माण्डूक्योपनिषत् मूलम् च भाष्यम्

[[माण्डूक्योपनिषत् मूलम् च भाष्यम् Source: EB]]

[

माण्डूक्योपनिषत् मूलम् - प्रथमः खण्डः

ओमित्येदक्षरमिदं सर्वम् । तस्योपव्याख्यानं भूतं भवद् भविष्यदिति ॥1॥
सर्वमोङ्कार एव । यच्चान्यत् त्रिकाƒातीतं तदप्योङ्कार एव । सर्वं ह्येतद् ब्रह्म । अयमात्मा ब्रह्म ॥2॥
सोयमात्मा चतुष्पात् । जागरितस्थानो बहिःप्रज्ञः । सप्ताङ्ग एकोनविंशतिमुखः स्थूƒभुग् वैश्वानरः प्रथमः पादः ॥3॥
स्वप्नस्थानोन्तप्रज्ञः । सप्ताङ्गः एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥4॥
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥5॥
एष सर्वेश्वरः एष सर्वज्ञः एषोन्तर्यामी । एषः योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥6॥
तत्रैते श्ƒोका भवन्ति ।
बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥7॥
दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥8॥
विश्वो हि स्थूƒभुक् नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥9॥
स्थूƒं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दं च तथा प्राज्ञं त्रिधा तृप्तिं विजानथ ॥10॥
त्रिषु धामसु यद् भोज्यं भोक्ता यश्च प्रकीर्तितः । वेदैतदुभयं यस्तु स भुञ्जानो न िƒप्यते ॥11॥
प्रभवः सर्वभावानां सतामिति विनिश्चयः । सर्वं जनयति प्राणश्चेतोंशून् पुरुषः पृथक् ॥12॥
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥13॥
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । कालात् प्रसूतिं भूतानां मन्यन्ते कालƒचिन्तकाः ॥14॥
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैषः स्वभावोयमाप्तकामस्य का स्पृहेति ॥15॥

