[[श्रीमद्बृहदारण्यकोपनिषद्भाष्यम् Source: EB]]
[
श्रीमदानन्दतीर्थभगवत्पादविरचित श्रीमद्बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायः
न उपलब्धम् ।
************************************************************************************************************
द्वितीयोऽध्यायः
उपलब्धम् ।
**********************************************************************************************************************
तृतीयोऽध्यायः
भाष्यम्
ॐ॥ प्राणादेरीशितारं परमसुखनिधिं सर्वदोषव्यपेतं
सर्वान्तस्थं सुपूर्णं प्रकृतिपतिमजं सर्वबाह्यं सुनित्यम् ॥
सर्वज्ञं सर्वशक्तिं सुरमुनिमनुजाद्यैः सदा सेव्यमानं
विष्णुं वन्दे सदाऽहं सकलजगदनाद्यन्तमानन्ददं तम् ॥
`यथा तुष्टाव लक्ष्मीशं सर्गादौ चतुराननः
तथा जगाद सूर्याय याज्ञवल्क्याय सोऽब्रवीत् ।
वाजिरूपेण सूर्येण प्रोक्तं वाजसनेयकम्
कण्वाय याज्ञवल्क्योऽदात् काण्वं तेन प्रकीर्तितम् ॥’
इति वाराहे ।
`अश्वस्वरूपो ब्रह्माऽभूदश्वरूपाज्जनार्दनात् ।
तत्र सन्निहितो विष्णुरश्वरूपः स्वयं प्रभुः ॥
तयोश्च प्रतिमा मेध्यो यतोऽश्वोऽयं श्रुतौ श्रुतः ।
सर्वं जगत् तदङ्गेषु तस्मात् सन्निहितं श्रुतम् ॥
तयोरङ्गेष्विदं यस्माज्जगत् सर्वं प्रतिष्ठितम् ॥’ इति प्रध्याने ।
`उच्चैःश्रवाः सन्निहितो मेध्येऽश्वे तत्र केशवः ।
तस्मिन्निदं जगत् सर्वं ब्रह्मा चोच्चैःश्रवःस्थितः ॥’
इति सौपर्णे ।
`पर्वताः सिकताश्चैव नद्यः कूपाः सरांसि च ।
हविः कपालयूपाद्या देवता एव सर्वशः ॥
तत्तन्नामैव नामैषां भिन्नानामभिमानतः ।
नामानि तान्यपि हरेः स हि सर्वगुणाधिकः ॥’
इति नारदीये ।
`उषाः शिरो ब्रह्म नाम तत्त्वमस्यादयोऽखिलाः ।
सप्तम्यर्थाः समुद्दिष्टाः पञ्चम्यर्थास्तथा श्रुताः ॥
षष्ठ्यर्थाश्च चतुर्थ्यर्थास्तृतीयार्थाश्च सर्वशः ।
तदैक्यवाचिवच्छब्दा अपि तद्गत्ववाचकाः ॥
ऐक्यार्था नैव ते सर्वे भिन्नरूपा यतः सदा ।
ईशाङ्गवाचिनो वा स्युस्तेषामेव तदर्थतः ।
सप्तसु प्रथमा यस्मात् तत्तद्योग्यार्थता भवेत् ॥’
इति ब्रह्मतर्के ।
`अङ्गप्रत्यङ्गशो व्याप्तो विष्णुरेव तुरङ्गमे ।
अतो विष्ण्वङ्गगं सर्वं मेध्याङ्गस्थमुदीरितम् ॥’ इति च ।
पुनरप्यश्वस्य मेध्यस्येति वचनं कस्यचिदश्वस्यैवमासीदितीतिहासरूपेण नोच्यते । किन्तु सर्वमेध्यानामेवमिति ज्ञापनार्थम् ।
सर्वव्यक्तिष्वपि व्याप्त्यै तात्पर्याधिक्यवित्तये ।
प्रतीतानुपपत्तेरप्याभासत्वविवक्षया ।
पुनर्वचनमुद्दिष्टं शतशोऽपि पृथक् पृथक् ॥’ इति च ।
`विष्णोः पुरीषस्थानीया काठिन्यात् पृथिवी श्रुता ।
तत्स्थत्वात् सिकताः सर्वा ऊवध्यस्थाः प्रकीर्तिताः ॥
उर्व्यास्तु पादगत्वेऽपि नोवध्यत्वं विरुद्ध्यते ।
यतस्तदभिमानिन्यो देवता अनुकीर्तिताः ।
तासां च बहुरूपत्वादैश्वर्याच्च परेशितुः ॥’ इति च ।
`अवान्तरदिशो विष्णोरस्थिपुच्छान्युदाहृताः ।
पूर्वपश्चार्धभेदेन दिशः पार्श्वे प्रकीर्तिते ॥
शिरश्च पादमूलानि पुच्छं षडृतवः स्मृताः ।
संवत्सराभिमानी च ब्रह्मा सर्वशरीरगः ॥
क्लेमानश्च यकृच्चैव मांसौ गिर्यभिमानिनः ।
आन्त्रेषु नद्यः सर्वाश्च सोऽयं विष्णुः सनातनः॥’ इति च ।
`नभोभिमानी विघ्नेशो विष्णोर्मांसाश्रितः सदा ।
अन्तरिक्षाभिमानी तु तत्सूनुरुदरे स्थितः ॥’ इति च ।
`अश्वपूर्वापरौ होम्यौ महिमानौ ग्रहौ स्मृतौ ।
अहोरात्राभिमन्तारौ तयोरप्यभिमानिनौ ॥
कामश्चाथ रतिश्चैव विष्णुब्रह्मशरीरजौ ।
समुद्रेकात् समुद्रस्तु विष्णुः पूर्व उदाहृतः ॥
उपचारेण तूद्रेकादपरश्च चतुर्मुखः ।
स विष्णुर्हयनामा सन् देववाहेषु संस्थितः ॥
वाजिनामा तु गन्धर्वेष्वर्वनामाऽसुरेषु च ।
मानुषेष्वश्वनामाऽसौ तद्बन्धुः स्वयमेव सः ॥
स्वस्मादेवोत्थितिस्तस्य रूपभेदो न तस्य च ।
ऐश्वर्यात् स तथाऽपीशो व्यक्तिभावं गमिष्यति ॥
हत्वा याति यतः शत्रून् हयस्तस्माद्धरिः स्मृतः ।
सर्वदा युद्धकतृर्त्वाद् वाजी चापि प्रकीर्तितः ।
अर्वाऽतिगमनादुक्त आशुत्वादश्व उच्यते ॥‘इति वैहायसे ।
तेषां तेषां वाहनेषु स्थित्वा तत्तत्कर्मकतृर्त्वात् तत्तन्नामा ।
`पतन्ति नियतं हन्तुं देवाश्वाः शत्रुमूर्धसु ।
वेगाधिका आसुराश्वा वेगमात्रं नृवाहने ॥’ इति स्कान्दे ।
`गन्धर्वास्तु सदा युद्धरता देवानुगा यतः ।
तदशक्तौ तु देवानां युद्धं ते स्वामिनो यतः ॥
केचिद् गानरता नित्यं गन्धर्वा नर्तकाः परे ।
केचिद् वाद्यरता नित्यं चारणा देवचारकाः ॥’ इति च । ॥ इति अश्वब्राह्मणम् ॥
भाष्यम्
`सर्वसंहारकं विष्णुं देवीं जीवांस्तथैव च ।
कालं त्रिगुणसाम्यं च कर्माणि प्राणमिन्द्रियम् ।
संस्कारं चैव वेदांश्च नर्ते किञ्चिल्लये त्वभूत् ॥’
इति ब्रह्मतर्के ॥
लयकाले परमात्मनैवाऽवृतमासीत् ।
`अशनं जगदेतद्यन्नयत्यात्मेच्छया हरिः ।
अशनाया ततः प्रोक्त उदन्या कर्मनायकः ॥’ इति ब्राह्मे ।
अन्यत्र नेतृत्वप्रतीतावपि श्रुतिप्रसिद्धेः स एव नेतेत्याह - अशनाया हि मृत्युरिति । तत् तत एव मनोऽकुरुत यतः स्वयमेवाऽसीन्नान्यत् । आत्मवान् स्यामित्यैच्छत् ।
शरीरवान् स्यामिति । अप्सृष्ट्यर्थं मनोऽकुरुत ।
`ऐच्छद् विष्णुरदेहः सन् देहवान् स्यामिति प्रभुः ।
यतो देह इदं सर्वं तस्य विष्णोरदेहिनः ॥
तद्वशत्वात् स्वयं देवश्चिदानन्दशरीरकः ।
सोत्मानमर्चयन्नचरदप्सृष्टएर्थं जनार्दनः ॥
यत् कुर्वन् यत् सृजेदीशस्तद् भवेद्धि तदात्मकम् ।
अतोऽर्चतो यतो जाता आपोऽतोऽर्चनसाधनाः ॥
अन्यथाकर्तुमीशोऽपि क्रीडया तत्तदात्मकम् ।
कर्तुं तत्तत्प्रवृत्तिः संस्तत् करोति स्वयं प्रभुः ॥’
इति ब्रह्माण्डे ।
मे सर्वाहेयस्य विष्णोः ।
`अस्मच्छब्दगतैर्विष्णुर्वाच्यः सप्तविभक्तिभिः ।
सर्वाहेयत्वतस्त्वेकः सर्वस्य प्रतियोगितः ॥
युष्मच्छब्दाभिधेयश्च तच्छब्दैश्च परोक्षतः ।
स एव बहुरूपत्वाद् बहुशब्दाभिधानवान् ॥
जीवे स्थितेन रूपेण हृद्गेनापि द्विधोच्यते ।
भिन्नोऽपि सर्वजीवेभ्यः सर्ववस्तुभ्य एव च ।
पूर्णानन्दादिरूपस्य कुतोऽल्पसुखिनैकता ॥’ इति ब्रह्मतर्के ।
`उदकं सुखहेतुत्वात् कमित्येवाभिधीयते ।
तदेव ह्यर्चतो जातमतोऽर्क इति कीर्त्यते ॥’
इति व्यासनिरुक्ते ।
अर्चतो जातं सुखसाधनं चेत्यर्क इत्यर्थः । कं सुखमस्मै भवति ।
`अपां हि सुखहेतूनां वेद विष्णोर्जनिं हि यः ।
स मुक्तः सुखभागेव स्यात् विष्णोस्तु प्रसादतः ॥’
इति माहात्म्ये ।
अर्कशब्दस्याऽदित्ये प्रसिद्धत्वादप्छब्दोऽपि तत्रेत्याशङ्कां निवर्तयितुमापो वा अर्क इति पुनर्वचनम् । नाऽदित्येऽप्छब्दः किन्त्वप्स्वेवार्कशब्द इत्यर्थः। शरो मण्डः ।
`फेनरूपस्तु यो मण्डो जलस्यासौ सुसंहतः ।
पृथिवीत्वं समापन्नस्तस्यां शिश्ये जनार्दनः ॥
ततः स चिन्तयामास स्यादग्निरिति वेदराट् ।
तच्चिन्तनात् समुत्पन्नो वायुरग्न्यभिधानवान् ।
अग्रजत्वादग्रणीत्वाद् वायोरग्नित्वमिष्यते ॥’ इति प्रवृत्ते ।
`शक्तिविस्रंसने चापि शयने चापि कीर्तितः ।
श्रमशब्दो हरेर्नैव शक्तिविस्रंसनं क्वचित् ।
अतो हरेः श्रमो नाम शयनं सम्प्रकीर्तितम् ॥’ इति ब्रह्मतर्के ।
तस्यामश्राम्यदिति साधिकरणत्वाच्च शयनं युक्तम् । नहि पृथिव्यां श्रमो नामान्तःकरणधर्मो युज्यते । अधिकरणाधिकरणपरम्पराकल्पनं च कष्टकल्पनम् ।
`सृष्द्वा स पृथिवीं विष्णुः शेतेऽनन्तेऽब्धिमध्यगः ।
तस्यां पृथिव्यां श्वेताख्ये द्वीपे मुक्तरुपासितः ॥’
इति विमुक्तिसंहितायाम् ।
`तप्त आलोचनायुक्तस्तस्मात् कार्यार्थकामना ।
तप्तता तु हरेरुक्ता कुतो दुःखं हरेः प्रभोः॥‘इति ब्रह्मतर्के ।
तेजोरसः जगतः सामर्थ्यसारभूतः ।
`वायुरग्निरिति प्रोक्तो ह्यग्रणीत्वादथाङ्गिनाम् ।
नेतृत्वाददनाद् वाऽपि तस्य स्रष्टा जनार्दनः ॥
स वायुर्वायुरूपेण जगत् पाति शरीरगः ।
आदित्यस्थेन रूपेण जगद् याति प्रकाशयन् ॥
अग्निस्थेन तु रूपेण हूयते सर्वयष्टृभिः ।
आदाय यात्यायुरिति स एवाऽदित्य उच्यते ॥
तत्सम्बन्धात्तु तन्नाम सूर्यस्याग्नेस्तथैव च ।
स एष कूर्मरूपेण वायुरण्डोदके स्थितः ॥
विष्णुना कूर्मरूपेण धारितोऽनन्तधारकः ।
अस्य पादा हि चत्वारो ह्यण्डोदे कोणसंस्थिताः ॥
उदरं तु भूमिसंश्लिष्टमतिरिच्य भुवं पुनः ।
पार्श्वतः पुच्छतश्चैव शिरश्चोदकसंस्थितम् ॥
आकाशमुदरे तस्य द्यौः पृष्ठे संस्थिता विभोः ।
एवं विद्वांस्तु यत्रैति तत्रैव प्रतितिष्ठति ॥’ इति प्रभञ्जने ।
स्थानेच्छा चेत् तत्र प्रतितिष्ठति ।
`उपास्ते कूर्मरूपं यो वायुं संस्थितिमाप्नुयात् ।
इच्छया विनिवृत्तिं वा लोकं चाऽवृत्तिवर्जितम् ॥’ इत्यध्यात्मे ।
`स एष प्राणस्त्रेधा विहितः’ इति वचनाच्च वायुः ।
`बिभर्त्यण्डं हरिः कूर्मस्त्वण्डे चाप्युदकं महत् ।
उदके कूर्मरूपस्य वायोः पुच्छं समाश्रितम् ॥
वायोः पुच्छं समाश्रित्य शेषस्तु पृथिवीमिमाम् ।
बिभर्ति तस्यां च जगदिदं सर्वं प्रतिष्ठितम् ॥’ इति वैभवे ।
`वायोस्तु कूर्मरूपस्य पूर्वतश्चोदके मुखम् ।
आग्नेय्यैशानिगौ बाहू पादौ निऋर्तिवायुगौ ॥’ इति प्रकृष्टे ।
आत्मा ब्रह्मा मे द्वितीयो जायेतेत्यकामयत । वायुरेव ब्रह्मा भवतीति दर्शयितुं वायोः सृष्टिः प्रथममुक्ता ।
`वायुरेव यतो ब्रह्मपदं नियमतो व्रजेत् ।
सहैव जननेऽप्यस्मात् पूर्वं वायोर्जनिं वदेत् ।
क्वचित्तु ब्रह्मणः पूर्वं प्राधान्यात् तत्पदस्य च ॥’
इति ब्रह्मतर्के ।
`आत्मा विरिञ्चः सुमनाः सुधौतश्चेति कथ्यते ।
ब्रह्मा चतुर्मुखश्चेति पूर्वजो यः प्रजापतिः ॥’
इति शब्दनिर्णये ।
स मनसा स्वेच्छया वाचं श्रियं देवीं मिथुनं समभवत् ।
`मम द्वितीयो जायेत ब्रह्मेति भगवान् परः ।
वेदाभिमानिनीं देवीं श्रियं समभवत् प्रभुः ॥
स्वेच्छयैव यतः शक्तिस्तां विनाऽपि हरेः सदा ।
ततः संवत्सरो नाम ब्रह्मा समभवत् प्रभोः ॥
तं गर्भमुदरेऽबिभ्रद् यावत् संवत्सरं रमा ।
तं जातमत्तुं स्वमुखं विदार्य पुरुषोत्तमः ।
श्रुत्वा रावं पुनस्तस्य व्यदधात् सृष्टये प्रभुः ॥’
इति कारणविवेके ।
बिन्दुलोपेनाशनाया मृत्युरित्यर्थः ।`अशनाया हि मृत्युः’ इति ह्युक्तम् । सर्वाशननेतेत्यर्थे बिन्दुः । `आधिक्येऽधिकम्’ इति सूत्रात् । सम्यगात्मनो वत्सभूतान् देवादीन् रमयतीति संवत्सरः ।
`ब्रह्मणो भाणिति वचो निःसृतं भयतो मुखात् ।
तस्याभिमानिनी देवी तदैवोत्था च तन्मुखात् ।
वागीश्वरीति तामाहुर्वाचं चापि सरस्वतीम् ॥‘इति भावतत्त्वे ।
तदभिमानित्वात् सैव वागित्युच्यते । भारूपो णरूपश्चेति भगवान् भाण् । तद्व्यञ्जकत्वाद् भणनं वाक् ।
अभिमंस्ये लीनं करिष्ये चेत् -
`मानं ज्ञानं लयश्चैव मर्यादा चैव कथ्यते ।
उत्पादनं च सङ्ख्यानं बलं च क्वचिदुच्यते ॥‘इति शब्दनिर्णये ।
`वेदाभिमानिनः सर्वांस्तथा यज्ञाभिमानिनः ।
गायत्र्यामसृजद् ब्रह्मा स्वभार्यायां प्रजास्तथा ॥’
इति प्रकाशिकायाम् ।
`यद्यद् ब्रह्माऽसृजत् पूर्वं तत्तदत्ति जनार्दनः ।
अदितिर्नाम तेनासौ भगवान् पुरुषोत्तमः ॥
उपास्ते यः परं देवमेवमत्तीति सर्वदा ।
स्वयोग्यतानुसारेण सर्वात्ताऽसौ भवत्युत ॥
ब्रह्मरुद्रसुपर्णानां सर्वात्तृत्वं विशेषतः ।
प्रायेणात्तृत्वमिन्द्रादेरन्येषां दर्शनादिकम् ।
बहुलस्येति योग्यत्वभेदादत्तृत्वमिष्यते ॥’
इति मान्यसंहितायाम् ।
`आत्मनो यादृशा भोगा भोक्तुं योग्या हि तादृशान् ।
भोक्ता विष्णुरिति ध्यायेत् सर्वात्तृत्वं हरेः स्मरेत् ।
दैवतानां च सर्वेषां सर्वात्तिध्यानमिष्यते ॥’ इति प्रवृत्ते ।
`इच्छतो विष्णुयजनं ब्रह्मणः साधनास्मृतेः ।
श्रमात् तापाच्च देहं तं त्यक्तुमिच्छा बभूव ह ॥
इच्छया चाप्युदक्रामत् प्राणैः सह पितामहः ।
यशोवीर्यनिमित्तत्वात् प्राणास्तन्नामकाः स्मृताः ॥
अत्यल्पे चापि सञ्जाते श्रमेऽपि च तदिच्छया ।
तापे प्राणा निःसरन्ति सा च क्रीडा विभोः स्मृता ॥
बृंहमाणं शरीरं तु पुनदृर्ष्द्वा पितामहः ।
प्रवेष्टुं तच्छरीरं च कामयामास स प्रभुः ॥
पुनस्तस्मिन् प्रवेशाय शवरूपस्य मेध्यताम् ।
ऐच्छत् तेनैव देही स्यामिति तस्मिन् विवेश च ॥
तस्मिन् प्रविश्य स ब्रह्मा द्वितीयं वपुरग्रहीत् ॥
दृष्द्वोपायं महायज्ञेऽथाश्वाकारं पितामहः ।
श्वैतीभावात् परं यस्माद् तज्जज्ञेऽतोऽश्वनामकम् ॥
यदर्थं श्वैततामाप तद्देहो मेध्यतामपि ।
अश्वमेधः स यज्ञोऽभून्नाम्ना तेन तदा कृतः ॥
श्वैतीभावं गते देहे पुनर्मेध्ये यतः स्थितः ।
अतोऽश्वमेधनामाऽसौ ब्रह्मा शुभचतुर्मुखः ॥
अश्वो भूत्वा यतो मेध्यः सोऽभवत् तेन वा स्मृतः ।
मेधो यज्ञः समुद्दिष्टो याज्ञीयं मेध्यमुच्यते ।
शुभं मेध्यमथापि स्यादेवंविद् योऽश्वमेधवित् ॥
तमश्वरूपमात्मानमनिवारितवद् विभुः ।
चारयामास रूपेण तदन्येन पुमात्मना ॥
सर्वस्मिन् भुवने चाब्दं तदन्ते परमात्मने ।
स्वस्मिन् स्थिताय सङ्कल्प्य यज्ञ आलभताऽत्मवान् ॥
अजादिकान् पशूनन्यदेवस्थपरमात्मने ।
कतृर्त्वेन पशुत्वेन यत् फलं तदशेषतः ॥
मम स्यादिति मन्वानः सोऽश्वरूपमधारयत् ।
अबुद्धिपूर्वमरणात् स्वर्गश्चापि पशोर्भवेत् ॥
ज्ञानपूर्वमृतेः पुंसः किमु वक्तव्यमित्यजः ।
एवं सूर्योऽप्यश्वमेधनामा संवत्सराभिधः ॥
सूर्ये स्थितो यतो ब्रह्मा ह्यश्वमेधाभिधः स्वयम् ।
सूर्ये ततत्वात् सूर्यात्मा ब्रह्माऽसौ परिकीर्तितः ॥
अग्नौ स्थितो यतः सोऽर्कस्तस्मादग्निरुदीर्यते ।
ब्रह्मातता यतो लोकास्तदात्मानस्ततो मताः ॥
ब्रह्मसूर्याग्निलोकेषु व्याप्तैका देवता हरिः ।
तादृशं ****************।
*************** स्मृता ॥
नैनं मृत्य्वात्मको मृत्युः प्राप्नोति हरिसेवनात् ॥
यस्मान्नृसिंहो मृत्योश्च मृत्युरात्माऽस्य वै भवेत् ।
आततत्वात् तथाऽऽत्तत्वादात्माऽसौ ब्रह्मणः स्मृतः ॥
आदानादात्तनिर्माणादात्तज्ञानात् तथैव च ।
एतासां देवतानां च ब्रह्मेशत्वेन वर्तते ।
नृसिंहस्य सदा ज्ञानाद्ध्यानाच्च तदनुग्रहात् ॥’
इति महासंहितायाम् ।
भूयःशब्दः पूर्णत्ववाची । परमेश्वरं परिपूर्णं यजेयेति । अश्वदित्यश्वोऽभवत् तदेव रूपं मेध्यं यज्ञ आलभनीयं चाभवदित्यश्वमेधः ।
`तमनवरुद्ध्येवामन्यत’ इत्यादिवाक्यशेषादश्वभावः प्रतीयते । अश्वत् बृंहितं पश्चान्मेध्यं चाभूद् यस्य शरीरं सोऽश्वमेध इति च । निरोधमकृत्वा चारयिष्यामीत्यमन्यत स्वेच्छयैव ।
स्वरूपान्तरत्वादश्वरूपस्य ।
॥ इति अश्वमेधब्राह्मणम् ॥
भाष्यम्
`द्वया ब्रह्मसुतास्तत्र दैतेया बहवः स्मृताः ।
तमोरूपाः सत्त्वरूपा अल्पसङ्ख्याः सुराः स्मृताः ॥
बहुत्वात् तैर्जिता देवाः शङ्करस्य वरेण च ।
यज्ञेन विष्णुमर्भ्यच्य तत्रोद्गातृबलेन च ॥
जयामैनानिति स्मृत्वा वह्न्यादीनप्यचूचुदन् ।
औद्गात्रेऽग्निमुखाः सर्व इन्द्ररुद्रौ च वेधितौ ॥
असुरैः पापपूगेन मुख्यवायुं ततोऽब्रुवन् ।
दैत्यास्तं वेद्धुमीप्सन्तो ध्वस्ता नेशुश्च सर्वतः ॥
पांसुपिण्डो यथा वज्रशिलां प्राप्यैव नश्यति ।
तस्मादखण्डशक्तिः स मुख्यवायुरुदाहृतः ॥
शापैरथ वरैर्वाऽपि नास्य प्रतिहतिर्भवेत् ।
स्वेच्छयैवानुसारेण विना कुत्रापि पुत्रक ॥
एवंविदपि पापेभ्यः शत्रुभ्योऽपि प्रमुच्यते ॥
स वायू रुद्रशक्रादेर्वासुदेवबलाश्रयः ।
विमोच्य पापसङ्घाताद् दिशामन्तेष्वथाक्षिपत् ॥
उन्मुच्य मृत्योस्तांश्चैवाथोर्ध्वलोकेषु चावहत् ॥
अग्निर्नासिक्यवायुश्च दिक्पा इन्द्रादयोऽखिलाः ।
सूर्यः सोमश्च रुद्रश्च तेनैव स्वपदे स्थिताः ॥
स्त्रीगुणैः सर्वपूर्णत्वाद् बृहती तु सरस्वती ।
अनन्तवेदरूपत्वात् सैव ब्रह्मेति कीर्तिता ॥
विष्णुना बृंहितत्वाद्वा तत्पतिर्वायुरीश्वरः ।
सारत्वात् स्त्रीषु सा देवी सेत्युक्ता सामरूपतः ॥
गीथेत्युक्ता तदुद्गीथसामाख्योऽर्धतनुस्तया ।
अर्धनारीनरवपुर्वायुः कुत्रचिदीरितः ॥
अयास्यो विश्वसृग्यज्ञे तेनाऽविष्टोऽन्वगायत ।
गृहकोशादिकं यत् स्वं तद्रूप्यस्य स्वरस्थितः ॥
भूषणस्वर्णरूपी च स एवापि स्वरस्थितः ।
वागिन्द्रियं पीठरूपं तस्य देवस्य संस्थितम् ॥
गानकालेऽन्यदा त्वन्नं प्राणपीठमिति स्मृतम् ।
पवमाना इति प्रोक्ता मुख्यवायुत्वयोगिनः ॥
अनादिकालसम्बद्धा योग्यता सा प्रकीर्तिता ।
सर्वाधिक्यारोहणं तु तेषामेव विमुक्तिगम् ॥
प्रस्तावकाले प्रस्तोतुं योग्यो वायुपदस्य यः ।
जपेद् यजूंषि त्वेतानि त्रीणि विष्णुं सदा स्मरन् ॥
असतो मा सदित्यादि विष्णुप्रार्थनभाञ्जि च ।
द्वात्रिंशल्लक्षणैः सम्यग् युक्ता वायुत्वयोग्यकाः ॥
नियमेनैव विष्णोस्तु प्रादुर्भावा विशेषतः ।
सहस्रारेण चक्रेण चिह्निता दक्षिणे करे ॥
गदयाऽष्टाश्रया चैव शतावर्तेन कम्बुना ।
वामे करे तथाऽब्जेन सहस्रदलशोभिना ॥
अष्टाविंशल्लक्षणाश्च गिरीशपदयोगिनः ।
चतुर्विंशतिमारभ्य षोडशादा सुराः स्मृताः ॥
आऽष्टकादृषयः प्रोक्तास्तदूनाश्चक्रवर्तिनः ।
असद् दुःखात्मको मृत्युः सदानन्दामृतं स्मृतम् ॥
तमोऽज्ञानात्मको मृत्युर्ज्योतिर्ज्ञानामृतं मतम् ।
मृत्योर्माऽमृतमित्यत्र मृत्युर्मरणमेव च ॥
एवंविद् वायुपदयोग्योद्गातार एव तु ।
यदा भवेयुस्तेषु तदा याजी तु वृणुयाद् वरम् ॥
आत्मने याजिने वापि ह्युद्गातैवंविधो यदि ।
आगायेत् तद् भवेन्नात्र कार्याऽभीष्टे विचारणा ॥
एवं तं सामनामानं वायुं यो वेद सादरम् ।
तस्येष्टलोकराहित्ये नाऽशा कार्याऽरिणा क्वचित् ॥
तस्माद् वायुत्वयोग्यैर्हि येषां लोकाः प्रकीर्तिताः ।
तेषामलोकाशङ्का च नैव कार्या कदाचन ।
यस्मान्नारायणस्यातिप्रियाः प्राणत्वयोगिनः ॥’
इत्यादि महासंहितायाम् ॥
आस्यादयत इत्ययास्यः । प्रसिद्धमृत्य्वमृतत्वान्नात्र तिरोहितमिवास्ति । एष उद्गातेति वायुत्वयोग्यः। तद्धैतल्लोकजिदेवेति तस्माद् वराभियाचनम् ।
॥ इति उद्गीथब्राह्मणम् ॥
भाष्यम्
इदमग्रे एतस्याग्रे परमात्मैवाऽसीत् । ततः पुरुषविधो ब्रह्माऽऽसीत् । पुरुषो विष्णुः । तद्विधत्वात् पुरुषविधः ।
`एतस्य जगतो ह्यग्र आसीन्नारायणः परः ।
एक एव श्रिया सार्धं तमात्मा पुरुषेत्यपि ॥
आहुस्तस्मात् पुरुषविधो ब्रह्मा समभवत् प्रभोः ।
ब्रह्मादेश्च श्रियश्चैव नित्यं विष्णुर्गुणाधिकः ॥
यथा तथैव रुद्रादेर्ब्रह्मा यस्माद् गुणाधिकः ।
एतस्मात् पुरुषविधता ब्रह्मणः सम्प्रकीर्तिता ॥
स तु सर्वदिशो दृष्द्वा नान्यद् दृष्द्वा पितामहः ।
अब्रवीदहमस्मीति स्वाहेयत्वमनुस्मरन् ।
हातुं शक्यमिदं सर्वमासीदेकोऽभवं यतः ॥
अहेयत्वं स्वरूपस्य स एवं समचिन्तयत् ।
ततोऽभवदहंनामा स चाभूत् पुरुषाभिधः ॥
ओषणात् सर्वपापानां पूर्वं पुरुष उच्यते ।
नारायणप्रसादेन य एवं पुरुषाभिधाम् ॥
वेद स्वाभिमतं यस्तु पूर्वं प्राप्तुमभीप्सति ।
ओषेत् स्वयमनुष्टः सन् ब्रह्मविष्णुप्रसादतः ॥
तस्य त्वेकस्य सहसा यतो भीः समजायत ।
तस्मादद्यापि चैकस्य निर्विवेरुभयं भवेत् ॥
विममर्श ततो ब्रह्मा यस्मान्मद्बाधको नहि ।
मया सृज्या यतः सर्वे इतः पश्चात्तनो हरः ॥
अतः कस्माद् बिभेमीति तस्य भीतिरपोहिता ।
विष्णोरतिप्रियत्वात्तु तदन्येषां पितृत्वतः ॥
कस्माद् भयं भवेत् तस्य समानाद्धि भयं भवेत् ।
विरोधिनोऽधिकाद् वाऽपि हीनाद् वा पारवश्यतः ॥
हीनमेव यतस्तस्य सर्वमेव जगद् वशे ।
नच जातं तदा सर्वं हरिरेव यतः परः ॥
न रेमे स ततो ब्रह्मा तस्मादेकस्य नो रतिः ।
अद्यापि पत्नाीमैच्छच्च स स्थूलत्वमुपागतः ॥
दम्पती सहितो यावद् ब्रह्मा चैव सरस्वती ।
तावद्देहोऽभवद् ब्रह्मा ततो देहं द्विधाऽकरोत् ॥
पातनात् पतिपत्नाीत्वशब्द एनोरजायत ।
तस्मात् तयोरेकसुखं भवत्येवार्धपात्रवत् ॥
ततस्तस्यामुमेशादीन् देवान् सर्वमनूनपि ।
जनयामास बोधस्य प्राधान्यं हि मनुष्यता ॥
सर्वज्ञाऽपि तु सा देवी विरिञ्चे भक्तिमत्यपि ।
तद्भार्यतामात्मनश्च नितरां धर्ममीक्षती ॥
अनाद्यनन्तसम्बन्धमुभयोरपि जानती ।
स्त्रीस्वभावं दर्शयन्ती साऽधर्ममिव चैक्षत ॥
नानासृष्टिप्रसिद्ध्यर्थं सा गोत्वादिकमाव्रजत् ।
ऋषभादिरूपतां सोऽपि प्राप्य सृष्द्वेदमञ्जसा ॥
सर्जनात् सृष्टिनामाऽभूत् तद्वित् तत्पुत्रतां व्रजेत् ।
पिपीलिकान्तरुद्रादौ यथायोग्यत्वमात्मनः ॥
अथान्नादमथाप्यन्नं स्रक्ष्यामीति विचिन्तयत् ।
ओष्ठद्वयं ममन्थान्तर्हस्तौ चैव परस्परम् ॥
तन्मुखाच्चैव हस्ताभ्यामन्तरेऽग्निरजायत ।
एवं सर्वस्य हेतुत्वात् सर्वस्याधिपतित्वतः ॥
सर्वे देवा एष एवेत्याहुर्वेदविदो जनाः ।
स्वतन्त्रेषु यतः शब्दा वर्तेयुः सर्व एव च ॥
स रेतसः पुनः सोममसृजद् ब्रह्मविद्वरः ।
सर्वाधिकोऽपि योग्यत्वार्न्मत्यधर्मतया पुरा ॥
अवमो योग्यताहीनानप्यायुर्मात्रतोऽधिकान् ।
यतोऽस्रागतिसृष्टिस्तदेवं यो वेद पूरुषः ॥
विष्णोः प्रसादतः सृष्टिं देवलोके स जायते ।
आत्मयोग्यानुसारेण सुखज्ञानादियुक् तथा ॥’ इति ब्रह्मतर्के ॥
भगवदुपासनामाहात्म्यमेतदिति दर्शयितुं `तद् यदिदमाहुः’ इत्याद्यारम्भः ।
॥ इति प्रजापतिब्राह्मणम् ॥
भाष्यम्
विश्वम्भरो वायुः । `अकृत्स्नो हि सः’ इत्यस्याभिप्रायः `स योऽत एकैकमुपास्ते न स वेद’ इत्यादि । प्राण इत्यादिनामानि परमेश्वरस्य न सर्वगुणसम्पूर्णतां वदन्ति ।
किन्तु प्राणनादिकर्मकतृर्त्वमेव वदन्ति । आत्मशब्द एव सर्वगुणर्पूर्णत्वं वदति । अस्य सर्वस्य गुणजातस्यायमात्मैव पदनीय आश्रयो यस्मादतस्तं सर्वगुणवाचकेनाऽत्मशब्देनैवोपासीत ।
`अनेन ह्येतत् सर्वं वेद’ । यस्मात् सर्वज्ञानप्रदस्तस्मात् सर्वगुणपूर्ण इत्येवोपासनं तस्य युक्तम् । तदुपासनादेव सर्वज्ञत्वादयो गुणा भवन्ति किमु तस्येति । पद्यते अनेनेति पदं साधनम् ।
यथा तत्तत्साधनेन तत्तत् फलं प्राप्नुयादेवं सर्वगुणयुक्तत्वेन भगवदुपासनात् कीर्तिं श्लोकं च विन्दते । शंलोकः श्लोकः । परमानन्दं परमं ज्ञानं चेत्यर्थः । `लुक् प्रकाशे’ इति धातोः ।
`आसीदेको हरिः पूर्वं देवी नारायणी तथा ।०
अन्यदव्यक्ततां यातं तद् व्यक्तमकरोद्धरिः ॥
सृष्द्वा जगदिदं सर्वं सृष्द्वा देहांश्च सर्वशः ।
आ केशादा नखाग्रेभ्यः प्रविष्टः पुरुषोत्तमः ॥
यथा प्राणः शरीरेषु क्षुरो यद्वत् क्षुरस्तुके ।
प्रविष्टमपि तं विष्णुं न पश्यन्ति पृथग्जनाः ॥
प्रविष्ट इति जानंश्च नैनं जानाति सर्वशः ।
यस्मात् तद्गुणभागोऽयं प्रवेशः प्राणनादि च ॥
तस्मात् प्राणादिनामानि कर्मनामानि तस्य तु ।
तस्मात् प्राणादिनाम्ना य उपास्ते हरिमव्ययम् ॥
अकृत्स्नोपासकः स स्याद् यस्मात् तद्गुणभागवित् ।
पूर्णत्वेऽपि परेशस्य यस्तु तद्गुणभागवित् ॥
अकृत्स्नवित् स्यात् कृत्स्नस्य वेत्ताऽऽत्मेतिविदेव यः ।
चिदानन्दादयो यस्य गुणा आप्ताः सदैव तु ॥
स आत्मेति प्रविज्ञेयो गुणानामाप्तितो हरिः ।
प्राणनादीनि कर्माणि चाऽत्मशब्दोदितानि तु ॥
तदेतदात्मरूपं हि गुणानामाश्रयत्वतः ।
पदनीयमिति प्रोक्तं यतस्तज्ज्ञोऽपि सर्ववित् ॥
सार्वज्ञ्यादिगुणास्तस्य किमुतात्मेश्वरस्य तु ।
एवं सर्वगुणैर्युक्तं सर्वजीवेश्वरं हरिम् ॥
यो वेद तत्तत् साध्यं तु यथा तैस्तैश्च साधनैः ।
प्राप्नुयादेवमेवासौ कीर्तिं च परमं सुखम् ॥
ज्ञानं च परमं विन्देन्मुक्तः सन् नात्र संशयः ।
स एष विष्णुर्भगवान् पुत्राद् वित्तात् तथाऽऽत्मनः ॥
अन्यस्मादपि सर्वस्मात् प्रेष्ठ एव स्वभावतः ।
आत्मनोऽपि प्रियत्वं तु तेनैव कृतमञ्जसा ॥
आत्मनो निरयायैव कुर्यात् कर्माणि नित्यशः ।
यतोऽतः स्वात्मनश्चापि स्वाप्रियत्वमुदाहृतम् ॥
स चेदप्रियकृद् विष्णुर्नाऽत्माऽपि प्रियतां व्रजेत् ।
अस्मिन् प्रिये प्रियं सर्वं तस्मादेकः प्रियो हरिः ॥
स चाऽत्मशब्देनोद्दिष्टो यस्मादाप्तगुणः प्रभुः ।
अतो विष्णोः प्रियं ब्रूयाद् यः स्वात्माद्यं दुरात्मवान् ॥
प्रियरोधं करोषीति तं ब्रूयाद् वैष्णवो महान् ।
एवं वदन् वैष्णवस्तु समर्थः प्रियरोधने ॥
तस्य स्याच्च विशेषेण तदुक्त्यैवातिदुःखिनः ।
तस्मात् सर्वप्रियो विष्णुरित्युपास्ते सदाऽपि यः ॥
नास्य प्रियमनित्यं स्यादस्य प्रीतिः सदा भवेत् ।
तस्मात् सर्वप्रियं विष्णुमुपासीतैव नित्यशः ।
नित्यप्रियकरो विष्णुर्भवेत् तस्याप्यजः स्वयम् ॥‘इत्यध्यात्मे ॥
ब्रह्मविद्यया सर्वं भविष्यन्तः आत्मयोग्यतापूर्तिं प्राप्नुवन्तो महान्तो यदाहुः - ब्रह्मविद्यया स्वयोग्यं सर्वं प्राप्यत इति । नित्यनिर्दुःखानन्दानुभवरूपो हि स्वतः उत्तमो जीवः । तादृशं रूपमज्ञानात् तिरोहितं ब्रह्मविद्ययाऽभिव्यज्यत एव । नचान्यथाऽभिव्यज्यत इति सन्तो यदाहुः । तत्र केचिन्मनुष्या इति मन्यन्ते - स्वरूपमपि ब्रह्मविद्ययैवाभिव्यज्यते चेत् तद् ब्रह्मापि यस्मात् सर्वमभवत् परिपूर्णमभवत् तस्मात् स्वरूपं ज्ञात्वैवाभवत् किमिति । सत्यम् । तदपि स्वरूपं नित्यापरोक्षज्ञानेन सर्वदा जानात्येव । अत एव सर्वदा परिपूर्णमिति तेषां परिहारः - तदात्मानमेवावेत् तस्मात् सर्वमभवदिति । `आत्मा वा इदमेक एवाग्र आसीत्’,`सदेव सोम्येदमग्र आसीत्’ इत्यादिवत् सदातनं ज्ञानं पूर्णभावं चाऽह । इदमग्रे अस्याग्र इति षष्ठ्यर्थद्वितीया । अहं अहेयम्, ब्रह्म परिपूर्णम्, अस्मि सर्वदाऽस्तीति मेयम्, इत्येतैर्विशेषणैरात्मानं स्वरूपमेवावेत् । यद्यहंशब्दोऽस्मच्छब्दार्थवाची, अस्मिशब्दश्चोत्तमपुरुषे तदाऽऽत्मानमिति व्यर्थं स्यात् । अतोऽहमस्मिशब्दावुक्तार्थावेव । अग्रे अनादिकालत एव विद्यमानमात्मानं जानाति च तद् ब्रह्मेत्यर्थः । सर्वनियन्तृत्वेन सर्वगतत्वादहेयम् । `तद् योऽहं सोऽसौ योऽसौ सोऽहम्’,`योऽसावसौ पुरुषः सोऽहमस्मि’ इत्यादिष्वप्यहंशब्दोऽन्तर्यामित्वेनाहेयत्ववाची । `तत् सत्यं स आत्माऽतत् त्वमसि’ इति भेदस्य नवकृत्वोऽभ्यासात् । `तद्योऽहं सोऽसौ’,`अहं ब्रह्मास्मि’ इत्यादिवाक्यानां सम्यगर्थापरिज्ञानाद् भ्रान्तिप्राप्तस्त्वभेदः `अतत् त्वमसि’ इति नवकृत्वो निराक्रियते । `तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं कुतस्तु खलु सोम्यैवं स्यात् कथमसतः सज्जायेत’ इत्यादिना `असद् वा इदमग्र आसीदसतः सदजायत’ इत्यादिश्रुत्यर्थापरिज्ञानोत्थभ्रमो यथा निवार्यते, एवं `अतत् त्वमसि’ इति वाक्येनापि । `स आत्मा’ इति शब्दाच्च । आत्मशब्दस्य परमात्मनि मुख्यत्वेऽपि जीवे भ्रान्तिरुपपद्यते । तन्निवृत्त्यर्थं च `अतत् त्वमसि’ इत्याह ।
`यच्चाऽप्नोति यदादत्ते यच्चात्ति विषयानिह ।
यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते ॥’
