[[ऐतरेयोपनिषद् भावप्रदीपः Source: EB]]
[
श्रीमदानन्दतीर्थभगवत्पादविरचित-ऐतरेयोपनिषद्-भावप्रदीपः
प्रथमारण्यकम्
न उपलब्धम् ।
**************************************************************************************************
श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ।
एष भगवान् संकर्षण नामा । पन्थाः मार्गरूपः । स्वप्राप्तौस्वस्यैवहेतुत्वात् । एतत् एष भगवानेवं अनिरुद्धरूपीकमर् । कर्तृत्वान्मातृत्वाज्ज्ञातृत्वाच्च । विधेयानुसारेणैतदिति नपुंसकाता । एवमुत्तरत्रापि । एतत् वासुदेवात्मा भगवान् ब्रह्म गुणपूर्णत्वात् । एतत् प्रद्युम्नाख्यो भगवान् सत्यं निर्दोषस्वरूपत्वात् । तस्माद्भगवतो न प्रमाद्येत् । तद्विषये प्रमादयुक्तो न भवेत् । क्वापि तं नैव विस्मरेदिति यावत् । तद्ब्रह्मनातीयात् । अतिक्रम्यत्यक्तवानेतरं व्रजेत् । त्यागप्रकारश्चान्तिमाध्याये स्पष्ययिष्यते । कुतो नातीयादित्यतोऽनतिक्रमे पूर्वेषामाचारं तावत् प्रमाणयति ॥ नहीति ॥ पूर्वे ब्रह्माद्याद्या एनं हि यस्मान्नात्यायन् नतत्यजुस्तस्मान्नातीयादिति पूर्वेणान्वयः । अतिक्रमे किं बाधकमित्यत आह - येत्यायन्निति ॥ येऽतिक्रान्तवन्तस्तेपरा बभुवुः अन्धेतमसिपतिता इत्यर्थः । एवमत्र त्यागफलकथनात् अत्यागफलमपि पूर्ववाक्ये अध्याहर्तव्यम् । ये पूर्वेनात्यायंस्ते ब्रह्माद्याः संसृतेः मुक्ताः । श्रीश्च नित्यमुक्तागुणाधिका च वर्तत इति । के ते भगवत्त्यागिनः अत्यागिन्च कतिविधा इत्यतः तदुत्तरत्वेन मन्त्रुमुदाहरष्यन्नवतारयति - तदुक्तमिति ॥ ऋषिणामन्त्र द्रष्य्रा । तत् उक्त प्रश्ऱ्नस्योत्तरं उक्तमित्यर्थः । मन्त्रमुदाहरति - प्रजा इति ॥ तत्र तावत् प्रथमपादमनूद्यतिस्रः पिशाचराक्षसासुरभेदेन त्रिविधाः प्रजा अत्यायं भगवदतिक्रमं ईयुः प्रापुः चक्रुर्हेति तदर्थमभिप्रेत्योपनिषतस्वयमेव व्याचष्ये - प्रजा इति ॥ तिस्रस्त्रिविधः प्रजा अत्यायमायन् भगवदतिक्रमं प्राप्ता इति याः ऋषिप्रोक्तः ता इमावै । वक्ष्यमाणा एव । कास्ताः । वयांसिवङ्गावगधा इरपादाश्चेति यानीमानि भूतानि तान्येव । वीत्याकाश नाम । वै आकाशे अयनाद्वयांसि पिशाचकाः । वीत्यत्रेकारलोपोनिर्वचनात् । पिशाचाहि विहाय सिंचरन्ति । वङ्गावगधाः । वं वर्तितं प्रवर्तितं निष्पादितं गं ज्ञानं येषु ते वङ्गाः नरास्तैरवोऽवनं येषान्ते वङ्गावाः नरममांसाशनेन स्वदेहपोषणं कुर्वन्त इत्यर्थः । गधाः गृध्नवः विषयलोलुपाः । वङ्गावाश्च ते गधाश्चेति तथोक्ताः राक्षसाः । ईरस्य वोयो; धर्मज्ञान वैराग्यैश्ऱ्वर्यरूपगुण चतुष्यात्मकस्य ऐश्ऱ्वर्यरूपैकगुणमात्रवत्त्वादीरपादा असुराः । इतिशब्दोध्याहार्यः । ईरपादाश्चेतीमानीत्यन्वयः । एवं भगवत्त्यागिनाम सतां त्रैविध्यमुक्त्तवा तदत्यागिनां सतामपि त्रैविध्यं पादत्रयेण क्रमेणर मन्त्रशेषे प्रदर्श्यते । तत्र द्वितीयपादं तावदवदति - न्यन्या इति ॥ अन्या उक्त राक्षसादित्रिविधा सत्प्रजाविलक्षणाः मनुष्योत्तमप्राजः अर्कं आसम्यग्जनैरर्चितत्वात् अर्कशब्दावाच्यं अगिनस्थं विष्रुमभितः आभिमुख्येन निविविश्रे निविष्याः आश्रिताः । अग्नौ कर्माणि कृत्वातत्स्थं विष्णुं मुक्तौ प्राप्नुवन्तीत्यर्थः । अर्कशब्दवाच्यस्य विष्णोरुपास्तौस्थानं वक्तं विशिनष्यि - इममेवाग्निमिति ॥ एतस्मिन्नग्नावेव स्थितं तन्नाकमित्यर्थः । तृतीयपादमनुवदति - बृहदिति ॥ ता इमा इत्यनुवर्तते । ऋषिरूपाः प्रजाः यदेतद्भुवनेषु लोकष्वन्तः । बृहत् तेजसाबृंहितं व्याप्तं ब्रह्म । सूर्ये तस्थौ । तत् अभितो विविश्र इत्यनुवृत्त्या योजना । इममेवार्थमभिप्रेत्य व्याचष्ये - अद उ एवेति ॥ अदः उ । असावेवविष्णुः भुवेष्वन्तः । बृहत् तेजसा पूर्णम् । असावेवादित्यः सवर्वस्तूनां आदानात् । स्ववशेस्थापनात् आदित्यनामा । तमिमं विष्णुमृषयः स्वाध्यायेन अभितोनिविष्या इति योजना । चतुर्थपादमनुवदति - पवमान इति ॥ पावयति संसारात् । मिनोति क्षिपति च महानन्द इति पवमानोवायुस्थो विष्णुः हरितोदिशः सर्वा आविवेश । सर्वदिक्षुव्याप्तः । य एवं विधस्तं विष्णुं देवा अभितो निविष्या इति तदर्थमभिप्रेत्य व्याचष्ये - वायोरेवेति ॥ बलज्ञानस्वरूपत्वात् वायुशब्दवाच्यो वायुस्थो हरिरेव पवमानः । स एव हरितो दिश आविष्य इत्यर्थः । हरित इत्यनुवादः दिश इति तद्वयाख्यानम् । तथा च भगवत्त्यागिनो सन्तः पिशाचराक्षसासुरभेदेन त्रिविधाः । तदत्यागिनस्सन्तोपि मनुष्योत्तमर्षिदेवभेदेन त्रिविधा इत्युक्तं भवति ॥ 1 ॥
विद्यान्तरमारभ्यते - उक्थमुक्थमिति ॥ अत एव न पूर्वखण्डेन अस्य सङ्गतिः । एवमुत्तरत्रापि । प्रजाः ज्ञानिजनाः उक्थमुक्थं उत्थापनात् जगतः सर्जनान्निमित्तात्किंचिद्वस्तूक्थनामकति वदन्ति । वैदिकव्यवहारप्राचुर्यज्ञापानर्थं द्विरुक्तिः । वै प्रसिद्धेमेतत् । तदुक्थंचेदमेव विष्ण्वाख्यं ब्रह्मैवेत्यर्थः । तस्या अधिदैवतमध्यात्मं च रूपविशेषाणां पृथगुपास्त्यर्थं अधिष्ठानं वाहनं भोग्यमन्नं च पृथक्पृथग्दर्शयति - इयमेव पृथिवीत्यादिना ॥ इयमेव पृथिवी रइदमेव पृथिवी स्थितं प्रथितत्वात् पृथिवीनामकं उक्थम् । पृथिवीस्थितस्य उक्थशब्दवाच्यत्वे युक्तिप्रदशर्नाय पृथिव्यां उक्थशब्द प्रवृत्तिनिमित्तमाह - इतोहीति ॥ इतःपृथिवीतः यदिदं किंच प्रमाणप्रमितमिदं सर्वं अङ्कुरादिकं उत्तिष्ठति उत्पद्यते हि यस्मात् तस्मात् तस्थस्योक्थशब्दवाच्यत्वं युक्तमित्यर्थः । तस्य पृथिवीस्थितस्य विष्णोरग्निरर्कः । अत्रार्कपदेन ऋगताविति धातोः शीघ्रगतित्वतःयेन उच्यते । तदाकारत्वात् यज्ञे क्रियमाणाचितिरिष्यकासन्निवेश विशेष लक्षणा अर्कपदेन गौण्यावृत्त्याप्रतिपाद्यते । साच सुपर्ण प्रतिमारूपा । स एव सुपर्णोग्नावपि स्थितः । स च हरेः वाहनमिति प्रसिद्धमेव । अतोग्निस्थितस्य एव गरुडस्यार्कपदोदितचिगतत्वात् अग्निस्तस्य वाहनरूपोर्क इत्यच्यते । अथवा अग्निरग्निस्थितोग्निशब्दवाच्यो भगवद्रूपविशेषः तस्य पृथिवीस्थस्य हरेः अर्कः । तरं व्याख्येयम् । अन्नं प्रसिद्धान्नमेव तस्य विष्णोरशीतयस्तिस्रस्तृचाशीतयः तद्रूपं बृहतीसहस्राख्यं शस्त्रमिति यावत् । उभयोरपि तर्पकत्वात् सोमदेवताकत्वाच्च । अन्नस्याशीतित्वं योगेनापि दर्शयति - अन्नेनेति ॥ इदं सवर्ं प्राणिजातं अन्नेन अन्नभोगनेनैव सर्वं काममश्ऱ्नुते प्रापनोति । नान्यथा । दारापत्यगृहादीनि वासोलंकारभूषणम् । असह्यं नाश्ऱ्नतः पुंसः सह्यं भुक्तवतो धअुवमिति वचनात् अतोऽश्ऱ्नुतेऽनयेति व्युत्पत्त्या सर्वकामप्राप्सिधनत्वात् अन्नमशीतिरित्युच्यते । तृचाशीतयोप्यन्नवद्भगवतः तृप्तिहेतुतया सर्वकामप्राप्तिसाधनतुल्यत्वात् उक्तनिर्वचनेन आशीतिशब्दवाच्याः अतोन्नमशीतय इति सामानाधिकरण्येन उच्यत इति भावः । अन्तरिक्षं अन्तरिक्षस्थम् । अन्तःस्वहृदये ईक्ष्यते अधिकारिभिः इत्यन्तरिक्षनामकं चयद्भगवद्रूपं तदेवोक्थम् । तस्योक्थं त्वेयुक्तिमाह - अन्तरिक्षं वा इति ॥ अन्तरिक्षस्थं हरिं वै एव । अनु तत्प्रेरणयेति यावत् । पतन्ति पक्षिण इति शेषः । अन्तरिक्षमनु तत्प्रेरणयैव । धावयन्ति नरादयोश्ऱ्वादिषु यानादिवाहकनरवृषभादिषु चोपविष्यास्तान् धावयन्ति । भगवत्प्रेणयान्तरिक्षेणावकाशेदत्तेसत्येव हि पक्षिपतनादिकर्माणि जायन्ते । नान्यथेति भावः । यथोक्तम् । नमो ददाति श्ऱ्वसतां मार्गं यन्नियमादद इत्यादि । एतेन पक्ष्याद्युत्पननधावनादिरूपोत्थानहेतुत्वात् उक्थत्वमन्तरिक्षस्य युक्तमेवेत्युक्तं भवति । तस्य वायुरर्क इत्यादि पूर्ववत् । असौद्यौरेव । द्युलोकस्थं द्योतनात् द्युनामकं च । यद्ब्रह्म तदेवोक्थम् । द्युस्थितस्योक्थशब्दवाच्यत्वे युक्तिप्रदर्शनाय द्युलोके उक्थशब्दप्रवृत्तिनिमित्तमाह - अमुत इति ॥ अमुतो दिवः प्रदानात् तत्कर्तृकवृष्यिप्रदानाद्यदिदं किं च प्रमाणसिद्धं इदं सर्वं सस्यादिकमुत्तिष्ठति उत्पद्यते हि यस्मात् तस्मात् तत्तत्स्थस्योक्थशब्दवाच्यत्वं युक्तमेवेत्यर्थः । तस्यासावादित्य इत्यादि पूर्ववत् । इत्यधिदैवतम् । अधिदैवस्थितानां भगवद्रूपाणां मुक्थत्वादिकमुपवर्णितम् । अथाध्यात्मम् । अध्यात्मगत भगवद्रूपाणां मुक्थत्वादिकं उच्यत इत्यर्थः । पुरुषशब्दवाच्य देहस्थितत्वात् देहाख्यपुरेषु सरणाद्वा यः पुरुषाख्यो विष्णुः स एवोक्थम् । तस्य उक्थत्वेयुक्तिमाह । अयमेवमहान् सर्वोत्तम इति । महत्त्वस्यैवोपपादनं प्रजापतिरिति । ब्रह्मादि सर्वप्रजास्वामीत्यर्थः । तथा च उच्चैः सर्वोत्कृष्यत्वेन स्थितत्वात् उक्थमित्युच्यत इति भावः । एष च पुरुषाख्यो भगवान् अहमुक्थमस्मीति विद्यात् विद्यां ज्ञानमत्ति अनुभवतीति तथोक्तः । तस्यैव सर्वोत्तमत्वादिसद्भावात् स एक एवतादृशज्ञानयोग्यो न अन्य इति भावः । एवं पुरुषाख्यहरेः उक्थत्वं उक्त्वा तदङ्गानामप्युक्थत्वमाह । तस्य मुखमेवेत्यादिना । अत्र सर्वत्रैवशब्दः कावेरीविरजातोयमित्यादाविव नेदमौपचारिकमिति ज्ञापनार्थो न त्वन्ययोगव्यच्छेदार्थः । सर्वत्र उक्थत्व विधानात् । तस्य मुखं वदनमेवोक्थम् । अग्न्युयुत्थपकत्वात् । वक्ष्यते हि । तस्य वाचासृष्यौ पृथिवी च अग्निश्चेति । निर्णयार्थं दृष्यान्तेन उपपादयति - यथेति ॥ यथा अधिदैवतं पृथिवी उक्थत्वेन उक्ता तथा अध्यात्मं पुरुषमुखमेव उक्थमित्यर्थः । तस्य मुखरूपोक्थस्य । वाक् वागभिमनी वह्निरर्क; । शिष्यं पूर्ववत् । नासिके एवोक्थम् । वातोत्थापकत्वात् । वक्ष्यते हि । प्राणेन सृष्यावन्तरिक्षं च वायुश्चेति । तस्य इत्यनुवर्तते । पुरुषाख्यहरेरित्यर्थः । यथान्तरिक्षमित्यादि पूर्ववत् । तस्य नासिकारूपोक्थस्य । प्राणोवायुः । तत्र विशेषमाह - तदेतदिति ॥ यदेतन्नासिकायै नासिकायां नासिकामूले नेत्रयोः मध्ये विनतमिव किंचिन्नतस्थानं दृश्यते । तदेतत् बघ्नस्य सूर्यस्य विष्यपं सूर्यलोकस्थानीयं विद्यादित्यर्थः । ललाटमेव उक्थं अत्र ललाटशब्देन तत्सम्बद्धं नेत्रमुपलक्ष्यते । यथा द्यौस्तथेत्यादि पूर्ववत् । तस्य ललाटरूपोक्थस्य । चक्षुश्चक्षुरभिमानीसूर्यः । अत्र अदनाघ्राणदृष्ययाख्य भोगत्रयविभागेन तन्मुखनासिकाभागवतो जीवदेहेषु व्याप्तत्वात् तन्मुखनासिकाक्षीणि जीवमुखनासिकाक्षिषु स्थितानि । अत एव जीववाक्प्राणचक्षुष्षुविष्णवा गाद्याः स्थिताः विष्णोः वाक् प्राणचक्षूंषि च भार्गवनारसिंहकापिलाख्याः तद्रूपविशेष एव । एतान्यपि मुखनासिकाक्षिवदग्निवायुसूर्याणं जनकानीत्यादि । एवं अध्यात्मं अधिदैवतं च षट्सुइतानेषु अर्काणां भिन्नत्वेपि अशीतय इत्येतत्समानमेव । यतः सर्वत्रान्नमेवाशीतय इत्युक्तमिति योजना । नन किं तदन्नस्यमाहात्म्यं । येन सीर्वेषामपि पृथिव्यादिस्थरूपाणां तदेवाशीतितयाउच्यत इत्यत आह - अन्नेनेति ॥ इमानि सर्वाणि भूतान्यन्नेनैव अन्नस्थेनान्ननाम्ना भगवतैव । समनन्ति सम्यक् चेष्यन्ते । अन्नेनैव अन्नस्थितेनैव तेनान्नदाता पुरुष इमं लोकं पृथिवीलोकम् । जयति प्राप्नोति । पृथिव्यामधिपतिः भवतीति यावत् । तथा अन्नेनैव अनेनामुं स्वार्गादिलोकं च जयति । तस्मात् सर्वभूतचेष्यने अन्नदातॄणां गतिप्राप्तौ च भगवतान्नेस्थित्वा तस्य निमित्तीकरणात् समानमशीतया अध्यात्मं च अधिदैवतं चान्नमेववेति युक्त तस्य सर्वत्राशीतितया उक्तिरिति भावः । तदिदं भगवद्रूपम् । अन्नं । अद्यत्वात् । अद्यत्वं चोपजीव्यत्वेनैव । उपजीव्यो हि सर्वेषां भगवान् । न केवलमन्नं किन्त्वन्नादं च । अन्नमत्तीति सर्वात्ताहि भगवान् । किं तद्भगवद्रूपम् । यदन्नमन्नादं चेत्यत आह - इयमेव पृथिवीति ॥ एतत्पृथिवीगतमेव पृथिवीनामकं स्त्रीरूपमित्यर्थः । कथं पृथिवीगतरूपस्यान्नत्वमन्नादत्वं चेत्यतः तत्रान्नत्वं तावदुपपादयति - इतोहीति ॥ इतः पृथिवीगत भगवच्छक्त्यैव इदं सर्वं धान्यादिकं पृथित उत्तिष्ठति उत्पद्यते । सर्वमित्यस्यैव विवरणं यदिदं किंचेति । एवं पृथिवीस्थस्य अन्नोत्पादकत्वात् अन्नत्वमुपपाद्य द्युलोकस्थस्य अपि अन्नत्वत्वं अन्नादत्वं चाभिप्रेत्य तत्रान्नादत्वं तावदुपपादयति - यद्धकिञ्चेति ॥ यत्किञ्चेदं धूमादिकं अचेतनं स्वर्गादिगन्तृचेतनं च पृथिवीतः प्रेता इ प्रैतिप्रयाति गच्छति । तत्सर्वमसौद्युलोकस्थोहरिरत्ति स्वीकरोतीत्यर्थः । एतेन पृथिवीस्थस्य द्युभोग्यधूमादि जनकत्वेन प्रकारान्तरेणापि अन्नत्वमुपपादितम् । अथ पृथिवीस्थितस्य अन्नादत्वमुपपादयति - यदुकिञ्चेति ॥ उउच । यत्किञ्चातः अमुतः द्युलोकात् । प्रैतीआगच्छति । वृष्ययादिकं तत्सर्वमियं पृथिवी पृथिवीस्थितोत्तीत्यर्थः । एतेन द्युलोकस्थस्य अन्नत्वं अपि उक्तं भवति । उपलक्षणमेतत् । पृथिवीस्थितस्य भगवतः । पृथिवीस्थ सर्वप्राणिगतरूपेण । पृथिव्युत्पन्नान्नभोक्तृत्वात् प्रकारान्तरेणाप्यन्नादत्वं द्रष्यव्यम् । अत्र पृथिवी द्युस्थयोः भगवद्रूपयोः अन्नत्वमन्नादत्वं च स्वनिरूपितं अन्यनिरूपितं च बोध्यम् । तत्र स्वभोग्यत्वं स्वभोक्तृत्वं च हरेरचिन्त्यैश्ऱ्वर्यबलादेकस्यापि रूपभेदेनोपपन्नम् । अन्यभोग्यत्वं चोपजीव्यतारूपम् । अन्यभोक्तृत्वं त्वविप्रतिपन्नमेवेति । एवं पृथिवी द्युस्थयोरन्नत्वं अत्तृत्वं चोपपाद्योपसंहरति - सेयमिति ॥ सेयं पृथिवी । तत्स्थाभगवन्मूर्तिः । इतिपूर्वोक्तप्रकारेण । आद्या अदनीयाभोग्या उपजीव्येति यावत् अत्रीभोक्त्त्ीच भवति
एवं सोसावित्यध्याहार्यम् । द्युस्थोभगवानपि अत्ता आद्यश्च भवति । हवा इति प्रसिद्धिद्योतकं निपातद्वयम् । अत्रायं विवेकः । यदा पृथिवी आद्या भवति तदा द्यौरत्ता । यदा तु साऽस्त्री भवति । तदा सावाद्य इति । अत एवाद्यात्रीत्यस्य अत्ता आद्य इति व्युत्क्रमेणोक्तिरिति ज्ञातव्यम् । न च इदं अद्यत्वं अत्तुत्वं च भगवतः केनापि शक्यनिवारणमित्याह - नतस्येति ॥ अयं भगवान् । यथा सर्वं नाद्यात् । यद्वा एनं भगवन्तं अन्ये यथा नाद्युर्नोपजीवेयुः तस्य तथाकरणस्य कश्चन नेशे नेष्य इत्यर्थः । 2 ।
अथानन्तरम् । अतःभगवन्माहात्म्यश्रवणस्य महाफलसद्भावात् । रेतसः सृष्यिः रेतः सम्बन्धिनीसृष्यिरुच्यत इति शेषः । अत्र रेतश्शब्दो जन्योपलक्षणः । देवाः सर्वे ब्रह्माद्याः प्रजापतेः सर्वजीवाधिपतेः विष्णोरेतः । तस्मात् जातः । देवानां वर्षं रेतः । देवेभ्योवृष्यिः संजायते । वर्षस्य रेत ओषधयः । वर्षात् सर्वा ओषधयो जायन्ते । ओषधीनां रेतोन्नम् । तेभ्योन्नं जायते । अन्नस्य रेतोरेतःशुष्ममेव । प्रजानां रेतोहृदयम् । अत्र हृदयशब्देन संकल्पात्मकं मन उच्यते । तत् प्रजाभ्यो जायते । हृदयस्य रेतोमनः । मनःशब्देन विकल्पात्मकं मन उच्यते । संक्लपाद्विकल्पोजायत इत्यर्थः । संकल्पविकल्पयोः मनोत्तृत्तित्वेन उभयोः प्रजाजातत्वेपि संकल्पानन्तरमेव विक्लपस्य जायमानत्वात् तज्जातत्वोक्तिः । एकादश्याद्युपवासादि संकल्पे कृते एव हि तत्परित्यागं न करिष्ये इति विकल्पो जायते । मनसोविकल्पात्मकस्य रेतोवाक् वाक्प्रचारः । अत्र हृदयस्य इत्यपि ग्राह्यम् । संकल्पविकल्पाभ्यां विधिनिषेधविषयकमनोवृत्तिभ्यां सर्वोपि वाक्प्रचारो जातये । वाचोरेतः कर्म । वाक्प्रचाराच्च वृद्धकृतात् अव्युत्पन्नस्य इदं अस्य वाचकमिदं वाच्यमिति नामादि वेदनात् पुनर्वाक्प्रचरेघटमानयेत्यादि रूपे जायमाने व्युत्पन्नस्य प्रयोज्यपुरुषस्य घटानयनादिकमर् जायते । तदिदं कर्म जायते । तदिदं कर्मकृतम् । कुलालादिकमर्णा हि घटादिकं सर्वं जगज्जायते । अयं एतत्कर्माभिमानी पुरुषोजीवः ब्रह्मणो विष्णोः लोक आवासस्थानम् । जडापेक्षयाचेतने हि विष्णोः विशेषतः सन्निधानम् । स ब्रह्मशब्दोक्तो विष्णुरिरामयः इच्छानुरूपसुखपूर्णः यद्यस्मादिरामयाः । दैर्घ्यमवधारणार्थे । इरामय एवहि । तस्माद्धिरण्मयः । हि रुक् पृथक् लौकिकानन्दाद्विलक्षणं ण्यंसुखं हिरण्यं तेनाधिकत्वात् तथोक्तः । आधिक्यार्थे मयट् । हि रुक् शब्दे ककारस्य ण्यशब्दे यकारस्य लोपो निर्वचनत्वात् । तथा च इरामयत्वादेव हि हिरण्मय इत्युच्यत इत्यर्थः । एतद्विद्यावेत्तुः फलमाह - हिरण्मय इति ॥ यो अधिकारी एवं प्रजापतेः एतो देवा इत्याद्युक्तप्रकारेण नारायणं सर्वलोकैककारणं हिरण्मयादिरूपं च वेद उपास्ते अपरोक्षतो जानाति च । सोमुष्म?िल्लोके वैकुण्ठादौ हिरण्मयः कर्मजं प्राकृतरूपं हित्वा निजानन्दैकरूपकः सम्भवति । हिरण्मयः सन्नेवसर्वेभ्योभूतेभ्यः मुक्तसवर्भूतैः ददृशे दृश्यत इत्यर्थः। 3 ॥
ब्रह्म वासुदेवाख्यम् । तं प्रसिद्धम् । ज्ञानिनां प्रथममिमं पुरुषम् । चतुराननम् । प्रपदाभ्यां प्रपदयोः । प्रपदद्वयावच्छदेन । प्रापद्यत प्राप । आदिसृष्यौ । यद्यस्माद्ब्रह्मेमं पुरुषं चतुर्मूखं प्रपदाभ्यां प्रापद्यत । तस्मात् पदनात् प्रपदनावच्छेदकत्वादेव । चतुर्मुखपादोपरितनभगागरूपं अङ्गप्रपदे इत्याचक्षते विद्वांसः अत एव चतुर्मुखवत्पुरुषाकारवतां नारादीनां पादोपरितन भागरूपं अङ्गं प्रवृत्तिनिमित्ताभावेपि सादृश्यमात्रेण प्रपदे प्रपदे इत्याचक्षते इत्यावृत्त्यायोज्यम् । प्रयोगबाहुल्यज्ञापनाय द्विरुक्तिः । अन्येषां तु चतुर्मुखपुरुषाकार शून्यानां पशूनामश्ऱ्वगवादीनां शफाः खुरा इत्येवाचक्षतेन तु प्रपदे इति । प्रवृत्तिनिमित्ताभावात् सादृश्याभावाच्चेति भावः । तदूर्ध्वं तदनन्तरम् । तत् ब्रह्म । चतुर्मुखदेहप्रपदादूध्वर्म् ।वायुनासहोदसर्पत् । ऊरुं प्रत्ययात् । अतोहरेरुर्ध्वं अरणाद्गमनान्निमित्तात्तौ चतुर्मुखसम्बन्धिनाववयवविशेषौ ऊरू अभवताम् । तत्सादृश्याच्चान्यत्रापि तच्छब्दव्यवहार इति संयोज्यम् । एवमुत्तरत्रापि । ततः किञ्चिदूर्ध्वं वायुना सहैव गत्वा । उरुउत्कृष्यं यथा भवति तथा । मां गृणी9हीति भगवान्वायुं अब्रवीत् । सवायुः यत्र स्थित्वा उर्वेवंगरणं चक्रे तत्स्थानमुदरमुदरनामकं अभवत् । उउत्कृष्योगरोगरणं स्तवनं यस्मिन्निति । गस्यदः । अथ ततोपि रूपान्तरेण किञ्चिदूध्वर्ं गत्वा । उरुविद्तृतमेव मे मम निवासस्थानं कुर्विति पुनर्वायुमब्रवीत् । वायुश्च भगवदाज्ञानुसारेण तथैव अकरोत् । ततस्तत्स्थानं उरुत्वात् उरोनाकमभवत् । रः स्थाने च मध्ये हृदयमप्यकरोदित्यपि ग्राह्यम् । हृदयं ब्रहमेति वक्ष्यमाणत्वात् । तत्रोदरं उदरेस्थितमुद्गतारत्वात् उरुगरणविषयत्वात् ओदरनामकम् । ब्रह्मेतिशार्कराक्षाः शर्करासूक्ष्मपाषशणस्तद्वत्सूममक्षं दृष्यिः येषान्ते तथोक्ताः । सूक्ष्मेषिकावत्त्वात् तन्नामानोमुनय उपासते । हृदयं हृदयेस्थितं हृद्ययनात् हृदय शब्दवाच्यं ब्रह्मेति । आरुण योनाममुनय उपासते । ता इ । ते उभे उदरस्थं हृद्गंच । ब्रह्मैवह । नाणुरप्यत्रभेदः । ब्रह्मेतिसंहितायां दैर्ध्यस्य ता इइति स्वरस्पर्शविभागस्य चकृत्यं प्रागुक्तमेव । ततः उरः स्थानादूर्ध्वंत्वेव तद्ब्रह्मोदसर्पत् । वायुनासहागमत् । तुशब्दः पूर्वोक्तस्थानेभ्योस्य विशेषद्योतकः । ऊर्ध्वं गतं च तद्ब्रहमशिरोमूर्धानमश्रयत । वायुनादेवैश्च सह तत्र स्थितमभूत् । यद्यस्माच्छिरोश्रयत ब्रह्म तत्तस्मात् तदङ्गं शिरोनामाभवत् । तदेवशिरसः शिरस्त्वं शिरः शब्दप्रवृत्तिनिमित्तम् । यद्ब्रह्मकर्तृकश्रयणकर्मत्वमित्यर्थः । ता एताः श्रियः श्रयणशच्छ्रीशब्दवाच्याः । चक्षुःश्रोत्रं मनोवाक्प्राण इत्याद्यादेवताः । शीर्षन् चतुर्मुखशीष्णिर्श्रिताः स्थिताः । एवं सर्वप्राणिनां शिरस्वप्येतादेवताः श्रिता इत्यपि ग्राह्यम् । श्रिता इत्युपलक्षणम् । तत्र स्थिता विष्णुपासत इत्यपि द्रष्यव्यम् । चक्षुरादि देवताश्च भाष्योक्तरीत्या रविचन्द्रशङ्कराग्निवाय्वाद्याबोध्याः । एतद्विद्यावेत्तुःफलमाह । श्रयन्त इति । योधिकारी एवं परब्रह्मणाश्रितत्वमेव शिरस एतत् उक्तं शिरस्त्वं शिरः शब्दप्रवृत्तिनिमित्तं वेद । अस्मिन् श्रियः सम्पदः श्रयन्त इत्यर्थः । चक्षुरादि देवेषु प्राणस्यैवोत्तमत्वमिति प्रदर्शयितुं आध्यायिकामारभते । ता अहिंसन्तेत्यादिना । ताः श्रियः शिरःश्रयणाच्छ्रीशब्दवाच्याः चक्षुरादिदेवता अहिंसन्त वाचाहिंसामकुर्वन् । परस्परं व्यनिन्दन्नितियावत् । किमिति । अहमुक्तं श्रेष्ठोस्मीति । द्विरुक्तिर्विवादस्य प्रातिस्विकता ज्ञापनाय । तत्र निर्णयार्थं विष्ण्वाज्ञया ता देवता अब्रुवन् । किमिति । अस्मात् चतुर्मुखसम्बन्धिनः शरीरात् । उत्क्रामाम । उत्क्रान्ताभवाम । हन्तेति हर्षे । तत् तेषां नोस्माकं मध्ये । यस्मिन् देवे उत्क्रान्ते इदं शरीरं पत्स्यति पतिष्यति । तदुक्थं स श्रेष्ठोभविष्यतीति । एवं समयं बद्ध्वा । तेषां मध्ये प्रथमं वाक् वागभिमानीवाह्निरुदक्रामत् । ब्रह्मशरीरादुत्क्रान्तः । तदायं देहोवागभावात् अवदन् वचनक्रियामात्रं अकुर्वन्नप्यश्ऱ्नन् पिबन्नास्तैव आसीदेव नापतत् । एवं चक्षुरुदक्रामत् । श्रोत्रमुदक्रामत् । इति वाक्यद्वयमपि व्याख्येयम् । चक्षुःसूर्यः । श्रोत्रं चन्द्रः । अथमनःमनोभिमानीशङ्करःशेषः सुपर्ण इन्द्रश्ऱ्च उक्रामत् । तदामीलित इव निमीलितनेत्र इव । प्रतिभाशून्य इवेति यावत् । ब्रह्मणः तादृग्भावायोगादिवेत्युक्तिः । अश्ऱ्नन् पिबन्नितिसर्वत्र तदितरेन्द्रियव्यापारस्याप्युपलक्षणम् । अशनपानयोः प्राणव्यापारत्वात् प्राधान्यात् सर्वत्रतदुक्तिः । अथ प्राणोवायुरुदक्रामत् । तत् शीरं प्राण उत्क्रान्ते सत्येव । अपद्यत पतितमभूत् । न केवलं पतितं किन्त्वशीर्यत च शैथिल्योन्मुखं चाभवत् । अत एव तद्देहस्य शरीरनामप्राप्तिः अभूदित्याह - अशारीति ॥ यत इदमशारि अशीर्यत । शॄहिंसायामिति धातोः । इतितस्मात् तत् शरीरं शरीरनामकं अभवत् । तदेव शरीरस्य शरीरत्वं शरीरशब्दप्रवृनिमित्तम् । यच्छीर्यमाणत्वम् । ृणातेः कर्मणि ईरच् । एतद्वेत्तुः फलमाह - शीर्यत इति ॥ अस्य स्वोत्क्रमणेन ब्रह्मदेहस्य शीर्णतापादकत्वरूप प्राणमाहात्म्यवेत्तुः द्विषन्द्वेषीवस्थितः । नरकाद्यनर्थहेतुत्वात् । भ्रातृव्यः भ्रातृवत्सहसंस्थितः पाप्मापापम् । शीर्यते हवै । नश्यति खलु । तथास्य द्विषन् पाप्मापापी भ्रातृव्यः शत्रुश्चपराभवति । नित्यनिरय प्राप्तिरूपपराभवं प्राप्नोतीत्यर्थः । एवं स्वनिर्गमेन ब्रह्मदेहपातनात् वायोरुत्तमत्वे सिद्धेपि यादृच्छिकताशंका निरासार्थं पुनस्तेषां परीक्षांन्तरं वक्तुं प्रस्तावनायविवादक्रममाह - ता इति ॥ उक्तपरीक्षयावायूत्तमत्वसिद्धौ पुनः विवादो न युज्यते । तथाप्युक्तशंकानिरासार्थत्वात् युज्यत एवेति ज्ञापनाय । अहिंसंतैवेत्येवशब्दो विवादस्यात्यन्तायोगव्यवच्छेदार्थः । हन्तेति खेदे । पूर्वपणीक्षायां स्वाभिलषितस्याजातत्वात् । यथोक्तं भाष्ये । उदासीनौचतावास्तां केशवश्चाञ्जसम्भव इत्यादि । प्राणष प्रपन्ने प्रविष्येतच्छरीमुदतिष्ठत् । अतः तत् सः प्राणः उक्थं उच्चैः स्थितत्वात् तथोक्तः सर्वश्रेष्ठोभवत् । उक्थशब्दानुसारेणतदिति नपुंसकम् । तदुक्थमित्येतद्विशदयति - तदेतदिति ॥ तत् स्वोस्वोत्क्रमणेन शरीरपतनकारणम् । एतत् स्वप्रवेशेन तदुत्थानकारणं च । यदुक्थमुक्तं तत्प्राण एवेत्यर्थः । अतोधिकारीप्राण उक्थमित्येव विद्यात् । एवं परीक्षाद्वयानन्तरं निश्शंकास्सन्तादेवाः सर्वेरुद्राद्यास्तं प्राणमब्रुवन् । किमिति । त्वमुक्थं गुणाधिकोसि । त्वमेवेदं सर्वमसि । अस्य सर्वस्य वचनदर्शनाद्यस्मदीय व्यापारस्य त्वमेव नियामकोसीति यावत् । वयं सर्वेपि तव भृत्याः स्मस्त्वं चास्माकं पतिरसीति । उक्तार्थे मन्त्रसंमतिमाचष्ये - तदपीति ॥ तदेतदपीति सम्बन्धः । न केवलं प्रजाहतिस्रो अत्यायमीयुरित्यादिकमेव उक्तं किंत्वत्र प्रकृतप्रमेयमप्युक्तमित्यर्थः । मन्त्रमुदाहरति - स्वमस्माकमिति ॥ उक्त एवार्थः ॥ 4 ॥
