपप्रभूततः ॥
बहुरूपः स भूतानीत्युक्तो विष्णुः सनातनः ।
सर्वैश्वर्यस्वरूपत्वादेष इत्यभिधीयते ॥
स एव सूर्यसंस्थः सन् लोकं तपति केशवः ।
सर्वनामवतस्तस्य ममान्नं मित्रमुच्यते ॥
अन्नाभिमानिनी साक्षाच्छ्र2ीरेव प्रमदोत्तमा ।
साऽन्नमित्युच्यते विष्णोर्भोग्यत्वान्मित्रमेव च ॥
दक्षभागस्थितेनत्वाद् दक्षिणं नाम सोच्यते ।
तस्या इनो हि विष्णुः स दक्षभागे स्थितः सदा ॥
यस्याभिमानिन्यन्नस्य लक्ष्मीः सा देवतोत्तमा ।
वैश्वामित्रं तदन्नं तु ऋक्सहस्रात्मकं मतम् ॥
विश्वामित्रेण दृष्टत्वाद् वैश्वामित्रं तदीर्यते ।
इन्द्राविष्टः कोऽयमिति शङ्कां परिहरन् हरिः ॥
आदित्यसंस्थितो विष्णुस्तपन्नस्मीति चोचिवान् ।
त्वां जानीयामिति प्रश्नं विश्वामित्रस्य कुर्वतः ॥
अभिप्रायद्वयं ह्यस्ति शक्राविष्टो न चापरः ।
हरेरिति तु मे तर्कस्तेजोबाहुल्यतोऽजनि ॥
तस्य तर्कस्य सत्यत्वं ज्ञातव्यं प्रथमं मम ।
द्वितीयं यदि विष्णुः स्याज्ज्ञातव्यो मे विशेषतः ॥
इत्यभिप्रायमस्यैव ज्ञात्वा विष्णुः सनातनः ।
अभिप्रायद्वयस्यापि परिहारं हरिर्ददौ ।
प्राणो वाऽहमित्यादि नामसन्दर्भमुक्तवान् ॥
विशेषज्ञानसिद्ध्यर्थं नाम्नामुक्तिः परात्मनः ।
इन्द्राविष्टः कोऽयमिति शङ्कानुत्त्यर्थमेव च ॥
तपन्नेवास्मीत्यवदत् तपन्तं वेद सोऽपि हि ।
नारायणं सूर्यगतं गायत्र्योपासको हि सः ॥’
इत्यादि ब्रह्माण्डे ॥
उपनिषण्णमिन्द्रं दृष्द्वाऽपि त्वामेव जानीयामिति वरस्वीकारादिन्द्रादेव चेन्द्राविष्टो भगवानत्रोक्त इति ज्ञायते । इन्द्रं तु जानात्येव हि विश्वामित्रः । भगवन्तमपि स्वरूपत आगतं जानात्येव विशेषज्ञानप्रार्थने `प्राणो वा अहमस्म्यृषे’ इत्यादिकमेव पूर्यते । `एष तपन्नेवास्मि’ इति व्यर्थम् । `प्राणो ह्येष य एष तपति’ इत्युक्तत्वात् । `स एतेन रूपेण सर्वा दिशो विष्टोऽस्मि’ इत्यादिनाऽप्याविष्टस्य विष्णुत्वं किञ्चिज्ज्ञायते । तथाऽप्येतेनेति तृतीयत्वात् करणत्वशङ्का भवति । `तस्य मे’ इति वैयधिकरण्यमिति च । अतो भगवन्नामानि पृथगुक्त्वाऽहं विष्णुरिति `एष तपन्नेवास्मि’ इत्युवाचेन्द्रशरीरमेव पश्यतो विश्वामित्रस्य तर्कमात्रतो भगवानिति किञ्चिज्जानत इति ज्ञायते । नचेन्द्रस्य प्राणशब्दाभिधेयत्वं च विद्यते । `अजस्य नाभावध्येकमर्पितम्’ इत्युक्तस्य पदम्नाभस्य हि `यो देवानां नामधा एक एव’ इति सर्वदेवाभिधानत्वमुक्तम् । इन्द्रे हीन्द्रशब्दोऽपि न मुख्यतो वर्तते । परमैश्वर्याभावात् । इन्द्रशब्दोऽपि विष्णावेव वर्तते । स हि परमेश्वरः । `यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः’ इति श्रुतेश्च । `इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्’ इत्यादेश्च । `सप्तार्द्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’ इत्यादिना हि विष्णुरेव हि तत्र प्रस्तुतः ।
`नामानि विश्वाऽभि न सन्ति लोके यदाविरासीदनृतस्य सर्वम् ।
नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ॥’ इति च श्रुतिः ॥
`यो देवानां नामधा एक एव’ इत्यवधारणान्नान्यस्य सर्वनामवत्त्वम् ।
स च विष्णोर्नान्यः । पदम्नाभत्वादेव । श्रियो वायोरपि न नारायणादिनामवत्त्वम् ।
`एको वासुदेवस्तत्सदृशपरौ न स्तः’ इति हि श्रुतिः । `एको नारायणस्तत्समोऽधिको वा नास्ति’ इति च । `येनाऽवृतं खं च दिवं महीं च येनाऽदित्यस्तपति तेजसा भ्राजसा च’,`यमन्तः समुद्रे कवयोऽवयन्ति तदक्षरे परमे प्रजाः’ इत्युक्तस्य समुद्रशायिन एव नारायणस्य `तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’ इति परमब्रह्मत्वावधारणाच्च विष्णोः परं सदृशं वा नास्त्येव; अतस्तदत्रोच्यत इत्यपि न वक्तव्यम् । `परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति’,`न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप’ इत्यादेश्च । `नकिरिन्द्र त्वदुत्तरो न ज्यायाँ अस्ति वृत्रहन् । नकिरेवा यथा त्वम्’ इत्याद्यपि सर्वनामकत्वात् तस्यैव । `किमेकं दैवतं लोके किंवाऽप्येकं परायणम्’ इत्यादिप्रश्नस्यापि

`परमं यो महत् तेजः परमं यो महत् तपः ।
परमं यो महद् ब्रह्म परमं यः परायणम् ॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रम् ॥’ इत्येव भारतेषु परिहाराच्च ॥
`मेऽन्नं दक्षिणम्’ इत्युक्तत्वाच्च विष्णुरेवेति ज्ञायते । स हि विष्णुर्दक्षिणामित्र उक्तो हरिवंशेषु धन्याश्चर्याध्याये -
`दक्षिणाभिः सहैवैतन्मदधस्ताज्जगत् सदा ।
धन्याश्चर्योऽहमेवैको मित्रं मे दक्षिणा रमा ।
इत्यवादीद्धरिर्भूपा धन्योऽसीत्युदितो मया ॥’
इति नारदवचनम् ॥
नच बृहतीसहस्राभिमानिनी देवीं विना चेतनमात्रस्य मुख्यमित्रत्वं युज्यते `मिनोति त्रायते चेति मित्रमित्यभिधीयते ।
तस्माद् यो यं विजानाति स मित्रं तस्य नान्यथा ॥’ इति च भारते ॥
उक्थायुत्वाच्च विष्णुरेवात्रोक्त इत्यवगम्यते । बृहतीसहस्रं ह्युक्थनामकं मुख्यतः -
`महाव्रतनियुक्तं यदृक्सहस्रं हरेः प्रियम् ।
तदुक्थमिति सम्प्रोक्तं तेने यो विष्णुरेव हि ॥
तस्मादुक्थायुरित्युक्त ऐश्वर्यादिन्द्र उच्यते ।
तस्मादुक्थायुरिन्द्रेति विष्णुर्यज्ञेषु पूज्यते ॥’ इति हि गारुडे ॥
विष्णुर्ह्युक्थायुरिन्द्र इत्युच्यते यज्ञेषु । अन्य इन्द्रः पृथक् चोच्यते । `यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः’ इत्युक्त्वा `तस्मै त्वा तेभ्यः’ त्विति भेदवचनाच्च । सत्य इति वायुः -
`सदिति प्राणः’ इति श्रुतेः ।
`सदेव सत्यमित्युक्तं सत्यो वायुरुदाहृतः ।
साधुत्वं सत्यता प्रोक्ता साधुर्वायुर्हि सर्वतः ॥’
इति शब्दनिर्णये ॥
प्रियधाम्नः उप समीपे गमनं नाम तद्धामप्राप्तिकारणभगवत्प्रसादप्राप्तिः । अन्यथोपशब्दो व्यर्थः स्यात् । नच तदैव भगवतः प्रियं धाम विश्वामित्रेण प्राप्तम् ।
`बृहतीसहस्रे प्रथमे सालोक्यं प्रददौ हरिः ।
द्वितीये स्वपुरप्राप्तिं तृतीयेऽन्तःपुरस्य च ।
तथा स्वविषयं ज्ञानं विश्वामित्रे ददौ प्रभुः ॥’
इति च गारुडे ॥
नचेन्द्रादिभिरैक्यमत्रोच्यते । `प्राणस्तथाऽनुगमात्’ इति च विष्णोरेव प्राणशब्दाभिधेयत्वमुक्त्वा `न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्’ इति च बृहतीसहस्रशंसितुर्विश्वामित्रस्येन्द्रेण स्वात्मोपदेशः क्रियत इति पक्षो निराकृतो भगवता सूत्रेषु । अध्यात्मसम्बन्धशब्देनाऽवेशो हि विष्णोरिन्द्रे विवक्षितो भगवता । अन्येष्वप्यन्तर्यामिरूपेण सम्बन्धोऽस्त्येव । अस्मिन्निन्द्रे तु विशेषावेशस्तात्कालिकः । अधिकात्मनः परमात्मनः सम्बन्धोऽध्यात्मसम्बन्धः । नहि स्वात्मना स्वस्य सम्बन्धो भवति । यद्यध्यात्ममत्रोच्यत इति विवक्षितं तर्ह्यध्यात्मभूमेत्येव स्यात् । सम्बन्धशब्दो व्यर्थः । तस्मादिन्द्रादिजीवेभ्यो विष्णोर्भेद एवात्र भगवतो विवक्षितः । `शास्त्रदृष्ट्या तूपदेशो वामदेववत्’ इति शास्तुरन्तर्यामिणो विष्णोः सर्वशरीरे स्थितत्वात् सर्वनामाभिधेयत्वं चोक्तम् - `अहं मनुरभवं सूर्यश्च’ इत्यादिवत् । नहि मनुसूर्यादिर्भवति वामदेवस्तेषां पक्षेऽपि । सर्वप्रवृत्तिहीनतां हि ते मोक्षं वदन्ति । अत्र च भूमिमददामार्याय’ इत्यादिना प्रवृत्तिरेवोच्यते । नच वामदेवेन मन्वादिकर्म क्रियते कदाऽपि । अतीतार्थश्चायं दृश्यते भूमिमददामित्यादिना । नहि पूर्वं वामदेवेन तानि कर्माणि कृतानि । भगवान् विष्णुर्हीन्द्राय भूमिमददात् । स एव च सर्वेष्वन्तर्यामित्वेन स्थित्वा नामप्रवृत्तिनिमित्तानि सर्वकर्माणि कुर्वन्नवबोधसूरिनियमनादिभिर्मनुसूर्यादिसर्वनामा भवति । यदि भेदस्य पूर्वमपि मिथ्यात्वमङ्गीक्रियते तर्हि भूमिदानादिसर्वकर्मणां मन्वादित्वस्यापि मिथ्यात्वात् `अहं मनुरभवम्’ इत्यादि सर्वमनर्थकमेव भवति ।
`जीवेश्वरभिदा चैव जीवभेदः परस्परम् ।
जडेश्वरभिदा चैव जडभेदस्तथैव च ॥
जडजीवभिदा चैव सत्योऽयं भेदपञ्चकः ।
न कदाचिन्निवर्त्योऽयं मुक्तौ संसार एव वा ।
य एतदन्यथा ब्रूयुस्ते हि यान्त्यधरं तमः ॥’
इति भविष्यत्पर्वणि ।
`असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’, `ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी’, `एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’ इत्यादि च ॥
नच `प्राणो वा अहमस्म्यृषे’ इत्यादावहमस्म्यादिशब्दोऽस्मच्छब्दस्थः । `एष तपन्नेवास्मि’ इत्युपरितनस्य वैयर्थ्यात् । `प्राणो ह्येष य एष तपति’ इत्युक्तत्वात् । अतोऽहमस्मीत्यादि च भगवन्नामैव । नच जीवैक्यवचनमत्र प्रस्तुतम् । `ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव’ इति सर्वनामाभिधेयत्वं भगवत उक्त्वा तत्रैव हि प्रमाणत्वेन `विश्वामित्रं ह्येतदहः’ इत्याद्याख्यायिकोक्ता । तस्मात् सर्वान्तर्यामित्वात् सर्वगुणवत्त्वात् सर्वशक्तित्वाच्च सर्वनामवत्त्वमेव विष्णोरुच्यते । नतु सर्वस्वरूपत्वम् । उक्तं च भारते -
`स्रष्ट्र2त्वाच्चैव पातृत्वान्नियमाच्च प्रकाशनात् ।
सर्वत्वमुक्तं विष्णोस्तु नतु सर्वस्वरूपतः ॥’ इति ॥
`पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यमिति पुरुषेणैवेदं सर्वं व्याप्तं यद् भूतं यच्च भव्यम् । आ तृणादा करीषात् सर्वं भगवानिति मिथ्यादृष्टिरेषा’ इति च श्रुतिः । `हिरण्मयो हवा अमुष्मिन् लोके सम्भवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद’,`अमृतो हवा अमुष्मिन् लोके सम्भवत्यमृतः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद’,`स एतेन प्रज्ञेनाऽत्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत्’ इत्यादिना मुक्तानामपि भेदस्यैवोक्तेश्च ।
नहि भेदाभावे सर्वेभ्यो भूतेभ्यो ददृश इति युज्यते । नचामुक्तैः सर्वभूतैर्मुक्तो दृश्यते । एकत्वे तु ददृश इत्येतावता पूर्यते सर्वेभ्यो भूतेभ्य इति व्यर्थम् । नच तेषां पक्षे स्वयमपि स्वात्मानं पश्यति । कतृर्कर्मविरोध इति हि ते वदन्ति । अतः सर्वश्रुतिविरोध एव जीवेश्वरैक्याङ्गीकारे । नच कतृर्कर्मविरोधो नामास्तीत्यत्र किञ्चिन्मानम् । श्रुत्यनुभवसिद्धत्वाच्च स्वदर्शनादेः । नच तेषां पक्षे प्रज्ञेन सर्वज्ञेन परमात्मना सर्वकमाप्तिर्नामाङ्गीक्रियते शरीरादुत्क्रान्तस्य ज्ञानिनः । तस्माद् वेदविरुद्धवादिन एव तेऽपि । नच शून्यवादिनः कश्चिद् विशेषो दृश्यते । नहि सर्वावाच्यं सर्वाज्ञेयं शून्यं चेति कश्चिद् विशेषः । केनापि शब्देनावाच्यस्य लक्षणायामपि प्रमाणं नास्ति । क्षीरमाधुर्यादयोऽपि तैरेव शब्दैरुच्यन्ते ।
`विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्ष्णकम् ।
सितस्य पनसादीनां निर्हारीत्यभिधीयते ॥’
इति च शब्दनिर्णये ॥
नच सर्वगुणदोषक्रियाविनिर्मुक्तस्यास्तित्वमपि कुत्रचिद् दृष्टम् । अतः शून्यवादिन एव तेऽपि ।
`अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति’ इत्यादिना प्रसादादिगुणाश्च भगवतो दृश्यन्ते । `यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः’ इत्यादिना कर्माणि च । `तस्मिन् देवा श्रिताः सर्वे’ इत्यादिगुणाश्च तत्रैवोक्ताः । `अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । अदध्नास उपकक्षास उ त्वे ह्वदा इव स्नात्वा उ त्वे ददृश्रे’ इति मुक्तानामपि तारतम्यं चोक्तम् ।
`श्रुत्वा विष्णुं कर्णफलं प्राप्तत्वात् कर्णसंयुताः ।
अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्तास्तु ये गणाः ॥
तारतम्यं हि तेषां च नुतावुदितमञ्जसा ।
क्षीरसागरदध्नास्तु केचित् तिष्ठन्ति मुक्तिगाः ॥
उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् ।
ऐरे ह्वदे केचिदपि देवा एव सदा हरिम् ॥
नागभोगशयं मुक्ता ददृश्रेऽधिकमोदिनः ।
सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हि ॥’
इति च ब्रह्मसारे ॥
`यत्र ब्रह्मा पवमानच्छन्दस्यां वाचं वदन् । ग्राब्णा सोमे महीयते सोमेनाऽनन्दं जनयन्निन्द्रायेन्दो परि स्रव । यत्र ज्योतिरजस्रं यस्मिन् लोके स्वर्हितम् । तस्मिन् मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव । यत्र राजा वैवस्वतो यविरोधनं दिवः । यत्रामूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव । यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः । लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रयेन्दो परि स्रव । यत्र तत् परमं पदं विष्णोर्लोके महीयते । देवैः सुकृतकर्मभिस्तत्र माममृतं कृधीन्द्रयेन्दो परि स्रव । यत्राऽनन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राऽप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव’ इत्यादिना ब्रह्मसूर्ययमादीनां सर्वदेवानां दिवो देव्या अवरोधभूतानां सर्वदेवीनां गङ्गाद्यब्देवतानां च वेदव्याख्यानं सोमयागादिकं कामचरणादिकं च मुक्तानां भेदेनावस्थितानामुच्यते ।
मुक्ताश्चात्रोच्यन्त इति प्रतीयते । `अमृतं कृधि’ इति वचनात् । अमुक्तानां स्वे स्वे लोकेऽवस्थानं हि तेषाम् । मुक्तानां हि विष्णुलोकेऽवस्थानं देवानाम् । `मुक्तः प्रतिज्ञानात्’,`सङ्काल्पादेव च तच्छतेः’,`जगद्व्यापारवर्जम्’,`भोगमात्रसाम्यलिङ्गाच्च’,`अनावृत्तिः शब्दादनावृत्तिः शब्दात्’ इत्यादिसूत्रेभ्यश्च मुक्तानां विष्णोर्भेदो भोगादिकं च सर्वं प्रतीयते । `ग्राब्णा सोमे महीयते’ इति ब्रह्मणोऽन्यमुक्तैः पूज्यत्वं च प्रतीयते । नच सूत्रेषु निश्चितार्थस्यौपचारिकत्वादि वक्तुं युज्यते । निर्णयात्मकत्वात् तेषाम् । अतिप्रसङ्गश्चोपचारादिकल्पने ।
`ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः’ इति हि विनिश्चितानि ब्रह्मसूत्राणि । `बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति ।
योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः ॥’
इति चाऽदित्यपुराणे ॥
नच निर्णयात्मकानि भगवद्वाक्यान्यपहाय मानुषवाक्यैरेव तेषामुपचारत्वादिकं कल्प्यम् । भोगरहिता मुक्तिर्नामान्याऽस्तीत्यत्र किञ्चिन्मानम् ।
`भुञ्जते पुरुषं प्राप्य यथा चैव ग्रहादयः ।
तथा मुक्तावुत्तमायां विष्णुमाविश्य भुञ्जते ॥
विष्णोर्वशाश्च ते सर्वे सर्वदा दुःखवर्जिताः ।
नतु विष्णुगुणान् सर्वे भुञ्जते ते कदाचन ॥
बाह्ययोगात् भुञ्जते च तारतम्येन कांश्चन ।
विष्णोर्देहाद् बहिश्चापि निर्गच्छन्ति यथेष्टतः ॥’
इत्यादि च स्कान्दे ॥
`इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥’
इति भगवद्वचनम् ॥
तस्मान्मुक्तैरपीज्यमानः सर्वस्माद् भिन्नः सर्वोत्तमः सर्वनामा सर्वशक्तिः सर्वगुणसम्पूर्णो नारायणः सर्ववेदादिषूच्यत इति सिद्धम् । यावतीभिऋर्ग्भिः शंसिताभिः षट्त्रिंशतिसहस्राण्यक्षराणि भवन्ति यस्मात् कस्मादपि च्छन्दसस्तावत्यः शंसनीयास्तदा सम्पादितबृहतीसहस्रं भवति । तत्र या व्यञ्जनाभिमानिदेवता सैव सर्वप्राणिनां शरीराभिमानिदेवता स्वायम्भुवो मनुः । घोषाभिमानिदेवता सर्वजीवाभिमानी ब्रह्मा । ऊष्माभिमानी वायुः ।
`व्यञ्जनानां शरीरस्य चाभिमानी मनुः स्मृतः ।
घोषाणां सर्वजीवानामभिमानी चतुर्मुखः ॥
ऊष्माभिमानी वायुश्च प्रतिपाद्यो जनार्दनः ।
एतेषामधिपं विष्णुं बृहत्युक्थस्य देवताम् ॥
उपास्यैव वसिष्ठोऽभूद् वसिष्ठः शक्र एव च ।
एतां विद्यां कौशिकाय भरद्वाजाय चाददात् ॥
एतद्विद्याबलेनैव विद्याधीशेन बन्धुना ।
यज्ञेष्वाहूयते नित्यमिन्द्रो विष्णुप्रसादतः ॥
षट्त्रिंशद्रूपवान् विष्णुर्व्यञ्जनेषु च संस्थितः ।
तान्येव विष्णुरूपाणि रात्रीणामपि देवताः ॥
एकैकं च सहस्रं तद् व्यञ्जनेषु च रात्रिषु ।
रूपं विष्णोः स्थितं व्यूह्य षट्त्रिंशतिसहस्रधा ॥
षट्त्रिंशतिसहस्राणि स्वरगानि हरेरपि ।
तान्येवाह्नां दैवतानि रूपाणि परमात्मनः ॥
द्वासप्ततिसहस्राणि रूपाण्येवं रमापतेः ।
शताब्दानामहोरात्रदैवतान्युत्तमानि च ॥
बृहतीसहस्रवर्णानामपि ध्यात्वाऽखिलान्यपि ।
शतवर्षहरिध्यानफलमाप्नोति पूरुषः ॥
एवं ज्ञात्वैव सम्पाद्य बृहतीनां सहस्रकम् ।
ज्ञानान्नारायणस्यैव प्रकृष्टज्ञानसन्ततेः ॥
स एव मे मयो विष्णुः प्रकृष्टज्ञानरूपकः ।
प्राधान्यं मयशब्दोऽयं वक्ति विष्णोः सदैव हि ॥
प्रधानोऽस्य हरिर्यस्मात् प्रज्ञारूपोऽधिदेवता ।
ब्रह्मामृतं च तेनायं ब्रह्मादिमय उच्यते ॥
सर्वोत्तमस्वरूपत्वाद् विष्णुरुक्तः स देवता ।
ब्रह्म पूर्णगुणत्वाच्च नित्यत्वादमृतं तथा ॥
एतादृशं तु यो विष्णुं प्रधानं वेत्ति सर्वदा ।
प्रज्ञादिभिर्गुणैः स्वस्मात् परेभ्यश्च सदाऽधिकम् ॥
प्रज्ञादेवब्रह्मामृतमयः स परिकीर्तितः ।
प्रज्ञादिमय एवं स भूत्वा देवान् क्रमेण च ॥
एति मारुतपर्यन्तान् मारुतेन च केशवम् ।
सम्पादनाच्च विद्याया अस्याः परत एवच ॥
द्वासप्ततिसहस्राणि रूपाणि हि रमापतेः ।
बृहतीसहस्रसंस्थानि स्वरव्यञ्जनभेदतः ॥
तान्येव पुरुषस्थानि यस्मात् पुरुषसंस्थितम् ।
बृहतीसहस्रं तच्छंस्यं व्यज्यते नह्यृते नरम् ॥
द्वासप्ततिसहस्राणि तान्येवाहर्निशासु च ।
विष्णो रूपाणि सूर्येऽपि त्वहोरात्रं हि सूर्यगम् ॥
तस्माद् योऽयमहंनामा सदाऽहेयत्वहेतुतः ।
स एवासौ सूर्यसंस्थः साक्षान्नारायणः प्रभुः ॥