इत्यादिना व्याप्त्यादिकं `ऐतदात्म्यमिदं सर्वम्’ इत्यनेनोच्यते । `पूर्णत्ववाच्यात्मशब्द आत्मा पूर्णत्वतो हरिः’ इत्यादिना `स आत्मा’ इति पूर्णत्वमभिधीयते । `यथा सोम्यैकेन मृत्पिण्डेन’ इति सदृशविज्ञानेन सदृशान्तरं विज्ञातं भवतीत्युक्तम् । लोहमणिनेति मणिशब्दात् प्रधानविज्ञानेनाप्रधानं सर्वं विज्ञातं भवतीति । `मणिर्मुखं प्रधानश्चेत्युत्तमस्य वचो भवेत्’ इति वचनात् । `यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्’ इति पुनरपि सदृशेन विज्ञातेन सदृशान्तरं विज्ञातं भवतीत्यभ्यासस्तात्पर्यार्थम् । उपादानविवक्षायामेकत्वविवक्षायां चैकेनेति विशेषणं पिण्डेनेति एकेन मणिनेति पुनरेकेनेति च विशेषणानि व्यर्थानि भवेयुः । तस्मिन् पक्षे मृदा विज्ञातया, लोहेन विज्ञातेन, कृष्णायसेन च विज्ञातेन सर्वं विज्ञातं भवतीति वक्तव्यम् । नह्येकमृत्पिण्डविकारभूतं सर्वं मृन्मयम् । नच तेनैक्यं सर्वस्य विद्यते । नचैकलोहमणिकार्यं सर्वलोहमयम् । नच तेनैकीभूतम् । नचैकनखनिकृन्तनकार्यं सर्वं कार्ष्णायसम् । `वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ इत्यादि प्रधानपरिज्ञाने गुणभूतं परिज्ञातमिव भवतीत्यत्र दृष्टान्तान्तरम् । वाचा नाम्नामारम्भणं विकारः । विविधत्वेन कर्तुं योग्यमिति विकारः । सत्यं सर्वदा विद्यमानं नामधेयं मृत्तिकेत्येव । सङ्केतरूपेण नानाविधानि नामानि कर्तुं शक्यन्ते । तथाऽपि शास्त्रप्रयोगसिद्धमृत्तिकादिनामपरिज्ञानात् तत्तन्नामविद् भवति । एवं नित्यासाम्यातिशयसर्वगुणपूर्णपरमेश्वरपरिज्ञानात् सर्वविद् भवतीति । यथैकस्मिन् जनपदे प्रधानपुरुषेषु परिज्ञातेष्वाहूतेष्वागतेषु विनाशितेषु रक्षितेषु वा सर्वो जनपदः परिज्ञात आहूत आगतो विनाशितो रक्षित इत्युच्यते । यथा च राजसु नाशितेषु - `नाशिता पृथिवी सर्वा धार्तराष्ट्र2ेण दुर्नयैः’ इति । यथा च केषाञ्चित् पुरुषाणां रक्षणेन- `शशास पृथिवीं सर्वां सशैलवनकाननाम्’ इति । एवं सर्वोत्तमस्य परमेश्वरस्य विज्ञानात् सर्वं विज्ञातमिव भवति । नच मृन्मात्रविज्ञानाद् घटशरावादिसंस्था विज्ञाता भवन्ति मुख्यतः । तथा सति दृष्टमृदः पुरुषस्य घटशरावादिजिज्ञासा न स्यात् । सृष्टिकथनं च प्राधान्यार्थम् । `त्रीणि रूपाणीत्येव सत्यम्’ इत्यपि प्राधान्यार्थमेव अभिमानिदेवतापेक्षया
`तेजोऽभिमानवान् ब्रह्मा वायुश्चाबभिमानवान् ।
रुद्रः क्षित्यभिमानी चाप्येतन्मयमिदं जगद् ॥
अभिमन्यमानसहितास्त्रय एतेऽभिमानिनः ।
विष्णोर्जाताः क्रमेणैव पूर्वस्मादुत्तरोत्तरम् ॥
तेजोऽबन्नाभिधा तस्मादेषामेव प्रकीर्तिता ।
एते च त्रीणि रूपाणीत्यभिधागोचराः सुराः ॥
ब्रह्मवायुगिरीशेभ्यस्तेभ्यो जातमिदं जगत् ।
अतोऽग्निसूर्यसोमानामपि रूपं तदुद्भवम् ॥
अतोऽग्निसूर्यसोमानां नामाप्येषां प्रकीर्तितम् ।
सादनाद् यमनाच्चैव सत्यमेषां त्रयः सुराः ॥
तेषां सत्यं हरिः साक्षाद् यतस्तेषां नियामकः ।
प्रधाने सत्यशब्दोऽयं श्रुतिभिः समुदाहृतः ॥
यथैव सर्वलोहानां प्रधानं काञ्चनं स्मृतम् ।
यथा मृत्पिण्डसदृशा मृन्मयाः सर्व एव च ॥
यथा कार्ष्णायसं सर्वं समं कार्ष्णायसान्तरे ।
एवं सर्वस्य जगतः सदृशः श्रेष्ठ एव च ॥
हरिस्तेन तु तज्ज्ञानाज्जगज्ज्ञातमिवाखिलम् ।
स स्रष्टा चैव संहर्ता नियन्ता रक्षिता हरिः ॥
तेन व्याप्तमिदं सर्वमैतदात्म्यमतो विदुः ।
स आत्मा पूर्णगुणतः स सूक्ष्मः सर्वगः सदा ॥
सर्वोत्तमत्वात् सत्यं तज्जीवाभिन्नं तदासुराः ।
विदुर्न त्वं तथा विद्धि श्वेतकेतो कदाचन ॥
किन्तु विष्णुः पृथक् सर्वदेवदेवेश्वरः प्रभुः ।
पृथगेवाहमत्यल्पशक्तिज्ञानसुखादिकः ॥
इत्येव विद्धि सततमतो मोक्षमवाप्स्यसि ।
सर्वोत्तम इति ज्ञातो विष्णुर्मोक्षमिमं नयेत् ॥
जीवरूपतया ज्ञातस्तमोऽन्धं प्रापयेत् प्रभुः ।
विष्णोर्दासतया विष्णोः सामीप्यं मोक्ष उच्यते ॥
न विष्णुत्वं तु मोक्षः स्यादेषोऽहमिति चास्मृतेः ।
संसारसागरात् तीर्णो मुक्तोऽहमिति चास्मृतिः ॥
यदा तदा विमोक्षेण किं फलं ज्ञानिनो भवेत् ।
यथा मधुकरैर्नानाविधपुष्परसः सह ॥
मधुत्वं प्रापितः संविदभावान्न सुखी भवेत् ।
यथा नद्यो न मुक्ता हि समुद्रं प्रापिता अपि ॥
इयमस्मीति चाज्ञानाद् यथा सुप्तो न मुच्यते ।
प्रलयेऽपि हरिं प्राप्तः पृथक्त्वज्ञानवर्जनात् ॥
एवं जीवेशयोर्भेदज्ञानाद् विष्णोः सदोच्यताम् ।
ज्ञात्वैव मुच्यते तस्मादेवं जानीहि पुत्रक ॥‘इत्यादि ब्रह्माण्डे ।
`मग्नस्य हि परेऽज्ञाने किं नु दुःखतरं भवेत् ।‘इतिचमोक्षधर्मे ।
`तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयामास’ इत्युक्त्वा
`न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं नच कालविक्रमः ।
न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥’
इति च भागवते ।
`अदर्शयत् स्वकं लोकं ब्रह्मणे विष्णुरव्ययः ।
यस्मात् पदात् परं नास्ति यत्र मुक्ता उपासते ॥’
इति च हरिवंशेषु ।
अतः `परं न यत् पदम्’ इत्यत्रापि यच्छब्दस्य यस्मादित्यर्थः ।
`यत्तदित्यादयः शब्दाः पञ्चम्यर्थाश्च कीर्तिताः’ इति च ।
`विद्याऽऽत्मनि भिदाबोधः’, `क्ष्माम्भोनलानिलवियन्मनइन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः ।
अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः । एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः ॥
तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः’,
`भेददृष्ट्याऽभिमानेन निःसङ्गेनापि कर्मणा’ इत्यादि च ।
`आधिपत्यमृते चैव आनन्देन च कर्मणा ।
सर्वे ते ब्रह्मणस्तुल्या भोगेन विषयेण च ॥
नानात्वेनाभिसम्बुद्धास्तदा तत्कालभाविना ।
प्रकृतौ करणातीताः स्वात्मन्येव व्यवस्थिताः ॥
प्रदर्शयित्वा ह्यात्मानं प्रकृतिस्तेषु सर्वशः ।
पुरुषान्यबहुत्वेन प्रतीता न प्रवर्तते ॥
प्रवर्तति पुनः सर्गे तेषां सा न प्रवर्तते ।
संयोगः प्रकृतेर्नैषां मुक्तानां तत्त्वदर्शनात् ॥
समा दुःखनिवृत्तिस्तु मुक्तानामपि सर्वशः ।
मानुषादिविरिञ्चान्तं सुखं मुक्तौ शतोत्तरम् ॥’
इत्यादि वायुप्रोक्ते ।
`ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः ।
शास्त्रतत्त्वमविज्ञाय तथावादबला जनाः ॥
कामक्रोधाभिभूतत्वादहङ्कारवशं गताः ।
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ॥
ब्रह्मस्तेना निरानन्दा अपक्वमनसोऽशिवाः ।
वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते ॥
तेषां तमःशरीराणां तम एव परायणम् ॥’
`अन्य ईशस्तथाऽन्योऽहमिति ज्ञानं विपश्चिताम् ।
आधिक्यज्ञानमीशस्य यतोऽन्यत्वेन युज्यते’
`यतः स रूपतश्चान्यो जातितः श्रुतितोऽर्थतः ॥
कथमस्ति स इत्येव सम्बद्धः स्यादसंहितः’
`बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु ॥
को ह्यत्र पुरुषश्रेष्ठस्तं भवान् वक्तुमर्हति ।
वैशम्पायनः -
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ।
बहूनां पुरुषाणां हि यथैका योनिरुच्यते ॥
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्’
इति च मोक्षधर्मे ।
`द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस्त्वन्यः परमात्येत्युदाहृतः ।
यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः ॥
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद् भजति मां सर्वभावेन भारत ॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ॥’ इति च ॥
`ब्रह्मणस्तद्गुणानां च भेददर्श्यधरं तमः ।
भेदाभेदप्रदर्शी च मध्यमं तु तमो विशेत् ॥
ईषद्भेदप्रदर्शी च तम एवोत्तरं व्रजेत् ।
विजानीयात् ततो ब्रह्म सदा सर्वगुणात्मकम् ॥
गुणानां च विशेषोऽस्ति न विभेदः कथञ्चन ।
ते च सर्वे गुणाः पूर्णास्तच्छरीरः परः स्मृतः ॥
आनन्दज्ञानशक्त्यादिदेहं विष्णुं तु ये जनाः ।
अदेहं भूतदेहं वा विदुस्ते चाधरं तमः ॥
तथा प्रकृतिदेहज्ञाः कर्मदेहविदोऽपि वा ।
तस्मादानन्दचिद्देहं चिदानन्दशिरोमुखम् ॥
चिदानन्दभुजं ज्ञानसुखैकपदसाङ्गुलिम् ।
आ केशादा नखाग्रेभ्यः पूर्णचित्सुखशक्तिकम् ॥
प्रत्येकं च गुणांस्तांस्तु सदा सर्वगुणात्मकान् ।
ज्ञात्वा विमुच्यते विष्णोः प्रसादान्मानुषोऽपि सन् ॥
जीवाभेदं तथाऽभेदं जगता ये विदुः प्रभोः ।
तेऽपि यान्ति तमो घोरमधरं ब्रह्मतस्कराः ॥
भेदाभेदं विदुर्ये च जीवैस्तु जगताऽपिवा ।
परस्य ब्रह्मणो यान्ति तमस्तेऽप्युत्तरं सदा ॥
अभेदज्ञाः प्रकृत्या च भेदाभेदविदस्तथा ।
तेऽपि यान्ति तमो घोरमधरं चोत्तरं क्रमात् ॥
तस्मात् सर्वोत्तमं विष्णुं पूर्णसर्वगुणोच्छ्रि2तम् ।
विजानीयाद् विमुक्त्यर्थं सर्वतश्च विलक्षणम् ॥
अन्धन्तमः प्रविशन्ति ये देहं परमात्मनः ।
भिन्नं विजानते विष्णोर्भिन्नाभिन्नविदोऽपि वा ॥
अन्धन्तमः प्रविशन्ति प्रादुर्भावांस्तु येऽपिवा ।
सर्वभूतस्थितान् वाऽपि भिन्नान् जानन्ति येऽखिलान् ॥
भिन्नाभिन्नविदो वाऽपि शिरःपाण्यादिकं तथा ।
भिन्नं मिथो विजानीयुर्भिन्नाभिन्नविदोऽपि वा ॥
तेऽपि यान्ति तमो घोरं यतो नैवोत्थितिः क्वचित् ।
प्रादुर्भावतया ये च तदन्यान् जानते विभोः ॥
तेऽपि यान्ति तमो घोरं तस्मान्नैवंविदो विदुः ।
मत्स्यकूर्मक्रोडसिंहवटुभार्गवराघवाः ।
कृष्णबुद्धौ कल्किदत्तहयशीर्षैतरेयकाः ।
पाराशर्यश्च कपिलो वैकुण्ठो वृषभस्तथा ।
यज्ञो धन्वन्तरिश्चैव स्त्रीरूपस्तापसो मनुः ॥
नारायणो हरिः कृष्ण उपेन्द्राः सर्व एव च ।
एवमाद्याः हरेः साक्षात् प्रादुर्भावाः प्रकीर्तिताः ॥
श्रीर्भूर्दुर्गाऽम्भ्रिणी ह्वीश्च महालक्ष्मीश्च दक्षिणा ।
सीता जयन्ती सत्या च रुग्मिणीत्यादिभेदिता ॥
प्रकृतिस्तेन चाऽविष्टा तद्वशा न हरिः स्वयम् ।
ततोऽनन्तांशहीना च बलज्ञप्तिसुखादिभिः ॥
गुणैः सर्वैस्तथाऽप्यस्य प्रसादाद् दोषवर्जिता ।
सर्वदा सुखरूपा च सर्वदा ज्ञानरूपिणी ॥
प्राणः सूत्रं महान् ब्रह्मा चित्तं वायुर्बलं धृतिः ।
स्थितिर्योगश्च वैराग्यं ज्ञानं प्रज्ञा स्मृतिः सुखम् ॥
मेधा मुक्तिर्विष्णुभक्तिरादिगोपो महाप्रभुः ।
ऋजुः सुमानो विज्ञाता महाध्याता महागुरुः ॥
हनूमान् भीम आनन्द इत्यादिबहुरूपिणः ।
हिरण्यगर्भा येऽतीता ये भाव्या यश्च वर्तते ॥
सर्वे विष्णुवशा नित्यं विमुक्तेरप्यनन्तरम् ।
एतेभ्यः श्रीस्तु मुक्तेभ्यो गुणैः कोटिगुणोत्तरा ॥
ज्ञानानन्दबलादिभ्यः सर्वेभ्यः सर्वदैव तु ।
भिन्ना भिन्नाश्च ते सर्वे ब्रह्माणस्तु परस्परम् ॥
अभिमानः पृथक् तेषामानन्दः सह भुज्यते ।
ते तु भिन्ना हरेर्नित्यं श्रियोऽन्येभ्यस्तथैव च ॥
आविष्टो विष्णुरेतेषु न विष्णुस्तत्स्वरूपकः ।
विष्णोरतिप्रियत्वात् ते ह्यध्यर्धा इति चोदिताः ॥
विष्णोः केवलभेदेऽपि शेषादिभ्यः प्रिया यतः ।
विष्णोः प्रियत्वे तद्भक्तौ तज्ज्ञाने च श्रियस्तु ते ॥
मुक्ता अप्यवरा नित्यं सर्वे कोटिगुणेन च ।
सरस्वती च गायत्री श्रद्धाऽऽद्या प्रीतिरेव च ॥
सर्ववेदात्मिका बुद्धिरनुभूतिः सुखात्मिका ।
गुरुभक्तिर्हरौ प्रीतिः सर्वमन्त्रात्मिका भुजिः ॥
शिवकन्येन्द्रसेना च द्रौपदी काशिजा तथा ।
चन्द्रेत्यादिस्वरूपायास्तेभ्यः शतगुणावराः ॥
विष्णुभक्तौ च तत्प्रीतौ ज्ञानानन्दादिकेषु च ।
मुक्तेः पश्चादपि गुणैः सर्वैर्ब्रह्मभ्य ईरिताः ॥
शेषः सदाशिवश्चोर्ध्वस्तपोऽहङ्कार एव च ।
नरोऽवटो लक्ष्मणश्च रौहिणेयः शुकस्तथा ॥
सद्योजातो वामदेवश्चाघोरस्तत्पुमानपि ।
दुर्वासा द्रौणिरौर्वश्च जैगीषव्यादिरूपकः ॥
पूर्वोक्तैश्च गुणैः सर्वैस्ताभ्यः शतगुणावराः ।
मुक्तेः पश्चादपि सदा अतीतानागताश्च याः ॥
अतीतानागता ये च सर्वशोऽप्यवराः सदा ।
एवं सुपर्णाः सर्वेऽपि समाः शेषैः सदैव तु ॥
सर्वैर्गुणैस्तथा मुक्तौ तद्भार्यास्तच्छतावराः ।
ताभ्यः शतावरास्त्विन्द्राः पुरन्दर इतीरिताः ॥
तेभ्यः शतावरास्त्वन्ये इन्द्राश्चान्याश्च देवताः ।
द्वित्रिपञ्चादिगुणतः परस्परविशेषिणः ॥
सनत्कुमारास्तु सदा पुरन्दरसमा मताः ।
सनकाद्या नारदश्च दक्षभृग्वादयोऽपि च ॥
देवावरा यथा तद्वन्मनवोऽपि प्रकीर्तिताः ।
त्रिचतुर्भागभेदेन तेऽप्यन्योन्यविशेषिणः ॥
वाली गाधिर्विकुक्षिश्च पार्थ इन्द्रः पुरन्दरः ।
सुदर्शनश्च भरतः प्रद्युम्नः स्कन्द एव च ॥
सनत्कुमारः कामश्चेत्येक एव व्यवस्थितः ।
स्वायम्भुवो मनुर्दक्षो वायुः स्पर्शाधिपस्तथा ॥
बृहस्पतिश्चानिरुद्ध एते सूर्यादितोऽधिकाः ।
सूर्यश्च चन्द्रमाश्चैव यमश्चैते त्रयः सुराः ॥
प्रोक्तेभ्यस्त्ववराश्चान्यदेवेभ्योऽपि सदाऽधिकाः ।
कार्तवीर्यः पृथुश्चैव दौष्यन्तिर्भरतस्तथा ॥
शशबिन्दुश्च मान्धाता ककुत्स्थाद्यास्तथाऽपरे ।
सर्वे ते विष्णुनाऽऽविष्टा विष्णोर्भिन्नाः सदैव तु ॥
शतावराश्च देवेभ्यः कर्मदेवा इति स्मृताः ।
तुम्बुरुप्रमुखा ये च तथोर्वश्यादिका अपि ॥
विश्वामित्रब्रह्मपुत्रानृते चाप्यृषयोऽखिलाः ।
सूर्यादिभ्योऽधमाश्चैव मन्वादिभ्यस्तथैव च ॥
वैवस्वतो मनुर्नित्यं विष्ण्वावेशी ततोऽधिकः ।
कार्तवीर्यादिराजभ्यो देवभृत्याः शतावराः ॥
आजानदेवास्ते प्रोक्तास्तेभ्यस्तु पितरश्चिराः ।
पितॄणां सप्तकं यत्तत् कर्मदेवसमं मतम् ॥
विश्वामित्रो ब्रह्मपुत्रैः समो मुनिरुदाहृतः ।
आचार्यः पितृणां चासौ पितृभिः सह पठ्यते ॥
आजानेभ्यश्च पितरो ह्यष्टभ्योऽन्ये शतावराः ।
कर्मदेवगणा अष्टगन्धर्वास्तत्परे शतम् ॥
आजानदेवास्तेभ्योऽन्ये पितृभ्यश्च शतावराः ।
स्वमुखेनैव देवैर्य आज्ञाप्याः सर्वदा गणाः ॥
आख्याता देवगन्धर्वा ये त्वन्यमुखगोचराः ।
मानुषास्ते तु गन्धर्वास्तेभ्यस्ते च शतावराः ॥
तेभ्यः शतावराश्चैव मनुष्येषूत्तमा गणाः ।
देवादिष्वेषु सर्वेषु प्रोक्ता अपि विशेषिणः ॥
पञ्चांशतो दशांशाद् वा स्वस्वजात्यां परस्परम् ।
देवस्त्रियो दशांशोनाः स्वपतिभ्यस्तथा पराः ॥
अष्टांशोनाः प्रविज्ञेया यासां मुक्तौ सह स्थितिः ।
अनादिश्च विशेषोऽयं सर्वेषां मानुषादिनाम् ॥
इयं नीचोच्चता क्वापि न केनापि ह्यपोदितुम् ।
शक्यते योऽन्यथा कर्तुमिच्छेत् सोऽपि तमो व्रजेत् ॥
योऽपि वेद समत्वेन सर्वान् नीचोच्चतः स्थितान् ।
सोऽपि याति तमो घोरं यश्च साम्यमुदीरयेत् ॥
मानुषोत्तममारभ्य ब्रह्मान्तानां प्रयत्नातः ।
विष्णोर्भक्तिज्ञानपूर्वं भवेन्मुक्तिः प्रसादतः ॥
भक्तिज्ञानादयः सर्वे सर्वेषामप्यनादयः ।
अनादिकालादारभ्य वृद्धानामुत्तरोत्तरम् ॥
तत्तद्योग्यतया पूर्तौ विष्णोदृर्ष्टिः प्रजायते ।
यथोदञ्चनकुम्भादेः सरित्सागरयोरपि ॥
अल्पेन महता वाऽपि पूर्तिर्योग्यतया भवेत् ।
एवं नरादिब्रह्मान्तजीवानां साधनैरपि ॥
अनादिसिद्धैर्भक्त्याद्यैः पूर्तियोग्यतया भवेत् ।
अल्पैः पूर्तिस्तथाऽल्पानां महद्भिर्महतामपि ॥
भक्त्याद्यैर्जायते तेषां साधनैर्नान्यथा क्वचित् ।
श्रवणं मननं चैव ध्यानं भक्तिस्तथा दृशिः ॥
ज्ञानं चोक्तविशेषाणां सर्वेषां साधनं भवेत् ।
त्यक्त्वैतानि न कस्यापि भवेन्मोक्षः कदाचन ॥
सर्वोत्तमतया ज्ञानपूर्वकः स्नेह एव तु ।
भक्तिर्विष्णौ समुद्दिष्टा तदन्येषां तु योग्यतः ॥
विष्णुभक्तिर्देवभक्तिर्गुरौ भक्तिस्तथैव च ।
तत्तच्छ्र2ैष्ठ्यानुसारेण मुक्तौ नियतसाधनम् ॥
भक्तिपूर्तौ भवेन्मुक्तिस्तदभावे च नो भवेत् ।
भक्तिर्ज्ञानं तथा ध्यानं मुक्तानामपि सर्वशः ॥
नियमेन न हीयन्ते मुक्तानां ते स्वरूपकाः ।
साधनानि तु सर्वाणि भक्तिज्ञानप्रवृद्धये ॥
नैवान्यसाधनं भक्तिः फलरूपा हि सा यतः ।
स्वात्मोत्तमेषु विद्वेषात् तमो नियमतो व्रजेत् ॥
गुणानामल्पताज्ञानं तत्स्त्रीरागस्तथैव च ।
तत्प्रतीपे च या बुद्धिस्त्रिविधो द्वेष उच्यते ॥
द्वेषोज्झिता च या भक्तिः सा मोक्षं नियमान्नयेत् ।
निर्दुःखं तु सुखं नित्यं मोक्ष इत्यभिधीयते ॥
चिदानन्दशिरोदेहपाणिपादात्मकाः सदा ।
सर्वदोषविनिर्मुक्ता मुक्ताः क्रीडन्ति नित्यशः ॥
अनादिकालादारभ्य या भार्यास्ताः सदैव तु ।
ब्रह्मादीनां विमुक्तौ च भार्याः स्युर्नियमात् सदा ॥
न कदाचित् विमुक्तानां भार्याः काश्चित् स्युरन्यगाः ।
न कदाचिद् वियोगश्च न विद्वेषो नचारतिः ॥
मोदन्ते सहिताः सर्वे सदा विष्णुपरायणाः ॥’
इत्यादि पैङ्गिश्रुतिः ।
`एकमेवाद्वितीयम्’,`नेह नानाऽस्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम्’,`मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ।
एकधैवानुद्रष्टव्यं नेह नानाऽस्ति किञ्चन । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति । यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति’ इत्यादि च ।
इहेति परमेश्वररूपेषु अवयवेषु धर्मेषु च किञ्चन नाना नास्तीत्यर्थः । `एकमेवाद्वितीयम्’ इति तत्समोऽधिको वा तदनधीनो वा नास्तीति सतात्पर्यं निषिद्ध्यते ।
`एक एवाद्वितीयोऽसौ हरिर्देवेषु सर्वदा’,`एक एवाद्वितीयोऽसावश्वमेधः क्रतुष्वपि’,`एकैव चाद्वितीया सा विष्णुभक्तिस्तु साधने’,`एक एवाद्वितीयोऽसौ प्रणवो मन्त्र उच्यते’ इत्यादिवचनात् ।
यथैकमुत्तमपुरुषमपेक्ष्य तस्मिन् पुरे स एक एव नान्योऽस्तीत्युक्तेऽपि तत्सदृशस्तदधिको वाऽन्यो नास्तीत्युक्तं भवति ।
`एक एवाद्वितीयोऽसौ तदतन्त्रस्य वर्जनात् ।
तत्समस्याधिकस्यापि ह्यभावात् पुरुषोत्तमः ॥‘इति च ब्राह्मे ।
स्वगतभेदाविवक्षायामिहेति विशेषणं व्यर्थं स्यात् । नानेवेति भेदाभेदनिराकरणार्थम् । `विरुद्धोभयसंयोग इवशब्दः प्रदिश्यते’ इति शब्दतत्त्वे ।
पर्वतेषु दुर्गे पर्वताग्रे वृष्टं यथाऽधो विधावति एवं पृथग् दृष्टान् धर्मानन्वेव तदनन्तरमेवाधोऽन्धे तमसि विधावति ।
`भेदेन दर्शनाद् वाऽपि भेदाभेदेन दर्शनात् ।
विष्णोर्गुणानां रूपाणां तदङ्गानां मुखादिनाम् ।
तथा दर्शनकालात्तु क्षिप्रमेव तमो व्रजेत् ॥’ इति ब्रह्माण्डे ।
`जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’,`द्वा सुपर्णा सयुजा सखाया’,`यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान्त्सह ब्रह्मणा विपश्चितेति’,`एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन्’,`अथात आनन्दस्य मीमांसा भवति’ इत्यारभ्य मानुषादिब्रह्मान्तानां मुक्तानामानन्दे शतगुणविशेषश्चोच्यते ।
मुक्तानां चायं विशेषः । `श्रोत्रियस्य चाकामहतस्य’ इति विशेषणात् । नहि ब्रह्मादीनामनधिगतश्रुतित्वं केषाञ्चिदस्ति । नच ब्रह्माण एव केचनाकामहताः केचन कामहताः इत्यत्र प्रमाणमस्ति । तस्माच्छ्र2ोत्रिय इति प्राप्तश्रुतिफलत्वान्मुक्त उच्यते । अकामहतत्वं च मुख्यं मुक्तस्यैव ।
`प्राप्तश्रुतिफलत्वात्तु श्रोत्रियाः प्राप्तमोक्षिणः ।
त एव चाऽप्तकामत्वात् तथाऽकामहताः श्रुताः ॥’
इति भारते ।
`ब्रह्मणोऽपि ह्यमुक्तस्य नाकामहतता परा ।
यतस्तस्यापि कामस्य क्षणव्यवहितिर्भवेत् ॥’ इति च ।
कामहतता कामेनोपद्रवः -
`ब्रह्मणो ह्यल्पदुःखं स्यात् तदप्यनभिमानतः ।
नास्त्यात्मसम्बद्धतया भोगाभावात् कथञ्चन ॥’ इति च ।
नचान्यस्य कस्यचिच्छ्र2ोत्रियस्याकामहतस्य च ब्रह्मणा समं सुखं युज्यते ।
`ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम् ॥’
इत्यादिना श्रोत्रियत्वादिगुणैस्तस्यैवान्येभ्य आधिक्यात् ।
नचेन्द्रपदाद् विरक्तस्येन्द्रसमं सुखं ब्रह्मपदाद् विरक्तस्य तत्सममित्यत्र किञ्चिन्मानमस्ति । दृष्टवस्तुनि विरागे आयासाभावात् कश्चित् सुखविशेषो दृश्यते । अन्यत्र ब्रह्मपदाद् विरक्तस्येन्द्रादिपदाद् विरक्तस्य च नहि कश्चिद् विशेषो दृश्यते । अतोऽनुभवविरुद्धत्वाद् यत्किञ्चिदेतत् ।
`नरादिब्रह्मपर्यन्तं विमुक्तानां शतोच्छ्र2यः ।
निःशेषदुःखहीनानां नित्यानन्दैकभोगिनाम् ।
अप्यानन्दे मिथो ह्युक्तस्त्वध्वर्यूणां श्रुतौ पृथक् ॥’
इति हरिवंशेषु ।
`यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते’ इत्यत्रापि एतस्मिन्निति विशेषणात् स्वगतभेदनिषेध एव ।
`अभेदमीशरूपाणां भेदं जीवेशयोरपि ।
यः पश्येत् स्थिरया बुद्ध्या भक्तिमान् स विमुच्यते ॥’
इति भविष्यत्पुराणे ॥
`परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः । स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा’,`यस्य लोकं समासाद्य स्वरूपमभिपद्यते । जीवः पर्येति विष्णोश्च समीपे तत्प्रसादतः । यत्प्रसादात् स पर्येति स विष्णुः पुरुषोत्तमः’,`अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदग्ध्नास उपकक्षास उत्वे ह्वदा इव स्नात्वा उ त्वे ददृश्रे ।’ `दुग्धसागरगाः केचित् केचिदश्वत्थकक्षगाः । अमृतह्वदेषु केचिच्च पिबन्ति स्नातवत् सदा ।
केचित् पश्यन्ति तं देवं सदा केचित् समीपगाः ॥’
`आणिं न रथ्यममृताऽधितस्थुरिह ब्रवीतु य उ तच्चिकेतत्’, `रथ्यमाणिमिवाऽश्रित्य मुक्ताः सर्वे व्यवस्थिताः । यं विष्णुं देवदेवेशं नमस्तस्मै स्वयम्भुवे’ इत्यादि च ।
`तौ यत्र विहीयेते’ इत्यत्रापि परमात्मैव ।
`शरीरानभिमानी यो हृदि संस्थो जनार्दनः ॥
अभिमानवतो देहे जीवस्य स नियामकः ।
स एव सूर्यसंस्थश्च हंसः सोऽहमिति श्रुतः ॥
हन्तृत्वाद्धंसनामाऽसौ सोऽहं चासावहेयतः ।
स एव सूर्यसंस्थेन रूपेणैवाक्षिणि स्थितः ॥
सूर्यसंस्थाद्धि रूपात् स विभक्तोऽक्षिणि संस्थितः ।
गच्छतो म्रियमाणस्य तावुभावपि देहतः ॥
तयोर्देहविहाने तु भवेतारिष्टदर्शनम् ।
तदा सञ्चिन्तयेद् देवं तमेव पुरुषोत्तमम् ॥’
इत्यादि हरिवंशेषु ।
`क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचिता अनित्याः ।
आविर्हिताश्चापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः ॥
क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात् स्वयञ्ज्योतिरजः परेशः ।
नारायणो भगवान् वासुदेवः स्वमाययाऽऽत्मन् व्यवधीयमानः ॥’
इति भागवते ।
`स्वेच्छयैवाऽवृतो विष्णुर्जीवे तिष्ठति नित्यदा ।
योऽसौ नियामयन् जीवं क्षेत्रज्ञ इति शब्दितः ॥’
इति हरिवंशेषु ।
`अशरीरः प्रज्ञात्मा’ इति विशेषणाच्च परमात्मा । नहि जीवस्याशरीरत्वममुक्तस्य । `एष त आत्माऽन्तर्याम्यमृतोऽतोऽन्यदार्तम्’इति च । नहि जीवादन्यस्याऽर्तिरुपपद्यते ।
`सर्वेषां भूतानामन्तरपुरुषः सम आत्मेति विद्यात्’ इत्यादिश्रुतिभ्यश्च ॥
`ब्रह्मादयो हि भूतानि तेषामन्तर्गतो हरिः ।
समः स सर्वभूतेषु य एवं वेद तत्त्ववित् ॥’ इति भारते ।
नच मुख्ये सति लक्षणा नाम युज्यते । नच मुख्यत एव जीवेशयोरैक्यं युक्तम् । प्रत्यक्षविरोधादेव । `तमेवं विद्वानमृत इह भवति
नान्यः पन्था अयनाय विद्यते’ इत्यादेः सहस्रशीर्षत्वादिसर्वेशत्वसर्वज्यायस्त्वादिज्ञानादेवमोक्षः प्रतीयतेऽनन्ययोगेन ।
नचात्रैक्यज्ञानमुक्तम् । `पुरुष एवेदं सर्वम्’ इत्यत्रापि सर्वेशितृत्वमेवोक्तम् । `उतामृतत्वस्येशानः’ इति वाक्यशेषात् ।
`पुरुष एवेदं सर्वं भूतं भव्यं भवच्च यत् ।
इत्युच्यते तदीशत्वान्नतु सर्वस्वरूपतः ॥
भूतभव्यादिजातस्य मुक्तानामपि चेश्वरः ।
इत्युच्यते श्रुतौ विष्णुः सर्वदा पुरुषोत्तमः ॥’ इति हि भारते ॥
`सर्वस्मादुत्तम इति सम्यक् स्नेहयुता मतिः ।
सुस्थिरा भक्तिरुद्दिष्टा तया मोक्षो नचान्यतः ॥
तया मोक्षो भवत्येव सा चेत् पूर्णा स्वयोग्यतः ।
अपरोक्षदृशा युक्ता सा पूर्णेत्यभिधीयते ॥
अपरोक्षदृशिश्चापि महाचार्योक्तदर्शनम् ।
सोऽपि यन्मोक्षनियतं मनसा समुदीरयेत् ॥
तस्य दर्शनतो याति मुक्तिं नास्त्यत्र संशयः ।
ध्यानं च गुरुशुश्रूषा नित्यनैमित्तिकाः क्रियाः ॥
तीर्थदानजपाद्याश्च स्वाध्यायो हरिकीर्तनम् ।
द्वादश्यादिव्रतं चैव तुलस्याद्यैरथार्चनम् ॥
सर्वं भक्त्यर्थमुद्दिष्टं निष्फलं तत् तया विना ।
विष्णुभक्तियुतो मुक्तिं याति नान्यः कथञ्चन ॥
एतदन्यत्तु यच्छास्त्रं न तच्छास्त्रं कुर्वत्म तत् ।
विष्णोर्भक्तिमृते मुक्तिर्जीवाभेदो हरेरपि ॥
शिवब्रह्मादिसाम्यं च हरेर्मोहार्थमुच्यते ।
दैत्यानां मोहनार्थाय विष्णोरन्यसमानता ॥
हीनता वोच्यते शास्त्रैर्न तद् ग्राह्यं मनीषिभिः ।
विष्णुवायुगिरीशेन्द्रदेवविप्राः क्रमात् सदा ॥
सामर्थ्यतो विहीनास्तु गुणैः सर्वैस्तथैव च ।
हीनो विष्णुर्न कस्यापि सर्वतश्चोत्तमोत्तमः ॥
एतदन्यत्तु यच्छास्त्रं तदासुरविमोहनम् ।
तस्मात् सर्वोत्तमं विष्णुं निश्चित्य परमं व्रजेत् ॥’
इति हरिवंशेषु ।
`तुला पुरुषदानाद्यैरश्वमेधादिभिर्मखैः ।
वाराणसीप्रयागादितीर्थस्नानादिभिः प्रिये ॥
गयाश्राद्धादिभिः पित्र्यैर्वेदपाठादिभिर्जपैः ।
तपोभिरुग्रैर्नियमैर्यमैर्भूतदयादिभिः ॥
गुरुशुश्रूषणैः सत्यैर्धर्मैर्वर्णाश्रमोदितैः ।
ज्ञानध्यानादिभिः सम्यक् चरितैर्जन्मजन्मनि ॥
न यान्ति तत् परं श्रेयो विष्णुं सर्वेश्वरेश्वरम् ।
सर्वभावैरनाश्रित्य पुराणपुरुषोत्तमम् ॥’ इति पादम्े ॥
`भावो भक्तिः समुद्दिष्टस्तद्वान् भावुक उच्यते ।’ इति नारसिंहे ॥
`मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते ॥’
इति श्रीभागवतवचनं च परायण इति विशेषणान्न नारायणायनत्वं विना मुक्तिद्योतकम् ॥
नच सिद्धे तात्पर्याभावो वक्तुं युक्तः । `अस्त्यत्र तव पिता राजा’ इत्यादिषु सिद्ध एव तात्पर्यदर्शनात् । नच तत्र कार्ये तात्पर्यं कल्पयितुं युक्तम् । सुखसाधनत्वज्ञानेनैव प्रवृत्त्युपपत्तेः ।
वाक्यस्य स्वार्थमात्रपर्यवसानात् । अधिककल्पनायामश्रुतकल्पनाप्रसक्तिः । यजेतेत्यादिष्वपि यजनादेः सुखसाधनतामात्रं प्रतीयते । न शब्दस्य प्रेरकता ।
वाक्यमात्रस्य प्रेरकत्वे सर्वैर्विहितमनिष्टसाधनमपि क्रियेत । व्युत्पत्तिरपि सिद्धे साङ्गुलिनिर्देशादिना युज्यते । नच कुत्रचित् सुखसाधनं विना कार्यान्वितं विद्यते ।
लिङाद्यर्थोऽपि सुखसाधनत्वमेव । नच कार्यान्वित एव तात्पर्यमित्यत्र किञ्चिन्मानम् ।
`सुखसाधनमेवैकं नृणां वेदः प्रदर्शयेत् ।
न कुर्विति नरं क्वापि प्रेरयत्यत्र कञ्चन ॥
सुखसाधनताज्ञानात् सुखप्राप्त्यर्थमिच्छया ।
प्रवर्तते ततो वेदः सिद्धस्यैव प्रदर्शकः ।
नतु कारकतां क्वापि वेदः प्राप्नोति कस्यचित् ॥’ इति ब्राह्मे ।
अतस्तद्विरोधि कथनं मोहत एव । कार्यान्विते शक्तिरिति वदता सिद्धवाक्यानां प्रामाण्यमङ्गीकृतं च । अन्यथा `वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यादौ वसन्तादिलक्षणवाक्यानां