अथ देवाः वायुमुखाद्भगवद्गुणान् श्रुत्वा । तं वायुनोपदिष्यं नारायणं प्राणयन्तशिष्यप्रशिष्यादिषु प्रकर्षेणानयन् उपदिदिशुः । तथा तं वायुमपि तद्गुणोक्त्याशिष्यादिषु प्राणयन्त । सवायुर्देवैः प्रणीतः शिष्यादिषु उपदिष्यः तैः विज्ञातगुर इति यावत् । प्रातायत तेषु प्रविश्यप्रततोबभूव । यतः प्रातायीतीं प्रततोभवत् । तत्तस्मात् प्रातनर्ामकोभवत् । तथारूपान्तरेण जीवस्वरूपचैतन्येन । समागात् सङ्गतोभूत् । इति यस्मात् तत्तस्मात् सायं शब्दवाच्योभवत् । एवमहार्यत्वात् अहर्नियामकत्वात् च आहरेवाप्राणः । रतिरूपत्वात् रात्रिनियामकत्वाच्चरात्रिस्तन्नमा अपान इत्येवं वायोरेवाध्यात्मं चत्वारिरूपाणि । एवमग्निरप्यध्यात्मं वाक् वागभिमानीवागाख्याबभूव । असावादित्यश्च चक्षुश्चक्षुराभिमानी चक्षुराख्यो बभूव । चन्द्रमाश्चमनः । यज्ञादिसाधनीभूतशालायूपकपालादि विषयकमनोवृत्त्यभिमानीमनोनामा । अत्र शिवशेषसुपर्णेन्द्रा अपि ग्राह्याः । दिशःप्राच्यादिदिगभिमानिनो मित्रयमवरुणकुबेराः । श्रोत्रं श्रोत्राभिमानित्वेन तदाख्याः । अत्र चन्द्रोपि ग्राह्यः । विशेषस्त्वत्र भाष्योक्तरीत्या बोध्यः । स एष चाध्यात्मं देवानां संयोगोनान्यनिमित्तकः । किन्तु प्रहितां प्रहितानामेव । नुडागमाभावश्छन्दसः । विष्णुना प्रेरितानामेव बोद्धव्यः । अत एव इमाः सर्वाः ब्रह्मवाय्वाद्याः देवताः देवतामात्राः । अदउ तद्विष्ण्वाख्यं परं ब्रह्मैकमेवाधिदैवतं सर्वाधिकं दैवतम् । तत्रहेतुगर्भविशेषणम् - आविरिति ॥ पूर्णज्ञानादिस्वरूपमित्यर्थः । इत्येतदेव प्रमेयं सीर्ववेदादिसददागमैः तात्पर्यादुक्तं कथितं भवति । अस्ति नान्यत् । हस्मवेति निपातत्रयं सुप्रसिद्धिद्योतकम् । एतत् विष्णोरेव अधिदैवतत्वस्य सर्ववेदादिमहातार्त्यविषयत्वमपि सर्वप्रमाणषषु सुप्रसिद्धमित्यर्थः । एतद्विष्णोरेव सर्वोत्तमत्वादिकम् । विद्वान् जानन् । हिरण्यदन् नामवैदोवेद द्रष्यामुनिराह । किमिति । यथालोकाः मह्यं न दद्युः मदभीष्यमिति शेषः । तस्य तथाकरणस्य कश्चन नेशे न समर्थ इति । अथवा । वै तत् इति पदच्छेदः । तदेतद्विद्वान् हिरण्यदन् । आह हस्मवै इत्येकवाक्यतया योज्यम् । तर्हि सुरा अपि न समर्थाः किं नेति भावेनापवादसूचनायोक्तम् - अयमिति ॥ मानुषादिजीव इत्यर्थः । किञ्च प्रहितां विष्णुना प्रहितानांप्रेरितानाम् । हिगतावित्यतः क्विप् । तुगागमश्च । ब्रह्मादि देवानां अध्यात्मं निविष्यं अध्यात्मसम्बन्धिनमिति यावत् । संयोगमहं वेदवै । तत्तस्मात् कारणात् । अस्मै उक्तसंयोगवेत्रे । मह्यम् । भूतानिमदवराणि । मुक्तौ बलिं हरन्ति । यथेष्यभोगभुगहंमुक्तौ स्यामिति यावत् । उपलक्षणमेतत् । स्वेच्छाविहअतिश्चाहंस्यामित्यपि ग्राह्यम् । हवै प्रमितमेतत् । नैवात्र सन्देह इति भावः । ननु तव कथं मुक्तै स्वेच्छाविहारः सम्भवति । कैश्चित्तद्विघातस्यापि करणसम्भवादित्यत आह - तदनीशानानीति ॥ भूतानीत्यनुकृष्यते । तत्तत्र मद्विहारनिषेधे । भूतान्यनीशानानि अशक्तानि । देवादीनृतेन कश्चिच्छक्तोस्तीत्यर्थः । एतद्ध एतद्धि । प्रहितां वा इत्यादिकं तेन मुनिनाकथितमिति शेषः । अथवा अनीशानानीत्येतदुत्तरवाक्ये सम्बध्यते । तथा च य एवं वेद । विष्णुप्रहितदेवानां अध्यात्मं संयोगमेतन्नियोक्तारं च विष्णुं जानाति । अस्मैज्ञानिने । अनीशानानि स्वस्वाम्यन्यानिस्वावराणिमुक्तानि भूतानि बलिं हरन्ति मुक्ताविति योजना । विद्यान्तरमारभ्यते - तत्सत्यमिति ॥ तद्ब्रह्मविष्ण्वाख्यं सत्यम् । कथं सर्वोत्तमत्वात् सत् । पूर्णत्वात्ति । सर्वज्ञत्वाद्यम् । ततः कर्मधारयः । अथसत्यशब्देन पृथक्पृथग्वाच्यं देवतात्रयमप्याह - सदितीति ॥ प्राणोवायुः । शेषादिसर्वदेवोत्तमत्वात् सदिति सम्प्रोक्तः । अन्नं अन्नाभिमानी सदा वेदोद्गिरणादतिनादवत्त्वात् अन्नशब्दवाच्योब्रह्मा जीवेषु पूर्णत्वात्तीति प्रोक्तः । असावादित्यः प्रकाशेन सर्वलोकयमनात् यमित्युद्दिष्यः । तदेतद्देवतात्रयं त्रित्वेन वर्तत इति त्रिवृत् । मिलितमेवेति यावत् । सत्यशब्देनोच्यते । नतु परब्रह्मवदेकैकमित्यर्थः । एतच्चत्रिवृत् देवतात्रयम् । चक्षुषिसंस्थितमित्यत्रोपस्कर्तव्यम् । तत्कुत इत्यतः तत्र लिङ्गमाह - त्रिवृदिवेति ॥ त्रिवृद्देवताधिष्ठानत्वादेव एतच्चक्षुरपि शुक्लं कृष्णं कनीनिकेतित्रिवृदिव त्रित्वसङ्खयोपेतमिव दृश्यते वै इति । एतद्विद्याफलमाह । स यदीति । य एवमेतस्य सत्यस्य विष्णोः मिलितदेवतात्रयस्य च । एतत् सत्यत्वं पृथक् मिलितत्वेन च वेद । सोधिकारी । यदि कथंचित् मअषावदति । अपि तथापि । अस्योदितं वचनं सत्यं वै भवति ह । सत्यप्रायं भवति । असत्यभाषणप्रयुक्तदोषवान्नभवतीति यावदित्यर्थः ॥ 5 ॥
विद्यान्तरमारभ्यते - तस्येति ॥ तस्य नारायणस्य । वाक् सर्ववेदात्मिका । तन्तिः महारज्जुरुपा ।जगदाख्यपशुबन्ध इति शेषः । तद्गतानि वेदवाग्गतानि नामानि ब्रह्मरुद्रादीनि विप्रक्षत्रियादीनि च दामानि अवान्तररज्जुरूपाणि । तदस्य नारायणस्य । वाचावेदवाग्रूपया । तन्त्या महारज्ज्वा । तद्गतैः नामभिः ब्रह्मरुन्द्रेद्ररूपैः विप्रक्षत्रियवैश्यादिरूपैः च दामभिः अवान्तररज्जुभिः इदं सर्वं जगत् ब्रह्मादिकं सितम्बद्धम् । कीदृशोयं बन्धोनामभिः वाचाचेत्यात आह - सर्वं हीदमिति ॥ इदं सर्वं जगत् । नामनीं नाम्नयेव वर्तते हि । सर्वेपि नामवन्त इति यावत् । सर्वमपि वाचावेदवाचाविष्णुः अभिवदति । सर्वेषामपि वेदोक्तान्येव नामानि विष्णुः संकेतितवान् इति यावत् । एतद्विद्यावेत्तुः फलमाह - वहन्तीति ॥ य एवं वेद एनं वेत्तारं प्रति । तन्ति सम्बद्धावेदोदिताः सर्वे देवाद्याः । वहन्ति । संसारेमुक्तौ च बलिमिति शेषः । अथवा । तन्तिसम्बद्धाः पञ्चभूताभिमानिनो विघ्नेशाद्यादेवा अश्ऱ्वरूपा भूत्वा रथस्थमेनं वहन्तीत्यर्थः । अस्यां च विद्यायां योग्यो ब्रह्मपदयोग्यो यः स एव । अत उक्तं फलं तस्य युक्तमिति बोध्यम् । एवं तस्येत्यादिकं तस्य वायोः वाचातन्त्यानामभि; दामभिः सर्वं सुपर्णशेषगिरिशशक्रसूर्यादिकं जगद्बद्धमित्यादि वायु परतयापि व्याख्येयम् । पुनर्विद्यान्तरमाभ्यते - तस्योष्णिगिति ॥ तस्य हरेः विमुक्तवायोश्च । लोमानि । लोमसु । सप्तसुप्रथमेति सूत्रात् । उष्णिक् तन्नामकच्छन्दस्कोमन्त्रगण आश्रित इत्यर्थः । अथ वातस्य लोमानि उष्णिक् ऊष्णिगाश्रयत्वात् उष्णस्वरूपत्वाच्च तच्छाब्दवाच्यानि । यस्मात् यज्जायते चांगादिति वचनात् । यद्वा ब्राह्मणोस्य मुखमासीदित्यादिवदौपचारिकोयं अभेदव्यपदेश इति ज्ञातव्यम् । एवमुत्तरत्रापि त्रेधाव्याख्येयम् । गानत्राणकर्तृत्वात् गायतांत्रयाकत्वात्वागायत्री । त्रिभिः वेदैः स्तुतत्वात्रिष्युप् । अनु आनुकूल्येन स्तूयमानत्वात् अनुष्युप् । जातस्य गतित्वाज्जगती । पञ्चरूपत्वात्पङ्िक्तः । बृहत्त्वात् बृहती । स भगवान् स वायुश्च छन्दोभिः उष्णिगादिभिः छन्नस्तनुःकवचैरिव । यद्यस्मादेवं भगवान् छन्दोभिश्छन्नस्तसमात् भगवदाश्रितत्वेन तदा च्छादकत्वादेवतानि छन्दांसीत्याचक्षते विद्वांसः । एतद्विद्यावेत्तुः फलमाह - छादयन्तीति ॥ योधिकारीछन्दसामेतत् विष्णुच्छादकतारूपं छन्दस्त्वं छन्दश्शब्दप्रवृत्तिनिमित्तं वेद । सयदि । यस्यांकास्यांचिद्दिशि । वस्तुं कामयते । तर्हि तस्यां दिशिवसन्तमेनं छन्दां सितत्तद्दिग्वास प्राप्तात् । कर्मणः । ल्यब्लोपनिमित्ता पञ्चमी । पापं कर्मनिवार्य छादयन्ति गोपायन्तीत्यर्थः । अत्र छन्दःस्थित छन्दोनामक हरेरेव मुख्यतः पापाद्रक्षकत्वं छन्दसां तु तत्सम्बन्धादेवेति ज्ञातव्यम् । इदं च फलमुपासनायोग्यानां भृग्वादीनां देवतानां चैव मुख्यमिति ज्ञेयम् । अत्र मन्त्रसम्मतिमाह - तदुक्तमिति ॥ अपश्यं गोपामनिपद्यमानं आचपराच पथिभिश्चरन्तम् । स सघ्रीचीः सविषूयचीर्वअसन आवरीयर्तिभुवनेष्वन्तरिति मन्त्रेण । तत् अस्मदुक्तं प्रमेयं ऋषिणामन्त्रद्रष्य्रोक्तं कथितमित्यर्थः । मन्त्रस्य दुर्गमार्थत्वात् स्वयमेव क्रमेण मन्त्रभागाननूद्य व्याचष्ये - अपश्यं गोपामित्यादिना ॥ एषः छन्दस्संस्थितवायुस्थोभगवान् । गोपाः वै । कुतः हि यस्मात् एषः सर्वछन्दोविद्यावेत्तृजनं गोपायति पापाद्रक्षति । अनिपद्यमानमित्यस्य अथर्ोनह्येष इति । एष वायुः वायुस्थश्च हरिः कदाचन न संविशति न तूष्णीं तिष्ठति । सदा सर्वप्रवृत्तिमान् भवतीति यावत् । आचेति द्वितीयपादस्य व्याख्या - आचह्येष इति ॥ एष वायुः तत्स्थोहरिश्च । आसमन्तात् । सर्वत्र च । पञ्चभूतानामन्तरिति यावत् । परापराक् पहिश्च । पञ्चभूतेभ्य इति शेषः । पथिभिः स्वाभिमतमार्गैः चरति । स सध्रीचीरिति तृतीयपादस्यार्थः - सध्रीचीरिति ॥ एष हि वायुः वायुस्थश्च हरिः । सध्रीचीः सध्रीचीनाः । द्वितीया सप्तम्यर्थे । सध्रीचीनासु । अवक्रासुप्राच्यादि चतुर्दिक्ष्वितियावत् । विषूची; विषूचिषु वक्रासु । आग्नेयादि चतुष्कोणादिक्ष्विति यावत् । चशब्दौ मिथः समुच्चये । वस्तेवसति । मन्त्रे विशेष्यपदाभावात् कास्ताः सध्रीचीना विषूचीनाश्चेत्यतो विशेष्यं दर्शयति - इमा एवेति ॥ दिश एवेमाः सध्रीच्यादिपदवाच्या इत्यर्थः । आवरीवर्तीति तुरीयपादस्यार्थः - एष हीति ॥ वायुः वायुस्थो हरिश्च ।भुवनेषु सर्वलोकेषु । आवरीवर्ति आसम्यक् सर्वदा च वर्तते । लोकसाक्षी सन् वर्तत इत्यर्थः । तथा चायं मन्त्रार्थ उक्तो भवति । गोपां छन्दोविद्यावेत्तॄणां पापाद्रक्षकम् । अनिपद्यमानं कदाचिदप्येकत्र तूष्णीं संवेशनरहितम् । सदा सर्वप्रवृत्तिमन्तमिति यावत् । आचपराच पथिभिश्चरन्तम् । सर्वत्र सञ्चारिणम् । छन्दःस्थितवायुं वायुस्थं च भगवन्तम् । अहं अपश्यमिति । मन्त्रद्रष्युः मुनेः वचनमिदम् । स एष वायुः भगवाश्च । सध्रीचीः सध्रीचीषु ऋज्वीषु पूर्वादिदिक्षु । वसानोभवति । स एव विषूचीर्विषूचीषु कोणदिक्षच वसानोभवति । एष एव हि भुवनेष्वन्तरावरीवर्ति सर्वलोकसाक्षितया वर्तत इति । सवर्ं हीदं प्राणषन आवृतमित्यादि वक्ष्यमाणार्थेऽपि । अप्रक्षितं वसुबिभर्षिहस्तयोरषाल्हंसह स्तन्विश्रुतोदधे । आवृतासोऽवतासोनकर्तृभिः तनूषु ते क्रतव इन्द्रभूरय इत मन्त्रः समाख्यारूपोस्तीति भावेन तमुदाहर्तुमाह - अथो इति ॥ अथो छादयन्ति हवा एनं छन्दांसीत्युक्तार्थे सम्मतितया अपश्यं गोपामिति मन्त्रोदाहरणान्तरम् । सर्वं हीदमिति वक्ष्यमाणार्थेपि मन्त्र उदाहरष्यित इति शेषः । तत्र तृतीयपादमात्रमुदाहरति - अवृतास इति ॥ प्रकृतानुपयोगादितरेषां पादनामनुदाहरणम् । समग्रमन्त्रार्थस्तु । हे इन्द्रपरमेश्ऱ्वरवायो वा । अप्रक्षितं प्रक्षयशून्यम् । नित्याक्षीणं वसु हस्तयोः त्वं बिभर्षि । अषाह्लं सोढुमशक्यमनन्तमिति यावत् । सहोबलम् । तन्विस्वतनौ श्रुतः प्रसिद्धस्त्वं दधे धृतवानसि । कर्तृभिः धनसंग्रहकारिभिः अवतासोन । अवताः कनकावटास्तेयथा आच्छाद्यन्ते तथा भूरयोनन्ताः क्रतवोज्ञानरूपाः जीवास्ते तव । तनुषु आवृतासः आवृताः गोपिता इति । एवं समाख्यामन्त्रमादावेवोदाहृत्येदानीं समाख्येयमभिधित्सितमर्थं निरूपयति - सर्वं हीति ॥ प्राणेन भगवतावायुना च । उपलक्षणमेतत् । आकाशेन चेत्यपि ग्राह्यम् । सोयमाकाश इति वक्ष्यमाणत्वात् । आकाशपदवाच्यप्रकृत्या च । इदं सर्वं चेतनजातम् । महदाद्यचेतन जातं चावृतं स्वदेहेगापितं । हि प्रसिद्धमित्यर्थः । सोयमाकाशः प्रकृतिः । उपलक्षणमेतत् । वायुश्च बृहत्या बृहत्त्वाद्बृहतीशब्दवाच्येन प्राणेन भगवता । विष्यब्धोविधृतः । उक्तार्थमेव दार्ढ्याथर्ं पुनः दृष्यान्तमुखेनोपपादयन्नेतत् ज्ञानस्यैव मोक्षसाधनताज्ञापनायास्यार्थस्य अवश्यवेद्यतां विधत्ते - तद्यथेति ॥ तत्तत्र वक्ष्यमाणार्थे पूर्वोक्तमेतदेवनिदर्शनम् । यथा यमाकाशः प्रकृतिः । उपलक्षणयावायुश्च । बृहत्याप्राणेन विष्णुना विष्यब्ध एव मापिपीलिकाभ्यः । पिपीलिका आरभ्य सवर्ाणि भूतानि । बृहत्याप्राणेन । मुख्यतो बृहतीप्राणशब्दवाच्येन विष्णुना । अमुख्यतस्तद्वाच्येन वायुना च । प्रकृत्याचेत्यपि ग्राह्यम् । विष्यब्धानिविधृतानीत्येव विद्यादित्यथर्ः ॥ 6 ॥
अथ एतद्विद्यानिरूपणानन्तरम् । अतः महाफलसद्भावादस्य पुरुषस्य भगवतो विभूतयोंगमहिमानो निरूप्यन्ते । तत्रादौ मुखमहिमानं निरूपयति - तस्येति ॥ तस्य विष्णोवर्ाचा । मुखोपलक्षणमेतत् । मुखेन । पृथिवीचाग्निश्चेत्युभौ सृष्यौ । अस्यां पृथिव्यां ओषधयो व्रीह्यादयो जायन्ते । भगवत्सेवार्थं पृथिवी ओषधीर्जनयतीति यावत् । अग्निश्चैनाः पृथिवी जाताः ओषधीः । स्वादयति पाकेनस्वादुतायुक्ताः करोति । एतच्चाग्निर्नौदासीन्येन करोति किन्तु भक्त्युद्रेकेण उद्युक्त एव कोतीति भावेनाह । इदमाहरतेति । इदं पचनीयं तण्डुलादिकं आहरत । इदं शाकफलादिकं आहरतेति जनान् प्रत्युक्त्वातैः आहृता आहृताः सर्वाः ओषधीः स्वादयतीत्यन्वयः । एवं पृथिवीचाग्निश्चेत्येतौ पितरं स्वजनकत्वात् पितृरूपां वाचम् । परिवचरतः सेवा ते । । मुखभोग्यमन्नं निष्पाद्य सर्वेषां मुखेस्थितस्य विष्णुमुखस्य समर्पयत इति भावः । एतद्विद्यावेत्तुः फलमाह - यावदिति ॥ योधिकारी । एवं वाचोविष्णुमुखस्य । विभूतिं पृथिव
यग्निस्रष्यृत्वतत् सेव्यत्वरूपाम् । वेद अस्य । यावत् यावति देशे पृथिवी यावच्चाग्निः तावान् लोको भवति । कथम् । अनु अनुतां तं चानुसृत्यैव । ताभ्यां समन्वितः तत्समव्याप्तिश्च भवतीति भावः यावदेतयोः पृथिव्याश्चाग्नेश्च लोको न जीर्यते तावत् कालमस्यापि लोको न जीर्यते । पृथिव्यग्निवन्मुक्तः सन् विष्णुसमीपे वैकुण्ठादौकदाप्य नष्यलोकः सन्नसौवसतीति भावः । इदं च फलं पृथिव्यग्निपदयोग्यजीवानामेव । अन्येषां तु पृथिव्याग्निलोके मुक्तौ तत्स्थाने सञ्चरणमात्रमिति ज्ञातव्यम् - प्राणेनेति ॥ अत्र प्राणशब्देन भगवदीयोघ्राणः तदधिष्ठाता भगवत्प्राणवायुश्चोच्यते । तस्य पुरुषस्येति वर्तते - अन्तरिक्षमिति ॥ तदभिमानी विघ्नेशः वायुः मुख्यः । तवयाः सेवाप्रकारमाह - अन्तरिक्षमिति ॥ भूताकाशभिमानिनं विघ्नेशमनुवै । तत्प्रेरणयेति यावत् । चरन्ति सर्वाणि भूतानि विष्णुप्रीत्यर्थं तीर्थक्षेत्राद्यटनं कुर्वन्ति । अन्तरिक्षमनु तत्प्रेरणयैव । भगवत्कर्माणि श्रोत्रेण ृण्वन्ति । अन्तरिक्षाभिमानी विघ्नेः स्वजनकविष्णुप्राणसेवार्थं प्राणिनां विष्णुप्रीतिजनकयात्रादि प्राणव्यापारसिद्धयर्थमवकाशं ददाति । तत्प्राणकृतानां जगत्सर्जनादि व्यापाराणां श्रवणार्थं श्रोत्रस्य उपचायकोभूत्वा श्रवणशक्तिप्रदश्च भवतीति यावत् । एतदुभयं च जीवप्राणाधिष्ठातृ विष्णुप्राणप्रीतिहेतुत्वात् तत्सेवारूपं भवत्येवेति हृदयम् । वायुश्चास्मै विष्णुघ्राणाय । पुण्यं शुभं गन्धमावहति । एवमेतावित्यादि पूर्ववद्वयाख्येयम् - चक्षुषति ॥ द्यौर्द्युलोकभिमानिनी देवता । अस्मै अस्य भगवतः प्रीतिजनककर्मसिद्धये । प्राणिनां वृष्यिं तया च अन्नाद्यं अन्नपानीयश्रीतुलसीगन्धपुष्पादि सर्वपूजासाधनद्रव्यं सम्प्रयच्छति । आदित्यश्चास्यैतत्कर्मसिद्धये ज्योतिः प्रकाशं स्वज्योतिषाद्रव्यप्रकाशनं करोति । एवमेताविति पूर्ववत् । एतत्कर्मणोश्चक्षुः सेवारूपत्वं प्रागुक्त जीवश्रोत्रस्थितं भगवन्तम् । सर्वे वीणावेणुमुरजमृदङ्गादिशब्दाः दिग्भ्य एवायन्ति । उपसर्पन्ति ह । दिग्देवताः हि सुशब्दान् । स्वस्वाधिष्ठितप्राच्यादि दिग्भ्य उपादीयजीवश्रोत्रनिष्ठाय भगवते समपर्यन्तीति यावत् । ततः किमित्यत आह - दिग्भ्य इति ॥ दिग्भ्यो दिग्देवताभ्यः तत्प्रेरणया भगवदन्योजीवस्तांच्छब्दान् ृणोति । भगवांस्तुदिग्भ्यः दिशोविहाय तत्प्रेरणां विनैवेति यावत् । विशृणोति विशेषेणतानेवशब्दान् जीवश्रोत्रगस्वश्रोत्रेणशृणोति । जीवानां वीणादिशब्दश्रवणजं सुखं च भुङ्क्ते । अत इदं भगवत्परिचरणरूपं भवतीति भावः । चन्द्रमाश्चास्मैपुण्यायकर्मणे । एतं भगवन्तं उद्दिश्यजीवानां पुण्यं कर्मकर्तृं स्वकलावृद्धिक्षयाभ्याम् । पूर्वपक्षापरपक्षान्विचिनोति विवेचयति । चन्द्रमसाशुक्लपक्षकृष्णपक्षविवेचनेकृत एव हि तत्र तत्र देवपित्रधिष्ठानभेदेन विष्णुस्तुत्यादिकर्माणि प्रवर्तन्ते । ततस्तानि स्तुत्यादीनि कर्माणि भगवान् स्वश्रोत्रेण शृणोति । अत इदं तत्परिचरणरूपं भवत्येवेति भावः । शिष्यं पूर्ववत् - मनसेति ॥ अत्र आप इत्यबभिमानिनो ब्रह्मवायुशेषाद्याः सर्वदेवा उच्यन्ते । वरुणः प्रसिद्ध एव । तत्रापांसेवाप्रकारमाह - आपोहेति ॥ अस्मैपुण्यायकर्मणे एतमुद्दिश्य जीवानां पुण्यं कर्मकर्तुमापो ब्रह्माद्याः देवाः श्रद्धांसं नमन्ते प्रयच्छन्ति । तत्र विवेकस्तु विष्णोः विषयधर्मेष्वित्यादिना भाष्योक्तरीत्यानुसन्धेयः । वरुणश्चास्य प्रजाः मनोनिष्ठभगवन्मनसोर्थे तत्प्रीत्यर्थमिति यावत् । धर्मेण पूर्तनिर्माणरूपकर्मणा । तत्र प्राणिनां श्रद्धोत्पादनेन प्रजाम् । दाधार दधार । श्रद्धापूर्वकपूर्तनिर्माणपुण्यवतश्चकारेति यावत् । अथवा अस्मै पुण्यायकर्मणे श्रद्धांसं नमत इत्येततदत्रापि योज्यम् । तथा च वरुणोस्मै एतमुद्दिश्य पूर्तनिर्माणरूपपुण्यकर्मकर्तुं जीवानां श्रद्धांसं नमते । अस्य भगवतः प्रजां चराजत्वादिधर्मेण दधार । तत्रासौ राजा सत्यानृते विविञ्चतीति श्रुतेः । प्रजाधारणोपयोगि वापीकूपतटाकादिनिर्माणे श्रद्धोत्पादनद्वारेण तन्निर्माणरूपधर्मेण च दधारेत्यर्थः । एवमेते इत्यादि पूवर्वत् ॥ 7 ॥
एवं भगवता महिदासेनोपदिष्यारमास्वयं सर्वज्ञापिलोकानुग्रहायपरकीयं संशयं स्वयमाहृत्य भगवन्तं पृच्छति । आपाः इति । मनसा सृष्या आपश्च वरुणश्चेत्यप्शब्दवाच्यता सर्वेषां ब्रह्मादि देवानामभिहिता न च तत्र किमपि निमित्तमुक्तम् । अतस्तेषां आप इति नाम कथमुपपद्यत इत्यर्थः । भगवानुत्तरं वक्ष्यन् प्रथमतः प्रतिजानीते - आप इतीति ॥ एषां देवानामाप इति नामोपपन्नमेवेत्यर्थः । वक्ष्यमाणानुसारेण निमित्तसद्भावादिति भावः । तत्र निमित्तं वक्तुमुपोद्धातमाह - तदिदमाप इति ॥ इदं मदाख्यं यद्ब्रहम्तत्तावदाप एव अप्शब्दाभिधेयं भवत्येव । सर्वगुणैरापूर्णत्वात् । इदं चाप्शब्दवाच्यं ब्रह्म सर्वस्यापि जगतो मूलं कारणम् । वैप्रसिद्धम् । अदस्तदन्यत् सर्वं चतुर्मुखादिकम् । तूलं कार्यरूपम् । नचायं कार्यकारणभावोवृक्षबीजयोरिव उपादेवयोपादानत्वरूपो मन्तव्यः । किन्तु अयं भगवान् पिता । एते च ब्रह्मादयो देवाः पुत्रा इत्यर्थः । अस्त्वेवं किं प्रकृत इत्यत आह - यत्रहेति ॥ यत्र क्वच । यत्किंचित्पुत्रस्य नामादि तत्पितुरपि भवत्येव । पितुर्वायत् नामादिकम् । तत् पुत्रस्यापिभवत्येव । वाशब्दोप्यर्थः । इतिहेतोः । हे रमे । एतत् त्वत्प्रश्ऱ्नस्योत्तरमुक्तं भवति । अयमाशयः । पुत्रस्य यन्नामधनादिकं वा । तत्तावत्पितुरपि भवेदेव । पितामहादीनामपि पितर इति लोकवेदयेः प्रसिद्धेः । पुत्रसम्पादिते धनादौ च ममेदं धनमिति पितुरबाधितव्यवहाराच्च । पुत्रस्य पित्रधीनत्वात् । एवं पितृनामादिकमपि पुत्रस्यामुख्यतया भवत्येव । यदवोरघवः कुरव इत्यादिव्यवहारस्य तद्वंशजातेषु दर्शनात् । पितृधनादेः पुत्रेणानुभूयमानत्वाच्च । प्रकृते च ब्रह्मादीनां सर्वेषां विष्णुपुत्रत्वात् तदीयमाप इति नामतेष्वमुख्ययावृत्त्या प्रयुज्यत इति । प्रकारान्तरेणापि देवानामाप इति नामयुक्तमेवेति वक्ति - एतद्धस्मेति ॥ एतत् भगवन्नाम्नो देवेषु वृत्तौवक्ष्यमाणं च निमित्तं विद्वान् नित्योदित ज्ञानत्वादेवजानन् ऐतरेयोमहिदासो भगवान् । एतद्वक्ष्यमाणं वचनं रमां प्रत्याह । हस्मवेति निपात त्रयमस्यार्थस्य सुप्रसिद्धिद्योतकम् । किमाहेत्यत आह - आहमिति ॥ अहं आदेवेभ्योदेवपर्यन्तं मां वेदवेद्मि । उ उत । आ मत् । मत्पर्यन्तं दवांश्चाहं वेद । अहं देवेषु व्याप्तो देवाश्च मयि स्थिता इति यावत् । नचैतदप्रामाणिकम् । मत्प्रत्यक्षसिद्धत्वादित्यभिप्रेत्या हंवेदेत्युक्तम् । तथा च यथाक्षीरनीरयाः मिश्रत्वे नीरेपिक्षीर शब्दव्यहारः । एवं मम देवानां च मिथोव्याप्तत्वात् मन्नामव्यवहारस्तेषु युक्त इति भावः । किञ्च एते देवा इतो मत्त एव प्रदानाः पदप्रदानवन्तः । मत्प्रदत्तपदान्येवाधितिष्ठन्तीति यावत् । अप च एते देवा मत्त एव मदाज्ञाज्ञात्रेण प्रदानाः सत्ताप्रतीति प्रवृत्तिप्रदानवन्तो हि यस्मात् तस्मात् एते इतो मत्त एव सम्भृताः । ज्ञानकर्मबलचेष्यादिदानेन पोषिताः । अतः पवर्प्रकारेण मदधीनत्वात् देवानां मन्नाम्नाव्यपदेशो युज्यते । तदधीनायस्य सत्तातत्तदित्येव भण्यत इत्यादेरिति भाव; । एवं प्रश्ऱ्नोत्तरमुक्त्वा विद्यान्तरमारभ्यते - स एष इति ॥ स एष भगवान् । सर्वभूतानाङ्गिरणात् निगिरणात् गिरि; । अस्य विश्ऱ्वस्य दर्शनाच्चक्षुः । सर्व श्रोतृत्वतः श्रोत्रम् । सर्वमन्तृत्वान्मनः । सर्ववक्तृत्वात् वाक् । सर्वप्रणयनात् प्राणश्च । तमेनं भगवन्तम् । ब्रह्मगिरिरित्याचक्षते विद्वांसः । गुणपूर्णत्वाद्ब्रह्म । अखिलस्य निगिरणाद्गिरिः । ब्रह्म चासौ गिरिश्चेति । एवं वेत्तुः फलमाह - गिरतीति ॥ य एवं विष्णुं गिर्यादित्वेन वेद । उपास्यापरोक्षतः पश्यति सोखिलं पाप्मानमप्रारब्धङ्गिरति विनाशयति । कीदृशं द्विषन्तं द्वेषिणमिवानिष्यकारकं भ्रातृवत् सहसंस्थितम् । न केवलं पापमेवास्य विनाश्यति । किन्तु अस्य द्विषन् द्वेषीपाप्मा पापीभ्रातृव्यो बाह्यशत्रुरपि पराभवति तमसिपतितो भवतीत्यर्थः । पुनः विद्यान्तरमापरभ्यते - स एषोसुरिति ॥ स एष भगवानसुः सर्वस्यापि निरसनात् । स एष प्राणः प्रकृष्यानन्दरूपत्वात् । स एष भूतिः ज्ञानैश्ऱ्वर्यादिरूपः तद्दाता च । स एषोऽभूतिश्च अज्ञानाद्यभूतिदत्वात् । तमेतं विष्णुम् । भूतिरिति भूतिस्वरूपोभूतिदाताचेति । देवावाय्वाद्या उपासाञ्चक्रिरे । उपासया च ते देवा बभूवुः । सुखसज्ज्ञानादिपूर्णगुणरूपभूतिमन्त इति शेषः । भूतिरिति देवा उपासत इत्येतत् प्रत्यक्षनिदर्शनेनोपपादयति - तस्मादिति ॥ देवानां भूतिरिति विष्णु उपासकत्वादेव । एतर्ह्यपि इदानीमपि । सुप्त; सुप्तस्थः सर्व देवोत्तमोवायुः भूभूरित्येव प्रश्ऱ्वसिति । श्ऱ्वासरूपेण विष्णुं शंसति तथान्येपि देवा एवमेव विष्णुं भूतित्वेन उपासत इति ज्ञातव्यम् । यद्यदाचरति श्रेष्ठ इति न्यायादिति भावः । अत्र भूशब्दार्थोपि भूतिरित्येव । अतोनासङ्गतिः शंकनीया । असुराश्चाभूतिरिति । तमुपासाञ्चक्रिर इत्यनुषज्यते । अस्माकमभूतिकारकः स्वयमैर्श्ऱ्वादिगुणोज्खितश्चेत्यर्थः । ते च असुराः पराबभूवुः । पराभूतिं प्राप्ताः । ज्ञानैश्ऱ्वयादिहीना अन्धेतमस्यधःपेतुरित्यर्थः । एतद्विद्याफलमाह - भवतीति ॥ यः पुमान् । एवं विष्णुं भूतिरूपिणं भूतिदं च वेद । तथा भूतित्वाभूतित्वोपासनाभ्यां देवानां दैत्यानाञ्च भावाभावलक्षणं फलञ्च वेद । स आत्मना परमात्मप्रसादेन भवति । ज्ञनैश्ऱ्वर्यादिमान् जायते । अस्य द्विषन् भ्रातृव्यवत्स्थित;पाप्मा बाह्य आभ्यन्तरश्च शत्रुरात्मनापरमात्मप्रसादेन । पराभवति तमसि पतितो भवतीत्यर्थः । पुनर्विद्यान्तरमारभ्यते - स एष इति ॥ भगवान् मृत्यर्मृत्युदःसंसारदाता । अमृतं मोक्षदः । मिथःसमुच्चये चशब्दौ । एवशब्दः स एष एवेति सम्बध्यते । अथवा मृत्युः मृतिप्रदः । अमृतं जीवनप्रदश्चेत्यर्थः । अत्रेदं बोध्यम् । यदा अयमपानेन संयुतं प्राणमस्मिंच्छरीरे नियमयति तदा जीवनप्रदो भवति । यदा तु प्राणापानौ शरीराद्बहिः निस्सारयति । तदामृत्युप्रद इति । अत्र अर्थे मन्त्र सम्मतिमाह - तदुक्तमिति ॥ तत् प्राणापानौनिमित्तीकृथ्य भगवतो जीवजीवनकरत्वादिकमृषिणा मन्त्रदृष्य्रोक्तमित्यर्थः । अपाङ्प्राङेतिस्वधयागृभीतो अमर्त्योनासयोनिः । ता शश्ऱ्वन्ताविषूचीनावियं तान्यन्यं चिक्युः न निचिक्युरन्यमिति मन्त्रे आद्यपादं तावदनूद्य वायुः स्वधयासुखेन सुखरूपिणा हरिणा गृभीतो गृहीतः प्रेरितः सन् । अपाङ्अवाक् । एति गच्छति । अपानरूपेण अधोगच्छति । प्राङ्प्राक् ऊर्ध्वंचैति । प्राणरूपेणोर्ध्वं गच्छतीति तदर्थमभिप्रेत्य स्वयमेव व्याचष्ये - अपाङिति ॥ अपानेन यंयुतोऽयं प्राणो हरिणा हि यस्मात् यतो नियतः प्रेरितस्तस्मात् । हरिप्रेरणादेवेति यावत् । पराङ्देहाद्बहिः न भवति । तत्रैव स्थित्वा देहिनां क्लृप्तकालपर्यन्तं जीवनहेतुः भवतीत्यर्थः । द्वितीयपादमनूद्य स्वधया आनन्दरूपहरिप्रसादेन अमत्योॅविलुप्तज्ञानोवायुः मर्त्यैर्नाशशीलैः प्राणिनां देहैः सयोनिः साधिष्ठानः । तैः सह स्थित इति यावदिति तदर्थमभिप्रेत्य व्याचष्ये - अमर्त्य इति ॥ एतेन प्राणेन हीदं सवर्ं शरीरजातम् । सयोनियोनित्वेनोपेतम् । प्राणस्य अधिष्ठानरूपमिति यावदित्यर्थः । अत्र मर्त्यामर्त्यशब्दौ शरीरप्राणपरावित्यभिप्रेतं तद्वयनक्ति - मर्त्यानिहीति ॥ एषा देवता प्राणाख्या । अथोत्तरार्धमनूद्य । ता तौ । देहवायू । शश्ऱ्वंता शश्ऱ्वन्तो शाश्ऱ्वतौ । तत्र स्थूलदेहाः जीवानां मोक्षपर्यन्तं प्रवाहतः सन्त्येवेति शाश्ऱ्वाताः । सूक्ष्मदेहस्तुसाक्षादेवानादितः सम्बद्ध इति शाश्ऱ्वतः । वायुरपि तत्तत्कल्पीयोऽनादिकालात् प्रवाहतो नियामकतया अस्त्येवेति शाश्ऱ्वत इत्युच्यत इति विवेकः । विषूचीना विषूचीनौ विष्वगञ्च मानौ नानागती इति यावत् । तत्र वायोः परमचेतनकेशव प्रप्तिः । शरीरस्य पञ्चत्वरूपजडता प्राप्तिरिति गत्योः ना नात्वं ज्ञेयम् । वियन्ता वियन्तौ विरुद्धगमनौ । वायोरूर्ध्वगमनात् । देहस्याधःक्षिप्तौ पतनात् । अत्र सर्वत्रसुपां सुलुगिति स्मरणादाकारादेशः । सखायेत्यादिवत् । तत्रान्यं देहं निचिक्युः । जनाः पश्यन्ति । अन्यं वायुं च न निचिक्युः न पश्यन्ति । नह्युत्क्रान्तिकाले केपि वायुं पश्यन्ति । एषावायुदेवतैवामृता न तु शरीराणि । तानि तु पञ्चत्वादिमन्त्येवेत्यर्थः । एवं विदः फलमाह - अमृत इति ॥ य एवं वायुममृतत्वादिगुणयुक्तं वेद । सोऽमृतो मुक्तः सन् अमुष्मिन् वैकुण्ठादौ विष्णुलोके सम्भवति सम्यगास्ते । अमृतः सन्नेव सर्वेभ्यो भूतेभ्यः सर्वैः भूतैः मुक्तैः ददृशे दृश्यत इत्यर्थः । य एवं वेदेति द्विरुक्तिरवधारणार्था । यथोक्तं सूत्रभाष्ये । अवधारणार्थं सर्वस्याप्युक्तस्याध्यायभूलतः । द्विरुक्तिं कुर्वते प्राज्ञा अध्यायां ते विनिर्णय इति । वक्ष्यते च । सर्वप्रमाणसिद्धत्वं वक्तुमाध्यायभूलतः । अध्यायां ते द्विरुक्तिः स्यात् पूर्वोक्तस्यावधारण इति 8 ॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचित श्रीमन्महैतरेयोपनिषद्भाष्यभावप्रदीपे द्वितीयारण्यके प्रथमोध्यायः । 2 ॥ 1 ॥