योऽसौ सूर्यगतो विष्णुः सोऽहेयो भास्करादिभिः ।
एवं मनुष्यजीवेषु सूर्यादिषु च संस्थितः ॥
एक एव परो विष्णुरिति जीवसमीपगम् ।
ईक्षेन्नारायणं देवं सर्वजीवेश्वरेश्वरम् ॥’ इत्यैतरेयसंहितायाम् ॥
सम्पन्नस्य परस्तादेव अनन्तरमेव । न पुनः कर्मान्तरेण शरीरारम्भ एवंविदो भवति । `प्रज्ञामयो देवतामयः’ इत्यादि पृथक् पृथङ् मयशब्दोऽनिरुद्धादिचतुर्मूर्तीनामपि परस्परसाम्येन सर्वजीवेभ्य आधिक्यं ज्ञातव्यमिति दर्शयितुम् ।
`अन्तर्यामिस्वरूपेण ज्ञापयन्ननिरुद्धकः ।
प्रज्ञेत्युक्तो द्योतनाच्च प्रद्युम्नो देवतोदितः ॥
अमं करोति यच्छास्त्रमृतं स्वस्मिन् पुनः पुनः ।
सङ्कर्षणोऽमृतं तस्माद् वासुदेवस्तु बृंहणात् ॥
जीवानां मुक्तिदानेन ब्रह्मेति कथितः प्रभुः ।
एवमेकोऽपि भगवांश्चतुर्धा समुदीरितः ॥’
इत्यादि चातुरात्म्ये ॥
सम्भूयेत्यत्र समित्युपसर्गाद् बृहतीसहस्रसम्पादनानन्तरं भगवदाधिक्यं पुनराधिक्येन ज्ञायत इत्युक्तं भवति । भगवदाधिक्यमधिकं ज्ञात्वा देवता अपि क्रमेण प्राप्नोति ।
`द्वासप्ततिसहस्राणां रूपाणां पर्युपासनात् ।
आधिक्यं ज्ञायते विष्णोर्नितरां हि पुनः पुनः ॥
प्राप्नोति देवताश्चैव केशवान्ताः क्रमेण तु ।
योग्या अस्याश्च विद्याया देवा ऋषय एव च ॥’
इत्यादि सत्तत्वे ॥
बृहतीसहस्रस्थितानि विष्णुरूपाणि पुरुषे स्थितानि पुरुषैरहेयत्वादहंनामकानि यानि तान्येव सूर्ये स्थितानि । यान्येव सूर्ये स्थितानि तान्यपि सूर्यादिभिरहेयत्वादहंनामकानि । तदेव उक्तं नारायणाख्यं परं ब्रह्मैव सर्वदा उप समीपे ईक्षेत । नात्र जीवेश्वराभेदो विवक्षितः । उप ईक्षेतेति समीपे दर्शनवचनात् । नच निरर्थकत्वमुपसर्गस्याङ्गीकर्तुं युक्तम् । नह्यार्षेषु वेदेषु व्याकरणनिरुक्तादिषूपसर्गाणां वैयर्थ्यमङ्गीकृतं कुत्रचित् । उक्तं च भगवता व्यासेन -
`नानर्थकः स्वरो वाऽपि वर्णो वा कुत्रचित् भवेत् ।
पदं वाक्यं कुतश्च स्यान्नाल्पार्थमपि कुत्रचित् ॥
उच्चाराद्यर्थमपि वा नास्ति किञ्चित् स्वरादिकम् ।
महार्थमेव सर्वं हि वेदे वा वैदिकेऽपि वा ॥’ इति ॥
सुकरं च सर्वपदानामनर्थकत्वकल्पनम् । यैश्च वाक्यैरर्थवत्त्वं प्रतीयते तेषामप्यनर्थकत्वमेव स्यात् । विशेषाभावात् । नच मानुषवाक्येन वेदपदानामानर्थक्यं कल्प्यम् । जीवेश्वरैक्याङ्गीकारे `योऽहं सोऽसौ’ इत्येव पूर्यते, पुनः `योऽसौ सोऽहम्’ इति व्यर्थम् । नह्यस्य तेनैक्ये तस्यानेन भेदशङ्का भवति । अस्य तस्येति भेदाङ्गीकारे नाभेदो मुख्यः । किन्तु तदधीनत्वमेवान्यस्य भवति स्नेहविशेषो वा । चैत्रो मैत्रो मैत्रश्चैव इतिवत् । तत्र ह्युभयस्नेहापेक्षया पुनर्वचनं युज्यते । अभ्यासत्वे ह्येकप्रकारेण प्रयोगो दृष्टः । अत्र हि प्रयोगद्वैविध्यं दृश्यते ।
`एकप्रकारा बहुशो वागभ्यास इतीरितः ।
अर्थान्तरार्था द्विविधा प्रयुक्तेति हि निर्णयः ॥’
इति हि गारुडे ॥
अहंशब्दस्याहेयत्वाङ्गीकारे नराहेयत्वं सुराहेयत्वं चोच्यत इति न वैयर्थ्यम् । `अः इति ब्रह्म तत्राऽगतमहमिति’,`नवा अहमिमं विजानाति’,`तस्योपनिषदहम्’ इत्यादौ विष्णोरेवाहेयत्वेनाहंनामकत्वप्रसिद्धेः । अहंशब्दस्यास्मच्छब्दार्थत्वे `अहमिमं विजानाति’ इति न युज्यते । `तस्य भूरिति शिरो भुव इति बाहू’ इत्यादिनाऽक्षिसंस्थितो भगवानेव ह्यहंशब्दोदितः । नहि जीवस्याक्षिणि पृथक् शिरोबाह्वादिकं विद्यते । हृदि स्थितमेव हि तस्य रूपम् । जागरितेऽप्यक्ष्यादिषु विशेषसन्निहितं भवति दीपप्रकाशवत् । `अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि’,`गुणाद् वाऽऽलोकवत्’ इति च सूत्रात् । `आदित्ये हिरण्मयः पुरुषस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी’ इत्यादि सूर्ये स्थितस्य विष्णो रूपमुक्त्वाऽक्षिस्थितस्यापि `तस्यैतस्य तदेव रूपम्’ इत्यादिकथनाच्च । `स एष ये चैतस्मादर्वाञ्चो लोकस्तेषां चेष्टे’ इत्यादिलोकाधिपत्यकथनाच्च । नहि कश्चिद् भिक्षुकः पातालाद्यधिपतिरित्यत्र किञ्चिन्मानम् । तस्माद् भगवानेवाहेयत्वादहंनामा । `चक्षुर्मित्रस्य वरुणस्याग्नेः’,`जगतस्तस्थुष आत्मा’ इत्यादि जीवेभ्यो भेददर्शनाच्च ।
`यच्चाऽप्नोति यदादत्ते यच्चात्ति विषयानिह ।
यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते ॥’
इति च भारते ॥
देवता अपि एति प्राप्नोतीत्येव चार्थः । लयश्चेद् देवतास्वप्येतीति स्यात् । नच विनाशः पुरुषार्थः । मयट्शब्दस्य भगवत्प्राधान्यार्थत्वानङ्गीकारे `सम्भूय देवता अप्येति’ इति ल्यप् न युज्यते । उपासनायास्तु `सम्पन्नस्य परस्तात्’ इत्युक्तत्वात् पूर्वमेव सिद्धिः ।
`सर्वस्माद् भिन्नमीशेशं जीवाभेदेन यः स्मरेत् ।
स यात्यन्धं तमो घोरं नित्यातिशयदुःखदम् ॥
सर्वोत्तमं तु यो विष्णुं भिन्नं जानाति सर्वतः ।
नित्यानन्दमसौ याति वासुदेवप्रसादतः ॥’
इति चैतरेयसंहितायाम् ॥
अतः सर्वव्यतिरिक्तः सर्वोत्तमः सर्वगुणसम्पूर्णो नारायण इति सिद्धम् ॥ `सर्वप्रमाणसिद्धत्वं वक्तुमाऽध्यायमूलतः ।
अध्यायान्ते द्विरुक्तिः स्यात् पूर्वोक्तस्यावधारणे ॥’
इति शब्दनिर्णये ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमहैतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके प्रथमोऽध्यायः ॥

भाष्यम्
योऽसौ नारायणो देवः परमात्मा सनातनः ।
नित्याततगुणत्वात् स आत्मेत्युक्तः सदा श्रुतौ ॥
नारायणादिरूपेण पञ्चधाऽवस्थितः सदा ।
सर्वस्योत्थापकत्वात् स उक्थमित्यभिधीयते ॥
बृहतीसहस्ररूपे च स उक्थे पञ्चधा स्थितः ।
पञ्चभेदं हि तच्छस्त्रं तृचाशीतित्रयं च यत् ॥
पूर्वापरं तृचाशीत्या इति पञ्चात्मकं हि तत् ।
प्रथमे पञ्चकाद् भागे स्थितो नारायणः स्वयम् ॥
ऋक्त्रयाशीतिके पूर्वे गायत्रीच्छन्दआत्मके ।
वासुदेवः स्थितो नित्यमृगशीतित्रये तथा ॥
द्वितीये बृहतीच्छन्दस्यसौ सङ्कर्षणः स्थितः ।
यस्याऽवेशबलेनैव जीवसङ्कर्षणोऽपरः ॥
पृथिवीं बिभर्ति सततं तत्प्रसादात्तवैभवः ।
तृतीयायां तृचाशीत्यामुष्णिक्छन्दसि केशवः ॥
प्रद्युम्नरूपी सततं स्थितो यस्यैव सन्निधेः ।
कामः प्रद्युम्ननामाऽभूत् तत्प्रसादाप्तवैभवः ॥
उक्थस्यैवान्त्यभागे तु सोऽनिरुद्धो हरिः स्थितः ।
कामपुत्रोऽनिरुद्धाख्यां यदावेशेन लब्धवान् ॥
एवं पञ्चात्मकं विष्णुं बृहदुक्थस्य देवताम् ।
यो वेद सम्यग् वेत्ता स तानि रूपाणि वै हरेः ॥
स्थितानि पञ्चभूतेषु पृथिव्याद्यभिधानि च ।
तदावेशात् पृथिव्यादिनाम भूतेषु पञ्चसु ॥
पृथुत्वात् पृथिवीनामा भूमौ नारायणः स्थितः ।
बलज्ञानस्वरूपत्वाद् वायुनामा स एव च ॥
वायौ सङ्कर्षणो नित्यं स्थित आकाशनामकः ।
व्याप्तत्वाद्वासुदेवस्तु सदाकाशे स्थितः प्रभुः ॥
अनिरुद्धस्तथैवाप्सु बहुरूपो व्यवस्थितः ।
अम्नामा पालनान्नित्यं प्रद्युम्नो ज्योतिषि स्थितः ॥
ज्योतिर्नामा द्योतनाच्च बहुरूपः पृथक् पृथक् ।
यद्यप्यस्य हरेः सर्वरूपाण्यप्यखिलैर्गुणैः ॥
पूर्णान्यथापि चैवैकरूपेषु स पृथग्गुणैः ।
व्यवहारात् पृथग् देवः करोतीव हि लीलया ॥
तस्मात् पृथगिवास्येति नाम विष्णोः परात्मनः ।
सर्वत्र सर्वनाम्नोऽपि व्यवहारार्थमीर्यते ॥
एतस्माद्धि हरेर्नित्यं जगदुत्तिष्ठति प्रभोः ।
मुक्तौ लये च तं याति स च सर्वाश्रयः प्रभुः ॥
य एवं वेत्ति तं विष्णुमुपास्ते चाऽपरोक्ष्यतः ।
स मुक्तः समजातीनामाश्रयश्च भविष्यति ॥
स्वजातीनामुत्तमत्वापदयोग्या हि ये सुराः ।
ब्रह्मेन्द्राद्यास्ते हि योग्याः साक्षादस्मिन्नुपासने ॥
अन्येषां ज्ञानमात्रेण योग्यमाधिक्यमाप्यते ।
सङ्कर्षणश्च प्रद्युम्नस्तत्र भोक्तृषु संस्थितौ ॥
भोक्तृशक्तिप्रदौ नित्यं भोक्तारौ च विशेषतः ।
नारायणानिरुद्धौ तु भोग्यवस्तुषु संस्थितौ ॥
तर्पकौ सर्वलोकानां तस्माद् भोग्यौ न चर्व्यतः ।
अवकाशप्रदो नित्यं वासुदेवो नभःस्थितः ॥
एवं पञ्चात्मकं विष्णुं य उपास्ते सदैव च ।
अवकाशप्रदः सोऽपि स्वजातीनां भविष्यति ॥
भोक्ता चाऽप्यायकश्चैव तस्य विष्णोः प्रसादतः ।
ब्रह्मेन्द्राद्याः स्वजातीशपदयोग्या अमुष्य च ॥
योग्या उपासनस्य स्युस्तदन्ये ज्ञानमात्रके ।
सङ्कर्षणश्च प्रद्युम्नो जङ्गमेष व्यवस्थितौ ॥
नारायणानिरुद्धौ तु स्थावरान्तर्गतौ प्रभू ।
तत्राप्याकाशगो नित्यं वासुदेवो निरञ्जनः ॥
प्राणानां भरणान्नित्यं प्राणभृन्नाम तद्धरेः ।
नह्यन्यः प्राणभर्ताऽस्ति तमृते पुरुषोत्तमम् ॥
ओषणाच्च निधानात्तु स एवौषधिनामकः ।
वननीयपतित्वाच्च स एव हि वनस्पतिः ॥
अन्ने स्थित्वा तृप्तिदत्वं तस्याऽद्यत्वमपीष्यते ।
पुरुषस्य हरेर्ये तु सदाऽऽकारेण संस्थिताः ॥
देवगन्धर्वमर्त्याद्यास्तेषु सङ्कर्षणो हरिः ।
प्रद्युम्नश्च स्थितो नित्यं पुरुषाकृतिरेव तु ॥
तौ भोक्तारौ च भोग्यानां भोजकावखिलस्य च ।
नारायणानिरुद्धौ तु तथाऽन्यपशुषु स्थितौ ॥
वृषभाश्वादिरूपेण तृप्तिदावखिलस्य च ।
वाहनोपानहादीनामारोढ्ढारो नरादयः ॥
यतः सङ्कर्षणश्चैव प्रद्युम्नस्तेषु संस्थितौ ।
ततस्तयोर्हि सञ्चार उपरीव भविष्यति ॥
आकाशगो वासुदेवः पञ्चमोऽत्राप्युपास्यते ।
वाहनादियुतो मुक्तौ भवेदेतदुपासकः ॥’
इत्याद्यैतरेयसंहितायाम् ॥
आत्मशब्दाच्च न भूतमात्रमत्रोच्यते । नच मुख्यार्थं परित्यज्योपचारार्थोऽङ्गीकर्तव्यो विरोधाभावे । सर्वनामवत्त्वं च भगवतः श्रुत्यैवोपपादितं पूर्वत्र । `वप नीरोमकरणावकाशप्रदानबीजवर्धनेषु’ इति च धातुः । तस्मिन् पञ्चके योऽन्नमन्नादं च वेद सोऽस्मिन् स्वजातियूथे विशेषेणान्नाद आ जायते ह । तस्मिन् वेद अस्मिन् आ जायत इति पृथक् पृथक् पुनःपुनर्विशेषणादुपासकस्य स्वजातिसन्निधानाच्च स्वजाताविति ज्ञायते ।
`क्षीराब्धिशयनं विष्णो रूपं यत् पुरुषाभिधम् ।
सङ्कर्षणश्च प्रद्युम्नस्तदाकारौ नृषु स्थितौ ।
नारायणानिरुद्धौ तु पश्वाकारौ पशुस्थितौ ॥’
इति च सत्तत्त्वे ॥
गुणवैशेष्याभावेन वाहनादिषु चरणमात्रात् `अधीव चरन्ति’ इत्यादीवशब्दः ॥
`आविर्भावं तारतम्याद् यो वेद परमात्मनः ।
स तस्यैव विशेषेण प्रीतियोगाद् भविष्यति ॥
स्थावरं जङ्गमं चैव भूयस्त्वेनाश्नुते हरिः ।
आविर्भूत्तेषु सदा सम्यक् स्वात्मानमेव च ॥
तारतम्यात् सन्निहितं सर्वभूतेषु केशवः ।
वेत्त्येक एव विष्णोर्यद् विशेषावेशनं सदा ॥
जङ्गमेषु च वृक्षेषु नैव तादृक् शिलादिषु ।
तस्माद् वृक्षादिषु रसश्चित्तं चलनवत्सु च ॥
दृश्यते न शिलाद्येषु सन्निधिर्नहि तादृशी ।
शिलाद्येषु स्थितो विष्णुर्भारदार्ढ्यादिकारणम् ॥
नैव चित्तादिकस्यातो वृक्षाद्या उत्तमास्ततः ।
विशेषोऽयं पदार्थानां नतु विष्णोः कथञ्चन ॥
यत्र विष्णुर्गुणाधिक्यं दर्शयेद् वस्तु तद् वरम् ।
गुणपूर्णो हि सर्वत्र स्वयं विष्णुः सनातनः ॥
वृक्षेभ्योऽप्यधिकं विष्णुर्जङ्गमेषु प्रकाशितः ।
तेभ्योऽपि पुरुषे विष्णुर्गुणाधिक्यप्रकाशकः ॥’ इत्यदि च ॥
य आत्मानं परमात्मानमाविस्तरां आविर्भावतारतम्येन वेद स तस्य विष्णोरेव । सर्वेषां तदीयत्वेऽपि प्रियत्वात् तदीयत्वविशेषणम् । ओषधिवनस्पतयो यच्च किञ्च प्राणभृत् तत् सर्वं शिलादिभ्यो भूयस्त्वेन तेष्वाविर्भूतोऽश्नुते भगवान् । स एव च नारायणः सम्यक् स्वात्मानमाविस्तरां आविस्तरां वेद । ज्ञानानुसारेण ह्युत्पत्तयः सम्भवाः । येऽस्मिन् पुरुषे पश्वादिभ्य आधिक्येन सन्निहितो भगवान् स एष पुरुषः समुद्रः समुद्रिक्तोऽन्यप्राणिभ्यः । `अन चेष्टायाम्’ इति धातोश्चेष्टावत्त्वमेव प्राणभृत्त्वं पश्वादीनाम् । स जीवो यद्यपि भगवत्प्रसादात् सर्वलोकाधिपो भवति; सर्वलोकानतीतय यत्किञ्चिदलौकिकं मोक्षाख्यमप्यश्नुते, तदाऽपि तमेनमात्मशब्देन प्रस्तुतं विष्णुमत्येव मन्यतेऽधिकमेव मन्यते स्वात्मनः सर्वस्माच्च । मुक्तोऽपि न तेन साम्यं तद्भावं वा मन्यते `कृष्णो मुक्तैरिज्यते वीतमोहैः’,`मुक्तानां परमा गतिः’,`अमृतस्यैष सेतुः’ इत्यादिवाक्याच्च । यद्यपि देवलोकाधिपत्यं तद्योग्यस्य विष्णुर्ददाति तदप्यश्नुवीतैव । बहुगणिकादिपरिवाररूपमशुचीदं पदमित्यादिबुद्ध्या नापह्नुवीत । एनं भगवन्तमतिमन्येतैव च सर्वथा स्वतः सर्वस्माच्चाधिकमेव मन्येत । यद्यमुं लोकमश्नुते प्राप्नोति अश्नुवीत भुञ्जीत । पृथिवीलोके भगवदाधिक्यं सत्पुरुषो मन्यत इति प्रत्यक्षसिद्धत्वान्न पृथगुक्तम् । अतिशब्दात् `यद्ध किञ्च’ इति प्रथमोक्तो मोक्ष इति सिद्धम् । अन्तरिक्षप्राप्तेरल्पत्वान्मोक्षे स्वतः सिद्धत्वाच्च `अति मन्यते’ इति सिद्धवचनमेव कृतम् । स्वर्गादिप्राप्तेरधिकैश्वर्याद् भगवत्समोऽहं भगवत्स्वरूप इति वा मन्तुं प्राप्तिरस्तीति `अत्येवैनं मन्येत’ इति सावधारणविधिः । नच मन्यत इति काममात्रम् । `मनु अवबोधने’ इति धातोः । नह्यवबोध एव कामः । अन्यथा राज्यं जानन्नपि राज्यकाम इति स्यात् । नच मन्यते मन्येतेति द्विविधः प्रयोगस्तस्मिन् पक्षे युज्यते । नच सर्वलोकमतीत्याश्नतो मुक्तस्य मुक्तेरन्यत्र कामो विद्यते । सर्वलोकाधिकं च मुक्तिं विना नान्यत् । तस्मान्मुक्तैरपि भगवान् सर्वोत्तमत्वेन चिन्त्यत इति सिद्धम् ।
`पुरुषस्थपञ्चभूतेषु पञ्चरूपो हरिः स्थितः ।
प्रद्युम्नादिस्वरूपेण ज्योतिरादौ पृथक् पृथक् ॥
स एव तु पुनर्वायौ पञ्चधाऽवस्थिते प्रभुः ।
प्राणादिरूपे वसति ह्यनिरुद्धादिरूपवान् ॥
अनिरुद्धः सप्रद्युम्नस्तथा सङ्कर्षणः प्रभुः ।
वासुदेवो नारायणः पञ्चरूप इति क्रमात् ॥
पञ्चरूपोऽपि भगवान् यस्माद् वायौ विशेषतः ।
स्थितस्तेन च खादिभ्यो वायुरेव विशिष्यते ॥
अत एव पृथिव्यादिस्वरूपा मनआदयः ।
देवाः प्राणाश्रिता नित्यं गच्छन्ति प्राणमन्वपि ॥
पृथिवीमयं मनस्तत्र शेषवीन्द्रशिवेन्द्रकाः ।
कामानिरुद्धौ देवगुरुर्मनोदेवाः सचन्द्रकाः ॥
श्रोत्रमाकाशरूपं मित्रधर्मजलाधिपाः ।
कुबेरश्च दिशां देवाः श्रोत्रदेवा इति श्रुताः ॥
ज्योतीरूपं तथा चक्षुश्चक्षुर्देवो रविः स्मृतः ।
किञ्चित् तेजोयुता वाक्तु विशेषेण त्वबात्मिका ॥
उपचीयते तत; साऽद्भिस्तदभावे च शुष्यति ।
तृषितस्य हि वागेव पूर्वं मन्दा प्रवर्तते ॥
वाग्देवते ततो वह्निरुमा चापि प्रकीर्तितौ ।
चक्षुष्द्वमग्नेः श्रोत्रत्वं चन्द्रस्यापि सहोच्यते ॥
स्वाहाया अपि वाक्त्वं च पर्जन्यस्य मनःस्थितिः ।
द्वितीयमेतदास्थानं श्रुतिवाक्यप्रमाणतः ॥
शेषवीन्द्रशिवादीनां मनआदिस्वरूपिणाम् ।
आश्रयो वायुरेवैकस्तस्य नारायणः स्वयम् ॥
तस्माद् वायुवशानां हि वाक्चित्तादिस्वरूपिणाम् ।
देवानां क्रमवृत्तिभ्यो जाते यज्ञेऽपि केशवः ॥
अग्निहोत्रादिके नित्यमनिरुद्धादिरूपकः ।
पञ्चधाऽवस्थितः सोमे पञ्चरूपो व्यवस्थितः ॥
तमेतं परमं विष्णुं मुक्तोऽप्यत्येव मन्यते ।
अधिकं ह्येव तस्मात् तं मन्येतान्योऽपि सर्वदा ॥’
इत्यादि च ॥
पञ्चरूपभगवद्ध्यानार्थमेव चैतत् पञ्चविधत्वं सर्वत्रोक्तम् ।
`यज्ञेषु यज्ञनामानां याज्यत्वात् पुरुषोत्तमम् ।
अधिरूढं तथाऽहस्सु चाहर्नामानमेव तु ॥
अहार्यत्वाद्धि देवेषु देवं सर्वोत्तमत्वतः ।
एवं च सर्वनामानं सर्वेषु स्थितमच्युतम् ॥
स्तोमादिषु च यो वोद स सम्यग्विदिति श्रुतः ।
य एष उक्थनामाऽसौ सर्वोत्थापनको हरिः ॥
महांश्च परिपूर्णत्वात् सहस्रबृहतीस्थितः ।
अहरह्नां स यज्ञानां यज्ञो देवाधिकोऽपि सः ॥
अनिरुद्धादिरूपेण स विष्णुः पञ्चधा स्थितः ।
स्तोमसामचितिच्छन्दःशस्त्रेष्वपि पृथक् पृथक् ॥
एकैकमेव तद् रूपमनिरुद्धादिपञ्चकम् ।
प्रस्तावादिष्वपि विभुः पञ्चधैव व्यवस्थितः ॥
प्रस्तावादीन् पञ्चकृत्वस्तस्मादेव प्रकुर्वते ।
पञ्चरूपं तमेवैकं स्तोतुमेव पृथक् पृथक् ॥
तत्र ये स्तोभशब्दाश्च संस्थिता बहुकोटयः ।
पृथक् पृथक् तेऽपि विष्णोः प्रादुर्भावात् प्रचक्षते ॥
अनन्तरूपो हि हरिः शब्दोऽप्येष ह्यनन्तधा ।
विष्णोः सहस्रनाम्नस्तु यत् तद् रूपसहस्रकम् ॥
बृहतीसहस्रमेतच्च तद् वक्ति हि पृथक् पृथक् ।
सहस्रशब्दोऽप्यमितं यतो वक्त्यमितान्यतः ॥
नामानि विष्णोरुच्यन्ते सहस्रमिति चाऽख्यया ।
अनन्तनामवचने त्वशक्तत्वात् सहस्रकम् ॥
नाम्नां पृथगिदं प्रोक्तमनन्ततनुवाचकम् ।
विष्णोरनन्तरूपाणामुक्त्या पञ्चशतद्वये ॥
आसीत् सहस्रमित्याख्या सहस्रं मुख्यतोऽमितम् ।
ब्रह्म यावत् तावती वागिति वेदप्रमाणतः ॥
सहैवानन्तरूपैस्तु सरणेन सहस्रकम् ।
नाम्ना सह सृतेरेव रूपाणां वा सहस्रता ॥
बृहतीसहस्रं चैतस्माद् रूपानन्ताभिधायकम् ।
पृथक् पृथग्धिनामार्था ऋच एताः प्रकीर्तिताः ॥
सर्वनामात्मकं तस्मादृक्सहस्रमिदं हरेः ।
सर्वरूपाण्यतो विष्णोः संस्तुतान्यमुनैव हि ॥
मत्स्यकूर्मक्रोडसिंहवटुभार्गवराघवाः ।
कृष्णबुद्धौ च कल्कीति रूपाणां दशकं हरेः ॥
पञ्चभेदविभिन्नेन ह्यृक्सहस्रेण शस्यते ।
रूपाणां पञ्चकं पूर्वमपरं पञ्चकं हरेः ॥
प्रस्तावाद्यैरानिधनैः स्तूयते सामभक्तिभिः ।
तानि रूपाण्यस्य दश सर्वरूपात्मकानि च ॥
दशनामानि चास्यैव सर्वरूपाभिधान्यपि ।
पञ्चकं सामभक्तीनामृक्सहस्रं च तद्द्वयम् ॥
स्तावकं सर्वरूपाणामत एव रमापतेः ।
दशेति सर्वनामैतत् प्रथितं मुख्यतः श्रुतौ ॥
शंरूपं भगवन्तं यद् दद्याद् भक्त्या समस्तशः ।
दशेत्यमितनाम्नां तदाख्या रूपेषु शंददेः ॥
सर्वनामार्थवचनात् पञ्चकद्वितयस्य च ।
अभूद् दशेति वै नाम तस्मादेतत् दशाखिलम् ॥
दशैव मूलसङ्ख्या च तद्विभेदाः शतादयः ।
ऋक्सहस्रमिदं तस्मादनन्तगुणमच्युतम् ॥