इति प्रथमः खण्डः ॥

माण्डूक्योपनिषत् भाष्यम् ॥ प्रथमः खण्डः

पूर्णानन्दज्ञानशक्तिस्वरूपं नित्यमव्ययम् । चतुर्धा सर्वभोक्तारं वन्दे विष्णुं परं पदम् ॥
मण्डूकरूपिणा वरुणेन चतूरूपो नारायणः स्तूयते ।
ध्यायन् नारायणं देवं प्रणवेन समाहितः । मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम् ॥ इति पाद्मे ।
ओमित्युक्तं तु यद्ब्रह्म तदक्षरमुदाहृतम् । औतमत्र जगद्यस्मादों तस्मात् भगवान् हरिः ॥
तदिदं गुणपूर्त्यैव सर्वमित्येव शब्दितम् । भाविभूतभवत्काƒेष्वेकरूपतया हरिः ॥
सर्वदा नित्य इत्येषा व्याख्योङ्कारस्य कीर्तिता ॥ इति बृहत्संहितायाम् ।
ओमित्याक्रियते यस्मादोङ्कारोसावतः परः । सर्वत्वमिति पूर्णत्वं तन्नान्यस्य हरेः क्वचित् ॥ इति नैर्गुण्ये ।
सर्वमोङ्कार एवेत्यन्यस्य पूर्णत्वनिवारणम् । त्रिकाƒातीतत्वं च तस्यैव । प्रकृतेरपि त्रिकाƒातीतत्वं विद्यत इत्यन्यदिति “विशेषणम् । परमं यो महद्ब्रह्म’ “तदेव ब्रह्म परमं कवीनाम्’ “पूर्णमदः पूर्णमिदम्’ इत्यादिषु प्रसिद्धं च ब्रह्मणः पूर्णत्वमित्याह- सर्वं ह्येतत् ब्रह्मेति ॥ श्रीब्रह्मादिसकƒदेहेषु स्थित्वादानादिकर्ता योयं कश्चित् प्रतीयते । जीवानामस्वातन्त्र्यदर्शनात् । सोपि स एवेति दर्शयति- अयमात्मा ब्रह्मेति ।
पूर्णस्तु हरिरेवैको नान्यत् पूर्णं कदाचन । विना च प्रकृतिं नान्यत् काƒातीतं परात्मनः ॥
काƒश्चैव दिशो वेदाः प्रकृत्यात्मान ईरिताः । अभिमानात्तु जीवानां न काƒातीतता भवेत् ॥
मुक्तानामपि पूर्वत्र काƒसम्बन्ध ईरितः । पूर्णत्वं च सदा विष्णोः प्रसिद्धं सर्ववेदतः ॥
सोयं विष्णू रमाब्रह्मरुद्रानन्तादिगः सदा । आदानादनकर्तृत्वादात्मा तेषामगोचरः ॥
इति मण्डूकरूपी सन् ददर्श वरुणः श्रुतिम् ॥ इति हरिवंशेषु ॥1-3॥
चतुर्धावस्थितो देहे परमात्मा सनातनः । वैश्वानरो जागरितस्थानगो गजवक्त्रकः ॥
निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः । अष्टादशमुखान्यस्य पुमाकाराणि सर्वशः ॥
मध्यमं तु गजाकारं चतुर्बाहुः परः पुमान् । पादौ हस्तिकरो हस्ता इति सप्ताङ्ग ईरितः ॥
स्थूƒान् भोगानिन्द्रियैः स शुभान् भुङ्क्ते न चाशुभान् । विश्वं स्थूƒं समुद्दिष्टं सर्वगम्यत्वहेतुतः ॥
तत्सम्बन्धी नरोनाशाद् वैश्वानरः उदाहृतः । विनायकस्तु विश्वस्य ध्यानादैद् गजवक्त्रताम् ॥
तथैव तैजसध्यानात् त्रिध्यानादिन्द्र इन्द्रताम् । चतुर्ध्यानाच्च रुद्रत्वं आप जनार्दनात् ॥
एवम्भूतगुणो विष्णुश्चतुरात्मा परात् परः ॥ इति महायोगे ॥
जाग्रद्दर्शनसंस्काररूपत्वात् स्वप्नगं तु यत् । प्रविविक्तं तु तज्ज्ञानकारणोन्तज्ञं उच्यते ॥ इति वाराहे ॥3-4॥
सुषुप्तं तु तमो ज्ञेयं हरिं प्राप्य तदावृतः । न कामयेन्नैव पश्येज्जीवः स्वात्मतमो विना ॥
काƒं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम् । चित्तस्थो दर्शयेद् यस्मात् तैजसः स्वप्नकृद्धरिः ॥
न बाह्यं ज्ञापयेद्यस्माद् प्राज्ञस्तेन जनार्दनः । एकीभावं व्रजेतां च तेन विश्वस्य तैजसः ॥
एकीभूतस्त्वतः प्राज्ञो घनो जीवस्तमोवृतः । तन्मात्रस्य सकाƒस्य घनप्रज्ञः प्रदर्शनात् ॥ इति प्रकाशिकायाम् ।
आनन्दमयः पूर्णानन्दः । चेतोमुखः ज्ञानस्वरूपमुखः । प्रज्ञानघन इति विपरीतसमासः । घनप्रज्ञ इति वक्ष्यमाणत्वात् । विषयभोगं विनानन्दमात्रभुक्त्वादानन्दभुगिति विशेषः । आनन्दमयचेतोमुखसर्वज्ञत्वसर्वेश्वरत्वादिचतुष्टयेपि समम् । अन्यत्रातिदेशार्थमेकत्रानन्दमयत्वं चेतोमुखत्वं चोक्तम् । एष चतूरूप आत्मा सर्वज्ञत्वसर्वेश्वरत्वादिƒक्षणः ॥
परमात्मा चतूरूपः सर्वप्राणिशरीरगः । विश्वश्च तैजसः प्राज्ञस्तुरीयश्चेति कथ्यते ॥
तानि रूपाणि सर्वाणि पूर्णानन्दमयानि तु । चेतोमुखानि सर्वाणि पूर्णज्ञानस्वरूपतः ॥
मुखशब्दस्तु सर्वस्य देहस्याप्युपƒक्षणः । तथापि मुखशब्दोयं पूर्णत्वं सूचयेद् विभोः ॥
ज्ञानस्य मुख्यवाचित्वान्मुखवाच्यपि सन् स्वतः ॥ इति मार्कण्डेये ॥
पूर्णानन्दस्वरूपस्य क्रीडा भोगो न चान्यथा । यथादित्यस्य दीपेन न विशेषोस्ति कश्चन ॥ इति ब्रह्मतर्के ।
प्रमाणस्य प्रमाणं च बƒवत् विद्यते मुने । ब्रह्मदृष्टान् यतो मन्त्रान् प्रमाणं सिƒƒेश्वरः ॥
अत्र श्ƒोका भवन्तीति चकारैव पृथक् पृथक् ॥ इति गारुडे ।
खण्डचतुष्टयेपि पृथक् पृथक् ।
प्रभवः सर्वभावानां विष्णुरेव न संशयः । इत्थं सतां निश्चयः स्यादन्यथा त्वसतां भवेत् ॥
सर्वस्य हि प्रणेतृत्वात् प्राणो नारायणः परः ॥
तां सृष्टिं बहुधा प्राहुर्ज्ञानिनोज्ञानिनस्तथा । विष्णुर्विकृतिमायाति महदिस्वरूपिणीम् ॥
तत्तद्विविधभूतिस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः । स्वप्नप्रमायास्वरूपां च केचिदज्ञाः जना विदुः ॥
अविकारस्य चिन्मात्रस्वेच्छयैवाखिƒं जगत् । उत्पद्यत इति प्राज्ञाः प्राहुबर्‌रह्मादयोखिƒाः ॥
पूर्णशक्तेः कुतो माया सार्वज्ञात् स्वप्नवत् कुतः । सर्वदोषव्यतीतस्य विकारः कुत इष्यते ॥
तस्मादेवाविकारस्य विष्णोरिच्छावशादिदम् । यथार्थमेव सम्भूतमिति वेदवचोखिƒम् ॥
केचित् काƒत एवैतां सृष्टिमाहुरकोविदाः । केचिद्रुद्राद् ब्रह्मणश्च प्रधानादिति चापरे ॥
विमूढाः सर्व एवैते यतो नारायणः परः । सर्वकर्ता सर्वशक्तिरेक एव न चापरः ॥
प्रधानकाƒब्रह्मेशमुखाः सर्वेपि तद्वशाः । तस्यापि विष्णोः सृष्टिं तु केचिदाहुरनैपुणाः ॥
अतृप्तस्यैव भोगार्थं क्रीडार्थं तु विपश्चितः । सा च क्रीडा स्वभावोस्य कुतोतृप्त्या स्पृहा विभोः ॥

