अद्वयतारकोपनिषद्-भाष्यम्

[[अद्वयतारकोपनिषद्-भाष्यम् Source: EB]]

[

॥ श्रीः ॥

अद्वयतारकोपनिषद्भाष्यम्

ब्रह्मयोगिविरचितं विवरणम्

श्रीमदप्पयशिवाचार्यविरचितभाष्योपेतम् ।

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ।

व्याख्येयो विषयः तदधिकारी च

| तारकयोगाधिकारः |

अथातोऽद्वयतारकोपनिषदं व्याख्यास्यामः ।

यतये जितेन्द्रियाय शमादिषड्गुणपूर्णाय ॥

1

भाष्यम्।

श्रीमद्विश्वाधिष्ठानपरमहंससद्गुरुरामचन्द्राय नमः

द्वैतासम्भवविज्ञानसंसिद्धाद्वयतारकं ।

तारकब्रह्मेति गितं वन्दे श्रीरामवैभवं ॥

इह खलु शुक्लयजुर्वेदप्रविभक्तेयं अद्वयतारकोपनिषत्

राजयोगसर्वस्वं प्रकटयन्ती ब्रह्मात्रपर्यवसन्ना दृश्यते ।

अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते । अत्र

यथोक्ताधिकार्युद्देशेन

श्रुतयः तारकयोगमुपदिशन्तीत्याह

- -

अथेति ॥ अथ

कर्मोपासनाकाण्डद्वयनिरूपणानन्तरं यतः तेन

पुरुषार्थासिद्धिः

अतः तदर्थं यत्र स्वातिरेकेण द्वयं न विद्यते तत् अद्वयं

ब्रह्म

तन्मात्रबोधिनी विद्या तारकोपनिषत् तां श्रुतयो वयं

व्याख्यास्यामः ।

कस्मा अधिकारिण इत्यत आह

- -

यतय इति ।

स्वाश्रमानुष्ठनपूर्वकं

देशिकंउखतो वेदन्तश्रवणं ततो युक्तिभिः

श्रुत्यविरुद्धाभिः

मननं च कृत्वा निदिध्यसानाय यतत इति यतिः ।

अजितेन्द्रियस्य

यतित्वं कुत इत्यत आह

- -

जितेन्द्रियायेति । जितेन्द्रियस्य

यतित्वोपपत्तेः ।

अरिषड्वर्गाक्रान्तस्य जितेन्द्रियता कुत इत्यत आह

- -

शमादिषड्गुणपूर्णायेति । शमादिषड्गुणसम्पत्तेः

अरिषड्वर्गोपरतिपूर्वकत्वात् । एवं साधनवते श्रुतयः

तारकयोगमुपदिशन्तीत्यर्थः ॥

1

योगोपाय तत्फलम्

| योगानुष्ठानं तत्फलं च |

चित्स्वरूपोऽहमिति सदा भवयन् सम्यङ्निमीलिताक्षः

किञ्चिदुन्मीलिताक्षो वाऽन्तर्दृष्ट्या भ्रूदहरादुपरि

सच्चिदानन्दतेजःकूटरूपं परं ब्रह्मावलोकयन् तद्रूपो

भवति ॥

2

भाष्यम्।

एवं निदिध्यसानोपायतत्फलमाह

- -

चिदिति ॥ योगी स्वान्तः

चिद्रूपोऽस्मीति भवयनर्धोन्मीलितलोचनः भ्रूमध्यादौ

सच्चिदानन्दमात्रं ब्रह्माहमस्मीत्यालोकयन्तद्रूपस्तारकरूपो

भवति ॥

2

अद्वयतारकपदार्थौ

गर्भजन्मजरामरणभयात्संतारयति तस्मात्तारकमिति ।

जीवेश्वरौ मायिकाविति विज्ञाय सर्वविशेषं नेति नेतीति

