काठकोपनिषत् मूलम् भाष्यम् च

[[काठकोपनिषत् मूलम् भाष्यम् च Source: EB]]

[

काठकोपनिषत् - मूलम्

अथ प्रथमाध्यायः ॥

उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस । तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश ॥1॥
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः अनन्दा नाम ते ƒोकास्तान् स गच्छति ता ददत् ॥2॥
स होवाच पितरं तात कस्मै मां दास्यसीति द्वितीयं तृतीयम् । तं होवाच मृत्यवे त्वा ददानीति ॥3॥
बहूनामेमि प्रथमो बहूनामेमि मध्यमः । किंस्विद् यमस्य कर्तव्यं यन्मयाद्य करिष्यति ॥4॥
अनुपश्य यथा पूर्वे प्रतिपश्य तथापरे । सस्यमिव मर्त्यः पच्यते सस्यमिव जायते पुनः ॥5॥
वैश्वानरः प्रविशत्यतिथिबर्‌राह्मणो गृहान् । तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥6॥
आशाप्रतीक्षे सङ्गतं सूनृतां चेष्टापूर्ते पुत्रपशूंश्च सर्वान् । एतद् वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानशन्न् वसति ब्राह्मणो गृहे ॥7॥
तिस्रो रात्रीर्यदवात्सीर्गृहे मेनशन्न् ब्रह्मन्नतिथिर्नमस्यः । नमस्तेस्तु ब्रह्मन् स्वस्ति मेस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व ॥8॥
इति प्रथमब्राह्मणम् ॥

शान्तसङ्कल्पः सुमना यथा स्यात् वीतमन्युर्गौतमो माभि मृत्यो ।
त्वत्प्रसृष्टं माभिवदेत् प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे ॥1॥
यथा पुरस्तात् भविता प्रतीत औद्दाƒकिरारुणिर्मत्प्रसृष्टः ।
सुखं रात्रीः शयीता वीतमन्युस्त्वां ददृशिवान् मृत्युमुखात् प्रमुक्तम् ॥2॥
स्वर्गे ƒोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति । उभे तीत्वा अशनायापिपासे शोकातिगो मोदते स्वर्गƒोके ॥3॥
स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् । स्वर्गƒोका अमृतत्वं भजन्त एतद्द्वितीयेन वृणे वरेण ॥4॥
प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् । अनन्तƒोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥5॥
ƒोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्या यथा वा । स चापि तत्प्रत्यवद्यथोक्तमथास्य मृत्युः पुनराह तुष्टः ॥6॥
इति द्वितीयब्राह्मणम् ॥

तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नाम्ना भवितायमग्निः शृङ्कां चेमामनेकरूपां गृहाण ॥1॥
त्रिनाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत् तरति जन्ममृत्यू । ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति ॥2॥
त्रिनाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम् ।
स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गƒोके ॥3॥
एष तेग्निर्नाचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण । एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ॥4॥
इति तृतीयब्राह्मणम् ॥

येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वृतस्तृतीयः ॥1॥
देवैरत्रापि विकित्सितं पुरा न हि सुज्ञेयोणुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैवम् ॥2॥
देवैरत्रापि विचिकित्सितं किƒ त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।
वक्ता चास्य त्वादृगन्यो न ƒभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥3॥
शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान् ।
भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥4॥
एतत् तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च । महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥5॥
ये ये कामा दुर्ƒभा मर्त्यƒोके सर्वान् कामांश्छन्दतः प्रार्थयस्व । इमा रामाः सरथाः सतूर्या न हीदृशा ƒम्भनीया मनुष्यैः ॥
आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः ॥6॥
श्वोभावा मर्त्यस्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः । अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्तगीतम् ॥7॥
न वित्तेन तर्पणीयो मनुष्यो ƒप्स्यामहे वित्तमद्राक्ष्म चेत्त्वाम् । जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥8॥
अजीर्यताममृतानामुपेत्य जीर्यन् मर्त्यः क्वाधस्थः प्रजानन् । अभिध्यायन् वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ॥9॥
यस्मिन्निदं विचिकित्सन्ति मृत्यो साम्पराये महति ब्रूहि नस्तत् । योयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥10॥
इति चतुर्थब्राह्मणम् ॥

