ऐतरेयोपनिषत् मध्व-भाष्यम् (२)

[[ऐतरेयोपनिषत् मध्व-भाष्यम् (२) Source: EB]]

[

ऐतरेयोपनिषद्भाष्यम्

प्रथमप्रघट्टकः।

न उपलब्धः।

***************************************************************************************

॥ अथ ऐतरेयोपनिषद्भाष्यम् ॥
॥ अथ द्वितीयप्रघट्टकः ॥

प्

रथमोध्यायः ॥

नारायणं निखिƒपूर्णगुणैकदेहं सर्वज्ञमच्युतमपेतसमस्तदोषम् ।
प्राणस्य सर्वचिदचित्परमेश्वरस्य साक्षादधीश्वरमियां शरणं रमेशम् ॥
प्रादुबर्भूव भगवन् तपसेतराया नारायणोब्जजसुतस्य विशाƒनाम्नः ।
तस्मिन् गतेध्वरमभूत् सुरविप्रसङ्घो निश्चेतनस्तदनु पद्मभवोमुमस्तौत् ॥
तेन स्तुतः स भगवान् गिरिशेन्द्रमुख्यान् सर्वानबोधयदजेन सहैव तेथ ।
दासत्वमापुरत एव महत्सुराणां दासत्वतः स महिदास इति प्रसिद्धः ॥
शृण्वत्सु तेषु भगवानवदद्रमायै दिव्यां श्रुतिं स परमोतिमुदैतरेयीम् ।
सा बह्वृचैः प्रपठिता चतुराननास्यात् यस्यां रहस्यमुदितं परमं हि विष्णोः ॥
महाभूतिः श्रुतिः सैषा महाभूतिर्यतो हरिः । विशेषेणात्र कथितः सर्वज्ञः शाश्वतः प्रभुः ॥ इति ऋक्संहितायाम् ।
एष एव सदा पन्था भगवान् पुरुषोत्तमः । नित्यं स्वप्राप्तिहेतुत्वात् कर्तृत्वात् कर्म मातृतः ॥
ब्रह्मैव गुणपूर्णत्वात् सत्यं साधुस्वरूपतः । क्वापि तं विस्मरेन्नैव त्यक्त्वा तं नेतरं व्रजेत् ॥
पूर्वे नैनं तत्यजुर्हि ब्रह्माद्यास्तेन संसृतेः । मुक्ता श्रीश्च तदत्यागान्नित्यमुक्ता गुणाधिका ॥
विहायस्ययनात् प्रोक्ता वयांसीति पिशाचकाः । वर्तितज्ञानतो वङ्गा नरास्तैरवनं सदा ॥
अन्नरूपैर्गृध्नवो हि वङ्गावगधनामकाः । राक्षसा असुरा ईरपादा इति समीरिताः ॥
धर्मो ज्ञानं च वैराग्यमैश्वर्यं चतुरात्मकः । वायुर्देवोत्रासुराणामैश्वर्यं गुण एव हि ॥
ईरपादास्ततः प्रोक्तास्ते त्रयो विष्णुमत्यजन् । पराभूतास्ततस्ते तु तमस्यन्धे निपातिताः ॥
देवाश्च ऋषयो मर्त्यसत्तमा इति च त्रयः । आश्रिता विष्णुमेवैकं त्रिस्थानस्थितमच्युतम् ॥
अग्निस्थमाश्रिता मर्त्याविष्णुमर्काभिधं परम् । आजनैरर्चितत्वात् स ह्यर्क इत्युच्यते हरिः ॥
अग्नौ कर्माणि कृत्वैव मानुषा मुक्तिभागिनः । कर्मभिः शुद्धसत्त्वानां कर्मत्यागोपि नान्यथा ॥
आश्रिताः सूर्यगं विष्णुमृषयो बृहदित्यसौ । तेजसा बृंहणादुक्तो विष्णुरादित्य इत्यपि ॥
आदानात् सर्ववस्तूनां स्वाध्यायेनामुमाश्रिताः । मुच्यन्ते ऋषयो नित्यं नान्यथा तु कथञ्चन ॥
वायुस्थमाश्रिता देवाः पवमानाभिधं हरिम् । संसारात् पावयित्वा यन्महानन्दे मिनोत्ययम् ॥
पवमानस्ततो विष्णुर्व्याप्तः सर्वासु दिक्षु च । आश्रितो भगवान् सर्वैः सर्वत्रापि विशेषतः ॥
आश्रयात् पृथगुक्तोयं नित्यानन्दो रमापतिः ॥1॥

उत्थापनादुक्थनामा स एव पृथिवीस्थितः । प्रथितः पृथिवीनामा सोन्तरिक्षाभिधोत्रगः ॥
अन्तरीक्ष्यो यतो द्युस्थो द्युनामातिप्रकाशनात् । अध्यात्मे च निविष्टोसौ पुरुषाख्यो जनार्दनः ॥
पूर्षु स्थितत्वात् स महान् प्रजानां पतिरेव च । अहमुक्थमिति ह्येतां विद्यामनुभवत्यसौ ॥
पृथक्पृथक्च तस्याङ्गान्युक्थानि जगदीशितुः । अग्निवातदिनेशानामुत्थानानि पृथक् पृथक् ॥
वदनं नासिका नेत्रमित्येतानि परात्मनः । तृचाशीतिविभिन्नस्य शस्त्रस्यान्नत्वहेतुतः ॥
विष्णोस्तृचाशीतिवत् स्यात् प्रसिद्धान्नमिति स्फुटम् । अन्नाभिमानिदेवश्च तृचाशीत्याश्च देवता ॥
सोम एव ततश्चान्नमशीतय इतीरितम् । अदनाघ्राणदृष्ट्याख्यभोगत्रयविभागतः ॥
मुखनासाचक्षुषां तद्भोग्यमन्नं हरेः श्रुतम् । अरणं गमनं यस्मादर्कः शीघ्रगतित्वतः ॥
श्येन एव तदाकारा चितिरर्कपदोदिता । सुपर्णप्रतिमा सा यत्तदारूढो जनार्दनः ॥
तस्मात् तस्यार्क इति सा प्रोच्यते वैदिकैः पदैः । योसौ चितिगतो वीन्द्रः सोग्निवातरविष्वपि ॥
तथा वाक्प्राणचक्षुष्षु तस्मात् तेर्काः प्रकीर्तिताः । तेषु स्थिते सुपर्णे च रूपभेदैः पृथक् पृथक् ॥
स्थितो विष्णुस्तदर्कास्ते तस्मादेव प्रकीर्तिताः । व्याप्तत्वाज्जीवदेहेषु मुखे विष्णोर्मुखं स्मृतम् ॥
नासयोर्नासिका विष्णोरक्ष्णोरेव तदक्षिणी । जीववाक्प्राणचक्षुष्षु तद्वागाद्यास्ततः स्थिताः ॥
विष्णोर्वाग्भार्गवो रामो प्राणोस्य नरकेसरी । चक्षुस्तु कपिƒो विष्णुरग्न्यादीनां च कारणम् ॥
जीववागादिसंस्थं च सुपर्णमधिसंस्थिताः । अविशेषोपि भगवान् पूर्णैश्वर्यस्वरूपतः ॥
अङ्गाङ्गित्वेनैक एव स्वानन्दानुभवे स्थितः । स एव व्यूह्य चात्मानं पृथग्रूप इव स्थितः ॥
सुपर्णनामा भगवान् सुपर्णे च व्यवस्थितः । अग्न्यादिषु च तन्नामा वासुदेवः स संस्थितः ॥
अन्ननामा स एवान्ने चेष्टयन् सर्वमास्थितः । अन्ने स्थितः स एवेशो ह्यन्नदातृगतिप्रदः ॥
तस्यान्तरिक्षगस्यैव नियमादनुपक्षिणः । पतन्ति धावयन्त्यश्वनरादींश्च नरादयः ॥
परस्य विष्णोर्धामत्वात् सूर्यो ब्रध्न इतीरितः । निहितश्चैव तल्लोको नासिकायां नतस्थƒे ॥
पृथिव्यां संस्थितो विष्णुः स्त्रीरूपेण द्युƒोकतः । पतितं सर्वमेवात्ति तथा दिवि च संस्थितः ॥
इतो गतं सर्वमत्ति द्युनामा भगवान् परः । भोग्यत्वादाद्य इत्युक्तः एवमाद्यात्तृरूपवान् ॥
एक एव परो विष्णुरत्तान्यैरुपजीव्यतः । आद्यो भवति चान्येषां नोपजीव्यो भवेद्यथा ॥
हरिः स सर्वजीवानां न भुज्यन्ते यथामुना । सर्वे ƒोकास्तथा कर्तुं नैवेष्टे कश्चन क्वचित् ॥2॥

स एष भगवान् विष्णुः प्रजापतिरितीरितः । तस्माज्जाताः सर्वदेवा ब्रह्माद्यास्तेभ्य एव च ॥
वृष्टिः सञ्जायते तस्याः सर्वा ओषधयोभवन् । ओषधीभ्योन्नमन्नाच्च रेतो रेतस एव च ॥
सर्वाः प्रजाः प्रजायन्ते सङ्कल्पो हृदयाभिधः । प्रजाभ्यो जायते तस्माद् विकल्पाख्यं मनस्तथा ॥
विकल्पाद्वाक्प्रचारश्च वाचा नामादिवेदनात् । कर्म सञ्जायते तस्मात् कर्मणश्च जगत्पुनः ॥
कर्माभिमान्ययं जीवः परस्य ब्रह्मणो हरेः । आवासस्थानमुद्दिष्टो विशेषात् स इरामयः ॥
इच्छानुरूपं तु सुखमिरेत्येव प्रकीर्तितम् । इच्छानन्दप्रभूतत्वात् स एव च हिरण्मयः ॥
हिरुक्सुखं हिरण्यं स्याद् बाह्यानन्दात् पृथग्यतः । आधिक्यार्थे मयड् यस्मादधिकानन्दरूपकः ॥
उत्सृज्य कर्मजं रूपं निजानन्दैकरूपकः । एवं नारायणं जानन् सर्वƒोकैककारणम् ॥
तल्लोके दृश्यते भूतैर्मुक्तैरानन्दरूपकः ॥3॥

तमिमं प्रथमज्ञानिपुरुषं चतुराननम् । वासुदेवाभिधं ब्रह्म प्राप प्रपदयोः पुरा ॥
यस्मात् प्रपेदे भगवान् प्रपदा चतुराननम् । तस्मात् प्रपदनादेव प्रपदं नाम कीर्तितम् ॥
चतुर्मुखाकारवतां नृणां पादतƒोपरि । प्रपदाख्या वर्ततेतो न तु पश्वादिनां क्वचित् ॥
अयादूर्ध्वं ततो विष्णुः प्रपदादूरुमत्र च । स्थित ऊरू च तावास्तामूरूर्ध्वगमनाद्धरेः ॥
किञ्चिदूर्ध्वं ततो गत्वा वायुना सह केशवः । वायुमाहोरुगरणं कुर्वत्र स्थित इत्यपि ॥
उर्वेव गरणं चक्रे वायुर्यत्र स्थितः सदा । तत्स्थानमुदरं नाम पुनराह जनार्दनः ॥
उरु स्थानं निवासं मे कुरु विस्तारसंयुतम् । तथाकरोत् स वायुश्च तदुरोभूदुरुत्वतः ॥
उरोमध्ये च हृदयं तत्रावासो हरेः सदा । सूक्ष्मदृष्टियुता ये तु मुनयः शार्कराक्ष्यकाः ॥
उदरे ते परं ब्रह्म वासुदेवमुपासते । हृत्स्थमेव परं विष्णुं ध्यायन्त्यारुणयः सदा ॥
उदरस्थं च हृद्गं च ते उभे ब्रह्म तत्परम् । एकमेव यतस्तस्मादुभये ह्यपि तद्विदः ॥
तत ऊर्ध्वं गतो विष्णुर्वायुना सह दैवतैः । स्थितो मूर्धनि देवेशः श्रितोसाविति तच्छिरः ॥
तत्र प्राणात्मना वायुर्मनोरूपेण शङ्करः । शेषः सुपर्ण इन्द्रश्च मनांस्येव पृथक् पृथक् ॥
अहम्भावमनो रुद्रः शेषोसौ पाञ्चरात्रकम् । वैदिकं गरुडश्चेन्द्रो यज्ञादिविषयं मनः ॥
श्रोत्रं चन्द्रो रविश्चक्षुर्वागग्निः परिकीर्तितः । एते देवास्तदन्ये च सर्वप्राणिषु संस्थिताः ॥
उपासते महाविष्णुं परमात्मानमच्युतम् । वाचा हिंसामकुर्वंस्ते विनिन्दन्तः परस्परम् ॥
ते विष्णोराज्ञयावोचन्नुत्क्रमाम पृथक् पृथक् । देहादब्जभवस्यास्माद्यस्मिन्नुत्क्रान्त एव हि ॥
शरीरं पद्यते चाग्न्याद्या निष्क्रान्तास्तेषु सर्वशः । निष्क्रान्तेषु न वै पातः शरीरस्याभवत् क्वचित् ॥
वायावुत्क्रान्त एवैतच्छरीरमपतत् क्षितौ । उदासीनवदास्तां तौ केशवश्चाब्जसम्भवः ॥
तेषां बƒपरीक्षार्थं वाय्वादीनां च सर्वशः । पुनस्ते प्राविशन् सर्वे वह्निसूर्यो शशी शिवः ॥
नोत्थानमभवत् तेषु प्रविष्टेष्वपि सर्वशः । वायौ प्रविष्टे तूत्थानं कायस्याशीत् तदैव च ॥
उच्चैः स्थितत्वादुक्थोभूद् वायुरेव ततः प्रभुः । उच्चत्वं च गुणाधिक्यं त्वमुच्चोसीति तेब्रुवन् ॥
भृत्या वयं तवैव स्म त्वमस्माकं पतिः सदा । स्पर्धामहे त्वद्बƒेन त्वया नान्येन केनचित् ॥
इत्यूचुर्वीन्द्रशेषेशशक्रचन्द्रादिकाः पृथक् । वायुः स संस्तुतस्तैश्च प्रसन्नोभूद् दिवौकसाम् ॥4॥

तस्माद् श्रुत्वा परं ब्रह्म देवा नारायणाभिधम् । शिष्यप्रशिष्यादिषु च तेनयन् वायुनोदितम् ॥
वायुमप्यनयन् सर्वे यशसा तद्गुणोक्तितः । ये ये गुणान् विजानन्ति वायोस्तानाविशन् मरुत् ॥
तत्र तत्र प्रविष्टत्वात् प्रततोसौ बभूव ह । प्रततत्वात् प्रातरिति तस्य नामाभवद्विभोः ॥
सङ्गतश्चाभवज्जीवचिता रूपान्तरेण सः । सङ्गतत्वात् सायमिति तद्रूपं नामतोभवत् ॥
वायोस्तत्पुनरध्यात्मं प्राणापानाभिधं द्वयम् । अध्यात्ममग्निर्वागाख्यश्चक्षुः सूर्यः प्रकीर्तितः ॥
यज्ञादिसाधने यत्तु मनश्चन्द्रः प्रकीर्तितः । मित्रो यमश्च वरुणः कुबेरश्च दिगीश्वराः ॥
श्रोत्राभिमानिनः सर्वे वैदिकश्रवणोचितम् । श्रोत्रं चन्द्रस्तथा स्मार्ततान्त्रिकश्रवणोचितम् ॥
यम एव षडङ्गानां विषयश्रवणोचितम् । श्रोत्रं तु वरुणः काम्यशास्त्रार्थं मित्र एव च ॥
श्रोत्रं यन्नीतिशास्त्रार्थं कुबेरश्च प्रकीर्तितः । विष्णुना प्रहितानां हि संयोगोध्यात्ममेव हि ॥
शिवादीनां च सर्वेषां मनस्त्वं कथितं पुरा । एतास्सर्वा देवता हि ब्रह्मवायुसुपर्णकाः ॥
शेषशङ्करशक्राश्च चन्द्रसूर्ययमा अपि । अग्निश्च मित्रावरुणौ कुबेराद्याश्च सर्वशः ॥
अधिदैवं स एवैक आधिक्यात् पुरुषोत्तमः । देवमात्रास्तदन्ये तु स आविः पुरुषोत्तमः ॥
पूर्णज्ञानस्वरूपत्वादेतावत् कथितं भवेत् । तात्पर्यात् सर्ववेदैश्च तज्जानन्नवदन् मुनिः ॥
हिरण्यदन्नाम बैदो भूतेषु हि सुरानृते । मदभीष्टं ममादातुं नैवेष्टे कश्चनाञ्जसा ॥
विष्णुना प्रहितानां हि देवानामहमुत्तमम् । वेद संयोगमाध्यात्मं ततो मुक्तो यथेष्टभुक् ॥
स्यान्नैवात्रास्ति सन्देहः स्वेच्छाविहृतिरेव च । मन्निषेधे न शक्तोस्ति प्रीता देवा हि मे सदा ॥
अधिदैवेन सहिता विष्णुना प्रभविष्णुना । एतद्धि तेन कथितं मुनिना तत्त्ववेदिना ॥
विष्णुप्रहितदेवानां योगमध्यात्ममञ्जसा । वेद तं च नियोक्तारमुपास्ते विष्णुमव्ययम् ॥
एतादृशोपासनाया योग्यः सन् सततं सुधीः । स्वस्वाम्यन्यानि भूतानि हरेयुर्बिƒमस्य हि ॥
मुक्तस्य वैष्णवे ƒोके मुक्तानि च न संशयः । इत्येतद्ध्यानयोगाश्च मुनयो देवतास्तथा ॥
मानुषा ज्ञानमात्रेण स्वावरैः पूज्यतामियुः । मुक्तामुक्तैर्मुक्तियोग्या इति शास्त्रस्य निर्णयः ॥
स एष भगवान् विष्णुः सत्यमित्यभिधीयते । सर्वोत्तमत्वात् पूर्णत्वात् सर्वज्ञत्वात् तथैव च ॥
देवतात्रयमन्यच्च पृथक् सत्यमितीर्यते । शेषवीन्द्रशिवादिभ्य उत्तमत्वात् सदैव हि ॥
वायुः सदिति सम्प्रोक्तो जीवेषु तु सुपूर्णतः । तीति ब्रह्मा समुद्धिष्टः स एवान्नाभिमानवान् ॥
अन्नं प्रजापतिरिति श्रुतिरन्या ह्यभाषत । अतिनादात् सदा वेदैरप्यन्नं स चतुर्मुखः ॥
यमित्यादित्य उद्दिष्टो यमयेद् यत्प्रकाशनात् । देवतात्त्रयमेतत्तु सहितं सत्यमुच्यते ॥
शुक्लकृष्णकनीनासु चक्षुषोप्येत आस्थिताः । एवं सत्यपदार्थं हि विज्ञायोपास्त आदरात् ॥
योग्यस्तस्या उपासाया नैवासत्येन दुष्यति । देवता मुनयश्चैव योग्या अस्या अपि स्फुटम् ॥
मनुष्याणां ज्ञानमात्राद्दोषो नातितरां भवेत् ॥5॥

तस्य नारायणस्यैव सर्ववेदात्मिका हि वाक् । तन्तिरूपा जगद्बन्धे नाम ब्रह्मादिकं च यत् ॥
विप्रक्षत्रियवैश्यादिरूपं चाखिƒमेव तु । दाम तेनैव बध्नाति सकƒं जगदच्युतः ॥
सर्वे हि नामवन्तोत्र सर्वे वेदोदिता अपि । वेदात्मिक्या यतो वाचा विष्णुर्वदति सोखिƒम् ॥
य एतद्विष्णुवाचैव बद्धं नामाख्यदामभिः । ज्ञात्वा जगदुपास्ते तु योग्यः संस्तदुपासने ॥
तं प्रत्येवाखिƒान्येव भूतानि सह दैवतैः । बिƒं हरन्ति पञ्चाथ भूतान्येनं वहन्ति च ॥
योग्यश्चास्या उपासाया योग्यो ब्रह्मपदस्य यः । भूतयुक्ते रथे तस्मात् स तिष्ठति सुरार्चितः ॥
मुक्तः संश्च तदन्येषां ज्ञानमात्राद्विमुक्तिगैः । स्वावरैः सेव्यतैव स्यात् कैश्चिदेव क्वचित् क्वचित् ॥
तथैव वायुना बद्धं जगदेतत् ततोवरम् । सुपर्णशेषगिरिशशक्रसूर्याद्यमञ्जसा ॥
विष्णोर्वायोश्च ƒोमादौ छन्दांस्येवाश्रितानि च । विष्णोर्विमुक्तवायोश्च ƒोमाद्यं तु चिदात्मकम् ॥
ƒोमप्राणादिभेदश्च नैव कश्चिच्चिदात्मनि । छन्नश्छन्दोभिरेवं स केशवस्तेन चाभिधा ॥
छन्दांसीत्येव तेषां हि य एवंविदुपासकः । निवारयन्ति पापेभ्यश्छन्दांसि किमु केशवः ॥
योग्या अस्याश्च विद्यायाः भृग्वाद्या देवतास्तथा । छन्दस्सु संस्थितो विष्णुर्गोपायत्येव तद्विदः ॥
मन्त्रोप्यर्थमिमं प्राहापश्यं गोपामिति स्म ह । एष गोप्ता हि सर्वस्य वायुस्थः पुरुषोत्तमः ॥
छन्दस्सु संस्थितो वायुर्वायौ च स जनार्दनः । वायुश्च वायुसंस्थश्च कदाचिन्नैव तिष्ठतः ॥
वायुर्हि नित्यसञ्चारी सदा सर्वप्रवृत्तिमान् । चोदितः केशवेनैव तत्स्थेनामितशक्तिना ॥
आसमन्तात् पराक्चापि पञ्चभूतेभ्य ईश्वरः । वायुस्तत्स्थो हरिश्चैव चरत्यमितपौरुषः ॥
सध्रीचीनासु पूर्वादिदिक्ष्वेतौ चतसृष्वपि । नित्यदा वसतः कोणदिक्ष्वथासु विषूचिषु ॥
अन्तश्च सर्वƒोकेषु चरतो ƒोकसाक्षिणौ । हस्तयोरेतयोरेव नित्याक्षीणं वसु स्थितम् ॥
तद्ध्यसह्यं बƒं वायोरनन्तं किमु तद्धरेः । वायोराधारभूतस्य ताभ्यां हि ऋतुनामकाः ॥
आवृताः सर्वजीवा हि यथैव कनकावटाः । आच्छाद्यन्ते वित्तवद्भिस्ताभ्यामेवं च चेतनाः ॥
आवृता महदाद्यास्तु देहे तिष्ठन्ति चैतयोः । विष्टब्धाश्चैव सर्वेपि जीवा आकाश एव च ॥
स वायुः प्रकृतिश्चैव विष्टब्धौ केशवेन हि । बृहत्वात् बृहतीत्येव तयोर्नाम प्रकीर्तितम् ॥
वायुकेशवयोः प्राणनाम सर्वप्रणायनात् । विशेषतो बृहत्प्राणो भगवांस्तत्र केशवः ॥
इति विद्यात् ……. ॥6॥

…… तस्य विष्णोरङ्गानामथ वैभवम् । उच्यते तस्य वाचा हि सृष्टावग्निः क्षितिस्तथा ॥
शुश्रूषार्थं तस्य पृथ्वी जनयत्योषधीः प्रभोः । ताः पचत्यग्निरुद्युक्तः आहृता आहृता पुनः ॥
आहरेति वचोस्यापि शृण्वन्त्येव महर्षयः । मुखजत्वात् तयोर्विष्णोर्मुखं जनकमिष्यते ॥
आस्यभोग्यं ततो विष्णोरन्नं तौ कुरुतः सदा । सर्वैर्यद्भुज्यते चान्नं तत्र तत्र स्थितो हरिः ॥
तद्भुङ्क्तेतस्तदर्थं हि तावन्नं कुरुतस्सदा । विष्णोर्वाग्विभवं वेद य उपास्ते च सर्वदा ॥
योग्यः संस्तदुपासायाः स भूम्यग्निसमन्वितः । समं तयोर्व्याप्तिमांश्च तद्वन्मुक्तश्च नित्यदा ॥
अनष्टƒोको वसति समीपे केशवस्य च । योग्या अस्या उपासायाः पृथिव्यग्निपदस्य ये ॥
योग्यास्ते वै मुख्यतया तदन्ये तत्र तौ स्थितौ । तत्र चर्तुं समर्था स्युर्मुक्तिं प्राप्य यदृच्छया ॥
कादाचित्कोपासने तु तावत्येषां च योग्यता । वेदनं ह्यापरोक्ष्येण मुख्यं भवति नान्यथा ॥
एकदेशविदो यस्मात् परोक्षज्ञानिनोखिƒाः । आपरोक्ष्यं भवेद् यस्मान्नैवोपासामृते क्वचित् ॥
तस्मादुपासापूर्वं तु योपरोक्षं प्रपश्यति । स एव वेद नान्यस्तु योग्यस्यैवापरोक्षदृक् ॥
तस्माद्योग्यस्योक्तफƒमन्येषां किञ्चिदेव हि । प्राणादिभ्यश्च वाय्वाद्या एवं विष्णोः प्रजज्ञिरे ॥
ब्रह्मशेषसुपर्णेन्द्रशिवाद्या आप ईरिताः । ते विष्णोर्मनसा जाताः सर्वे चाबभिमानिनः ॥
वैश्वदेव्यस्ततो ह्यापो वरुणश्च मनोभवः । प्राणिनां पूर्तपुण्येषु श्रद्धारूपमनोधिपः ॥
एवं हि सर्वदेवा हि विष्ण्वङ्गेभ्यः प्रजज्ञिरे । स्वोत्पत्त्यङ्गं च ते विष्णोः शुश्रूषन्ते पृथक् पृथक् ॥
विष्णोः विषयधर्मेषु ज्ञानादिषु चतुर्मुखः । श्रद्धां ददाति भूतानां वैदिकश्रवणे विपः ॥
तान्त्रिके शेषरुद्रौ च शक्रो यज्ञादिकर्मणि । वायुर्गन्धवहश्चास्य भक्तिज्ञानप्रदस्तथा ॥
भूतानां तस्य विषये त्वन्तरिक्षं च कर्मणः । तदीयस्यैव भोगार्थं जीवानां श्रुतिचारदम् ॥
अन्तरिक्षं च विघ्नेशः सूर्यस्तत्कर्मसिद्धये । भूतानां ज्योतिषो दाता द्यौरप्यन्नाद्यदायिनी ॥7॥

आप इत्येव देवानां ब्रह्मादीनां कथं भवेत् । नामेत्यपृच्छल्लक्ष्मीस्तं महिदासं जनार्दनम् ॥
आप इत्येव नामैषां भवतीत्याह स प्रभुः । इदं मदाख्यं यद् ब्रह्म ह्याप इत्यभिधीयते ॥
आ पूर्णत्वाद् गुणैः सर्वैस्तन्मूƒमखिƒस्य च । तूƒभूतं तदन्यत् तु पिता ह्येष जनार्दनः ॥
पुत्रा ब्रह्मादयः सर्वे नैवायं वृक्षमूƒवत् । स्वतन्त्रत्वाज्जगन्नाथः पितृत्वात् परमेशितुः ॥
तन्नामापः इति ह्येतद्ब्रह्मरुद्रादिनां भवेत् । यथा यदव इत्येव रघव कुरवस्तथा ॥
पुत्रनाम पितुश्च स्यात् तत्तन्त्रत्वात् सुतस्य हि । यथा पितामहाद्याश्च पितरो नाम कीर्तिताः ॥
तथापि मुख्यया वृत्त्या व्यवहारव्यवस्थितिः । आप इत्येव देवानां सर्वेषां प्रददौ हरिः ॥
स्वकीयमेवमन्यानि पृथक् पृथगदात् प्रभुः । नारायणादिनामानि ददौ नान्यस्य केशवः ॥
एवं स भगवान् विष्णुर्महिदासाभिधः प्रभुः । जानन्नित्योदितज्ञानादाह देवीमिदं वचः ॥
देवपर्यन्तमा व्याप्तिं वेदाहं मम सर्वदा । मत्पर्यन्तं यथा व्याप्तिं देवानामपि सर्वशः ॥
मयि देवास्तेषु चाहमिति विद्धि वरानने । मयैतानि प्रदत्तानि पदानि ब्रह्मपूर्वकाः ॥
अधितिष्ठन्ति सत्ताद्या अप्येतेषां मदाज्ञया । ज्ञानकर्मबƒेहाद्या मद्दता इति किं वदे ॥
सम्भृता मत्त एवैते स एष भगवान् गिरिः । गिरणात् सर्वभूतानां चक्षुर्नामास्य दर्शनात् ॥
सर्वश्रोतृत्वतः श्रोत्रं मनो मन्तृत्वहेतुतः । प्राणनामा प्रणेतृत्वात् तमेनं गुणपूर्तितः ॥
गिरणाच्चाखिƒस्यास्य प्राहुबर्‌रह्मगिरिं प्रभुम् । य एवं वेद तं विष्णुमापरोक्ष्येण शाश्वतम् ॥
गिरत्येवाखिƒं पापं भ्रातृवत् सह संस्थितम् । पराभवति पाप्मास्य द्वेष्टा निरयगः सदा ॥
असनाद्भगवान् सोसुः सर्वस्यापि जनार्दनः । प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ॥
स एष भूतिनामापि ज्ञानैश्वर्यादिभूतिदः । अज्ञानादिप्रदातृत्वात् स एवाभूतिनामकः ॥
सुखज्ञानादिगुणदं पूर्णं सर्वगुणैः प्रभुम् । उपासते तं वाय्वाद्या देवास्तस्माच्च तेखिƒाः ॥
बभूवुः सुखसज्ज्ञानपूर्वैः सर्वगुणैर्युताः । देवानामपि सर्वेषां प्रधानोद्यापि मारुतः ॥
स्थित्वा सुप्तेषु विष्णुं तं भूर्भूरित्येव शंसति । भूःशब्दार्थो भूतिरिति वैपरीत्येन चासुराः ॥
अभूतिकारकोस्माकमैश्वर्यादिगुणोज्झितः । इत्येवोपासते तस्मात् पराभूताश्च सर्वशः ॥
ज्ञानैश्वर्यादिभिर्हीनाः पेतुरन्धे तमस्यथ । य एवं वेद तं विष्णुं भूतिदं भूतिरूपिणम् ॥
भावाभावं च देवानां दैत्यानां चैवमेव तु । ज्ञानैश्वर्यादिभिः सोपि भवेत् तस्य परात्मनः ॥
प्रसादात् तस्य पाप्मा च पराभवति सर्वशः । स एष भगवान् विष्णुर्मृत्युदो मोक्षदस्तथा ॥
स एव जीवनकरो यदापानेन संयुतम् । प्राणं नियमयत्यस्मिंच्छरीरे पुरुषोत्तमः ॥
शरीराद् बहिरेतौ तु यदा निःसारयत्यजः । तदा मृत्युप्रदश्चायं मुक्तानामपि जीवनम् ॥
प्राणादेव हि तत्रापि प्राणाधारो जनार्दनः । अवाक्प्राक्च सदा गच्छेद्वायुरानन्दरूपिणा ॥
अनेनैव गृहीतो हि प्राणोपानेन संयुतः । अनेन हरिणा यस्मान्नियतो न पराग्भवेत् ॥
अमर्त्यस्तत्प्रसादेन वायुर्देहैः सह स्थितः । अनित्या अपि देहास्ते शश्वत् सन्त्याविमोक्षतः ॥
स्थूƒसूक्ष्मविभागेन किमु वायुर्जगत्प्रभुः । नानागती तु तावेतौ वायुः प्राप्नोति केशवम् ॥
शरीरं तु विनष्टं स्यात् पञ्चत्वमुपगच्छति । जडं तज्जडतामेति चेतना वायुदेवता ॥
चेतनेशं हरिं याति विरुद्धगमनी च तौ । ऊर्ध्वं गच्छति देवः स देहोधः पतति क्षितौ ॥
दृश्यमेतच्छरीरं चाप्यदृश्या वायुदेवता । य एवं वेद तं वायुममृतं सर्वनायकम् ॥
पूर्णानन्देन हरिणा गृहीतं तद्वशं सदा । स मुक्तो ƒोकमाप्नोति विष्णोर्मुक्तैश्च दृश्यते ॥ इति च ।
ब्रह्मपन्थाः सत्यं कर्मेति तस्य नारायणस्य वासुदेवाद्याः क्रमेण चतस्रो मूर्तयः । नासिकायां यन्नेत्रयोर्मध्ये विनतमिव किञ्चिन्नतस्थानं तत्सूर्यƒोकस्थानीयं विद्यात् । तथेति निर्णयः । इरामया इति दैर्घ्यमवधारणार्थम् । “दैर्घ्यं प्लुतं च हिङ्कारो बिन्दुरप्यवधारणे’ इति शब्दनिर्णये । ब्रह्मा हैनं ता3 ईते ।
देशतः काƒतोर्थाच्च बƒतो गुणतस्तथा । स्वरूपतोपि नैव स्याद् भेदोत्यल्पोपि यत्र हि ॥
केवƒैश्वर्ययोगेन यत्र सङ्ख्यादिवद्भवेत् । स्वरस्पर्शविभागेन तत्रोक्तिः स्याद् विभक्तिषु ॥
अचिन्त्यात् तु तथैश्वर्यादेकोपि बहुरूपवान् । प्रकाशयेद्यतो विष्णुः सर्वत्राप्यविशेषवान् ॥
न विशेषो हि रूपाणां मत्स्यादीनां कथञ्चन । नैश्वर्ये न बƒे चैव नानन्दादिगुणेष्वपि ॥
इत्यादिशब्दनिर्णयवचनात् । द्विवचनमत्र व्यवहारमात्रमिति दर्शयितुं ता इत्युक्तम् ।
संहितायां यत्र दैर्घ्यं पदे यत्र न विद्यते । उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम् ॥
इत्यतो ब्रह्माहेति दैर्घ्यमपि परब्रह्मत्वविवक्षया । अद उ एव नारायणाख्यमधिदैवतं अन्यानि दैवतमात्राणि । स्थानान्तरेन्येषामप्यधिदैवत्वकथनं कर्मजदेवाद्यपेक्षया । मुख्याधिदैवतं नारायण एव । तस्योष्णिग्ƒोमानीत्यादि ƒोमसूष्णिगित्याद्यर्थे । “सप्तसु प्रथमा’ इति सूत्रात् । सच्छब्दोभिश्छन्न इति वाक्यशेषात् । “ब्राह्मणोस्य मुखमासीत्’ इत्यादिवच्च ।
अङ्गेषु यस्य छन्दांसि देवा ƒोका मखा अपि । तद्वशा नियता नित्यं नमस्तस्मै परात्मने ॥ इति स्कान्दे ।
अस्मै पुण्याय कर्मण इत्येतमुद्दिश्य जीवानां पुण्यकर्म कर्तुम् । तैर्हि स्तुत्यादिकर्माणि कृतानि श्रोत्रेण शृणोति भगवान् । दिग्भ्योप्यन्य एव विशृणोति जीवः । अन्येषां जीवानां श्रवणजं भोगं स्वश्रोत्रेण दिग्भिरननुगृहीतेनैव भगवान् भुङ्क्ते । न च जीववागादिना पृथिव्याग्नादिकं सृष्टमित्यत्र किञ्चिन्मानमस्ति । मुखादिन्द्रश्चाग्निश्चेत्यादिना भगवतः सकाशाद्धि सर्वेषां सृष्टिः प्रसिद्धा । सृष्टिभेदादन्यथावचनम् । न च मुख्यकारणाङ्गीकारेविरोधे औपचारिकं कारणमङ्गीकर्तुं युक्तम् । अतिप्रसङ्गात् । न हि यत्किञ्चित् कारणत्वमस्तीत्येतावता ब्राह्मणस्य चण्डाƒः पितेत्युच्यते । पितृत्वं चात्रोक्तं वाचं पितरमित्यादिना ।
मनुष्याणां तु यत्कर्म न देवोत्पत्तिकारणम् । दैवतैरुपकारस्तु क्रियते नरकर्मणाम् ॥
देवानां कर्मणैवैते जायन्ते सर्वमानुषाः । प्रधानत्वान्न देवानां नृकर्मोत्पत्तिकारणम् ॥ इति च ब्रह्माण्डे ।
आह महिदास ऐतरेय इति तु सर्वस्य वचनस्य तदीयत्वज्ञापनार्थं न तु सन्निहितस्यैव । यथेन्द्रं कुत्स इत्यादि ।
यथा च “पूर्वं तु बादरायणो हेतुव्यपदेशाद्’ इति ॥8॥
॥ इति प्रथमोध्यायः ॥