अन्तर्यामिणमीशंसर्वेषां सर्वशब्दसंवाच्यम् । बृहतीदशशतगीतं वन्दे विष्णुं रमामरुन्नाथम् ॥ 1 ॥ एष परमेश्ऱ्वरः श्रियावायुना च सह इमं लोकं ब्रह्मादिप्राणिशरीरजातम् । पुरुषरूपेणान्तर्यामिरूपेण । अभ्यार्चत् प्रविवाश । कोयं परमेश्ऱ्वरः । य एष सूर्यमण्डलस्थिसूर्ये स्थित्वातपति । जगत्रयं सन्तपयति । प्रकाशते च स एवेत्यर्थः । सोपिकः । येन शरीरप्रविष्योऽमुक एवेति निश्चिनुम इत्यत आह - प्राणोवावेति ॥ य एष तपति स प्राणोहि । उत्तमप्राणो भगवान् नारायण एव प्रसिद्धः । अतःप्राणो नारायण एव । तत् ब्रह्मादिशरीरजातं अभ्यार्चत् प्रविवेशेत्येषोर्थः सिध्यति । वावेति निपातद्वयं प्रसिद्धिद्योकम् । अत्र प्राण पदेन मध्यमप्राणोवायुः श्रीश्चामुख्यतया विवक्षिते । एवमुत्तरत्रापि । एवं विष्णोरेव सर्वदेहान्तर्यामित्वं उक्त्वा अपूर्णस्य देवदत्तादिवत्तदनुपपत्तेः तस्य गुणपूर्णत्वं वक्त६ु तत्सिद्धयर्थं सवर्शब्दवाच्यतां अभिदास्यन् कियत्कालमिमं लोकं अभ्यार्चदिति शंकापरिहाररूपतया प्रकृत सङ्गतत्वाच्छतर्चिशब्दवाच्यतां तावदादौदर्शयति । तं शतमिति । एष इति वर्तते । भगवांस्तं लोकं ब्रह्मादिशरीरजातम् । शतं वर्षाण्यभ्यार्चत् । पुरुषेषु शतवर्षं गत इति यावत् । तस्मादेवकारणात् । पुरुषायुषः प्ररिमाणं शतं वर्षाणि भवन्ति । तं लोकं यद्यस्माच्छतं वर्षाण्येषोभ्यार्चत्तस्मादेतं विष्णुमेव सन्तं शतर्चिनामार्थं सन्तं शतर्चिन इत्याचक्षते विद्वांसः । शतमर्चतीति योगेन । बहुरूपत्वात् बहुवचनम् । मधुछन्दःप्रभृतींस्तु रूढार्थानप्यमुख्यत एव तच्छब्दवाच्यानाचक्षत इत्यर्थः । यद्यपि लोके योगरूढ्योः मध्ये रूढेरेव मुख्यत्वं खटित्युपस्थापकत्वात् । तथापि प्रकृते केवलरूढ्यपेक्षया भगवति महायोगस्यैव मुख्यत्वम् । विद्वद्रूढिसहितस्य तु सुतराम् । यथोक्तमनुव्याख्याने । एतमेव तथासन्तं शतर्चीत्यादिका श्रुतिः । आचक्षत इति ह्यत्रसन्तमित्यवधारणात् । योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् । बहुशोदर्शयंत्यंजस्तात्पर्यात् सनिरुक्तिकमिति । अतो भगवति महायोगविद्वद्रूढ्योः उभययोरपि सत्त्वात् तस्यैव मुख्यतः तच्छब्दवाच्यत्वमिति भावः । अत्र तात्पर्यद्योतनाय तस्मात् शतर्चिनस्तस्मात् शतर्चिन इति द्विरुक्तिः । स भगवान् इदं सर्वं जगत् । मध्यतोदधे । आत्मन उदरेधृतवान् । सर्वस्य मइध्ये अन्तःस्थित्वा धृतवांश्च । यथा देवदकिदिः कवचम् । सर्वशब्दो न संकुचितवृत्तिरित्याशयेनोक्तम् - यदिदं किञ्चेति ॥ तथा च स्वमध्येधारकत्वात् मध्ये स्थित्वा धारकत्वात् च मध्यमः स एवमाध्यमः । पूर्ववद्बहुरूपत्वात् बहुवचनमित्युक्तं भवति । प्राणः प्राणस्थः प्राणनामा भगवान् । गृत्सोगृत्सनामा । अपानोपानस्थितः अपाननामा हरिः मदोमदनामा । तस्मात् गृत्सश्चासौ मदश्चेति गृत्समद इति व्युत्पत्त्या गृत्समद इत्याचक्षते । तस्य भगवत इदं विश्ऱ्वं सर्वं मित्रं प्रियमासीत् । अनिष्यहेतुः अप्रियमित्युच्यते । नहि भगवतः किमप्यनिष्यहेतुरस्ति । तस्मात् विश्ऱ्वामित्रः । तं भगवन्तं देवाः ब्रह्माद्याः अब्रुवन् । अयं भगवान्नःसर्वेषां वामो भद्रःकल्याणकारक इति । तस्माद्देवानां वामत्वात् वामदेव इत्याचक्षते । स भगवान् । इदं सर्वं भक्तजातम् । पाप्मनोत्रायत तस्मात् पापत्राणहेतुत्वात् अत्र य इत्याचक्षते । त्रैङ्पालने । अस्मात्किः । सुबन्तादप्यडागमः छान्दसः । अधिकं त्राणादत्रय इति वा ॥ 1 ॥ उउ त किञ्च । एष हरिरेव बिभ्रद्वाज इति तावदुच्यते । कुतः प्रजावैवाज इत्युच्यन्ते । ताः प्रजाः एष भगवान् बिभर्ति । तस्मात् वाजानां प्रजानां बिभ्रत् बिभ्रद्वाज इति योगेन । यद्यस्मादेष बिभर्ति वाजानिति शेषः । यतो बिभ्रद्वाज इति यावत् । तस्माद्वाजः वाजानां भरन्निति व्युत्पत्त्या । वसिष्ठोवासतामुत्तमः । स्वातन्त्ऱ्ेण सदा सर्वत्र वा सकर्ता । उपलक्षणमेतत् । सर्वर्षिनामान्यप्येवमेव मुख्यतो भगवदेक वाचकानीति ज्ञेयम् । एवमृषिनाम समन्वयमभिधाय शब्दनाम समन्वयमुपक्रमते । स इदं सर्वमभिप्रागादित्यादिना । सर्ववेदादिकम् । अभितः प्रागात् प्रकर्षणागायत । गाशब्दे । उच्चारितवान् । व्याख्यातावांश्च । तस्मात् प्रागाथाः । प्रपूर्वाद्गातेः कर्तरथिन् । प्रगाथा इति ऋग्विशेषयोः संज्ञा । तदुक्तमनुक्रमणिकायाम् । अथप्रगाथाः बृहतीसतो बृहत्यौ बार्हत इत्यादि । द्वादशाक्षरस्तृतीयः पाद इतरेत्र योष्याक्षराश्चेत्साबृहती । आद्यतृतीयौद्वादशाक्षरौ इतरावष्याक्षरौ चेत्सासतो बृहतीति तयोः लक्षणमपि तत्रैव व्यक्तम् । तन्नाम्नः समन्वयोयम् । पावमान्य इति काश्चन ऋचः । तन्नामनिर्वचनं दर्शयति - स इदं सर्वमभ्यपवयतेति ॥
संसारात्पावयामासेत्यर्थः । तस्मात् पावनकर्तृत्वात् पावमान्यः । स्त्रीरूपत्वात् स्त्रीलिंगम् । बहुरूपत्वात् बहुवचनं च । इदं सर्वं सर्ववेदप्रसिद्धम् । यत्परिपूर्णं वस्तु तद्रूपपोहम् । यच्चक्षुद्रं यच्चमहत् । तदसानि भवानि । क्षुद्रप्राणिषु प्रविश्यसूक्ष्मरूपो महाप्राणिषु प्रविश्य महारूपश्च भवानीति यावत् । इत्यब्रवीत् । तस्मात् क्षुद्रोसानीति भगवता सुष्ठूक्तत्वात् तेक्षुद्रप्राणिषु स्थिता भगवद्रूपसङ्घाः क्षुद्रसूक्ताः तन्नामानोऽभवन् । महानसानीति सुष्ठूक्तत्वात् महासूक्ताश्चतेऽभवन् । तस्मादित्यादि पूर्ववत् । तद्विष्ण्वाख्यं ब्रह्मसूक्तं सूक्तोपलक्षितं सर्वं वेदजातम् । अवोचत ब्रह्मादिभ्य उपदिष्यवान् । बतेत्यास्वादने । इति हेतोः तद्ब्रह्मसूक्तं तन्नामकं अभवत् । सूक्तवक्तृत्वात् । यद्वा तद्ब्रह्मस्वात्मनैव स्वयं सुष्ठूक्तमतः सूक्ताख्यामभवदिति । अस्मिन् पक्षे अवोचतेत्यस्य न निर्वचनप्रवेशः । किन्तु वेदादिकमेव मवोचतेति प्रमाणसम्मतिकथनम् । एष भगवान् । ऋक् ऋक्शब्दवाच्यः । कुतः एष हि सर्वेभ्यो भूतेभ्यः प्राणिशरीररूपस्थानेभ्योर्चतगतवानित्यर्धर्चः । सर्वाणिभूतानि । पादि अपादि अपद्यत प्रापेत्यर्थः । तस्मात् सर्वभूतप्राप्तिमत्त्वात् पदं नाम । एष भगवानक्षरमित्युच्यते । कुतः एष हि एभ्यः सर्वेभ्योभूतेभ्यःक्षरति । सर्वाभीष्यं सन्ततं ददाति । अतःक्षरम् । एनमति अतीत्यकश्चन न क्षरति । अयमेव अधिकं क्षरतीति यावत् । तथा च अधिकं क्षरमित्यक्षरमित्यर्थः । न केवलमृष्यादीनां नाम भगवतः किन्तु तावा एताः सर्वाऋचोपि तस्यैव नाम । न केवलं सर्वाऋचः किन्तु र्वेवेदाश्च तन्नामैव । अपि च समुद्रमेघवृक्षपतनभेरीताडन घण्टास्वर्णचंचुश्वासगर्गरगोधापिंगदिघोषा अपि स्वव्यंग्यवर्णद्वारतस्यैव नामानि किमु च सर्वेवेदाः । एतत् सर्वमपि एकैव व्याहृतिरेकमेवव्याहरणम् । निर्दोषगुणपूर्तिवाचित्वादेकप्रकारमेव नाम । एतच्च प्राणे नारायणे विषय एव । नान्यत्र । तत्राप्यृचस्तुविशेषतो भगवद्गुणप्रकाशकत्वात् प्राणे नारायण एव तत्परा एवेति विद्यादित्यर्थः ॥ 2 ॥
अन्यदेवता विषयत्वेन प्रतीयमाना अप्यृचोमुख्यतो भगवद्विषया एव । अमुख्यतो वायुविषयाश्च । तस्मात् तच्छंसनेन भगवान्वायुश्च अतिप्रीयते इति दर्शयति । विश्ऱ्वामित्रमित्यादिना । अह्नियज्ञेशंसनीयत्वात् अहरिति मन्त्रविशेषसंज्ञा । अहःसंज्ञकमेतत् बृहतीसहस्रम् । महाव्रताख्येयज्ञे । शंसिष्यन्तं शंसितुमुद्युक्तम् । हौत्रेनियुक्तं विश्ऱ्वामित्रं यजमानःपुरन्दरोदृष्ट्वा विष्णुवायुभ्यामाविष्यः शंसेत्युक्त्वा तस्योपसमीपे निषसादनिषण्णोभूत् । सविश्ऱ्वामित्रः तवेदमतिप्रीति हेतुत्वादन्नमिवेत्यभिव्याहृत्य बृहतीसहस्रं शशंस । तेन शंसनेन इन्द्रस्य इन्द्राविष्यस्य वायुसंयुतस्य हरेः प्रियं धामोपेयाय । धाम्नः समीपं प्राप । अत्र प्रियधामसमीपप्राप्तिः नाम भगवत्सालोक्य लक्षणफलप्राप्तिसाधनभगवत्प्रसादप्राप्तिरेव । तदैव विश्वामित्रेण भगवद्धाम्नोऽप्राप्तत्वात् । अत एव सामीप्यवाच्युपशब्दः । सा धननिष्पत्तौ फलविलम्बाभावात् । तं विश्ऱ्वामित्रम् । इन्द्रः इन्द्रविष्यो विष्णुरुवाच । हे ऋषे । इदानीमेकवारशंसनेन मे प्रियं धामोपागाः सालोक्यसाधनप्रसादं प्राप्नतवानसि । स एवं सिद्धसालोक्यस्त्वं द्वितीयं द्वितीयवारं शंसेति । सहान्नमित्यादिपूर्ववत् । ते नद्वितीयवारशंसनेनेन्द्रस्य प्रियं धामोपेयाय । भगवत्पुरप्राप्तिसाधनतत्प्रसादं प्राप । तमिन्द्र उवाचेत्यादि पूर्ववत् । तृतीयं तृतीयवारम् । तेन तृतीयवारशंसनेनेन्द्रस्य प्रियं धामोपेयाय । भगवदन्तःपुरप्राप्तिसाधनतत्प्रसादं प्रप । तमिन्द्रोभगवानति तुष्यो भूत्वोवाच । ऋष इत्यादि । मे प्रियं धामोपागाः अन्तःपुरप्राप्तिसाधनप्रसादं प्राप्तवानसि । पुनश्चतुर्थमेकं वरन्ते तुभ्यं ददामि । त्वदपेक्षितं वरं वृणीष्येति । स विश्ऱ्वामित्र उवाच । त्वामेवाहं जानीयामिति । अत्रायमभिप्रायो विश्ऱ्वामित्रस्य । तेजो बाहुल्यादिन्द्रेऽन्योपि वर्तते । कोसौ । प्रायेण अनेन विष्णुनैव भवितव्यम् । अन्यस्यै तादृशतेजोऽयोगात् । यदि चायं विष्णुः स्यात्तहि विशेषतो मया ज्ञातव्योयमिति । तथाच त्वां त्वदाविष्यं तावदहं प्रथमतो जानीयाम् । स विष्णुश्चेत् त्वं त्वदाविष्यं विष्णुमेव विशेषतो जानीयामित्यर्थः । तमेवमभिप्रायद्वयेन पृष्यवन्तं विश्ऱ्वामित्रं प्रतीन्द्र इन्द्राविष्यो भगवानुवाच । तत्र द्वितीयप्रश्ऱ्नस्य श्रेष्ठत्वात् महामल्लभङ्गन्यायेन तस्य प्रथममुत्तरमभिधत्ते - प्राणो वा इति ॥ हे ऋषे इन्द्राविष्योहं प्रकृष्यानन्दरूपत्वात् प्राणः । प्राशब्दवाच्यो वै । तावत् । तथा अहेत्वादहं नामा । असनाद्दोषादि निरसनात् मनुतेः ज्ञानाच्चास्मि नामा । स प्राणः प्राणनामाहमेव । त्वं ततत्वाद्वेत्तृत्वाच्चत्वं नामा । स प्राणनामाहं सर्वाणि । पूर्णत्वात् सर्वनामकः । तादृशबहुरूपत्वात् बहुवचनम् । एवं भूतानीत्यप्युक्तोहं । सर्वरूपेषु प्रभूतत्वात् । पूर्णत्वात् सोहं प्राण एषः एष नामा । सवर्ैश्ऱ्वर्यस्वरूपत्वात् । इष ऐश्ऱ्वर्ये । य एष सूर्येस्थित्वालोकं तपति सन्तापयति । प्रकाशयति च । अत एव तपन इत्युच्यते । सोपि तपननामा अहमेवेति शेषः । नाम समन्वयप्रकारणात् । नाम्नो संकीर्तनं तु निर्वचनप्रदर्शनेनैव गुणाभात् । नामसंकीर्तनस्यापि गुणज्ञापनार्थत्वात् । स एव अहमेतेन सूर्यस्थितेन रूपेणसर्वाः दिशोविष्यः प्रविष्योस्मि । व्याप्त इति यावत् । तस्यैवं सर्वनामवतो मे मम । अन्नं अन्नाभिमानिनीरमामित्रं भोग्यत्वात् भार्येति यावत् । साकीदृशी । दक्षिणं दक्षभागस्थितत्वात् दक्षिणाख्या । अन्नशब्दानुसारेण दक्षिणमिति नपुंसकता । किं तदन्नम् । तत् रमाभिमन्यमानमन्नं न प्रसिद्धम् । किन्तु वैश्ऱ्वामित्रं विश्ऱ्वामित्रेण दृष्यं बृहतीसहस्रमेव । एवं द्वितीयप्रश्ऱ्नस्य विशेषज्ञान सिद्धयर्थं सर्वनामवाच्यत्वादि विधानेन परिरमुक्त्वा प्रथमप्रश्ऱ्नस्योत्तरमाह - एष इति ॥ य एष सूर्येस्थित्वा तपति । एष तपन्विष्णुरेव अहमस्मीत्युवाच । हशब्देन सूर्यमण्डलस्थो विष्णुरिति ज्ञानङ्गायत्ऱ्युपासकत्वाद्विश्ऱ्वामित्रस्य अस्त्येवेत्येषोर्थः प्रमाणप्रमित इति दर्शयति ॥ 3 ॥
यावतीभिः ऋग्भिः शंदिताभिः षट्विंशत्सहस्राण्यक्षराणि भवन्ति यस्मात् कस्मादपि छन्दसः तावत्यः शंसनीयाः तदा तद्वा इदं बृतीसहस्रं सम्पन्नं भवत्येव । न बृहतीछन्दस्कऋक्सहस्रेणैव भाव्यमिति नियमः । तत्र बृहतीसहस्रे । यानि व्यञ्जनानि कादिमावसानानिस्पर्शाक्षराणि । तच्छरीरन्तानि शरीराभिमानि स्वायम्भुवमनुदेवताकानि । यो घोषः यानियरलवरूपाणि घोषापरपर्यायाण्यन्तस्थाक्षराणि । स आत्मा तानि जीवाभिमानि चतुर्मुखदेवताकानि । ये उष्माणः शषसहाः स प्राणस्तेवायुदेवताकाः । स्वराक्षराणि तु तत्तदवयवभूतानि तत्रैवान्तभर्ूतानीति न पृथगुक्तानि । उपलक्षणमेतत् । बृहतीसहस्रवर्णानां तदभिमानिनां च नियामकः तत्प्रतिपाद्यश्च भगवानित्यपि ग्राह्यम् । अत एव फलवाक्ये एतत् एतदिति पदद्वयम् । एतत् मन्वादीनां बृहतीसहस्रवर्णाभिमानित्वम् । पुनरेतत् भगवतः तत्प्रतिपाद्यत्वं तदुभयनियामकत्वं च । विद्वान् जानन् । एतादृशंविष्णुपिस्यैवेति यावत् । वसिष्ठोवसिष्ठ पदयोग्यो जीवोवसिष्ठोबभूव । ततश्चसर्वेषु वेदपुराणादिषु । एतन्नामधेयं वसिष्ठ इति नाम लेभे । प्रसिद्धोभूदिति यावत् । हस्मवेति निपातत्रयमतिप्रसिद्धिद्योतकम् । एतदुहैव एतद्विद्यामेव । इन्द्रोविश्ऱ्वामित्राय प्रोवाच । एतदुहै वेन्द्रोभरद्वाजायापि प्रोवाच । तस्मात् एतद्विद्याबलादेव । स इन्द्रस्तेन बन्धना विष्णुना । एतद्विद्याप्रतिपाद्यविष्णुप्रसादेन । यज्ञेषु यज्ञभागस्वीकारार्थम् । होत्रादिभिः हूयते आहूयत इत्यर्थः । बृहतीसहस्रनिष्ठ विद्यान्तरं वक्तुं पुनस्तन्निर्दिशति - तद्वा इदं बृहतीसहस्रं सम्पन्नमिति ॥ तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य सम्भूयाक्षरपरिगणनेन स्वरव्यञ्जनभेदेन प्रत्येकं षट्विंशतमक्षराणां सहस्राणि भवन्ति । षट्विंशतशब्दषट्विंशच्छब्दपर्यायः । द्वासप्ततिसहस्राणि भवन्तीति यावत् । एवमेतदक्षरदेवतानां भगवद्रूपाणामपि स्वरव्यञ्जनभेदेन प्रत्येकं षट्विंशत्सहस्राणि द्वासप्ततिसहस्राणि भवन्ति । शतसंवत्सरस्य अह्नां दिनानां सहस्राण्यपि तावन्ति षट्विंशदेव भवन्ति । तद्गतविष्णुरूपाणामपि तावन्त्येव सहस्राणि भवन्ति । अत्राप्यहोरात्रभेदेन दिनानां तद्गतरूपाणां च प्रत्येकं षट्विंशत्सहस्रत्वमेव ज्ञेयम् । तत्रायं विवेकः । बृहतीसहस्रेयानिव्यञ्जनगतानि रूपाणि तान्येव शतसंवत्सरराक्षीणां देवताः । यानि च स्वरगतानि तान्येव शतसंवत्सरीयाह्नामिति । ततश्च व्यञ्जनैरेव रात्रीराप्नुवन्ति । बृहतीसहस्रगतव्यञ्जनाक्षरदैवतैरेव षट्विंशत्सहस्रैरुपासितैः तेषामुपिसनयेति यावत् । तावत् सङ्खयाकरात्रिदेवता आप्नुवन्ति । तद्धयानफलं लभन्ते । उपासकाः पुरुषाः । व्यञ्जनगतरूपाणामेव रात्रिदेवतात्वात् व्यञ्जनगतरूपोपासने शतवर्षसम्बन्धिरात्रिषु क्रमेण भगवदुपासने कृते यावत् फलं तावत् फलं प्राप्नवन्तीति यावत् । एवं स्वरैरहानीत्येतदपि व्याख्येयम् । विद्यान्तरकथनायपुनः निर्दिशति - तद्वा इति ॥ तदेव विद्यान्तरं निरूपयति - तस्येति ॥ एतस्य बृहतीसहस्रस्य सम्पन्नस्य परस्तात् एवं ज्ञानपूर्वकं बृहतीसहस्रसम्पादनानन्तरमेव । तच्छंसनानन्तरमेव । न पुनः कर्मान्तरेण शरीरारम्भेतत्पातानन्तरमिति यावत् । प्रज्ञामयः । प्रज्ञाप्रकृष्यज्ञानं तद्रूपोविष्णुः प्राज्ञाः स्वस्मात् परेभ्यश्च मयःप्रधानोयस्य । तथा येवेत्तीति यावत् । स प्रज्ञामयः । सर्वोत्तमस्वरूपत्वात् देवतारूपो विष्णुर्देवतयादेवत्वेन क्रीडादिगुणवत्त्वेन मयोयस्येति देवतामयः । पूर्णगुणत्वात् ब्रह्मविष्णुः ब्रह्मत्वेन पूर्णत्वेन मयोयस्येति ब्रह्ममयः । अमृतोनित्योविष्णुः सोमृतत्वेन नित्यत्वेन मयोयस्येत्यमृतमयः । एवं प्रज्ञादिमयोऽधिकारी । सम्भूयसम्यग्भूत्वा । अत्र समित्यनेन बृहतीसम्पादनानन्तरं भगवदाधिक्यं पुनर्विशेषेण ज्ञायत इत्युक्तं भवति । एवमतिशयेन भगवदाधिक्यज्ञानवान् भूत्वा । देवताः स्वोत्तमाः मारुतान्ताः । अपिशब्दात् मारुतमुखेन विष्णुं च । एतिक्रमेण प्राप्नोति । एतद्विद्योपासनयोग्यो देवर्ष्यन्यतमोधिकारीत्यर्थः । मारुतविष्ण्वन्तादेवता अप्येति प्राप्नोतीति वा । अत्र प्रज्ञादेवतामृत ब्रह्मशब्दैः सामान्यतो विष्णुवाचकैः अनिरुद्धप्रद्युम्नसंकर्षणवासुदेवाख्याः चतस्रोमूर्तयो विशेषतोप्युच्यन्ते । अत एव चससृणामपि परस्परसाम्येन सर्वजीवेभ्य आधिक्यंज्ञातव्यमिति पृथक्पृथङ्मयशब्दः । अन्यथा प्रज्ञादेवता ब्रहम्मृतमय इति निर्देशापत्तेः । य एवं वेदेत्यस्य योधिकारी । एवं प्रज्ञादिरूपोहरिर्मेमय इति वेदः । स प्रज्ञामयो देवतामय इत्युच्यते । ततश्च प्रज्ञादिमयः सम्भूयदेवता अप्येतीत्यावृत्त्या योजना । एवं द्वासप्ततिसहस्र भगवद्रूपाणां स्वरव्यञ्जनभेदेन बृहतीसहस्रगतत्वोक्त्या पुरुषसंस्थित्वमपि लब्धम् । शंसनीय बृहतीसहस्रस्य पुरुषसंस्थत्वात् । पुरुषं विना तदनभिव्यक्तेः । तथैतेषामेव रूपाणां अहोरात्रगत्वोक्त्या सूर्यगतत्वमपि लभ्यते । अहोरात्राणां सूर्यगतत्वात् सूर्यगत्यैवाहोरात्रभेदावक्लृप्तेः । तथा च । तत् तस्मात् । उक्तरीत्या पुरुषस्थित बृहतीसहस्रगतरूपाणामेव सूर्यस्थिताहोरात्रगतत्वात् । योहं नराहेयत्वात् अहंनामा । द्वासप्ततिसहस्ररूपवान् विष्णुः पुरुस्थः । स एवासौ सूर्यसंस्थः । न चैवमभेदेपीन्द्रर्जुनादिवत् कश्चिद्विशेषः शंकनीयः । किन्तु योसौ सूर्यगतोविष्णुः सोहं भास्करादिभिः अहेत्वादहं नामा पुरुषसंस्थ इत्यर्थः । अत्र मन्त्रसम्मतिमाह - तदुक्तमिति ॥ तत् सर्वान्तर्यामिभगवद्रूपाणामैक्यमृषिणा मन्त्रद्रष्य्रा उक्तम् । कथम् । सूर्यःसूर्यगतः सूरिगम्यत्वात् सूर्यनामा भगवान् । जगतो जङ्गमस्य । तस्थउषः स्थावरस्य चात्मा व्यापर्कोन्तर्यामीचेत्युक्तमित्यन्वयः । यत एवं सर्वान्तर्यामि । तत एतन्नारायणाख्यं परं ब्रह्म । उपजीवसमीपगं जीवान्तर्यामितयैव अवस्थितमीक्षेतजानीयात् । नतु तदैक्येन । उपलक्षणमेतत् । सर्वोत्तमत्वेन सर्वगुणसम्पूर्णत्वेन च जानीयादित्यपि द्रष्यव्यम् ॥ 4 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचित श्रीमन्महैतरेयोपनिषद्भाष्यभावप्रदीपे द्वितीयारण्यके द्वितीयोध्यायः ॥ 2 ॥ 3 ॥
अनिरुद्धादिपञ्चात्मा बृहत्युक्थसमीडितः । अर्धनारीनराकारोभावसतां मे हरिः हृदि ॥ 1 ॥ योधिकारी नित्याततगुणत्वात् आत्मानमात्मशब्दवाच्यम् । परमात्मानं पञ्चविधं नारायणादिरूपेण पञ्चधावस्थितम् । उक्थं च वेद स एव पुमान् सम्प्रतिवित् सम्यग्ज्ञानी । कथमुक्थत्वं तस्येत्यत आह - यस्मादिति ॥ यस्मात् कारणाद्यस्मादात्मनः सर्वमिदं जगदुत्तिष्ठति उत्पन्नं भवति । तस्मात् तमुक्थं वेदेत्यन्वयः । अथ वातृचाशीति त्रयम् । तस्य पूर्वमपरञ्चेति यत्पञ्चविधं बृतीसहस्राख्यमुक्थं तस्मिन् नारायणादिपञ्चात्मना अवस्थित्वात् पञ्चविधमुक्थं भगवन्तं यो वेद स सम्प्रतिविदित्यर्थः । प्रकारान्तरेण अपि पाञ्चविध्यं भगवतो निरूपयति - पृथिवीत्यादिना ॥ पृथुत्वात् पृथिवीनामा पृथिवीस्थितः स्त्रीरूपोनारायणः । बलज्ञानस्वरूपत्वात् वायुनामा वायुस्थितः संकर्षणः । आसमन्तात्स्थित्वाकाशनादाकाशनामा वासुदेवः । आपालनादापः । अप्शब्दवाच्योप्युस्थितः स्त्रीरूपो बहुरूपश्चानिरुद्धः । प्रकाशमानत्वात् ज्योतिः नामाज्योतिष्षु स्थितो बहुरूपः प्रद्युम्नः । इत्येवमेष वै । एष एवात्मा भगवान् पञ्चभूतस्थित्वात् उक्थत्वात् च पञ्चविधमुक्थमित्युच्यते । नन्वस्तु पञ्चभूतस्थितस्य पञ्चविधत्वम् । उक्थत्वं तु कथमित्यत आह - एतस्मादिति ॥ एतस्मात् पञ्चविधस्थिताद्धरेरेव सर्वं जगत् ब्रह्माण्डादिकं उत्तिष्ठति उत्पद्यते हि यस्मात् उक्थमित्यथर्ः । न केवलमुक्थं जगल्लयाधिकरणं च असौ ज्ञेय इत्याह - एतमेवेति ॥ एतं पञ्चभूतस्थितं भगवन्तमेव सर्वमिदं जगदप्येति प्रविशति मुक्तौ प्रलयेचेत्यर्थः । अयनं हवा इत्यनुवर्तते । एष भगवानेवायनं सर्वाश्रयो ह वै । एवं वेत्तुः फलमाह - अयनं हवा इति ॥ य एवं वेद विष्णुमुपास्ते अपरोक्षतो जानाति च समुक्तःसन् । समानानां समजानातीनामयनं आश्रयो भवति भविष्यति । अत्रायं विवेको बोध्यः । एतदुपासने योग्याये ब्रह्मेन्द्राद्यादेवाः ते सजातीयस्वाधमनियामकतां अश्ऱ्नुवते । उपासनानधिकारिणो मानुषादयः तु ज्ञानमात्रेण स्वयोग्यमाधिक्यमाप्नुवन्तीति । फलं कथयन्नेव विद्यान्तरं निरूपयति - तस्मिन्निति ॥ तस्मिन् भूतान्तर्गते नारायणादिरूपपञ्चके योधिकारी अन्नं सर्वलोकतर्पकत्वात् अन्नशब्दवाच्यं भोग्यवस्तुस्थितम् । अन्नादं भोक्तृभूतं भोक्तृषु स्थितं भोगशक्तिप्रदं च भगवतो रूपंवेद । मिथःसमुच्चये चशब्दौ । सोस्मिन् स्वजाति यूथे । अन्नादो भोगभोक्ता आ आधिक्येन जायते । ह प्रसिद्धमेतत् । तथा अस्य स्वजातियूथस्यान्नमाप्यायकश्च अयं भवति । नन्वेतस्मिन् रूपपञ्चके किमन्नं किञ्चान्नादमित्यतो विविच्यदशर्यति - आपश्चेत्यादिना ॥ आपः अप्सुस्थितो अम्नामानिरुद्धः । पृथिवी पृथिवीस्थः तन्नामानारायणश्चान्नं भोग्यवस्तुषु स्थित्वा सर्वलोकतर्पकौ । कुतो प्पृथिवी स्थितयोः सर्वलोकतर्पकतया अन्नत्वमित्यतः तदुपपादयति - एतन्मयानीति ॥ लोके सर्वाण्यप्यन्नान्येतन्मयानि अप्पृथिवीमयान्येव भवन्ति हि । अत एतान्यन्नानि एतन्मयानि । अप्पृथिवीस्थितरूपद्वयाधिनान्येव भवन्ति । ततश्च सर्वलोकतर्पकतया अन्नत्वमनयोः सेत्स्यतीति भावः । ज्योतिः ज्योतिः स्थितोज्योतिः नामा प्रद्युम्नः । वायुः वायुस्थो वायुनामा संकर्षणश्चान्नादम् । भोक्तृषु स्थित्वाभोगशक्तिप्रदौ स्वयं च भोक्तारौ । कुतः अनयोः उक्तरूपमन्नादत्वमित्यतः तदुपपादयति - एताभ्यामिति ॥ ज्योतिः वायुगतप्रद्युम्नसंकषर्भ्यामेवेदं सर्वं प्राणिजातं अन्नमत्ति । शारीरवायुनोद्दीपितो जाठरोजात वेदा हि भुक्तमन्नं परिणामयतीति तावत् प्रसिद्धम् । नच भगवत्प्रेरणामन्तरेण ज्योतिः वायुभ्यां तत्कार्यं निष्पद्यते । अतः तद्गतभगवद्रूपयोः एव तद्धेतुत्वात् भोक्तृत्वाच्चोपपन्नमन्नादत्वमिति भावः । एवं पञ्चकेरूपचतुष्ययोपास्ति प्रकारमुक्त्वा अवष्यिवासुदेवोपास्ति पकारमप्याह - आवपनमाकाश इति ॥ आकाशनामा तत्स्थोवासुदेव आवपनमवकाशप्रद इत्यर्थः । तदुपपादयति - आकाशशेहीति ॥ आकाशान्तर्गते हरावेव । सर्वदिं जगत् । समोप्यते सम्यगवकाशवद्भवति । हि यस्मात् तस्मात् आकाश आवपनमुच्यत इत्यर्थः । अनिरुद्धदिरूपचतुष्ययज्ञानफलस्य आहास्मिन्नन्नादो जायत इत्युक्तत्वात् वासुदेवजानफलमाह - आवपनमिति ॥ य एवमाकाशनामकं वासुदेवमवकाशप्रदं वेद । समुक्तौ । समानानां समजातीनामा आवपनमवकाशप्रदो भवतीति । अस्मिन्नेव पञ्चके पुनः प्रकारान्तरेण विद्यान्तरं फलकथनपूर्वकं निरूपयति - तस्मिन्निति ॥ तस्मिन्नेव रूपपञ्चके वक्ष्यमाणप्रकारेण योन्नमन्नादं च वेद । सोस्मिन् स्वजातियूथे अन्नाद आजायते ह । अस्य स्वजातियूथस्यापि अयकत्वादन्नं चासौ भवति । किन्तदन्नं किञ्चान्नादं यद्वेदनेनेदं फलं भविष्यतीत्यत आह - ओषधिवनस्पतयोन्नमिति ॥ ओषणान्निधानाच्चौषधिशब्दवाच्यौ वननीयपतित्वेन वनस्पतिनामकौ बहुरूपौ नारायणानिरुद्धौ । ओषधिवनस्पतिषु स्थावरेष्वन्नत्वेनान्तर्गतौ । प्राणानां भरणात् प्राणभृच्छब्दवाच्यौ बहुरूपौ संकर्षणप्रद्युम्नौ । प्राणभृत्सु जङ्गमप्राणिषु । अन्नादत्वेन व्यवस्थितौ । कथमोडधिवनस्पतिस्थस्यान्नत्वम् । जङ्गमप्रारिगतं स्यान्नादत्वमित्यत आह - ओषधिवनस्पतीन्हीति ॥ तस्मात् ओधिवनस्पतीनामन्नत्वं प्राणभृतामन्नादत्वं च तावदनुभवसिद्धम् । अतः तद्गतभगवद्रूपाणामपि तत्प्रेरकत्वात् तृप्तिदत्वभोक्तृत्वाभ्यां चान्नत्वमन्नादत्वं चेति भावः । अत्राप्यासिद्धमेव । अतः तदाकारेण पशुस्थितस्य भगवतोपि अखिलतर्पकत्वम् । कुतः पुरुषानुविधानां अन्नादत्वं पशूनामन्नत्वं चेत्यतः तदुपपादयति - तस्मादिति ॥ यत एवं संकर्षणप्रद्युम्नौ बृषभाश्ऱ्वाद्यारोढृनरादिगतौ । नारायणानिरुद्धौ च आरेह्येषु पशुषु स्थितौ । तस्मादेवकारणात् । ते पुरुषाकाराः देवाद्याः । तेषु स्थितौ संकर्षणप्रद्युम्नौ । इतरान् पशून् । तत्स्थितौ नारायणानिरुद्धौ । अधितयोरुपरिचरन्ति सञ्चरतः । यत् यदुपरिचरति तत्तस्य भेक्तृः । इतरच्चभोग्यमिति स्थितिः । अत एव ह्यन्नेभोग्ये विषये अन्नादोऽधि उपरिचरोधिपतिः भवति । एवं च पुरुषाणां पश्ऱ्वधिचरणादन्नादस्य चान्नाधिचरणात् पुरुषा अन्नादाः पशवश्चान्नमुच्यन्त इति भावः । नन्वेवं संकर्षणप्रद्युम्नयोः नारायणानिरुद्धौ परिचरणात् तद्भोक्तृत्वात् च ततोपि गुणवैशेष्यपाप्त्या भगवद्रूपेषु तारतम्यप्रसङ्ग इत्यतो अधीवचरन्ति अधीवभवतीत्युभयत्रापि इवशब्दप्रयोगः । आरोढृषु स्थित्व चरणमात्रात् तथोक्तिः नतु गुणवैशेष्यमस्तीति भावः । अत्राप्यावपनमाकाश इत्यनुषञ्जनीयम् । आकाशोवासुदेव ओरोढॄणामारोह्याणां च आवपनमवकाशप्रद इत्यर्थः । एतद्विद्याफलमाह - अधीवेति ॥ य एवं वेद स पुमिन् मुक्तौ समानानां समजातीनां मध्ये अधि । अधिको भवतीत्यर्थः । क्लृप्तस्यैव अधिक्यस्य मुक्तावभिव्यक्तेः आङ्गतुकाधिक्यालाभादिवशब्दः । ह प्रसिद्धमेतत् ॥ 1 ॥
यो अधिकारी । आत्मानं परमात्मानम् । आविस्तराम् । आविर्भावतारतम्येन । तारतम्नयेन एव सर्वभूतेषु सन्निहितं वेद । सतस्य विष्णोरेव । तदीय एव भवति । तत्प्रीति गोचरोभवतीति यावत् । ओषधिवनस्पतयो यच्चकिञ्च प्राणभृत् चेष्यावत् जङ्गगमजाम् । तत्सर्वं भूयः भूयस्त्वेन शिलादिभ्यो विशेषेण । आविः तेषु स्थावरजङ्गमेष्वाविर्भूतः सन्निहितो अश्ऱ्नुते प्राप्नोति भगवान् । स एव नारायण आत्मानं स्वात्मानं आविस्तरां तारतम्येन सर्वभूतेष्वविर्भूतं सम्यग्वेदनान्यः । भगवत्सन्निधानतारतम्येन एव पदार्थानां तारतम्यमिति भावेन पदॉर्थतारतम्यमुपपादयति - ओषधीत्यादिना ॥ शिलाद्यपेक्षया भगवद्विशेषसन्निधापात्रत्वादेव । ओषधिवनस्पतिषु स्थावरेषु रसोदृश्यते । प्राणभृत्सु चलनवत्सु जङ्गेषु च चित्तं दृश्यते । न शिलाद्येषु । अतो वृक्षाद्याः शिलादिभ्य उत्तामा इति भावः । तत्रापि प्रमाणभृत्सु जङ्गमेष्वेव । तुशब्दो विशेषार्थः । स्थावरापेक्षयागुणाधिक्यप्रकाशकतया आत्मा परमात्मा आविस्तरां उत्कषर्तारतम्येन आविर्भूतः सन्निहितः । किं तत्स्थावरापेक्षया जङ्गमेषु गुणाधिक्यमित्यत आह - तेषुहीति ॥ तेषु जङ्गमेषु । स्थावरेष्वविद्यमानो रसोपि शब्देन तेष्वविद्यमानं चित्तं च दृश्यते हि । इतरेषु स्थावरेष तु रस एक एवनचित्तम् । अतो गुणद्वयसद्भावाज्जङ्गमानां स्थावेभ्य उत्तमत्वमित्यर्थः । यद्यपि स्थावराणामपि चित्तमस्त्येव । यथोक्तं सुधायां गीतात्पुष्पफलावाप्तिः स्पर्शात् कार्श्यं रसात्स्थितिः । अपि वृक्षस्य दृश्यन्त इत्यनुव्याख्यानव्याख्यानवसरे । एवं कमनीयकान्ता अवलोकने नोत्कोरक्त्वं तिलकवृक्षस्योपलभ्यते । तेन दशर्नकामौ । तेन नयनमनसीसिध्यत इति । तथापि जङ्गमप्राणिवच्चित्तकार्यप्रयत्नाद्यभावादभावव्यपदेशः । यथा सन्नपि भृत्यो यस्य न भृत्यपदेव वर्तते सह्यभृत्य इति व्यपेदेश इति । अथ तेषु जङ्गमेष्वपि पश्ऱ्वाद्यपेक्षया पुरुषेत्वेवाविस्तरां आत्मागुणाधिक्यप्रकाशाकः सन्वर्तते । गुणाधिक्यमेव उपपादयति - स हीति ॥ पुरुषो हि प्रज्ञानेन प्रज्ञयासम्पन्नतमः पश्ऱ्वादिभ्योप्यतिशयेन युक्तः । कथम् । स पुरुषो विज्ञातमर्थं वदति । वाचाव्याहरति । विज्ञातं पश्यति । सामान्यतो विज्ञातमर्थं युक्तिभिः विचार्यविनिश्चिनोति । श्ऱ्वस्तनं वेद । भविष्यदर्थं लिङ्गैः अनुमिनोति । लोकालोकौ लोकालोकप्रदेशौ संसारमोक्षौ वा स्वर्गनरकौ वा ससाधनौ वेदशस्त्रतो जानाति । पौरुषेयापौरुयायागमौ वा विजानाति । मत्येन शरीण अमृतं मोक्षं ईप्सति प्राप्तुमिच्छति । अल्पकालीनेन शरीरेण अनन्तरकालीनमोक्षार्थं साधनमनुतिष्ठतीति यावत् । एवं सम्पन्नः प्रज्ञासम्पत्तिमानिति निगमनम् । अथ पुरुषादितरेषां पशूनां तु नैवं विधगुणसम्पत्तिः । किन्तु अशनापिपासे एव । तद्विषयोपलक्षणमेतत् । अशनापिपासाविषयप्राप्तिं प्रत्येवाभिविज्ञानं प्रज्ञा नान्यत्र । तदेव विशदयति - न विज्ञातं वदन्तीत्यादिना ॥त्यादिना ॥ पशव इति योज्यम् । निगमयति । त एतावन्तो भवन्तीत । ते पशव उक्तविधा एव भवन्तीत्यर्थः । एवं हरि सन्निधानतारतम्यात् प्राणिनां तारतम्यमभिधाय सन्निधानतारतम्येपि किमपि निमित्तं वाच्यम् । अन्यथा भगवतो वैषम्यनैर्घृण्यापत्तेरित्यतो निमित्तान्तरं निरूपयति - यथा प्रज्ञामिति ॥ प्रज्ञेत्युपलक्षणम् । एषां प्राणिनां सम्भवाः उत्पत्तयः यथा प्रज्ञं तत्तज्ज्ञानकर्माद्युनुसारेण भवन्तीति ॥ 2 ॥