इति प्रथमखण्डः ॥

****************************************************************************************************************

माण्डूक्योपनिषत् मूलम् -द्वितीयः खण्डः

नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतः प्रज्ञं न प्रज्ञानघनं नप्रज्ञं नाप्रज्ञमदृष्टं अव्यवहार्यं अƒक्षणं अचिन्त्यं अव्यपदेश्यं ऐकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः ॥1॥ अत्रैते श्ƒोकाः भवन्ति ।
निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः । अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥2॥
कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः ॥3॥
नात्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा ॥4॥
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः । बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥5॥
स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्य पश्यन्ति निश्चिताः ॥6॥
अन्यथागृह्यतः स्वप्नो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥7॥
अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते । अजमनिद्रमस्वप्नमद्वैतं बुद्ध्यते तदा ॥8॥
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥9॥
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥10॥

॥ इति द्वितीयः खण्डः ॥

माण्डूक्योपनिषत् भाष्यम् -द्वितीयः खण्डः

विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थिता । मुक्तानां प्राप्यरूपोसौ व्यवहारे न दृश्यते ॥
सम्यक् समाहितानां तु प्राप्तानां षोडशीं कƒाम् । अपरोक्षदृशां क्वापि तुरीयं दृश्यते पदम् ॥
अन्तर्बहिश्च सौप्तं च समाधिज्ञानमेव च । बहिः शब्दादिकं जानन् पश्यन् स्वप्नं तथैव च ॥
यदा भवति सावस्था ह्युभयज्ञानशब्दिता । एतत्सर्वं तुरीयेण रूपेण न करोत्यजः ॥
सर्वज्ञानप्रदश्चापि मुक्तस्यैव तुरीयकः ॥ इति ब्रह्माण्डे ।
अमुक्तस्य त्वदृश्यत्वात् षोडशी वा कƒामृते । तुरीयोदृष्ट इत्युक्तो ग्रहणादेरगोचरः ॥
विना मुक्तिं यतस्तेनाव्यवहार्यं इतीरितः । जाग्रदादिप्रवृत्तिस्तु ƒक्षणं ह्यनुमापकम् ॥
अƒक्षणस्तद्राहित्यादचिन्त्यस्तत एव च । तत एव ह्यनिर्देश्यश्चिदानन्दैकƒक्षणः ॥
मुक्तस्य सर्वव्यापारहेतुरेव तुरीयकः । एकः प्रधान उद्दिष्ट आत्मा पूर्णत्वतः श्रुतः ॥
तदेवास्य स्वरूपं यदैकात्म्यं तेन कीर्तितः । प्रत्ययो ज्ञानरूपत्वात् सार आनन्दरूपतः ॥
प्रपञ्चो विस्तृतेर्विष्णुः शम आनन्दरूपतः । उत्कृष्टानन्दरूपत्वादुपशब्दः प्रकीर्तितः ॥
प्रपञ्चं देहबन्धाख्यं तुरीयः शमयेद्यतः । प्रपञ्चोपशमस्तेनाप्युक्तः स भगवान् प्रभुः ॥
निर्दुःखसुखरूपत्वाच्छिवशब्दः श्रुतौ श्रुतः । अन्यथाप्रत्ययो द्वैतं शमयेत् तं यतो हरिः ॥
अद्वैतस्तेन चोद्दिष्टस्तुरीयः पुरुषोत्तमः ॥ इति माहात्म्ये ॥
अपेक्ष्य वस्तुयाथार्थ्यं द्वित्वमन्यस्वरूपया । इण् गताविति धातोश्च तज्ज्ञानं द्वैतमुच्यते ॥ इति सङ्कल्पे ।
“स आत्मा स विज्ञेयः’ इति सोयमात्मा चतुष्पादिति चतुर्धा विभक्त उच्यते उपसंहारार्थम् । “सोयमात्माध्यक्षरम्’ इति पृथगारम्भात् ।
विश्वादिरूपो यस्त्वात्मा स विज्ञेयो मुमुक्षुभिः । निर्विशेषोपि भगवांश्चतुर्धा समुदीरितः ॥ इति प्रत्यये ।