अनन्तशक्तिममितरूपनामानमेव च ।
वक्ति च्छन्दस्त्रयं चात्र तृचाशीतित्रयात्मकम् ॥
अशनादित्रिकं तच्च भूत्वा विष्णुमुपैति च ।
सर्वच्छन्दोऽभिधश्चैव सर्वदेवाभिधस्तथा ॥
सर्वमुन्यभिधश्चैव सर्ववस्त्वभिधो हरिः ।
अनन्तपूर्णगुणकस्तस्माज्ज्ञेयो रमापतिः ॥
मुख्यतोऽस्यां च विद्यायां योग्य एकश्चतुर्मुखः ।
एकदेशपरिज्ञाने त्वन्ये योग्याः शिवादयः ॥’ इत्यादि च ॥
`त्रिविधो ह्यनिरुद्धोऽसावध्यात्मदिविभेदतः ।
अतस्त्रिवृदिति प्रोक्तस्तथा पञ्चदशात्मकः ॥
प्रद्युम्नः पञ्चभूतेषु ह्यध्यात्मादिविभेदतः ।
लिङ्गसप्तदशस्थत्वात् तावान् सङ्कर्षणः श्रुतः ॥
सप्तधातुषु संस्थः सन्नध्यात्मादिविभेदतः ।
एकविंशो वासुदेवो मनआदि चतुष्टये ॥
गुणत्रये च प्रकृतावध्यात्मादिविभेदतः ।
मूलरूपेण च सह पञ्चविंशात्मकः प्रभु ॥
नारायणस्त्वचिन्त्यात्मा स एकोऽपि ह्यनन्तधा ।
गायकानां त्राणतोऽसौ गायत्रमनिरुद्धकः ॥
प्रद्युम्नो हि रथारूढस्तेन चोक्तो रथन्तरम् ।
बृहद्रूपो बृहन्नामा तथा सङ्कर्षणः प्रभुः ॥
भद्रं तु वासुदेवोऽसौ भद्रमोक्षप्रदो यतः ।
नारायणो राजनं स्याद् राजयत्येष मोक्षिणः ॥
गायत्री त्वनिरुद्धोऽसौ त्रिकाले गीयते यतः ।
उष्णिगुष्णस्वरूपत्वात् प्रद्युम्नोऽग्न्यादिसंस्थितः ॥
स्त्रीरूपो बृहतीनामा बृहत्सङ्कर्षणः प्रभुः ।
वासुदेवस्तथा त्रिष्टुप् त्रिवेदैः स्तूयते यतः ॥
नारायणस्तु स्त्रीरूपो द्विधैवासौ व्यवस्थितः ।
द्विपदेति ततो नाम सर्वे च्छन्द्रोऽभिधा इमे ॥
वनितातनवः प्रोक्ता मध्यं नारायणः प्रभुः ।
वासुदेवोऽस्य पुच्छं च वामदक्षौ च पक्षकौ ॥
सङ्कर्षणश्च प्रद्युम्नः क्रमादेव प्रकीर्तितौ ।
अनिरुद्धः शिरश्चैव तथैकोऽपि हि पञ्चधा ॥
प्रस्तावनामाऽनिरुद्धो रक्षन् संस्तूयते यतः ।
सृजन् जगच्च रमया प्रद्युम्नस्तत्र गीयते ॥
उद्गीथनामा तेनासौ जगदुद्गमनेन वा ।
संहारात् प्रतिहाराख्यस्तथा सङ्कर्षणः प्रभुः ॥
मोचयित्वा समीपं हि द्रावयेद् वासुदेवकः ।
तेनोपद्रवनामाऽसौ निधीयन्ते यतोऽखिलाः ।
मुक्ता नारायणे देवे तेनासौ निधनाभिधः ॥’ इत्यादि च ॥
स्तूयमानत्वात् स्तोमः । समत्वात् साम । छन्द्यत्वाच्छब्दः । तदिदमुक्तप्रकारेणैव बृहतीसहस्रं संपन्नं भवति । तदेके नानाच्छन्दसां सहस्रं शंसितव्यमेव, बृहतीसहस्रसम्पादनमविवक्षितमिति प्रतिजानते । केचित् त्रिष्टुप्ससहस्रमेव शंसितव्यमिति । अनुष्टुप्ससहस्रमेवेति वदन्तोऽनृष्टुप्प्रशंसात्मिकामृचं च दर्शयन्ति । बीभत्सूनां जगद् भर्तुमिच्छूनाम् । अपां सायुजं सहैव चरन्तं चाऽहुः । विष्णुं हंसस्वरूपिणम्, अनुष्टुभं चर्चूर्यमाणं पुनःपुनर्वदन्तं परमेश्वरं ददृशुश्च ।
`मेघसंस्थं हंसरूपं तं विष्णुं परमेश्वरम् ।
विरिञ्चशिवपूर्वेभ्यो नृसिंहानुष्टुभं पराम् ॥
उच्चारयन्तमर्थांश्च व्याचक्षाणं समन्ततः ।
ददृशुर्मुनयो दिव्या आचार्यं ब्रह्मशर्वयोः ॥
एवं वायुं च ददृशुस्तत्र हंसस्वरूपिणम् ।
शिवादिभ्यो व्याहरन्तं तामेपानुष्टुभं पराम् ॥’ इत्यादि च ॥
वागाख्यायामनुष्टुभ्युच्चार्यमाणायां हि मुनयो विष्णुं ददृशुः । अतो ब्रह्मादयोऽपि विष्णोः सकाशादनुष्टुभर्थं सर्वदा शृण्वन्तीति विज्ञायतेऽतोऽनुष्टुबेव च्छन्दसां वरेति चोक्तं भवति ।
`अनुष्टुभां सहस्रं तु यः शंसीतात एव तु ।
भवितुं चेश्वरः स स्याद् भावो मुक्तिर्नचान्यथा ॥
यशस्वी स प्रसिद्धः स्याच्छुभकीर्तिश्च सर्वदा ।
स्वच्छन्दमृत्युता च स्यात् तस्येत्याहैतरेयकः ॥
महैतरेयो भगवांस्तन्नेत्याह रमापतिः ।
नानाच्छन्दःप्रशंसादि प्रमाणरहितत्वतः ॥
परिहाराय चापूर्णमैतरेयमुने शृणु ।
त्वं तु मन्त्रमुदाहृत्य यस्मादेतदवोचथाः ॥
तस्माद् वक्ष्याम्युत्तरं ते प्रियः शिष्योऽसि मे यतः ।
उमैव वागिति प्रोक्ता साऽनुष्टुबभिमानिनी ॥
अकृत्स्ना सा ततो नैव ब्रह्मेत्युक्ता कथञ्चन ।
वागिन्द्रियाभिमानिन्यां नहि ब्रह्मवचः क्वचित् ॥
वायुना प्राणरूपेण मनोरूपशिवेन च ।
अभ्यस्यमानोऽनुभवेत् पुमान् वाचा नतु क्वचित् ॥
अभिमानी बृहत्यास्तु वायुरेव यतः प्रभुः ।
तस्मादेषा च्छन्दसां हि वरिष्ठा बृहती स्मृता ॥
पूर्णो हि वायुर्देवानां तस्माद् ब्रह्मेति चोच्यते ।
माहात्म्याधिक्यतश्चैव बृहतीत्येव नाम तत् ॥
अङ्गेभ्य एव सम्भूतान्यन्यच्छन्दांसि चाब्जजात् ।
मध्यात्तु बृहती जाता तस्मात् सा मध्यमुच्यते ॥
पठ्यते तेन मध्ये सा च्छन्दसां प्रवरा सती ।
छन्दांस्यन्यान्यङ्गवत् स्युर्मध्यवद् बृहती परा ॥
सप्तच्छन्दांसि चैवं हि प्रतिमा वैष्णवी मता ।
गायत्रीदेवतात्वं तु लक्ष्म्या यत्राभिधीयते ॥
बृहतीदेवता तत्र भगवान् पुरुषोत्तमः ।
आधिक्यं छन्दसां यत्र गायत्र्यास्तु विवक्षितम् ॥
तत्र तत्पुत्रको वायुबृर्हतीदेवता मता ।
ऋचामाधिक्ययोगार्थं नाङ्गीकर्तव्यमत्र तत् ॥
प्रधानत्वात् बुहत्यास्तु जगत्याद्यं न युज्यते ।
सम्पादनाद् बृहत्यास्तन्मुक्तौ भवितुमीश्वरः ॥
स्यात् प्रसिद्धः सुकीर्तिश्च च्छन्दोमृत्युर्गुणाधिकः ।
इति प्राह स्वयं विष्णुर्महिदासाभिधः प्रभुः ॥’ इत्यादि च ॥
`इतोऽन्यत् सत् किमित्याहुर्नानाच्छन्दस्त्ववादितः ।
अन्यत् सद् ब्रूयामेत्याहु स्त्रिष्टुब्वादिन एव ते ॥’
ऐन्द्रं प्राणं परमेश्वरसहितं वायुम् । प्राणेन मनसा च । अभि इस्यमानोऽभ्यस्यमानः । `तृतीयोऽतिशये’ इति सूत्रादकारस्येकारः । `मथनात्मिथिलो जातः सहनात् सिंह उच्यते’ इत्यादिवच्च । `हत्वी दस्यून्’ इत्यादिवच्च । अभ्यस्यमानः अभितः क्षिप्यमाणो विषयेषु बहुशः । कृत्स्न आत्मा कृत्स्नप्रतिमा विष्णोः ।
`एकाऽपि प्रतिमा विष्णोबृर्हती च्छन्दसां वरा ।
अन्यच्छन्दोयुता यत् स्यात् प्रतिमा मध्यमेव तत् ॥’ इति च ॥
एवं ब्रह्मादिभिः श्रूयमाणाऽनुष्टुबपि बृहत्या अङ्गमिति बृहत्या एवाऽधिक्यमुक्तं भवति । बृहतीसम्पादनेऽनुष्टुप्च्छंसनमात्रात् पञ्चविंशोत्तरशतानुष्टुबाधिक्यं च भवति । अत आधिक्याद् बृहतीसम्पादनमेव वरम् । तस्यात्रैवान्तर्भावात् । जगत्यादिकं त्वधिकत्वेऽपि बृहतीवन्माहात्म्याभावादेवोपेक्ष्यते । `वाचमष्टापदीमहम्’ इत्यनुष्टुभो बृहतीसम्पादनवचनाच्च । अष्टचतुरक्षराण्यनुष्टुप् । तस्या एव बृहतीसम्पादनेन नव स्रक्तयो भवन्ति । ऋचा वाक् ऋग्रूपेण वाक् ऋतं स्पृष्टा सत्यरूपं विष्णुं स्पृष्टा भवति । इन्द्रस्य परमेश्वरस्य विष्णोः सम्बन्धी नितरां प्रियत्वाद् यः प्राणदेवता वायुः तस्य प्रतिमारूपमिदं बृहतीसहस्रम् । स च वायुर्विष्णोर्मुख्यप्रतिमा । तस्माद् विष्णोरेव प्रतिमा बृहतीसहस्रम् । तस्मात् तस्यैव बृहतीसहस्रत्वेन सम्पन्नस्य पञ्चविंशोत्तरैकादशशतानुष्टुप्त्वेन सम्पादने बृहतीदैवतप्राणरूपाद् वायोरनुष्टुब्देवताया वाग्रूपाया उमाया उत्पत्तिः संस्मृता भवत्येवं जानतः । ततश्चोमाया अपि भगवत्प्रतिमात्वाद् विष्णुप्रतिमास्थापक एव भवत्येतत् सर्वं सम्यग् ध्यायन् । विष्णुरेव हि बृहत्याः प्राणस्याधिष्ठतृदेवता । प्रतिमाधिष्ठितदेवतावत् । तस्माद् बृहत्याः सकाशादनुष्टुप्सम्पादने तस्यैव विष्णोः प्रतिमान्तरं तस्मादेव निर्मितं भवति । अत एव `इन्द्रात् परि तन्वं ममे’ इत्युक्तम् । बृहतीस्थविष्णोर्बलादेव हि तत् सम्पद्यते । स हि तस्या षट्त्रिंशदक्षरादित्वमपि नियमयति तत्प्रसादाद् वायुश्च । वायुरेव यद् भगवन्नियतो नियामयति तस्मात् `इन्द्रात् परि’ इत्यस्यैन्द्रात् प्राणादिति व्याख्या कृता ।
`यावत् सहस्रं बृहती तावच्छंसेदनुष्टुभाम् ।
छन्दसां वा तदन्येषां बृहतीत्वं स्मरेत ततः ॥
तेन सर्वगतो विष्णुः सर्वस्मादधिकोऽर्चितः ।
भवेदेवं जानतस्तु कृता च प्रतिमा भवेत् ॥
तथा वायोरपि कृता वायुर्हि प्रतिमा हरेः ।
तस्माद् वायुकृतं सर्वं क्रियते विष्णुनैव हि ॥
बृहतीसहस्रं सम्पन्नमेकादशशतं पुनः ।
अनुष्टुभां स्मरेत् पञ्चविंशोत्तरमुदारधीः ॥
तेन वायोरुमोत्पत्तिः सम्यग् ज्ञानात् स्मृता भवेत् ।
ततो द्वितीयप्रतिमा विष्णोरेव कृता भवेत् ।
विष्णुनाऽनुप्रविष्टौ यदुमा वायुश्च तद्वशौ ॥’ इत्यादि च ॥
स्रक्तयो विभागाः - `स्रक्तिरंशो विभागश्च विदलं चेति कथ्यते’ इति हि शब्दनिर्णये ॥
`स वा एष वाचः परमो विकारः’,`अकाराख्यवाग्विकारेषूत्तमो बृहतीसहस्राख्यः ।
`अकारः प्रथमं नाम विष्णोः सर्वगुणान् ब्रुवन् ।
सर्वदोषविरुद्धत्वाद् गुणानामन्यतामपि ॥
विष्णोर्वदति जीवेभ्यो जडेभ्यश्चैव सर्वदा ।
अभावं चैव दोषाणां सर्वेषां केशवे वदेत् ॥
सम्यग् वक्तृत्वतस्तस्मादकारो मुख्यनाम हि ।
तदर्थानेकदेशेन शब्दाः सर्वेऽपि चोचिरे ॥
व्याख्याव्याख्येयरूपत्वं विकारित्वमिहोदितम् ।
विकारित्वं च नान्यत् स्यान्नित्या वेदा यतोऽखिलाः ॥
वाचकेषु तथा विष्णोः सहस्रबृहतीमयम् ।
उक्थमुत्तममुद्दिष्टं व्याख्याऽकारस्य सा परा ॥
अन्येऽपि शब्दाः सर्वेऽपि ह्यकारार्थाभिधायिनः ।
येषां परममुक्थं तत् तदेतत् पञ्चधा स्थितम् ॥
व्याख्यानमेवाकारस्य सहैवोक्थेन सर्वशः ।
मितामिते स्वरः सत्यमनृतं चेति पञ्चधा ॥
तस्मादकार एवायं सर्ववागात्मकः श्रुतः ।
तस्यैव व्यक्तिरूपोऽयं सर्ववेदादिविस्तरः ॥
तस्मात् सर्वगुणान् विष्णोरकारो वक्ति यत् प्रभोः ।
तद्व्यक्तयोऽपि शब्दा ये सर्वे विष्णुगुणब्रुवाः ॥
अकारस्य तथोपांशोरभिमानी तु मारुतः ।
देहेन्द्रियान्तःकरणनाम्नोऽस्य द्विविधस्य च ॥
स्थूलसूक्ष्मशरीरस्य सर्वेषामभिमानिनी ।
भारत्युच्चोदितस्यापि ह्यकारस्याभिमानिनी ॥
तस्मादुच्चादुपांशुर्हि जपादिषु फलाधिकः ।
वायुः पतिर्हि भारत्या उपांशोर्देवता मतः ॥
अकारस्य विकाराऽयमोङ्कार इति कथ्यते ।
अधिकोच्चत्वमानं हि तस्यार्थः समुदीरितः ॥
अकारेणैव तत् सर्वमुक्तमाधिक्यवक्तृतः ।
अधिकोच्चस्वरूपोऽसौ माता चाधिक एव हि ॥
एकार्थत्वादकारोऽसौ नकारत्वमुपागतः ।
दीर्घीभूतः पुनस्तैनैवाकारेण सह स्थितः ॥
अभाववाच्यकारस्य ह्यर्थो रेफः क्षयं वदन् ।
सोऽप्यकारेण सहितो दीर्घत्वं समुपागतः ॥
अभाववाच्यकारः स एकार्थाद् गत्यभावयोः ।
यकारत्वं गतस्तस्मान्नो रेफस्योत्तरत्वतः ॥
णत्वं गतो ह्यकारोऽसौ नो विरुद्धार्थवाचकः ।
अन्यत्वात् सर्वजीवेभ्यो जडेभ्यश्च सदैव हि ॥
सर्वदोषोज्ज्ञितत्वाच्च सर्वतोऽप्यधिकत्वतः ।
निरासनाच्च दोषाणां स्वभक्तेभ्यः समन्ततः ॥
सर्वदोषविरुद्धोरुगुणपूर्णस्वरूपतः ।
नारायण इति प्रोक्तो ह्यकारार्थोऽयमेव हि ॥
तस्मादकारबीजेयं विष्णोर्नारायणाभिधा ।
प्रणवश्च ततोऽकारः प्रधानं नाम चक्रिणः ॥
अकारनामा नान्योऽस्ति तमृते पुरुषोत्तमम् ।
ब्रह्मरुद्रादिनामानि ब्रह्मादिष्वप्यमुख्यतः ॥
वर्तन्ते नत्वकारोऽयं वर्तते केशवं विना ।
नारायणादिनामानि नृणां नामक्रियास्वपि ॥
विहितान्यकारो नैवायं विहितस्तमृते प्रभुम् ।
वायुर्ब्रह्माऽपि चाऽकारदेवते नतु नामिनौ ॥
यथा वेदाभिधेयोऽन्यो वेदाख्या देवताऽपरा ।
एवं नामाभिमानी तु वायुर्वाच्यो जनार्दनः ॥
तस्माद इति नामैतद् विष्णोः केवलमेव हि ।
विशेषतोऽस्य व्याख्यानं बृहतीनां सहस्रकम् ॥
तस्मात् प्रीतो भवेद् विष्णुः शंसनादस्य सर्वदा ।
तस्माद् यज्ञेऽपि वा शंसेदयज्ञेऽपि रहः पुमान् ।
ध्यात्वा नारायणं देवं विष्णोरन्नं हि तत् परम् ॥’
इत्यादि ब्रह्मसारे ॥
परमविकारेण सह विकारमात्रस्यापि प्रस्तुतत्वात् `तदेतत् पञ्चविधम्’ इति परामर्शः ।
`स्वराणां नियमो यत्र ह्यृचो नामैव ताः स्मृताः ।
अन्या मिताक्षरा यास्तु ता गाथाः परिकीर्तिताः ॥
खण्डवाक्यानि कुम्ब्याः स्युरसमानि परस्परम् ।
यज्ञाङ्गं यजुरुद्दिष्टं निगदं वाक्यमात्रकम् ॥’
इत्यादि शब्दनिर्णये ॥
अकारार्थत्वान्नकारस्य किञ्चिन्मूलमिव । तस्मान्मूलत्वादकारार्थोऽपि ज्ञेय एव । नायोग्यानां सम्यग् वाच्य इति स्वल्प एव प्रकाशिताऽस्माभिः । वाच उद्वर्तनाशक्तेः स्वयमेवोद्वर्तते । यद्धि देवतासु करोति तदात्मन्यापतति । तस्माद् द्रव्यदानं ज्ञानदानं वा कालपात्राद्यनुसारेणैव कुर्यात् । अकारस्योङ्कारता त्वकारलोपेनैव जातेति सत्यमेवोङ्कारः । अकारस्याऽदौ स्थितत्वेन च यथार्थरूपत्वात् । उकारादिविकारादिसहितत्वात् पुष्पफलात्मकश्च । अकारस्यार्थरूपः सन्नेव च भगवांस्तमेव चोङ्कारो वक्ति । अतश्च सत्यमेवोङ्कारः । यमर्थमकारो वक्ति तमेव वक्तीति । नकारस्त्वच्छिरस्कत्वान्मूलभूतस्याकारस्यान्ते स्थितिरूपत्वात् अयथास्थितेरसत्यरूपः । तथाऽप्यकारस्य नकारस्य चैकार्थत्वान्मूलभूतश्च । तस्मादकारस्यैवैतद् वृथावागादिकमपि व्याख्यानम् । तस्माद् विजानतः सर्वमपि भगवन्नामैव ।
विद्यान्तरोपदेशार्थम्, `तद् वा इदं बृहतीसहस्रम्’ इति पुनः पुनः परामर्शः । तदिदं बृहतीसहस्रं तद्यशः तस्य नारायणस्य यशः । यस्य नारायणस्यैतद् यशः स भगवानेवेन्द्रनामा । स हि प्रथमत इन्द्रो बभूव स्वेच्छया यज्ञनामा । तस्मात् तमेव वेदा इन्द्रशब्देन वदन्ति मुख्यतः । `इदि परमैश्वर्ये’ इति धातोश्च । तस्यैव हि परमैश्वर्यम् । अन्येषां तु द्वादशानां तेन दत्तमेवेन्द्रत्वं न मुख्यतः । अतो विष्णावेवेन्द्रशब्दं प्रयुङ्क्ते श्रुतिः `मथ्सि सोम वरुणं मथ्सि मित्रं मथ्सीन्द्रमिन्दो पवमान विष्णुम्’ इति । नचेन्द्रं विष्णुं चेति पृथगन्वयः क्रियते । तदा वरुणादिषु पृथक्पृथङ् मथ्सिशब्ददर्शनादत्रापि पृथङ् मथ्सिशब्दो दृश्येत । नहि सर्वेषां पृथङ् मथ्सिशब्ददर्शने एकस्यैवान्यथात्वं युज्यते । न चात्र द्वित्वगमकं चकारादिकं विद्यते । तस्मात् `प्रातर्भगं पूषणं ब्रह्मणस्पतिम्’ इत्याद्यप्येकस्यैव विष्णोर्विशेषणम् । यत्र चैवम्भूतेष्वेकत्वे विरोधो दृश्यते तत्र तेनैव विरोधेन द्वित्वं भवति । अन्यथैकत्वमेव । `यो देवानां नामधा एक एव’ इति चोक्तम् । बहुरूपत्वाद् बहुवचनं च विष्णावेव युज्यते’ । तस्मान्मुख्यतो विष्णावेवेन्द्रादिशब्दा अन्येषामुपचारतः । `मथ्सि महामिन्द्रमिन्दो मदाय’ इत्यन्येन्द्रस्य पृथगुक्तेश्च `मथ्सीन्द्रमिन्दो पवमान’ इति पूर्वोक्त इन्द्रो विष्णुरेवेति सिद्धम् । महत्त्वं च तस्यादितिपुत्रत्वेऽग्रजत्वमात्रं नतु सामर्थ्यतः । `मह पूजायाम्’ इति धातोः । पूज्यो ह्यग्रजो भवति । `आ यो विवाय सत्त्वथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः । वेधा अजिन्वत् त्रिषधस्थ आयुमृर्तस्य भागे यजमानमाभजत्’ इतीन्द्रस्य परमदैवं जनको यज्ञभागादिपदप्रदाता च विष्णुरेव हि श्रूयते । इन्द्रश्च यजमानः । तस्मात् तत्प्रसादादवताराग्रजत्वमेव तस्य महत्त्वम् । अन्येन्द्रो हि - `अहं प्रथमः विबेयमहं प्रथमः पिबेयम्’ इति वायुना विवदमान आजौ पराजितो वायुं प्रसादयित्वा चतुर्थे वायुना सह ग्रहत्वमाप विष्णुस्तु `ऋतुं सचन्त मारुतस्य वेधसः’ इति वायोरपि विधाता श्रूयते । `धाञ् धारणपोषणयोः’ इति धातोर्विशेषेण धारणपोषणकर्ता हि वेधाः । तस्माद् भगवत एवैतद् यशो बृहदुक्थादिकम् ।
`ऋक्सहस्रादिकं विष्णोर्यश इन्द्राभिधस्य हि ।
इन्द्रो हि प्रथमो विष्णुर्यज्ञनामा जगत्पतिः ॥
तत्प्रसादादथेन्द्रत्वं द्वादशान्ये प्रपेदिरे ।
पुरन्दरस्त्वेक एव वासुदेवप्रसादतः ॥
द्विवारमिन्द्रतामाप तस्माद् द्वादश ते परे ।
अग्रजत्वाददित्यां तु महेन्द्रो नाम चाभवत् ॥
महाब्रत कर्म कृत्वा चैव नाम्ना महेन्द्रकः ।
महत्त्वं मुख्यतो विष्णोर्नह्यन्यस्य कदाचन ॥
एवं यो वेद तं विष्णुं विस्रस्तो बन्धतोऽखिलात् ।
अस्माल्लोकाद्धरेर्लोकमेति नास्त्यत्र संशयः ॥
इत्याह भगवान् विष्णुर्महिदासस्वरूपकः ।
श्वेतद्वीपादिकान् प्राप्य स इन्द्राख्यो हरिः स्वयम् ॥
महिदासभिधो भूत्वा लोकेष्वेषु विराजति ।
तत्र पृच्छन्ति स इन्द्राख्यो हरिः स्वयम् ॥
महिदासाभिधो भूत्वा लोकेष्वेषु विराजति ।
तत्र पृच्छन्ति केचित्तु यद्येष भगवान् हरिः ॥
महिदासादिरूपेण भूमिष्ठो रमते प्रभुः ।
तदा यदा स्त्रिया विष्णू रमते नित्यसत्सुखः ॥
कया स्त्रिया रतिं कुर्यान्नह्यन्यरतिरच्युतः ।
स्त्रीरूपे तत् स्वयं स्वस्मिन् रमतेऽसावितीदृशम् ॥
वाच्यं तत्र तु भूमिष्ठरूपेण तु दिवि स्थितम् ।
स्त्रीरूपं किमसौ गच्छेदथ यद्येवमत्र च ॥
स्त्रीरूपं पृथिवीसंस्थं केन रूपेण संव्रजेत् ।
नह्यन्यगम्यो भगवांस्त्रीरूपोऽपि जनार्दनः ॥
इति पृष्टः स्वशिष्यैः स महिदासोऽवदद्धरिः ।
स्त्रीषु यल्लोहितं लोके तत्राग्निस्थो जनार्दनः ॥
स्त्रीरूपः सोऽग्निनामैव ज्वलज्ज्वालासमप्रभः ।
तस्माद् विष्णोः सन्निधानाद् भर्ता भार्याशरीरगात् ॥
न बीभत्सेतैव रक्तात् तथा पुंरेतसि स्थितः ।
आदित्ये संस्थितो विष्णुरादेरादित्यनामकः ॥
तस्मान्न रेतसो भार्या बीभत्सेत पतिस्थितात् ।
पुंरूपो भगवान् विष्णू रेतसिस्थो द्युमत्प्रभः ॥
तस्माद् यद् भूमिगं विष्णोः स्त्रीरूपं तत् स्वयं हरिः ।
प्रादुर्भावगतो दद्याद् दिविस्थितपुमात्मनः ॥
तत् स सूर्यगतो विष्णुः पुंरेतःस्थस्य चाऽत्मनः ।
दद्याद् भूमिगतस्यैव रूपद्वयमिदं ततः ॥
परस्परं सम्भवति विष्णोर्नित्यसुखात्मकम् ।
प्रादुर्भावस्थितं रूपं यच्च भूमौ पुमात्मकम् ॥
विष्णोस्तदपि देवीषु स्थितस्त्रीरूपकात्मना ।
एवमन्योन्यतो विष्णू रतः स्वस्मिन् नचान्यतः ॥
रमया रममाणोऽपि तत्स्थेनैव स्त्रियात्मना ।
रमते नान्यतः क्वापि रतिर्विष्णोः सुखात्मनः ॥
रमया रमणं तस्माद् रमाया रतिपात्रता ।
नैवास्या रतिदातृत्वं विष्णोर्नह्यन्यतो रतिः ॥’ इत्यादि च ॥
