अथर्वणोपनिषद् मध्व-भाष्यम्

[[अथर्वणोपनिषद् मध्व-भाष्यम् Source: EB]]

[

प्रथमोध्यायः

अर्थवणोपनिषत् भाष्यम् ॥
आनन्दमजरं नित्यमजमक्षयमच्युतम् । अनन्तशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम् ॥
मनोर्वैवस्वतस्यादावथर्वा ब्रह्मणोजनि । मित्रश्च वरुणश्चाथो प्रहेतिर्हेतिरेव च ॥
ब्रह्मणः प्रथमे कल्पे शिवः प्रथमजः स्मृतः । सनकाद्यास्तु वाराहे ब्रह्मा विष्णोः सुतोग्रजः ॥ इति ब्रह्माण्डे ॥
ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः । ता एव परमा विद्या यदा विष्णोस्तु वाचकाः ॥ इति परमसंहितायाम् ।
ऋग्भिर्हौत्रेण शंसन्ति तथौद्गात्रैः स्तुवन्ति ये । विष्णुमेव तथा तस्मै यजुर्भिरपि जुह्वति ॥
स्तुवन्त्यथर्वणैश्चैनं सेतिहासपुराणकैः । न विष्णुसदृशं किञ्चित् परमं वापि मन्वते ॥
सर्वोत्तमं तं जानन्तस्ते हि भागवतोत्तमाः ॥
वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ॥
एतदन्ते च मध्ये च ब्रह्मैवोक्त्वा विजानताम् । ऋगादि पञ्चधा संस्थं शब्दब्रह्म प्रशाम्यति ॥
यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च । स्तुवन्ति सत्यकर्माणं सत्यं सत्येन सामसु ॥
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । इति च भारते ।
चतुर्दश महाविद्यास्थानानि वेदितव्यानि भवन्ति इति मूलƒश्रुतिः ।
पञ्चरात्रमृगाद्याश्च सर्वमेकं पुराभवत् । मूƒलवेद इति ह्याख्या काƒले कृतयुगे तदा ॥
नैवर्क्सामादिनामानि तदा वेदस्य चाभवत् । नैव चेन्द्रादिनामानि विष्णोरन्यत्र कुत्रचित् ॥
ब्रह्मरुद्रेन्द्रपूर्वैस्तु नामभिः प्रोच्यते हरिः । देवतात्वेन चेज्यस्स ब्रह्माद्याः मनुनामकाः ॥
वक्तृत्वेन पितृत्वेन कारित्वेनैव चादरात् । इज्यन्ते देवताः सर्वा न तु देवतया क्वचित् ॥
अनन्ययाजिनस्ते तु तस्मात् कार्तयुगा जनाः । प्राप्नुवन्ति हरिं तं च तस्माद्वेदे न किञ्चन ॥
पारावर्यं हरेर्यस्मादुत्थितास्तुरगाननात् । ऋगाद्या अनुव्याख्यान्तास्तस्मात् सर्वैर्हरिं यजेत् ॥
तस्माद् ब्रह्मादयः सर्वे मनवो मानवास्तथा । यजन्ति सर्ववेदैस्तं जानन्ति च विनिश्चयात् ॥
अशक्तः पञ्चरात्रेण ऋगाद्यैर्वाथ तं यजेत् । ऋगाद्यैरेव स त्रैतैर्भिन्नैरिष्टो जनैर्हरिः ॥
द्वापरीयैर्जनैर्विष्णुः पञ्चरात्रैस्तु केवƒलैः । कलौ तु नाममात्रेण पूज्यन्ते भगवान् हरिः ॥
एको वेदः कृते ह्यासीत् त्रेतायां स त्रिधाभवत् । स एव पञ्चधा जातो द्वापरं प्राप्यं वै युगम् ॥
उत्सन्नः स कलिं प्राप्य वेदः प्रायेण सर्वशः । मुख्यो धर्मः कार्तयुगो वर्तितव्यः कƒलावपि ॥
त्रेतादौ तदशक्त्या हि धर्मोन्यः सम्प्रकीर्तितः । कृते भागवताः सर्वे वेदाश्च पुरुषास्तथा ॥
त्रेतायां भिन्नविषयास्ततस्त्रैविद्यतां गताः । तस्मादेकः सर्ववेदैर्ज्ञेयो विष्णुः सनातनः ॥
पूज्यो यज्ञैः सोपचारैर्ध्येयो वन्द्यश्च सर्वदा ॥ इत्यादि नारायणसंहितायाम् ।