अत्र स एष पुरुषः समुद्र इति वाक्यमावर्तनीयम् । योस्मिन् पुरुषे पश्ऱ्वादिभ्य आधिक्येन सन्निहितो भगवान् । स एष पुरुषः पुरुषनामा समुद्रः समुद्रिक्तः सम्पूर्णः । अन्येभ्यः सर्वेभ्यः । स एष पश्ऱ्वादिभ्य आधिक्येन भगवत्सन्निधापात्रभूतः पुरुषो जीवोयद्यपि भगवत्प्रसादात् समुद्रः समुद्रिक्तः सर्वलोकाधिपो भवति । तथा सर्वं लोकं सर्वान् लोकान् पृथिव्यन्तरिक्षादीन् । अति अतीत्य । यत्किञ्च यत्किञ्चिदलौकिकं ह प्रसिद्धं मोक्षाख्यं महाभाग्यं वैकुण्ठादि मोक्षस्थानं वा । अश्ऱ्नुते प्राप्नोति । तथाप्येनं पुरुषशब्दवाच्यम् । प्रागात्मशब्देन प्रस्तुतं वा । विष्णुमत्येव मन्यते । स्वात्मनः सर्वस्मात् चाधिकमेव मन्यते । मुक्तोपि न तेन साम्यं तद्भावं वा मन्यते । यद्यन्तरिक्षलोकं भगवत्प्रसादादश्ऱ्नुते तदाप्येनं विष्णुमत्येव मन्यते । यद्यमुंलोकं स्वर्गं देवलोकाधिपत्यमिति यावत् । अश्रनुवीत अश्ऱ्नते भगवत्प्रसादात् प्रापनोति तद्योग्यः तदातदपि अश्ऱ्नुवीतैव भञ्जीतैव । बहुगणिकादि परिवाररूपमशुचीदं पदमित्यादि बुद्धया नापह्नुवीत । अथवा अश्ऱ्नत इति पदमनुवर्त्य व्याख्येयम् । यद्येवं अमुं लोकमश्ऱ्नुवती प्राप्तो भवति । तदाप्येनं भगवन्तम् । अतिमन्येतैव । सर्वथा स्वतः सर्वस्माच्चाधिकमेव मन्यते । यद्वा यः सर्वं लोकमतीत्य । यद्धकिं चाश्ऱ्नुते समुक्तोप्येनं यस्मात् अतिमन्यते तस्मादन्तरिक्षलोकाधिपत्यं प्राप्तोप्येनमति मन्यते अधिकमेव मन्येत । स्वर्गलोकाधिपत्यं प्राप्तोप्येनमति मन्येतैवेत्यर्थः । तथा च भगवान् मुक्तैरमुक्तैश्च सर्वोत्तमत्वेन चिन्त्य इति भावः । स एष पुरुषः पुरुषस्थः पुरुषनामा हरिः पञ्चविधः । पुरुषदेहस्थ पञ्चरूपः स्थितः । तदेव विशदयति - तस्येत्यादिना । तस्य तदीयदेहस्थ पञ्चभूतसमुदायस्य मध्ये । यदुष्णं जाठराग्न्यादिकं तत् ज्यातिस्तत्र ज्योतिषिज्योतिः नामा प्रद्युम्नः स्थितः । यानि खानियेऽवकाशाः कर्णनासादि विवररूपाः स आकाशः तस्मिन्नाकाशनामा वासुदेवः । अथ यल्लोहितं श्ऱ्लेष्मारेतश्चाता आपः तासु चाम्नामास्त्रीरूपी बहुरूपोऽनिरुद्धः । यच्छरीरमस्थ्यादिरूपं कठिनं सा पृथिवी । तस्यां च पृथिवीनामा नारायणः । यः प्राणः स वायुः तस्मिन् वायुनामा संकर्षण इति । एवं देहस्थ पञ्चभूतेषु भगवतः पञ्चरूपाण्युक्त्वा तत्रइ वायौ पुनः पञ्चरूपस्य भगवतः स्थितिमाह । स एष वायुरिति । यः सङ्कर्षणाधिष्ठानभूतः स एष वायुः प्राणादिभेदेन पञ्चविधः स्थितः । इतरभूतेषु त्वेकैकरूपेणैव स्थितोतः खादिभ्यश्चतुभ्यर्ो वायुरेव विशिष्य इति भावः । अत एव ताः पूर्वोक्ताः ज्योतिरादिचतुर्भूताभिमानिन्यः । एताः वक्ष्माणाः देवताः प्राणापानयोः प्राणापानरूपे वायावेव निविष्या आश्रिताः । कास्ताः । चक्षुःश्रोत्रं मनोवागित्येताः । तत्र चक्षुः ज्योतिः भूतात्मकं तदभिमानीरविः । श्रोत्रमाकाशरूपं तद्देवाः मित्रधर्मवरुणकुबेराश्चत्वारोदिग्देवाः । मनःपृथिव्यात्मकं तद्देवाश्चशेषवीन्द्रशिवेन्द्रकामानिरुद्धगुरुचन्द्राः । वाक् किञ्चित्तेजोयुताविशेषेण त्वबात्मिका । अते भूतद्वयात्मकत्वात् वा च तदभिमान्यग्निरुमा च । अत्र चक्षुः अग्निः श्रोत्रं चन्द्रोमनः पर्जन्योवाक् स्वाहेतिचक्षुराद्यभिमानीनिद्वितीयकक्षास्थितानि देवतान्तरण्यपि ग्राह्याणि । न केवलमेतासां देवतानां प्राणाश्रितत्वं किं नामैतादेवताः प्राणस्य वायोरपायं देहान्निर्गमं अनुयन्ति अनुसृत्यैव निर्गच्छन्त्यपि । यद्यज्ञःयोयज्ञः । स एषवाचिश्ऱ्चित्तस्य । चक्षुः श्रोत्रयोश्चेत्यपि ग्राह्यम् । तदभिमानिनां देवानामिति यावत् । उत्तरोत्तरिक्रमः । तृतीयोतिशये । उत्तरोत्तरक्रमजातः । उत्तरोत्तरन्तरतम्यक्रमजात प्रेरणारूपवृत्तिजात इत्यर्थः । यज्ञो हि चक्षुःश्रोत्रमनोवाग्व्यापारसाध्यः । ताश्च तत्तदभिमानि देवताभिः प्रेरिता एव स्वस्वव्यापारेषु प्रवर्तन्त इति । यत एवं विष्णुः वायौ पञ्चधावस्थितः तस्मात् वाय्वाधीनदेवता प्रेरितवाक् चित्तादिव्यापारसाध्यः स एष यज्ञोग्निहोत्रादि भेदेन पञ्चविधः । तत्र स्थितो भगवानप्यग्निहोत्रादि नामको अनिरुद्धादिरूपकः पञ्चविधः । अत्रायं विवेकः । अदनाद्धवनाच्चाग्निहोत्र नामा अनिरुद्धोऽग्निहोत्रे स्थितः। दर्शनाद्दर्शः । मासोपलक्षितसर्वकालेषु पूणर्त्वात् पूर्णमासः । एवं दर्शपूर्णमासनामाद्विरूपः प्रद्युमनो दर्शपूर्णमासनाम्नोः इष्यिविशेषयोः स्थितः । चतुरत्वात् मासोपलक्षितसर्वकालगतत्वात् चातुर्मास्य त्रयनियामकत्वात् च तन्नामा सङ्कर्षणो बहुरूपश्चातुर्मासाख्य इष्यिषु स्थितः । पालनात् सुखरूपत्वात् पशुनामा वासुदेवः पशुनामकेष्यौ स्थितः । सोम्यत्वादुनारुद्रेण मया लक्ष्मया च युक्तत्वाद्वासोमनामा नारायणः सोमयागेस्थित इति । एवं सोमयागेपि पञ्चरूप भगवदवस्थानं वक्तुं सोमस्याग्निहोत्रादि चतुर्यज्ञेभ्यो वैशिष्ठयं तावदाह - स एष इति ॥ यत् यः सोमः स एष यज्ञानां मध्ये सम्पन्नतमः अतीव श्रेष्ठ इत्यर्थः । सोमस्य पाञ्चविध्यं चाह - एतस्मिन्निति ॥ एतस्मिन् यज्ञश्रेष्ठेसोमे । एताः पञ्चविधाः प्रकारा आधिकम्यन्ते शास्त्रेषु प्रतिपाद्यन्ते हि । कास्ताः सवनेभ्यः प्रातर्माध्यन्दिनसायं सवनेभ्यः प्रागनुष्ठेयो यत् यः सोमः एकाविधा । विधयानुसारेण सेतिस्त्रीलिङ्गम् । प्रकारप्रकारिणोः अभेदात् सामानाधिकरण्यम् । त्रीणिसवनानि यानि तास्तिस्रोविधाः । सवनेभ्य ऊर्ध्वं यत् यः सवनत्रयादुपरितनः सोमः सा पञ्चविधेति । एवं पञ्चविधे एतस्मिन् सोमे । एताः वक्ष्यमाणाः अनिरुद्धादि मूर्ययः पञ्चविधा अधिगम्यन्ते । कथं यत् प्राक् सवनेभ्यः सा तस्मिन् प्रागं च नात्प्राक् शब्दवाच्या अनिरुद्धाख्यामूर्तिरेकाविधा । त्रीणि सवनानि त्रिषु सवनेषु जगत्प्रसवकर्तृत्वात् सवननामकानि प्रद्युम्नसंकषर्णवासुदेवाख्यानि त्रीणिरूपाणि तिस्रोविधाः । यदूर्ध्वं सा तस्मिन् सर्वोच्चत्वादूर्ध्वशब्दवाच्यं नारायणाख्यं रूपं पञ्चमीविधेति ॥ 3 ॥
योधिकारी । यज्ञे यज्ञेषु । अध्यूह्लं अध्यूढं अधिरूढम् । यज्ञं याज्यत्वाद्यज्ञनामानम् । अहनि अहस्सु । अध्यूह्लं अहः । अहार्यत्वादहर्नामानं देवेषु ब्रह्मादिषु अध्यूह्लं देवं सर्वोत्तमत्वाद्देवनामानं विष्णुम् । वेद सः सम्प्रतिवित् सम्यग्ज्ञानी हवै प्रसिद्धः । यज्ञाद्यधिरूढस्य यज्ञादित्वमौपचारिकं चेत्तज्ज्ञानिनः सम्यग्ज्ञानित्वं अनुपपन्नं स्यात् । अतो नेदं यज्ञादित्वं विष्णोरौपचारिकं किन्तु वास्तवमेवेत्याशयेनाह । एष वै यज्ञ इत्यादिना । एष विष्णुः । यज्ञे अहनिदेवेषु च । यज्ञो हर्देवश्च । यज्ञादीनां यज्ञत्वादिप्रदत्वेन यज्ञादिनामा सन्नेवाध्यूह्लो वै इत्यर्थः । यज्ञादिनामक भगवद्रपस्यैव बृहतीसहस्रस्थितत्वमित्यभिप्रेत्याह - यदेतदिति ॥ परिपूर्णत्वात् महत् । सर्वोत्थापनकारित्वात् उक्थनामक बृहतीसहस्रस्थितत्वात् चोक्थं यदेतद्भगवद्रूपम् । एष वै यज्ञे यज्ञ इत्यादि पूर्वेण सम्बन्धः । तदेतत् बृहतीसहस्रस्थितमुक्थनामकं भगवद्रूपं पञ्चविधम् । स्तोमसामचिति छन्दःशस्त्रेषु पञ्चसु । तेष्वपि प्रत्येकमनिरुद्धादि नारायणान्तं पञ्चविधतया स्थितमित्यर्थः । तत्र स्तोमेस्थिता अनिरुद्धस्य तावत् पाञ्चविध्यं दर्शयति - त्रिवृदित्यादिना ॥ तिस्रोविधाः वृणोतीति त्रिवृत् । अध्यात्माधिभूताधिदैवस्थितं स्तोमगतानिरुद्धस्य अनिरुद्धाख्यं रूपं त्रिवृदिति प्रोच्यते । एवं प्रद्युम्नाख्यं रूपं पञ्चभूतेष्वध्यात्मादि भेदेन प्रत्येकं स्थितं पञ्चदशविधत्वात् पञ्चदशमित्युच्यते । तथा संकर्षणाख्यं रूपं षोडशकलात्मकलिङ्गशशरीरे तदीय षोडशकलासु च स्थितत्वात् सप्तदशं प्रोच्यते । वासुदेवाख्यं च रूपमध्यात्मादि भेदेन सप्तधातुषु स्थितत्वादेकविंशति विधतयैकविंशमित्युच्यते । नारायणाख्यं तु रूपं मनोबुद्धयहंकारचित्तेषु सत्वादिगुणत्रये प्रकृतौ चाध्यात्मादिप्रभेदेन स्थितैश्च तु विशतिरूपैःनारायणाख्यभूलरूपेण च सहपञ्चविंशमिति गीयते । इति स्तोमतः स्तोमरूपेण । स्तूयमानत्वात् स्तोमशब्दवाच्यतया इति यावत् । अथवा स्तोमतः ल्यब्लोपनिमित्तापञ्चमी । स्तोममधिष्ठाय विद्यमानमनिरुद्धाख्यं रूपं पञ्चविधमिति सम्बन्धः । अथ सामगतप्रद्युम्नस्य पाञ्चविध्यमाह - गायत्रमित्यादिना ॥ गायतां त्रायकत्वात् गायत्रनामकं प्रद्युम्नस्यानिरुद्धाख्यं रूपम् । एवं प्रद्युम्नाख्यं प्रद्युम्नीयं रूपं रथारूढत्वात् रथन्तरमुच्यते । तथा संकर्षणाख्यं रूपं बृहद्रूपत्वात् बृहदित्युच्यते । वासुदेवाख्यं च रूपम् । भद्रमोक्षप्रदत्वात् भद्रमित्युच्यते । दातृत्वात् तत्तदाख्यो असाविति वचनात् । नारायणाख्यं तु रूपं मुक्तानां राजनाद्राजनमित्युच्यते । इति सामतः सामरूपेण । सर्वभूतेषु समत्वात् सामशब्दवाच्यतयेति यावत् । अथवा सामतः सामाधिष्ठाय विद्यमानं प्रद्युम्नाख्यं रूपं पञ्चविधमिति पूवर्ेणैव सम्बन्धः । अथ छन्दोगतसंकर्षणस्य पाञ्चविध्यं दर्शयति - गायत्रीत्यादिना ॥ त्रिषु प्रातर्मध्याह्नसायंकालेषु सन्ध्योपास्तिं कुर्वद्भिर्गीयत इति गायत्रीनामकं संकर्षणस्यानिरुद्धाख्यं रूपम् । एवं प्रद्युम्नाख्यं रूपमग्निसूर्यस्थितत्वेन उष्णस्वरूपत्वात् उष्णिगित्युच्यते । तथा संकर्षणाख्यं रूपं पूर्णत्वात् बृहतीत्युच्यते । वासुदेवाख्यं च रूपं त्रिभिः वेदैः स्तूयत इति त्रिष्युबित्युच्यते । नारायणाख्यं तु रूपं द्वेपदेरूपे यस्येति द्विरूपत्वात् द्विरूपत्वात् द्विपदेत्युच्यते । एतानि च रूपाणि पञ्चापि योषिदाकाराणीति बोध्यम् । इति छन्दस्तः छन्दोरूपेण । छन्द्यत्वात् छन्दः शब्दवाच्यतया इति यावत् । अथवा छन्दस्तः छन्दोधिष्ठाय विद्यमानं संकषर्णाख्यं रूपं पञ्चविधमिति सम्बन्धः । अथ चितिगतवासुदेवस्य पाञ्चविध्यं कथयति । शिर इत्यादिना । चितेः श्येनाकारत्वात् तस्याः शिर आदिपञ्चावयवाः प्रसिद्धाः । अतस्तदन्तर्गतवासुदेवस्य अपि पञ्चावयवाः सन्त्येव । तत्र वासुदेवस्यानिरुद्धाख्यं रूपं शिरः । प्रद्युम्नाख्यं रूपं दक्षितः पक्षः । संकषर्णाख्यं रूपमुत्तरः पक्षः । वासुदेवरूपं पुच्छम् । नारायणाख्यं तु रूपमात्मामध्यदेहः । इत्येवं वासुदेवाख्यं रूपमाख्यानं पञ्चरूपात्मकावयवतयाख्यायमानं भवति । कृत्यल्युटोबहुलमिति स्मरणात् कर्मणिल्युट् । अथवा इत्येवं वासुदेवरूपस्य शिर आदिपञ्चावयवात्मना आख्यानं प्रकथनं भवतीत्यर्थः । इदमेव वाक्यं शस्त्रगतनारायणस्य पाञ्चविध्यपरत्वेनापि व्याख्येयम् । अत्र शस्त्रशब्देन बृहतीसहस्रस्य पञ्चभागोपेतस्य प्रथमभाग एव ग्राह्योनसमग्रः । प्रथमे पञ्चकाद्भागेस्थितो नारायणः स्वयमित्युक्तत्वात् । शिरः पक्षादिविभागस्यापि प्रथमारणे तत्रैव कथितत्वाच्च । तथा च शस्त्रविशेषगतस्य नारायणस्य यदनिरुद्धरूपं तच्छिरः । शिरोरूपकतिपय मन्त्रजातगतम् । यच्च प्रद्युम्नाख्यं रूपं तद्दक्षिण; पक्षः दक्षिणपक्षात्मक ऋक् शतगतम् । स्वयमपि दक्षिणपक्षरूपम् । यच्च संकषर्णनामकं रूपं तत् उत्तरः पक्षः । उत्तरपक्षात्मक ऋक् शतगतम् । स्वयमप्युत्तरपक्षात्मकम् । यद्वासुदेवाख्यं रूपं तत्पुच्छं पुच्छरूपकतिपय मन्त्रगतं स्वयमपि पुच्छरूपम् । यच्च नारायणाख्यं रूपं तत् आत्मामध्यदेहरूप मन्त्रजातगतम् । स्वयमपि मध्यदेहरूपम् । इत्येवं नारायणाख्यरूपस्य आख्यानमित्यर्थः । हरेः सोमाद्यधिष्ठातुः पाञ्चविध्यकथनप्रसङ्गादन्यदपि पाञ्चविध्यमत्रानुसन्धेयमित्यभिप्रेत्याह - पञ्चकृत्व इत्यादिना ॥ अत्रादौ प्रस्तावोद्गीथप्रतिहारोपद्रवनिधानलक्षणेषु पञ्चसामसुतत्तन्नामापञ्चरूपीहरिः प्रत्येकमनिरुद्धादि रूपेण पञ्चधावस्थित इत्युपस्कर्तव्यम् । यत एवं प्रस्तावादिषु प्रत्येकं पञ्चधा भगवानवस्थितः तस्मादेवप्रस्तोताप्रस्तावसाम्ना पञ्चचकृत्वः प्रस्तौति । प्रस्तावगतमनिरुद्धाख्यं भगवन्तमिति शेषः । एवं उद्गाताप्युद्गीथगतं प्रद्युम्नाख्यं पञ्चकृत्व उद्गायति उद्गीथसाम्नास्तौति । प्रतिहर्तापि प्रतिहारगतं संकषर्णाख्यं पञ्चकृत्वः प्रतिहरति प्रतिहारसाम्नास्तौति । एवमुपद्रवसामगानकर्ताऽपि तद्गतं वासुदेवाख्यं पञ्चकृत्व उपद्रवति उपद्रवसाम्नास्तौति । निधनसामगतातारोपितप्गतं निधनं निधीयन्ते सर्वेमुक्ता अस्मिन्निति तन्नामकं नारायणम् । पञ्चकृत्व उपयन्ति निधनं साम्पगच्छन्ति । स्तुवन्तीति यावत् । अत्र निधनमिति कर्मोक्त्या प्रस्तौतीत्यादावपि प्रस्तावमुद्गीथं प्रतिहारमुपद्रवञ्चेति तत्र तत्र कर्माध्याहारोद्रष्यव्यः । जगद्रक्षकत्वेन प्रस्तूयत इति प्रस्तावोनिरुद्धः । जगत्स्रष्यृत्वेन उच्चैः गीयमानत्वात् जगदुद्गमनहेतुत्वात् उद्गीथः प्रद्युमनः । प्रतिहरति संहरतिजगदिति प्रतिहारः संकर्षणः । संसारात् मोचयित्वा भक्तानुपस्वसमीपं द्रावयति प्रापयतीत्युपद्रवोवासुदेव इति तत्तन्नामार्थोपि भाष्योक्तरीत्या द्रष्यव्यः । एवं प्रस्तावादिसामभक्तिप्रतिपाद्यत्वं अनिरुद्धादिरूपपञ्चकस्य उक्त्वा इदानीं तद्गतस्तोभाक्षराण्यपि भगवदनन्तरूपाभिधायीनि ज्ञातव्यानीत्याह - तत्स्तोभेति ॥ तत्तत्र प्रस्तावादिषु सामसु । स्तोभसहस्रं भवति । सहस्रशब्दो अनन्तवाची । अनन्ताः स्तोभशब्दाः सन्तीति यावत् । तच्चस्तोभसहस्रं भवति पृथक् पृथक् विष्णुप्रादुर्भावानां वाचकमिति शेषः । एवं बृहतीसहस्रमपि विष्णुरूपसहस्रवाचकमिति वक्तुं बृहतीसहस्रस्वरूपं तावदुच्यते - एवं ह्येता इत्यादिना ॥ यथा साम्नः पञ्चविधत्वं एवं हि । एवमेव ह्येताः वक्ष्यमाणाः पञ्चविधा अनुशंस्यन्ते कथ्यन्ते । बृहतीसहस्रस्येति शेषः । कास्ताविधाः । तृचाशीतिभ्यः प्राक् प्रथमभागात्मकं यन्मंन्त्रजातं सैकाविधा । तिस्रः गायत्रीबार्हती औष्णिहीचेति यास्तिस्रस्तृचाशीतयस्तास्तिस्रोविधाः । अथ यन्मन्त्र जातमूर्ध्वं तृचाशीतिभ्यः परं सा पञ्चमीविधेति । एवं बृहतीसहस्रस्वरूपमुक्त्वा तद्वाच्यं विष्णुरूपजातमभिधत्ते - तदेतत्सहस्रमिति ॥ एतच्चावर्तनीयम् । तथा च यदेतत्पञ्चविधत्वेन उक्तं तदेतत्सहस्रं बृहतीसहस्रं कर्तृ । यदेतद्विश्ऱ्वादिसहस्रनामवाच्यं सहस्रं विश्ऱ्वादिरूपसहस्रम् । तत्कर्म । पृथक् पृथक् प्रतिपादयतीति शेषः । न केवलं तद्बृहतीसहस्रं विश्ऱ्वादिपसहस्रवाचकमेव । किन्तु सवर्ं सर्वनामात्मकम् । अनन्तनामवाच्यानन्तरूपाभिधायिचेति यावत् । तत्कुत इत्यतः तत्रापीदमेवोत्तरम् । तत्सर्वमिति । यत एवं इदं बृहतीसहस्रं सर्वरूपाभिधायि । तत् तस्मात् सर्वरूपाभिधायकत्वादेव । सर्वं विष्णुरूपजातं तत् तेन संस्तुतमिति शेषः । अन्यथा तन्नस्यादिति भावः । किञ्च दशमत्स्यादिरूपाणि च तानि तत्प्रतिपाद्यानि । बृहतीसहस्रशंस्यानि भवन्ति । अथवा तानि प्रस्तावादिसामभक्तिप्रतिपाद्यानि न केवलमनिरुद्धादि पञ्चैव । किन्तु दशमत्स्यादिरूपाणिचेत्यथर्ः। यद्वा दशेति सर्वनाम । तथा च तानि मत्स्यादिदशनामान्येवदश । सर्वाणि सर्वनामात्मकानि । सर्वनामार्थभूतसवर्रूपवाच्यकत्वादित्यर्थः । कथं दशनाम्नां सर्वरूपवाचकत्वमित्यत आह - दशेति वै सर्वमिति इति ॥ एतानि दश मत्यादिरूपाणि । सर्व वै सीर्वरूपात्मकान्यपि भवन्ति । अतो दशावतारवाचकदशनाम्नां सर्वरूपवाचकत्वं उपपद्यत इति भावः । कथं दशाशब्दस्य सर्वार्थकतेत्यतः चोक्तम् - दशेति वै सर्वमिति ॥ दशेत्येतत् सर्वं सर्वशब्दसमानार्थमित्येतत् । वैमुख्यत एव श्रुतिप्रसिद्धमित्यर्थः । अथवा तानि दशेत्यस्य तानि बृहतीसहस्ररूपवाक्यानि दश । ददति शंरूपं विष्णुं तद्गुणव्यञ्जनेनेति दश शब्दोदितानीत्यर्थः । तानि बृहतीसहस्रवाच्यरूपाणि दश भक्तसुखदातृत्वात् दशनामकानीति वा । एवं दशेति
वै सर्वमित्यस्यापि सर्वं पञ्चविधं बृहतीसहस्रं सामभक्तिपञ्चकं च । पञ्चकद्वितयत्वात् । सर्वनामार्थभूत भगवद्रूपप्रतिपादनाच्च । दशेति । दशनामकं वै । श्रुतिप्रसिद्धमित्यथर्ान्तरं द्रष्यव्यम् । ननु कथं दशेति सर्वमिति दशशब्दस्य सर्वशब्दपर्यायतोच्यते । अल्पसङ्खयावाचकस्य अधिकसङ्खयावाचकता अयोगादित्यतः तदुपपादयति - एतावतीत्यादिना ॥ सङ्खयाह्येतवती । दशत्वपर्यवसन्नैव । नातो अधिकास्ति । शतादयोपि तत्प्रभेदा एव । कथम् । दशयेदशतः दशवर्गाः । पञ्चद्दशतौ वर्गेवेति सूत्रात् । तत् तेशतमित्युच्यन्ते । शतान्यपि दशचेत्तत् तान्येव सहस्रमित्युच्यन्ते । उपलक्षणमेतत् । दशसहस्राणि तदयुतम् । दशायुतानि तल्लक्षमित्यादिकमपि द्रष्यव्यम् । अतोभूलसङ्खयादशत्व एव पर्यवसितेति भावः । एवं बृहतीसहस्ररूपं तत्प्रतिपाद्यं च निरूप्योसंहरति - तत्सर्वमिति ॥ तत्तस्मात् सर्वनामार्थवाचकत्वात् । तत् बृहतीसहस्रं सर्वं सर्ववाचकं सर्वगुणशक्तिरूपनाम भगवदभिधायकमित्यर्थः । अस्य च बृहतीसहस्रस्य अशनादित्रिकरूपेण भगवद्भोग्यत्वं अभिधातुं त्रिविधत्वं तावदाह - तानीति ॥ तद्बृहतीसहस्रं त्रीणिछन्दांसि भवन्ति । गायत्री बृहती उष्णिगिति क्रमेण छन्दस्त्रयावबद्ध ऋगात्मकं भवति । छन्दांसीति धेयानुसारेण तानीति बहुवचनम् । एतत्रिविधमिदं बृहतीसहस्राख्यमन्नं भगवतो अशनमोदनम् । पानं पानीयम् । खादःखाद्यमिति त्रेधाविहितं वै । तच्च बृहतीसहस्रमेतैःअशनपानॅखादरूपैः त्रिभिश्छन्दोभिः । तिसृतिस्तृचाशीतिभिः इति यावत् । तत् विष्ण्वाख्यं ब्रह्मप्नोति । तत्स्तावकतया तत्तृप्तिकरं भवतीति ॥ 4 ॥
तदिदं बृहतीसहस्रम् । वै उक्तप्रकारेणैव सम्पन्नं भवति । ननु बृहती सहस्रं पादनस्यैव अवश्यकत्वे तत्रोक्तप्रकारेण एवेत्यवधारणं सम्भवति । तदेव कुत इत्यतो अस्यैव अवश्यकतोपपादनाय पक्षान्तराणि दूषयितुं तावदनुवदति - तद्धेति ॥ तत्तत्र शंसनविषये एके । एतत् शंसनीयं सहस्रं नानाछन्दसा सम्बन्धेव प्रतिजानते । यत्किञ्चिदस्कऋक् सहस्रमपि शंसितव्यमेव बृहतीसहस्रसम्पादनमविवक्षितमित्याहुः । कुत इत्यतस्तषामभिप्रायं व्यनक्ति - किमन्यत्सदिति ॥ यच्छन्दः शंसितुमुपक्रम्यते इतोन्यत् सत् उत्तमं छन्दःकिमस्ति । सर्वेषां छन्दसां साम्येन तारतम्याभावादित्यथर्ः । एके तु त्रिष्युप् सहस्रमेव शंसितव्यमित्याहुः । एके तु जगतीसहस्रम् । एकेत्वनुष्युप्सहस्रमिति । एवं नियमवादिनामभिप्रायं व्यनक्ति - अन्यद्ब्रयामेति ॥ सदिति वर्तते । बृहतीसहस्र सम्पादनमेव कुतः । बृहतीतोन्यत् त्रिष्युप् च्छन्द एव सत् । तदुत्तमं ब्रूयाम । ततोप्यक्षराधिक्यादिति । एवं जगतीसहस्रवादिनोप्याहुः । अनुष्युप् सहस्रवादिनस्तु तस्याः बृहत्यादितोक्षराधिक्याभावात् तदुत्तमत्व साधनाय तत्प्रशंसात्मिकामृचं दर्शयन्ति - तदुक्तमिति ॥ ऋषिणामन्त्र दृष्य्रा । तत् अनुष्युभ उत्तमत्व ज्ञापकमुक्तमित्यर्थः । ऋगर्थस्तु प्रागुक्त एव । स्वयमेव ऋक्तात्पर्यमाह - वाचीति ॥ वागाख्यायामनुष्युभि नृसिंहप्रतिपादकानुष्युप् च्छन्दस्क ऋचि । आसमन्तात् । पुनः पुनः हंसरूपेण विष्णुना ब्रह्मरुद्रादीन् प्रत्युच्चार्यमाणायां व्याख्यायमानायां च सत्याम् । तदोच्चारणादि काले । इन्द्रं परमेश्ऱ्वरम् । प्राणं विष्णुम् । मुनयोन्यचायन् ददृशुः । तथा वायुना वाचिरुद्रादीन् प्रत्युपदिश्यमानायां तदा । ऐन्द्रं इन्द्रःपरमेश्ऱ्वरस्तत्सहितं प्राणम् । हंसरूपिणो विष्णोः समीप एव हंसरूपिणं वायुं च ददृशुरित्येतत् प्रमेयम् । तत् तया एनया ऋचोक्तं भवतीत्यर्थः । तथा च ब्रह्मादिभिः अपि विष्णोः सकाशादनुष्युबर्थस्यैव सदा श्रूयमाणत्वात् अनुष्युबेव वरेत्युक्तं भवतीति भावः । किञ्च योनुष्युप्सहस्रस्य शंसिता सयशस्वीसुप्रसिद्धः । कल्याणकीतिर्ः शुभकीर्तिः स्यात् । भवितो; भवितुम् । भावोमुक्ति; मुक्तोनिष्पत्तुम् । ईश्ऱ्वरः समर्थः स्यात् । आयुषः आयुः परिसमाप्तेः । पुरातु पुरापि प्रेतोः मर्तुं च ईश्ऱ्वरः शक्तः स्यात् । स्वच्छन्दमअत्युः स्यादिति यावत् । उक्तफलस्य सर्वस्यापि प्रमितत्वज्ञापनाय हशब्दद्वयम् । इति ह इत्येवं आहस्म । ऐतरेयोनाम महिदासशिष्यः कश्चन ऋषिः पूर्वपक्षं कृतवानित्यर्थः । तत्रोत्तरं भगवता महिदासेनाभिधीयते । अकृत्स्नोह्येष इत्यादिना ॥ यत् यावाक् । वागाख्यानुष्युबभिमानिनी । वागिन्द्रियाभिमानिनी वा । उमा । एष एषा । अकृत्स्न आत्मा अपूर्णा विष्णुप्रतिमाहि । विधेयानुसारेण ऐष इति पुल्लिङ्गनिर्देशः । कुतो वाचोकृत्स्नत्वमित्यत आह - अभीति ॥ अत्र नानुभवतीति नृशब्दो नञ् च तन्त्रेण अनुसन्देयौ । तथा च नापुमान् हि यस्मात् प्राणेन वायुना मनसामनोभिमानि नाशिवेन च । अभि अभितः विषयेषु इस्यमानः अस्यमानः । तृतीयोतिशये । बहुशः क्षिप्यमाणः सन् । अनुभवति विषयानुभववान् भवति । न तु वाचावागभिमानिन्यो मया । अतो जीवानां विषयानुभवप्रेरकत्वाभावात् सा अकृत्स्नत्वमात्रेण कथं बृहत्या एव सम्पाद्यत्व सिद्धिरित्यत आह - एष वा इति ॥ यत् या बृहती बृहत्यभिमानि देवता वायुः एषः हि कअत्स्नः पूर्ण आत्मा विष्णुप्रतिमा । यद्यस्मादेवं तस्मात् बृहतीशब्दवाच्य पूर्णवाय्वभिमन्यमानत्वात् बृहत्येव बृहती । छन्दसां मध्ये वरिष्ठेति । यद्बृहतीपदयोः आवृत्त्या व्याख्येयम् । एवं यद्यस्मादेषा बृहती इतरच्छन्दोभ्यो अधिकमाहात्म्या । अत एव बृहतीतन्नाम्नी । तस्माद्बृहतीच्छन्दसां मध्ये वरिष्ठेति स्वरूपाधिकयोपपादकत्वेन अपि योज्यम् । हेत्वंन्तरेणापि बृहत्या एवोत्तमत्वं सदृष्यान्तं साधयितुमाह - सोयमात्मेति ॥ स प्रसिद्धो अयं आत्मामध्य देहः शरीरैः शिरोबाह्वाद्यङ्गैः परिवृत इति तात् सर्वानुभवसिद्धम् । तन्निदर्शनं यथा अयमात्मा सर्वतः शरीरैः परिवृत एवमेव बृहती । छन्दोभि; षड्िवः सर्वतः पुरस्तादुपरिष्याच्च परिवृता । तथा च इतरच्छन्दसां परिवाररूपत्वात् अप्राधान्यम् । तैः परिवृतत्वात् राजादिवद्बृहत्या एव प्राधान्यमिति भावः । एतेनैव दृष्यान्तेन प्रकारान्तरेण बृहत्या उत्तमत्वं साधयति - मध्यमिति ॥ आतमामध्य देहो हि सर्वेषां अङ्गानां शिरः करचरणादीनां मध्ये । एवं बृहत्यपि गायत्ऱ्यादि जगत्यन्तानां छन्दसां मध्यम् । अतो मध्य देहस्य मध्यस्थत्वात् राज्ञो अमात्यादि मध्यस्थस्य तेभ्यो यथोत्तमत्वमेवं छन्दोमध्यस्थत्वात् बृहत्यास्तेभ्य उत्तमत्वमिति भावः । उपलक्षणमेतत् । चतुर्मुखमध्य देहजातत्वात् बृहत्या इतरच्छन्दोभ्यः तदितरां गजातेभ्य उत्तमत्वमित्यपि द्रष्यव्यम् । बृहतीसहस्रशंसनस्य फलमाह - स इति ॥ पूर्ववदेवेदं व्याख्येयम् । उपलक्षणमेतत् । अनुष्युप्सहस्रशंसनकर्तृः सकाशादपि गुणाधिकश्च भवतीत्यपि द्रष्यव्यम् । इति ह स्माह । स्वशिष्यमैतरेयं प्रति भगवान् महैतरैय उत्तरमिति शेषः । प्रकृतप्रमेयं उपदंहरति - कृत्स्न इति ॥ यत् या बृहती । एष एषा । कृत्स्न आत्मा पूर्णा विष्णुप्रतिमा । हि यस्मात् तस्मात् छंसितापुरुषो बृहतीमेवय अभिसम्पादयेदिति ॥ 5 ॥