इति प्रथमाध्यायस्य प्रथमा वल्ली ॥

अन्यच्छ्रेयोन्यदुतेव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीयतेर्थाद् य उ प्रेयो वृणीते ॥1॥
श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः । श्रेयो धीरोभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमान् वृणीते ॥2॥
स त्वं प्रियान् प्रियरूपांश्च कामान्नभिध्यायन् नचिकेतोत्यस्राक्षीः ।
नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥3॥
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता । विद्याभीप्सितं नचिकेतसं मन्ये न त्वा कामा बहवो ƒोƒुपन्तः ॥4॥
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥5॥
न साम्परायः प्रतिभाति बाƒं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं ƒोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥6॥
श्रवणायापि बहुभिर्यो न ƒभ्यः शृण्वन्तोपि बहवो यं न विद्युः ।
आश्चर्योस्य वक्ता कुशƒोस्य ƒब्धा आश्चर्यो ज्ञाता कुशƒानुशिष्टः ॥7॥
न नरेणावरः प्रोक्त एष सुज्ञेयो बहुधा चिन्त्यमानः । अनन्यप्रोक्ते गतिरस्य नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात् ॥8॥
नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ । यां त्वमापः सत्यधृतिर्बतासि त्वादृङ् नो भूयान्नचिकेतः प्रष्टा ॥9॥
जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।
ततो मया नचिकेतश्चितोग्निरनित्यद्रव्यैः प्राप्तवानस्मि नित्यम् ॥10॥
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम् ।
स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोत्यस्राक्षीः ॥11॥
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्टं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥12॥
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य । स मोदते मोदनीयं हि ƒब्ध्वविवृतं सद्म नचिकेतसं मन्ये ॥13॥
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यसि तद्वद ॥14॥
इति पञ्चमब्राह्मणम् ॥

सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् ॥1॥
एतद्ध्येवाक्षरं ब्रह्मैतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥2॥
एतदाƒम्बनं श्रेष्ठमेतदाƒम्बनं परम् । एतदाƒम्बनं ज्ञात्वा ब्रह्मƒोके महीयते ॥3॥
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोयं पुराणो न हन्यते हन्यमानेपि देहे ॥4॥
हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तै न विजानीतो नायं हन्ति न हन्यते ॥5॥
अणोरणीयान् महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥6॥
आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥7॥
अशरीरं शरीरेष्वनवस्थेष्वस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥8॥
नायमात्मा प्रवचेन ƒभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन ƒभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥9॥
नाविरतो दुश्चरितात् नाशान्तो नासमाहितः । नाशान्तमनसो वापि प्रज्ञानेनैवमाप्नुयात् ॥10॥
यस्य ब्रह्म च क्षत्रं च चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥11॥
इति षष्ठब्राह्मणम् ॥ इति प्रथमाध्यायस्य द्वितीया वल्ली ॥

ऋतं पिबन्तौ सुकृतस्य ƒोके गुहां प्रविष्टौ परमे परार्द्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः ॥1॥
यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् । अभयं तितीर्षतां पारं नाचिकेतं शकेमसि ॥2॥
आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥3॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥4॥
यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥5॥
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥6॥
यस्तवविज्ञानवान् भवत्यमनस्कः सदाशुचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥7॥
यस्तु विज्ञानवान् भवति समनस्कः सदाशुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥8॥
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान् नरः । सोध्वनः पारमाप्नोति तद् विष्णोः परमं पदम् ॥9॥
इन्द्रियेभ्यः परा ह्यर्था अथेभ्यश्च परं मनः । मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ॥10॥
महतः परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषान्न परः किञ्चित् सा काष्ठा सा परा गतिः ॥11॥
एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥12॥
यच्छेद् वाङ्मनसि प्राज्ञस्तद् यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि ॥13॥
इति सप्तमब्राह्मणम् ॥

उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत । क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत् कवयो वदन्ति ॥1॥
अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते ॥2॥
नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् । उक्त्वा श्रुत्वा च मेधावी ब्रह्मƒोके महीयते ॥3॥
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि । प्रयतः श्राद्धकाƒे वा तदानन्त्याय कल्पते तदानन्त्याय कल्पते इति ॥4॥
इति अष्टमब्राह्मणम् ॥

इति प्रथमाध्यायस्य तृतीया वल्ली ॥

इति प्रथमाध्यायः ॥

*****************************************************************************************

अथ द्वितीयाध्यायः ॥

पराञ्चि खानि व्यतृणात् स्वयम्भूस्तस्मात् पराङ् पश्यति नान्तरात्मन् ।
कश्चिद् धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥1॥
पराचः कामाननुयन्ति बाƒास्ते मृत्योर्यन्ति विततस्य पाशान् ।
अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥2॥
येन रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनान् । एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥3॥
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥4॥
य इदं मध्वदं वेदात्मानं जीवमन्तिकात् । ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥5॥
यः पूर्वं तपसोजातमद्भ्यः पूर्वमजायत । गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥6॥
या प्राणेन सम्भवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥7॥
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः । दिवे दिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः । एतद्वै तत् ॥8॥
यतश्चोदेति सूर्योस्तं यत्र च गच्छति । तं देवास्सर्वे अर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥9॥
यदैवेह तदमुत्र यदमुत्र तदन्विह । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥10॥
मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन । मृत्योस्स मृत्युं गच्छति य इह नानेव पश्यति ॥11॥
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥12॥
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥13॥
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥14॥
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥15॥
इति प्रथमब्राह्मणम् ॥
इति द्वितीयाध्यायस्य प्रथमा वल्ली ॥

पुरमेकादशद्वारमजस्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद् वै तत् ॥1॥
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद् व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥2॥
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते ॥3॥
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः । देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥4॥
न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥5॥
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा मरणं प्राप्यात्मा भवति गौतम ॥6॥
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येनु संयन्ति यथाकर्म यथाश्रुतम् ॥7॥
य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिं?ल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥8॥
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥9॥
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥10॥
सूर्यो यथा सर्वƒोकस्य चक्षुर्न िƒप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥11॥
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मस्थं येनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥12॥
इति द्वितीयब्राह्मणम् ॥

नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ।
तमात्मस्थं येनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥1॥
तदेतदिति मन्यन्तेनिर्देश्यं परमं सुखम् । कथं नु तद्विजानीयां किमु भाति न भाति वा ॥2॥
न यत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥3॥
इति तृतीयब्राह्मणम् ॥
इति द्वितीयाध्यायस्य द्वितीया वल्ली ॥

ऊर्ध्वमूƒोवाक्शाख एषोश्वत्थः सनातनः । तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते ॥1॥
तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥2॥
यदिदं किञ्च जगत् सर्वं प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥3॥
भयादस्याग्निस्तपति भयात् तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥4॥
इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः । ततः स्वर्गेषु ƒोकेषु शरीरत्वाय कल्पते ॥5॥
यथादर्शे तथात्मनि यथा स्वप्ने तथा पितृƒोके । यथाप्सु परीव ददृशे तथा गन्धर्वƒोके । छायातपयोरिव ब्रह्मƒोके ॥6॥
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् । पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥7॥
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् । सत्त्वादपि महानात्मा महतोव्यक्तमुत्तमम् ॥8॥
अव्यक्तात् तु परः पुरुषो व्यापकोिƒङ्ग एव च । तं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥9॥
न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम् ।
हृदा मनीषी मनसाभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति ॥10॥
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टति तमाहुः परमां गतिम् ॥11॥
तां योनिमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥12॥
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा । अस्तीति ब्रुवतोन्यत्र कथं तदुपƒभ्यते ॥13॥
अस्तीत्येवोपƒब्धव्यस्तत्त्वभावेन चोभयोः । अस्तीत्येवोपƒब्धस्य तत्त्वभावः प्रसीदति ॥14॥
यदा सर्वे प्रमुच्यन्ते कामा येस्य हृदि स्थिताः । अथ मर्त्योमृतो भवत्यथ ब्रह्म समश्नुते ॥15॥
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः । अथ मर्त्योमृतो भवत्येतावदनुशासनम् ॥16॥
शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङन्या उत्क्रमणे भवन्ति ॥17॥
अङ्गुष्ठमात्रः पुरुषोन्तरात्मा सदा जनानां हृदये सन्निविष्टः । तं स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषीकान् धैर्येण ॥
तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥18॥
मृत्युप्रोक्तां नचिकेतोथ ƒब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।
ब्रह्म प्राप्तो विरजोभूद् विमृत्युः अन्योप्येवं यो विदध्यात्ममेव ॥19॥
इति चतुर्थब्राह्मणम् ॥ इति द्वितीयाध्यायस्य तृतीया वल्ली ॥

इति द्वितीयाध्यायः ॥

इति काठकोपनिषत् ॥

***********************************************

श्रीमदानन्दविरचित-काठकोपनिषत् भाष्यम् ।

अथ प्रथमोऽध्यायः॥

नमो भगवते तस्मै सर्वतः परमाय ते । सर्वप्राणिहृदिस्थाय वामनाय नमो नमः ॥
अग्नौ विष्णुं सदा ध्यायंस्त्रिशोग्निं नाचिकेतकम् । यश्चयीत स तु प्राप्य स्वर्गं तत्र भयातिगः ॥
उष्य मन्वन्तरं काƒममृतत्वं भजेत् क्रमात् ॥ इति ब्रह्मसारे ॥
इच्छन् वाजश्रवोनप्ता ददौ सर्वस्वदक्षिणाम् । उद्दाƒकः स्वर्गƒोकं ददौ गाश्च निरिन्द्रियः ॥
मां दत्वापि न ते गावो दातव्या ईदृशा इति । उवाच पुत्रस्तं बाƒस्तं शशाप पिता स्वयम् ॥
इत्युक्तस्स यमस्तं तु सम्पूज्यादाद् वरत्रयम् । सौमनस्यं पितुश्चैव नाचिकेताग्निगं हरिम् ॥
मुक्ते स्थितञ्च तं विष्णुमिति प्रादात् वरत्रयम् ॥ इति गतिसारे ॥
अग्र्यत्वादग्निनामासौ नाचिकेताग्निगो हरिः । ƒोको विष्णोरनन्तस्य तज्ज्ञानान्नित्य आप्यते ॥
प्रतिष्ठा सर्वƒोकस्य स विष्णुस्सर्वहृद्गतः । स एव सर्वƒोकादिस्तं ज्ञात्वा मुच्यते ध्रुवम् ॥ इति च ।
या इष्टका इष्टकादेवताः ।
इष्टकादेवतां विष्णुं षष्ठ्युत्तरशतत्रिकम् । यथावदेव विज्ञाय मुच्यते कर्मबन्धनात् ॥ इति च ।
स जगाम यमं बाƒो ब्रह्मचारी यमस्य तु । पत्न्या सम्पूज्यमानोपि जग्राहार्घ्यादिकं न तु ॥
आगते तु यमे प्राह यमं सोगतमाहर ॥
इति प्रथमब्राह्मणम् ॥