स महिदास एवेन्द्रनामा प्राप्येवं लोकमत्र भूत्वा प्रायुर्भूय मनुष्यदृष्टिगोचरतां प्राप्यैषु लोकेषु राजति । नात्र प्रेत्यशब्दो मरणवाची । किन्तु,`प्रेतां यज्ञस्य शम्भुवा’ इत्यादिवत् प्राप्तिवाच्येव । नहि मृतः पुनरेषु लोकेष्वेव राजति । नच यशोमात्रराजनेन स्वस्य राजनं भवति । भिन्नपदार्थत्वात् । यद्वा - `एति च प्रेति च’ इत्यादौ प्राप्त्यर्थेऽपि वेदेषु प्रसिद्धत्वाच्च । `लक्ष्मणः प्रेत्य सुग्रीवं बभाषे रामचोदितः’ इति च स्कान्दे । `यदनेन रूपेणामुं लोकमभिसम्भवति’, अनेन महिदासादिरूपेणामुं ला ख्ढ्यि ??शब्दः । `आत्मानमेव लोकमुपासीत’ इतिवत् । यच्छब्दः किंशब्दार्थे । अनेन रूपेण तद्रूपमभिसम्भवति किम्? उभयोरपि परिहारदर्शनादस्यापि प्रश्नत्वमवगम्यते । `यतश्चोदेति सूर्यः’ इत्यादिवत् । रङ्गस्तु प्रश्नविषयस्य दुरवगमत्वं प्रकाशयति । `दुर्गमे प्रश्नविषये प्रश्नो रङ्गयुतो भवेत्’ इति हि शब्दनिर्णये । `केन रूपेणेमं लोकमाभवति’, केन स्वरूपेणैव भूमिस्थितेनाऽत्मन एव स्त्रीरूपेण विष्णुः सम्बद्ध्यते? सोऽयं महिदासादिप्रादुर्भावरूप इमं भूमिष्ठस्त्रीरूपं लोहितगं च स्वकीयमेव रूपममुष्मै दिविष्ठाय स्वपुरुषरूपाय प्रयच्छति देवरेतसि स्थिताय च । देवीलोहितस्थितमात्मनः स्त्रीरूपं महिदासादिरूपेभ्यो मानुषरेतःस्थरूपेभ्यश्च दिविष्ठैः स विष्ण्वादिस्वरूपैः प्रयच्छति । तानि भूमिष्ठत्वेन दिविष्ठत्वेन च द्विविधत्वात् तावित्युच्यते । `अग्नेस्तद् रूपम्’ अग्निनाम्नो विष्णोः प्रतिमा; तत्सन्निधानात् । एवमादित्यनाम्नो विष्णोः । नह्यग्न्यादिस्वरूपमेव लोहितादि । नच लौकिकस्त्रीपुरुषसम्बन्धमात्रमत्रोच्यते । अप्रस्तुत्वात् तस्य । भगवानेव ह्यत्र प्रस्तुतः । `असावात्मा’ इत्यात्मशब्दाच्च भगवानेवेति ज्ञायते ।
`आत्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते ।
गुणपूर्त्यभिधायी स नान्यस्य गुणपूर्णता ।
अमुख्यात्मात एवातो ब्रह्माद्या सर्व एव हि ॥’
इत्यादि च ब्रह्माण्डे ॥
`यदक्षरं पञ्चविधं समेति’,`सत्यस्य सत्यमनु यत्र युज्यते’ इत्यादिनोक्तार्थविषय उदाहृतैः श्लोकैरपि भगवत एव स्वरूपाणां परस्परयोगस्योक्तत्वात् । `गायत्र्युष्णिग्बृहती’ इत्यादिना भगवत एव पञ्चविधस्य स्त्रीरूपस्य महिदासादिपुंरूपाणां च प्रस्तुतत्वाच्च ।
यन्नारायणादिरूपेण पञ्चविधमक्षरं परं ब्रह्म तत् स्वस्मिन्नेव स्त्रीपुंरूपेण समेति । स्त्रीपुंरूपेण युजो देवा अश्वरूपेण रथे युक्ताः सन्तो यन्नारारणाख्यं परं ब्रह्माभिसंवहन्ति । तदेव सत्यस्य सत्यं नारायणाख्यं ब्रह्म यत्रानुयुज्यते यस्मिन् स्वरूप एव स्त्रीपुंरूपेण युज्यते तस्मिन्नेव परे ब्रह्मणि नारायणाख्ये सर्वे देवा एकीभवन्ति मुक्ताः सन्तो मििलता भवन्ति । नायमेकीभावो नाम स्वरूपैक्यम् । किन्त्वेकस्थाने वासोऽत्यनुकूलचित्तता च ।
`एकीभूय नृपाः सर्वे ववृषुः पाण्डवं शरैः’,`एकीभूता पुनः सेना पाण्डवानभ्यवर्तत’ इत्यादिवत् ।
नचैकीभावशब्दः स्वरूपैकत्वविषये प्रयुज्यमानः कुत्रचिद् दृष्टः । एकः पुरुषोऽपि यदा द्विधा भूत्वा एकीभवतीत्युच्यते तदाऽपि स्थानैक्यमेव । स्वरूपैक्यस्य पूर्वसिद्धत्वात् । नचाज्ञात एकत्वे पुनर्ज्ञात ऐक्यं प्राप्त इति प्रयोगो दृश्यते । किन्तु ज्ञात इत्येव प्रयुज्यते । तस्माद् भावसहित एकशब्दो न स्वरूपवाची । नहि पूर्वं भिन्नस्य पश्चात् स्वरूपैक्यं भवति । किन्तु संसर्ग एव भवति । तस्मादत्रापि संसर्ग एव विवक्षितः । `यदक्षरं पञ्चविधं समेति’ इत्युक्तस्य `सत्यस्य सत्यमनु यत्र युज्यते’ इति परामर्शं कृत्वा `तत्र देवाः सर्वं एकं भवन्ति’ इत्युच्यते । तस्मान्न पुनरुक्तिः । यस्मादक्षरान्नारारणाख्यात् स स्वयमेव भगवान् प्रादुर्भावरूपी स्त्रीपुंरूपो युक्त आगच्छति । तात्पर्यार्थं तस्यैवार्थस्य पुनरभ्यासः । वियूय विचार्य । नामायत्तान्येव नामार्थभूतान्येव विष्णोर्माहात्म्यादीन्यन्वविन्दन् । ततश्चाधिकं समतृप्यन् । शृते परिपक्वे सति ज्ञाने । यस्मिन् विष्णोः नामानि ज्ञात्वा तस्मिन् ज्ञाने परिपक्वे समतृप्यन् तस्मिन्नेव `देवाः सर्वयुजो भवन्ति’ इत्यवधारणार्थं पुनर्वचनम् । `सर्वयुजो भवन्ति’ मनोवा??र्मभिस्तत्रैव युक्ता भवन्ति । `अर्थतः कठिनं क्रूरमुल्बणं श्रवणाप्रियम्’ इति शाब्दनिर्णये । `अस्त्रीपुमान् ब्रुवन्’, अस्त्रीपुमांसं ब्रुवन् `सप्तसु प्रथमा’ इति सूत्रात् `स्वातन्त्र्ये विभक्तिव्यत्ययः’ इति च । स्वतन्त्रो हि भगवान् तत्प्रेरित एवं तं वददीत्यभिप्रायः । वदन् वदति । वदन्नेव न वदति । भवत्येव हि भगवान् स्त्रीरूपः पुंरूपश्च । तस्माद् वदत्येव । अप्रसिद्धत्वान्न वदति च ।
`स्त्रीरूपश्चैव पुंरूपो यस्मान्नारायणः स्थितः ।
पुमान् स्त्री चेति वाच्योऽतो वैलक्षण्यान्नचोच्यते ॥
विष्णोर्नपुंसकाकारो नैवास्ति क्वचन प्रभोः ।
तथाऽप्यरागाकृष्टत्वात् तच्छब्दैरपि कथ्यते ॥’ इति गारुडे ॥
`नारायणादिरूपेण पञ्चधैष हरिः स्थितः ।
तन्नामभिश्च स्त्रीरूपैः समेति स्वैः स केशवः ॥
यत्स्यन्दनं बहन्त्येते देवा भार्यासमन्विताः ।
अधिदैवे तथाऽध्यात्मे जीवदेहात्मकं रथम् ॥
स सूर्यः सूर्यभार्या च चक्षुर्द्वयसमस्थितौ ।
वहतोऽश्वात्मकौ देहं नारायणरथात्मकम् ॥
सोमश्च रोहिणी चैव दक्षवामश्रुतिस्थितौ ।
उभयोः पक्षयोः स्थित्वा वहतोऽश्वात्मकौ तयोः ॥
उद्धारणार्थमेतेषामुमा वाचि समस्थिता ।
नागाकारैव तश्मित्वमगमद् वैष्णवे रथे ॥
मनसि स्थितः शिवश्चात्र मनोनामा महाबलः ।
अभवत् सारथिर्विष्णोर्विष्णुर्वायुश्च तं रथम् ॥
प्रकृष्टानन्दरूपत्वात् प्राणाख्यावधितिष्ठतः ।
तावेव चाश्विनामानौ हयास्यौ जगदीश्वरौ ॥’
इत्यादि गारुडे ॥
`तस्योपनिषत् सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्’ इति च श्रुतिः ।
`सर्वसाधुगुणत्वात्तु वायुः सत्य इतीर्यते ।
तस्यापि सत्यतादाता साधुपूर्णगुणो हरिः ॥
सत्यस्य सत्य एतस्मात् स्त्रीपुंरूपः स केशवः ।
यस्मिन् स्वात्मनि युक्तः स रमते स्त्रीपुमात्मना ॥
मुनिगन्धर्वपित्राद्यैर्न तत् प्राप्यं कथञ्चन ।
प्राप्नुवन्ति सुराः सर्वे तद्रूपं जाज्वलत् सदा ॥
अर्धनारीपुमाकारं तस्य वामस्थितानि च ।
स्त्रीरूपाणि तु सर्वाणि विष्णोरत्यद्भुतानि च ॥
विष्णोर्यानि तु पुंरूपाण्यास्थितान्यस्य दक्षिणे ।
तान्यस्यैव तु रूपाणि युज्यन्तेऽत्र परस्परम् ॥
एष नारायणो देवो ह्यर्धनारीपुमात्मकः ।
सर्वे देवाः सभार्याश्च तं प्राप्य पुरुषोत्तमम् ॥
एकीभावं स्वभार्याभिरर्धनारीनरात्मना ।
प्राप्यैवोपासते विष्णुं मुक्ताः संसारसागरात् ॥
मोदन्ते च रमन्ते च विभागं चेच्छयाऽऽप्नुयुः ।
बहुधा च भवन्त्येते स्त्रीपुमात्मपृथक्त्वतः ॥
प्रसादाद् वासुदेवस्य भागः स्त्रीपुंस्वरूपिणः ।
तेनैव नियता नित्यं तद्वशास्तत्परायणाः ॥
रमन्तेऽनन्यगम्योऽसौ देशो विष्णोः परात्मनः ।
स्त्रीपुंरूपेण युक्तं तद् यद् विष्ण्वाख्यं पराक्षरम् ॥
अक्षरादेव परमात् पुंसो नारायणाभिधात् ।
आगच्छति तदेते च देवा भार्यासमन्विताः ॥
वहन्त्यश्वादिरूपेण रथस्थं परमं वपुः ।
तत् सर्वदेवैः प्राप्यं च नान्यैः कथमपि क्वचित् ॥
मितादिपञ्चरूपं यद् वाक्यं लोकेऽथवा श्रुतौ ।
नारायणस्य नामैतदिति जानन्ति देवताः ॥
मनोवा??र्मभिस्तस्माद् योगमाप्स्यन्ति तत्र ते ।
सर्वशब्दान् हरौ नेतुं कस्य देवानृते बलम् ॥
वाय्वान्तास्तारतम्येन विष्णुनार्मावेदिनः ।
सम्यग् वेत्ता मारुतोऽत्र तस्मान्मुक्तेभ्य एव च ।
सुरेभ्योऽधिकमानन्दं नित्यं भुङ्क्ते हरेरनु ॥’
इत्याद्यर्धनारीनारायणतन्त्रे ॥
एवं सर्वे शब्दा भगवद्वाचका इत्युक्त्वा अकारो विशेषतो नारायणवाचक इत्याह - अः इति ब्रह्मेति ।
`इतिशब्दोऽभिधानान्ते यत्र वैशेषिकं हि तत् ।
नाम स्यादिति मे साक्षान्निर्णयः समुदाहृतः ॥’
इति शब्दनिर्णये ॥
तत्राऽगतमहमिति । यस्माद इत्ययं शब्दः प्रस्तुतस्याभावं विरोधिनमन्यं च वदति तस्मात् प्रत्यक्षत्वाज्जीवजडात्मकस्य जगत एवानुक्तावपि प्रस्तुतरूपत्वात् तदन्यस्तद्विरोधी तत्र दृश्यमानदोषवर्जितश्चाकारशब्दार्थ इति सिद्ध्यति । मनसि प्रस्तुतत्वादवचनेऽपि प्रस्तुतमेवेदं सर्वम् । दृष्टसम्बन्धित्वाददृष्टं सर्वमपि प्रस्तुतं भवति । भगवास्त्व इति पृथग् विवक्षितत्वादेव न प्रस्तुतसमुदाये । नच शून्यस्याशब्दार्थता । शून्याङ्गीकारे ह्यकारस्याभावताख्य एक एवार्थ इति सिद्ध्यति । विष्णोरङ्गीकारे त्वभावताऽन्यता विरोधितेति त्रयोऽप्यर्थाः सम्यगेव सिद्ध्यन्ति । तस्मादकारस्य भगवानेव मुख्यार्थः । न शून्यम् । एकदेशार्थत्वात् । तस्मादमुख्यार्थत्वादन्ययुक्तेनैवाकारेणाभाव इत्येव तदुच्यते । नत्व इत्येव केनचित् क्वचित् । नच तथा प्रयोगोऽस्ति । तस्मात् पारतन्त्र्याल्पगुणत्वादिसर्ववस्तुस्वभावविरुद्धस्वभावं स्वतन्त्रं पूर्णगुणं सर्वजीवजडेभ्योऽन्यदज्ञानदुःखाल्पत्वपारतन्त्र्योत्पत्तिनाशादिसर्वदोषवर्जितं ब्रह्मैवाशब्दार्थः । पूर्णं हि ब्रह्मशब्दस्यार्थः । नच दोषयुक्तस्य पूर्णता । नच जीवजडाद्यपूर्णवस्त्वभिन्नस्य पूर्णत्वं भवति । तस्मादकारशब्दार्थ एव ब्रह्मशब्दार्थः । तदेतदुक्तम् - `अः इति ब्रह्म’ इति । अः इति पृथक्त्वेन वचनं तत्सममधिकं वा किमपि नास्तीति दर्शयितुम् ।
`विवृत्तावपि सर्गः स्यात् संहितायां च यत्र हि ।
समानोत्तमहीनत्वमुच्यते वस्तुनोऽञ्जसा ॥’ इति शब्दनिर्णये ॥
अः इति ब्रह्म पूर्णं वस्तूच्यते । तत्राऽगतमहमिति । तत्राकारस्य पूर्णवाचित्वेऽहमेव सोऽकारवाच्य इत्याह महिदासरूपो भगवान् नारायणः । अहमेक एव हि परिपूर्णः । अन्येषां सर्वेषां मदधीनत्वादल्पत्वादिति । मुक्तेभ्यः प्रलये लीनेभ्यश्च वस्तुभ्यः सर्वदा विभिन्न एव भगवानिति दर्शयितुं च अः इति पृथग् वचनात् । तच्चोक्तं वाक्यनिर्णये
`मुक्ता अपि न विष्णुत्वं यान्ति तत्समतामपि ।
आधिक्यं कुत एव स्यान्मुक्तानां मुक्तिदातृतः ॥
कुत एव प्रलीनानां प्रलये तु तदात्मता ।
ब्रह्मशर्वेन्द्रपूर्वाणां मुक्तावपि न विष्णुता ॥
यदा तदातु संसारे क्व तद्रूपत्वमिष्यते ।
अन्योऽसौ सर्वतो विष्णुः स्वातन्त्र्याद् गुणपूर्तितः ॥
सर्ववस्तुस्वभावस्य विरुद्धोरुस्वभावतः ।
पारतन्त्र्याल्पताऽज्ञानजनिनाशादिवर्जितः ॥
अकारेण ततो विष्णुः संहितायां पदात्मना ।
बह्वृचोपनिषत्प्रोक्तस्तेनैव परमात्मना ॥
महिदासावतारेण सोऽहमेवंविधस्त्विति ।
मत्तोऽन्यो नहि पूर्णोऽस्ति यतोऽकारश्च पूर्णताम् ॥
वक्ति तस्मादकारोऽयं मामेव वदति स्फुटम् ।
नाभाववाच्यकारः स्यादर्थत्रययुतो यतः ॥
एकार्थात्मा ह्यभावः स्यान्निषेधैकस्वरूपतः ।
अन्यता च निषेधश्च विरुद्धत्वमिति त्रयः ॥
अकारार्था ह्यभावस्तु निषेधैकस्वरूपकः ।
एकदेशस्वरूपत्वान्नाकारेणैव भण्यते ।
किन्त्वभाव इति त्वेव तेनाकारोदितो हरिः ॥’ इति च ॥
नच निषेधरूपे विरुद्धता चान्यता चास्तीत्येतावता पूर्णार्थता भवति । तदाऽर्थत्रयकथनस्य वैयर्थ्यात् । उक्तं हि शब्दनिर्णये -
`विरुद्धतानिषेधान्यभावयुक्तो हि केवलः ।
अकारो वर्तते तेषामेकार्थात्मन्यभावके ।
वर्ततेऽभाव इत्येव नत्व इत्येव केवलः ॥’ इति ॥
तस्मान्नारायण एवाकारवाच्य इति सिद्धम् ।
`यतोऽकारः सदा विष्णोर्वाचकत्वेन संस्थितः ।
तस्माद् वर्णत्रयात्माऽयं प्रवणोऽपि त्रयात्मकम् ॥
हरिमेव सदा वक्ति नैवान्यं कञ्चन क्वचित् ।
सृष्टिकर्ता ब्रह्मनामा योऽसृजच्चतुराननम् ॥
अन्तर्यामी विरिञ्चस्य सोऽकारार्थो जनार्दनः ।
वैकुण्ठलोक आस्ते स द्वितीयवपुषा हरिः ॥
उकारवाच्यः स विभुनृर्सिंहो रुद्रनामकः ।
रौद्रत्वात् स शिवस्यापि स्रष्टा संहारकारकः ॥
अन्तर्यामी शिवस्यापि मकारार्थः प्रकीर्तितः ।
एवं त्र्यात्मकं विष्णुं प्रणवोऽयं त्रियात्मकः ॥
एकं पृथगिवाऽचष्टे बिन्दुर्वक्त्यनिरुद्धकम् ।
प्रद्युम्नाद्यान् नादपूर्वाः सर्वान् नारायणात्मकान् ॥
पदम्नाभादिका एव मूतीर्नारायणोत्तराः ।
प्रणवोऽयं वदत्यष्टौ तस्मान्नान्यभिधायकः ॥’ इति तत्त्वसारे ॥
`षट्त्रिंशतिसहस्राणि बृहत्युक्थार्णगानि तु ।
स्त्रीरूपाणि हरेस्तावदह्नामप्यभिमानिषु ॥
सूर्यरूपेषु रूपाणि पुमाकाराणि सर्वशः ।
एतैः पुरुषगै रूपैबृर्दुक्थव्यवस्थितैः ॥
कदाचिद् भगवान् विष्णुः पुमाकाराणि तानि च ।
कृत्वा सूर्यगतान्येव स्त्रीरूपाणि विधाय च ॥
तान्याप्नोति च पुंरूपैस्तैरेवाक्षरगानि च ।
स्त्रीरूपाणि जगन्नाथः प्राप्नोत्यात्मेच्छया प्रभुः ॥
पुंरूपः प्रमदारूपः स्वरूपै रमते स्वयम् ।
एकीकृत्य च तान्येव द्विरूपो रमते तथा ॥
स एव रमते मायास्थितात्मस्त्रीतनौ हरिः ।
प्राणस्योत्पत्तिकामः सन्ननेच्छामारनामकः ॥’
इत्याद्यर्धनारीनारायणतन्त्रे ॥
वायोरुत्पत्तिकामो मायायां रमायां रमत इत्यनकाममारः ।
जीवे स्थितेनाक्षरगेनाक्षरनाम्ना स्वरूपेण जीवाख्यसूर्यस्थितमहाख्यं स्वरूपमाप्नोति तेन चाक्षराख्यं स्वरूपमाप्नोति । `यदक्षरादक्षरमेति युक्तम्’ इत्यस्य व्याख्यानरूपत्वाच्चैतदवसीयते । पुमांसं स्त्रियं च वदन्नेव न वदतीत्युक्तत्वादुभयात्मकं रूपं प्रतीयते । अस्त्रीपुमानिति ब्रुवन्नपि न वदतीत्युक्तत्वाच्च स्त्रीत्वं पुंस्त्वं च प्रतीयते विष्णोः । नच नपुंसकरूपं भगवतः कुत्रचिदुक्तम् । प्रसिद्धमेव च रूपद्वयम् । अतो नपुंसके वदन्नपि न वदतीति न तद्वदनुषज्जते । नपुंसकरूपे प्रमाणाभावादेव । लौकिकस्त्रीपुंविलक्षणत्वादस्त्रीपुमानित्यपि वदन्निति भवति ।
`स्त्रीपुंरूपद्वयी विष्णोर्न तृतीयं कथञ्चन ।
साक्षान्नपुंसकस्तस्मान्मुक्तिभागी नतु क्वचित् ॥’
इति च ब्रह्माण्डे ॥
नच रक्ष इति नपुंसकशब्दमात्रेण रावणादयो नपुंसका भवन्ति । भवतीति पदाभावादनकाममार इति भगवन्नाममैवेति ज्ञायते ।
`ऋष ज्ञान इति ह्यद्धा धातोः सर्वज्ञ एकराट् ।
वेदद्रष्टा परमर्षिर्हयास्यः पुरुषोत्तमः ॥
मन्त्राणां प्रथमो द्रष्टा सर्वेषां योऽत एव तु ।
ऋषिणोक्तमिति प्राहुर्मन्त्रोक्तं ब्राह्मणान्यतः ॥
तत्प्रसादाद्धि तपसा पश्चान्मन्त्रान् प्रपेदिरे ।
ब्रह्माद्या ब्राह्मणं पश्चात् तैदृर्ष्टमृषिभिः पृथक् ॥
मन्त्राश्चोपनिषच्चैव नाकृत्वा सुमहत् तपः ।
प्रथमं तद्धयास्येन दृष्टं केनचिदीक्ष्यते ॥
विना पृथक्तपो दृश्येद् ब्राह्मणं मुनिभिर्यतः ।
मन्त्राश्चोपनिषच्चैव ब्राह्मणादुत्तमास्ततः ।
तत्राप्युपनिषच्छ्र2ेष्ठा युक्तावस्थाधिगम्यतः ॥’
इत्यादि प्रमाणविवेके ॥
तेन रथेनाध्यात्मं शरीराख्येनाधिदैवतं रथरूपेण । ऋभव इत्यत्र देवानां साधारणनाम ।
`आदित्या वसवो रुद्रा विश्वे ऋभव इत्यपि ।
सर्वदेवसमाख्या च द्वादशाष्टादिकेष्वपि ॥’ इति शब्दनिर्णये ॥
`निर्मितो दैवतैः सर्वैर्विष्णुना वायुना सह ।
अधिष्ठितो रथो दिव्यः सोऽध्यात्मं देहनामकः ॥
सम्यग्योगो यदा तस्य मनोवा??र्मभिर्भवेत् ।
दहाख्यस्य रथस्यैव तदा नारायणात् प्रभोः ॥
विविधं वासत्त्वात्तु विषस्वन्नामकाच्छुभम् ।
संसारवारकं ज्ञानं दिवोदुहितृनामकम् ॥
विष्णुतत्त्वापरोक्षाख्यमहनी द्वे च शोभने ।
ज्ञानावस्था मुक्त्यवस्थेत्युभे एवाहनी परे ॥
जायन्ते देवतास्त्वेषां भारती वायुरेव च ।
जीवन्मुक्तेश्च मुक्तेश्च दाता रूपद्वयी विभुः ॥
सर्वस्त्रीणामुत्तमत्वाद् द्यौर्नाम श्रीरुदाहृता ।
अहराख्या भारती तु नित्याहेयस्वरूपतः ॥
अहरित्युच्यते वायुर्ज्ञानात्मत्वात् तथैव च ।
अधिदैवरथेऽप्येते विष्णोर्लक्ष्म्यां प्रजज्ञिरे ॥
रथेन तेन देवेशौ विष्णुवायू जगत्पती ।
आयातमिति हैवैतौ प्रार्थयेद् यज्ञकर्मणि ॥
अन्यदाऽप्यर्थयेदेतौ ज्ञानेच्छुः पुरुषः सदा ।
जपन् मन्त्रद्वयं नित्यमा तेन निमिषस्तथा ॥
रक्षणं वा समीपे स्यान्ममेयध्यात्ममेव च ।
हयास्यत्वादश्विनौ तावित्याह परमा श्रुतिः ॥
ऐन्द्राग्नेयादिकाश्चैव सर्वे मन्त्रा हरिं परम् ।
वदन्ति मुख्यतो नान्यं सर्वनामानमच्युतम् ॥
अथवा वायुदेहस्थं पृथक्संस्थं च केशवम् ।
मन्त्रो द्विवचनो वक्ति तथा बहुवचस्स्वपि ॥’
इत्याद्यैतरेयसंहितायाम् ॥
सुखं ददत इति सुदिने । विवस्वतो विष्णोः सकाशात् दिवोदुहिता अहनी च जायन्ते । अहनी इति द्विवचनेन द्वित्वे सिद्धेऽप्युभे इति वचनमध्यात्माधिदैवयोरुभयोरपि वचनार्थम् । नच सूर्यरथोऽत्र वर्ण्यते । नचाहोरात्रे अहनी इत्युच्येते । सूर्यस्याश्विनामाभावात् । सप्ताश्वत्त्वाच्च तद्रथस्य । चतुरश्वत्वं चात्रोच्यते । `श्रोत्रे पक्षसी चक्षुषी युक्ते’ इत्यध्यात्मसम्बन्धाच्च । नच रात्रौ सुदिनमिति प्रयोगो दृष्टः । असुदिनस्यापि तत एव जातत्वाद् व्यर्थविशेषणता च । अस्मिन् पक्षे तु लौकिकाहर्व्यावृत्त्यर्थं सुदिने इति युज्यते । जीवन्मुक्तिश्च हि मुख्ये सुदिने । `स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवाऽत्मनो यद्यत् कामयते तत्तत् सृजते’ इति ज्ञान्यवस्थायां मुक्तौ भोगबाहुल्यकारणत्वात् साऽपि मुक्तिवत् सुदिनम् । नहि मुक्तावाधिक्यार्जनमस्ति । `न हीयते यत्र गत्वा न वर्धते’ इति वचनात् । अतो ज्ञानोत्पत्तिसमनन्तरमेव मुक्तौ न पुनरार्जनमस्तीति किञ्चित्कालं ज्ञानित्वेनावस्थानमपि सुदिनमेव । ज्ञानात् पूर्वं तु पतनसंशयादेव न सुदिनम् । नचाश्विरथो वर्ण्यते । नह्यशिवरथयोगादहनी जायेते । एकरासभयुक्तो हि तद्रथः । `तद्रासभो नासत्या सहस्रम्’ इत्यादिवचनात् । नच विवस्वच्छब्दोऽश्विनोर्विद्यते । `यो देवानां नामधा एक एव’ इति विष्णोः सर्वनामानि प्रसिद्धानि च । `युजो युक्ता अभि यत् संवहन्ति’ इत्यादिना तस्यैव प्रस्तावाच्च । अतो विष्णुरेव मुख्यतः सर्वनामोक्त इति सिद्धम् ।