स्थानान्तरस्थानां स्वार्थे प्रामाण्याभावाद् वसन्ताद्यसिद्धेर्यागाद्यसिद्धिः । कार्यान्विते शक्तिरित्युक्ते कार्यपदस्य कार्यान्वयाभावदशक्त्या विध्यादेरसिद्धिश्च ।
कार्यपदस्य स्वत एव शक्तिरन्येषां कार्यान्वितत्वेनेत्यङ्गीकारे कल्पनागौरवम् । स्वार्थे शक्तिरित्यङ्गीकारे न कश्चिद् विरोधः ।
कर्तव्यतामात्रे वाक्यप्रामाण्याङ्गीकारे कर्मप्रयोजने प्रमाणाभावात् तत्रापि तात्पर्यमङ्गीकर्तव्यमेवेति सिद्धमेव सिद्धे तात्पर्यम् ।
`चित्रादितारकाद्वन्द्वं यदा पूर्णेन्दुसंयुतम् । चैत्रादिमासा विज्ञेयाः’ इत्यादौ वस्तुयाथार्थ्ये तथा ज्ञाने चोभयत्र तात्पर्यदर्शनात् ।
उपासनावाक्येष्वप्युपासनायां वस्तुयाथार्थ्ये चोभयत्र तात्पर्यं युक्तम् ।
`उपासनायाः कार्यत्वे विष्णोरात्मत्व एव च ।
उभयत्रापि तात्पर्यमात्मोपासादिके विधौ ॥
तस्मादसत्यं न ध्यायेद् ध्यायेत् तत्सत्यता यथा ।
विचार्य मतिमान् वाक्यैर्बहुभिः स्वार्थवाचकैः ॥’
इति हरिवंशेषु ।
तस्मादिष्टसाधनज्ञानमेव सर्ववाक्यार्थः । तार्किकाणां तूक्तवचनानां प्रामाण्यं सिद्धमेव । अतस्तद्विरोधि कथनं मोहत एव ।
`अनुमाया विरोधश्चेत् प्रत्यक्षेणाऽगमेन वा ।
सैवाप्रमाणतां गच्छेदागमद्विट् तथाऽक्षजम् ॥
तस्मादागम एवैको मानानामुत्तमोत्तमः ।
धर्मार्थकाममोक्षाणां साक्षादेव प्रदायकः ॥’
इति वायुप्रोक्तवचनान्नानुमानविरोधो वक्तुं युज्यते ।
सर्वत्रानिवार्यत्वाच्च प्रत्यनुमानस्य ।
`निर्णयस्त्वागमेनैव नानुमाऽऽगमवर्जिता ।
क्वचिन्निर्णीतिहेतुः स्यादतः शास्त्राद् विनिर्णयः ॥’
इति भारते ।
नच वेदात्मकेतिहासपुराणोक्तन्यायं परित्यज्य येन केनचित् क्ल्ृप्तन्यायो युज्यते ।
`अक्षपादकणादौ च साङ्ख्ययोगार्हतास्तथा ।
शिवशक्तिमहायानलोकायतपुरःसराः ॥
गाणपत्याश्च सौराश्च सर्वे प्रोक्ता दुरागमाः ।
ऋग्यजुःसामाथर्वाश्चेतिहासपुराणकौ ।
स्वागमा इति सम्प्रोक्ता मीमांसा धर्म एव च ॥’ इति पादम्े ॥
`पञ्चरात्रं भारतं च मूलरामायणं तथा ।
इतिहास इति प्रोक्तो ब्राह्माद्यं च पुराणकम् ॥’
इति प्रकाशिकायाम् ।
`वेदाश्चैवेतिहासाश्च पुराणं भागवतं तथा ।
मूलप्रमाणमुद्दिष्टं मीमांसा च तथोत्तरा ॥
एतेषामविरोधे तु मानमन्यदुदीरितम् ।
एतेषां तु विरुद्धं यदप्रमाणं विदो विदुः ॥’ इति व्यासस्मृतौ ॥
`विष्णोः सर्वोत्तमत्वस्य ज्ञानार्थं शास्त्रमिष्यते ।
अतस्तत्साधकं शास्त्रं दुःशास्त्रं तद्विरोधि यत् ॥’
इति ब्रह्माण्डे ॥
`विष्णोः सर्वोत्तमत्वं च तद्भक्त्या मोक्ष एव च ।
शास्त्रार्थ इति निर्दिष्टः सर्वशास्त्रार्थनिर्णयात् ॥’ इति पादम्े ॥
नचाऽगमस्याप्रामाण्यं वक्तुं युक्तम् । तत्प्रमाणाभावात् । स्वतःप्रामाण्याच्च ।
तदनङ्गीकारे चानवस्थानात् । आगमाप्रामाण्यसाधकानुमादेरप्यागमवदप्रामाण्यप्राप्तेश्च ।
विशेषप्रमाणाभावात् । स्वीकृतत्वाच्च तैरपि स्वागमप्रामाण्यस्य । नह्यनुमानादिना सप्तमलधारणचैत्यवन्दनादेः स्वर्गसाधनत्वं ज्ञातुं शक्यम् ।
नच प्रत्यक्षमात्रप्रामाण्यवादिनस्तत्सिद्धमागमाप्रामाण्यम् । अतस्तेषां प्रत्यक्षवदनुमानवच्चाङ्गीकर्तव्यमागमप्रामाण्यम् । उक्तं च भविष्यत्पर्वणि
`येनोक्तमागमामात्वं कुतस्तदिति तं वदेत् ।
प्रत्यक्षादेर्यदि ब्रूयात् तन्मात्वं क्वेति तं वदेत् ॥
तत् स्वतश्चेदागामस्य प्रामाण्यं न स्वतः कुतः ।
परतश्चेत् प्रमाणस्य न कस्यापि स्थितिर्भवेत् ॥
अङ्गीकृतं च प्रामाण्यं सर्वैरप्यागमस्य तु ।
यतः स्वपक्षप्रामाण्यं विरोधेऽप्यक्षजादिना ॥
अङ्गीकुर्वन्ति तत्पक्षः प्रत्यक्षादिविरोधकः ।
शून्यता क्षणिकत्वं च ज्ञानमात्रत्वमेव च ॥
भावाभावात्मता साकं शरीरात्मत्वमेव च ।
प्रत्यक्षेण विरुद्ध्यन्ते मद्देह इति दर्शनात् ॥
भावरूपस्थिरत्वादेर्ज्ञानाद् भेदस्य दर्शनात् ।
देहभेदो यद्यमुख्यो देहैक्ये मुख्यता कुतः ॥
जातिस्मृतिप्रमाणाच्च न युक्ता देहरूपता ।
अनुष्ठाय च शास्त्रार्थं फलभोगस्य दर्शनात् ॥
प्रत्यक्षादेर्विरुद्धत्वात् सौगताद्या दुरागमाः ।
बह्वागमविरोधाच्च दुष्टत्वं तेषु संस्थितम् ॥
प्रामाण्यं स्वीकृतं यैस्तु वेदानामागमा हि ते ।
शतकोटयः पञ्चरात्रं पुराणं तावदेव च ॥
रामस्य चरितं तावत् तावदन्यच्च सर्वशः ।
अनन्ताश्च तथा वेदाः साङ्गोपाङ्गाश्च सर्वशः ॥
सर्वाधिक्यं यत्र विष्णोस्तात्पर्यात् समुदीर्यते ।
विंशदेव सहस्राणि श्लोकानां समुदीरितम् ॥
बार्हस्पत्यं तथा बौद्धं भावाभावमतं तथा ।
शिवशक्त्यादिकं यच्च किञ्चित् प्रामाण्यसंयुतम् ॥
त्रिंशत्कोट्येव तत् सर्वमतो मानं न तत् स्मृतम् ।
बहुमानविरुद्धं यन्न तन्मानं विदो विदुः ॥
गुणसाम्येऽपि किमुत गुणाधिकविरोधि यत् ।
यथा बहूनां ज्ञानानां समानां गुणतोऽपि च ॥
विरोध्येकं तु यज्ज्ञानं न मानत्वं गमिष्यति ।
प्रत्यक्षादौ हि बहुभिः समैरेकमपोद्यते ॥
तस्माद् वेदाः प्रमाणं स्युर्बाहुल्यादेव किं पुनः ।
अदोषत्वाद् गुणाच्चैव बलवत्कार्यसाधनात् ॥
वेदोक्तकर्मयुक्तानां तथा सिद्धिमतामपि ।
वेदबाह्यक्रियायोगान्न बाधः क्वापि दृश्यते ॥
वेदोक्तकर्मसिद्धानां न बाध्यं दृश्यते क्वचित् ।
असाध्यं वा ततो वेदाः प्रामाण्यं निश्चयाद् गताः ॥’ इति ।
`प्रत्यक्षमनुमानं च वाक्यं चेति त्रिधा प्रमा ।
उपमाद्यं प्रमाणं यदेतेष्वन्तर्गतं हि तत् ॥
निर्दोषेन्द्रियसंयोगः प्रत्यक्षमिति गीयते ।
निर्दोषयुक्तिरनुमा तादृशोक्तिस्तथाऽऽगमः ॥
मानं चैव विशेषेण निर्दोषज्ञानसाधनम् ।
अर्थापत्तिश्चोपमा च सम्भवाद्यनुमैव तु ॥
दुःखाद्यभावः प्रत्यक्षं बाह्मगश्चानुमा स्मृता ।
योग्यस्यानुपलब्ध्याख्या युक्तिरेव हि बाह्यगा ॥
मनसः सम्प्रयोगो यो दुःखादिरहितात्मनि ।
अभावरूपं प्रत्यक्षं मनश्च द्विविधं स्मृतम् ॥
चेतनं च जडं चेति चक्षुराद्यं तथैव च ।
चेतनं त्विन्द्रियं ह्यात्मस्वरूपान्नापरं स्मृतम् ॥
मुक्तानां चेतनं त्वेव बद्धानामुभयं तथा ।
स्वरूपेणापि संयोगः स्वरूपस्यैव युज्यते ॥
यथा रत्नास्य संयोगस्तत्प्रकाशेन नित्यदा ।
रत्नास्य च प्रकाशस्य न भेदः कश्चिदिष्यते ॥
विशेषो नाम विज्ञेयो विशेषाद् दृष्टिगोचरः ।
विष्णोरेव स्वरूपाणां तद्गुणानां तथैव च ॥
तस्यैव शिरआदीनां नैव भेदोऽस्ति कश्चन ।
अभेदेऽपि विशेषेण व्यवहारः पृथग् भवेत् ॥
विष्णोर्जडेन जीवैश्च भेद एव श्रिया तथा ।
विष्णोः क्रियाश्च याः काश्चिदभेदस्तैरपि ध्रुवः ॥
कादाचित्कत्वमप्यासां विशेषेणैव युज्यते ।
एवं विमुक्तजीवानां स्वरूपैः स्वगुणैरपि ।
स्वक्रियाभिस्तथैवैक्यं नित्यं स्वावयवैरपि ॥
भेदाभेदस्तु बद्धानां गुणैः स्वैः कर्मभिस्तथा ।
अंशांशिनोर्गुणस्यापि गुणिनः कर्मतद्वतोः ॥
कार्योपादानयोश्चैव व्यक्तिसामान्ययोरपि ।
भेदाभेदः समुद्दिष्टो विनाशो यत्र दृश्यते ॥
एकस्मिन् विद्यमानेऽपि तयोरेकस्य कस्यचित् ।
अविनाभावनियमो यत्राभेदस्तु तत्र ह ॥
अभेदश्च स्वभिन्नेन भेदाभेदस्तु तत्र च ।
भेदाभेदो नतु क्वापि विष्णोरस्ति कदाचन ॥
भेद एव तु जीवाद्यैः केवलाभेद आत्मनि ।
स्वरूपेषु विशेषो यः स्वरूपं तस्य सोऽपि तु ॥
क्रियाणां च न नाशोऽस्ति तच्छक्तेः पूर्वकालतः ।
विशेष एवोपरतिः क्रियायाः समुदीरिता ॥
विशेषस्य विशेषोऽन्यो न चैवास्ति कथञ्चन ।
स्वस्यापि तु विशेषः स स्वयमेव भविष्यति ॥
यथा जनेर्जनिर्नान्या तस्या वस्तुजनिर्जनिः ।
तथाऽपि तु जनित्वात् सा सत्त्वं वस्तुन आनयेत् ॥
एवमेव विशेषोऽसौ विशेषान्तरवर्जितः ।
करोति न करोतीति विशेषव्यवहारकृत् ॥
व्यक्तिभावं गता या तु करोतीति स्वरूपिणी ।
शक्तिरूपस्थिता सैव क्रियाशक्तिरितीर्यते ॥
सा च व्यक्तिस्तु जनिवत् क्रियाया रूपमेव तु ।
तथाऽपि तु विशेषेण स्वरूपेण विशेषिणी ॥
जनेर्जनिवदेवासौ ज्ञातव्या व्यतिरेकतः ।
एवं मुक्तक्रिया नित्या नान्येषां भ्रान्तिसम्भवात् ॥
मुक्तावुच्छेदतश्चैव निःशेषेणाखिलस्य च ।
नैवं मुक्तक्रियायास्तु तस्याश्च पुनरुद्भवात् ॥
अमुक्तानां क्रिया याश्च मुक्तावपि समास्थिताः ।
अभिन्ना इति ता ज्ञेया अभिव्यक्तेः पुनःपुनः ॥
चिन्तनादिक्रियाणां तु मुक्तावुच्छेदतः सदा ।
किम्मयाकार्यमादीनां भेदाभेद उदीरितः ॥
अचेतनेष्वस्वतन्त्राः क्रिया यस्मात् सदैव तु ।
भेदाभेदस्ततो ज्ञेयः सर्वत्र नियमेन तु ॥
ईश्वरः प्रकृतिर्जीवा जडं चेति चतुष्टयम् ।
पदार्थानां समुद्दिष्टं तत्रेशो विष्णुरुच्यते ॥’ इति ब्रह्मतर्के ।
`पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ इत्यादिश्रुतयश्च ।
`शक्तिशक्तिमतोश्चैव विशेषस्य विशेषिणः ।
अविनाभाविता यत्र न भेदस्तत्र विद्यते ॥
सर्वाधिकसुखत्वं च ज्ञानं सर्वाधिकं तथा ।
सर्वाधिका सर्वशक्तिस्तेजः सर्वाधिकं तथा ॥
इत्यादयो गुणाः सर्वे स्वरूपं वैष्णवं सदा ।
भेदान्यत्वादयः शब्दा अतद्रूपत्ववाचकाः ॥
क्वचिदन्तरशब्दश्च विशेषस्यैव वाचकः ।
एकस्मिन्नेव शब्दानां यस्तु नानास्वरूपिणाम् ।
प्रयोजकत्वहेतुः स्यात् स विशेषः प्रकीर्तितः ॥’ इति च ॥
`यदाहुर्ब्रह्मविज्ञानात् समग्रत्वं यियासवः ।
ब्रह्मज्ञानात् समग्रत्वं नान्यतश्चेति निश्चयात् ॥
तत्र केचिन्मनुष्यास्तु मन्यन्ते ब्रह्म किंमतेः ।
समग्रभावमगमदिति ब्रूयाच्च तानिति ॥
ब्रह्मापि सर्वदाऽऽत्मानमहेयं गुणबृंहितम् ।
सर्वदाऽस्तीति मेयं च विजानाति तथैव तु ॥
अत एव समग्रत्वं स्वत एवास्य सर्वदा ।
तदहेयं परं ब्रह्म यो योऽवेद् गुणबृंहितम् ॥
सर्वदाऽस्तीति मेयं च स स याति समग्रताम् ।
मुख्यं समग्रं तद् ब्रह्म ज्ञानस्यापि समग्रतः ॥
किञ्चित् समग्रतां देवास्तेषां ज्ञानं हि तादृशम् ।
आपुस्ततोऽधमां ज्ञानतादृक्त्वादृषयोऽपि तु ॥
ऋषिभ्योऽप्यधमां प्रापुर्मानुषाश्च समग्रताम् ।
अहेयं च गुणैः पूर्णं नित्यास्तिज्ञानगोचरम् ॥
ब्रह्म पश्यन् वामदेवः सूक्तमेतद् ददर्श ह ।
अहं मनुः सूर्य इति स्वान्तर्यामिव्यपेक्षया ॥
अहंशब्दो यतो विष्णौ ततश्चोत्तमपूरुषाः ।
वर्तन्तेऽभवमित्याद्याः सर्वान्तस्थे जनार्दने ॥
मनुरेषोऽवबोधत्वान्मन्वन्तस्थो जनार्दनः ।
स ह्याचारानुवाचेशः प्रेरयन् मनुमानसम् ॥
स एव सूरिभिः प्राप्यः सूर्यान्तस्थो मुमुक्षुभिः ।
स एव कक्षगैः सेव्यः कक्षीवति समास्थितः ॥
स एव शुक्रसंस्थस्तु नीतीः कवयति स्वयम् ।
यतः कविः स कामस्य प्रेरणादुशना स्मृतः ॥
स एव शम्बरपुरो बिभेदेन्द्रे व्यवस्थितः ।
सर्वान्तर्यामकत्वात्तु सर्वकर्मा स एव हि ॥
ततः सूक्ते तथोवाच वामदेवः श्रियः पतिम् ।
यो योऽहेयं परं ब्रह्म सदैवास्तीति मानगम् ॥
इदानीमपि जानाति स्वयोग्यां स समग्रताम् ।
प्राप्नोति तस्य देवाश्च नाभूतिं कर्तुमीशते ॥
आत्मा हि विष्णुर्देवानां तेषु व्याप्तो यतः सदा ।
नियोक्तृत्वेन कार्येषु तज्ज्ञो यस्माच्च साधकः ॥
यस्य प्रीतो हरिर्नित्यं तस्य प्रीताश्च देवताः ।
प्रीतियोगान्नैव तस्य विरुद्धं कर्तुमीशते ॥
एवं विलक्षणं देवमुपास्ते जीवरूपिणम् ।
अहेयोऽस्तीति मेयोऽन्योऽथान्योऽसौ हरिरित्यपि ॥
न स वेद परं विष्णुं जीवरूपेण वेत्ति यत् ।
नाहेयत्वं च वेदास्य तस्मात् पशुवदीरितः ॥
देवानां पशुवच्चासौ यो वेदाहेयरूपिणम् ।
पशवो बहवो यद्वत् पुरुषं भोजयन्त्युत ॥
तत्त्वज्ञः पुरुषस्तद्वदेकोऽपि बहुगा यथा ।
देवान् भोजयति ज्ञानसम्पत्त्या विष्णुसंश्रयात् ॥
स्वीकारे तु पशोः प्रीतिरेकस्यापि भविष्यति ।
बहूनां हि गवां लाभे परा प्रीतिश्च किं पुनः ॥
तस्मात् सुबहुगोरूपे देवानां तत्त्ववेदिनि ।
भवेदभ्यधिका प्रीतिर्विष्ण्वहेयत्ववेदनात् ॥
नित्याहेयस्तथैवान्यस्तदन्यो विष्णुरित्यपि ।
देवानामप्रियं ज्ञानं नैवं विद्यादतः पुमान् ॥
विष्णोरहेयतां चैव नित्यत्वं पूर्णतामपि ।
यो न वेद तथा यश्च जीवैरैक्यं हरेर्वदेत् ॥
यश्चासत्यं जगद् ब्रूयात् सर्वे ते तमसि स्फुटम् ।
मज्जन्ति सर्ववेदैर्हि गुणैः सर्वैर्हरिर्यतः ॥
पूर्णो नित्यमपूर्णाश्च जीवा मुक्ता अपि स्फुटम् ।
मज्जन्ति सर्ववेदैर्हि गुणैः सर्वैर्हरिर्यतः ॥
पूर्णो नित्यमपूर्णाश्च जीवा मुक्ता हरिं सदा ।
उपासते जगच्चैतत् सर्वदाऽऽद्यन्तवर्जितम् ॥
न कदाचिज्जगन्नाशो न कदाचित् तदन्यथा ।
जगत् प्रवाहरूपेण सर्वदैव व्यवस्थितम् ॥
ज्ञानतः कर्मतो वाऽपि तपसा शक्तितोऽपि वा ।
न कस्याप्यन्यथा भाव्यं जगदेतत् कदाचन ॥
सत्यो विष्णुः श्रीश्च सत्या जीवाः सत्या जडं तथा ।
असत्यं नास्ति किञ्चिच्च सर्वेषां ज्ञानगोचरम् ।
ज्ञात्वा विष्णुमतो मुक्तिं प्राप्नुयात् पुरुषोत्तमम् ॥’
इति भविष्यत्पर्वणि ।
इदमित्यात्मनो योग्यं सर्वं समग्रं भवति । निर्दुःखानन्दस्यापेक्षितत्वान्मनसि स्थितत्वेनेदमिति युज्यते । `तत् सर्वमभवत्’,`सर्वं भविष्यन्तः’ इत्यादिना समग्रभावस्य प्रस्तुतत्वात् ।
ब्रह्म पश्यन् वामदेवो ब्रह्मणो मन्वादिजीवैरहेयत्वं प्रतिपेदे ।
`ब्रह्म पश्यन् वामदेवो ब्रह्मणोऽहेयतां सदा ।
मन्वादिभिः सर्वजीवैः प्रतिपेदे हि मन्त्रदृक् ॥’ इति ब्राह्मे ॥
तदिदं ब्रह्म योऽहेयत्वादिगुणमेतर्ह्यपि । अहंशब्दस्याहेयत्वानङ्गीकारे इदंशब्दोऽपि व्यर्थः । सर्वस्वरूपत्वं हि दुर्विद्वद्भिरङ्गीक्रियते ।
इदंशब्देन परब्रह्मविवक्षायां ब्रह्मशब्दो व्यर्थः । इदं योऽहमिति वेदेत्येव स्यात् । एवंशब्दश्च व्यर्थः । अस्मत्पक्षे तु तदात्मानमेवावेदित्यपि ज्ञातव्यमित्येवंशब्दार्थः ।
तत्पक्षे तदपि व्यर्थमेव । नहि तत्पक्षे तत् स्वात्मानं वेत्ति । व्याख्यानव्याख्येयभावश्चागतिका गतिः ।
`अभावे पृथगर्थानां व्याख्यामभ्यासमेव वा ।
कल्पयेन्नैव तद्भावे व्याख्याऽभ्यासश्च युज्यते ॥’ इति भारते ।
स्वरूपज्ञं तथाऽहेयं नित्यं च ब्रह्म वेत्ति यः ।
समग्रभावं गच्छेत् स तत्प्रसादान्न संशयः ॥’ इति च ।
स ईश्वर एषां देवानामात्मा भवति । पुंल्लिङ्गं च `तत् सत्यं स आत्मा’ इत्यादिवत् भवति ।
`देवानां व्यापकत्वात्तु तेषामात्मा हरिः सदा ।
तज्ज्ञः प्रियस्ततस्तेषां तस्य नाभूतिदास्ततः ॥’ इति वामने ।
सर्वेभ्योऽन्यां विलक्षणां देवतां स्वगुणेभ्योऽहेयत्वादिभ्यश्चान्यां य उपास्ते अहेयोऽस्तीति मेयश्चान्योऽन्यश्चासौ
विष्णुरितीति मत्वा यो विष्णोरन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेदेति वा ।
`जीवादिभ्यो हरिर्भिन्नस्तं यः स्वगुणभेदतः ।
अहेयोऽन्यो हरिश्चान्य इति मत्वाऽन्यमेव वा ॥
य उपास्ते न स ज्ञानी मनुष्याणां पशुर्हि सः ।
सम्यग्ज्ञानी तु देवानां पशुरित्यभिधीयते ॥’ इति च ॥
`एवं स देवानाम्’ इत्यत्र पूर्वः सम्यग्ज्ञानी परामृश्यते ।
`एतन्मनुष्या विद्युः’ इत्यत्रैतच्छब्देन विष्णोरन्यदेवतोपासनमुच्यते । नह्यज्ञान्येव देवानां भोजकः ।
ज्ञानी हि विशेषेण भोजकः । `अथो अयं वा आत्मा सर्वेषां भूतानां लोकः’ इति वचनात् ।
`स य एवंवित् सर्वेषां भूतानाम्’ । ब्रह्मविच्च तत्रोच्यते । प्रस्तुतत्वात् ।
`तत्त्वविद् देवगौः प्रोक्तो नरगौश्चाप्यतत्त्ववित् ।
तस्माद् देवास्तत्त्वविदे प्रियं कुर्वन्त्यतन्द्रिताः ॥’ इत्याग्नेये ।
`तस्य ह न देवाश्च नाभूत्या ईशते’ इति देवानां तत्त्वज्ञानं प्रियमित्युक्तं च ।
`असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’ इति । `यच्चिकेत सत्यमित् तन्न मोघं वसु स्पार्हमुत जेतोत दाता’,
`सत्यो जीवेशयोर्भेदः सत्या विष्णोर्गुणा अपि ।
सत्यं जगदिदं सर्वं सत्येशजगतोर्भिदिः ॥’ इत्यादेश्च ।
`भेदेनैव जगत् सर्वं भेदेनेशं गुणैः सह ।
भेदेन जीवानन्योन्यं मुक्ताः पश्यन्ति सर्वशः ॥
निःशेषदुःखहीनाश्च केवलं सुखभोगिनः ।
जन्ममृत्युविहीनाश्च कालसम्बन्धवर्जिताः ।
रजस्तमःसत्त्वहीनाः प्रकृत्या च विवर्जिताः ॥’
इत्यादिगारुडवचनान्न ज्ञाननिवर्त्यता वक्तुं युक्ता ।
`तिर्यङ्मानुषदेवादिविष्णुरूपेष्वशक्तता ।
यस्मिन् कस्मिंश्च विषये दुःखित्वं भिन्नताऽपि वा ॥
प्रकृतेर्विकारता वाऽपि च्छेदभेदव्रणादि वा ।
अज्ञानं नाशिता वापि जन्म जीवैरभिन्नता ॥
प्रकृत्यभिन्नता वाऽपि जीवाभेदः परस्परम् ।
जडाभेदोऽथवा विष्णोर्मिथ्यात्वं जगतोऽपिवा ॥
अगुणत्वमदेहत्वमकतृर्त्वं तथा हरेः ।
सम्यग्भक्तिमृते मुक्तिर्विष्णौ तद्द्वेषतस्तथा ॥
मुक्तावभोगो जीवानां मुक्तौ साम्यं तथैव च ।
अरूपत्वं च जीवानां मुक्तानां बन्धिनामपि ॥
नामतीर्थादिभिर्मुक्तिस्तत्त्वज्ञानं विनाऽपि तु ।
विष्णोः सकाशात् प्रकृतेर्ब्रह्मणोऽनन्तरुद्रयोः ॥
गरुडेन्द्रसूर्यविघ्नादेरग्निसोमगुहादिनाम् ।
प्रद्युम्नस्यानिरुद्धस्य देवविप्रादिनामपि ॥
यैः कैश्चापि गुणैर्विष्णोः सकाशाद् वरता तथा ।
यदा कदाऽपि यत्नौर्वा वरशापादिनाऽपि वा ॥
तपसा वाऽप्युपायैर्वा योगज्ञानादिनाऽपि वा ।
साम्यं वा विष्ण्वधीनत्वादन्यथैषां स्थितिः कृतिः ॥
असंसारित्वमेषां चाप्येषामीश्वरताऽपि वा ।
विना विष्णुप्रसादेन मुक्तिरेषां सकाशतः ॥
विष्णोः प्रयोजनावाप्तिर्विष्णोर्दोषश्च कश्चन ।
विष्णोः सर्वेषु रूपेषु सम्पूर्णगुणहीनता ॥
भेदो वा विष्णुरूपेषु विशेषो वा गुणेषु च ।
श्रियः सकाशादाधिक्यं ब्रह्मादेः साम्यमेव वा ॥
ब्रह्मवाय्वोरनन्तस्य रुद्रस्य गरुडस्य च ।
तेभ्यश्चैवेन्द्रसूर्यादेर्विप्रभूपादिनां ततः ॥
बद्धानां मुक्तिगानां वा दैत्यादेर्मोक्ष एव च ।
सर्वं मोहार्थमुद्दिष्टं वेदेषु हरिणापि वा ॥
ब्रह्मणा वाऽथ रुद्रेण देवैश्च मुनिभिस्तथा ।
यथा सुराणां सुज्ञाने तात्पर्यं सर्वदा श्रुतेः ॥
तथा दुर्ज्ञानजनने तात्पर्यमसुरेषु च ।
एवमेव च देवानां विष्णुब्रह्मादिनामपि ॥
विष्णोः सर्वगुणैः पूर्तिरपि मत्स्यादिरूपिणः ।
अजेयत्वमभेद्यत्वमच्छेद्यत्वं च सर्वशः ॥
सर्वावताररूपाणामपि चित्सुखरूपता ।
श्रीब्रह्मरुद्राद्याधिक्यं सर्वेशत्वं स्वतन्त्रता ॥
सर्वशक्तिस्तत्प्रसादान्मोक्षो ब्रह्मादिनामपि ।
तद्भक्त्यैव विमोक्षश्च भेदो जीवेशयोरपि ॥
श्रीब्रह्मरुद्रशक्रादेः क्रमेणैव निजा गुणाः ।
सर्वदोषव्यपेतत्वं विष्णोः सर्वत्र सर्वदा ॥
एतत् सर्वं सर्ववेदैर्विष्ण्वाद्यैर्देवतागणैः ।
ऋषिभिः क्षत्रियाद्यैश्च सम्यक् तात्पर्यतः सदा ॥
उक्तं सर्वेषु शास्त्रेषु तस्माद् ग्राह्यं बुभूषुभिः ।
इदं सत्यमिदं सत्यमिदं सत्यं न संशयः ॥
कोटिभिः शपथैश्चापि निर्णीतं देवतागणैः ।
अनादिकालतश्चायं शास्त्रार्थो नान्यथा क्वचित् ॥
पुनश्चानन्तकालीन एष एव न संशयः ।
ज्ञातव्यश्चैष एवार्थः सर्वदैव बुभूषिभिः ॥
एवं तु स्थिरया बुद्ध्या ज्ञात्वा यास्यथ तत्परम् ।
एवं ते हंसरूपेण विष्णुना देवतागणाः ॥
ब्रह्माद्या बोधिताः सर्वे तथा ज्ञात्वा परं गताः ।
साक्षाद् विष्णुर्हंसरूप उक्त्वैवं तु दिवौकसाम् ॥
वासुदेवाख्यरूपेण तेन सर्वहृदि स्थितः ।
सङ्कर्षणाख्यरूपेण विवेशानन्तमेव च ॥
तं ध्यायति सदाऽनन्तस्तस्मान्मुक्तिपदेच्छया ।
प्रद्युम्नाख्येन रूपेण काममेव विवेश सः ॥
हंसस्तद्ध्यानतो मुक्तिं काम इच्छति सर्वदा ।
अनिरुद्धाख्यरूपेण सोऽनिरुद्धं विवेश ह ।
हंसस्तद्ध्यानतो मुक्तिमनिरुद्धस्तथेच्छति ॥’
इत्यादि ब्रह्माण्डपुराणे तत्त्वनिर्णयगीतायाम् ।
`विष्णोर्ब्राह्मणजातिः सन् ब्रह्मा जज्ञे चतुर्मुखः ।
इतोऽग्रे जगतस्तस्मात् क्षत्रजातिरजायत ॥
वायुः सदाशिवोऽनन्तो गरुडः शक्र एव च ।
कामश्च वरुणश्चैव सोमसूर्यौ यमस्तथा ॥
एवमाद्याः क्षत्रियास्तु देवानां ब्रह्मनिर्मिताः ।
श्रेयसी सर्वजातिभ्यः क्षत्रजातिरिति श्रुतिः ॥
नैव क्षत्रात् परा जातिर्ब्रह्मजातिं विना क्वचित् ।
ब्राह्मणाच्च परो राजा राजसूयाश्वमेधयोः ॥
उपास्ते राजसूयेऽतो ब्राह्मणो राजसूयिनम् ।
आसीन आसनाधस्तात् तथाऽपि ब्राह्मणो गुरुः ॥
तस्मात् स राजसूयान्ते ब्राह्मणान् वन्दयीत च ।
यः क्षत्रियो ब्राह्मणहा पितृहा स प्रकीर्तितः ।
पापीयानेव भवति हत्वा स्वपितरं यथा ॥’ इति वामने ।
`स्वतोऽधिकगुणं हत्वा साक्षाच्च पितरं पुनः ।
क्षत्रस्य ब्राह्मणं हत्वा तावान् दोषो भवेद् ध्रुवम् ॥’ इत्याग्नेये ।
`ईशानो मारुतः प्राणो वायुर्जिष्णुस्तथैव च ।
धृष्णुश्च पवमानश्च पवनश्चेति कथ्यते ॥’ इति शब्दतत्त्वे ।
`मृत्युः सङ्कर्षणः शेषः शेताऽनन्तस्तथैव च ।
बलिर्महाविषश्चेति भूधरश्चेति कथ्यते ॥’ इति ।
`इन्द्रः सुपर्णो गरुडो महाभारो धुरन्धरः ।
विश्वजिच्चाप्यवध्यश्च वैनतेयश्च कथ्यते ॥’ इति ।
`पर्जन्यो मघवांश्चैव पुरुहूतः पुरन्दरः ।
प्राचीनबर्हिर्हर्यश्वः सोमपो मेषभुक् तथा ॥’ इति च ।
`यशोनिधिब्राह्मणस्तु तद् दातुं क्षत्रिये स्वयम् ।
अधो ब्राह्मण आसीनो राजसूये हि सेवते ॥’ इति प्रत्यये ।
ऋच्छति विनाशयति । `रीं क्षये’ इति धातोः ॥
`विवस्वदिन्द्रवरुणविष्णुभ्योऽन्येऽदितेः सुताः ।
रुद्रादन्ये तथा रुद्रा वायोरन्ये च वायवः ॥
अग्नेरन्ये च वसवो वैश्या इत्येव कीर्तिताः ।
एक एव हरेर्जातः परिवारविवर्जितः ॥
वाय्वादीन् क्षत्रियान् सृष्द्वा पुनरल्पपरिग्रहः ।
इच्छन् बहुपरीवारं वैश्यान् देवान् ससर्ज ह ॥
ततो बहुतरानिच्छन् शूद्रान् देवान् ससर्ज च ।
अश्विनौ पृथिवी चैव काला मृत्यव एव च ॥
शूद्रदेवाः समुद्दिष्टा देववर्णा इति स्मृताः ।
स्रष्टा स्वयं समुद्दिष्टः पालका देवता इमाः ॥
धारणं कथमस्य स्याद् गतिश्चास्य कथं परा ।
इत मत्वा हरेर्भक्तिधर्मरूपं पुनर्विभुः ॥
प्राणिनां धैर्यरूपं च वायो रूपान्तरं पुनः ।
ससर्ज मतिमान् ब्रह्मा विष्णोराज्ञापुरःसरः ॥
तस्माद् वायोः परो नास्ति ऋते विष्णुं सनातनम् ।
शेषादीनां क्षत्रियाणां वायुरेवाधिपः स्मृतः ॥
धारणाद् धर्म इत्याहुर्वायुर्धारयति प्रजाः ।
अबलोऽपि ततो वायोर्विष्णुभक्त्यादिरूपिणः ॥
प्राप्तुमिच्छति युक्तः सन् विष्णुं सुबलवत्तरम् ।
यथैव युवराजेन महाराजमभीप्सति ॥
प्राप्तुं धर्माभिमानी स वायुः सत्याभिमानवान् ।
तस्मादाहुर्धर्मविदं सत्यवेत्तेति वेदिनः ।
सत्यज्ञमथ धर्मज्ञं वायुर्देवो यतस्तयोः ॥’ इति नारदीये ॥
नैव व्यभवदिति परिवारबहुत्वेन यद् विशिष्टत्वं तन्नाभवदित्यर्थः ।
`बृहत्त्वात् सर्ववर्णानां ब्राह्मणः परिकीर्तितः ।
क्षतत्राणात् क्षत्रियश्च त्रिषूनत्वात् विशः स्मृताः ॥
ऊनवाची हि विट्शब्दः शुभे दत्ते त्रिभिर्यतः ।
रमते स ततः शूद्रः स ब्राह्मण्याभिमानवान् ॥
ब्रह्माग्निना सहैवाऽस्ते देवेष्वथ नरेषु च ।
ब्राह्मणेन सहैवाऽस्ते ब्रह्मा शुभचतुर्मुखः ॥
क्षत्रजात्यभिमानी तु पवनो देवराजभिः ।
सुपर्णशेषरुद्राद्यैर्मानुषेषु च राजभिः ॥
वैश्यजात्यभिमानी च नासिक्यो वायुरूर्जितः ।
वस्वादिभिः सहैवाऽस्ते देवेष्वथ नरेषु च ॥
विड्भिः शूद्राभिमानी च निर्ऋतिर्देवतासु च ।
नासत्ययोः पृथिव्याश्च शूद्रेष्वेव तु मानुषे ॥
यस्मादग्नौ विशेषेण ब्रह्मणः सन्निधिर्भवेत् ।
अतोऽग्नावेव देवानां सर्वेषां नियमाद्धविः ॥
हुत्वा लोकान् प्रार्थयन्ति तथा विप्रे च मानुषे ।
सर्वजात्युत्तमो ब्रह्मा यतो विप्राग्निसंस्थितः ॥
तस्माद् विप्रांस्तथैवाग्निं तर्पयेद् ब्रह्मतुष्टिकृत् ।
तुष्टे ब्रह्मणि विष्णुश्च तुष्टो लोकान् प्रदास्यति ॥
अग्निविप्रार्चकोऽप्येवं यो न वेद हरिं परम् ।
आश्रयं सर्वजीवानां हरिस्तं नैव भोजयेत् ॥
यथाऽनधीतो वेदस्तु यथा कर्माकृतं तथा ।
न सम्यक् फलदो विष्णुरज्ञातो जगदीश्वरः ॥
यद्यवेत्ता महदपि हयमेधादिकं हरेः ।
कुर्यात् क्षयिष्णुफलवान् स भवेन्नात्र संशयः ॥
आप्तकामतयाऽऽत्मेति यो विष्णुः समुदीरितः ।
सर्वाश्रयमुपासीत तमेव पुरुषः सुधीः ॥
विष्णुं सर्वाश्रय इति सदोपास्ते य आत्मवान् ।
क्षीयन्ते नास्य कर्माणि शुभान्येव कदाचन ॥
उपासनाबलान्मुक्तो भोगान् कर्मफलान् सदा ।
भुङ्क्ते विष्णोः समीपस्थः सर्वदोषविवर्जितः ॥’
इति ब्रह्माण्डे ॥
एताभ्यां रूपाभ्यां सहितं हि ब्रह्माभवत् । स्वं लोकं स्वाश्रयम् ॥
`योऽयं सर्वेषु जीवेषु नियामकतया स्थितः ।
स विष्णुराप्तकामत्वादात्मेत्येवोच्यते बुधैः ॥
स लोकः सर्वभूतानां स हि जीवेषु संस्थितः ।
वैश्वदेवादिकान् होमान् यज्ञांश्च कुरुते विभुः ॥
कारुण्यात् सर्वदेवेषु तेन देवाश्रयो हरिः ।
ऋषीणामाश्रयश्चापि स्वाध्यायेष्वृषिसंस्मृतेः ॥
स हि जीवेषु संविष्टः पिण्डं पुत्रजनिं तथा ।
यत् करोति पितॄणां च संश्रयस्तत एव सः ॥
तृणोदकादिदानेन पशूनामन्नतो नृणाम् ।
उपकाराच्च सर्वेषां प्राणिनामाश्रयो हरिः ॥
यज्ञादीन् देवतादीनामन्नत्वेन पुरैव यत् ।
ब्रह्माद्यैरर्थितः प्रादात् क्षीराब्धेस्तट उत्तरे ॥
अतश्च सर्वलोकानामाश्रयो विष्णुरेव सः ।
एवं यो वेत्ति विष्णोस्तु सर्वाधारत्वमुत्तमम् ॥
सर्वाण्यपि हि भूतानि तस्येच्छन्त्यविनाशिताम् ।
स्वाश्रयस्य यथा नित्यमनाशं प्रार्थयन्ति हि ॥
राजादेरपि तान्येवमुत्तमाश्रयवेदिनः ।
तदेतद् वासुदेवस्य सर्वाधारत्वमुत्तमम् ।
विदितं सर्ववेदैश्च मीमांसाभिश्च निश्चितम् ॥’
इति भविष्यत्पर्वणि ।
`किन्तु ब्रह्मादिभिर्देवैः पुरा दृष्द्वा निरंहसः ।
निर्भयान् विष्णुनाम्नैव यथेष्टं पदमागतान् ॥
अलब्ध्वा चाऽत्मनः पूजां सम्यगाराधितो हरिः ।
मया चास्मादपि श्रैष्ठ्यं वाञ्छताऽहङ्कृतात्मना ॥
ततः साक्षाज्जगन्नाथः प्रसन्नो भक्तवत्सलः ।
अंशांशेनाऽत्मनैवैतान् पूजयामास केशवः ॥
देवान् पितॄन् द्विजान् हव्यकव्याद्यैः करुणामयः ।
ततः प्रभृति पूज्यन्ते त्रैलोक्ये सचराचरे ॥’ इति च पादम्े ॥
`एको नारायणः पूर्वमासीज्जायां स ऐच्छत ।
विद्यमानामपि सदा भोगार्थं पुरुषोत्तमः ॥
नित्यत्वेऽप्युभयोर्देवोऽवियुक्तस्तु तया यदा ।
एक इत्युच्यते देव्या रममाणः सुतं विभुः ॥
ऐच्छद् ब्रह्मा ततो जज्ञे ततो देवाश्च सर्वशः ।
जाते पुत्रे वित्तमैच्छद् भूतान्यण्डं ततोऽभवत् ॥
अण्डस्यान्तस्त्विमे लोकाः कुर्यां कर्मेति चैच्छत ।
ततस्तु कृतवान् यज्ञं स्वस्मै स पुरुषोत्तमः ॥
आहुरात्मेति तं देवं पूर्णत्वाद् विष्णुमव्ययम् ।
तस्मादद्यापि यः कामी स ह्येतावन्तमिच्छति ॥
दैवं वित्तं सुखाद्यं हि मित्राद्यं मानुषं तु यत् ।
इदानीमपि तस्माद्धि कामयेदेवमेव तु यः कश्चित् पुरुषो वाऽपि तद्वैकल्यादकृत्स्नवान् ।
एकाकिनोऽप्यवैकल्यं यथैव स्यात् तथा शृणु ।
स्वात्मनस्त्वपृथग् यत्तज्ज्ञानरूपं मनः परम् ॥
मुक्तावपि न हेयं यत् तत् स्वात्मेत्येव चिन्तयेत् ।