वेदवादाश्चानुयुगं ह्रसन्तीति हि नः श्रुतिः ॥ इति भारते।
वेदैश्च पञ्चरात्रैश्च भक्त्या यज्ञैस्तथैव च । दृश्योहं नान्यथा दृश्यो वर्षकोटिशतैरपि ॥ इत्यादि वाराहे ।
अत्रापि “तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यन्’ इत्यादिना कर्मविषयामपरविद्यामुक्त्वा “येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्’ इत्यारभ्याथर्वणानेव मन्त्रान् परविद्यात्वेनाह । चतुर्वेदसंस्कारवतामेव च विद्यायामधिकार उक्तः “तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्’ इति । शिरोव्रतमित्युपƒक्षणम् ।
स्ववेदव्रतयुक्तस्य सर्ववेदगतास्वपि । अधिकारोस्ति विद्यासु नावेदव्रतिनः क्वचित् ॥ इति व्यासस्मृतौ ॥
एतद्ब्रह्म चतुर्मुखः ॥1॥
तदेतत्सत्यं भगवान् । तत्कामाः कर्माण्याचरथ । तदा सापि परविद्या । अन्यथा “प्ƒवा ह्येते अदृढा यज्ञरूपाः’ भगवद्विषयत्वेन कृते एष वः पुण्यः सुकृतो ब्रह्मƒोकः । परब्रह्मƒोकः ।
निष्कामं ज्ञानपूर्वं तु निवृत्तमिति चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माप्येति सनातनम् ॥ इति व्यासस्मृतिः ।
“स य आत्मानमेव ƒोकमुपास्ते न हास्य कर्म क्षीयते’ इति च श्रुतिः । “सहयज्ञाः प्रजाः सृष्ट्वा’ इत्युक्त्वा
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ इति च ।
“यान्ति मद्याजिनोपि माम्’ इति च ।
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानान्ति तत्त्वेनातश्च्यवन्ति ते ॥ इति च ।
“यस्त्वात्मरति’ इत्युक्त्वापि “कुर्याद्विद्वांस्तथासक्तः’ इत्येवोक्तत्वाच्च ।
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥ इति च ।
“ƒोकेस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ’ इत्युक्तत्वाच्च नाश्रमान्तरविरोधः । त्रेतायां बहुधा सन्ततानि कृते त्वेकप्रकारेणैव सन्ततानि ।
अग्निष्टोमादिभिर्यज्ञैः सर्वदेवस्थितं हरिम् । यजन्ति तांश्च कारित्वाद्वसुस्तस्मात् तथायजत् ॥
पृथक् पृथक् च त्रेतायां यजन्ते देवतागणान् । यथा कृते तथा प्राज्ञास्त्रेतायां बहुधा ततः ॥ इति पाद्मे ।
“यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः’ “यो देवानां देवतमो जनित्रो वायोस्तस्मै सोममेभ्यो जुहोमि’
एवं वायोः पितरं विष्णुमेव यजन्ति देवैः सह ये कृते जनाः । एवं त्रेतायां केचिदन्ये पृथक् तानिष्ट्वा विष्णावर्पयन्ते न चान्यैः ॥
विष्णोः सर्वेभ्यः किञ्चिदुत्तमत्वं जानन्त इमं ƒोकमाविशन्ति । साम्यं हीनत्वं वा जानन्तो हीनतरं तम एवाविशन्ति ॥
देवेभ्यः उत्तमं विष्णुं राजवद्यस्तु मन्यते । याजी स मानुषं याति साम्यहीनत्ववित्तमः ॥ इति च ।
“त्रैविद्या माम्’ इति तु “येप्यन्यदेवता भक्ताः’ “तेपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्’ “अहं हि सर्वयज्ञानां भोक्ता’ इत्युक्तत्वादज्ञानपूर्वयाजिनस्त्रैविद्याः ॥
॥ इति प्रथमः खण्डः ॥

अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका । अक्षरं परमं श्रीस्तु परतः परमक्षरम् ॥
वासुदेवः परानन्दः इति त्रिविधमक्षरम् ॥ इति च ॥2॥
विष्ण्वङ्गानां हि नामानि द्युभ्वादीनि तु सर्वशः । क्रीडादिशक्तिरूपत्वात् तज्जत्वादन्यवस्तुषु ॥ इति च ॥7॥
वासुदेवः पुमान्नामा पूर्णत्वात् स स्वयोषिति । रमायां गर्भमदधात् प्रजास्तस्मात् प्रजज्ञिरे ॥ इति च ॥
सप्तर्चिषो वृत्तयः । होमाः सम्बन्धाः । ƒोकाः गोƒकाः । गुहाशयां बुद्धौ । “ƒोपः समाने’ इति सूत्रादेकयकारƒोपः । प्रतिपुरुषं सप्त सप्त ॥3॥
भगवतः कर्म चेष्टा तपो ज्ञानं च परामृतब्रह्माख्यः पुरुषो भगवानेव ।
यैषा चेष्टा भगवतो यच्च ज्ञां परात्मनः । तत्सर्वं भगवानेव ये च धर्मा बƒादयः ॥ इति च ।
“स्वाभाविकी ज्ञानबƒक्रिया च’ इति श्रुतिः । विज्ञानाद् ब्रह्मणः परम् । “नाभिह्रदादिह सतोम्भसि यस्य पुंसो विज्ञानशक्तिरहमासमनन्तशक्तेः’ इति भागवते ।
प्राणः प्रणयनाद्विष्णुर्वक्तृत्वाद्वागुदीरितः । मनो मन्तृत्वतो विष्णुः सर्वजीवनियामकः ॥

इति शब्दनिर्णये ॥
इति प्रथमोध्यायः ॥

*****************************************************************************

द्वितीयोऽध्यायः

अमृतस्य मुक्तस्य सेतुः । “मुक्तोपसृप्यव्यपदेशात्’ “मुक्तानां परमा गतिः’ इत्यादेः ।
हृदयस्था सदा विष्णुर्बहुधा चैकधा भवेत् । चरति स्वेच्छयैवान्तः सर्वजीवान्नियामयन् ॥ इति प्रवृत्ते ॥6॥
परा अप्यवरा यस्मात् स हि विष्णुः परावरः । ब्रह्माण्डमध्यगो नित्यं तपत्येष रवौ स्थितः ॥ इति च ॥11॥
सूर्यादयस्तं न भासयन्ति ॥13॥
इदं ब्रह्मैव विश्वं पूर्णम् । इदमेव वरिष्ठं सर्वोत्तमम् । इदंशब्दानां बहुत्वाद् ब्रह्मविषय एवेदंशब्दः ॥4॥

इति द्वितीयोऽध्यायः ॥

*********************************************************************

तृतीयोऽध्यायः

स्वादुवत्सर्वदात्ति । न तु स्वाद्वेव । “तस्येदमाहुः पिप्पƒं स्वाद्वग्रे तन्नोन्नशद्यः पितरं न वेद’ इत्यज्ञानां स्वादुनिषेधात् । जीवाद्यमेव नाश्नाति भगवान् । न तु नाश्नात्येव । “तस्येदमाहुः पिप्पƒं स्वादु’ इत्युक्तत्वात् ।
स्वातन्त्र्येणैव भोक्तृत्वाद् दुःखाभोगाच्च सर्वदा । अभोक्ता चैव भोक्ता च भगवान् विष्णुरव्ययः ॥ इति च तत्त्वसारे ॥1॥
नास्तीशोस्या यतोन्यो हि ततोनीशा हरेर्मतिः । तथा मुह्यति जीवस्तमन्यं ज्ञात्वा विमुच्यते ॥
जीवादन्यः स्वतन्त्रोयं यतोतः पुरुषोत्तमः ॥ इति ब्रह्मसारे ।
पुण्यं चानिष्टं विधूय ॥3॥
सत्यो हि भगवान् विष्णुः सद्गुणत्वात् प्रकीर्तितः ।
आसुरास्तद्विरुद्धत्वादनृताः परिकीर्तिताः । तस्य विष्णोर्निधानं तु वैकुण्ठो ƒोक उत्तमः ॥ इति च ॥6॥
सर्वगत्वात् दूरेन्तिके च ।
नान्यैर्देवैर्हरिं पश्येत् ज्ञानरूपेण वायुना । ब्रह्मणा परमज्ञानरूपेण हरिणा तथा ॥
प्रसन्नेनैव तं पश्येदन्येनुज्ञाप्रदायिनः ॥ इति च ।
षोडशकƒाशरीरो न भवतीति निष्कƒः । “यदा पश्यः पश्यते रुग्मवर्णम्’ “आनन्दरूपममृतं यद्विभाति’ इत्युक्तत्वात् ॥5॥