इति द्वितीयब्राह्मणम् ॥

त्रिभिरेत्य सन्धिम् । वेदैरविरुद्धः । वेदोक्तप्रकारेण भगवत्तत्वादिकं जानान्नित्यर्थः । त्रिकर्मकृत् यज्ञदानतपःकर्ता । “यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्’ इति वचनात् ।
“ब्रह्मेति वेद उद्दिष्टस्तस्मात् व्यक्तो यतो हरिः । ब्रह्मजस्तेन कथितस्स एव ज्ञोखिƒज्ञतः ॥’ इति नामनिरुक्ते ।
अनेकरूपां सुवर्णमयीम् । “बहुरूपं च पुरटं कार्तस्वरमितीर्यते’ इत्यभिधानात् ।
“यमोनुवादसन्तुष्टो वह्नेस्तन्नामतामपि । शृङ्कां स्वर्णमयीं चैव कण्ठमाƒामदाद् विभुः ॥’ इति पाद्मे ।
ƒोकादिः प्रतिष्ठा ब्रह्मजज्ञो अनन्तƒोकाप्तिरित्यादिविशेषणैश्च भगवानेव । स्तोममहदुरुगाय प्रतिष्ठामिति परामर्शाच्च । भगवतो ह्युरुगायत्वं प्रसिद्धम् । गुहानिहितत्वं च तस्यैव विशेषतः प्रसिद्धम् । त चाग्निपरिज्ञानमात्रेणानन्तƒोकाप्तिर्भगवज्ज्ञानं विना । “तद्वा एतदक्षरं गार्ग्यविदित्वास्मिं?ल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति’ इत्यादिश्रुतेः । न च मुख्ये सत्यमुख्यार्थो युज्यते ।
इति तृतीयब्राह्मणम् ॥

प्रेते मुक्ते मनुष्ये नियामकत्वेन भगवानस्तीति ज्ञानिनो वदन्ति । नास्तीत्यज्ञाः । तस्य नियामकस्य स्वरूपं यथावदहं विद्याम् ।
“अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः । देहाद्विमुच्यमानस्य किमत्र परिशिष्यते ॥ एतद्वै तत्’ इति परिहाराच्च मुक्ते स्थितो भगवान् पृच्छ्यते इति सिद्धम् । देहाद्विशेषेण मोचनं नाम मुक्तिरेव । मुक्तेरपि मरणात्मकत्वात् मरणमित्यपि भवति । स्थूƒदेहपरित्यागस्तु विस्रंसमानस्येत्यनेनैवोक्तो भवति ।
अग्निस्थं परमात्मानं सामान्याज्जानतोपि तु । अजानतस्तु मुक्तौ च जीवान्तस्थितमीश्वरम् ॥
नियामकं च जीवानां मुक्तानामपि सर्वदा । गुणान् सर्वोत्तमत्वादीनविज्ञाय हरेस्तथा ॥
नैव मुक्तिर्भवेत् तस्मात् कृच्छ्रात् तदवदद्यमः । तस्य गोप्यत्वविज्ञप्त्यै तथाप्यग्निस्थवेदनात् ॥
सुखाधिक्यं भवेन्मुक्तौ तस्मात् तत्पृथगीरितम् ॥ इति तत्त्वसारे ।
“स्थाणुमन्येनुसं?यन्ति यथाकर्म यथा श्रुतम्’ इत्युक्त्वा “य एषु सुप्तेषु जागर्ति कामं कामं पुुरुषो निर्ममाणः’ इति वचनाच्च जीवेषु स्थितो भगवान् पृच्छ्यत इति सिद्धम् । मृतजीवे स्थितो मुक्तजीवे स्थितश्चोभयात्मको भगवान् विवक्षित इत्येतस्माच्चाविरोधः ।
गुह्यं तत्परमं ब्रह्म म्रियमाणं शरीरिणम् । सम्प्राप्तमपि जीवेषु जागर्ति स्वपितेष्वपि ॥ इति ब्रह्माण्डे ।
धारकत्वात् धर्मो भगवान् ।
मरणे स्थितं भगवन्तं मानुप्राक्षीः । महति साम्पराये मुक्तौ ॥
इति चतुर्थब्राह्मणम् ॥
इति प्रथमाध्यायस्य प्रथमा वल्ली ॥