जायां तु तादृशीं वाचं बलं तादृक् स्वमात्मजम् ।
श्रोत्रं चक्षुश्च तादृग् यद् वित्तं दैवं च मानुषम् ।
एवम्भूतं चिन्तनं यत् तत् कर्मेत्येव चिन्तयेत् ॥
एतत् षट्कं च हरये सर्वेशाय समर्पयेत् ।
एवमात्मा प्रिया पुत्रो वित्तं द्विविधमित्यपि ॥
पञ्चभिः क्रियते यज्ञः पुरुषः पशुरेव च ।
मातापितृभ्यामन्नेन तयोः पूर्वेण कर्मणा ॥
जन्यस्य कर्मणा चैव साध्यः पञ्चभिरेव तु ।
एवं हि प्राणिनोऽन्येऽपि जायन्ते नात्र संशयः ॥
एतामुपासनां कुर्याद् यो ब्राह्मं पदमाप्य च ।
सर्वस्यास्य पतिर्भूयाद् विष्णोरेव प्रसादतः ॥
ब्राह्मे पदे त्वयोग्या ये ते देवपदमाप्नुयुः ।
तस्याप्ययोग्या लोकस्य भवेयुरधिकं प्रियाः ।
क्रमान्मुक्तिं व्रजेयुश्च केशवस्य प्रसादतः ॥’ इति माहात्म्ये ।
अविशेषेणेतोऽन्यत् स्यादितीच्छन्नपि न विन्देत् । ततोऽन्यस्याभावात् ।
`आत्मा मनश्चिन्तनं च शेमुषी बुद्धिरित्यपि ।
एकार्थवाचका धीश्च मनीषा तप इत्यपि ॥’ इति शब्दतत्त्वे ।
`सर्वाश्रयं च पितरं सर्वेषामधिकं गुणैः ।
अविदित्वा महत् पुण्यं कृत्वा न फलभाग् भवेत् ॥
तथा ज्ञात्वा हरिं यस्तु कुर्यात् कर्म सदोदितम् ।
अनन्तफलवान् स स्यात् प्राप्नोति च मनोगतम् ॥’
इति बृहच्छ्र2ुतौ ।
परमात्मैव गृहस्थान्तर्यामित्वेन सर्वेषां लोकः आश्रयः
`गृहस्थान्तर्गतो विष्णुर्यज्ञैर्देवाश्रयो भवेत् ।
स्वाध्याय ऋषिसंस्मृत्या ऋषीणां च सदाऽऽश्रयः ॥
स्वाध्यायाच्छ्र2ाद्धतश्चैव पितॄणामन्नदानतः ।
मनुष्यादेरतो वेत्ति य एवं सततं गृही ॥
स्वस्यान्तर्यामिणं विष्णुं सुरादीन् पूजयेत् तथा ।
तस्याविनाशमिच्छन्ति स्वाश्रयस्य यथा सुराः ।
तदेतत् सर्वशास्त्रेषु ऋषिसङ्घैर्विचारितम् ॥‘इति नारायणश्रुतौ ।
`नराणामाश्रया देवा न देवानां नरः क्वचित् ।
नराणां च सुराणां च गतिरेको जनार्दनः ॥’ इति च ॥
आत्मा ब्रह्मा
`आत्मा तु जगतां ब्रह्मा तस्याऽत्मा भगवान् हरिः ।
स एव जातः प्रथमं वासुदेवाच्चतुर्मुखः ॥
सोऽकामयत भार्या मे स्यात् पुत्रस्तदनन्तरम् ।
ततो वित्तं मम स्याच्च कर्म कुर्यां ततो हरेः ॥
इति सोऽपि न तान्याप ततोऽपूर्णत्वमात्मनः ।
मत्वा पूर्णत्वसिद्ध्यर्थं भार्यां वाचमकल्पयत् ॥
प्राणं पुत्रं तथा वित्तं चक्षुर्बाह्यमताऽन्तरम् ।
ज्ञानाख्यं श्रोत्रमेवासौ कर्म स्वात्मानमेव तु ॥
एवं स मानसे यज्ञे त्वयजत् केशवं विभुम् ।
ततोऽस्य वाचः सम्भूता भार्या तस्य सरस्वती ॥
पुत्रः प्राणादभूद् वायुदृर्शो लोका हिरण्मयाः ।
तस्यापरोक्षतां जातो भगवान् पुरुषोत्तमः ॥
सर्वविद्या ददौ ताश्च श्रोत्रेण जगृहे विभुः ।
आत्मना सर्वकर्माणि चकार भगवत्परः ॥
पुराऽऽसीन्मन एवास्य तेनेदं पञ्चकं विभुः ।
अवाप कर्मपर्यन्तं देहान्तात् पञ्चकात् स्वयम् ॥
तस्मादद्यापि यो विद्वानुपास्ते पञ्चकं तथा ।
विष्णूपकरणत्वेन स इदं सर्वमाप्स्यति ॥
मुक्तिश्चान्ते भवत्यस्य पञ्चानां देवतां हरिम् ।
नारायणं वासुदेवं तथा सङ्कर्षणं विभुम् ॥
प्रद्यम्नं चानिरुद्धं च स्मरतो नित्यमेव तु ।
सवनत्रयं तथा पूर्वमुत्तरं चेति पञ्चकम् ॥
यज्ञे मध्यं शिरः पक्षौ पुच्छं पशुषु पूरुषे ।
चतुर्दिशं तथा मध्यमिति सर्वत्र पञ्चकम् ॥’ इति च ॥
॥ इति अव्याकृतब्राह्मणम् ॥
भाष्यम्
पिता विष्णुः । यत् यदा । तपसा प्राणिनां कर्मभिः । मेधया स्वेच्छया ।
`स हीदमन्नं धिया धिया जनयते कर्मभिः’ इति वचनात् ।
`सप्तान्नानि यदा विष्णुः परमः पुरुषो विभुः ।
ससर्ज तेषां स्वार्थानि चकार त्रीणि केशवः ॥
मनो वाचं तथा प्राणं तस्मात् तैस्तुष्टिमेति सः ।
तस्मात् तद्भक्तिकामः स्यात् सङ्कल्पं तत्कृतिं प्रति ॥
कुर्यात् तद्वेदनेच्छां च श्रद्धां तस्य गुणोन्नतौ ।
अश्रद्धामन्यसाम्ये चाप्यन्येषामुन्नतौ तत ॥
अन्येषां तत्स्वरूपत्वे प्राकृतत्वादिकेऽस्य च ।
धृतिं तन्निन्दिवागादौ प्राप्ते तत्रैव चाधृतिम् ॥
तन्मतस्य विसर्गार्थे ह्वियं तद्भक्तिवर्जने ।
तद्विवेके धियं चैव तदज्ञाने भियं तथा ॥
वाचं नित्यं तद्गुणोक्तौ प्राणं तत्कर्मणि स्फुटम् ।
तदन्यकर्मसन्त्यागे चापानं व्यानमस्य च ॥
विरोधिनां निरासित्वेऽथोदानं योगधारणे ।
मनोवागादीन्द्रियाणां समानं नियमेऽत्र तु ॥
अनमुक्तेषु सुस्थैर्ये नरः कुर्यात् सदैव हि ।
अनेकगोचरेच्छा स्यात् काम एकाश्रये स्थितः ॥
प्राणः प्रवृत्तिहेतुः स्यादपानस्तु निवर्तने ।
बलकर्मा तथा व्यान उदानो योगकर्मकृत् ॥
देहेन्द्रियमनोनेता समानोऽनः स्थितिप्रदः ।
मनोवाक्प्राणसान्निध्यप्राधान्याज्जीव उन्नतिः ॥
मनोवाक्प्राणरूपोऽसौ भगवान् पुरुषोत्तमः ।
मनोवाक्प्राणतस्तस्य जाता अन्येऽभिमानिनः ॥
ब्रह्मा सरस्वती वायुर्मन आद्यभिमानिनः ।
सर्वस्यान्तःस्थितं विष्णुमायत्ता वाग्घि नः सदा ॥
सर्ववाचश्च घोषाश्च विष्णोर्नामेति कीर्तिताः ।
तज्ज्ञानां तत्फलं च स्यादज्ञानां तत्फलं नतु ॥
सर्वेन्द्रियगतं ज्ञानं मनआयत्तमीरितम् ।
पृष्ठे स्पृष्टोऽप्यनेनाहं स्पृष्ट इत्येव वेत्त्यतः ॥
मनस्यव्याकुलेऽन्यत्र नैव वेत्ति कथञ्चन ।
लोकवेदसुरज्ञातपित्रादेश्चाभिमानिनः ॥
द्युपृथिव्यग्निसूर्यापां सोमस्याप्यभिमानिनः ।
स इन्द्रः परमैश्वर्यादशत्रुः समवर्जनात् ॥
वायुरेते समा व्याप्तौ ब्रह्मेरौ गुणतोऽधिकौ ।
अनन्ताश्च गुणा ह्येषामन्यजीवव्यपेक्षया ॥
तेभ्योऽप्यनन्ता विष्णोस्तु तेषामेवमुपासकः ।
नित्यलोकोपभोगी स्यादनित्यस्यान्यथा भवेत् ॥
वायुः प्रजापतिः सोऽसौ चन्द्रसंस्थो विशेषतः ।
रात्रौ रात्रौ क्षयादस्य पूरणाद् रात्रिनामकाः ॥
कलाः पञ्चदश प्रोक्ता ध्रुवैवास्य तु षोडशी ।
अकलोऽपि स चन्द्रस्य कलाभिः प्रोच्यते तथा ॥
सोमावास्यां यतो रात्रौ प्राणभृत्सु व्यवस्थितः ।
कल्यावेशादल्पदोषः कृकलासवधोऽपि सन् ॥
तस्यां रात्रौ महादोषो देवतावेशतो भवेत् ।
वायुः संवत्सरः प्रोक्तो वत्सो विष्णोरसौ यतः ॥
सम्यगेव रतिं याति स एवं विदुषि स्थितः ।
अध्रुवास्तु कला यद्वत् सौम्यास्तस्य तथा धनम् ॥
आगमापायवत्त्वात्तु ध्रुवावद् देह उच्यते ।
नाभिस्थानं शरीरं तु चक्रस्य प्रधिवद् धनम् ॥
सर्वस्वविजयेऽप्यस्मात् प्रधिमात्रं हि गच्छति ।
एवं महागुणान् देवानेवं यो वेद पूरुषः ॥
नचैभ्योतिप्रियः कश्चिद् विष्णोरस्ति कदाचन ।
चतुर्थं भोज्यमेवान्नं सर्वसाधारणं स्मृतम् ॥
आत्मनोऽतिसमीपत्वं तस्य योऽन्नस्य मन्यते ।
अक्षयं पापमस्य स्याद् देवब्रह्मस्वहारिणः ॥
तदेव मन्त्रयुक्तत्वाद् बलिहोमात्मना द्वयम् ।
देवानां प्रददौ विष्णुस्तस्मान्नैवेच्छया यजेत् ॥
यदीच्छया यजेत् तेषामपहर्ता भविष्यति ।
देवस्वं तेन येनैव काम्यार्थं विनियोजितम् ॥
परकीयेन वित्तेन तस्मिन् विनिमये यथा ।
चतुष्पाद्भ्यो द्विपद्भ्यश्च पशुभ्यः पयआत्मकम् ॥
प्रायच्छत् सप्तमान्नं स गोक्षीरं मुख्यमत्र च ।
आत्मने चैव देवानां तद्धोमार्थं प्रकल्पितम् ॥
संवत्सरं गोपयसा येन होमो हरेः कृतः ।
भगवत्तत्त्वविदुषा तस्य मुक्तिर्न संशयः ॥
अदृष्टभगवद्रूपस्यैतद् दर्शनकारणम् ।
भगवद्दृष्टिपूतस्तु विना होमेन मुच्यते ॥
सप्तान्नसृष्टितत्त्वज्ञस्त्वेकहोमेन मुच्यते ।
विशेषज्ञो यतः सोऽयं भगवत्तत्त्ववेदने ॥
को नाम भगवान् विष्णुः परमानन्दरूपतः ।
प्राणिनां कर्मभिश्चैव स्वेच्छया च पुनः पुनः ॥
सप्तान्नं सृजते यस्मादन्नानामक्षयस्ततः ।
तस्मादक्षितिनामाऽसौ भगवान् पुरुषोत्तमः ॥
य एवमक्षितिं वेद भगवन्तं सनातनम् ।
अप्रयत्नोन भोगाः स्युर्यथेष्टास्तस्य सर्वदा ॥
सप्नान्नोपासनं यस्माद् देवानां योग्यमुत्तमम् ।
तस्माद् देवत्वमाप्नोति योग्यो देवपदस्य यः ॥
ऊर्जं देवान्नमुद्दिष्टमूर्जितास्तु गुणास्तथा ।
तदप्याप्नोति न नरा योग्या एतदुपासने ।
ज्ञानमात्रेण देवानां सामीप्यं प्राप्नुवन्ति ते ॥’
इति नारायणीये ।
ब्रह्मेति वेदः । स्वाध्यायादिकतृर्त्वात् पुत्रः त्वं ब्रह्मेत्याद्युच्यते । `आत्मा भवति’ व्यापको भवति ।
`पुनःपुनः कर्मकृतिर्मानुष्यजय उच्यते ।
जन्मान्तरं विना नैव कर्मणा तत्तु युज्यते ॥
पुत्रेण विद्यया नित्यमेकैकेनापि युज्यते ।
उभाभ्यां किमु वक्तव्यमष्टभागफलं सुतात् ॥
विद्यया त्वर्धमाप्नोति सर्वं सप्तान्नविल्लभेत् ।
पुत्रमाविश्य सामर्थ्यान्मुच्यते च्छिद्रकर्मणः ॥
अक्ष्णं पुदिति च च्छिद्रं पुत्रस्तत्त्राणको भवेत् ।
पृथिव्यादिस्थिता देवाः सरस्वत्यादिकास्त्रयः ॥
अधिकावेशतो देवेष्वतो देवा इति स्मृताः ।
यदावेशात् सर्वमुक्तं सत्यं दैवी तु वाग्घि सा ॥
यदावेशान्न दुःखी स्यादानन्दी दैवतं मनः ।
यदावेशात् सर्वकार्येष्वम्लानः प्राण एव सः ॥
सर्वसामर्थ्ययुक्तः स्यान्न म्रियेत कदाचन ।
एवं सप्तान्नविन्मुक्तस्त्रिभिराविष्ट एव तु ॥
सर्वेषु व्याप्तिमन्वेति न दुःखी प्राणिषु स्थितेः ।
सप्तान्नोपासनायोग्या देवा एकान्ततो हि यत् ॥
देवांश्च पापं नाप्नोति तस्मात् पापं न तस्य तु ।
देवा मनुष्यतामंशैराप्ता ये पुत्रतः फलम् ॥
स्यात् तेषामेव चाऽमुक्तेर्मुक्तानां नतु किञ्चन ।
मुक्तानां दैववागादेरावेशः सम्प्रकीर्तितः ॥
प्राणज्ञानं यथाऽवन्ति रहस्यमिति सर्वदा ।
एवं मुक्तस्वरूपं चाप्यवन्त्येव रहस्यतः ॥
उत्तमः सर्वदेवेषु प्राण एव हरेरनु ।
चतुर्मुखस्य प्राणस्य न विशेषोऽस्ति कश्चन ॥
तस्माद् विष्णोर्व्रतस्यानु नित्यं प्राणव्रतं चरेत् ।
हंसोपास्तिः श्वासरूपे तयोर्व्रतमुदीरितम् ॥
हंसरूपौ हि तौ देवौ श्वासोच्छ्वासप्रवर्तकौ ।
तस्मात् प्राण्यादपान्याच्च तद्रूपं संस्मरन् सदा ॥
नान्यस्योपासनं कुर्यात् तद्भृत्यत्वं विना क्वचित् ।
इन्द्रियाणि ससर्जाऽदौ वासुदेवः प्रजापतिः ॥
अध्यात्ममिन्द्रियाण्याहुरधिदैवं तु देवताः ।
अध्यात्ममग्निर्वाङ् नाम चक्षुरादित्य उच्यते ॥
श्रोत्रं तु चन्द्रमा नाम मनः स्थूलं तु वासवः ।
येन यज्ञादिकं कुर्याच्छेषरुद्रविपास्तथा ॥
मनः सूक्ष्मं ज्ञानयोग्यं शेषो व्याख्यानगोचरम् ।
रुद्रस्तु मननाख्यं च गरुडो ध्यानगोचरम् ॥
वायुः प्राण इति प्रोक्तो येन सर्वं नियम्यते ।
त एते भगवत्सृष्टा व्यूदिरेऽध्यात्मसंस्थिताः ॥
अधिदैवे ज्वलत्कर्मा वह्निः सूर्यस्तु तापकः ।
सोमः कान्तौ वृष्टिकर्मा वासवः शेष एव तु ॥
पञ्चरात्रप्रवृत्तीशो रुद्रस्तत्स्थक्रियापरः ।
सर्वप्रवर्तको वायुर्ज्ञानमोक्षप्रदस्तथा ॥
वेदप्रवृत्तिकृद् वीन्द्रस्तेऽधिदैवे च पस्पृधुः ।
अहं श्रेयानहं श्रेयानिति तानब्रवीद्धरिः ॥
स्वकर्म यस्त्वविश्रान्तं कुर्याच्छ्र2ेयान् स वः स्मृतः ।
इति श्रुत्वा ततश्चक्रुः कर्म स्वं स्वमनारतम् ॥
तानेनाञ्छ्र2मरूपेण प्राप ब्रह्मा प्रजापतिः ।
श्रान्ताः स्वं भगवत्कर्म न शेकुः सर्वदेवताः ॥
वायुं तु समशक्तित्वान्नाऽप ब्रह्मा प्रजापतिः ।
तेनासौ भगवत्कर्म सर्वं च कृतवान् सदा ॥
श्रमात् पापात्मको मृत्युर्भगवत्कर्मवर्जनात् ।
अन्यान् देवानवापाऽशु नैव वायुं कदाचन ॥
ते वायुं ज्ञातुमैच्छन्त श्रेष्ठोऽयमिति निश्चिताः ।
तं ज्ञात्वा तेन चाऽविष्टास्तद्भृत्यत्वमुपागताः ॥
तस्मात् प्राणाश्च मरुत इत्येषां नाम संस्थितम् ।
वायोर्देवा हि जायन्ते लयमेष्यन्ति तत्र च ॥
तस्मान्नित्यं तद्व्र2ताश्च तद्व्र2तोऽतो भवेत् सदा ।
अन्यदेवव्रतारम्भं यदि कुर्यात् समापयेत् ।
तेनासौ वायुना साकं भगवन्तमुपेष्यति ॥’ इति नारायणश्रुतौ ।
`आनन्द्येव भवति’,`न शोचति’ इत्यतो मुक्त इत्यवगम्यते ।
॥ इति षष्ठं सप्तान्नब्राह्मणम् ॥
भाष्यम्
`अमृतो वायुरुद्दिष्टो नित्यज्ञानात्मकत्वतः ।
सत्यं यथार्थवक्तृत्वाद् भारती रुद्र एव च ॥’ इति च ॥
`रुद्रे वेदेषु च प्राणः प्रविष्टश्छादितः सदा ।
सत्य इत्युच्यते नित्यं स्वरूपेणामृतं स्मृतः ॥’ इति च ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये तृतीयोऽध्यायः ॥
************************************************************************************************************
चतुर्थोऽध्यायः
भाष्यम्
अतीत्य जगद् धर्मवर्जितत्वेन स्थितत्वादतिष्ठाः । उत्तमत्वान्मूर्धा । स्वयमेवापराजितबहुरूपत्वादपराजिता सेना भगवान् । जिष्णुरुत्तमः । अन्येषां जेता अन्यतस्त्यजायी । विषासहिरसह्यः । आत्मनि हिरण्यगर्भे । आत्मन्वी चित्तवान् । चित्ताभिमानित्वात् तस्य । स्वहृदि स्थितं स्वनियामकं भगवद्रूपमुपास्यैव मोक्षो भवति । देवतासु भगवन्तमुपास्य तत्तद्देवतासमीपं प्राप्य पुनः स्वहृदिस्थमुपास्यैव मोक्षो भवतीत्यतो `नैतावता विदितं भवति’ इत्युक्तम् । स्वहृदिस्थभगवद्रूपस्य स्वस्मिन् विशेषसम्बन्धज्ञापनार्थं बृहन् पाण्डरवास इत्याद्यामन्त्रणम् । तेभ्यो नामभ्योऽप्यस्य शरीरे विशेषसम्बन्ध इत्यतः पाणिपेषणेन जीवमुत्थापयामास भगवान् । येषां बहिरुपासनेन मोक्षस्तेषामपि हृद्युपासनं किञ्चित् कर्तव्यमेव । स्वहृदिस्थेन भगवद्रूपेण विशेषसम्बन्धदर्शनार्थमेव `यत्रैष एतत् सुप्तोऽभूत्’ इत्यादिप्रश्नप्रतिवचनं समस्तम् । यत्र यस्मिन् परमेश्वरे विज्ञानमये एष जीवः सुप्तोऽभूत् । यत्रेत्यधिकरणभूत एव `य एष विज्ञानमयः’ इति परामृश्यते । `अन्योऽन्तर आत्मा विज्ञानमयः’,`विज्ञानं ब्रह्म चेद् वेद’ इत्यादिश्रुतेः । तानि यदा परमात्मा गृह्णाति तदैतत्पुरुषो जीवः स्वपिति नाम । स यत्र परमात्मा स्वप्नया नाड्या चरति तदा जीव उच्चावचं निगच्छतीव । सर्वदा महाराजवत् प्राणान् गृहीत्वा परमात्मा परिवर्तते । जीवस्तु कदाचिदेव स्वप्ने राजवदात्मानं पश्यति कदाचिद् ब्राह्मणवच्छ्वमार्जारादिवद् वा । आनन्दस्य परमात्मनः अतिघ्नीं समीपम् । कुमारो रुद्रः । महाराजो वायुः । महाब्राह्मणो ब्रह्मा । नहि जीवो विज्ञानपूर्वकं प्राणानां विज्ञानमादत्ते । नच सर्वप्राणलोकदेवभूतानां स्रष्टा ।
`आदित्यचन्द्रविद्युत्सु भूतेष्वादर्श एव च ।
गच्छत्पाश्चात्यशब्दे च दिक्षु च्छायागतं तथा ॥
हिरण्यगर्भसंस्थं च सदोपास्य हरिं परम् ।
स देवसार्ष्टितामेत्य हृद्युपास्य हरिं पुनः ॥
मुक्तिमेत्यथ यो बाह्यान्मुक्तिमेष्यति सोऽपि तु ।
हृदि किञ्चिदुपास्यैव विष्णुं मुक्तिमनुव्रजेत् ॥
यानि सूर्यादिनामानि विष्णोस्तानि न संशयः ।
तदुक्तान्येव सूर्यादेराकृष्यैवोपचारतः ॥
विशेषेण तु सम्बन्धो यतः स्वहृदि संस्थिते ।
जीवस्यातो न सोमादिनाम्नाऽऽहूतो हरिः परः ॥
जीवं च चारयेत् तत्र यदा विष्णुः सनातनः ।
स्वप्नं पश्यति जीवोऽयं यदा विज्ञानरूपिणम् ॥
सुषुम्नासंस्थितं विष्णुमेति तत् सुप्तिमेष्यति ।
सम्यग्ज्ञानमयाद् विष्णोरुत्थानं चाप्ययं ब्रजेत् ॥
प्राणानां चैव लोकानां देवानां प्राणिनामपि ।
सत्यसत्यो हरिः स्रष्टा पाताऽपि लयकृत् तथा ।
नियन्ता मोक्षदश्चैव विष्णुरेव सनातनः ॥’ इति नारायणश्रुतौ ।
॥ इति अजातशत्रुब्राह्मणम् ॥
भाष्यम्
आधानमवस्थानं सूक्ष्मशरीरम् । प्रत्याधानं वितानं स्थूलशरीरम् । प्राणो नारायणः स्थूणा ।
`वायुर्गोवत्सरूपेण सर्वप्राणिषु संस्थितः ।
सूक्ष्मदेहो गृहं तस्य वितानं स्थूल उच्यते ॥
अन्नं दामात्मकं तस्य स्थूणा तु भगवान् हरिः ।
ध्यायत्येवं हि यो वायुं श्रोत्रादीन् मनसा सह ॥
बुद्धिं च सप्तशत्रून् स विषयेष्वभिधावतः ।
असुरान् सन्निरुद्ध्यैव वेत्ति नारायणं परम् ॥
दक्षिणाक्षिस्थितं वायुं सप्त देवा उपासते ।
अक्षीणज्ञानमहसः सदाशिवपुरःसराः ॥
उपास्यमानं तैर्देवैर्मोक्षार्थं वायुमीश्वरम् ।
स्थूणया विष्णुना सार्धं यो विद्यात् सोऽन्नमश्नुते ॥
अक्षीणमेव मुक्तः सन् सर्वदुःखविवर्जितः ।
विश्वरूपं यशश्चेति नाम्ना विष्णू रमा तथा ॥
वायुश्च संस्थिता नित्यं सर्वेषां दक्षिणाक्षिगाः ।
पूर्णत्वाद् विश्वता विष्णो रमायाः स्त्रीषु पूर्णतः ॥
वायोर्जीवेषु पूर्णत्वाद् यशो ज्ञानसुखात्मकाः ।
प्राणाश्चैते प्रणेतृत्वाद् ऋषयो रुद्रपूर्वकाः ॥
गौतमो नाम रुद्रस्तु सर्वज्ञत्वात् प्रकीर्तितः ।
भरद्वाजस्तु पर्जन्यो वाजमन्नं भरद् यतः ॥
वृष्ट्यैव विश्वामित्राख्य आदित्यो यत् प्रकाशनात् ।
विश्वं विज्ञापयन् नित्यमग्निस्तु जमदग्निकः ॥
जातं मितं चात्ति यस्माद् वसिष्ठाख्यस्तु वासवः ।
वसतामुत्तमो यस्मात् पृथ्वी कश्पनामिका ॥
मेघवृष्टं पिबेद् यत् कं शयानैव हि सा सदा ।
द्यौरत्रिरिति सम्प्रोक्ता तत्स्थैर्हि हुतमद्यते ॥
श्रोत्रदृङ्नासिकावाक्षु दक्षिणादिषु संस्थिताः ।
द्वितीयेन तु रूपेण देवा एते शिवादयः ॥
एवमेषां तु नामानि वेत्ति यः सर्वभुग् भवेत् ।
सरस्वत्यष्टमी चैव वाचि संस्था विशेषतः ॥
उपास्ते वायुमेवैकं सस्थूणं ब्रह्मवेदिता ।
ब्रह्मनामा सदा वायुरेनां वेत्ति विशेषतः ।
इति तां वेद यो विद्वान् सर्वात्ता स भविष्यति ॥’ इति नारायणीये ।
॥ इति शिशुब्राह्मणम् ॥
भाष्यम्
विशरणावसादनयुक्तं सत् । ततं सर्वज्ञं च त्यम् । प्रलयेऽपि भगवदन्तरेव रता क्षिताऽवस्थितेति श्रीरन्तरिक्षम् । `य एष तपति’ इत्यादित्यस्थो हिरण्यगर्भ उच्यते । `मण्डले पुरुषः’ इति भगवान् विष्णुः। एवमेव चक्षुर्दक्षिणेऽक्षन् पुरुषश्च । तस्यैवामूर्तरसस्य भगवतो नेति नेतीत्यादेशः । अतस्तस्मादमूर्तसारत्वादित्यर्थः । अथेत्यानन्तर्यार्थे । इति न इति नेति मूर्तामूर्तविलक्षण इत्यर्थः । उभयसादृश्यनिषेधार्थं द्विवारम् । इति नेति निषिद्ध्यमानमप्येतस्मादन्यत् परं नास्ति । एष एव परः । मूर्तामूर्तं त्वपरमेवैतदपेक्षया । मूर्तामूर्तमेवाध्यात्मं प्राणा इत्युच्यते । ब्रह्मणो वायोश्चामूर्तत्वात् ।
`मूर्तामूर्तमिदं रूपं ब्रह्मणः प्रतिमात्मकम् ।
नैव स्वरूपमेतत् स्यात् तद्धि सर्वपरं सदा ॥
श्रियो वायोर्विरिञ्चाच्च येऽन्ये मूर्ता हि ते स्मृताः ।
मूरं पापं हि तेनाऽप्तं मूर्तमित्यभिधीयते ॥
विशीर्णं चावसन्नं च तदेवातः सदुच्यते ।
पराधीनगतित्वाच्च स्थितमित्यभिधीयते ॥
तस्य सारो विरिञ्चस्तु तद्विरुद्धस्वभावकः ।
मूर्ताद् विरुद्धरूपत्वाच्छ्र2ीर्वायुश्चाप्यमूर्तकौ ॥
सर्वज्ञौ च ततौ चैव नियतौ हरिणैव तौ ।
तयोः सारस्तु भगवान् हरिर्नारायणः परः ॥
आदित्यमण्डले चैव चक्षुष्यपि च स स्थितः ।
तत्रैव संस्थितो ब्रह्मा मूर्तसारोऽपि तस्य च ॥
विष्णुरेव परः सारस्तस्य रूपाण्यनेकधा ।
महाराजनवासोवत् पाण्ड्वाविकवदेव च ॥
विद्युत्पदम्ेन्द्रगोपादिवह्निवत् सुखभास्वरः ।
नैवासौ मूर्तवद् विष्णुर्नच मूर्तरसोपमः ॥
नचामूर्तोपमो देवः स एव परमः सदा ।
तस्यान्यदपरं सर्वं सत्यसत्यः स एकराट् ।
मूर्तामूर्तात्मकाः प्राणास्तेषां सत्यः स एव हि ॥’
इति नारायणश्रुतौ ।
प्रथमनिषेधेनैव मूर्तरसादृश्यमपि निषिद्धम् ॥
॥ इति मूर्तामूर्तब्राह्मणम् ॥
भाष्यम्
आत्मा नारायणः । तस्यैव हि कामेन पत्यादिः प्रियो भवति । नहि पत्यादिना जायादीनामहं प्रियः स्यामिति कामनामात्रेण प्रियत्वं भवति । भगवदिच्छयैव हि तद् भवति । अन्यथा जायार्थे पत्यर्थ इत्येव स्यात् । प्राधान्यादिदं सर्वं विदितम् । सर्वकारणत्वाच्च सर्वप्राधान्यं भगवतः । प्राधान्याप्राधान्ययोरपि स एव हि हेतुः । `अन्यत्राऽत्मनो ब्रह्म वेद’,`भगवदधीनत्वेन न वेद । तदनाश्रितत्वेन स्थानान्तरे च वेद । परादात् परतो लोकालोकस्यान्धतमसि । इदं ब्रह्मादिकम् । `यदयमात्मा’ यत्रायमात्मा । अन्यत्र परिज्ञाने दोषोक्तेस्तत्र परिज्ञानं ह्युक्तं भवति । अन्यथा अन्यदात्मनो ब्रह्म वेदेति स्यात् । यदित्यव्ययत्वाद् यत्रेत्यपि भवति । यथा यस्मादित्यर्थे । `सप्तसु प्रथमा’ इति च सूत्रात् । दुन्दुभ्यादिदृष्टान्तोऽपि तदधीनत्वं तत्कारणत्वं च ज्ञापयति । नहि दुन्दुभ्यादिरेव तच्छब्दः । नच तदुपादानम् । स्थानान्तरे तदुपलम्भात् । नह्युपादानादुपादेयं स्थानान्तरे भवति । शब्दो हि स्थानान्तरं गत्वा प्रतिश्रुतित्वमप्युपैति । भगवदिच्छाया दृष्टान्तो दुन्दुभ्याघातादिः । नहि दुन्दुभिं पश्यन् पुरुषो दुन्दुभ्याघाते मुखशब्दोऽयमिति गृह्णाति । एवं भगवन्तं जानन् नान्याधीनं जगदिति गृह्णाति । किन्तु भगवदिच्छाधीनमिति । एतदेव दर्शयति- `स यथाऽर्द्रैधाग्नेः’,`स यथा सर्वासामपाम्’ इत्यादिना । नह्यग्निरेव धूमः । नचाऽप एव समुद्रः । नह्यपामाप एवाऽश्रयाः । किन्तु वरुणोऽपां खातो वा । स एव च समुद्र इत्युच्यते । एवमेव सैन्धवखिलस्य विलीनस्य समस्ताम्भसश्च वरुणोऽपां खातो वा समुद्राख्य आश्रयः । वरुणवदपां खातवद् वाऽनन्तोऽपारो भगवान् । जीव एव विज्ञानघनाख्यो भूतसम्बन्धाज्जातः संस्तल्लयमनु भगवन्तमाप्नोति । समुद्रे प्रास्तसैन्धवखिल्यवत् । समुद्रजलस्थानीया मुक्ता बहव एकस्वभावाः । बहवो हि जलपरमाणवः । सामुद्रं जलमेकाश्रयम् । मुक्तानां सञ्ज्ञाऽप्यन्यैर्न ज्ञायते शास्त्रं विना । `संज्ञा नास्ति’ इत्युक्त्वा `अलं वा अर इदं विज्ञानाय’ इत्युक्तेर्न विजानातीत्युक्ते प्रतिज्ञाविरोधः । नच सर्वाज्ञानं पुरुषार्थः ।
`मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत् ।’ इति च ।
`नानात्वेनाभिसम्बुद्धास्तदा तत्कालभाविना ।
संयोगः प्रकृतेर्नैषां मुक्तानां तत्त्वदर्शनात् ॥
प्रवर्तति पुनः सर्गे तेषां सा न प्रवर्तते ।
आनन्देन विना चैव भोगेन विषयेण च ।
सर्वे ते ब्रह्मणस्तुल्या आधिपत्येन चैव हि ॥’
इति वायुप्रोक्ते ।
इवशब्दस्त्वस्वातन्त्र्यार्थे । नहि तदधीनं पृथगित्येवोच्यते । तस्मादमुक्तैर्न ज्ञायत इति सञ्ज्ञा नास्तीत्युक्तम् ।
`पतिर्जायाप्रियो नैव स्वेच्छया तु भविष्यति ।
विष्णोरिच्छाबलेनैव स्वयं च स्वप्रियो भवेत् ॥
विष्णोरिच्छावशेनैव हन्ति ह्यात्मानमात्मना ।
स्वात्मानमप्रियं कृत्वा निरये पातयत्यपि ॥
प्राधान्येन हरेर्ज्ञानात् सर्वं विदितवद् भवेत् ।
ब्रह्मजात्यात्मकं वेत्ति नैव विष्णुवशं हि यः ॥
ब्रह्माणं तं ततो ब्रह्मा पातयेत् तमसि ध्रुवम् ।
एवं क्षत्रात्मको वायुर्वित्तरूपश्च वित्तपः ॥
पञ्च भूतानि विश्वे च देवा लोकाभिमानिनः ।
सर्वाभिमानिनी देवी मूलप्रकृतिरेव च ॥
सर्वं विष्णौ स्थितं विष्णोर्जातं विष्णोर्वशे सदा ।
शङ्खशब्दो यथा शङ्खदेवतावशगः स्थितः ॥
तस्माद् वेदाः समुत्पन्ना विद्याख्या मूलिका श्रुतिः ।
सर्वोपनिषदश्चैव पञ्चरात्राख्यसंहिताः ॥
ब्रह्मसूत्राणि वेदानां व्याख्यास्तासां च विस्तरः ।
सर्वमेतज्जगच्चैव निस्सृतं तुरगाननात् ॥
वरुणस्य वशे यद्वदाप एवं वशे हरेः ।
सर्वे बद्धाश्च मुक्ताश्च तारतम्यात्मना स्थिताः ॥
यदि मुक्तस्य विज्ञानं गन्धादिविषये न चेत् ।
तथैव भगवद्रूपे स्वरूपे च परस्परम् ॥
एवमज्ञानरूपां तां मुक्तिं को नाम वाञ्छति ।
तस्माद् विष्णोर्वशे सर्वे यथेष्टमुपभोगिनः ।
मुक्ताः सदा तारतम्यात् तिष्ठन्त्या ब्रह्मणोऽखिलाः ॥’
इति हयग्रीवसंहितायाम् ।
`सर्गे सर्गे तु यो नैव शब्दतोऽप्यन्यथा भवेत् ।
श्रुत्याख्यः स तु विज्ञेय इतिहासादिरर्थतः ॥
भगवद्दृष्टमेवान्यैर्ब्रह्माद्यैदृर्श्यते यदि ।
ऋषिभेदस्तु तत्र स्याद् वेदो नाविष्णुनिर्गतः ।
वेद इत्येव विष्णूक्तस्तपसा दृश्यते परैः ॥’ इति च ॥
॥ इति मैत्रेयिब्राह्मणम् ॥
भाष्यम्
भगवतो रूपं रूपं प्रति जीवाख्यः प्रतिबिम्बो बभूव । बभूवेति `सदेव सोम्येदमग्र आसीत्’ इतिवदनादित्वार्थे ।
`सुखदा सर्वभूतानां पृथ्वी मधुवदुच्यते ।
पृथिव्याश्चैव भूतानि तथा सर्वाश्च देवताः ॥
पृथिव्यादिषु देवेषु शरीरादिषु च स्थितः ।
एक एव परो विष्णुर्हयशीर्षस्वरूपधृत् ॥
अनन्ततेजा नित्यश्च स एव ब्रह्म सर्वगः ।
तदेव गुणपूर्णत्वाद् ब्रह्म सर्वमनूनतः ॥
आत्मनामा परो विष्णुः सर्वगो यः प्रकीर्तितः ।
स एव हयशीर्षाख्यस्त्वधिदैवादिषु स्थितः ॥
अराणामाश्रयौ यद्वद् बहिरन्तः प्रतिष्ठितौ ।
नाभिनेमी तथा विष्णुर्जीवानामाश्रयः स्थितः ॥
स एव दशधा प्रोक्तो विष्णुर्मत्स्यादिरूपकः ।
शतं नारायणाद्यात्मा विश्वाद्यात्मा सहस्रकः ॥
परादिरूपो बहुधा सोऽनन्तात्माऽजितादिकः ।
भूताख्यसर्वजीवानां विरिञ्चानां च सर्वशः ॥
आत्मनाम्नां स एवैको राजाऽधिपतिरेव च ।
स्वामित्वाद् राजशब्दोऽयमाधिक्यात् पालनात् तथा ॥
अधिपश्चेति स प्रोक्तः पुरुषः पूरुषु स्थितेः ।
पुराख्येष्वेव देहेषु हृत्पुर्यपि वसत्यसौ ॥
नानेन किञ्चिदव्याप्तं नानेनाऽच्छादितं न च ।
नैवास्मात् पूर्वकं किञ्चिन्नैवास्मादपरं तथा ॥
सर्वस्माद् बाह्यतश्चासौ सर्वस्मादन्तरस्तथा ।
व्याप्तेरात्मेति स प्रोक्तो ब्रह्मेति गुणपूर्तितः ॥
स सर्वस्यापरोक्षज्ञ इति वेदानुशासनम् ।
विरिञ्चस्त्वात्मशब्दोक्तो मानुषं मनुरुच्यते ॥
सत्यं च स्तनयित्नाुश्च वायो रूपान्तरे स्मृते ।
एत एव स्वरे सत्ये जीवे चाध्यात्मसंस्थिताः ॥
तेषां नियामको विष्णुस्तत्र तत्रैव संस्थितः ।
जीवे स्थितस्त्वात्मनामा सौवरः स्वरगः स्मृतः ॥
सत्यगः सात्यनामाऽसौ धर्मगो धार्म एव च ।
मनोः स्वायम्भुवस्याऽख्या मानुषेत्येव देहिषु ॥
बहिश्च तद्गतो विष्णुर्मानुषेत्येव कीर्त्यते ।
प्रातिश्रुत्क इति श्रोत्रे तैजसो विद्युति स्थितः ॥
इति नानाविधैर्नामसमूहैर्विष्णुरिज्यते ।
दध्यङ् आथर्वणोऽश्विभ्यामेतां विद्यामदात् पुरा ।
हयग्रीवब्रह्मविद्येत्येषा ब्रह्मादिभिधृर्ता ॥’ इति च ॥
प्रत्यैरयतं प्रतिसमधत्तम् । ऋतायन् सत्यं कुर्वन् । कक्ष्यं नारायणकवचम् । त्वाष्ट्र2ं त्वष्टुः पुत्रेण विश्वरूपेणेन्द्रायोक्तम् । सनये लाभाय । दंसः कर्म । स्तनयित्नाुवृर्ष्टिमिव । तस्यां विद्यायां परस्योक्तायां तव शिरच्छेत्स्यामीतीन्द्रेण दधीचं प्रयुक्ते सोऽश्विभ्यामावां ब्रूहीत्युक्त इन्द्रेणोक्तमाह । तदाऽश्विभ्यां पाव इत्युक्त्वा तच्छिरश्छित्वाऽन्यत्र निधायाश्वशिरः सन्धितम् । तेन विद्यायामुक्तायां तस्मिन्निन्द्रेण च्छिन्ने पूर्वशिरः सन्धितम् । पूर्वं जानन्नपीन्द्रः पश्चाद् विश्वरूपाच्छुश्रावेति पुनर्नवत्वायेति न `विश्वरूपस्त्वाष्ट्र2ोऽश्विभ्याम्’ इत्यनेन विरोधः ।
॥ इति मधुब्राह्मणम् ॥
भाष्यम्
`पाराशर्यो जातुकर्ण्यः पराशरसुतावुभौ ।
विप्रायामेव भार्यायां तृतीयः कृष्ण एव च ॥’ इति ब्रह्माण्डे ।
`परस्य ब्रह्मणो विष्णोर्हयशीर्षादधीतवान् ।
ब्रह्मविद्यामिमां ब्रह्मा ततः सनक एव च ॥’ इति गारुडे ।
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये चतुर्थोऽध्यायः ॥
पञ्चमोऽध्यायः
.
