[[ईशावास्योपनिषत् भाष्यम् Source: EB]]
[
श्रीगुरुभ्यो नमः ॥
अथ ईशावास्योपनिषत् ॥ (मूलम्)
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्वित् धनम् ॥1॥
कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं? समाः । एवं त्वयि नान्यथेतोस्ति न कर्म िƒप्यते नरे ॥2॥
असुर्या नाम ते ƒोकाः अन्धेन तमसावृताः । तां?स्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥3॥
अनेजदेकं मनसो जवीयो नैनद् देवा आप्नुवन् पूर्वमर्षत् । तद् धावतोन्यानत्येति तिष्ठन् तस्मिन्नपो मातरिश्वा दधाति ॥4॥
तदेजति तन्नेजति तद् दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ॥5॥
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥6॥
यस्मिन् सर्वाणि भूतान्यात्मैवाभूद् विजानतः । तत्र को मोहः कः शोकः एकत्वमनुपश्यतः ॥7॥
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं? शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतो र्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥8॥
अन्धतमः प्रविशन्ति ये विद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां? रताः ॥9॥
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तत् विचचक्षिरे ॥10॥
विद्यां चाविद्यां च यस्तद्वेदोभयं? सह । अविद्यया मृत्युं तीत्वा विद्ययामृतमश्नुते ॥11॥
अन्धतमः प्रविशन्ति येसम्भूतिमुपासते । ततो भूय इव ते तमो य उ सम्भूत्यां? रताः ॥12॥
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् । इति शुश्रुम धीराणां ये नस्तत् विचचक्षिरे ॥13॥
सम्भूतिं च विनाशं यस्तद्वेदोभयं? सह । विनाशेन मृत्युं तीत्वा संभूत्यामृतमश्नुते ॥14॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥15॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् । समूह तेजो यत् ते रूपं कल्याणतमं तत् ते पश्यामि ॥16॥
योसावसौ पुरुषः सोहमस्मि ॥17॥
वायुरनिƒममृतमथेदं भस्मान्तं? शरीरम् ॥18॥
ॐ क्रतो स्मर कृतं? स्मर ॐ क्रतो स्मर कृतं? स्मर ॥19॥
अग्ने नय सुपथा राये अस्मान् विश्वानि वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥20॥
इति ईशावास्योपनिषत्
*****************************************************************************************************
ईशावास्योपनिषत् भाष्यम् ॥
नित्यानित्यजगद्धात्रे नित्याय ज्ञानमूर्तये ।
पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः ॥1॥
यस्माद् ब्रह्मेन्द्ररुद्रादिदेवतानां श्रियोपि च ।
ज्ञानस्फूर्तिः सदा तस्मै हरये गुरवे नमः ॥2॥
स्वायम्भुवः मनुरेतैः मन्त्रैः भगवन्तमाकूतिसूनुं यज्ञनामानं विष्णुं तुष्टाव‡
“स्वायम्भुवः स्वदौहित्रं विष्णुं यज्ञाभिधं मनुः । ईशावास्यादिभिर्मन्त्रैस्तुष्टावावहितात्मना ॥
रक्षोभिरुग्रैः सम्प्राप्तः खादितुं मोचितस्तदा । स्तोत्रं श्रुत्वैव यज्ञेन तान् हत्वावध्यतां गतान् ॥
