[[ईशोपनिषदि याज्ञीयमन्त्रोपनिषद्भाष्यम् Source: EB]]
[
श्रीमदानन्दतीर्थमधाचार्यविरचितं
याज्ञीयमन्त्रोपनिषद्भाष्यम्
ईशोपनिषदि ।
ओं
नित्यानित्यजगद्धात्रे नित्याय ज्ञानमूर्तये ।
पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः ॥
यस्माद्ब्रह्मेन्द्ररुद्रादिदेवतानां श्रियोऽपि च ।
ज्ञानस्फूर्तिः सदा तस्मै हरये गुरवे नमः ॥
—ओ)०(ओ—
॥१.१॥
ईशावास्यमिदं सर्वं
यत्किं च जगत्यां जगत।
तेन त्यक्तेन भुञ्जीथा
मा गृधः कस्य स्वित्धनम् ॥
स्वायम्भुवो मनुरेतैर्मन्त्रैर्भगवन्तमाकूतिसूनुं यज्ञनामानं विष्णुं तुष्टाव—
स्वायम्भुवः स्वदौहित्रं विष्णुं यज्ञाभिधं मनुः ।
ईशावास्यादिभिर्मन्त्रैस्तुष्टावावहितात्मना ॥
रक्षोभिरुग्रैः सम्प्राप्तः खादितुं मोचितस्तदा ।
स्तोत्रं श्रुत्वैव यज्ञेन तान्हत्वावध्यतां गतान॥
प्रादाद्धि भगवांस्तेषामवध्यत्वं हरः प्रभुः ।
तैर्वध्यत्वं तथान्येषामतः कोऽन्यो हरेः प्रभुः ॥ इति ब्रह्माण्डे ।
भगवते चायमर्थ एवोक्तः । ईशस्य वासयोग्यमीशावास्यम् । जगत्यां प्रकृतौ । तेन ईशेन त्यक्तेन दत्तेन भुञ्जीथाः ।
स्वतः प्रवृत्त्यशक्तत्वादीशावास्यमिदं जगत।
प्रवृत्तये प्रकृतिगं यस्मात्स प्रकृतीश्वरः ॥
तदधीनप्रवृत्तित्वात्तदीयं सर्वमेव यत।
तद्दत्तेनैव भुञ्जीथा अतो नान्यं प्रयाचयेत॥ इति ब्राह्मे ॥१॥
—ओ)०(ओ—
॥१.२॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतां समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥
अकुर्वतः कर्म न लिप्यत इति नास्ति ।
अज्ञस्य कर्म लिप्येत कृष्णोपास्तिमकुर्वतः ।
ज्ञानिनोऽपि यतो ह्रास आनन्दस्य भवेद्ध्रुवम् ॥
अतोऽलेपेऽपि लेपः स्यादतः कार्यैव सा सदा ॥ इति नारदीये ॥२॥
—ओ)०(ओ—
॥१.३॥
असुर्या नाम ते लोका अन्धेन तमसावृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥३॥
सुष्ठु रमणविरुद्धत्वादसुराणां प्राप्यत्वाच्च असुर्याः । न खलु रमन्त्यहो असदुपासनयात्महनः इत्युक्तत्वात।
महादुःखैकहेतुत्वात्प्राप्यत्वादसुरैस्तथा ।
असुर्या नाम ते लोकास्तान्यान्ति विमुखा हरौ ॥ इति वामने ।
ये के चेत्यनेन नियम उक्तः—नियमेन तमो यान्ति सर्वेऽपि विमुखा हरेः इति च ॥३॥
—ओ)०(ओ—
॥१.४॥
अनेजदेकं मनसो जवीयो
नैनद्देवा आप्नुवन्पूर्वमर्षत।
तद्धावतोऽन्यानत्येति तिष्ठत्
तस्मिन्नपो मातरिश्वा दधाति ॥४॥
अनेजन्निर्भयत्वात्तदेकं प्राधान्यतस्तथा ।
सम्यग्ज्ञातुमशक्यत्वादगम्यं तत्सुरैरपि ।
स्वयं तु सर्वानुगमात्पूर्वमेव स्वभावतः ।
अचिन्त्यशक्तितश्चैव सर्वगतत्वाच्च तत्परम् ।
द्रवतोऽत्येति सन्तिष्ठत्तस्मिन्कर्माण्यधान्मरुत॥
मारुत्येव यतश्चेष्टा सर्वा तां हरयेऽर्पयेत॥ इति ब्रह्माण्डे ।
ऋष्ज्ञाने ॥४॥
—ओ)०(ओ—
॥१.५॥
तदेजति तन्नैजति
तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य
तदु सर्वस्यास्य बाह्यतः ॥
तदेजति तत एजत्यन्यत। तत्स्वयं नेजति ।
ततो बिभेति सर्वोऽपि न बिभेति हरिः स्वयम् ।
सर्वगतत्वात्स दूरे च बाह्येऽन्तश्च समीपगः ॥ इति तत्त्वसंहितायाम् ॥५॥
—ओ)०(ओ—
॥१.६॥
यस्तु सर्वाणि भूतानि
आत्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं
ततो न विजुगुप्सते ॥
सर्वगं परमात्मानं सर्वं च परमात्मनि ।
यः पश्येत्स भयाभवान्नात्मानं गोप्तुमिच्छति ॥ इति सौकरायणश्रुतिः ॥६॥
—ओ)०(ओ—
॥१.७॥
यस्मिन्सर्वाणि भूतानि
आत्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक
एकत्वमनुपश्यतः ॥
यस्मिन्परमात्मनि सर्वभूतानि स परमात्मैव तत्र सर्वभूतेष्वभूत। एवं सर्वभूतेष्वेकत्वेन परमात्मानं विजानतः को मोहः ?