विहाय

यदवशिष्यते ततद्वयं ब्रह्म ॥

3

भाष्यम्।

किं तारकमित्यताह

- -

गर्भेति ॥ ज्योतिर्लिङ्गं भ्रुवोर्मध्ये

नित्यं ध्यायेत्सदा यतिः । इति श्रुतिसिद्धज्योतिर्लिङ्गस्य

प्रत्यग्रूपत्वेन

स्वाज्ञविकल्पितगर्भासादिसंसारतारकत्वात्तारकं

प्रत्यगात्मेत्यर्थः । जीवेशभेदे सति

प्रत्यगभिन्नब्रह्मभावः कुत

इत्याशङ्क्य तयोर्भेदस्य मायिकत्वेन मिथ्यात्वात्ततो यच्छिष्यते

तदेव

ब्रह्मेत्याह

- -

जीवेति ॥

3

लक्ष्यत्रयानुसन्धानविधिः

। तदधिगमोपायः

तत्सिद्ध्यै लक्ष्यत्रयानुसंधानं कर्तव्यं ॥

4

भाष्यम्।

तदधिगमोपायः कथमित्यत आह तत्सिद्ध्या इति ॥

4

भाष्यम्।

परिच्छिन्नज्योतीरूपलक्ष्यानुसन्धानस्यापि

चित्तशुद्धिफलकत्वम्

मूर्तामूर्तात्मकं यत्र तारकद्वयमुच्यते ।

ज्योतिर्दर्शनमार्गोक्तिं व्यख्यास्येऽद्वयतारकं ॥

ननु

- -

जीवेश्वरौ मायिकाविति विज्ञाय सर्वविशेषं नेति

नेतीति

विहाय यदवशिष्यते ततद्वयं ब्रह्म इति यदुक्तं तद् युक्तमेव ।

अपि तु

- -

तत्सिद्ध्यै लक्ष्यत्रयानुसंधानं कर्तव्यं

इत्येतदयुक्तं ।

कुतः लक्ष्यत्रयस्य च देहान्तर्गतत्वेन

परिच्छिन्नज्योतिःस्वरूपतया

स्वयमपरिच्छिन्नत्वाभावात् । अद्वयब्रह्म हि अपरिच्छिन्नं

महाकाशवत्

प्रसिद्धं । तत्सिद्ध्यै परिच्छिन्नलक्ष्यत्रयानुसन्धानं कथं

साधनं स्यात् । अपरिच्छिन्नब्रह्मसिद्ध्यै हि

अपरिच्छिन्नब्रह्मध्यानं

कर्तव्यं । अतः इह विरुद्धमुक्तिमिति चेत्

- -

सत्यमेवैतत् ।

तथापि

उक्तलक्ष्यत्रयानुसन्धानद्वारा संशुद्धचित्त्स्यैव

वाक्यार्थश्रवणमननसंस्कृतान्तःकरणवशीकरणपूर्वकाप्

अरिच्छिन्न

-

ब्रह्मात्मैक्यानुसन्धानकरणसामर्थ्यसंभवात् ।

अन्यथा देहमध्यगतज्योतिर्दर्शनहीनत्य

वाक्यादिश्रवणादिप्रवृत्त्यसंभवाच्च परिच्छिन्नानुसन्धानं

युक्तिमित्यनुसन्धानं ॥

1 - 4

अन्तर्लक्ष्यलक्षणम्

देहमध्ये ब्रह्मनाडी सुषुम्ना सूर्यरूपिणी पूर्णचन्द्राभा

वर्तते । सा तु मूलाधारादारभ्य ब्रह्मरन्ध्रगामिनी भवति ।

तन्मध्ये तटित्कोटिसमानकान्त्या मृणालसूत्रवत् सुक्ष्माङ्गी

कुण्ण्दलिनीति प्रसिद्धाऽस्ति । तां दृष्ट्वा मनसैव नरः

सर्वपापविनाशद्वारा मुक्तो भवति ।

फालोर्ध्वगललाटविशेषमण्डले निरन्तरं

तेजस्तारकयोगविस्फुरणेन पश्यति चेत् सिद्धो भवति ।