शृङ्कां शृङ्कƒाम् ॥
अन्यो भगवानन्योहमित्यजानन्ननन्यः । तेन प्रोक्ते गतिर्ज्ञानं नास्ति । “प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ’ इति वाक्यशेषात् ।
जीवानां चैव विष्णोश्च यो न वेत्ति भिदां पुमान् । तदनुव्रताय ये केचित्तेषां ज्ञानं न जायते ॥ इति ब्रह्मवैवर्ते ।
आख्यं विष्ण्वाख्यं नित्यं शेवधिरिति जानामि । नित्यमाख्यविष्णुविषयैः द्रव्यैर्मन आदिभिः आख्यनित्यविषयैर्विष्ण्वाख्यनित्यविषयैः द्रव्यैः । नित्यं भगवन्तं प्राप्तवानस्मि । ध्रुवो भगवान् । अध्रुवैस्तद्भक्तिवर्जितैर्न प्राप्यते ॥10॥
क्रतोरानन्त्यहेतुम् । स्तोमैरपि सर्वात्मना प्राप्तुमशक्यम् । स्तोमेभ्योपि महान्तम् । उरुगायमित्युक्तत्वाच्च न जीवविषयोयं प्रश्नः । “शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । शरवत् तन्मयो भवेत् । अभयं तितीर्षतां पारम् । तादृगेव भवति ।’ इत्यादौ सर्वत्र भेदस्यैवोक्तेश्च न जीवाभेदः । नाचिकेतं शकमेसीत्युक्तत्वाच्च नाचिकेताग्निस्थो भगवानेवात्रोच्यत इति सिद्धम् । उरुगायं दृष्ट्वा कामस्याप्तिमत्यस्राक्षीः । न च मृत्वा यमं प्राप्तस्य नचिकेतसो मृतोस्ति नास्ति वेति संशयोस्ति ॥11॥
गह्वरे मुक्तजीवे स्थितम् ॥12॥
प्रवृह्य जीवात् पृथक्कृत्य ।
मुक्तजीवे स्थितं विष्णुं विदित्वा जीवतः पृथक् । मोदते मोदनीयं तं प्राप्य मुक्तस्सदैव च ॥ इति महावाराहे ।
इति पञ्चमब्राह्मणम् ॥

एतद्ध्येवाक्षरं ब्रह्म विष्ण्वाख्यं परमव्ययम् । सर्वस्याƒम्बनं ज्ञात्वा मुच्यते नात्र संशयः ॥ इति च ॥1-3॥
देहोत्पत्तिविनाशाख्यौ ज्ञानिनोप्युद्भवाभवौ । न कुतश्चिद्यतो विष्णुर्जायतेतस्तदीक्षणात् ॥
भावाभावौ न विदुषो यस्माज्जीवो न कश्चन । जायते म्रियते वापि स्वरूपेण कथञ्चन ॥
अजो नित्योविकारश्च जीव पुरमणन्नपि ॥इति च ।
अयं भगवान् कुतोपि न बभूव यस्मादतस्तद्वेत्तापि विपश्चिन्न जायते न म्रियते च । यतः कश्चिज्जीवः स्वतो न बभूव । देहसम्बन्धाद्धि जायते । विपश्चितस्तु देहसम्बन्धाभावान्न जायते न म्रियते च ॥4॥
जीवस्यापि स्वतो मरणाभावादुभौ तौ न विजानीत । एवं नित्यस्य जन्तोर्गुहायां निहितः । विष्णौ क्रतुर्यस्य सोक्रतुस्तन्निश्चयः । आत्मनः सकाशान्महिमानं महामानम् ।
जीवाद् गुणपरिमाणं यस्माद्विष्णोर्महत्तरम् । तस्माज्जीवात् स महिमा विष्णुरित्युच्यते श्रुतौ ॥ इति च ॥6॥
ऐश्वर्यादेव “आसीनो दूरं व्रजति’ इत्यादि ।
आसीनो दूरं व्रजति शयानो याति सर्वतः । ऐश्वर्याद् भगवान् विष्णुर्विरुद्धं घटयत्यसौ ॥ इति च ॥7॥
इति षष्ठब्राह्मणम् ॥
इति प्रथमाध्यायस्य द्वितीया वल्ली ॥

आत्मान्तरात्मेति विभुरेक एव द्विधा स्थितः । स विष्णुः परमे वायौ परेभ्योप्यृद्धरूपके ॥
शुभान् पिबति भोगान् स च्छायेव विदुषां प्रभुः । आतपः पापिनां नित्यं मर्यादा विष्णुयाजिनाम् ॥
संसारस्य च पारस्थस्स विष्णुर्द्विस्वरूपकः ॥1-9॥
देवेभ्य इन्द्रियात्मभ्यो ज्यायांसोर्थाभिमानिनः । सोमवित्तपसूर्याप्या अश्व्ग्नीन्द्रेन्द्रसूनवः ॥
यमो दक्षश्चेन्द्रियेशास्सुपर्णी वारुणी तथा । उमेति चार्थमानिन्यस्तिस्रो द्विद्व्येकदेवताः ॥
मनोभिमानिनो रुद्रवीन्द्रशेषास्त्रयोपि तु । ते श्रेष्ठा अर्थमानिभ्यस्तेभ्यो बुद्धिः सरस्वती ॥
तस्या ब्रह्मा महानात्मा ततोव्यक्ताभिधा रमा । तस्यास्तु पुरुषो विष्णुः पूर्णत्वान्नैव तत्समः ॥
कश्चित् कुतश्चिच्छ्रेष्ठस्तु नास्तीति किमु सा कथा ॥10-12॥
तस्माद्वागात्मिका देवीरुमाद्यास्तु शिवादिषु । शिवादीन् ब्रह्मवाय्वोस्तु नियच्छेत् महदात्मनोः ॥
तौ रमायां परानन्दे तां विष्णौ परमात्मनि । तद्वशत्वेन तद्ध्यानं नियमो नाम नापरः ॥
कुतस्तु मानुषो देवान्नियच्छेद्विनियामकान् ॥ इति च ॥13॥
इति सप्तमब्राह्मणम् ॥