यस्मिन्सर्वाणि भूतानि स आत्मा सर्वभूतगः ।
एवं सर्वत्र यो विष्णुः पश्येत्तस्य विजानतः ॥
को मोहः कोऽथवा शोकः ।
स विष्णुं पर्यगादतः ॥ इति पिप्पलादशाखायाम् ॥
पूर्वोक्तानुवादेन शोकमोहाभावो विजानतश्चात्रोच्यते । अभ्यासश्च सर्वगतत्वस्य तात्पर्यद्योतनार्थः ॥७॥
—ओ)०(ओ—
॥१.८॥
स पर्यगाच्छ्रुतमकायमव्रणम्
अस्नाविरं शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूर्
याथातथ्यतोऽर्थान्व्यदधात्
शाश्वतीभ्यः समाभ्यः ॥
शुक्रं तच्छोकराहित्यादव्रणं नित्यपूर्णतः ।
पावनत्वात्सदा शुद्धमकार्यं लिङ्गवर्जनात॥
स्थूलदेहस्य राहित्यादस्नाविरमुदाहृतम् ।
एवंभूतोऽपि सार्वज्ञ्यात्कविरित्येव शब्द्यते ॥
ब्रह्मादिसर्वमनसां प्रकृत्या मनसोऽपि च ।
ईशितृत्वान्मनीषी च परिभूः सर्वतो वरः ॥
सदानन्याश्रयत्वाच्च स्वयंभूः परिकीर्तितः ।
स सत्यं जगदेतादृङ्नित्यमेव प्रवाहतः ॥
अनाद्यनन्तकालेषु प्रवाहैकप्रकारकम् ।
नियमेनैव ससृजे भगवान्पुरुषोत्तमः ॥
सज्ज्ञानानन्दशीर्षोऽसौ सज्ज्ञानानन्दबाहुकः ।
सज्ज्ञानानन्ददेहश्च सज्ज्ञानन्दपादवान॥
एवंभूतो महाविष्णुर्यार्थं जगदीदृशम् ।
अनाद्यनन्तकालीनं ससर्जात्मेच्छया प्रभुः ॥ इति वाराहे ॥८॥
—ओ)०(ओ—
॥१.९॥
अन्धं तमः प्रविशन्ति
येऽविद्यामुपासते ।
ततो भूय इव ते तमो
य उ विद्याया रताः ॥
—ओ)०(ओ—
॥१.१०॥
अन्यदेवाहुर्विद्यया
अन्यदाहुरविद्यया ।
इति शुश्रूम धीराणां
ये नस्तद्विचचक्षिरे ॥
—ओ)०(ओ—
॥११॥
विद्यां चाविद्यां च यस्
तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा
विद्ययामृतमश्नुते ॥
—ओ)०(ओ—
॥१.१२॥
अन्धं तमः प्रविशन्ति
येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो
य उ सम्भूत्यां रताः ॥
—ओ)०(ओ—
॥१.१३॥
अन्यदेवाहुः सम्भवाद्
अन्यदाहुरसम्भवात।
इति शुश्रूम धीराणां
ये नस्तद्विचचक्षिरे ॥
—ओ)०(ओ—
॥१.१४॥
सम्भूतिं च विनाशं च
यस्तद्वेदोभयं सह ।
विनाशेन मृत्युं तीर्त्वा
सम्भूत्यामृतमश्नुते ॥
अन्यथोपासका ये तु तमोऽन्धं यान्त्यसंशयम् ।
ततोऽधिकमिव व्यक्तं यान्ति तेषामनिन्दकाः ॥
तस्माद्यथास्वरूपं तु नारायणमनामयम् ।
अयार्थस्य निन्दां च ये विदुस्ते हि सज्जनाः ॥
ते निन्दयायितुंआर्थस्य सर्वाज्ञानादिरूपिणः ।
दुःखाज्ञानादिसन्तीर्णाः सुखज्ञानादिरूपिणः ॥
यार्थस्य परिज्ञानात्सुखज्ञानादिरूपताम् ।
यान्त्येव सृष्टिकर्तृत्वं नाङ्गीकुर्वन्ति ये हरेः ।
तेऽपि यान्ति तमो घोरं तथा संहारकर्तृताम् ।
नाङ्गीकुर्वन्ति तेऽप्येवं तस्मात्सर्वगुणात्मकम् ।
सर्वकर्तारमीशेशं सर्वसंहारकारकम् ।
यो वेद संहृतिज्ञानाद्देहबन्धाद्विमुच्यते ।