॥ इति तृतीयोऽध्यायः ॥

***********************************************************************

चतुर्थोऽध्यायः

स आत्मज्ञार्चको ब्रह्मणो धाम प्राणं वेद । यत्र विश्वं पूर्णं ब्रह्म निहितम् ।
प्रधानं धाम विष्णोस्तु प्राण एव प्रकीर्तितः । उपायैर्यो विजानीयात् प्राणस्थं परमेश्वरम् ॥
तस्य प्राणे हरिर्नित्यमाविष्टो भवति ध्रुवम् । नित्यं प्राणस्थितस्यैव विष्णोरावेश एव हि ॥
प्राणद्वारेण यज्ज्ञानदीपनं ज्ञानिनः सदा । सन्निधानं यथा प्राप्ताः पिशाचाः पुरुषेष्वपि ॥
तत्र स्थित्वापि भुञ्जन्त आविशेयुः पुनश्च ते । मन्त्रादिभिस्तथा विष्णुः सदा प्राणस्थितोपि सन् ॥
ज्ञानदीप्त्यादिकं कुर्याज्ज्ञानिनः पुनरेव तु ॥ इति च ॥
एतच्छुक्रं प्रत्यन्यदतिवर्तन्ते ॥1॥
सर्वतो देहादेर्मुक्ताः । सर्वगं भगवन्तं प्राप्य तमेवापियन्ति ।
देहादेः सर्वतो मुक्ताः सर्वगं पुरुषोत्तमम् । प्राप्य तस्मिन् प्रविश्याथ मोदन्तेन्तर्बहिस्तथा ॥ इति च ॥
ब्रह्मƒोकेषु स्थित्वा परान्तकाƒे परिमुच्यन्ति ॥6॥
अविरोधश्च सादृश्यमेकदेशस्थितिस्तथा । एकीभावस्त्रिधा प्रोक्तो नैकीभावः स्वरूपयोः ॥
कुतोभूतस्य भवनं स्वरूपस्यैक्यमेव हि । अतो नदीनां जीवानां विरुद्धानां नृणामपि ॥
अब्धिना हरिणा चैव तथैव च नरान्तरैः । एकीभावस्तु संश्ƒेषो विरोधस्य च वर्जनम् ॥
स्वरूपैक्यं कुतस्तेषां नित्यभिन्नस्वरूपिणाम् । हरेरपि स्वरूपाणामेकीभावो यदोच्यते ॥
संश्ƒेष एव सिद्धत्वात् स्वरूपैक्यस्य नो भवः ॥ इति च ।
गताः मुक्ताः । प्राणादिपञ्चदशकƒारूपा देवताः अन्ये च देवाः सर्वे प्रतिदेवतासु देवताप्रतिबिम्बभूतासु प्रजासु प्रति प्रति स्थिताः कर्माणि विज्ञानमयो जीवश्च परमात्मनि प्रविशन्ति ।
प्रतिबिम्बो हरेः प्राणस्तस्य चान्याः कƒाः क्रमात् । कƒानां देवता अन्या देवतानां नरा अपि ॥
तस्मात् सर्वेषु मुक्तेषु नरेष्वपि नियामकाः । तिष्ठन्ति नात्र सन्देहः परमात्मनि चाखिƒाः ॥ इति मुक्तिविवेके ॥
कƒाभ्यश्चान्यदेवेभ्यः कर्म प्रत्यवरं यतः । कƒाभ्यः पृथगुक्तं तत् पुष्करः कर्म चोच्यते ॥ इति च ।
अन्यथा गता भविष्यन्तीत्यध्याहारो दोषः । न च मूƒरूपाणि प्रतिदेवता इत्युच्यन्ते देवानाम् । प्रतिरूपशब्दवद्धइ प्रतिदेवताशब्दः । “विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र’ “इमाः षोडशकƒाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति’ इति “यथा सोम्येमाः समुद्रायणाः’ इति नदीदृष्टान्तपूर्वकं पुरुषप्राप्तिकथनाच्च मुक्ता देवता एवोच्यन्ते । “स प्राणमसृजत’ इत्यादेश्च पुरुषो भगवान् ॥7॥