तर्जन्यग्रोन्मीलितकर्णरन्ध्रद्वये तत्र फूत्कारशब्दो जायते ।

तत्र

स्थिते मनसि चक्षुर्मध्यगतनीलज्योतिस्स्थलं विलोक्य

अन्तर्दृष्ट्या

निरतिशयसुखं प्राप्नोति । एवं हृदये पश्यति ।

एवमन्तर्लक्ष्यलक्षणं मुमुक्षुभिरुपास्यं ॥

5

भाष्यम्।

अन्तर्बाह्यमध्यभेदेन लक्ष्यं त्रिविधं । तत्र

अन्तर्लक्ष्यलक्षणं

तदभ्यासफलं चाह

- -

देहेति ॥ यदा कुण्डलिनी

प्राणदृष्टिमनोग्निभिः

मूलाधारत्रिकोणाग्रालङ्कारसुषुम्नाऽधोवक्त्रं विभिद्य

तन्मध्ये

प्रविशति तदा बाह्यान्तःप्रपञ्चविस्मरणपूर्वकं

मुन्यन्तःकरणं

निर्विकल्पब्रह्मपदं भजति । मुनिः निर्विकल्पज्ञानात् विकल्पात्

मुक्तो

भवतीत्यर्थः । तत्सिद्ध्युपायः कः इत्यत आह

- -

फालेति ।

तद्गतसुखानुभवोपायं वदन् अन्तर्लक्ष्यं उपसंहरति

- -

तर्जनीति ।

सुखं प्राप्नोति न केवलं कर्णरन्ध्रद्वये एवं हृदये ॥

5

बहिर्लक्ष्यलक्षणम्

अथ बहिर्लक्ष्यलक्षणं । नासिकाग्रे चतुर्भिः

षड्भिरष्टभिः

दशभिः द्वादशभिः क्रमात् अङ्गुलालन्ते

नीलद्युतिश्यामत्वसदृग्रक्तभङ्गीस्फुरत्पीतवर्णद्वयोपेतं

व्योम

यदि पश्यति स तु योगी भवति । चलदृष्ट्या

व्योमभागवीक्षितुः

पुरुषस्य दृष्ट्यग्रे ज्योतिर्मयूखा वर्तते । तद्दर्शनेन योगी

भवति ।

तप्तकाञ्चनसङ्काशज्योतिर्मयूखा अपाङ्गान्ते भूमौ वा

पश्यति

तद्दृष्टिः स्थिरा भवति । शिर्षोपरि

द्वादशाङ्गुलसमीक्षितुः

अमृतत्वं भवति । यत्र कुत्र स्थितस्य शिरसि

व्योमज्योतिर्दृष्टं

चेत् स तु योगी भवति ॥

6

भाष्यम्।

बहिर्लक्ष्यलक्षणमाह

- -

अथेति । योगी भवति

इत्यादिकृत्स्नोपनिषत्

प्रायशो मण्डलब्राह्मणोपनिषद्व्याख्यानेन व्याख्यातं

स्यादिति

मन्तव्यं ॥

6

मध्यलक्ष्यलक्षणम्

अथ मध्यलक्ष्यलक्षणं

प्रातश्चित्रादिवर्णाखण्डसूर्यचक्रवत् वह्निज्वालावलीवत्

तद्विहीनान्तरिक्षवत् पश्यति । तदाकाराकारितया अवतिष्ठति ।

तद्भूयोदर्शनेन गुणरहिताकाशं भवति ।

विस्फुरत्तारकाकारदीप्यमानगाढतमोपमं परमाकाशं

भवति ।

कालानलसमद्योतमानं महाकाशं भवति ।

सर्वोत्कृष्टपरमद्युतिप्रद्योतमानं तत्त्वाकाशं भवति ।

कोटिसूर्यप्रकाशवैभवसङ्काशं सूर्याकशं भवति ।

एवं बाह्याभ्यन्तरस्थव्योमपञ्चकं तारकलक्ष्यं । तद्दर्शी

विमुक्तफलस्तादृग्व्योमसमानो भवति । तस्मात्तारक एव

