याज्ञवल्क्योपनिषत्

[[याज्ञवल्क्योपनिषत् Source: EB]]

[

याज्ञवल्क्योपनिषत् ।

संन्यासज्ञानसंपन्ना यान्ति यद्वैष्णवं पदम् ।

तद्वै पदं ब्रह्मतत्त्वं रामचन्द्रपदं भजे ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥ अथ जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच

भगवन्संन्यासमनुब्रूहीति कथं संन्यासलक्षणम् । स

होवाच याज्ञवल्क्यो ब्रह्मचर्यं समाप्य गृही भवेत् ।

गृहाद्वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव

प्रव्रजेद्गृहाद्वा वनाद्वा । अथ पुनर्व्रती वाव्रती वा स्नातको

वाऽस्नातको वा उत्सन्नाग्निरनग्नोकोऽवा यदहरेव विरजेत्तदहरेव

प्रव्रजेत् । तदेके प्राजापत्यामेवेष्टिं कुर्वन्ति । अथ वा न

कुर्यादाग्नेय्यामेव कुर्यात् । अग्निर्हि प्राणः । प्राणमेवैतया करोति ।

त्रैधातवीयामेव कुर्यात् । एतयैव त्रयो धातवो यदुत सत्त्वं

रजस्तम इति अयं ते योनिरृत्विजो यतो जातो अरोचथाः । तं जानन्नग्न

आरोहाथानो वर्धया रयिमित्यनेन मन्त्रेणाग्निमाजिघ्रेत् । एष वा

अग्नेर्योनिर्यः प्राणं गच्च्ह स्वां योनिं गच्च्ह स्वाहेत्येवमेवैत

दाग्रामादग्निमाहृत्य पूर्ववदग्निमाजिघ्रेत् यदग्निं न विन्देदप्सु

जुहुयादापो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति

साज्यं हविरनामयम् । मोक्षमन्त्रस्त्रय्येवं वेद तद्ब्रह्म

तदुपासितव्यम् । शिखां यज्ञोपवीतं च्हित्त्वा संन्यस्तं मयेति

त्रिवारमुच्चरेत् । एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः ॥ १॥

अथ हैनमत्रिः पप्रच्च्ह याज्ञवल्क्यं यज्ञोपवीती

कथं ब्राह्मण इति । स होवाच याज्ञवल्क्य इदं

प्रणवमेवास्य तद्यज्ञोपवीतं य आत्मा । प्राश्याचम्यायं

विधिरथ वा परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही

भैक्षमाणो ब्रह्म भूयाय भवति । एष पन्थाः

परिव्राजकानां वीराध्वनि वाऽनाशके वापां प्रवेशे

वाग्निप्रवेशे वा महाप्रस्थाने वा । एष पन्था ब्रह्मणा

हानुवित्तस्तेनेति स संन्यासी ब्रह्मविदिति । एवमेवैष भगवन्निति

वै याज्ञवल्क्य । तत्र परमहंसा नाम संवर्तकारुणि

श्वेतकेतुदूर्वासऋभुनिदाघदत्तात्रेयशुकवामदेव

हारीतकप्रभृतयोऽव्यक्तलिङ्गाऽव्यक्ताचारा अनुन्मत्ता

उन्मत्तवदाचरन्तः परस्त्रीपुरपराङ्मुखास्त्रिदण्डं

कमण्डलुं भुक्तपात्रं जलपवित्रं शिखां यज्ञोपवीतं

बहिरन्तश्चेत्येतत्सर्वं भूः स्वाहेत्यप्सु परित्यज्यात्मान

मन्विच्च्हेत् । यथा जातरूपधरा निर्द्वन्द्वा निष्परिग्रहा

स्तत्त्वब्रह्ममार्गे सम्यक्संपन्नाः शुद्धमानसाः

प्राणसन्धारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचर

न्नुदरपात्रेण लाभालाभौ समौ भूत्वा करपात्रेण वा

कमण्डलूदकपो भैक्षमाचरन्नुदरमात्रसंग्रहः

पात्रान्तरशून्यो जलस्थलकमण्डलुरबाधकरहःस्थल

निकेतनो लाभालाभौ समौ भूत्वा शून्यागारदेवगृह

तृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदी

पुलुनगिरिकुहरकोटरकन्दरनिर्झरस्थण्डिलेष्वनिकेतनिवास्य

प्रयत्नःशुभाशुभकर्मनिर्मूलनपरः संन्यासेन

देहत्यागं करोति स परमहंसो नामेति । आशाम्बरो न