सर्वदुःथानां निवृत्तेः कारणभूतस्तुरीयो देवः । हरिस्तुरीयरूपेण मोक्षदः सम्प्रकीर्तितः ॥
देवः स सर्वजीवानां गम्यत्वात् समुदीरितः । भावाः जीवाः समुद्दिष्टा भवन्त्येते यतो विभोः ॥
ईशानामपि मुक्तानां ईशानः सोननाच्छ्रुतः ॥ इति प्रत्याहारे ।
कार्यकारणबन्धस्य तदधीनत्वतो विभुः । विश्वादिरूपो भगवान् बद्ध इत्युच्यते श्रुतौ ॥
कुतो बन्धः परस्यास्य बन्धेशस्य चिदात्मनः ॥ इति च ।
“स बद्धः स दुःखी स बन्धयति स दुःखयतीति । स जीवः स प्रकृतिः स जीवयति स प्रकरोतीति । सोवरः सोनित्यः सोवरयति सोनित्ययति’ इति कौण्डिन्यश्रुतिः ।
विष्णोर्गुणोक्तिपरता मम नित्यं सुरेश्वराः । तदर्थमन्यद्वचनमतस्तस्य विरोधि यत् ॥
तन्ममार्थो न हि क्वापि साहं तत्सरणात् सदा । सरस्वतीति सम्प्रोक्ता तस्माज्ज्ञेया गुणा हरेः ॥ इति महोपनिषदि ॥
नात्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः संवेदयेत् किञ्चिज्जीवकाƒतमो विना ॥
सुप्त्यवस्थां सुखं चापि विना नान्यत् प्रदर्शयेत् । सर्वं तु दर्शयेन्मुक्तौ तुरीयः परमेश्वरः ॥ इति प्रत्यये ।
स्वतन्त्रे कर्तृशब्दः स्यात् प्राज्ञस्यावेदनं यथा । सर्वप्रदर्शके चैव तुरीये सर्वदर्शनम् ॥ इति ब्रह्मतर्के ।
निद्रायुतास्तु विश्वाद्यास्तदधीना यतो हि सा । यथा भृत्ययुतः स्वामी न ह्यज्ञानं परात्मनः ॥ इति च ।
अभेदमपि तद्ब्रह्म बहुरूपं विशेषतः । करोति न करोतीति व्यवहार्यं स्वशक्तितः ॥ इति च ।
न संवेदयतीत्यस्वीकारे “तुर्यं तत्सर्वदृक् सदा’ “द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः’ इति च विरुद्धम् । द्वैतग्रहणाकारणत्वं तुल्यमित्यर्थः ।
द्वैतं न ग्राहयेत् तुर्यो न च प्राज्ञः कथञ्चन । द्वैतग्रहणबीजं तु निद्रा प्राज्ञं समाश्रिता ॥ इति प्रकटश्रुतिः ।
विपरीतज्ञानादपि विपरीतज्ञानान्तरं जायते ।
अनादिमायया विष्णोरिच्छया स्वापितो यदा । तया प्रबोधमायाति तदा विष्णुं प्रपश्यति ॥ इति प्रकाशिकायाम् ॥
तन्वा स्वस्वामिसम्बन्धः प्रपञ्चो शरीरिणः । वस्तुतोसौ न चैवास्ति परमस्य वशे यतः ॥
तन्त्रादिकस्तथाप्येष ह्यभिमानात् प्रदृश्यते । अतः स विद्यत इति ह्यङ्गीकारो भवेद्यदि ॥
तथापि भगवज्ज्ञानात् स निवर्तेदसंशयम् ॥ इति ब्रह्मतर्के ।
अद्वैतमनन्यथा ज्ञातं परब्रह्मादि वस्तु । द्वैतं द्विधा ज्ञातमन्यथा ज्ञातमज्ञैः । परमार्थतः परमेश्वरात् । तस्यैव मायामात्रं तदिच्छया निर्मितम् । तदन्यथाज्ञानं तस्मात् तदिच्छयैव निवर्तते ।
परेण ब्रह्मणा यत्तु द्विधा न ज्ञानमञ्जसा । तदद्वैतं परं ब्रह्म तदेव ज्ञातमन्यथा ॥
जीवेन द्वैतमुद्दिष्टं मिथ्याज्ञानं तदेव च । परमार्थात् पराद् विष्णोर्जातमिच्छावशादनु ॥
मायेतीच्छा समुद्दिष्टा मायामात्रं तदुद्भवम् । उत्तमत्वात् परार्थोसौ भगवान् विष्णुरव्ययः ॥ इति च ।
अनन्यथा इतमवगतमद्वैतम् (?) । द्वैतं वस्तुस्वरूपापेक्षया द्विधा ह्यन्यथा ज्ञातमित्यर्थः । अतो विकल्पः शरीरादिसम्बन्धः केनचिदज्ञानादिना कारणेन कल्पितोप्युपदेशान्निवर्तते । अयं सतां वाद ज्ञाते सति ब्रह्मणि द्वैतमन्यथाज्ञानं निवर्तते इति ॥
विकल्पो देहबन्धादिः केनचित् कारणेन तु । कल्पितो विनिवर्तेत गुरुवाक्यादसंशयः ॥
एष एव सतां वादो ज्ञाते ब्रह्मणि तत्त्वतः । निवर्ततेन्यथाज्ञानं तत आनन्दमेत्यसौ ॥ इति च ।