लक्ष्यममनस्कफलप्रदं भवति ॥

7

भाष्यम्।

अन्तर्बाह्यलक्ष्यस्वरूपमुक्त्वा मध्यलक्ष्यस्वरूपमाह

- -

अथेति ।

तद्दर्शी विमुक्तस्वाज्ञानतत्कार्यफलः । यस्मादेवं तस्मात् ॥

7

भाष्यम्ई।

उक्तानां लक्ष्यत्रयव्योम्नां भौतिकत्वशङ्का

नन्विह अन्तर्लक्ष्यबाह्यलक्ष्यमध्यलक्ष्यलक्षणेषु

उच्यमानेषु

नीलरक्तपीत्रचित्रादिवर्णयुक्तव्योमदर्शनानि अवगम्यन्ते ।

नैतैः

दर्शनैः किञ्चिदपि मुमुक्षोः प्रयोजनं भवितुमर्हति । कुतः

नानाविधज्योतिर्विषयकत्वेन भौतिकत्वात् । यदि

ब्रह्मज्योतिर्दर्शनं

स्यात्तदा क्रममुक्त्यै वा तत् उपयुक्तं स्यात् । न तु तदेतत् ।

ब्रह्मणः

एवं नानाविधत्वाभावात् । भौतिकानि तु ज्योतींषि

उपाधिभेदात्

बहुविधानि भवितुमर्हन्ति । तस्मात्

प्रपञ्चितलक्षणबहुविधज्योतिर्दर्शनानि सिद्ध्यर्थकानि स्युः ।

उपनिषदां वैयर्थ्यकल्पनानर्हत्वात् । इति चेत्

- -

तन्निरसनेन एषां मुमुक्षूपयोगित्वनिर्णयः

अत्रोच्यते । निर्विशेषस्य परस्य ब्रह्मण एव एतानि ज्योतींषि

इति ।

कुतः भौतिकज्योतिषं देहाद्बहिः दर्शनीयत्वेन

देहान्तदर्शनायोग्यत्वात् । प्रत्यगात्मज्योतिषः एकरूपत्वेऽपि

विविधनाडीवन्नाडीसम्बन्धवशात् नानावर्णोपपत्तेः ।

यथा

एकवृत्तिमानप्यात्मा नानानाडीसम्बन्धवशात्

जाग्रत्स्वप्नसुषुप्त्यवस्थाविशेषैः नानाविधः अनुभूयते

तद्वत् ।

यद्यपि एतेषां ज्योतिषाम्खण्डत्वेन दर्शनविषयत्वाभात्

क्रममुक्त्यै

परम्परया सद्योमुक्त्यै वा साधनत्वण् स्यात् । न तु साक्षात्

सद्योमुक्त्यै । न तु तावता सिद्ध्यार्थकानि मुमुक्षोः

अनुपयुक्तानीति

वक्तुं युक्तं ॥

5 - 7

द्विविधं तारकम्

तत्तारकं द्विविधं पूर्वार्धं तारकमुत्तरार्धममनस्कं

चेति । तदेष श्लोको भवेति

- -

तद्योगं च द्विधा विद्धि पूर्वोत्तरविधानतः ।

पूर्वं तु तारकं विद्यात् अमनस्कं तदुत्तरमिति ॥

8

तारकयोगसिद्धिः

E

द् । ईई।

तारकयोगस्य सोमसृर्यैक्यदर्शनैकफलकत्वं ।

अक्ष्यन्तस्तारयोः चन्द्रसूर्यप्रतिफलनं भवति ।

तारकाभ्यां

सूर्यचन्द्रमण्डलदर्शनं ब्रह्माण्डमिव

पिण्डाण्डशिरोमध्यस्थाकाशे रवीन्दुमण्डलद्वितयमस्तीति

निश्चित्य

तारकाभ्यां तद्दर्शनं । अत्राप्युभयैक्यदृष्ट्या मनोयुक्तं

ध्यायेत् तद्योगाभावे इन्द्रयप्रवृत्तेरनवकाशात् ।