॥ अथ द्वितीयोध्यायः ॥
एष नारायणो देवो वायुना सहेमं ƒोकमभ्यार्चत् । ब्रह्मादिशरीरेषु प्रविवेश । पुरुष इत्यन्तर्यामिरूपस्याख्या पुरि शेत इति । प्रसिद्धत्वाच्च पञ्चरात्रेषु । य एष सूर्यमण्डƒे स्थित्वा तपति स भगवान् नारायणः । “य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद’ इत्यादिश्रुतिभ्यः । “य एषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’ इत्युक्त्वा “तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी’ इत्युक्तत्वान्न शिवादयः । शिवो हि विरूपाक्षः । प्रसिद्धश्च पुण्डरीकाक्ष इति भगवान्नारायणः । यमादित्यो न वेदेत्युक्तत्वान्नादित्यः । “भेदव्यपदेशाच्चान्यः’ इति भगवद्वचनम् ।
वृत्रं यदिन्द्र शवसावधीरहिमादित् सूर्यं दिव्यारोहयो दृशे । यत्सूर्यस्य हरितः पतन्तीः पुरस्सतीरुपरा एतसे कः ॥
सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतस्सूर्यमारोहयो दिवि । “चन्द्रमा मनसो जातश्चक्षोस्सूर्यो अजायत’ । “यस्सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः’ “उद्वेति प्रसविता जनानां महान् केतुरर्णवः सूर्यस्य ।’ “येनावृतं खं च दिवं महीं च येनादित्यस्तपति तेजसा भ्राजसा च । यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः ।’ “तमेताः पञ्चदेवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योग्निः’ इत्यादौ सूर्यस्य सर्वत्र पराधीनत्वावगतेश्च ।
ध्येयः सदा सवितृमण्डƒमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुण्डƒवान् किरीटी हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥ इति नारसिंहपुराणे ।
तापनी पाचिका चैव शोषणी च प्रकाशनी । नैव राजन् रवेः शक्तिः शक्तिर्नारायणस्य सा ॥ इति पाद्मे ।
यदादित्यगतं तेजो जगत्भासयतेखिƒम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ इति च ।
न च विष्णोरन्याधीनत्वं श्रुतिषूक्तं कुत्रचित् । उत्पत्तिस्तु प्रादुर्भावापेक्षया । “एको नारायण आसीन्न ब्रह्मा न च शङ्करः’ इति महाप्रƒये तस्यैवावस्थानश्रुतेः । “यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’ इति ब्रह्मशिवादीनां देव्यधीनपदप्राप्तिमुक्त्वा तस्या अपि भगवदधीनत्वं “मम योनिरप्स्वं1 तः समुद्रे ततो वितिष्ठे भुवना नु विश्वा परो दिवा पर एना पृथिव्या’ इत्याह ।
“अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ । अहं सुवे पितरमस्य मूर्धन्’ इति ब्रह्मरुद्रयोर्देव्यास्सकाशात् सृष्टिसंहारौ चोक्तौ ।
अस्य देवस्य मील्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥
इत्यादिना विष्णोः प्रसादादेव शिवादीनां पदप्राप्तिकथनाच्च । “तमेताः सप्तक्षितय उपतिष्ठन्ते तद्या इमा अक्षं?ल्लोहिन्यो राजयस्ताभिरेनं रुद्रोन्वायत्तः’ इत्यादिना शिवादीसर्वदेवोपास्यस्य वायोः “अयं वाव शिशुर्योयं मध्यमः प्राणः’ इति मध्यमशब्दोक्तस्य “प्राणः स्थूणा’ इति प्राणशब्दोदितो नारायण आश्रय उक्तः । तस्मात् सवोत्तमो भगवान् नारायणः प्राणशब्दोदित आदित्यमण्डƒस्थस्तपतीत्यादि सिद्धम् ।
क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः । आजानजाः कर्मदेवास्तात्त्विका दक्ष एव च ॥
शक्रश्चोमा च रुद्रश्च भारती वायुरेव च । मुक्ता उक्ताः शतगुणा बƒज्ञानसुखादिभिः ॥
विष्णुभक्त्यादिभिश्चैव गुणैः सर्वै क्रमाधिकाः । तस्माद्रमा ततो विष्णुरनन्तगुणतोधिकः ॥
नित्यमुक्तः स्वतन्त्रश्च न चान्यस्तादृशः क्वचित् । कुत एवाधिकोन्यः स्याद्यन्मुक्ता अपि तद्वशाः ॥
रमापि तद्वशा नित्यं स नान्यस्य वशे प्रभुः । न भेदः शेषशिवयोः सुपर्णः शेषसंमितः ॥
कामः शक्रसमो नित्यं प्रतिबिम्बाश्च ते क्रमात् ॥ इति च महासंहितायाम् ॥
स पुरुषेषु शतवर्षं गत इति शतर्चिनामा । बहुरूपत्वाद् बहुवचनम् । एतमेव तथासन्तं मुख्यत आचक्षते । ऋषींस्तूपचारतः । आत्मन उदरे धृतवान् मध्ये स्थित्वा धृतवांश्च ।
प्राणस्थः प्राणनामासावपानेपाननामकः । नेतृत्वाच्चापनेतृत्वाद्भगवान् पुरुषोत्तमः ॥ इति च ।
वामो भद्रः ॥1॥

वसिष्ठो वसतामुत्तमः । अभ्यपवयत पावयामास संसारात् । तद्विष्ण्वाख्यं ब्रह्म सूक्तान्यवोचतेति सूक्तनामकमभवत् ।बतेत्यास्वादने । स्वात्मनैव स्वयं सुष्टूक्तमिति वा । इदं सर्वं परिपूर्णं सन्नहमल्पप्राणिषु प्रविश्य सूक्ष्मरूपो महाप्राणिषु महारूपश्च भवानीति स भगवानब्रवीत् । तस्मात् क्षुद्रोसानीत्युक्तत्वात् क्षुद्रसूक्तास्ते क्षुद्रप्राणिषु स्थिताः । भगवद्रूपसङ्घाः । महानसानीत्युक्तत्वात् महासूक्ता महाप्राणिषु स्थिताः । सूक्ष्मरूपत्वादेव क्षुद्रनाम भगवतः । न तु सामर्थ्याल्पत्वात् । न हि सामर्थ्यादिगुणेषु कश्चिद्विशेषो भगवद्रूपेषु । एभ्यः प्राणिभ्यो गतवानित्यृक् । गच्छति हि मरणकाƒे । “ब्रह्मणा सम्परीत्यक्तो मृत इत्युच्यते बुधैः’ इति हि भारते ।
म्रियमाणमिमं जीवं वासुदेवादिदेवताः । त्यक्त्वा भागेन गच्छन्ति भागतोनुव्रजन्ति तम् ॥
गतैर्भागैरपि पुनर्विशेयुर्भोगसिद्धये । भोग्यƒोकमनुप्राप्तं तस्मात् स्वप्नवदन्तरा ॥ इति च ॥
“अर्च गतिपूजनयोः’ “ऋ गतौ’ इति धातोः । सर्वेभ्योर्धेभ्यः स्थानेभ्यः शरीरेभ्यो गतवानित्यर्धर्चः । (सर्वाणि भूतान्यपादि । पद गतौ । तस्मात् पदं नाम) अधिकं क्षरतीत्यक्षरम् । क्षरणं नाम सन्ततदानम् । “क्षर विनाशसन्ततदानयोः’ इति धातोः । एवमृषिषु शब्देषु च व्यवह्रियमाणानि सर्वाणि नामानि विष्णोरेव मुख्यतः । किमु देवतानामानि । “यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या’ “इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्’ “यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः’ “नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’ इत्यादि श्रुतिभ्यः । न केवƒमृष्यादीनां नाम भगवतः सर्वे वेदा अपि तस्यैव नामानि । किमु च वेदाः । समुद्रमेधवृक्षपतनभेरीताडनादिसर्वघोषा अपि तस्यैव नामानि यथायोग्यं योजनीयानि । एकमेव व्याहरणम् । एकप्रकारमेव नाम निर्दोषगुणपूर्तिवाचकत्वादेकप्रकारता । प्राणे नारायण एव । नारायणविषय एव व्याहारः । ऋचस्तु विशेषत इन्द्रादिनामवतो विष्णोर्गुणानल्पज्ञानामपि प्रकाशयन्तीति । प्राणे नारायणे एवेति विद्यात् । उक्तं च बृहत्संहितायाम् (व्यवहारः)-
हुंकारेण सहैवाब्धिः सर्वाभिभवशक्तताम् । विष्णोर्वक्ति यतो हुं च हि पराभिभववाचकः ॥
ओमिति स्वरते नित्यं वायुर्मेघेषु संस्थितः । बƒवन्नादसंयुक्तो ह्याधिकोच्चत्वमस्य तु ॥
ॐकारस्यार्थ उद्दिष्ट उक्तार्थाधिक्यमेव च । नादो बली प्रवदति तथा भेरीध्वनिः प्रभोः ॥
अनुदात्तस्वरूपत्वादौदार्यं वदतीशितुः । तदपेक्षयान्यनीचत्वं घण्टाद्याः स्वरितात्मकाः ॥
उच्चस्थितिमुदात्तस्तु स्वर्णचञ्च्वादिषु स्वरः । विष्णोर्वक्ति तथा मन्द्रः श्वासादिः प्रचयात्मकः ॥
एकप्रकारतां विष्णोः सदाचाल्यां वदत्यपि । इत्यादयः सर्वघोषा विष्णोरेव गुणोन्नतिम् ॥
वदन्ति किमु वेदाद्या मार्जाराद्यभिधास्तथा । मारयित्वा प्रभक्ष्यैव जरयत्यखिƒं जगत् ॥
तेन मार्जार उद्दिष्टो मोषणान्मूषको हरिः । वर्षणाद् वृष उद्दिष्टो बƒनाद्बिƒनामकः ॥
तारणात् तृणनामासावित्याद्येकोभिधीयते । सर्वनामापि भगवान् सर्वशक्तिश्च सर्ववित् ॥
ब्रह्मरुद्रादिजीवेभ्यो जडेभ्यः श्रिय एव तु । व्यतिरिक्तः सदानन्तसान्द्रानन्दैकरूपकः ॥
तस्यैव मुख्यनामानि समाकृष्येतरेष्वपि । उपचारात् प्रवर्तन्ते व्यवहारप्रसिद्धये ॥
तथैव सर्वनामानि प्रवर्तन्ते च मारुते । न तावन्मुख्यवृत्त्यैव मुख्यतोन्यव्यपेक्षया ॥
मुख्यतः सर्वनामा तु विष्णुरेको न चापरः । तस्मात् प्राणादिशब्दाश्च विष्णावेव हि मुख्यतः ॥
अन्यव्यपेक्षया वायौ मुख्यवृत्तिर्विधीयते । वायुश्च सूर्यसंस्थः संस्तपत्येतज्जगत्त्रयम् ॥
आज्ञयैव हरेर्वायोः शक्त्या सूर्यस्तपत्ययम् ॥ इत्यादि च ।
न प्रसिद्धसूर्यस्येयं तापनशक्तिरिति ज्ञापयितुं प्राणो ह्येष य एष तपतीत्युक्तम् । “प्राणाद्वा एष उदेति प्राणेस्तमेति’ इति श्रुतिः । प्राणशब्दश्च मुख्यतो विष्णौ प्रवर्तमानोपि वायावपि वर्तते । अतः सर्ववेदाद्यभिधेयत्वं वायोरप्यस्ति । “प्राणस्य प्राणः’ इति श्रुतेरुभयोपि प्राणशब्दः प्रसिद्ध एव । “अयं वाव शिशुर्योयं मध्यमः प्राणः’ इति वायोर्विशेषणादुत्तमप्राणो विष्णुरिति च सिद्धम् ।
द्वावात्मानौ हि वेदेषु द्वौ प्राणौ द्वौ च चेतनौ । अज्ञानाभिभवास्पृष्टौ वायुर्नारायणश्च तौ ॥
तदन्ये चेतनास्सर्वे प्राणाश्चात्मान एव च । अज्ञानाभिभवस्पृष्टास्तस्मात् ते ह्यधमाः श्रुताः ॥
मध्यमो वायुरेवैक उत्तमः केवƒो हरिः । सर्वशब्दोदितौ तस्मादेतौ द्वावेव नापरः ॥
अन्ये चैव मितैः शब्दैरुच्यन्ते नामितैः क्वचित् । श्रीरप्यखिƒशब्दोक्ता विष्णुवन्न तु मुख्यतः ॥
तस्मादमितनामानावपि तौ मितनामवत् । श्रीश्च वायुश्च विष्णुस्तु मुख्योक्तेरमिताभिधः ॥
अनन्तनामकत्वाच्च सोनन्तगुण ईरितः । पृथङ्नामानि यस्मात् तद्गुणानेव प्रचक्षते ॥ इत्यादि ब्रह्माण्डे ॥2॥

अन्यदेवताविषयत्वेन प्रतीयमाना अप्यृचो भगवद्विषया एव मुख्यतः । तदनन्तरं वायुविषयाश्च । तस्माद् बृहतीसहस्रं सर्वं मुख्यतो नारायणस्यान्नं तदाज्ञया वायोश्च । तस्मात् तच्छंसनेन भगवान् वायुश्चातिप्रीयेत इति दर्शयति- विश्वामित्रं ह्येतदहः शंसिष्यन्तमित्यादिना ॥
वृत्रं हत्वा पुरेन्द्रस्तु महेन्द्रत्वाभिपत्तये । महाव्रतं कर्म चक्रे हौत्रं चक्रेत्र कौशिकः ॥
भृगुरध्वर्युरभवत् ब्रह्म ब्रह्माभवत् स्वयम् । उद्गाता वायुरभवत् स्वयं नारायणः प्रभुः ॥
सादस्यमकरोत् तत्र तदन्येन्येपि चर्त्विजः । बृहतीसहस्रं शंसिष्यन् यदा सस्मार केशवम् ॥
वायुना सह देवेशस्तदा वासवमाविशत् । आविष्टो विष्णुनाथेन्द्रो वायुना सह कौशिकम् ॥
शंसेत्युक्त्वा निषण्णोभूदिदमन्नं तवेति सः । ऋक्सहस्रं शशंसाथ यज्ञाङ्गत्वेन भक्तितः ॥
तत् श्रुत्वा तुष्टिमगमत् केशवो वायुसंयुतः । द्वितीयवारं शंसेति प्राह तं च जनार्दनः ॥
प्रीत्यैव शक्रमाविष्टो विश्वामित्रः शशंस तत् । अतिप्रियत्वाद् भगवान् पुनरप्याह कौशिकम् ॥
तृतीयं च शशंसास्मै विष्णोरन्नं प्रकल्प्य तत् । ततोतितुष्टो भगवान् ददामि वरमित्यमुम् ॥
ऊचे स प्रथमे त्वेव निजसाƒोक्यमीश्वरः । प्रादाद् द्वितीये सामीप्यं तृतीये पुनरेव च ॥
वरं ददानीत्युक्तः सन् मुनिः प्राह जनार्दनम् । सम्यक्त्वामेव जानीयामिति मोक्षे सुखोच्चताम् ॥
इच्छन् तं प्राह भगवानिन्द्रस्थो वायुसंयुतः । सर्वनामाहमस्म्येक इति ज्ञानं ममोत्तमम् ॥
यस्मात् सर्वगुणत्वं स्यात् सर्वनामत्व एव तु । न हि दोषाभिधायीति विष्णोर्नामानि कानिचित् ॥
अदोषत्वान्महाविष्णोर्न सामान्यवचांस्यपि । सर्वोत्तमगुणात्मत्वात् सदा नारायणस्य हि ॥
सर्वोत्तमगुणानेव नामान्याचक्षते हरेः । यावज्ज्ञानेन मोक्षः स्यात् तावज्ज्ञात्वापि कौशिकः ॥
अधिकज्ञानƒब्ध्यर्थं मोक्षेधिकसुखाप्तये । जानीयां त्वामिति प्राह तस्मा आह स केशवः ॥
इन्द्राविष्टः प्राणनाम तथान्याश्चाभिधाः प्रभुः । प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ॥
अहेयत्वादहंनामास्म्यसनान्मिनुतेरपि । ततो वेत्तीति च त्वं स पूर्णत्वात् सर्वनामकः ॥
सर्वाणि बहुरूपत्वात् सर्वरूपेषु पूर्तितः । प्रभूतत्वाद् भूतनामा सर्वरूपप्रभूततः ॥
बहुरूपः स भूतानीत्युक्तो विष्णुस्सनातनः । सर्वैश्वर्यस्वरूपत्वादेष इत्यभिधीयते ॥
स एव सूर्यसंस्थः सन् ƒोकं तपति केशवः । सर्वनामवतस्तस्य ममान्नं मित्रमुच्यते ॥
अन्नाभिमानिनी साक्षाच्छ्रीरेव प्रमदोत्तमा । सान्नमित्युच्यते विष्णोर्भोग्यत्वान्मित्रमेव च ॥
दक्षभागस्थितेनत्वाद् दक्षिणं नाम सोच्यते । तस्या इनो हि विष्णुः स दक्षभागे स्थितः सदा ॥
यस्याभिमानिन्यन्नस्य ƒक्ष्मीः सा देवतोत्तमा । वैश्वामित्रं तदन्नं तु ऋक्सहस्रात्मकं मतम् ॥
विश्वामित्रेण दृष्टत्वाद् वैश्वामित्रमितीर्यते । इन्द्राविष्टः कोयमिति शङ्कां परिहरन् हरिः ॥
आदित्यसंस्थितो विष्णुस्तपन्नस्मीति चोचिवान् । त्वां जानीयामिति प्रश्नं विश्वामित्रस्य कुर्वतः ॥
अभिप्रायद्वयं ह्यस्ति शक्राविष्टो न चापरः । हरेरिति तु मे तर्कस्तेजोबाहुल्यतोजनि ॥
तस्य तर्कस्य सत्यत्वं ज्ञातव्यं प्रथमं मया । द्वितीयं यदि विष्णुः स्याज्ज्ञातव्यो मे विशेषतः ॥
इत्यभिप्रायमस्यैव ज्ञात्वा विष्णुः सनातनः । अभिप्रायद्वयस्यापि परिहारं हरिर्ददौ ॥
प्राणो वा अहमित्यादि नामसन्दर्भमुक्तवान् । विशेषज्ञानसिद्ध्यर्थं नाम्नोक्तिः परात्मनः ॥
इन्द्रविष्टः कोयमिति शङ्कानुत्यर्थमेव च । तपन्नेवास्मीत्यवदत् तपन्तं वेद सोपि हि ॥
नारायणं सूर्यगतं गायत्र्योपासको हि सः ॥ इति ब्रह्माण्डे ।
उपनिषण्णमिन्द्रं दृष्ट्वापि त्वामेव जानीयामिति वरस्वीकारादिन्द्रादेव चेन्द्राविष्टो भगवानत्रोक्त इति ज्ञायते । इन्द्रं तु जानात्येव हि विश्वामित्रः । भगवन्तमपि स्वरूपत आगतं जानात्येव । विशेषज्ञानप्रार्थने प्राणो वा अहमस्म्यृष इत्यादिकमेव पूर्यते । एष तपन्नेवास्मीति व्यर्थम् । प्राणो ह्येष य एष तपतीत्युक्तत्वात् । स एतेन रूपेण सर्वा दिशो विष्टोस्मीत्यादिनाप्याविष्टस्य विष्णुत्वं किञ्चिज्ज्ञायते । तथाप्येतेनेति तृतीयात्वात् करणत्वाशङ्का भवति । तस्य म इति वैयधिकरण्यमिति च । अतो भगवन्नामानि पृथगुक्त्वाहं विष्णुरित्येव तपन्नेवास्मीत्युवाच । इन्द्रशरीरमेव पश्यतो विश्वामित्रस्य तर्कमात्रतो भगवानिति किञ्चिज्जानत इति ज्ञायते । न चेन्द्रस्य प्राणशब्दः सर्वशब्दाभिधेयत्वं च विद्यते । “अजस्य नाभावध्येकमर्पितम्’ इत्युक्तस्य पद्मनाभस्य हि “यो देवानां नामधा एक एव’ इति सर्वदेवाभिधानत्वमुक्तम् । इन्द्रे हीन्द्रशब्दोपि न मुख्यतो वर्तते । परमैश्वर्याभावात् । इन्द्रशब्दोपि विष्णावेव वर्तते । स हि परमेश्वरः । “यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः’ इति श्रुतेश्च । “इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्’ इत्यादिश्रुतेश्च । “सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’ इत्यादिना विष्णुरेव हि अत्र प्रस्तुतः ।
नामानि विश्वाभि न सन्ति ƒोके यदाविरासीदनृतस्य सर्वम् । नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ॥
इति श्रुतिः । यो देवानां नामधा एक एवेत्यवधारणान्नान्यस्य सर्वनामत्वम् । स च विष्णोर्नान्यः । पद्मनाभत्वादेव । श्रियो वायोरपि न नारायणादिनामवत्वम् । “एको वासुदेवस्तत्सदृशपरौ न स्तः’ इति श्रुतिः । “एको नारायणस्तत्समो वाधिको वा नास्ति’ इति च । “येनावृतं खं च दिवं च महीं च येनादित्यस्तपति तेजसा भ्राजसा च । यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः’ इत्युक्तस्य समुद्रशायिन एव नारायणस्य “तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’ इति परब्रह्मत्वावधारणाच्च विष्णोः परं सदृशं वा नास्त्येव । अतस्तदत्रोच्यत इत्यपि न वक्तव्यम् ।
परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप ॥ इत्यादेश्च ।
नकिरिन्द्र त्वदुत्तरो न ज्यायान् अस्ति वृत्रहन् । नकिरेवा यथा त्वम् … ।
इत्याद्यपि सर्वनामकत्वात् तस्यैव । “किमेकं दैवतं ƒोके किं वाप्येकं परायणम्’ इत्यादिप्रश्नस्यापि
परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्म परमं यः परायणम् ॥
पवित्राणां पवित्रं यो मङ्गƒानां मङ्गƒम् । दैवतं देवतानां च भूतानां योव्ययः पिता ॥
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रƒयं यान्ति पुनरेव युगक्षये ॥
तस्य ƒोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रम्……. ॥
इत्येव भारते परिहाराच्च । मेन्नं दक्षिणमित्युक्तत्वाच्च विष्णुरेवेति ज्ञायते । स हि विष्णुर्दक्षिणामित्र उक्तो हरिवंशेषु धन्याश्चर्यपर्वणि ।
दक्षिणाभिः सहैवैतन्मदधस्ताज्जगत्सदा । धन्याश्यर्योहमेवैको मित्रं मे दक्षिणा रमा ॥
इत्यवादीद्धरिर्भूपा धन्योसीत्युदितो मया ॥ इति नारदवचनम् । न च बृहतीसहस्राभिमानिनीं देवीं विना चेतनमात्रस्य मुख्यमित्रत्वं युज्यते ।
मिनोति त्रायते चेति मित्रमित्यभिधीयते । तस्माद्योयं विजानाति स मित्रं तस्य नान्यथा ॥ इति भारते ।
उक्थायुत्वाच्च विष्णुरेवात्रोक्त इत्यवगम्यते । बृहतीसहस्रं ह्युक्थनामकं मुख्यतः ।
महाव्रतनियुक्तं यदृक्सहस्रं हरेः प्रियम् । तदुक्थमिति सम्प्रोक्तं तेने यो विष्णुरेव हि ॥
तस्मादुक्थायुरित्युक्त ऐश्वर्यादिन्द्र उच्यते । तस्मादुक्थायुरिन्द्रेति विष्णुर्यज्ञेषु पूज्यते ॥ इति गारुडे ।
विष्णुर्ह्युक्थायुरिन्द्र इत्युच्यते । यज्ञेष्वन्य इन्द्रः पृथक्चोच्यते । “यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः’ इत्युक्त्वा “तस्मै त्वा तेभ्यस्त्वा’ इति भेदवचनाच्च । सत्य इति वायुः । “सदिति प्राण’ इति श्रुतेः ।
सदेव सत्यमित्युक्तं सत्यो वायुरुदाहृतः । साधुत्वं सत्यता प्रोक्ता साधुर्वायुहि सर्वतः ॥ इति शब्दनिर्णये ।
प्रियधाम्न उप समीपे गमनं नाम तद्धामप्राप्तिकारणभगवत्प्रसादप्राप्तिः । अन्यथोपशब्दो व्यर्थः स्यात् । न च तदैव भगवतः प्रियं धाम विश्वामित्रेण प्राप्तम् ।
बृहतीसहस्रे प्रथमे साƒोक्यं प्रददौ हरिः । द्वितीये स्वपुरप्राप्तिं तृतीयेन्तःपुरस्य च ॥
तथा स्वविषयं ज्ञानं विश्वामित्रे ददौ प्रभुः ॥ इति च गारुडे ।
न चेन्द्रादिभिरैक्यमत्रोच्यते । “प्राणस्तथानुगमाद्’ इति च विष्णोरेव प्राणशब्दाभिधेयत्वमुक्त्वा “न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्’ इति वक्तुः बृहतीसहस्रं शंसितुर्विश्वामित्रस्येन्द्रेण स्वात्मोपदेशः क्रियत इति पक्षो निराकृतो हि भगवता सूत्रेषु । अध्यात्मसम्बन्धशब्देनावेशो विष्णोरिन्द्रे विवक्षितो भगवता । अन्येष्वन्तर्यामिरूपेण सम्बन्धोस्त्येव । अस्मिन्निन्द्रे तु विशेषावेशस्तात्कािƒकः । अधिकात्मनः परमात्मनः सम्बन्धोध्यात्मसम्बन्धः । न हि स्वात्मना स्वस्य सम्बन्धो भवति । यद्यध्यात्ममात्रमत्रोच्यत इति विवक्षितं तर्ह्यध्यात्मभूमेत्येव स्यात् सम्बन्धशब्दो व्यर्थः । तस्मादिन्द्रादिजीवेभ्यो विष्णोर्भेद एवात्र भगवतो विवक्षितः । “शास्त्रदृष्ट्या तूपदेशो वामदेववत्’ इति शास्तुरन्तर्यामिणो विष्णोः सर्वशरीरस्थितत्वात् सर्वनामाभिधेयत्वं चोक्तम् । अहं मनुरभवं सूर्यश्चेत्यादिवत् । न हि मनुसूर्यादिर्भवति वामदेवस्तेषां पक्षेपि । सर्वप्रवृत्तिहीनतां हि ते मोक्षं वदन्ति । अत्र चाहं भूमिमददामार्याय इत्यादिना प्रवृत्तिरेवोच्यते । न च वामदेवेन मन्वादिकर्म क्रियते कदापि । अतीतार्थश्चायं दृश्यते भूमिमददामित्यादिना । न हि पूर्वं वामदेवेन तानि कर्माणि कृतानि । भगवान् विष्णुर्हीन्द्राय भूमिमददात् । स एव च सर्वेष्वन्तर्यामित्वेन स्थित्वा नामप्रवृत्तिनिमित्तानि सर्वकर्माणि कुर्वन्नवबोधसूरिनियमनादिभिर्मनुसूर्यादिसर्वनामा भवति । यदि भेदस्य पूर्वमेव मिथ्यात्वमङ्गीक्रियते तर्हि भूमिदानादिसर्वकर्मणां मन्वादित्वस्यापि मिथ्यात्वदहं मनुरभवमित्यादिकं सर्वमनर्थकमेव भवति ।
जीवेश्वरभिदा चैव जीवभेदः परस्परम् । जडेश्वरभिदा चैव जडभेदस्तथैव च ॥
जडजीवभिदा चैव सत्योयं भेदपञ्चकः । न कदाचिन्निवर्त्योयं मुक्तौ संसार एव च ॥
य एतदन्यथा ब्रूयुस्ते हि यान्त्यधरं तमः ॥ इति भविष्यत्पर्वणि ।
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । ईश्वरोहमहं भोगी सिद्धोहं बƒवान् सुखी ॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोल्पबुद्धयः । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ इत्यादि च ।
न च प्राणो वा अहमस्मृष इत्यादावहमस्म्यादिशब्दोस्मच्छब्दार्थस्थः । एष तपन्नेवास्मीत्युपरितनस्य वैयर्थ्यात् । प्राणो ह्येष य एष तपतीत्युक्तत्वात् । अतोहमस्मीत्यादि च भगवन्नामैव । न च जीवैक्यवचनमत्र प्रस्तुतम् । ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एवेति सर्वनामाभिधेयत्वं भगवत उक्त्वा तत्रैव प्रमाणत्वेन विश्वामित्रं ह्येतदहरित्याद्याख्ययिकोक्ता । तस्मात् सर्वान्तर्यामित्वात् सर्वगुणत्वात् सर्वशक्तित्वाच्च सर्वनामवत्वमेव विष्णोरुच्यते न तु सर्वस्वरूपत्वम् । उक्तं च भारते ।
स्रष्टृत्वाच्चैव पातृत्वान्नियमाच्च प्रकाशनात् । सर्वत्वमुक्तं विष्णोस्तु न तु सर्वस्वरूपतः ॥ इति ।
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमिति पुरुषेणैवेदं सर्वं व्याप्तं यद्भूतं यच्च भव्यम् ,आ तृणादाकरीषात् सर्वं भगवानिति मिथ्यादृष्टिरेवेति च श्रुतिः । हिरण्मयो ह वा अमुष्मिंल्लोके सम्भवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद अमृतो ह वा अमुष्मिंल्लोके सम्भवत्यमृतः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्राम्यामुष्मिन् सर्मे ƒोके सर्वान् कामान् आप्त्वा अमृतः समभवत् समभवत् इत्यादिना मुक्तानामपि भेदस्यैवोक्तेश्च । न हि भेदाभावे भूतेभ्यो ददृश इति युज्यते । न चामुक्तैः सर्वभूतैर्मुक्तो दृश्यते । एकत्वे तु ददृश इत्येतावता पूर्यते सर्वेभ्यो भूतेभ्य इति व्यर्थम् । न च तेषां पक्षे स्वयमपि स्वात्मानं पश्यति । कर्तृकर्मविरोध इति ते वदन्ति । अतः सर्वश्रुतिविरोध एव जीवेश्वरैक्याङ्गीकारे । न च कर्तृकर्मविरोधो नामास्तीत्यत्र किञ्चिन्मानम् । श्रुत्यनुभवसिद्धत्वाच्च स्वदर्शनादेः । न च तेषां पक्षे प्रज्ञेन सर्वज्ञेन परमात्मना सर्वकामावाप्तिर्नामाङ्गीक्रियते शरीरादुत्क्रान्तस्य ज्ञानिनः । तस्माद् वेदविरुद्धवादिन एव तेपि । न च शून्यवादिन कश्चिद्विशेषो दृश्यते । न हि सर्वावाच्यं सर्वाज्ञेयं शून्यं चेति कश्चिद्विशेषः । केनापि शब्देनावाच्यस्य ƒक्षणायामपि प्रमाणं नास्ति । क्षीरमाधुर्यादयोपि तैरेव शब्दैरुच्यन्ते ।
विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्षणकम् । गुडस्य पनसादीनां निर्हारीत्यभिधीयते ॥ इति शब्दनिर्णये ।
न च सर्वगुणदोषक्रियाविनिर्मुक्तस्यास्तित्वमपि कुत्रचित् दृष्टम् । अतः शून्यवादिन एव तेपि । “अस्तीत्येवोपƒब्धस्य तत्त्वाभावः प्रसीदति’ इत्यादिना प्रसादादिगुणाश्च भगवतो दृश्यन्ते । “यस्य ब्रह्म च क्षत्रं च चोभे भवत ओदनः’ इत्यादिना कर्माणि च । “तस्मिन् देवाः श्रिताः सर्वे’ इत्यादिगुणाश्च तत्रैवोक्ताः ।
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदध्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥
इति मुक्तानामपि तारतम्यं चोक्तम् ।
श्रुत्वा विष्णुं कर्णफƒं प्राप्तत्वात् कर्णसंयुताः । अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्ताश्च ये गणाः ॥
तारतम्यं च तेषां हि श्रुतावुदितमञ्जसा । क्षीरसागरदध्नास्तु केचित् तिष्ठन्ति मुक्तिगाः ॥
उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डƒम् । ऐरे ह्रदे केचिदपि देवा एव परं हरिम् ॥
नागभोगशयं मुक्ता ददृश्रेधिकमोदिनः । सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हि ॥ इति ब्रह्मसारे ।
यत्र ब्रह्मा पवमान छन्दस्यां 3 वाचं वदन् । ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परिस्रव ॥
यत्र ज्योतिरजस्रं यस्मिंल्लोके स्वर्हितम् । तस्मिन् मां धेहि पवमानामृते ƒोके अक्षित इन्द्रायेन्दो परिस्रव ॥
यत्र राजा वैवस्वतो यत्रावरोधनं दिवः । यत्रामूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥
यत्रास्तु कामं चरणं त्रिनाके त्रिदिवे दिवः । ƒोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥
इत्यादिना ब्रह्मसूर्ययमादीनां सर्वदेवानां दिवोदेव्या अवरोधभूतानां सर्वदेवानां गङ्गाद्यब्देवतानां च वेदव्याख्यानं सोमयागादिकं कामचरणं च मुक्तानां भेदेनावस्थितानामुच्यते । मुक्ताश्चात्रोच्यन्त इति प्रतीयते । अमृतं कृधीति वचनात् । अमुक्तानां स्वे स्वे ƒोकेवस्थानं हि तेषाम् । मुक्तानां हि विष्णुƒोकेवस्थानं देवानाम् । “मुक्तः प्रतिज्ञानात्’ “सङ्कल्पादेव च तत् श्रुतेः’ “जगद्य्वापारवर्जम्’ “भोगमात्रसाम्यिƒङ्गाच्च’ “अनावृत्तिः शब्दात् अनावृत्तिः शब्दात्’ इत्यादि मुक्तसूत्रेभ्यश्च मुक्तानां विष्णोर्भेदो भोगादिकं च सर्वं प्रतीयते । ग्राव्णा सोमे महीयते इति ब्रह्मणोन्यमुक्तैः पूज्यत्वं च प्रतीयते । न च सूत्रेषु निश्चितार्थस्यौपचारिकत्वं वक्तुं युज्यते । निर्णयात्मकत्वात् तेषाम् । अतिप्रसङ्गश्चोपचारादिकल्पने । “ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः’ इति हि विनिश्चितानि ब्रह्मसूत्राणि ।
बहुनात्र किमुक्तेन यावच्छ्वेतं न गच्छति । योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः ॥ इति आदित्यपुराणे ।
न च निर्णयकानि भगवद्वाक्यान्यपहाय मानुषवाक्यैरेव तेषामुपचारत्वादि कल्प्यम् । न च भोगरहिता मुक्तिर्नामान्यास्तीत्यत्र किञ्चिन्मानम् ।
भुञ्जते पुरुषं प्राप्य यथा देवग्रहादयः । तथा मुक्तावुत्तमायां विष्णुमाविश्य भुञ्जते ॥
विष्णोर्वशाश्च ते सर्वे सर्वदा दुःखवर्जिताः । न तु विष्णुगुणान् सर्वे भुञ्जते ते कदाचन ॥
बाह्यभोगान् भुञ्जते च तारतम्येन कांश्चन । विष्णोर्देहाद् बहिश्चापि निर्गच्छन्ति यथेष्टतः ॥ इति स्कान्दे ।
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेपि नोपजायन्ते प्रƒये न व्यथन्ति च ॥ इति भगवद्वचनम् ।
तस्मात् मुक्तैरपीज्मानः सर्वस्माद् भिन्नः सर्वोत्तमः सर्वनामा सर्वशक्तिः सर्वगुणसम्पूर्णो नारायणः सर्ववेदादिषूच्यते इति सिद्धम् ॥3॥