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमहैतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके द्वितीयोऽध्यायः ॥

भाष्यम्
`एको नारायणस्त्वासीत् प्रलये रमया सह ।
नित्याततगुणत्वात् स आत्मेति श्रुतिषूदितः ॥
इदं सर्वमपेक्ष्यासौ कालतो गुणतस्तथा ।
अग्य्र एव समस्तेशस्तद्वशत्वाद् रमाऽपि सा ॥
विद्यमानाऽपि नाग्रस्था गुणैरूना ततो यतः ।
न ब्रह्मा न शिवश्चाऽसीन्नैवान्यच्च मिषत् क्वचित् ॥
सुप्तास्तत्र यतो जीवाः सर्वे ब्रह्मशिवादिकाः ।
असुप्ता श्रीश्च मुक्ताश्च स्वतन्त्रोन्मेषवर्जनात् ॥
अनुन्मेषा एव तेऽपि स्वतन्त्रोमेष एकराट् ।
नारायणो नचान्योऽस्ति पूर्णोन्मीलद्गुणात्मकः ॥
पराधीनेन वित्तेन भुञ्जन्नपि हि भिक्षुकः ।
वित्तवानिति नैवोक्तस्तथा श्रीर्मुक्तिगा अपि ॥
मिषन्तोऽप्यन्यतन्त्रत्वान्न मिषन्तः कथञ्चन ।
सर्वदाऽप्येक एवायं स्वतन्त्रो नापरः क्वचित् ॥
कालाग्य्रत्वं वक्तुमस्य प्रलये स्थितिरुच्यते ।
स ऐच्छद् भगवान् विष्णुः स्रष्टुं लोकाभिमानिनः ॥
लोकाभिधानवद्देवान् जडलोकांश्च शाश्वतः ।
स लोकेभ्यः पूर्वतनानबाख्यान् महदादिकान् ॥
ब्रह्मशर्वादिकान् सृष्द्वा जडै सह जनार्दनः ।
दिवमाकामुर्वीं च ससृजेऽथ द्विसप्तकान् ॥
इति सृष्द्वा स लोकांस्तु पुनस्तानेव लोकपान् ।
अण्डान्तः स्रष्टुमैच्छच्च तेषां पूज्यत्वसिद्धये ॥
अम्नामकेभ्यस्तेभ्यः स पूर्वसृष्टेभ्य एव तु ।
सर्वजीवाधिकत्वात्तु ब्रह्माणं पुरुषाभिधम् ॥
अंशेनोद्धृत्य रुदाद्यैः सह चैनमयोजयत् ।
तथैवाचेतनानां च भागानुद्धृत्य पिण्डवत् ॥
चेतनाचेतनं राशिमेकस्थं विदधे प्रभुः ।
पुनरैच्छज्जगन्नाथस्तस्याङ्गोत्पत्तिमच्युतः ॥
अण्डवन्मुखमस्याऽसीत् प्रथमं तु शिरोऽभिधम् ।
भिन्नमास्यं पुनस्तस्य विष्णोरेवेच्छया प्रभोः ॥
तत्र वाङ्नामकं रूपं वह्नेरासीत् पुरातनम् ।
तस्यैवाथ द्वितीयं च यदग्निरिति गीयते ॥
तथैव नासिकातोऽभून्मुख्यवायोः सुतो मरुत् ।
प्राणो वायुरिति द्वेधा चक्षुषोऽभूत् तथा रविः ॥
द्विरूप एव कर्णाभ्यां मित्रधर्माप्पवित्तपाः ।
दिग्देवता द्विरूपेण बभूवुः सर्व एवच ॥
हृदयाद् गरुडानन्तशिवचन्द्राः पृथक् पृथक् ।
मनोबुद्ध्यभिमानास्ते तन्नामानश्च जज्ञिरे ॥
त्वचश्च रोमनामानो वृक्षनामान एवच ।
द्विविधाः पारिजाताद्या बभूवुर्ब्रह्मदेहतः ॥
हस्ताभ्यां द्विविधः शक्रः पद्भ्यां तत्सूनुरेव च ।
यज्ञस्त्वजनि पायोश्च यमो निऋर्तिरेवच ॥
रेतोऽम्नामा द्विरूपस्तु शिव एवच गुह्यतः ।
अपानो मृत्युरिति च मुख्यो नाभेश्च मारुतः ॥
एवं रूपद्वयेनापि स्तुवन्तो विष्णुमच्युतम् ।
दिव्याम्बराः कुण्डलिनः प्राविशन्नुदकर्णवम् ॥
तदाऽशनापिपासाख्यं द्विरूपं मारुतं पुनः ।
तस्मिन् देवसमूहे तु विष्णुः प्रावेशयत् प्रभुः ॥
तेऽब्रुवन् देहि नो वासं यत्र चान्नमदामहे ।
गोरूपमेभ्यो ब्रह्माणं ददौ नारायणः प्रभुः ॥
तत्र प्रविश्य ते देवा नालमित्यब्रुवन् पुनः ।
अश्वरूपं विरिञ्चं च पुनरेवाददात् प्रभुः ॥
तद्रूपेऽपि प्रविश्यैव नालमित्यब्रुवन् पुनः ।
पूर्वसृष्टं पुमाकारं ब्रह्मणोऽदात् पुनर्हरिः ॥
तद् दृष्द्वैवालमित्यूचुर्विशतेति स चाब्रवीत् ।
विविशुश्च यथोत्पन्नाः सर्वे देवाश्चतुर्मुखम् ॥
अशनापिपासामानी तु द्विरूपो मारुतोऽवदत् ।
कुर्वाज्ञामावयोश्चैव यथा त्वच्छासनानुगौ ॥
नित्यं भवावेति हरिः सर्वत्र प्रविशेत्यमुम् ।
आह तस्माद् देवतानां सर्वासां भागभुङ् मरुत् ॥
एक एव प्राणनामा नाभिस्थोऽपि स एव हि ।
अशनापिपासाऽपानश्च मृत्युश्चेति चतुर्विधः ॥
एक एव महान् वायुः सर्वदेवेषु संस्थितः ।
पुनरैच्छत् केशवोऽसावन्नमेभ्यः सृजा इति ॥
आबाख्या देवताः पूर्वसृष्टा ब्रह्मादिकाः पुनः ।
ददर्शाऽशु विशालाभ्यां नेत्राभ्यां पुष्करेक्षणः ॥
तद्दर्शनात् तदिच्छातस्तासां देहोऽभवत् पृथक् ।
सर्वासामपि देहैकदेशेभ्यो मििलतं शुभम् ॥
सर्वैरधिष्ठितं चैव विरिञ्चेन विशेषतः ।
दिव्यावयवसम्पन्नमेकमेव सुलोचनम् ॥
भोग्यभोक्त्रात्मना नास्ति तस्य दुःखं कथञ्चन ।
ते हि देवाः स्वयं भोग्याः स्वयं भोक्तार एव च ॥
क्रीडन्ते मोदिनो नित्यं तथाऽप्यन्नात्मकस्त्वसौ ।
क्रीडयाऽपाक्रमत् किञ्चित् तं तदाऽसौ चतुर्मुखः ॥
अत्तुं वागादिभिः सर्वैरैच्छन्नाप्यशकत् तदा ।
जानन्नपि क्रीडयैव तारतम्यं प्रकाशयन् ॥
एवं चकार ब्रह्मा स क्वाज्ञानं लोककर्तरि ।
क्षुत्पिपासादयश्चैव देवानां भोगसाधकाः ॥
नतु पीडाकरास्तेषामैश्वर्यादिगुणोन्नतेः ।
अन्नमूर्तिं ततो ब्रह्मा प्रधानेनैव वायुना ॥
अपानाख्येनात्तुमैच्छत् तदैवाशकदाशु सः ।
तस्माद् भोक्तैक एवासौ सर्वस्यान्नस्य मारुतः ॥
तत्प्रसादात् परेऽश्नन्ति किञ्चित् किञ्चिन्नचाखिलम् ।
आयूरूपोऽखिलानां च देवानां वायुरेव हि ॥
अन्नदेवस्य चाऽयुः स तस्माद् देवोत्तमो मरुत् ।
आयुःशब्दो ज्ञानवाची गतिवाची च यत् ततः ॥
चेष्टामोक्षज्ञानदाता सुराणां मारुतस्ततः ।
अन्योन्यगुणदातृत्वात् समानौ ब्रह्ममारुतौ ॥
तस्मान्मोक्षसुखे ज्ञाने विष्णुभक्त्यादिकेषु च ।
सर्वेभ्यश्चाधिकौ तौ हि तयोर्विष्णुः परः सदा ॥
देवतानां प्रवेशात्तु पूर्वमेव जनार्दनः ।
इत्थमैक्षत देवेशो ब्रह्माद्या यदि मां विना ॥
क्रियादिषु समर्थाः स्युर्न मे विष्ण्वभिधा भवेत् ।
सर्वचेष्टयितृत्वाच्च विशिष्टबलतस्तथा ॥
विष्णुरित्यभिधा मह्यं सा न युक्ता दिवौकसाम् ।
स्वतन्त्रत्वे ततः सर्वे मद्वशा एव नान्यथा ॥
तस्मादेषां प्रवृत्त्यर्थं प्रवेक्ष्ये सह वायुना ।
इति मत्वा विरिञ्चस्य शरीरं प्रविवेश सः ॥
मूर्धन्यनाड्या प्रथमं ब्रह्मवायुसमन्वितः ।
अग्न्यादयस्ततः पश्चात् प्रविष्टास्तन्नियोजिताः ॥
प्रपदाभ्यां तथाऽन्येन रूपेण प्रविवेश सः ।
बिभर्ति देहं तेनैव मूर्ध्नाविष्टेन चेष्टयन् ॥
नारायणो वासुदेव इति द्वेधा व्यवस्थितः ।
मूर्ध्नाविष्टो वासुदेवस्तस्य चावसथास्त्रयः ॥
अक्षिकण्ठहृदित्येव त एव स्वप्ननामकाः ।
आप्नोत्यत्र स्वयं विष्णुरतः स्वप्नाः प्रकीर्तिताः ॥
अनिरुद्धादिरूपेण त्रिधा तेषु व्यवस्थितः ।
दाताऽवस्थात्रयस्यास्य जीवस्य क्रमशो विभुः ॥
सुषुम्नायां वासुदेवो मूर्धन्येव व्यवस्थितः ।
तस्यामेव ब्रह्मनाड्यां स्थितो नारायणः प्रभुः ॥
स एव भगवान् विष्णुः प्रादुर्भावात्मना पुनः ।
जातो मत्स्यादिरूपेण सर्वभूतेषु चाऽविशत् ॥
असुराणां निहन्तारं ज्ञानादिगुणदं तथा ।
चेष्टाप्रदं च देहेषु न मदन्यं वदत्यपि ॥
इति मत्वा जगन्नाथो दैत्यनिग्रहणेच्छया ।
ज्ञानदानार्थमपि तु प्रादुर्भूतो भुवि प्रभुः ॥
तथा जीवेषु सर्वेषु प्रविष्टः प्रेरणेच्छया ।
को ह्यन्यस्तमृते विष्णुमेतत् कर्म करिष्यति ॥
स सर्वगुणसम्पूर्णं सर्वगं नित्यमव्ययम् ।
एतदेव स्वरूपं स त्वपश्यदवतारगम् ॥
तस्मात् सर्वावताराश्च सर्वजीवेषु च स्थिताः ।
प्रादुर्भावाः सर्वगुणैः पूर्णा एव सदा स्थिताः ॥
पश्यन्ति च तथा नित्यनिर्दोषोरुस्वसंविदा ।
गुणपूर्णस्वरूपस्य त्वापरोक्ष्येण दर्शनात् ॥
सर्वदैव ह्यसौ विष्णुरिदन्द्रो नामतो मतः ।
ब्रह्मादीनां हि सर्वेषां तत्प्रसादेन जायते ॥
जानन्ति न स्वतस्तेन नेदन्द्रास्ते प्रकीर्तिताः ।
रमाऽपि तत्प्रसादेन जानाति किमुतापरे ॥
अल्पज्ञाना अल्पगुणा अल्पानन्दाश्च तेऽखिलाः ।
रमाजशर्वशक्राद्यास्तेनानिन्द्राः क्रमेण ते ॥
पापैरज्ञाततां देवा मानयन्ति सदाऽऽत्मनः ।
हर्षेण तेन विष्णुः स इन्द्र इत्यभिशब्द्यते ॥
नेदन्द्रताऽसुरादीनां ज्ञायेतेति श्रुतिर्हरिम् ।
इन्द्र इत्येव वदति पारोक्ष्येणोरुसद्गुणम् ॥’
इत्याद्यैतरेयसंहितायाम् ॥
आततगुणत्वादात्मा नारायणः । `ब्रह्म पन्थाः सत्यं कर्म’ इति तस्यैव पञ्चरात्रप्रसिद्धैरेव नामभिरारब्धत्वाच्च ।
`मुख्यतः कर्मनामा तु प्रादुर्भावात्मको हरिः ।
अनिरुद्धतनुश्चैव तत्र ह्यमितचेष्टता ॥
कर्माभासा जीवसङ्घाः सत्यं प्रद्युम्ननामकः ।
सङ्कर्षणो हरिः पन्था ब्रह्मोक्तो वासुदेवकः ॥’
इत्यादि हि नामनिर्णये ॥
`मथ्सीन्द्रमिन्दो पवमान विष्णुम्’ इत्यादिश्रुतौ तस्मिन्नेव प्रसिद्धस्येन्द्रशब्दस्यात्र बहुशोऽभ्यासाच्च । अकारस्य च विष्णावेव प्रसिद्धस्यात्राभ्यासात् । `तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी’ इति सूर्यमण्डले पुण्डरीकाक्षत्वेन निर्दिष्टस्यात्रापि `य एष तपति’ इत्यादिना बहुशोऽनुसन्धानाच्च । सूर्यो हि `हिरण्याक्षः सविता देव आगात्’ इति पिङ्गाक्षः प्रसिद्धः ।
`विरूपाक्षः शिवः सूर्यः सुराचार्यो विनायकः ।
पुण्डरीकेक्षणो विष्णुः सहस्राक्षः सुराधिपः ॥’
इति च स्कान्दे ॥
`यो देवानां नामधा एक एव’,`नामानि सर्वाणि यमा विशन्ति तं वै विष्णुं परममुदाहरन्ति’,`यमिन्द्रमाहुर्वरुणं यमाहुः’,`इन्द्रसूर्यादयः शब्दा विष्णावेव हि मुख्यतः । उपचारात् तदन्येषां विष्णुनैव कृता परा’ इत्यादिना तस्यैव सर्वनामवत्त्वाच्च । `णकारो बलं षकारः प्राण आत्मा’ इत्यादिनाऽन्ते विष्णुशब्दव्याख्यानेनोपसंहाराच्च । `आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न वर्तन्ते तदन्यत्र शृङ्गिबेरेऽग्निशब्दवत् ॥’ इति च पादम्े ॥
`एको नारायण आसीन्न ब्रह्मा नच शङ्करः’,`एको नारायण आसीन्न ब्रह्मा नेशानः’,`वासुदेवो वा इदमग्र आसीन्न ब्रह्मा नच शङ्करः’ इत्यादिश्रुतिभ्यश्च ।
अग्रशब्दो गुणाधिक्यवाची । इदं रमाब्रह्मशिवादिकं सर्वं जगदपेक्ष्य आत्मैवाग्रे विष्णुरेवाग्य्रः सर्वगुणैरित्यर्थः । तत्र हेतुस्तदन्यत् किञ्चिन्न मिषदासीत् । सर्वस्याप्युन्मेषणं नाऽसीदित्यर्थः । स्वत उन्मेषणं कस्यापि नास्ति । अस्तिशब्दवदासीच्छब्दोऽपि सर्वकालसाधारणः । भगवत्प्रसादादेव सर्वदा सर्वं किञ्चिदुन्मिषति । स्वातन्त्र्येण पूर्णोन्मेषो विष्णुरेव ।
`उन्मेषो गुणसम्पूर्तेरुद्रिक्तानुभवः स्मृतः ।
तदेव मिषणं नाम सद्रूपं मिनुते यतः ॥
मिषश्च नान्यद् विष्णोर्हि किमुतोन्मिषदिष्यते ।
उच्चैर्मिषन् हि भगवान् सर्वदैव जनार्दनः ॥’ इति च सत्तत्त्वे ॥
`नास्ति नारायणसमं न भूतं न भविष्यति’ इति च भारते ॥
सर्वजीवानां रमायाश्च प्रलये विद्यमानत्वादेव नाग्र इति कालापेक्षया । तदधीनमिषत्त्वादन्येषामग्य्रः स एवेत्याशयः । तदत नत्वमेव तेषां सृष्ट्यादिना दर्शयति । स्थूलशरीरस्य पूर्वाभावस्तत एवार्थतः सिद्ध्यति ।
`प्रलयेऽप्याखिलं देवी रमा विष्णुप्रसादतः ।
जानाति नित्यज्ञानेन मुक्ता ध्यानस्थिता लये ॥’
इति च भारते ॥
ब्रह्मादीनां शरीरान्तरस्यापि प्रलयेऽनुक्तेरेवाभावः सिद्ध्यति ।
`आत्मा ब्रह्माऽग्र इत्यादि गुणाग्य्रत्वं हरेर्वदेत् ।
कालज्यैष्ठ्यं न यस्मात् तत् सृष्ट्युक्तेरेव सिद्ध्यति ॥’
इति वाक्यनिर्णये ॥
गुणाग्य्रतायामेव कालज्यैष्ठ्यस्याप्यन्तर्भावाच्च । अं विष्णुं बिभर्तीति विष्णुलोको दिवः परः । महरादयश्च । दिव्यपि भगवान् प्रतितिष्ठतीति प्रतिष्ठा । तेषु हि सर्वेषु प्रत्यक्षतश्चरति विष्णुस्तस्मादम्भ इत्युच्यते । दिवः परे द्यौश्चाम्भोनामका इत्यर्थः । सूर्यमरीचीनां तत्र विशेषेण विततत्वादन्तरिक्षं मरीचयः । मरीचीनामयनात् । पृथिव्यां क्षिप्रं मरन्तीति पृथिवी मरः ।
`भूतेभ्योऽनन्तरं त्वण्डं सृष्द्वा विष्णुः पुरा प्रभुः ।
लोकभेदांश्च चक्रेऽत्र पश्चाद् ब्रह्मा विशेषतः ।
सम्यक् चकार लोकांस्तान् लोककर्ता ततः स च ॥’
इति ब्रह्मवैवर्ते ॥
या अधस्तात् पूर्वमेव सृष्टा देवतास्ता आप इत्युच्यन्ते । `आपा इत्याप इति’ इति पूर्वं भगवदङ्गसृष्टानामेवाच्छब्देनोक्तेः । `अयं पितैते पुत्राः’ इति च । `अहं मां देवेभ्यो वेदा ओ मद् देवान् वेद’ इति च ।
`ब्रह्मवायू च तद्भार्ये वीन्द्रशेषौ च तत्स्त्रियौ ।
शिवस्तद्दयिता शक्रकामौ तद्दयितादयः ॥
सर्वे सुराः क्रमेणैव विष्णोर्जाता आबाख्यकाः ।
ज्ञानानन्दबलाद्येषु विष्णुभक्तौ च सर्वशः ॥
हीनाः शतगुणेनैव क्रमेणानेन ते मताः ।
तेभ्यश्च ऋषयो मर्त्या हीना एव क्रमेण च ॥
विशेषतस्तु मुक्तानां सर्वसंसारबन्धनात् ।
क्रमोऽयं सम्यगुद्दिष्टो नित्यानन्दैकभोगिनाम् ॥
न विशेषो ब्रह्मवाय्वोरधिकाराविभेदतः ।
न शेषशिवयोश्चैव तत्पत्नाीनां च सर्वशः ॥
सुपर्णशेषयोश्चैव साम्यं सर्वगुणेष्वपि ।
साम्यमेवैतयोः पत्नयोः साम्यं शक्रमनोजयोः ॥
एते तु महदादीनां सर्वेऽपि ह्यभिमानिनः ।
पूर्वस्य प्रतिबिम्बश्च चरमस्तत्सुतस्तथा ॥
तद्वशाश्चाखिला विष्णोर्न विष्णुः कस्यचिद् वशे ।
महदादिमानिनश्चैते जातास्तैः सह सर्वशः ॥
एते लोका इति प्रोक्ता लोकानामभिमानतः ।
त एव लोकपालाश्च यदा पश्चात् प्रजज्ञिरे ।
पश्चाज्जातैर्हि रूपैस्ते लोकस्थान् पालयन्त्यलम् ॥’
इत्यादि तत्त्ससारे ॥
अमूर्छयत् मूर्तमकरोत् । `अग्निर्वाग् भूत्वा’ इत्यादिना पश्चादैक्यप्रतीतेरेकस्यैव रूपद्वयं तदिति प्रतीयते । प्रजानीहि प्रकर्षेणानुजानीहि । अन्नदेवता च सर्वदेवतायुक्तो विरिञ्च एव । ग्रसनं चैतस्मिन् प्रवेश एव । नतु पीडा तस्य । एक एव हि ब्रह्मा भोक्तृभोज्यत्वेन स्थितो भोज्यरूपेणैकीभूयातितरां मुमोदेत्यर्थः । देवानामुपद्रवाभावाद् भोक्तृत्वशक्तियोजनमेवाशनापिपासाभ्यामन्ववार्जनम् । वायुरेवच भोक्तृत्वशक्तिरूपः । यदि वागादीनामेवाभिव्याहरणादिशक्तिः स्यान्मां विना तर्हि न विष्णुत्वं मम स्यात् । तस्मात् कोऽहं भवानीत्याक्षेपः । विशेषेण प्राणयति सर्वान् सर्वेभ्यो विशिष्टबलश्चेति हि विष्णुः । `णकारो बलं षकारः प्राण आत्मा’ इति व्याख्यानात् । तस्मान्मत्प्रेरिता एवैतेऽभिव्याहारादिशक्ता इत्यभिप्रायः । पूर्णानन्दस्वरूपत्वान्नन्दनो भगवान् । प्रादुर्भावरूपेण जातोऽपि भगवान् सर्वभूतान्यभितः सर्वकालेषु विशेषेण पश्यत्येव । इह भूतेषु मत्तोऽन्यं प्रवर्तकं वदेत् किमित्याक्षेपः । अहमेव स्वतन्त्रः परिपूर्णगुण इति कृष्णराघवादिसर्वावताररूपोऽपि सर्वदाऽनुभवत्येव ।
`नायं दशरथाज्जातो नचापि वसुदेवतः ।
क्वास्याज्ञानं कुतो दुःखं प्रादुर्भावेष्वपि प्रभोः ॥
प्रादुर्भूतश्चिदानन्दशरीरो राघवः स्वयम् ।
स्तम्भाद् वा नरदेहाद् वा नैवास्य प्राकृता तनुः ॥
दैत्यानां मोहनार्थाय सोऽज्ञानाद्यं प्रकाशयेत् ।
पूर्णचित्सुखरूपोऽपि सदा सर्वावतारगः ॥’
इत्यादि स्कान्दे ॥
एतमेव पुरुषं व्यासकृष्णकपिलराघवादिरूपं ततममपश्यत् । तततमं परिपूर्णतमं ब्रह्मापश्यत् । इदं मे स्वरूपमदर्शमेवाहमिति । रङ्गस्त्ववधारणे - `रङ्गोऽवधारणे चैव संवादे च प्रयुज्यते’ इति पदविवेके । अपश्यदित्यत्र नातीतकालत्वं विवक्षितम्, अभिव्यैख्यदित्यभिशब्दस्यानुषङ्गात् । अपश्यत् पश्यतीति वैककालसम्बन्धं विना वक्तुमशक्यत्वात् तथा प्रयोगः ।
`प्रयोग एककालीनः सर्वकालेऽनुषज्यते ।
ददर्श विष्णुरित्यादौ नित्यचिद्रूपतो हरेः ॥’ इत्यादि सत्तत्त्वे ॥
`परोक्षप्रिया इव’ इत्यसुराणां सम्यगदर्शनेन पतनं देवानां प्रियं तथाऽप्यपरोक्षदर्शिन्येव प्रीतिं कुर्वन्तीतीवशब्दः ।
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमहैतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके तृतीयोऽध्यायः ॥
ॐ॥ `अयं नारायणो देवः पुरुषे प्रथमं विशेत् ।
अन्नस्थोऽन्नेन सहितस्तस्मिन् रेतस्त्वमागते ।
तस्मिन् स्थितस्वरूपं स पुरुषस्थो बिभर्त्यजः ।
तद्रूपं रेतसा साकं स्वयं पुंसि स्थितो हरिः ।
स्त्रियां सिञ्चति तस्यैव स्थानान्तरगतेः प्रभोः ।
प्रथमं जन्म विष्णोस्तत् स तस्या अङ्गवत् प्रभुः ।
नैनां हिनस्त्यानुकूल्यात् सा पुत्रं भावयत्यथ ।
पुत्रस्य भावना सैव तद्गत्वाद्धरिभावना ।
सम्भावितव्या सा चैव भर्त्रा पुत्रश्च सादरम् ।
सम्भावनं कुमारस्य जानतः केशवे भवेत् ।
तस्येत्यर्पणमात्रेण पूजितो हि भवेद्धरिः ।
पुत्रस्थस्य हरेः पूजां कुर्वतः पृथिवीस्थितिः ।
स्वर्गस्थस्यापि भवति पुत्रपुण्यं यतोऽखिलम् ।
अत्यल्पपुण्यभाक् स स्यान्नार्चयेत् केशवं यदि ।
पृथिव्यां जन्म पुत्रस्य द्वितीयं विष्णुजन्म हि ।
एतद्रूपं निधायैव जीवार्थे धर्मकर्तवे ।
पितृस्थेन तु रूपेण गच्छत्यन्यत्र केशवः ।
पितुरन्यत्र जननं तृतीयं जन्म तद्धरेः ।
अन्तर्यामितयैवं हि सर्वजीवेषु संस्थितम् ।
सर्वदोषोज्झितं विष्णुं कर्तारं सर्वकर्मणाम् ।
नित्यानन्दं स्वतन्त्रं च सर्वज्ञं सर्वतोऽधिकम् ।
यो वेद देहबन्धात् स विमुक्तो नित्यमुत्तमान् ।
भोगान् भुङ्क्ते यथायोगमिति वेदानुशासनम् ॥’ इत्यतरेयसंहितायाम् ॥