इति द्वितीयखण्डः ॥

*********************************************************************************************

माण्डूक्योपनिषत् मूलम् - तृतीयः खण्डः

सोयमात्माध्यक्षरमोङ्कारोधिमात्रं पादा मात्रा अकार उकारो मकार इति ॥1॥
जागरितस्थानो वैश्वानरोकारः प्रथमा मात्रा । आप्तेरादिमत्त्वाद् वा । आप्नोति ह वै सर्वान् कामानादिश्च भवति । य एवं वेद ॥2॥
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा । उत्कर्षादुभयत्वात् वा । उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित् कुƒे भवति । य एवं वेद ॥3॥
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा । मितेरपीतेर्वा । मिनोति ह वा इदं सर्वमपीतिश्च भवति । स एवं वेद ॥4॥
अत्रैते श्ƒोकाः भवन्ति ।
विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् । मात्रासम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥5॥
तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् । मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥6॥
मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् । मात्रासम्प्रतिपत्तौ तु ƒयसामान्यमेव च ॥7॥
त्रिषु धामसु यत् तुल्यं सामान्यं वेत्ति निश्चितम् । स पूज्यस्सर्वभूतानां वन्द्यश्चैव महामुनिः ॥8॥
अकारो नयते विश्वमुकारश्चापि तैजसम् । मकारश्च पुनः प्राज्ञं नामात्रे विद्यतेगतिरिति ॥9॥