तद्वा इदं बृहतीसहस्रं सम्पन्नमिति पूवर्ोक्तस्यैव परामर्शः । एतत्प्रयोजनं च स्वयमेव आचार्यो वक्ष्यति । तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य । उक्तप्रकारेण बृहतीसहस्रसम्पादनेसतीति यावत् । अनुष्युभामेकादशशतानि भवन्ति । तदुपरि पञ्चविंशतिरनुष्युभश्च भवन्ति । तत्कथमित्यत आह - आत्तमिति ॥ भूयसापदार्थेन । कनीयोल्पं स्वीकृतं अन्तर्भावितं वै । तथा च बृहत्याः षट्विंशदक्षरत्वात् अनुष्युभोद्वात्रिंशदक्षरत्वात् अधिकसङ्खयाका अप्यनुष्युभो बृहतीसहस्रेन्तर्भवन्ति । अतो बृहतीसम्पादनमेव वरमिति भावः । उक्तमर्थं प्रामाणसम्मत्योपपादयति - तदुक्तमिति ॥ वाचमष्यपादीमहम् । नवस्रक्तिमृतस्पशम् । इन्द्रात्परितन्वं ममेति मन्त्रमंशतः क्रमेणोदाहृत्य स्वयमेव व्याचष्ये - वाचमित्यादिना ॥ अष्यौ चतुरक्षराणि भवन्ति । अष्यचतुरक्षरात्मिकाद्वात्रिंशदक्षररूपानुष्युबिति यावत् । नवस्रक्तिमित्यस्यार्थो बृहतीसम्पद्यमाना नवस्रक्तीति । सैव अनुष्युबुत्तरानुष्युभश्चतुरक्षराण्युपादाय यदा बृहतीसम्पद्यमाना भवति । तदा नवस्रकती नवस्रक्तिः भवति । नवास्रक्तयो विभागश्चतुरक्षररूपायस्याः सातथोक्तेति । ऋतस्पृशमित्यस्यार्थः सत्यं वैवा गृचास्पृष्येति । वाक् वागाख्यानुष्युप् उक्तरीत्यानवस्रक्तीभूयऋचाऋग्रूपेण । बृहतीरूपतां प्राप्येति यावत् । सत्यं सत्यरूपं विष्णुं स्पृष्यावती । विष्णुसन्निधानविशेषपात्री वै इत्यर्थः । इन्द्रात्परितन्वं मम इत्यस्य तात्पर्यं वक्तुं पूर्वोक्तं अर्थं तावदनुवदति - तद्यदेवेत्यादि ॥ यदेवैतद्बअहतीसहस्रम् । तत् । अनुष्युप्सम्पन्नम् । उक्तरीत्या पञ्चविंशत्युत्तरैकादशशतसङ्खयाकानुष्युब्भ्यः सम्पन्नं भवतीत्यर्थः । अस्तु किन्ततः प्रकृत इत्यत आह - तस्मात्तदैन्द्रादिति ॥ अत्रेदं तावदादौ भाष्योक्तरीत्या अनुसन्धेयम् । इदं बृहतीसहस्रं वायुप्रतिमारूपं तावत् । अत एव विष्णुप्रतिमारूपमपि । एतदधिष्ठातुः वायोः विष्णुमुख्यप्रतिमात्वात् । तस्मात् बृहतीसहस्रसम्पादने विष्णुप्रतिमानिर्मिता भवति । एवं अनुष्युब्देवतोमापि भगवत्प्रतिमारूपा सा च बृहतीदैवत प्राणरूपवायोः उत्पन्नेति । तथा च तस्मात् उमाया अपि भगवत्प्रतिमात्वात् । यदा तस्यैव बृहतीसहस्रत्वेन सम्पन्नस्य ऋग्जातस्य पुनः पञ्चविंशत्युत्तरैकादशशतानुष्युप्त्वेन सम्पादनं क्रियते । तदा बृहत्यै बृहत्याः बृहतीदैवत प्राणरूपाद्वायोः वाचं वाग्रूपां अनुष्युभमनुष्युब्देवता अमुं आत्मिकां तन्वं तनूं विष्णोः एव द्वितीयप्रतिमाम् । सन्निर्मिमीते । एतत्सर्वं सम्यग्ध्यायन्निति शेषः । नन्वेवं ध्यातृशक्त्यैव बृहत्याः सकाशादनुष्युप्सम्पादनादिकं भवति किं नेत्याह - ऐन्द्रात्प्राणादिति ॥ अत्रेन्द्रादित्यादौ ग्राह्यम् । तथा चेन्द्रात्परमेश्ऱ्वराद्बृहतीस्थ विष्णोः बलादेवेत्यर्थः । तथा ऐन्द्रात् । इन्द्रस्य परमेश्ऱ्वरस्य अयमैन्द्रस्तस्य नितरां प्रियस्तस्मात् प्राणात् प्राणदैवतात् वायोः तद्बलाच्चेत्यर्थः । तथा च अयं मन्त्रर्थ उक्तो भवति । अहमष्यापदीं चतुरक्षराष्यविभागयुक्तां द्वात्रिंशदक्षरोपेतां नवस्रक्तिं उत्तरानुष्युभः सकाशाच्चतुरक्षरायुपादाय । चतुरक्षरकनवविभोपेताम् । षट्विंशदक्षरात्मक बृहतीत्वेन सम्पन्नामिति यावत् । अत एव ऋत स्पृशम् । ऋतं सत्यरूपं शश्ऱ्वदेकप्रकारं विष्णुं स्पृशतीत्यृतस्पृक् । तां विष्णुसन्निधानविशेषपात्रीं वाचमनुष्युभं बृहतीसहस्रत्वेन सम्पादितमनुष्युबृग्जातमिति यावत् । पुनः पञ्चविशत्युत्तरैकादशशतानुष्युप्त्वेन । इन्द्रात् परमेश्ऱ्वरात् । तद्बलादेवेति यावत् । तथा ऐन्द्रात्प्राणात् । परमेश्ऱ्वरातिप्रियप्राणदैवतवायुबलाच्च सम्पाद्य । तस्य तस्यैव विष्णोः तन्वं प्रतिमाम् । अहं परिममेनिर्मितवान् अस्मीति । एतच्च बृहतीसहस्रं विष्णोरेव वाचकमिति भावेन तस्य विष्ण्वेकनाम भूताकारव्याख्यानरयूपत्वमाह - स वा एष इति ॥ यदेतन्मत्सर्वं शब्दजातं विकारमात्रमित्यपि ग्राह्यम् । तदेतत्परमविकाररूपं बृहतीसहस्रं विकारमात्ररूपमन्यत्सर्वं शब्दजातं च पञ्चविधम् । कथम् । मितममितं स्वरः सत्यानृते इति । तत्र सत्यानृतयोः परस्यर प्रतियोगिभावाप्नत्वेन द्वन्द्वनिर्देशः । तत्र मितादिकं विविच्यदर्शयति - ऋगित्यादिना ॥ स्वरनियमवतीवागृक् । स्वरनियमरहितामिताक्षरागाथा । परस्परं असमाक्षराणि खण्डवायानिकुम्ब्याः । तदेतत्रितयं मितम् । यज्ञाङ्गं वाक्यं यजुः । यज्ञानङ्गं वाक्यं निगदः । अर्थसत्ताहीनं वाक्यं वृथावाक् । तदेतत्रयममितम् । सामबृहदादि । अथोनन्तरम् । यः कश्चगेष्णो यत्किञ्चिद्गानम् । स एषः तदेतद्वयं स्वरः । ओमित्येतदक्षरं सत्यमित्युच्यते । मूलभूतस्य अकारस्य ओंकारे आदावेव स्थितत्वात् अकाररार्थस्यैवोंकारवाच्यत्वाच्च शब्दतोर्थतश्च व्यत्यासाभावेन यथावस्थितरूपत्वात् । नेत्यक्षरमनृतमित्युच्यते । मूलभूताकारस्य नकारान्ते स्थितत्वेन मुख्यतोवस्थित्यभावादयथास्थितेः । यत्सत्यमोंकारस्तदेतद्वाचोऽकारस्य पुष्पं फलं पुष्पफलात्मकं उकारमकाररूपविकारद्वयसहितत्वात् । तथा च वाचोकारस्य पुष्पं फलं पुष्पफलरूपं सत्यमोंकारं योर्थिने प्रतिषेधमकृत्वावदति । स पुमान् यशस्वीलोके प्रख्यातिमान् कल्याणकीर्तिश्च भवति । तथा भवितोः मुक्तो भवितुमीश्ऱ्वरश्च भवति । अथ यदनृतं नेत्यक्षरमेतत् । वाचोकारस्य मूलं किञ्चिन्मूलमिव । एकार्थत्वात् । ततश्च तन्निदर्शनं यथा वृक्ष आविर्मूल आविष्कृतमूलश्चेच्छुष्यतिशुष्को भवति । सः शुष्कभावं प्राप्तश्चोद्वर्तते विनश्यति । एवमेवानृतं निषेधबोधकं नकारमर्थिने वदन् तेन दोषेण स आत्मानमेव आविर्मूलं प्रकटितमूलं वृक्षमिव शोषोन्मुखं करोति । ततश्च सशुष्यति । सशुष्कश्चोद्वतर्ते । तस्मात् अनृतोक्तेः एवं अनर्थहेतुत्वात् अनृतं नेत्यक्षरमर्थिने न वदेत् । किन्तु दयेत् । तुरेवार्थः । सत्स्वर्थिषु दयामेव कुर्यात् । कुतः । एनेन एतेन एवकारणेन दयामकृत्वार्थिभ्यो नेति भाषणे शोषाद्यनर्थप्राप्तिसद्भावादित्यर्थः । एवमोंकारस्य अवश्यवक्तव्यत्वं नकारस्यावक्तव्यत्वं चोक्त्वा इदानीं उभयोरप्यवक्तव्यत्वं वदिष्यन् ओंकारस्य तावदवक्तव्यत्वमाह - पराग्वा इति ॥ यदेतदोमिति एतदक्षरम् । पराक् प्रतिकूलं वै । कुतः रिक्तं रिक्तताप्रदं एतदेवोपपादयति - तद्यदिति ॥ यद्यत्किञ्च यत्किञ्चिद्धनादिकं स्वकीयमेकैकमार्थिभ्यः पुमान् ओमित्याहददामीति यदि ब्रूयात् । तर्हि तावन्मात्रेण अत्रैव तदैवतत् अस्मै अस्मात् रिच्यते अपगच्छति । वाचादत्तत्वात् पुनस्तदुपभोगे प्रत्यवायः स्यादतो भोगेतदपगतप्रायमेवेति भावः । स्थिते चैवं सपुमान् यद्यदिसर्वमपि स्वकीयं धनादिकमर्थिभ्य ओंकुयर्ात् ददामीति प्रतिजानीयात् । दद्याच्चेत्यपि ग्राह्यम् । तर्हि स आत्मानं रिंच्यात् रिक्तं कुर्यात् । ततश्च सपुमिन् कामेभ्यो नालं स्यात् स्वाभिलषितपुरुषार्थप्राप्तये समर्थो न स्यात् । एवमोंकारस्य अवक्तव्यत्वमुक्त्वा नकास्यापि तद्वक्तुमारभते - अथेति ॥ अथत्यारम्भार्थः । यन्नेत्यक्षरमेतत् । यद्यप्यभ्यात्मं पूर्णं आत्मानमभि । आत्मनः पूर्णत्वकारणम् । अर्थिभ्यो यदि नेति वदेत् नैवकिञ्चिद्दद्याच्चतहि स्वकीयधनादेः स्वस्मिन्नेव अवस्थानाद्रिक्तताप्राप्तिः न भवतीति यावत् । तथापि स यद्यदियत्किञ्चिदपि धनादिकमदित्सन्नर्थिभ्यः सवर्ं नेति ब्रूयात् तर्ह्यस्यनेति ब्रुवतः पापिकाकीर्तिः जायेत जायते । सा च पापिकाकीर्तिरेनं पुरुषं तत्रैव तस्मिन्नेव जन्मनिहन्यात् हतप्रायं कुर्यात् । सम्भावितस्य चाकीतिर्ः मरणादतिरिच्यत इति वचनात् । तस्मान्नेत्यपि न ब्रूयादित्यर्थः । नन्वेवं उभयोः अपि वक्तव्यत्वोपपादनं परस्परं विरुद्धमित्यतो अस्य तात्पर्यं व्यनक्ति - तस्मादिति ॥ सर्वोकरणस्य सर्वप्रतिषेधस्य चोक्तरीत्या अनर्थहेतुत्वात् । काल एव दद्यात् काले न दद्यात् काल इत्युपलक्षणम् । पुण्यकाले पुण्यदेशेसत्पात्रेष्वेव द्रव्यं ज्ञानं वाफलमनभिसन्धाय श्रीविष्णुप्रीत्यर्थं दद्यात् । अपुण्यकालदेशयोः अपात्रषु च फलाभिसन्ध्यादिना न दद्यादित्यर्थः । तथा चोभयोरपि व्यवस्थयैव वक्तव्यत्वमवक्तव्यत्वं चेति भावः । एवं व्यवस्थया सत्यानृतसमाहारकतर्ुः फलमाह - तदिति ॥ यद्येवं सत्यानृते पात्रापात्राद्यनुसारेण मिथुनीकरोति मेलयति । तत्तर्ह तयोः मिथुनात् ॐकारनकारयोः मिथुनीकरणात् । प्रजायते प्रजनयति । सत्पुत्रादिप्रजावान् भवति । भूयान् ज्ञानादिगुणैः उत्कृष्यश्च भवतीत्यर्थः । स वा एष वाचः परमोविकार इत्युक्तं प्रमेयमुपसंहरन् तज्ज्ञानस्यावश्यकत्वं अभिप्रेत्यतद्वेत्तारं प्रशंसति - योवैतामिति ॥ यस्यावाच एष सर्वोपिमितामितादिः विकारो व्याख्यानरूपस्तां वाचमकाराख्यामुक्तरीत्या यो वेदाससम्प्रतिवित् सम्यग्ज्ञानी वै इत्यर्थः । अत्र वाक् शब्देन अकार एव विवक्षितः । एष विकार इत्येतच्छब्देन च सर्वापि वाग्विवक्षितेति भावेनाह - अकारो वा इति ॥ सर्वापि वाक् मितामितादिपञ्चरूपा अकारो वै । अकारस्यैव विकाररूपेत्यर्थः । तदेवोपपादयति - सैषेति ॥ सैषा अकारात्मिकावाक् । स्पर्शोष्मभिः इत्युपलक्षणम् । ककारादिभिः सर्वैः व्यञ्जनाक्षरैः व्यज्यमानाबह्वीबहुत्वसङ्खयोपेतानानारूपाविलक्षणरूपा च भवतीत्यर्थः । अथवा स्पर्शोष्मभिः व्यज्यमाना । अजहरण इति धातोः विहरमाणासङ्गतेति यावत् । बहीबहुपदरूपानानारूपानानाविधार्थनिरूपिका भवतीत्यर्थः । अथास्यैव अकारस्य जपादिषु फलातारतम्यमप्यस्तीति सूचनायावस्थाभेदेनाभिमानि भेदमाह - तस्यैयदिति ॥ तस्यै तस्याः वाचोकाराख्यायाः यदुपांशुं उपां शूच्चारणम् । उपांशूच्चारितोकार इति यावत् । सप्राणस्तदभिमानीवायुः । अथ तस्यायदुच्चैः उच्चारणमिति शेषः । उच्चैः उच्चारितोकार इति यावत् । तच्छरीरम् । स्थूलसूक्ष्मभेदेन द्विविधस्य सर्वप्राणिशरीरस्याभिमानिनी या भारतीसातदभिमानिनीत्यर्थः । उभयत्रापि क्रमेण युक्तिमाह - तस्मादिति ॥
प्राणाभिमन्यमानत्वादेव तत् उपांशूच्चारितमवर्णं तिर इव तिरोभूतमिव वर्तते । तदपि कुतः । तिर इव ह्यशरीरं यदशरीरं वस्तुत त्तिर इव हि । अप्रत्यक्षमिव हि । प्रकृतेचाभिमानीप्राणो शरीरो हि शरीराभिनानशून्यत्वात् । यथोक्तम् । ब्रह्मानिरभिमानत्वात् शरीर्यप्यशरीरवानित्यादि । ततो शरीरप्राणाभिमन्यमानत्वादुपांश्ऱ्वकारस्य तिरोभूतवत्स्थितिर्युक्तेति भावः । अथ यदुच्चैरुच्चारितमवर्णम् । तत् शरीरं शरीराभिमानि भारतीदैवत्यम् । तस्मादेव हेतोः तत् । उच्चैरुच्चारितमवर्णम् । आविः आविर्भूतं श्रवणप्रत्यक्षगोचरं भवति । शरीराभिमानि भारतीदेवताकत्वेपि कुतोस्याविर्भूतत्वमिति तत्राह - आविर्हिशरीरमिति ॥ तथा च उच्चापेक्षयोपांशोरकारस्य प्राणाभिमन्यमानस्य जपादिषु फलाधिक्यमिति भावः ॥ 6 ॥
विद्यान्तरोपदेशार्थं तद्वा इदं बृहतीसहस्रमिति पुनः परामर्शः । तदिदं बृहतीसहस्रम् । तद्यशः । तस्य नारायणस्य गुणकर्मकीर्तनरूपम् । यस्य नारायणस्य एतत् यशः सभगवानेवेन्द्रः । इन्द्रनामा मुख्यतः । प्रथमेन्द्रत्वात् परमैश्ऱ्वर्ययोगाच्च । स एव भूतानां ब्रह्मादीनांजीवानामधिपतिः । य एव मेतं बृहतीसहस्रप्रतिपाद्यं नारायणमिन्द्रं भूतानां अधिकतिं च वेद । स पुमान् । विस्रसा । क्विबन्तोयम् । विस्रसनेनयुक्तः अखिलबन्धाद्विस्रस्तः सन् । अस्माल्लोकात् प्रैति । हरेः लोकं गच्छति ह । एवकारेण नास्त्यत्र संशय इत्याह । इति ह ऐतरेयोमहिदास आहस्म । स महिदास एवेन्द्रनामा । प्रेत्य श्ऱ्वेतद्वीपादि लोकादिमं प्राप्य । भूत्वा अत्र प्रादुर्भूय । मनुष्यदृष्यिगोचरतां प्राप्येति यावत् । एषु लोकेषु राजति प्रकाशते । रमत इति यावत् । इदमपि भगवतो महिदासस्यैव परोक्षवद्वाक्यमिति बोध्यम् । अन्यथोत्तरत्र प्रश्ऱ्नप्रतिवचना सम्भवात् । एवं भगवतः उपदिष्याः केचित्तच्छिष्याः तत्तत्र विषये । आहुः पृच्छन्तीति यावत् । यदि भगवान्महिदासादिरूपेण भूमिष्ठः सन् रमेत तर्हि रमणस्य स्त्रियाविना अयोगात् । नित्यसुखस्वरूपस्य स्वतन्त्रस्यान्यतोः अत्ययोगात् स्वकीये स्त्रीरूप एव स्वयं रमत इति वाच्ये । अनेन भूमिगतेन पुंरूपेण अमुं दिविष्ठं लोकम् । लोक्यते अवलोहक्यत इति लोकशब्दवाच्यं स्वकीयं स्त्रीरूपम् । अभिसम्भवति यत् । अभिगच्छति किम् । यच्छब्दः किं शब्दार्थे । दिविष्ठस्त्रीरूपेण रमते किमिति यावत् । अथ प्रश्ऱ्नान्तरं च । केन रूपेण इमं लोकं पृथिवीसंस्थं स्वस्त्रीरूपमा भवति संव्रजति । तेन रमत इति यावत् । अत्र केनरूपेण इत्यस्य यदयं भगवान् । दिविष्ठं भूमिष्ठं वास्त्रीरूपं गच्छति तच्चकेन रूपेण । उभयोः मलकं रूपं किमित्यभिप्रायान्तरमपि द्रष्यव्यम् । अन्यथा परिहारवाक्येतन्निरूपणासङ्गतेः । इति स्वशिष्यैः पृष्यो भगवान् । उत्तरमाहेति शेषः । स्त्रियां स्त्रीशरीरे यदेतल्लोहितं भवति वर्तते तत् अग्नेः अग्निनाम्नो अग्निष्ठस्य हरेरूपं सन्निधानपात्रम् । तस्मात् हरिसन्निधानपात्रत्वात् । तस्मत् भार्याशरीरगतलोहितान्नवबीभत्सेत । न जुगुप्सेत । भर्तेति शेषः । अथ पुरुषे यदेतद्रतो भवति तदादित्यस्य आदित्यनाम्नः आदित्यस्थस्य पुंरूपस्य हरेः सन्निदानपात्रम् । तस्मात् हेतोस्तस्माद्भर्तृशरीरगतरेतसो न बीभत्सेतनजुगुप्सेत । भार्येति शेषः । उपलक्षणमेतत् । देवस्त्रीलोहिते देवरेतसि । पृथिव्यां दिवि च भगवान् । स्त्रीरूपेण पुंरूपेण च सन्निहितो वतर्त इत्यपि ग्राह्यम् । एवमुपयुक्तं प्रमेयमुपोद्घातत्वेन उक्त्वा इदानीं प्रश्ऱ्नद्वयं परिहरति - योयमात्मेत्यादिना ॥ सोयं भूमिष्ठोमहिदासादि प्रादुर्भावादिरूप इमं भूमिष्ठं तथा मानुषस्त्रीलोहितगतं च स्त्रीरूपमात्मानं विष्णुं स्वकीयमेव स्त्रीरूपमिति यावत् । अमुष्मैदिविष्ठाय सूर्यगायदेवरेतसिस्थिताय च पुरुषरूपाय । आत्मने विष्णवे । स्वपुरुषरूपायैवेति यावत् । सम्प्रयच्छति ददातीत्यर्थः । एतच्चकेनरूपेण इमं लोकमिति द्वतीयप्रश्ऱ्नस्योत्तरम् । अथ प्रथमप्रश्ऱ्नस्योत्तरमसावात्मेत्यादि । असौ सूर्यगतो दिविष्ठविष्णवादि पृथग्रूपीच आत्माविष्णुः अमुं देवस्त्रीलोहितगतं स्त्रीरूपमात्मानं विष्णुम् । स्वीयमेव स्त्रीरूपमिति यावत् । अस्मै भूमिष्ठाय महिदासादिरूपिणे मानुषरेतसिस्थिताय चात्मने । सम्प्रयच्छतीति । अत्र द्वितीयप्रश्ऱ्नस्य प्रथममुत्तरमुल्बणत्वात् । प्रथमप्रश्ऱ्नस्य त्वनेन रूपेणेति । उत्तरार्थस्यापि गर्भीकृतत्वेन परिहारे प्रयासाभावात् अनन्तरमुत्तरमिति ज्ञातव्यम् । एवं तावात्मनौ । द्युभूमिगतानि विष्णोः पुरुषस्त्रीरूपाणि अन्योन्यमभिसम्भवतः मिथोरम्मत इत्यर्थः । प्रकारान्तरेणापि प्रश्ऱ्नद्वयस्य क्रमेणोत्तरमाह - अनेनेति ॥ अनेन भूमिष्ठेन महिदासादि प्रादुर्भावस्थित पुरुषरूपेण अमुं लोकं द्युलोकस्थ देवस्त्रीस्थितं स्वकीयमेव स्त्रीरूपमभिसम्भवति ह । तथा अमुनादिविस्थितेन पुमात्मकवामनादि रूपेण इमं लोकं भूलोकस्थितमानुषस्त्रीगतं स्वकीयमेव स्त्रीरूपमा भवतीति । 7 ॥
तत्र सोयमात्मे ममात्मानं अमुष्मा आत्मेनेसम्प्रयच्छतीत्यादिना उक्ते भगवतः स्त्रीपुंरूपैः स्वकीयैरेव मरणरूपेर्थे स वा एष वाचः परमोविकार इत्यादिना उक्तेः सर्वशब्दवाच्यत्वरूपे च अर्थे एते श्ऱ्लोका उदाह्रियन्त इति शेषः । यन्नारायरादि रूपेण पञ्चविधमक्षरं परं ब्रह्मतत् । स्वस्मिन्नेव स्त्रीपुंरूपेणाधर्नारीनरात्मकेन । समेति संयुक्तं भवति । पञ्चविधैः नारायणादिनामकैः स्वकीयैः एव स्त्रीरूपैः समेतीति वा। युजः स्त्रीपुंरूपेण मिथः संयुक्ताः स्वस्व भार्याभिः सहार्धनारीनरात्मकरूपैः संयुक्ताश्च । देवा इति वक्ष्यमाणमत्रापि योज्यम् । अश्ऱ्वरूपेण रथेयुक्ताः सम्बद्धाः सन्तोयन्नारायणाख्यं परं ब्रह्मा रथारूढं संवहन्ति । तदेतत्सत्यस्य साधुगुणस्य मुख्यप्राणस्य । सत्यं साधुगुणता प्रदं स्वयमपि निरवधिकसाधुगुणपूर्णत्वात् मुख्यसत्यं नारायणाख्यं परं ब्रह्म यत्र अनुयुज्यते । यस्मिन् स्वरूप एव वामदक्षभेदेन अर्धनारीनरात्मकेन रूपेण अनुरूपतया युज्यते तत्र तस्मिन् एव परेब्रह्मणि नारायणाख्ये । अथवा यस्मिन् देशेऽनुयुज्यते तत्र देशे । सर्वेदेवा एव एकं भवन्ति । एकीभवन्ति मुक्तास्सन्तोमिलिता भवन्ति । अत्यनुकूलचित्ताश्च भवन्ति । न तत्र मुनिगन्धर्वाद्याः व्रजन्ति ॥ यस्मात् अक्षरान्नारायणाख्यात् स्वयमेव प्रादुर्भावात्मकं ब्रह्मरूपं अक्षरं स्त्रीपुंरूपेण युक्तं सत् एति बहिरागच्छति । यच्चयुजोयुक्ताः अभिसंवहन्ति । तदेतत् सत्यस्य सत्यं यत्रानुयुज्यते तत्र देवाः सर्व एकं भवन्तीति पूर्ववदेव व्याख्यानम् । तात्पर्यद्योतनाय उक्तस्यैव अर्थस्य पुनरभ्यासः ॥ एवं स्त्रीपुंसरूपिणो भगवतः स्वरमणप्रकारमुक्त्वा अथसर्वशब्दवाच्यत्वमप्याह - यदिति ॥ वाचो वाक् समूहस्य मध्ये यदोमिति पदम् । अङ्गीकार वाचीति यावत् । यच्चनेति पदं प्रतिषेधार्थम् । यच्चास्यावाचोमध्ये क्रूरमर्थतः कठिणम् । यच्चोल्बणिष्णु शब्दतः कठिनम् । उपलक्षणमेतत् । मितामितादि भेदेन पञ्चविधं यावद्वैदिकलौकिकपदजातं तत्सर्वं वियूयविचार्यकवयो देवाः नामा यत्तानामायत्तानि नामप्रकाश्यतया नामाधीनानि नामार्थभूतानीति यावत् । विष्णुमहात्म्यादीनि अन्वविन्दन् विदितवन्तः । तस्मिनंश्च ज्ञानेशृते परिपक्वेसति । अनन्तरमधि अधिकं समतृप्यन् कृतकृत्याः मुक्ता अभूवन्निति यावत् ॥ यस्मिन्विष्णौ नामानि नामार्थभूतानि गुणकर्मादीनि च ज्ञात्वा तस्मिन् ज्ञाने अधिशृते परिपक्वे समतृप्यन् तत्र तस्मिन् विष्णवे वेदा वाः सर्वयुजः सर्वैः मनो वाक्कायकर्मभिः युक्ताः भवन्ति । तात्पर्यद्योतनायैवं वेत्तुः फलमाह - तेनेति ॥ विद्वान् एवं जानन् । तेन ब्रह्मणातत्प्रसादेन पाप्मानमप्रारब्धमपहत्य क्षपयित्वा स्वर्गलोकं वैकुण्ठादिस्थानमप्येति प्राप्नोतीतित्यर्थः । यदक्षरं समेति सत्यस्य सत्यमनु यत्र युज्यत इति यद्भागवतः स्त्रीपुं सरूपद्वयमस्तीत्याभिप्रेतं तदिदानीं स्पष्यमुपपादयति - नैनमिति ॥ एनं विष्णुं वाचास्त्रियं केवलं स्त्रीरूपम् । ब्रुवन् ब्रुवणोन वदति । तथा एनं पुमांसं केवलं पुरुषरूपमेव ब्रुवन्नपि न वदति । एनमस्त्रीपुमान् ब्रुवन् अस्त्रीपुमांसं ब्रुवन् । स्त्रीरूपः पुंरूपश्च न भवत्येव अयमिति ब्रुवाणोपि न वदति । विष्णोरुभयरूपयोः अपि सत्त्वादिति भाव; । अत एव कश्चनैनं स्त्रियं पुमांसं वा वदन् वदति चेत्सवदत्येव । यथार्थवाद्येवेति यावत् । अथवा एनं स्त्रियं पुमांसं च ब्रुवन्नवदतीति वचनं लोकस्त्रीपुंसविलक्षणत्वाभिप्रायेण । एनं अस्त्रीपुमानिति ब्रुवन्नपि न वदतीत्येतदुभयरूपसद्भावाभिप्रायेणेति ज्ञेयम् । एवं सर्वेशब्दा भगवद्वाचका इत्युक्त्वा अकारो विशेषतो नारायणस्य वाचक इत्याह - अः इति ब्रह्मेति ॥ अः इत्यकारेण ब्रह्मपूर्णं वस्तूच्यते । तत्र अकारस्य पूर्णवाचित्वे सिद्धे अहमेव सोकारवाच्य इत्यागतं सिद्धम् । ममैकस्यैव परिपूर्णत्वात् । अन्येषां सर्वेषां मदधीनत्वेन अल्पतवादित्याहमहिदासरूपो भगवान्नारायणः । एवमोंकारो बृहतीसहस्रं च अकारानन्तरं विष्णोरेव विशेषवाचकमित्यप्यत्र द्रष्यव्यम् । अत एव बृहतीसहस्रविषय विद्यान्तरोपदेशार्थं पुनः तत्परामृश्यायारभ्यते - तद्वा इति ॥ तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य षट्ित्रंशतमक्षराणशं सहस्राणि भवन्ति । पुरुषायुषोह्नां सहस्राण्यपि तावन्त्येव भवन्ति । अत एव अहरभिमानि सूर्यरूपेषु स्थितानां अहर्नामकानां पुमाकाराणां भगवद्रूपाणां सहस्राण्यपि तावन्त्येव षट्ित्रंशदेव भवन्ति । एवं स्थिते कदाचिल्लीलया भगवान् तानि स्त्रीरूपाण्येव पुमाकाराणि विधायसूर्यगताहर्नामक पुंरूपाणि च स्त्रीरूपाणि कृत्वा जीवाक्षरेणैव । बृहत्युक्थशंसितायो जीवस्तत्स्थ बृहत्युक्थाक्षरगतेन षट्ित्रंशत्सहस्रसङ्खयाकेन स्त्रीरूपसमूहेन पुमाकारतामापादितेन जीवाहः । जीवाख्यसूर्यगतमहः शब्दवाच्यं तावत्सङ्खयाकं पुरुषरूपजातं सम्पादितस्त्ऱ्ाकारमाप्नोति । प्रायेण तु जीवाह्नासूर्यगताहर्नामकपुरुषरूपजातेन जीवाक्षरं शंसितृजीवगत बृहत्युक्थवर्णस्थि स्त्रीरूपसमूहमाप्नोति । न तदा स्त्रीत्वपुंस्त्वयोः व्यत्यासः । इत्येवं अनकाममारः । अनस्य प्राणस्य उत्पत्तिकामः सन् मायां लक्ष्म्ां रमत इत्यनकाममारनामा भगवान् । स्वेच्छयैव स्त्रीपुंरूपैः रमत इति शेषः । तान्येव स्त्रीरूपाणि पुंरूपाणि च एकीकृत्य द्विरूपः सन् । जीवाक्षरेण जीवाहराप्नोति । जीवाह्ना जीवाक्षरत्यिपि व्याख्येयम् । इदानीं उभयत्रैकवचनं मुख्यमेव । प्राक्तु समुदायापेक्षमिति विशेषः । युजोयुक्ता अभियत्संवहन्तीत्युक्तमर्थं विशदयति - अथ देवरथ इति । देवस्य विष्णोः वायोश्च रथ इत्यर्थः । देवैः निर्मितोरथ इति वा । उच्यत इति शेषः । स च अध्यात्मं देहाख्यः । अधिदैवं रथरूप एव । तत्र अध्यात्मं तस्य देहाख्यरथस्य । वाक् वागभिमानिन्युमा । उद्धिरुद्धारणरज्जुरूपा । चक्षुरादि देवानामुद्धरणहेतुत्वात् । श्रोत्रेदक्षवामश्रोत्रगत चन्द्रतद्धार्ये । पक्षसी पक्षयोः दक्षवापार्श्ऱ्वयोः अश्ऱ्वरूपेण स्थिते । चक्षुषीदक्षवामचक्षुः गतसूर्यतद्भार्ये युक्ते । पुरतो यो चिजाश्ऱ्वरूपे । नःमनोभिनी रुद्रोमनोगतः संग्रहीता सारथिः । अथ अधिदैवेपि तस्य रथस्य वाङ्गाम्नी उमा उद्धिर्नागाकारा अश्ऱ्वोद्धारणरज्जुः । श्रोत्रे दन्द्ररोहिण्यौ चक्षुषीसूर्य संज्ञे च पक्षसीयुक्ते पार्श्ऱ्वतः पुरतश्च योजिते अश्ऱ्वरूपे । मनो रुद्रः सारथिस्तिमा एव देवताः बोध्यः । सच असावयं चेति तदयं प्राणो विष्णुर्वायुश्च अधितिष्ठति । उभयविधं रथमिति शेषः । अथवा तदिति भिन्नं पदं द्वितीयान्तम् । तत् रथतयोक्तं शरीरमित्यध्यात्मम् । लिङ्गव्यत्ययेन तं रथमित्यधिदैम् । उभयत्रापि लिङ्गव्यत्ययेन रथस्यैव सामान्यतः परामर्शो वा । अयं प्राणो अधितिष्ठतीत्यर्थः । अत्र मन्त्रौ प्रमाणत्वेन उदाहरिष्यन्नाह - तदुक्तमिति ॥ तत् विष्णुवाय्वोः उभयविधरथाधिष्ठातृत्व मृषिणा सर्वज्ञेन अत एव सकलवेदानां प्रथमद्रष्य्रा भगवता हयग्रीवेण मन्त्ररूपेण उक्तमित्यर्थः । मन्त्रवुदाहरति - आतेनेति ॥ प्रतीकमात्रोपादानमिदम् । तेन समग्रौ मन्त्रौ ग्राह्यौ । आतेन यातं मनसोजवीयसा रथं यं वा मृभवश्चक्रुरश्ऱ्विना । यस्य योगे दुतिं जायते दिव उभे अहनी सुदिने विवस्वतः । निमिषश्चिज्जवीयसा रथेन अयातमश्ऱ्विना । अन्तिपषद्भूतुवामव इति । तत्र आद्यमन्त्रस्य अयमर्थः । हे अश्ऱ्विना अश्ऱ्विनौ अश्ऱ्वमुखौ अशुगती वा । विष्णुवायू । मनोसोजवीयसा पटुनेति यावत् । तेन शरीराख्येन रथेनायातम् । शरीरे सन्निहितौ भवतमिति यावत् । यं रथं वां युवयोरर्थमेव ऋभवोदेवाश्चक्रुर्निर्मितवन्तः । यस्य रथस्य योगे भगवद्विषयकमनोवाक्कर्मभिः सम्बन्धे सम्यग्जाते सति विवस्वतो विविधं वासवतः तत्तदाकारेण सर्वत्र व्याप्तस्य भगवतः । तत्प्रसादेनेति यावत् । जीस्य दिवोदुहिता अथप्रकाशकत्वात् द्यौर्विद्या तदुत्पिन्नाविष्णुतत्त्वापरोक्षदृशिः जायते । सुखदातृत्वाच्छोभनदिनरूपत्वात् च सुदिने उभे अहनी । जीवन्मुक्तिमुक्त्यवस्थारूपे च जायेते । साध्ये भवत इत्यध्यात्मम् । अधिदैवेतु मनसोजवीयसा अतिवेगवता तेन रथेना अस्मद्यज्ञं प्रत्यायातम् । यं रथं वामर्थे ऋभवश्चक्रुः । यस्य रथस्य योगे भगवता सम्बन्धे जायमाने सति तसिमन्नेव रथे दिवोदुहिता । द्यौः सवर्स्त्रीणामुत्तमामहालक्ष्मीः तत्पुत्री भारती । तथा सुदिने उभे अहनी जीवन्मुक्तिमुक्त्यस्थादैवते । अहेयत्वात् ज्ञानरूपत्वात् च अहःशब्दवाच्ये । लक्ष्म्यपत्यभूते वायुरूपे च । विवस्वतो भगवतः सकाशात् जायन्ते । रथारूढाभ्यां लक्ष्मीनारायणाभ्यां भारतीप्राणौ जयेते इति यावदिति । अयं च सृष्यिविशेष इति बोध्यम् । निमिषश्चिज्जवीयसा चक्षुर्निमेषणादपि अतिवेगवता पटुनारथेन अयातम् । अवोऽवनं रक्षणां वांयुवयोरन्तिषत् । अन्तिके समीप एव स्थितं न तु दूरतः । मम भूतु भवतु । यथा दासानां राजसमीप इति द्वितीयमन्त्रार्थः । इति ऋषिणोक्तमिति पूर्वेणान्वयः । जवीयसेत्यध्यायान्ते द्विर्वचनप्रयोजनं तु प्रागुक्तमेवानुसन्धेयम् ॥ 8 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचित श्रीमन्महैतरेयोपनिषद्भावप्रदीपे द्वितीयारण्यके तृतीयोध्यायः । 2 । 3 ।
पूर्णोन्मीलद्गुणात्मानं स्वतन्त्रं विश्ऱ्वभावनम् । नारायणमहं वन्दे मरुद्ब्रह्मादिकामदम् ॥ 1 ॥ आत्मा नित्या ततगुणत्वात् आत्मशब्दवाच्यो विष्णुरेक एवेदमस्य जगतोऽग्रे प्रलयकाले आसीत् । रमायाः तदानीं सत्त्वेन ब्रह्माद्यपेक्षयैव इयमुक्तिः । अथवा इदं रमाब्रह्मादिकं सर्वमपेक्ष्य आत्मा विष्णुरेक एव कालतो गुणतश्च अग्रेपुरःसरः श्रेष्ठ आसीदित्यर्थः । अत्र रमायाः प्रलये सत्त्वेपि भगवदधीनतयैव सत्त्वात् स्वातन्त्ऱ्ेण स्थित्यभावादेवमुक्तिः । गुणाग्य्रत्वं त्वव्याहतमेव । यद्वा इदं रमादिकं सर्वमपेक्ष्यात्मैवाग्रे विष्णुरेव सर्वगुणैरग्य्र आसीदित्येवार्थः । तत्र हेतुः नान्यदिति । ततोन्यत्किञ्चनमिषत् स्वातन्त्ऱ्ेण ज्ञानादिगुणैः भासमानं नासीदित्यर्थः । रमादीनां सत्त्वेपि स्वातन्त्ऱ्ेण मिषणाभावादेव मुक्तिः । स आत्मा भगवानीक्षत ऐक्षत ऐच्छत् । किमिति ॥ लोकान्नुसृजा इति ॥ लोकाभिमानित्वेन लोकशब्दवाच्यान् ब्रह्मादिदेवान् तदभिमन्यमानान् सत्यादिजडलोकांश्चाहं सृजै स्रक्ष्य इति । इत्थमीक्षन् स भगवानिमान्वक्ष्यमाणान् सृजत । के ते लोकाः - अम्भोमरीचीः मरमाप इति ॥ एतानेबलोकान्विविच्य दर्शयति - अदोम्भ इत्यादिना ॥ अं विष्णुं बिभर्तीत्यम्भः । प्रत्यक्षत एव विष्णुसञ्चारस्थानमिति यावत् । अदःप्रथमोद्दिष्यम्भोद्विविधम् । परेण दिवं दिवः परतो विद्यमानं द्यौश्चेति । दिवःपरतो विद्यमानं च वैकुण्ठादिस्थानत्रयं महरादिलोकचतुष्ययं चेति सप्तकं बोध्यम् । ननु कथं दिवो विष्णुलोकत्वं येनाम्भोनामिका सा स्यादित्यत उक्तम् - प्रतिष्ठेति ॥ प्रतितिष्ठत्वत्र भगवानिति । तथा च दिवोप्यम्भस्त्वं युक्तमिति भावः । ततश्च दिवः परोवैकुण्ठादिः । दिवः परे महरादयोद्यौः स्वर्गश्चाम्भोनामका इत्यर्थः । अत्र वैकुण्ठादिलोकसृष्यिकथनं भूदुर्गाभागविवक्षया व्यक्तिविवक्षयावावगन्तव्यम् । मरीचीमरीचयशब्दयोः पर्यायत्वमभिप्रेत्याह - अन्तरिक्षं मरीचय इति ॥ मरीचयोऽयं ते प्रवर्तन्ते विशेषेण अत्रेति । सकारान्तयोयम् । मरीचिशब्दस्य अप्ययमेवार्थः । मरीचयोस्मिन्वर्तन्त इति मरीचीरिति मत्वर्थीयं तद्धितमुत्पाद्य तस्य लोपो वाच्यः । लक्ष्म्ादिशब्दवदयं शब्दो ज्ञातव्यः । मरन्ति क्षिप्रमत्रेति मरःपृथिवी । या अधस्तात् ब्रह्माण्डोत्पत्तषः पूर्वं सृष्या देवताः ता आप इत्युच्यन्ते । एतासां च लोकाभिमानित्वेन लोकशब्दवाच्यत्वम् । एतदपि भाविभावेन । लोकापेक्षया पूर्वमेव सृष्यत्वादासामिति बोध्यम् । स परमात्मा पुनरेवमीक्षत ऐक्षत । किमिति । इमेनुलोकाः य इमेमयासृष्या एते लोकाहि । अथ इतःपरं लोकपालान्नुसृजा इति । यद्यपि प्राक्सृष्या अप्शब्दवाच्यादेवा एव लोकपालानततोतिरिक्ताः । तथापि ब्रह्माण्डान्तः । पुनःप्रजातरूपान्तरविवक्षयेयमुक्तिः । स एव मीक्षन् भगवान् अद्य्भ एव याः पूर्वं सृष्या अप्शब्दवाया महादादित्वाभिमानिन्यो ब्रह्मादि देवताः ताभ्य एव पुरुषं पुरुषनामानं ब्रह्माण् । समुद्धृत्यरुद्राद्यंशैः सहांशतः पृथक्कत्य तथा महदादितत्त्वात्मक तत्तदचेतन भागानप्युद्दृत्या मूर्च्छयत् मूर्तमकरोत् । चेतनाचेतनात्मकमेवकस्थं राशिंविदधे । ब्रह्माण्डमुत्पादयामासेति यावत् । तञ्च ब्रह्माण्डरूपं ब्रह्माणं अभ्यपतत् । मुखाद्यङ्गानि यथा निर्भिद्येरंस्तथा परिणतं चकार । एवं भगवताभितप्तस्य ब्रह्मणः प्रथमं मुखं निरभिद्यत । अत्र मुखशब्देन अण्डाकारं निरवयवं शिरोभिधमङ्गं ग्राह्यमिति भावेनाह - यथाण्डमिति ॥ ततश्च तस्मिन् मुखमास्यं निरभिद्यते इत्यावृत्त्या योज्यम् । तस्माच्च मुकात् वाक्वाङ्नामावह्निरभूत् । वाचः वागुत्पत्त्यनन्तरमग्निरग्निनामकं तस्यैव रूपान्तरमुत्पन्नम् । अत्र प्रथममध्यात्मरूपं द्वितीयमधिदैवति बोध्यम् । एवमुत्तरत्रापि । प्राणोवायुरिति प्रधानवायुसुतो मरुदुच्यते । दिशोदिग्देवताः मित्रधर्मवरुण कुबेराः । लोमानि ओषधिवनस्पतयश्चेति द्विविधाः पारिजातादिदेवताः ब्रह्मणस्त्वगुद्भवाः । हृदयान्मनःमनोभिमानी तन्नामाचन्द्रः । उपलक्षणमेतत् । बुद्धयभिमानिनो बुद्धिनामानो गरुडशेषशिवाश्चेत्यपि ग्राह्यम् । एवं हस्तौ निरभिद्येताम् । हस्ताभ्यां द्विविधःशक्रः । पादौ निरभिद्येतां पादाभ्यां द्विविधः शक्रसूनुर्यज्ञः । पायुः निरभिद्यत पायोः निर्ऋतिर्यमश्च जातावित्यप्युपलक्षणीयम् । एवमेव जिह्वानिरभिद्यत जिह्वायारसनं रसनाद्वरुण इति द्विविधोवरुणोप्युपलक्षणीयः । अपानोमृत्युरिति द्विविधः प्रधानवायुरेव । रेत आप इति द्विरूपः शिव एवेति बोध्यम् ॥ 1 ॥