॥1॥ स्वभार्यायाः परत्वं सिद्धमिति महतः परमित्येवोक्तम् ॥2-4॥

इति अष्टमब्राह्मणम् ॥

इति प्रथमाध्यायस्य तृतीया वल्ली ॥

इति प्रथमाध्यायः ॥

*********************************************************************************************************

अथ द्वितीयाध्यायः ॥

“तृणु कात्करणे’ इति धातुः ॥1॥
इदं गुह्यं ब्रह्म प्रवक्ष्यामि । यथा मरणं प्राप्य जीवो भवति तच्च प्रवक्ष्यामि जीवेश्वरभेदज्ञापनाय । यः कर्मफƒभोक्ता सुप्त्यादिमान् स जीवः । यः प्रƒयादिषु जीवेषु सुप्तेषु जागर्ति स विष्णुः परं ब्रह्मेत्यर्थः । न हि जीवस्य योन्यादिगमनं ब्रह्म । जीवाद्भेदेन ज्ञातं हि ब्रह्म यथावज्ज्ञातं भवति । जीवस्यान्तिके । न हि स्वस्य स्वयं जीवोन्तिके भवति । वस्त्वन्तरस्य हि दूरत्वमन्तिकत्वं वा ।
अम्नामभ्यश्च भूतेभ्यस्तपोनाम्नः शिवादपि । पूर्वं यो जनयामास पूर्वजातं चतुर्मुखम् ॥
स्वात्मानं च गुहासंस्थं सर्वभूतैः सहाभिभूः । यः पश्यति सदा विष्णुस्स एष हृदि संस्थितः ॥ इति च ॥
यथा मुखादिन्द्रश्चाग्निश्चेत्यादिना जाता एवेन्द्रादयः कश्यपात् पुनर्जायन्ते न तथा भगवतो ब्रह्मा । किन्त्वजातमेवाद्भ्यः पूर्वमजायत जनयामास । अजायतेति “जज्ञे बहुज्ञम्’ इतिवदन्तर्णीतणिच् ।
अदनादितिर्विष्णुर्यः प्राणसहितः स्थितः । उत्तमो देवताभ्यश्च सोत्मानं विविधात्मना ॥
मत्स्यकूर्मादिरूपेण गुहासंस्थमजीजनत् । भूतैस्सह महाविष्णुः परमात्मा युगे युगे ॥ इति च ।
देवतामयी देवतोत्तमा । प्राणेन सह स्थितो भवति । गुहां प्रविश्य तिष्ठन्तं स्वात्मानं भूतैस्सह विविधं जनयामास ॥7॥
सर्वज्ञो भगवान् विष्णुररण्योर्गुरुशिष्ययोः । सुभृतः स्तूयते नित्यं जानद्भिः पुरुषोत्तमः ॥ इति च ।
अर्यते ण आभ्यामित्यरणी ॥8॥
यः प्रादुर्भावगतो विष्णुर्देहादिषु च संस्थितः । स एव मूƒरूपश्च साक्षान्नारायणाभिधः ॥
मूƒरूपश्च यो विष्णुः प्रादुर्भावादिकश्च यः । गुणतस्स्वरूपतो वापि विशेषं योत्र पश्यति ॥
अत्यल्मपि मृत्वा स तमोन्धं यात्यसंशयम् । भेदाभेदविदश्चात्र तमो यान्ति न संशयः ॥
तथैवावयवानां च गुणानां च परस्परम् । क्रियाणां तेन चैतेषां भेदविच्चोभयं विदः ॥
यान्त्येवान्धन्तमो नात्र कार्या काचिद्विचारणा ॥ इति च ।
भवेदेकत्र संयोग इवशब्दो विरुद्धयोः । धर्मयोरुपमायां वा स्वल्पत्वे वा विवक्षिते ॥ इति शब्दनिर्णये ।
अतो नानेव इतीवशब्दोत्यल्पविषयो भेदाभेदविषयश्च । प्रथमं “य इह नानेव पश्यति’ इति स्वरूपभेदनिषेधार्थम् । “नेह नानास्ति किञ्चन’ इति किञ्चनशब्दादवयवानां गुणानां क्रियाणां च परस्परं तद्वतां च भेदनिषेधार्थम् ॥9-11॥
भेदाभेद एव निषिध्यते न तु भेद इत्याशङ्कां निवर्तयितुं “एवं धर्मान् पृथक् पश्यन्’ इति भगवद्धर्माणामवयवगुणकर्मणां भेददर्शने पृथग् दोषमाह । पर्वतेषु दुर्गे शिखरे वृष्टमधो विधावति । एवं विष्णोर्धर्मान् पृथक् पश्यन्नन्धन्तमो विधावति ॥12-14॥
विजानतो मुनेरात्मा वायुरपि तादृगेव भवति न तु स एव भवति । किम्वन्ये जीवाः ।
सर्वेषां ज्ञानिनामात्मा देवानां च विशेषतः । मुक्तो वायुश्च सादृश्यमेवं विष्णोस्तु गच्छति ॥
न तु तद्रूपतां याति किम्वन्ये देवमानुषाः । आभासाभासरूपास्तु वायोर्देवस्य सर्वशः ॥इति भविष्यत्पर्वणि ॥15॥
इति प्रथमब्राह्मणम् ॥ इति द्वितीयाध्यायस्य प्रथमा वल्ली ॥