नात्रजीवोत्पत्तिमात्रमुच्यते । नहि जीवोत्पत्तिमात्रपरिज्ञानादमृतत्वं भवति । ज्ञातमेव सर्वैः पितापुत्रसम्बन्धमात्रं श्वादिभिरपि । `गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा’ इत्युक्तार्थ उदाहृते मन्त्रे देवजन्मकथनाच्च । विष्णुर्हि परमो देवः । तेनैव सह सर्वेऽपि देवा जीवदेहजनने जायन्त इव । शरीरप्राप्तिरेव हि जन्मान्येषामपि । अयमेव विशेषो देवानां दुःखाभोगः । स्वातन्त्र्यं च विष्णोः । `आत्मन4येवाऽत्मानं बिभर्ति’, `आत्मानमेव तद् भावयति’ इत्याद्यात्मशब्दस्य मुख्यतो विष्णावेव युज्यते । `णकारो बलं षकारः प्राण आत्मा’ इति विष्णुशब्दार्थैकदेशवाचित्वाच्चाऽत्मशब्दस्य । `एतया द्वारा प्रापद्यत’ इति तस्यैव शरीरप्रवेशस्य प्रस्तुतत्वाच्च । जीवशरीरं परित्यज्यान्यत्र गमनमात्रं विष्णोरप्यस्तीति प्रैतीत्युक्तेऽप्यविरोधः । कृष्णराघवादिस्वरूपमेव ह्यसौ न परित्यजति ।
`कृष्णो ह्यत्यक्तदेहोऽपि त्यक्तदेहवदेव च ।
लोकानां दर्शयामास स्वरूपसदृशाकृतिम् ।
येन रूपेण कंसादीन् जघ्ने तद्रूप एव हि ।
पूज्यतेऽद्यापि शर्वाद्यैर्निर्मिताऽन्या शवाकृतिः ।
स्वर्गारोहणकाले हि जनास्तेनैव मोहिताः ।
यत्तद् रूपं निजं विष्णोदृर्ष्टं सर्वनरैर्भुवि ।
अद्यापि तद् देवलोके पूज्यते सर्वदैवतैः ॥’ इत्यादि स्कान्दे ॥
`प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् ।
आदायान्तरधाद् यस्तु स्वबिम्बं लोकलोचनम् ॥’ इति च भागवते ॥
`प्रेतां यज्ञस्य शम्बुवा’ इत्यादिवत् प्रकृष्टगतिवाच्येवायं शब्दः । प्रकृष्टगतित्वादेव मरणेऽपि प्रयुज्यते । `एषामवेदमहम्’ इत्यत्रापि जीवभेद एवोक्तः । अन्यथा मम जनिमानीत्येवोच्येत । व्यर्थता चैषामित्यादिविशेषणानाम् । अवेदमित्यनेनैव स्वस्य सिद्धत्वादहमित्यप्यहेयत्वेनेति क्रियाविशेषणम् । जन्म जानन्नपि देवानां दुःखादिहेयरहितत्वेन व्यजानामित्यर्थः । तस्माद् `अहं मनुरभवम्’ इत्यादावहेयगुणं भगवन्तमेवाहंशब्दो वक्ति । सर्वान्तरत्वात् तस्मिन्नेवाभवमित्युत्तमपुरुषशब्दोऽपि सर्वो वर्तते ।
`अहेयत्वादहं विष्णुः स तु सर्वान्तरत्वतः ।
अस्यस्मीत्यादिभिः शब्दैरुच्यतेऽन्योऽपि जीवतः ॥ इति ब्रह्मवैवर्ते ॥
नच मूढव्यवहार एव वेदनिर्णयाय भवति । किन्तु सर्वेषामनुभवो युक्तयश्च वाक्यान्तरं च निर्णयकारणम् । तस्मात् सर्वजीवादिभ्योऽन्यः सर्वोत्तमो विष्णुरेवात्रोक्तः ।
`न वेदेषु पंद किञ्चिद् वर्णो वा व्यर्थ इष्यते ।
यथायोगं चार्थभेद ऊह्यः सर्वत्र वेदिभिः ॥’ इति शब्दनिर्णये ॥
`शब्दा रेतोऽन्नमित्याद्या अपि तत्र गतं हरिम् ।
वदन्त्यविष्णुवाची च न शब्दः क्वचिदिष्यते ॥ इति च ॥
भावयति सम्भावयति । सोऽग्र एव अग्‌रयो विष्णुरेव । पुत्रसम्भावनमपि तत्रस्थं विष्णुं सम्भावयामीति तत् तस्यैव भवति । एवं भावयतामेव `एष पन्था उरुगायः’ इत्याद्यपि । `तं पश्यन्ति पशवः’ इत्याद्यपि दिव्यपश्वादीनामेव । अन्येषां स्वभावप्रवृत्तिः । ता एव देवताः शतं पुर आयसीर्ज्ञानिन्यो विशेषतः । `अय पय गतौ’ इति धातोः । मानुषानपेक्ष्य पूर्णत्वात् पुरः । विष्णुर्मुख्यत एव पूर्णः । नच शरीरैर्जीवो रक्षितः । मुख्ये युज्यमाने च नामुख्यार्थः कल्प्यः । शमस्य विद्यत इति शी विष्णुः । पूर्णानन्दत्वात् । स एव ज्ञानत्वाद् यश्चेति श्यः । सोऽस्य जीवस्येन इति श्येन । विष्णुं स्वामिनं ज्ञात्वेत्यर्थः । निरदीयम्, निष्क्रम्यातीतोऽस्मि गर्भवासम् । स्वरानन्दो विष्णुरत्रग इति स्वर्गलोको विष्णुलोकः । अमृतः सन् सर्वान् कामानाप्त्वा तानेव सर्वान् कामान् समभवदनुभवति । अपेक्षितवस्तुस्वीकार आप्तिः । सम्भवो भोगः । `तां समभवत् ततो मनुष्या अजायन्त’ इत्यादिवत् । मुक्त्यनन्तरमेव ह्यनुपचरितसर्वकामावाप्तिः । मुख्य एव चार्थः स्वीकार्यः । अमुक्तानां विष्णुलोकगानामपि न सर्वकामावाप्तिः । जयविजयादीनामप्रियदर्शनात् । अतोऽमृतः सन् सर्वकामानाप्त्वेत्यर्थः ।
`मुक्तः कामानवाप्नोति भुङ्क्ते चैव यथेष्टतः ।
सर्वानपि निरातङ्कः सर्वदा च हरेर्वशे ॥’ इति च ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमहैतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके चतुथोर्ेऽध्यायः ॥

ॐ॥ `अयं विष्णुर्हि किंरूप उपास्योऽस्माभिरच्युतः ।
इत्यपृच्छद् रमा देवी महिदासं जनार्दनम् ।
आह तां महिदासोऽथ पूर्णानन्दतमस्त्विति ।
उपास्यस्तादृशो ह्यस्य स्वभावः परमात्मनः ।
येन जीवो दर्शनादीन् प्रेरितः कुरुते सदा ।
यो विष्णुहृर्दयमिति हृद्गतत्वात् प्रकीर्तितः ।
मन्तृत्वान्मन इत्येव यच्च ज्ञातृस्वरूपतः ।
एतत् सन्निहितत्वाच्च पूर्णत्वादेति कीर्तितम् ।
इतत्वाच्च ततत्वाच्च स इतन्नाम केशवः ।
गुणानामुच्चयो यस्मात् स च इत्येव शब्दितः ।
सम्यग्ज्ञानस्वरूपत्वात् सञ्ज्ञानमिति कीर्तितः ।
आततज्ञानरूपत्वादाज्ञानं भगवान् हरिः ।
विविधज्ञानरूपत्वाद् विज्ञानमिति कीर्तितः ।
प्रकृष्टात्मगुणज्ञानरूपः प्रज्ञानमुच्यते ।
अविस्मृतित्वान्मेधा स दृष्टिर्दर्शनरूपतः ।
धृतिर्धारणरूपत्वान्मतिर्मासु ततत्वतः ।
मनुनाम्नामजादीनां मनीषेशो यतो हरिः ।
सर्वप्रेरकरूपत्वाज्जूतिरित्यभिधीयते ।
सर्वदेशेषु कालेषु स्वरूपेषु च सर्वशः ।
समं रमत इत्येव स्मृतिर्नाम जनार्दनः ।
सर्वस्य क्ल्ृप्तिकर्तृत्वात् सङ्कल्प इति गीयते ।
क्रतुः स सर्वकर्तृत्वादसुरप्यसनाद्धरिः ।
अमेयानन्दरूपत्वात् काम इत्यभिधीयते ।
अवशः स स्वतन्त्रत्वाद् त्रयोविंशतिनामकम् ।
यो वेदैवं हरिं सम्यङ् मुच्यतेऽखिलसंसृतेः ।
ब्रह्मा शिवश्च शक्रश्च देवाश्चान्ये समस्तशः ।
तथैव पञ्चभूतानि पुण्यपापविमिश्रिताः ।
क्षुद्रात्मानस्तु ये मर्त्या इतरे असुरा अपि ।
सर्वं जगदिदं विष्णोर्वशे तिष्ठति सर्वदा ।
तेनैव नीयते नित्यं तस्मिन्नेव प्रतिष्ठितम् ।
मुक्ता येऽलोकनामानो नीयन्ते तेऽपि विष्णुना ।
स्वयं चानन्यनिष्ठत्वात् प्रतिष्ठेत्यभिधीयते ।
देशतः कालतश्चैव गुणतश्चातिपूर्तितः ।
विष्णोर्ब्रह्मेति नामैतन्मुख्यतोऽन्यत्र न क्वचित् ।
सोऽलोकनामा मुक्तस्तु चितिमात्रस्वरूपतः ।
प्रकृष्टज्ञानरूपस्य प्रसादात् परमात्मनः ।
अस्माद् देहात् समुत्क्रम्य गत्वोर्ध्वं लोकमुत्तमम् ।
अमृतः सन् विष्णुलोके भोगान् सम्प्राप्य पुष्कलान् ।
भुङ्क्ते यथेष्टतो नित्यमिति वेदानुशासनम् ॥’
इत्याद्यैतरेयसंहितायाम् ॥
जानत्याऽपि देव्या लोकानुग्रहार्थं विशेषज्ञानार्थं च `कोऽयमात्मा’ इति पृष्टः सन् भगवानाह- कतरः स आत्मेति । कतरः आनन्दतमः । `यत्रोभयोः प्रयोगो न तत्रैकार्थौ तरप्तमौ’ इति शब्दनिर्णये । यत्प्रेरणादयं जीवो दर्शनादीन् करोति । रमाब्रह्मादीनामपि तत्प्रेरितत्वात् । सर्वेषां दर्शनादिकारणत्वमेकैकमपि तस्य लक्षणं भवतीति वाशब्दः सर्वत्रानुषज्यते । प्रजापतिः शिवः । लिङ्गाभिमानित्वात् ।
`प्रजापतिः शिवः शेपो लिङ्गमित्यभिधीयते । लिङ्गाभिमानी लोकस्य स्रष्टा गिरिश एव हि ॥’ इति शैवपुराणे ॥
`सममस्त्वनयोर्युद्धमिति प्राह प्रजापतिः । वाक्यं शिवस्य तच्छ्र2ुत्वा शक्रो नेत्याह सत्वरः ॥’ इति च भारते ॥
क्षुद्रमिश्राणीव बीजानि शाल्यादिबीजवत् भिन्नस्वभावा ब्रह्मादयः सर्वजीवाः ।
`ब्रह्माद्याः सर्व एवैते जीवा भिन्नस्वभावकाः । यथा शाल्यादिबीजानि भिन्नवीर्याणि सर्वशः ॥’ इति सत्तत्वे ॥
प्रथमेतराणीतिशब्दो मानुषाणाम् । द्वितीयोऽसुरादीनाम् । `प्रज्ञानेत्रोऽलोकः’ इति अलोकशब्देन मुक्तसमुदाय उच्यते । ब्रह्मादिस्थावरान्तस्य लोकस्य `सर्वं तत् प्रज्ञानेत्रम्’ इति विष्ण्वधीत्वस्य पूर्वमेवोक्तत्वात् पुनः `प्रज्ञानेत्रोऽलोकः’ इति मुक्तविषयमेव । मुक्तो ह्यलौक्यत्वादलोकः । `अण्डजानि च’ इत्याद्युक्त्वा पुनः `अश्वा गावः’ इत्यादि देवादीनां मन आदेरेव जातानामपि स्वाकारार्थम् । अण्डजत्वाद्युत्पत्तिप्रकारोऽपि विष्ण्वधीन इति ज्ञापयितुं तत्कथनम् । `तथाऽश्मानस्तृणकाष्ठाश्च सर्वे दिष्टक्षये स्वां प्रकृतिं भजन्ते’ इति भारतवचनादश्मादीनामपि प्राणित्वात् तत्स्वीकारार्थं प्राणीति । गमनपतनस्थिरत्वादयोऽपि भावा विष्ण्वधीना इति ज्ञापयितुं जङ्गममित्यादिवचनम् । स एतेनेत्यलोकशब्दोक्तो मुक्तः परामृश्यते । सकलकर्मबन्धमुक्त्यनन्तरं हि शरीरादुत्क्रामति । प्रकृष्टज्ञानरूपेण विष्णुना प्रेरितः प्राज्ञेनाऽत्मनैवोत्क्रम्य तेनैव सर्वान् कामानाप्त्वा तेनैव सर्वान् सम्भुङ्क्त इति सर्वत्रानुषज्जतो `प्रज्ञानेत्रोऽलोकः’ इत्युक्ते कथं प्रथानेत्रो मुक्त इत्याकाङ्क्षयां तस्यैव व्याख्यानं `स एतेन प्रज्ञेनाऽत्मना’ इत्यादि । अनुक्तविशेषाणामपि भगवदधीनत्वज्ञापनार्थं प्रज्ञानेत्रोऽलोक इति सामान्यवचनम् ।
`अनारब्धफलानां च प्राराब्धानां च सर्वशः ।
कर्मणां दाह एवायं मुक्तिरित्यभिधीयते ।
स तु मुक्तस्ततो देहादुद्गच्छति परात्मना ।
प्रेरितो विष्णुलोकं च प्राप्य भोगानवाप्य च ।
भुङ्क्ते विष्णुप्रसादेन न विष्णोरवशः क्वचित् ।
विष्णुतन्त्रा इमे सर्वे मुक्ता अपि यतोऽखिलाः ॥’ इति ब्रह्माण्डे ॥
ब्रह्मेन्द्रादिशब्दा विष्णावेव मुख्यत इति तद्व्यावृत्त्या जीवानां स्वीकाराथमेष इत्यादिशब्दः । स हि भगवान् स्वनेतृकोऽपि नानुग्राह्यः । अनुग्राह्यत्वं हि ब्रह्मादीनामत्र विवक्षितम् । `नेयताऽनुग्राह्यताऽपि न सा विष्णोः स्वतोऽपि तु’ इति शब्दतत्त्वे ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमहैतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके पञ्चमोऽध्यायः ॥
ँ’ ॥ `वाङ् मे मनसि प्रतिष्ठिता ‘, अवबोधरूपे विष्णौ प्रतिष्ठिता । `यदेतद्वयं मनश्च ‘इति विष्णुनामधेयेषूक्तत्वात् । `आविरावीर्म एधि ‘, हे विष्णो ममाऽविराविर्भव । आणीस्थित आण्यां स्थित विष्णविति सम्बोधना ।
`आधारः सर्ववेदानां वेदाणी प्राण उच्यते ।
तस्मिन् स्थितो हरिर्नित्यमाणीस्थ इति गीयते ॥’ इति शब्दतत्त्वे ।
आविरावीरिति दैर्घ्यमतिशयार्थे । `आधिक्येऽधिकम्’ इति सूत्रात् । अणशब्दस्य गतिवाचित्वाच्चलमाणमुच्यते । तस्य धारणेन तद्वानाणी । स्थापक इत्यर्थः । मे श्रुतं मा प्रहासीः मम विद्यागोचर एव सर्वदा भव । विस्मृतो मा भव । हे विष्णो, अनेन त्वद्विषयेणैवाधीतेनाहोरात्रान् सन्दधामि । सर्वापोरात्रेष्वपु त्वद्विषयाध्ययनमेव करोमीत्यर्थः ।
लृतं यथावदवगतं त्वां वदिष्यामि । सत्यं साधुगणैस्ततं सर्वनियन्तारं च । तद् विष्ण्वाख्यं ब्रह्म मामवत्विति तस्यैव विष्णोः परोक्षत्वेनैव प्रार्थनम् ।
`वाङ् म इत्यादिकं खण्डं विष्णुप्रार्थनरूपकम् ।अविघ्नत्वमभीप्सूनां शिष्याणां दृष्टवान् हरिः ‘इति च ॥ *॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमहैतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके षष्ठोऽध्यायः ॥
ँ’ ॥ विष्मुनाम्नि षकारस्य णकारस्य च संहिताम् ।
विष्णोस्तु बहुरूपाणां वाचकामृषयो विदुः ।
तौ च वर्णौ हरेः सम्यक् स्वरूपप्रतिपादकौ ।
बहुधेव स्थितस्यास्य सदैवैकस्वरूपिणः ।
विष्णुनामार्थरूपत्वाद् वेदानामपि सर्वशः ।
अन्येषामपि शब्दानां संहिता विष्णुवाचकाः ।
तद्वाचकास्तथा वर्णाः सर्वे वैदिकलोकिकाः ।
पृथिवीनामकं रूपं पृथुत्वात् पृथिवीस्थितम् ।
देवतापूर्ववर्णस्य पूर्वरूपं तदुच्यते ।
देवतोत्तरवर्णस्य क्राडनाच्च द्युनामकम् ।
दिवि स्थितं हरे रूपमुत्तरं रूपमुच्यते ।
वेदकत्वाच्चायनत्वाद् रूपं यद् वायुनामकम् ।
विष्णोस्तद्वर्णयोर्मध्येदेवतेति प्रकार्तितम् ।
संहितानामकं तच्च रूपद्वयसहस्थितेः ।
वर्णद्वयं विकारं च षकारं केचिदब्रुवन् ।
षकारं मध्यमत्रैव णकारं केचिदुत्तरम् ।
पृथक् करणमेवैषां वर्णयोर्मध्यमुच्यते ।
उपसर्गमात्रं वीत्याहुः केचिन्नाम ष्णुमात्रकम् ।
षकारं च णकारं च वर्णौ पूर्वोत्तरावपि ।
व्यक्तिरेवोष्मणस्तत्र मध्यमित्यभिधीयते ।
सर्वेऽप्येत उपादेयाः पक्षा निर्दोषका यतः ॥’ इत्याद्यैतरेयसंहितायाम् ।
आकाशस्थ आकासनामा भगवान् वर्णयोर्मध्यदेवतेति माक्षव्यः । उभयरूपसहितत्वात् संहितानामकम् । स माण्डूकेयस्तेन माक्षव्येनापरिहृतः स्वपक्ष इति मेने । मदीयेन मदुपासितेनास्याऽकाशस्य प्रत्रेण वायुना न समागादसौ माक्षव्यः । वायुस्थविष्ण्वनुपासनात् । यद्यप्याकाशस्थो भगवान् संहितानामको भवति । तथाऽपि न वायुस्थस्यासंहितात्वं भवतीत्यपरिहृतत्वम् । परिहृतो माण्डूकेयपक्ष इत्यहं मेन इत्यागस्त्यः । आकाशे विष्णूपासनस्याधिकफलत्वात् । पिता ह्याकाशो वायोः । भगवतस्तु पक्षः समत्वमेव वाय्वाकाशयोरिति । आकाशस्य पितृत्वाद् वायोर्बलाधिकत्वाच्चोभयोरुपासनास्थानत्वे साम्यम् । तस्मादुभावपि ग्राह्यौ । त्वगिन्द्रियदेवतात्वेनाऽकाशात् पूर्वमेव वोयोः सात्त्विकाहङ्कारजत्वाद् वायोराकाशाद् गुणाधिक्यम् । तथाऽप्यत्राऽकाशस्य पितृत्वं व्याप्तिश्चाधिकत्यपासनायां साम्यम् । अत्र प्राणाख्यस्य प्राणे स्थितस्य विष्णोः संहितानामत्वे पितापुत्रयोः साम्यमेव । अन्यत्र तु पुत्रपक्ष एव बलीयान् । युक्तिमत्त्वात् ।
`मनोवाक्प्राणनामाऽसौ मनआदिषु संस्थितः ।
विष्णुस्तस्य रथो देह इन्द्रियाश्वः प्रकार्तितः ॥’ इति च ।
`प्रष्टि स पृच्छनीयत्वात् परमात्मा जनार्दनः ।
वक्तृत्वाच्चैव वाङ्नामा मनो मन्तृत्वहेतुतः ॥’ इति च ।
`प्राणन्नेव प्राणो नाम भवति वदन् वाक् पश्यंश्चक्षुः शृण्वन् श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव ‘इति च श्रुतिः । मुक्तिरेव स्वर्गलोकः`अमुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वा `इति प्रस्तुतत्वात् ।
`मुक्तः प्रकृष्टज्ञानैश्च वेदैर्विष्णूत्थतेजसा ।
नित्यायुषा च युक्तः स्यात् संहितारूपविद्धरेः ॥’ इति च ।
प्रकृष्टत्वेन जननात् प्रजेति ज्ञानम् । पान्ति शंसाधनाश्चेति पशवो वेदाः । परह्म्र्णो विष्णोर्वरणादेव सम्यक् चायितं स्वरूपतेजः । लोकिकप्रजादिकमपि तदिच्छूनां यथायोग्यं भवति । माण्डूकेयैलृर्षिभिरुपाश्रिता एता विद्याः ॥ * ॥
`वराहो वामनः सिंह इति रूपत्रयं हरेः ।
पूर्वोत्तरार्णमध्येषु स्थितमुक्तं सनातनम् ।
माण्डूकेयैर्हि शाकल्यो वासुदेवादिरूपिणम् ।
तेषु चोच्चरके चैव स्थितमाह चतुर्विधम् ।
भूमिद्युवृष्टिपर्जन्यनाम्नोर्व्यादिषु संस्थितम् ।
उर्व्यादीनां चतुर्णां च देह एव स्थितिं पुनः ।
अधरार्धस्य चोर्व्याशअच साम्यमन्यस्य वै दिवा ।
वाचो वृष्ट्यैव साम्यं च पर्जन्येनैव चाऽत्मनः ।
तेषां तेषं स्थितिं चैव विष्णोश्च चतुरात्मनः ।
आकाशस्यान्तराकाशे नृसिंहस्यात्र संस्थितिम् ।
वायोः प्राणात्मनां चै तत्र दाशरथेः स्थितिम् ।
सूर्यविद्धुताशानां दृग्घृद्रेतःसु च स्थितिम्।
कपिलस्य च हंसस्य जामदग्न्यस्य तेषु च ।
स्थितिं वदिति विद्येयमपि मोक्षप्रदायिनि ॥’ इत्यादि च ।
वर्षणाद् वृष्टिः । परं जनयतीति पर्जन्यनामा विष्णुः । सन्धिनोतीति सन्धिः । `धिनु पुष्टौ’इति धातुः । सम्यग् धारणात् सन्धाता । वर्षणमेव द्यावापृथिव्योः सन्धानम् । पर्जन्यस्थो भगवांस्तत्कर्ता ॥ *॥
`पृथिवीस्तो पराहस्तु संहितादेवतोदिता ।
दिविष्ठो वामनश्चैव सम्प्रोक्तः पददेवता ।
नृसिंहस्त्वन्तरिक्षस्थो भगवान् क्रमदेवता ।
स्वाध्यायमेवं ध्यात्वा यः करोत्यपवदेन्न तम् ।
तस्यापवदिता याति त्रैलोक्यादध एव हि ।
नाशमाप्नोति निरये तस्मादपवदेन्न तम् ।
गच्छस्यध इति ब्रूयादन्यं ब्राह्मणतस्तथा ।
ब्रह्मप्राप्तेर्हि योग्यो यो ब्रह्मणः स नचेतरः ॥’ इति च ।
भञ्जनवर्जितत्वान्निर्भुजं संहिता । `तृणु च्छेदने’इति धातोः प्रतृण्णं पदम् । उभयमन्तरेण क्रमः । निर्भुजमूलत्वात् पदादीनां तद्विषयप्रवादा अपि निर्भुजप्रवादा इत्येवोच्यन्ते । पृथिवीस्थितपृथिवीनामकविष्ण्वायतनं पृथिव्यायतनमित्यादि । अवराभ्यां पृथिव्यन्तरिक्षाभ्यां च्युतोऽसीति । उत्तराभ्यामन्तरिक्षद्युभ्याम् ।
`क्रमस्वाध्यायकृद् यस्तं विशेषेण न निन्दयेत् ।
लोकत्रयादिप भ्रष्टो यस्मात् तन्निन्दको भवेत् ॥’ इति च ।
तस्मादतिदुष्टत्वात् तन्नन्दको नास्त्येवेत्युक्तम् `तस्य नास्त्युपवादः’इति । `तं कृष्णं पुण्डरीकाक्षं को नु युध्द्येत बुद्धिमान् ‘इत्यादिवत् । उपवदेदित्युक्तो मनुष्यमात्रः । पर उपवदेतित्यसुरः । सर्वशत्रुत्वात् ।
`अमुक्तियोग्यैस्तु नरैर्विदुषां निन्दने कृते ।
ब्रूयाल्लोकच्युतोऽसीति निन्दितोऽसुरसर्गगैः ।
नाशयिष्यति विष्णुस्त्वामन्धे तमसि पातयेत् ।
इति ब्रूयान्नतु ब्रूयाद् देवसर्गात्मकं क्वचित् ‘इति च ।
षणयोः सन्धिकारणात् संहिताध्ययनं भवेत् ।
विषणुस्त्विति यो ब्रूयात् पदाध्यायी भवेत सः ।
सन्ध्युक्तिश्च विभागश्च द्वयं व्याप्तं क्रमेण तु ।
तस्माद् द्विधाऽपि वचनात् क्रमाध्यायी भवत सः ।
भोगवृद्धिं तु यो मोक्ष इच्छेद् विष्णव इत्यसौ ।
मोक्षकामो विषणवे द्वयकामो द्वयं वदेत् ।
विष्णुनामात्मकत्वाच्चाथ संहितपदक्रमाः ।
सर्ववेदस्थिता मोक्षतद्भोगद्वयसाधकाः ।
तज्ज्ञानामेव नान्येषामिति वेदानुशासनम् ।
संहिताद्या ब्रुवन् वाऽपि य एवंविन्नवा ब्रुवन् ।
परिवादं ब्रुवन्तं वा न ब्रुवन्तमथापि वा ।
यद् वदेत् तत् तथैव स्यात् क्षिप्रमेव न संशयः ॥’ इति च ।
अग्रे एव । अय्र्मेवोभयमन्तरेण ।
`द्युम्नो द्युतिस्वरूपत्वाद् विष्णुरेव प्रकार्तितः ।
योऽतिक्रामति तस्याऽज्ञामतिद्युम्नः स कार्तितः ।
मोक्षोयाग्योऽपि यस्त्वेवमतिद्युम्नो भवेत् पुमान् ।
लोकच्युतोऽसीत्येवं तं ब्रूयान्नाऽज्ञास्थितं क्वचित् ।
लोकच्युतो भवेत्येनमपि नैव वदेत् क्वचित् ।
च्युतोऽसीति तु शिक्षार्थं ब्रूयान्नैवान्यथा क्वचित् ॥’ इति च ।