भाष्यम्
`होतर्यग्नौ वाचि चैव यो विष्णुं मुक्तिदं स्मरेत् ।
नित्यं स मुच्यतेऽध्वर्युसूर्यचक्षुष्षु यः स्मरेत् ॥
अधिकः प्रकाश एवास्य मुक्तावन्येभ्य इष्यते ।
मुक्तेभ्योऽपि तथोद्गातृवायुप्राणेषु यः स्मरेत् ॥
पूर्णचन्द्रं सदा पश्येदधिकाह्लादसंयुतः ।
मनोब्रह्मनिशेशेषु यो विष्णुं सर्वदा स्मरेत् ॥
अप्रयत्नोन लोकं स विष्णोर्याति न संशयः ।
होत्रग्न्यादीनि नामानि विष्णोः सर्वाणि मुख्यतः ॥
तत्सम्बन्धात् तदन्येषां स वै होत्रादिकर्मकृत् ।
तस्माद्धोत्रग्निवागादेरैक्यं श्रुतिषु चोच्यते ॥
होत्रादिषु चतुर्ष्वेष वासुदेवादिरूपधृत् ।
व्यवस्थितो हि तज्ज्ञानादचिरान्मुक्तिमेष्यति ॥
मुक्तिनामा स भगवान् मोक्षदत्वात् प्रकीर्तितः ।
मनुष्येभ्योऽधिकसुखं देवेभ्यो यत् प्रयच्छति ॥
मुक्तावप्यतिमोक्षः स तेन देवः प्रकीर्तितः ।
एता ह्युपासना नित्यं नैव योग्या नृणां श्रुताः ॥
अतिमुक्तिप्रदा यस्माद् देवाद्यास्तासु योगिनः ।
याज्याशस्यापुरोवाकसंस्थितं यो हरिं स्मरेत् ॥
सर्वप्राणभृतामीशः स भवेन्नात्र संशयः ।
उज्ज्वलच्छब्दवद्द्राविष्वेकमेव हरिं स्मरेत् ॥
सर्वलोकाधिपत्यं स लभते पुरुषोत्तमात् ।
मनसो देवता ब्रह्मा सर्वदेवेषु संस्थितः ॥
देवब्रह्ममनस्स्वेकं यो विष्णुं सर्वदा स्मरेत् ।
अनन्तनामकं तेन तल्लोकं नित्यमश्नुते ॥
निश्चयेन विमोक्ष्यत्वाद् विश्वे देवा अनन्तकाः ।
अनन्तनामकं विष्णुमुपास्यापि ह्यनन्तकाः ॥
पुरोवाक्यादिषु प्राणादिषूपासां करोति यः ।
एकमेव हरिं लोकव्याप्तिमेव लभेदसौ ॥
अत्रापि वासुदेवाद्याश्चत्वारो देवताः स्मृताः ।
देवानां पदहेतुत्वात् सम्पन्नाम्न्य उपसनाः ॥
मुक्तौ भोगविशेषस्य हेतुत्वाच्च प्रकीर्तिताः ।
एताश्च देवतायोग्या न मनुष्येषु कुत्रचित् ।
मनुष्याणां ज्ञानमात्राद् गुणाधिक्यं भविष्यति ॥’
इति परमश्रुतौ ॥
॥ इति आश्वलब्राह्मणम् ॥
भाष्यम्
आकाशं परमात्मानमेव ।
`केचित्तु मानुषा मुक्तिमनुत्क्रम्यैव देहतः ।
देहपाते तु देहस्य दोषान् भुक्त्वैव सर्वशः ॥
मरणोच्छूनतादींस्तु स्वकीयारब्धकर्मजान् ।
देहे क्षीणे तु गच्छन्ति दृष्द्वा विष्णुमनुज्ञया ॥
पुनरत्रैव तिष्ठन्ति नित्यानन्दैकभोगिनः ।
देहादुत्क्रम्य देवास्तु यान्ति विष्णुं सनातनम् ॥
देहादुत्क्रम्य यातानां देवा भागत एव तु ।
स्वाधिदैवं व्रजन्त्यद्धा भागतोऽनुव्रजन्ति तान् ॥
आकाशाख्यं स्वरूपं तु विष्णुस्तद्धृदि संस्थितः ।
भागतो भागतश्चैनाननुयाति जनार्दनः ॥
ज्ञानस्थितेन रूपेण देवानां मुक्तिदो हरिः ।
पुण्यस्थितेन रूपेण स्वर्गं निरयमन्यगः ॥
रहस्यमेतद् देवानां विदुः कर्मेति मानुषाः ।
तस्मान्नैव जनेष्वेतद् विष्णोः कर्म प्रकाशयेत् ॥’ इति च ॥
अत एव याज्ञवल्क्यो न जनेषूवाच
`कर्मनामा तु भगवान् फलकतृर्त्वतो हरिः ।
पातनात् पापानामाऽसौ पुनातेः पुण्यनामवान् ॥’
इति भारते ॥
॥ इति आर्तभागब्राह्मणम् ॥
भाष्यम्
पारिक्षिताः प्रद्युम्नाः । अश्वमेधयाजिन इन्द्राः ।
`प्रद्युम्नः कामनामाऽसौ पारीक्षित इतीरितः ।
सर्वेक्षणाद् परो विष्णुः परीक्षिदिति कीर्तितः ॥
तत्पुत्रत्वात् कामदेवः पारीक्षित इति स्मृतः ।
शताश्वमेधयाजित्वादिन्द्रा एवाश्वमेधिनः ॥
अतीतानागतानां च कामानां वज्रिणामपि ।
एकमेव हि मुक्तानां स्थानं वेदोदितं सदा ॥
इन्द्रनामा तु गरुडः सामर्थ्यादेव कथ्यते ।
तस्य रूपद्वयं नित्यं सौपर्णं पौरुषं तथा ॥
तत्र पौरुषरूपी सन् भूत्वा सौपर्णरूपवान् ।
कामदेवानुपादाय मुक्तौ वायोः प्रयच्छति ॥
वायुस्तान् स्वशरीरस्थान् कृत्वेन्द्रा यत्र मुक्तिगाः ।
प्रद्युम्ननामके विष्णावेवं वायुर्हि मोक्षदः ॥
तस्मात् सर्वोत्तमो वायुर्विविधं तु यदष्टकम् ।
देवानृषीन् पितॄन् यक्षान् गन्धर्वान् मानुषोरगान् ॥
असुरांश्च वशे नित्यं नयत्यमितपौरुषः ।
सम्पूर्णांश्च सुपर्णेशशेषेन्द्रांस्तत्स्त्रियोऽपि च ॥
अष्टौ नयत्युन्नयति वशीकृत्य स्वयं प्रभुः ।
अतो व्यष्टिः समष्टिश्च वायुरेवाभिधीयते ॥
एवं व्यष्टिं समष्टिं च यो वायुं वेद तत्त्वतः ।
तत्परं च हरिं नित्यं मुच्यते संसृतेः पुमान् ॥’
इति परमसंहितायाम् ।
`चरकस्तीर्थसञ्चारी वित्तार्थी करकः स्मृतः ।’ इत्यभिधानम् ।
`अहर्मुहूर्तं विज्ञेयमहर्मासोऽपि भण्यते ।
अहर्दिनं प्रकाशश्च क्वचिज्ज्ञानं बलं तथा ॥’ इति च ।
`मुहूर्तमष्टभागोनघटिकाद्वयमिष्यते ।
क्वचिद् द्विघटिकाऽपि स्यात् क्वचित् स्यात् तावदुत्तरः ॥’
इति कालनिर्णये ।
`द्वात्रिंशत्तु मुहूर्तानां दिनमेकं विदुर्बुधाः ।
त्रिंशन्मुहूर्तमथवा मुहूर्तोन्मानभेदतः ॥’ इति च ।
`सप्तकोटिं च लक्षाणां चतुर्दश च नित्यशः ।
अष्टाविंशत्सहस्रं च सप्तांशशतपञ्चकम् ॥
सौरो रथस्त्वहोरात्रात् परियाति दिवि स्थितः ।
तत्त्रिभागाधिकं चक्रं मानसोत्तरगं चरेत् ॥
नृणां कार्तयुगानां तु योजना मानतो भवेत् ।
यावत् सूर्यरथो याति दिवारात्रेण पार्श्वयोः ॥
सूर्यस्य तावदेव स्यात् प्रकाशः सर्वतस्तथा ।
तमोऽन्धं द्विगुणं तस्मात् काठिन्यात् पृथ्विनामकम् ॥
ततो मण्डोदक चापि द्विगुणं परिकीर्तितम् ।
पञ्चशत्कोटिविस्तारमेवमण्डान्तरुच्यते ॥
ततस्त्वण्डं च सौवर्णं तद् भिन्नं हरिणा पुरा ।
सुषिरं सर्वतो दिक्षु क्षुरधारा समन्ततः ।
सुपर्णो वायवे तेन मुक्तान् कामान् प्रयच्छति ॥’
इति तत्त्वसंहितायाम् ।
॥ इति भुज्युब्राह्मणम् ॥
भाष्यम्
यत् साक्षादपरोक्षात् । साक्षादेवापरोक्षं अत्ति अनुभवति स्वरूपं अन्यच्च सर्वं पश्यतीति साक्षादपरोक्षात् । आपरोक्ष्येण पश्यतामप्यन्येषां भगवत्प्रसादादेव दर्शनं भवति, न भगवतोऽन्यापेक्षयेति साक्षादिति विशेषणम् । अनन्यापेक्षस्याप्यपूर्णत्वं भवतीत्यतो ब्रह्मेति । अन्येषां नियन्तृत्वं चास्तीत्यत आत्मा । अन्यनियन्तृत्वेऽप्यन्यापेक्षा नास्तीत्यतः सर्वान्तरः । सर्वं सामर्थ्यं स्वान्तरेवास्तीति । जीवेश्वराभेदनिवृत्त्यर्थं त आत्मेति । साक्षादपरोक्षात्त्वादिगुणैरेव भेदे सिद्धेऽपि परमार्थतो जीवेश्वराभेदनिवृत्त्यर्थः `त आत्मा’ इति । तत्र प्रधानतात्पर्यज्ञापनार्थं पुनःपुनरभ्यासः । देवतान्तरस्यापीदं लक्षणं समानमिति पृच्छति - यथा विब्रूयादित्यादिना । चतुष्पात्त्वादिलक्षणं गोरश्वस्यापि यथा समम्, एवमेव साक्षादपरोक्षात्त्वादिलक्षणं तत्तद्देवतावादिभिस्तस्यास्तस्या अङ्गीक्रियत एव । अतो विशेषनाम वक्ति अः इति । अतोऽन्यद् विष्णोरन्यदार्तम् । अ इति विष्णोर्हि नाम । `न ते विष्णो’,`परो मात्रया’ इत्यादिश्रुतिप्रसिद्धं विष्णोर्लक्षणम् । `न दृष्टेर्द्रष्टारम्’ इत्यादिना वक्ति ।
`विनैवान्यप्रसादेन पूर्णसर्वगुणात्मकम् ।
पश्यन्ननुभवत्येव स्वं रूपं केशवः प्रभुः ॥
पश्यत्यव्यवधानेन सर्वं चान्यज्जडाजडम् ।
साक्षादेवापरोक्षात् स विष्णुरेव ततः स्मृतः ॥
साक्षाच्छब्दः स्वतन्त्रत्वमपरोक्षस्त्वनावृतिम् ।
अदनं भोग उद्दिष्टस्तस्माद् विष्णुस्तथा स्मृतः ॥
ब्रह्माऽसौ गुणपूर्णत्वादात्मा सर्वनियन्तृतः ।
अनियम्यत्वतो नित्यं सर्वैः सर्वान्तरः स्मृतः ॥
प्राणादिपञ्चरूपो यो वायुः सर्वनियामकः ।
नियन्ता परमो विष्णुर्वायोस्तस्यापि सर्वदा ॥
न दृश्यश्चक्षुषा चासौ न मनोबुद्धिगोचरः ।
अनन्तत्वान्महाविष्णुरवाच्योऽश्राव्य एव च ॥
यद्यप्येते गुणाः सर्वे विष्णोरेव नचान्यगाः ।
तथाऽप्येतैर्गुणैर्युक्तानज्ञाः प्राहुः शिवादिकान् ॥
आनाम्नैव ततो विष्णुमाहुर्वेदा अदोषतः ।
अदोषत्वाद् गुणोद्रेकाद् अ इत्युक्तो हरिः स्वयम् ॥
अगम्यत्वाच्च बुद्ध्यादेरतोऽन्ये सर्व एव तु ।
ब्रह्मरुद्रादयो जीवा दुःखिनस्तत्प्रसादतः ॥
दुःखमुक्ता निजानन्दं प्राप्नुयुर्नित्यमञ्जसा ।
मुक्तानामपि सर्वेषां विष्णुरेव नियामकः ॥
पूर्णानन्दस्य तस्यैव मुक्ता विप्लुट्सुखात्मकाः ।
तारतम्येन तिष्ठन्ति ब्रह्मा तेष्वधिकः सदा ॥
यथा चन्द्रात् सदा भिन्नाः सर्वे तुहिनबिन्दवः ।
एवं विष्णोः सदा भिन्ना मुक्ता ब्रह्मादिका गणाः ॥
एवं नियन्ता भगवान् पूर्णसर्वगुणार्णवः ।
एक एव परो विष्णुरनियम्यः सदोदितः ॥’
इत्यादिबृहच्छ्र2ुतिः ।
`आर्तिर्दुःखं समुद्दिष्टमनार्तो विष्णुरव्ययः’ इति च ।
अतोऽन्यदार्तमित्येतस्माच्च जीवानां भेदः प्रसिद्धः । नहि जीवादन्यस्याऽर्तिर्युज्यते । अतो जीवेभ्योऽन्यश्च विष्णुरेव । तदन्ये ब्रह्मरुद्रादयः सर्वे जीवा एवेति सिद्धम् ।
`प्रकृतिस्त्वतिसामीप्यादनार्ताऽपि पृथङ् न तु ।
उच्यते न स्त्रियो यद्वत् त्रयस्त्रिंशत्सुभेदिताः ॥’ इति च ।
॥ इति उषस्तब्राह्मणम् ॥
भाष्यम्
यदेव साक्षादिति पुनः प्रश्नो मुक्तानामपि भगवतो भेदोऽस्तीति ज्ञापयितुम् । यदेव ब्रह्म तदन्ये ब्रह्मरुद्रादयो मुक्ता अपि यन्नैव भवन्ति कदाचन तमेव मे व्याचक्ष्व मुक्तजीववैलक्षण्येन सहेति द्वितीय एवशब्दार्थः। स तु भगवान् स्वत एवातीताशनायादिरतीतानागतवर्तमानकालेषु । ब्रह्मादयस्तु तं विदित्वा तत्प्रसादादेव पश्चादत्येष्यन्ति । एतं वै तमिति एतादृशैर्गुणैः साक्षादपरोक्षात्त्वजीवभेदादिभिर्युक्तमित्यर्थः । `भिक्षाचर्यं चरन्ति’, मुक्ता अपि ब्रह्मादयस्तस्मादेव परमेश्वराद् विप्लुडानन्दमेव भिक्षन्तो वर्तन्ते । ब्रह्माणनान्मुक्ता एव ब्राह्मणशब्देनोच्यन्ते । नहि ज्ञानादनन्तरं संन्यासस्य कर्तव्यता । येषां च तद्योगता तेषामपि ज्ञानार्थत्वेनैव संन्यासः । मुक्ता अपि यं भिक्षन्ते सोऽतिपरिपूर्णमहानन्दो भगवान् स्वत एव । तदन्ये ब्रह्मादयो मुक्ता अपि तत एव विप्लुडानन्दभिक्षुका इति विशेषः । तथाऽपि तेषामेषणातीतत्वान्न दुःखम् । पुत्रस्य वित्तस्य च लोकार्थत्वाल्लोकैषणायामन्तर्भावः । वित्तस्यापि प्रायः पुत्रार्थत्वात् पुत्रैषणायाम् । लोकैषणाया अपि दुःखरूपत्वात् साऽपि तेषां नास्त्येवेति दर्शयितुम् - `उभे ह्येते एषणे एव भवतः’ इत्याह । उभे अपि दृष्टादृष्टविषये एषणात्वाद् दुःखरूपे एवेत्यर्थः । पुत्रवित्तैषणे उभे अपि दृष्टविषयत्वादेकैवेत्युभे एवेत्युक्तम् । द्वितीयो ब्राह्मणो ब्रह्माणितुं योग्यः । पाण्डित्यमागमज्ञानम् । बाल्यं युक्तिसहितम् । बलयुक्तत्वात् । मौनमुपासनाजम् । अमौनमपरोक्षज्ञानम् । निर्विद्य नितरां प्राप्य, लब्ध्वा । `विद लाभे’ इति धातोः । अथ ब्राह्मणो मुक्तो भविष्यतीत्यर्थः । स मुक्तो येन केनापि वर्तयन्नीदृश एव भिक्षुक एव । न कदाचित् स्वतन्त्रो भवति । `एतस्यैवाऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति च वक्ष्यति । मुक्तविषयं चैतत् । `अत्र पिताऽपिता भवति’ इत्यादितत्प्रस्तावे `स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि’ इति हि भगवद्वचनम् । तत्रैव मुक्तानामानन्दतारतम्यं चोक्तम्- `स यो मनुष्याणां राद्धः समृद्धो भवति’ इत्यादिना । श्रोत्रियत्वावृजिनत्वाकामहतत्वानां मुक्तेष्वेव मुख्यत्वात् । `यश्च श्रोत्रियः’ इति ह्यभ्यासः । नह्यमुक्ता अवृजिना अकामहता वा । नच श्रुतिफलं सम्यक् प्राप्ताः । श्रुतिफलप्राप्तिर्हि श्रोत्रियत्वम् । `सर्वे विमोहितधियस्तव माययेमे ब्रह्मादयस्तनुभृतो बहिरर्थभावाः’ इति च भागवते । शरीरसम्बन्धिनां मोहादियुतत्वम् । मोहादियुतानां न श्रोक्षियत्वमदुःखत्वमकामहतत्वं वा । `व्रजिनं वृजिनं दुःखं क्लेशो बाधेति चोच्यते’ इति ह्यभिधानम् । नच देवादिपदाकामानामिन्द्रादिपदाकामानां च कश्चिद् विशेषो दृश्यते । अतो मुक्तविषयमेवैतत् ।
`परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति’, `ब्रह्मेशानादिभिर्देवैर्यत् प्राप्तुं नैव शक्यते । तद् यत्स्वभावः कैवल्यं स भवान् केवलो हरे’, `मुक्तानां परमा गतिः’, `कृष्णो मुक्तैरिज्यते वीतमोहैः’ इत्यादिवचनैश्च भगवदनुग्राह्यत्वं तदानन्दानवाप्तिश्च मुक्तानां दृश्यते ।
`बह्वभ्यासात् त आत्मेति मुक्तौ जीवेशयोर्भिदा ।
प्रधानतत्परत्वेन दृश्यतेऽत्यादरात् सदा ॥
महातात्पर्ययोगाच्च स एवार्थोऽवगम्यते ।
तात्पर्यं परमं विष्णोरत्युद्रेके विशेषतः ॥
सर्वश्रुतिस्मृतीनां च दृश्यतेऽन्यत् तदर्थतः ।
स च जीवेशयोर्भेदे सर्वोद्रेको हि युज्यते ॥
बह्वभ्यासस्त आत्मेति श्रुतावादरतस्ततः ।
ममाऽत्मेति वचो यत्र विष्णोरपितु दृश्यते ॥
देहस्यापि स्वरूपत्वज्ञापनं तत्प्रयोजनम् ।
नह्यप्रयोजकं वेदपदं वर्णोऽथवा स्वरः ॥
देहस्वरूपता विष्णोर्न ममेति पदं विना ।
सम्यग् ज्ञापयितुं शक्या ततस्तत्पदमिष्यते ॥
ततस्त आत्मेतिवचो भेदाभावे न युज्यते ।
भिक्षया भक्षणं तस्मादानन्दस्य ततोऽवदत् ॥
मुक्तानामेकदेशत्वं ब्रह्मानन्दव्यपेक्षया ।
विप्लुट्त्वं प्रतिबिम्बत्वं श्रुतिषूक्तं हि सर्वशः ॥
तथाऽपि पूर्णानन्दत्वममुक्तानां व्यपेक्षया ।
ब्रह्मादेस्तारतम्यं च मुक्तावेव सदातनम् ॥
दृष्टादृष्टैषणानाशान्निर्दुःखत्वं च सर्वदा ।
परब्रह्मत्ववचनं मुक्तानां यत्र दृश्यते ॥
जीवेषु ब्रह्मशब्दोक्तेः परत्वं च विमुक्तितः ।
तत् परब्रह्मता तेषां बद्धजीवोच्चता मता ॥
ततो ब्रह्माणने योग्यः पाण्डित्यं प्राप्नुयात् परम् ।
पाण्डित्यमागमज्ञत्वं बाल्यं युक्तिसहायता ॥
मौनं तूपासनासिद्धिरमौनं भगवद्दृशिः ।
एतान्याप्य भवेन्मुक्तिर्मुक्तो वै भिक्षुको भवेत् ॥
नह्यन्यभिक्षितं विष्णुर्दद्यान्नियमतः क्वचित् ।
मुक्तस्य भिक्षितं सर्वं दद्यान्नियमतो हरिः ॥
अयोग्यभिक्षणं तेषां न कदाचित्तु युज्यते ।
येन केनापि नैतेषां भिक्षावृत्तिर्विनश्यति ॥
प्रथमो ब्राह्मणो मुक्तो द्वितीयो योग्य उच्यते ।
अपरोक्षविन्मुक्तयोस्तु तार्तीयेनोभयोर्ग्रहः ॥
अतो मुक्ता अमुक्ताश्च न स्वतन्त्राः कदाचन ।
स्वतन्त्रस्तु स एवैको भगवान् पुरुषोत्तमः ॥’
इत्यादि ब्रह्मतर्के ।
`द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।
उत्तमः पुरुषस्त्वन्यः परमात्येत्युदाहृतः ।’
इत्यादिना च भेदेन महोत्कर्षे परमतात्पर्यं सर्वशास्त्राणामाह ॥
॥ इति कहोलब्राह्मणम् ॥
भाष्यम्
मुक्तानां तारतम्यं गार्गिब्राह्मणेनोच्यते । लोका इति मुक्तानामानन्दानुभवाः स्वरूपभूताः । अप्सु, वायाविति स्वरूपस्यैव प्रस्तुतत्वात् । `अनतिप्रश्न्यां वै देवतामतिपृच्छसि’ इति देवतास्वरूपप्रश्नस्यैवावगम्यमानत्वाच्च । नचोपरितनलोकेष्वधस्तना लोका आश्रिताः । नच वार्युर्गन्धर्वलोकाश्रितः । वाय्वाश्रयत्वश्रुतेः सर्वलोकानाम् - `वायुना हि सर्वे लोका नेनीयन्ते’ इत्यादिना । `सप्तस्कन्धगतो लोकान् यो बिभर्ति महाबलः’ इति च हरिवंशेषु । नचानतिप्रश्न्यत्वं लोकमात्रस्यास्ति । अधस्तनेषु चोपरितना लोकास्तिष्ठन्ति । नच मरुतामेकोऽपि गन्धर्वलोकादवरो विद्यते । उक्तं च -
`आ पिबन्त्यखिलान् भोगानित्यापश्चक्रवर्तिनः ।
मुक्तास्तेषां वायुसुतश्चक्रो नाम व्यपाश्रयः ॥
मुक्तस्तस्य च मुक्तस्तु मरुद् गन्धर्वनामवान् ।
सुतो वायोस्तत्सुखानां मौक्तानामन्तरिक्षगाः ॥
मरुतामेक एवासावन्तरिक्षश्च वायुजः ।
तत्सुखानां च मौक्तानामानन्दाः सूर्यरूपकाः ॥
सौराणां चापि मुक्तानामानन्दाश्चन्द्ररूपकाः ।
आह्लादनाच्चन्द्रनामा देवोऽसावनिरुद्धकः ॥
स एव चन्द्रमाविश्य स्थितस्तन्नामकोऽपि सः ।
अनिरुद्धसुखानां च मौक्तानामिन्द्र आश्रयः ॥
नक्षत्रनामवानिन्द्रो नैवान्यः क्षत्रियोऽस्य हि ।
विद्यते त्रिषु लोकेषु ब्रह्माद्यास्तूर्ध्वलोकगाः ॥
आनन्दानां तथैन्द्राणां मौक्तानां देव आश्रयः ।
देवेति लिङ्गनाम स्याल्लिङ्गात्मा रुद्र उच्यते ॥
इन्द्राश्रयः शिवस्यापि सुखानां मुक्तिगामिनाम् ।
शिवो हीश्वरनामा स्यात् तत्पारम्यात् सरस्वती ॥
इन्द्रेत्युक्ता तत्सुखानां ब्रह्माऽऽधिर्मुक्तिगामिनाम् ।
तत्सुखानां परं ब्रह्म मुक्तिगानां पराश्रयः ॥
एवमेव च संसारे बिम्बत्वादुत्तरोत्तरम् ।
न परब्रह्मणः कश्चिदाश्रयः स्वाश्रयं यतः ॥
तस्याऽश्रयोऽस्ति वेत्येवं पृच्छतोऽपि शिरः सदा ।
भिद्यते पर्वतैरन्धे तमसि स्थस्य दैवतैः ।
तस्माद् ब्रह्म परं नित्यं ज्ञेयं पूर्णमनाश्रयम् ॥’ इति ब्रह्माण्डे ।
`रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ।
ब्रह्मा मामाश्रितो नित्यं नाहं किञ्चिदुपाश्रितः ॥’ इति भारते ।
`अथात आनन्दस्य मीमांसा भवति’ इत्यादेश्च ।
संसाराल्लुप्तानां मुक्तानां कानि सुखानि लोकाः । रोचमानानि कानि लोकाः । `नीलं सुखं क इत्युक्तः कं नाम क्षीयतेऽत्र यत्’ ॥
॥ इति गार्गिब्राह्मणम् ॥
भाष्यम्
पुनस्तस्यैव सर्वनियन्तृत्वमुच्यते । `योऽन्तरो यमयति’ इति द्वितीययशब्दो विष्णुशब्दपर्यायः ।
`अकयप्रविसम्भूमसखहा विष्णुवाचकाः ।
एकाक्षरा अ इत्येष निर्दोषत्वाज्जनार्दनः ।
आनन्दत्वाद् क इत्युक्तः पूर्णत्वाद् य इतीर्यते ॥’
इत्यादि शब्दनिर्णये ।
इति स्वप्रतिज्ञातप्रकारेण ।
`ब्रह्मवित् पूर्णविज्ञानाल्लोकानां कतृर्वेदनात् ।
लोकविद् देवविच्चासौ देवानां दैववेदनात् ॥
वेदार्थवेदानच्चैव वेदविद् भूतवित् तथा ।
तन्नियन्तृपरिज्ञानादात्मविच्चाऽप्तवेदनात् ॥
वेदार्थवेदनाच्चैव वेदविद् भूतवित् तथा ।
सर्ववित् सर्वसारज्ञो यो वेद पुरुषोत्तमम् ॥
देशाधिष्ठातृविज्ञानाद् देशज्ञ इति चोच्यते ।
यथा तद्वद्धरेर्ज्ञानात् सर्वज्ञ इति वैदिकम् ॥’ इति ब्रह्मतर्के ।
`स्यूतं जगदिदं यस्मिन् सूत्रं वायुरसौ स्मृतः ।
तं चापि यमयेद् यस्मादन्तर्यामी हरिः स्मृतः ॥
पृथिव्याद्या देवतास्तु देहवद् यद्वशत्वतः ।
शरीरमिति चोच्यन्ते यस्य विष्णोर्महात्मनः ॥
अन्तस्थो देवतानां च न विदुर्यं च देवताः ।
प्रविष्टत्वाद् देवतास्थः सोऽन्तरः स्ववशत्वतः ॥
बाह्यापेक्षां विना यस्तु रमते सोऽन्तरः स्मृतः ।
अतिप्रियत्वाच्च हरेरन्तरत्वमुदाहृतम् ॥
जीवानां स्वप्रियत्वं च विष्णुना नियतं यतः ।
तस्य प्रियत्वं नान्येन देवस्य नियतं क्वचित् ॥
स्वतन्त्रः सन् नियन्ताऽसावन्तर्यामीति तत् स्मृतः ।
देवतानां स्वभावोऽपि स्वरूपमपि सर्वदा ॥
तदधीनं ततो यामी वासुदेवः प्रकीर्तितः ।
स्वभावसत्तादातृत्वं यन्तृत्वमिति कथ्यते ॥’ इति ब्रह्मतर्के ॥
`अधिभूतं सर्वजीवा अध्यात्मं तच्छरीरगाः ।
देवतास्ताः स्वलोकस्था अधिदैवाभिधा मताः ॥
लोकाभिमानिन्यस्ता एवाधिलोका इतीरिताः ।
यज्ञाभिमानिनो देवा अधियज्ञा इति स्मृताः ॥’ इति च ।
भवनाधिकारे स्थितत्वादधिभूतम् ।
`पृथुं नारायणं वाति समादायैव पक्षिराट् ।
अतः स पृथिवीत्युक्तस्त्वन्तरिक्षं हरः स्मृतः ॥
स्वान्तर्गतं यतः सर्वमिच्छया क्षपयेदसौ ।
द्यौर्नाम देवी विद्युत् स्यात् साक्षादेव सरस्वती ॥
द्योतनात् सर्ववस्तूनां तमो दुर्गा प्रकीर्तिता ।
यतः सङ्ग्लपयेत् सर्वांस्तेजः श्रीः परिकीर्तिता ॥
आकाशो विघ्न उद्दिष्टः काशते हि पृथूदरः ।
आपो वरुण उद्दिष्टो यदेतत् पालयत्यसौ ॥
आत्मा विज्ञानमिति तु सर्वजीवाभिमानवान् ।
ब्रह्मैवोक्तस्त्विमे सर्वेऽप्यनुक्ता याश्च देवताः ॥
ये च जीवाः परे सर्वे नियता विष्णुनैव हि ।
जीवानां नियमेऽजीवं किमु वाच्यमिति श्रुतिः ॥
पृथक् तन्नियमं नैषा वक्ति सिद्धत्वतः स्वतः ।
स एष सर्ववेत्ता हि परमात् परमो हरिः ॥
नान्यो वेत्ता स्वतन्त्रोऽस्ति जीवाः सर्वे हि दुःखिनः ।
यदि स्वतन्त्रा नैवैते दुःखिनः स्युः कदाचन ॥
अत आर्तिमतामार्तिदाता मुक्तिप्रदश्च सः ।
भगवान् परमो विष्णुः स्वतन्त्रः सर्वदैकराट् ॥’
इत्यादि महामीमांसायाम् ।
॥ इति अन्तर्यामिब्राह्मणम् ॥
भाष्यम्
पूर्वं गार्ग्या जीवानामुत्तरोत्तराश्रयत्वं सर्वेषां भगवदाश्रयत्वं च श्रुतम् । नतु मूलप्रकृतेराधारत्वमाधेयत्वं वा । अतः पुनः पृच्छति विजिगीषुकथात्वाद् ब्राह्मणानुज्ञया । स्वभर्तुर्विद्याबलं जानत्यपि युष्माकमेनं जेतुं न शक्यत इति ज्ञापयित्वा तेषामुपकारार्थं च पप्रच्छ । नच युक्त्या पूर्वमुपरता । भार्यात्वाद् भगवतोऽन्याधारत्वं नाऽशङ्क्यमित्युक्ते भीत्यैवोपरता । भगवतोऽन्याधारत्वं च सर्वाधारमूलप्रकृतेरपि भगवानेवाऽधार इत्युक्ते युक्तित एव निवारितं भवति । `नान्यदतोऽस्ति द्रष्टृ’ इत्यादियुक्तिभिश्च । अस्थूलत्वादियुक्तिभिश्च ।
`वादो जल्पो वितण्डेति त्रिविधा विदुषां कथा ।
केवलं तत्त्वविज्ञानमुद्दिश्य गुरुशिष्ययोः ॥
अन्ययोर्वा बहूनां वा निर्दुष्टमनसां कथा ।
वाद इत्युच्यते सद्भिर्जयस्तत्राऽर्थिको भवेत् ॥
विजये शिष्यताऽन्येषां पूजा च जयिनः सदा ।
पुनश्च संशयो यत् स्यात् तेषां तस्यापि वारणम् ॥
कर्तव्यं जयिना नित्यमशक्तस्य स्वतोऽधिकात् ।
अन्योन्यनिर्णयश्चेत् स्यात् तदा सब्रह्मचारिणः ॥
पृष्टेन प्रथमं मानं वक्तव्यं वादिना शुभम् ।
वेदाः सर्वे शुभं मानं सेतिहासपुराणकाः ॥
सपञ्चरात्रमीमांसाः स्मृतयश्चाप्यनन्तरम् ।
तदन्यदशुभं प्रोक्तं न प्रयोज्यं कथासु च ॥
मिश्रमक्षानुमाने तु ग्राह्ये शब्दार्थनिर्णये ।
अदुष्टमिन्द्रियं त्वक्षमुपपत्तिस्तथाऽनुमा ॥
अनुमैव त्वभावाख्यो ह्यर्थापत्त्युपमे तथा ।
उपपत्तिभेदा यत् तेऽपि वाक्यमेवाऽगमः शुभम् ॥
तत्त्वनिर्णयवैलोम्यं संवादो वा विरोधिते ।
पराजय इति प्रोक्तः समः सर्वकथासु च ॥
तत्त्वनिर्णयवैलोम्ये दण्ड्या वादकथास्वपि ।
गुरुणैव त्ववश्यानां राजा दण्डं प्रयोजयेत् ॥
गुरुदण्डस्तु वाचा स्याद् राजदण्डोऽर्थदेहतः ।
गुरुदण्डोऽप्यर्थतः स्यात् संवादे व्रततोऽपि वा ॥
राजदण्डो बलाच्च स्याद् दोषस्य गुरुलाघवात् ।
संवादे दण्ड्यता नास्ति जल्पादौ च कथञ्चन ॥
तत्त्वविप्लवकर्तारं संसत्सु च पराजितम् ।
छित्त्वा जिह्वां च काकाङ्कं राजा राज्याद् विवासयेत् ॥
अन्यसाम्यमभेदो वा नीचता वा कुतश्चन ।
विष्णोः श्रीपूर्वकाणां च व्यत्यासो गुणदोषतः ॥
तद्भक्तेरन्यधर्मत्वं पञ्चैते तत्त्वविप्लवाः ।
तत्त्वविप्लावकं शूद्रं वैश्यं क्षत्रियमेव वा ॥
हन्यादेवाविचारेण विप्रजिह्वां तथोद्धरेत् ।
स्वसिद्धान्ते प्रमाणं च परसिद्धान्तदूषणम् ॥
वक्तव्यमुभयं वादे जल्पे चेति सतां मतम् ।
अवाक्यदूषणं तर्कादागमादेव साधनम् ॥
वाक्यतात्पर्यविज्ञप्त्यै मानमन्यन्नचान्यथा ।
सतोरेव यदा स्पर्धा गुणतोऽर्थार्थमेव वा ॥
तदा जल्पः समुद्दिष्टस्तत्र विद्यां परीक्षयेत् ।
विद्यापरीक्षा पूर्वा हि सत्कथा जल्प उच्यते ॥
सर्वज्ञा वैष्णवाः पञ्च सप्त वोभयसंमताः ।
अधिका वा यथालब्धाः प्राश्निकास्तु परीक्षकाः ॥
उभयोः प्रश्नकतृर्त्वात् प्राश्निका इति कीर्तिताः ।
तदभावे गुणोद्रेकं दर्शयेतां पृथग्जने ।
विद्यासाम्ये कथा कार्या ह्यन्यथैकपराजयः ॥
विद्योनो दण्ड्य एव स्याद् यदि नोच्चस्य शिष्यताम् ।
व्रजेत् पश्चात् यथावाद एव जल्पः प्रकीर्तितः ॥
अर्थनिर्णयहेतुत्वाद् वादे प्रश्नो जयेऽपि तु ।
न जल्पे तु पुनः प्रश्नः सभ्यानुज्ञां विना भवेत् ॥
स्पर्धा सतां वितण्डा स्यात् तत्त्वविप्लावकैर्यदा ।
मूलपक्षग्रहापेता वितण्डा कविभिर्मता ॥
सतामेव वितण्डा स्यादसतां जल्प एवतु ।
एवं जल्पवितण्डेति ह्युभयोः सहिता कथा ॥
अप्रकाश्यः स्वपक्षो हि पाषण्डानां यतस्ततः ।
अग्रहेणेव पक्षस्य तर्कागमबलेन तु ॥
दूषयेदेव पाषण्डांस्तत्त्वविप्लावकान् सदा ।
तत्पक्षाणां निषेध्यत्वात् तेषां पक्षग्रहो भवेद् ॥
विष्णुभक्त्यन्यधर्माख्यस्तत्त्वविप्लव एव तु ।
बौद्धादीनां यतः सर्वे तत्त्वविप्लावकास्ततः ॥
सर्वनास्तिकवादी वा स्वमनीषामतोऽपि वा ।
तस्यापि पक्षं संश्रुत्य दूषयेद् वाक्ययुक्तितः ॥
यस्य नैवाऽगमो मानं तं ब्रूयादागमाश्रयः ।
धर्मार्थोऽथ वृथैवायं तव पक्षस्य सङ्ग्रहः ॥
धर्मार्थश्चेन्न धर्मो हि शक्यो द्रष्टुं विनाऽऽगमात् ।
यथाऽनुमीयते हिंसा पापहेतुस्तथैव हि ॥
धर्महेतुत्वमप्यस्या अनुमातुं सुशक्यते ।
वृथापक्षं वृथा हन्याद् यदि कश्चित् किमुत्तरम् ॥
इत्यशक्तौ सतां सर्वे सम्भूयापि निवारणम् ।
कुर्युरेवासतां सन्तस्तत्त्वविप्लाविनां जये ॥
येषां विष्णोः समं किञ्चिदधिकं वा नतु क्वचित् ।
क्षराक्षराभ्यां भिन्नं च विष्णुं पश्यन्ति ये सदा ॥
तारतम्यविदः सर्वजीवानां प्रकृतेरपि ।
भगवद्धर्मिणो नित्यं ते सन्तः परिकीर्तिताः ॥
पराजितेष्वसत्सूक्तं राजा दण्डं प्रपातयेत् ।
जितेषु सत्स्वसद्भिस्तु राजोदासीनतां व्रजेत् ।
यावदेषां विजेता स्यादथ दण्डं निपातयेत् ॥‘इत्यादिब्रह्मतर्के ।
`बाणस्त्वयोमयः प्रोक्तः शरो नालोऽस्य कीर्तितः ।’ इत्यभिधानम् ।
`कर्मारस्तु तदा बाणं तीक्ष्णमञ्जलिकाभिधम् ।
सन्दधानः शरे यान्तं राजानं न ददर्श ह ॥’ इति पादम्े ।
`दीप्तेराकाशशब्दोक्ता श्रीर्हि सर्वाश्रया मता ।
तदाश्रयः परो विष्णुः सोऽस्थूलादिगुणो मतः ॥’
इति स्कान्दे ।
पुनः प्रश्नः सर्वाधारा प्रकृतिरित्यनुपचरितत्वेनावधारणार्थम् । `आकाश एव’ इत्यवधारणात् ।
`पुनरुक्तिः शब्ददोषो न्यूनाधिक्यादिकं तथा ।
न जिगीषुकथायां तु कारणं स्यात् पराजये ॥
क्वचिद् विद्याधिकस्यापि स्खलनं सम्भवेद् यतः ।
तत्त्वनिर्णयवैलोम्यं विलम्बो वा मुहूर्ततः ।
विद्यादौर्बल्यहेतुः स्यादतस्तस्मिन् पराजयः ॥’
इति ब्रह्माण्डे ।
अतस्तत्त्वनिर्णयविरोधि पुनरुक्त्यादि निग्रहः ।
`प्रसिद्धस्थूलसूक्ष्मादिवैलक्षण्याज्जनार्दनः ।
अस्थूलादिरिति प्रोक्तो नैव स्थैल्याद्यभावतः ॥
अनावृतेस्तमो नास्य स्वातन्त्र्यान्नाद्यते क्वचित् ।
द्यावापृथिव्यौ श्रीभूमी केशौ सूर्यविधू मतौ ॥
दीप्तेः पृथुत्वाज्ज्ञानाच्च तथाऽऽह्लादविधेरपि ।
तदाधारो हरिर्नित्यं स्वातन्त्र्येण प्रशासकः ॥
आधारत्वं श्रियो यच्च तच्च विष्णोः प्रशासनात् ।
तद्बलान्न स्वतन्त्रत्वं स्वतन्त्रोऽतो हरिः सदा ॥’
इति महामीमांसायाम् ।
`न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्थिसम्भवा ।
न योगित्वादीश्वरत्वात् सत्यरूपाच्युतो विभुः ॥’
इति वाराहे ।
`आदित्यवर्णं तमसस्तु पारे’ इत्यादेश्च । `न सत् तन्नासदुच्यते’, `अदुःखमसुखं समम्’, `न प्रज्ञं नाप्रज्ञम्’ इत्यादि च ।
॥ इति अक्षरब्राह्मणम् ॥
भाष्यम्
`ये येऽवराः सुरास्ते तु परेषां महिमात्मकाः ।
महीत्युक्तं हि माहात्म्यं महिमानो हि तन्मिताः ॥
एवं हि महिमाशब्दस्तद्वशत्वं वदत्ययम् ।
यत्र माहात्म्यवाची स्यान्महत्त्वं महिमा तदा ॥
त्रयस्त्रिंशत्सुराणां हि परिवारास्ततः परे ।
षण्णामेते त्रयाणां ते ते द्वयोः साधिकस्य तौ ॥
एकस्य सोऽपि क्रमतः पराधीनस्वरूपिणः ।
पराधीनबलाश्चैव पराधीनप्रवृत्तयः ॥
एक एव स्वतन्त्रोऽसौ भगवान् पुरुषोत्तमः ।
अग्रं विष्णुं नयेद् यस्मात् सुपर्णोऽग्निरुदाहृतः ॥
प्रथितं हरिमादाय वातीति प्रथिवः स्मृतः ।
तद्भार्या पृथिवी नाम यत् तदिच्छानुसारिणी ॥
सर्वज्ञानात् तथाऽऽयुष्द्वात् सूत्रात्मा वायुरुच्यते ।
श्रद्धा नामैव तत्पत्नाी सर्वस्यान्तर्निरीक्षणात् ॥
अन्तरिक्षमिति प्रोक्ता देवेभ्योऽधिकवीक्षणात् ।
आदिकालस्थितो यस्मादादित्यस्तु सदाशिवः ॥
द्यौरुमा च समुद्दिष्टा वाग्रूपा द्योतिका यतः ।
त एते सर्वदेवेभ्यो विशिष्टास्तद्वशाः परे ॥
नक्षत्रमिन्द्र उद्दिष्टश्चन्द्रः काम उदाहृतः ।
अत्राणात् सूर्यचन्द्राद्यैराह्लादाच्चैव हेतुतः ॥
वासयन्ति जगद् यस्मादेतेऽष्टौ वसवः स्मृताः ।
ज्ञानादिषड्गुणाः षट्सु तदन्येभ्योऽधिका यतः ॥
वसुष्वपि त एवोच्चा वीन्द्राद्याः पूर्वकीर्तिताः ।
प्राणाद्या वायुपुत्रास्तु दशबुद्ध्यभिमानवान् ॥
बृहस्पतिरिति ह्येते रुद्रा इत्येव कीर्तिताः ।
मासाभिमानिनो ये तु यमचन्द्रयुता द्विषट् ॥
धात्रर्यमाद्या आदित्या इन्द्राविष्णू विनैव तु ।
स्तनयित्नाोरभीमानी वायुजस्त्विन्द्र उच्यते ॥
स एव वज्र इन्द्रस्य सोऽशनिश्चाशनादरेः ।
यज्ञो नामेन्द्रपुत्रो यो जयन्त इति चोच्यते ॥
स एव पशुमानित्वात् पशवश्चेति कथ्यते ।
एवं प्राधान्यतो देवास्त्रयस्त्रिंशत् प्रकीर्तिताः ॥
दक्षाग्निप्रमुखाः सर्वे प्राणा एव हि वायुजाः ।
रुद्रा अपि तदावेशात् पृथङ्नोदीरिता इह ॥
काम एवानुविष्टत्वादनिरुद्धश्च नोदितः ।
मन्वावेशादिन्द्रजस्तु सङ्ख्यायामनुवेशितः ॥
अश्विनौ निऋर्तिश्चैव कुबेरश्च विनायकः ।
अर्यम्ण्यंशादिचतुर्षु विशेषावेशसंयुताः ॥’
अत्रोक्ता अपि पृथिव्याद्या अन्तर्यामिब्राह्मणे भवन्ति ।
`षट्सु प्रधानास्तिस्रो हि वायुवीन्द्रमहेश्वराः ।
स्वभार्याणां स्वाश्रयत्वात् ते लोका ज्ञानरूपतः ॥
पदैक्याद् ब्रह्मवाय्वोस्तु पदसाम्याच्छिवस्य च ।
शेषस्यापि तु नैवोक्तिः पृथक् श्रद्धा च मारुतः ॥
द्वौ देवाविति सम्प्रोक्तावन्नं श्रद्धा प्रकीर्तिता ।
अतीतत्वाद् देवताभ्यो नेतृत्वाच्चान्नमुच्यते ॥
श्रद्धेति वायोः पत्नाी सा प्राणो वै विष्णुरुत्तरः ।
णेत्येवाऽनन्द उद्दिष्ट आ समन्तात् प्रकृष्टतः ॥
प्राणो हि भगवान् विष्णुरर्ध्यद्धो वायुरुच्यते ।
अध्यृद्धा हि गुणा नित्यं वायोरर्ध्यद्ध एव तत् ॥
नचैकत्वं भवेत् वायोस्तद्धिशिष्टो यतो हरिः ।
नच द्वितीयता तस्मिन् प्रीतिरभ्यधिका हरेः ॥
तेनाध्यृद्धगुणो यस्मात् सर्वस्माद् देवतागणात् ।
नचाशक्यं नचाप्राप्यमतोऽर्ध्यद्ध इतीरितः ॥
अत्यन्तरङ्गं यत् तस्मान्न हरेः पृथगीरिता ।
श्रीः स्वरूपविभेदेऽपि सर्वोत्कृष्टाऽपि नित्यशः ॥
तस्या अपि परो विष्णुर्गुणैः सर्वैरदोषवान् ।
एक इत्युच्यते नित्यं यस्मान्नान्यस्तथाविधः ॥
तत्परो वा गुणोद्रेके ब्रह्मासौ गुणपूर्तितः ।
तथात्वेन यतो नित्यमविकारेण याति हि ।
त्यदित्युक्तस्ततो विष्णुः सर्वदेवेश्वरेश्वरः ॥’
इति महामीमांसायाम् ।
`शारीरो मनुरुद्दिष्टः कामः प्रद्युम्न उच्यते ।
आदित्यस्थस्तथा रुद्रः श्रौत्रश्चन्द्र उदाहृतः ॥
छायामयस्तु निऋर्तिरादर्शे सूर्य एव च ।
पर्जन्यस्त्वप्सु पुरुषः शक्रः पुत्राभिमानवान् ॥
अमृतं वायुरुद्दिष्टः स्त्रियः श्रीर्गीरुमा तथा ।
सत्यं ब्रह्मा समुद्दिष्टो गरुत्मच्छेषका दिशः ॥
आदेशनाद् दिशः प्रोक्ता मृत्युर्यम उदाहृतः ।
अन्तर्गतेन रूपेण वायुरेव त्वसुः स्मृतः ॥
पालकेन स्वरूपेण ब्रह्मैवात्र प्रजापतिः ।
प्रकाशस्त्वान्तरो ज्योतिर्लोको बाह्य इतीर्यते ॥
मनःस्थिता मनोनाम्नी बोधरूपत्वतो रमा ।
सैवाग्निस्थाऽदनान्नित्यमग्निरित्येव गीयते ॥
हृदयं बुद्धिसंस्था सा त्वयनं हृदि यत् ततः ।
चक्षुः सा दृष्टिहेतुत्वादष्टानां लोक एव सा ॥’ इति च ॥
बुद्धिवृत्त्यपेक्षया बहिःप्रकाशहेतुत्वमपि देव्या न विरुद्ध्यते । `इम एव त्रयो लोकाः’ इति पूर्वोक्तानां देवानामनुक्तौ कथं लोकमात्रे सर्वदेवानामन्तर्भावः? उक्ताङ्गीकारेऽनन्तर्भावः कथं चाग्न्यादिषु? नचाऽवासमात्रमत्र विवक्षितम् । प्रतिशरीरमपि सर्वदेवानामावासान्न लोकादीनां विशेषः । सामर्थ्याधिक्यं चात्र विवक्षितम् । `एतेषु हीदं सर्वं षट्’,`यदस्मिन्निदं सर्वमध्यार्ध्नोत्’,`स ब्रह्म त्यदित्याचक्षते’,`महिमान एवैषाम्’ इत्यादिषु षड्गुणोद्रेकादीनामुक्तेः । अन्तर्भावस्य च महिमकारणत्वोक्तेः । इदं सर्वं गुणषट्कम्, पूर्णं गुणषट्कमित्यर्थः । इदंशब्दो विवक्षितत्वादयं भगवानितिवत् । एवमेव `इदं सर्वमध्यार्ध्नोत्’ इति च । गुणाधिक्येन तदधीनत्वे विवक्षिते निवासत्वादिकमन्तर्भवति । उत्तमानामधिकव्याप्त्यादेः । नतु निवासत्वादौ गुणाधिक्यादिकम् । कथं च तन्महिमत्वेनान्तर्भावमुक्त्वा निवासत्वमात्रेणान्तर्भाव उच्यते? कथं चान्यथा कामादीनां प्रसिद्धमहिमानां स्त्रीमात्रादिकं देवतोच्येत? प्रसिद्धं चैतत् -
`आत्मा देवानां भुवनस्य गर्भः’, `आत्मा ते वातः’, `इन्द्रो वै देवानामोजिष्ठः’, `ब्रह्मा देवानां प्रथमः सम्बभूव’, `अयं वाव शिशुर्योऽयं मध्यमः प्राणः’, `तमेताः सप्ताक्षितय उपतिष्ठन्ते’, `तद् या इमा अक्षन् लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तो यच्छुक्ल्ं तेनेन्द्रः’, `अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः । ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठस्तु मारुतः’, `वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः । अनावृत्तिर्देहिनां देहपाते तस्माद् वायुर्देवदेवो विशिष्टः’, `क्रतुं सचन्त मारुतस्य वेधसः’, `वायोरात्मानं कवयो निचिक्युः’, `आत्मत एष प्राणो जायते’, `यो वायौ तिष्ठन्’, `देवानां देवता वायुर्वायोर्देवो जनार्दनः’, `स प्राणमसृजत । प्राणाच्छ्र2द्धाम्’, `एतस्माज्जायते प्राणः’, `रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः । ब्रह्मा मामाश्रितो नित्यं नाहं किञ्चिदुपाश्रितः ।’ इत्यादिषु सर्वत्र । `श्रियः प्रसादं स कुशेशयेशः श्रितः स चिन्त्यः प्रशशंस शौरिम् ।’ इत्यादि च ।
`दिशो वेद सदेवाः सप्रतिष्ठाः’ इति याज्ञवल्क्यवचनं सर्वप्रतिष्ठात्वेन ब्रह्मणोऽपि ज्ञानं भवतीति `किं ब्रह्म विद्वान्’ इत्यस्य चोत्तरम् । यदि दिशो वेत्थ तर्हि किन्देवतोऽस्याम्?