यावतीभिर्ऋग्भिः शंसिताभिः षटिं्त्रशत्सहस्राण्यक्षराणि भवन्ति । यस्मात् कस्मादपि छन्दसस्तावत्यः शंसनीयास्तदा सम्पादितं बृहतीसहस्रं भवति । तत्र या व्यञ्जनाभिमानिदेवता सैव सर्वप्राणिनां शरीराभिमानिदेवता स्वायम्भुवो मनुः । घोषाभिमानिदेवता सर्वजीवाभिमानी ब्रह्मा । ऊष्माभिमानी वायुः ।
व्यञ्जनानां शरीरस्य चाभिमानी मनुः स्मृतः । घोषाणां सर्वजीवानामभिमानी चतुर्मुखः ॥
ऊष्माभिमानी वायुश्च प्रतिपाद्यो जनार्दनः । एतेषामधिपं विष्णुं बृहत्युक्थस्य देवताम् ॥
उपास्यैव वसिष्ठोभूद् वसिष्ठः शक्र एव च । एतां विद्यां कौशिकाय भरद्वाजाय चादरात् ॥
एतद्विद्याबƒेनैव विद्याधीशेन बन्धुना । यज्ञेष्वाहूयते नित्यमिन्द्रो विष्णुप्रसादतः ॥
षटिं्त्रशद्रूपवान् विष्णुर्व्यञ्जनेषु च संस्थितः । तान्येव विष्णुरूपाणि रात्रीनामपि देवताः ॥
एकैकं च सहस्रं तद्य्वञ्जनेषु च रात्रिषु । रूपं विष्णोः स्थितं व्यूह्य षटिं्त्रशतिसहस्रधा ॥
षटिं्त्रशतिसहस्राणि स्वरगाणि हरेरपि । तान्येवाह्नां दैवतानि रूपाणि परमात्मनः ॥
द्वासप्ततिसहस्राणि रूपाण्येवं रमापतेः । शताब्दानामहोरात्रदैवतान्युत्तमानि च ॥
बृहतीसहस्रवर्णानामपि ध्यात्वाखिƒान्यपि । शतवर्षहरिध्यानफƒमाप्नोति पूरूषः ॥
एवं ज्ञात्वापि सम्पाद्य बृहतीनां सहस्रकम् । ज्ञानान्नारायणस्यैव प्रकृष्टज्ञानसन्ततेः ॥
स एव मे मयो विष्णुः प्रकृष्टज्ञानरूपकः । प्राधान्यं मयशब्दोयं वक्ति विष्णोः सदैव हि ॥
प्रधानोस्य हरिर्यस्मात् प्रज्ञारूपोधिदेवता । ब्रह्मामृतं च तेनायं ब्रह्मादिमय उच्यते ॥
सर्वोत्तमस्वरूपत्वाद्विष्णुरुक्तः स देवता । ब्रह्म पूर्णगुणत्वाच्च नित्यत्वादमृतं तथा ॥
एतादृशं तु यो विष्णुं प्रधानं वेत्ति सर्वदा । प्रज्ञादिभिर्गुणैः स्वस्मात् परेभ्यश्च सदाधिकम् ॥
प्रज्ञादेवब्रह्मामृतमयः स परिकीर्तितः । प्रज्ञादिमय एवं स भूत्वा देवान् क्रमेण च ॥
एति मारुतपर्यन्तान्मारुतेन च केशवम् । सम्पादनाच्च विद्यायाः अस्याः परत एव च ॥
द्वासप्ततिसहस्राणि रूपाणि हि रमापतेः । बृहतीसहस्रसंस्थानि स्वरव्यञ्जनभेदतः ॥
तान्येव पुरुषस्यापि यस्मात् पुरुषसंस्थितम् । बृहतीसहस्रं तच्छंस्यं व्यज्यते न ह्यृते नरम् ॥
द्वासप्ततिसहस्राणि तान्येवाहर्निशासु च । विष्णुरूपाणि सूर्येपि त्वहोरात्रं हि सूर्यगम् ॥
तस्माद्योयमहं नामा सदाहेयत्वहेतुतः । स एवासौ सूर्यसंस्थः साक्षान्नारायणः प्रभुः ॥
योसौ सूर्यगतो विष्णुः सोहेयो भास्करादिभिः । एवं मनुष्यजीवेषु सूर्यादिषु च संस्थितः ॥
एक एव परो विष्णुरिति जीवसमीपगम् । ईक्षेन्नारायणं देवं सर्वजीवेश्वरेश्वरम् ॥ इत्यैतरेयसंहितायाम् ।
सम्पन्नस्य परस्तादेवानन्तरमेव । न पुनः कर्मान्तरेण शरीरारम्भ एवंविदो भवति । प्रज्ञामयो देवतामय इत्यादिपृथक् पृथङ्मयशब्दोनिरुद्धादिचतुर्मूतीनामपि परस्परसाम्येन सर्वजीवेभ्य आधिक्यं ज्ञातव्यमिति दर्शयितुम् ।
अन्तर्यामिस्वरूपेण ज्ञापयन्ननिरुद्धकः । प्रज्ञेत्युक्तो द्योतनाच्च प्रद्युम्नो देवतोदितः ॥
अमं करोति यच्छास्त्रमृतं स्वस्मिन् पुनः पुनः । सङ्कर्षणोमृतं तस्माद् वासुदेवस्तु बृंहणात् ॥
जीवानां मुक्तिदानेन ब्रह्मेति कथितः प्रभुः । एवमेकोपि भगवांश्चतुर्धा समुदीरितः ॥ इत्यादि चातुरात्म्ये ।
सम्भूयेत्यत्र समित्युपसर्गात् बृहतीसहस्रसम्पादनानन्तरं भगवदाधिक्यं पुनराधिक्येन ज्ञायत इत्युक्तं भवति । भगवदाधिक्यमधिकं ज्ञात्वा देवता अपि क्रमेण प्राप्नोति ।
द्वासप्ततिसहस्राणां रूपाणां पर्युपासनात् । आधिक्यं ज्ञायते विष्णोर्नितरां हि पुनः पुनः ॥
प्राप्नोति देवताश्चैव केशवान्ताः क्रमेण तु । योग्या अस्याश्च विद्यायाः देवा ऋषय एव च ॥ इत्यादि सत्तत्त्वे ।
बृहतीसहस्रस्थितानि विष्णुरूपाणि पुरुषे स्थितानि पुरुषैरहेयत्वादहंनामकानि तान्येव सूर्ये स्थितानि यान्येव सूर्ये स्थितानि तान्यपि सूर्यादिभिरहेयत्वादहंनामकानि तदेवोक्तं नारायणाख्यं परं ब्रह्मैव सर्वदा उप समीप ईक्षेत । नात्र जीवेश्वराभेदो विवक्षितः । उप समीपे ईक्षेतेति समीपे दर्शनवचनात् । न च निरर्थकत्वमुपसर्गस्याङ्गीकर्तुं युक्तम् । न ह्यार्षेषु वेदादिषु व्याकरणनिरुक्तादिषु चोपसर्गाणां वैयर्थ्यमङ्गीकृतं कुत्रचित् । उक्तं च भगवता व्यासेन-
नानर्थकः स्वरो वापि वर्णो वा कुत्रचिद् भवेत् । पदं वाक्यं कुतश्च स्यान्नाल्पार्थमपि कुत्रचित् ॥
उच्चाराद्यर्थमपि वा नास्ति किञ्चित् स्वरादिकम् । महार्थमेव सर्वं हि वेदे वा वैदिकेपि वा ॥ इति ।
सुकरं च सर्वपदानामनर्थकत्वकल्पनम् । यैश्च वाक्यैरर्थवत्वं प्रतीयते तेषामप्यनर्थकत्वमेव स्याद् विशेषाभावात् । न च मानुषवाक्येन वेदपदानामानर्थक्यं कल्प्यम् । जीवेश्वरैक्यङ्गीकारे योहं सोसावित्येव पूर्यते पुनर्योसौ सोहमिति व्यर्थम् । न ह्यस्य तेनैक्ये तस्यानेन भेदशङ्का भवति । अस्य तस्येति भेदाङ्गीकारे नाभेदो मुख्यः । किन्तु तदधीनत्वमेवान्यस्य भवति स्नेहविशेषो वा । चैत्रो मैत्रो मैत्रश्चैत्र इतिवत् । तत्र ह्युभयस्नेहापेक्षया पुनर्वचनं युज्यते । अभ्यासत्वे ह्येकप्रकारेण प्रयोगो दृष्टः । अत्र हि प्रयोगद्वैविध्यं दृश्यते ।
एकप्रकारा बहुशो वागभ्यास इतीरितः । अर्थान्तरार्था द्विविधा प्रयुक्तेति हि निर्णयः ॥ इति गारुडे ।
अहंशब्दस्याहेयत्वाङ्गीकारे नराहेयत्वं सुराहेयत्वं चोच्यते इति च वैयर्थ्यम् । “अः इति ब्रह्म तत्रागतमहमिति न वा अहमिमं विजानाति तस्योपनिषदहम्’ इत्यादौ विष्णोरेवाहेयत्वेनहंनामकत्वप्रसिद्धेः । अहंशब्दस्यास्मच्छब्दार्थकत्वेहमिमं न जानातीति न युज्यते । तस्य भूरिति शिरो भुव इति बाहू इत्यादिनाक्षिसंस्थो भगवानेव ह्यहंशब्दोदितः । न हि जीवस्याक्षिणि पृथक् शिरोबाह्वादिकं विद्यते । हृदि स्थितमेव हि तस्य स्वरूपम् । जागरितेप्यक्ष्यादिषु विशेषसन्निहितं भवति दीपप्रकाशवत् । “अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि’ “गुणाद्वाƒोकवत्’ इति च सूत्रात् । “आदित्ये हिरण्मयः पुरुषस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी’ इत्यादि सूर्ये स्थितस्य विष्णो रूपमुक्त्वाक्षिस्थितस्यिा तस्यैतस्य तदेव रूपमिति कथनाच्च । “स एष एवैतस्मादर्वाञ्चो ƒोकास्तेषां चेष्टे’ इत्यादि ƒोकाधिपत्यकथनाच्च । न हि कश्चिद् भिक्षुकः पाताƒाद्यधिपतिरित्यत्र किञ्चिन्मानम् । तस्माद् भगवानेवाहेयत्वादहं नामा । “चक्षुर्मित्रस्य वरुणस्याग्नेः’ “जगतस्तस्थुषश्चात्मा’ इत्यादि जीवेभ्यो भेददर्शनाच्च ।
यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति कथ्यते ॥ इति भारते ।
देवता अपि एति प्राप्नोतीत्येव चार्थः । ƒयश्चेद्देवतास्वप्येतीति स्यात् । न च विनाशः पुरुषार्थः । मयट्शब्दस्य भगवत्प्राधान्यार्थत्वानङ्गीकारे सम्भूय देवता अप्येतीति ल्यप् न युज्यते । उपासनायास्तु सम्पन्नस्य परस्तादीत्युक्तत्वात् पूर्वमेव सिद्धिः ।
सर्वस्माद्भिन्नमीशेशं जीवाभेदेन यः स्मरेत् । स यात्यन्धतमो घोरं नित्यातिशयदुःखदम् ॥
सर्वोत्तमं तु यो विष्णुं भिन्नं जानाति सर्वतः । नित्यानन्दमसौ याति वासुदेवप्रसादतः ॥ इति चैतरेयसंहितायाम् ।
अतः सर्वव्यतिरिक्तः सर्वोत्तमः सर्वगुणसम्पूर्णो नारायण इति सिद्धम् ।
सर्वप्रमाणसिद्धत्वं वक्तुमध्यायमूƒतः । अध्यायान्ते द्विरुक्तिः स्यात् पूर्वोक्तस्यावधारणे ॥ इति शब्दनिर्णये ॥
॥ इति द्वितीयोध्यायः ॥

॥ अथ तृतीयोध्यायः ॥
योसौ नारायणो देवः परमात्मा सनातनः । नित्याततगुणत्वात् स आत्मेत्युक्तः सदा श्रुतौ ॥
नारायणादिरूपेण पञ्चधावस्थितः सदा । सर्वस्योत्थापकत्वात् स उक्थमित्यभिधीयते ॥
बृहतीसहस्ररूपे च स उक्थे पञ्चधा स्थितः । पञ्चभेदं हि तच्छस्त्रं तृचाशीतित्रयं च यत् ॥
पूर्वापरं तृचीशीत्य इति पञ्चात्मकं हि तत् । प्रथमे पञ्चकाद्भागे स्थितो नारायणः स्वयम् ॥
ऋक्त्रयाशीतिके पूर्वे गायत्रीच्छन्दआत्मके । वासुदेवः स्थितो नित्यमृगशीतित्रये तथा ॥
द्वितीये बृहतीच्छन्दस्यसौ सङ्कर्षणः स्थितः । यस्यावेशबƒेनैव जीवः सङ्कर्षणोपरः ॥
पृथिवीं बिभर्ति सततं तत्प्रसादात्तवैभवः । तृतीयायां तृचाशीत्यामुष्णिक्छन्दसि केशवः ॥
प्रद्युम्नरूपी सततं स्थितो यस्यैव सन्निधेः । कामः प्रद्युमन्नामाभूत् तत्प्रसादात्तवैभवः ॥
उक्थस्यैवान्त्यभागे तु सोनिरुद्धो हरिः स्थितः । कामपुत्रोनिरुद्धाख्यं यदावेशेन ƒब्धवान् ॥
एवं पञ्चात्मकं विष्णुं बृहत्युक्थस्य देवताम् । यो वेद सम्यग्वेत्ता स तानि रूपाणि वै हरेः ॥
स्थितानि पञ्चभूतेषु पृथिव्याद्यभिधानि च । तदावेशात् पृथिव्यादिनाम भूतेषु पञ्चसु ॥
पृथुत्वात् पृथिवीनामा भूमौ नारायणः स्थितः । बƒज्ञानस्वरूपत्वाद् वायुनामा स एव च ॥
वायौ सङ्कर्षणो नित्यं स्थित आकाशनामकः । व्याप्तत्वाद्वासुदेवस्तु सदाकाशे स्थितः प्रभुः ॥
अनिरुद्धस्तथैवाप्सु बहुरूपो व्यवस्थितः । अम्नामा पाƒनान्नित्यं प्रद्युम्नो ज्योतिषि स्थितः ॥
ज्योतिर्नामा द्योतनाच्च बहुरूपः पृथक् पृथक् । यद्यप्यस्य हरेः सर्वरूपाण्यप्यखिƒैर्गुणैः ॥
पूर्णान्यथापि चैकैकरूपेषु स पृथग्गणैः । व्यवहारान्पृथग्देवः करोतीव हि ƒीƒया ॥
तस्मात् पृथगिवास्येति नाम विष्णोः परात्मनः । सर्वत्र सर्वनाम्नोपि व्यवहारार्थमीर्यते ॥
एतस्माद्धि हरेर्नित्यं जगदुत्तिष्ठति प्रभोः । मुक्तौ ƒये च तं याति स च सर्वाश्रयः प्रभुः ॥
य एवं वेत्ति तं विष्णुमुपास्य चापरोक्षतः । स मुक्तः समजातीनामाश्रयश्च भविष्यति ॥
स्वजातीनामुत्तमत्वपदयोग्या हि ये सुराः । ब्रह्मेन्द्राद्यास्ते हि योग्याः साक्षादस्मिन्नुपासने ॥
अन्येषां ज्ञानमात्रेण योग्यमाधिक्यमाप्यते । सङ्कर्षणश्च प्रद्युम्नस्तत्र भोक्तृषु संस्थितौ ॥
भोक्तृशक्तिप्रदौ नित्यं भोक्तारौ च विशेषतः । नारायणानिरुद्धौ तौ भोग्यवस्तुषु संस्थितौ ॥
तर्पकौ सर्वƒोकानां तस्माद्भोग्यौ न चर्व्यतः । अवकाशप्रदो नित्यं वासुदेवो नभःस्थितः ॥
एवं पञ्चात्मकं विष्णुं य उपास्ते सदैव च । अवकाशप्रदः सोपि स्वजातीनां भविष्यति ॥
भोक्ता चाप्यायकश्चैव तस्य विष्णोः प्रसादतः । ब्रह्मेन्द्राद्याः स्वजातीयपदयोग्या अमुष्य च ॥
योग्या उपासनस्य स्युस्तदन्ये ज्ञानमात्रके । सङ्कर्षणश्च प्रद्युम्नो जङ्गमेषु व्यवस्थितौ ॥
नारायणानिरुद्धौ तु स्थावरान्तर्गतौ प्रभू । तत्राप्याकाशगो नित्यं वासुदेवो निरञ्जनः ॥
प्राणानां भरणान्नित्यं प्राणभृन्नाम तद्धरेः । न ह्यन्यः प्राणभर्तास्ति तमृते पुरुषोत्तमम् ॥
ओषणाच्च निधानाच्च स एवौषधिनामकः । वननीयपतित्वाच्च स एव हि वनस्पतिः ॥
अन्ने स्थित्वा तृप्तिदत्वं तस्याद्यत्वमपीष्यते । पुरुषस्य हरेर्ये तु सदाकारेण संस्थिताः ॥
देवगन्धर्वमर्त्याद्यास्तेषु सङ्कर्षणो हरिः । प्रद्युम्नश्च स्थितो नित्यं पुरुषाकृतिरेव तु ॥
तौ भोक्तारौ च भोग्यानां भोजकावखिƒस्य च । नारायणानिरुद्धौ तु तथान्यपशुषु स्थितौ ॥
वृषभाश्वादिरूपेण तृप्तिदावखिƒस्य च । वाहनोपानहादीनामारोढारो नरादयः ॥
यतः सङ्कर्षणश्चैव प्रद्युम्नस्तेषु संस्थितौ । ततस्तयोर्हि सञ्चार उपरीव भविष्यति ॥
आकाशगो वासुदेवः पञ्चमोत्राप्युपास्यते । वाहनादियुतो मुक्तौ भवेदेतदुपासकः ॥ इत्यैतरेयसंहितायाम् ।
आत्मशब्दाच्च न भूतमात्रमत्रोच्यते । न च मुख्यार्थं परित्यज्योपचारार्थोङ्गीकर्तव्यो विरोधाभावे । सर्वनामवत्वं च भगवतः श्रुत्यैवोपपादितं पूर्वत्र । वप नीरोमकरणावकाशप्रदानबीजवर्धनेषु इति च धातुः । तस्मिन् पञ्चके योन्नमन्नादं च वेद सोस्मिन् स्वजातियूथे विशेषेणान्नाद आजायते ह । तस्मिन् वेद अस्मिन्नाजायत इति पृथक् पृथक् पुनः पुनर्विशेषणादुपासकस्य स्वजातिसन्निधानाच्च स्वजाताविति ज्ञायते ।
क्षीराब्धिशयनं विष्णो रूपं यत्पुरुषाभिधम् । सङ्कर्षणश्च प्रद्युम्नस्तदाकारौ नृषु स्थितौ ॥
नारायणानिरुद्धौ तु पश्वाकारौ पशुस्थितौ ॥ इति सत्तत्त्वे ।
गुणवैशेष्याभावेन वहनादिषु चरणमात्रादधीव चरन्तीत्यादाविवशब्दः ॥1॥

आविर्भावं तारतम्याद्यो वेद परमात्मनः । स तस्यैव विशेषेण प्रीतियोगाद् भविष्यति ॥
स्थावरं जङ्गमं चैव भूयस्त्वेनाश्रुते हरिः । आविर्भूतस्तेषु सदा सम्यक्स्वात्मानमेव च ॥
तारतम्यात् सन्निहितं सर्वभूतेषु केशवः । वेत्त्येक एव विष्णोर्यद्विशेषावेशनं सदा ॥
जङ्गमेषु च वृक्षेषु नैव तादृक्शिƒादिषु । तस्माद् वृक्षादिषु रसश्चित्तं चƒनवत्सु च ॥
दृश्यते न शिƒाद्येषु सन्निधिर्न हि तादृशी । शिƒाद्येषु स्थितो विष्णुर्भारदार्ढ्यादिकारणम् ॥
नैव चित्तादिकस्यातो वृक्षाद्या उत्तमास्ततः । विशेषोयं पदार्थानां न तु विष्णोः कदाचन ॥
यत्र विष्णुर्गुणाधिक्यं दर्शयेद् वस्तु तद्वरम् । गुणपूर्णो हि सर्वत्र स्वयं विष्णुः सनातनः ॥
वृक्षेभ्योप्यधिकं विष्णुर्जङ्गमेषु प्रकाशितः । तेभ्योपि पुरुषे विष्णुर्गुणाधिक्यप्रकाशकः ॥ इत्यादि च ।
य आत्मानं परमात्मानमाविस्तरां आविर्भावतारतम्येन वेद स तस्य विष्णोरेव । सर्वेषां तदीयत्वेपि प्रियत्वात् तदीयत्वविशेषणम् । ओषधिवनस्पतयो यच्च किञ्च प्राणभृत् तत्सर्वं शिƒादिभ्यो भूयस्त्वेन तेष्वाविर्भूतोश्रुते भगवान् । स एव च नारायणः सम्यक् स्वात्मानमाविस्तरां वेद । अन चेष्टायामिति धातोश्चेष्टावत्त्वमेव प्राणभृत्त्वं पश्वादीनां ज्ञानानुसारेण ह्युत्पत्तयः सम्भवाः ॥2॥

योस्मिन् पुरुषे पश्वादिभ्य आधिक्येन सन्निहितो भगवान् स एष पुरुषः समुद्रः समुद्रिक्तोन्येभ्यः । स जीवो यद्यपि भगवत्प्रसादात् सर्वƒोकाधिपो भवति सर्वƒोकानतीत्य यत्किञ्चिदƒौकिकं मोक्षाख्यमप्यश्नुते तथापि तमेनमात्मशब्देन प्रस्तुतं विष्णुमत्येव मन्यतेधिकमेव मन्यते स्वात्मनः सर्वस्माच्च मुक्तोपि न तेन साम्यं तद्भावं वा मन्यते । “कृष्णो मुक्तैरिज्यते वीतमोहैः’ “मुक्तानां परमा गतिः’ “अमृतस्यैष सेतुः’ इत्यादिवाक्याच्च । यद्यपि देवƒोकाधिपत्यं तद्योग्यस्य विष्णुर्ददाति तदप्यश्नुवीतैव । बहुगणिकादिपरिवाररूपमशुचीदं पदमित्यादिबुद्ध्या नापह्नवीत । एनं भगवन्तमतिमन्येतैव सर्वथा स्वतः सर्वस्माच्चाधिकमेव मन्येत । यद्यमुं ƒोकमश्नुते प्राप्नोति अश्नुवीत भुञ्जीत । पृथिवीƒोकाधिपत्येपि विष्णोराधिक्यं सत्पुरुषो मन्यत इति प्रत्यक्षसिद्धत्वान्न पृथगुक्तम् । अतिशब्दाद्यद्ध किञ्चेति प्रथमोक्तो मोक्ष इति सिद्धम् । अन्तरिक्षप्राप्तेरल्पत्वान्मोक्षे स्वतः सिद्धत्वाच्चातिमन्यते इति सिद्धवचनमेव कृतम् । स्वर्गादिप्राप्तेरधिकैश्वर्याद् भगवत्समोहं भगवत्स्वरूप इति वा मन्तुं प्राप्तिरस्तीत्येवैनं मन्येतेति सावधारणा विधिः । न च मन्यते इति काममात्रम् । मनु अवबोधन इति धातोः । न ह्यवबोध एव कामः । अन्यथा राज्यं जानन्नपि राज्यकाम इति स्यात् । न च मन्यते मन्येतेति द्विविधः प्रयोगस्तस्मिन् पक्षे युज्यते । न च सर्वƒोकमतीत्याश्नतो मुक्तस्य मुक्तेरन्यत्र कामो विद्यते । सर्वƒोकाधिकं च मुक्तिं विना नान्यत् । तस्मान्मुक्तेरमुक्तैरपि भगवान् सर्वोत्तमत्वेन चिन्त्य इति सिद्धम् ।
पुरुषस्थपञ्चरूपेषु पञ्चरूपो हरिः स्थितः । प्रद्युम्नादिस्वरूपेण ज्योतिरादौ पृथक् पृथक् ॥
स एव च पुनर्वायौ पञ्चधावस्थितः प्रभुः । प्राणादिरूपे वसति ह्यनिरुद्धादिरूपवान् ॥
अनिरुद्धः स प्रद्युम्नस्तथा सङ्कर्षणः प्रभुः । वासुदेवो नारायणः पञ्चरूप इति क्रमात् ॥
पञ्चरूपोपि भगवान् यस्माद्वायौ विशेषतः । स्थितस्तेन च खादिभ्यो वायुरेव विशिष्य ते ॥
अत एव पृथिव्यादिस्वरूपा मनआदयः । देवाः प्राणाश्रिता नित्यं गच्छन्ति प्राणमन्वपि ॥
पृथिवीमयं मनस्तत्र शेषवीन्द्रशिवेन्द्रकाः । कामानिरुद्धौ देवगुरुर्मनोदेवाः सचन्द्रकाः ॥
श्रोत्रमाकाशरूपं च मित्रधर्मजƒाधिपाः । कुबेरश्च दिशां देवाः श्रोत्रदेवा इति श्रुताः ॥
ज्योतीरूपं तथा चक्षुश्चक्षुर्देवो रविः स्मृतः । किञ्चित् तेजोयुता वाक्च विशेषेण त्वबात्मिका ॥
उपचीयते ततः साद्भिस्तदभावे च शुष्यति । तृषितस्य हि वागेव पूर्वं मन्दा प्रवर्तते ॥
वाग्देवते ततो वह्निरुमा चापि प्रकीर्तिते । चक्षुष्ट्वमग्नेः श्रोत्रत्वं चन्द्रस्यापि सहोच्यते ॥
स्वाहाया अपि वाक्त्वं च पर्जन्यस्य मनःस्थितिः । द्वितीयमेतदास्थानं श्रुतिवाक्यप्रमाणतः ॥
शेषवीन्द्रशिवादीनां मनआदिस्वरूपिणाम् । आश्रयो वायुरेवैकस्तस्य नारायणः स्वयम् ॥
तस्माद् वायुवशानां हि वाक्वित्तादिस्वरूपिणाम् । देवानां क्रमवृत्तिभ्यो जाते यज्ञेपि केशवः ॥
अग्निहोत्रादिके नित्यमनिरुद्धादिरूपकः । पञ्चधावस्थितः सोमे पञ्चरूपो व्यवस्थितः ॥
सवनत्रयात् पूर्वके च सवनत्रितये परे । अनिरुद्धादिरूपेण क्रमेणैव व्यवस्थितः ॥
तमेतं परमं विष्णुं मुक्तोप्यत्येव मन्यते । अधिकं ह्येव तस्मात् तं मन्येतान्योपि सर्वदा ॥ इत्यादि च ।
पञ्चरूपभगवद्ध्यानार्थमेव चैतत्पञ्चविधत्वं सर्वत्रोक्तम् ॥3॥