तस्मातन्तर्दृष्ट्या तारक एवानुसंधेयः ॥

9

भाष्यम्।

ब्रह्माण्डवत् पिण्डाण्डेऽपि रवीन्दू विद्येते इति निश्चित्य

तारकाभ्यां

तदैक्यदर्शनतः तारकयोगसिद्धिः भवेदित्याह

- -

अक्षीति ॥

अयोगी

यथा ब्रह्माण्डस्थचन्द्रसूर्यौ मनस्सहकृततारकाभ्यां

पश्यति

तथा योगी स्वमस्तकाकाशविभातरवीन्दुद्वयं

मनस्सहकृतताराभ्यां

अवलोकयेदित्यर्थः । रूपदर्शनस्य चक्षुरधीनत्वात् किं

मनसेत्यत

आह

- -

तदिति । मनसि अन्यत्र व्यापृते रूपादिग्रहणशक्तिः

चक्षुरादेः

नास्तीत्यत्र अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं

नाश्रौषमित्यादिश्रुतेः । यस्मादेवं तस्मात् ॥

9

भाष्यम्ई।

ननु निर्गुणाकाशं परमाकाशं महाकाशं तत्त्वाकाशं

सूर्याकाशं चेति तारकलक्ष्यं आकाशपञ्चकमभिधीयते ।

अत्र

कथं पूर्वोत्तरार्धविभागः इति । अत्रोच्यते ।

उभयैक्यदृष्ट्या

मनोयुक्तं ध्यायेतिति तार एवानुसन्ध्येयः । इति च

ध्यानयोगाभ्यासस्य

विहितत्वात् । तदभ्यासकालः पूर्वार्धः तारकयोगसंज्ञकः

तत्फलीभूतज्योतिर्दृशनकालः उत्तरार्धः

अमनस्कयोगसंज्ञकः ।

एवमेव च आकाशपञ्चकदर्शने पूर्वोत्तरविभागो मन्तव्यः ॥

9

मूर्तामूर्तभेदेन द्विविधमनुसन्धेयम्

तारकं द्विविधं मूर्तितारकं अमूर्तितारकं चेति ।

यतिन्द्रियान्तं तत् मूर्तिमत् । यत् भ्रूयुगातीतं तत् अमूर्तिमत् ।

सर्वत्र अन्तःपदार्थविवेचने मनोयुक्ताभ्यास इष्यते ।

तारकाभ्यं

तदूर्ध्वस्थसत्त्वदर्शनात् मनोयुक्तेन अन्तरीक्षणेन

सच्चिदानन्दस्वरूपं ब्रह्मैव । तस्मात् शुक्लतेजोमयं ब्रह्मेति

सिद्धं ।

तद्ब्रह्म मनःसहकारिचक्षुषा अन्तर्दृष्ट्या वेद्यं भवति ।

एवममूर्तितारकमपि । मनोयुक्तेन चक्षुषैव दहरादिकं

वेद्यं

भवति रूपग्रहणप्रयोचनस्य मनश्चक्षुरधीनत्वात्

बाह्यवदान्तरेऽपि आत्ममनश्चक्षुःसंयोगेनैव

रूपग्रहणकार्योदयात् ।

तस्मान्मनोयुक्ता अन्तर्दृष्टिः तारकप्रकाशाय भवति ॥

10

भाष्यम्।

यदनुसन्धेयं तत् कतिविधमित्यत्र तत्तारकं ॥

बाह्यपदार्थविवेचनवत् अन्तःपदार्थविवेचनमपि

मनश्चक्षुरधीनमित्याह

- -

सर्वत्रेति ।

तदूर्ध्वस्थसत्त्वदर्शनात्

भ्रूमध्योर्ध्वविलसितोत्तरतारकलक्ष्यदर्शनात् ।

केनैतद्दर्शनीयमित्यत्र मनोयुक्तेनेति । ब्रह्मैव

उत्तरतारकलक्ष्यमित्यनुसंधेयं । यस्मादेवं तस्मात् ।