नमस्कारो न दारपुत्राभिलाषी लक्ष्यालक्ष्यनिर्वर्तकः

परिव्राट् परमेश्वरो भवति । अत्रैते श्लोका भवन्ति ।

यो भवेत्पूर्वसंन्यासी तुल्यो वै धर्मतो यदि ।

तस्मै प्रणामः कर्तव्यो नेतराय कदाचन ॥ १॥

प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः ।

संन्यासिनोऽपि दृश्यन्ते देवसंदूषिताशयाः ॥ २॥

नामादिभ्यः परे भूम्नि स्वाराज्ये चेत्स्थितोऽद्वथे ।

प्रणमेत्कं तदात्मज्ञो न कार्यं कर्मणा तदा ॥ ३॥

ईश्वरो जीवकलया प्रविष्टो भगवानिति ।

प्रणमेद्दण्डवद्भूमावाश्वचण्डालगोखरम् ॥ ४॥

मांसपाञ्चालिकायास्तु यन्त्रलोकेऽङ्गपञ्जरे ।

स्नाय्वस्थिग्रन्थिशालिन्यः स्त्रियः किमिव शोभनम् ॥ ५॥

त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचने ।

समालोकय रम्यं चेत्किं मुधा परिमुह्यसि ॥ ६॥

मेरुशृङ्गतटोल्लासि गङ्गाजलस्योपमा ।

दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लसशालिता ॥ ७॥

श्मनानेषु दिगन्तेषु स एव ललनास्तनः ।

श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः ॥ ८॥

केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः ।

दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥ ९॥

ज्वलना अतिदूरेऽपि सरसा अपि नीरसाः ।

स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् ॥ १०॥

कामनाम्ना किरातेन विकीर्णा मुग्धचेतसः ।

नार्यो नरविहङ्गानामङ्गबन्धनवागुराः ॥ ११॥

जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् ।

पुंसां दुर्वासनारज्जुर्नारीबडिशपिण्डिका ॥ १२॥

सर्वेषां दोषरत्नानां सुसमुद्गिकयानया ।

दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया ॥ १३॥

यस्य स्त्री तस्य भोगेच्च्हा निस्त्रीकस्य क्व भोगभूः ।

स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥ १४॥

अलभ्यमानस्तनयः पितरौ क्लेशयेच्चिरम् ।

लब्धो हि गर्भपातेन प्रसवेन च बाधते ॥ १५॥

जातस्य ग्रहरोगादि कुमारस्य च धूर्तता ।

उपनीतेऽप्यविद्यत्वमनुद्वाहश्च पण्डिते ॥ १६॥

यूनश्च परदारादि दारिद्र्यं च कुटुम्बिनः ।

पुत्रदुःखस्य नास्त्यन्तो धनी चेन्म्रियते तदा ॥ १७॥

न पाणिपादचपलो न नेत्रचपलो यतिः ।

न च वाक्चपलश्चैव ब्रह्मभूतो जितेन्द्रियः ॥ १८॥

रिपौ बद्धे स्वदेहे च समैकात्म्यं प्रपश्यतः ।

विवेकिनः कुतः कोपः स्वदेहावयवेष्विव ॥ १९॥

अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते ।

धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥ २०॥

नमोऽस्तु मम कोपाय स्वाश्रयज्वालिने भृशम् ।

कोपस्य मम वैराग्यदायिने दोषबोधिने ॥ २१॥

यत्र सुप्ता जना नित्यं प्रबुद्धस्तत्र संयमी ।

प्रबुद्धा यत्र ते विद्वान्सुषुप्तिं याति योगिराट् ॥ २२॥

चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च ।

चित्त्वं चिदहमेते च लोकाश्चिदिति भावय ॥ २३॥

यतीनां तदुपादेयं पारहंस्यं परं पदम् ।

नातः परतरं किञ्चिद्विद्यते मुनिपुङ्गवः ॥ २४॥

इत्युपनिषत् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

इति याज्ञवल्क्योपनिषत्समाप्ता ॥


]