॥ इति तृतीयः खण्डः ॥

माण्डूक्योपनिषत् भाष्यम् - तृतीयः खण्डः

अधिकं सर्वतोविनाशि चेत्यध्यक्षरम् । अधिका एव मात्रा अंशा यस्य तदधिमात्रम् । अ इत्यनेनाभिधानेनाक्रियत इत्यकारः । तत्र पूवोक्तो वैश्वानरः प्रथमा मात्रेत्याद्यनुवादः । अकार इत्यादिकं विधेयम् । प्राज्ञस्तैजसश्चादिरस्येत्यादिमात्रम् । सुप्तेरुत्थाने प्राज्ञाद्विभक्तो भवति विश्वः । स्वप्नादुत्थाने तैजसात् । आदिश्चास्योपासकस्य भवति ॥1-2॥
शरीराभिमानादुत्थाप्य कर्षतीत्युत्कर्षः । निद्रा विषयानुभवश्चानेन क्रियत इत्युभयत्वम् । समानः सर्वेषां मध्यस्थो भवति ॥3॥
मितेरन्तर्गमनात् ।
अधिकत्वाच्च नित्यत्वादध्यक्षरमुदाहृतः । येंशास्तस्य तु सर्वेपि पूर्णाः प्रत्येकशो विभोः ॥
अतोधिमात्रमुद्दिष्टो मात्रा अंशा उदाहृताः । श्रुतः स विष्णुरोङ्कार ओमित्याक्रियते यतः ॥
आद्यस्तदंशो ह्याप्तिः स्याद् विषयानापयेद्यतः । जीवस्य तु यतः प्राज्ञात् तैजसाद्वा समुत्थितिः ॥
अविभागोपि भगवानादिमांस्तेन कीर्तितः । तस्मादुत्पद्यते मुक्तस्तज्ज्ञानानन्दƒक्षणः ॥
आप्नोति विषयान् सर्वान् निद्राया विषयस्य च । उभयोः कारणत्वेन ह्युभयस्तैजसः श्रुतः ॥
देहाभिमानादुद्धृत्य कर्षति स्वप्नमण्डƒे । उत्कर्षत्वं ततस्तस्य तज्ज्ञानी ज्ञाननित्यताम् ॥
आप्नोति देहादुत्कृष्य स्वात्मानं सर्वमोक्षिणाम् । मध्यस्थश्च भवेत् स्नेहाद्दोषाभावाच्च सर्वशः ॥
स्वात्मन्यन्तर्गमयति मानमन्तर्गतिः स्मृता । जीवमन्तर्गतं कृत्वा तज्ज्ञानƒयकृद् यतः ॥
प्राज्ञो मानमपीतिश्च तज्ज्ञोप्येवं विमुक्तिगः । व्याप्त्यान्तर्गमयेत् सर्वं दुःखाद्यं तु विƒापयेत् ॥
अणूनामपि जीवानां प्रकाशो व्यापको भवेत् । अण्डमात्रे बहिश्चापि देवतानां यथाक्रमम् ॥
अतोन्तर्गतं मुक्तौ जीवेषु जगतो भवेत् ॥ इति ब्रह्मतर्के ॥4॥
मात्रासम्प्रतिपत्तौ अंशध्याने । आदिमत्वं विश्वस्य विद्यते । तदुपासकस्यापि भवतीत्यादि सामान्यम् ।
अमात्रेप्यगतिर्न विद्यते । प्रतिदिवसं विभाग एकीभावश्च विद्यते विश्वादीनाम् । तुरीयस्य तन्न विद्यत इत्यमात्रः । विश्वादीनां व्यवहारकारणत्वं विद्यते । तुरीयस्य तन्न विद्यत इत्यतो गम्यत्वमपि नास्तीत्याशङ्कां निवर्तयति । “अगतिर्न विद्यते’ इति । “आत्मानं संविशति’ इति गतिवचनात् ।
आदिमत्त्वेन सामान्यमुपास्येन भवेदिति । उपासकस्य सञ्जानन् सर्ववन्द्यो भवेत् पुमान् ॥
सामान्यत्रयमप्येतत् तुल्यं मुक्तिगतत्वतः । अमात्रत्वं तुरीयस्याप्यविभागाद् दिने दिने ॥
जाग्रदादेरकर्तापि गम्योसौ ज्ञानिनां भवेत् ॥ इति च ।
आदिमत्त्वादिसामान्यं तुल्यं मोक्षोपभोग्यतः । अमात्रत्वं तुरीयस्याप्यविभागाद्दिने दिने ॥ इत्यात्मसंहितायाम् ॥