प्रादाद्धि भगवांस्तेषामवध्यत्वं हरः प्रभुः । तैर्वध्यत्वं तथान्येषामतः कोन्यो हरेः प्रभुः ॥’ इति ब्रह्माण्डे ।
भागवते चायमर्थ एव उक्तः ॥
ईशस्यावासयोग्यमीशावास्यम् । जगत्यां प्रकृतौ तेन ईशेन त्यक्तेन दत्तेन भुञ्जीथाः ।
“स्वतः प्रवृत्यशक्तत्वादीशावास्यमिदं जगत् । प्रवृत्तये प्रकृतिगं यस्मात् स प्रकृतीश्वरः ॥
तदधीनप्रवृत्तित्वात् तदीयं सर्वमेव यत् । तद्दत्तेनैव भुञ्जीथाः अतो नान्यं प्रयाचयेत् ॥’ इति ब्राह्मे ॥1॥
अकुर्वतः कर्म न िƒप्यत इति नास्ति ।
“अज्ञस्य कर्म िƒप्येत कृष्णोपास्तिमकुर्वतः । ज्ञानिनोपि यतो ह्रासः आनन्दस्य भवेद् ध्रुवम् ॥
अतोƒेपेपि ƒेपः स्यादतः कार्यैव सा सदा ॥’ इति नारदीये ॥2॥
सुष्ठु रमणविरुद्धत्वादसुराणां प्राप्यत्वाच्चासुर्याः । “न च रमन्त्यहो असदुपासनात्महनः’ इत्युक्तत्वात् ।
“महादुःखैकहेतुत्वात् प्राप्यत्वादसुरैस्तथा । असुर्या नाम ते ƒोकास्तान् यान्ति विमुखा हरौ ॥’ इति वामने ।
ये के चेत्यनेन नियम उक्तः । “नियमेन तमो यान्ति सर्वेपि विमुखा हरौ ।’ इति च ॥3॥
“अनेजन्निभयत्वात् तदेकं प्राधान्यतस्तथा । सम्यग्ज्ञातुमशक्यत्वादगम्यं तत्सुरैरपि ॥
स्वयं तु सर्वानगमत् पूर्वमेव स्वभावतः । अचिन्त्यशक्तितश्चैव सर्वगत्वाच्च तत्परम् ॥
द्रवतोत्येति सन्तिष्ठन् तस्मिन् कर्माण्यधान्मरुत् । मारुत्येव यतश्चेष्टाः सर्वा तां हरयेर्पयेत् ॥’ इति ब्रह्माण्डे । ऋष ज्ञाने ॥4॥
तदेजति तत एव एजत्यन्यत् । तत् स्वयं नेजति ।
“ततो बिभेति सर्वोपि न बिभेति हरिः स्वयम् । सर्वगत्वात् स दूरे च बाह्येन्तश्च समीपगः ॥’ इति तत्त्वसंहितायाम् ॥5॥
“सर्वगं परमात्मानं सर्वं च परमात्मनि । यः पश्येत् स भयाभावान्नात्मानं गोप्तुमिच्छति ॥’ इति सौकरायणश्रुतिः ॥6॥
यस्मिन् परमात्मनि सर्वभूतानि स परमात्मैव तत्र सर्वभूतेष्वभूत् । एवं सर्वभूतेष्वेकत्वेन परमात्मानं विजानतः को मोहः ।
“यस्मिन् सर्वाणि भूतानि स आत्मा सर्वभूतगः । एवं सर्वत्र यो विष्णुं पश्येत् तस्य विजानतः ॥
को मोहः कोथवा शोकः स विष्णुं पर्यगाद्यतः ॥’ इति पिप्पƒादशाखायाम् ।
पूर्वोक्तानुवादेन शोकमोहाभावो विजानतश्चात्रोच्यते । अभ्यासश्च सर्वगतत्वस्य तात्पर्यद्योतनार्थः ॥7॥
“शुक्रं तच्छोकराहित्यादव्रणं नित्यपूर्णतः । पावनत्वाच्च शुद्धमकायं िƒङ्गवर्जनात् ॥
स्थूƒदेहस्य राहित्यादस्नाविरमुदाहृतम् । एवम्भूतोपि सार्वज्ञात् कविरित्येव शब्द्यते ॥
ब्रह्मादिसर्वमनसां प्रकृत्या मनसोपि च । ईशितृत्वान्मनीषी स परिभूस्सर्वतो वरः ॥
सदानन्याश्रयत्वाच्च स्वयम्भूः परिकीर्तितः । स सत्यं जगदेतादृङ् नित्यमेव प्रवाहतः ॥
अनाद्यनन्तकाƒेषु प्रवाहैकप्रकारतः । नियमेनैव ससृजे भगवान् पुरुषोत्तमः ॥
सज्ज्ञानानन्दशीषोसौ सज्ज्ञानानन्दबाहुकः । सज्ज्ञानानन्ददेहश्च सज्ज्ञानानन्दपादवान् ॥