यज्ञेषु यज्ञनामानं याज्यत्वात् पुरुषोत्तमम् । अधिरूढं तथाहस्सु चाहर्नामानमेव तु ॥
अहार्यत्वाद्धि देवेषु देवं सर्वोत्तमत्वतः । एवं च सर्वनामानं सर्वेषु स्थितमच्युतम् ॥
स्तोमादिषु च यो वेद स सम्यग्विदिति श्रुतः । य एष उक्थनामासौ सर्वोत्थापनको हरिः ॥
महांश्च परिपूर्णत्वात् सहस्रबृहतीस्थितः । अहरह्नां सयज्ञानां यज्ञो देवाधिकोपि सः ॥
अनिरुद्धादिरूपेण स विष्णुः पञ्चधा स्थितः । स्तोमसामाचितिच्छन्दश्शस्त्रेष्वपि पृथक् पृथक् ॥
एकैकमेव तद्रूपमनिरुद्धादिपञ्चकम् । प्रस्तावादिष्वपि विभुः पञ्चधैव व्यवस्थितः ॥
प्रस्तावादीन् पञ्चकृत्वस्तस्मादेव प्रकुर्वते । पञ्चरूपं तमेवैकं स्तोतुमेव पृथक् पृथक् ॥
तत्र ये स्तोमशब्दाश्च संस्थिता बहुकोटयः । पृथक् पृथक्तेपि विष्णोः प्रादुर्भावान् प्रचक्षते ॥
अनन्तरूपो हि हरिः शब्दोप्येष ह्यनन्तधा । विष्णोः सहस्रनामस्तु यत्तद्रूपसहस्रकम् ॥
बृहतीसहस्रमेतच्च तद्वक्ति हि पृथक् पृथक् । सहस्रशब्दोप्यमितं यतो वक्त्यमितान्यतः ॥
नामानि विष्णोरुच्यन्ते सहस्रमिति चाख्यया । अनन्तनामवचने त्वशक्तत्वात् सहस्रकम् ॥
नाम्नां पृथगिदं प्रोक्तमनन्ततनुवाचकम् । विष्णोरनन्तरूपाणामुक्त्वा पञ्चशतद्वये ॥
आसीत् सहस्रमित्याख्या सहस्रं मुख्यतोमितम् । ब्रह्म यावत् तावती वागिति वेदप्रमाणतः ॥
सहैवानन्तरूपैस्तु सरणेन सहस्रकम् । नाम्ना सह सृतेरेव रूपाणां वा सहस्रता ॥
बृहतीसहस्रं चैतस्माद्रूपानन्ताभिधायकम् । पृथक् पृथग्धि नामार्था ऋच एताः प्रकीर्तिताः ॥
सर्वनामात्मकं तस्मादृक्सहस्रमिदं हरेः । सर्वरूपाण्यतो विष्णोस्संस्तुतान्यमुनैव हि ॥
मत्स्यकूर्मक्रोडसिंहवटुभार्गवराघवाः । कृष्णबुद्धौ च कल्कीति रूपाणां दशकं हरेः ॥
पञ्चभेदविभिन्नेन ह्यृक्सहस्रेण शंस्यते । रूपाणां पञ्चकं पूर्वमपरं पञ्चकं हरेः ॥
प्रस्तावाद्यैरानिधनैः स्तूयते सामभक्तिभिः । तानि रूपाण्यस्य दश सर्वरूपात्मकानि च ॥
दशनामानि चास्यैव सर्वरूपाभिधान्यपि । पञ्चकं सामभक्तीनामृक्सहस्रं च तद्द्वयम् ॥
स्तावकं सर्वरूपाणामत एव रमापतेः । दशेति सर्वनामैतत्प्रथितं मुख्यतः श्रुतौ ॥
शं रूपं भगवन्तं यद्दद्याद् व्यक्त्या समस्तशः । दशेत्यमितनाम्नां तदाख्या रूपेषु शंददेः ॥
सर्वनामार्थवचनात् पञ्चकद्वितयस्य च । अभूद्दशेति वै नाम तस्मादेतद्दशाखिƒम् ॥
दशैव मूƒसङ्ख्या च तद्विभेदाः शतादयः । ऋक्सहस्रमिदं तस्मादनन्तगुणमच्युतम् ॥
अनन्तशक्तिममितरूपनामानमेव च । वक्ति छन्दस्त्रयं चात्र तृचाशीतित्रयात्मकम् ॥
अशनादिकं तच्च भूत्वा विष्णुमुपैति च । सर्वच्छन्दोभिधश्चैव सर्वदेवाभिधस्तथा ॥
सर्वमुन्यभिधश्चैव सर्ववस्त्वभिधो हरिः । अनन्तपूर्णगुणकस्तस्माज्ज्ञेयो रमापतिः ॥
मुख्यतोस्यां च विद्यायां योग्य एकश्चतुर्मुखः । एकदेशपरिज्ञाने त्वन्ये योग्याः शिवादयः ॥ इति च ।
त्रिविधो ह्यनिरुद्धोसावध्यात्मादिविभेदतः । अतस्त्रिवृदिति प्रोक्तस्तथा पञ्चदशात्मकः ॥
प्रद्युम्नः पञ्चभूतेषु ह्यध्यात्मादिविभेदतः । िƒङ्गसप्तदशस्थत्वात् तावान् सङ्कर्षणः श्रुतः ॥
सप्तधातुषु संस्थः सन्नध्यात्मादिविभेदतः । एकविंशो वासुदेवो मन आदिचतुष्टये ॥
गुणत्रये च प्रकृतावध्यात्मादिविभेदतः । मूƒरूपेण च सह पञ्चविंशात्मकः प्रभुः ॥
नारायणस्त्वचिन्त्यात्मा स एकोपि ह्यनन्तधा । गायकानां त्राणतोसौ गायत्रमनिरुद्धकः ॥
प्रद्युम्नो हि रथारूढस्तेन चोक्तो रथन्तरम् । बृहद्रूपो बृहन्नामा तथा सङ्कर्षणः प्रभुः ॥
भद्रं तु वासुदेवोसौ भद्रमोक्षप्रदो यतः । नारायणो राजनं स्याद् राजयत्येष मोक्षिणः ॥
गायत्री त्वनिरुद्धोसौ त्रिकाƒे गीयते यतः । उष्णिगुष्णस्वरूपत्वात् प्रद्युम्नोग्न्यादिसंस्थितः ॥
स्त्रीरूपो बृहतीनामा बृहत्सङ्कर्षणः प्रभुः । वासुदेवस्तथा त्रिष्टुप् त्रिवेदैः स्तूयते यतः ॥
नारायणस्तु स्त्रीरूपो द्विधेवासौ व्यवस्थितः । द्विपदेति ततो नाम सर्वच्छन्दोभिधा इमे ॥
वनितातनवः प्रोक्ता मध्यं नारायणः प्रभुः । वासुदेवोस्य पुच्छं च वामदक्षौ च पक्षकौ ॥
सङ्कर्षणश्च प्रद्युम्नः क्रमादेव प्रकीर्तितौ । अनिरुद्धः शिरश्चैव तथैकोपि हि पञ्चधा ॥
प्रस्तावनामानिरुद्धो रक्षन् संस्तूयते यतः । सृजन् जगच्च रमया प्रद्युम्नस्तत्र गीयते ॥
उद्गीथनामा तेनासौ जगदुद्गमनेन वा । संहारात् प्रतिहाराख्यस्तथा सङ्कर्षणः प्रभुः ॥
मोचयित्वा समीपं हि द्रावयेद् वासुदेवकः । तेनोपद्रवनामासौ निधीयन्ते यतोखिƒाः ॥
मुक्ता नारायणे देवे तेनासौ निधनाभिधः ॥ इत्यादि च ।
स्तूयमानत्वात् स्तोमः । समत्वात् साम । छन्द्यत्वात् छन्दः ॥4॥

तदिदमुक्तप्रकारेणैव बृहतीसहस्रं सम्पन्नं भवति । तदेके नानाच्छन्दसां सहस्रं शंसितव्यमेव बृहतीसहस्रसम्पादनमविवक्षितमिति प्रतिजानते । केचित् त्रिष्टुप्सहस्रमेव शंसितव्यमिति । अनुष्टुप्सहस्रमेवेति वदन्तोनुष्टुप्प्रशंशात्मिकामृचं दर्शयन्ति । बीभत्सूनां जगद्भर्तुमिच्छूनां अपां सयुजं सहैव चरन्तं चाहुः । विष्णुं हंसस्वरूपिणं अनुष्टुभं चर्चूर्यमाणं पुनः पुनर्वदन्तं परमेश्वरं ददृशुश्च ।
मेघसंस्थं हंसरूपं तं विष्णुं परमेश्वरम् । विरिञ्चशिवपूर्वेभ्यो नृसिंहानुष्टुभं पराम् ॥
उच्छारयन्तमर्थांश्च व्याचक्षाणं समन्ततः । ददृशुर्मुनयो दिव्या आचार्यं ब्रह्मशर्वयोः ॥
एवं वायुं च ददृशुस्तत्र हंसस्वरूपिणम् । शिवादिभ्यो व्याहरन्तं तामेवानुष्टुभं पराम् ॥ इतियादि च ।
वागाख्यायामनुष्टुभ्युच्चार्यमाणायां हि मुनयो विष्णुं ददृशुः । अतो ब्रह्मादयोपि विष्णोः सकाशादनुष्टुभर्थं सर्वदा शृण्वन्तीति ज्ञायतेतोनुष्टुबेव छन्दसां वरेति चोक्तं भवति ।
अनुष्टुभां सहस्रं तु यः शंसीतात एव तु । भवितुं चेश्वरः स स्याद् भावो मुक्तिर्न चान्यथा ॥
यशस्वी स प्रसिद्धः स्याच्छुभकीर्तिश्च सर्वदा । स्वच्छन्दमृत्युता च स्यात् तस्येत्याहैतरेयकः ॥
महैतरेयो भगवान् तन्नेत्याह रमापतिः । नानाच्छन्दःप्रशंसादिप्रमाणरहितत्वतः ॥
परिहाराय चापूर्णमैतरेयमुने शृणु । त्वं तु मन्त्रमुदाहृत्य यस्मादेतदवोचथाः ॥
तस्माद् वक्ष्याम्युत्तरं ते प्रियः शिष्योसि मे यतः । उमैव वागिति प्रोक्ता सानुष्टुबभिमानिनी ॥
अकृत्स्ना सा ततो नैव ब्रह्मेत्युक्ता कथञ्चन । वागिन्द्रियाभिमानिन्यां न हि ब्रह्मवचः क्वचित् ॥
वायुना प्राणरूपेण मनोरूपशिवेन च । अभ्यस्यमानोनुभवेत् पुमान् वाचा तु न क्वचित् ॥
अभिमानी बृहत्यास्तु वायुरेव यतः प्रभुः । तस्मादेषा छन्दसां हि वरिष्टा बृहती स्मृता ॥
पूर्णो हि वायुर्देवानां तस्माद् ब्रह्मेति चोच्यते । माहात्म्याधिक्यतश्चैव बृहतीत्येव नाम तत् ॥
अङ्गेभ्य एव सम्भूतान्यन्यच्छन्दांसि चाब्जजात् । मध्यात् तु बृहती जाता तस्मात् सा मध्यमुच्यते ॥
पठ्यते तेन मध्ये सा छन्दसां प्रवरा सती । छन्दांस्यन्यान्यङ्गवत् स्युर्मध्यवद् बृहती परा ॥
सप्तछन्दांसि चैवं हि प्रतिमा वैष्णवी मता । गायत्रीदेवतात्वं च ƒक्ष्म्या यत्राभिधीयते ॥
बृहती देवता तत्र भगवान् पुरुषोत्तमः । आधिक्यं छन्दसां यत्र गायत्र्यास्तु विवक्षितम् ॥
तत्र तत्पुत्रको वायुः बृहतीदेवता मता । ऋचामाधिक्ययोगार्थं नाङ्गीकर्तव्यमत्र तत् ॥
प्रधानत्वाद् बृहत्यास्तु जगत्याद्यं न युज्यते । सम्पादनाद् बृहत्यास्तु मुक्तो भवितुमीश्वरः ॥
स्यात् प्रसिद्धः सुकीर्तिश्च छन्दोमृत्युर्गुणाधिकः । इति प्राह स्वयं विष्णुर्महिदासाभिधः प्रभुः ॥ इत्यादि च ।
इतोन्यत् सत्किमित्याहुर्नानाच्छन्दस्त्ववादिनः । अन्यत् सद्रूपमित्याहुस्त्रिष्टुब्वादिन एव ते ॥
ऐन्द्रं प्राणं परमेश्वरसहितं वायुम् । प्राणेन मनसा च । अभि इस्यमानोभ्यस्यमानः । तृतीयोतिशये इति सूत्रादकारस्येकारः । “मथनात् मिथिƒो जातः सहनात् सिंह उच्यते । हत्वी दस्यूनी’ इत्यादिवच्च । अभ्यस्यमानः अभितः क्षिप्यमाणो विषयेषु बहुशः । कृत्स्न आत्मा कृत्स्नप्रतिमा विष्णोः ।
एकापि प्रतिमा विष्णोर्बृहती च्छन्दसां वरा । अन्यच्छन्दोभिधा यत्स्यात् प्रतिमा मध्यमैव तत् ॥ इति च ।
एवं ब्रह्मादिभिः श्रूयमाणानुष्टुबपि बृहत्या अङ्गमिति बृहत्या एवाधिक्यमुक्तं भवति ॥5॥

बृहतीसम्पादनेनुष्टुप्शंसनामात्रात् पञ्चविंशोत्तरशतानुष्टुबाधिक्यं च भवति । अत आधिक्यात् बृहतीसम्पादनमेव वरम् । तस्यात्रैवान्तर्भावात् । जगत्यादिकं त्वधिकत्वेपि बृहतीवन् माहात्म्याभावादेवोपेक्ष्यते । वाचमष्टापदीमहमित्यनुष्टुभो बृहतीसम्पादनवचनाच्च । अष्टचतुरक्षराण्यनुष्टुप् । तस्या एव बृहतीसम्पादने नव स्रक्तयो भवन्ति । ऋचा वाक् ऋग्रूपेण वागृतं स्पृष्टा सत्यरूपं विष्णुं स्पृष्टा भवति । इन्द्रस्य परमेश्वरस्य विष्णोः सम्बन्धी नितरां प्रियत्वाद्यः प्राणदेवता वायुः तस्य प्रतिमारूपमिदं बृहतीसहस्रम् । स च वायुर्विष्णोर्मुख्यप्रतिमा । तस्माद् विष्णोरेव प्रतिमा बृहतीसहस्रम् । तस्मात् तस्यैव बृहतीसहस्रत्वेन सम्पन्नस्य पञ्चविंशोत्तरैकादशशतानुष्टुप्त्वेन सम्पादने बृहतीदैवतप्राणरूपाद् वायोरनुष्टुब्देवताया वाग्रूपाया उमाया उत्पत्तिः संस्मृता भवत्येवं जानतः । ततश्चोमाया अपि भगवत्प्रतिमात्वाद् विष्णुप्रतिमास्थापक एव भवत्येतत् सर्वं सम्पग्ध्याययन् । विष्णुरेव बृहत्याः प्राणस्याधिष्ठातृदेवता । प्रतिमाधिष्ठितदेवतावत् । तस्माद् बृहत्याः सकाशादनुष्टुप्सम्पादने तस्यैव विष्णोः प्रतिमान्तरं तस्मादेव निर्मितं भवति । अत एवेन्द्रात् परितन्वं मम इत्युक्तम् । बृहतीस्थविष्णोर्बƒादेव तत्सम्पद्यते । स हि तस्याः षटिं्त्रशदक्षरादित्वमपि नियमयति तत्प्रसादाद् वायुश्च । वायुरेव तद्भगवन्नियतो नियमयति तस्मादिन्द्रात् परीत्यस्यैन्द्रात् प्राणादिति व्याख्या कृता ।
यावत्सहस्रं बृहती तावच्छंसेदनुष्टुभाम् । छन्दसां वा तदन्येषां बृहतीत्वं स्मरेत् ततः ॥
तेन सर्वगतो विष्णुः सर्वस्मादधिकोर्चितः । भवेदेवं जानतस्तु कृता च प्रतिमा भवेत् ॥
तथा वायोरपि कृता वायुर्हि प्रतिमा हरेः । तस्माद् वायुकृतं सर्वं क्रियते विष्णुनैव हि ॥
बृहतीसहस्रं सम्पन्नमेकादशशतं पुनः । अनुष्टुभां स्मरेत् पञ्चविंशोत्तरमुदारधीः ॥
तेन वायोरुमोत्पत्तिः सम्यग्ज्ञानात् स्मृता भवेत् । ततो द्वितीयप्रतिमा विष्णोरेव कृता भवेत् ॥
विष्णुनानुप्रविष्टौ यदुमा वायुश्च तद्वशौ ॥ इत्यादि च ।
स्रक्तयो विभागाः । “स्रक्तिरंशो विभागश्च विदƒं चेति कथ्यते’ इति शब्दनिर्णये । स वा एष वाचः परमो विकारः । अकाराख्यवाग् विकारेषूत्तमो बृहतीसहस्राख्यः ।
अकारः प्रथमं नाम विष्णोः सर्वगुणान् ब्रुवन् । सर्वदोषविरुद्धत्वाद् गुणनामन्यतामपि ॥
विष्णोर्वदति जीवेभ्यो जडेभ्यश्चैव सर्वदा । अभावं चैव दोषाणां सर्वेषां केशवे वदेत् ॥
सम्यग्वक्तृत्वतस्तस्मादकारो मुख्यनाम हि । तदर्थानेकदेशेन शब्दाः सर्वेपि चोचिरे ॥
व्याख्याव्याख्येयरूपत्वं विकारत्वमिहोदितम् । विकारत्वं च नान्यत् स्यान्नित्या वेदा यतोखिƒाः ॥
वाचकेषु तथा विष्णोः सहस्रबृहतीमयम् । उक्थमुत्तममुद्दिष्टं व्याख्याकारस्य सा परा ॥
अन्येपि शब्दाः सर्वेपि ह्यकारार्थाभिधायिनः । एषां परममुख्यं तत्तदेतत्पञ्चधा स्थितम् ॥
व्याख्यानमेवाकारस्य सहैवोक्थेन सर्वशः । मितामिते स्वरस्सत्यमनृतं चेति पञ्चधा ॥
तस्मादकार एवायं सर्ववागात्मकः श्रुतः । तस्यैव व्यक्तिरूपोयं सर्ववेदादिविस्तरः ॥
तस्मात् सर्वगुणान् विष्णोरकारो वक्ति यत्प्रभोः । तद्य्वक्तयोपि शब्दा ये सर्वे विष्णुगुणब्रुवाः ॥
अकारस्य तथोपांशोरभिमानी तु मारुतः । देहेन्द्रियान्तःकरणनाम्नोस्य द्विविधस्य च ॥
स्थूƒसूक्ष्मशरीरस्य सर्वेषामभिमानिनी । भारत्युच्चोदितस्यापि ह्यकारस्याभिमानिनी ॥
तस्मादुच्छादुपांशुर्हि जपादिषु फƒाधिकः । वायुः पतिर्हि भारत्या उपांशोर्देवता मतः ॥
अकारस्य विकारोयमोङ्कार इति कथ्यते । अधिकोच्चत्वमानं हि तस्यार्थः समुदीरितः ॥
अकारेणैव तत्सर्वमुक्तमाधिक्यवक्तृतः । अधिकोच्चस्वरूपोसौ माता चाधिक एव हि ॥
एकार्थत्वादकारोसौ नकारत्वमुपागतः । दीर्घीभूतः पुनस्तेनैवाकारेण सह स्थितः ॥
अभाववाच्यकारस्य ह्यर्थो रेफः क्षयं वदन् । सोप्यकारेण सहितो दीर्घत्वं समुपागतः ॥
अभाववाच्यकारः स एकार्थाद्गत्यभावयोः । यकारत्वं गतस्तस्मान्नो रेफस्योत्तरत्वतः ॥
णत्वं गतो ह्यकारोसौ नो विरुद्धार्थवाचकः । अन्यत्वात् सर्वजीवेभ्यो जडेभ्यश्च सदैव हि ॥
सर्वदोषोज्झितत्वाच्च सर्वतोप्यधिकत्वतः । निरासनाच्च दोषाणां स्वभक्तेभ्यः समन्ततः ॥
सर्वदोषविरुद्धोरुगुणपूर्णस्वरूपतः । नारायण इति प्रोक्तो ह्यकारार्थोयमेव हि ॥
तस्मादकारबीजेयं विष्णोर्नारायणाभिधा । प्रणवश्च ततोकारः प्रधानं नाम चक्रिणः ॥
अकारनामा नान्योस्ति तमृते पुरुषोत्तमम् । ब्रह्मरुद्रादिनामानि ब्रह्मादिष्वप्यमुख्यतः ॥
वर्तन्ते न त्वकारोयं वर्तते केशवं विना । नारायणादिनामानि नृणां नामक्रियास्वपि ॥
विहितान्यकारो नैवायं विहितस्तमृते प्रभुम् । वायुबर्‌रह्मापि चाकारदेवते न तु नामिनौ ॥
यथा वेदाभिधेयोन्यो वेदाख्या देवता परा । एवं नामाभिमानी तु वायुर्वाच्यो जनार्दनः ॥
तस्माद इति नामेतद्विष्णोः केवƒमेव हि । विशेषतोस्य व्याख्यानं बृहतीनां सहस्रकम् ॥
तस्मात् प्रीतो भवेद् विष्णुः शंसनादस्य सर्वदा । तस्माद्यज्ञेपि वा शंसेदयज्ञेपि रहः पुमान् ॥
ध्यात्वा नारायणं देवं विष्णोरन्नं हि तत्परम् ॥ इत्यादि ब्रह्मसारे ।
परमविकारेण सह विकारमात्रस्यापि प्रस्तुत्वात् तदेतत्पञ्चविधमिति परामर्शः ।
स्वराणां नियमो यत्र ह्यृचो नामैव ताः स्मृताः । अन्या मिताक्षरा यास्तु ता गाथाः परिकीर्तिताः ॥
खण्डवाक्यानि कुम्ब्याः स्युरसमानि परस्परम् । यज्ञाङ्गं यजुरुद्दिष्टं निगदं वाक्यमात्रकम् ॥ इत्यादि शब्दनिर्णये ।
अकारार्थत्वान्नकारस्य किञ्चिन्मूƒमिव । तस्मान्मूƒत्वादकारार्थोपि ज्ञेय एव । नायोग्यानां सम्यग्वाच्य इति स्वल्प एव प्रकाशितोस्माभिः । वाच उद्वर्तनाशक्तेः स्वयमेवोद्वर्तते । यद्धि देवतासु करोति तदात्मन्यापतति । तस्माद् द्रव्यदानं ज्ञानदानं वा काƒे पात्राद्यनुसारेणैव कुर्यात् । अकारस्योङ्कारता त्वकारƒोपेनैव जातेति सत्यमोङ्कारः । अकारस्यादौ स्थितत्वेन च यथार्थरूपत्वात् । उकारादिविकारसहितत्वात् पुष्पफƒात्मकश्च । अकारस्यार्थरूपः सन्नेव च भगवांस्तमेवोङ्कारो वक्ति । अतश्च सत्यमोङ्कारः । यमर्थरूपो वक्ति तमेव वक्तीति । नकारस्त्वच्छिरस्कत्वात् मूƒभूतस्याकारस्यान्ते स्थितिरूपत्वादयथास्थितेरसत्यरूपः । तथाप्यकारस्य चैकार्थत्वात् मूƒभूतश्च । तस्मादकारस्यैतद् वृथा वागादिकमपि व्याख्यानम् । तस्माद् विजानतः सर्वमपि भगवन्नामैव ॥6॥

विद्यान्तरोपदेशार्थं तद्वा इदं बृहतीसहस्रमिति पुनः पुनः परामर्शः । तदिदं बृहतीसहस्रं तद्यशस्तस्य नारायणस्य यशः । यस्य नारायणस्यैतद्यशः स भगवानेवेन्द्रनामा । स हि यत्प्रथमत इन्द्रो बभूव स्वेच्छया यज्ञनामा । तस्मात् तमेव वेदा इन्द्रशब्देन वदन्ति मुख्यतः । इदि परमैश्वर्ये इति धातोश्च तस्यैव हि परमैश्वर्यम् । अन्येषां तु द्वादशानां तेन दत्तमेवेन्द्रत्वं न तु मुख्यतः । अतो विष्णावेवेन्द्रशब्दं प्रयुङ्क्ते श्रुतिः । “मत्सि सोमं वरुणं मत्सि मित्रं मत्सीन्द्रिमिन्दो पवमान विष्णुम्’ इति । न चेन्द्रं विष्णुं चेति पृथगन्वयः क्रियते । तदा वरुणादिषु पृथक् पृथक् मत्सिशब्ददर्शनादत्रापि पृथङ् मत्सिशब्दो दृश्येत । न हि सर्वेषां पृथङ्मत्सिशब्ददर्शने एकस्यैवान्यथात्वं युज्यते । न चात्र द्वित्वगमकं चकारादिकं विद्यते । तस्मात् प्रातर्भगं पूषणं ब्रह्मणस्पतिमित्याद्यप्येकस्यैव विष्णोर्विशेषणम् । यत्र चैवं भूतेष्वेकत्वे विरोधो दृश्यते तत्र तेनैव विरोधेन द्वित्वं भवति । अन्यथैकत्वमेव । “यो देवानां नामधा एक एव’ इति चोक्तम् । बहुरूपत्वाद् बहुवचनं च विष्णोरेव युज्यते । तस्मान्मुख्यतो विष्णावेवेन्द्रादिशब्दा अन्येषामुपचारतः । मत्सि महामिन्द्रमिन्दो मदायेत्यन्येन्द्रस्य पृथगुक्तेश्च मत्सीन्द्रमिन्दो पवमानेति पूर्वोक्त इन्द्रो विष्णुरेवेति सिद्धम् । महत्त्वं च तस्यादितिपुत्रत्वेग्रजत्वमात्रं न तु सामर्थ्यतः । मह पूजायामिति धातोः । पूज्यो ह्यग्रजो भवति ।
आयो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः ।
वेधा अजिन्वत् त्रिषधस्थ आर्यमृतस्य भागे यजमानमभजत् ॥
इतीन्द्रस्य परमदैवं जनको यज्ञभागादिप्रदाता विष्णुरेव हि श्रूयते । इन्द्रश्च यजमानः । तस्मात् तत्प्रसादादवताराग्रजत्वमेव तस्य महत्वम् । अन्येन्द्रो ह्यहं प्रथमः पिबेयमहं प्रथमः पिबेयमिति वायुना विवदमान आजौ पराजितो वायुं प्रसादयित्वा चतुर्थे वायुना सह ग्रहमाप । विष्णुस्तु “क्रतुं सचन्त मारुतस्य वेधस’ इति वायोरपि विधाता श्रूयते । डुधाञ् धारणपोषणयोरिति धातोर्विशेषेण धारणपोषणकर्ता हि वेधाः । तस्माद् भगवत एवैतद्यशो बृहदुक्थादिकम् ।
ऋक्सहस्रात्मकं विष्णोर्यश इन्द्राभिधस्य हि । इन्द्रो हि प्रथमो विष्णुर्यज्ञनामा जगत्पतिः ॥
तत्प्रसादादथेन्द्रत्वं द्वादशान्ते प्रपेदिरे । पुरन्दरस्त्वेक एव वासुदेवप्रसादतः ॥
द्विवारमिन्द्रतामाप तस्मात् द्वादश ते परे । अग्रजत्वाददित्यां तु महेन्द्रो नाम चाभवत् ॥
महाव्रतं कर्म कृत्वा चैव नाम्ना महेन्द्रकः । महत्त्वं मुख्यतो विष्णोर्न ह्यन्यस्य कदाचन ॥
एवं यो वेद तं विष्णुं विस्रस्तो बन्धतोखिƒात् । अस्माल्लोकाद्धरेर्ƒोकमेति नास्त्यत्र संशयः ॥
इत्याह भगवान् विष्णुर्महिदासस्वरूपकः । श्वेतद्वीपादिकात् प्राप्य स इन्द्राख्यो हरिः स्वयम् ॥
महिदासाभिधो भूत्वा ƒोकेष्वेषु विराजति । तत्र पृच्छन्ति केचित्तु यद्येष भगवान् हरिः ॥
महिदासादिरूपेण भूमिष्ठो रमते प्रभुः । तदा यदा स्त्रिया विष्णू रमते नित्यसत्सुखः ॥
कया स्त्रिया रतिं कुर्यान्न ह्यन्यरतिरच्युतः । स्त्रीरूपे तत्स्वयं स्वस्मिन् रमतेसावितीदृशम् ॥
वाच्यं तत्र च भूमिष्ठरूपेण तु दिवि स्थितम् । स्त्रीरूपं किमसौ गच्छेदथ यद्येवमत्र च ॥
स्त्रीरूपं पृथिवीसंस्थं केन रूपेण संव्रजेत् । न ह्यन्यगम्यो भगवान् स्त्रीरूपोपि जनार्दनः ॥
इति पृष्ठः स्वशिष्यैः स महिदासोवदद्धरिः । स्त्रीषु यल्लोहितं ƒोके तत्राग्निस्थो जनार्दनः ॥
स्त्रीरूपः सोग्निनामैव ज्वƒज्ज्वाƒासमप्रभः । तस्माद्विष्णोः सन्निधानाद्भर्ता भार्याशरीरगात् ॥
न बीभत्सेतैव रक्तात् तथा पुंरेतसि स्थितः । आदित्ये संस्थितो विष्णुरादेरादित्यनामकः ॥
तस्मान्न रेतसो भार्या बीभत्सेत पतिस्थितात् । पुंरूपो भगवान् विष्णू रेतसिस्थो द्युमत्प्रभः ॥
तस्माद्यद्भूमिगं विष्णोः स्त्रीरूपं तत्स्वयं हरिः । प्रादुर्भावगतो दद्याद्दिवि स्थितपुमात्मनः ॥
सूर्यगस्य तथा पुंसो रेतसिस्थस्य चात्मनः । देवीषु यल्लोहितगं स्त्रीरूपं परमात्मनः ॥
तत्स सूर्यगतो विष्णुः पुंरेतःस्थस्य चात्मनः । दद्याद्भूमिगतस्यैव रूपद्वयमिदं ततः ॥
परस्परं सम्भवति विष्णोर्नित्यसुखात्मकम् । प्रादुर्भावस्थितं रूपं यच्च भूमौ पुमात्मकम् ॥
विष्णोस्तदपि देवीषु स्थितस्स्त्रीरूपकात्मना । एवमन्योन्यतो विष्णू रतः स्वस्मिन्न चान्यतः ॥
रमया रममाणोपि तत्स्थेनैव स्त्रियात्मना । रमते नान्यतः क्वापि रतिर्विष्णोः सुखात्मनः ॥
रमया रमणं तस्माद्रमाया रतिपात्रता । नैवास्या रतिदातृत्वं विष्णोर्न ह्यन्यतो रतिः ॥ इत्यादि च ।
स एव महिदास इन्द्रनामा प्राप्येमं ƒोकमत्र भूत्वा प्रादुर्भूय मनुष्यदृष्टिगोचरतां प्राप्येषु ƒोकेषु राजति । नात्र प्रेत्यशब्दो मरणवाची । किन्तु “प्रेतां यज्ञस्य शम्भुवे’ इत्यादिवत् प्राप्तिवाच्येव । न हि मृतः पुनरेषु ƒोकेष्वेव राजति । न च यशोमात्रराजनेन स्वस्य राजनं भवति । भिन्नपदार्थत्वात् । यद्वा एति च प्रेति चेत्यादौ प्राप्त्यर्थेपि वेदेषु प्रसिद्धत्वाच्च । “ƒक्ष्मणः प्रेत्य सुग्रीवं बभाषे रामचोदितम्’ इति स्कान्दे । यदनेन रूपेणामुं ƒोकमभिसम्भवति । अनेन महिदासादिरूपेणामुं ƒोकं दिविष्ठं स्वरूपम् । ƒोक्यत इति स्वरूपवाची ƒोकशब्दः । “आत्मानमेव ƒोकमुपासीत’ इतिवत् । यच्छब्दः किंशब्दार्थे । अनेन रूपेण तद्रूपमभिसम्भवति किम्? उभयोरपि परिहारदर्शनादस्यापि प्रश्नत्वमवगम्यते । “यतश्चोदेति सूर्य’ इत्यादिवत् । रङ्गस्तु प्रश्नविषयस्य दुरवगमत्वं प्रकाशयति । “दुर्गमे प्रश्नविषये प्रश्नो रङ्गयुतो भवेद्’ इति शब्दनिर्णये । केन रूपेणेमं ƒोकमाभवति । केन स्वरूपेण भूमिष्ठेनात्मन एव स्त्रीरूपेण विष्णुः सम्बध्यते । सोयं महिदासादिप्रादुर्भावरूप इदं भूमिष्ठस्त्रीरूपं ƒोहितगतं च स्वकीयमेव रूपममुष्यै दिविष्ठाय स्वपुरुषरूपाय प्रयच्छति देवरेतःस्थिताय च । देवी ƒोहितस्थितमात्मनः स्त्रीरूपं महिदासादिरूपेभ्यो मानुषरेतःस्थितरूपेभ्यश्च दिविष्ठैश्च विष्ण्वादिस्वरूपैः प्रयच्छति च । तानि भूमिष्ठत्वेन दिविष्ठत्वेन द्विविधत्वात् तावित्युच्यन्ते । अग्नेस्तद्रूपमग्निनाम्नो विष्णोः प्रतिमा तत्सन्निधानात् । एवमादित्यनाम्नो विष्णोः । न ह्यग्न्यादिस्वरूपमेव ƒोहितादि । न च ƒौकिकस्त्रीपुरुषसम्बन्धमात्रमत्रोच्यते । अप्रस्तुतत्वात् तस्य । भगवानेव ह्यत्र प्रस्तुतः । असावात्मेत्यात्मशब्दाच्च भगवानेवेति ज्ञायते ।
आत्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते । गुणपूर्त्यभिधायी स नान्यस्य गुणपूर्णता ॥
अमुख्यात्मान एवातो ब्रह्माद्याः सर्व एव हि ॥ इत्यादि च ब्रह्माण्डे ।
यदक्षरं पञ्चविधं समेति । सत्यस्य सत्यमनु यत्र युज्यत इत्यादिनोक्तार्थविषयोदाहृतैः श्ƒोकैरपि भगवत एव स्वरूपाणां परस्परयोगस्योक्तत्वात् । गायत्र्युष्णिग्बृहतीत्यादिना भगवत एव पञ्चविधस्य स्त्रीरूपस्य महिदासादिपञ्चरूपाणां च प्रस्तुतत्वाच्च ॥7॥