सुखज्ञानादिकर्तृत्वज्ञानं तद्व्यक्तिमाव्रजेत।
सर्वदोषविनिर्मुक्तं गुणरूपं जनार्दनम् ।
जानीयान्न गुणानां च भागहानिं प्रकल्पयेत॥
न मुक्तानामपि हरेः साम्यं विष्णोरभिन्नताम् ।
नैव प्रचिन्तयेत्तस्माद्ब्रह्मादेः साम्यमेव वा ।
मानुषादिविरिञ्चान्तं तारतम्यं विमुक्तिगम् ॥
ततो विष्णोः परोत्कर्षं सम्यग्ज्ञात्वा विमुच्यते ॥
इति कौर्मे ॥९१४॥
द्वितीयोऽध्यायः।
॥२.१॥
हिरण्मयेन पात्रेण
सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु
सत्यधर्माय दृष्टये ॥
—ओ)०(ओ—
॥२.२॥
पूषन्नेकर्षे यम सूर्य
प्राजापत्य व्यूह रश्मीन्समूह ।
तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि
योऽसावसौ पुरुषः सोऽहमस्मि ॥
—ओ)०(ओ—
॥२.३॥
वायुरनिलममृतं
अथेदं भस्मान्तं शरीरम् ।
॥ २.४ ॥
ओं क्रतो स्मर कृतं स्मर
क्रतो स्मर कृतं स्मर ॥
—ओ)०(ओ—
॥२.५॥
अग्ने नय सुपथा राये अस्मान्
विश्वानि देव वायुनानि विद्वान।
युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां ते नमौक्तिं विधेम ॥
पात्रं हिरण्मयं सूर्यमण्डलं समुदाहृतम् ।
विष्णोः सत्यस्य तेनैव सर्वदापिहितं मुखम् ॥
तत्तु पूर्णत्वतः पूषा विष्णुर्दर्शयति स्वयम् ।
सत्यधर्माय भक्ताय प्रधानज्ञानरूपतः ।
विष्णुरेकऋषिर्ज्ञेयो यमो नियमाद्धरिः ।
सूर्यः स सूरिगम्यत्वात्प्रजापत्यः प्रजापतेः ।
विशेषेणैव गम्यत्वादहं चासावहेयतः ॥
अस्मि नित्यास्मितामानात्सर्वजीवेषु संस्थितः ।
स्वयं तु सर्वजीवेभ्यो व्यतिरिक्तः परो हरिः ।
स क्रतुर्ज्ञानरूपत्वादग्निरङ्गप्रणेतृतः ॥ इति ब्रह्माण्डे ।
सत्यं ब्रह्म हृदये धारयतीति सत्यधर्मा ।
एकोऽसौ शबः प्राणे स्थितः ॥ इति । यस्मिन्प्राणे स्थितः सोऽप्यमृतः । किमु परः अः ब्रह्मैव निलयनं यस्य वायोः सोऽनिलम् ।
अतिरोहितविज्ञानाद्वायुरप्यमृतः स्मृतः ।
मुख्यामृतः स्वयं रामः परमात्मा सनातनः ॥ इति रामसंहितायाम् ।
भक्तानां स्मरणं विष्णोर्नित्यज्ञप्तिस्वरूपतः ।
अनुग्रहोनुमुखत्वं तु नैवान्यति क्वचिदिष्यते ॥ इति ब्रह्मतर्के ।
वयुनं ज्ञानम् । यद्दत्तत्त्व्वयुनयेदमचष्ट विश्वमिति वचनात। जुहुराणमस्मानल्पं कुर्वत। युयोधि वियोजय ।
यदस्मान्कुरुतेऽत्यल्पांस्तदेनोऽस्मद्वियोजय ।
नय नो मोक्षवित्तायेत्यस्तौद्यज्ञं मनुः स्वराट॥ इति स्कान्दे ॥
युयु वियोगे इति धातुः । भक्तिज्ञानाभ्यां भूयिष्ठां नम इत्युक्तिं विधेम ।
पूर्णशक्तिचिदानन्दश्रीतेजः स्पष्टमूर्तये ।
ममात्यधिकमित्राय नमो नारायणाय ते ॥
इति श्रीमदानन्दतीर्थभगवत्पादविरचितं
याज्ञीयमन्त्रव्याख्यानं समाप्तम् ।
——- —— ———- ———-
]