ता एता देवता वह्नयाद्याः ब्रह्मदेहतः सृष्याः सर्वा अपि रूपद्वयेन । देवता इत्यावर्तनीयम् । दीव्यतिरत्रस्तुत्यर्थः । परमात्मानं स्तुवन्त्यः । पुनर्देवता इत्यावर्तनीयम् । दीव्यतिरत्र द्युत्यर्थः । विव्याम्बरकुण्डलादिभिः द्योतमाना एवास्मिन् महत्यर्णवे गर्भोदके शुद्धोदसमुद्रेव अप्रापतन् प्राविशन् । तदा सविष्णुस्तेषां अन्नसर्जनाय अन्नाकांक्षाजननाथम् । तं देवसमूहमशनापिपासाभ्यां तदभिमानित्वादिना तन्नामकाभ्यां वयुरूपाभ्यां अन्ववार्जत् संयोजनयामास । ततश्च तदभिमन्यमानभोक्तृत्वशक्त्या योजयामास । एवं भगवता अशनापिपासाभ्यां संयोजिताः ता देवताः एनं विष्णुं अब्रुवन् । किमिति । वयं यस्मिन् प्रतिष्ठिता अन्नमदामतादृशमायतनं भोगोपयोगिशरीरनोऽस्मकां प्रजानीहि प्रकर्षेणानुजानीहि । देहीति यावत् । इति । सर्वशरीरेष्वपि पुरुषाकारशरीरस्यैव विशेषतो भोगायतनत्व ज्ञापनाय प्रथमतस्ताभ्यो देवताभ्योगामानयत् । गोरूपं ब्रह्माणं ददौ । तदा तत्र देवताः प्रविश्यनोस्माकमयं गवाकारो ब्रह्मदेहोनालम् । भोगानुभवायपर्याप्तं नेत्यब्रुवन् । ततः ताभ्योश्ऱ्वमश्ऱ्वाकारं ब्रह्माणमानयत् तदा ता अब्रुवन् । नवैनोयमलमिति । ततस्ताभ्यः पुरुषं पूर्वसृष्यं ब्रह्मणः पुरुषाकारशरीरं आनयत् । तदा ता अब्रुवन् । इदं शरीरं सुकृतं सुष्ठु अलं अस्माकं भोगानुभवायसम्यगेवपर्याप्तं बतेति । बतर्षेति । अत इदानीमपि जीवानां सर्वशरीरापेक्षया पुरुषः पुरुषाकारशरीरमेव हि सुकृतम् । सुष्ठुभोगापर्याप्तं भवति । अथ भगवान् । ता देवता अब्रवीत् । इमं ब्रह्मदेहम् । यथा आयतनम् । युष्मदुत्पत्तिस्थानानुसारेण प्रविशतेति । एवं भगवदाज्ञानन्तरम् । अधिदैवमग्निरग्निनामा वह्निरध्यात्मं वाङ्मामकोभूत्वा मुखमास्यं प्राविशत् । एवमुत्तरत्रापि । एवं सर्वदेवताप्रवेशानन्तरम् । तं विष्णुं अशनापिपासे अब्रूताम् । अशनापिपासाभिमानी द्विरूपो वायुरब्रवीत् । आवाभ्यामभिप्रजानीहीति । आवां यथा नित्यं त्वच्छासनानुगौ भवावतथा सम्यगेवाज्ञापयेति । ते अशनापिपासाभिमानिनी वायुरूपे प्रतिविष्णुः अब्रवीत् । किमिति । एतास्वेववह्नयादि देवतासु । वाययु वां आभजामिसमन्ताद्भाजयामि प्रवेशयामि । ततश्चैतास्वेववां भागिन्यौ तत्तद्देवता भागभुजौ करोमीति । तस्मादेवं भगवता संकल्पितत्वाद्यस्यैकस्यै च देवता यै यज्ञादिषु हविर्गृह्यते दीयते चेत्तर्हि अस्यां देवतायां अशनापिपासे भागिन्यौ भवतः । द्विरूपोवायुः सर्वदेवता भागभुगिति यावत् ॥ 2 ॥
अथ स भगवान् । ईक्षत ऐच्छत् । एतावत्पर्यन्तं मया सृष्या इम एव । के ते । लोकाश्चलोकपालाश्चेति ॥ इदानीमेभ्यो लोकपालेभ्योदेवाभ्योन्नं सृजा इति । एवमीक्षन् । अपः अबाख्याः पूर्वसृष्याः महदादितत्त्वाभिमानिनीः ब्रह्मादिदेवताःअभ्यतषत् अभ्यपश्यत् । सुविशालाभ्यां नेत्राभ्यां ददर्शेत्यर्थः । एवं भगवताभितप्ताभ्यो दृष्याभ्यः ताभ्यो देवताभ्योमूतिर्रजायत । तासां सर्वासामपि देहैकदेशेभ्योमिलितं विरिञ्चादिसर्वदेवताधिष्ठितमेकं शरीरं पृथग्जातमित्यर्थः । नन्वन्नं सृजा इति संकल्प्यमूर्ति सृष्यिरनुपपन्नेति तत्राह - यावा इति ॥ साप्रसिद्धाया वैमूर्तिरजायततत् अन्नं वै । सा अन्नरूपैवेत्यर्थः । तदेनत् तदेतत् सृष्यमन्नरपं शरीम् । अन्नमूर्त्यात्मको ब्रह्मेति यावत् । पराङ् अत्यजिघांसत् । भोक्तृदेवतागणं दृष्ट्वा मामिमा अदन्तीति भयादिवक्रीडयैवता अतिक्रम्य किञ्चिदपाक्रमात् । हनहिसागत्योः इति धातोः स्वार्थे सन्नन्ताल्लङिरूपमेतत् । एवमन्नात्मके रूपेऽपक्रान्ते सति भोक्तृरूपीचतुर्मुखः । सर्वे देवा वायुप्रसादमन्तरा अन्नभोजने अशक्ता एव वायुरेक एव शक्त इति जानन्नपि तारतमयप्रकाशनायलीलयैव तदन्नाख्यं रूपम् । वाचावागभिमानि वह्निदेवतारूपकरणेन अजिघृक्षत् । ग्रहीतुमत्तुमैच्छत् । जिघृक्षावानिव प्रयत्नवानभूदिति यावत् । तदन्नरूपं वाचा ग्रहीतुमत्तं नाशक्नोत् । अशक्त इवाभवत् । कथमशत्रिस्य ज्ञायत इत्यत आह - सयदिति ॥ सब्रह्मयायद्यदि । एनत् अन्नरूपम् । वाचा अग्रहैष्यत् । अत्तुं शक्तिमान भविष्यत् तर्हि । अन्नमभिव्याहृत्यैव अन्नशब्दव्याहरणरूपवाग्व्यापारं कृत्वैव अत्र प्स्यत् तृप्तिमान भविष्यत् । नच तथा तृप्तिमानभूत् । तेन ज्ञायते वाचाग्रहीतुं नाशक्नोदिति । वाचोभिव्याहरणातिरिक्तव्यापाराभावात् । अन्नग्रहणस्य चतृप्तिफलकत्वात् वाग्व्यापारेकृतेपि त-अप्तेरजननाद्वाचान्नग्रहणं न सम्भवतीति भावः । एवमुत्तरत्रापि द्रष्यव्यम् । अभिप्राण्य आघ्राय । अन्नं श्रुत्वा अन्नवाचकशब्दं श्रुत्वा । अन्नं विसृज्यरेतोरूपेण शिश्ऱ्नान्निस्सार्य । अथ तत् अन्नरूपम् ब्रह्मा । अपानेन अपानाख्यप्रधानवायुना । अजिघृक्षत् । तदा आवयत् अशकत् । धातूनामनेकार्थत्वात् वयतिरत्रशकनार्थः । तस्मात् यद्वायुः यो वायुरपानाख्यः सैषः स एषोन्नस्य ग्रहः । सर्वस्यान्नस्य भोक्ता । यत् योवायुरेषोन्नायुर्वै । अन्नस्याभिमानि देवस्य ब्रह्मणोप्यायुर्जीवनहेतुः । अत्रायुरिति बुद्धयाविविच्यान्येषां सुराणां वायुरेवायुश्चेष्याप्रदः । अयतेः गत्यर्थत्वात् । ज्ञानप्रदश्ऱ्च । गत्यर्थस्य ज्ञानार्थत्वात् । नित्यायूरूपमोक्षप्रदश्चेति व्याख्येयम् । स भगवान् ब्रह्मशरीरे देवतानां प्रवेशात् पूर्वमेव ईक्षत ऐक्षतः । किमिति । इदं ब्रह्मादि देजातं मदृते कथं नुस्वस्वकार्यं कर्तुं समर्थं स्यात् न कथमपि । अतोस्य प्रवृत्त्यर्थं ब्रह्मशीरे मया प्रवेष्यव्यमेवेति । पुनः स ईक्षत । कतरेण मार्गेणेदं शरीरं प्रपद्यै पाप्नुयामिति । पुनः स ईक्षत । मदृत इत्यत्राप्यनुवर्तनीयम् । यदि वागादीन्द्रियदैवतैः मां विना स्वतन्त्ऱ्ेणैव अभिव्याहरणादिकं स्वस्वकर्मकृतं स्यात् । अथ तर्हि कोहमिति । अहं विष्णुशब्दवाच्यः कः कथं भवेयम् । विशेषेण सर्वचेष्यकत्वाद्विशिष्यबलवत्त्वात् च मम विष्ण्वभिदा साममनस्यादिति भावः । इत्यैक्षतेति पूर्वेणान्वयः । एवमालोच्य स भगवान् वासुदेवरूपेण एतमेव मस्तकसीमानं विदार्यै तया द्वारासुषुम्नाख्यमूर्धन्यनाडीद्वारा प्रापद्यत प्रविवेश । अत एव सैषा द्वाः द्वारं विदृतिर्नाम । विदारितत्वाद्विदृतिनामकमित्यर्थः । तस्य नामान्तरमप्याह - तदेतन्नान्दनमिति ॥पूर्णानन्दस्वरूपत्वात् नन्दनो भगवान् । तत्सम्बन्धित्वात् तदेतन्नाडीद्वारं नान्दनमित्युच्यते । तस्य भगवत एव पुनस्त्रय आवसथाः स्थानानि । अयमक्षिरूप आवसथ एकः । अयं कण्ठरूप आवसथ एकः । अयं हृदयरूप आवसथ एक इत्येवं त्रय इत्यर्थः । एत एव त्रय आवसथाः स्वप्ना इत्यप्युच्यन्ते । स्वयं विष्णुराप्नेति जीवरूपं जाग्रदाद्यवस्थाप्रेरणायात्रेति । अनिरुद्धप्रद्युम्नसंकर्षणाख्यरूपत्रयं क्रमेण स्थानत्रयेस्थितमिति बोध्यम् । स भगवान् जातोमत्स्यादिरूपेण प्रादुर्भूतः सन्नपि भूतानिसर्वप्राणिनोऽभिव्यैख्यत् । अभितः सर्वकालेषु विशेषेणपश्यत्येव । मूलावतारयोः ज्ञानादिसर्वगुणैः निर्विशषत्वात् । अत्र अभिव्यैख्यदित्यनन्तरं प्राविशदित्यपि ग्राह्यम् । तत्र चैवमन्वय; । स विष्णुः जातोमत्स्यादिरूपेण भुविप्रादुर्भूतः तथारूपान्तरेण भूतानिसमस्तप्राणिजातानि प्राविशच्चेति । कुत इत्यत आह - किमिहेति ॥ इह जगतिमत्तोन्यमसुरनिहन्तारं ज्ञानादिगुणप्रदं च वावदिषत्किंवदेत्किम् । न वदत्येव । विद्वज्जन इति शेषः । तथेहभूतेषु मत्तोन्यं चेष्याप्रदं वदेत्किम् । न वदत्येवेति मत्वा । दैत्यनिग्रहणेच्छया ज्ञानदानार्थं च मत्यादिरूपेण जातः । भूतानि च प्रेरणेच्छयाप्राविशच्चेति पूर्वेणान्वयः । स एष भगवानेतमेवपुरुषं व्यासकृष्णकपिलराघवादिरूपम् । ततमम्परिपूणर्तमं ब्रह्मापश्यत् । अत्राभिव्यैख्यादित्यतो अभिशब्दोनुषज्जते । तथा च अहमेव स्वतन्त्रःपूर्णगुण इति कृष्णराघवादि सर्वावतारूपोपि सर्वदानुभवत्येवेत्यर्थः । अत एव भगवत इन्द्र इति नामेति भावेन तन्निरुच्य दर्शयति - इदमिति ॥ इदं मे स्वरूपम् । अहं गुणपरिपूर्णत्वादिना सर्वदा दर्शमेवेति यतः तस्मादहमिदन्द्रोनामेति भगवतो महिदासस्य वाक्यमिदम् । रङ्गस्त्ववधारणे । यस्मादिदं दर्शनादिदं द्रोहवै नाम भगवांस्तस्मादुक्तनिर्वचनेनेदं द्रंसन्ततं विष्णुमिदं द्र इत्यनुक्त्वा इन्द्रइत्येव परोक्षेण अस्पष्यतया आचक्षते वैदिकाः । कुतः देवाः विष्ण्वाद्या हि यतः परोक्षप्रियाः । दैत्यानां परोक्षं स्यगदर्शनमेव प्रियं देवानाम् । तेन दैत्यानामधःपतनात् । इन्द्र इत्युक्तौ प्रसिद्धेन्द्र एवायमिति मिथ्याज्ञानं तेषां जायते । नत्विदं द्र इत्युक्तौ । अत इदं द्रस्य इन्द्रत्वेन कथनं श्रुत्यादिषु युक्तमिति भावः । अपरोक्षदर्शिनितत्व ज्ञानिनिदेवाः प्रीतिमेवकुर्वन्तीत्यपरोक्षप्रियत्वमपि तेषामस्तीति ज्ञापनायेवशब्दः । अध्यायां ते द्विरुक्तिकृत्यं तु प्रागुक्तमेव अनुसन्धेयम् ॥ इति श्रीमदाननन्दतीर्थभगवत्पादाचार्यविरचित श्रीमन्महैतरेयोपनिषद्भावप्रदीपे द्वितीयारण्यके चतुर्थोऽध्यायः ॥ 2 ॥ 4 ॥
रेतसावनितागर्भेतो बहिः ॥ तत्पित्रासह चान्यत्र य उदैत्सोवताद्धरिः ॥ 1 ॥ अयं नारायणो देवः आदितः पथमं पुरुषे गर्भो भवति । अन्नस्थःसन् । पुरुषेण अन्ने भुक्ते अन्नेन सहितस्तं प्रविशतीति यावत् । तस्मंश्च भुक्तान्ने परिणते सति यदेतद्रेतो जायते तदेत् पुरुषस्य सर्वाङ्गेभ्य; सम्भूतं तेजस्साररूपं तथा तद्रेतः स्थितं यदेतद्रेतो नामकं भगवद्रूपं तदेतत्पुरुषस्य सर्वाङ्गेभ्य; सम्भूतमाविर्भूतं तेज एव । तदेतद्रेतस्तिस्थिमात्मानं स्वरूपं स पुरुषस्थो भगवान् । आत्मेन्येव स्वरूप एव बिभर्ति । तच्चरेतः स्थितं रूपं रेतसा सह स्त्रियां यदा पुरुषस्थितो हरिः स्वयमेव सिञ्चति । अथ तदा एनत् एतत् रेतोगतं रूपं जनयति । मातृशरीरे प्रदुर्भावयति । तत् स्थानान्तरगभनमेव अस्य पुंरेतःस्थस्य प्रथमं जन्म । तत् स्वयोनिप्रविष्यं पौरुषं रेतःस्त्रिय आत्मभूयमात्मभावं गच्छति प्राप्नोति । कथम् । यथा स्वभंगंकरचरणशदिकं तथा । एवं तत् रेतोगत भगवद्रूपं च स्त्रिय आत्मभावं स्त्रीलोहितगतस्वरूपेण एकीभावं संश्ऱ्लेषविशेषरूपं गच्छति । यथा स्वमंगं तथा । तस्मात् । एवं रेतोधारणानन्तरम् । स्वस्य स्वर्गादिपुरुषार्थहेतुभूतपुत्रप्रसवसम्भावनाविषयत्वात् । एनां भार्यां न हिनस्ति न हिंस्यात् । ताडनादिकं न कुर्यात् । पतिरिति शेषः । अथ सास्त्री । अस्य पत्युः सकाशाल्लब्धमत्रगतं स्वगर्भेस्थितं एतमात्मानं पुत्रं भावयति सम्भवायेत् । तथा कृते च अस्य पत्युः सम्बन्धिनी । अत्र स्वगर्भगत पुत्रेगतं स्थिमेतमात्मनां परमात्मानमेव सा भावयति । ततश्च सा पुत्रं पुत्रगतं हरिं च भावयित्रीस्त्री । भावयितव्यासम्भावयितव्या भवति । भर्त्रेति शेषः । स पिताकुमारं जन्मनो अग्रे अधिभावयतीति यत् । तत् पुत्रगतं आतमानं परमात्मानमेव भावयति । पुत्र सम्भावनमपि पुत्रस्थं विष्णुं सम्भावयामीति बुद्धयाकृतं चेत्तद्विष्णु सम्भावनमेव भवतीति यावत् । एतच्च पुत्रस्थविष्णु सम्भावनमेषां लोकानां सन्तत्यै व्याप्त्यै भवति । भावयितुः स्वर्गगतस्यापि पृथिवीलोकेष्वेव अवस्थानमिव भवति । स पुरुषो मृत्वा स्वर्गेगतोपि निखिलपुत्रगतपुण्यभाक्त्वात् पृथिव्यामेव जीवन् साधनानुष्ठाता यथा तथा मन्तव्य इति यावत् । पृथिवीलोकस्यैकत्वेपि प्रदेशबाहुल्यविवक्षया एषां लोकानामिति बहुवचनम् । एतच्च नौपचारिकमित्याह - एवमिति ॥ एवं विष्णुबुद्धया पुत्रसम्भावने कृते इमे लोकाः पृथिवीप्रदेशविशेषा एते नपुंसासन्तताः व्याप्ताह्येव भवन्तीत्यर्थः । तदस्य द्वितीयं जन्म अस्य परमात्मनस्तत् । मातृशरीररात् पृथिव्यां पुत्रगतेन रूपेण प्रादुर्भवनमेव द्वितीयं जन्म । अथ अस्येति तृतीयार्थे । अनेन परमात्मना । सोयमात्मापुत्रगतोरूपविशेषः । अस्य पितृजीवस्य स्वस्ववार्थे । पुण्येभ्यः कर्मभ्यः पुण्यकर्मणि कर्तुं । प्रतिधीयते भूलोके कतिपयकालं निधीयते । अथ अनन्तरमस्य भगवतो अयमितर आत्मा । पितृगतोरूपविशेषः कृतकृत्यो वयोगतः । पितृजीवनिष्ठकृतकृत्यत्वादि नियामकः सन् । पितृजीवेन सह प्रैति प्रकर्षेण गच्छति । लोकान्तरं प्राप्नोति । जीवशरीरं परित्यज्यान् यत्र गच्छतीति वा । स भगवानितो भूलोकात् प्रयन्नेव पुनः पितृजीवेन सहान्यत्र जायते । तदस्य तीतृतीयं जन्म । पितृजीवस्य अन्यत्र यदा पुनः जन्मतदा तच्छरीरे तेन जीवेन सह प्रादुर्भवनमेव भगवद्रूपस्य तृतीयं जन्मेत्यर्थः । उक्तर्थे मन्त्रसम्मतिमाह - तदुक्तमिति ॥ तत् जीवस्य जनने । तदन्तर्गतस्य भगवतोपि जननं भवतीत्येतत् । ऋषिणामन्त्रद्रष्य्रा हयग्रीवरूपेण भगवतोक्तं मन्त्रे प्रतिपादितमित्यर्थः । तमेव मन्त्रमुदाहरति - गर्भ इति ॥ गर्भे अनुगर्भ एव सन् वर्तमानो हमेषां देवानां विष्ण्वादीनाम् । विश्ऱ्वाविश्ऱ्वानिसमस्तानि । जनिमानि जन्मानि । अहमिति क्रियाविशेषणम् । दुःखादि हेयरहितत्वेनैव । अन्ववेदं व्यजानम् । पुरःपूर्णाः । आयसीरायस्यः । विशेषतो ज्ञानिन्यः । शतं शतसङ्खयाकाः ता एव विष्ण्वाद्यादेवताः मां अरक्षन् । अध अथ देवैरक्षितत्वादेव । अहंश्येनः आनन्दज्ञानादिपूर्णत्वात् श्योविष्णुः स एवेनः स्वामीयस्यासौ तथोक्तः सन् विष्णुं स्वामिनं ज्ञात्वेत्यर्थः । जवसावेगेन निरदीयम् । मातुरुदरान्निर्गत्यगर्भमतीतोस्मीत्यथर्ः । न पुनः गर्भवासं प्राप्त्यामीति निश्चित्येत्थमुक्तिः । एष्यत्तुनिश्चितं यत्तदतीतत्वेन भण्यत इति वचनात् । इत्युक्तमिति पूर्वेणान्वयः । एतद्वाक्यं कस्येत्याकांक्षायामाह - गर्भ इति । गर्भ एव शयानोवामदेवो नाम ऋषिरेतदेवमुवाच । एतद्विद्यावेत्तुः फलमाह - स इति ॥ एवं विद्वान् यः सोधिकारी अस्माच्छरीरभेदात् शरीरविशेषात् । चरमदेहादिति यावत् । ऊर्ध्वःसन् उत्क्रम्य । ब्रह्मनाड्यात्क्रान्तो भूत्वेति यावत् । अमुष्मिन् स्वर्गे लोके आनन्दरूपविष्णुस्थान भूते वैकुण्ठादावमृतो मुक्तस्सन् योग्यान् सर्वान् कामानाप्त्वा स्वीकृत्यतान् समभवत् नित्यमनुभूङ्क्त इत्यर्थः । द्विरुक्तिरुक्तसर्वार्थावधारणार्था ॥ 1 ॥ इति श्रीमदानन्दतीथर्भगवत्पादाचार्यविरचित श्रीमन्महैतरेयोपनिषद्भाष्यभावप्रदीपे द्वितीयारण्यके पञ्चमोध्यायः ॥ 2 ॥ 5 ॥
पूर्णानन्दतमं सर्वप्रेरकं सर्वनायकम् ।
मोक्षदं भोगदं चैवमुकुन्दं भजमे मनः ॥ 1 ॥
अयमात्मा विष्णुः कः किं लक्षणक इति वयमुपास्महे इति रमादेवीमहिदासं अपृच्छदिति शेषः । इति देव्यापृष्यः स भगवान् प्राहेति च । किमिति । कतरः स आत्मेति ॥ स आत्मा विष्णुः कतरः आनन्दतमः । स च पूर्णानन्दोस्य आत्मास्वभाव एव न त्वागन्तुको धर्म इत्यर्थः । लक्षणान्तरण्याह । येन वेत्यादिना । अयं रमाब्रह्मादि चेतनसमुदायो येन यत्प्रेरणया पश्यति रूपादिकम् । येन वा ृणोति शब्दान् । येन गन्धानाजिघ्रति । येन वाचं लौकिक वैदिकशब्दरूपां व्याकरोति व्याहरति । येन स्वादुचास्वदुचविजानाति । उपलक्षणमेतत् सर्वेन्द्रियव्यापारांश्च करोतीति ग्राह्यम् । स आत्मेति पूर्वेणान्वयः । सर्वदर्शनादिकारणत्वस्य प्रत्येकं लक्षणत्वज्ञापनाय सर्वत्रवाशब्दः । एवं विष्णोः लक्षणान्युक्त्वा उपासनार्थं नामान्यप्याह - यदित्यादिना ॥ ज्ञातृत्वाद्यत् । सन्निहितत्वादेतत् । हृद्ययनाद्धृदयम् । मन्तृत्वान्मनः । गुणोच्च यदा तृत्वाच्चः । पूर्णत्वादा । भक्तैरितत्वात् ततत्वाच्चैतत् । सम्यग्ज्ञानस्वरूपत्वात् संज्ञानम् । आसमन्तात् सर्वविषयकज्ञानरूपत्वादाज्ञानम् । विविधानरूपत्वाद्विज्ञानम् । प्रकृष्यस्वगुणज्ञानरूपत्वात् प्रज्ञानम् । अविस्मृतित्वात् मेधा । दर्शनरूपत्वात् दृष्यिः । धारणरूपत्वात् धृतिः । मा सुप्रमाणेषु ततत्वान्मतिः । मनुनाम्नां ब्रह्मादीनामीशोमनीषा । सर्वप्रेरकत्वात् जूतिः । सर्वदासर्वत्र सर्वरूपेषु समं रमत इति स्मृतिः । संसर्वस्य क्लृप्तिरूपत्वात् संकल्पः । सर्वकर्तृत्वात् क्रतुः । दोषाणामसनादसुः । अमितानन्दत्वात् कामः । स्वतन्त्रत्वादवशः । इत्येतानिसर्वाण्येव त्रयोविंशतिनामानि प्रज्ञानस्य प्रज्ञानरूपस्य भगवतो नामधेयानि भवन्ति । एवं त्रयोविंशतिनामक भगवदुपासकस्य किं फलमित्यतोन्तेवक्ष्यमाणं स एतेन प्रज्ञेनात्मनेति फलवाक्यमत्रापि योजनीये । पुनः लक्षणान्तरं वक्तुमाह - एष ब्रह्मेत्यादिना॥ एष ब्रह्मा एष इन्द्र एष प्रजापतिः शिवः । एते सर्वे देवाः दक्षादयः । इमानि पञ्चमहाभूतानि । कानितानि । पृथिवीवायुराकाश आपोज्योतींषीत्येतानि । इमानि च क्षुद्रमिश्राणि । क्षुद्रण्यल्पानि च तानि मिश्राणि पुण्यपापमिश्रितानि चेति तथोक्तानि । इतराणि देवेभ्योन्यानि च मानुषप्राणिजातानि । इतराणि च देवमानुषभिन्नान्यसुरादि प्राणिजातानि । तथाण्डजानि पक्षिजातानि । जारुजानि जरायुजानि मानुषादीनि । स्वेदजानिमत्कुणादीनि । उद्भिज्जानि वृक्षादीनि । तथा देवादीनां मन आदि जाता अश्ऱ्वागावः पुरुषा हस्तिनः । यत्किञ्चेदं प्राणिशिलाकाष्ठादिकम् । तथा जङ्गमं गमनकर्तृ । पतत्रिपतनकर्तृ । यच्चस्थावरं स्थिरं प्राणिजातम् । सर्वेषामप्येषां विशेषणम् । बीजानीवेति । शाल्यादि बीजवद्भिन्न स्वभावानीत्यर्थः । तदेतत्सर्वं प्रज्ञानेत्रे । प्रज्ञात्मकं ब्रह्मनेत्रं नेतृयस्यतत् तथोक्तम् । दाम्नीति सूत्रान्नयतेःष्य्रन् । प्रज्ञाने प्रज्ञानरूपे ब्रह्मण्येव प्रतिष्ठितम् । अलोकः प्राकृतदेहशून्यः । अमुक्तैरनवलोक्यो वा । योयं मुक्तसमुदायः सोपि प्रज्ञानेनः । ब्रह्मनेतृक एव । प्रज्ञाप्रज्ञारूपं ब्रह्मा । स्वयं चानन्याश्रयत्वात् प्रतिष्ठाशब्दवाच्यम् । प्रज्ञानं प्रज्ञानात्मको विष्णुरेव देशतः कालतो गुणतश्च अपरिच्छिन्नम् । प्रज्ञाने अत्रोऽलोक इत्यस्यैव व्याख्यानम् - स एतेनेति ॥ ससकलकर्मबन्धान्मुक्तो अलोकशब्दोक्तः पुरुष एतेन प्रज्ञेनप्रकृष्यज्ञानेन आत्मनाविष्णुनाप्रेरितः सन्नेवास्माल्लोकाच्च रमदेहादुत्क्रम्य विष्णुलोकं गत्वा अमुष्मिन् स्वर्गेलोके वैकुण्ठादौ तेनैव प्रज्ञात्मनाऽमृतः सन् सर्वान् कामानाप्त्वातेनैव सवर्ान् कामान्समभवत् भुङ्क्त इति ॥1॥
इति द्वितीयारण्यके षष्ठोध्यायः ॥ 2 ॥ 6 ॥
मे मम वाक् वार्गिन्द्रियं वाणी वा । मनसि अवबोधरूपे विष्णौ प्रतिष्ठिता । तद्विषयिण्येव भवतु । मनश्चमनोनामा स भगवान् मे मम वाचिप्रतिष्ठितमस्तु । वाग्विषयो भवतु । प्रार्थने प्रकारमात्रभेदोयम् । तात्पर्यं त्वेकमेव । आदरातिशयादेव हि पुनः प्रार्थनम् । एवं परोक्षं प्रार्थयित्वा अपरोक्षं प्रार्थयते । आविरिति । हे भगवन् । मे मम त्वमाविरेधि आविर्भव । अपरोक्षविषयो भव । आवीरेधि अतिशयेन अविर्भव च । आविर्भावं च वाय्वधिष्ठाने प्राप्नुहीति भावेन सम्बोधयति - वेदस्येति ॥ मे मदुपास्य । हे वेदस्याणीस्थ । सर्ववेदसमुदायाधारप्राणस्थित विष्णो मे मम । श्रुतमधीतं मा प्रहासीः मात्यज । मदधीतशास्त्रजन्य यथार्थज्ञानविषय एव सर्वदा भव । कदापि विस्मृतो मा भवेत्यर्थः । एतत्प्रार्थनानुकूल्येन एव वेदस्य म आणीस्थेति सम्बोधनम् । अन्यथा प्राणस्थेत्येवावक्ष्यत् । हे विष्णो अनेन त्वद्विषयेणैव अधीतेन अहोरात्रान् सन्दधामि । सर्वाहोरात्रेष्वपि त्वद्विषयमेव अध्ययनं कुर्यामिति यावत् । ऋतं पूर्वावगतवत्सदास्थितं शश्ऱ्वदेकप्रकारं त्वां वदिष्यामि । शिष्येषु वदेयम् । तथा सत्यं साधुगुणैस्ततं सर्वनियन्तारं च त्वां वदिष्यामि । वदेयमित्यर्थः । एवमपरोक्षं प्रार्थयित्वा पुनः परोक्षं प्रार्थयते - तन्मामिति ॥ तद्विष्णवाख्यं ब्रह्ममामध्येतारं शिष्यमवतु । वक्तुः गुरोरभावे अध्ययनस्यैव अभावापत्तेः तद्ब्रह्मवक्तारं गुरुमप्यवतु । तात्पर्यातिशयेन पुनरिदमेव प्रार्थयते । अवतु मां अवतु वक्तारमिति ॥ 1 ॥ इति श्रीमन्महै. द्वि.प्रघट्टके सप्तमोध्यायः ॥ 2 ॥ 7 ॥ इति द्वितीयारण्यकं सम्पूर्णम् ॥
विष्णुनामार्थरूपाणां वेदानां संहितात्मनाम् । लौकिकानां च शब्दानां मुख्यवाच्यं हरिं भजे ॥ 1 ॥ अथेति मङ्गलार्थे । द्वितीयप्रघट्टकप्रतिपाद्यनिरूपणानन्तयार्थे च । विद्यान्तरारम्भार्थे वा । अतः महाफलसद्भावात् । संहितायाः विष्णु नाम संहितायाः तद्वयाख्यानभूतसर्व वैदिकशब्द हितायाः तदभिन्नलौकिकशब्दसंहितायाः । उपलक्षणमेतत् । तत्तत्संहितागतसर्ववर्णानां च । उपनिषत् रहस्यं भगवद्रूपवाचकत्वरूपम् । निरूप्यत इति शेषः । पृथुत्वात् पृथिवीनामकम् । पृथिवीस्थितं हरेरूपं पूर्वरूपं पूर्ववर्णदेवता । क्रीडनात् द्युनामकं द्युस्थितं हरेरूपमुत्तररूपमुत्तरवर्णदेवता । वायुः वेदकत्वात् अयनत्वाच्च वायुनामकं रूपं संहिता । वर्णयोः मध्यदेवता । पूर्वोत्तरवर्णदेवता भूतरूपद्वयहितत्वात् संहितानामकं चेति माण्डूकेयो नाम ऋषिराह । आकाशः आसमन्तात् काशनादाकाशनामा आकाशस्थो भगवान् संहिता । वणर्योः मध्य देवतेति माक्षव्योनाम ऋषिः अस्य वेदयाञ्चक्रे । एनं माण्डूकेयं प्रतिबोधयामास । सह माण्डूकेयः तेन माक्षव्येणाविपरिहृतो अपरिहृतो न निराकृतः स्वपक्ष इति मेनेकथं न निराकृतः । मे मदीयेन मदुपासितेन अस्याकाशस्य पुत्रेण वायुनासौ माक्षव्यो न समागात् । सङ्गतो नामूत् । वायुस्थविष्ण्वनुपासनात् । नहि वायुः संहितेत्यनुपासनमात्रेण वायुस्थस्य संहितादेवतात्वं तेन निराकृतं भवति इति हेतोः न मत्पक्षोऽनेननिराकृत इति मे न इति पूर्वेणान्वयः । स्वोक्तं पक्षं परित्यज्य पक्षान्तरमवलम्बमानेन माक्षव्येण निराकृत प्राय एव अयं पक्ष इत्यत आह - समानेवैतदिति ॥ तत् ते उपासने समाने अविरुद्धे वै । आकाशस्थवायुस्थयोरुभयोरपि रूपयोः संहितात्वोपपत्तेरिति भावः । प्रकारान्तरेणानयोः मतयोः साम्यमभिप्रेत्य तत्राकाशसंहितात्वपक्ष एव बलवानिति पूर्वपक्षं तावदागस्त्यमतानुसारेणोत्थापयति - परिहृतो मे न इत्यागस्त्या इति ॥ माण्डूकेय पक्षोनेन मोक्षव्येण परिहृत एवेत्यहं मेनेमन्य इत्यागस्त्य आह । एवं मन्तुरागस्त्यस्यायमभिसन्धिः । आकाशो हि वायोः पिता आकाशाद्वायुरिति श्रुतेः । पिता च पुत्रादुत्तमः । अत आकाश एव विष्पासनमधिकफलं न वायाविति । एवं पूर्वपक्षयित्वा भगवान् स्वसिद्धान्तमाह - समानमिति ॥ एतत् वायुराकाशश्चेति द्वयं समानं ह्येव भवति । त्वगिन्द्रियदेवतात्वेन अकाशदेवता विनायकोत्पत्तेः पूर्वमेव वैकारिकाहंकारजातत्वात् वायोराकाशाद्गुणाधिख्येऽपि भूतकोटौ पुनराकाशादेव वायोरुत्पन्नत्वात् अकाशस्य वायुपितृत्वादपेक्षयात् आशगुणव्याप्त्याधिक्याच्चोभयोः उपासनास्थानत्वेन साम्याङ्गीकारोपपत्तेः । अत उभावपि पक्षौ ग्राह्यावेवेति भावः । इत्यधिदैवतम् । संहिताया उपनिषन्निरूपितेति शेषः । अध्यात्मम् । सानिरूप्यत इति शेषः । वाक् वाचिस्थितं वक्तृत्वाद्वाङ्मामकं भगवद्रूपम् । पूर्वरूपं पूर्ववर्णप्रतिपाद्यम् । मन्तृत्वात् मनोनामकं मनःस्थितं रूपपमुत्तररूपम् । उत्तरवर्णप्रतिपाद्यम् । प्राणःप्राणनात् प्राणनामा प्राणस्थितो भगवान् संहिता सन्धिदेवतेति शूरवीरोमाण्डूकेयोमन्यते । अत्र वाक् वागिन्द्रियं पूर्वरूपं प्रधानं मनोन्तःकरणमुत्तररूपमप्राधानमित्यर्थान्तरमपि विवक्षितं बोध्यम् । अथेति पक्षान्तरे । अस्य शूरवीरमाण्डूकेयस्य ज्येष्ठः पुत्र आह - किमिति । मनःपूर्वरूपं वागुत्तररूपम् । अत्रापि पूर्ववदर्थद्वयं विवक्षितम् । तत्रास्तु पूर्वोत्तरवर्णदेवतयोः पूर्वमतव्युत्क्रमः । उभयोरप्युभयदेवतात्वोपपत्तेः । जडयोः वाङ्मनसयोः इन्द्रिययोः गुणप्रधानभावे पूर्वमतव्यत्यासः कुत इत्यत आह - मनसेति ॥ मनसा वा अग्रे प्रथमतः संकल्पयति । अथवा चाव्याहरति । तस्मात् मन एव पूर्वरूपं प्रधानम् । वागिन्द्रियं चोत्तरमप्रधानमित्यर्थः । संहिताविषये तु नैवं विप्रतिपत्तिरः अस्तीत्याह - प्राणस्त्वेव संहितेति ॥ पूर्ववदेव व्याख्यानम् । अत्रापि मतद्वये किमुभयोः साम्यमुतैकस्य प्राबल्यमन्यस्य दौर्बल्यमित्यतः स्वयं भगवानाह - समानमिति ॥ अत्र प्राणाख्यस्य प्राणस्थितस्य विष्णोः संहितानामकत्वे पितुश्च पुत्रस्य चेत्येतयोः समानं समानत्वमेव । उभाभ्यामपि प्राणसंहितात्वाङ्गीकारात् । वाङ्मनसयोः अन्योन्यपूर्वोत्तररूपत्व विषये तु पुत्रपक्ष एव बलीयान् । मनसा वा अग्रे संकल्पयतीति युक्तेरुपन्यः तत्वादिति वाक्यशेषः । अध्यात्मसंहितोपनिषत् कथनप्रसङ्गाद्देहस्य विष्णुरथत्वमप्यनुसन्धेयम् । सर्वदा अध्यात्मप्रवणषनेत्यभिप्रेत्याह - स एष इति ॥ अश्ऱ्वयुक्तश्चासौ रथश्चेत्यश्ऱ्वरथ इति मध्यमपदलोपीसमासः । स एष देहाख्यो रथ इन्द्रियाख्याश्ऱ्वयुक्त इत्यर्थः । पृच्छतीयत्वात् प्रष्यिः परमात्मा तस्य वाहनोवाहकः । मनोवाक्प्राणसंहतः मन आदिस्थितमन आदिनामक भगवतासंहतः सम्बद्धश्चेत्यर्थः । एतद्विद्यावेत्तुः फलमाह - स य इति ॥ य उपासक एव मुक्तप्रकारेणैतां संहितां संहितानामकं भगवन्तं वेदस स्वर्गेण लोकेन वैकुण्ठादिमुक्तिस्थानेन विधीयते । मुक्तो भवतीति यावत् । तत्र प्रजाया प्रकष्यज्ञानेन । पशुभिः वेदैः यशसा ब्रह्मवर्चसेन । विष्णुप्रसादात् सम्यगुपचायितस्वरूपतेजसा च सन्धीयते । सर्वं नित्यमायुश्चैति प्राप्नोति । लौकिक प्रजादीच्छुश्ऱ्चेत्तादृशप्रजादिनापि यथायोग्यं सन्धीयते । सर्वं पूर्णमायुश्चैतीत्यपि व्याख्येयम् । इति नु एवं हि माण्डूकेयानां सम्बन्धिन्यः तदुपासिताः विद्या इति शेषः ॥ 1 ॥