यन्नारायणादिरूपेण पञ्चविधमक्षरं परं ब्रह्म तत्स्वस्मिन्नेव स्त्रीपुंरूपेण समेति । स्त्रीपुंरूपेण युजो देवा अश्वरूपेण रथे युक्ताः सन्तो यन्नारायणाख्यं परं ब्रह्माभिसंवहन्ति । तदेतत्सत्यस्य सत्यं नारायणाख्यं ब्रह्म यत्रानुयुज्यते यस्मिन् स्वरूप एव स्त्रीपुंरूपेण युज्यते । तत्र तस्मिन् एव परे ब्रह्मणि नारायणाख्ये सर्वदेवा एकीभवन्ति मुक्ताः सन्तो मििƒता भवन्ति । नायमेकीभावो नाम स्वरूपैक्यम् । किन्त्वेकस्थाने वासोत्यनुकूƒचित्तता च । “एकीभूय नृपाः सर्वे ववृषुः पाण्डवं शरैः’ “एकीभूता तु सा सेना पाण्डवानभ्यवर्तत’ इत्यादिवत् । न चैकीभावशब्दः स्वरूपैकत्वविषये प्रयुज्यमानः कुत्रचिद् दृष्टः । एकः पुरुषोपि यदा द्विधा भूत्वा एकीभवतीत्युच्यते तदापि स्थानैक्यमेव । स्वरूपैक्यस्य पूर्वमेव सिद्धत्वात् । न चाज्ञात एकत्वे पुनर्ज्ञाते ऐक्यं प्राप्त इति प्रयोगो दृश्यते । किन्तु ज्ञात इत्येव प्रयुज्यते । तस्माद् भावसहित एकशब्दो न स्वरूपवाची । न हि पूर्वं भिन्नस्य पश्चात् स्वरूपैक्यं भवति । किन्तु संसर्ग एव भवति । तस्मादत्रापि संसर्ग एव विवक्षितः । यदक्षरं पञ्चविधं समेतीत्युक्तस्य सत्यस्य सत्यमनु यत्र युज्यत इति परामर्शं कृत्वा तत्र देवाः सर्व एकं भवन्तीत्युच्यते । तस्मान्न पुनरुक्तिः । यस्मादक्षरान्नारायणाख्यात् स स्वयमेव भगवान् प्रादुर्भावरूपी स्त्रीपुंरूपेण युक्त आगच्छति । तात्पर्यार्थं तस्यैवार्थस्य पुनरभ्यासः । वियूय विचार्य नामायत्तान्येव नामार्थभूतान्येव विष्णोर्माहात्म्यादीन्यन्वविन्दन् । ततश्चाधिकं समतृप्यत् । श्रुते परिपक्वे सति ज्ञाने । यस्मिन् विष्णौ नामानि ज्ञात्वा तस्मिन् ज्ञाने परिपक्वे समतृप्यत् तस्मिन्नेव देवाः सर्वयुजो भवन्तीत्यवधारणार्थं पुनर्वचनम् । सर्वयुजो भवन्ति मनोवाक्कर्मभिस्तत्रैव युक्ता भवन्ति । “अर्थतः कठिनं क्रूरमुल्बणं श्रवणाप्रियम्’ इति शब्दनिर्णये । अस्त्री पुमान् ब्रुवन् अस्त्री पुमांसं ब्रुवन् ।“सप्तसु प्रथमा’ इति सूत्रात् । “स्वातन्त्र्ये विभक्तिव्यत्ययः’ इति च । स्वतन्त्रो हि भगवान् तत्प्रेरित एव तं वदतीत्यभिप्रायः । वदन् वदति वदन्नेव वदति । वदन्नेव न वदति । भवत्येव हि भगवान् स्त्रीरूपः पुंरूपश्च । तस्माद् वदत्येव । अप्रसिद्धत्वान्न वदति च ।
स्त्रीरूपश्चैव पुंरूपो यस्मान्नारायणः स्थितः । पुमांस्त्री चेति वाच्योतो वैƒक्ष्ण्यान्न चोच्यते ॥
विष्णोर्नपुंसकाकारो नैवास्ति क्वचन प्रभोः । तथाप्यरागाकृष्टत्वात् तच्छब्दैरपि कथ्यते ॥ इति गारुडे ।
नारायणादिरूपेण पञ्चधैव हरिः स्थितः । तन्नामभिश्च स्त्रीरूपैः समेति स्वैः स केशवः ॥
यत्स्यन्दनं वहन्त्येते देवा भार्यासमन्विताः । अधिदैवे तथाध्यात्मे जीवदेहात्मकं रथम् ॥
स सूर्यः सूर्यभार्या च चक्षुर्द्वयसमाश्रितौ । वहतोश्वात्मकौ देहं नारायणरथात्मकम् ॥
सोमश्च रोहिणी चैव दक्षवामश्रुतिस्थितौ । उभयोः पक्षयोः स्थित्वा वहतोश्वात्मकौ तयोः ॥
उद्धारणार्थमेतेषामुमा वाचि समास्थिता । नागाकारैव रश्मित्वमगमद्वैष्णवे रथे ॥
मनःस्थितः शिवश्चात्र मनोनामा महाबƒः । अभवत् सारथिर्विष्णोर्विष्णुर्वायुश्च तं रथम् ॥
प्रकृष्टानन्दरूपत्वात् प्राणाख्यावधितिष्ठतः । तावेव चाश्विनामानौ हयास्यौ जगदीश्वरौ ॥ इत्यादि गारुडे ।
“तस्योपनिषत् सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्’ इति च श्रुतिः ।
सर्वसाधुगुणत्वात् तु वायुः सत्य इतीर्यते । तस्यापि सत्यतादाता साधुपूर्णगुणो हरिः ॥
सत्यस्य सत्य एतस्मात् स्त्रीपुंरूप स केशवः । यस्मिन् स्वात्मनि युक्तः स रमते स्त्रीपुमात्मना ॥
मुनिगन्धर्वपित्राद्यैर्न तत्प्राप्यं कथञ्चन । आप्नुवन्ति सुराः सर्वे तद्रूपं जाज्वƒत् सदा ॥
अर्धनारीपुमाकारं तस्य वामस्थितानि च । स्त्रीरूपाणि तु सर्वाणि विष्णोरत्यद्भुतानि च ॥
विष्णोर्यानि तु पुंरूपाण्यास्थितान्यस्य दक्षिणे । तान्यस्यैव तु रूपाणि युज्यन्तेत्र परस्परम् ॥
एष नारायणो देवो ह्यर्धनारीपुमात्मकः । सर्वे देवास्सभार्याश्च तं प्राप्य पुरुषोत्तमम् ॥
एकीभावं स्वभार्याभिरर्धनारीपुमात्मना । प्राप्यैवोपासते विष्णुं मुक्ताः संसारसागरात् ॥
मोदन्ते च रमन्ते च विभागं चेच्छयाप्नुयुः । बहुधा च भवन्त्येते स्त्रीपुमात्मपृथक्त्वतः ॥
प्रसादाद् वासुदेवस्य भागः स्त्रीपुंस्वरूपिणः । तेनैव नियता नित्यं तद्वशास्तत्परायणाः ॥
रमन्ते नान्यगम्योसौ देशो विष्णोः परात्मनः । स्त्रीपुंरूपेण युक्तं तद्विष्ण्वाख्यं परमक्षरम् ॥
अक्षरादेव परमात् पुंसो नारायणाभिधात् । आगच्छन्ति तदैते च देवा भार्यासमन्विताः ॥
वहन्त्यश्वादिरूपेण रथस्थं परमं वपुः । तत्सर्वदेवैः प्राप्यं च नान्यैः कथमपि क्वचित् ॥
मितादिपञ्चरूपं यद्वाक्यं ƒोकेथवा श्रुतौ । नारायणस्य नामैतदिति जानन्ति देवताः ॥
मनोवाक्कर्मभिस्तस्माद् योगमाप्स्यन्ति तत्र ते । सर्वशब्दान् हरौ नेतुं कस्य देवानृते बƒम् ॥
वाय्वन्तास्तारतम्येन विष्णुनामार्थवेदिनः । सम्यग्वेत्ता मारुतोत्र तस्मान्मुक्तेभ्य एव च ॥
सुरेभ्योधिकमानन्दं नित्यं भुङ्क्ते हरेरनु ॥ इत्याद्यर्धनारीनारायणतन्त्रे ।
एवं सर्वे शब्दा भगवद्वाचका इत्युक्त्वा अकारो विशेषतो नारायणवाचक इत्याह- अः इति ब्रह्मेति ॥
इतिशब्दोभिदानान्ते यत्र वैशेषिकं हि तत् । नाम स्यादिति मे साक्षान्निर्णयः समुदाहृतः ॥ इति शब्दनिर्णये ।
तत्रागतमहमिति । यस्माद् अः इत्ययं शब्दः प्रस्तुतस्य भावं विरोधिनमन्यं च वदति तस्मात् प्रत्यक्षत्वाज्जीवजडात्मकस्य जगत एवानुक्तावपि प्रस्तुतरूपत्वात् तदन्यस्तद्विरोधी तत्र दृश्यमानदोषवर्जितश्चाकारशब्दार्थ इति सिद्ध्यति । मनसि प्रस्तुतत्वादवचनेपि प्रस्तुतमेवेदं सर्वम् । दृष्टसम्बन्धित्वाददृष्टं सर्वमपि प्रस्तुतं भवति । भगवांस्त्व इति पृथग्विवक्षितत्वादेव न प्रस्तुतसमुदाये । न च शून्यस्याशब्दार्थता । शून्याङ्गीकारे ह्यकारस्याभावताख्य एक एवार्थ इति सिद्ध्यति । विष्णोरङ्गीकारे त्वभावतान्यता विरोधितेति त्रयोप्यर्थाः सम्यगेव सिद्ध्यन्ति । तस्मादकारस्य भगवानेव मुख्यार्थो न शून्यम् । एकदेशार्थत्वात् । तस्मादमुख्यार्थत्वादन्ययुक्तेनैवाकारेणाभाव इति तदुच्यते न त्व इत्येव केनचित् क्वचित् । न च तथा प्रयोगोस्ति । तस्मात् पारतन्त्र्याल्पगुणत्वादिसर्ववस्तुस्वभावविरुद्धस्वभावं स्वतन्त्रं पूर्णगुणं सर्वजीवजडेभ्यो अन्यदज्ञानदुःखाल्पत्वपारतन्त्र्योत्पत्तिनाशादिसर्वदोषविवर्जितं ब्रह्मैवाशब्दार्थः । पूर्णं हि ब्रह्मशब्दस्यार्थः । न च दोषयुक्तस्य पूर्णता । न च जीवजडाद्यपूर्णवस्त्वभिन्नस्य पूर्णत्वं भवति । तस्मादकारशब्दार्थ एव ब्रह्मशब्दार्थः । तदेतदुक्तं अः इति ब्रह्मेति । अः इति पृथक्त्वेन वचनं तत्सममधिकं वा किमपि नास्तीति दर्शयितुम् ।
विवृतावपि सर्गः स्यात् संहितायां च यत्र हि । समानोत्तमहीनत्वमुच्यते वस्तुनोञ्जसा ॥ इति शब्दनिर्णये ।
अः इति ब्रह्म पूर्णं वस्तूच्यते । तत्रागतमहमिति । तत्राकारस्य पूर्णवाचित्वेहमेव सोकारवाच्य इत्याह महिदासरूपो भगवान्नारायणः । अहमेक एव परिपूर्णः । अन्येषां सर्वेषां मदधीनत्वादल्पत्वादिति । मुक्तेभ्यः प्रƒये ƒीनेभ्यश्च सर्ववस्तुभ्यः सदा विभिन्न एव भगवानिति दर्शयितुं च अः इति पृथग्वचनम् । तच्चोक्तं वाक्यनिर्णये -
मुक्ता अपि न विष्णुत्वं यान्ति तत्समतामपि । आधिक्यं कुत एव स्यान्मुक्तानां मुक्तिदातृतः ॥
कुत एव प्रƒीनानां प्रƒये तु तदात्मता । ब्रह्मशर्वेन्द्रपूर्वाणां मुक्तावपि न विष्णुता ॥
यदा तदा तु संसारे क्व तद्रूपत्वमिष्यते । अन्योसौ सर्वतो विष्णुः स्वातन्त्र्याद् गुणपूर्तितः ॥
सर्ववस्तुस्वभावस्य विरुद्धोरुस्वभावकः । पारतन्त्र्याल्पताज्ञानजनिनाशादिवर्जितः ॥
अकारेण ततो विष्णुः संहितायां पदात्मना । बह्वृचोपनिषत्प्रोक्तस्तेनैव परमात्मना ॥
महिदासावतारेण सोहमेवंविधस्त्विति । मत्तोन्यो न हि पूर्णोस्ति यतोकारश्च पूर्णताम् ॥
वक्ति तस्मादकारोयं मामेव वदति स्फुटम् । नाभाववाच्यकारः स्यादर्थत्रययुतो यतः ॥
एकार्थात्मा ह्यभावः स्यान्निषेधैकस्वरूपतः । अन्यता च निषेधश्च विरुद्धत्वमिति त्रयः ॥
अकारार्था ह्यभावस्तु निषेधैकस्वरूपतः । एकदेशस्वरूपत्वान्नाकारेणैव भण्यते ॥
किन्त्वभाव इति त्वेव तेनाकारोदितो हरिः ॥ इति ।
न च निषेधस्वरूपे विरुद्धता चान्यता चास्तीत्येतावता पूर्णार्थता भवति । तदार्थत्रयकल्पनस्य वैयर्थ्यात् । उक्तं हि शब्दनिर्णये ।
विरुद्धता निषेधान्यभावयुक्ते हि केवƒः । अकारो वर्तते तेषामेकार्थात्मन्यभावके ॥
वर्ततेभाव इत्येव न त्व इत्येव केवƒः ॥ इति ।
तस्मान्नारायणः एवाकारवाच्य इति सिद्धम् ।
यतोकारः सदा विष्णोर्वाचकत्वेन संस्थितः । तस्माद्वर्णत्रयात्मायं प्रणवोपि त्रयात्मकम् ॥
हरिमेव सदा वक्ति न वान्यं कश्चन क्वचित् । सृष्टिकर्ता ब्रह्मनामा योसृजच्चतुराननम् ॥
अन्तर्यामी विरिञ्चस्य सोकारार्थो जनार्दनः । वैकुण्ठƒोक आस्ते स द्वितीयवपुषा हरिः ॥
उकारवाच्यः स विभुर्नृसिंहो रुद्रनामकः । रौद्रत्वात् स शिवस्यापि स्रष्टा संहारकारकः ॥
अन्तर्यामी शिवस्यापि मकारार्थः प्रकीर्तितः । एवं त्रियात्मकं विष्णुं प्रणवोयं त्रियात्मकः ॥
एवं पृथगिवाचष्टे बिन्दुर्वक्त्यनिरुद्धकम् । प्रद्युम्नाद्यान्नादपूर्वाः सर्वान्नारायणात्मकान् ॥
पद्मनाभादिका एव मूर्तीर्नारायणोत्तराः । प्रणवोयं वदत्यष्टौ तस्मान्नान्याभिधायकः ॥ इति तत्त्वसारे ।
षटिं्त्रशतिसहस्राणि बृहत्युक्थार्णगानि तु । स्त्रीरूपाणि हरेस्तावदह्नामप्यभिमानिषु ॥
सूर्यरूपेषु रूपाणि पुमाकाराणि सर्वशः । एतैः पुरुषगैः रूपैर्बृहत्युक्थव्यवस्थितैः ॥
कदाचिद् भगवान् विष्णुः पुमाकाराणि तानि च । कृत्वा सूर्यगतान्येव स्त्रीरूपाणि विधाय च ॥
तान्याप्नोति च पुंरूपैस्तैरेवाक्षरगानि च । स्त्रीरूपाणि जगन्नाथः प्राप्नोत्यात्मेच्छया प्रभुः ॥
पुंरूपप्रमदारूपस्वरूपैः रमते स्वयम् । एकीकृत्य च तान्येव द्विरूपो रमते तथा ॥
स एव रमते मायां स्थितात्मस्त्रीतनौ हरिः । प्राणस्योत्पत्तिकामः सन्ननेच्छामारनामकः ॥ इत्यर्धनारीनारायणतन्त्रे ।
वायोरुत्पत्तिकामो मायां रमायां रमत इत्यनकाममारः । जीवस्थितेनाक्षरगेनाक्षरनाम्ना स्वरूपेण जीवाख्यसूर्यस्थितमहराख्यं स्वरूपमाप्नोति तेन चाक्षराख्यं स्वरूपमाप्नोति । यदक्षरादक्षरमेति युक्तमित्यस्य व्याख्यानरूपत्वाच्चैतदवसीयते । पुमांसं स्त्रियं च वदन्नेव न वदतीत्युक्तत्वादुभयात्मकं रूपं प्रतीयते । अस्त्रीपुमानिति ब्रुवन्नपि न वदतीत्युक्तत्वाच्च स्त्रीत्वं पुंस्त्वं च प्रतीयते विष्णोः । न च नपुंसकरूपं भगवतः कुत्रचिदुक्तम् । प्रसिद्धमेव च रूपद्वयम् । अतो नपुंसके वदन्नपि न वदतीति न तद्वदनुषज्यते । नपुंसकरूपे प्रमाणाभावादेव ƒौकिकस्त्रीपुंविƒक्षणत्वादस्त्री पुमानित्यपि वदन्निति भवति ।
स्त्रीपुंरूपद्वयं विष्णोर्न तृतीयं कथञ्चन । साक्षान्नपुंसकस्तस्मान्मुक्तिभागी न तु क्वचित् ॥ इति ब्रह्माण्डे ।
न च रक्ष इति नपुंसकशब्दमात्रेण रावणादयो नपुंसका भवन्ति । भवतीतिपदाभावादनकाममार इति भगवन्नामैवेति ज्ञायते ।
ऋष ज्ञान इति ह्यस्माद्धातोः सर्वज्ञ एकराट् । वेदद्रष्टा परमऋषिर्हयास्यः पुरुषोत्तमः ॥
मन्त्राणां प्रथमो द्रष्टा सर्वेषां यत एव तु । ऋषिणोक्तमिति प्राहुर्मन्त्रोक्तं ब्राह्मणान्यतः ॥
तत्प्रसादाद्धि तपसा पश्चान्मन्त्रान् प्रपेदिरे । ब्रह्माद्या ब्राह्मणं पश्चात् तैर्दृष्टमृषिभिः पृथक् ॥
मन्त्राश्चोपनिषच्चैव नाकृत्वा सुमहत्तपः । प्रथमं तद्धयास्येन दृष्टं केनचिदीक्ष्यते ॥
विना पृथक् तपो दृश्येत् ब्राह्मणं मुनिभिर्यतः । मन्त्राश्चोपनिषच्चैव ब्राह्मणादुत्तमास्ततः ॥
तत्राप्युपनिषत् श्रेष्ठा युक्तावस्थाधिगम्यतः ॥ इत्यादि प्रमाणविवेके ।
तेन रथेनाध्यात्मशरीराख्येनाधिदैवं रथरूपेण । ऋभव इत्यत्र देवानां साधारणं नाम ।
आदित्या वसवो रुद्रः विश्वे ऋभव इत्यपि । सर्वदेवसमाख्या च द्वादशाष्टादिकेष्वपि ॥ इति शब्दनिर्णये ।
निर्मितो दैवतैः सर्वैर्विष्णुना वायुना सह । अधिष्ठितो रथो दिव्यः सोध्यात्मं देहनामकः ॥
सम्यग्योगो यदा तस्य मनोवाक्कर्मभिर्भवेत् । देहाख्यस्य रथस्यैव तदा नारायणात् प्रभोः ॥
विविधं वासवत्वात् तु विवस्वन्नामकाच्छुभम् । संसारवारकं ज्ञानं दिवो दुहितृनामकम् ॥
विष्णुतत्त्वापरोक्षाख्यमहनी द्वे च शोभने । ज्ञानावस्था मुक्त्यवस्थेत्युभे एवाहनी परे ॥
जायन्ते देवतास्त्वेषां भारती वायुरेव च । जीवन्मुक्तेश्च मुक्तेश्च दाता रूपद्वयी प्रभुः ॥
सर्वस्त्रीणामुत्तमत्वाद् द्यौर्नामा श्रीरुदाहृता । दुहितास्या भारती तु नित्याहेयस्वरूपतः ॥
अहरित्युच्यते वायुर्ज्ञानात्मत्वात् तथैव च । अधिदैवे रथेप्येते विष्णोर्ƒक्ष्म्यां प्रजज्ञिरे ॥
रथेन तेन देवेशौ विष्णुवायू जगत्पती । आयातमिति हैवैतौ प्रार्थयेद्यज्ञकर्मणि ॥
अन्यथाप्यर्थयेदेतौ ज्ञानेच्छुः पुरुषः सदा । जपेन्मन्त्रद्वयं नित्यमातेन निमिषस्तथा ॥
रक्षणं वां समीपे स्यान्ममेत्यध्यात्ममेव च । हयास्यत्वाच्चाश्विनौ तावित्याह परमा श्रुतिः ॥
ऐन्द्राग्नेयादिकाश्चैवं सर्वे मन्त्रा हरिं परम् । वदन्ति मुख्यतो नान्यं सर्वनामानमच्युतम् ॥
अथवा वायुदेवस्थं पृथक्संस्थं च केशवम् । मन्त्रो द्विवचनो वक्ति तथा बहुवचस्स्वपि ॥
सुखं ददत इति सुदिने । विवस्वतो विष्णोः सकाशाद्दिवो दुहिता अहनी च जायन्ते । अहनी इति द्विवचनेन द्वित्वे सिद्धेप्युभे इति वचनमध्यात्माधिदैवतयोरुभयोरपि वचनार्थम् । न च सूर्यरथोत्र वर्ण्यते । न चाहोरात्रे अहनी इत्युच्येते । सूर्यस्याश्विनामाभावात् सप्ताश्वत्वाच्च तद्रथस्य । चतुरश्वत्वं चात्रोच्यते । श्रोत्रे पक्षसी चक्षुषीयुक्ते इत्यध्यात्मसम्बन्धाच्च । न च रात्रौ सुदिनमिति प्रयोगो दृष्टः । असुदिनस्यापि तत एव जातत्वाद् व्यर्थविशेषणता च । अस्मिन् पक्षे तु ƒौकिकाहर्व्यावृत्त्यर्थ सुदिने इति युज्यते । जीवन्मुक्तिश्च मुक्तिश्च हि मुख्ये सुदिने । “स य आत्मानमेव ƒोकमुपास्ते न हास्य कर्म क्षीयतेस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते’ इति ज्ञानावस्थायां मुक्तौ भोगबाहुल्यकारणत्वात् सापि मुक्तिवत् सुदिनम् । न हि मुक्तावधिक्यार्जनमस्ति । “न हीयते यत्र गत्वा यत्र गत्वा न वर्धते’ इति वचनात् । अतो ज्ञानोत्पत्तिसमनन्तरमेव मुक्तौ न पुनरार्जनमस्तीति किञ्चित् काƒं ज्ञानित्वेनावस्थानमपि सुदिनमेव । ज्ञानात् पूर्वं तु पतनसंशयादेव न सुदिनम् । न चाश्विरथो वर्ण्यते । न ह्यश्विरथयोगादहनी जायेते । एकरासभयुक्तो हि तद्रथः । “तद्रासभो नासत्या सहस्रम्’ इति वचनात् । न च विवस्वच्छब्दोश्विनोर्विद्यते । “यो देवानां नामधा एक एव’ इति विष्णोः सर्वनामानि प्रसिद्धानि च । “युजो युक्ता अभियत्संवहन्ति’ इत्यादिना तस्यैव प्रस्तावाच्च । अतो विष्णुरेव मुख्यतः सर्वनामोक्त इति सिद्धम् ॥8॥
॥ इति तृतीयोध्यायः ॥

॥ अथ चतुर्थोध्यायः ॥
अयं नारायणस्त्वासीत् प्रƒये रमया सह । नित्याततगुणत्वात् स आत्मेति श्रुतिषूदितः ॥
इदं सर्वमपेक्ष्यासौ काƒतो गुणतस्तथा । अग्र्य एव समस्तेभ्यस्तद्वशत्वाद् रमापि सा ॥
विद्यमानापि नाग्रस्था गुणैरूना ततो यतः । न ब्रह्मा न शिवश्चासीन्नैवान्यच्च मिषत् क्वचित् ॥
सुप्तास्तत्र यतो जीवाः सर्वे ब्रह्मशिवादिकाः । असुप्ता श्रीश्च मुक्ताश्च स्वतन्त्रोन्मेषवर्जनात् ॥
अनुन्मेषा एव तेपि स्वतन्त्रोन्मेष एकराट् । नारायणो न चान्योस्ति पूर्णोन्मीƒद्गुणात्मकः ॥
पराधीनेन वित्तेन भुंजन्नपि हि भिक्षुकः । वित्तवानिति नैवोक्तस्तथा श्रीर्मुक्तिगा अपि ॥
मिषन्तोप्यन्यतन्त्रत्वान्न मिषन्तः कथञ्चन । सर्वदाप्येक एवायं स्वतन्त्रो नापरः क्वचित् ॥
काƒाग्र्यत्वं वक्तुमस्य प्रƒये स्थितिरुच्यते । स ऐच्छद्भगवान् विष्णुः स्रष्टुं ƒोकाभिमानिनः ॥
ƒोकाभिधानवद्देवाञ्जडƒोकांश्च शाश्वतः । स ƒोकेभ्यः पूर्वतनानबाख्यान् महदादिकान् ॥
ब्रह्मशर्वादिकान् सृष्ट्वा जडैस्सह जनार्दनः । दिवमाकाशमुर्वीं च ससृजेथ द्विसप्तकान् ॥
इति सृष्ट्वा स ƒोकांस्तु पुनस्तानेव ƒोकपान् । अण्डान्तः स्रष्टुमैच्छच्च तेषां पूज्यत्वसिद्धये ॥
अम्नामकेभ्यस्तेभ्यः स पूर्वसृष्टेभ्य एव तु । सर्वजीवाधिकत्वात् तु ब्रह्माणं पुरुषाभिधम् ॥
अंशेनोद्धृत्य रुद्राद्यैः सह चैनमयोजयत् । तथैव चेतनानाञ्च भागानुद्धृत्य पिण्डवत् ॥
चेतनाचेतनं राशिमेकस्थं विदधे प्रभुः । पुनरैच्छञ्जगन्नाथस्तस्याङ्गोत्यपत्तिमच्युतः ॥
अण्डवन्मुखमस्यासीत् प्रथमं तु शिरोभिधम् । भिन्नमास्यं पुनस्तस्य विष्णोरेवेच्छया प्रभुः ॥
तत्र वाङ्नामकं रूपं वह्नेरसीत् पुरातनम् । तस्यैवाथ द्वितीयं च यदग्निरिति गीयते ॥
तथैव नासिकातोभून्मुख्यवायोः सुतो मरुत् । प्राणो वायुरिति द्वेधा चक्षुषोभूत् तथा रविः ॥
द्विरूप एव कर्णाभ्यां मित्रधर्माप्यवित्तपाः । दिग्देवता द्विरूपेण बभूवुः सर्व एव च ॥
हृदयाद् गरुडानन्तशिवचन्द्राः पृथक् पृथक् । मनो बुद्ध्यभिमानाश्च तन्नामानश्च जज्ञिरे ॥
त्वचश्च रोमनामानो वृक्षनामान एव च । द्विविधाः पारिजाताद्या बभूवुबर्‌रह्मदेहतः ॥
हस्ताभ्यां द्विविधः शक्रः पद्भ्यां तत्सूनुरेव च । यज्ञस्त्वजनि पायोश्च यमो निर्ऋतिरेव च ॥
रेतोम्नामा द्विरूपस्तु शिव एव च गुह्यतः । अपानो मृत्युरिति च मुख्यो नाभेस्तु मारुतः ॥1॥

एवं रूपद्वयेनापि स्तुवन्तो विष्णुमव्ययम् । दिव्याम्बराः कुण्डिƒनः प्राविशन्नुदकार्णवम् ॥
तदाशनापिपासाख्यं द्विरूपं मारुतं पुनः । तस्मिन् देवसमूहे तु विष्णुः प्रावेशयत् प्रभुः ॥
तेब्रुवन् देहि नो वासं यत्र चान्नमदामहे । गोरूपमेभ्यो ब्रह्माणं ददौ नारायणः प्रभुः ॥
तत्र प्रविश्य ते देवा नाƒमित्यब्रुवन् पुनः । अश्वरूपं विरिञ्चश्च पुनरेवावदत् प्रभुः ॥
तद्रूपेपि प्रविश्यैव नाƒमित्यब्रुवन् पुनः । पूर्वसृष्टं पुमाकारं ब्रह्मणोदात् पुनर्हरिः ॥
तद्दृष्ट्वैवाƒमित्यूचुर्विशतेति स चाब्रवीत् । विविशुश्च यथोत्पन्नाः सर्वे देवाश्चतुर्मुखम् ॥
अशनापिपासामानी तु द्विरूपो मारुतोवदत् । कुवाज्ञामावयोश्चैव यथा त्वच्छासनानुगौ ॥
नित्यं भवावेति हरिः सर्वत्र प्रविशेत्यमुम् । आह तस्माद् देवतानां सर्वासां भागभुङ् मरुत् ॥
एक एव प्राणनामा नाभिस्थोपि स एव तु । अशनापिपासापानश्च मृत्युश्चेति चतुर्विधः ॥
एक एव महान् वायुः सर्वदेवेषु संस्थितः ॥2॥