॥ इति तृतीयः खण्डः ॥

***************************************************************************************************************************

माण्डूक्योपनिषत् मूलम् - चतुर्थः खण्डः

अमात्रश्चतुर्थोव्यवहार्यः प्रपञ्चोपशमः शिवोद्वैतः ओङ्कार आत्मैव संविशत्यात्मनात्मानं य एवं वेद ॥1॥
अत्रैते श्ƒोकाः भवन्ति ।
ओङ्कारं पादशो विद्यात् पादा मात्रा न संशयः । ओङ्कार पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ॥2॥
युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥3॥
प्रणवो ह्यपरं ब्रह्म प्रणवस्य परं स्मृतः । अपूर्वोनन्तरोबाह्योनपरः प्रणवोव्ययः ॥4॥
सर्वस्य प्रणवो ह्यादिर्मध्यमन्तन्तथैव च । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥5॥
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम् । सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥6॥
अमात्रोनन्तमात्रश्च द्वैतस्योपशमः शिवः । ओङ्कारो विदितो येन स मुनिर्नेतरो जनः । स मुनिनेतरो जन इति ॥7॥

इति चतुर्थः खण्डः ॥

माण्डूक्योपनिषत् भाष्यम् - चतुर्थः खण्डः

आत्मैव भूत्वान्याभिमानं त्यक्त्वा परमात्मनैव परमात्मानं प्रविशत्युपासकः । अव्यवहार्यत्वादिकमात्र साम्यमिति दर्शयितुं पुनरप्युक्तमव्यवहार्यत्वादिकम् ॥1॥
तुरीयं नादनामानं हरिं ज्ञात्वा परं पदम् । तमेव प्रविशेच्छुद्धरूपी तत्सदृशात्मवान् ॥
ज्ञानानन्दौ च शक्तिश्च तथापि न समाः क्वचित् । विमुक्तस्यापि जीवस्य पारतन्त्र्यं च नित्यदा ॥
चतूपूपस्यास्य विष्णोर्नाम प्रणव इत्यपि । जाग्रदादिप्रणयनात् स एव ब्रह्म बृंहणात् ॥
ओमित्याक्रियमाणत्वादोङ्कारः सम्प्रकीर्तितः । आदिमत्वादयो ह्यर्था ओमित्यस्य श्रुतौ श्रुताः ॥
अपूर्वः कारणाभावान्नाशाभावादनन्तरः । पराधीनस्थित्यभावादनपर उदाहृतः ॥
सर्वगत्वादबाह्यश्च तं ज्ञात्वा प्रविमुच्यते ॥ इति च ॥
परत्वमपरत्वं च विष्णोरेकस्य वै यदा । श्रूयते न तु सामर्थ्यभेदस्तत्र कथञ्चन ॥
अवतारस्य पूर्वत्वात् पौर्वापर्यमुदाहृतम् ॥ इति ब्रह्मतर्के ।
पूर्वावतारे पश्चिमावतारेपि पूर्ण एवेति प्रणवो ह्यपरं ब्रह्मेत्यादेरर्थः ॥
एकोपि निर्विशेषोपि चतुर्धा व्यवहारभाक् । यस्तं वन्दे चिदानन्दं विष्णुं विश्वादिरूपिणम् ॥

इति चतुर्थखण्डः ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं माण्डूक्योपनिषद्भाष्यम् ॥

***********************************************************************************************

]