इदं पुरः भगवदधीनमित्यधिष्ठायाजस्येदं पुरमिति स्थितिं कृत्वा ।
विमुक्तो निरभीमानात् पूर्वमेवापरोक्षवित् । मुख्यतो मुच्यते पश्चात् दुःखाद्याभासहानतः ॥ इति च ॥1॥

नित्यहीनोखिƒैर्दोषैस्साररूपो यतो हरिः । हंस इत्युच्यते तस्माद्वायुस्थश्शुचिषन्मतः ॥
वरसुर्वसुरित्युक्तस्स एवाप्यन्तरिक्षगः । होता सर्वेन्द्रियादिस्थो वेद्यां पूज्यश्च वेदिषत् ॥
अत्यन्नश्चातिथिः प्रोक्तो यस्मादन्नं थमुच्यते । स द्रोणकƒशे सोमे स्थित उक्तो दुरोणसत् ॥
नृषु स्थितश्च देवेषु वरेष्वपि स एव तु । ऋतरूपे तथा वेदे व्योमाख्यप्रकृतावपि ॥
व्योतं जगदिदं यस्यां सा व्योम श्रीरुदाहृता । अब्जगोजाद्रिजेष्वेवमास्ते सोब्जादिकस्ततः ॥
तथैवर्तेषु मुक्तेषु गतास्ते विष्णुमित्यृताः । वेदैर्मुख्यतया प्रोक्त ऋतमित्येव चोच्यते ॥
बृहत्पूर्णगुणत्वाच्च स एव पुरुषोत्तमः ॥2॥
न केवƒं प्राण एव चेतनानां विधारकः । किन्तु विष्णुं समाश्रित्य प्राणो जीवान् बिभर्त्ययम् ॥
अतो मुख्याश्रयो विष्णुश्चेतनानां स्वतन्त्रतः ॥3-5॥
अग्निर्यथैको ƒोकेषु प्रविष्टोन्यो न विद्यते । पाकादिकर्ताथाप्यस्य देवस्य प्रतिरूपकाः ॥
रूपं रूपं प्रति ह्येते सन्त्यचेतनवह्नयः । एवं देवो वायुरपि धारकोन्यो न विद्यते ॥
रूपं रूपं तथाप्यस्य प्रत्यभूत् प्रतिरूपकः ॥6-9॥
अचेतनः स्पर्शगम्यो योयमेवं जनार्दनः । एकस्स्वतन्त्रो नान्योस्ति सर्वजीवान्तरस्थितः ॥
रूपं रूपं प्रति ह्यस्य प्रतिबिम्बाश्च चेतनाः ॥10॥
बाह्याश्च ते ततो नास्य स्वरूपं ते कथञ्चन । अनादिप्रतिबिम्बाश्च बभूवुस्ते ह्यनन्तकाः ॥
सूर्यो यथान्तरं चक्षुः प्रतिबिम्बोस्य बाह्यकः । बाह्यचक्षुर्गतैर्दोषैरन्तश्चक्षुर्न िƒप्यते ॥
अन्तश्चक्षुर्देवता तु बाह्यचक्षुरचेतनम् । एवं बाह्यस्स्वतन्त्रत्वाज्जीवेभ्यः पुरुषोत्तमः ॥
अस्वतन्त्रस्य जीवस्य दुःखैर्नैव हि िƒप्यते । चेतनाभासको जीवः परमश्चेतनो हरिः ॥
स्वतन्त्रत्वात् स्वतन्त्रो हि नैव दोषेण िƒप्यते ॥ इति महाकौर्मे ॥11॥
स एक एव सर्वभूतान्तरात्मा । तस्य रूपं रूपं प्रतिरूपाख्यो जीवो बभूव । बहिश्चासौ परमात्मनो नितरां भिन्नः । परतन्त्रत्वात् ॥12॥
इति द्वितीयब्राह्मणम् ॥

“आत्मैवेदमग्र आसीत्’ इत्यादिवदनादित्वापेक्षया ।
आत्मनि स्थं हरिं जानन् मुच्यते नात्र संशयः । जीवैक्येन तु तं जानन् तमस्यन्धे पतेद् ध्रुवम् ॥इति च ॥1॥
एतदेव भगवद्रूपं परमं सुखम् । ज्ञानिसुखं तु तद्विप्लुण्मात्रम् ।
ब्रह्मादीनां च मुक्तानां सुखं विष्णुसुखस्य तु । प्रतिबिम्बस्तु विप्लुट्को विष्णोरेव परं सुखम् ॥
सम्यग् भाति न भातीति जानीयां तत्कथं न्वहम् । तत्प्रसादमृते दिव्यमनिर्देश्यं परं सुखम् ॥ इति च महावराहे ॥2॥
इति तृतीयब्राह्मणम् ॥ इति द्वितीयाध्यायस्य द्वितीया वल्ली ॥