भ्रूमध्यादिस्थलविलसित्शुक्लतेजसो मनःकल्पितत्वेऽपि

ब्रह्मणः

सर्वव्यापकत्वेन तत्रापि विद्यमानत्वात् तदेव ब्रह्मेति

अभिमतिद्रढिम्ना

लीने तत्र मनसि कल्पकसापेक्षकल्पनावैरलये निर्विकल्पकं

ब्रह्मैव

अवशिष्यते इत्यर्थः । यत्तेजो मनःकल्पितं तद्ब्रह्म ।

यस्मादेवं तस्मात् ॥

10

भाष्यम्ई।

मूर्तितारकामूर्तितारकयोश्च

इन्द्र्यान्तभ्रूयुगातीतत्वकथनेन

सगुणमूर्तिध्यानपरत्वं चावगन्तव्यं । सगुणमूर्तिध्यानस्य

निष्कामकृतस्य च क्रममुक्तिचित्तशुद्धिप्रयोजनतया

सुप्रसिद्धत्वात् ॥

10

तारकयोगस्वरूपं

भ्रूयुगमध्यबिले दृष्टिं तद्द्वारा ऊर्ध्वस्थिततेज

आविर्भूतं

तारकयोगो भवति । तेन सह मनोयुक्तं तारकं सुसंयोज्य

प्रयत्नेन

भ्रूयुग्मं सावधानतया किञ्चिदूर्ध्वम्त्क्षेपयेत् । इति

पूर्वतारकयोगः । उत्तरं तु अमूर्तिमतमनस्कमित्युच्यते ।

तालुमूलोर्ध्वभागे महान् ज्योतिर्मयूखो वर्तते । तत्

योगिभिर्ध्येयं ।

तस्मातणिमादिसिद्धिर्भवति ॥

11

भाष्यम्।

कोऽयं तारकयोग इत्यत्र भ्रूयुगमध्यबिले तत्रत्याज्ञाचक्रे

दृष्टियुग्मं संनिवेश्य । सावधानतया विलोकयन् । ध्येयं

तज्ज्योतिः ब्रह्मेति योगिभिश्चिन्त्यमित्यर्थः । ततः किं

भवतीत्यत्र

तस्मादिति ॥

11

भाष्यम्ई।

प्रकृतयोगे पूर्णमनोविलयाभावेन दृश्यमानज्योतिषः

प्रत्यगात्मस्वरूपत्वनिर्णयः

इदं ज्योतिः त्वंपदार्थः आहोस्वित् तत्पदार्थः इति

संशीयते ।

कुतः संशयः त्वंपदार्थविवेचन इति सच्चिदानन्दस्वरूपं

ब्रह्मैवेति च उक्तत्वात् । अत्रोच्यते । त्वंपदार्थः

प्रत्यगात्मैव ।

ब्रह्मांशत्वात्तु ब्रह्मत्वमुपचर्यते साक्षाद्ब्रह्मयोगो हि

मनोवियुक्ताभ्यासरूपः । तत्रैव मनोनाशसम्भवात् ।

मनोयुक्ताभ्यासस्तु प्रकृतः कण्ठरवोक्तः ।

मनस्सहकारिचक्षुषा

वेद्यं भवतीति च । यदि मनसैव वेद्यमित्युक्तं तदा

अन्तर्दृष्टेः

मनोऽनन्यत्वात् मनसः ब्रह्मणि विलयसम्भवाच्च

अखण्डब्रह्मयोग

एव विवक्षितः इति वक्तुं शक्यं । न तु तदस्ति ।

प्रत्यगात्मयोगे च

आन्तरे बाह्यवत् आत्ममनश्चक्षुस्संयोगेनैव

रूपग्रहणकार्योदयः

स्यात् । न तु ब्रह्मयोगे तदीयाखण्डसम्यग्दर्शनं

चक्षुरधीनं

मनोऽदीनं वा भवति । चक्षुर्मनसी पृष्ठतः कृत्वा

स्वयंप्रकशमानत्वात् । ननु मनोयुक्तान्तर्दृष्टिरित्युक्तत्वात्

मनसः