पुनरैच्छत् केशवोसावन्नमेभ्यः सृजा इति । अबाख्याः देवताः पूर्वं सृष्ट्वा ब्रह्मादिकाः पुनः ॥
ददर्श सुविशाƒाभ्यां नेत्राभ्यां पुष्करेक्षणः । तद्दर्शनात् तदिच्छातस्तासां देहोभवत् पृथक् ॥
सर्वासामपि देहैकदेशेभ्यो मििƒतं शुभम् । सर्वैरधिष्ठितं चैव विरिञ्चेन विशेषतः ॥
दिव्यावयवसम्पन्नमेकमेव सुƒोचनम् । भोग्यभोक्त्रात्मना नास्ति तस्य दुःखं कथञ्चन ॥
ते हि देवाः स्वयं भोग्याः स्वयं भोक्तार एव च । क्रीडन्ते मोदिनो नित्यं तथाप्यन्नात्मकस्त्वसौ ॥
क्रीडयापाक्रमत् किञ्चित् तं तदासौ चतुर्मुखः । अत्तुं वागादिभिः सर्वैरैच्छन्नाप्यशकत् तदा ॥
जानन्नपि क्रीडयैव तारतम्यं प्रकाशयन् । एवं चकार ब्रह्मा स क्वाज्ञानं ƒोककर्तरि ॥
क्षुत्पिपासदयश्चैव देवानां भोगसाधकाः । न तु पीडाकरास्तेषामैश्वर्यादिगुणोन्नतेः ॥
अन्नमूर्तिं ततो ब्रह्मा प्रधानेनैव वायुना । अपानाख्येनात्तुमैच्छत् तदैवाशकदाशु सः ॥
तस्माद् भोक्तैक एवासौ सर्वस्यान्नस्य मारुतः । तत्प्रसादात् परेश्नन्ति किञ्चित् किञ्चिन्न चाखिƒम् ॥
आयुरूपोखिƒानां च देवानां वायुरेव हि । अन्नदेवस्य चायुः स तस्माद्देवोत्तमो मरुत् ॥
आयुःशब्दो ज्ञानवाची गतिवाची च यत्ततः । चेष्टामोक्षज्ञानदाता सुराणां मारुतस्ततः ॥
अन्योन्यगुणदातृत्वात् समानौ ब्रह्ममारुतौ । तस्मान्मोक्षे सुखे ज्ञाने विष्णुभक्त्यादिकेष्वपि ॥
सर्वेभ्यश्चाधिकौ तौ हि तयोर्विष्णुः परस्सदा । देवतानां प्रवेशात् तु पूर्वमेव जनार्दनः ॥
इत्थमैक्षत देवेशो ब्रह्माद्या यदि मां विना । क्रियादिषु समर्थाः स्युर्न मे विष्ण्वभिधा भवेत् ॥
सर्वचेष्टयितृत्वाच्च विशिष्टबƒतस्तथा । विष्णुरित्यभिधा मह्यं सा न युक्ता दिवौकसाम् ॥
स्वतन्त्रत्वे ततः सर्वे मद्वशा एव नान्यथा । तस्मादेषां प्रवृत्त्यर्थं प्रवेक्ष्ये सह वायुना ॥
इति मत्वा विरिञ्चस्य शरीरं प्रविवेश सः । मूर्धन्यनाड्या प्रथमं ब्रह्मवायुसमन्वितः ॥
अग्न्यादयस्ततः पश्चात् प्रविष्टास्तन्नियोजिताः । प्रपदाभ्यां तथान्येन रूपेण प्रविवेश सः ॥
बिभर्ति देहं तेनैव मूर्धाविष्टेन चेष्टयन् । नारायणो वासुदेव इति द्विधा व्यवस्थितः ॥
मूर्धाविष्टो वासुदेवस्तस्य चावसथास्त्रयः । अक्षि कण्ठो हृदित्येव त एव स्वपन्नामकाः ॥
आप्नोत्यत्र स्वयं विष्णुरतः स्वप्नाः प्रकीर्तिताः । अनिरुद्धादिरूपेण त्रिधा तेषु व्यवस्थितः ॥
दातावस्थात्रयस्यास्य जीवस्य क्रमशो विभुः । सुषुम्नायां वासुदेवो मूर्धन्येव व्यवस्थितः ॥
तस्यामेव ब्रह्मनाड्यां स्थितो नारायणः प्रभुः । स एव भगवान् विष्णुः प्रादुर्भावात्मना पुनः ॥
जातो मत्स्यादिरूपेण सर्वभूतेषु चाविशत् । असुराणां निहन्तारं ज्ञानादिगुणदं तथा ॥
चेष्टाप्रदं च भूतेषु न मदन्यं वदत्यपि । इति मत्वा जगन्नाथो दैत्यनिग्रहणेच्छया ॥
ज्ञानदानार्थमपि तु प्रादुर्भूतो भुवि प्रभुः । तथा जीवेषु सर्वेषु प्रविष्टः प्रेरणेच्छया ॥
को ह्यन्यस्तमृते विष्णुमेतत्कर्म करिष्यति । स सर्वगुणसम्पूर्णं सर्वगं नित्यमव्ययम् ॥
एतदेवस्वरूपं स त्वपश्यदवतारगम् । तस्मात् सर्वावताराश्च सर्वजीवेषु संस्थिताः ॥
प्रादुर्भावाः सर्वगुणैः पूर्णा एव सदा स्थिताः । पश्यन्ति च तथा नित्यं निर्दोषोरुस्वसंविदा ॥
गुणपूर्णस्वरूपस्य त्वापरोक्ष्येण दर्शनात् । सर्वदैव ह्यसौ विष्णुरिदन्द्रो नामतो मतः ॥
ब्रह्मादीनां हि सर्वेषां तत्प्रसादेन जायते । जानन्ति न स्वतस्तेन नेदन्द्रास्ते प्रकीर्तिताः ॥
रमापि तत्प्रसादेन जानाति किमुतापरे । अल्पज्ञाना अल्पगुणा अल्पानन्दाश्च तेखिƒाः ॥
रमाजशङ्करेन्द्राद्यास्तेनानिन्द्राः क्रमेण ते । पापैरज्ञाततां देवा मानयन्ति सदात्मनः ॥
हर्षेण तेन विष्णुः स इन्द्र इत्यभिशब्द्यते । नेदन्द्रतासुरादीनां ज्ञायेतेति श्रुतिर्हरिम् ॥
इन्द्र इत्येव वदति पारोक्ष्येणोरुसद्गुणम् ॥ इत्याद्यैतरेयसंहितायाम् ।
आततगुणत्वादात्मा नारायणः । ब्रह्म पन्थाः सत्यं कर्मेति तस्यैव पञ्चरात्रप्रसिद्धैरेव नामभिरारब्धत्वाच्च ।
मुख्यतः कर्मनामा तु प्रादुर्भावात्मको हरिः । अनिरुद्धतनुश्चैत तत्र ह्यमितचेष्टितः ॥
कर्माभासा जीवसङ्घाः सत्यं प्रद्युमन्नामकः । सङ्कर्षणो हरिः पन्थाः ब्रह्मोक्तो वासुदेवकः ॥ इत्यादिनामनिर्णये ।
“मत्सीन्द्रमिन्दो पवमान विष्णुम्’ इत्यादिश्रुतौ तस्मिन्नेव प्रसिद्धस्येन्द्रशब्दस्य बहुशोभ्यासाच्च । अकारस्य च विष्णावेव प्रसिद्धस्यात्राप्यभ्यासात् । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी इति सूर्यमण्डƒे पुण्डरीकाक्षत्वेन निर्दिष्टस्यात्रापि य एष तपतीत्यादिना बहुशोभ्यासाच्च । सूर्यो हि विरूपाक्षः । सविता देव आगादिति पिङ्गƒाक्षः प्रसिद्धः ।
विरूपाक्षः शिवः सूर्यः सुराचार्यो विनायकः । पुण्डरीकेक्षणो विष्णुः सहस्राक्षः सुराधिपः ॥ इति च स्कान्दे ।
यो देवानां नामधा एक एव । नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति । यमिन्द्रमाहुर्वरुणं यमाहुः ।
चन्द्रसूर्यादयः शब्दा विष्णावेव हि मुख्यतः । उपचारात् तदन्येषां विष्णुनैव कृताः पुरा ॥ इत्यादिना तस्यैव सर्वनामवत्वाच्च ।
णकारो बƒं षकारः प्राण आत्मेत्यादिनान्तेपि विष्णुशब्दव्याख्यानेनोपसंहाराच्च ।
आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् । न वर्तन्ते तदन्यत्र शृङ्गिबेरेग्निशब्दवत् ॥ इति च पाद्मे ।
एको नारायण आसीन्न ब्रह्मा न च शङ्करः । एको नारायण आसीन्न ब्रह्मा नेशानः । वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः ॥ इत्यादि श्रुतिभ्यश्च । अग्रशब्दो गुणाधिक्यवाची । इदं रमाब्रह्माशिवादिकं सर्वं जगदपेक्ष्यात्मैवाग्रे विष्णुरेवाग्र्यः सर्वगुणैरित्यर्थः । तत्र हेतुस्तदन्यत् किञ्चिन्न मिषदासीत् । सर्वस्याप्युन्मेषणं नासीदित्यर्थः । स्वत उन्मेषणं कस्यापि नास्ति । अस्तिशब्दवदासीच्छब्दोपि सर्वकाƒसाधारणः । भगवत्प्रसादादेव सर्वदा सर्वं किञ्चिदुन्मिषति । स्वातन्त्र्येण पूर्णोन्मेषो विष्णुरेव ।
उन्मेषो गुणसम्पूर्तोद्रिक्तानुभवः स्मृतः । तदेव मिषणं नाम सद्रूपं मिनुते यतः ॥
मिषच्च नान्यद्विष्णोर्हि किमुतोन्मिषदिष्यते । उच्चैर्मिषन् हि भगवान् सर्वदैव जनार्दनः ॥ इति च सत्तत्त्वे ।
नास्ति नारायणसमं न भूतं न भविष्यति । इति च भारते । सर्वजीवानां रमायाश्च प्रƒयेपि विद्यमानत्वादेव नाग्र इति काƒापेक्षया तदधीनमिषत्वादन्येषामग्र्यः स एवेत्याशयः । तदधीनत्वमेव तेषां सृष्ट्यादिना दर्शयति । स्थूƒशरीरस्य पूर्वाभावस्तत एवार्थतः सिद्ध्यति ।
प्रƒयेप्यखिƒं देवी रमा विष्णुप्रसादतः । जानाति नित्यज्ञानेन मुक्ता ध्यानस्थिता ƒये ॥ इति च सत्तत्त्वे ।
ब्रह्मादीनां शरीरान्तरस्यापि प्रƒयेनुक्तेरेवाभावः सिद्ध्यति ।
आत्मा ब्रह्माग्र इत्यादि गुणाग्र्यत्वं हरेर्वदेत् । काƒज्यैष्ट्यं न यस्मात् तत्सृष्ट्युक्तेरेव सिध्यति ॥ इति वाक्यनिर्णये ।
गुणाग्र्यतायामेव काƒज्यैष्ठ्यस्याप्यन्तर्भावाच्च । अं विष्णुं बिभर्तीत्यम्भो विष्णुƒोको दिवः परः । महदादयश्च दिव्यपि भगवान् प्रतितिष्ठतीति प्रतिष्ठा । तेषु सर्वेषु प्रत्यक्षतश्चरति विष्णुस्तस्मादम्भ इत्युच्यते । दिवः परे द्यौश्चाम्भोनामका इत्यर्थः । सूर्यमरीचीनां तत्र विशेषेण विततत्वादन्तरिक्षं मरीचयः । मरीचीनामयनात् । पृथिव्यां क्षिप्रं मरन्तीति पृथिवी मरः ।
भूतेभ्योनन्तरं त्वण्डं सृष्ट्वा विष्णुः पुरा प्रभुः । ƒोकभेदांश्च चक्रेत्र पश्चाद् ब्रह्मा विशेषतः ॥
सम्यक्चकार ƒोकांस्तांल्लोककर्ता ततः स च ॥ इति ब्रह्मवैवर्ते ।
या अधस्तात् पूर्वमेव सृष्टा देवतास्ता आप इत्युच्यन्ते । आप इत्याप इतीति पूर्वं भगवदङ्गसृष्टानामेवाप्शब्देनोक्तेः । अयं पितैते पुत्रा इति च । आहं मां देवेभ्यो वेद ओमद्देवान् वेदेति च ।
ब्रह्मवायू च तद्भार्ये वीन्द्रशेषौ च तत्स्त्रियौ । शिवस्तद्दयिता शक्रकामौ तद्दयितादयः ॥
सर्वे सुराः क्रमेणैव विष्णोर्जाता अबाख्यकाः । ज्ञानानन्दबƒाद्येषु विष्णुभक्तौ च सर्वशः ॥
हीनाः शतगुणेनैव क्रमेणानेन ते मताः । तेभ्यश्च ऋषयो मर्त्या हीना एव क्रमेण च ॥
विशेषतस्तु मुक्तानां सर्वसंसारबन्धनात् । क्रमोयं सम्यगुद्दिष्टो नित्यानन्दैकभोगिनाम् ॥
न विशेषो ब्रह्मवाय्वोरवधिकाराविभेदतः । न शेषशिवयोश्चैव तत्पत्नीनां च सर्वशः ॥
सुपर्णशेषयोश्चैव साम्यं सर्वगुणेष्वपि । साम्यमेवैतयोः पत्न्योः साम्यं शक्रमनोजयोः ॥
एते तु महादादीनां सर्वेपि ह्यभिमानिनः । पूर्वस्य प्रतिबिम्बश्च चरमस्तत्सुतस्तथा ॥
तद्वशाश्चाखिƒा विष्णोर्न विष्णुः कस्यचिद्वशे । महदादिमानिनश्चैते जातास्तैः सह सर्वशः ॥
एते ƒोका इति प्रोक्ता ƒोकानामभिमानिनः । त एव ƒोकपाƒाश्च यदा पश्चाद् प्रजाज्ञिरे ॥
पश्चाज्जातैर्हि रूपैस्तैर्ƒोकस्थान् पाƒयन्त्यƒम् ॥ इत्यादि तत्त्वसारे ।
अमूर्च्छयत् मूर्तमकरोत् । अग्निर्वाग् भूत्वेत्यादिना पश्चादैक्यप्रतीतेरेकस्यैव रूपद्वयं तदिति प्रतीयते । प्रजानीहि प्रकर्षेणानुजानीहि । अन्नदेवता च सर्वदेवतायुक्तो विरिञ्च एव । ग्रसनं चैतस्मिन् प्रवेश एव । न तु पीडा तस्य । एक एव हि ब्रह्मा भोक्तृभोज्यत्वेन स्थितो भोज्यरूपेणैकीभूयातितरां मुमोदेत्यर्थः । देवानामुपद्रवाभावाद् भोक्तृतत्वशक्तियोजनमेवाशनापिपासाभ्यामन्ववार्जनम् । वायुरेव च भोक्तृत्वशक्तिरूपः । यदि वागादीनामेवाभिव्याहरणादिशक्तिः स्यान्मां विना तर्हि विष्णुत्वं न मम स्यात् तस्मात् कोहं भवानीत्याक्षेपः । विशेषेण प्राणयति सर्वान् सर्वेभ्यो विशिष्टश्चेति हि विष्णुः । णकारो बƒं षकारः प्राण आत्मेति व्याख्यानात् । तस्मान्मत्प्रेरिता एवैते अभिव्याहारादिशक्ता इत्यभिप्रायः । पूर्णानन्दस्वरूपत्वान्नन्दनो भगवान् । प्रादुर्भावरूपेण जातोपि भगवान् सर्वभूतान्यभितः सर्वकाƒेषु विशेषेण पश्यत्येव । इह भूतेषु मत्तोन्यं प्रवर्तकं वदेत् किमित्याक्षेपः । अहमेव स्वतन्त्रः परिपूर्णगुण इति कृष्णराघवादिसर्वावतार रूपेपि सर्वदानुभवत्येव ।
नायं दशरथाज्जातो न चापि वसुदेवजः । क्वास्याज्ञानं कुतो दुःखं प्रादुर्भावेष्वपि प्रभोः ॥
प्रादुर्भूतश्चिदानन्दशरीरो राघवः स्वयम् । स्तम्भाद्वा नरदेहाद्वा नैवास्य प्राकृती तनुः ॥
दैत्यानां मोहनार्थाय सोज्ञानाद्यं प्रकाशयेत् । पूर्णचित्सुखरूपोपि सदा सर्वावतारगः ॥ इत्यादि स्कान्दे ।
एतमेव पुरुषं व्यासकृष्णकपिƒराघवादिरूपं ततमपश्यत् । ततमं परिपूर्णतमं ब्रह्मापश्यत् । इदं मे स्वरूपमदर्शमेवाहमिति । रङ्गस्त्ववधारणे । “रङ्गोवधारणे चैव संवादे च प्रयुज्यते’ इति पदविवेके । अपश्यदित्यत्र नातीतकाƒत्वं विवक्षितम् । अभिव्यैख्यदित्यभिशब्दस्यानुषङ्गात् । अपश्यत् पश्यतीति चैककाƒसम्बन्धं विना वक्तुमशक्यत्वात् तथा प्रयोगः ।
प्रयोग एककाƒीनः सर्वकाƒेनुषज्यते । ददर्श विष्णुरित्यादौ नित्यचिद्रूपतो हरेः ॥ इत्यादि सत्तत्त्वे ।
परोक्षप्रिया इवेत्यसुराणां सम्यगदर्शनेन पतनं देवानां प्रियं तथाप्यपरोक्षदर्शिन्येव प्रीतिं कुर्वन्तीतीवशब्दः ॥3॥
॥ इति चतुर्थोध्यायः ॥

॥ अथ पञ्चमोध्यायः ॥
अयं नारायणो देवः पुरुषे प्रथमं विशेत् । अन्नस्थोन्नेन सहितस्तस्मिन् रेतस्त्वमागते ॥
तस्मिन् स्थितं स्वरूपं स पुरुषास्थो बिभर्त्यजः । तद्रूपं रेतसा साकं स्वयं पुंसि स्थितो हरिः ॥
स्त्रियां सिञ्चति तस्यैव स्थानान्तरगतेः प्रभोः । प्रथमं जन्म विष्णोस्तु स तस्या अङ्गवत् प्रभुः ॥
नैनां हिनस्त्यानुकूल्यात् सा पुत्रं भावयत्यथ । पुत्रस्य भावना सैव तद्गत्वाद् हरिभावना ॥
सम्भावितव्या सा चैव भर्त्रा पुत्रश्च सादरम् । सम्भावनं कुमारस्य जानतः केशवे भवेत् ॥
तस्येत्यर्पणमात्रेण पूजितो हि भवेद्धरिः । पुत्रस्थस्य हरेः पूजां कुर्वतः पृथिवीस्थितिः ॥
स्वर्गस्थस्यापि भवति पुत्रपुण्यं यतोखिƒम् । अत्यल्पपुण्यभाक् स स्यान्नार्चयेत् केशवं यदि ॥
पृथिव्यां जन्म पुत्रस्य द्वितीयं विष्णुजन्म हि । एतद्रूपं निधायैव जीवार्थे धर्मकर्तवे ॥
पितृस्थेन तु रूपेण गच्छत्यन्यत्र केशवः । पितुरन्यत्र जननं तृतीयं जन्म तद्धरेः ॥
अन्तर्यामितयैवं हि सर्वजीवेषु संस्थितम् । सर्वदोषोज्झितं विष्णुं कर्तारं सर्वकर्मणाम् ॥
नित्यानन्दं स्वतन्त्रं च सर्वज्ञं सर्वतोधिकम् । यो वेद देहबन्धात् स विमुक्तो नित्यमुत्तमम् ॥
भोगान् भुङ्क्ते यथायोग्यमिति वेदानुशासनम् ॥ इत्यैतरेयसंहितायाम् ।
नात्र जीवोत्पत्तिमात्रमुच्यते । न हि जीवोत्पत्तिमात्रपरिज्ञानादमृतत्वं भवति । ज्ञातमेव सर्वैः पितापुत्रसम्बन्धमात्रं पश्वादिभिरपि । “गर्भे नु सन्नन्वेषामवेदमङ्गं देवानां जनिमानि विश्व’ इत्युक्तार्थ उदाहृतमन्त्रे देवजन्मकथनाच्च । विष्णुर्हि परमो देवः । तेनैव सह सर्वेपि देवा जीवदेहजनने जायन्त इव । शरीरप्राप्तिरेव हि जन्मान्येषामपि । अयमेव विशेषो देवानां दुःखाभोगः । स्वातन्त्र्यं च विष्णोः । आत्मन्येवात्मानं बिभर्ति आत्मानमेव तद्भावयतीत्याद्यात्मशब्दश्च मुख्यतो विष्णावेव युज्यते । णकारो बƒं षकारः प्राण आत्मेति विष्णुशब्दार्थैकदेशवाचित्वाच्चात्मशब्दस्य । एतया द्वारा प्रापद्यतेति तस्यैव शरीरप्रवेशस्य प्रस्तुतत्वाच्च । जीवशरीरं परित्यज्यान्यत्रगमनमात्रं विष्णोरप्यस्तीति प्रैतीत्युक्तेप्यविरोधः । कृष्णराघवादिस्वरूपमेव ह्यसौ न परित्यजति ।
कृष्णो ह्यत्यक्तदेहोपि त्यक्तदेहवदेव च । ƒोकानां दर्शयामास स्वरूपसदृशाकृतिम् ॥
येन रूपेण कंसादीन् जघ्ने तद्रूपमेव हि । पूज्यतेद्यापि शर्वाद्यैर्निर्मितान्या शवाकृतिः ॥
स्वर्गारोहणकाƒे तु जनास्तेनैव मोहिताः । यत्तद्रूपं निजं विष्णोर्दृष्टं सर्वजनैर्भुवि ॥
अद्यापि तद्देवƒोके पूज्यते सर्वदैवतैः ॥ इत्यादि स्कान्दे ।
प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् । आदायान्तरधाद्यस्तु स्वबिम्बं ƒोकƒोचनम् ॥ इति च भागवते ।
प्रेतां यज्ञस्य शम्भुवेत्यादिवत् प्रकृष्टगतिवाच्येवायं शब्दः । प्रकृष्टगतित्वादेव च मरणेपि प्रयुज्यते । एषामवेदमहमित्यत्रापि जीवभेद एवोक्तः । अन्यथा मम जनिमानीत्येवोच्येत । व्यर्थता चैषामित्यादि विशेषणानाम् । अवेदमित्यनेनैव स्वस्य सिद्धत्वादहमित्यप्यहेयत्वेनेति क्रियाविशेषणम् । जन्म जानन्नपि देवानां दुःखादिहेयरहितत्वेन व्यजानामीत्यर्थः । तस्मादहं मनुरित्यादावत्यहेयगुणं भगवन्तमेवाहंशब्दो वक्ति । सर्वान्तरत्वात् तस्मिन्नेवाभवमित्युत्तमपुरुषशब्दोपि सर्वो भवति ।
अहेयत्वादहं विष्णुः स तु सर्वान्तरत्वतः । अस्यस्तीत्यादिभिः शब्दैरुच्यतेन्योपि जीवतः ॥ इति ब्रह्मवैवर्ते ।
न च मूढव्यापार एव वेदनिर्णयाय भवति । किन्तु सर्वेषामनुभवो युक्तयश्च वाक्यान्तरं च निर्णयकारणम् । तस्मात् सर्वजीवादिभ्योन्यः सर्वोत्तमो विष्णुरेवात्रोक्तः ।
न वेदेषु पदं किञ्चिद्वर्णो वा व्यर्थ इष्यते । यथायोग्यं चार्थभेद ऊह्यः सर्वत्र वेदिभिः ॥ इति शब्दनिर्णये ॥
शब्दा रेतोन्नमित्याद्या अपि तत्र गतं हरिम् । वदन्त्यविष्णुवाची हि न शब्दः क्वचिदिष्यते ॥ इति च ।
भावयति सम्भावयति । सोग्र एव सोग्र्यो विष्णुरेव । पुत्रसम्भावनमपि तत्रस्थं विष्णुं सम्भावयामीति तत्तस्यैव भवति । एवं भावयतामेवैष पन्था उरुगाय इत्याद्यपि । तं पश्यन्ति पशव इत्याद्यपि दिव्यपश्वादीनामेव । अन्येषां स्वभावप्रवृत्तिः । ता एव देवताः शतं पुर आयासीर्ज्ञानिन्यो विशेषतः । अय पय गताविति धातोः । मानुषानपेक्ष्य पूर्णत्वात् पुरः । विष्णुर्मुख्यत एव पूर्णः । न च शरीरैर्जीवो रक्षितः । मुख्ये युज्यमाने च नामुख्यार्थः कल्प्यः । शमस्य विद्यते इति शी विष्णुः पूर्णानन्दत्वात् । स एव ज्ञानत्वाद्यश्चेति श्यः । सोस्य जीवस्येन इति श्येनः । विष्णुं स्वामिनं ज्ञात्वेत्यर्थः । निरदीयं निष्क्रम्यातीतोस्मि गर्भवासं स्वरानन्दो विष्णुरत्रग इति स्वर्गƒोको विष्णुƒोकः । अमृतः सन् सर्वान् कामानाप्त्वा तानेव सर्वान् कामान् समभवदनुभवति । अपेक्षितवस्तुस्वीकारः आप्तिः । सम्भवो भोगः तान् समभवत् ततो मनुष्या आजायन्तेत्यादिवत् । मुक्त्यनन्तरमेव ह्यनुपचरितसर्वकामावाप्तिः । मुख्य एव चार्थः स्वीकार्यः । अमुक्तानां विष्णुƒोकगानामपि न सर्वकामावाप्तिः । जयविजयादीनामप्रियदर्शनात् । अतोमृतः सन् सर्वान् कामानाप्त्वेत्यर्थः ।
मुक्तः कामानवाप्नोति भुङ्के चैव यथेष्टतः । सर्वानपि निरातङ्क सर्वदा च हरेर्वशः ॥ इति सत्तत्त्वे ॥
॥ इति पञ्चमोध्यायः ॥

॥ अथ षष्ठोध्यायः ॥
अयं विष्णुर्हि किंरूप उपास्योस्माभिरच्युतः । इत्यपृच्छद् रमा देवी महिदासं जनार्दनम् ॥
आह तां महिदासाथ पूर्णानन्दतमस्त्विति । उपास्यस्तादृशो ह्यस्य स्वभावः परमात्मनः ॥
येन जीवो दर्शनादान् प्रेरितः कुरुते सदा । यो विष्णुर्हृदयमिति हृद्गतत्वात् प्रकीर्तितः ॥
मन्तृत्वान्मन इत्येव यच्च ज्ञानस्वरूपतः । एतत्सन्निहितत्वाच्च पूर्णत्वादेति कीर्तितम् ॥
इतत्वाच्च ततत्वाच्च स इतन्नाम केशवः । गुणानामुच्चयो यस्मात् स च इत्येवशब्दितः ॥
सम्यग्ज्ञानस्वरूपत्वात् संज्ञानमिति कीर्तितः । आततज्ञानरूपत्वादाज्ञानं भगवान् हरिः ॥
विविधज्ञानरूपत्वाद्विज्ञानमिति कीर्तितः । प्रकृष्टात्मगुणज्ञानरूपः प्रज्ञानमुच्यते ॥
अविस्मृतित्वान्मेधा स दृष्टिर्दर्शनरूपतः । धृतिर्धारणरूपत्वात् मतिर्मासु ततत्वतः ॥
मनुनाम्नामजादीनां मनीषेशो यतो हरिः । सर्वप्रेरकरूपत्वाज्जूतिरित्यभिधीयते ॥
सर्वदेशेषु काƒेषु स्वरूपेषु च सर्वशः । समं रमत इत्येव स्मृतिर्नाम जनार्दनः ॥
सर्वस्य क्लृप्तिकर्तृत्वात् सङ्कल्प इति गीयते । क्रतुः स सर्वकर्तृत्वादसुरप्यसनाद्धरिः ॥
समेयानन्दरूपत्वात् काम इत्यभिधीयते । अवशः स स्वतन्त्रत्वात् त्रयोविंशतिनामकम् ॥
यो वेदेवं हरिं सम्यङ् मुच्यतेखिƒसंमृतेः । ब्रह्मा शिवश्च शक्रश्च देवाश्चान्ये समस्तशः ॥
तथैव पञ्चभूतानि पुण्यपापविमिश्रिताः । क्षुद्रात्मानस्तु ये मर्त्या इतरे असुरा अपि ॥
सर्वं जगदिदं विष्णोर्वशे तिष्ठति सर्वदा । तेनैव नीयते नित्यं तस्मिन्नेव प्रतिष्ठितम् ॥
मुक्ता ये ƒोकनामानो नीयन्ते तेपि विष्णुना । स्वयं चानन्यनिष्ठत्वात् प्रतिष्ठेत्यभिधीयते ॥
देशतः काƒतश्चैव गुणतश्चातिपूर्तितः । विष्णोबर्‌रह्मेति नामैतन्मुख्यतोन्यत्र न क्वचित् ॥
सोƒोकनामा मुक्तास्तु चितिमात्रस्वरूपतः । प्रकृष्टज्ञानरूपस्य प्रसादात् परमात्मनः ॥
अस्माद्देहात् समुत्क्रम्य गत्वोर्ध्वं ƒोकमुत्तमम् । अमृतः सन् विष्णुƒोके भोगान् सम्प्राप्य पुष्कƒान् ॥
भुङ्क्ते यथेष्टतो नित्यमिति वेदानुशासनम् ॥ इत्याद्यैतरेयसंहितायाम् ।
जानन्त्यापि देव्या ƒोकानुग्रहार्थं विशेषज्ञानार्थं च कोयमात्मेति पृष्टः स भगवानाह । कतरः स आत्मेति । कतरः आनन्दतमः “यत्रोभयोः प्रयोगो न तत्रैकार्थो तरप्तमौ’ इति शब्दनिर्णये । यत्प्रेरणादयं जीवो दर्शनादीन् करोति च । रमाब्रह्मादीनामपि तत्प्रेरितत्वात् । सर्वेषां दर्शनादिकारणत्वमेकैकमपि तस्य ƒक्षणं भवतीति वा शब्दः सर्वत्रानुषज्यते । प्रजापतिः शिवः िƒङ्गाभिमानित्वात् ।
प्रजापतिः शिवः शेषो िƒङ्गमित्यभिधीयते । िƒङ्गाभिमानी ƒोकस्य स्रष्टा गिरिश एव हि ॥ इति शब्दनिर्णये ।
सममस्त्वनयोर्युद्धमिति प्राह प्रजापतिः । वाक्यं शिवस्य तत् श्रुत्वा शक्रो नेत्याह सत्वरः ॥ इति भारते ।
क्षुद्रमिश्राणीव बीजानि शाल्यादिबीजवत् । भिन्नस्वभावा ब्रह्मादयः सर्वजीवाः ।
ब्रह्माद्याः सर्व एवैते जीवा भिन्नस्वरूपकाः । यथा शाल्यादिबीजानि भिन्नवीर्यानि सर्वशः ॥ इति सत्तत्त्वे ।
प्रथमेतराणीतिशब्दो मानुषाणां द्वितीयो सुरादीनाम् । प्रज्ञानेत्रोƒोक इति । अƒोकशब्देन मुक्तसमुदाय उच्यते । ब्रह्मादिस्थावरान्तस्य ƒोकस्य सर्वं तत्प्रज्ञाननेत्रमिति विष्ण्वधीनत्वस्य पूर्वमेवोक्तत्वात् पुनः प्रज्ञाननोत्रोƒोक इति मुक्तविषयमेव । मुक्तो ह्यƒोक्यत्वादƒोकः । अण्डजानि चेत्याद्युक्त्वा पुनरश्वा गाव इत्यादि देवादीनां मन आदेरेव जातानामपि स्वीकारार्थम् । अण्डजत्वाद्युत्पत्तिप्रकारोपि विष्ण्वधीन इति ज्ञापयितुं तत्कथनम् । “तथाश्मानस्तृणकाष्ठाश्च सर्वे दिदृक्षये स्वां प्रकृतिं भजन्ते’ इति भारतवचनादश्मादीनामपि प्राणित्वात् तत्स्वीकारार्थं प्राणीति । गमनपतनस्थिरत्वादयोपि भावा विष्ण्वधीना इति ज्ञापयितुं जङ्गममित्यादिवचनम् । स एतेनेत्यƒोकशब्दोक्तो मुक्तः परामृश्यते । सकƒकर्ममुक्त्यनन्तरं हि शरीरादुत्क्रामति । प्रकृष्टज्ञानरूपेण विष्णुना प्रेरितः प्रज्ञेनात्मनैवोत्क्रम्य तेनैव सर्वान् कामानाप्त्वा तेनैव सर्वान् कामान् स भुङ्क्ते इति सर्वत्रानुषज्यते । प्रज्ञानेत्रोƒोक इत्युक्ते कथं प्रज्ञानेत्रो मुक्त इत्याकाङ्क्षायां तस्यैव व्याख्यानं स एतेन प्रज्ञेनात्मनेत्यादि । अनुक्तविशेषणानामपि भगवधीनत्वज्ञापनार्थं प्रज्ञानेत्रो ƒोक इति सामान्यवचनम् ।
अनारब्धफƒानां च प्रारब्धानां च सर्वशः । कर्माणां दाह एवायं मुक्तिरित्यभिधीयते ॥
स तु मुक्तस्ततो देहादुद्गच्छति परात्मना । प्रेरितो विष्णुƒोकं च प्राप्य भोगानवाप्य च ॥
भुङ्क्ते विष्णुप्रसादेन न विष्णोरवशः क्वचित् । विष्णुतन्त्रा इमे सर्वे मुक्ता अपि यतोखिƒाः ॥ इति ब्रह्माण्डे ।
ब्रह्मेन्द्रादिशब्दा विष्णावेव मुख्यत इति तद्य्वावृत्त्या जीवानां स्वीकारार्थमेष इत्यादिशब्दः । स हि भगवान् स्वनेत्रकोपि नानुग्राह्यः । अनुग्राह्यत्वं हि ब्रह्मादीनामत्र विवक्षितम् । “नेयतानुग्राह्यतापि न सा विष्णोः स्वतोपि तु’ इति शब्दतत्त्वे ॥
॥ इति षष्ठोध्यायः ॥