भगवदुपासकस्य यस्मिन् कस्मिंश्चद् दोष उक्ते तं प्रत्युक्तिप्रकारः पूर्वं दर्शितः । अनुव्याहारशब्देन भगवदुपासनाविषय एवास्याशक्त्यादिदोषं वदतः प्रत्युक्तिरुच्यते । निर्भुजं वदन्तमित्यादि त्ववस्थामात्रदर्शनम् । आत्मनो ज्ञानसामर्थ्यानुसारेण वक्तव्यत्वादनुव्याहारः ।
`सर्वाधारत्वतो वंश इत्युपासीत यो हरिम् ।
वायुं च मुक्तिमाप्नोति य एवं तदुपासकम् ।
निन्देत विष्णुविज्ञानविषये तं वदेत सः ।
विष्णुना वंशभूतेन सहितं वायुना तथा ।
न शक्नोषीति मामात्थ हास्यतस्त्वामतो हि तौ ।
ज्ञानसामर्थ्यवानित्थं ब्रूयाद् देवादिरुत्तमः ।
अन्यो गन्धर्वपित्रादिरल्पज्ञानबलो हि यः ।
स ब्रूयाद् विष्णुवायुभ्यां सन्धिमिच्छन्तमेव मा ।
सन्धातुं नाशको यस्माद्धास्यतस्त्वामतो हि तौ ॥’ इति च ।
`स य एनं प्राणं वंशमुपवदेत्’,प्राणं प्रत्येनमुपासकमुपवदेत् । प्राणस्य विष्णोः प्रियत्वं तव न प्राप्स्यतीति । `नाशकः सन्धातुम्’,मया सह सन्धानं कर्तुं नाशकः । मम प्रीतिं कर्तुं नाशकः ।
`तद्भक्तेष्वपि यो कुर्यात् प्रीतिमञ्जसा ।
विष्णुर्जहाति तं पापमिह चामुत्र च प्रभुः ॥’ इति च भारते ॥ *॥
`पूर्ववर्णस्थितं यत्तद् रूपं पूर्वाक्षराभिधम्।
वराहाख्यं हरेरन्यवर्णगं वामनाभिधम्।
उत्तराक्षससंज्ञं च वर्णयोरन्तरस्थितम् ।
अवनात् काशनाच्चैतदवकाशाभिधं हरेः ।
नृसंहरूपमित्याहुर्निर्भुजस्यास्तथाऽवदन् ।
ह्वस्वो येनाक्षरोच्चारो मात्रासन्धिस्वरात्मकः ।
व्यासरूपो हरिः साक्षात् संहितानामकस्त्विति ।
तत्पुत्रो मध्यमः प्राह समोच्चारणकारणः ।
सामनामा वासुदेवः संहितानामवानिति ॥’ इति च ।
मापयति त्रायति चेति मात्रा भगवानन् । यथोच्चारितवर्णयोर्मध्यस्थितश्च ।
`मा नः स्तेनेभ्यो अभिद्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः । येषां नैतन्नापरं किञ्चनैकं ब्रह्मणस्पते ब्रूहि तेभ्यः कदाचित् । अथो शमेनोपरता मनुष्या ये धर्मिणो ब्रूहि तेभ्यः सदा नः । आ देवानामोहते वि ब्रूयो हृदि बृहस्पते न परः साम्नो विदुः’।
अभिद्रुहस्पदे अभितो द्रोहस्य नित्यनिरतिशयदुःखस्यान्धतमसो योग्याः ।
`ऐकात्म्यं नाम यदिदं कोचिद् ब्रूयुरनैपुणाः ।
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ।
ब्रह्मस्तेना निरानन्दा अपक्वमनसोऽशिवाः ।
वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते ।
तेषां तमःशरीराणां तम एव परायणम् ॥’ इति मोक्षधर्मे भगवद्वचनादेवंविधा एव स्तेना अभिद्रुहस्पदकस्थाश्च ।
निरामिणः रामस्य रमणरूपस्य पूर्णानन्दस्वरूपस्य विष्णोर्जीवस्वरूपपतादिज्ञानिन नीचताविदः । तत एव रिपवश्च तस्य ।
`अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ।
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रतृतिं मोहनीं श्रिताः ॥’ इत्यादिवचनादसुरायः ।
अन्नेषु जागृधुः भोगमात्रगध्नवः । योषामेतत् सर्वोत्तमं वासुदेवाख्यं परं ब्रह्म नास्तीति पक्षः । ईशितव्ये विद्यमाने हीश्वरो भवतीति । नचापरं किञ्चित् ह्यपरमिति । किं तर्हि । किञ्चनैकम् । किमप्येकमेव वस्त्वस्ति न परमपरं वेति तेषां पक्षः ।
`असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ।
एतां दृश्टिवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ।
ईश्वरोऽहमहं भोगी’इत्यादिवचनात् ।
ब्रह्मणस्पते ब्रह्मणो वेदस्य पते वायो ।’
`अथ हेममासन्यं प्राणमूचुः । एष उ एव ब्रह्मणस्पतिः । वाग्घि बृहती’इत्यादिश्रुतेः । एतादृशेभ्यो मा ब्रूहि । शमेन विष्णुनिष्ठया उप समीपे तस्मिन्नेव रताः साम्नो विष्णोः परं किमपि न विदुः । तदेव देवानां व्रयः । तेभ्यो ब्रूहि ।
`वायुं विद्याः समासाद्य सर्वासां पतिमूचिरे ।
स्तेनेभ्यो मेव नो ब्रूहि ब्रूह्यथो वेष्णवेषु च ॥’ इति च ।
`सामनाम्ना श्रुतिर्यस्माद् विष्णुमाह ततः प्रियम् ।
तन्नाम विष्णोरिह तु संहितार्थं वदेद् यतः ॥’ इति च ।
सामनाम्नः संहिताशब्दार्थत्वाद् विष्णोः , तस्य नाम्नः श्रुतिसिद्धत्वाच्च सामनाम्नो वासुदेवरूपसमाख्यासु पञ्चरात्रे पठितत्वाच्च तद् रूपं संहितानाकमिति युक्तमित्यभिप्रायः ॥ *॥
`देवता पूर्ववर्णस्य लक्ष्मीरेव प्रकार्तिता ।
नारायणस्तूत्तरस्य तौ वाक्प्राणाभिधौ मतौ ।
मध्यस्थः संहितानामा सोऽर्धनारीपुमात्मकः ।
वेदात्मकत्वाद् वाङ्नाम्नी लक्ष्मीरेव प्रकार्तिता ।
प्राणनामा प्रणेतृत्वात् साक्षान्नारायणः स्वयम् ।
रमित्यानन्द उद्दिष्टः सम्भोग्यस्थमुदाहृतम् ।
विष्णुभोग्या रतितरा लक्ष्मीरेव रथन्तरम् ।
नारायणो बृहत्वात्तु बृहन्नामा प्रकार्तितः ।
रथन्तरस्य बृहतो देवते चैव तावुभौ ।
वाक्प्रामसंस्थितौ चैव ताभ्यामेव हि सन्धतम् ।
लक्ष्मीनारायणं रुपं संहितानामकं शुभम् ।
एतां विद्यमफाप्तुं हि वत्सरं गा अरक्षत ।
तारुक्ष्य एतन्मात्रं च समुद्दिश्य नचापरम् ।
संहितादेवता बह्व्य इति कुण्ठरवात्मजः ।
द्वयं द्वयं देवतानां मििलतं हरिशर्ववत् ।
संहितानामकं तत्र वर्णमध्यस्य देवता ।
तयोरेकं देवतयोः परमन्यत् तथाऽवरम् ।
अवरस्य परस्यापि संयोगात् संहिता तु सा ।
प्रोक्ताऽवरपरेत्येव वाक्प्राणाव्यौ रमाच्युतौ ।
संहितैका तथैवान्या केशवो वायुसंयुतः ।
वायुः स पवमानाख्यो देवताश्चाखिला अपि ।
तृतीया संहिता प्रोक्ता देवतास्ताः सशङ्कराः ।
चतुर्थीं संहिता प्रोक्ता शङ्करो ब्रह्मणा सह ।
पञ्चमी संहिता चैव संहिता मोक्षदा इमाः ।
प्रथमायां द्वितीयायां विष्णुरेव परो मतः ।
तृतीयायां वायुरेव चतुर्थ्यां सर्वदेवताः ।
विरिञ्च एव पञ्चम्यामवरा इतरे ततः ।
प्रथमायां संहितायामवरो वामभागगः ।
द्वितीयायां तु परमस्तृतीयायां तथाऽवरः ।
चतुर्थ्यां परमश्चैव पञ्चम्यां वामगोऽवरः ।
अवराद्याः परान्ता यदेताः सर्वाश्च संहिता : ।
ततोऽवरपराः प्रोक्ता नैवोक्तास्ताः परावराः ।
अभिमानी द्युलोकस्य शिवः सर्वस्य लोकनात् ।
द्योतनाच्च यदि ब्रूयान्मन्त्रमेतमथापि वा ।
आत्मार्थेऽथ परार्थे वा चिन्तयेदेवमञ्जसा ।
विद्वांसो देवता यस्मात् सम्यक् तेन महत् फलम् ।
तेषामेव हरिश्चैव संहितारूपकः प्रभुः ।
अगमद् देवलोकं हि कर्तुं देवेष्वनुग्रहम् ।
इति चिन्तयतस्तेषां प्रसादात् फलमञ्जसा ।
पञ्चारचण्डो वाचं तु ब्रह्माणी हि सरस्वतीम् ।
मन्यतेऽस्याः पुत्रवच्च देवं नारायणं प्रभुम् ।
वेदैर्हि व्यज्यते विष्णुः सा च वेदाभिमानिनी ।
प्राणस्थो भगवान् विष्णुः प्राणनामा प्रणेतृतः ।
ब्रह्मणोऽपि पिता नित्यं भगवान् पुरुषोत्तमः ।
उपचर्यते पुत्र इति वेदैर्व्यज्यते प्रभुः ।
सा देवी संहितानाम्नी वाच्योऽस्या विष्णुरेव हि ।
प्रजापत्याख्यशर्वेण प्रोक्ताऽन्या संहिताऽपि हि ।
विष्णोरेवादितिर्नाम सर्वस्यात्ता यतः प्रभुः ।
स एव पितृसंस्थश्च पातृत्वात् पितृनामकः ।
देवतोत्तरवर्णस्य मातृस्थो मातृनामकः ।
माननात् पूर्ववर्णस्य देवतेति प्रकार्तितः ।
पोषकत्वात् सन्धनामा वर्णयोरन्तरस्थितः ।
स एव पुत्रसंस्थश्च पुत्रनामा जनार्दनः ।
त्राणात् पूतित एवासौ वर्णसन्धानकर्मणि ।
सन्धाननामा सन्धानकतृर्त्वात् पुरुषोत्तमः ।
प्रजातिकर्मसंस्थश्च स एव प्रजनाभिधः ।
जनकत्वात् परो विष्णुरेवं विष्णुर्हि संहिता ।
वासुदेवादिरूपेण चतुर्धैवं व्यवस्थितः ।
स एव दिवि संस्थश्च द्युनामा क्राडनात् प्रभुः ।
अन्तरेवेक्षणाच्चैव सोऽन्तरिक्षोऽन्तरिक्षगः ।
पृथिवी पृथिवीसंस्थश्च प्रथितत्वाज्जनार्दनः ।
मुख्यार्थत्वात् सर्वनाम्नां सर्वदेवाभिधो हरिः ।
विश्वे देवा इति प्रोक्ता बहुधा तेषु संस्थितः ।
ज्ञानद्युतेर्देवनामा स्थितो देवेषु केशवः ।
गां धारयंश्च गन्धर्वो गन्धर्वेषु व्यवस्थितः ।
माननान्मानुषो नाम मानुषेषु स्थितो हरिः ।
पालनात् पितृनामासौ पितृष्वेव व्यवस्थितः ।
रतेः प्राणेऽसुराख्यश्च सोऽसुरेषु व्यवस्थितः।
एवं पञ्चजनेषुस्थो हरिः पञ्चजनाभिधः ।
जातनामा जातसंस्थः प्रादुर्भूतगुणत्वतः ।
जनिक्रियास्थितश्चासौ जनित्वमिति गीयते ।
जनिं यस्मात् तवयति तवनं हि प्रकाशनम् `इति च ।
प्रथश्च संप्रथश्चैव राजनौ मत्स्यदेशजौ ।
यापयामासतुर्विष्णोर्हिविर्नाम्नो हविर्मुखे ।
अनुष्टुब्देवता यस्तु नृसिंहो जगतोऽस्य च ।
स्वमुखे हवनादेव हविरित्यभिधीयते ।
तस्मिन् यज्ञे वसिष्ठस्तु चतूरूपजनार्दनात् ।
आजहार श्रियं देवीं रथन्तरवराभिधाम् ।
चतुर्मूर्तिः स्तुतस्तेन प्रेषयामास तां श्रियम् ।
सा चास्मै प्रददौ विद्यां प्रययौ च पुनर्हरिम् ।
धातेत्युक्तोऽनिरुद्धस्तु प्रद्युम्नस्तु द्युनामकः ।
वासुदेवः प्रसविता सर्वस्य प्रभवात् प्रभुः ।
सङ्कर्षणो विष्णुनामा प्रणेतृत्वात् बलादपि ।
चतूरूपं परं विष्णुं राजानौ प्रथसप्रथौ ।
भरद्वाजो वसिष्ठश्च ध्यात्वाऽविन्दन् परात् परम् ।
यजनीयो यजुर्नामा विष्णुः सङ्कर्षणाभिधः ।
जीवानां स्कन्दनादेव स्कन्नः प्रद्युम्न उच्यते ।
प्रथमो वासुदेवस्तु देवयानोऽनिरुद्धकः ।
प्राप्यो देवैर्यतो नित्यमनिरुद्धाभिधो हरिः ।
तस्मादेवं चतुर्मूर्तेः स्तुतिसन्तोषिताद्धरेः ।
आजहार भरद्वाजो रूपं नारायणाभिधम् ।
तद् बृहन्नामकं विष्णोश्चतुरात्म्यात् सुमुद्गतम् ।
भरद्वाजमुपागम्य प्रादान्मोक्षवरं परम् ।
चतुर्मूर्तिः स भगवानग्निरित्यभिधीयते ।
अय्र्त्वात् सर्वभूतानामेवं चत्वार एव ते ।
अविन्दंस्तं चतुर्मूर्तिं साक्षान्नारायणं प्रभुम् ।
गुहायां संस्थितमपि ह्यतीव हितमस्य च ।
सर्वज्ञत्वाद् यज्ञनाम्नो विष्णोस्तेजः परं हि तत् ।
तस्मादेव चतुर्मूर्तेः सूरिप्राप्यत्वहेतुतः ।
सूर्यनाम्नोऽहरन् घर्मनामानं तं नृसिंहकम्।
घर्षणात् सर्वलोकस्य नृसिंहो घर्म उच्यते ।
निर्गत्य स चतुर्मूर्तेर्विप्रक्षत्राभिसंस्तुतात् ।
प्रथादीनां चतुर्णां च पुरुषार्थचतुष्टयम् ।
दत्वा जगाम भगवान् स्वकायां तनुमेव च ।
वसिष्ठाच्च भरद्वाजाद्धोर्त्रध्वय्वोनृर्पौ तु तौ ।
यथेष्टसिद्धिं सम्पाप्तौ सम्यगिष्टाज्जनार्दनात् ॥’ इत्याद्यृग्वेदसंहितायाम् ॥ *॥
यस्य प्रथ इति नाम स च हविर्नाम्नो विष्णोर्हविर्यत् अयत् । अटो लोकेनान्तर्णीतणिच्त्वेन अयातयदित्यर्थः । एवं सप्रथ इति यस्य नाममासौ हविर्यदिति पृथक् सम्बन्धः । आचक्रे आह्वयामास । `अविन्दन् ते`,`तेऽविन्दन्`इत्यध्यात्माधिदैवयोरुभयत्रापि भगवन्तमविन्दन्नित्यर्थः । देवयानं गुहायदिति वचनात् ।
`चतुःशिखण्डां तु रमां द्विरूपो भगवान् हरिः ।
परमानन्दरूपत्वात् सुपर्ण इतिनामकः ।
रमयामास तस्यां च निषण्णः सर्वदैव सः ।
एक एव च विष्णुः सः प्रविष्टः क्षीरसागरम् ।
सर्वं पश्यत्यसौ देवः पूर्णाकुण्टेन चेतसा ।
परिपक्वेन मनसाऽपश्यमित्याह तं त्वजः ।
मातेव व्यञ्जकत्वात् तं प्राणस्थं वाक् सरस्वती ।
लिहते लिह्यत इव प्राणस्थेन तु सा सदा ।
स्वयं तु भगवान् विष्णुर्वाक्पतेर्बह्मणोऽपि हि ।
नित्यः स्वतन्त्रश्च नास्य माता पिताऽपिवा ॥’ इत्यादि त ॥ *॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमहैतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके सप्तमोऽध्यायः ॥
ँ’ ॥ `गृहस्याच्छादनादीनां मध्यवंशो यथाऽऽश्रयः ।
तथेन्द्रियाभिमान्यादिदेवानां वायुराश्रयः ।
तेषु सर्वेषु भगवान् बहुरूपो हरिः स्थितः ।
विष्णुनामाक्षरेष्वेवमन्येष्वपि तदर्थतः ।
प्राणनामा तु भगवान् प्राणस्थश्चोष्मसु स्थितः ।
ऊष्मनामा समर्थत्वात् स एव भगवान् हरिः ।
पूर्णत्वादात्मनामाऽसौ प्रतिमात्वादमुष्य तु ।
सङ्घात आत्मशब्दोक्तो ह्यस्थिरश्चस्थिनामकः ।
अस्थिस्थितो स्पर्शसंस्थितः स्पर्शनामकः ।
स्पर्शहेतुत्वतः स्पर्शनामा स भगवान् हरिः ।
मज्जासंस्थः स मज्जाख्यो मदं जनयतीति ह ।
स एव स्वरसंस्थश्च स्वराख्यः स्वरतेः प्रभुः ।
प्रमाणं सारयेद् यस्मान्मांसाख्यो मांससंस्थितः ।
लोहिताख्यो रक्तवर्णो लोहितस्थो जनार्दनः ।
अस्थिस्थान्येव रूपाणि पर्वस्वपि हरेर्यतः ।
तत एव विभक्तानि सङ्ख्या तेषा पृथक् न तत् ।
तस्मात् सप्तशतान्येव देहे विंशच्च तस्य हि ।
रूपाणि विष्णोर्भागे तु षष्ट्युत्तरशतत्रयम् ।
तान्येव विष्णो रूपाणि वत्सराहःसु सर्वशः ।
अहर्नामा च भगवानहार्यत्वात् प्रकार्तितः ।
अहोभिः समसङ्ख्यानि यस्मादध्यात्मगानि तु ।
रूपाणि विष्णोस्तनायमहःसम्मान उच्यते ।
पूर्णदर्शनशक्तित्वाच्चक्षुर्मय उदीरितः ।
तादृवणशक्तित्वाद् तथा श्रोत्रमयः स्मृतः ।
छन्दोमयः सत्यकामो मन्तृवक्तृबलात्मकः ।
एवं विद्वांस्तस्य रूपाण्याप्नोति ज्ञानपुत्रवान् ।
पीयमानं शमाप्नोति प्राप्याहर्नामकं हरिम् ॥ *॥
`एवमुक्तप्रकारेण तस्य ह्यक्षरनामकम् ।
असीत्युत्तरसाहस्ररूपं वर्णेषु संस्थितम् ।
विष्णुनाम्नोऽथवाऽन्येषु पञ्चाशत्सङ्ख्येष्वपि ।
तावत्सङ्ख्यानि देहेषु पथङ् मज्जास्थिपर्वसु ।
रूपाणि विष्णोस्तावन्ति चेष्टकासु पृथक् पृथक् ।
अर्कस्थितबृहत्याख्यरूपाण्यह्नां च सर्वशः ।
सम्पादकानि तान्येव तान्यक्षरमितानि च ।
अस्थ्यादिस्थितरूपाणि तान्युपास्य विमुच्यते ॥’ इति च ।
तस्यैतस्याऽत्मनः तस्य शरीराख्यस्याऽत्मनो य आदानादिकर्ता तस्य परमात्मन एतस्य । अस्थ्नां मज्ज्ञां पर्वणां च मििलतानामपि विंशोत्तरशतत्वोक्तेरपि तत्रस्थविष्णुरूपाण्येवोच्यन्त इति सिद्धम् । अस्थ्यादीन्येव चेदशीत्युत्तरसहस्राणि सन्ति हि । षणष्णुरित्येतानि विष्णुनामगतान्यूष्माक्षरसन्धिनामकानि तद्गतभगवद्रूपाणि मुख्यतस्तन्नामकानि ।
`अहार्यत्वादहर्नामा रात्रिनामा रतिप्रदः ।
सन्धानात् सन्धनामाऽसौ स्वयं नारायणः प्रभुः ।
सन्ध्यूष्माक्षरगाण्यस्य विष्णो रूपाणि सर्वशः ।
सन्ध्यारात्रिदिवास्थानि साशीतिकसहस्रकम् ।
तन्येवास्थिषु मज्जासु पर्वस्वपि च सर्वशः ।
परज्ञानात्तु पर्वाणि विष्णो रूपाणि तानि हि ।
आस्थानान्मदनाच्चैव ह्यस्थिमज्जाभिधानि च ।
व्यक्तिर्मज्जासु तस्यैव प्राणो मज्जासु हि स्थितः ।
मज्जैव रेतो भवति रेतसिस्थो विशेषतः ।
प्राणस्तेन हि तद्रेतो युक्तं प्राणेन सर्वदा ।
यदि प्राणो न तद्रेतो न गर्भत्वं व्रजेत् क्वचित् ।
विशेषप्राणसम्बन्धवर्जितान्यत एव हि ।
न मांसादीनि गर्भत्वं यान्त्यतः स हि रेतसि ।
विशेषेण स्थितः प्राणः प्राणे चैव विशेषतः ।
स्थितो नारायणो देवस्तस्मान्मज्जासु च स्थितः ॥’ इति च ।
मज्जस्वधिकसन्निधानज्ञापनार्थमिदं वचनम् । अशीत्युत्तरसाहस्रवर्णानामभावाच्च तत्स्थविष्णुरूपाण्येव तत्सङ्ख्यानीति सिद्धम् । अर्के निलीनत्वेनादृश्यत्वेन स्थिता भगवत्प्रादुर्भावा अर्कलिनः । त एव शरीरे स्थित्वा सहस्रं बृहतीः सम्पादयन्ति । वाक्प्रेरकत्वाद् विष्णुनामार्थवत्त्वादेव च बृहतीसहस्रस्य तद्देवताश्चैतान्येवाशीत्युत्तरसहस्ररूपाणि । एतान्येवाहःप्रवर्तकानि च । अहःशब्देन यज्ञो दिवसश्चोभावप्यभिप्रेतौ ।
`यज्ञानां दिवसानां च साशीतिकसहस्रकैः ।
विष्णुः प्रवर्तको रूपैबृर्हत्युक्थस्य चाञ्जसा ।
बृहत्युक्थेन वाच्यानि रूपाण्येतान्यधीशितुः ॥’ इति च ॥ *॥
`संसारबाधितैः प्राप्यो बाध्वो वुयुरुदाहृतः ।
स हि मोक्षप्रदो विष्णोराज्ञया स उवाच ह ।
सर्वदेहाभिमनी तु शरीरपुरुषः शिवः ष
सर्ववर्णाभिमना च शेषऽसौ च्छान्दसः पुमान् ।
सर्ववेदाभिमान्येव गरुडो वेदपूरुषः ।
संवत्सराभिमानी तु ब्रह्मैव हि महापुमान् ।
सारः शिवस्यानिरुद्धनामा देहस्थतो हरिः ।
अ इत्याक्रियते यस्माद् वासुदेवो ह्यकारकः ।
शेषस्य सारः स विभुर्ब्रह्माख्यो ज्ञानबृंहणात् ।
सङ्कर्षणाख्यस्तु हरिः सारः स गरुडस्य च ।
र्ब्रह्मत्विक्संस्थितश्चासौ तस्माद् ब्रह्मिष्ठमेव हि ।
कुर्याद् र्ब्रह्मत्विजं तस्मिन् विशेषेण स्थितो हरिः ।
ब्रह्मणः सारभूतस्तु प्रद्युम्नो भगवान् हरिः ।
स एवाऽदित्यसंस्थश्च ह ह्यादिर्जगतो विभुः ।
ततश्च सर्वभूतेषु जीवानां विनियामकः ।
स एवाऽदित्यगो विष्णुर्यः प्रद्युम्नाभिधो हरिः ।
स एव सर्वदेहेषु चानिरूद्धतनुः स्थितः ।
सङ्कर्षणो वासुदेव इत्येकः स चतुर्विधः ।
प्रतिपूरुषमेतस्मात् स्थितो विष्णुर्नियामकः ।
आदित्यादिषु च स्थित्वा द्योतकोऽसौ प्रतिप्रति ।
स चेतनतमत्वाद्धि चित्रमित्यभिधीयते ।
मुख्यत्वात् सर्वदेवानामननादीशितृत्वतः ।
कतृर्त्वादप्यनीकं स उदैत् सूर्यस्थितो हरिः ।
ज्ञानदत्वाच्च देवानां चक्षुरेनेन दर्शनात् ।
आपूरयन् सर्वलोकान् प्रकाशेन जनार्दनः ।
आदानात् सर्वजीवानामत्तृत्वात् प्रलयेऽपिच ।
आत्मेत्युक्तः स भगवान् जगतः स्थावरस्य च ।
एवं चतुर्विधो विष्णुः संहितादेवता यदा ।
ज्ञायते पूर्ववर्णस्य रुपं नारायणाभिधम् ।
प्रादुर्भावाः समस्ताश्च चरमर्णस्य देवताः ।
तदा तु संहितां सम्यङ् मन्योऽहं सन्धितामिति ।
आह वायुरिमं विष्णुं बृहदुक्थस्य देवताम् ।
महाब्रताख्यस्तोत्रस्य चेष्टकानां च देवताम् ।
एतमावाखिलजगद्व्याप्तं पूर्णगुणात्मकम् ।
संवसद्रतिदातृत्वाद् ब्रह्मा संवत्सराभिधः ।
नियामकः स जीवानां सर्वेषां प्रभुरीश्वरः ।
अनन्तमूर्तिर्ब्रह्माऽसावनन्तजगदास्थितः ।
नियामकस्तस्य विष्णुस्तावद्रूपेषु संस्थितः ।
तत् संवत्सरसम्मानः स विष्णुः परमेश्वरः ॥ *॥
य एनं वक्त्ययोग्येभ्यो योऽथवैनं महाब्रते ।
कर्मण्याचार्यतोऽन्यस्य शंसेत पितृतोऽथवा ।
महाब्रतेन स्तोत्रेण स्तुवीतैनमथापि वा ।
महाब्रते चितिं वाऽपि कुर्यान्नास्य फलं श्रुतेः ।