अन्तर्दृष्टिद्वारा ब्रह्मणि विलय एव अर्थादवगम्यते इति चेत्र ।

बह्यवदित्युक्तत्वेन प्रकृतयोगे मनोविलयासम्भवात् ।

तात्कालिकस्तु

मनोलयः सुषुप्तस्येव नात्यन्त श्लाध्यतमो भवितुमर्हति ।

यद्वा

क्रममुक्तिसाधनीभूतोऽपि स मनोलयः

पुनर्जन्मबीजभर्जनाभावात्

न नाशापरपर्यायः इत्यवगन्तव्यं ॥

11

शाम्भवीमुद्रा

अन्तर्बाह्यलक्ष्ये दृष्टौ निमेषोन्मेषवर्जितायां सत्यं

सांभवी मुद्रा भवति । तन्मुद्रारूढज्ञानिनिवासात् भूमिः

पवित्रा भवति । तद्दृष्ट्या सर्वे लोकाः पवित्रा भवन्ति ।

तादृशपरमयोगिपूजा यस्य लभ्यते सोऽपि मुक्तो भवति ॥

12

भाष्यम्।

यत्योगिभिः ध्येयमुक्तं पर्यवसाने तदेव सांभवी मुद्रा

भवतीत्याह अन्तरिति ॥ मुद्रा भवति इत्यत्र

अन्तर्लक्ष्यं बहिर्दृष्टिः निमेषोन्मेषवर्जिता ।

एषा सा शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता ॥

इति श्रुतेः । तन्मुद्रारूढयोगिनं स्तौति

- -

तदिति । पवित्रा

भवति

इत्यत्र स्वपादन्यासमात्रेण पावयन् वसुधातलं इति

स्वरूपदर्शनोक्तेः । पवित्रा भवन्ति

- -

स्वेचरा भूचराः सर्वे ब्रह्मविद्दृष्टिगोचराः ।

सद्य एव विमुच्यन्ते कोटिजन्मार्जितैरघैः ॥

इति श्रुतेः ॥

12

अन्तर्लक्ष्यविकल्पाः

अन्तर्लक्ष्यज्वलज्ज्योतिःस्वरूपं भवति । परमगुरूपदेशेन

सहस्रारज्वलज्ज्योतिर्वा बुद्धिगुहानिहितचिज्ज्योतिर्वा

षोडशान्तस्थतुरीयचैतन्यं वा अन्तर्लक्ष्यं भवति ।

तद्दर्शनं

सदाचार्यमूलं ॥

13

भाष्यम्।

अन्तर्लक्ष्यं विकल्प्य निर्धारयति

- -

परमेति ॥ उक्तविकल्पानां

एकार्थपर्यवसायित्वात् तद्दर्शनमूलं किमित्यत्र

- -

तद्दर्शनमिति ॥

13

आचार्यलक्षणम्

आचार्यो वेदसंपन्नो विष्णुभक्तो विमत्सरः ।

योगज्ञो योगनिष्ठश्च सदा योगात्मकः शुचिः ॥

14

गुरुभक्तिसमायुक्तः पुरुष्ज्ञो विशेषतः ।

एवं लक्षणसंपन्नो गुरुरित्यभिधीयते ॥

15

गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः ।

अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते ॥

16

गुरुरेव परं ब्रह्म गुरुरेव परा गतिः ।

गुरुरेव परा विद्या गुरुरेव परायणं ॥

17

गुरुरेव परा काष्ठा गुरुरेव परं धनं ।

यस्मात्तदुपदेष्टाऽसौ तस्माद्गुरुतरो गुरुरिति ॥

18

भाष्यम्।

आचार्यलक्षणमुक्त्वा गुरुशब्दार्थमाह

- -

गुशब्दस्त्विति ॥