`आदित्यस्याऽश्रयश्चक्षुर्नामा स्वायम्भुवो मनुः ।
चक्षुःस्थो दृष्टिशक्तीशो रूपात्मेन्द्रस्तदाश्रयः ॥
बुद्धितत्त्वात्मिकोमा च शक्रस्यापि समाश्रयः ।
एवं यमस्याऽश्रयश्च यज्ञमान्यनिरुद्धकः ॥
दक्षिणामानिनी देवी रतिरेव तदाश्रयः ।
श्रद्धारूपः सदा कामस्तस्या अपि समाश्रयः ॥
हृदयात्मिक्युमा तस्य कामस्यापि समाश्रयः ।
अब्देवता सदा चन्द्रो वरुणस्य समाश्रयः ॥
रेत आत्मा सुरगुरुः सोमस्यापि समाश्रयः ।
तस्याप्युमैवाऽश्रयः स्यात् तस्यैव तु दिगीशितुः ॥
सोमस्य दीक्षारूपा तु शतरूपा समाश्रयः ।
तस्याः सत्यात्मको देवो मनुरेव समाश्रयः ॥
तस्याप्युमैवाऽश्रया सा स्रष्टृरूपस्य नित्यदा ।
मध्यदिक्स्वामिनोऽग्नेश्च स्वाधारो वाग् बृहस्पतिः ॥
तस्याप्युमैव हृदयरूपा नित्यं समाश्रयः ।
तस्याः समाश्रयो रुद्रस्त्वमहं चेति रूपवान् ॥
अहङ्कारात्मको नित्यमात्मोमा परिकीर्तिता ।
बुद्ध्यात्मनैवाऽततत्वाद् यद्यस्या नाऽश्रयो हरः ॥
तदा बोधात्मिका शक्तिर्नास्या देहाभिरक्षणे ।
अरक्षितान् मानुषादीन् श्वानो वाऽद्युर्वयांसि वा ॥
शिवस्य च तथोमायाः प्राणात्मा शेष आश्रयः ।
शेषस्यापानरूपा सा भारत्येव व्यपाश्रयः ॥
तस्या व्यानाभिधो वायुर्विशिष्टानो यतो हि सः ।
उन्नेतृत्वादुदानाख्या तस्य श्रीराश्रयः सदा ॥
समानाख्यो हरिस्तस्याः सहैव ह्यनयत्यसौ ।
स्वावरस्यानकास्त्वन्ये सर्वेषां चेष्टको हि सः ॥
स एष भगवान् नैवं श्रीवदन्याश्रयो हरिः ।
नच ब्रह्मादिवद् विष्णुर्नैवासौ बद्धवत् क्वचित् ॥
नच मुक्तवदीशेशः कुत एव जडोपमः ।
अग्राह्योऽशीर्यसङ्गोऽसावसितश्च न रिश्यति ॥
नहि सर्वात्मना क्वापि केनचिज्ज्ञायते क्वचित् ।
स्वल्पोऽपि शीर्यते नैव कारणात् कालतोऽपि वा ॥
न लिप्यते जगन्नाथः क्वचिद् दोषेण केनचित् ।
भूतपूर्वो भविष्यो वा बन्धो नास्य कुतश्चन ॥
नच नाशोऽभवत् क्वापि न नशिष्यति च क्वचित् ।
अन्यत् सर्वं गृहीतं हि तेन ज्ञानादिना सदा ॥
अशीर्यत्वादयोऽन्येषां सर्वेषां तत्प्रसादतः ।
अतस्तस्यातिवैषम्यान्नेति नेत्याह तं श्रुतिः ॥’ इत्यादि च ।
`तद्गुणानां सुपूर्णानां विप्लुट्कं प्रतिबिम्बितम् ।
श्रीर्भुङ्क्ते तद्गुणान् ब्रह्मा तस्य रुद्रादयोऽपि च ॥’
इत्यादि च ।
अहर्ज्ञानमस्य लीनमित्यहर्ल्लिक एवाहल्लिक अज्ञेत्याक्षिपति । `नहि गृह्यते’ इत्यादिना ग्रहणशीरणादिषु सर्वप्रमाणाभावं दर्शयति ॥
`नेति नेत्यादिरूपेण विज्ञापितगुणोऽपितु ।
विशेषापेक्षया पृष्टो न शाकल्यो विवेद तम् ॥’ इति ब्रह्माण्डे ।
`तदपेक्षां विनैवासौ निर्गत्य पुरुषोत्तमः ।
वहत्येवानिशं सर्वं निरूढं तेन तज्जगत् ॥
प्रति प्रति स्थितै रूपैर्यस्माद् धत्ते हरिः सदा ।
अतः प्रत्यूह्यते तेन व्यक्ताव्यक्तमिदं जगत् ॥’ इति ब्रह्मतर्के ।
`न विनोपनिषद्भिः स ज्ञेयः केनापि कस्यचित् ।
अत औपनिषत्कं तं प्राहुर्विष्णुं सनातनम् ॥’ इति च ।
`प्रश्नो वादे च जल्पादौ कर्तव्यः प्रतिवादिना ।
तदुक्तिमात्रे प्रामाण्यं यदि नास्याऽगमान्तरम् ॥
अपेक्षितं यदा शङ्का दर्शयनीयस्तदाऽऽगमः ।
निःशङ्कत्वेन यो वक्ता प्रश्नानामुत्तरं सदा ॥
आनुकूल्येनाऽगमानां नाशङ्क्यं तद्वचः क्वचित् ।
दशतालो दशमुखो ललाटत्रिंशकस्तथा ॥
सार्धोन्नतश्चैव पुनः पर्यग् दशशिरास्तथा ।
पञ्चोराः सप्तपादो यो नाऽशङ्क्यं तद्वचः क्वचित् ॥
नवाङ्गुलमुखो यस्तु गले च चतुरङ्गुलः ।
चतुर्विंशाङ्गुलतनुस्तद्वाक्यं देवपूजितम् ॥
प्राधान्याल्लक्षणोपेतो दुर्लक्षणयुतोऽपि सन् ।
तस्यापि वाक्यं मानं स्यात् किमु सर्वयुतस्य तु ॥
प्रायो देवाश्च ऋषयो न सर्वशुभलक्षणाः ।
ऋते विष्णुं सुरश्रेष्ठं ब्रह्माणं वाऽप्यनन्तरम् ॥
यस्मान्न विदुषां वाक्यमाशङ्क्यं केनचित् क्वचित् ।
तस्माद् वेदेषु सर्वेषु कथाः प्रश्नोत्तरात्मिकाः ॥
न प्रमाणान्तरं तत्र पृच्छन्ति घटनां विना ।
एतस्मादाश्वलाद्याश्च पप्रच्छुर्नैव कुत्रचित् ।
आगमं याज्ञवल्क्योक्तेरन्यं तन्मैथिलोऽपि वा ॥’
इति ब्रह्मतर्के ।
`यश्छिन्नविचिकित्सस्तु च्छिनत्त्यपि च संशयान् ।
तस्य पर्येषणं कुर्यात् प्रतीच्छन्नोत दक्षिणाम् ॥’
इति च भारते ।
`षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः ।
दशतालश्चतुर्हस्तः स देवैरपि पूज्यते ॥’ इति वायुप्रोक्ते ।
अत एव च सर्वागमेषु प्रतिसंहितमाचार्यलक्षणमुच्यते । यथा वनस्पतौ वृक्ष इत्ययं शब्दः अमृषा तथैव पुरुषे पुरुषशब्दो विद्यमान एव । स च नित्यत्वे सम्भवति - पुरुकालेऽपि सन् पुरुष इति । स्नावमध्ये यत् स्थिरं विद्यतेऽस्थिसंलीनं तद् दारुसंश्लिष्टपाशवत् । वृक्षो मूलाद् रोहतीत्यङ्गीकारमात्रम् । `यत् समूलमा वृहेयुः’ इति तस्यापि दूषणात् । अन्यस्य रेतसो जननमपि जीवतः पुरुषान्तरस्य भावे । प्रलये तु सर्वप्रलयात् कस्मादुत्पत्तिः? तत्पृष्टं सर्वं वक्तुमशक्तत्वात् पुरुषस्य पुनरुत्पत्तौ कारणं भगवन्तं जानन्तोऽपि तूष्णीमृषयो बभूवुः । पुरुषनामकत्वान्नित्यस्य जीवस्य यावन्मुक्तिः पुनरुत्पत्त्या भाव्यम्, न शरीरेण सह नाशः । तस्य च स्वोत्पत्तावस्वातन्त्र्यादन्येनोत्पादकेन भाव्यम् । कोऽसाविति प्रश्नाशयः । तेषु तूष्णीम्भूतेषु स्वयमेव परिहरति - विज्ञानमानन्दं ब्रह्मेति । तस्याप्यन्य उत्पादक इत्याशङ्का मा भूदिति जात एव न जायत इत्याह । पुरुषान्तरापेक्षया पुनःशब्दः । नतु क्रियाभ्यासापेक्षया । `एक एव हरिर्बन्धुः पुनरन्यो न विद्यते’ इतिवत् । रातिरिष्टः । तिष्ठमानस्य तद्विदः परायणम् ।
`विजित्य सर्वान् पप्रच्छ याज्ञवल्क्यः पुनर्मुनीन् ।
यथा वनस्पतौ वृक्षशब्द एवं यथार्थतः ॥
पुरुषेऽपि हि तच्छब्दो नित्यत्वादेव युज्यते ।
तस्मान्नास्य शरीरेण नाशस्तस्मात् पुनर्जनिः ॥
आ मुक्तेर्भविता नित्यं कुतस्तदिति चोच्यताम् ।
रेतसो जननं यावत् प्रलयस्तावदेव हि ॥
निर्मूलस्य च वृक्षस्य प्रलये पुरुषस्य च ।
पुनरुत्पादको यस्तं वदन्तु मम कृत्स्नशः ॥
धानाजात इवायं हि दृश्यतेऽविदुषां तरुः ।
अस्वातन्त्र्यात्तु विदुषां नैव तत् कारणं भवेत् ॥
अञ्जसा प्रेत्य सम्भूतिकारणं तद् वदन्तु नः ।
प्रेत्य सम्भूतिकर्ता हि स्वतन्त्रो घटते यतः ॥
इति पृष्टास्तु मुनयो न वक्तुं शेकुरञ्जसा ।
तद्वेत्तारोऽपि तत्प्रश्ननिर्मूलनबलोज्ज्ञिताः ॥
अधाष्र्ट्यात् मत्प्रभावेन धर्षिता नाशकन् यदा ।
स्वयमेव तदोवाच याज्ञवल्क्यो महामुनिः ॥
पूर्णानन्दो हरिर्नान्यः कारणं सृज्यसर्जने ।
नैवास्य जनकः कश्चिन्नित्यजातो ह्यसौ हरिः ॥
स प्रियः सर्वदातॄणां ज्ञानिनां परमप्रियः ।
ये तु तद्भाविता नित्यं तेषामेव परायणम् ॥’ इति नारदीये ।
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमोऽध्यायः ॥
***************************************************************************************
षष्ठोऽध्यायः
भाष्यम्
अणुर्भगवान् तद्विषयान् निर्णयान् वक्तुं वा । `प्रतिष्ठा प्रतिमा प्रोक्ता प्रतिरूपेण संस्थिता । प्रतिमाऽधिकसादृश्यान्मुख्या विष्णोः सदा रमा । दीप्तत्वादा समन्तात् स चाऽकाश इति गीयते । प्रत्येकं विष्णुरूपाणामन्यदायतनं पृथक्’ इत्यध्यात्मे । `प्रतिमानमवस्थानं रहस्यं नाम सार्थकम् । चतुष्टयं यदा ज्ञातं सम्यग् विद्याफलं तदा’ इति च ॥
का प्रज्ञता वागेवेत्यादेर्धर्मधर्म्यभेदः ।
`अमिताक्षरं पञ्चरात्रं विद्येत्याहुर्मनीषिणः ।
मिताक्षरं श्लोकवाच्यमुभयं वेद ईर्यते ॥’ इति ब्रह्माण्डे ।
`सूत्रं तु ब्रह्मसूत्राख्यं महामीमांसिका तथा ।
तथा साङ्कर्षणं सूत्रं ब्रह्मतर्कादयस्तथा ॥
प्रकाशिका निर्णयश्च तत्त्वनिर्णय एव च ।
व्याख्येति कथिताः सर्वाः स्वयं भगवता कृताः ॥
बृहत्तर्कादयः सर्वा अनुव्याख्याः प्रकीर्तिताः ॥’
इति प्रतिसङ्ख्याने ।
`वाग् विष्णुर्वाचकत्वेन प्राणः प्रनयनात् स्वयम् ।
मनो मन्तृत्वतो नित्यं स चक्षुः सर्वदर्शनात् ।
श्रोत्रं श्रवणशक्तित्वाद्धृदयं हृद्गतो यतः ॥’ इति प्रव्याहारे ।
`अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति’ इत्यादि च ।
`वागादिषु स्थितं विष्णुं य उपास्ते सदैवतु ।
वागादिनाम्ना नैनं स प्रजहाति कदाचन ॥’ इति सत्तत्त्वे ।
अत आयतनमेव वागिन्द्रियादि । परमं ब्रह्मेति वचनान्न वागिन्द्रियादिमात्रमुपास्यम् ।
`प्रतिमाद्यं हरित्वेन पृथिव्याद्यमथापि वा ।
इन्द्रियप्राणजीवाद्यमथवा य उपासते ॥
मिथ्योपास्तिमतां तेषां निष्कृतिर्न कदाचन ।
अतिदुःखे पतन्त्यद्धा तमस्यन्धे पतङ्गवत् ॥’
इत्युपासानिर्णये ।
`सर्वेन्द्रियेषु या विष्णोरुपासा युगपत् सदा ।
देवानामेव योग्या सा तया देवत्वमाप्नुयुः ॥
सर्वे देवपदे योग्याः सायुज्यं स्वोत्तमेष्वथ ।
सम्प्राप्य ब्रह्मणा सार्धं प्राप्नुयुः पुरुषोत्तमम् ॥
दुहन्ति सर्वभोगांश्च तेभ्योऽन्ये मुक्तिगा नराः ।
स्वोत्तमेभ्यश्च देवेभ्यस्ते मुक्ता हरये सदा ॥’ इति च ।
`प्रविश्य देहं यो भोगः स्वरूपव्यतिरेकतः ।
सायुज्यमिति तं प्राहुः संयुक्तत्वाद् विशेषतः ॥’ इति च ।
`इन्द्रियेषु स्थितं विष्णुमुपासीत क्रमेण तु ।
सदा देवपदायोग्यः स मानुषसुरो भवेत् ॥
मानुषा देवलोकस्थास्ते प्रोक्ता मानुषाः सुराः ।
मानुषा देवसायुज्यं यान्त्युपासनयाऽनया ॥’ इति च ।
`ऋषभान् गजमिश्रांस्तु क्षत्रियो गुरुदक्षिणाम् ।
विप्रो दद्याद् वृषानेव वैश्यो गाः प्रतिविद्यकम् ॥’
इति मानसंहितायाम् ।
`अन्यथा विद्यया मुक्तिः सुराणामन्यया नृणाम् ।
तत्रापि योग्यताभेदात् प्रतिभेदा अवान्तराः ॥
यया यस्य विमुक्तिः स्यात् तद्दाता मुख्यतो गुरुः ।
एकदेशगुरुत्वं स्यादन्यविद्याप्रदस्य तु ॥’ इति च ।
`प्राणसंस्थस्य वै विष्णोः सम्प्रीत्यै भोजनं भवेत् ।
तदिच्छयैव चौर्यादि कुर्युरज्ञा अपि ध्रुवम् ।
तथाऽपि तं न जानीयुः प्राणात्मानं जनार्दनम् ॥‘इति प्रवृत्ते ।
`यच्चक्षुषि स्थितं रूपं विष्णोश्चक्षुस्तदुच्यते ।
शब्दादेरप्यापरोक्ष्ये तद्धेतुर्विश्वनामकम् ॥
तद्गतस्य ततो विष्णोः कण्ठस्थानगमो यदा ।
तदा स्वप्नो भवेज्जाग्रद्दर्शनं नैव जायते ॥
चक्षुर्निमीलनं च स्यात् सर्वेन्द्रियगुणैः सह ।
चक्षुरात्मा ततो विष्णुः सत्यमित्यभिधीयते ॥’ इति च ।
`सर्वव्यापी तु भगवाननन्त इति कीर्तितः ।
दिङ्नामा स तु विज्ञेयो दिक्षुस्थो नित्यदेशनात् ॥’ इति च ।
`मनसिस्थस्य यद् विष्णोः सम्बन्धादेव कामतः ।
जातः सुतः सुखे हेतुः परानन्दो हरिः किमु ॥ इति ब्रह्मतर्के ।
सदा प्रतिष्ठितानि भवन्ति । विशेषतोऽपि प्रतिष्ठितानि सुप्तौ -
`हृदये सर्वशो व्यापी प्रादेशः पुरुषोत्तमः ।
जीवानां स्थानमुद्दिष्टः सर्वदैव सदातनः ॥
हृत्कर्णिकामूलगतः स्वाङ्गुष्ठाग्रप्रमाणकः ।
मूलेश इति नामास्मिन् सर्वे जीवाः प्रतिष्ठिताः ॥
अङ्गुष्ठमात्रे पुरुषे कर्णिकाग्रस्थिते हरौ ।
प्रविशन्ति सुषुप्तौ तु प्रबुद्ध्यन्ते ततस्तथा ।
सोऽयं त्रिरूपो भगवान् हृदयाख्यः प्रकीर्तितः ॥’ इति च ।
`स्थानमायतनं प्रोक्तं प्रतिष्ठा धारकः पुमान्’ इति च ॥
॥ इति षडाचार्यब्राह्मणम् ॥
भाष्यम्
स्वयोग्यज्ञानं श्रोतुं सिंहासनादवरुह्योपसदनं कृत्वोवाच । यत् स्वात्मना प्राप्यं मुक्तौ तदुपास्यैव मुक्तिर्भवतीत्यतः प्राप्यं पृच्छति ।
`वृन्दैः प्राप्यतमत्वात्तु वृन्दारक इति स्मृतः’ इति च पादम्े ।
`राज्ञां हृदयसंस्थो य इन्द्रो नाम जनार्दनः ।
स इन्द्रे च यमे चैव स प्राप्यो मुक्तराजभिः ॥
तस्मात् तेषामुपास्यः स विराण् नाम तदाश्रया ।
श्रीस्तयोः स्तुतिरेषा हि प्राणेन क्रियते सदा ॥
कर्णौ पिधाय या ज्ञेया सर्ववेदात्मिका हि सा ।
काशनात् सर्वजीवानामाकाश इति सा स्तुतिः ॥
जाग्रतां सर्वजीवानां स विष्णुर्दक्षिणाक्षिगः ।
तस्य पूर्वदिशीन्द्राग्नी सभार्यौ सम्प्रतिष्ठितौ ॥
यमराक्षसौ दक्षिणस्यां वरुणो वायुरेव च ।
पश्चिमस्यामुत्तरस्यां सोमेशानौ प्रतिष्ठितौ ॥
ब्रह्मा प्रधानवायुश्च तथोर्ध्वायां दिशि स्थितौ ।
अधरायां शेषकामौ सभार्याः सर्व एव च ॥
एकैकस्यां हि चत्वारो नेतृत्वात् प्राणनामकाः ।
इन्द्रियाभिमतेश्चैव प्राणा इत्येव शब्दिताः ॥’
त्वत्प्रसादात् यदभयमस्माकं प्राप्तं तदेव तव तृप्तयेऽस्तु ।
नान्यद् वयं प्रत्युपकर्तुं शक्नुम इत्यर्थः । `स भगवान् स्वकृतेन तुष्येत्’ इतिवत् । इन्धो दीप्तः ।
`जीवभोगस्य भोक्तेशो जीवस्तद्भोगभुङ् नतु ।
विविक्तभुगिवातोऽसौ भगवान् पुरुषोत्तमः ॥’ इति पादम्े ॥
॥ इति कूर्चब्राह्मणम् ॥
भाष्यम्
`याज्ञवल्क्यो वरं दत्वा राज्ञा संवादकामुकः ।
वैदेहनगरं प्रायात् सन्तो यच्छास्त्रलोलुपाः ॥’ इति स्कान्दे ॥
तथाऽपि `सम्रालेव पूर्वः पप्रच्छ’ आत्मा भगवानेवास्य ज्योतिः ।
`भावेऽभावेऽपि सूर्यादेर्जीवानां विष्णुरेव हि ।
ज्योतिस्तथाऽप्यभावे तु तज्ज्ञेयं हि विशेषतः ॥
अस्वातन्त्र्यात्तु जीवस्य द्योतयन् बुद्धिमस्य सः ।
प्रवर्तयति सर्वेशस्तमस्यपि जनार्दनः ॥’ इति च ।
`स्वातन्त्र्याद् ध्यायतीवासौ ध्याययन् जीवमञ्जसा ।
गृह्णातीव ग्राहयन् स जीवं सर्वेश्वरेश्वरः ॥
सदा विज्ञानपूर्णोऽसौ समानोऽसौ सदा समः ।
अविकारात् समानः सन् जीवमादाय सञ्चरेत् ॥
उभौ लोकौ स्वापकत्वाद् भूत्वाऽसौ स्वप्ननामकः ।
इमं लोकं जाग्रदाख्यं मृत्युरूपात्मकं सदा ॥
बहुपापैकहेतुत्वात् तारयेत् स्वप्नमानयन् ।
इमं लोकं च भूराख्यं तारयित्वाऽन्तरिक्षगम् ॥
जीवं कुर्यान्मृतौ विष्णुर्भूलोकः क्षिप्रमृत्युमान् ।
बहवो मृत्यवश्चात्र मृत्यो रूपाण्यतस्त्वयम् ॥
पापहेतुत्वतश्चायं भूर्लोको मृत्युरूपकः ।
जाग्रच्च पृथिवी चैव द्यौः सुषुप्तिस्तथैव च ॥
स्वप्नश्चैवान्तरिक्षं च ज्ञेया अन्योन्यनामकाः ।
तद्द्व्यभिप्रायिका तस्मादुभौ लोकविति श्रुतिः ॥
स वा अयं जायमान इति च द्व्याश्रया श्रुतिः ।
यस्य ज्योतिरयं विष्णुः स परामृश्यते तथा ॥
यदा तु भगवानुक्तस्तदा स्वातन्त्र्यतो विभुः ।
म्रियमाणो जायमान इत्युक्तस्तन्नियामकः ॥
फलदानाय पापानां ग्रहः संसर्ग उच्यते ।
मोक्षदाने फलादानाद् विजहातीति चोच्यते ॥
जीवोऽपि मुक्तिकाले तु हाता पापस्य चोच्यते ।
स्वर्गः सुषुप्तिरित्याख्या मुक्तेरपि यतः समाः ॥
परलोको यतो मुख्यो मुक्तिरेव नचापरः ।
अतो द्युसुप्तिमोक्षाणामभिप्रायादिदं वचः ॥
सुप्तिरित्यादिकं स्वेति विष्णोराख्या सुखत्वतः ।
पुनरागमनं नाम मुक्तानामपि विद्यते ॥
प्रलयेऽनुप्रविश्यैनं भगवन्तं जनार्दनम् ।
स्थित्वा ज्ञानाविलोपेन निर्गच्छन्ति पुनस्ततः ॥
नच ज्ञानसुखादीनां तेषां सृष्टौ लयेऽपि वा ।
विशेषः कश्चिदन्तश्च बहिश्चैव रमन्ति ते ॥
स्वापयत्येनमिति स स्वपितीत्युच्यते हरिः ।
आनन्दपापलोकादेर्दर्शनं स्वप्नसुप्तयोः ॥
अपि विष्णोः सदैवास्ति न जीवस्य कथञ्चन ।
अत्रायं भगवान् विष्णुर्जीवस्य स्वयमेव तु ॥
ज्योतिर्विशेषतो भूयान्नैवान्यज्योतिरत्र यत् ।
नहि जीवः स्वयं द्रष्टुं सुप्तः शक्नोति हि ध्रुवम् ॥
अतः स नैव जीवोऽयं सर्वं पश्यति सूक्ष्मदृक् ।
स्वप्नेऽन्तरिक्षे स्वर्गे वा न रथाद्याः पुरा स्थिताः ।
तदैव तत्कर्मयोग्यान् निर्मिमीते हरिः स्वयम् ॥’
इत्यादि महामीमांसायाम् ।
जीवपक्षे प्रसिद्धत्वात् कतम आत्मेति प्रश्नो न युक्तः । नच जीवः समानः सन्नुभौ लोकौ सञ्चरति सुखदुःखविशेषवत्त्वात् । नच सुखदुःखादेर्मिथ्यात्वे किञ्चिन्मानम् ।
`याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः’,`असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’,`वैधर्म्याच्च न स्वप्नादिवत्’ इत्यादिवचनविरुद्धत्वाच्च ।
नचैतन्नाऽसीदस्तीत्यनुभवः कदाचिद् भविष्यतीत्यत्र किञ्चिन्मानम् । किञ्चित्कालस्थिरत्वमात्रस्य शून्यवादिनामपि सिद्धत्वाद् `वैधर्म्याच्च न स्वप्नादिवत्’ इत्यादिवचनं व्यर्थं स्यात् । अतो न कदाचिदस्य नाऽसीदस्ति भविष्यतीत्यनुभवो भविष्यतीत्यभिप्रायेणैव तद् वचनम् । नच तथा अनुभवे शून्यस्यानिर्वचनीयस्य च कश्चिद् विशेषः । नच शून्यवादिनां तद्वादिनां च कश्चिद् विशेषो मोक्षे । नच नित्यज्ञानस्वरूपमस्तीति वचनेन कश्चिद् विशेषः । ज्ञेयाभावे ज्ञानस्याप्यभावात् । नहि ज्ञेयरहितं ज्ञानं नामास्तीत्यत्र किञ्चिन्मानम् । नच स्वविषयं तदिति तेषां पक्षः । तदा कतृर्कर्मविरोध इति हि तेषां वचनम् । नच जानातीत्यादिकतृर्त्वं ज्ञानस्य तैरङ्गीक्रियते । निर्विशेषत्वाङ्गीकारात् । अतः शून्यवादिन एव तेऽपि ।
स्वप्नो भूत्वा स्वापको भूत्वा । नहि जीवोऽपि स्वप्न एव भवति । स्वापं नयतीति स्वप्न इति च व्युत्पत्तिः । जायमानो म्रियमाणः प्रस्वपितीत्यादि तु
`कृत्वा विवाहं तु कुरुप्रवीराः’,`तदेतन्मे विजानीहि यथाऽहं मन्धधीर्हरे । सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात्’, `जज्ञे बहुज्ञं परमाभ्युदारम्’,`द्रष्टुश्चक्षुषो नास्ति जिह्वा’ इत्यादिवदन्तर्नीतणिच्त्वेन भवति । `स्वातन्त्र्यस्नेहयोरन्तर्नीतणिच्’ इति हि सूत्रम् । कथमन्यथा `स्वयं विहत्य स्वयं निर्माय’,`स्रवत्यः सृजते स हि कर्ता’,`स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति’ इत्यादि युज्यते ।
उक्तार्थे च स्वप्नेन शारीरमित्यादिजीवेश्वरभेदमन्त्रा उक्ताः प्रमाणत्वेन । ईश्वरो जीवस्य भयानि पश्यन् जक्षदिव अहसदिव । `प्राज्ञेनाऽत्मना सम्परिष्वक्तः’,`प्राज्ञेनाऽत्मनाऽन्वारूढः’ इत्यादिषु चाभ्यासेन सर्वत्र भेद एव निर्दिश्यते । `सुषुप्त्युत्क्रान्त्योर्भेदेन’ इति च निर्णयात्मकं भगवद्वचनम् । नचावस्थाभेदेन जीवभेदो व्यावहारिकोऽप्यस्तीत्यत्र किञ्चिन्मानम् । नहि जाग्रत् स्वप्नस्थश्च द्वावित्यज्ञप्रयोगोऽपि कश्चिदस्ति लौकिकः । नच भ्रमस्तादृशः तस्माद् भगवानेवात्रोच्यते सर्वकतृर्त्वेन । वेशान्ताः वेश्यागृहाः । सुषुप्तिमोक्षोभयविवक्षयैव तद्वचनमिति भगवताऽप्युक्तम् - `स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि’ इति । उभयापेक्षमित्युक्ते मोक्षस्थसुप्तिरित्यपि मन्दस्याऽशङ्का स्यादतो मोक्षे सुप्तिरेव नास्तीति ज्ञापयितुमन्यतरापेक्षमित्युक्तम् । नत्वन्यतर एवार्थ इति । ज्ञाने विकल्पायोगात् । अतोऽवस्थाश्च लोकाश्च सर्वेऽपि विवक्षितः । सर्वावतः आ समन्तात् सर्ववतः । सर्वज्ञानान्युपादाय ।
`बाह्यप्रकाशो भेत्युक्तो ज्योतिरान्तर उच्यते’,`सुखं स्वरूपभूतं यदानन्द इति कथ्यते । मुन्नाम विषयोत्थं यत् प्रकृष्टविषयात् प्रमुत्’ इति च ॥
शुक्रं जीवमादाय -
`शोकेन रत्या युक्तत्वाच्छुक्रो जीव उदाहृतः’ इति च ।
`रत्यानन्दौ पूर्णनित्यौ हितौ तेन हिरण्मयः ।
स्वर्णवर्णतया वाऽपि वासुदेवो हिरण्मयः ।
प्रधानहंसरूपत्वादेकहंस इतीरितः ॥’ इति च ।
`अंशेन जीवमादाय क्वचिदीशो बहिर्नयेत् ।
स्वप्नेषु फल्गुनं यद्वत् कृष्णः कैलासमानयत् ॥
वासनारूपकान् प्रायस्त्वन्तरेव प्रदर्शयेत् ।
अतो बहिष्कुलायादित्यपि वाङ् न विरुद्ध्यते ॥’ इति ।
`उच्चावचेषु रूपेषु प्रविशन् पुरुषोत्तमः ।
बहुरूपत्वमायाति स्वप्ने स जगतः प्रभुः ॥’ इति च ।
`मोदरूपत्वतो विष्णोः स्त्रीभिर्मोदो विडम्बनम् ।
जीवस्य मृतिकाले च स्वप्नकाले च केशवः ॥
एवंविधानि कर्माणि कुर्वाणोऽपि न दृश्यते ।
तथा जागरिते सुप्तौ मुक्तैरेव तु दृश्यते ॥
तथाऽपि नायतेभ्यस्तं ज्ञानी ब्रूयाज्जनार्दनम् ।
यस्य गोचरतां विष्णुः कदाचिन्न प्रपद्यते ॥
तस्यायतस्य पापस्य भेषजं नहि विद्यते ।
सुप्तिकालोऽप्ययं विष्णोः सदा जागरितात्मकः ॥
यानि जागरिते पश्येत् तानि सुप्तेऽपि पश्यति ।
नित्यज्ञानस्वरूपत्वाद् भगवान् पुरुषोत्तमः ॥
नित्यानन्यप्रकाशत्वेऽप्यन्यज्योतिर्यदा भवेत् ।
तदा स्यात् संशयोऽज्ञानामित्यत्रेति विशेषणम् ॥’ इति च ।
जीवस्यापि स्वप्नावस्थायां जागरितत्वेऽस्येति विशेषणं व्यर्थम् । पूर्वोक्तमपि मोक्षायैव भवति । अत ऊर्ध्वं विशिष्टमोक्षाय ब्रूहि ।
`स्वयोग्यभगवद्दृष्टेः सर्वैर्मुक्तिरवाप्यते ।
पुनर्ज्ञानान्तराधिक्यात् सुखाधिक्यं विमोक्षगम् ॥’
इति ब्रह्मतर्के ।
स्वप्नसुषुप्त्युभयाभिप्रायेण `तानि सुप्तः’ इत्युक्तम् । तत्र सुषुप्तिमात्राभिप्रायेण `स वा एष एतस्मिन् सम्प्रसादे’ इत्याह ।
`यत्रोभयविवक्षा स्यात् परामर्शस्तदोभयोः ।
एकस्यापि भवेन्नैकविवक्षायां क्वचिद् द्वयोः ॥’ इति शब्दनिर्णये।
स्वप्नाख्योऽन्तःस्थानं स्वप्नान्तम् ।
`अन्तः स्थानं स्थलं वासः प्रदेश इति चोच्यते’ इति च ।
स्वप्नान्तं च बुद्धान्तं चेत्यत्रापि स्वप्नान्तशब्दः स्वप्नसुषुप्त्युभयाभिप्रायेण । `शुभाशुभं तु दृष्द्वैव स्वाप्ने जागरितेऽपि च ।
`असंस्पृष्टः सदा दुःखैश्चरतीशः पुनः पुनः ॥
स्वप्नसुप्त्यात्मकं कूलमेकं बुद्धात्मकं परम् ।
महामत्स्य इवासङ्गी चरत्येको जनार्दनः ॥
यं विष्णुं श्येनवच्छ्र2ान्तो जीवो जागरिते भ्रमन् ।
स्वप्ने च सुप्तावभ्येति संश्रान्तः सद्गृहं यथा ॥
स्वित्यानन्दः परो विष्णुस्तमाप्तः सुप्त उच्यते ।
सम्प्राप्य तमयं जीवः कामयेन्नैव किञ्चन ॥
नच स्वप्नसमभ्रान्तिज्ञानं याति कदाचन ।
सुषुप्तौ च किमु ज्ञानान्मुक्तौ प्राप्तो जनार्दनम् ॥
निहितो भगवान् यत्र हिता नाड्यः प्रकीर्तिताः ।
नानावर्णो हरिस्तासु नानारूपी व्यवस्थितः ॥
तासां मध्ये सुषुम्ना च तत्र सुप्तिं व्रजत्ययम् ।
ता एव कण्ठदेशस्था जीवस्तत्र व्यवस्थितः ॥
स्वप्नान् पश्यति जाग्रद्वद् भयं च प्रतिपद्यते ।
अ इत्यादिश्यते विष्णुरविद्या तन्निरीक्षणम् ।
तेन स्वप्नानयं पश्येज्जीवो जागरितं तथा ॥’
इत्यादि महामीमांसायाम् ।
जिनन्तीव ताडयन्तीव । विच्छाययति भयेन विच्छायं करोति । अहमेवेदं सर्वोऽस्मि स्वयोग्यतापेक्षया पूर्णोऽस्मि विषयभोगानन्वितस्वरूपनन्देनेत्येवशब्दः । इदमिति पूर्णत्वविशेषणम् । `अजानता महिमानं तवेदम्’ इतिवत् । स्वपूर्णतामापरोक्ष्येणानुभूय इदं पूर्णोऽस्मीति मन्यते ।
`क्वचित् तद्भावशेषः स्यात् क्रियाशेषः क्वचिद् भवेत् ।
क्वचित् पदार्थशेषः स्यादिदमादिस्त्रिधा स्मृतः ॥
इति शब्दनिर्णये ।
नहि राजा देवो वा सर्वजगद् भवति । राज्ञो भोगापेक्षया पूर्तिर्भवतीति देवदृष्टान्तः । प्रत्यक्षदर्शनार्थं राजदृष्टान्तः ।
`स्वयोग्यपूर्तेः स्वातन्त्र्याद् राज्ञो देवगणस्य च ।
सर्वभावस्तथा मोक्षे नतु सर्वस्वरूपतः ॥’ इति ब्रह्मतर्के ।
`छन्दसामप्यवाच्यत्वादतिच्छन्दा हरिः स्मृतः ।
तेनाऽश्लिष्टो ह्ययं जीवः सुप्तो मुक्तोऽथवा भवेत् ॥
विष्णो रूपं हि यन्नित्यमभयं पापवर्जितम् ।
आप्तकामं च पूर्णत्वादात्मकामं सुखत्वतः ॥
शोकं विना सुरमणाच्छोकान्तरमितीरितम् ।
तेनाऽश्लिष्टः स्वपुत्राणां दायादानां नवै पिता ॥
तेषां दुःखाददुःखित्वान्न माता लोकमान्यपि ।
अलोकमानान्नो लोको देवोऽपि स्वाधिकारतः ॥
वर्षणादेर्व्युत्थितत्वान्न देवो वेदमान्यपि ।
अवेदमानान्नो वेदः पापी पापफलाप्ययात् ॥
अपापः श्रमणश्चापि यतिधर्मात् समुत्थितेः ।
अयतिस्तापसश्चैवमनिष्टं पुण्यमप्यमुम् ॥
नान्वेत्येवंविधो मुक्तो विष्णोः सम्प्राप्तिमात्रतः ।
यत् तन्न विष्णुः पश्येत पश्यन् वै तन्न पश्यति ।
नित्यज्ञानस्वरूपत्वात् तत्समं नान्यदिष्यते ॥’ इति च ॥
यत्किञ्चिद् वस्तु भगवता न दृष्टं नास्त्येव । विद्यमानं सर्वं पश्यत्येव । नहि द्वितीयो द्रष्टा यो विभक्तत्वेन जगत् पश्यति । तद्विरोधेन पश्यत्यभ्रान्तः । तद्दृष्टादन्यद् वा । `नान्योऽतोऽस्ति द्रष्टा’ इत्यादिश्रुतेः ।
`यत्तद् दृष्टं भगवता तदेवास्ति नचापरम् ।
नह्यन्यो विद्यते द्रष्टा यः पश्येत् तददर्शितम् ॥
ब्रह्मादिरपि यो द्रष्टा पश्येत् तस्य प्रसादतः ।
तददृष्टं कुतः पश्येदतः को वा विरोधतः ॥’ इति च ।
यदवतारादिकं द्वैतत्वेन न पश्यति न तु तत् ततो द्वितीयम् । नित्यज्ञानत्वाद् भ्रमाभावात् । यद् विभक्तत्वेन विष्णुः पश्यति तत् ततोऽन्यदस्ति चेति च । यस्माद् विष्णुर्विश्वं विभक्तत्वेनैव पश्यति तस्मात् तदन्यदस्त्येव । नच जगदभावोऽत्रोच्यते । अन्यद् विभक्तमिति विशेषणवैयर्थ्यात् । नच भ्रान्तिकल्पितं जगदित्यत्र किञ्चिन्मानम् । `असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’ इत्यादिनिन्दनाच्च । द्रष्ट्र2न्तरनिषेधेन तस्यैव सर्वद्रष्ट्र2त्वमेव च `यत्र वा अन्यदिव स्यात्’ इत्यादिनोपसंह्वियते । अन्यथा `अन्योऽन्यत् पश्येत्’ इत्यादिकमनर्थकम् । नह्येकस्यान्यत्वेऽन्यस्यानन्यत्वं भवति । अतो द्वितीयान्तशब्दो व्यर्थ एव स्यात् । नच तत्पक्षेऽन्यत्वादिकमात्मनो विद्यते । तस्माद् यत्र किञ्चिदपि स्वातन्त्र्यमन्यस्य भवति तत्रैव भगवतोऽन्यः पुरुषो भगवद्दृष्टादन्यत् पश्यतीत्यादि युज्यते । तदेव नास्ति । अतः अतो नान्योऽन्यत् पश्येदित्यर्थः । अन्यदिवेतीवशब्दोऽल्पस्वातन्त्र्यार्थे । राज्ञः पृथगिव भृत्य इतिवत् ।
`उपमार्थे तथाऽल्पत्वेऽपीवशब्दः प्रयुज्यते’ इति च शब्दनिर्णये । `स्वरूपभेदे स्वातन्त्र्ये विरोधे च विलक्षणे ।
अन्यशब्दश्चतुर्ष्वेषु प्रयोक्तव्यो मनीषिभिः ॥’ इति च ।