एवम्भूतो महाविष्णुर्यथार्थं जगदीदृशम् । अनाद्यनन्तकाƒीनं ससर्जात्मेच्छया प्रभुः ॥’ इति वाराहे ॥8॥
“अन्यथोपासका ये तु तमोन्धं यान्त्यसंशयम् । ततोधिकमिव व्यक्तं यान्ति तेषामनिन्दकाः ॥
तस्माद्यथास्वरूपं तु नारायणमनामयम् । अयथार्थस्य निन्दां च …………..॥9-10॥’
“……………ये विदुः सह सज्जनाः । ते निन्दयायथार्थस्य दुःखाज्ञानादिरूपिणः ॥
दुःखाज्ञानादिसन्तीर्णाः सुखज्ञानादिरूपिणः । यथार्थस्य परिज्ञानात् सुखज्ञानादिरूपताम् ॥
यान्त्येवम् ……………..॥11॥’
“………सृष्टिकर्तृत्वं नाङ्गीकुर्वन्ति ये हरेः । तेपि यान्ति तमो घोरं तथा संहारकर्तृताम् ॥
नाङ्गीकुर्वन्ति तेप्येवं तस्मात् सर्वगुणात्मकम् । सर्वकर्तारमीशेशं सर्वसंहारकारकम् ॥‘12-13॥
“यो वेद संहृतिज्ञानाद्देहबन्धाद्विमुच्यते । सुखज्ञानादिकर्तृत्वज्ञानात् तद्य्वक्तिमाव्रजेत् ॥
सर्वदोषविनिर्मुक्तं गुणरूपं जनार्दनम् । जानीयान्न गुणानां च भागहानिं प्रकल्पयेत् ॥
न मुक्तानामपि हरेः साम्यं विष्णोरभिन्नताम् । नैव प्रचिन्तयेत् तस्मात् ब्रह्मादेः साम्यमेव वा ॥
मानुषादिविरिञ्चान्तं तारतम्यं विमुक्तिगम् । ततो विष्णोः परोत्कर्षं सम्यग्ज्ञात्वा विमुच्यते ॥’ इति कौर्मे ॥14॥
“पात्रं हिरण्मयं सूर्यमण्डƒं समुदाहृतम् । विष्णोः सत्यस्य तेनैव सर्वदापिहितं मुखम् ॥
तत्तु पूर्णत्वतः पूषा विष्णुर्दर्शयति स्वयम् । सत्यधर्माय भक्ताय…………॥‘15॥
“…….. प्रधानज्ञानरूपकः । विष्णुरेकऋषिर्ज्ञेयो यमो नियमनाद्धरिः ॥
सूर्यः स सूरिगम्यत्वात् प्राजापत्यः प्रजापतेः । विशेषेणैव गम्यत्वात् ………. ॥‘16॥
“……….अहं चासावहेयतः । अस्मि नित्यास्तितामानात् सर्वजीवेषु संस्थितः ॥
स्वयं तु सर्वजीवेभ्यो व्यतिरिक्तः परो हरिः । स क्रतुर्ज्ञनरूपत्वादग्निरङ्गप्रणेतृतः ॥’ इति ब्रह्माण्डे ।
सत्यं ब्रह्म हृदये धारयतीति सत्यधर्मा । एकोसौशब्दः प्राणे स्थित इति ॥17॥
यस्मिन्नयं स्थितः सोप्यमृतः किमु परः । अः ब्रह्मैव निƒयनं यस्य वायोः सोनिƒम् ।
“अतिरोहितविज्ञानाद्वायुरप्यमृतः स्मृतः । मुख्यामृतः स्वयं रामः परमात्मा सनातनः ॥’ इति रामसंहितायाम् ॥18॥
“भक्तानां स्मरणं विष्णोर्नित्यज्ञप्तिस्वरूपतः । अनुग्रहोन्मुखत्वं तु नैवान्यत् क्वचिदिष्यते ॥’ इति ब्रह्मतर्के ॥19॥
वयुनं ज्ञानम् । “त्वद्दत्तया वयुनयेदमचष्ट विश्वम्’ इति वचनात् । जुहुराणं अस्मानल्पीकुर्वत् । युयोधि वियोजय ।
“यदस्मान् कुरुतेत्यल्पांस्तदेनोस्मद्वियोजय । नय नो मोक्षवित्तायेत्यस्तौद्यज्ञं मनुः स्वराड् ॥’ इति स्कान्दे ।
“युयु वियोगे’ इति धातुः । भक्तिज्ञानाभ्यां भूयिष्ठां ते नम इत्युक्तिं विधेम ॥
पूर्णशक्तिचिदानन्दश्रीतेजःस्पष्टमूर्तये ।
ममाभ्यधिकमित्राय नमो नारायणाय ते ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं ईशावास्योपनिषद्भाष्यम् ॥
*****************************************************************************************
]