सर्वोच्चो भगवान् विष्णुर्मूƒं भूमिवदस्य तु । जगदाख्यस्य वृक्षस्य शाखा देवास्ततोधमाः ॥
वृक्षमूƒं रमादेवी सोश्व आशुगतेर्हरिः । तद्य्वाप्तत्वात् तदन्नत्वादश्वत्थोयं प्रकीर्तितः ॥1-2॥
प्रवाहतस्त्वनादिश्च मुख्यतस्त्वमृतो हरिः । मुख्यामृतस्स एवैको जगन्नित्यं प्रवाहतः ॥
प्राणाख्ये तु हरौ सर्वमेजत्यस्माच्च निस्सृतम् । वज्रवद्भयदं चैव स्वधर्मस्यातिƒङ्घने ॥
जीवे स्थितस्तु भगवान् दृश्यते ज्ञानदृष्टिभिः । आदर्शे मुखवत् सम्यङ् न तथा पितृƒोकगः ॥
ततः किञ्चित् स्पष्टतया गान्धर्वे दृश्यते हरिः । नात्यातपे न च्छायायां यथैवाहनि दृश्यते ॥
स्पष्टं तथा ब्रह्मƒोके दृश्यते पुरुषोत्तमः ॥ इति च ॥3-6॥
पुनः “इन्द्रियेभ्यः परं मनः’ इत्यादि देवतानां तारतम्यज्ञानपूर्वकं भगवतः सर्वोत्तमत्वज्ञान एव सर्ववाक्यानां महातात्पर्यमिति ज्ञापयितुम् ।
तारतम्यपरिज्ञानपूर्वकं सर्वतो हरेः । आधिक्ये सर्ववाक्यानां तात्पर्यं महदिष्यते ॥ इति च ॥7-9॥
प्रादुर्भावानृते विष्णुमिन्द्रियैर्नैव पश्यति । प्रादुर्भावानपि यदा ज्ञानदृष्ट्यैव पश्यति ॥
तदैव मुच्यते योगी न दुष्टैरिन्द्रियैः क्वचित् ॥ इति च ॥10॥
प्रभवाप्ययौ प्रति हि योगः । भगवतस्सकाशात् प्रभवाप्ययौ ॥11-12॥
अधिकस्सतोयं भगवान् सर्वस्मादपि केशवः । अस्तीति नामकस्तस्माज्ज्ञातव्यस्स तथैव च ॥
अनाधिक्यं जानतां तु कथं स उपƒभ्यते । प्रकृतेः पुरुषाणां च तत्त्वं भावयति स्फुटम् ॥
तत्त्वभावस्ततो विष्णुस्तत्प्रसादात् तु तस्य हि । आधिक्यं ज्ञायते सत्तः प्रसादश्च तथाविदः ॥
अनादिकाƒादाधिक्यं सर्वस्माज्जानतो हरेः । पुनः पुनर्वृद्धिमेति तज्ज्ञानं हि भवे भवे ॥
येषामाधिक्यविज्ञानं नैव पूर्वं हरेर्भवेत् । तेषां पश्चाच्च नैव स्यादभिभूतं तु तत् पुनः ॥
व्यञ्जकाद् व्यक्तिमभ्येति तस्मात् तज्ज्ञानमुत्तमम् ॥ इति च ॥13-14॥
अन्तःकरणकामानां त्यागो व्यक्तिश्चिदात्मानाम् । कामानां तु तदा मुक्तो मृतिं नैवाभियास्यति ॥
मिथ्याज्ञानग्रन्थिभिस्तु नितरां मुच्यते यदा । तदामृतत्वमेवैति तदर्थं चानुशासनम् ॥
शरीरभूतो विष्णोस्तु जीवस्तद्वशगो यतः । अधिष्ठितश्च तेनैव विजानीयात् पृथक् ततः ॥
स्वाख्याच्छरीराज्जीवात् तु प्रवृहेद् विष्णुमव्ययम् ॥ इति च ॥
“यस्यात्मा शरीरम् । य आत्मानमन्तरो यमयति’ इति च । “जनानां हृदये’ इत्युक्तत्वाच्च जीवात् पृथग् हरिरिति सिद्धम् ॥15-16॥
देहाङ्गुष्ठमितो देहे जीवाङ्गुष्ठमितो हृदि । जीवस्य स तु विज्ञेयो जीवात् भेदेन मुक्तये ॥ इति च ॥18॥
संसारिशरीरेणाभेदो वादिना केनापि नाङ्गीकृतः । न च ƒोकसिद्धः । जनानामिति भेदात् । न जीवोङ्गुष्ठमात्रः । अतो विष्णोर्जीवाद्भेद उक्तः । अतः सर्वोत्तमो विष्णुरिति सिद्धम् ॥
नमो भगवते तस्मै विष्णवे प्रभविष्णवे । यस्याहमाप्त आप्तेभ्यो यो म आप्ततमः सदा ॥

इति चतुर्थब्राह्मणम् ॥
इति द्वितीयाध्यायस्य तृतीया वल्ली ॥
इति द्वितीयाध्यायः ॥

** इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं काठकोपनिषद्भाष्यम् ॥**

************************************************************************************************************************

]