॥ अथ सप्तमोध्यायः ॥
वाङ्मे मनसि प्रतिष्ठिता । अवबोधरूपे विष्णौ प्रतिष्ठिता स च विष्णुर्मे वाचि स्थितः । यदेतद्धृदयं मनश्चेति विष्णुनामधेयेषूक्तत्वात् । आविराविर्म एधि हे विष्णो ममाविराविर्भव । आणीस्थित आण्यां स्थित विष्णो िइत सम्बोधनम् ।
आधारः सर्ववेदानां वेदाणी प्राण उच्यते । तस्मिन् स्थितो हरिर्नित्यमाणीस्थ इति गीयते ॥ इति शब्दतत्त्वे ।
आविरावीरिति दैर्घ्यमतिशयार्थे । आधिक्येधिकमिति सूत्रात् । अणशब्दस्य गतिवाचित्वाच्चƒमाणमुच्यते । तस्य धारणेन तद्वानाणी । स्थापक इत्यर्थः । मे श्रुतं मा प्रहासीः । मम विद्यागोचर एव सर्वदा भव । विस्मृतो मा भव । हे विष्णो अनेन त्वद्विषयेणैवाधीतेनाहोरात्रान् सन्दधामि । सर्वाहोरात्रेष्वपि त्वद्विषयाध्ययनमेव करोमीत्यर्थः । ऋतं यथावदवगतं त्वां वदिष्यामि । सत्यं साधुगुणैस्ततं सर्वनियन्तारं च । तद्विष्ण्वाख्यं ब्रह्म मामवत्विति तस्यैव विष्णोः परोक्षत्वेनैव प्रार्थनम् ।
वाङ्म इत्यादिकं खण्डं विष्णुप्रार्थनरूपकम् । अविघ्नत्वमभीप्सूनां शिष्याणां दृष्टवान् हरिः ॥ इति च ॥

॥ इति सप्तमोऽध्यायः ॥
॥ इति द्वितीयप्रघट्टकः ॥

**************************************************************************

अथ तृतीयप्रघट्टकः ॥

॥ अथ प्रथमोध्यायः ॥
विष्णुनाम्नी षकारस्य णकारस्य च संहिताम् । विष्णोस्तु बहुरूपाणां वाचिकामृषयो विदुः ॥
तौ च वर्णौ हरेः सम्यक्स्वरूपप्रिुतपादकौ । बहुधैव स्थितस्यास्य सदैवैकस्वरूपिणः ॥
विष्णुनामार्थरूपत्वाद् वेदानामपि सर्वशः । अन्येषामपि शब्दानां संहिता विष्णुवाचिकाः ॥
तद्वाचकास्तथा वर्णाः सर्वे ƒौकिकवैदिकाः । पृथिवीनामकं रूपं पृथुत्वात् पृथिवीस्थितम् ॥
देवता पूर्ववर्णस्य पूर्वरूपं तदुच्यते । देवतोत्तरवर्णस्य क्रीडनाच्च द्युनामकम् ॥
दिवि स्थितं हरे रूपमुत्तरं रूपमुच्यते । वेदकत्वाच्चायनत्वाद्रूपं यद्वायुनामकम् ॥
विष्णोस्तद्वर्णयोर्मध्यदेवतेति प्रकीर्तितम् । संहितानामकं तच्च रूपद्वयसहस्थितेः ॥
वर्णद्वयं विकारं च षकारं केचिदब्रुवन् । षकारं मध्यमत्रैव णकारं केचिदुत्तरम् ॥
पृथक्करणमेवैषां वर्णयोर्मध्यमुच्यते । उपसर्गमात्रं वीत्याहुः केचिन्नाम ष्णुमात्रकम् ॥
षकारं च णकारं च वर्णौ पूर्वोत्तरावपि । व्यक्तिरेवोष्मणस्तत्र मध्यमित्यभिधीयते ॥
सर्वेप्येत उपादेयाः पक्षा निर्दोषका यतः ॥ इत्याद्यैतरेयसंहितायाम् ॥
आकाशस्थ आकाशनामा भगवान् वर्णयोर्मध्यदेवतेति माक्षव्यः । उभयरूपसंहित्वात् संहितानामकः । स माण्डूकेयस्तेन माक्षव्येनापरिहृतः स्वपक्षः इति मेने । मे मदीयेन मदुपासितेनास्याकाशस्य पुत्रेण वायुना न समागादसौ मक्षव्यः । वायुस्थविष्ण्वनुपासनात् । यद्यप्याकाशस्थो भगवान् संहितानामको भवति । तथापि न वायुस्थस्यासंहितात्वं भवतीत्यपरिहृतत्वम् । परिहृतो माण्डूकेयपक्ष इत्यहं मेन इत्यागस्त्यः । आकाशे विष्णूपासनस्याधिकफƒत्वात् । पिता ह्याकाशो वायोः । भगवतस्तु पक्षः समत्वमेव वाय्वाकाशयोरिति । आकाशस्य पितृत्वाद् वायोर्बƒाधिकत्वाच्चोभयोरुपासनास्थानत्वे साम्यम् । तस्मादुभावपि ग्राह्यौ । त्वगिन्द्रियदेवतात्वेनाकाशात् पूर्वमेव वायोः सात्विकाहङ्कारजत्वाद् वायोराकाशाद्गुणाधिकत्वम् ।
मनोवाक्प्राणनामासौ मन आदिषु संस्थितः । विष्णुस्तस्य रथो देह इन्द्रियाश्वः प्रकीर्तितः ॥ इति च ।
प्रष्टिः स पृच्छनीयत्वात् परमात्मा जनार्दनः । वक्तृत्वाच्चैव वाङ्नामा मनो मन्तृत्वहेतुतः ॥ इति च ।
“प्राणन्नेव प्राणो नाम भवति । वदन् वाक्पश्यंश्चक्षुः शृण्वन् श्रोत्रं मन्वानो मनस्तान्यस्यैव तानि कर्मनामान्येव’ इति च श्रुतिः । मुक्तिरेव स्वर्गƒोकः । अमुष्मिन् स्वर्गे ƒोके सर्वान् कामानाप्त्वेति प्रस्तुतत्वात् ।
मुक्तः प्रकृष्टज्ञानैश्च वेदैर्विष्णूत्थतेजसा । नित्यायुषा च युक्तः स्यात् संहितारूपविद्धरेः ॥ इति च ।
प्रकृष्टत्वेन जननात् प्रजेति ज्ञानम् । पान्ति शंसाधनाश्चेति पशवो वेदाः । परब्रह्मणो विष्णोर्वरणादेव सम्यक्चायितं स्वरूपं तेजः ब्रह्मवर्चसम् । ƒौकिकप्रजादिकमपि तदिच्छतां यथायोग्यं भवति । माण्डूकेयैर्ऋषिभिरुपाश्रिता एता विद्याः ॥1॥

वराहो वामनः सिंह इति रूपत्रयं हरेः । पूर्वोत्तरार्णमध्येषु स्थितमुक्तं सनातनम् ॥
माण्डूकेयैर्हि शाकल्यो वासुदेवादिरूपिणम् । तेषु चोच्चारके चैव स्थितमाह चतुर्विधम् ॥
तेषु चोच्चारके चैव स्थितमाह चतुर्विधम् । भूमिद्युवृष्टिपर्जन्यनाम्नोर्व्यादिषु संस्थितम् ॥
उर्व्यादिषु चतुर्णां च देह एव स्थितिं पुनः । अधरार्धस्य चोर्व्याश्च साम्यमन्यस्य वै दिवा ॥
वाचो वृष्ट्यैव साम्यं च पर्जन्येनैव चात्मनः । तेषां तेषु स्थितिं चैव विष्णोश्च चतुरात्मनः ॥
आकाशस्यान्तराकाशे नृसिंहस्यात्र संस्थितिम् । वायोः प्राणात्मतां चैव तत्र दाशरथेः स्थितिम् ॥
सूर्यविद्युद्धुताशानां दृग्घृद्रेतःसु च स्थितिम् । कपिƒस्य च हंसस्य जामदग्न्यस्य तेषु च ॥
स्थितिं वदति विद्येयमपि मोक्षप्रदायिनी ॥ इत्यादि च ।
वर्षणाद् वृष्टिः । परं जनयतीति पर्जन्यनामा विष्णुः । सन्धिनोतीति सन्धिः । धिनु पृष्टाविति धातुः । सम्यग्धारणात् सन्धाता । वर्षणमेव द्यावापृथिव्योः सन्धानम् । पर्जन्यस्थो भगवांस्तु तत्कर्ता ॥2॥

पृथिवीस्थो वराहस्तु संहितादेवतोदिता । दिविष्ठो वामनश्चैव सम्प्रोक्तः पददेवता ॥
नृसिंहस्त्वन्तरिक्षस्थो भगवान् क्रमदेवता । स्वाध्यायमेवं ध्यात्वा यः करोत्युपवदेन्न तम् ॥
तस्यापवदिता याति त्रैƒोक्यादध एव हि । नाशमाप्नोति निरये तस्मादपवदेन्न तम् ॥
गच्छस्यध इति ब्रूयादन्यं ब्राह्मणस्तथा । ब्रह्मप्राप्तेर्हि योग्यो यो ब्राह्मणः स न चेतरः ॥ इति च ॥
भञ्जनवर्जितत्वान्निर्भुजं संहिता । तृण च्छेदन इति धातोः प्रतृण्णं पदम् । उभयमन्तरेण क्रमः । निर्भुजमूƒत्वात् पदादीनां तद्विषयप्रवादा अपि निर्भुजप्रवादा इत्येवोच्यन्ते । पृथिवीस्थितपृथिवीनामकविष्ण्वायतनं पृथिव्यायतनमित्यादि । अवराभ्यां पृथिव्यन्तरिक्षाभ्यां च्युतोसीति । उत्तराभ्यामन्तरिक्षद्युभ्याम् ।
क्रमस्वाध्यायकृद्यस्तं विशेषेण न निन्दयेत् । ƒोकत्रयादपि भ्रष्टो यस्मात् तन्निन्दको भवेत् ॥ इति च ।
तस्मादतिदुष्टत्वात् तन्निन्दको नास्त्येवेत्युक्तं तस्य नास्त्युपवाद इति । “तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान्’ इत्यादिवत् । उपवदेदित्युक्तो मनुष्यमात्रः । पर उपवदेत्यसुरः । सर्वशत्रुत्वात् ।
अमुक्तियोग्यैस्तु नरैर्विदुषां निन्दने कृते । ब्रूयाल्लोकच्युतोसीति निन्दितोसुरसर्गगैः ॥
नाशयिष्यति विष्णुस्त्वामन्धे तमसि पातयेत् । इति ब्रूयान्न तु ब्रूयाद्देवसर्गात्मकं क्वचित् ॥ इति च ।
षणयोः सन्धिकरणात् संहिताध्ययनं भवेत् । विषणस्त्विति यो ब्रूयात् पदाध्यायी भवेत सः ॥
सन्ध्युक्तिश्च विभागश्च द्वयं व्याप्तं क्रमेण तु । तस्माद् द्विधापि वचनात् क्रमाध्यायी भवेत सः ॥
भोगवृद्धिं च यो मोक्ष इच्छेद्विष्णव इत्यसौ । मोक्षकामो विषणवे द्वयमामो द्वयं वदेत् ॥
विष्णुनामात्मकत्वाच्चाथ संहितपदक्रमाः । सर्ववेदस्थिता मोक्षतद्भोगद्वयसाधकाः ॥
तज्ज्ञानामेव नान्येषामिति वेदानुशासनम् । संहिताद्या ब्रुवन् वापि य एवंविन्न चाब्रुवन् ॥
परिवादं ब्रुवन्तं वा न ब्रुवन्तमथापि वा । यद्वदेत् तत्तथैव स्यात् क्षिप्रमेव न संशयः ॥ इति च ।
अग्र एव । अग्र्यमेवोभयमन्तरेण ।
द्युम्नो द्युतिस्वरूपत्वाद् विष्णुरेव प्रकीर्तितः । योतिक्रमति तस्माज्ञामतिद्युम्नः प्रकीर्तितः ॥
मोक्षयोग्योपि यस्त्वेवमतिद्युम्नो भवेत् पुमान् । ƒोकच्युतोसीत्येवं तं ब्रूयान्नाज्ञास्थितं क्वचित् ॥
ƒोकच्युतो भवेत्येनमपि नैव वदेत् क्वचित् । च्युतोसीति तु शिक्षार्थं ब्रूयान्नैवान्यथा क्वचित् ॥ इति च ॥3॥

भगवदुपासकस्य यस्मिन् कस्मिंश्चिद्दोष उक्ते तं प्रत्युक्तिप्रकारः पूर्वं दर्शितः । अनुव्याहारशब्देन भगवदुपासनाविषय एवास्याशक्त्यादिदोषं वदतः प्रत्युक्तिरुच्यते । निर्भुजं वदन्तमित्यादि त्ववस्थामात्रदर्शनम् । आत्मनो ज्ञानसामर्थ्यानुसारेण वक्तव्यत्वादनुव्याहारः ।
सर्वाधारत्वतो वंश इत्युपासीत यो हरिम् । वायुं च मुक्तिमाप्नोति य एवं तदुपासकम् ॥
निन्देत विष्णुविज्ञानविषये तं वदेत् सः । विष्णुना वंशभूतेन वायुना सहितं तथा ॥
न शक्नोषीति मामात्थ हास्यतस्त्वामतो हि तौ । ज्ञानसामर्थ्यवानित्थं ब्रूयाद्देवादिरुत्तमः ॥
अन्यो गन्धर्वपित्रादिरल्पज्ञानबƒो हि यः । स ब्रूयाद्विष्णुवायुभ्यां सन्धिमिच्छन्तमेव माम् ॥
सन्धातुं नाशको यस्माद्धास्यतस्त्वामतो हि तौ ॥ इति च ।
स य एनं प्राणं वंशमुपवदेत् प्राणं प्रत्येनमुपासकमुपवदेत् । प्राणस्य विष्णोः प्रियत्वं तव न प्राप्स्यतीति । नाशकः सन्धातुं मया सह सन्धानं कर्तुं नाशकः । मम प्रीतिं कर्तुं नाशकः ।
तद्भक्तभक्तेष्वपि यो न कुर्यात् प्रीतिमञ्जसा । विष्णुर्जहाति तं पापमिह चामुत्र च प्रभुः ॥ इति च भारते ॥4॥

पूर्ववर्णस्थितं यत्तद्रूपं पूर्वाक्षराभिधम् । वराहाख्यं हरेरन्यवर्णगं वामनाभिधम् ॥
उत्तराक्षरसंज्ञं च वर्णयोरन्तरस्थितम् । अवनात् काशनाच्चैतदवकाशाभिधं हरेः ॥
नृसिंहरूपमित्याहुर्निर्भुजास्यास्तथावदन् । ह्रस्वो येनाक्षरोच्चारो मात्रासन्धिस्वरात्मकः ॥
व्यासरूपो हरिः साक्षात् संहितानामकस्त्विति । तत्पुत्रो मध्यमः प्राह समोच्चारणकारणः ॥
सामनामा वासुदेवः संहितानामवानिति ॥ इति च ।
मापयति त्रायति चेति मात्रा भगवान् । यथोच्चारितवर्णयोर्मध्यस्थितश्च ।
मा नः स्तेनेभ्यो ये अभि द्रुहस्पदे निरामिणो रिपवोन्नेषु जागृधुः ।
येषां नैतन्नापरं किं च नैकं ब्रह्मणस्पते ब्रूहि तेभ्यः कदाचित् ॥
अथोशमेनोपरताः मनुष्याः ये धर्मिणो ब्रूहि तेभ्यः सदा नः ।
आदेवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥
अभितो द्रोहस्य नित्यनिरतिशयदुःखस्यान्धतमसो योग्याः ।
ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः । शास्त्रतत्त्वमविज्ञाय तथावादबƒा जनाः ॥
कामक्रोधाभिभूतत्वादहङ्कारवशं गताः । याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ॥
ब्रह्मस्तेना निरानन्दाः अपक्वमनसोशिवाः । वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते ॥
तेषां तमःशरीराणां तम एव परायणम् ॥
इति मोक्षधर्मे भगवद्वचनादेवंविधा एव स्तेना । अभिद्रुहस्पदस्थाश्च । निरामिणः रामस्य रमणरूपस्य पूर्णानन्दस्वरूपस्य विष्णोर्जीवस्वरूपताज्ञानेन नीचताविदः । त एव रिपवश्च तस्य ।
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ इत्यादिवचनादसुरादयः ।
अन्नेषु जागृधुः भोगमात्रगृध्नवः । येषामेतत्सर्वोत्तमं वासुदेवाख्यं परं ब्रह्म नास्तीति पक्षः ईशितव्ये विद्यमाने हीश्वरो भवतीति । न चापरं किञ्चित् परमापेक्षया ह्यपरमिति । किं तर्हि किञ्चनैकं किमप्येकमेव वस्त्वस्ति न परमपरं चेति तेषां पक्षः ।
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोहिताः ॥
ईश्वरोहमहं भोगी सिद्धोहं बƒवान् सुखी ॥ इत्यादि वचनात् ।
ब्रह्मणस्पते ब्रह्मणो वेदस्य पते वायो । “अथ हेममासन्यं प्राणमूचुः । एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः’ इत्यादि श्रुतेरेतादृशेभ्यो मा ब्रूहि । शमेन विष्णुनिष्ठया उप समीपे तस्मिन्नेव रताः साम्नो विष्णोः परं किमपि न विदुः । तदेव देवानां व्रयः । सर्वदेवानां परतमं विष्ण्वाख्यं ब्रह्म हृदा व्योहते । वासुदेवादिरूपेण वरं नियामकं चेति व्रयः । तेभ्यो ब्रूहि ।
वायुं विद्या समासाद्य सर्वासां पतिमूचिरे । स्तेनेभ्यो मैव नो ब्रूहि ब्रूह्यथो वैष्णवेषु च ॥ इति च ।
सामनाम्ना श्रुतिर्यस्माद्विष्णुमाह ततः प्रियम् । तन्नाम विष्णोरिह तु संहितार्थं वदेद्यतः ॥ इति च ।
सामनाम्नः संहिताशब्दार्थत्वाद्विष्णोस्तस्य नाम्नः श्रुतिसिद्धत्वाच्च सामनाम्नो वासुदेवरूपसमाख्यासु पञ्चरात्रे पठितत्वाच्च तद्रूपं संहितानामकमिति युक्तमित्यभिप्रायः ॥5॥

देवता पूर्ववर्णस्य ƒक्ष्मीरेव प्रकीर्तिता । नारायणस्तूत्तरस्य तौ वाक्प्राणाभिधौ मतौ ॥
मध्यस्थः संहितानामा सोर्धनारीपुमात्मकः । वेदात्मकत्वाद् वाङ्नाम्नी ƒक्ष्मीरेव प्रकीर्तिता ॥
प्राणनामा प्रणेतृत्वात् साक्षान्नारायणः स्वयम् । रमित्यानन्द उद्दिष्टः सम्भोग्यं थमुदाहृतम् ॥
विष्णुभोग्या रतितरा ƒक्ष्मीरेव रथन्तरम् । नारायणो बृहत्वात्तु बृहन्नामा प्रकीर्तितः ॥
रथन्तरस्य बृहतो देवते चैव तावुभौ । वाक्प्राणसंस्थितौ चैव ताभ्यामेव हि सन्धितम् ॥
ƒक्ष्मीनारायणं रूपं संहितानामकं शुभम् । एतां विद्यामवाप्तुं हि वत्सरं गा अरक्षत ॥
तार्क्ष्य एतन्मात्रं च समुद्दिश्य न चापरम् । संहितादेवता बह्व्य इति कुण्ठरवात्मजः ॥
द्वयं द्वयं देवतानां मििƒतं हरिशर्ववत् । संहितानामकं तत्र वर्णमध्यस्य देवता ॥
तयोरेकं देवतयोः परमन्यत् तथावरम् । अवरस्य परस्यापि संयोगात् संहिता तु सा ॥
प्रोक्तावरपरेत्येव वाक्प्राणाख्यौ रमाच्युतौ । संहितैका तथैवान्या केशवो वायुसंयुतः ॥
वायुः स पवमानाख्यो देवताश्चाखिƒा अपि । तृतीया संहिता प्रोक्ता देवतास्ताः सशङ्कराः ॥
चतुर्थी संहिता प्रोक्ता शङ्करो ब्रह्मणा सह । पञ्चमी संहिता चैव संहिता मोक्षदा इमाः ॥
प्रथमायां द्वितीयायां विष्णुरेव परो मतः । तृतीयायां वायुरेव चतुर्थ्यां सर्वदेवताः ॥
विरिञ्च एव पञ्चम्यामवरा इतरे ततः । प्रथमायां संहितायामवरो वामभागगः ॥
द्वितीयायां तु परमस्तृतीयायां तथावरः । चतुर्थ्यां परमश्चैव पञ्चम्यां वामगोवरः ॥
अवराद्याः परान्ता यदेताः सर्वाश्च संहिताः । ततोवरपराः प्रोक्ता नैवोक्तास्ताः परावराः ॥
अभिमानी द्युƒोकस्य शिवः सर्वस्य ƒोकनात् । द्योतनाच्च यदि ब्रूयान्मन्त्रमेतमथापि वा ॥
आत्मार्थेथ परार्थे वा चिन्तयेदेवमञ्जसा । विद्वांसो देवता यस्मात् सम्यक्तेन महत्फƒम् ॥
तेषामेव हरिश्चैव संहितारूपकः प्रभुः । अगमद्देवƒोकं हि कर्तुं देवेष्वनुग्रहम् ॥
इति चिन्तयतस्तेषां प्रसादात् फƒमञ्जसा । पञ्चाƒचण्डो वाचं तु ब्रह्माणीं हि सरस्वतीम् ॥
मन्यतेस्याः पुत्रवच्च देवं नारायणं प्रभुम् । वेदैर्हि व्यज्यते विष्णुः सा च वेदाभिमानिनी ॥
प्राणस्थो भगवान् विष्णुः प्राणनामा प्रणेतृतः । ब्रह्मणोपि पिता नित्यं भगवान् पुरुषोत्तमः ॥
उपचर्यते पुत्र इति वेदैर्यद्य्वज्यते हरिः । सा देवी संहितानाम्नी वाच्योस्या विष्णुरेव हि ॥
प्रजापत्याख्यशर्वेण प्रोक्तान्या संहितापि हि । विष्णुरेवादितिर्नाम सर्वस्यात्ता यतः प्रभुः ॥
स एव पितृसंस्थस्तु पातृत्वात् पितृनामकः । देवतोत्तरवर्णस्य मातृस्थो मातृनामकः ॥
माननात् पूर्ववर्णस्य देवतेति प्रकीर्तितः । पोषकत्वात् सन्धिनामा वर्णयोरन्तरस्थितः ॥
स एव पुत्रसंस्थश्च पुत्रनामा जनार्दनः । त्राणात् पूर्तित एवासौ वर्णसन्धानकर्मणि ॥
सन्धाननामा सन्धानकर्तृत्वात् पुरुषोत्तमः । प्रजातिकर्मसंस्थश्च स एव प्रजनाभिधः ॥
जनकत्वात् परो विष्णुरेवं विष्णुर्हि संहिता । वासुदेवादिरूपेण चतुर्धैवं व्यवस्थितः ॥
स एव दिवि संस्थश्च द्युनामा क्रीडनात् प्रभुः । अन्तरेवेक्षणाच्चैव सोन्तरिक्षोन्तरिक्षगः ॥
पृथिवी पृथिवीस्थश्च प्रथितत्वाज्जनार्दनः । मुख्यार्थत्वात् सर्वनाम्नां सर्वदेवाभिधो हरिः ॥
विश्वे देवा इति प्रोक्ता बहुधा तेषु संस्थितः । ज्ञानद्युतेर्देवनामा स्थितो देवेषु केशवः ॥
गां धारयंश्च गन्धर्वो गन्धर्वेषु व्यवस्थितः । माननान्मानुषो नाम मनुष्येषु स्थितो हरिः ॥
पाƒनात् पितृनामासौ पितृष्वेव व्यवस्थितः । रतेः प्राणेसुराख्यश्च सोसुरेषु व्यवस्थितः ॥
एवं पञ्चजनेषुस्थो हरिः पञ्चजनाभिधः । जातनामा जातसंस्थः प्रादुर्भूतगुणत्वतः ॥
जनिक्रियास्थितश्चासौ जनित्वमिति गीयते । जनिं यस्मात् तवयति तवनं हि प्रकाशनम् ॥ इति च ।
प्रथश्च सप्रथश्चैव राजानौ मत्स्यदेशजौ । यापयामासतुर्विष्णोर्हविर्नाम्नो हविर्मुखे ॥
अनुष्टुब्देवता यस्तु नृसिंहो जगतोस्य च । स्वमुखे हवनादेव हविरित्यभिधीयते ॥
तस्मिन् यज्ञे वसिष्ठस्तु चतूरूपाज्जनार्दनात् । आजहार श्रियं देवीं रथन्तरवराभिधाम् ॥
चतुर्मूतिः स्तुतस्तेन प्रेषयामास तां श्रियम् । सा चास्मै प्रददौ विद्यां प्रययौ च पुनर्हरिम् ॥
धातेत्युक्तोनिरुद्धस्तु प्रद्युम्नस्तु द्युनामकः । वासुदेवः प्रसविता सर्वस्य प्रसवाद्विभुः ॥
सङ्कर्षणो विष्णुनामा प्रणेतृत्वाद् बƒादपि । चतूरूपं परं विष्णुं राजानौ प्रथसप्रथौ ॥
भरद्वाजौ वसिष्ठश्च ध्यात्वाविन्दन् परात् परम् । यजनीयो यजुर्नामा विष्णुः सङ्कर्षणाभिधः ॥
जीवानां स्कन्दनादेव स्कन्नः प्रद्युम्न उच्यते । प्रथमो वासुदेवस्तु देवयानोनिरुद्धकः ॥
प्राप्यो देवैर्यतो नित्यमनिरुद्धाभिधो हरिः । तस्मादेवं चतुर्मूर्तेः स्तुतिसन्तोषिताद्धरेः ॥
आजहार भरद्वाजो रूपं नारायणाभिधम् । तद्बृहन्नामकं विष्णोश्चातुरात्म्यात् समुद्गतम् ॥
भरद्वाजमुपागम्य प्रादान्मोक्षवरं परम् । चतुर्मूर्तिः स भगवानग्निरित्यभिधीयते ॥
अग्र्यत्वात् सर्वभूतानामेवं चत्वार एव ते । अविन्दंस्तं चतुर्मूर्तिं साक्षान्नारायणं प्रभुम् ॥
गुहायां संस्थितमपि ह्यतीव हितमस्य च । सर्वज्ञत्वाद्यज्ञनाम्नो विष्णोस्तेजः परं हि तत् ॥
तस्मादेव चतुर्मूर्तेः सूरिप्राप्यत्वहेतुतः । सूर्यनाम्नोहरघर्‌नमनामानं तं नृसिंहकम् ॥
घर्षणात् सर्वƒोकस्य नृसिंहो घर्म उच्यते । निर्गत्य स चतुर्मूर्तेर्विप्रक्षत्राभिसंस्तुतात् ॥
प्रथादीनां चतुर्णां च पुरुषार्थचतुष्टयम् । दत्वा जगाम भगवान् स्वकीयां तनुमेव च ॥
वसिष्ठाच्च भरद्वाजाद्धोत्रध्वर्य्वोर्नृपौ तु तौ । यथेष्टसिद्धिं संप्राप्तौ सम्यगिष्टाज्जनार्दनात् ॥ इत्याद्यृग्वेदसंहितायाम् ।
यस्य प्रथ इति नाम स च हविर्नाम्नो विष्णोर्हविर्यत् अयत् । अटो ƒोपेनान्तर्णीतणिच्त्वेन अयापयदित्यर्थः । एवं सप्रथ इति यस्य नामासौ । हविर्यदिति पृथक्सम्बन्धः । आचक्रे आकारयामास । अविन्दन् ते ते अविन्दन्नित्यध्यात्माधिदैवतयोरुभयत्रापि भगवन्तमविन्दन्नित्यर्थः । देवयानं गुहा यदिति वचनात् ।
चतुःशिखण्डां तु रमां द्विरूपो भगवान् हरिः । परमानन्दरूपत्वात् सुपर्ण इति नामकः ॥
रमयामास तस्यां च निषण्णः सर्वदैव सः । एक एव च विष्णुः स प्रविष्टः क्षीरसागरम् ॥
सर्वं पश्यत्यसौ देवः पूर्णाकुण्ठेन चेतसा । परिपक्वेन मनसापश्यमित्याह तं त्वजः ॥
मातेव व्यञ्जकत्वात् तं प्राणस्थं वाक् सरस्वती । िƒहते िƒह्यत इव प्राणस्थेन तु सा सदा ॥
स्वयं तु भगवान् विष्णुर्वाक्पतेबर्‌रह्मणोपि हि । नित्यः पिता स्वतन्त्रश्च नास्य माता पितापि च ॥ इत्यादि च ॥6॥
॥ इति प्रथमोध्यायः ॥

अथ द्वितीयोध्यायः ॥
गृहस्याच्छादनादीनां मध्यवंशो यथाश्रयः । तथेन्द्रियाभिमान्यादिदेवानां वायुराश्रयः ॥
तेषु सर्वेषु भगवान् बहुरूपो हरिः स्थितः । विष्णुनामाक्षरेष्वेवमन्येष्वपि तदर्थतः ॥
प्राणनामापि भगवान् प्राणस्थश्चोष्मसु स्थितः । ऊष्मनामा समर्थत्वात् स एव भगवान् हरिः ॥
पूर्णत्वादात्मनामासौ प्रतिमात्वादमुष्य तु । सङ्घ्रात आत्मशब्दोक्तो ह्यस्थिरश्चास्थिनामकः ॥
अस्थिस्थितो हरिः स्पर्शसंस्थितः स्पर्शनामकः । स्पर्शहेतुत्वतः स्पर्शनामा स भगवान् हरिः ॥
मज्जासुस्थो स मज्जाख्यो मदं जनयतीति ह । स एव स्वरसंस्थश्च स्वराख्यः स्वरतेः प्रभुः ॥
प्रमाणं सारयेद्यस्मान्मांसाख्यो मांससंस्थितः । ƒोहिताख्यो रक्तवर्णो ƒोहितस्थो जनार्दनः ॥
अस्थिस्थान्येव रूपाणि पर्वस्वपि हरेर्यतः । तत एव विभक्तानि सङ्ख्या तेषां पृथङ् न तत् ॥
तस्मात् सप्तशतान्येव देहे विंशच्च तस्य हि । रूपाणि विष्णोर्भागे तु षष्ठ्युत्तरशतत्रयम् ॥
तान्येव विष्णो रूपाणि वत्सराहस्सु सर्वशः । अहर्नामा च भगवानहार्यत्वात् प्रकीर्तितः ॥
अहोभिः समसङ्ख्यानि यस्मादध्यात्मगानि तु । रूपाणि विष्णोस्तेनायमहस्संमान उच्यते ॥
पूर्णदर्शनशक्तित्वाच्चक्षुर्मय उदीरितः । तादृक् श्रवणशक्तित्वात् तथा श्रोत्रमयः स्मृतः ॥
छन्दोमयः सत्यकामो मन्तृवक्तृबƒात्मकः । एवं विद्वांस्तस्य रूपाण्याप्नोति ज्ञानपुत्रवान् ॥
पीयमानं शमाप्नोति प्राप्याहर्नामकः हरिम् ॥1॥