अथ माण्डूकेयोपासितविद्यानिरूपणानन्तरम् । शाकल्यस्य शाकल्यसम्बन्धिनीतदुपासिता विद्यानिरूप्यत इति शेषः । पृथिवी पृथिवीस्थितं पृथिवीनामकं वासुदेवाख्यं रूपं पूर्वरूपं पूर्ववर्णप्रतिपाद्यम् । द्यौस्तन्नामकं द्युस्थं संकर्षणाख्यं रूपमुत्तरूपं उत्तरर्णप्रतिपाद्यम् । वृष्यिः वर्षणाद्बृष्यिनामकं वृष्यिस्थितं प्रद्युम्नाख्यं रूपं सन्धिः संहिता देवता सन्धिनोति सम्यक् पुष्णाति भक्तानिति सन्धिनामकं च पर्जन्यः परसस्यादि जनकत्वात् पर्जन्यनामा पर्जन्यस्थो भगवाननिरुद्धः सन्धाता सम्यग्धारणात् सन्धातृनामकोच्चारयितृपुरुषस्थः स्वयं च सम्यग्धारणात् द्यावापृथिव्योः वृष्यिरूपसन्धानकर्तृत्वाच्च सन्धातृनामेत्यर्थः । वृष्येः सन्धित्वं पर्जन्यस्य सन्धातृत्वं च कुत इत्यतो लोकव्यवहारसिद्धत्वादित्याह - तदुतापीति ॥ तदुत तच्च वृष्येः सन्धित्वं पर्जन्यस्य सन्धातृत्वं च अपि सम्भावितमेव । कुतः यत्र यदा । एतत् एष पर्जन्यः बलवद्यथा भवति तथा अनुगृह्णन् अनुकूलतयोच्चैः गृह्णन् सामुद्रोदकं स्वोदरे स्वीकुर्वन् अहोरात्रे सन्दधत् अभिव्याप्यवर्षति । तदा द्यवापृथिव्यौ समधातामिति । उतापि अद्यापि जना अहुरित्यर्थः । इति न एवं प्रकारेण हि अधिदैवतं निरूपितम् । अथाध्यात्मं निरूप्यते । अयं सर्वः पुरुषः समग्रः पुरुषदेहानन्दं एकोवयवी । तस्य देहस्य द्वेविदले विभागौ भवत इत्याहुः । तस्य देहस्येदमेव अधराधर्मेव पृथिव्यारूपम् । पृथिवीप्रतिनिधिरिति यावत् । अधोभागस्थितत्वात् पृथिव्याः पृथिवीदेवतायाः प्रतिमारपं च । इदमुत्तरार्धं दिवः । रूपमिति वर्तते । दिवः प्रतिनिधिरिति यावत् । ऊर्ध्वभागस्थित्वात् । दिवोद्युदेवतायाः प्रतिमारूपं च । अत्र वागेववृष्येः आत्मापर्जन्यस्य इत्यपि ग्राह्यम् । अस्मिन्नुत्तरार्धे वागेव वृष्येरूपं वृष्यि प्रतिनिधिः । वृष्यिदेवतायाः प्रतिमा च । आत्मा उच्चारकजीवः । पर्जन्यस्य रूपं प्रतिनिधिः । प्रतिमाचेत्यर्थः । अत्र पृथिवी द्युवृष्यिपर्जन्यशब्दैः वासुदेवादिरूपचतुष्ययं च क्रमेण तत्तदन्तर्गतं मुख्यतो वाच्यं बोध्यम् । अथ देहस्योक्तं पृथिवीद्युसाम्यं सामस्त्येनोपपादयति - तत्रेति ॥ तत्र देहेयोयमन्तरेण पूर्वोत्तरार्धयोः मध्ये आकाशो वर्तते । सोयं द्यावापृथिव्यावन्तरेण । तयाः मध्ये वर्तमान आकाशो यथा तथा तत्प्रतिनिधिः ज्ञेयः । किञ्च तस्मिन् प्रसिद्धे । अस्मिन् आकाशे । अन्तराकाशे प्राण आयत्तः अधिष्ठितोह । हास्मिन्निति भवितव्ये सवर्णदीर्घलोपः छान्दसः । सच प्राणोऽमुष्मिन् बहिराकाशे यथा वायुरायत्तोधिष्ठितः तथा ज्ञेयः । तयोरैक्यात् । वायुस्थितदाकाशरथिरूपाधिष्ठानत्वाच्च । अपि च अमूनिबहिः स्थितानि त्रीणिरूपाणि ज्योतींषि यथा एवं पुरुष देहेपि इमानि त्रीणि ज्योतींषसिन्निहितानि । कान्यमूनित्रीणिज्योतींषिकानि च इमानीत्यतो विविच्य दर्शयति - यथेति ॥ यथा दिव्य सावादित्य आदित्याख्यं ज्योतिरेवं पुरुष देहे शिरसि इदं चक्षुः तदाख्यं ज्योतिः । चक्षुष आदित्याधिष्ठानत्वादादित्याधिष्ठातृलाधिष्ठानत्वाच्च तयोः साम्यं बोध्यम् । यथा चान्तरिक्षे असौ विद्युत् । एवं आत्मनि देहे इदं हृदयं हृदयाख्यं ज्योतिः ज्ञेयम् । हृदयस्य विद्युद्देवताधिष्ठानत्वाद्विद्युदधिष्ठातृ हंसरूपाधिष्ठानत्वाच्च तयोः साम्यम् । यथा पृथिव्यामयमग्निरेव मुपस्थे इदं रेतः रेत आख्यं ज्योतिः । रेतसोग्न्यधिष्ठानत्वात् तदधिष्ठातृपरशुरामाधिष्ठानत्वाच्च । एवमुक्तप्रकारेण सर्वलोकं लोकत्रयरूपमात्मानं पुरुषदेहमेव अनुविधाय अनुसन्धाय । आहशाकल्यः । किमिति - इदमेव पृथिव्या रूपमिदं दिव इति ॥ स य एवमेतामित्यादि पूर्ववदेव ॥ 2 ॥
अथ अतः मोक्षादिफलसद्भावात् । निर्भुजप्रवादाः संहितापदक्रमविषयाः प्रकृष्यवादाः । कथ्यन्ते । तत्र निभर्ुजं भञ्जनरहितत्वान्निर्भुजशब्दवाच्यासंहिता । पृथिव्यायतनं पृथिवीस्थित पृथिवीनामक वराहदेवताका । प्रतृण्णं पदं दिव्यायतनम् । दिविस्थितो द्युनामावामनो हरिरायतनं यस्येति अलुक् समासः । अथवा दिव्योद्युस्थितो वामन आयतनं यस्येति विग्रहः । उभयमन्तरेणेति क्रमनाम । तत् अन्तरिक्षायतनं अन्तरिक्षस्थितान्तरिक्षनामक नृसिंहदेवताकम् । तस्मादेतज्ज्ञानपूर्वक संहिताद्यध्ययनकर्ता पूज्य एव न निन्दनीय इत्युपस्कर्तव्यम् । अथेति पक्षान्तरे । यद्येनं निर्भुजं ब्रुवन्तम् । संहितामधीयानं विष्णुभक्तं कश्चित् मानुष उपवदेत् निन्द्यात् । तर्ह्य वराभ्यां पृथिव्यन्तरिक्षाभ्यां स्थानाभ्यां अच्योष्ठाः च्यतोसीत्येनं ब्रूयात् । अधीयान इति शेषः । विष्णुभक्तनिन्दा असहिष्णुरन्यो वा । अथ यद्येनं प्रतृण्णं पदं ब्रुवन्तं उपवदेत्तर्ह्युत्तराभ्यां स्थानाभ्यामन्तरिक्षद्युभ्यामच्योष्या इत्येनं निन्दकं ब्रूयात् यस्तूभयमन्तरेण अहक्रममधीते तस्योपवादोनास्त्येव । तन्निन्दनस्य नरकाद्यनर्थहेतुत्वात् अतिदुष्यत्वेन सर्वथा तन्निन्दनं न कुयर्ादिति भावः । ज्ञानपूर्वकं विष्णुनामोच्चारणादेव समस्तवैदिक संहिताध्ययनफलं लभ्यत इत्याशयेनाह - यद्धीति ॥ विष्णुनाम्नियद्यदिसन्धिं षणयोः मेलनं विवर्तयति विशेषेण वर्तयति । तत्तर्हि तदेवनिर्भुजस्य रूपं समस्तवैदिकसंहितारूपम् । तदध्ययनफलप्रदमिति यावत् । अथ यद्यदि तत्र वीत्यनन्तरं शुद्धे अमिलिते अक्षरेषणुरिति वर्णे अभिव्याहरति । तर्हि तत् प्रतृण्णस्य पदस्य रूपं समस्तपदाध्ययनफलप्रदमिति यावत् । उभयमन्तरेण । क्रमस्तु अग्र एव । अग्य्र एव संहितापदाभ्यां श्रेष्ठ एव । कुतः क्रमेण उभयं सन्ध्युक्तिः विभागेनोक्तिश्चेति द्वयं व्याप्तं गर्भीकृतं भवति यतस्तस्मात् । ततश्च विष्णुः विषणुरित्युभयथापि वचनात् समस्तक्रमाध्ययनफलं भवतीति भावः । अथवा संहितापदक्रमस्वरूपं निरूपयति - यद्धीति ॥ पूर्वोत्तरवर्णयोः सन्धिं विवर्तयतीति यत् तन्निर्भुजस्य रूपं स्वरूपम् । अथ यच्छुद्धे अक्षरे अमिलितवर्णात्मकपदे अभिव्याहरति । तत्प्रतृण्णस्य रूपम् । येन निर्भुजं प्रतृण्णं चेत्युभयं व्याप्तं भवति । स एवोभयमन्तरेण क्रम इत्युच्यते । सत्वग्र एव अग्य्र एवेत्यर्थः । संहिताध्ययनफलं विविच्याह - अन्नाद्यकाम इति ॥ योमोक्षे अन्नादिभोगबाहुल्यकामः सनिर्भुजं विष्णुरिति संहितानाम ब्रूयात् । स्वर्गकामोमोक्षकामः प्रतृण्णं विषणुरिति पदात्मकं नाम ब्रूयात् । यस्तु मोक्षतद्भोगोभयकामः स उभयमन्तरेण विष्णुर्विषणुरिति द्विधरपि ब्रूयादित्यर्थः । अथावा विष्णुनामार्थभूतत्वात् सर्ववेदस्थिता अपि संहिता पदक्रमाः विष्णुप्रतिपादका एव । अतस्तत्संहिता पदक्रमाध्ययनफलमेव एतत् संहिताद्यध्ययनफलं मन्तव्यमित्याह - अन्नाद्यकाम इति ॥ अत्र निर्भुजादिशब्दाः सकलसंहितादिपराः । संहिताद्यध्येतृनिन्दने कृते मनुष्यमात्रं प्रतिबुवणप्रकारः प्रागुक्तः । इदानीं असुरप्रकृतिकं प्रतिब्रुवणप्रकार उच्यते - अथयद्येनमित्यादिना ॥ यद्येनं निर्भुजं ब्रुवन्तं परः सर्वशत्रुरसुरप्रकृतिरुपवदेत् तर्ह्यनं प्रतिब्रूयात् । किमिति । मयाधीयमानस्य निर्भुजस्य या पृथिवीस्थापृथिवीनाम्नी वराहाख्यादेवता । तामेवत्वं आरः दूषितवानसि । धातूनामनेकाथर्त्वात् । दूषणार्थात् ऋधातोः लुङिरूपमेतत् । तद्देवताकनिर्भुजाध्ययनकाले क्रियमाणस्य मद्दूषणस्यापि तद्दूषणरूपत्वात् । तस्मात् सा पृथिवी देवतात्वात्वां रिष्यति । रिषहिंसायाम् । अन्तर्णीतण्यर्थोयम् । नाशयिष्यति । अन्धे तमसि पातयेदिति । अथ यद्येनं प्रतृण्णं ब्रुवन्तं पर उपवदेत् तर्हि दिवं देवतां वामनाख्यां त्वमारस्तस्मात् साद्यौः देवतात्वां रिष्यरित्येनं ब्रूयात् । अथ यद्येनं उभयमन्तरेण क्रमं ब्रुवन्तं पर उपवदेत् तर्हि अन्तरिक्षदेवतां नृसिंहाख्यामारस्तस्मात् सा अन्तरिक्षदेवतात्वां रिष्यतीत्येनं ब्रूयादिति । ननु निन्दकेन निन्दायां कृतायामपि ज्ञानिनोद्वन्द्वसहिष्णुतया तत्सोढव्यमेव । तत्कुत एवं प्रत्युत्तरं दातव्यमित्यत आह - यथातु कथाचेति ॥ लोकेयथा वादिप्रतिवानिः कथाप्रवृत्ताचेत् तत्र वाद्युत्तरस्य प्रतिवानि प्रत्युत्तरं दीयत एव न तूष्णीं भाव आश्रियते एवं प्रकृतेपीत्यर्थः । निन्दादि सहनं तु केवलात्मनिनदादिविषयम् । इदं तु देवताविषयं च भविष्यति । देवतास्तुतिकाले क्रियमाणस्य निन्दादेः स्तुत्यदेवताद्रेहरूपत्वात् । अतो न तत्सोढव्यमिति भावः । ननु निन्दकं प्रतित्वादेवतारिष्यतीत्यादि ब्रुवणविधानं व्यर्थम् । ब्रुवणमात्रस्य अप्रयोजकत्वादित्याशंक्योक्त प्रकारेण ज्ञानवता प्रयुक्तं वाक्यं न जातुमोघं भवितुमर्हतीत्याह - ब्रुवन्निति ॥ संहिताद्याः श्रुतिततीः ब्रुवन् अधीयानः वाशब्दात् अब्रुवन् वा पुमान् । बुवन्तं निन्दन्तम् । वाशब्दात् निन्दन्तं वा । प्रकारान्तरेण स्वद्रोहं कुर्वाणमिति यावत् । यं कञ्चित्पुरुषं प्रति । यत् शापरूपं वचनं ब्रूयात् । तत् वचनमभ्याशमेव समीपत एव क्षिप्रमेवेति यावत् । तथैव सत्यमेव स्यात् । न जातुमोघमित्यर्थः । निन्दकमात्रं प्रत्येवं शापप्रदानप्रसक्तौ तत्र विशेषमाह - नत्विति ॥ ब्राह्मणं ब्रह्मप्राप्तियोग्यं प्रतिकपुलशलादन्यत् अकुशलं तस्यानर्थकारिवचनं नैव ब्रूयात् । अयोग्यजनान् प्रत्येवैवं ब्रूयान्नतुमोक्षयोग्यान् प्रतीति भावः । तत्राप्यपवादाह - अतिद्युम्न इति ॥ द्युतिस्वरूपत्वात् द्युम्नो विष्णुः तदा ज्ञातिकम्रमी अतिद्युम्नः । विष्ण्वाज्ञारूप श्रुतिस्मृत्युदित धर्मोल्लङ्घनकाति यावत् । तथा च तस्मिन् अतिद्युम्ने सत्येव तं ब्राह्मणं मोक्षयोग्यं पुरुषं प्रतिशिक्षार्थं लोकच्युतो सीत्येव ब्रूयात् । न तु लोकच्यतो भवेति नातिद्युम्ने च न समासोयम् । भगवदाज्ञानुवर्तिनिसति तु तादृशं ब्राह्मणं मोक्षयोग्यं प्रतिनैवं ब्रूयात् । अतो ब्राह्मणानां शापाविषयत्वात् मान्यात्वाच्च ब्राह्मणेभ्यो नमो अस्त्विति शूरवीरोमाण्डूकेय आहस्म । अत्र नमो अस्त्विति एङः प्रकृतिभावश्छान्दसः ॥ 3 ॥
अथातोनुव्याहाराः आत्मनोज्ञानसामर्थ्यानुसारेण भगवदुपासनाविषय एवोपासकस्याशक्त्यादिदोषं वदन् तं प्रति वक्तव्याव्यवहाराः प्रदर्श्यन्ते । तदर्थमेकामुपासनां तावदाह - प्राण इति ॥ प्राणोविष्णुर्वायुश्च । सर्वाधारत्वाद्वंशोवंशस्थानीय इति विद्यात् । उपासीत । स प्रसिद्धोयः पुमान् वंशं प्राणं प्रतिस्थितं तदुपासकमेनं उपासवेत् प्राणप्रीतिसम्पादने त्वं न शक्नोषीत्यादिरूपेण निन्देत् तर्हि तमेनं निन्दकं प्रत्ययं प्राणोपासको ब्रूयात् । यद्यात्मानं शक्नुवन्तं ज्ञान सामर्थ्ययुक्तं मन्येत । देवद्युत्तमाधिकारीचेदिति यावत् । किमिति । अहं प्रमाणं वंशंसमधां सन्दधानोऽभवम् । विष्णुवायुप्रियतां सम्पादितवान् अस्मीति यावत् । एवं प्राणं वंशंसन्दधतं मा मां त्वं प्राणप्रीति सम्पादनेन शक्नोषीत्याह आत्थ । अतोवंशः प्राणस्त्वात्वं हास्यति इहामुत्रच परित्यजतीति । अथ यद्ययं प्राणोपासक आत्मानमशक्नुवन्त अल्पज्ञानशक्तिमन्तं मन्येत । गन्धर्व पित्राद्यल्पाधिकारी चेदिति यावत् । तर्ह्येनं निन्दकं प्रति ब्रूयात् । किमिति । प्राणं वंशंसमधित्सिषन्तं प्राणेन सन्धिमिच्छन्तम् । प्राणप्रीति सम्पादनोद्योगिनमिति यावत् । मां सन्धातुं नाशकः मया सहसन्धानं कर्तुं नाशकः । मम प्रीतिं कर्तुं नाशक इति यावत् । अतस्त्वां वंशः सर्वाधारः प्राणो विष्णुर्वायुश्च हास्यतीति । यथा तु कथाचेत्यादि पूवर्वत् ॥ 4 ॥
अथ प्रमेयान्तरं निरूप्यते । निर्भुजवक्त्राः निर्भुजं संहितावक्त्रेमुखे येषां ते तथोक्ताः तन्नामानः । केचन ऋषय आहुः । खल्विति वाक्यालङ्कारे । किमिति । पूर्वमक्षरं पूर्वाक्षरस्थितं यद्वराहाख्यं रूपं तत्पूर्वरूपं पूवर्वर्णप्रतिपाद्यम् । उत्तरं उत्तरवर्णस्थितं वामनाख्यं रूपं उत्तरूपं उत्तरवर्णवाच्यम् । पूर्वोत्तररूपे अन्तरेण पूर्वोत्तरवर्णयोरन्तरस्थितः योऽवकाशः अवनात् काशनाच्चावकाशनामा नृसिंहः सा संहितासंहितानामक इति । विधेयानुसारेण स्त्रीलिङ्गम् । स एव मित्यादिकं पूकिमिति । पूर्वमेवाक्षरं पूर्वरूपम् । उत्तरमक्षरमेवोत्तरूपम् । नात्रास्माकं विप्रतिपत्तिरित्येवकारेणाह । पूर्वरूपोत्तररूपे अन्तरेण योवकाशः । येन यत्प्रेरणयासन्धिं पूर्वोत्तरवर्णयोः विवर्तयति । विशेषेण वर्तयति । पुरुषः । येन च स्वरास्वरं विजानाति । अत्रायं स्वरो न भवति किं त्वन्य एवेति ज्ञात्वाक्लृप्तस्वरेणैव अक्षरमुच्चारयतीति यावत् । येन च मात्रामात्रां विभजते । ह्रस्वदीर्घविभागं करोति सावेदव्यासाख्यं रूपं संहितानामकमिति । स य एवमित्याद्युक्तार्थम् । अथ ह अस्य ह्रस्वमाण्डूकेयस्य पुत्रः प्रातीबाधीपुत्रः तन्नामकभार्या जातोमध्यमोना ऋषिराह । किमिति । इमेखल्वक्षरे पुर्वोत्तरवर्णे अविकर्षन् अनेकीकुर्वन् विकर्षणसंश्ऱ्लेषावप्रापयन् । यथा वर्णं वर्णस्थितिमनतिक्रम्याह । सममेवाक्षरोच्चारणं करोतीति यावत् । सामूर्तिः सामनाम्नीवासुदेवाख्या भवति । तस्मात् सामैव । सामनामकं वासुदेवरूपमेव अहं संहितां पूर्वोत्तरवणॅगतरूपद्वयसंहितत्वात् संहितानामकं मन्य इति आहेति पूर्वेणान्वयः ।
तृतीयारण्यकम् ।
तदप्येतद्विष्णोः सामशब्दवाच्यत्वमृषिणोक्तम् । हे बृहस्पते । वाग्धिबृहती तस्या एष पतिरिति श्रुतेः वेदवाक्पते वायो । साम्नो विष्णोः सकाशत् परमुत्तमं किंचन येन विदुः । विष्णुमेव सर्वोत्तमं ये जानन्ति तेभ्यो नोस्मान् ब्रूहीति श्रुतिशेषेणान्वयः । सय एवमिति पूर्ववत् ॥ 5 ॥
बृहद्रथन्तरयोः बृहन्नाम्नो बृहत्सामदेवतायाः नारायणस्य रथन्तनाम्नयाः रथन्तरसामदेवताया लक्ष्म्ाश्च रूपेण संहितासंहितानामकं अर्धनारीनरात्मकं लक्ष्मीनारायणात्मकं रूपं सन्धीयते सन्धितमस्ति । अत्र सन्धीयमानरूपस्य संहितात्वोक्त्या रथन्तराख्यरमायाः पूर्ववर्णदेवतात्वं बृहदाख्य नारायणस्योत्तरवर्णदेव तात्वं च सूचितं भवति । अन्यथा अस्यरूपस्य संहिता देवतात्वानुपपत्तेः । पूर्वोत्तरवर्णयोः सन्धिरेव हि संहितेत्युच्यते । इति तार्क्ष्योनाम मुनिराह । बृहद्रथन्तररूपयोः अधिष्ठानान्तरं सूचयन्नामान्तरमप्याह - वाग्वा इति ॥ वाक् सरस्वती । तत्स्थं तन्मामकं चरथन्तरस्य लक्ष्म्ाः रूपं वै प्रसिद्धम् । प्राणोवायुः । तत्स्थं तन्नामकं च बृहतो नारायणस्य रूपमित्यर्थः । वाचा च प्राणेन चेत्युभाभ्यां रथन्तर बृहद्रूपाभ्याम् । उ एव संहितानामकं लक्ष्मीनारायणाख्यं रूपं अर्धनारीनररूपम् । सन्धीयते खलु । य एतां विद्यामधीतवान् सतार्क्ष्योपि नानायासेनैतद्विद्यां सम्पादितवान् । किन्तु एतस्यां हस्मोपनिषदि । तादर्थ्ये सप्तमीयम् । एतां विद्यामवाप्तुमिति यावत् । संवत्सरङ्गाः गुरुसम्बन्धिनीः । रक्षयते अरक्षत । तात्पर्याशियद्योतनाय गोरक्षणस्य प्रयोजनान्तरं निषधति - एतस्यामिति ॥ एतस्यां ह स्ममात्रायाम् । एतद्विद्यामात्र प्राप्त्यर्थं संवत्रं तार्क्ष्योगाः । रक्षयते अरक्षत । नतु प्रयोजनान्तरमप्यता भूर्तीराह - वाक्प्राणेनेति ॥ वाक् रमा प्राणेन विष्णुना सहिता । एकासंहिता । स च विष्णुः पवमानेन वायुना सह द्वितीयासंहिता । पवमानश्च विश्ऱ्वैर्देवैर्विष्णवादि समस्तदेवैः सह तृतीयासंहिता । विश्ऱ्वेदेवाश्च स्वर्गेण लोकेन स्वर्गाभिमानिना सर्वद्रष्यृत्प्राकाशनाल्लोकनाम्ना शिवेन सह चतुर्थीसंहिता । स्वर्गो लोकश्च ब्रह्मणा चतुर्मुखेन सह पञ्चमीसंहितेति । सैषा संहिता अवरपरघटितत्वात् अवरपरेत्युच्यते । द्वयोः द्वयोः मध्ये एकमवरमन्यत् परमिति । सैषेत्याद्येकवचनं समुदायापेक्षम् । तत्र प्रथमा निर्दिष्यं वामभागगम् । तृतीयानिर्दिष्यं दक्षिणभागगम् । एवमेताः सर्वाः संहिता देवता मूर्तयोहरिहरमूर्तिवान् मिथोलिता एव बोध्याः । फलमाह - स इति ॥ स प्रसिद्धो योधिकारी वेदसः यथैषा संहिता मिथः सन्धितैव वर्तते एवमेव प्रजापश्ऱ्वादिभिः सन्धीयते हेत्यर्थः । उकतविद्याफलप्राप्तौ किञ्चिदित्थम्भावमाह - स इति ॥ स एतद्विद्यावेत्ता । यदि परेण वोपसृत उपसन्नः स्वेनवार्थेन उपसृतः । परार्थे वा । आत्मार्थे वेति यावत् । अभिव्याहरेत् मन्त्रमिति शेषः । तर्ह्यभिव्याहार्षन्नेव अभिव्याहर्तुमिच्छन्नेव । अभिव्याहरणात् पूर्वमेवेति यावत् । विद्यात् चिन्तयेत् । किमिति । संहिता संहितारूपो हरिः दिवं द्युलोकमगमत् । देवेष्वनुग्रहं कर्तुमिति शेषः । अतो देवानामेव एवं उक्तं विद्याफलं पूर्णं भविष्यति । कुतः विदुषां हेतुगर्भं विशेषणमेतत् । देवानामेव मुख्यतो विद्वत्त्वात् । इति विद्यादिति सम्बन्धः । ततश्चैवं चिन्तयतः पुंसोदेवानां प्रसादात् उक्तं फलं तथैव शश्ऱ्वत् नित्यं स्यादित्यर्थः । एवं तार्क्ष्यमतेकौण्ठरव्यमते च संहितारूपज्ञानिनः फलं पृथगभिदायापि तात्पर्यार्थं पुनः सामान्येनाभिधत्ते - स य एवमेतामिति ॥ एवं तार्क्ष्योक्तां कौण्ठरव्योक्तां च । अथ मतान्तरानुसारात् संहितादेवतां पृथगाह - वाक् संहितेति ॥ वाक् सरस्वतीसंहितावर्णमध्य देवतासंहितानाम्नी चेति पञ्चालचण्डो नाम मुनिः मन्यते । कुतो वाचः संहितात्वमित्यतः तदुपपादयति - वाचेति ॥ वाचावाग्देवतायासरस्वत्या वेदाः सन्धीयन्ते । तत्प्रेरणयैव संहितातयोच्चार्यन्ते । गायत्ऱ्यादि छन्दांस्य पिवाचैव सन्धीयन्ते । लोके मित्राण्यपि वाचैव सन्दधति । मिथः प्रीतिरूपं सन्धानं कुर्वन्त । सर्वाण्यपि भूतानि वाचैव सन्धीयन्ते व्यवहारविषया भवन्ति । अथो तस्मादिदं सर्वं वागेव सरस्वत्यधीनमेव । इति पञ्चालचण्ड आहेति पूर्वेणान्वयः । तथा च वेदादि सन्धानकर्तृत्वात् वाचः संहितात्वमिति भावः । तत्तस्मात् वाचः सर्ववेदादिवाङ्मियामकत्वाद्यत्र यदा । एतत् वेदादिकमधीते वा भाषते लौकिकभाषणं वाकरोति पुमांस्तदाप्राणः प्राणस्थः प्रणेतृत्वात् प्राणनामा भगवान् वाचि भवति वागाश्रितो भवति । वाच्यतया तदधीन इव भवतीत्यर्थः । अत एव तदा अध्ययनादिकोले वाक् सरस्वती । प्राणं भगवन्तम् । रेह्लिलेढि । लिह आस्वादने । आस्वादयति ग्रसति । वाच्यतया स्वाधीनमिव करोति । अथ यत्र यदा पुमांस्तूष्णीं भवति वा स्वपिति वातदावाक्प्राणे प्राणाश्रिता भवति । प्राणस्थे भगवत्येव लीना भवति । तदा प्राणो भगवन्वाचं रेह्लिलेढि ग्रसतीव । स्ववाचकता शक्तिमन्तर्धापयति । एवं तौ वाक्प्राणौ अन्योन्यं रीह्लः लीढः युक्तं च सरस्वती भगवतोः अन्योन्यमास्वादनं मातृपुत्रभावापन्नत्वादिति भावेनाह - वाग्वैमाताप्राणः पुत्र इति ॥ सरस्वत्यभिमन्यमानवेदव्यंग्यत्वात् भगवतः पुत्रत्वं व्यंजकत्वाच्च तस्यामातृत्वमौपचारिकमेवेति बोध्यं तदप्येतत् । वाक्प्राणयोः मातृपुत्रभावोन्यान्यमास्वादयितत्वं च ऋषिणोक्तम् । कथम् । सद्विरूपत्वेन उक्तोप्येकः स्वगतभेदवर्जितः । सुपर्णः सुष्ठुपरानन्दो भगवान् समुद्रं क्षीराब्धिम् । अविवेश । तत्र श्ऱ्वेतद्वीपे शेत इति यावत् । स एवेदं विश्ऱ्वं समस्तं भुवनम् । विचष्ये । स्वभावसिद्ध प्रज्ञयैव पश्यति । तमेतं भगवन्तं पाकेन परिपक्वेन मनसा अन्तितः समीप एवाहमपश्यम् । ब्रह्मवाक्मदम् । तमेनं विष्णुम् । मातासरस्वती । रेह्लिलेढि । स उ सच विष्णुः माररं सरस्वतीं रेह्लिलेढीति । स य एवमित्युक्तार्थं । अथातः प्रजापतिसंहिता । प्रजापतिना रुद्रेण प्रोक्ता संहिता निरूप्यते । जाया जयशालित्वात् जायाशब्दवाच्यो जायास्थितो भगवान् । पूर्वरूपम् । पूर्ववर्णदेवता । पालनात् पतिनामापतिस्थो हरिः उत्तरपूमुत्तरवर्णदेवता । पुत्रः पूतिगन्धात्मकत्वात् पुतोनरकात् त्राणात् पुत्रनामा । स एव सन्धिर्वर्णयोः मध्य देवता । सन्धितोति पुष्णीतीति सन्धिनामा च । प्रजननं प्रजोतपत्तिकर्मस्थः प्रकर्षेण जनकत्वात् प्रजनननामाष्णिः सन्धानं वर्णसन्धानकर्मणिस्थितः । सन्धानकर्तृत्वात् सन्धाननामा च । सैषा सहति देवता भगवान् सर्वस्य आदानददितिः नाम । यदिदं किञ्चेदं सर्वमपि अदितिः हि अदितिनामक विष्ण्त्तधीनं हि । पिता च माता च आदितिरेव । पालकत्वात् माननाच्च । पुत्रश्च प्रजननं चोक्तरीत्यादितिरेव । तदप्येतत् । विष्णोरदिति शब्दवाच्यत्वं पित्रादिशब्दवाच्यत्वादिकं च ऋषिणोक्तम् । अदितिः मातासपता स पुत्र इति विधेयानुसारेण स इति पुल्लिङ्गप्रयोगः । अत्रैतन्मन्त्रोत्तरार्धगतमदितिः जनित्वमित्येदपि ग्राह्यम् । तेन प्रजननं चेत्युक्तार्थे समाख्यात्त्वसिद्धिः । एतैश्चतुश्शब्दैः क्रमेण वासुदेवादिचतुर्मूतय उच्यन्त इत्वगन्तव्यम् । एतद्विद्याफलमाह - स य इति ॥ 6 ॥ इति श्रीदानन्दतीर्थभगवत्पादाचार्यविरचित श्रीमन्मैतरेयोपनिषद्भावप्रदीपे तृतीयारण्यके प्रथमोध्यायः ॥ 3 ॥ 1 ॥
अस्थिमज्जापर्वगतं सर्वगं मृत्युनाशनम् । वन्दे दुर्गापतिं विष्णुं सर्ववेदोदितं प्रभुम् ॥ 1 ॥ प्राणो मुख्यवायुर्वंशः सर्वाश्रयत्वात् वंशस्थानीय इति स्थविरः शाकल्यो नाम ऋषिराह । तत्तत्र निदर्शनमुच्यते । यथा शालावंशे शालामध्यगते वंशे सर्वे अन्येवंशाः समाहिताः तदा अधारतया स्थिताःस्युरेवं अस्मन् प्राणेचक्षुः श्रोत्रं मनोवाक् इन्द्रियाण्यन्यानि त्वग्ध्राणादीनि शरीरं च पृथक्पृथक् । तथा सवर्ः चक्षुरादि सर्वसमुदायरूपः आत्मासङ्घातश्च समाहितः । तथा एतदभिमानिनः श्रोत्रादिशब्दवाच्यादेवाश्च समाहिताः एतेषु च सर्वेष्वपि आत्मापरमात्मा सर्वः बहुरूपः सन् समाहितः संस्थितः । तस्यात्मनः सङ्घातस्य य आत्मा आदानादिकर्तातस्यै तस्यात्मनः परमात्मनो मूलरूपस्य सम्बन्धीय; प्राणस्तत्स्थो भगवान् प्राणनामा ऊष्मरूपं ऊष्माक्षरप्रतिपाद्यः । समर्थत्वेन सर्वैः सोढुमशक्यत्वात् ऊष्मनामा ऊष्माक्षरस्थश्च । अस्थीनि । अधिकं स्थिरत्वादस्थिनामकम् । यदस्थिगतं बुहरूपं भगवद्रूपं तत्स्पर्शरूपं स्पर्शाक्षरप्रतिपाद्यं स्पर्शनहेतुत्वात् स्पर्शनामकं स्पर्शाक्षरस्थितं च । एवं मज्जानः । मदस्य जनकत्वात् मज्जाख्यं यन्मज्जास्थितं बहुरूपं भगवतो रूपम् । तत् स्वररूपं स्वराक्षरप्रतिपाद्यं स्वरतत्वात् स्वरनामकं स्वराक्षरस्थितं च । यच्चान्यत् सङ्घातसम्बन्धि चतुर्थं मांसंलोहितं चेत्येतत् मां सलोहितं मां प्रमाणं सारयति प्रर्तयतीति मां स नामकं रक्तवर्णत्वाल्लोहितनामकं भगवद्रूपं तत् अन्तस्थ रूपं अन्तस्थाक्षरप्रतिपाद्यम् । अन्तःस्थितत्वात् अन्तस्थानामकं अन्तस्थाक्षरस्थितं च इति हस्थविरः शाकल्य आहस्मेत्यन्वयः । ह्रस्वो माण्डूके यस्तु एवमाह । किमिति । नः पक्षेतु एतत् सङ्घातसम्बन्धि त्रयमेव अस्थीनिमज्जानः पर्वाणि चेति । अस्थ्नां मज्ञां पर्वणामिति । तस्यैतस्य त्रयस्य एतत्रयेगतस्य अधिकस्थिरत्वात् मदस्य जननात् परज्ञानत्वाच्च अस्थिमज्जापर्वनामक भगवद्रूपसङ्घस्य मध्ये इतः दक्ष भोगेत्रीणिशतानि षष्यिश्च । षष्ययुत्तरशतत्रय सङ्खयाकानीति यावत् । इतः वामभागेत्रीणि षष्यिशतानीति वर्तते । षष्ययुत्तराणिशतानीति यावत् । तानि सप्तविंशतिशतानि भवन्ति । एवं भागद्वयस्थितानि भगवद्रूपाणि सप्तशतानि विंशतिश्च । विंशत्युत्तरसप्तशतानि भवन्ति । संवत्सरस्याहोरात्राः । अहोरात्रायपि सप्तशतानि विंशतिश्च भवन्ति । अत एतान्येव सप्तशतानि विंशतिश्च भगवतोऽरूपाणि अहोरात्राणि । अहायर्त्वात् रतिप्रदत्वाच्च अहोरात्रनामकानि तत्स्थितानि । अतः स एष भगवान् अहः सम्मान उच्यते । यतो अध्यात्मगतानि विष्णुरूपाण्यहोभिः ससमङ्खयानि । स एष आत्मा चक्षुर्मयः पूर्णदर्शनक्तिमान् पूर्णश्रवणशक्तिमत्त्वाच्छ्रोत्रमयः । सत्यकामत्वाच्छन्दोमयः । पूर्णमन्तृत्वशक्तिमत्त्वान्मनोमय; । पूर्णवक्तृत्वशक्तिमत्त्वाद्वाङ्मयश्ऱ्च । य एवमेतमहः संमानमात्मानं भगववन्तं चक्षुर्मयादिरूपं वेदसः अह्नामहर्नामकानां भगवद्रूपाणां सायुज्यं सरूपतां सलोकतां चाश्ऱ्नुते प्रापनोति । पुत्रीज्ञानपुत्रवान् भवति । भगवद्रूपसायुज्यादिकं प्राप्य च पशुमान् भवति पीयमानस्वरूपसुखवान् भवति । स्वरूपसुखानुभववान् भवतीति यावत् ॥ 1 ॥