`अनन्याः सर्व एवैते यौधाः कुन्तीसुतादपि’ इति प्रयोगाच्च ।
`दशरात्रैर्भुक्तमिव न सम्यक् स्वल्पभोजनम्’ इति च ।
`प्रकृतेः पुरुषाणां च नाणुमात्रमपि क्वचित् ॥
स्वातन्त्र्यं विष्णुना सर्वे नियताः सर्वदैव हि ।
तददृष्टं ततः को हि पश्येत् किं वाऽपि तद् भवेत् ॥’
इति महामीमांसायाम् ।
`अभेदेन स्वावतारान् जीवाजीवं तु भेदतः ।
यदभ्रमो हरिर्वेत्ति स तदन्यच्च तद्द्वयम् ॥’ इति च ।
अन्यदप्यस्वातन्त्र्येणान्यवत् स्थितं यस्मिन् पक्षेऽस्ति तत्रैवान्यदर्शनादिव्यवहारो युज्यते । सप्तमरसादिदर्शनाभावादिति च । सर्वेन्द्रियोपभोगोऽपि विष्णोः स्वात्मनि विद्यते । यदि जगदेव न स्यात् तदा कथं मोक्षेऽप्यन्यानि भूतानि मात्रामुपजीवन्तीति युज्यते? मोक्षप्रकरणं चैतत् । `स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि’ इति भगवद्वचनम् ।
`यदा हि सलिलत्वेन प्रकृतिर्व्याप्य तिष्ठति ।
तदा तस्यां परो विष्णुरेको द्रष्टा व्यवस्थितः ॥
अविरोधादद्वितीय एकोऽसौ समवर्जनात् ।
बृहज्ज्ञानो ब्रह्मलोकः सदैव पुरुषोत्तमः ॥
सर्वगत्वादस्य गतिः परा विष्णोः सदैव हि ।
पूर्णैश्वर्यादस्य सम्पत् परमा सम्प्रकीर्तिता ॥
सार्वज्ञ्यात् परमो लोको विष्णोरानन्द एवच ।
स्वातन्त्र्यात् परमो ज्ञेयः स हि पूर्णः सदोदितः ॥
प्रतिबिम्बरूपविप्लुट्कांस्तदानन्दस्य चाखिलाः ।
मुक्ता ब्रह्मादयोऽश्नन्ति तारतम्येन नित्यदा ॥’
सलीलः सलिल इति वा ।
`अन्येभ्यस्तु विमुक्तेभ्य आनन्दश्चक्रवर्तिनाम् ।
मुक्तानां हि शतोद्रिक्तः पितॄणां तेभ्य एव च ॥
तेभ्योऽप्यृषीणां मुक्तानां कर्मदेवाभिधायिनाम् ।
तेभ्यश्च मुक्तदेवानां तेभ्यश्चोमापतेस्तथा ॥
तस्माच्च ब्रह्मणस्त्वेवं मुक्तस्य गरुडादपि ।
एष एव ततो विष्णुः पूर्णानन्दः प्रकीर्तितः ।
यस्य ब्रह्माऽपि मुक्तः सन् विप्लुण्मात्रं समश्नुते ॥’ इति च ।
राद्धो मुक्तः । मनुष्याणां योग्यतया स्वसमेभ्यः प्रयत्नााधिक्यादाधिक्यं मुक्तौ प्राप्तुं शक्यत इत्यतः समृद्ध इत्युक्तम् । यावत् साधयितुं शक्यते तावत्साधनैः सम्पूर्णत्वेन मुक्त इत्यर्थः । स्वराष्ट्र2े ज्ञानोपदेष्ट्र2त्वान्मुक्तावपि तेषामधिपतिः । ज्ञानपूर्वकत्वेन मनुष्यत्वे दानादिकं कृत्वा तत्फलैरपि भोगैर्मुक्तौ सम्पन्नतमः । `न हास्य कर्म क्षीयते’ इति श्रुतेः । अन्यथा राद्ध इति विशेषणं व्यर्थं भवति । `स मनुष्याणां परम आनन्दः’ इति स्वरूपानन्दश्चात्रोच्यते । नह्यमुक्तानां स्वरूपानन्दानुभवोऽस्ति । `भुज्यते स्वसुखं मुक्तैराभासोऽन्यैस्ततोऽपरः’ इति च । जितलोका इत्यपि मुक्ता एवोच्यन्ते । गन्धर्वलोके गन्धर्वाणां ब्रह्मज्ञाने मुक्तावित्यर्थः । तदा हि ब्रह्मज्ञानं सदोदितमवतिष्ठते । एष ब्रह्मलोकः सम्रािलत्यादिषु ज्ञानस्यैव लोकशब्दोदितत्वात् । यश्च श्रोत्रिय इति वचनं तेषामाजानादीनामपि मुक्तानामेवायं नियमेनाऽनन्दशतगुणोद्रेकः अन्यदा तु कदाचिद् भवति, कदाचिद् व्याकुलतया न भवतीति दर्शयितुम् । चशब्दस्तु श्रोत्रियत्वावृजिनत्वाकामहतत्वानां गुणानां मुक्तौ समुच्चयार्थः । मुक्तस्यैवेते गुणा भवन्तीति मुक्तस्वीकारार्थं य इति विशेषणम् ।
`सर्वं श्रुतिफलं मुक्तैः प्राप्यं नान्येन केनचित् ।
अतस्तु श्रोत्रियो मुक्तो ह्यन्यः श्रोत्रियको भवेत् ॥
अदुःखत्वं च तस्यैव कामैरहतता तथा ।
यः कामितं न प्राप्नोति स कामहत उच्यते ॥
काम्याप्राप्तेश्च पापाच्च पापात् कामहतः स्मृतः ।
उभयस्याप्यभावेन मुक्तोऽकामहतो मतः ॥’ इति च ।
`आजानदेवा इन्द्राद्या जातेभ्यस्ते वरा यतः’ इति च ।
प्रजापतिलोक इत्युक्तेनैव मुक्तप्रजापतिसिद्धावपि मुक्तस्यैव प्रजापतेर्ब्रह्मणश्चायं विशेष इति स्वरूपकथनार्थं यश्च श्रोत्रिय इत्यादि । अनुपचरितश्रोत्रियादित्वमिति ज्ञापयितुमभ्यासः । सर्वेषामपि मुक्तानां नियमेन तदस्तीति ज्ञापयितुं च ।
`प्रजास्तु पशुशब्दोक्ताः पशुपस्तु प्रजापतिः’ इति च ।
अथशब्दादेष ब्रह्मलोक इति विशेषणाच्च द्वितीयब्रह्मलोकशब्देन परब्रह्मैवोच्यते । अन्यथा `एष एव परम आनन्दः’ इत्युक्त्वा पुनरेष इति शब्दोऽनर्थकः स्यात् । तस्यैव ब्रह्मलोकशब्देन पूर्वमभ्यासाच्च । नच तैत्तिरीयादिश्रुतिविरोधः । शतशब्दस्यायुते दशलक्षादावपि समत्वात् । अतश्चक्रवर्तिभ्यो मनुष्यगन्धर्वाः शताधिकाः । देवगन्धर्वा अयुताधिकाः । पितरो दशलक्षाधिका इत्यविरोधः । उत्तमगन्धर्वापेक्षया पितृभ्यो गन्धर्वाणामाधिक्यं च युज्यते । आजानदेवेभ्यो जाता आजानजा इत्यतस्तत्राप्यविरोधः । यत्राऽजानजा इत्येवोपरि पाठस्तत्राऽजानेभ्यो ब्रह्मादिभ्यो जाता इति भवति । इन्द्रबृहस्पत्यादीनां विशेषस्तु विशेषवचनत्वादत्राप्यङ्गीकर्तव्य एव ।
`सामान्यधर्मो बलवान् धर्माद् वैशेषिकाद् यथा ।
बलवद् विशेषवचनं सामान्यवचनात् तथा ॥’ इति च ।
`नृपा मनुष्यगन्धर्वा दैवाश्च पितरस्तथा ।
देवैः सहितगन्धर्वा ऋषयो देवतास्तथा ॥
इन्द्रो बृहस्पतिश्चैव प्रधानेन्द्रः पुरन्दरः ।
रुद्रो ब्रह्मेति क्रमशो मुक्ताः शतगुणोत्तराः ॥’ इति च ।
`अतिप्रयत्नातो यावत् प्राप्तुं शक्यं विमुक्तिगम् ।
सुखाद्यं तस्य सम्प्राप्त्यै ज्ञानश्रेण्यः क्रमात् स्मृताः ॥
एकां श्रेणीं प्रविज्ञाय तदुत्कृष्टां च तद्वराम् ।
क्रमेणैव विजिज्ञासुर्जनकः पृच्छति स्म ह ।
पुनःपुनर्विमोक्षाय ब्रूहीत्यद्धा वरात् पुरा ॥’ इति च ।
`रहस्यमस्यायोग्यं च यदि मामेष पृच्छति ।
दत्तो वरो मयाऽस्येति वक्तव्यं मे भविष्यति ।
इति भीतोऽभवद् राज्ञो याज्ञवल्क्यः सुमेधया ॥’
इति ब्रह्माण्डे ।
तेभ्योऽश्वलादिभ्यः ।
`सर्वदा जीवमादाय नियमाद् विष्णुरेव हि ।
जाग्रदादिषु संयाति नान्यथा तु कथञ्चन ॥
एवं नियमविज्ञप्त्यै जीवास्वातन्त्र्यवित्तये ।
परिवृत्तिमवस्थासु साभ्यासा वक्ति हि श्रुतिः ॥‘इति निर्णये ।
अतस्तात्पर्यार्थं पुनर्वचनम् । ग्रामादिकमुत्सर्जद् यायात् -
`यथा ग्रामं परित्यज्य यात्यनः पुमधिष्ठितम् ।
एवं देहं परित्यज्य विष्णुनाऽधिष्ठितः पुमान् ॥’ इति च ।
अणिमानं भगवन्तम् । `स य एषोऽणिमा’,`तेजः परस्यां देवतायाम्’ इति हि श्रुतिः । उपतपता रोगादिना ।
`आम्रं बाल्येऽपि पतति परिणामे ह्युदुम्बरम् ।
सम्यक् पाके तथाऽश्वत्थफलं जीवमृतिस्तथा ॥
कलावाम्रोपमा जीवास्त्रेतास्वौदुम्बरोपमाः ।
कृतेऽश्वत्थसमाश्चैव यान्ति ब्रह्मवशाः सदा ॥’ इति पादम्े ।
प्राणायैव -
`वायुमेवाऽद्रवत्येष जीवो मोक्षाय तत्त्ववित् ।
तदनुज्ञयैव ज्ञानित्वमतस्तं पुनराव्रजेत् ॥
सर्वेऽपि वायुमासाद्य जायस्व ज्ञानमाप्नुहि ।
इति तस्य वरादेव जायन्ते ज्ञानिनोऽखिलाः ।
पुनस्तं प्राप्य मुक्तिं च प्राप्नुयुस्तदनुज्ञया ॥’ इति प्रवृत्ते ॥
इदं मुक्तजीवस्वरूपमायाति । अतोऽनेन सहेदं परं ब्रह्माऽयातीति परब्रह्मणः पूजार्थं प्रतिकल्पन्ते । यथा राज्ञो ध्वजादिकं दृष्द्वाऽयं ध्वज आगच्छति तस्माद् राजाऽऽयातीति पूजां प्रतिकल्पन्ते तद्वत् । अन्यथा `इदं ब्रह्माऽयातीदमागच्छति’ इति द्विरुक्तिर्व्यर्था स्यात् । वीप्सात्वे त्वयमायातीत्येकप्रकारेण शब्दाभ्यासः स्यात् ।
`एकप्रकारशब्दानामभ्यासस्त्वादरार्थकः ।
स्वरवर्णादिमात्रं वाऽप्यन्यथा चेत् तदाऽपरः ॥
अर्थः स्यादेष नियमो वाक्ये वीप्सापदे तथा ।
प्रातिस्विकार्थेऽपि भवेदभ्यासे वा तथा स्थिते ॥’
इति शब्दनिर्णये ।
नच कुत्रचिदादरार्थे द्विरूपप्रयोगे दृष्टोऽनन्तरितः ।
`यदा मुक्तो व्रजत्यूर्ध्वं तदा तत्सहितो हरिः ।
नियमाद् दृश्यते देवैरमुक्ते नियमो नतु ॥
यथा ध्वजादिकं दृष्द्वा पूजां राज्ञः प्रकुर्वते ।
एवं विमुक्तिगं दृष्द्वा विष्णोः पूजां प्रकुर्वते ॥’
इति तत्त्वनिर्णये ।
तस्मादणिमानं न्येतीत्यादिना जीवगतं ब्रह्म चोच्यते । जीवोपतापादि तु नैव ।
`जीवमादाय गच्छन्तमनुयान्ति दिवौकसः ।
प्राणाभिमानिनो विष्णुं नृपं परिजना यथा ॥’ इति च ।
`उग्रास्तु श्रेणयः प्रोक्ता यौधाः प्रत्येनसः स्मृताः ।
ग्रामण्यस्तु चमूपालास्ते सर्वे द्विविधा मताः ॥
राज्ञा सह स्थिताश्चैव तथा जनपदे स्थिताः ।
ते सर्वेऽपि नियन्तव्याः श्रेणिभिर्द्विविधैः सदा ॥’
इति राजनीतौ ।
`अनुयान्ति शरीरस्था अभियान्ति स्वलोकगाः ।
मुक्तमादाय गच्छन्तं विष्णुं सर्वे दिवौकसः ॥’ इत्यध्यात्मे ॥
॥ इति ज्योतिर्ब्राह्मणम् ॥
भाष्यम्
`सर्वेषां बलकारित्वाद् बल्यो विष्णुः प्रकीर्तितः ।
तं यदा प्राप्य जीवात्मा मृतेः पूर्वं विमुग्धताम् ॥
याति विष्णुं तदा देवा यान्ति तेजः स्वरूपिणः ।
तानादाय हरिश्चक्षुःस्थानाद्धृदयमाव्रजेत् ।
तदा न किञ्चिज्जानाति जीवो ब्रह्म समाश्रितः ॥’ इति च ।
एनं बल्यमभि समायन्ति । पराक् स्थितश्चाक्षुषो भगवान् प्रत्यक् परावर्तते । `इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषः’ इत्यादिश्रुतेः ।
`हृदये संस्थितो जीवो विशेषेण हरिस्तथा ।
चक्षुरादिषु रूपाणि जाग्रत्काले तयोः सदा ॥
बहूनि सन्ति तान्येव यदैकीभावमाप्नुयुः ।
हृदयस्थेन रूपेण तदा जीवो न किञ्चन ॥
जानातीति विदुः प्राज्ञास्तदा विष्णोः स्वतेजसा ।
द्योतते हृदयाग्रं च तेन द्वारेण केशवः ॥
निष्क्रामेज्जीवमादाय प्राण एनमनुव्रजेत् ।
प्राणमन्ये तथा देवा विद्या कर्म च योग्यता ॥’
इति महामीमांसायाम् ।
`कर्माभिमानी गरुडो ब्रह्मा ज्ञानाभिमानवान् ।
पूर्वप्रज्ञा योग्यता स्याद् रमा तदभिमानिनी ॥
एतेऽपि विष्णुं गच्छन्तमनुयान्ति सदैव हि ।
वायुर्ज्ञानात्मकश्चैव प्राणात्मक इति द्विधा ।
अनुयाति हृषीकेशं सर्वैर्देवैः समन्वितः ॥’ इति च ।
`देवलोके चिरं रत्वा यस्तु मुक्तिं व्रजिष्यति ।
स तु तद्देवताद्वारेणोत्क्रामति न संशयः ॥
विष्णोर्लोकं परं गच्छन्नुत्क्रामेन्मूर्ध्न एव तु ।
तथैव ब्रह्मणो लोकं सुषुम्नाया विभेदतः ॥’ इत्यध्यात्मे ।
सविज्ञानो भवति । जीवेन सहितो भवति । सः विज्ञानं जीवमेवान्ववक्रामति । जीवमारुह्य गच्छति भगवान् । `प्राज्ञेनाऽत्मनाऽन्वारूढः’ इति ह्युक्तम् । `यो विज्ञाने तिष्ठन्’,`य आत्मनि तिष्ठन्’ इत्युभयोर्जीवाभिप्रायेण हि पाठः । `शारीरश्चोभयेऽपि हि भेदेनैनमधीयते’ इति भगवद्वचनम् । `विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र’ इति च । एष आत्मा निष्क्रामतीति जीवाङ्गीकारे `शरीरं निहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरं रूपं कुरुते’ इत्यादिकमयुक्तं स्यात् । नहि जीवः शरीरं निहन्त्यविद्यां गमयति रूपान्तरं वा करोति । नच सर्वमयत्वं जीवस्य । ब्रह्मेति विशेषणाच्च ।
`यथा तृणजलूकैवं भगवान् पुरुषोत्तमः ।
जीवस्य सूक्ष्मं रूपं तु प्राप्य स्थूलं परित्यजेत् ॥
इदं शरीरं भूतेषु विलापयति केशवः ।
अविद्यां चैव जीवस्य गमयेज्ज्ञानसर्जनात् ॥
स्वर्णकारो यथा स्वर्णमलमग्नौ निहत्य च ।
शुद्धेन तेन चाऽत्मेष्टं कुरुते रूपमञ्जसा ॥
एवं स भगवान् विष्णुर्जीवस्वर्णस्य यन्मलम् ।
अविद्याकामकर्माद्यमात्माग्नौ नाश्य सर्वकृत् ॥
स्वेच्छया कुरुते रूपं यद् योग्यं तस्य मुक्तिगम् ।
पितृजीवस्य पित्र्यं स गान्धर्वं तस्य चैव हि ॥
दैवं तु देवजीवस्य प्राजापत्यं प्रजापतेः ।
ब्रह्मणो ब्राह्ममेवेति नित्यानन्दस्वरूपकम् ॥
न योग्यतां विना क्वापि पूर्वप्रज्ञा श्रुतेः क्वचित् ।
यदा मुक्तो भवेद् ब्रह्मा तदा ब्रह्मा स मुख्यतः ॥
एवं प्रजापतिश्चैव तथैवान्येऽपि सर्वशः ।
यथा हि स्वर्णरूप्याद्यं मलहानौ हि तद् भवेत् ।
पूर्वं तु योग्यतामात्रं द्विजत्वं बालके यथा ॥’ इत्यादि च ।
नह्यमुक्तानां कल्याणतरत्वम् । नच मृगादीनां कल्याणत्वमपि । मरणमात्रं चेदत्रोच्यते तदा कल्याणतरमिति विशेषणं व्यर्थमेव स्यात् । पूर्वोक्तश्रोत्रियावृजिनाकामहतदेवादीनां चात्रोक्तिः । पूर्वाननुभूतत्वान्नवतरं च भवति ।
`अल्पतेजस्तथैवाल्पं जीवरूपं हि संसृतौ ।
तथैव सुमहत्तेजः करोति भगवान् महत् ।
अतो नवतरं चैदद् ब्रह्मादीनां करोत्यजः ॥’
अन्येषां वा भूतानां मनुष्यादीनाम् । नासुरादीनां भविष्यतीति च ।
`मयं तु मानुषं स्वर्णं पीतं गान्धर्वमेव च ।
इन्द्रगोपनिभं नाम्ना जाम्बूनदमिति स्मृतम् ॥
दैवं चामीकरं नाम प्रोद्यदादित्यसन्निभम् ।
नैजो विशेषः स्वर्णानामेतेषां सर्वदैव च ॥
नाग्न्यादिनाऽपि समतां यान्ति तानि कथञ्चन ।
एवं मानुषगन्धर्वपितृदेवाः प्रजापतिः ॥
ब्रह्मेति क्रमशो जीवा विशिष्टा उत्तरोत्तरम् ।
स्वभावेनैव मुक्तानां स्वभावो व्यक्तिमाव्रजेत् ॥’ इत्यादि च ।
`स यत्रायमणिमानं न्येत्थ’, `तस्य हैतस्य हृदयस्याग्रं प्रद्योतते’, `तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वो विमुक्ताः’, `तेनैति ब्रह्मवित् पुण्यकृत् तैजसश्च’ इत्येवमादेश्च मुक्तविषयमेवैतत् । मुक्तिविषयत्वेन चैतत् प्रकरणं सूचयामास भगवान् `तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्’ इत्यादिना । नचान्या मुक्तिरस्तीत्यत्र किञ्चिन्मानम्- `सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’, `एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन्’, `ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु’, `परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच’, `स तत्र पर्येति जक्षन् क्रीडन् रममाणः’, `स य एवंविदेवं पश्यन्नेवं मन्वानस्तस्य सर्वेषु लोकेषु कामचारो भवति’, `स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा पुनश्चैकादश स्मृतः’, `न हास्य कर्म क्षीयतेऽस्माद्ध्येवाऽत्मनो यद्यत् कामयते तत्तत् सृजते’, `यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम’, `तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’,
`परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥’,
`न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं नच कालविक्रमः ।
न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ।
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ॥’
इत्यादिश्रुतिस्मृतीतिहासपुराणेषु तेषां निर्गुणमुक्तिविषयत्वेन प्रसिद्धेष्वेव स्थलेषु मुक्त्यनन्तरं भोगोक्तेश्च ।
`अशरीराक्रिया गौणदेहादेस्ते ह्यभावतः ।
चिदानन्दशरीरादेः सदेहाद्या विमोक्षिणः ॥’,
`अनिन्द्रिया अनाहारा अनिष्यन्दाः सुगन्धिनः’ इत्यादेश्च ।
मयट् प्राचुर्ये स्वरूपे च ।
`आत्माऽयमाततत्वाद्धि ब्रह्म पूर्णगुणत्वतः ।
दूरस्थत्वात् स इत्युक्तः समीपस्थो ह्ययं स्मृतः ॥
पूर्णज्ञानस्वरूपत्वाद् विज्ञानमय ईर्यते ।
सर्वमन्तृस्वरूपत्वात् स एवोक्तो मनोमयः ॥
बलपूर्णस्वरूपत्वात् स प्राणमय ईरितः ।
सर्वद्रष्टृस्वरूपत्वाच्चक्षुर्मय इतीर्यते ॥
सर्वश्रोतृस्वरूपत्वात् स श्रोत्रमय ईरितः ।
सर्वाधारात् सुगन्धत्वात् पृथिवीमय उच्यते ॥
सर्वतृप्तिकरत्वाच्च विष्णुरापोमयः स्मृतः ।
सर्वकतृर्स्वरूपत्वाच्छ्र2ुतो वायुमयो हरिः ॥
अवकाशप्रदातृत्वादाकाशमय ईर्यते ।
पूर्णतेजःस्वरूपत्वात् तेजोमय उदाहृतः ॥
सृष्ट्यादीच्छास्वरूपत्वात् स्मृतः काममयो हरिः ।
सर्वदुष्टप्रतीपत्वात् स हि क्रोधमयो मतः ॥
सुखादिधर्मरूपत्वाज्ज्ञेयो धर्ममयः प्रभुः ।
अप्राकृतस्वरूपत्वादनेतन्मय एव च ॥
अपार्थिवो हरेर्गन्धो न तृप्तिश्चाप्यबात्मिका ।
नाऽग्नेयं तस्य तेजोऽपि नच वायुर्बलं हरेः ॥
श्रोत्राद्या नास्य चाऽकाशो मनस्तत्त्वं न तन्मनः ।
बुद्धितत्त्वं न तद्बुद्धिर्नाहमस्याहमुच्यते ॥
महदात्मकं न तच्चित्तं प्रकृतिर्नास्य चेतना ।
प्रकृत्यादिगुणा यस्मात् तद्गुणप्रतिबिम्बकाः ॥
अतः सर्वमयो विष्णुः सर्वाद्यत्वादतन्मयः ।
चिदानन्दात्मकास्तस्य गुणाः सर्वगुणात्मकाः ॥
सर्वदाऽतः सर्ववैलक्षण्यमेषां प्रकीर्तितम् ।
क्रोधः क्षमात्मको यस्य चिदानन्दात्मकस्तथा ॥
अन्यक्रोधसमः क्रोधस्तस्य विष्णोः कथं भवेत् ।
एवं सर्वगुणास्तस्य सर्वेभ्योऽपि विलक्षणाः ॥
पूर्वप्रज्ञानुसारेण विमुक्तस्तमुपेष्यति ।
अनादिकालसम्बद्धा या प्रज्ञा विष्णुसंश्रया ।
पूर्वप्रज्ञेति सा प्रोक्ता ब्रह्मादेस्तारतम्यतः ॥’
इत्यादि च महामीमांसायाम् ।
`वर्तमानं यतो विष्णोर्वशे तस्मादिदंमयः ।
अतीतानागतं यस्मात् तद्वशेऽतो ह्यदोमयः ॥
प्राधान्ये च मयट् प्रोक्तः स्वरूपे च यतो भवेत् ।
इदंरूपोऽप्यदोरूपस्ततो नित्यत्वतो हरिः ।
अस्य तस्य प्रधानश्च नित्यपूर्णबलत्वतः ॥’ इत्यादि च ।
`यथा पूर्वं तथेदानीमिति विष्णुस्तदुच्यते ।
यथा बाह्ये तथैवात्रेत्यतो यदिति चोच्यते ॥
यथेदानीं तथा नित्यं यस्मादेष भविष्यति ।
अत एतदिति प्रोक्तो वासुदेवो जगत्पतिः ॥
स यथा करोति पुरुषं तथैवायं भविष्यति ।
साधुर्भवति साधुं चेत् करोति पुरुषोत्तमः ॥
पापो भवति पापं चेत् स करोति जनार्दनः ।
तत्प्रेरितेन पुण्येन पुण्यो भवति मानवः ॥
तत्प्रेरितेन पापेन तता पापः पुमान् भवेत् ।
आहुश्च तत्कामाधीनं जीवमेनं सदैव हि ।
तत्कामादस्य कामः स्याद् यथा कामस्तथा भवेत् ॥
कामानुसारिणी निष्ठा कर्म निष्ठानुसारतः ।
फलं कर्मानुसारेण विष्णोः काममयस्ततः ।
जीवोऽयं सर्वदैव स्यान्नान्यथा तु कथञ्चन ॥’ इत्यादि च ।
जीवेश्वराभेदाङ्गीकारे `सुषुप्त्युत्क्रान्त्योर्भेदेन’ इति सूत्रविरोधः । `प्राज्ञेनाऽमनाऽन्वारूढः’,`प्राज्ञेनाऽत्मना सम्परिष्वक्तः’ इत्यादिश्रुतिविरोधश्च । नच व्यावहारिकभेदो नाम कश्चिदस्तीत्यत्र किञ्चिन्मानम् । भ्रान्तिभेदत्वे श्रुतिसिद्धत्वमेव न स्यात् । नहि निर्दोषश्रुतिवाक्यसिद्धं भ्रान्तमिति युक्तम् । उन्मत्तवाक्यवत् सर्वस्य वेदस्याप्रामाण्यप्रसक्तेः । नच स्वविषयस्य भ्रमत्वादन्यदप्रामाण्यं नाम किञ्चित् । तन्मते ह्युन्मत्तवाक्यविषयस्याप्यनिर्वचनीयत्वमेव । `सत्यः सो अस्य महिमा गृणे शवः’, `त एते सत्याः कामाः’ इत्यादिश्रुतिभिर्भगवद्गुणानां सत्यत्वमेव ज्ञायते । `सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः’ सति सर्वजीवानां भगवदनुजीवनं च सत्यमित्येवोच्यते । तदा कथं जीवभेदस्यासत्यता । नच सर्वविध्यर्थक्रियासिद्धस्य कुत्रचिद् बाधो दृष्टः । `न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत् कामयते तत्तत् सृजते’ इति मुक्त्यनन्तरमपि तदधीनत्वप्रतीतेश्च न भेदस्यासत्यता । नहि संसारावस्थायामक्षीणकर्मता भवति । नच मुख्यार्थं परित्यज्यामुख्यो युक्तः । अतः सत्य एव भेदः । स भगवान् यथाकारी (यथा कारयति यथाचारी) यथा चारयति तथा भवति । स भगवान् यथाकामो भवति तथाकामो जीवो भवति । इत्थं कामोऽस्य भूयादिति भगवदिच्छावशादस्य कामो भवतीत्यर्थः । क्रतुरितीत्थं करिष्याम्येवेति निश्चयरूपः कामः । स भगवदिच्छया हि भवति । `कामेन मे काम आगात्’ इति च श्रुतिः ।
`अयोग्यकामराहित्यान्मुक्तो निष्काम उच्यते ।
अ इत्युक्तः परो विष्णुस्तत्कामोऽकाम ईरितः ॥
तथाऽकामयमानः स योग्यकामस्य चापि तु ।
कादाचित्कसमुद्भूतेर्भगवत्कामनां विना ॥
कामितस्याखिलस्याऽप्तेराप्तकामश्च मुक्तिगः ।
चिदानन्दात्मकं रूपं कामत्वेन भविष्यति ॥
यतस्तेनैवाऽत्मकाम इति मुक्तोऽभिधीयते ।
मुक्तस्य न पुनः प्राणा उत्क्रामन्ति कदाचन ॥
जीवोऽपि ब्रह्मशब्दोक्तो जडाद् गुणबृहत्त्वतः ।
प्राप्नोति परमं ब्रह्म प्रलये प्रलये सदा ॥
अन्यदा स्वेच्छया विष्णौ स्वरूपाद् बहिरेष्यति ।
स्वेच्छयाऽन्तर्बहिर्वैवं रमते मुक्त आत्मवान् ॥’ इत्यादि च ।
नचामुक्तस्य कथञ्चिदाप्तकामता मुख्यतः । ब्रह्माप्येतीति वचनात् पूर्वब्रह्मशब्दो जीववाच्येव । यद्यज्ञाननाशात् परिज्ञानमात्रं तदा स्वस्य ब्रह्मतां विजानातीत्येव स्यात् । नतु ब्रह्माप्येतीति । नहि राजपुत्रः पूर्वमात्मानमजानन् पश्चाद् राजपुत्र इति विज्ञाय राजपुत्रमप्येतीत्युच्यते । किन्तु राजपुत्रत्वेनाऽत्मानं व्यजानादित्येवोच्यते । विस्मृतकण्ठमणिरपि विज्ञात इत्येवोच्यते । नतु प्राप्त इति । अतः पूर्वब्रह्मशब्दो जीववाच्येव ॥
अथ मर्त्योऽमृतो भवति । अथ मुक्त्यनन्तरं न कदाचिन्मृतिरस्य भविष्यतीत्यर्थः । मुक्त एव परे ब्रह्मणीच्छया प्रविशति निःसरति च । दर्शनादीन् ब्रह्मणो भोगांश्च करोति । स्वरूपभूताः कामा मुक्तानां भवन्तीत्यतो हृदि श्रिता इति विशेषणम् । हृदयस्यैव मोचनात् तत्स्थाः कामा मुक्तानामपगच्छन्तीति युक्तमेव । नह्यमुक्तस्य कदाचित् सर्वे कामा मुच्यन्ते । सुप्त्यादावप्यभिभव एव । वासनया विद्यमानत्वात् । वासनाया हि पुनरुद्भवः ।
`यावद् विमुच्येत् पुरुषस्तावत् कामा हृदि श्रिताः ।
चित्ताभावाद् विमुक्तस्य स्युः कामास्तद्गताः कुतः ॥
स्वरूपभूतचित्तेन कामाद्याः स्युः सुखात्मकाः ।
दुःखात्मकाः प्राकृता वा मुक्तानां न कथञ्चन ॥’
इति ब्रह्मतर्के ।
अयं जीवः । अथ मुक्त्यनन्तरमेवाशरीरो भवति । अमृतः कदाऽपि न मृतः । प्राणाख्यं ब्रह्मैव ।
`कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते’ इत्यादिश्रुतेः । तेज एव च । तेज इति श्रीः ।
`अन्येषाममृतत्वं तु भवेद् विष्णोः प्रसादतः ।
नित्यामृतः स भगवान् श्रीश्च नान्यः कथञ्चन ॥’
इति नारदीये ।
`प्राणस्तु भगवान् विष्णुः सर्वनेतृत्वतो विभुः ।
तेजस्तु सर्वतेजस्त्वाच्छ्र2ीरेव समुदाहृता ॥’ इति च ।
`तत्प्राप्तेः सुखहेतुत्वात् पन्था इति हरिः श्रुतः ।
अणुश्च विततश्चासौ यतोऽन्तर्बहिरेव च ॥
श्रिया स्पृष्टः श्रीपतित्वादनुवित्तस्तयैव च ।
तस्य प्रसादात् संयान्ति तल्लोकं सर्वमोक्षिणः ॥
ऊर्ध्वः स भगवान् सर्वविशिष्टो यत् सदैव हि ।
रूपमाहुः पञ्चविधं तस्य विष्णोर्महात्मनः ॥
शुक्ल्ं तु वासुदेवाख्यमनिरुद्धं सुनीलकम् ।
साङ्कर्षणं पिङ्गलं च प्राद्युम्नं हरितं स्मृतम् ॥
नारायणं लोहितं स्यात् पञ्चरूपाण्यजे हरौ ।
पञ्चभेदविभिन्नो यस्त्वभिन्नोऽपि स्वरूपतः ॥
स पन्था ब्रह्मणा ज्ञातः पदम्जेनैव सन्ततम् ।
परब्रह्मस्वरूपज्ञो महातेजःश्रियस्तथा ॥
सम्यक् स्वरूपविज्ञानात् तैजसत्वेन कीर्तितः ।
भगवत्कर्मकतृर्त्वात् पुण्यकृच्चाभिधीयते ॥
एवंविधोऽपि तस्यैव प्रसादाद् याति तां गतिम् ।
अतः पन्थाः समुद्दिष्टो भगवान् केशवः स्वयम् ॥
स्वगताखिलभेदेन विहीनोऽपि स सर्वदा ।
सर्वेषां व्यवहाराणां भेदोत्थानां स ईश्वरः ॥
अभिन्नोऽपि ह्यतो भिन्नः पञ्चभेदादिनाऽमृषा ।
अन्यथोपासका येऽस्य ते यान्ति ह्यधरं तमः ॥
ततः किञ्चिद् विशेषेण दुर्ज्ञानस्याविनिन्दकाः ।
सम्यगाचार्यवचनमविज्ञाय विरोधिनि ॥
सत्त्वबुद्धिं यतः कुर्युरतस्तेऽधिकपापिनः ।
अप्राप्तत्यागिनः प्राप्तनिष्ठाहीनो हि दोषवान् ॥
नित्यदुःखस्वरूपत्वादनन्दं तत् तमो मतम् ।
बोधके विद्यमानेऽपि ये विदुर्न परं हरिम् ।
तेऽपि यान्ति तमो घोरं नित्योद्रिक्तासुखात्मकम् ॥’
इत्यादि च ॥
बुधसकाशेऽप्यविद्वांस इत्यर्थः ।
`बोधनाज्ज्ञानवान् भुत् स्यात् तत्सकाशाच्च ये हरिम् ।
न विदुस्ते तमो यान्ति सर्वदुःखात्मकं परम् ॥
यदि जीवः परात्मानमयमस्मीति वेदितुम् ।
योग्यः शरीरच्छेदादेः कथं दुःखी तदा भवेत् ॥
दुःखी शरीरसम्बन्धाज्जीवो विष्णोः प्रसादतः ।
अदुःखी विप्लुडानन्दं मुक्त एव च भोक्ष्यति ॥
नित्यमुक्तः पूर्णसुखः स्वतन्त्रः पुरुषोत्तमः ।
परतन्त्रः कथं जीवो योग्यः सोऽस्मीति वेदितुम् ॥
तस्मात् सोऽस्मीति नैवायं विजानीयात् कदाचन ।
तदीयोऽस्मीति जानीयात् सर्वदैव बुधस्ततः ॥’ इति च ।
`यस्य ज्ञातो नित्यबुद्धो भगवान् पुरुषोत्तमः ।
तस्य लोकः स एवैको यो लोकः परमात्मनः ॥
स हि विष्णुः परो वायोरपि कर्ता प्रकीर्तितः ।
विश्वो वायुः समुद्दिष्टः पूर्णत्वाज्जीवसङ्घतः ॥
तदन्यस्यापि सर्वस्य कर्तैको विष्णुरेव हि ।
प्रविष्टो गहने देहमध्ये सन्देहनामनि ॥
तज्ज्ञानी याति तल्लोकं तत्प्रसादाच्च वर्तते ।
न वत्सराश्च नाहानि यस्य नित्याविकारतः ॥
ज्योतिषां ज्योतिरचलं तद् देवाः समुपासते ।
प्राणश्चक्षुस्तथैवान्नं मनः श्रोत्रं च पञ्चमम् ॥
मूलप्रकृतिसंयुक्तं यद्गतं प्रतिपूरुषम् ।
तस्य रूपगुणाद्येषु न कश्चिद् भेद इष्यते ॥
तद्भेददर्शी संयाति मृत्योमृर्त्य्वभिधं तमः ।
तस्मादेकप्रकारेण द्रष्टव्यो भगवान् हरिः ।
परिमाणविहीनत्वादप्रमेय इतीरितः ॥’ इत्यादिवचनात् ।
अप्रमेयत्वमवाच्यत्वममनोविषयत्वं च सर्वात्मना न । `मनसैवानुद्रष्टव्यम्’ इत्युक्तत्वात् । नच केनाप्यवाच्यस्य लक्षणा दृष्टा । क्षीरमाधुर्यविशेषादेरपि तत्तच्छब्देनैव वाच्यत्वात् । `विशदं क्षीरमाधुर्यं गुडे तीक्ष्णं घृते स्थिरम्’ इत्यादि च । नच निर्गुणस्य सत्त्वमेवास्ति । गुणभेदादीनामपि सन्त्येव गुणाः । नचानवस्था । स्वनिर्वाहकत्वात् ।
`अवाच्यममनोगम्यमगुणं चेत् कुतोऽस्ति तत् । तस्मादेवं वदन् वस्तु शून्यतामर्थतोऽवदत् । गुणाश्च गुणिनः सर्वे स्वेनैव गुणिनो गुणाः’ इत्यादि च ।
`सर्वमस्य वशे यस्माद्धरिः सर्ववशी ततः ।
सर्वस्य ब्रह्मरुद्रादेरन ईशान एव च ।
गुणाधिकः पालकश्चेत्ेक्न् ख्ढ्यि?????कद्द्व
.न्न्(.ङ्क्रदृBि्रद्नक्न्ञ्च्??झ्.ि??.??द्य’??