सकृतस्य फलं चैव नासौ सम्यगवाप्स्यति ।
प्रतक्षज्ञानिनोऽप्येतदानन्दह्वासकृद् भवेत् ।
प्रत्यक्षज्ञानिनो मोक्षो न कथञ्चिद्धि हीयते ।
आचार्यमेव तं विद्याद् गुणैर्यः स्वात्मनोऽधिकः ।
गुणाधिक्यस्य तेनैव शंसनादि न दुष्यति ।
अयोग्यस्योपदेशे तु कृते हौत्रादिकेऽपिवा ।
प्रायश्चित्तार्थमेतत्तु शंसीत शतवारकम् ।
अन्यथा मानुषेष्वेव जायते न दिवं व्रजेत् ।
योग्या अस्यास्तु विद्याया देवा लृषय एव च ।
एकदेशज्ञानयोग्या मुनुषा उत्तमा यदि ।
कर्मसञ्चयवेत्तारं त्यजेन्नारायणं हि सः ।
प्रीत्यैकदेशसंस्थत्वात् सखायमिति चोदितम् ।
न विद्यायः फलं तस्य श्रुतं च नरवाहकम् ।
नैव प्राप्नोति सकृतं सन्त्यागात् परमात्मनः ।
मुख्यत्यागो हरेरेष यन्नास्तीति वददमुम् ।
तत्समं वाऽधिकं वाऽपि ब्रूयदैक्यमथापि वा ।
ऐश्वर्यादिगुणानां वा ह्वासं नास्तित्वमेव वा ।
तत्प्रसादं विना मोक्षं ब्रूयाद् वा कस्यचित् क्वचित्
ऐक्यं वा ब्रह्मशर्वादेर्मुक्तावैक्यमथापि वा
व्यत्यासं वाऽवताराणां जीवाभेदममुष्य वा ।
भेदज्ञानं तद्गुणानां तेन वाऽथ मिथोऽपिवा ।
तथैव तत्क्रियाणां च तद्रूपाणामथापि वा ।
अभ्यासदर्शनं वाऽपि तद्रूपाणां परस्परम् ।
देहदहिविभेदं च तस्मिन्नवयवेषु वा ।
परस्परं भेददृष्टिं तेन वा कुत्रचित् क्वचित् ।
दोषसंसर्गमस्यापि स्वतः परत एव वा ।
अज्ञानतो ज्ञानतो वा निर्देहत्रममुष्य च ।
तद्देहस्य प्रकृतत्वमचिदानन्ददेहताम् ।
प्रादुर्भावेष्वपि विभोर्देहत्यागोद्भवादिकम् ।
अज्ञानदुःखसामर्थ्यपारवश्यादिकं तथा ।
अतद्वशत्वं कस्यापि कदाचत् क्वचिदप्युत ।
परिमाणं बलादेर्वा तस्य विष्णोर्महात्मनः ।
भेदाभेददृशिर्वाऽस्य जीवैर्वा स्वगुणादिभिः ।
तर्कैस्तस्यापलापो वा तत्र रक्तेन चेतसा ।
त्यागानामेवमुक्तानां तर्काद्यैः साधनं तथा ।
अचिन्त्यविभवेऽप्यस्मिन्नसम्भरनिरूपणम् ।
स एष मुख्यतस्त्यागो वासुदेवस्य कार्तितः ।
रमाब्रह्मादिकानां च तारतम्यानभिज्ञता ।
संशयश्चोक्ततत्त्वेषु जगन्मिथ्यात्वदर्शनम् ।
अस्मृतिर्वासुदेवस्य तद्भक्तानां विनिन्दनम् ।
द्वितीय एष त्यागस्तु विष्णोरेव प्रकार्तितः ।
निषिद्धकर्मकरणं विहितस्य च वर्जनम् ।
त्यागस्तृतीयो हि हरेश्चतुर्थोऽयोग्यपूरुषे ।
उपदेशः केशवस्य यथाशास्त्रोदितक्रमात् ।
आचार्यपित्रोरन्यत्र तथैव न महाब्रते ।
हौत्रौद्गात्राध्वर्यवाणि त्याग एवं चतुर्विधः ।
त्यागद्वयात्तु प्रथमात् प्राप्यतेऽन्धं तमः क्रमात् ।
तृतीयान्निरयप्राप्तिश्चतुर्थान् दिवं व्रजेत् ।
उपदिष्टेऽपि यस्तत्त्वे संशयं कुरुते पुमान् ।
सोऽन्धं तमो व्रजेदन्यो निरयायैव गच्छति ।
स एव भगवान् विष्णुरेतैर्दोषैर्विना यदि ।
ज्ञायते मुक्तिदः साक्षान्नात्र कार्या विचारणा ।
यदि ज्ञानं नातिपक्वं सरागु च मनो भवेत् ।
तदा स्वर्गादिलोकाप्तिः संशयश्चेत् क्वचित् क्वचित् ।
आवृत्तिरेव संसारे यावन्निःसंशयो भवेत् ।
पुनरावृत्तिहीनं तु तमोऽन्धं मुक्तिरेवच ।
पूर्वं तु निःसुखं तत्र निर्दुःखं चापरं मतम् ।
निश्शेषगुणहीनं च पूर्वं निर्दोषकं परम् ।
विमिश्रै गतयस्त्वन्याः पुनरावृत्तिसंयुताः ।
असुरा देवता मर्त्या योग्या एतेषु च क्रमात् ।
न च तेषां सङ्करोऽस्ति यथायोग्या हि तद्गतिः ।
मानुषेषूत्तमा मुक्तिमधमा निरयं तथा ।
प्राप्नुवन्ति मनष्येषु मध्यमाः सृतिभागिनः ।
नियमोऽयं नान्यथा स्यादच्छिद्रत्वं यदा भवेत् ।
दोषेऽथवा गुणे वाऽपि तदा दैत्याः सुरा अपि ।
स्वां स्वां गतिं समायान्ति तावत् संसारभागिनः ।
अच्छिद्रत्वं नैव सर्वैः कदाचित् प्राप्यते यतः ।
सृष्टिस्थितिलयादीनां नोच्छेदस्तेन कुत्रचित् ।
तस्माद् दोषान् प्रहायैव विष्णुं सर्वोत्तमोत्तमम् ।
जानीयात् तेन मुक्तिः स्यादपरोक्षदृशेरनु ।
सूर्यमण्डलगो विष्णुर्देहे चक्षुषि संस्थितः ।
अनिरुद्धश्च हृदये नच भेदोऽनयोः क्वचित् ।
अन्येषामपि रूपाणामिति विद्याद् विचक्षणः ।
द्विरूपः स यदा विष्णुरापगच्छति देहतः ।
तदैव दुर्निमित्तानि जायन्ते नान्यदा क्वचित् ।
तस्मात् तेषां दर्शने तु कर्तव्यं पारलोकिकम् ।
सर्वमेव जपेच्चैव यदन्तीत्यादिका लृचः ।
लृग्भिः षड्भिर्वायुरेव पवमानादिनामकः ।
स्तूयते सोऽङ्गनेतृत्वादग्निरित्यभधीयते ।
परस्य ब्रह्मणो विष्णोर्ज्ञापनाख्यप्रसूतिभिः ।
वायुः पुनाति यल्लोकान् सविता तेन कथ्यते ।
पवित्रं नाम साक्षात् तत् परं ब्रह्म जनार्दनः ।
प्रसादयित्वा तं विष्णुं तेन लोकान् पुनात्यसुः ।
ज्ञानाख्यप्रसवेनापि स्वयं वायुः पुनात्ययम् ।
प्राणाग्नेरर्चिषो देहे विततास्तेषु केशवः ।
अर्चिष्मान् विततो नित्यं वायुस्तेन पुनात्ययम् ।
यत्र ब्रह्मेति षड्भिश्च प्रर्थनीयः स मारुतः ।
मोचयित्वैव संसाराद् विष्णोर्लोके कृधीति ह ।
आदित् प्रत्नास्येति विष्णुः स्तुत्यो वैकुण्ठलोकगः ।
आदित्यमण्डलस्थश्च साक्षान्नारायणः प्रभुः ।
उद्वयं त्विति मन्त्रेण स्तुत्यो वोयोरपीश्वरः ।
अपमृत्युभयं तस्य यदन्तीत्यृग्जपद् व्रजेत् ।
कालमृत्युर्यदि भवेत् तदा जन्मादिकं भयम् ।
अन्याभिः कर्मतः पूतो यत्र ब्रह्मेति वैष्णवम् ।
लोकं व्रजेत् तथान्याभ्यां विष्णुर्मोक्षसुखप्रदः ।
इष्टप्रदानशीलत्वादिन्दुर्वायुः स एव च ।
सोमः सौम्यस्वरूपत्वात् पवमानश्च पावनात् ।
विष्णुः पुरातनत्वात्तु प्रत्नाो रेतो महारतिः ।
देवत्रा देव एवासौ सर्वदेवेश्वरो यतः ।
सूर्यश्च सूरिभिः प्राप्यो नित्यानन्दो रमापतिः ।
देशतः कालतश्चैव गुणतश्चातिपूर्तितः ।
अत इत्युच्यते विष्णुः सन्ततो ह्यत उच्यते ।
तृतीयवर्णोऽतिशये यतस्तेनातिरेव वा ।
अत इत्युच्यते विष्णुः सम्यक् श्रुत्याद्यशक्यतः ।
पूर्णत्वाद् भगवान् विष्णुरश्रुतत्वादिनोदितः ।
अन्तस्थः सर्वजीवानां पूर्णत्वात् पुरुषाभिधः ।
समः स सर्वरूपेषु सर्वजीवनियामकः ।
इति विद्यात् परं विष्णुं मुच्यते तेन संसृतेः ॥’ इत्यादि च ॥ *॥
शरीरपुरुषादीनां प्राप्यत्वात् तैरुपास्यत्वात् तेषां नियमकत्वेन तैभ्योऽप्यत्युत्तमत्वेन तेषु स्थितत्वाच्च तेषां सार इत्युच्यते भगवान् । यदीं एव । अलकं अरकम् । यत् किञ्चिच्छृणोति तत् सर्वमतिरूपान्धन्तमःप्राप्तिकारणमेव तस्य भवति । तत्र हि सर्वरत्यभावो रतिविरुद्धदुःखं च पूर्णम् । परस्मै शंसनमात्रादरतिरेवेत्यतः प्रस्तुते चतुर्थत्यागे न तस्य वाच्यपि भागोऽस्ति, नहि प्र वेद सुकृतस्य पन्थामिति दोषद्वयमेवेत्यवधारयति `न तस्यानूक्ते भागोऽस्ति न वेद सकृतस्य पन्थानमित्येतत् तदुक्तं भवति ’ इति । अलकं शृणोतीति त्यागद्वयस्य मुख्यतः । तृतीयस्यापि नरकं शृणोतीति किञ्चिद् भवति । तौ यदाऽस्माच्छरीराद् विहीयते तदैव तानि निमित्तानि पश्यतीति नियमः । नतु तदा पश्यत्येवेति । वासेन रमयतीति वासरं विष्णुज्योतिः ।
`यत्र ब्रह्मा वेदवाक्यं व्याचक्षाणो मखैर्यजन् ।
सोमेन च सुतेनेषमास्ते लोके हरेर्हि सः ॥’ इति स्कान्दे ।
ग्राब्णा सोमविषये सोमेनेष्द्वा महीयते तेनैव विष्णुप्रीत्या स्वस्याऽनन्दं जनयन् । स्वरानन्दरूपो विष्णुः । देवो देव्या अवरोधनं तस्याः परिवाभूताः सर्वदेव्यः । द्यौर्नाम वायुपत्नाी । `अजनयो मरुतो वक्षणाभ्यो दिव अवक्षणाभ्यः’इत्यादेः । यह्वतीः स्यन्दमानाः।
`सर्वेष्टद जगत्प्राण मामादाय परिस्रव ।
यत्रासौ भगवान् विष्णुस्त्वं हि मोक्षप्रदः सदा ॥’ इति च ।
`इन्दुरिष्टप्रदत्वाद् यो वायुरादाय गच्छति ।
इन्द्रनाम्नः केशवस्य समीपं मुक्तमञ्जसा ॥’ इति च ।
`अनन्यहेतुकं साक्षाद् भगवद्भक्तिरूपकम् ।
सुखमानन्द इत्युक्तो मोदो भोगनिमित्तकः ।
प्रमोदस्तद्विशेषोत्थो मुन्नामात्यल्पभोगतः ॥’ इत्यृग्वेदसंहितायाम् ।
तमसः सकाशात् उद्गाता वयमुत्तरं सर्वोत्तमं विष्ण्वाख्यं ज्योतिः परिपश्यन्तस्तमेव देवत्रा देवविषयेऽपि देवमगन्म । तदेव ज्योतिष्द्वेनोत्तरत्वेन च पश्यन्त इति दर्शनेत्थम्भावविधानार्थं पूर्वम् । तथैवासौ भगवानुत्तमज्योतिः । न राजादिष्विवाविद्यमानभक्तिमात्रमिदमिति ज्ञापयितुं `अगन्म ज्योतिरुत्तमम्’इति पुनर्वचनम् ॥ *॥
`अर्चिषोऽशा वर्तुलास्तु नाम्ना बटरकाः स्मृताः ।‘इति शब्दनिर्णये ।
`बृहत्तरं मधु यदि सहापूपं प्रभक्षयेत् । स्वप्ने तस्याचिरान्मृत्यू रक्ताब्जे वा शिरोधृते ‘इति ब्रह्माण्डे ।
`रात्र्यास्तु देवता दुर्गा दुःस्वप्ने सा प्रपूजिता ।
पायसेन हरेन्मृत्युं रात्रसूक्तादकालिकम् ।
यदि कालिकमृत्युः स्यात् पदं सा परमं नयेत् ।
सहैव विष्णुना भक्तं विष्णोस्तद्वेदिनं तथा ।
रतिदत्वात् परो विष्णुर्मुख्यतो रात्रिरुच्यते ।
तदाश्रयत्वाद् दुर्गाऽपि रात्रिरित्यभिधीयते ।
स्त्रीरूपः स परो विष्णुः पायसेष्टो हि मोक्षदः ।
तस्मादुभौ सहैज्यौ भक्त्या दुःस्वप्नदर्शने ।
बहुभिर्नयनैविष्णुर्बहुधेदं ददर्श ह ।
आयन् सर्वेषु लोकेषु धृतास्तेनैव हि श्रियः ।
नीचानुच्चांश्च जीवान् स ब्रह्मादीनुर्वपूरयत् ।
ज्ञानेन बाधतेऽज्ञानं स्वसारं स्वं तथाऽकरोत् ।
उषआख्यं शुक्ल्वर्णं प्रमदारूपमेव तु ।
तमश्चापकरोत्येव सदा सूर्यादिषु स्थितः ।
स नः स्वामी यदुदरे यमनाद् यामनामके ।
आविक्ष्म हि वयं सर्वे वृक्षे यद्वत् पतत्रिणः ।
श्येनाख्यास्तु सुखीनत्वादा समन्तात् सुरोत्तमाः ।
पद्वन्तो मानुषाश्चैव पादमात्रप्रयायिनः ।
ग्रामाख्या बहुलत्वात्तु दैत्या एव प्रकार्तिताः ।
अर्थिनस्तु कृतार्थत्वान्मुक्ता एव श्रुताः श्रुतौ ।
ऊरीकृतप्रमाणत्वादूर्म्यः स भगवान् हरिः ।
वृकास्तेनैव निर्याप्या वृकाः क्रूरत्वतोऽसुराः ।
तत्स्वभावाश्च वृक्याः स्युः स्तेनास्तत्र महासुराः ।
ब्रह्मस्तेना यतस्ते हि नित्यमैकात्म्यवेदिनः ।
विष्णुः सुखतरश्चैव भक्तानां भवति प्रभुः ।
कृष्णं व्यक्तं तमोऽज्ञानमज्ञानां पेशलं हि तत् ।
तद् यातयत्यृणमिव भगवान् पुरुषोत्तमः ।
स एव चोषाः कथितः प्रकाशत्वाज्जनार्दनः ।
जयिनः स्तेममिव च ब्राह्मणाय यथा च गाः ।
उपाकरं तथा स्तोमं तवाहं तद् वृणीष्व च ।
द्यौरिति ज्ञानमुद्दिष्टं यद्व्यङ्ग्यत्वाज्जनार्दनः ।
दुहिता दिव इत्युक्त एवमर्थेन पूज्यते ।
रात्रिसूक्तेन भगवान् साक्षान्नारायणः प्रभुः ।
तत्सन्निधानाद् दुर्गाया एषोऽर्थ उपयारतः ।
एवं स्तुतस्तथैवेष्टो भगवान मोक्षदो भवेत् ।
यदन्तीत्याद्यृचः सर्वा अपि दुःस्वप्नदर्शने ।
जप्या एव विशेषोऽयं होमो दुःस्वप्नदर्शने ।
परोक्षज्ञानिनो विष्णोरापरोक्ष्यं ब्रजेत् त्वरन् ।
अपरोक्षदृशः प्रीतः सुखाधिक्यं करोत्यजः ।
मुक्तस्य द्विविधैस्तस्माज्जपो यागश्च सर्वथा ।
कर्तव्यो न्यासिभी रात्रीसूक्तं जप्यं त्रिशोऽञ्जसा ॥’ इत्याद्यैतरेयसंहितायाम् ॥ *॥
अथ सर्ववाग्विषया विद्योच्यते । विष्णुशब्दार्थत्वात् सर्ववाचाम् । पूर्वोक्ता अपि सर्ववागुपनिषद एव । तथाऽपि मुखत एव सर्ववाग्विषयत्वाद् वक्ष्यमाणामेव सर्वस्या वाच उपनिषदिति सर्वे व्याचक्षते ।
`पृथिव्यादिस्थितो विष्णुः पृथिव्याद्यभिधानवान् ।
स्पर्शादीनां देवताऽसौ क्रमेणैव प्रकार्तितः ॥ *॥
तस्य विष्णोरयं देहो वीणा साक्षात् प्रकार्तिता ।
दैवी वीणा ततः सेयं लोकसिद्धा तु मानुषी ।
ब्रह्मादिदेहान् यो वेद विष्णोर्वीणेति भक्तितः ।
विद्यापूर्णमुखः स स्याद् भूमिपूरितकार्तिमान् ।
विद्याधिक्यार्थमेवैतां वाक्सारमप्यृचं जपेत् ।
ध्यात्वा नारायणं देवं स्त्रीरूपं वाचि संस्थितम् ।
ओष्ठा पिधानेत्येषा ह्यृक् सारो वाचः प्रकार्तितः ।
विष्णोर्हि वाचि संस्थस्यैवोष्ठावेतौ पिधानवत् ।
कुलीति चोक्तो भगवान् प्रलीनाशेषकुत्सितः ।
पाति सर्वं विशिष्टश्च सर्वस्मादित्यतः पविः ।
सर्ववागीश्वरो विष्णुः स्त्रीरूपो मां सुवादयेत् ॥’ इति च ।
नेत्युपमार्थे । ओष्ठावपिधानवदस्येति । नच विष्णोरन्या सर्वस्या वाच ईशाना । स हि मुख्यतः सर्वेश्वरः । तस्यैव ा्रस्तुतत्वाद् वक्ष्यमाणत्वाच्च ।
`श्रियःपतिर्यज्ञपतिर्जगत्पतिर्गिराम्पतिर्धरापतिः।’ इति च भागवते ।
`यो वाचि तिष्ठन् वाचोऽन्तरो यं वाङ्मन वेद ।’ इत्यादिश्रुतिश्च ।
स्त्रीलिङ्गत्वं देवतेत्यादिवदपि युज्यते । स्त्रीरूपत्वाच्च ॥ *॥
संवत्सर इति विशेषणाद् विरिञ्च एवात्र प्रजापतिः ।
`ब्रह्मा विश्वः कतमः स्वयम्भुः प्रजापतिः संवत्सरः ।’ इत्यादिश्रुतेः ।
`श्रान्तो ब्रह्मा सर्ववेदैः स्तुत्वा नारायणं प्रभुम् ।
तेनैव सम्यक् सन्धाय दार्ढ्यं देहस्य सोऽकरोत् ।
सन्धानात् संहितेत्युक्तो विष्णुरेव सनातनः ।
विष्णिनाम्नि षशब्देन विष्णोर्बलमुदीर्यते ।
ण इत्याक्रियमाणत्वाण्णकारोऽस्य बलं मतम् ।
विष्णुनाम्नि षकारेण रमाब्रह्मेशपूर्विणः ।
प्रणेतृताऽखिलस्यैव विष्णोरुक्ताऽऽत्मता तथा ।
आततत्वं सर्वगुणैर्देशतः कालतस्तथा ।
आत्मशब्दोदितं तच्च षशब्देनाभिधीयते ।
ष इत्याक्रियमाणत्वं प्रणेतृत्वं च पूर्णता ।
विष्णोः षकार इत्युक्ता वीत्युक्तस्य विशिष्टता ।
अन्त्यस्थित उकारस्तु ताच्छील्यं हि हरेर्वदेत् ।
एवं विशिष्टप्राणत्वमाततत्वं च सर्वतः ।
विशिष्टं च बलं विष्णोः सर्वस्माच्छीलमित्यपि ।
उदितं विष्णुशब्देन तस्मादृक्संहितामनु ।
वर्णद्वयसमायोगे ष्णुशब्दस्यार्थमेव तु ।
विष्णोः प्राणत्वात्मत्वं बलं चैवात्र वेत्ति यः ।
स एव विष्णोर्बलवित् तथा प्राणत्वविद् भवेत् ।
स एव मुक्तः संसारान्नित्यायुष्मान् भविष्यति ।
संहितासहितत्वेन यदृचोऽधीमहे वयम् ।
वेदानन्यान् पुराणं वा तेन विष्णुपदोदितः ।
अवाप्तो भगवान् स्यान्नस्तन्नार्था यतोऽखिलाः ।
इत्याहुर् लृषयः सर्वे किमन्याध्ययनाद् भवेत् ।
यज्ञैर्वेत्यृषयोऽप्यन्ये कावषेया वदन्ति हि ।
मौनेन विष्णुशब्दार्थं ध्यायन्तो वाचमेव वा ।
जुहुमो विष्णनामाख्यं जपन्तो मन्त्रमेव वा ।
नमस्कारसमायुक्तं जुहुमः प्राणमत्र हि ।
किमन्यैर्बहुभिः कार्यैरेतस्यैवाधिकत्वतः ।
एतदर्थानुसन्धानपूर्वं वेदानथापि वा ।
अधीमहे यजामो वा नान्यथा तु कथञ्चन ।
एष एव हि सर्वेषां वेदानामर्थ ईरितः ।
विष्णुनामोदितो योऽर्थस्तद्व्याख्याऽन्यद् वचोऽखिलम् ।
एवं विशिष्टप्राणात्मबलाद्यखिलसद्गुणैः ।
पूर्णस्वभावः सर्वेषां वचसार्थं ईरितः ।
संहिताख्यानि विष्णोस्तु रूपाण्येतानि सर्वशः ।
अन्यविद्यास्वशिष्यस्य न ब्रूयात् प्रथमं क्वचित् ।
व्याख्यानशक्तिहीनाय नैव ब्रूयात् कथञ्चन ।
वैष्णवाय सुवृत्ताय मेधाश्रद्धायुताय च ।
गुरोः शुश्रूषकायैव ब्रूयादित्यनुशासनम् ॥’ इत्यादि च ।
य एतेन ण इतिशब्देनाऽक्रयमाणं विष्णोः पूर्णबलं षशब्देनाऽक्रयमाणं देशतः कालतो गुणतश्चाऽततत्वं चर्चां सर्रसंहितामनु तदर्थत्वेन वेद, अक्षरद्वसंयोगरूपया संहितयैतदेव सर्वत्रोच्यत इति स सम्पूर्णबलं सर्वप्रणेतृत्वशक्त्यादियुक्तं च विष्णुं वेद । अथेत्यादिका अपि संहितारूपा एव पदवर्णयोः पृथगनभिव्याहात् । तस्मात् सर्वशब्दा विष्णुनामव्याख्यानरूपा एव । यद् वयं संहितायुक्तत्वेनर्चोऽधीमहे तेनास्माकं णशब्दषशब्दार्थरूपो विष्णुरुपात्तः । तद्व्याख्यानत्वात् सर्ववाचाम् । वीत्युपसर्गत्वादुकारस्य च ताच्छील्यार्थत्वादुक्तार्थविशेषणरूपत्वेन प्रसिद्धत्वान्न पृथक् तयोर्व्याख्यानमत्र कृतम् ।
लृच इति सर्ववाचामुपलक्षणम् ।
अतः सर्ववेदादिशब्दोदितः सर्वगुणपरिपूर्णो भगवान् नारायण इति सिद्धम् ॥ *॥
सर्वैश्च वैदिकपदैरपि लोकशब्दैर्मेघाग्निवारिधितलादिरवैश्च सर्वैः ।
एकोऽभिधेयपरिपूर्णगुणः प्रियोऽलं नारायणो मम सदैव सुतुष्टिमेतु ॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः
मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ ॥
`हनशब्दो ज्ञानवाची हनुमान् मतिशब्दितः ।
रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि ।
भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृताः ।
लृगाद्या इतिहासं च पुराणं पञ्चरात्रकम् ।
प्रोक्ताः सप्तशिवास्तत्र शयो भीमस्ततः स्मृतः ।
मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ।
मध्व आनन्दतीर्थः स्यात् तृतीया मारुती तनुः ।
इति सूक्तगतं रूपत्रयमेतन्महात्मनः ।
यो वेद वेदवित् स स्यात् तत्त्ववित् तत्प्रसातः ’
`साधको रामवाक्यानां तत्समीपगतः सदा ।
हनूमान् प्रथमो ज्ञेयो भीमस्तु बहुभुक् पितोः ।
पृथनाक्षयकारी च द्वीतीयस्तु तृतीयकः ।
पूर्णप्रज्ञस्तथाऽनन्दतीर्थनामा प्रकार्तितः ।
दशेति सर्वमुद्दष्टं सर्वं पूर्णमिहोच्यते ।
प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः ।
आ समन्तात् पतित्वे तु गूढं कलियुगे हरिम् ।
असत्यमप्रतिष्ठं च जगदेतदनीश्वरम् ।
वदद्भिर्गूहितं सन्तं तृतीयोऽसुर्मथायति ।
येन विष्णोर्हि वर्पाख्यान् गुणानज्ञासिषुः परान् ।
ईशानासः सूरयश्च निगूढान् निर्गुणोक्तिभिः ।
त्रेतायां द्वापरे चैव कलौ चैते क्रमात् त्रयः ।
एतेषां परमो विष्णर्नेता सर्वेश्वरेश्वरः ।
स्वयम्भुब्रह्मसंज्ञोऽसौ परोऽस्मै ब्रह्मणे नमः ॥’ इति च ।
पूर्णागण्यगुणोदारधाम्ने नित्याय वेधसे ।
अमन्दानन्दसान्द्राय प्रेयसे विष्णवे नमः ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमहैतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके अष्टमोऽध्यायः ॥
॥ इति श्रीमहैतरेयोपनिषद्भाष्यम् ॥

*****************************************************************************************

]