एवमुक्तप्रकारेण तस्य ह्यक्षरनामकम् । अशीत्युत्तरसाहस्ररूपं वर्णेषु संस्थितम् ॥
विष्णुनाम्नोथवान्येषु पञ्चाशत्सङ्ख्यकेष्वपि । तावत् सङ्ख्यानि देहेषु पृथङ्मज्जस्थिपर्वसु ॥
रूपाणि विष्णोस्तावन्ति चेष्टकानि पृथक् पृथक् । अर्कस्थितबृहत्याख्यरूपाण्यह्नां च सर्वशः ॥
सम्पादकानि तान्येव तान्यक्षरमितानि च । अस्थ्यादिस्थितरूपाणि तान्युपास्य विमुच्यते ॥ इति च ।
तस्यैतस्यात्मनस्तस्य शरीराख्यस्यात्मनो य आत्मा आदानादिकर्ता तस्य परमात्मन एतस्य । अस्थ्नां मज्ज्ञां पर्वणां च मििƒतानामपि विंशोत्तरसप्तशतत्वोक्तेस्तत्रस्थविष्णुरूपाण्येवोच्यन्त इति सिद्धम् । अस्थ्यादीन्येव चेदशीत्युत्तरसहस्राणि सन्ति हि । षणष्णुरित्येतानि विष्णुनामगतान्यूष्णाक्षरसन्धिनामकानि तद्गतभगवद्रूपाणि मुख्यतस्तन्नामकानि ।
अहार्यत्वादहर्नामा रात्रिनामा रतिप्रदः । सन्धानात् सन्धिनामासौ स्वयं नारायणः प्रभुः ॥
सन्ध्यूष्माक्षरगाण्यस्य विष्णो रूपाणि सर्वशः । सन्ध्यारात्रिदिवास्थानि साशीतिकसहस्रकम् ॥
तान्येवास्थिषु मज्जासु पर्वस्वपि च सर्वशः । परज्ञानात् तु पर्वाणि विष्णो रूपाणि तानि हि ॥
अस्थानान्मदनाच्चैव ह्यस्थिमज्जाभिधानि च । व्यक्तिर्मज्जासु तस्यैव प्राणो मज्जासु संस्थितः ॥
मज्जैव रेतो भवति रेतसिस्थो विशेषतः । प्राणस्तेन हि तद्रेतोयुक्तं प्राणेन सर्वदा ॥
यदि प्राणो न तद्रेतो न गर्भत्वं व्रजेत् क्वचित् । विशेषप्राणसम्बन्धवर्जितान्यत एव हि ॥
न मांसादीनि गर्भत्वं यान्त्यतः स हि रेतसि । विशेषेण स्थितः प्राणः प्राणे चैव विशेषतः ॥
स्थितो नारायणो देवस्तस्मान्मज्जासु च स्थितः ॥ इति च ।
मज्जास्वधिकसन्निधानज्ञापनार्थमिदं वचनम् । अशीत्युत्तरसहस्रवर्णानामभावाच्च तत्स्थविष्णुरूपाण्येव तत्सङ्ख्यानीति सिद्धम् । अर्के निƒीनत्वेनादृश्यत्वेन स्थिता भगवत्प्रादुर्भावा अर्किƒनः । त एव शरीरे स्थित्वा सहस्रं बृहतीः सम्पादयन्ति । वाक्प्रेरकत्वाद् विष्णुनामार्थवत्वादेव च बृहतीसहस्रस्य तद्देवताश्चैतान्येवाशीत्युत्तरसहस्ररूपाणि एतान्येवाहःप्रवर्तकानि च । अहःशब्देन यज्ञो दिवसश्चोभावप्यभिप्रेतौ ।
यज्ञानां दिवसानां च साशीतिकसहस्रकैः । विष्णुः प्रवर्तको रूपैर्बृहत्युक्थस्य चाञ्जसा ॥
बृहत्युक्थेन वाच्यानि रूपाण्येतान्यधीशितुः ॥ इति च ॥2॥

संसारबाधितैः प्राप्यो बाध्वो वायुरुदाहृतः । स हि मोक्षप्रदो विष्णोराज्ञया स उवाच ह ॥
सर्वदेहाभिमानी तु शरीरपुरुषः शिवः । सर्ववर्णाभिमानी च शेषोसौ छान्दसः पुमान् ॥
सर्ववेदाभिमान्येव गरुडो वेदपुरुषः । संवत्सराभिमानी तु ब्रह्मैव हि महापुमान् ॥
सारः शिवस्यानिरुद्धनामा देहस्थितो हरिः । अ इत्याक्रियते यस्माद् वासुदेवो ह्यकारकः ॥
शेषस्य सारः स विभुबर्‌रह्माख्यो ज्ञानबृंहणात् । सङ्कर्षणाख्यस्तु हरिः सारः स गरुडस्य च ॥
ब्रह्मर्त्विक्संस्थितश्चासौ तस्माद् ब्रह्मिष्ठमेव हि । कुर्याद् ब्रह्मर्त्विजं तस्मिन् विशेषेण स्थितो हरिः ॥
ब्रह्मणः सारभूतस्तु प्रद्युम्नो भगवान् हरिः । स एवादित्यसंस्थश्च स ह्यादिर्जगतो विभुः ॥
ततश्च सर्वभूतेषु जीवानां विनियामकः । स एवादित्यगो विष्णुर्यः प्रद्युम्नाभिधो हरिः ॥
स एव सर्वदेहेषु चानिरुद्धतनुः स्थितः । सङ्कर्षणो वासुदेव इत्येकः स चतुर्विधः ॥
प्रतिपूरुषमेतस्मात् स्थितो विष्णुर्नियामकः । आदित्यादिषु च स्थित्वा द्योतकोसौ प्रति प्रति ॥
स चेतनतमत्वाद्धि चित्रमित्यभिधीयते । मुख्यत्वात् सर्वदेवानामनादीशितृत्वतः ॥
कर्तृत्वादप्यनीकं स उदैत् सूर्यस्थितो हरिः । ज्ञानदत्वाच्च देवानां चक्षुरेनेन दर्शनात् ॥
आपूरयत्सर्वƒोकान् प्रकाशेन जनार्दनः । आदानात् सर्वजीवानामत्तृत्वात् प्रƒयेपि च ॥
आत्मेत्युक्तः स भगवान् जगतः स्थावरस्य च । एवं चतुर्विधो विष्णुः संहितादेवता यदा ॥
ज्ञायते पूर्ववर्णस्य रूपं नारायणाभिधम् । प्रादुर्भावाः समस्ताश्च चरमार्णस्य देवताः ॥
तदा तु संहितां सम्यङ् मन्येहं सन्धितामिति । आहु वायुरिमं विष्णुं बृहत्युक्थस्य देवताम् ॥
महाव्रताख्यस्तोत्रस्य चेष्टकानां च देवताम् । एतमेवाखिƒजगद्य्वाप्तं पूर्णगुणात्मकम् ॥
संवसद्रतिदातृत्वाद् ब्रह्मा संवत्सराभिधः । नियामकः स जीवानां सर्वेषां प्रभुरीश्वरः ॥
अनन्तमूर्तिबर्‌रह्मासावनन्तजगदास्थितः । नियामकस्तस्य विष्णुस्तावद्रूपेषु संस्थितः ॥
तत्संवत्सरसम्मानः स विष्णुः परमेश्वरः ॥3॥

य एनं वक्त्ययोग्येभ्यो योथ चैनं महाव्रते । कर्मण्याचार्यतोन्यस्य शंसेत पितृतोथवा ॥
महाव्रतेन स्तोत्रेण स्तुवीतैनमथापि वा । महाव्रते चितिं वापि कुर्यान्नास्य फƒं श्रुतेः ॥
सुकृतस्य फƒं चैव नासौ सम्यगवाप्स्यति । प्रत्यक्षज्ञानिनोप्येतदातनन्दह्रासकृद्भवेत् ॥
प्रत्यक्षज्ञानिनो मोक्षो न कथञ्चिद्धि हीयते । आचार्यमेव तं विद्याद् गुणैर्यः स्वात्मनोधिकः ॥
गुणाधिकस्य तेनैव शंसनादि न दुष्यति । अयोग्यस्योपदेशे तु कृते हौत्रादिकेपि वा ॥
प्रायश्चित्तार्थमेतत्तु शंसीत शतवारकम् । अन्यथा मानुषेष्वेव जायते न दिवं व्रजेत् ॥
योग्या अस्याश्च विद्याया देवा ऋषय एव च । एकदेशज्ञानयोग्या मानुषा उत्तमा यदि ॥
कर्मसञ्चयवेत्तारं त्यजेन्नारायणं हि यः । प्रीत्यैकदेशसंस्थत्वात् सखायमिति चोदितम् ॥
न विद्यायाः फƒं तस्य श्रुतं च नरकावहम् । नैव प्राप्नोति सुकृतं सन्त्यागात् परमात्मनः ॥
मुख्यत्यागो हरेरेव यन्नास्तीति वदेदमुम् । तत्समं वाधिकं वापि ब्रूयादैक्यमथापि वा ॥
ऐश्वर्यादिगुणानां वा ह्रासं नास्तित्वमेव वा । तत्प्रसादं विना मोक्षं ब्रूयाद्वा कस्याचित् क्वचित् ॥
ऐक्यं वा ब्रह्मशर्वादेर्मुक्तावैक्यमथापि वा । व्यत्यासं चावताराणां जीवाभेदममुष्य वा ॥
भेदज्ञानं तद्गुणानां तेन वाथ मिथोपि वा । तथैव तत्क्रियाणां च तद्रूपाणामथापि वा ॥
असाम्यदर्शनं वापि तद्गुणानां परस्परम् । देहदेहिविभेदं च तस्मिन्नवयवेषु वा ॥
परस्परं भेददृष्टिं तेन वा कुत्रचित् क्वचित् । दोषसंसर्गमस्यापि स्वतः परत एव वा ॥
अज्ञानतो ज्ञानतो वा निर्देहत्वममुष्य च । तद्देहस्य प्राकृतत्वमचिदानन्ददेहताम् ॥
प्रादुर्भावेष्वपि विभोर्देहत्यागोद्भवादिकम् । अज्ञानदुःकासामर्थ्यपारवश्यादिकं तथा ॥
अतद्वशत्वं कस्यापि कदाचित् क्वचिदप्युत । परिमाणं बƒादेर्वा तस्य विष्णोर्महात्मनः ॥
भेदाभेददृशिर्वास्य जीवैर्वा स्वगुणादिभिः । तर्कैस्तस्यापƒापो वा तत्र रक्तेन चेतसा ॥
त्यागानामेवमुक्तानां तर्काद्यैः साधनं तथा । अचिन्त्यविभवेप्यस्मिन्नसम्भवनिरूपणम् ॥
स एव मुख्यतस्त्यागो वासुदेवस्य कीर्तितः । रमाब्रह्मादिकानां च तारतम्यानभिज्ञता ॥
संशयश्चोक्ततत्त्वेषु जगन्मिथ्यात्वदर्शनम् । अस्मृतिर्वासुदेवस्य तद्भक्तानां च निन्दनम् ॥
द्वितीय एष त्यागस्तु विष्णोरेव प्रकीर्तितः । निषिद्धकर्मकरणं विहितस्य च वर्जनम् ॥
त्यागस्तृतीयो हि हरेश्चतुर्थोयोग्यपुरुषे । उपदेशः केशवस्य यथाशास्त्रोदिक्रमात् ॥
आचार्यपित्रोरन्यत्र तथैव च महाव्रते । हौत्रोद्गात्राध्वर्यवाणि त्याग एव चतुर्विधः ॥
त्यागद्वयात् तु प्रथमात् प्राप्यतेन्धं तम क्रमात् । तृतीयान्निरयप्राप्तिश्चतुर्थान्न दिवं व्रजेत् ॥
उपदिष्टेपि यस्तत्त्वे संशयं कुरुते पुमान् । सोन्धन्तमो व्रजेदन्यो निरयायैव गच्छति ॥
स एव भगवान् विष्णुरेतैदोषैर्विना यदि । ज्ञायते मुक्तिदः साक्षान्नात्र कार्या विचारणा ॥
यदि ज्ञानं नातिपक्वं सरागं च मनो भवेत् । तदा स्वर्गादिƒोकाप्तिः संशयश्चेत् क्वचित् क्वचित् ॥
आवृत्तिरेव संसारे यावन्निःसशंयो भवेत् । पुनरावृत्तिहीनं तु तमोन्धं मुक्तिरेव च ॥
पूर्वं तु निःसुखं तत्र निर्दुःखं चापरं मतम् । निश्शेषगुणहीनं च पूर्वं निर्दोषकं परम् ॥
विमिश्रगतयस्त्वन्याः पुनरावृत्तिसंयुताः । असुरा देवता मर्त्या योग्या एतेषु च क्रमात् ॥
न च तेषां सङ्करोस्ति यथायोग्या हि तद्गतिः । मानुषेषूत्तमा मुक्तिमधमा निरयं तथा ॥
आप्नुवन्ति मनुष्येषु मध्यमाः सृतिभागिनः । नियमोयं नान्यथा स्यादच्छिद्रत्वं यथा भवेत् ॥
दोषेथवा गुणे वापि तदा दैत्याः सुरा अपि । स्वां स्वां गतिं समायान्ति तावत् संसारभागिनः ॥
अच्छिद्रत्वं नैव सर्वैः कदाचित् प्राप्यते यतः । सृष्टिस्थितिƒयादीनां नोच्छेदस्तेन कुत्रचित् ॥
तस्माद्दोषान् प्रहायैव विष्णुं सर्वोत्तमोत्तमम् । जानीयात् तेन मुक्तिः स्यादपरोक्षदृशेरनु ॥
सूर्यमण्डƒगो विष्णुर्देहे चक्षुषि संस्थितः । अनिरुद्धश्च हृदये न च भेदोनयोः क्वचित् ॥
अन्येषामपि रूपाणामिति विद्याद् विचक्षणः । द्विरूपः स यदा विष्णुरपगच्छति देहतः ॥
तदैव दुर्निमित्तानि जायन्ते नान्यदा क्वचित् । तस्मात् तेषां दर्शने तु कर्तव्यं पारƒौकिकम् ॥
सर्वमेव जपेच्चैव यदन्तीत्यादिका ऋचः । ऋग्भिः षड्भिर्वायुरेव पवमानादिना मतः ॥
स्तूयते सोङ्गनेतृत्वादग्निरित्यभिधीयते । परस्य ब्रह्मणो विष्णोर्ज्ञापनाख्यप्रसूतिभिः ॥
वायुः पुनाति यल्लोकान् सविता तेन कथ्यते । पवित्रं नाम साक्षात् तत्परं ब्रह्म जनार्दनः ॥
प्रसादयित्वा तं विष्णुं तेन ƒोकान् पुनात्ययम् । प्राणाग्नेरर्चिषो देहे विततास्तेषु केशवः ॥
अचिष्मान् विततो नित्यं वायुस्तेन पुनात्ययम् । यत्र ब्रह्मेति षड्भिश्च प्रार्थनीयः स मारुतः ॥
मोचयित्वैव संसारद्विष्णोर्ƒोके कृधीति च । आदित् प्रत्नस्येति विष्णुः स्तुत्यो वैकुण्ठƒोकगः ॥
आदित्यमण्डƒस्थश्च साक्षान्नारायणः प्रभुः । उद्वयं त्वितिमन्त्रेण स्तुत्यो वायोरपीश्वरः ॥
अपमृत्युभयं तस्य यदन्तीत्यृग्जपाद् व्रजेत् । काƒमृत्युर्यदि भवेत् तथा जन्मादिकं भयम् ॥
अन्याभिः कर्मतः पूतो यत्र ब्रह्मेति वैष्णवम् । ƒोकं व्रजेत् तथान्याभ्यां विष्णुर्मोक्षसुखप्रदः ॥
इष्टप्रदानशीƒत्वादिन्दुर्वायुः स एव च । सोमः सौम्यस्वरूपत्वात् पवमानश्च पावनात् ॥
विष्णुः पुरातनत्वात् तु प्रत्नो रेतो महारतिः । देवत्रा देव एवासौ सर्वदेवेश्वरो यतः ॥
सूर्यश्च सूरिभिः प्राप्यो नित्यानन्दो रमापतिः । देशतः काƒतश्चैव गुणतश्चापि पूर्तितः ॥
अत इत्युच्यते विष्णुः सन्ततो ह्यत उच्यते । तृतीयवर्णोतिशये यतस्तेनातिरेव वा ॥
अत इत्युच्यते विष्णुः सम्यक्श्रुत्याद्यशक्यतः । पूर्णत्वाद् भगवान् विष्णुरश्रुतत्वादिनोदितः ॥
अन्तस्थः सर्वजीवानां पूर्णत्वात् पुरुषाभिधः । समः स सर्वरूपेषु सर्वजीवनियामकः ॥
इति विद्यात् परं विष्णुं मुच्यते तेन संसृतेः ॥ इत्यादि च ।
शरीरपुरुषादीनां प्राप्यत्वात् तदुपास्यत्वात् तेषां नियामकत्वेन तेभ्योप्युत्तमत्वेन तेषु स्थितत्वाच्च तेषां सार इत्युच्यते भगवान् । यदीं एव अƒकं अरकं यत्किञ्चिच्छृणोति तत्सर्वमरतिरूपान्धतमःप्राप्तिकारणमेव तस्य भवति । तत्र हि सर्वरत्यभावो रतिविरुद्धदुःखं च पूर्णम् । परस्मै शंसनमात्रादरतिरेवेत्यतः प्रस्तुते चतुर्थत्यागेन न तस्य वाच्यपि भागो अस्ति । न हि प्रवेद सुकृतस्य पन्थामिति दोषद्वयमेवेत्यवधारयति । न तस्यानूक्ते भागोस्ति न वेद सुकृतस्य पन्थानमित्येतत् तदुक्तं भवतीति । अƒकं शृणोतीति त्यागद्वयस्य मुख्यतस्तृतीयस्यापि नरकं शृणोतीति किञ्चिद्भवति । तौ यदास्माच्छरीराद् विहीयेते तदैवैतानि निमित्तानि पश्यन्तीति नियमः । न च तदा पश्यत्येवेति । वासेन रमयतीति वासरं विष्णुर्ज्योतिः ।
यत्र ब्रह्मा वेदवाक्यं व्याचक्षाणो मखैर्यजन् । सोमेन च सुतेनेशमास्ते ƒोके हरेर्हि सः ॥ इति स्कान्दे ।
ग्राव्णा सोमविषये सोमेनेष्ट्वा महीयते तेनैव विष्णुप्रीत्या स्वस्यानन्दं जनयन् । स्वरानन्दरूपो विष्णुः । दिवो देव्या अवरोधनं तस्याः परिवारभूताः सर्वदेव्यः द्यौर्नाम वायुपत्नी । अजनयो मरुतो वक्षणाभ्यो दिव आवक्षणाभ्य इत्यादेः । यह्वतीः स्यन्दमानाः ।
सर्वेष्टद जगत्प्राण मामादाय परिस्रव । यत्रासौ भगवान् विष्णुस्त्वं हि मोक्षप्रदः सदा ॥ इति च ।
इन्दुरिष्टप्रदत्वाद्यो वायुरादाय गच्छति । इन्द्रनाम्नः केशवस्य समीपं मुक्तमञ्जसा ॥ इति च ।
अनन्यहेतुकं साक्षाद्भगवद्भक्तिरूपकम् । सुखमानन्द इत्युक्तो मोदो भोगनिमित्तकः ॥
प्रमोदस्तद्विशेषोत्थो मुन्नामात्यल्पभोगतः ॥ इत्यृग्वेदसंहितायाम् ।
तमसः सकाशात् उद्गता वयमुत्तरं सर्वोत्तमं विष्ण्वाख्यं ज्योतिः परिपश्यन्तस्तमेव देवत्रा देवं देवविषयेपि देवमगन्म । तदेवज्योतिष्ट्वेनोत्तरत्वेन च पश्यन्त इति दर्शने इत्थं भावविधानार्थं पूर्वम् । तथैवासौ भगवानुत्तमज्योतिः । न राजादिष्विवाविद्यमानभक्तिमात्रमिदमिति ज्ञापयितुमगन्म ज्योतिरुत्तममिति पुनर्वचनम् । “अर्चिषोंशा वर्तुƒास्तु नाम्ना वटरकाः स्मृताः’ इति शब्दनिर्णये ।
बृहत्तमं मधु यदि सहापूपं प्रभक्षयेत् । स्वप्ने तस्याचिरात् मृत्यू रक्ताब्जे वा शिरोधृते ॥ इति ब्रह्माण्डे ।
रात्र्यास्तु देवता दुर्गां दुःस्वप्ने सा प्रपूजिता । पायसेन हरेन्मृत्युं रात्रिसूक्तादकािƒकम् ॥
यदि कािƒकमृत्युः स्यात् पदं सा परमं नयेत् । सहैव विष्णुना भक्तं विष्णोस्तद्वेदिनं तथा ॥
रतिदत्वात् परो विष्णुर्मुख्यतो रात्रिरुच्यते । तदाश्रयत्वाद् दुर्गापि रात्रिरित्यभिधीयते ॥
स्त्रीरूपः स परो विष्णुः पायसेष्टो हि मोक्षदः । तस्मादुभौ सहैवेज्यौ भक्त्या दुःस्वप्नदर्शने ॥
बहुभिर्नयनैर्विष्णुर्बहुधेदं ददर्श ह । आयन् सर्वेषु ƒोकेषु धृतास्तेनैव हि श्रियः ॥
नीचानुच्चांश्च जीवान् स ब्रह्मादीनुर्वपूरयत् । ज्ञानेन बाधतेज्ञानं स्वसारं स्वं तथाकरोत् ॥
उषआख्यं शुक्लवर्णं प्रमदारूपमेव च । तमश्चापकरोत्येव तदा सूर्यादिषु स्थितः ॥
स नः स्वामी यदुदरे यमनाद्यमनामके । अविक्ष्महि वयं सर्वे वृक्षे यद्वत्पतत्रिणः ॥
शेनाख्यास्तु सुखीनत्वादासमन्तात् सुरोत्तमाः । पद्वन्तो मानुषाश्चैव पादमात्रप्रयायिनः ॥
ग्रामाख्या बहुƒत्वात्तु दैत्या एव प्रकीर्तिताः । अर्थिनस्तु कृतार्थत्वात् मुक्ता एव श्रुताः श्रुतौ ॥
ऊरीकृतप्रमाणत्वादूर्म्यः स भगवान् हरिः । वृकास्तेनैव निर्याप्याः वृकाः क्रूरत्वतोसुराः ॥
तत्स्वभावाश्च वृक्याः स्युः स्तेनास्तत्र महासुराः । ब्रह्मस्तेना यतस्ते हि नित्यमैकात्म्यवेदिनः ॥
विष्णुः सुखतरश्चैव भक्तानां भवति प्रभुः । कृष्णं व्यक्तं तमोज्ञानमज्ञानां पेशƒं हि तत् ॥
तद्यातयत्यृणमिव भगवान् पुरुषोत्तमः । स एव चोषाः कथितः प्रकाशत्वाज्जनार्दनः ॥
जयिनः स्तोममिव च ब्राह्मणाय यथा च गाः । उपाकरं तथा स्तोमं तवाहं तद्वणीष्व च ॥
द्यौरिति ज्ञानमुद्दिष्टं तद्य्वङ्गत्वाज्जनार्दनः । दुहिता दिव इत्युक्त एवमर्थेन पूज्यते ॥
रात्रीसूक्तेन भगवान् साक्षान्नारायणः प्रभुः । तत्सन्निधानाद् दुर्गाया एषोर्थ उपचारतः ॥
एवं स्तुतस्तथैवेष्टो भगवान् मोक्षदो भवेत् । यदन्तीत्याद्यृचः सर्वा अपि दुःस्वप्नदर्शने ॥
जप्या एव विशेषोयं होमो दुःस्वप्नदर्शने । परोक्षज्ञानिनो विष्णुरापरोक्ष्यं व्रजेत् त्वरन् ॥
अपरोक्षदृशः प्रीतः सुखाधिक्यं करोत्यतः । मुक्तस्य द्विविधैस्तस्माज्जपो योगश्च सर्वथा ॥
कर्तव्यो न्यासिभी रात्रिसूक्तं जप्यं त्रिशोञ्जसा ॥ इत्यैतरेयसंहितायाम् ॥4॥

अथ सर्ववाग्विषया विद्योच्यते । विष्णुशब्दार्थत्वात् सर्ववाचाम् । पूर्वोक्ता अपि सर्ववागुपनिषद एव । तथापि मुख्यत एव सर्ववाग्विषयत्वाद् वक्ष्यमाणामेव सर्वस्यै वाच उपनिषदिति सर्वेप्याचक्षते ।
पृथिव्यादिस्थितो विष्णुः पृथिव्याद्यभिधानवान् । स्पर्शादीनां देवतासौ क्रमेणैव प्रकीर्तितः ॥
तस्य विष्णोरयं देहो वीणा साक्षात् प्रकीर्तिता । दैवी वीणा ततः सेयं ƒोकसिद्धा तु मानुषी ॥
ब्रह्मादिदेहान् यो वेद विष्णोर्वीणेति भक्तितः । विद्यापूर्णसुखः स स्याद्भूमिपूरितकीर्तिमान् ॥
विद्याधिक्यार्थमेवैतां वाक्सारामप्यृचं जपेत् । ध्यात्वा नारायणं देवं स्त्रीरूपं वाचि संस्थितम् ॥
ओष्ठापिधानेत्येषा ह्यृक्सारो वाचः प्रकीर्तितः । विष्णोर्हि वाचि संस्थस्यैवोष्ठावेतौ पिधानवत् ॥
कुƒीति चोक्तो भगवान् प्रƒीनाशेषकुत्सितः । पाति सर्वं विशिष्टश्च सर्वस्मादित्यतः पविः ॥
सर्ववागीश्वरो विष्णुः स्त्रीरूपो मां सुवादयेत् ॥ इति च ।
नेत्युपमानार्थम् । ओष्ठावपिधानवदस्येति । न च विष्णोरन्या सर्वस्या वाच ईशाना । स हि मुख्यतः सर्वेश्वरः । तस्यैव प्रस्तुतत्वात् वक्ष्यमाणत्वाच्च । “श्रियपतिर्यज्ञपतिर्जगत्पतिर्गिरांपतिर्ƒोकपतिर्धरापतिः’ इति भागवते । “यो वाचि तिष्ठन् वाचोन्तरो यं वाङ् न वेद’ इत्यादिश्रुतिश्च । स्त्रीिƒङ्गत्वं देवतेत्यादिवदपि युज्यते । स्त्रीरूपत्वाच्च ॥5॥

संवत्सर इति विशेषणाद्विरिञ्च एवात्र प्रजापतिः । “ब्रह्मा विश्वः कतमः स्वयम्भूः प्रजापतिः संवत्सरः’ इत्यादि श्रुतेः ।
श्रान्तो ब्रह्मा सर्ववेदैः स्तुत्वा नारायणं प्रभुम् । तेनैव सम्यक्सन्धाय दार्ढ्यं देहस्य सोकरोत् ॥
सन्धानात् संहितेत्युक्तो विष्णुरेव सनातनः । विष्णुनाम्नि णशब्देन विष्णोर्बƒमुदीर्यते ॥
ण इत्याक्रियमाणत्वात् णकारोस्य बƒं मतम् । विष्णुनाम्नि षकारेण रमाब्रह्मेशपूर्विणः ॥
प्रणेतृताखिƒस्यैव विष्णोरुक्ता तथात्मता । आततत्वं सर्वगुणैर्देशतः काƒतस्तथा ॥
आत्मशब्दोदितं तच्च षशब्देनाभिधीयते । ष इत्याक्रियमाणत्वं प्रणेतृत्वं च पूर्णता ॥
विष्णोः षकार इत्युक्ता वीत्युक्तस्य विशिष्टता । अन्त्यस्थित उकारस्तु ताच्छील्यादि हरेर्वदेत् ॥
एवं विशिष्टप्राणत्वमाततत्वं च सर्वतः । विशिष्टं च बƒं विष्णोः सर्वस्माच्छीƒमित्यपि ॥
उदितं विष्णुशब्देन तस्मादृक्संहितामनु । वर्णद्वयसमायोगे ष्णुशब्दस्यार्थमेव तु ॥
विष्णोः प्राणत्वमात्मत्वं बƒं चैवात्र वेत्ति यः । स एव विष्णोर्बƒवित् तथा प्राणत्वविद्भवेत् ॥
स एव मुक्तः संसारान्नित्यायुष्मान् भविष्यति । संहितासहितत्वेन यदृचोधीमहे वयम् ॥
वेदानन्यान्पुराणं वा तेन विष्णुपदोदितः । अवाप्तो भगवान् स्यान्नस्तन्नामार्था यतोखिƒाः ॥
इत्याहुर्ऋषयः सर्वे किमन्याध्ययनाद् भवेत् । यज्ञैर्वेत्यृषयोप्यन्ये कावषेया वदन्ति हि ॥
मौनेन विष्णुशब्दार्थं ध्यायन्तो वाचमेव वा । जुहुमो विष्णुनामाख्यां जपन्तो मन्त्रमेव वा ॥
नमस्कारसमायुक्तं जुहुमः प्राणमत्र हि । किमन्यैर्बहुभिः कार्यैरेतस्यैवाधिकत्वतः ॥
एतदर्थानुसन्धानपूर्वं वेदानथापि वा । अधीमहे यजामो वा नान्यथा तु कथञ्चन ॥
एष एव हि सर्वेषां वेदानामर्थ ईरितः । विष्णुनामोदितो योर्थस्तद्य्वाख्यान्यद्वचोखिƒम् ॥
एवं विशिष्टप्राणात्मबƒाद्यखिƒसद्गुणैः । पूर्णस्वभावः सर्वेषां वचसामर्थ ईरितः ॥
संहिताख्यानि विष्णोस्तु रूपाण्येतानि सर्वशः । अन्यविद्यास्वशिष्यस्य न ब्रूयात् प्रथमं क्वचित् ॥
व्याख्यानशक्तिहीनाय नैव ब्रूयात् कथञ्चन । वैष्णवाय सुवृत्ताय मेधाश्रद्धायुताय च ॥
गुरोः शुश्रूषकायैव ब्रूयादित्यनुशासनम् ॥ इति च ।
य एतेन ण इति शब्देनाक्रियमाणं विष्णोः पूर्णबƒं षशब्देनाक्रियमाणं देशतः काƒतो गुणतश्चाततत्वं च सर्वां संहितामनु तदर्थत्वेन वेद । अक्षरद्वयसंयोगरूपया संहितयैतदेव सर्वत्रोच्यत इति स सम्पूर्णबƒं सर्वप्रणेतृत्वशक्त्यादियुक्तं विष्णुं वेद । अथेत्यादिका अपि संहितारूपा एव । पदवर्णयोः पृथगनभिव्याहारात् । तस्मात् सर्वशब्दा विष्णुनामव्याख्यानरूपा एव । यद्द्वयं संहितायुक्तत्वेन वचोधीमहे तेनास्माकं णशब्दषशब्दार्थरूपो विष्णुरुपात्तः । तद्य्वाख्यानत्वात् सर्ववाचाम् । वीत्युपसर्गत्वादुकारस्य च ताच्छील्यार्थत्वादुक्तार्थविशेषणरूपत्वेन प्रसिद्धत्वान्न पृथक्तयोर्व्याख्यानमत्र कृतम् । ऋच इति सर्ववाचामुपƒक्षणम् । अतः सर्ववेदादिशब्दोदितः सर्वगुणपरिपूर्णो भगवान्नारायण इति सिद्धम् ॥6॥
सवैश्च वैदिकपदैरपि ƒोकशब्दैर्मेघाग्निवारिधितƒादिरवैश्च सर्वैः ।
एकोभिधेय परिपूर्णगुणः प्रियोƒं नारायणो मम सदैव सुतुष्टिमेतु ॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यƒं बट् तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ ॥
हनुशब्दो ज्ञानवाची हनुमान् मतिशब्दितः । रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि ॥
भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृतः । ऋगाद्या इतिहासश्च पुराणं पञ्चरात्रकम् ॥
प्रोक्ताः सप्तशिवास्तत्र शयो भीमस्ततः स्मृतः । मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ॥
मध्व आनन्दतीर्थः स्यात् तृतीया मारुतीतनुः । इति सूक्तगतं रूपत्रयमेतन्महात्मनः ॥
यो वेद वेदवित् स स्यात् तत्त्ववित् तत्प्रसादतः ॥ इति च ।
साधको रामवाक्यानां तत्समीपगतः सदा । हनुमान् प्रथमो ज्ञेयो भीमस्तु बहुभुक् पितोः ॥
पृतनाक्षयकारी च द्वितीयस्तु तृतीयकः । पूर्णप्रज्ञस्तथानन्दतीर्थनामा प्रकीर्तितः ॥
दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते । प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः ॥
आसमन्तात् पतित्वे तु गूढं किƒयुगे हरिम् । असत्यमप्रतिष्ठं तु जगदेतदनीश्वरम् ॥
वदद्भिर्गूहितं सन्तं तृतीयोसुर्मथायति । येन विष्णोर्हि वर्पाख्यान् गुणानज्ञासिषुः परान् ॥
ईशानाशः सूरयश्च निगूढाभिर्गुणोक्तिभिः । त्रेतायां द्वापरे चैव कƒौ चैते क्रमात् त्रयः ॥
येषां हि परमो विष्णुर्नेता सर्वेश्वरेश्वरः । स्वयम्भुब्रह्मसंज्ञोसौ परस्मै ब्रह्मणे नमः ॥ इति च ॥
पूर्णानन्दगुणोदारधाम्ने नित्याय वेधसे । अमन्दानन्दसान्द्राय प्रेयसे विष्णवे नमः ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ऐतरेयोपनिषद्भाष्ये तृतीयप्रघट्टके द्वितीयोध्यायः ॥
॥ श्रीकृष्णार्पणमस्तु ॥

*****************************************************************************

]