अथ कौण्ठरव्य आह - किमिति । त्रीणिषष्यिशतान्यक्षराणाम्त्राक्षरशब्देन विष्णुनामगतं णकाररूपं स्पर्शाक्षरमुच्यते । तथा च अक्षराणां णकारगतनां अक्षरनामकानां भगवद्रूपाणां त्रीणिषष्ठिशतानि षष्ययुत्तराणि त्रीणिशतानि तथा ऊष्मणां विष्णुनामगत षकाररूपोष्माक्षरगतानां समर्थत्वाथ ऊष्मनामकानां भगवद्रूपाणां त्रीणिषष्ठिशतानि तथा सन्धीनां षणयोः सन्धिगतानां सन्धानात् सन्धिनाम्नां विष्णुरूपाणां त्रीणिषष्ठिशतानि । एवमेतान्येव अन्यनामघटकेषु पञ्चाशद्वर्णेषु मध्ये अक्षराणां ऊष्मभिन्नसर्ववर्णानां तद्गततन्नामक भगवद्रूपाणां त्रीणिषष्ठिशतानि । ऊष्माणां तद्गतानां तन्नाम्नां भगवद्रूपाणां त्रीणिषष्ठिशतानि । तत्सन्धीनां तद्गतसन्धिनामक भगवद्रूपाणां च त्रीणिषष्ठिशतानि । सम्भूयाशीत्युत्तरसहस्रसङ्खयाकानि सन्ति । तत्र यान्यक्षराणि विष्णुनामगतानि वा नामान्तरगतानि वा ऊष्मभिन्नानि । तद्गतानि तन्नामकानि यानि भगवद्रूपाण्यवोचाम । तान्यहानि आर्यत्वात् अहर्नामकानि संवत्सराहर्नियामकानि । एवं यानूष्मणो वाचामताः रात्रयः । यान् सन्धीनवोचामाहोत्राणां ते सन्धय इत्येतद्वाक्यद्वयमपि व्याख्येयम् । इत्यधिदैवतं भगवद्रूपाणि । अथाध्यात्मं निरूप्यन्ते । यान्यक्षराण्यधिदैवतमवोचाम । अधिदैवं यान्यक्षरनामकानि रूपाण्यवोचामतानि रूपाण्यध्यात्ममस्थीनि अस्थिगतानि अस्थिनामकानि । यानूष्मणोऽधिदैवतमवोचाममज्जानस्तेऽइयात्ममित्येवं व्याख्येयम् । मज्जास्वितरधात्व अपेक्षया भगवतो अधिकसन्निधानमस्तीति ज्ञापयितुमाह - एष हवा इति ॥ यद्यस्मादेवष प्राणो वायुः सम्प्रतिसांम्प्रतम् । मज्जा मज्जायां विशेषतः सन्निहितः तस्मात् प्राणो विष्णुः मज्जामज्जायामितरधातुभ्यो विशेषतः सन्निहित इत्यर्थः । यद्वा यत् योमज्जा एष एव हि सम्प्रतिप्राणः प्राणस्य वायोः विशेषसन्निधानपात्रम् । अत एव प्राणोविष्णुरपि प्राणनामकविष्णोः विशेषसन्निधानपात्रमपीत्यर्थः । ननु प्राणस्यापि कुतोमज्जायां विशेषतः सन्निधानमित्यत आह - एतद्रेत इति ॥ एतत् एष मज्जैयरेतो भवति । रेतसि च प्राणोविशेषतः सन्निहितः । अतो मज्जायांविशेषतः प्राणसन्निधानमवसीयत इति भावः । रेतस्यापि प्राणस्य विशेषसन्निधानं कुतः । येन तदुपादानमज्जायां तद्विशेषसन्निधानं प्रतीमहीत्यत आह - न ह वा इति ॥ प्राणाद्रते रेतोनासिच्यते । ह वै । प्राणसन्निधानं विना रेतो न गर्भत्वं यातीति यावत् । तथाच इतरधातूनां गर्भीभावयोग्यताभावात् रातस एव तद्भावात्तत्र विशेषतः प्राणसन्निधानमवग्यत इति भावः । ननु गर्भीभावस्य रेतस्स्वभावत्वात् न तत्र प्राणसन्निधानं प्रयोजकमित्यत आह - यद्वा इति ॥ यदि हि प्राणादृतेरेः स्त्रियां सिच्येत तर्हि पूयेत् पूतिगन्धयुक्तमेव भवति । यत्र क्ववानिस्सृतं सन्नश्यतीति यावत् । न सम्भवेत् । न गर्भत्वेन निष्पद्यते । अतो रेतसोगर्भताप्राप्तौ प्राणसन्निधानमेव कारणमिति भावः । अथ यान्त्सन्धीनधिदैवतमवोचामपर्वाणि तान्यध्यात्ममित्येतत् अपि प्राग्वदेवव्याख्येयम् । तस्यैतस्य अस्थ्नां मज्ञां मज्जानं पर्वणशमिति त्रयस्य अस्थ्यादित्रयान्तर्गतस्य तत्तन्नामकस्य हरेरूपाणि देहे इतः दक्षिणभागे पञ्चशतानि चत्वारिंशच्चसन्ति । इतोवामभागे पञ्च चत्वारिंशच्छतानीति वर्तते । चत्वारिंशदधिकपञ्चशतानि सन्ति । तत् भागद्वयस्थंरूपजातं सम्भूयाशीति सहस्रं अशीत्युत्तरसहस्रं भवति । एत एवाशीति सहस्रं अशीत्युत्तरसहस्रसङ्खयाका भगवत्प्रादुर्भावाः । अर्कलिनः अर्के सूर्ये श्येनाकारचितौ च निलीनत्वेन अदृश्यत्वेन स्थिताः । त एव बृहतीः बृहत्यः । पूर्णत्वात् बृहत्याख्याः बृहतीसहस्रप्रतिपाद्याश्च । पुनः बृहतीरित्यावर्तनीयम् । एते च अर्कलिनो बृहतीः बृहतीसहस्रं अहश्चाभिसम्पादयन्ति । अहःशब्देन यज्ञोदिवसश्चो भावप्यभिप्रेतौ । तथा च अयमत्र विवेकः । एत एव प्रादुभर्ावाः पुरुषशरीरे स्थित्वावाक्प्रेरकतया बृहतीसहस्रं सम्पादयन्ति । सूर्ये स्थित्वादिवसान्सम्पादयन्ति । चितौ स्थित्वायज्ञान् सम्पादयन्तीति । स एषोस्थ्यादि गतो भगवान् अक्षरसम्मानः । ऊष्माक्षरसन्धिभेदेन त्रिविधवर्णगतरूपसमसङ्खयाकः । अशीत्युत्तरसहस्रसङ्खयाकरूपवानिति यावत् । चक्षुर्मय इत्यादि पूर्ववत् ॥ 2 ॥
बाध्वः संसारबाधितैः प्राप्योविष्ण्वाज्ञया मोक्षप्रदोवायुः चत्वारः पुरुषाः सन्तीत्याह । के ते । शरीरपुरुषः छन्दः पुरुषो वेद पुरुषो महापुरुष इति । तत्र शरीरपुरुष इति यमवोचामय एवायं दैहिक आत्मासर्वदेहाभिमानीशिवः । स एव । तस्य शिवस्य योयं देहस्थितः अशरीरः प्राकृतशरीररहितः प्रज्ञात्मा प्रकृष्यज्ञानरूपो निरुद्धनामा हरिः सरसः शरीरपुरुष प्राप्यत्वात् तन्नियामकत्वेन तत्र स्थितत्वाच्च साररूपः । एवमेव उत्तरत्रापि द्रष्यव्यम् । छन्दःपुरुष इति यमवोचामसोक्षरसमाम्नायः सम्यगाम्नायते अम्यस्यत इति समाम्नायः समुदायः । सर्वे वर्णा इति यावत् । तदभिमानीशेष एव । तस्यै तस्य अकारः अ इत्याक्रियते आहूयत इति तथोक्तः । अकारगतश्च वासुदेवोरसः । वेदपुरुष इति यमवोचामसोयमेव । येन प्रेरितो वेदान्वेद । वेदानित्यस्व विवरणम् । ऋग्वेदं यजुर्वेदं सामवेदमिति । तथा च सवर्वेदाभिमानी गरुड एवेत्यर्थः। तस्यै तस्य वेदपुरुषस्य । ब्रह्मा ज्ञानबृहहणाद्ब्रह्माख्यर्त्विक् संस्थितत्वाच्च ब्रह्माख्यः संकषर्णोरसः । तस्मात् ब्रह्मर्त्विजिविशेषेण संकर्षणस्य संस्थितत्वात् यज्ञे ब्रह0माणं ब्रह्मिष्ठ ब्रह्मज्ञानिनमेव कुर्वीत । न तु यादृशतादृशम् । तस्मिन्विशेषतो हरिसन्निधानयोग्यताभवात् । ननु को विशेषो ब्रह्मर्त्विजः । येन इतरेभ्यः तस्य ब्रह्मिष्ठत्वादिकं अवश्यकं स्यादित्यत आह - य इति ॥ यो 1ब्रह्मर्त्विक् यज्ञस्योल्बणं क्रूरं दोषां पश्येत् । कतर्ृकरणादि वैगुण्यप्रसक्तिं दृष्ट्वा तत्प्रतिक्रियां विदध्यादिति यावत् । तादृशमेव ब्रह्माणं कुर्वीतेति पूर्वेणान्वयः । महापुरुष इति यमोवाचामससंवत्सर एव संवत्सराभिमानी ब्रह्मैव । तन्माहात्म्यमाह - प्रध्वंसयन्निति । अन्यानि भूतानि कांश्चित्प्राणिनः प्रध्वंसयन् अन्यानि च भूतानि कांश्चित्प्रणिन ऐक्याभावयन् ऐक्यभाभावयन् लीनभावमापादयन्नित्यर्थः । संवत्सरात्मके क्लृप्तकाले पूर्णे केचिद्बहिरेव प्रध्वस्तदेहा भवन्ति । केचिच्च मण्डूकादयः सर्पादिषडु देहाभवन्तीति प्रसिद्धम् । एतच्च कालाभिमानि ब्रह्मकृत्यमेवेति भावः । अन्यानि भगवद्विरोधीनि भूतानि प्रध्वंसयन् तमसिपातयन् । रअन्यानि भूतानि मुक्तियोग्यजीवान् । ऐक्याभावयन् मोक्षेस्वान्तःस्थानैक्यं सम्प्रापयन्नित्यपि व्याचक्षते । तस्यै तस्य संवत्सरनाम्नो ब्रह्मणः असावादित्यः आदित्यमण्डलस्थः जगदादित्वात् सर्वभूतेषु ततत्वात् सर्वजीवानां नियामकत्वाच्चादित्नयनामकः प्रद्युम्नोरसः । सप्रसिद्धो यश्चायमं अशरीरः प्रज्ञात्मा सर्वदेहेषु स्थितोनिरुद्धः । यश्चासावादित्यः आदित्यस्थः प्रद्युम्नः एतत् रूपद्वयमेकमत्यन्ताभिन्नमिति विद्यात् । उपलक्षणमेतत् । संकर्षणवासुदेवावप्यभिन्नावितिविद्यादिति ग्राह्यम् । वक्षयमाणप्रमेयानुगुण्यायरूपद्वयस्यैव अभेदस्य स्वशब्देन न कीर्तनम् । तस्मात् पुरुषदेहगतानिरुद्धस्य आदित्यमण्डलस्थप्रद्युम्नस्य चैक्यादेवहेतोः आदित्य आदित्यगतो विष्णुः पुरुषं पुरुषं प्रति प्रतिपुरुषम् । भवति नियामकतया तत्तद्देहस्थितो भवति । आदित्येस्थित्वा सर्वेषां मां प्रत्यादित्यः मां प्रत्यादित्योवर्तत इति प्रतीति जनकश्च भवतीत्यर्थः । तदप्येतत् शिवादिसर्वदेवनियामकत्वादि रूपं शिवादिसारत्वमृषिणोक्तम् । सूर्यः सूयर्स्थितोहरिरुदगात् उदितो भूदित्यन्वयः । कीदृशः सूर्यः चित्रं अतिशयितचिद्रूपत्वात् परमचेतनत्वाच्चित्तरं तदेवचित्रं । देवानां ब्रह्मादिसर्वदेवानां अनीकम् । अननाच्चेष्यकत्वादन् । ईशितृत्वादी । कर्तृत्वात् कमिति । मित्रस्य वरुणस्याग्नेः । उपलक्षणमेतत् । सवदेवानां चक्षुर्ज्ञानदाता । द्यावापृथिवीद्यावापृथिव्यौ । अन्तरिक्षं च आसमन्तात् प्राःस्वप्रकाशेन अपूरयत् । जगतो जङ्गमस्य । तस्थुषः स्थावरस्य । जङ्गमस्थावरात्मकसर्वजीवानामात्मा । आदानात् स्ववशेस्थापनात् प्रलेऽत्तृत्वात् च आत्मेत्युक्त इत्यर्थः । इति ऋषिणोक्तमित्यन्वयः । एवमनिरुद्धादि चतुर्मूर्तिज्ञानपूर्वकमेव संहिता अध्यायनं फलदं नान्यथेति भावेनाह - एतामिति ॥ एतां च संहितां सर्ववैदिकपूर्वोत्तरवर्णसन्धिरूपां तदैवानुविधं विधामनुसप्रकारं सम्यगिति यावत् । सन्धीयमानां सन्धितामहं मन्ये । यदा चतुर्विधोविष्णुः संहिता देवतेति ज्ञायते तथा पूर्ववर्णस्य नारायणोदेवता । उत्तरवर्णस्य समस्ताः प्रादुर्भावादेवता इति च यदा ज्ञायते । तदैवेति पूर्वेणान्वयः । इति हि बाध्व आहस्म । एतं विष्णुमेव बह्वाचाः ऋग्वेदिनो महत्युक्थे बृहतीसहस्रेमीमांसन्ते । तत्प्रतिपाद्यं जानन्ति । एतमेव अग्नौ इष्यकानिर्मितचितिस्थे अध्वयर् वोमीमांसन्ते उत्रपासते । एतं महाव्रते महाव्रताख्यस्तोत्रेछन्दोगाः मीमांसन्ते तत्प्रतिपाद्यदेवतां जानन्ति । तथा एतमेव अद्यां पृथिव्यां द्वयादिसर्वभूतां तेषु च व्याप्तं मीमांसन्ते ज्ञानिनः । एतमेव ब्रह्मपूर्णगुणात्मक इत्याचक्षते इति बाध्व आहति पूर्वेण योजना । स एष आत्मा भगवान् संवत्सरसम्मानः संवसतां रतिदातृत्वात् संवत्सरो ब्रह्मा । स चानन्तमूर्तिः सन् अनन्तजगदधिष्ठाय तत्तन्नियामको भवति । भगवांश्च तस्य ब्रह्मणो अनन्तरूपेषु स्वयन्तावत् रूपैस्तन्नियामकतया स्थित इति संवत्सरसंमान इत्युच्यते । तथा तक्षुर्मयादिश्च भवति । सप्रसिद्धोयः पुमान् । एवं संवत्सरसंमानं चक्षुर्मयादिरूपमात्मानम् । परस्मै अयोग्याय शंसति उपदिशति । तथा परस्मै आचार्यपितृभ्यामन्यस्मै । तत्क्रियमाणे महाव्रताख्ये कर्मणीति यावत् । शंसति बृहतीसहस्रादिशस्त्रेणेति शेषः । अथावा परस्मै आचार्यपितृभ्यामन्यमुद्निदश्यमहाव्रताख्यस्तोत्रेण आत्मानं हरिं शंसति । उपलक्षणमेतत् । अन्योद्देशेन महाव्रतेचितिं कुयर्ादित्यपि ग्राह्यम् । न परस्मा अग्निं चिनुयादिति वक्ष्यमाणत्वात् । अस्योत्तरखण्डेन अन्वयः ॥ 3 ॥
अस्य परस्मै आत्मशंसनकुर्तुः वेदाः दुग्धदोहाभवन्ति । दुह्यत इति दोहोरसः । फलमिति यावत् । दुग्ध एव न तु दोग्धव्यो दोहोयेषामिति तथोक्तः । फलाधायकान भवन्तीत्यर्थः । तथा तस्यानूक्ते अधीते शास्त्रे भागः फलमपि नास्ति दृष्यादृष्ययोः वेदाध्ययनजफलयोः पृथक्प्रतिषेधाय प्रवृत्तत्वान्नानयोः वाक्ययोः पौनरुक्त्यम् । तथा सुकृतस्य गङ्गास्नानादि कर्मणः पन्थानं मार्गं फलमिति यावत् । न वेद न प्राप्नोति । तदेतत् अयोग्योपदेशादि कर्तुर्नाध्ययनफलं नापि सुकृतफलमित्येतदप्यृषिणोक्तम् । यः पुमान् । सचिविदम् । सचिः कर्मसञ्चयः । सम्पूर्वाच्चिनोतेः किः । उपसर्गस्यानुस्वारलोपः । तं वेत्तीति तथोक्तम् । प्रीत्यैकदेहेस्थित्वात् सखायम् । नारायणम् । तित्याज तत्याजत्यजति । तस्य वाचिवेदवाचि अधीतायामपि भागः फलं नास्ति । यदीं यदेवनृणोति तत्सर्वमलकं अरकं अरतिरूपान्धतमः प्राप्तिसाधनमेव नृणोति श्रुतं सर्वमन्धतमः प्राप्तिसाधनमेव भवतीति यावत् । तथा अलकं रौरवादिनरक साधनं च भवति । सुकृतस्य पन्थां पन्धानं फलं स्वर्गादिकं च नहि प्रवेदनैव प्राप्नोतीत्यर्थः । ननु हरेः त्यागश्तुर्विधः । स एव नास्तीत्वादि ज्ञानरूपः प्रथमः । रमाब्रह्मादीनां तारतम्यविषये विपरीतज्ञानादिरूपोद्वितीयः । निषिद्धकर्मकरणादिरूपस्तृतीयः । अयोग्योपदेशः परस्मै शंसनमित्यादिरूपश्चतुर्थः । तत्र प्रथमात् त्यागद्वयादन्धतमः प्राप्तिः । तृतीयान्नरकप्राप्तिः । चतुर्थात् अध्ययनसुकृतफलाप्राप्तिरिति प्रमाणे प्रमितम् । अतः परस्मै शंसनमात्ररूपत्वागस्य कथमेतत्सर्वफलम् । येन समाख्यात्वेन इयं श्रुतिरुदाह्रियत इति चेत् । सत्यम् । नेदं सर्वं फलं परस्मै शंसनकर्तुरेव अत्रोच्यते किं तु यथायथं त्यागतुष्ययकर्तृणामपि । तथापि प्रस्तुते परशंसनादिरूपे चतुर्थत्यागे न तस्य वाच्यपि भागो अस्ति नहि प्रवेदसुकृतस्य पन्थामिति दोषद्वयमेव । न तु यदींृणोत्यलकं ृणोतीत्युक्ता दोष इत्यवधारयति । न तस्यानूक्ते भागोस्ति न वेदसुकृतस्य पन्थानमित्येतत् उक्तं भवतीति । तस्मात् परस्मैशंसनादिरूपचतुर्थत्यागस्य उक्तदोषद्वयरूपानर्थफलकत्वात् । एवं तस्यानर्थफलकत्वं विद्वान् परस्मै आचार्यपित्रेरन्यस्मै । अग्निं न चिनुयात् । इष्यकानिर्मित चितावग्नि प्रतिष्ठाप्य तत्र होमादिकं न कुर्यादिति यावत् । न परस्मै महाव्रतेन तन्नाम्नास्तोत्रेण स्तुवीत । न परस्मै एतदहः बृहतीसहस्ररूपमुक्थं शंसेत् । पित्रे वा आचार्याय वा । तयोरर्थेकामं यथेच्छं शंसेत् । अस्य तत् कुतं आचार्यपित्रुद्देशेन शंसनं आतमेन आत्मार्थमेव कृतं भवति । सयश्चायं अशरीरः प्रज्ञात्मा अनिरुद्धः । यश्चासावादित्यः प्रद्युम्नः एतत् रूपद्वयमेकमित्यवोचाम । यद्यप्येतयोः ऐक्यविधानं प्रागेव कृतं तथापि प्रमेयान्तरनिरूपणार्थं पुनुरुक्तस्यैव अनुवादोयम् । तौ अनिरुद्धप्रद्यम्नौ । देहे हृदयचक्षुषोः स्थितौ । यत्र यदा विहीयेते शरीरादपगच्छतः तदा आदित्यश्चंन्द्रमा इव दृश्यते द्रष्यं शक्यो भवति । आदित्यस्य रश्मयो न प्रादुर्भवन्ति । रश्मिप्रादुर्भावदर्शनमस्य न जायत इति यावत् । द्यौर्लोहिनीरक्तवर्णा भवति दृश्यते । कथम् । यथा मञ्जिष्ठालोहिनी तथा । पायुर्गुदद्वारं व्यस्तोविवृतो भवति । अस्य शिरःकालकुलायगन्धिकं काकस्य कुलायवद्गन्धयुक्तं सत् वायतिवाति । वागतिगन्धनयोः । व्यत्ययेनश्यन् । गच्छति । स्वगन्धेन घ्राणमावृङ्क्त इति यावत् । एवमरिष्यदर्शनं यदा जायते तदास्य पुरुषस्यात्मासम्परेतो मृतप्राय एव । कुतः चिरमिव न जीविष्यति । शतवर्ष जीवनेपि चिरत्वमापेक्षिकमेव न मुख्यमिति ज्ञापनायेवशब्द; । इति विद्यात् । स एवं दृष्यारिष्योयत्करणीयं पारलौकिकं मन्ये ततत्सर्वं कूर्वीत । किञ्च यदन्ति यच्चदूरक इति सप्तऋचोजपेत् । आदित्प्रत्नस्य रेतस इत्येका ऋक् । जप्तव्येति शेषः । यत्र ब्रहमापवमानेति षट् ऋचश्च जप्तव्याः । उद्वयंतमसस्परीत्येका च जप्तव्या । एतज्जपेन चाकालमृत्युश्चेत्परिहृतो भवति । कालमृत्युश्चेदपरोक्षदर्शनद्वारामोक्षो भविष्यतीति ज्ञेयम् । अथ मृत्युसूचकानि अरिष्यान्तराण्युच्यन्ते । यत्र यदा आदित्यः छिद्रः छिद्रवानिव दृश्यते तस्यैव विवरणं रथनाभिः चक्रमिव अभिख्यायेतदृश्यत आत्मनः छायां वाछिद्रांछिद्रवतीं पश्येत् । तदपि तदापि एवमेव अतामानं न चितरमिव जीविष्यतीत्येवविद्यात् । अथापि अन्यदपि । आदर्शे दर्पणे उदके वा । आत्मानं आत्मप्रतिबिम्बजिह्यशिरसंवक्रशिरसं वा । अशिरसंशिरोहीनं वा पश्येत् । आत्मानः कन्याके कनीनिके । विपर्यस्ते व्यात्यस्ते । ऊर्ध्वाधरीभावव्यत्यासेन इति यावत् । जिह्मेन जिह्मत्वेन वक्रतया वा । दृश्ये यातां तदप्येवमेव विद्यात् । अथापि अन्यदपि । अक्षिणी अपिधाय अक्षिमूलमङ्गुल्या वष्यम्भेति यावत् । उपेक्षेत उपसमीप एव ईक्षेत । तत्तहि यथा बटरकाणि वर्तुला अर्चिषोंशास्ता दृशाः सम्पतन्तीव दृश्यन्ते स्वस्थात्मनाम् । तानि च बटरकसदृशानि यदा न पश्येत् तदा तदप्येवमेव विद्यात् । अथापि अन्यदपि । कर्णावपिदाय कराभ्यां आच्छाद्य उपृणुयात् । स एष तदा श्रूयमाणोध्वनिः प्रज्वलतो अग्नेरुपब्दिः शब्द इव । आगच्छतो रथस्य उपब्दिरिवचस्वस्थात्मनां भाति । सरस्वती निवित् स्वाहावग्नुः उपब्दिरिति वाङ्मामसुपाठात् । तं तादृशं ध्वनिं यदा न शृणुयात्तदप्येवमेव विद्यात् । अथापि यत्र यदा ग्निनीं लइव दृश्यते । तस्यैव दृष्यान्तमुखेन विवरणं यथा मयूरग्रीवेति । अमेघेमेघरहिते व्यान्निविद्युतं अन्यैः अदृश्यमानां पश्येत् । मेघे वा विद्युतं अन्यै दृश्यमानामपि न पश्येत् । महामेघेवामरीचीः सूर्यरश्मीनिव पश्येत् । तदप्येवमेव विद्यात् । अथापि अन्यच्च । यत्र यदा भूमिं ज्वलन्तीमिव पश्येततदप्येवमेव विद्यात् । इति प्रत्यक्षदर्शनानि जाग्रदवस्थायां दृष्युं योग्यानि दुर्निमित्तानि । अथ स्वप्नाः मरणसूचकाः निरूप्यन्ते । पुरुषं कृष्णं कृष्णवर्णं तथा कृष्णदन्तं पश्यति । स च कृष्णः कृष्णदन्तश्च पुरुषः एनं स्वप्नस्थं हंन्ति ताडयति । वराहोवा एनं हन्ति । मर्कटोवा एनमास्मकं दयति उपर्याक्रामते । आशुवायुरेनं प्रवहाति ऊढ्वाप्रयाति । सुवर्णं खादित्वा अपगिरति छर्दति । मध्वश्ऱ्नाति । अपूपसहितं बृहत्तमं मधुयदि भक्षयेत् । तथा बिसानिपद्मदलानि भक्षयति । एक पुण्डरीकं एकमेव रक्ताब्जं शिरसाधायति । खरैर्वराहैः वायुक्तैरथादिभिर्याति । कृष्णवत्सांकृष्णां धेनुम् । नलदमालीनलदाख्यपुष्पविरचितमालाधारीसन् । दक्षिणशमुखो भूत्वा व्राजयति । तदप्वमेव विद्यादित्यन्वयः । स पुमान् एतेषां मध्ये यदि किञ्चित्पश्येत् तर्हि न त्सूचितापमृत्युपरिहारार्थं उपोष्य । स्थाल्यां पाकोयस्य तत्स्थालीपाकं पायसंश्रपयित्वा पक्त्वा । रात्रीसूक्तेन प्रत्यृचं रात्रीसूक्तप्रतिपाद्य रात्रिशब्दवाच्य स्रूप भगवन्मूर्तिदुर्गां चोद्दिश्य हुत्वा । अन्येन पृथक् पाचितेन उन्ननब्राह्मणान् भोजययित्वा । चरुं हविः शेषं स्वयं प्राश्ऱ्नीयात् । तर्हि पायसेन इष्यो हरिः दुर्गा च अपमृत्युं परिहरतः । कालमृत्युश्चेज्ज्ञानाद्वारा मोक्षं नयत इति फलमात्रानुसन्धेयम् । एवं प्रासंगिकं प्रमेयं निरूप्यप्रकृतमनुसरति - स य इति ॥ सप्रसिद्धोयः परमात्मा । अतः अतसातत्यगमने । देशतः कालतोगुणतश्चसंततत्वादतिपूर्णत्वादतशब्दवाच्यः । अतिशयेनातिशयितत्वाद्वतथोक्तः । तृतीयोतिशय इति सूत्रादतिशयेनातिरत इति । अश्रुतः साकल्येनश्रोतुमशक्यः । पूर्णत्वात् । अगतः साकल्येनावगन्तुमशक्यः । एवं साकल्येन मन्तुं द्रष्युं विज्ञातुं आदेष्युं चाशक्यत्वादमतोऽदृष्योऽविज्ञातोऽऽनादिष्यश्च । सामान्यज्ञानविशेषज्ञानविवक्षया प्रवृत्तत्वादगतोऽविज्ञात इत्यनयोरपौनरुक्त्यम् । अनतःकस्याप्यप्रह्वःस्वतन्त्र इति यावत् । स्वयं तु सर्वस्य श्रोतामन्ताद्रष्या आदेष्या उपदेष्या घोष्याघोषं कुर्वन् । विज्ञाताविविधज्ञाता । प्रज्ञाताप्रकृष्यज्ञाता सर्वेषां भूतानाजीवानां अन्तरोंतस्थः पूर्णत्वात्पुरुषश्च । अन्तरश्चासौ पुरुषश्चेति तथोक्तः । तं विष्णुं समःसर्वरूपेष्वेकप्रकारः । आत्मासर्वजीवनियामकश्चेति विद्यात् । तेन च संसारान्मुच्यत इति ग्राह्यम् ॥ 4 ॥
अथखल्वियं वक्ष्यमाण । सर्वस्यैवाचेतसर्वस्यावाचः । उपनिषत् । रहस्यरूपा । लौकिकवैदिकसर्ववाग्विषयकाविद्योच्यते । विष्णुशब्दार्थप्रतिपादकत्वात् सर्ववाचाम् । एतद्विद्यापि तथाभूतैवेति । यद्यपि सर्वाह्येवेमाः पूर्वोक्ताविद्याः विष्णुशब्दार्थत्वात् सर्वस्यैवाचेसर्वस्यावाचः उपनिषद्रूपा एव । तथापि तदपेक्षयामुख्यत एव सर्ववाग्विषयकत्वादि मां वक्ष्यमाणान्त्वेव सर्वस्याः वाचः उपनिषदिति सर्वेपि ज्ञानिन आचक्षते । कासाविद्या । पृथिव्याः पृथिवीस्थितस्य विष्णोः यत्पृथिवीनामकं रूपं तत् स्पर्शाः स्पर्शाक्षरप्रतिपाद्यम् । अन्तरिक्षस्य अन्तरिक्षस्थितस्य विष्णोः यदन्तरिक्षनामकं रूपमित्यनुवर्तते । तत् ऊष्माणः ऊष्माक्षरप्रतिपाद्यम् । एवमेव दिवः स्वरा इत्यादिकमपि व्याख्येयम् । एवमधिलोकमधिदैवमधिवेदमधीन्द्रियमधिप्राणं पञ्चविधानिपृथिव्यादि नामकरूपत्रिकाणि स्पर्शाद्यक्षरदैवतानि ज्ञेयानि । अथ खलुविद्यान्तरं निरूप्यते । इयं देहाख्यादैवीदेवस्य विष्णोः सम्बन्धिनी वीणा भवति । तदनुकृतिस्तदनुकरणवतीतत्सदृशी । असौ लोकसिद्धामानुषीवीणा भवति । उभयोः सादृश्यमेव उपपादयति - यथेत्यादिना ॥ अस्याः दैव वीणायाः । अमुष्याः मानुषवीणायाः । अम्भणं । अभिरमिशब्दे । अस्मादधिकरणेल्युट् । शब्दोत्पत्तिस्थानमधोभगस्थमन्तरवकाशोपेतं बृहदवयवान्तरम् । अस्यै अस्याः । अमुष्यै अमुष्याः । वादनं उपरितनभागस्थोऽवयवविशेषः । यथास्या अङ्गुलय एवममुष्यास्तंत्रयस्तं त्ऱ्यएवाङ्गुलिस्थनाया इति । यथा योग्यं योजना । स्वराः ध्वनिविशेषाः । एतदुभयत्रसमम् । स्पशर्ाः स्पर्शयोग्यावयवविशेषाः । शब्दवतीनादवती । तर्द्मवती । तर्दहिंसायाम् । कर्णपीडनादिहिंसावती । यथाह्येवेयं दैवीवीणालोमशेन चर्मणा । अपिहिता अच्छादिता । एवं असौ लोमशेन चर्मणापिहिता भवति । एतच्चलोकेसुप्रसिद्धमित्याह । लोमशेनेति । वीणाः मानुषीर्लोमशेन रौरवादिचर्मणापुरा वदनात्पुर्वं । पश्चाच्चेत्यपि ग्राह्यम् । अपि दधति । तद्रक्षणार्थं वादका इति शेषः । यः पुमान् । एतां दैवीं वीणां वेद । ब्रह्मादिदेहान् विष्णोर्वीणेति भक्तितो जानाति । स श्रुतवदनोभवति श्रुतमधीतशास्त्रं वदनेयस्यासौ तथोक्तः । विद्यापूर्णमुखो भवतीति यावत् । भूमिप्रास्यकीर्तिः । भूमौ प्रास्याप्रकषेण क्षिप्यमाणा व्यापिनीति यावत् । कीर्तिर्यस्यासौ तथोक्तः । भूमिपूरितकीर्तिमा भवतीत्यर्थः । अस्य कीर्तिःभूमिप्राभूमिपूर्णा भवतीति पूर्वटीकाकाराः । यत्र क्वचार्याः ज्ञानवृद्धाः वाचो भाषन्ते वाग्व्यवहारं कुवर्न्ति तत्रैनं विदुः । नियमेन श्ऱ्लाघन्त इति भावः । अथ पसङ्गात् विद्याधिक्यलाभाय जप्तव्यमन्त्र निरूपणं प्रतिजानन्ति - अथत इति ॥ वाग्रसः वाक्सारोमन्त्र विशेषो निरूप्यते । एतज्जपस्य फलं सूचयन् जपं विधत्ते - यस्यामिति ॥ यस्यां संसदि अधीयानोवाभाषमाणो व्याचक्षाणः कथां कुर्वन् वानविरुरचिषेत । सभास्थानां रोचनाविषयो न भवति चेत् । सम्भावना विषयत्वार्थेसन् । यथा कूलं पिपतिषति श्ऱ्वामुमूर्षतीत्यादि । तत्र सभायां रोचिः प्राप्त्यर्थमेतामृचं जपेत् । तां पठति - ओष्ठेति ॥ पविरिति वाङ्माम । पविर्भारतीत्यादि तन्नामसुपाठात् । अतो वाचिसंस्थस्य स्त्रीरूपस्य भगवतः प्रतिपादिकेयमृक् । अयमर्थः । नेत्युपमार्थे । ओष्ठौ अपिधानेन अपिधाने इव आच्छादनवस्त्रवत् वर्तेते यस्याः सा ओष्ठापिधानानेत्युच्यते । अत्र नेति भिन्नमेवपदम् । सामर्थ्यात्पिधानपदेनान्वेति । लीनाशेषकुत्सितत्वात् कुली । दन्तैःपरिवृता । सर्वपालकत्वात् सर्वस्माद्विशिष्यत्वाच्चपविः । सर्वस्यैवाचेसर्वस्यावाच ईशाना ईश्ऱ्वरी । वाङ्माम्नी भगवन्मूर्तिः । चारुयथा भवति तथा मां इह सभायां वादयेदिति । इत्येषा ऋक् वाग्रसः वाचः साररूपेत्यर्थः ॥ 5 ॥
अथशब्दः कात्स्नर्ये । इदानीं कृत्स्नशास्त्रार्थो भिधीयते । कृष्णहारितः । कृष्णोनाम्ना । हरितपुत्रत्वाद्धारितः । अस्मैयोग्यजनाय । एतत् वक्ष्यमाणं वाग्ब्राह्मणं वर्सवाग्विषयं ब्राह्मणम् । इव व्यक्तमुपोदाहरति । उपदिशतिह । किन्तत् संवत्सरः कालाभिमानी संवसद्रतिदाता प्रजापतिः ब्रह्माप्रजाः सृष्ट्वा व्यास्रसत । श्रान्तोभवत् । ततः सब्रह्माश्रान्तिपरिहारार्थम् । छन्दोभि; सर्ववेदैः नारायणं स्तुत्वा स्तुत्याप्रसन्नेन तेनैवात्मनं स्वदेहं समदधात् । तस्मात् ब्रह्मणा स्वदेहेसन्धित्वादेव भगवान् संहितेत्यत्युच्यते । तस्यै एतस्यै संहितायै संहितानाम्नो विष्णोः बलं णकारः । ण इत्याक्रियत इति विष्णुनामगत णशब्देन प्रतिपाद्यत इत्यथर्ः । तथा प्राणः रमाब्रह्माद्यखिल प्रणेतृत्वम् । आत्मा आत्मत्वम् । गुणतो देशतः कालतश्चाततत्वमित्येतत् षकारः । ष इत्याक्रियत इति । विष्णुनामगत षशब्देन प्रतिपाद्यत इत्यर्थः । यः पुमान् । एतौ णकारषकारौ । एतने ण इति शब्देनाक्रियमाणं विष्णोः पूर्णबलम् । षशब्देनाक्रियमाणं सर्वप्रणेतृत्वम् । देशतःकालतोगुणतश्चाततत्वं च । ऋचोनुसंहितम् । ऋच इत्यपलक्षणम् । सर्वासामपि वाचां संहितानामकं विष्णुम् । सबलां सप्राणां च । सम्पूर्णबलयुक्तम् । सर्वप्ररेतृत्वशक्त्यादियुक्तं च वेद । नान्यः । एतच्च वेदनं आयुष्यं नित्यायूरूपमोक्षसाधनमिति विद्यात् । अथवा इति यो विद्यात्संसारान्मुक्तः सन् । आयुष्यं नित्यायुः प्राप्नुयादित्यर्थः । स उपासकः सणकारं ब्रवाणीं अथवा अणकारां ब्रवाणीति यदि विचिकित्सेत् । सर्वाः संहिताः णशब्दवाच्य विष्णुबलवाचकतानुसन्धानपूर्वकं वदामि किं वातद्रहितमिति संशयं कुर्यात् । तर्हि तत्र निर्णयं ब्रूमः । किमिति । स णकारमेव ब्रूयादिति । एवं सषकारं ब्रवाणीं अषकारां इति सषकारमेव ब्रूयादिति वाक्यमपि व्याख्येयम् । सषकारं षशब्दवाच्य विष्णुप्राणशत्मत्ववाचकतानुसन्धानपूर्वकमित्यर्थः । ते एवं जानन्तोवयमनुसंहितायुक्तत्वेन ऋचोयदधीमहे । यच्च माण्डूकेयीयं माण्डूकेय दृष्यमध्यायं स्वाध्यायं वेद । समस्तवेदपुराणोपलक्षणमेतत् । प्रब्रूमः अधीमहे शिष्येभ्य उपदिशामोवा । तेन नोस्माकं णकारषकारावुपाप्तौ । णशब्दषशब्दार्थरूपोविष्णुरुपात्तः । अवाप्तोऽभूत् । णकारषकारव्याख्यानरूपत्वात् सर्ववाचाम् । इति ह्रस्वोमाण्डूकेय आहस्म । अस्मिन्नेव अर्थे ऋष्यन्तरसम्मतिमाह - अथ यद्वयमनुसंहितमिति ॥ स्थविरः शाकल्य इत्युपलक्षणम् । सर्वेपि ऋषय एवमेवाहुरिति द्रष्यव्यम् । तदेतत् प्रमेयं विद्वांसः कावषेयानाम ऋषय आहुर्हस्मवै । किमिति । वयं किमर्थाः किं प्रयोजनार्थिनः सन्तोऽध्येष्यामहे । विष्णुनामार्थानुसन्दानपूर्वकविष्णु मन्त्रजपादेरेकस्यैव अधिकत्वात् विष्णुनाम व्यतिरिक्त वेदाध्ययेनेनापि किं न्रयोजनमस्माकं भवेन्नकिमपीत्यर्थः । किमर्था वयं यक्ष्यामहे । यज्ञैर्वानः किं प्रयोजनं भवेन्नमपीत्यर्थः । अथवा किमर्थावयमध्येष्यामहे । किमर्थावयं यक्ष्यामहे । विष्णुनामार्थानुसन्धानं विना अन्यविषयकाध्ययन यमादिकायर्ैः किमस्माकं प्रयोजनं न किमपि । तथा च विष्णुनामार्थानुसन्धानपूर्वकमेव वेदानध्येष्यामहे यक्ष्यामहेचेति भावः । अथवा वाचिप्राणं जुहुमः विष्णवे नम इति मन्त्रमेव जपन्तःप्राणवृत्तिं जपाख्यवाग्व्यापारे विनियोजयाम इति यावत् । प्राणेवावाचं जुहुम इति वर्तते । प्राणेवाचोहोमोनाममौनमेव । तथा च मौनेन विष्णुशब्दार्थं ध्यायामोवेत्यर्थः । विष्णुविषयकमेव अध्ययनादिकं कायर्ं नान्यविषयकमित्युक्तम् । तत्कुत इत्यत आह - योह्येवेति ॥ यो हि भगवान् प्रभव उत्पादकः स एवाप्ययः संहारकर्तानान्यः । अते जगज्जन्मादिकारणत्वेन विष्णोरेव प्राधान्यात्तद्विषयकमेव अध्यायनादिकं कार्यं नान्यदिति भावः । उपनिषत्प्रतिपादत्यार्थस्यातिरहस्य त्वं ज्ञापयन्नुपसंहरति - ता एता इति ॥ संहिताः पूर्वोत्तरवर्णसन्धिप्रतिपाद्यानिसंहितानामकानि भगवद्रूपाणि । अनन्तेवासिने अन्यविद्यासुस्वशिष्यत्वमप्राप्ताय न प्रब्रूयात् । प्रथममेव नोपदिशेत् । नासंवत्सरवासिने प्रब्रूयात् । अप्रवक्त्रे प्रवचनशक्तिहीनाय च न प्रब्रूयादित्याचार्याः उपनिषदुपदेष्यारोमहिदासादय आहुरिति सम्बन्धः । द्विरुक्तिप्रयोजनं तु प्रागेवोक्तम् । तदत्राप्यनुसन्धेयं ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचित श्रीमन्मैतरेयोपनिषद्भावप्रदीपे अस्मद्गुरुवर श्रीमद्भारकरीवेङ्कटवराहाचार्यपूज्यपादाराधकैः विचचितो तृतीयारण्यके द्वितीयोध्यायः समाप्तः ॥ 3 ॥ 3 ॥
]