`नित्यबोधात्मकत्वाद् यो मुनिः प्रोक्तो जनार्दनः ।
तं विद्वांश्च मुनिर्नाम बोधस्तस्याप्यमुख्यतः ॥
यं विदित्वा विमुक्ताश्चायुक्तकामविवर्जिताः ।
उत्पत्तिलयहीनाश्च नित्यानन्दैकभोगिनः ॥
आनन्दभिक्षां विष्णूत्थां चरन्त्यज्ञानवर्जिताः ।
स एष मोक्षदो विष्णुर्यत् कल्याणं कृतं मया ॥
पापं कृतं मयेत्येतन्न कदाचित् तरिष्यति ।
कृते मया पुण्यपापे इति यच्चेतनात्मनाम् ॥
तत् सर्वमत एवोक्तं विष्णोः सर्वेश्वरेश्वरात् ।
तीर्णो हि वर्तते नित्यं पुण्यपापे जनार्दनः ।
नैनं कदाचित् तपतः पुण्यपापे जनार्दनम् ॥’ इति च ।
`शान्तिस्तु भगवन्निष्ठा दमो मदविनिग्रहः ।
हृदिस्थविष्णौ सन्तोषः सदैवोपरमः स्मृतः ।
तितिक्षा द्वन्द्वसहता क्षमा क्रोधासमुत्थितिः ॥’
इति शब्दनिर्णये ।
`सर्वः पूर्णः समुद्दिष्टस्तथा ज्ञेयो जनार्दनः ।
रागसन्देहपापानि तथा जानंस्तरिष्यति ॥
नित्यं हि रागपापादेर्मुक्तो यत् पुरुषोत्तमः ।
वेदाख्यब्रह्मणाऽण्यत्वाद् विष्णुर्ब्राह्मण उच्यते ॥
पूर्णत्वाद् ज्ञानरूपत्वाद् ब्रह्मलोकश्च स प्रभुः ।
न मरिष्यतीति ह्यमरो न मृतो यत् ततोऽमृतः ॥
ब्रह्मायमात्तकामत्वादेवं यो वेद तं परम् ।
आप्तकामोऽभयश्चैव भवेत् विष्णोरनुग्रहात् ॥’ इति ॥
परमार्थेऽविचिकित्सा । ब्राह्मणो भवतीति नित्यमेव तथा भवतीत्यर्थः ।
`अभूद् भविष्यति भवत्येवमाद्यपदानि तु ।
नित्यभावाभिधायीनि यत्र वाच्या हरेर्गुणाः ॥’
इति शब्दनिर्णये ॥
॥ इति शारीरब्राह्मणम् ॥
भाष्यम्
प्रियां वाचमवर्धयद् भवती ।
बाह्यान्तरविशेषाभावेन सर्वत्र लवणरसघन एव । नवा अहमिमं विजानातीति । अहेयं परमात्मानं जीवो न विजानातीत्यत्रैव भगवान् मोहान्तं मोहाख्यं नाशमापीपिपत् प्रापयामास । अतः `अहं ब्रह्मास्मि’ इत्यादिष्वप्यहंशब्दोऽहेयवाचीति सिद्धम् । अन्यथा कथमहं विजानातीति युज्येत? एतावद् विज्ञातुः परमात्मनो विज्ञानादिकमेवं ह्यमृतत्वं मोक्षः ।
`विष्णोर्ज्ञानादिकं मोक्षस्तदभावे कुतः सुखम् ।
ज्ञेयाभावान्नहि ज्ञानं ज्ञानाभावे हि शून्यता ।
तस्माज्ज्ञेययुतो मोक्षः सुखरूपत्वतः सदा ॥’ इति ब्रह्मतर्के ।
॥ इति मैत्रेयिब्राह्मणम् ॥
भाष्यम्
`अवरेभ्योऽपि शृण्वन्ति परमाश्च क्वचित् क्वचित् ।
लीलयैव नचैतेषां परमत्वं विहीयते ॥’ इति च ।
॥ इति वंशब्राह्मणम् ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये षष्ठोऽध्यायः ॥
*****************************************************************************************
सप्तमोऽध्यायः
भाष्यम्
`अवतारा महाविष्णोः सर्वे पूर्णाः प्रकीर्तिताः ।
पूर्णं च तत् परं रूपं पूर्णात् पूर्णाः समुद्गताः ॥
परावरत्वं तेषां तु व्यक्तिमात्रविशेषतः ।
न देशकालसामर्थ्यैः पारावर्यं कथञ्चन ॥
पर्वरूपस्य पूर्णस्य पूर्णं यदवतारगम् ।
रूपं तदात्मन्यादाय पूर्णमेवावतिष्ठते ॥
लौकिकव्यवहारो यो भूभारक्षपणादिकः ।
तददृष्टिं विना नान्यो लयः कृष्णादिनां क्वचित् ॥
ओता सर्वगुणा यस्मादस्मिन्नों विष्णुरुच्यते ।
खं प्रकाशस्वरूपत्वाद् ब्रह्म तद् व्याप्तरूपतः ॥
पुनः खं सुखरूपत्वात् पुराणं तदनादितः ।
वायोश्च रतिदं यस्माद् वायुरं ब्रह्म तत् परम् ॥
ख्यातत्वाच्चापि तत् खं स्याद् रौहिणेयस्तथाऽवदत् ।
वेदोऽयं ज्ञानरूपत्वादिति यं ब्राह्मणा विदुः ।
निर्दोषत्वाद इत्युक्तस्तेन वेद्यं सदाऽखिलम् ॥’ इति च ।
बाह्लीकसुता हि रोहिणी । अतो बलभद्रः कौरव्यायणीपुत्रः ।
`ज्ञानदानं तु देवानां फलदानं च कर्मणाम् ।
विष्णुना विहितं पूर्वं पुनर्देवनरासुराः ॥
ब्रह्माणमपि पप्रच्छुर्देवानां सद्गुणोच्छ्रि2ते ।
अनहङ्कारमात्रं तु ब्रह्मणा विहितं सदा ॥
सर्वोच्चमोक्षसम्प्राप्त्यै नराणां ज्ञानसाधनम् ।
देवादीनां दानमेव हविरादेः प्रकीर्तितम् ।
तमःप्राप्तिविलम्बाय दैत्यानां विहिता दया ॥’ इति प्रवृत्ते ।
`हरणाद् यज्ञभागादेर्ज्ञानादेर्दानतस्तथा ।
यानादव्यवधानेन परस्य ब्रह्मणस्तथा ॥
ब्रह्मा हृदय इत्युक्तस्तस्यैवंविदपि ध्रुवम् ।
हृतिदानस्वर्गयानपात्रं स्यात् तत्प्रसादतः ।
हृत्वैवास्मै ददत्यद्धा स्वकीयाश्चान्य एव च ॥’ इति निर्णये ।
परमात्मा च प्रजापतिः ।
`ततत्वादेकरूपत्वात् तत् परं ब्रह्म कीर्तितम् ।
तदेव तादृशं प्रोक्तं नैवान्यत् तादृशं क्वचित् ।
तदेतत् सत्यमेवाऽसीद् वासुदेवाख्यमव्ययम् ॥‘इति ब्रह्मतर्के ।
तदेव हि तत् । तन्नारायणाख्यं परं ब्रह्मैतदेव सत्यं वासुदेवाख्यमासीदित्यर्थः ।
`स्वस्मात् स्वयं समुत्पन्नो वासुदेवात्मना प्रभुः ।
सत्यं ब्रह्मेति यो वेद महायाज्यं तु तं परम् ।
प्राप्नोत्येव हि तल्लोकान् जीवन्नप्युत्तमो भवेत् ॥‘इति प्रध्याने ।
`स्वभागहरणाद् दानात् फलानां यापनान्नृणाम् ।
हृदयं भगवान् विष्णुः सत्यं सद्गुणरूपतः ॥’ इति सत्तत्त्वे ।
`प्रजापतिरिति ब्रह्मा वेदेषूक्तो ह्यमुख्यतः ।
यस्मिन्नूषुर्ब्रह्मचर्यं देवासुरनरोऽब्जजे ॥
एष वै भगवान् विष्णुर्मुख्यतस्तु प्रजापतिः ।
यज्ज्ञानान्मुक्तिमायान्ति स्वर्गाख्यां हृदयं च सः ॥
हृतिसद्दानयानेभ्यः सत्यं सद्गुणरूपतः ।
यत् तद्धृदयमित्युक्तं ब्रह्म तत् सत्यतामगात् ॥
सत्यत्वं सदनीयत्वमासाद्यं यन्मुमुक्षुभिः ।
एवं तद् ब्रह्म यो वेद स हि लोकानिमान् जयेत् ॥
एतल्लोकजयो नाम धर्मज्ञानादिपूर्णता ।
जित एव ह्यसौ लोको यदा वेद जनार्दनम् ॥’
इति गुणपरमेव ।
परलोको जित एवाभवदित्यर्थः ।
`सदा सर्वगुणापानादापो नारायणः स्मृतः ।
द्वितीयं रूपमसृजद् वासुदेवं स आत्मनः ॥
ब्रह्म सत्यमिति प्राहुर्वासुदेवाभिधं प्रभुम् ।
तस्माद् ब्रह्माऽजनि ततो देवाः सर्वेऽपि जज्ञिरे ॥
तस्माद् ब्रह्मादयः सर्वे वासुदेवमुपासते ।
ततत्वादन्यथाज्ञानं तीत्येव समुदीर्यते ॥
तस्याधस्तात् सदात्मा तु साधयन्ननृतं हरिः ।
उपरिष्टाच्च यन्नामा नाशयन्ननृतं स्थितः ॥
एवं यो वेद तं विष्णुं नास्य मिथ्यादृशिर्भवेत् ।
योग्यतापेक्षयोपासाऽथाऽपरोक्ष्याच्च तत्फलम् ॥
सम्यग् ददात्यन्यथा च भवेदेवोपकारिणी ।
अत्ययोग्याय चेत् सा स्याद् विपरीतफलप्रदा ।
वैपरीत्यं तु विघ्नः स्यान्नतु पापं कथञ्चन ॥’ इत्याधारे ।
`स वासुदेवो भगवानादित्यस्थो जनार्दनः ।
आदित्यनामा सम्प्रोक्त आदानाद्धविषां सदा ॥
स एव दक्षिणाक्षिस्थस्तच्च रूपद्वयं हरेः ।
अन्योन्यस्मिन् स्थितं नित्यं प्राणैश्च सह रश्मिभिः ॥
दक्षिणाक्षिस्थितो विष्णुर्यदाऽस्मादुत्क्रमिष्यति ।
तदैव म्रियमाणस्तु जीवः पश्येद् विरश्मिकम् ॥
सूर्यस्य मण्डलं नास्य प्रतीयन्ते हि रश्मयः ।
तत्क्षणे नियमेनैव केषाञ्चित् सप्तभिर्दिनैः ॥
तस्य विष्णोः शिरो नाम भावनाद् भूरिति स्मृतम् ।
भावनं रक्षणं प्रोक्तं दृष्ट्या वाचा च रक्षति ॥
उत्पादनाद् भुनामा स्याद् दक्षिणो बाहुरस्य तु ।
विनाशनाद् व इत्युक्तः सव्यो बाहुः परात्मनः ॥
स्वित्यानन्दः समुद्दिष्टो वरिति ज्ञानमुच्यते ।
मुक्तिदानेन तद्दानात् सुवरस्य पदद्वयम् ॥
दक्षिणश्चैव सव्यश्च क्रमाद् वर्णद्वयोदितौ ।
पादावस्य हि तत्प्राप्तिर्मुक्तिरित्यभिधीयते ॥
अहमेषो ह्यहेयत्वाज्जीवेन सहभावतः ।
असावहरिति प्रोक्तः सर्वलोकप्रकाशनात् ॥
तद्वेदनात् सर्वपापं हन्ति चैव जहाति च ।
कानिचिद्धन्ति पापानि कल्यादीन् स जहाति च ॥’
इति प्रवृत्ते ।
`मनोमयो ज्ञानमयः प्रधानं मय उच्यते ।
महाज्ञानात्मकश्चैव भारूपः सद्गुणात्मकः ॥
सर्वप्रकाशको विष्णुर्विद्युत् सर्वस्य वेदनात् ।
य एनं वेद वेत्तारं सर्वस्य परमेश्वरम् ।
पापेभ्यो मोचयित्वैनं स्वात्मानं वेदयेद्धरिः ॥’ इति माहात्म्ये ।
`सरस्वती तु गोरूपा तस्या देवादयोऽखिलाः ।
स्तनानेवोपजीवन्ति तस्या वायुः पतिः प्रभुः ।
वत्सो मनोऽभिमान्यस्याः सरस्वत्याः सदाशिवः ॥’
इति प्रभञ्जने ।
`अग्निनामा तु भगवानौदर्याग्नौ प्रतिष्ठितः ।
विश्वैर्गुणैः समेतत्वादनन्तत्वाच्च स प्रभुः ॥
वैश्वानर इति प्रोक्तः सोऽग्निरङ्गप्रणेतृतः ।
तस्य विष्णोः स्तुतिरियं क्रियते वायुना सदा ।
कर्णौ पिधाय या नित्यं श्रोतुं शक्याऽखिलैस्सदा ॥’
इति तन्त्रमालायाम् ।
`प्रवहं वायुपुत्रं च सूर्यसोमौ च विद्युतम् ।
प्राप्य प्रधानवायुं च याति तत् परमं पदम् ॥’ इति ब्रह्माण्डे ।
`व्याधीञ्छवहृतिं चैव शवदाहादिकं तथा ।
विष्णवे तप इत्येव चिन्तयन् याति तत् परम् ॥’ इति च ।
`अक्लेशितोऽपि क्लेशादीनतीतैष्यानपीह यः ।
विष्णवे तप इत्येव प्रार्पयेत् स परं व्रजेत् ॥
विष्णोः स्वरूपवेत्ता चेदन्यथा न कथञ्चन ।
यथास्वरूपवेत्तुः स्यादेकैकाऽपि ह्युपासना ॥
मोक्षाय सहिताः सर्वा अप्यज्ञस्य नतु क्वचित् ।
यथावत् केशवं ज्ञात्वा स्वयोग्यैकामुपासनाम् ।
अपि कृत्वा हरिं दृष्द्वा मुच्यते नात्र संशयः ॥’ इति ब्रह्मतर्के ।
`अन्नाभिमानी ब्रह्मैव प्राणो वायुरुदाहृतः ।
अन्योन्यानुप्रविष्टौ तौ सर्वदैव सुसंस्थितौ ॥
वायुं विना ब्रह्मणोऽपि शरीरं पूतिमेष्यति ।
वायुश्च शोषमायाति विना ब्रह्माणमञ्जसा ॥
तयोरेवं परिज्ञानी वासिष्ठः पाणिनामकः ।
ब्रह्मवायुविदे कार्यं किं मया साध्वसाधु वा ॥
नासाधुना बाधयितुं शक्योऽसौ साधुनाऽपि वा ।
नार्थोऽस्य कृतकृत्यत्वाद् यदि वेद परं हरिम् ॥
इति प्रशस्य तज्ज्ञानं वसिष्ठं प्राब्रवीत् ततः ।
अन्योन्यानुप्रवेशेन ब्रह्मवाय्वोर्विशेषतः ॥
प्रयोजनं कस्य भवेदिति तं प्रातृदोऽब्रवीत् ।
ब्रह्मा निवेशनीयः स्याद् वायुश्चास्य रतिप्रदः ।
अतः प्रयोजनं तुल्यमन्योन्यात्मप्रवेशनात् ॥’ इति सन्धाने ।
`उत्थापनादुक्थनामा मोक्षे प्राप्यो यतोऽखिलैः ।
यजुश्चाथ क्षतात् त्राणात् क्षत्रं सम्यक्त्वकारणात् ।
सर्वेषां साम च प्रोक्तो वायुरेव जगत्पतिः ॥’ इति च ।
`ऋग्यजुः सामसंस्थो यो भगवान् पुरुषोत्तमः ।
स द्वितीयपदेनोक्तो गायत्र्याः प्रथमेन तु ॥
भूम्यन्तरिक्षस्वर्गस्थस्तृतीयेन समीरगः ।
चतुर्थपादो गायत्र्याः प्रणवः समुदीरितः ॥
तद्वाच्यो भगवान् सूर्यमण्डलस्था तु या रमा ।
सत्त्वात्मिक्येव तत्संस्थो रजआख्यप्रधानतः ॥
परः परोरजास्तस्माद् य एवं वेद तं प्रभुम् ।
लोकानां चैव वेदानां सर्वेषां प्राणिनामपि ॥
सदैवाधिपतिर्भूत्वा यशःश्रीमांश्च जायते ।
गायत्र्युपासने योग्यो ब्रह्मैव हि चतुर्मुखः ॥
तस्मादुक्तफलं सर्वं सर्वोपासा च तस्य हि ।
अंशेनोपासनाऽन्येषां फलमल्पं च योग्यतः ॥
गायत्र्या नह्ययोग्योऽपि द्विजो योग्योऽपि न क्वचित् ।
ऋते विरिञ्चं तस्मात्तु तस्यैव ह्यखिलं फलम् ॥’
यः परोरजास्तपति स तुरीयपदेन प्रणवेन पद्यते । तुरीयं पदम् । ददृश इव दृष्ट इव । तदधीनतेजःपुञ्जस्य सूर्यमण्डलस्य दृष्टत्वात् ।
`सूर्यमण्डलगो विष्णुः सर्वेषां दृष्टवत् स्थितः ।
यस्मात् तदुत्थितं तेजोमण्डलं दृश्यतेऽखिलैः ॥‘इति त्रैविद्ये ।
सर्वं रजः सर्वां प्रकृतिम् ।
`रञ्जनात् प्रकृतिः प्रोक्ता रज इत्येव वैदिकैः ।
तस्या अप्युत्तमो विष्णुर्यतोऽतः स परोरजाः ॥
अभिमानिनी तु गायत्र्या मुख्या श्रीः परिकीर्तिता ।
ब्रह्माण्यमुख्यतो ज्ञेया सा तु ब्रह्माणमाश्रिता ।
ब्रह्मा तु मुख्यगायत्रीं सा परोरजआश्रया ॥’ इति च ।
तद् वा एतत् जगत् सत्ये प्रतिष्ठितम् । `भूमिरन्तरिक्षं द्यौः’ इत्यादिना प्रस्तुतत्वात् ।
`तद्वा एतज्जगत् सर्वं चक्षुःसूर्याभिमानिनी ।
विराण्नामनि शेषाख्ये सर्वदा सम्प्रतिष्ठितम् ॥
शेषः प्रतिष्ठितो वायौ स ह्यस्माद् बलवत्तरः ।
स सत्य इति सम्प्रोक्तः सन्नस्मिन् याति यद्धरिः ॥
वायुः समाश्रितो देवीं मुख्यां गायत्रिनामिकाम् ।
सा चाऽत्मनामधिपतिमेवं परममाश्रिता ॥
प्राणानां रक्षणादेव गायत्री सा प्रकीर्तिता ।
सावित्रीति च यामाह स विष्णुः परतोरजाः ॥
एषैव सा हि गायत्री सविता हि जनार्दनः ।
तस्माद्धि सूयते सर्वं सावित्री च तदाश्रिता ॥
आदित्यस्तत्प्रतीकत्वात् सवितेति प्रकीर्तितः ।
प्रतिमायां च तच्छब्दः प्रयोज्यो ह्युपचारतः ॥
यस्मा आह स विष्णुस्तां गायत्रीं जगदीश्वरः ।
ब्रह्मणे तस्य सा प्राणान् सर्वदा पाति पुत्रवत् ॥
ब्रह्मा हि पुत्रस्तस्यास्तु तत्पुत्रा इतरेऽखिलाः ।
तामाहुः परमां देवीं वृणीमह ऋगात्मिकाम् ॥
नैव सा प्रतिमा मुख्या गायत्री परमा स्मृता ।
गायत्रीमुख्यवेत्तारो योग्या ब्रह्मपदस्य ये ॥
तेषां प्रतिग्रहाद् दोषो न कश्चन भविष्यति ।
नचैकपदविज्ञानफलायालं सुखानि च ॥
विष्णोर्यदा भगवतो लोकान् वेदांश्च चेतनान् ।
विरिञ्चजन्मन्यखिलान् प्रतिगृह्णन्ति कृत्स्नशः ॥
गायत्रीपदविज्ञानफलमात्रं तदा भवेत् ।
प्रणवप्रतिपाद्यं यत् तुरीयं भगवत्पदम् ॥
सर्वगं वासुदेवाख्यं न तत् केनचिदाप्यते ।
गायत्रीत्रिपदज्ञेयमनिरुद्धादिकं त्रयम् ॥
ब्रह्मा व्याप्नोति मुक्तः सन् वासुदेवं न कश्चन ।
लोकस्थमनिरुद्धं च प्रद्युम्नं वेदगं तथा ॥
सङ्कर्षणं वायुसंस्थं व्याप्य ब्रह्मा विमुक्तिगः ।
गायत्रीज्ञानसामर्थ्यात् प्रणवज्ञानशक्तितः ॥
वासुदेवं च सम्पश्येन्न व्याप्नोति कथञ्चन ।
अनन्तत्वाद् वासुदेवः कथं व्याप्यो भवेत् प्रभुः ॥
वर्णत्रयात्मप्रकृतिमतीतः सूर्यमण्डले ।
गुणत्रयात्मिकां बाह्ये यतोऽतः स परोरजाः ॥
यतो न व्याप्यते सोऽसौ ब्रह्मणाऽपि कथञ्चन ।
अतः प्रतिग्रहो नास्य वासुदेवस्य विद्यते ॥’
इति प्रकाशिकायाम् ।
तावदेतावत् प्रतीगृह्णीयादिति तस्यैव सामस्त्येन ग्रहणार्थम् । एतावदेव मम हस्ते विद्यत इतिवत् । नह्यन्यदेतावत् प्रतिग्राह्यमस्ति ।
`अष्टाक्षरत्वाद् गायत्र्याः प्रोक्ता सैकपदीति च ।
प्रणवेन सहैतास्तु गायत्र्यश्चतुरस्तदा ॥
अकाराद्यतिशान्तान्तः प्रणवोऽष्टाक्षरो यतः ।
पादः प्रणवसंयुक्तो गायत्री सा पृथग् यदा ॥
द्विपदीति तदा प्रोक्ता त्रिपदी स्वपदैस्त्रिभिः ।
चतुष्पदी सप्रणवा ब्रह्मणोऽन्यैर्न गम्यते ॥
अपदी च ततः प्रोक्ता गायत्र्येवमुपस्थिता ।
कामाप्राप्तिमपूर्तिं वा शत्रवे सा करिष्यति ॥
असावदो मैव प्रापन्नास्मै कामः समृद्ध्यताम् ।
उपस्थिता चेदित्थं सा यद्यदोऽहं समाप्नुयाम् ॥
इति सा कामपूर्तिं च स्वस्य सम्यक् करिष्यति ।
सम्यग् ब्रह्मपदावाप्तिं तद्योग्यां मुक्तिमेव च ॥
ब्रह्मणोपासितो दद्याद् गायत्र्या पुरुषोत्तमः ।
अलेपं सर्वपापेभ्यो विशेषेण प्रतिग्रहात् ॥
तद्योग्यां मुक्तिमन्येषां यथायोग्यमुपासितः ।
वक्तव्यो भगवान् विष्णुर्गायत्र्या मुखसंस्थितः ॥
अग्निमण्डलगो नित्यमग्निनामाऽग्रणीत्वतः ।
गायत्र्यास्तु परिज्ञानं ज्ञाते मुखगते हरौ ॥
सफलं भवेदन्यथातु न सम्यक् फलदं भवेत् ।
गायत्रीमुखगो विष्णुर्ज्ञेयः सर्वात्मना ततः ॥
संहर्ता सर्वदोषाणामग्निस्थः सर्वदाहकः ।
नित्यानन्दोऽग्निवर्णश्च रामः परशुभृत् सदा ॥’
इति गायत्रीसंहितायाम् ।
`सूर्यमण्डलनाम्ना तु पात्रेण स्वमुखं हरिः ।
पिधायैव जगत् सर्वं पश्यत्यमितविक्रमः ॥
उदकं पीयतेऽनेन तमसस्त्रायते जगत् ।
यतोऽतः पात्रमुद्दिष्टं विद्वद्भिः सूर्यमण्डलम् ॥
पूषा पूर्णत्वतो विष्णुदृर्ष्टये विष्णुधर्मिणः ।
स्वमुखं प्रकाशयेदेकं नान्यथा तु कथञ्चन ॥
नान्यो यत् तादृशो ज्ञाता तस्मादेकर्षिर्हरिः ।
यमो नियमनात् प्रोक्तः सूर्य ऊरीकृतेरयम् ॥
ज्ञेयः प्रजापतेरेव प्राजापत्यस्ततः स्मृतः ।
प्राणे स्थितो यः पुरुषः सोऽसावहमिति स्मृतः ॥
अहेयत्वादसुत्वाच्च मेयत्वाच्चास्मिनामकः ।
अदोषत्वाद इत्युक्तो वायुस्तन्निलयो यतः ॥
अनिलं तत एवासावमृतं चेति कीर्त्यते ।
तदाश्रयोऽपि ह्यमृतः किमु साक्षात् स्वयं हरिः ॥
क्रतुश्च ज्ञानरूपत्वात् स एव हि जदार्दनः ।
सोऽग्निरङ्गप्रणेतृत्वाद् विश्वज्ञानविदां वरः ॥’ इति च ॥
जुहुराणं अल्पं कुर्वत् । `नवा अहमिमं विजानाति’ इतिवत् सर्वत्राप्यहंशब्दोऽहेयत्ववाच्येव ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये सप्तमोऽध्यायः ।
*****************************************************************************************
अष्टमोऽध्यायः
भाष्यम्
`अहंश्रेयोविवादं तु येन कृत्वाऽखिलाः सुराः ।
असमर्थाः स्वरक्षायां स वायुःसुरनायकः ॥
विवदन्तोऽखिला देवा ययुर्नारायणं प्रभुम् ।
अहं श्रेयानहं श्रेयानिति वायुपुरःसराः ॥
उक्तं भगवता तेन येन त्यक्तेऽखिला अपि ।
स्थातुं न शक्ताः स श्रेयानित्युक्ताः पुनरागताः ॥
उत्क्रान्ताश्च पुनः सर्वे तद्विज्ञाप्त्यै पृथक् पृथक् ।
सुपर्णशेषरुद्रेन्द्रसूर्यादिषु पृथक् पृथक् ॥
उत्क्रान्तेषु ब्रह्मदेहाच्छरीरं न पपात ह ।
ऋत उत्क्रान्तमेकं तु तदन्ये निवसन्ति च ॥
प्राण उच्चिक्रमिषति स्थातुं नाशक्नुवन् परे ।
प्राणं विना नच ब्रह्मा तं विना प्राण एवच ॥
अन्योन्यापाश्रयाच्छक्तौ स्थातुमन्ये कुतस्ततः ।
तस्मात् प्राणो वरो देवेष्विति सर्वेऽपि मेनिरे ॥’
इत्यादि पवमाने ।
`द्युपर्जन्यधरापुंस्त्रीसंस्थितं पञ्चरूपिणम् ।
नारायणं वासुदेवं तथा सङ्कर्षणं प्रभुम् ॥
प्रद्युम्नं चानिरुद्धं च क्रमाद् ध्यायंस्तु सर्वदा ।
पञ्चाग्निविन्नाम भवेत्स याति परमं पदम् ।
नास्य संसर्गदोषोऽपि कदाचन भविष्यति ॥’
इत्यादि त्रैविद्ये ।
दृष्टादृष्टमहत्त्वम् । अनेनोपनिषदुक्तविधानेन जातः पुत्रः प्रायः स्वर्गापवर्गयोग्यो भवतीति प्रजापतिकर्मवचनम् ।
`यथोपनिषदं जातो योग्यः स्वर्गापवर्गयोः ।
भवेद् यदि मनः पित्रोर्विष्णोर्नान्यत्र गच्छति ॥
न कुर्याद् यदि कर्मैतन्मनः पित्रोस्तु विष्णुगम् ।
दृष्टसामर्थ्यहीनश्च मोक्षयोग्यः स्थिरं यदि ॥
दृष्टसामर्थ्यवांश्च स्यादाज्ञाद्यैः कारणैः क्वचित् ।
विशेषकारणाभावे यथोक्तं नान्यथा भवेत् ॥’ इति च ।
`नारायणो द्युशब्दोक्तः सर्वदा द्युतिहेतुतः ।
वासुदेवस्तु पर्जन्यः परं सञ्जनयेद् यतः ॥
सङ्कर्षणस्तु पृथिवी प्रथितत्वाद् सदैव हि ।
प्रद्युम्नः पुरुषेत्युक्तः पूरयेत् स जगद् यतः ॥
स्त्रीशब्दोक्तोऽनिरुद्धः स्यात् सहितस्त्रिषु यत् सदा ।
अनिरुद्धो हि वेदेषु सर्वदा त्रिषु संस्थितः ॥
द्युवादिषु प्रसिद्धेषु तत्सम्बन्धाद् द्युवादिकः ।
शब्दो भवेत् तथाऽग्न्यादिरदनात् परमो भवेत् ॥
अङ्गत्वेनार्यते यस्मादङ्गारस्तेन कीर्तितः ।
अर्च्यत्वादर्चिरुद्दिष्टो विष्वक्तत्वाद् विष्फुलिङ्गकाः ॥
समेधनाच्च समिधस्तत्र तत्र स्थितो हरिः ।
तत्तच्छदैः सदा वाच्य इतरे तु तदन्वयात् ॥
आदित्यो रश्मिरित्याद्याः शब्दाश्चैवमवस्थिताः ।
एकैकस्मिन् पञ्चभेदा अर्चिरादिविभागतः ।
नारायणादिभेदेन तथैव प्रतिपादितः ॥’ इति प्रवृत्ते ।
`धूत्कारात् धूम उद्दिष्टः शत्रूणां पुरुषोत्तमः ।
अर्चिरर्च्यतमत्वाच्च स्वङ्गोऽङ्गार उदीर्यते ॥
अङ्गित्वेनाङ्गरूपेण यत एको व्यवस्थितः ॥’ इत्यादि त्रैविद्ये ।
`नीचादप्युत्तमा ज्ञानं शृणुयुर्लीलया क्वचित् ।
श्रोतृवक्तृविभेदोऽयं नाऽधिक्यज्ञापकस्ततः ॥
यस्याऽधिक्यं तु वेदोक्तं पञ्चरात्रेऽथवा भवेत् ।
इतिहासे पुराणे वा सोऽधिको नेतरः क्वचित् ॥’
इति ब्रह्मतर्के ।
आदानादादित्यः । रमणात् शामनाच्च रश्मयः । अहीनत्वादहः । चदनाच्चन्द्रः । अस्य क्षत्रमन्यन्नास्तीति नक्षत्रम् । बहुरूपत्वाद् बहुवचनम् । ज्ञानादायुष्याच्च वायुः । अन्यैरभरणीयत्वादभ्रम् । विद्योतनाद् विद्युत् । अशनादशनिः । निह्वादनाद् ह्वादुनिः । आ समन्तात् काशनादाकाशः । सम्यग् वत्सान् रमयतीति संवत्सरः । आदेशनाद् दिशः । अवान्तरमादिशतीत्यवान्तरदिशः । रतिकरत्वाद् रात्रिः । वचनाद् वाक् । प्रणयनात् प्राणः । जहाति गमयतीति जिह्वा । चष्ट इति चक्षुः । शृणोतीति श्रोत्रम् । उपस्थितत्वादुपस्थः । यापयति नयति चेति योनिः । अभिनन्दयतीत्यभिनन्दः । उपमन्त्रणमन्तः करणं च स एव करोति ।
`तदधीनं यतः सर्वं सर्वशब्दैस्ततो हरिः ।
मुख्याभिधेयस्त्वन्यानि तत्सङ्गादुपचारतः ॥’ इति ब्रह्मतर्के ।
`तदधीनत्वादर्थवत्’ इति भगवद्वचनम् । `समाकर्षात्’ इति च ।
`पञ्चाग्निविद्यया चैव तथैव प्राणविद्यया ।
प्रजातिकर्मणा चैव तथा ज्ञानप्रदानतः ॥
आचार्यवंशविज्ञानाद् यः पूज्यः पुरुषोत्तमः ।
सर्वान्तर्यामको नित्यो नमस्तस्मै परात्मने ॥’ इति सद्भावे ।
`नित्यानन्दमनौपमं परमजं सर्वत्रगं सुस्थिरं
सर्वज्ञं प्रतिबोधमात्रममलं पूर्णं गुणैरच्युतैः ।
विश्वोत्पत्तिलयस्थितिप्रमितिसन्मोक्षे परं कारणं
प्रेष्ठं मे सततं प्रियान् प्रियतमान्नित्यं सदोपास्महे ॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो
यत्तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ ॥
`हनशब्दो ज्ञानवाची हनूमान् मतिशब्दितः ।
रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि ॥
भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृताः ।
ऋगाद्या इतिहासश्च पुराणं पञ्चरात्रकम् ॥
प्रोक्ताः सप्तशिवास्तत्र शयो भीमस्ततः स्मृतः ।
मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ॥
मध्व आनन्दतीर्थः स्यात् तृतीया मारुती तनुः ।
इति सूक्तगतं रूपत्रयमेतन्महात्मनः ।
यो वेद वेदवित् स स्यात् तत्त्ववित् तत्प्रसादतः ॥’ इति च ॥
`साधको रामकार्याणां तत्समीपगतः सदा ।
हनूमान् प्रथमो ज्ञेयो भीमस्तु बहुभुक् पितोः ॥
पृतनक्षयकारी च द्वितीयस्तु तृतीयकः ।
पूर्णप्रज्ञस्तथाऽऽनन्दतीर्थनामा प्रकीर्तितः ॥
दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते ।
प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः ॥
आ समन्तात् पतित्वे तु गूढं कलियुगे हरिम् ।
असत्यमप्रतिष्ठं तज्जगदेतदनीश्वरम् ॥
वदद्भिर्गूहितं सन्तं तृतीयोऽसुर्मथायति ।
येन विष्णोस्तु वर्पाख्यान् गुणानज्ञासिषुः परान् ॥
ईशानास्ते सूरयश्च निगूढान् निर्गुणोक्तिभिः ।
त्रेतायां द्वापरे चैव कलौ चैते क्रमात् त्रयः ॥
एतेषां परमो विष्णुर्नेता सर्वेश्वरेश्वरः ।
स्वयम्भुब्रह्मसंज्ञोऽसौ परोऽस्मै ब्रह्मणे नमः ॥’ इति च ॥
पूर्णागण्यगुणोदारधाम्ने नित्याय वेधसे ।
अमन्दानन्दसान्द्राय प्रेयसे विष्णवे नमः ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये अष्टमोऽध्यायः ॥
॥ समाप्तं चेदं भाष्यम् ॥
]