अगम्यनामरूपत्वादमुक्तैर्मुक्तिगा नराः । विहीननामरूपास्तु न हि तद्रहितत्वतः ॥
अशरीरो यथा वायुः सामान्यागम्यदेहतः । एवं नद्यः समुद्रस्थाः सामान्यागम्यरूपतः ॥ इति च ।
स्वकीयमुदकं नद्यः समुद्रे नैव जानते । वायुस्तु तत्पृथग्ज्ञात्वा मेघे कृत्वा प्रवर्षति ॥ इति च ।
विमुक्त इत्यमुक्त इत्यर्थः । विप्रिय इतिवत् । अविहायेति च । “अनन्तं वै नाम’ इति श्रुतेः ॥8॥
परं ब्रह्म विदित्वा तु बृंहितः स्यात् स्वयोग्यतः । नायोग्यं किञ्चिदाप्नोति कुत एव हरेर्गुणान् ॥ इति च ।
ब्रह्मत्वं बृंहितत्वं स्याज्जीवानां न परात्मता । अस्वतन्त्रस्य जीवस्य कुतो नित्यस्वतन्त्रता ॥ इति स्कान्दे ।
“यत्रामृतः स पुरुषो ह्यव्ययात्मा’ “यत्र तत्सत्यस्य परमं निधानम्’ “अमृतस्यैष सेतुः’ “शरवत् तन्मयो भवेत्’
“ब्रह्म तल्लक्ष्यमुच्यते’ “निरञ्जनः परमं साम्यमुपैति’ इत्यादिना मुक्तस्य सर्वत्र भगवत्सकाशाद्भेदस्यैवोक्तत्वाच्च ।
“मुक्तोपसृप्यव्यपदेशात्’ “जगद्य्वापारवर्जम्’ “प्रकरणादसन्निहितत्वाच्च’ इत्यादिना भगवतापि सर्वत्र भेदस्यैव सूचितत्वात् ।
न ते महित्वमन्वश्नुवन्ति । “सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’
ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते । तद्यत्स्वभावः कैवल्यं स भवान् केवƒो हरे ॥ इत्यादेश्च ।
मुक्तेभ्योपि मनुष्येभ्यो देवा एव गुणाधिकाः । तेभ्यो वायुस्ततो विष्णुः परिपूर्णगुणः सदा ॥
ये त्वेतदन्यथा विद्युस्ते हि यान्त्यधरं तमः । ये त्वेतदेवं जानन्ति ते यान्ति परमं हरिम् ॥ इति च ।
देवानां सन्ततौ जाताः प्रायशो ज्ञानिनः कृते । बƒवद्धेतुतश्चान्ये यस्माद् ब्रह्मविदः सुराः ॥
न सन्ततौ ब्रह्मविदो नराणां ज्ञानिनामिप । प्रायशः स्युः सुराणां च नियमोयं कृते युगे ॥
तस्मात् स भगवान् विष्णुर्ज्ञेयः सर्वोत्तमोत्तमः । सदा सर्वगुणैः पूर्णो योनन्तः पुरुषोत्तमः ॥ इति च ।
प्रीयतां भगवान् मह्यं प्रेष्ठप्रेष्ठतमः सदा । मम नित्यं नमाम्येनं परमोदारसद्गुणम् ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं आथर्वणोपनिषद्भाष्यम् ॥

******************************************************************

]