वासुदेवोपनिषत्

[[वासुदेवोपनिषत् Source: EB]]

[

वासुदेवोपनिषत् ।

यत्सर्वहृदयागारं यत्र सर्वं प्रतिष्ठितम् ।

वस्तुतो यन्निराधारं वासुदेवपदं भजे ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं

माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम

स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते

मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ नमस्कृत्य भगवान्नारदः सर्वेश्वरं वासुदेवं पप्रच्च्ह

अधीहि भगवन्नूर्ध्वपुण्ड्रविधिं द्रव्यमन्त्रस्थानादिसहितं मे

ब्रूहीति । तं होवाच भगवान्वासुदेवो वैकुण्ठस्थानादुत्पन्नं

मम प्रीतिकरं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुचन्दनं

ममाङ्गे प्रतिदिनमालिप्तं गोपीभिः प्रक्षालनाद्गोपीचन्दन

माख्यातं मदङ्गलेपनं पुण्यं चक्रतीर्थान्तःस्थितं

चक्रसमायुक्तं पीतवर्णं मुक्तिसाधनं भवति ।

अथ गोपीचन्दनं नमस्कृत्वोद्धृत्य ।

गोपीचन्दन पापघ्न विष्णुदेहसमुद्भव ।

चक्राङ्कित नमस्तुभ्यं धारणान्मुक्तिदो भव ।

इमं मे गङ्गे इति जलमादाय विष्णोर्नुकमिति मर्दयेत् ।

अतो देवा अवन्तु न इत्येतन्मन्त्रैर्विष्णुगायत्र्या केशवादि

नामभिर्वा धारयेत् । ब्रह्मचारी वानप्रस्थो वा

ललाटहृदयकण्ठबाहूमूलेषु वैष्णवगायत्र्या

कृष्णादिनामभिर्वा धारयेत् । इति त्रिवारमभिमन्त्र्य

शङ्खचक्रगदापाणे द्वारकानिलयाच्युत । गोविन्द

पुण्डरीकाक्ष रक्ष मां शरणागतम् । इति ध्यात्वा

गृहस्थो ललाटादिद्वादशस्थलेष्वनामिकाङ्गुल्या

वैष्णवगायत्र्या केशवादिनामभिर्वा धारयेत् ।

ब्रह्मचारी गृहस्थो वा ललाटहृदयकण्ठबाहूमूलेषु

वैष्णवगायत्र्या कृष्णादिनामभिर्वा धारयेत् ।

यतिस्तर्जन्या शिरोललाटहृदयेषु प्रणवेनैव धारयेत् ।

ब्रह्मादयस्त्रयो मूर्तयस्तिस्रो व्याहृतयस्त्रीणि च्हन्दांसि

त्रयोऽग्नय इति ज्योतिष्मन्तस्त्रयः कालास्तिस्रोऽवस्थास्त्रय

आत्मानः पुण्ड्रात्रय ऊर्ध्वा अकार उकारो मकार एते

प्रणवमयोर्ध्वपुण्ड्रास्तदात्मा सदेतदोमिति । तानेकधा

समभवत् । ऊर्ध्वमुन्नमयत इत्योङ्काराधिकारी ।

तस्मादूर्ध्वपुण्ड्रं धारयेत् । परमहंसो ललाटे

प्रणवेनैकमूर्ध्वपुण्ड्रं वा धारयेत् ।

तत्त्वप्रदीपप्रकाशं स्वात्मानं पश्यन्योगी

मत्सायुज्यमवाप्नोति । अथ वा न्यस्तहृदयपुण्ड्रमध्ये

वा हृदयकमलमध्ये वा ।

तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ।

नीलतोयदमध्यस्थाद्विद्युल्लेखेव भास्वरा ।

नीवारशूकवत्तन्वी परमात्मा व्यवस्थित इति ।

अतः पुण्ड्रस्थं हृदयपुण्डरीकेषु तमभ्यसेत् ।

क्रमादेवं स्वात्मानं भावयेन्मां परं हरिम् ।

एकाग्रमनसा यो मां ध्यायते हरिमव्ययम् ।

हृत्पङ्कजे च स्वात्मानं स मुक्तो नात्र संशयः ।

मद्रूपमद्वयं ब्रह्म आदिमध्यान्तवर्जितम् ।

स्वप्रभं सच्चिदानन्दं भक्त्या जानाति चाव्ययम् ।

एको विष्णुरनेकीषु जङ्गमस्थावरेषु च ।

अनुस्युतो वसत्यात्मा भूतेष्वहमवस्थितः ।

तैलं तिलेषु काष्ठेषु वह्निः क्षीरे घृतं यथा ।

गन्धः पुष्पेषु भूतेषु तथात्मावस्थितो ह्यहम् ।

ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृदये चिद्रविं हरिम् ।

गोपीचन्दनमालिप्य तत्र ध्यात्वाप्नुयात्परम् ।

ऊर्ध्वदण्डोर्ध्वरेताश्च ऊर्ध्वपुण्ड्रोर्ध्वयोगवान् ।

ऊर्ध्वं पदमवाप्नोति यतिरूर्ध्वचतुष्कवान् ।

इत्येतन्निश्चितं ज्ञानं मद्भक्त्या सिध्यति स्वयम् ।

नित्यमेकाग्रभक्तिः स्याद्गोपीचन्दनधारणात् ।

ब्राह्माणानां तु सर्वेषां वैदिकानामनुत्तमम् ।

गोपीचन्दनवारिभ्यामूर्ध्वपुण्ड्रं विधीयते ।

यो गोपीचन्दनाभावे तुलसीमूलमृत्तिकाम् ।

मुमुक्षुर्धारयेन्नित्यमपरोक्षात्मसिद्धये ।

अतिरात्राग्निहोत्रभस्मनाग्नेर्भसितमिदंविष्णुस्त्रीणि

पदेति मन्त्रैर्वैष्णवगायत्र्या प्रणवेनोद्धूलनं कुर्यात् ।

एवं विधिना गोपीचन्दनं च धारयेत् ।

यस्त्वधीते वा स सर्वपातकेभ्यः पूतो भवति ।

पापबुद्धिस्तस्य न जायते । स सर्वेषु तीर्थेषु स्नातो भवति ।

स सर्वैर्यज्ञैर्याजितो भवति । स सर्वैर्देवैः पूज्यो भवति ।

श्रीमन्नारायणे मय्यचञ्चला भक्तिश्च भवति ।

स सम्यग्ज्ञानं च लब्ध्वा विष्णुसायुज्यमवाप्नोति ।

न च पुनरावर्तते न च पुनरावर्तते इत्याह भगवान्वासुदेवः ।

यस्त्वेतद्वाधीते सोऽप्येवमेव भवतीत्यों सत्यमित्युपनिषत् ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो

बलमिद्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म

निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकणं मेस्तु

तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति वासुदेवोपनिषत्समाप्ता ॥


]