[[यज्ञोपवीतोपनिषत् Source: EB]]
[
यज्ञोपवीतोपनिषत् ।
यज्ञोपवीती धृतचक्रधारी यो ब्रह्मविद्ब्रह्मविदां मनीषी हिरण्यमादाय सुदर्शनं कृत्वा वह्निसंयुक्तं स्त्री शूद्रो बाहुभ्यां धारयेत। तस्माद्गर्भेण जायते । ब्राह्मणस्य शरीरं जायते । श्रीविष्णुं सर्वेश्वरं भजन्ति ।
नासादिकेशपर्यन्तमूर्ध्वपुण्ड्रं तु धारयेत।
उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥
भूमिर्धेनुर्धरणी लोकधारिणी ॥
मृत्तिके हन मे पापं त्वयि सर्वं प्रतिष्ठितम् ॥
तस्माद्द्विरेखं भवति तं देवकीपुत्रं समाश्रये । अग्निना वै होत्रा चक्रं पाञ्चजन्यं प्रतप्तं द्वयोर्भुजयोर्धारयेत। आत्मकृतमाचरेत। आचार्यस्य सम्मुखं प्रपद्येत । तस्माद्वैकुण्ठं न पुनरागमनं सालोक्यसामीप्यसारूप्यसायुज्यं गच्छति । य एवं वेद । इत्युपनिषत॥
इति यज्ञोपवीतोपनिषत्समाप्ता ॥
]