14 - 18

भाष्यम्ई।

परमात्मदर्शनाङ्गभूतप्रत्यगात्मदर्शनस्य सर्वथा

अनुपेक्षणीयत्वोद्धोषः

नन्विह तादृशपरमयोगिपूजा यस्य लभ्यते सोऽपि मुक्तो

भवतीति

एतादृशानि वाक्यानि अर्थवादाः एवस्युः । कुतः

सहस्रारज्वलज्ज्योतिर्वा

- -

इत्यादिवाक्योक्तदेहपरिच्छिन्नज्योतिर्मात्रे

पर्यवसन्नायाः अस्याः उपनिषद आद्यन्तपर्यालोचनेऽपि

अपरिच्छिन्नब्रह्मात्मैक्ययोगस्य क्वचिदपि अनुक्तत्वात् । इति चेत्

- -

अत्रोच्यते ।

सत्यमेवैतत् । त्वंपदलक्ष्यार्थसिद्ध्या

अहंपदलक्ष्यार्थस्यापि

सिद्धित्वेन कैमुतिकन्यायात् ब्रह्मपदार्थसिद्धेः कथं

त्वमहंपदार्थयोः भेदः नायं दोषः । त्वं पदस्य

खण्डप्रत्यगात्मार्थकत्वात् । अहंपदस्य

तत्त्वमसिवाक्यार्थज्ञानोदयानन्तरं

अखण्डब्रह्मयोगाभ्यासार्थं

ग्राह्यत्वेन अखण्डप्रत्यगात्मार्थकत्वाच्च त्वमहंपदयोः

भेदस्य

विस्पष्टत्वात् । तस्मादत्र उक्तयोगिनः सद्योमुक्त्यभावेन

औपचरिकपरमत्त्वेन च प्रकृतवाक्यानि अर्थवादा एव । तथापि

स्वदेहान्तर्वर्तिज्योतिदर्शनं विना तत्त्वमसि इति

उपदिशतामहं

ब्रह्मास्मीति वाङ्मात्रेण प्रलपतां च भ्रान्ततमानां

कल्पकोटिष्वपि संसारबन्धान्मोक्षासम्भवात्

मोक्षप्रथमसाधनत्वाच्चास्य दर्शनस्य उपेक्षा न कदापि

कार्या इति

स्थितं ॥

12 - 18

ग्रन्थाभ्यासफलम्

यः सकृदुच्चारयति तस्य संसारमोचनं भवति ।

सर्वजन्मकृतं पापं तत्क्षणादेव नश्यति । सर्वान्

कामानवाप्नोति ।

सर्वपुरुषार्थसिद्धिर्भवति । य एवं वेदेत्युपनिषत् ॥

19

भाष्यम्।

ग्रन्थतदर्थपठनानुसन्धानफलमहा

- -

य इति ॥

कामाकामधियां

पठनफलं सर्वकामाप्तिः परमपुरुषार्थाप्तिश्च ।

इत्युपनिषच्छब्दः अद्वयतारकोपनिषत्समाप्त्यर्थः ॥

19

श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना ।

अद्वयोपनिषद्व्याख्या लिखितेश्वरगोचरा ।

अद्वयोपनिषद्व्याख्याग्रन्थोऽशीतिरितीरितः ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ।

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे

त्रिपञ्चाशत्सङ्ख्यापूरकं अद्वयतारकोपनिषद्विवरणम् संपूर्णम् ।

इति श्रीमत्सुन्दरेश्वरताताचार्यशिष्याप्पयशिवाचार्यकृतिषु

अद्वयतारकोपनिषद्भाष्यं समाप्तं ॥ ॐ ॥

ॐ श्रीमद्विश्वाधिष्ठनपरमहंससद्गुरुरामचन्द्रार्पणमस्तु ॥


]